सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

अनुद्यूतपर्व

चतुःसप्ततितमोऽध्यायः

जनमेजय उवाच। अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् ।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा॥१॥

अनुज्ञातानिति ॥१॥

वैशम्पायन उवाच। अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति॥२॥

धृतराष्ट्रेण यथाप्रतिज्ञं सुहृद्द्यूते कृतेऽपि पुरुषकाराद्बलवत्तरं दैवं कौरवान् सर्वभूपक्षयहेतौ अनुद्यूते प्रावर्तयदित्याह अनुज्ञातानिति ॥२॥

दुर्योधनं समासाद्य सामात्यं भरतर्षभ ।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्॥३॥

भरतश्रेष्ठः भरतस्य दुर्योधनस्य दृष्ट्या श्रेष्ठः प्रशस्यतमो दुःशासनः ॥३॥

दुःशासन उवाच। दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः॥४॥

स्थविरो वृद्ध इति साधिक्षेपमुक्तं शत्रुसात् शत्रुवशं गमयदगमयत्प्रापितवान् ॥४॥

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रतिमानिनः॥५॥

पाण्डवान्प्रति प्रतिकर्तुम् ॥५॥

वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् ।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्॥६॥

दुर्योधन उवाच। न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः॥७॥

त्वया इदं किं न श्रुतमिति काक्वा नञो योजना अपि तु श्रुतमेव ॥७॥

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन ।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्॥८॥

पुरा युद्धात् युद्धमकृत्वेत्यर्थः बलाद्युद्धेन वा ये अहितं कुर्वन्ति ते निहन्तव्या इति योजना ॥८॥

ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् ।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति॥९॥

तान् पाण्डवान् । परिहास्यति नंक्ष्यति ॥९॥

अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान् ।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति॥१०॥

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।
निःशेषं वः करिष्यन्ति क्रुद्धा ह्याशीविषा इव॥११॥

सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी ।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते॥१२॥

परमेषुधी श्रेष्ठौ निषङ्गौ ॥१२॥

गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः ।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम्॥१३॥

नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत् ।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः॥१४॥

आकारम् अभिप्रायम् इङ्गितैश्चेष्टितैः चक्रुः आविश्चक्रुः कृ विक्षेपे इत्यस्य रूपम् ॥१४॥

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः॥१५॥

सेनायोगाय सैन्यमेलनाय ॥१५॥

न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति॥१६॥

न क्षंस्यन्ते न क्षमां करिष्यन्ते । जातु कदाचित् । विप्रकृताः विकारं प्रापिताः तेषां मध्ये॥१६॥

पुनर्दिव्याम भद्रं ते वनवासाय पाण्डवैः ।
एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ॥१७॥

ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः ।
प्रविशेम महारण्यमजिनैः प्रतिवासिताः॥१८॥

त्रयोदशं सजनेन अज्ञाताः प्रतिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥१९॥

सजनेन समानजनेन अज्ञाताः ॥१९॥

निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् ।
अक्षानुप्त्वा औनर्द्यूतमिदं कुर्वन्तु पाण्डवाः॥२०॥

एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ ।
अयं हि शकुनिर्वेद सविद्यामक्षसंपदम्॥२१॥

सविद्याम् अक्षवशीकरणविद्यासहिताम् ॥२१॥

दृढमूलावयं राज्ये मित्राणि परिगृह्य च ।
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्॥२२॥

सारवत् बलवत्॥२२॥

ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम् ।
ज्येष्यामस्तान्वयं राजन्रोचतां ते परन्तप॥२३॥

धृतराष्ट्र उवाच। तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि ।
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः॥२४॥

व्यध्वगतान् दूरगतान् ॥२४॥

वैशम्पायन उवाच। ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः ।
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्॥२५॥

वैश्यापुत्रो युयुत्सुः ॥२५॥

भूरिश्रवाः शान्तनवो विकर्णश्च महारथः ।
मा द्यूतमित्यभाषन्त शमोस्त्विति च सर्वशः॥२६॥

अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् ।
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः॥२७॥

अकामानां द्यूतमनिच्छतां सताम् ॥२७॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरप्रत्यानयने चतुःसप्ततितमोऽध्यायः॥७४॥
पञ्चसप्ततितमोऽध्यायः

अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् ।
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्षिता॥१॥

अथेति ॥१॥

जाते दुर्योधने क्षत्ता महामतिरभाषत ।
नीयतां परलोकाय साध्वयं कुलपासनः॥२॥

व्यनदज्जातमात्रो हि गोमायुरिव भारत ।
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत॥३॥

मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत ।
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो॥४॥

मतिं माभिमंस्थाः अभिमतां मा कुरु ॥४॥

मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ।
बद्धं सेतुं कोनुभिन्द्याद्धमेच्छान्तं च पावकम्॥५॥

धमेत् उद्बोधयेत् ॥५॥

शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ ।
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः॥६॥

शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च ।
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन॥७॥

त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ।
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः॥८॥

त्वन्नेत्राः त्वमेव नेता येषां ते त्वन्नेत्राः । दीर्णाः त्वत्तो भिन्नमर्यादाः सन्तः प्रहासिषुः जीवितत्यागेनेति शेषः ॥८॥

तथा तेन कृतं राजन्पुत्रस्नेहान्नराधिप ।
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत्॥९॥

शमेन धर्मेण नयने युक्ता या ते बुद्धिः सास्तु ते मा प्रमादीः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्॥१०॥

मा प्रमादीः अनवहितो मा भूः मृदुप्रौढा मृदुषु समाहिता सती प्रौढा भूत्वा ॥१०॥

अथाब्रवीन्महारजो गान्धारीं धर्मदर्शिनीम् ।
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्॥११॥

अन्तो नाशः कामं यथेष्टम् ॥११॥

यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः ।
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह॥१२॥

॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरप्रत्यानयने पञ्चसप्ततितमोऽध्यायः॥७५॥
षट्सप्ततितमोऽध्यायः

वैशम्पायन उवाच। ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः॥१॥

तत इति ॥१॥

उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर ।
एहि पाण्डव दीव्येति पिता त्वाहेति भारत॥२॥

युधिष्ठिर उवाच। धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् ।
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि॥३॥

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे॥४॥

वैशम्पायन उवाच। असम्भवे हेममयस्य जन्तोस्तथापि रामो लुलुभे मृगाय ।
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति॥५॥

असंभवे इति धृतराष्ट्रमुद्दिश्य उक्तम् ॥५॥

इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।
जानन्श्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः॥६॥

विविशुस्ते सभां तां तु पुनरेव महारथाः ।
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः॥७॥

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः॥८॥

यथोपजोषं यथासुखम् ॥८॥

शकुनिरुवाच ।
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ॥९॥

पूजितम् इष्टम् ॥९॥

वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः ।
प्रविशेम महारण्यं रौरवाजिनवाससः॥१०॥

त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥११॥

अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान् ।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः॥१२॥

त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥१३॥

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः॥१४॥

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर ।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत॥१५॥

व्यवसायेन निश्चयेन ॥१५॥

अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा ।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि॥१६॥

संवेगात् अतिशयात् ॥१६॥

सभ्या ऊचुः ।
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ॥१७॥

एनं दुर्योधनं हे भरतर्षभ हे धृतराष्ट्र ॥१७॥

वैशम्पायन उवाच। जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः ।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः॥१८॥

ह्रिया कार्पण्यदोषान्निवृत्त इति लज्जया । धर्मसंयोगात् तीर्थाद्यटनजात् ॥१८॥

जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्॥१९॥

युधिष्ठिर उवाच। कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया॥२०॥

शकुनिरुवाच ।
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम् ।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः॥२१॥

गजाश्वादिकं बहुधेनूकं बहुदोग्ध्रीकम् । पणीकृतमिति शेषः ॥२१॥

एष नो ग्लह एवैको वनवासाय पाण्डवाः ।
यूयं वयं वा विजिता वसेम वनमाश्रिताः॥२२॥

संप्रति एक एव पण इत्याह एष इति ॥२२॥

त्रयोदशं च वै वर्षमज्ञाताः सजने तथा ।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः॥२३॥

समुत्क्षेपेण चैकेन वनवासाय भारत ।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२४॥

समुत्क्षेपेण एकेनैव वचनोपक्षेपेण । सकृद्व्याहृतमात्रेणेत्यर्थः । प्रतिजग्राह तं ग्लहम् अङ्गीचकार । ततः सौबलो ग्लहं जग्राह पाशं पातितवान् ॥२४॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पुनर्युधिष्ठिरपराभवे षट्सप्ततितमोऽध्यायः॥७६॥
सप्तसप्ततितमोऽध्यायः

वैशम्पायन उवाच। ततः पराजिताः पार्था वनावासाय दीक्षिताः ।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्॥१॥

तत इति । दीक्षा व्रतग्रहणं तत्संजातं येषां ते दीक्षिताः ॥१॥

अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् ।
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्॥२॥

प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः ।
पराजिताः पाण्डवेया विपत्तिं परमां गताः॥३॥

पाण्डोः स्त्रियौ पाण्ड्वौ ऊङुत इत्यूङन्तात् स्त्रीभ्यो ढगिति ढकि तयोरपत्यानि पाण्डवेयाः ॥३॥

अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः ।
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः॥४॥

समैः सर्वैः वर्त्मभिः मार्गैः अस्थलैः आगन्तृभिरतिसंकीर्णत्वात् स्थलहीनैः । संप्रयाता अस्मान्प्रतीति शेषः । सर्वेऽद्य देवा अनुकूला इत्यर्थः। गुणैः श्रीमत्त्वादिभिः ज्येष्ठाः तथा श्रेष्ठाः वयसा अत एव श्रेयांसः प्रशस्यतराः ॥४॥

नरकं पातिताः पार्था दीर्घकालमनन्तकम् ।
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः॥५॥

धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः ।
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः॥६॥

प्रहासिषुः सभायां दुर्योधनं जले पतितं दृष्ट्वा हासं कृतवन्तः ॥६॥

चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति ।
विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः॥७॥

न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा ।
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः॥८॥

सन्नाहान् उष्णीषकवचकटिबन्धादीन् । भानुमन्ति सुवर्णतन्तुमयत्वाद्दीप्तिमन्ति । विवास्यन्तां परिधाप्यन्ताम् । रुरुः कृष्णमृगः ईदृशा अस्मत्सदृशाः । अफलाः निर्वीर्याः ॥८॥

इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु ।
अदीक्षितानामजिनानि यद्वद्वलीयसां पश्यत पाण्डवानाम्॥९॥

इदं चेति । यत् इवेति छेदः यदिदं रौरवं वासः। आहवेषु यज्ञेषु यान्येव संग्रामनामानि तानि यज्ञनामानीति यास्कः । ईदृशानां दीक्षितानामिव पाण्डवानां दृश्यते । तच्च तद्वत् पश्यत । यद्वत् अदीक्षितानां कैवर्तादीनामजिनानीति योजना । अदीक्षायामपि दीक्षितवासांसि वसानाः कैवर्तकवद्दृश्यन्त इत्यर्थः ॥९॥

महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय ।
अकार्षिद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः॥१०॥

यज्ञसेनो द्रुपदः ॥१०॥

सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान् ।
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि॥११॥

सूक्ष्मप्रावारान् तुच्छपरिधानीयवस्त्रान् । अप्रतिष्ठान् हृतस्थानान् ॥११॥

एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः ।
एषां वृणीष्वैकतमं पतित्वे न त्वां नयेत्कालविपर्ययोऽयम्॥१२॥

कालविपर्ययः क्लेशकालः त्वां न नयेत् न कर्षेत् । न त्वां तपेदित्यपि पठः ॥१२॥

यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः ।
तथैव पाण्डवाः सर्वे यथा काकयवा अपि॥१३॥

काकयवा निस्तन्दुलं तृणधान्यम् ॥१३॥

किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य ।
एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः॥१४॥

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात् ।
उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्॥१५॥

भीमसेन उवाच। क्रूरं पापजनैर्जुष्टमकृतार्थं प्रभाषसे ।
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे॥१६॥

गान्धारस्य शकुनेर्विद्यया न तु बाहुबलेनेति भावः ॥१६॥

यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम् ।
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे॥१७॥

स्मारयिता स्मारयिष्यामि ॥१७॥

ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः ।
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम्॥१८॥

सानुबन्धान्सपुत्रबान्धवान् ॥१८॥

वैशम्पायन उवाच। एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म ।
मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः॥१९॥

अजिनैर्विवासितम् आच्छादितं तावन्मात्रया संपत्त्या सह राज्यात् बहिष्कृतमित्यर्थः । धर्मेण निबद्धो निरुद्धो मार्गो रिपुमर्दनारम्भो यस्य तम् । मधुपर्के गौर्गौरित त्रिर्निवेदिताया गोर्वध उत्सर्गश्च दृष्टः । तत्सामान्यात् अन्तकरूपायातिथये निवेदिताः । पाण्डवपशव उत्सृष्टाः । ते पुनर्वयं मृत्युमुखात् प्रमुक्ता इति उत्सृष्टमात्रा एव वेगेन पलायन्ते पुनरस्मानयं मावधिष्टेति । तेषां परिहासेन व्याकुलीकरणाय पुनराह्वानं क्रियते गौर्गौरिति । मृत्युभयात् पशुवत् प्राणभयात् पलायन्त इति पाण्डवानां कातरत्वसूचकोऽयमुपहासः । अस्योत्तरं द्रोणपर्वणि भीमसेनो वक्ष्यति । ‘येऽस्मान्पूर्वं प्रनृत्यन्ति मुहुर्गौरिति गौरिति । तान्वयं प्रतिनृत्यामः पुनर्गौरेति गौरिति’ इति । उत्सृष्टान्पशूनिव भीषयितुमाह्वयन्तो येऽस्मान् पूर्वं प्रनृत्यन्ति तानेव युद्धे विदारितान् दृष्ट्वा नृत्याम इति तदर्थः ॥१९॥

भीमसेन उवाच। नृशंस परुषं वक्तुं शक्यं दुःशासन त्वया ।
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति॥२०॥

मैव स्म सुकृताঁल्लोकान्गच्छेत्पार्थो वृकोदरः ।
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे॥२१॥

धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम् ।
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते॥२२॥

मिषतां पश्यताम् ॥२२॥

वैशम्पायन उवाच। तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् ।
गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः॥२३॥

नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः ।
शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ॥२४॥

प्रतिवक्ष्यामि अस्य परिहासस्योत्तरमिति शेषः ॥२४॥

एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी ।
राजानुगः संसदि कौरवाणां विनिष्कामन्वाक्यमुवाच भीमः॥२५॥

आत्मनि चित्ते ॥२५॥

भीमसेन उवाच। अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति॥२६॥

इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति॥२७॥

सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि ।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले॥२८॥

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः ।
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव॥२९॥

परुषस्य कर्कशस्य ॥२९॥

अर्जुन उवाच। नैवं वाचा व्यवसितं भीम विज्ञायते सताम् ।
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति॥३०॥

व्यवसितं चिकीर्षितं द्रष्टारः द्रक्ष्यामः ॥३०॥

भीमसेन उवाच। दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥३१॥

अर्जुन उवाच। असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम् ।
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे॥३२॥

द्रष्टारम् उत्तेजकं प्रवक्तारं कुबुद्धेः ॥३२॥

अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया ।
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः॥३३॥

ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम्॥३४॥

चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि॥३५॥

न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे ।
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति॥३६॥

वैशम्पायन उवाच। इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्॥३७॥

सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् ।
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः॥३८॥

सहदेव उवाच। अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर ।
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः॥३९॥

यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य स बान्धवम् ।
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः॥४०॥

हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम् ।
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल॥४१॥

सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्॥४२॥

नकुल उवाच। सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये॥४३॥

तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान् ।
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्॥४४॥

निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि न चिरादिव॥४५॥

वैशम्पायन उवाच। एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः ।
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्॥४६॥

॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पाण्डवप्रतिज्ञाकरणे सप्तसप्तितमोऽध्यायः॥७७॥
अष्टसप्ततितमोऽध्यायः

युधिष्ठिर उवाच। आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ।
राजानं सोमदत्तं च महाराजं च बाह्लिकम्॥१॥

आमन्त्रयामीति ॥१॥

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च ।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः॥२॥

युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः॥३॥

द्रष्टास्मि द्रक्ष्यामि ॥३॥

वैशम्पायन उवाच। न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम् ।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः॥४॥

आसन्नाः नम्राः ॥४॥

विदुर उवाच। आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता॥५॥

इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि ।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः॥६॥

अगदम् आरोग्यम् ॥६॥

पाण्डवा ऊचुः ।
तथेत्युक्त्वा ब्रुवन्सर्वे यथा नो वदसेऽनघ ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः॥७॥

यथा ज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः ।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते॥८॥

विदुर उवाच। युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये॥९॥

मम मतमिति शेषः ॥९॥

त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः ।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही॥१०॥

संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः ।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी॥११॥

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः ।
परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह॥१२॥

एष वै सर्वकल्याणः समाधिस्तव भारत ।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत॥१३॥

समाधिः मनःस्वास्थ्यकरो नियमः ॥१३॥

हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा ।
द्वैपायनेन कृष्णेन नगरे वारणावते॥१४॥

भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना ।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति॥१५॥

कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः ।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः॥१६॥

मा हासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव॥१७॥

मा हासीर्मा त्यज । सांपराये परलोकविषये ॥१७॥

शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया ।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥१८॥

विधारणे नियमने ॥१८॥

तथा विसर्गे कौबेरे वारुणे चैव सय्यमे ।
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्॥१९॥

विसर्गे दाने । संयमे वशीकरणे । पूर्वश्लोकाद्धृतमना इत्यनुकृष्य योज्यम् । आत्मप्रदानं सर्वहितार्थं शरीरादेर्व्यापारणम् । उपजीवनं जीवनहेतुत्वम् । ऐन्द्रे इति लोकपालगुणान् पञ्चभूतगुणांश्च सर्वसंपत्तिहेतून् जयादीन्प्राप्नुहीत्यर्थः ॥१९॥

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥२०॥

अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् ।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः॥२१॥

यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत॥२२॥

कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुरा कृतम्॥२३॥

वैशम्पायन उवाच। एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः॥२४॥

॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरवनप्रस्थानेऽष्टसप्ततितमोऽध्यायः॥७८॥
नवसप्ततितमोऽध्यायः

वैशंपायन उवाच। तस्मिन्संप्रस्थिते कृष्णां पृथां प्राप्य यशस्विनीम् ।
अपृच्छम्दशदुःखार्ता याश्चान्यास्तत्र योषितः॥१॥

तस्मिन्निति ॥१॥

यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा ।
ततो निनादः सुमहान्पाण्डवान्तःपुरेभवत्॥२॥

कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् ।
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्॥३॥

वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् ।
स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा॥४॥

न त्वां संदेष्टुमहमि भर्तॄन्प्रति शुचिस्मिते ।
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम्॥५॥

सभाग्याः कुरवश्चेमे येन दग्धास्त्वयानघे ।
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥६॥

अरिष्टं निर्विघ्नम् । मदनुध्यानबृंहिता । स्त्रीगुणेन पातिव्रत्येन युक्तापि मातृगुणेन वात्सल्येनापि वर्धिता । भर्तृषु भक्तिस्नेहवती भवेति भावः ॥६॥

भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते ।
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि॥७॥

सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् ।
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः॥८॥

तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला ।
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ॥९॥

शोणिताक्तैकवसना रजस्वला ॥९॥

तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् ।
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः॥१०॥

रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान् ।
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्॥११॥

तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला ।
स्वजमानावदच्छोकात्तत्तद्विलपती बहु॥१२॥

स्वजमाना आलिङ्गमाना ॥१२॥

कुन्त्युवाच। कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान् ।
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा॥१३॥

व्यसनं वः समभ्यागात्कोयं विधिविपर्ययः ।
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥१४॥

अपध्यानजं क्रोधजम् ॥१४॥

स्यातु मद्भाग्यदोषोयं याहं युष्मानजीजनम् ।
दुःखायासभुजोत्यर्थं युक्तानप्युत्तमैर्गुणैः॥१५॥

कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः ।
वीर्यसत्त्वबलोत्साहतेजाभिरकृशाः कृशाः॥१६॥

ऋद्धिविनाकृताः संपद्विहीनाः वृद्धीति पाठेऽपि स एवार्थः ॥१६॥

यद्येतदेवमज्ञास्यं वने वासो हि वो ध्रुवम् ।
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥१७॥

शतशृङ्गात् पर्वतात् ॥१७॥

धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा ।
यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम्॥१८॥

पुत्राधिं पुत्रविषयां मनःपीडाम् ॥१८॥

धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् ।
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु॥१९॥

रत्या मत्या च गत्या च ययाहमभिसन्धिता ।
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम्॥२०॥

अभिसन्धिता वृता मह्यं मम ॥२०॥

पुत्रका न विहास्ये वः कृछ्रलब्धान्प्रियान्सतः ।
साहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्॥२१॥

भो पुत्रकाः वः युष्मान् न विहास्ये ॥२१॥

अन्तवन्त्यसुधर्मेस्मिन्धात्रा किं नु प्रमादतः ।
ममान्तो नैव विहितस्तेनायुर्न जहाति माम्॥२२॥

असुधर्मे प्राणधारणे । अन्तवति विनाशवति । प्रमादतः पाण्डोरिव ममान्तः किं नु नैव विहितः॥२२॥

हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज ।
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान्॥२३॥

अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः ।
तास्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम्॥२४॥

अनादिनिधनमिति । द्वारकावासिनि उपाधिमति उत्पत्तिनाशयोर्निराकरणम् । अनुपाधौ कारणोपाधौ वा तयोरप्रसक्तेः । अत एव उत्पत्तौ चतुर्भुजं रूपमेव वसुदेवेन दृष्टम् । यत्तु ‘शरीरं वासुदेवस्य रामस्य च महात्मनः । अर्जुनो दाहयामास पुरुषैराप्तकारिभिः’ इति शरीरदाहवचनम् । तदनुत्पत्तिवचनविरोधात्तिरोभावमात्राभिप्रायम् ॥२४॥

इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः ।
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया॥२५॥

सेयं नीत्यर्थविज्ञेषु भीष्मद्रोणकृपादिषु ।
स्थितेषु कुलनाथेषु कथमापदुपागता॥२६॥

हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे ।
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान्॥२७॥

सहदेव निवर्तस्व ननु त्वमसि मे प्रियः ।
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत्॥२८॥

व्रजन्तु भ्रातरस्तेमी यदि सत्याभिसन्धिनः ।
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि॥२९॥

वैशंपायन उवाच। एवं विलपतीं कुन्तीमभिवाद्य प्रणम्य च ।
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः॥३०॥

विदुरश्चापि तामार्ती कुन्तीमाश्वास्य हेतुभिः ।
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः॥३१॥

हेतुभिः दैवप्राबल्यादिप्रतिपादकैर्वचनैः ॥३१॥

धार्तराष्ट्रस्त्रियस्ताश्च निखिलेनोपलभ्य तत् ।
गमनं परिकर्षे च कृष्णाया द्यूतमण्डले॥३२॥

रुरुदुः सुस्वनं सर्वा विनिदन्त्यः कुरून्भृशम् ।
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः॥३३॥

राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा ।
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान्॥३४॥

स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः ।
क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति॥३८॥

ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् ।
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः॥३६॥

॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि द्रौपदीकुन्तीसंवादे एकोनाशीतितमोऽध्यायः॥७९॥
अशीतितमोऽध्यायः

वैशम्पायन उवाच। तमागतमथो राजा विदुरं दीर्घदर्शिनम् ।
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः॥१॥

तमागतमिति ॥१॥

धृतराष्ट्र उवाच। कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ॥२॥

धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी ।
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम्॥३॥

शंस कथय ॥३॥

विदुर उवाच। वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः॥४॥

सिकता वपन्सव्यसाची राजानमनुगच्छति ।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति॥५॥

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।
दर्शनीयतमो लोके राजानमनुगच्छति॥६॥

कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना ।
दर्शनीया प्ररुदती राजानमनुगच्छति॥७॥

धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते ।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना॥८॥

याम्यानि यमदैवत्यानि ॥८॥

धृतराष्ट्र उवाच। विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते॥९॥

विदुर उवाच। निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥१०॥

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने॥११॥

घृणी दयावान् ॥११॥

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः॥१२॥

यथा च भीमो व्रजति निगदतः शृणु ।
बाह्वोर्बलेन नास्ति समो ममेति भरतर्षभ॥१३॥

बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति ।
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः॥१४॥

चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ।
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा॥१५॥

सिकता वपन्सव्यसाची राजानमनुगच्छति ।
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत ।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु॥१६॥

असक्ताः परस्परमलग्नाः ॥१६॥

न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति॥१७॥

नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति॥१८॥

एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला ।
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत्॥१९॥

यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे ।
हतपत्यो हतसुता हतबन्धुजनप्रियाः॥२०॥

हतपत्यो हतभर्तृकाः ॥२०॥

बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः ।
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्॥२१॥

कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः ।
सामानि गायन्याम्यानि पुरतो याति भारत॥२२॥

नैर्ऋतान् निरृतिकोणगान् ॥२२॥

हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा ।
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योपि गच्छति॥२३॥

हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम्॥२४॥

राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये ।
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः॥२५॥

दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः ।
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः॥२६॥

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः॥२७॥

व्यवसायं निश्चयम् ॥२७॥

एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत॥२८॥

निर्यत्सु गच्छत्सु ॥२८॥

राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत॥२९॥

प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः ।
देवायतनचैत्येषु प्राकाराट्टालकेषु च॥३०॥

प्रत्याहरन्ति नगरसमीपे प्रेतमांसास्थ्यादीनि आनयन्ति । प्रतिकूलं भषन्ति वा ॥३०॥

एवमेते महोत्पाताः प्रादुरासन्दुरासदाः ।
भरतानामभावाय राजन्दुर्मन्त्रिते तव॥३१॥

वैशम्पायन उवाच। एवं प्रवदतोरेव तयोस्तत्र विशाम्पते ।
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः॥३२॥

नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह॥३३॥

इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः ।
दुर्योधनापराधेन भीमार्जुनबलेन च॥३४॥

इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः॥३५॥

ब्राह्मीं श्रियम् अणिमाद्यैश्चर्यं सर्वेषु लोकेषु कामचारम् ॥३५॥

ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्॥३६॥

द्वीपम् आश्रयम् ॥३६॥

अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।
दुःशासनं च कर्णं च सर्वानेव च भारतान्॥३७॥

अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः ।
अहं वै शरणं प्राप्तान्वर्तमानो यथाबलम्॥३८॥

गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम्॥३९॥

सराजकान् राजसमूहसहितान् ॥३९॥

धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः॥४०॥

चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः॥४१॥

मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे ।
पुत्रार्थमयजद्राजा वधाय मम भारत॥४२॥

याजोपयाजतपसा पुत्रं लेभे स पावकात् ।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्॥४३॥

धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः ।
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत्॥४४॥

ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान्॥४५॥

देवदत्तः देवैर्दत्तः साध्वसो भयं मूर्तिमत् ॥४५॥

गतो हि पक्षतां तेषां पार्षतः परवीरहा ।
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा॥४६॥

सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम ।
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः॥४७॥

सङ्गमः सङ्ग्रामः । सृष्टप्राणः प्राणत्यागेनापीत्यर्थः । परमम् अनन्तम् ॥४७॥

धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः ।
मद्वधाय श्रुतोऽप्येष लोके चाप्यतिविश्रुतः॥४८॥

सोऽयं नूनमनुप्राप्तस्त्वत्कृते काल उत्तमः ।
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्॥४९॥

नैतदेतावता कृतम् एतत् श्रेयः कल्याणं न एतावता पाण्डवनिर्वासनमात्रेण कृतं भवति ॥४९॥

मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ।
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च॥५०॥

हैमनी हेमन्तसंबन्धिनी ॥५०॥

इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ।
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्॥५१॥

वैशसं नाशम् ॥५१॥

सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ।
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः॥५२॥

सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः॥५३॥

॥ इति श्रीमहाभारते सभापर्वणि अनुद्यतपर्वणि विदुरधृतराष्ट्रद्रोणवाक्ये अशीतितमोऽध्यायः॥८०॥
एकाशीतितमोऽध्यायः

वैशम्पायन उवाच। वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्॥१॥

वनं गतेष्विति ॥१॥

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः॥२॥

अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप ।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि॥३॥

धृतराष्ट्र उवाच। अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति ।
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः॥४॥

युद्धशौण्डेः युद्धे दक्षैः ॥४॥

सञ्जय उवाच। तवेदं सुकृतं राजन्महद्वैरमुपस्थितम् ।
विनाशो येन लोकस्य सानुबन्धो भविष्यति॥५॥

वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च ।
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्॥६॥

प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्॥७॥

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीतानि पश्यति॥८॥

अवाचीनानि विपरीतानि ॥८॥

बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति॥९॥

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥१०॥

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।
कालस्य बलमेतावद्विपरीतार्थदर्शनम्॥११॥

आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्॥१२॥

अयोनिजां रूपवतीं कुले जातां विभावसोः ।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्॥१३॥

पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम् ।
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता॥१४॥

एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत ।
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः॥१५॥

विहीनान्सर्वकामेभ्यो दासभावमुपागतान् ।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे॥१६॥

क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि ।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्॥१७॥

इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे ।
धृतराष्ट्र उवाच। तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी॥१८॥

अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ।
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः॥१९॥

शेषं हतावशेषं कतिपयानामेकस्य वा जीवनं भविष्यतीत्यर्थः ॥१९॥

प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ।
धर्मिष्ठां धर्मपत्नीं च रूपयौवनशालिनीम्॥२०॥

प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः ।
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः॥२१॥

ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ।
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्॥२२॥

निष्ठानकः प्रलयदुन्दुभिश्चण्डवात इत्यर्थः । निष्टानक इति पाठेऽपि स एवार्थः निर्घातः वज्रशब्दः ॥२२॥

दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत् ।
अपर्वणि महाघोरं प्रजानां जयन्भयम्॥२३॥

तथैव रथशालासु प्रादुरासीद्धुताशनः ।
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये॥२४॥

दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः॥२५॥

शिवाः शृगालाः ॥२५॥

प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय ।
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः॥२६॥

ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति॥२७॥

अवृणोत्तत्र पाञ्चाली पाण्डवानामदासताम् ।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्॥२८॥

अनुज्ञासिषम् अनुज्ञातवान् । अडभाव आर्षः पाठान्तरे तु सुगमम् ॥२८॥

अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।
एतदन्तास्तु भरता यद्वः कृष्णा सभां गता॥२९॥

यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा ।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति॥३०॥

तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः ।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः॥३१॥

तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः ।
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः॥३२॥

तेषां मध्ये महेष्वासो भीमसेनो महाबलः ।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः॥३३॥

ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥३४॥

तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान्॥३५॥

तथा हि बलवान्राजा जरासन्धो महाद्युतिः ।
बाहुप्रहरणेनैव भीमेन निहतो युधि॥३६॥

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया॥३७॥

एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि ।
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः॥३८॥

उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा॥३९॥

॥ इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि धृतराष्ट्रसञ्जयसंवादे एकाशीतितमोऽध्यायः॥८१॥

एतत्सर्वं सभापर्वं मयाख्यातं महर्षयः ।
अध्यायाः सप्ततिर्ज्ञ्रेयास्तथा द्वौ चात्र संख्यया॥१॥

श्लोकानां द्वे सहस्रे तु सप्तश्लोकशतानि च ।
श्लोकाश्चैकादश तथा पर्वण्यस्मिन्प्रकीर्तिताः॥२॥

॥अनुद्यूतपर्व समाप्तम्॥॥सभापर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in