जनमेजय उवाच।
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान्
।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा॥१॥
अनुज्ञातानिति ॥१॥
वैशम्पायन उवाच।
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता
।
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति॥२॥
धृतराष्ट्रेण यथाप्रतिज्ञं सुहृद्द्यूते कृतेऽपि पुरुषकाराद्बलवत्तरं दैवं कौरवान् सर्वभूपक्षयहेतौ अनुद्यूते प्रावर्तयदित्याह अनुज्ञातानिति ॥२॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभ
।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्॥३॥
भरतश्रेष्ठः भरतस्य दुर्योधनस्य दृष्ट्या श्रेष्ठः प्रशस्यतमो दुःशासनः ॥३॥
दुःशासन उवाच।
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ
।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः॥४॥
स्थविरो वृद्ध इति साधिक्षेपमुक्तं शत्रुसात् शत्रुवशं गमयदगमयत्प्रापितवान् ॥४॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रतिमानिनः॥५॥
पाण्डवान्प्रति प्रतिकर्तुम् ॥५॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्
।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्॥६॥
दुर्योधन उवाच।
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः
।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः॥७॥
त्वया इदं किं न श्रुतमिति काक्वा नञो योजना अपि तु श्रुतमेव ॥७॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन
।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्॥८॥
पुरा युद्धात् युद्धमकृत्वेत्यर्थः बलाद्युद्धेन वा ये अहितं कुर्वन्ति ते निहन्तव्या इति योजना ॥८॥
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान्
।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति॥९॥
तान् पाण्डवान् । परिहास्यति नंक्ष्यति ॥९॥
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान्
।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति॥१०॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
।
निःशेषं वः करिष्यन्ति क्रुद्धा ह्याशीविषा इव॥११॥
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी
।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते॥१२॥
परमेषुधी श्रेष्ठौ निषङ्गौ ॥१२॥
गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः
।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम्॥१३॥
नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत्
।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः॥१४॥
आकारम् अभिप्रायम् इङ्गितैश्चेष्टितैः चक्रुः आविश्चक्रुः कृ विक्षेपे इत्यस्य रूपम् ॥१४॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्
।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः॥१५॥
सेनायोगाय सैन्यमेलनाय ॥१५॥
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते
।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति॥१६॥
न क्षंस्यन्ते न क्षमां करिष्यन्ते । जातु कदाचित् । विप्रकृताः विकारं प्रापिताः तेषां मध्ये॥१६॥
पुनर्दिव्याम भद्रं ते वनवासाय पाण्डवैः
।
एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ॥१७॥
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः
।
प्रविशेम महारण्यमजिनैः प्रतिवासिताः॥१८॥
त्रयोदशं सजनेन अज्ञाताः प्रतिवत्सरम्
।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥१९॥
सजनेन समानजनेन अज्ञाताः ॥१९॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्
।
अक्षानुप्त्वा औनर्द्यूतमिदं कुर्वन्तु पाण्डवाः॥२०॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ
।
अयं हि शकुनिर्वेद सविद्यामक्षसंपदम्॥२१॥
सविद्याम् अक्षवशीकरणविद्यासहिताम् ॥२१॥
दृढमूलावयं राज्ये मित्राणि परिगृह्य च
।
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्॥२२॥
सारवत् बलवत्॥२२॥
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम्
।
ज्येष्यामस्तान्वयं राजन्रोचतां ते परन्तप॥२३॥
धृतराष्ट्र उवाच।
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि
।
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः॥२४॥
व्यध्वगतान् दूरगतान् ॥२४॥
वैशम्पायन उवाच।
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः
।
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्॥२५॥
वैश्यापुत्रो युयुत्सुः ॥२५॥
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः
।
मा द्यूतमित्यभाषन्त शमोस्त्विति च सर्वशः॥२६॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्
।
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः॥२७॥
अकामानां द्यूतमनिच्छतां सताम् ॥२७॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरप्रत्यानयने चतुःसप्ततितमोऽध्यायः॥७४॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्
।
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्षिता॥१॥
अथेति ॥१॥
जाते दुर्योधने क्षत्ता महामतिरभाषत
।
नीयतां परलोकाय साध्वयं कुलपासनः॥२॥
व्यनदज्जातमात्रो हि गोमायुरिव भारत
।
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत॥३॥
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत
।
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो॥४॥
मतिं माभिमंस्थाः अभिमतां मा कुरु ॥४॥
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि
।
बद्धं सेतुं कोनुभिन्द्याद्धमेच्छान्तं च पावकम्॥५॥
धमेत् उद्बोधयेत् ॥५॥
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ
।
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः॥६॥
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च
।
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन॥७॥
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः
।
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः॥८॥
त्वन्नेत्राः त्वमेव नेता येषां ते त्वन्नेत्राः । दीर्णाः त्वत्तो भिन्नमर्यादाः सन्तः प्रहासिषुः जीवितत्यागेनेति शेषः ॥८॥
तथा तेन कृतं राजन्पुत्रस्नेहान्नराधिप
।
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत्॥९॥
शमेन धर्मेण नयने युक्ता या ते बुद्धिः सास्तु ते मा प्रमादीः
।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्॥१०॥
मा प्रमादीः अनवहितो मा भूः मृदुप्रौढा मृदुषु समाहिता सती प्रौढा भूत्वा ॥१०॥
अथाब्रवीन्महारजो गान्धारीं धर्मदर्शिनीम्
।
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्॥११॥
अन्तो नाशः कामं यथेष्टम् ॥११॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः
।
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह॥१२॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरप्रत्यानयने पञ्चसप्ततितमोऽध्यायः॥७५॥
वैशम्पायन उवाच।
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्
।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः॥१॥
तत इति ॥१॥
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर
।
एहि पाण्डव दीव्येति पिता त्वाहेति भारत॥२॥
युधिष्ठिर उवाच।
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्
।
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि॥३॥
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च
।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे॥४॥
वैशम्पायन उवाच।
असम्भवे हेममयस्य जन्तोस्तथापि रामो लुलुभे मृगाय
।
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति॥५॥
असंभवे इति धृतराष्ट्रमुद्दिश्य उक्तम् ॥५॥
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः
।
जानन्श्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः॥६॥
विविशुस्ते सभां तां तु पुनरेव महारथाः
।
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः॥७॥
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये
।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः॥८॥
यथोपजोषं यथासुखम् ॥८॥
शकुनिरुवाच
।
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्
।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ॥९॥
पूजितम् इष्टम् ॥९॥
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः
।
प्रविशेम महारण्यं रौरवाजिनवाससः॥१०॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥११॥
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्
।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः॥१२॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥१३॥
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्
।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः॥१४॥
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर
।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत॥१५॥
व्यवसायेन निश्चयेन ॥१५॥
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा
।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि॥१६॥
संवेगात् अतिशयात् ॥१६॥
सभ्या ऊचुः
।
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्
।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ॥१७॥
एनं दुर्योधनं हे भरतर्षभ हे धृतराष्ट्र ॥१७॥
वैशम्पायन उवाच।
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः
।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः॥१८॥
ह्रिया कार्पण्यदोषान्निवृत्त इति लज्जया । धर्मसंयोगात् तीर्थाद्यटनजात् ॥१८॥
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्
।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्॥१९॥
युधिष्ठिर उवाच।
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्
।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया॥२०॥
शकुनिरुवाच
।
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्
।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः॥२१॥
गजाश्वादिकं बहुधेनूकं बहुदोग्ध्रीकम् । पणीकृतमिति शेषः ॥२१॥
एष नो ग्लह एवैको वनवासाय पाण्डवाः
।
यूयं वयं वा विजिता वसेम वनमाश्रिताः॥२२॥
संप्रति एक एव पण इत्याह एष इति ॥२२॥
त्रयोदशं च वै वर्षमज्ञाताः सजने तथा
।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः॥२३॥
समुत्क्षेपेण चैकेन वनवासाय भारत
।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२४॥
समुत्क्षेपेण एकेनैव वचनोपक्षेपेण । सकृद्व्याहृतमात्रेणेत्यर्थः । प्रतिजग्राह तं ग्लहम् अङ्गीचकार । ततः सौबलो ग्लहं जग्राह पाशं पातितवान् ॥२४॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पुनर्युधिष्ठिरपराभवे षट्सप्ततितमोऽध्यायः॥७६॥
वैशम्पायन उवाच।
ततः पराजिताः पार्था वनावासाय दीक्षिताः
।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्॥१॥
तत इति । दीक्षा व्रतग्रहणं तत्संजातं येषां ते दीक्षिताः ॥१॥
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्
।
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्॥२॥
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः
।
पराजिताः पाण्डवेया विपत्तिं परमां गताः॥३॥
पाण्डोः स्त्रियौ पाण्ड्वौ ऊङुत इत्यूङन्तात् स्त्रीभ्यो ढगिति ढकि तयोरपत्यानि पाण्डवेयाः ॥३॥
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः
।
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः॥४॥
समैः सर्वैः वर्त्मभिः मार्गैः अस्थलैः आगन्तृभिरतिसंकीर्णत्वात् स्थलहीनैः । संप्रयाता अस्मान्प्रतीति शेषः । सर्वेऽद्य देवा अनुकूला इत्यर्थः। गुणैः श्रीमत्त्वादिभिः ज्येष्ठाः तथा श्रेष्ठाः वयसा अत एव श्रेयांसः प्रशस्यतराः ॥४॥
नरकं पातिताः पार्था दीर्घकालमनन्तकम्
।
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः॥५॥
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः
।
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः॥६॥
प्रहासिषुः सभायां दुर्योधनं जले पतितं दृष्ट्वा हासं कृतवन्तः ॥६॥
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति
।
विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः॥७॥
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा
।
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः॥८॥
सन्नाहान् उष्णीषकवचकटिबन्धादीन् । भानुमन्ति सुवर्णतन्तुमयत्वाद्दीप्तिमन्ति । विवास्यन्तां परिधाप्यन्ताम् । रुरुः कृष्णमृगः ईदृशा अस्मत्सदृशाः । अफलाः निर्वीर्याः ॥८॥
इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु
।
अदीक्षितानामजिनानि यद्वद्वलीयसां पश्यत पाण्डवानाम्॥९॥
इदं चेति । यत् इवेति छेदः यदिदं रौरवं वासः। आहवेषु यज्ञेषु यान्येव संग्रामनामानि तानि यज्ञनामानीति यास्कः । ईदृशानां दीक्षितानामिव पाण्डवानां दृश्यते । तच्च तद्वत् पश्यत । यद्वत् अदीक्षितानां कैवर्तादीनामजिनानीति योजना । अदीक्षायामपि दीक्षितवासांसि वसानाः कैवर्तकवद्दृश्यन्त इत्यर्थः ॥९॥
महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय
।
अकार्षिद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः॥१०॥
यज्ञसेनो द्रुपदः ॥१०॥
सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्
।
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि॥११॥
सूक्ष्मप्रावारान् तुच्छपरिधानीयवस्त्रान् । अप्रतिष्ठान् हृतस्थानान् ॥११॥
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः
।
एषां वृणीष्वैकतमं पतित्वे न त्वां नयेत्कालविपर्ययोऽयम्॥१२॥
कालविपर्ययः क्लेशकालः त्वां न नयेत् न कर्षेत् । न त्वां तपेदित्यपि पठः ॥१२॥
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः
।
तथैव पाण्डवाः सर्वे यथा काकयवा अपि॥१३॥
काकयवा निस्तन्दुलं तृणधान्यम् ॥१३॥
किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य
।
एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः॥१४॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्
।
उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्॥१५॥
भीमसेन उवाच।
क्रूरं पापजनैर्जुष्टमकृतार्थं प्रभाषसे
।
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे॥१६॥
गान्धारस्य शकुनेर्विद्यया न तु बाहुबलेनेति भावः ॥१६॥
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम्
।
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे॥१७॥
स्मारयिता स्मारयिष्यामि ॥१७॥
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः
।
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम्॥१८॥
सानुबन्धान्सपुत्रबान्धवान् ॥१८॥
वैशम्पायन उवाच।
एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म
।
मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः॥१९॥
अजिनैर्विवासितम् आच्छादितं तावन्मात्रया संपत्त्या सह राज्यात् बहिष्कृतमित्यर्थः । धर्मेण निबद्धो निरुद्धो मार्गो रिपुमर्दनारम्भो यस्य तम् । मधुपर्के गौर्गौरित त्रिर्निवेदिताया गोर्वध उत्सर्गश्च दृष्टः । तत्सामान्यात् अन्तकरूपायातिथये निवेदिताः । पाण्डवपशव उत्सृष्टाः । ते पुनर्वयं मृत्युमुखात् प्रमुक्ता इति उत्सृष्टमात्रा एव वेगेन पलायन्ते पुनरस्मानयं मावधिष्टेति । तेषां परिहासेन व्याकुलीकरणाय पुनराह्वानं क्रियते गौर्गौरिति । मृत्युभयात् पशुवत् प्राणभयात् पलायन्त इति पाण्डवानां कातरत्वसूचकोऽयमुपहासः । अस्योत्तरं द्रोणपर्वणि भीमसेनो वक्ष्यति । ‘येऽस्मान्पूर्वं प्रनृत्यन्ति मुहुर्गौरिति गौरिति । तान्वयं प्रतिनृत्यामः पुनर्गौरेति गौरिति’ इति । उत्सृष्टान्पशूनिव भीषयितुमाह्वयन्तो येऽस्मान् पूर्वं प्रनृत्यन्ति तानेव युद्धे विदारितान् दृष्ट्वा नृत्याम इति तदर्थः ॥१९॥
भीमसेन उवाच।
नृशंस परुषं वक्तुं शक्यं दुःशासन त्वया
।
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति॥२०॥
मैव स्म सुकृताঁल्लोकान्गच्छेत्पार्थो वृकोदरः
।
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे॥२१॥
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम्
।
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते॥२२॥
मिषतां पश्यताम् ॥२२॥
वैशम्पायन उवाच।
तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात्
।
गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः॥२३॥
नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः
।
शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ॥२४॥
प्रतिवक्ष्यामि अस्य परिहासस्योत्तरमिति शेषः ॥२४॥
एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी
।
राजानुगः संसदि कौरवाणां विनिष्कामन्वाक्यमुवाच भीमः॥२५॥
आत्मनि चित्ते ॥२५॥
भीमसेन उवाच।
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः
।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति॥२६॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः
।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति॥२७॥
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि
।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले॥२८॥
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
।
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव॥२९॥
परुषस्य कर्कशस्य ॥२९॥
अर्जुन उवाच।
नैवं वाचा व्यवसितं भीम विज्ञायते सताम्
।
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति॥३०॥
व्यवसितं चिकीर्षितं द्रष्टारः द्रक्ष्यामः ॥३०॥
भीमसेन उवाच।
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥३१॥
अर्जुन उवाच।
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्
।
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे॥३२॥
द्रष्टारम् उत्तेजकं प्रवक्तारं कुबुद्धेः ॥३२॥
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया
।
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः॥३३॥
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
।
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम्॥३४॥
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः
।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि॥३५॥
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे
।
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति॥३६॥
वैशम्पायन उवाच।
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः
।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्॥३७॥
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्
।
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः॥३८॥
सहदेव उवाच।
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर
।
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः॥३९॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य स बान्धवम्
।
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः॥४०॥
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम्
।
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल॥४१॥
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते
।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्॥४२॥
नकुल उवाच।
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः
।
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये॥४३॥
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान्
।
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्॥४४॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्
।
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि न चिरादिव॥४५॥
वैशम्पायन उवाच।
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः
।
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्॥४६॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पाण्डवप्रतिज्ञाकरणे सप्तसप्तितमोऽध्यायः॥७७॥
युधिष्ठिर उवाच।
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्
।
राजानं सोमदत्तं च महाराजं च बाह्लिकम्॥१॥
आमन्त्रयामीति ॥१॥
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च
।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः॥२॥
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः
।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः॥३॥
द्रष्टास्मि द्रक्ष्यामि ॥३॥
वैशम्पायन उवाच।
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम्
।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः॥४॥
आसन्नाः नम्राः ॥४॥
विदुर उवाच।
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति
।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता॥५॥
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि
।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः॥६॥
अगदम् आरोग्यम् ॥६॥
पाण्डवा ऊचुः
।
तथेत्युक्त्वा ब्रुवन्सर्वे यथा नो वदसेऽनघ
।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः॥७॥
यथा ज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः
।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते॥८॥
विदुर उवाच।
युधिष्ठिर विजानीहि ममेदं भरतर्षभ
।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये॥९॥
मम मतमिति शेषः ॥९॥
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः
।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही॥१०॥
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः
।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी॥११॥
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः
।
परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह॥१२॥
एष वै सर्वकल्याणः समाधिस्तव भारत
।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत॥१३॥
समाधिः मनःस्वास्थ्यकरो नियमः ॥१३॥
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा
।
द्वैपायनेन कृष्णेन नगरे वारणावते॥१४॥
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना
।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति॥१५॥
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः
।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः॥१६॥
मा हासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्
।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव॥१७॥
मा हासीर्मा त्यज । सांपराये परलोकविषये ॥१७॥
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया
।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥१८॥
विधारणे नियमने ॥१८॥
तथा विसर्गे कौबेरे वारुणे चैव सय्यमे
।
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्॥१९॥
विसर्गे दाने । संयमे वशीकरणे । पूर्वश्लोकाद्धृतमना इत्यनुकृष्य योज्यम् । आत्मप्रदानं सर्वहितार्थं शरीरादेर्व्यापारणम् । उपजीवनं जीवनहेतुत्वम् । ऐन्द्रे इति लोकपालगुणान् पञ्चभूतगुणांश्च सर्वसंपत्तिहेतून् जयादीन्प्राप्नुहीत्यर्थः ॥१९॥
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्
।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥२०॥
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्
।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः॥२१॥
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर
।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत॥२२॥
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम्
।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुरा कृतम्॥२३॥
वैशम्पायन उवाच।
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः
।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः॥२४॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि युधिष्ठिरवनप्रस्थानेऽष्टसप्ततितमोऽध्यायः॥७८॥
वैशंपायन उवाच।
तस्मिन्संप्रस्थिते कृष्णां पृथां प्राप्य यशस्विनीम्
।
अपृच्छम्दशदुःखार्ता याश्चान्यास्तत्र योषितः॥१॥
तस्मिन्निति ॥१॥
यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा
।
ततो निनादः सुमहान्पाण्डवान्तःपुरेभवत्॥२॥
कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्
।
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्॥३॥
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्
।
स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा॥४॥
न त्वां संदेष्टुमहमि भर्तॄन्प्रति शुचिस्मिते
।
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम्॥५॥
सभाग्याः कुरवश्चेमे येन दग्धास्त्वयानघे
।
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥६॥
अरिष्टं निर्विघ्नम् । मदनुध्यानबृंहिता । स्त्रीगुणेन पातिव्रत्येन युक्तापि मातृगुणेन वात्सल्येनापि वर्धिता । भर्तृषु भक्तिस्नेहवती भवेति भावः ॥६॥
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते
।
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि॥७॥
सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन्
।
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः॥८॥
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला
।
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ॥९॥
शोणिताक्तैकवसना रजस्वला ॥९॥
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्
।
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः॥१०॥
रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान्
।
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्॥११॥
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला
।
स्वजमानावदच्छोकात्तत्तद्विलपती बहु॥१२॥
स्वजमाना आलिङ्गमाना ॥१२॥
कुन्त्युवाच।
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान्
।
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा॥१३॥
व्यसनं वः समभ्यागात्कोयं विधिविपर्ययः
।
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥१४॥
अपध्यानजं क्रोधजम् ॥१४॥
स्यातु मद्भाग्यदोषोयं याहं युष्मानजीजनम्
।
दुःखायासभुजोत्यर्थं युक्तानप्युत्तमैर्गुणैः॥१५॥
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः
।
वीर्यसत्त्वबलोत्साहतेजाभिरकृशाः कृशाः॥१६॥
ऋद्धिविनाकृताः संपद्विहीनाः वृद्धीति पाठेऽपि स एवार्थः ॥१६॥
यद्येतदेवमज्ञास्यं वने वासो हि वो ध्रुवम्
।
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥१७॥
शतशृङ्गात् पर्वतात् ॥१७॥
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा
।
यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम्॥१८॥
पुत्राधिं पुत्रविषयां मनःपीडाम् ॥१८॥
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्
।
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु॥१९॥
रत्या मत्या च गत्या च ययाहमभिसन्धिता
।
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम्॥२०॥
अभिसन्धिता वृता मह्यं मम ॥२०॥
पुत्रका न विहास्ये वः कृछ्रलब्धान्प्रियान्सतः
।
साहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्॥२१॥
भो पुत्रकाः वः युष्मान् न विहास्ये ॥२१॥
अन्तवन्त्यसुधर्मेस्मिन्धात्रा किं नु प्रमादतः
।
ममान्तो नैव विहितस्तेनायुर्न जहाति माम्॥२२॥
असुधर्मे प्राणधारणे । अन्तवति विनाशवति । प्रमादतः पाण्डोरिव ममान्तः किं नु नैव विहितः॥२२॥
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज
।
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान्॥२३॥
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः
।
तास्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम्॥२४॥
अनादिनिधनमिति । द्वारकावासिनि उपाधिमति उत्पत्तिनाशयोर्निराकरणम् । अनुपाधौ कारणोपाधौ वा तयोरप्रसक्तेः । अत एव उत्पत्तौ चतुर्भुजं रूपमेव वसुदेवेन दृष्टम् । यत्तु ‘शरीरं वासुदेवस्य रामस्य च महात्मनः । अर्जुनो दाहयामास पुरुषैराप्तकारिभिः’ इति शरीरदाहवचनम् । तदनुत्पत्तिवचनविरोधात्तिरोभावमात्राभिप्रायम् ॥२४॥
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः
।
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया॥२५॥
सेयं नीत्यर्थविज्ञेषु भीष्मद्रोणकृपादिषु
।
स्थितेषु कुलनाथेषु कथमापदुपागता॥२६॥
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे
।
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान्॥२७॥
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः
।
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत्॥२८॥
व्रजन्तु भ्रातरस्तेमी यदि सत्याभिसन्धिनः
।
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि॥२९॥
वैशंपायन उवाच।
एवं विलपतीं कुन्तीमभिवाद्य प्रणम्य च
।
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः॥३०॥
विदुरश्चापि तामार्ती कुन्तीमाश्वास्य हेतुभिः
।
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः॥३१॥
हेतुभिः दैवप्राबल्यादिप्रतिपादकैर्वचनैः ॥३१॥
धार्तराष्ट्रस्त्रियस्ताश्च निखिलेनोपलभ्य तत्
।
गमनं परिकर्षे च कृष्णाया द्यूतमण्डले॥३२॥
रुरुदुः सुस्वनं सर्वा विनिदन्त्यः कुरून्भृशम्
।
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः॥३३॥
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा
।
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान्॥३४॥
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः
।
क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति॥३८॥
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्
।
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः॥३६॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि द्रौपदीकुन्तीसंवादे एकोनाशीतितमोऽध्यायः॥७९॥
वैशम्पायन उवाच।
तमागतमथो राजा विदुरं दीर्घदर्शिनम्
।
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः॥१॥
तमागतमिति ॥१॥
धृतराष्ट्र उवाच।
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः
।
भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ॥२॥
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी
।
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम्॥३॥
शंस कथय ॥३॥
विदुर उवाच।
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः
।
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः॥४॥
सिकता वपन्सव्यसाची राजानमनुगच्छति
।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति॥५॥
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः
।
दर्शनीयतमो लोके राजानमनुगच्छति॥६॥
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना
।
दर्शनीया प्ररुदती राजानमनुगच्छति॥७॥
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते
।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना॥८॥
याम्यानि यमदैवत्यानि ॥८॥
धृतराष्ट्र उवाच।
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः
।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते॥९॥
विदुर उवाच।
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च
।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥१०॥
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत
।
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने॥११॥
घृणी दयावान् ॥११॥
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा
।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः॥१२॥
यथा च भीमो व्रजति निगदतः शृणु
।
बाह्वोर्बलेन नास्ति समो ममेति भरतर्षभ॥१३॥
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति
।
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः॥१४॥
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः
।
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा॥१५॥
सिकता वपन्सव्यसाची राजानमनुगच्छति
।
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत
।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु॥१६॥
असक्ताः परस्परमलग्नाः ॥१६॥
न मे कश्चिद्विजानीयान्मुखमद्येति भारत
।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति॥१७॥
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो
।
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति॥१८॥
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला
।
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत्॥१९॥
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे
।
हतपत्यो हतसुता हतबन्धुजनप्रियाः॥२०॥
हतपत्यो हतभर्तृकाः ॥२०॥
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः
।
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्॥२१॥
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः
।
सामानि गायन्याम्यानि पुरतो याति भारत॥२२॥
नैर्ऋतान् निरृतिकोणगान् ॥२२॥
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा
।
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योपि गच्छति॥२३॥
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्
।
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम्॥२४॥
राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये
।
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः॥२५॥
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः
।
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः॥२६॥
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्
।
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः॥२७॥
व्यवसायं निश्चयम् ॥२७॥
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्
।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत॥२८॥
निर्यत्सु गच्छत्सु ॥२८॥
राहुरग्रसदादित्यमपर्वणि विशाम्पते
।
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत॥२९॥
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः
।
देवायतनचैत्येषु प्राकाराट्टालकेषु च॥३०॥
प्रत्याहरन्ति नगरसमीपे प्रेतमांसास्थ्यादीनि आनयन्ति । प्रतिकूलं भषन्ति वा ॥३०॥
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः
।
भरतानामभावाय राजन्दुर्मन्त्रिते तव॥३१॥
वैशम्पायन उवाच।
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते
।
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः॥३२॥
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः
।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह॥३३॥
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः
।
दुर्योधनापराधेन भीमार्जुनबलेन च॥३४॥
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत
।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः॥३५॥
ब्राह्मीं श्रियम् अणिमाद्यैश्चर्यं सर्वेषु लोकेषु कामचारम् ॥३५॥
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः
।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्॥३६॥
द्वीपम् आश्रयम् ॥३६॥
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्
।
दुःशासनं च कर्णं च सर्वानेव च भारतान्॥३७॥
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः
।
अहं वै शरणं प्राप्तान्वर्तमानो यथाबलम्॥३८॥
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्
।
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम्॥३९॥
सराजकान् राजसमूहसहितान् ॥३९॥
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः
।
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः॥४०॥
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः
।
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः॥४१॥
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे
।
पुत्रार्थमयजद्राजा वधाय मम भारत॥४२॥
याजोपयाजतपसा पुत्रं लेभे स पावकात्
।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्॥४३॥
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः
।
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत्॥४४॥
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी
।
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान्॥४५॥
देवदत्तः देवैर्दत्तः साध्वसो भयं मूर्तिमत् ॥४५॥
गतो हि पक्षतां तेषां पार्षतः परवीरहा
।
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा॥४६॥
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम
।
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः॥४७॥
सङ्गमः सङ्ग्रामः । सृष्टप्राणः प्राणत्यागेनापीत्यर्थः । परमम् अनन्तम् ॥४७॥
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः
।
मद्वधाय श्रुतोऽप्येष लोके चाप्यतिविश्रुतः॥४८॥
सोऽयं नूनमनुप्राप्तस्त्वत्कृते काल उत्तमः
।
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्॥४९॥
नैतदेतावता कृतम् एतत् श्रेयः कल्याणं न एतावता पाण्डवनिर्वासनमात्रेण कृतं भवति ॥४९॥
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी
।
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च॥५०॥
हैमनी हेमन्तसंबन्धिनी ॥५०॥
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्
।
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्॥५१॥
वैशसं नाशम् ॥५१॥
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्
।
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः॥५२॥
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः॥५३॥
॥ इति श्रीमहाभारते सभापर्वणि अनुद्यतपर्वणि विदुरधृतराष्ट्रद्रोणवाक्ये अशीतितमोऽध्यायः॥८०॥
वैशम्पायन उवाच।
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्॥१॥
वनं गतेष्विति ॥१॥
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
।
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः॥२॥
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप
।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि॥३॥
धृतराष्ट्र उवाच।
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति
।
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः॥४॥
युद्धशौण्डेः युद्धे दक्षैः ॥४॥
सञ्जय उवाच।
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम्
।
विनाशो येन लोकस्य सानुबन्धो भविष्यति॥५॥
वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च
।
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्॥६॥
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्॥७॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीतानि पश्यति॥८॥
अवाचीनानि विपरीतानि ॥८॥
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते
।
अनयो नयसङ्काशो हृदयान्नापसर्पति॥९॥
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥१०॥
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
।
कालस्य बलमेतावद्विपरीतार्थदर्शनम्॥११॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम्
।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्॥१२॥
अयोनिजां रूपवतीं कुले जातां विभावसोः
।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्॥१३॥
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम्
।
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता॥१४॥
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत
।
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः॥१५॥
विहीनान्सर्वकामेभ्यो दासभावमुपागतान्
।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे॥१६॥
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि
।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्॥१७॥
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे
।
धृतराष्ट्र उवाच।
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी॥१८॥
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय
।
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः॥१९॥
शेषं हतावशेषं कतिपयानामेकस्य वा जीवनं भविष्यतीत्यर्थः ॥१९॥
प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्
।
धर्मिष्ठां धर्मपत्नीं च रूपयौवनशालिनीम्॥२०॥
प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः
।
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः॥२१॥
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे
।
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्॥२२॥
निष्ठानकः प्रलयदुन्दुभिश्चण्डवात इत्यर्थः । निष्टानक इति पाठेऽपि स एवार्थः निर्घातः वज्रशब्दः ॥२२॥
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्
।
अपर्वणि महाघोरं प्रजानां जयन्भयम्॥२३॥
तथैव रथशालासु प्रादुरासीद्धुताशनः
।
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये॥२४॥
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः
।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः॥२५॥
शिवाः शृगालाः ॥२५॥
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय
।
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः॥२६॥
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः
।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति॥२७॥
अवृणोत्तत्र पाञ्चाली पाण्डवानामदासताम्
।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्॥२८॥
अनुज्ञासिषम् अनुज्ञातवान् । अडभाव आर्षः पाठान्तरे तु सुगमम् ॥२८॥
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्
।
एतदन्तास्तु भरता यद्वः कृष्णा सभां गता॥२९॥
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा
।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति॥३०॥
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः
।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः॥३१॥
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः
।
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः॥३२॥
तेषां मध्ये महेष्वासो भीमसेनो महाबलः
।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः॥३३॥
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः
।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥३४॥
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः
।
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान्॥३५॥
तथा हि बलवान्राजा जरासन्धो महाद्युतिः
।
बाहुप्रहरणेनैव भीमेन निहतो युधि॥३६॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया॥३७॥
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि
।
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः॥३८॥
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा॥३९॥
॥ इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि धृतराष्ट्रसञ्जयसंवादे एकाशीतितमोऽध्यायः॥८१॥