सञ्जय उवाच।
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः
।
उपास्तमनवेलायां शिबिराभ्याशमागताः॥१॥
पूर्वस्मिन्पर्वणि अर्यार्थी कुटुम्बनाशमनु स्वयमपि नश्यतीत्युक्तम्। इदानीं परधर्मानुगो ब्राह्मणः तद्धर्मेष्वपि निन्द्यतमं कर्म करोतीत्युच्यते ततस्ते सहिता वीरा इत्यादिना सौप्तिकपर्वणि। ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं तेऽश्वत्थामकृपाचार्यकृतवर्माणः शिबिराभ्याशं शिबिरनिकटस्थं देशम् आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना॥१॥
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा
।
गहनं देशमासाद्य प्रच्छन्नान्यविशन्त ते॥२॥
सेनानिवेशमभितो नातिदूरमवस्थिताः
।
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः॥३॥
दीर्घमुष्णं च निःश्वस्य पाण्डवानेव चिन्तयन्
।
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्॥४॥
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः
।
ते मुहूर्त्तात्ततो गत्वा श्रान्तवाहाः पिपासिताः॥५॥
अनुसारः पृष्ठगमनम्। प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते॥५॥
नामृष्यन्त महेष्वासाः क्रोधामर्षवशंगताः
।
राज्ञो वधेन सन्तप्ता मुहूर्त्तं समवस्थिताः॥६॥
नामृष्यन्त पिपासामपि न परामृष्टवन्तः राज्ञो दुर्योधनस्य॥६॥
धृतराष्ट्र उवाच।
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय
।
यत्स नागायुतप्राणः पुत्रो मम निपातितः॥७॥
अवध्यः सर्वभूतानां वज्रसंहननो युवा
।
पाण्डवैः समरे पुत्रो निहतो मम सञ्जय॥८॥
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
।
यत्समेत्य रणे पार्थः पुत्रो मम निपातितः॥९॥
अद्रिसारमयं नूनं हृदयं मम सञ्जय
।
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा॥१०॥
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
।
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे॥११॥
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय
।
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्॥१२॥
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्द्धनि सञ्जय
।
येन पुत्रशतं पूर्णमेकेन निहतं मम॥१३॥
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः
।
अकुर्वता वचस्तेन मम पुत्रेण सञ्जय॥१४॥
कथमस्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्
।
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय॥१५॥
अधर्मेण हते तात पुत्रे दुर्योधने मम
।
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय॥१६॥
सञ्जय उवाच।
गत्वा तु तावका राजन्नातिदूरमवस्थिताः
।
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्॥१७॥
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः
।
सूर्यास्तमनवेलायां समासेदुर्महद्वनम्॥१८॥
नानामृगगणैर्जुष्टं नानापक्षिगणावृतम्
।
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्॥१९॥
नानातोयैः समाकीर्णं नानापुष्पोपशोभितम्
।
पद्मिनीशतसञ्च्छन्नं नीलोत्पलसमायुतम्॥२०॥
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः
।
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः॥२१॥
उपेत्य तु तदा राजन् न्यग्रोधं ते महारथाः
।
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्॥२२॥
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः
।
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो॥२३॥
अन्वासत उपासितवन्तः॥२३॥
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे
।
सर्वस्य जगतो धात्री शर्वरी समपद्यत॥२४॥
ग्रहनक्षत्रताराभिः सम्पूर्णाभिरलङ्कृतम्
।
नभोंशुकमिवाभाति प्रेक्षणीयं समन्ततः॥२५॥
अलङ्कृतं रजतबिन्दुचित्रितम् अंशुकं वस्रम्॥२५॥
इच्छया ते प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः
।
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः॥२६॥
रात्रिञ्चराणां सत्वानां निर्घोषोऽभूत्सुदारुणः
।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी॥२७॥
तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः
।
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्॥२८॥
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः
।
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्॥२९॥
निद्रया च परीताङ्गा निषेदुर्धरणीतले
।
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः॥३०॥
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ
।
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले॥३१॥
तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ
।
महार्हशयनोपेतौ भूमावेव ह्यनाथवत्॥३२॥
शयनोपेतौ प्रागिति शेषः॥३२॥
क्रोधामर्षशतं प्राप्तो द्रोणपुत्रस्तु भारत
।
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्॥३३॥
न लेभे स तु निद्रां वै दह्यमानो हि मन्युना
।
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम्॥३४॥
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम्
।
अपश्यत महाबाहुर्न्यग्रोधं वायसैर्युतम्॥३५॥
तत्र काकसहस्राणि तां निशां पर्यणामयन्
।
सुखं स्वपन्ति कौरव्य पृथक्पृथगुपाश्रयाः॥३६॥
पर्यणामयन् परिणीतवन्त आसन्॥३६॥
सुप्तेषु तेषु काकेषु विश्रब्धेषु समन्ततः
।
सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम्॥३७॥
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्
।
सुदीर्घघोणानखरं सुपर्णमिव वेगितम्॥३८॥
हर्यक्षं हरिन्मणिनिभलोचनम्। घोणा नासा नखरस्तीक्ष्णनखः॥३८॥
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
।
न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत॥३९॥
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः
।
सुताञ्जघान सुबहून्वायसान्वायसान्तकः॥४०॥
केषाञ्चिदच्छिनत्पक्षान् शिरांसि च चकर्त ह
।
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः॥४१॥
क्षणेनाहनद्बलवान्येऽस्य दृष्टिपथे स्थिताः
।
तेषां शरीरावयवैः शरीरैश्च विशाम्पते॥४२॥
न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत्
।
तांस्तु हत्वा ततः काकान् कौशिको मुदितोऽभवत्॥४३॥
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः
।
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि॥४४॥
सोपधं सकपटम्॥४४॥
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत्
।
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे॥४५॥
तद्भावे कपटभावे उपदेश इति। दुर्जनाचरितं मार्गं प्रमाणं कुर्वते खलाः। विश्वस्तान्हिसितुं द्रौणिरुलूकमरोद्गुरुम्॥४५॥
शत्रूणां क्षपणे युक्तः प्राप्तः कालश्च मे मतः
।
नाद्य शक्या मया हन्तुं पाण्डवाजितकाशिनः॥४६॥
बलवन्तः कृतोत्साहाः प्राप्तलक्षाः प्रहारिणः
।
राज्ञः सकाशात्तेषां तु प्रतिज्ञातो वधो मया॥४७॥
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्
।
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः॥४८॥
छद्मना च भवेत्सिद्धिः शत्रूणां च क्षयो महान्
।
ततः संशयितादर्थाद्योऽर्थो निःसंशयो भवेत्॥४९॥
तं जना बहु मन्यन्ते ये च शास्त्रविशारदाः
।
यच्चाप्यत्र भवेद्वाक्यं गर्हितं लोकनिन्दितम्॥५०॥
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता
।
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे॥५१॥
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः
।
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मचिन्तकैः॥५२॥
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः
।
परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः॥५३॥
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्
।
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्॥५४॥
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्
।
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे॥५५॥
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्
।
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः॥५६॥
सुप्तौ प्राबोधयतौ तु मातुलं भोजमेव च
।
तो प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ॥५७॥
नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृत्तौ
।
स मुहूर्तमिव ध्यात्वा वाष्पविह्वलमब्रवीत्॥५८॥
हतो दुर्योधनो राजा एकवीरो महाबलः
।
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह॥५९॥
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः
।
पातितो भीमसेनेन एकादशचमूपतिः॥६०॥
वृकोदरेण क्षुद्रेण सुनुशंसमिदं कृतम्
।
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता॥६१॥
विनर्दन्ति च पञ्चालाः क्ष्वेलन्ति च हसन्ति च
।
धमन्ति शङ्खान् शतशो हृष्टा घ्नन्ति च दुन्दुभीन्॥६२॥
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः
।
अनिलेनेरितो घोरो दिशः पूरयतीव ह॥६३॥
अश्वानां हेषमाणानां गजानां चैव बृंहताम्
।
सिंहनादश्च शूराणां श्रूयते सुमहानयम्॥६४॥
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम्
।
रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः॥६५॥
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्
।
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे॥६६॥
केचिन्नागशतप्राणाः केचित्सर्वास्त्र कोविदाः
।
निहताः पाण्डवेयैस्ते मन्ये कालस्य पर्ययम्॥६७॥
एवमेतेन भाव्यं हि नूनं कार्येण तत्वतः
।
यथा ह्यस्येदृशी निष्ठा कृतकार्येऽपि दुष्करे॥६८॥
भवतोऽस्तु यदि प्रज्ञा न मोहादपनीयते
।
व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥६९॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिमन्त्रणायां प्रथमोऽध्यायः॥१॥
कृप उवाच।
श्रुतं ते वचनं सर्वं यद्यदुक्तं त्वया विभो
।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज॥१॥
श्रुतं त इति॥१॥
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः
।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते॥२॥
दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः। तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति॥२॥
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम
।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः॥३॥
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः
।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः॥४॥
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्
।
कुष्टे क्षेत्रे तथा वर्षन्किन्न साधयते फलम्॥५॥
वर्षन् किं फलं न साधयतेऽपि तु साधयत्येव। कृषिं विनापि वनेचराः केवलं पर्जन्येन जीवन्ति न तु कृषीवलाः केवलया कृष्या जीवन्ति। एवं पुरुषकारो दैवमपेक्षते दैवं तु नातीव पुरुषकारापेक्षमिति भावः॥५॥
उत्थानं चापि देवस्य ह्यनुत्थानं च दैवतम्
।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः॥६॥
एतदेवाह उत्थानमिति। दैवस्य प्रधानस्य उत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानम् उत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्व एव पक्षः श्रेयानित्यर्थः ॥६॥
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते
।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी॥७॥
द्वयोरानुकूल्यं श्रेष्ठतरमित्याह सृवृष्ट इति॥७॥
तयोर्दैवं विनिश्चित्य स्वयं चैव प्रवर्तते
।
प्राज्ञाः पुरुषकारेतु वर्तन्ते दाक्ष्यमाश्रिताः॥८॥
दैवं बलवदिति शेषः यतः स्वयमपि पुरुषकारं विनापि प्रवर्तते फलं दातुमिति शेषः। तर्हि किं पुरुषकारेणेत्याशङ्क्याह प्राज्ञा इति। पुरुषापराधनिवृत्तिमात्रं तत्फलमित्यर्थः॥८॥
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च॥९॥
विचेष्टन्तः प्रवृत्ताः दृश्यन्ते लोकदृष्ट्येत्यर्थः॥९॥
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति
।
तथाऽस्य कर्मणः कर्त्तुरभिनिर्वर्त्तते फलम्॥१०॥
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्
।
अफलं दृश्यते लोके सम्यगप्युपपादितम्॥११॥
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः
।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते॥१२॥
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि
।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्॥१३॥
कर्म अकृत्वा दुःखं पश्येदित्यपि प्रायशोऽस्ति॥१३॥
चेष्टामकुर्वन् लभते यदि किञ्चिद्यदृच्छया
।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि॥१४॥
दुर्दर्शौ दुर्लभौ चेष्टावान् लभते निश्चेष्टो न लभत इत्युत्सर्गमात्रमित्यर्थः॥१४॥
शक्नोति जीवितुं दक्षो नालसः सुखमेधते
।
दृश्यन्ते जीवलोकेऽस्मिन् दक्षाः प्रायो हितैषिणः॥१५॥
यदि दक्षः समारम्भात् कर्मणो नाश्रुते फलम्
।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति॥१६॥
यदिति। दक्षो निन्द्यतां न यातीति भावः॥१६॥
अकृत्वा कर्म यो लोकं फलं विन्दन्ति धिष्ठितः
।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः॥१७॥
अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इत्याह कृत्वेति॥१७॥
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा
।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः॥१८॥
एतत् दैवदाक्ष्ययोः साहित्यम् अन्यथा तयोरन्यतरालम्बनेन॥१८॥
हीनं पुरुषकारेण यदि दैवेन वा पुनः
।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्॥१९॥
एतदेव स्पष्टयति हीनमिति। पुरुषकारेण हीनं दैवोत्थानमफलमेवं दैवहीनं पुरुषकारस्योत्थानमपि तस्मात् द्वाभ्यामप्युत्थातव्यमित्यर्थः॥१९॥
हीनं पुरुषकारेण कर्म त्विह न सिद्ध्यति
।
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते॥२०॥
कर्म दैवम्। फलितमाह दैवतेभ्य इति॥२०॥
दक्षो दाक्षिण्यसम्पन्नो न समोघैर्विहन्यते
।
सम्यगीहा पुनरियं यो वृद्धानुपसेवते॥२१॥
ईहां विवृणोति सम्यगिति॥२१॥
आपृच्छति च यच्छ्रेयः करोति च हितं वचः
।
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः॥२२॥
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते
।
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्॥२३॥
योगे अलब्धलाभे॥२३॥
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्
।
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहति मानवः॥२४॥
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः
।
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना॥२५॥
अनीशः अजितचित्तः अवमानी परमवजानन्॥२५॥
असमर्थः समारब्धो मूढत्वादविचिन्तितः
।
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह॥२६॥
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः
।
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति॥२७॥
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः
।
अनुवर्त्तामहे यत्तु तं वयं पापपूरुषम्॥२८॥
तपति सन्तापं प्राप्नोति भीमेन भग्नोरुः सन्॥२८॥
अस्मानप्यनयस्तस्मात्प्राप्तोयं दारुणो महान्
।
अनेन तु ममाद्यापि व्यसनेनोपतापिता॥२९॥
बुध्दिश्चिन्तयते किञ्चित् स्वं श्रेयो नावबुद्ध्यते
।
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः॥३०॥
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति
।
ततोस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः॥३१॥
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्
।
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह॥३२॥
उपपृच्छामहे गत्वा विदुरं च महामतिम्
।
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्॥३३॥
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः
।
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्॥३४॥
कृते पुरुषकारे तु येषां कार्यं न सिद्ध्यति
।
दैवेनापहतास्ते तु नात्र कार्या विचारणा॥३५॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिकृपसंवादे द्वितीयोऽध्यायः॥२॥
सञ्जय उवाच।
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्
।
अश्वत्थामा महाराज दुःखशोकसमन्वितः॥१॥
कृपस्येति॥१॥
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा
।
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत॥२॥
पुरुषे पुरुषे बुद्धिर्या या भवति शोभना
।
तुष्यन्ति च पृथक् सर्वे प्रज्ञया ते स्वया स्वया॥३॥
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्
।
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति॥४॥
सर्वात्मानमित्यत्र सर्वः आत्मानमिति च्छेदः। सन्धिरार्षः॥४॥
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता
।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्॥५॥
कारणान्तरयोगेन योगे येषां समागतिः
।
अन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत्॥६॥
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा
।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते॥७॥
योगे समुदाये॥७॥
विचित्रत्वात्तु चित्तानां मनुष्याणां विशेषतः
।
चित्तवैक्लव्यमासाद्य सा सा बुद्धिः प्रजायते॥८॥
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि
।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो॥९॥
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः
।
प्रज्ञया हि स्वया युक्तास्तां च निदन्ति मानवाः॥१०॥
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः
।
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्॥११॥
व्यसनं वा महाघोरं समृद्धिं चापि तादृशीम्
।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्॥१२॥
हे भोज हे कृतवर्मन् एकमेव सम्बोधयन् कृपस्य मनसि अनादरं सूचयति॥१२॥
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा
।
भवत्यकृतधर्मत्वात्सा तस्यैव न रोचते॥१३॥
अकृतधर्मत्वात् अवसरानुरोधात् इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः॥१३॥
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति
।
तया प्रकुरुते भावं सा तस्योद्योगकारिका॥१४॥
सर्वो हि पुरुषो भोज साध्वेतादति निश्चितः
।
कर्तुमारभते प्रीतो मरणादिषु कर्मसु॥१५॥
सर्वे हि बुद्धिमाज्ञाय प्रज्ञां वापि स्वकां नराः
।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते॥१६॥
उपजाता व्यसनजा येयमद्य मतिर्मम
।
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम्॥१७॥
प्रजापतिः प्रजाः सृष्ट्वा कर्मतासु विधाय च
।
वर्णे वर्णे समाधत्ते ह्येकैकं गुणभाग्गुणम्॥१८॥
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्
।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्॥१९॥
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः
।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्॥२०॥
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते
।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः॥२१॥
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यमाश्रितः
।
प्रकुर्यां सुमहत्कर्म न मे तत्साधुसम्मतम्॥२२॥
विदित्वा आश्रित्य यदि ब्राह्मण्यं संश्रितः सन् शमादिरूपं सुमहत्कर्म प्रकुर्यां तन्मे साधु सम्मतं न अवलम्बितस्य च क्षत्रधर्मनिर्वाहोऽवश्यं कर्तव्य इत्यर्थः॥२२॥
धारयंश्च धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे
।
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि॥२३॥
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्यतम्
।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः॥२४॥
गन्तास्मि गमिष्यामि पदवीमानृण्यम्॥२४॥
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः॥२५॥
जयं मत्वाऽऽत्मनश्चैव श्रान्ता व्यायामकर्षिताः
।
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके॥२६॥
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्
।
तानवस्कन्द्य शिबिरे प्रेतभूतविचेतसः॥२७॥
सूदयिष्यामि विक्रम्य मघवानिव दानवान्
।
अद्य तान्सहितान्सर्वान् धृष्टद्युम्नपुरोगमान्॥२८॥
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
।
निहत्य चैव पाञ्चालान् शान्तिं लब्धाऽस्मि सत्तम॥२९॥
पाञ्चालेषु भविष्यामि सूदयन्नद्य संयुगे
।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव॥३०॥
अद्याहं सर्वपाञ्चालान्निहत्य च निकृष्य च
।
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा॥३१॥
अद्याहं सर्वपञ्चालैः कृत्वा भूमिं शरीरिणीम्
।
प्रहृत्यैकैकशस्तेषु भविष्याम्यनृणः पितुः॥३२॥
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि
।
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम्॥३३॥
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
।
न चिरात्प्रमथिष्यामि पशोरिव शिरोबलात्॥३४॥
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि
।
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम॥३५॥
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके
।
कृतकृत्यः सुखी चैव भविष्यामि महामते॥३६॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिमन्त्रणायां तृतीयोऽध्यायः॥३॥
कृप उवाच।
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत
।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम्॥१॥
दिष्ट्येति॥१॥
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ
।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः॥२॥
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः
।
परानभिमुखं यान्तं रथावास्थाय दंशितौ॥३॥
आवाभ्यां सहितः शत्रून् श्वो निहन्ता समागमे
।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्॥४॥
निहन्ता निहनिष्यसि॥४॥
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्
।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्॥५॥
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद
।
समेत्य समरे शत्रून्वधिष्यसि न संशयः॥६॥
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम्
।
जेतुमुत्सहते शश्वदपि देवेषु वासवः॥७॥
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा
।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्॥८॥
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः
।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्॥९॥
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः
।
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः॥१०॥
ते वयं सहितास्तात सर्वान् शत्रून्समागतान्
।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्॥११॥
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्
।
अहं च कृतवर्मा च त्वां प्रयान्तं नरोत्तमम्॥१२॥
अनुयास्याव सहितौ धन्विनौ परतापनौ
।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ॥१३॥
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे
।
ततः कर्त्तासि शत्रूणां युद्ध्यतां कदनं महत्॥१४॥
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि
।
विहरस्व यथा शक्रः सूदयित्वा महासुरान्॥१५॥
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्
।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः॥१६॥
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा
।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्॥१७॥
न चाहं समरे तात कृतवर्मा न चैव हि
।
अनिर्जित्य रणे पाण्डून्न च यास्यामि कर्हिचित्॥१८॥
हत्वा च समरे क्रुद्धान् पञ्चालान् पाण्डुभिः सह
।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्॥१९॥
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे
।
सत्यमेतन्महाबाहो प्रब्रवीमितवानघ॥२०॥
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः
।
अब्रवीन्मातुलं राजन् क्रोधसंरक्तलोचनः॥२१॥
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च
।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः
।
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्॥२२॥
पश्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्
।
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्॥२३॥
चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः मे मम स्वप्नम् अह्नाय झटिति नाशयेत् तस्मात् स्वपेत्युक्तं तन्न युज्यते अनुस्मरन् अनुस्मरतः न शाम्यति अमर्ष इत्यर्थः। सार्धः श्लोकः॥२३॥
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति
।
यथा च निहतः पापैः पिता मम विशेषतः॥२४॥
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति
।
कथं हि मादृशो लोके मुहूर्तमपि जीवति॥२५॥
द्रोणो हतेति यद्वाचः पञ्चालानां शृणोम्यहं
।
धृष्टद्युम्नमहत्त्वा तु नाहं जीवितुमुत्सहे॥२६॥
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः
।
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः॥२७॥
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्
।
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्॥२८॥
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः
।
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः॥२९॥
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्
।
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्॥३०॥
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्
।
अविषह्यतिमान्मन्ये महेन्द्रेणापि सत्तम॥३१॥
न चापि शक्तः संयन्तुं कोपमेतं समुत्थितम्
।
तं न पश्यामि लोकेऽस्मिन् यो मां कोपान्निवर्तयेत्॥३२॥
तथैव निश्चिता बुद्धिरेषा साधुमता मम
।
वार्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः॥३३॥
पाण्डवानां च विजयो हृदयं दहतीव मे
।
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके
।
ततो विश्रमिता चैव स्वप्ता व विगतज्वरः॥३४॥
स्वप्ता स्वप्स्यामि॥३४॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिमन्त्रणायां चतुर्थोऽध्यायः॥४॥
कृप उवाच।
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः
।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः॥१॥
शुश्रूषुरिति। दुर्मेधाः मूढः अनियतेति छेदः॥१॥
तथैव तावन्मेधावी विनयं यो न शिक्षते
।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्वयम्॥२॥
चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य हि
।
न स धर्मान्विजानाति दर्वी सुपरसानिव॥३॥
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि
।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव॥४॥
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः
।
जानीयादागमान्सर्वान् ग्राह्यं च न विरोधयेत्॥५॥
अनेयस्त्वमानी यो दुरात्मा पापपूरुषः
।
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्॥६॥
अनेयः सन्मार्गं नेतुमशक्यः दिष्टम् उपदिष्टम्॥६॥
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्
।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते॥७॥
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते
।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति॥८॥
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम्
।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनः पुनः॥९॥
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना
।
कुरु मे वचनं तात येन पश्चान्न तप्यसे॥१०॥
न वधः पूज्यते लोके सुप्तानामिह धर्मतः
।
तथैवापास्तशस्त्राणां विमुक्तरथवाजिनाम्॥११॥
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः
।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः॥१२॥
अद्य स्वप्स्यन्ति पञ्चाला विमुक्तकवचा विभो
।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः॥१३॥
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः
।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे॥१४॥
अप्लवे इति छेदः॥१४॥
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः
।
न च ते जातु लोकेऽस्मिन् सुसूक्ष्ममपि किल्विषम्॥१५॥
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ
।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्॥१६॥
असम्भावित रूपं हि त्वयि कर्म विगर्हितम्
।
शुक्ले रक्तमिवन्यस्तं भवेदिति मतिर्मम॥१७॥
अश्वत्थामोवाच।
एवमेव यथाऽऽत्थ त्वं मातुलेह न संशयः
।
तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः॥१८॥
विदलीकृतः दलितः॥१८॥
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ
।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥१९॥
प्रत्यक्षमिति। दुष्टो दौष्ट्येनैव जेतव्य इत्यर्थः॥१९॥
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः
।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना॥२०॥
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः
।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना॥२१॥
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे
।
कोशतां भूमिपालानां युयुधानेन पातितः॥२२॥
दुर्योधनश्च भीमेन समेत्य गदया रणे
।
पश्यतां भूमिपालानामधर्मेण निपातितः॥२३॥
अधर्मेण नाभेरधस्तात्प्रहारेण॥२३॥
एकाकी बहुभिस्तत्र परिवार्य महारथैः
।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः॥२४॥
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः
।
वार्तिकाणां कथयतां स मे मर्माणि कृन्तति॥२५॥
वार्तिकाणां वार्ताहराणाम्॥२५॥
एवं चाधार्मिकाः पापाः पञ्चाला भिन्नसेतवः
।
तानेवं भिन्नमर्यादान् किं भवान्न विगर्हति॥२६॥
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके
।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै॥२७॥
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्
।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्॥२८॥
न स जातः पुमाँल्लोके कञ्चिन्न स भविष्यति
।
यो मे व्यावर्त्तयेदेतां वधे तेषां कृतां मतिम्॥२९॥
सञ्जय उवाच।
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्
।
एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान्॥३०॥
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ
।
किमर्थं स्यन्दनो युक्तः किञ्च कार्यं चिकीर्षितम्॥३१॥
एकसार्थप्रयातौ स्वस्त्वया सह नरर्षभ
।
समदुःखसुखौ चापि नावां शङ्कितुमर्हसि॥३२॥
एकसार्थप्रयातौ स्वः एकसाहित्येन प्रयत्नवन्तौ स्वः अस्तेर्लेट उत्तमस्य द्विर्वचनम्॥३२॥
अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन्
।
ताभ्यां तथ्यं तथाऽऽचख्यौ यस्यात्मचिकीर्षितम्॥३३॥
हत्वा शतसहस्राणि योधानां निशितैः शरैः
।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥३४॥
तं तथैव हनिष्यामि न्यस्तधर्माणमद्यवै
।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा॥३५॥
कथं च निहतः पापः पाञ्चाल्यः पशुवन्मया
।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः॥३६॥
क्षिप्रं सन्नद्धकवचौ सखड्गावात्तकार्मुकौ
।
मामास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ॥३७॥
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्
।
तमन्वगात्कृपो राजन् कृतवर्मा च सात्वतः॥३८॥
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः
।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः॥३९॥
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो
।
द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ महारथः॥४०॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिगमने पञ्चमोऽध्यायः॥५॥
धृतराष्ट्र उवाच।
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ
।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे॥१॥
द्वादशे इति॥१॥
सञ्जय उवाच।
कृतवर्माणमामन्त्र्य कृपं च स महारथः
।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमागमत्॥२॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्
।
सोऽपश्यद्द्वारमाश्रित्य तिष्ठन्तं लोमहर्षणम्॥३॥
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्
।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्॥४॥
बाहुभिः स्वायतेः पीनैर्नानाप्रहरणोद्यतैः
।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्॥५॥
बद्धाः महासर्पाः अङ्गदरूपा येन तम् अग्निज्वालाव्याप्तमुखं क्रुद्धमित्यर्थः॥५॥
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम्
।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्॥६॥
नयनानां सहस्रैरित्यनेनालौकिकत्वं दर्शितम्॥६॥
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च
।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः॥७॥
तस्यास्य नासिकाभ्यां च श्रवणाभ्यां च सर्वशः
।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः॥८॥
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः
।
प्रादुरासन् हृषीकेशाः शतशोऽथ सहस्रशः॥९॥
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्
।
द्रौणिरव्यथितो दिव्यैरस्रवर्षैरवाकिरत्॥१०॥
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत्
।
उदधेरिव वार्योधान्पावको वडवामुखः॥११॥
अग्रसत्तांस्तथाभूतं द्रौणिना प्रहितान् शरान्
।
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान्॥१२॥
रथशक्तिं मुमोचासौ दीप्तामग्निशिखामिव
।
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत॥१३॥
रथशक्तिं चक्रम्॥१३॥
युग्मान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता
।
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम्॥१४॥
युग्मान्ते मिथुनराशेरन्ते अतिदीप्तम्॥१४॥
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्
।
ततः खड्गवरं धीमान् भूताय प्राहिणोत्तदा॥१५॥
स तदासाद्य भूतं वै बिलं नकुलवद्ययौ
।
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभाङ्गदाम्॥१६॥
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्
।
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः॥१७॥
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः
।
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः॥१८॥
अनाकाशं निरवकाशम्॥१८॥
अब्रवीदतिसन्तप्तः कृपवाक्यमनुस्मरन्
।
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः॥१९॥
स शोचत्यापदं प्राप्य यथाऽहमतिवर्त्यतौ
।
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति॥२०॥
अतिवर्त्य अतिक्रम्य तौ तयोः कृपकृतवर्मणोर्वाक्यमिति शेषः। शास्त्रदृष्टान् अवध्यत्वेन शास्त्रे ज्ञातान् समतीत्य शास्त्रमुल्लङ्घ्य॥२०॥
स पथः प्रच्युतो धर्मात्कुपथे प्रतिहन्यते
।
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा॥२१॥
हीनप्राणजडान्धेषु सुप्तभीतोत्थितेषु च
।
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत्॥२२॥
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा
।
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्॥२३॥
अमार्गेणैवमारभ्य घोरामापदमागतः
।
तां चापदं घोरतरां प्रवदन्ति मनीषिणः॥२४॥
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते
।
अशक्तश्चैव तत्कर्तुं कर्म शक्तिबलादिह॥२५॥
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते
।
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति॥२६॥
सपथः प्रच्युतो धर्माद्विपदं प्रतिपद्यते
।
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः॥२७॥
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते
।
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्॥२८॥
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन
।
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्॥२९॥
न चैतदभिजानामि चिन्तयन्नपि सर्वथा
।
ध्रुवं येयमधर्मं मे प्रवृत्ता कलुषामतिः॥३०॥
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते
।
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्॥३१॥
नान्यत्र दैवादुद्यन्तमिह शक्यं कथञ्चन
।
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्॥३२॥
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति
।
कपर्दिनं देवदेवमुमापतिमनामयम्॥३३॥
देवा अत्यगात् देवेभ्योऽधिकः॥३३॥
कपालमालिनं रुद्रं भगनेत्रहरं हरम्
।
स हि देवोत्यगाद्देवांस्तपसा विक्रमेण च
।
तस्माच्छरणमभ्येमि गिरिशं शूलपाणिनम्॥३४॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिचिन्तायां षष्ठोऽध्यायः॥६॥
सञ्जय उवाच।
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते
।
अवतीर्य रथोपस्थाद्देवेशं प्रणतः स्थितः॥१॥
एवमिति॥१॥
द्रौणिरुवाच।
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्
।
गिरिशं वरदं देवं भवभावनमीश्वरम्॥२॥
शितिकण्ठमजं शुक्रं दक्षक्रतुहरं हरम्
।
विश्वरूपं विरुपाक्षं बहुरूपमुमापतिम्॥३॥
श्मशानवासिनं दृप्तं महागणपतिं विभुम्
।
खट्वाङ्गधारिणं रुद्रं जटिलं ब्रह्मचारिणम्॥४॥
मनसा सुविशुद्धेन दुष्करेणाल्पचेतसा
।
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम्॥५॥
स्तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्
।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्॥६॥
शक्रं ब्रह्मसृजं ब्रह्म ब्रह्मचारिणमेव च
।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्॥७॥
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्
।
धनाध्यक्षं क्षितिमुखं गौरीहृदयवल्लभम्॥८॥
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्
।
तनुवाससमत्युग्रमुमाभूषणतत्परम्॥९॥
परं परेभ्यः परमं परं यस्मान्न विद्यते
।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्॥१०॥
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्
।
प्रपद्ये शरणं देवं परमेण समाधिना॥११॥
इमां चेदापदं घोरां तराम्यद्य सुदुष्कराम्
।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्॥१२॥
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः
।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः॥१३॥
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत
।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्॥१४॥
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः
।
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा॥१५॥
द्वीपशैलप्रतीकाशाः प्रादुरासन्महागणाः
।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः॥१६॥
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा
।
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च॥१७॥
प्लवमुखाः मण्डूकवक्त्राः॥१७॥
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः
।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत॥१८॥
दार्वाघाटः पक्षिविशेषः॥१८॥
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा
।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च॥१९॥
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा
।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च॥२०॥
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः
।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत॥२१॥
तथैवाशिरसो राजन् ऋक्षवक्त्राश्च भारत
।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च॥२२॥
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः
।
मेषवक्त्रास्तथैवान्ये तथा छागमुखानृप॥२३॥
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च
।
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः॥२४॥
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः
।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः॥२५॥
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः
।
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः॥२६॥
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः
।
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः॥२७॥
शतघ्नीवज्रहस्ताश्च तथा मुसलपाणयः
।
भुशुण्डीपाशहस्ताश्च दण्डहस्ताश्च भारत॥२८॥
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा
।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः॥२९॥
महापाशोद्यतकरास्तथा लगुडपाणयः
।
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः॥३०॥
महासर्पाङ्गदधराश्चित्राभरणधारिणः
।
रजोध्वजाः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः॥३१॥
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्त्रास्तथैव च
।
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्॥३२॥
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः
।
गायमानास्तथैवान्ये नृत्यमानास्तथा परे॥३३॥
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महारथाः
।
धावन्तो जवना मुण्डाः पवनोद्धूतमूर्धजाः॥३४॥
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः
।
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः॥३५॥
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः
।
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा॥३६॥
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः
।
पातारोऽसृग्वसौधानां मांसान्त्रकृतभोजनाः॥३७॥
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः
।
अतिह्रस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः॥३८॥
विकटाः काललम्बोष्ठा बृहच्छेफाण्डपिण्डिकाः
।
महार्हनानाविकटा मुण्डाश्च जटिलाः परे॥३९॥
बृहन्तः शेफाः मेढ्रानि अण्डाः वृषणाः पिण्डिकाः जानुनोरधः पश्चाद्भागश्च येषां ते बृहच्छेफाण्डपिण्डिकाः॥३९॥
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले
।
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्॥४०॥
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः
।
कामकारक नित्यं त्रैलोक्यस्येश्वरेश्वराः॥४१॥
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः
।
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्॥४२॥
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः
।
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः॥४३॥
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्
।
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा॥४४॥
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा
।
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च॥४५॥
चतुर्विधात्मकं सोमम्। अन्नरूपं लतारसरूपम्। अमृतरूपं चन्द्रमण्डलरूपं च क्रमादध्यात्माधियज्ञाधिदैवाधिलोकस्य देवतारूपा इत्यर्थः॥४५॥
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः
।
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः॥४६॥
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः
।
नानावादित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः॥४७॥
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः
।
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः॥४८॥
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः
।
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः॥४९॥
भीमोग्रपरिघालातशूलपट्टिशपाणयः
।
घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः॥५०॥
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्
।
तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः॥५१॥
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्
।
स्वयमेवात्मनात्मानमुपहारमुपाहरत्॥५२॥
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः
।
हविरात्मवतश्चात्मा तस्मिन् भारत कर्मणि॥५३॥
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्
।
उपहारं महामन्युरथात्मानमुपाहरत्॥५४॥
ततः सौम्येन सोमदैवत्येन मन्त्रेण ‘आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्। भवा वाजस्य सङ्गथे।’ इत्यनेन मन्त्रेण आत्मानं शरीरम् उपहारं हविष्यम् उपाहरत् उपसादितवान् मन्त्रार्थस्तु हे सोम त्वम् आप्यायस्व कथं ते त्वां प्रति विश्वतः सर्वात्मना वृष्ण्यं वृष्णेरीश्वरस्याविर्भावस्थानं शरीरं एतु प्रविशतु ततश्च तेन शरीरेणाप्यायितस्त्वं सङ्गथे सङ्ग्रामे वाजस्य वीर्यस्य दाता भव। कर्मणि षष्ठी वाजे भव प्रापय भूप्राप्तावित्यस्य रूपम्॥५४॥
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्
।
अभिष्ठुत्य महात्मानमित्युवाच कृताञ्जलिः॥५५॥
द्रौणिरुवाच।
इममात्मानमद्याहं जातमाङ्गिरसे कुले
।
स्वग्नौ जुहोमि भगवन् प्रतिगृह्णीष्व मां बलिम्॥५६॥
भवद्भक्त्या महादेव परमेण समाधिना
।
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः॥५७॥
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै
।
गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति॥५८॥
सर्वभूताश्रय विभो हविर्भूतमवस्थितम्
।
प्रतिगृहाण मां देव यद्यशक्याः परे मया॥५९॥
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम्
।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्॥६०॥
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्
।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव॥६१॥
सत्यशौचार्जवत्यागैस्तपसा नियमेन च
।
क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा॥६२॥
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा
।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते॥६३॥
कुर्वता तातसम्मानं त्वां च जिज्ञासता मया
।
पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः॥६४॥
कृतस्तस्यैव सम्मानः पाञ्चालान् रक्षता मया
।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्॥६५॥
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्
।
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम्॥६६॥
अथाविष्टो भगवता भूयो जज्वाल तेजसा
।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजस॥६७॥
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन्
।
अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम्॥६८॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि द्रौणिकृतशिवार्चने सप्तमोऽध्यायः॥७॥
धृतराष्ट्र उवाच।
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे
।
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्त्तताम्॥१॥
तथेति॥१॥
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ
।
असह्यमिति मन्वानौ न निवृत्तौ महारथौ॥२॥
कच्चिन्नोपलक्षितावित्यत्र काच्चिदित्यावर्तते॥२॥
कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान्
।
दुर्योधनस्य पदवीं गतौ परमिकां रणे॥३॥
पञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ
।
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय॥४॥
पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः॥४॥
सञ्जय उवाच।
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि
।
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम्॥५॥
अश्वत्थामा तु तौ दृष्ट्वा यज्ञवन्तौ महारथौ
।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्॥६॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
।
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः॥७॥
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्
।
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः॥८॥
वां युवां प्राप्येति शेषः॥८॥
तथा भवद्भ्यां कार्यं स्यादिति मे निश्चिता मतिः
।
इत्युक्त्वा प्राविशद्रौणिः पार्थानां शिबिरं महत्॥९॥
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः
।
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह॥१०॥
उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः॥१०॥
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्
।
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे॥११॥
प्रसुप्ताश्चैव विध्वस्ताः समेत्य परिधाविताः
।
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत॥१२॥
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्
।
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते॥१३॥
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते
।
तं शयानं महात्मानं विस्रब्धमकुतोभयम्॥१४॥
प्राबोधयत पादेन शयनस्थं महीपते
।
संयुध्य चरणस्पर्शादुत्थाय रणदुर्मदः॥१५॥
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्
।
तमुत्पतन्तं शयनादश्वत्थामा महाबलः॥१६॥
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले
।
सबलं तेन निष्पिष्टः साध्वसेन च भारत॥१७॥
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा
।
तमाक्रम्य पदा राजन् कण्ठे चोरसि चोभयोः॥१८॥
नदन्तं विस्फुरन्तं च पशुमारममारयत्
।
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्॥१९॥
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः
।
त्वत्कृते सुकृताँल्लोकान् गच्छेयं द्विपदां वर॥२०॥
एवमुक्त्वा तु वचनं विरराम परन्तपः
।
सुतः पञ्चालराजस्य आक्रान्तो बलिना भृशम्॥२१॥
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्
।
आचार्यघातिनां लोका न सन्ति कुलपांसन॥२२॥
तस्माच्छस्त्रेण निधनं न स्वमर्हसि दुर्मते
।
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्॥२३॥
मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठीलैः सुदारुणैः
।
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि॥२४॥
पादाष्ठीलैः पादग्रन्थिभिः पार्ष्णिघातैरित्यर्थः॥२४॥
अयुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः
।
ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्॥२५॥
भूतमेवाध्यवस्यन्तो न स्म प्रव्याहरन् भयात्
।
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्॥२६॥
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्
।
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः॥२७॥
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली
।
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे॥२८॥
सहितै रक्षिभिः सर्वैः प्राणदुर्योषितस्तदा
।
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः॥२९॥
व्याक्रोशन् क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत
।
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः॥३०॥
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्
।
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः॥३१॥
अब्रुवन् दीनकण्ठेन क्षिप्रमाद्रवतेति वै
।
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्॥३२॥
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति
।
ततस्ते योधमुख्याश्च सहसा पर्यवारयन्॥३३॥
स तानापततः सर्वान् रुद्रास्त्रेण व्यपोथयत्
।
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्॥३४॥
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके
।
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा॥३५॥
तथैव मारयामास विनर्दन्तमरिंदमम्
।
युधामन्युश्च सम्प्राप्तो मत्वा तं रक्षसा हतम्॥३६॥
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्
।
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत्॥३७॥
विस्फुरन्तं च पशुवत्तथैवैनममारयत्
।
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्॥३८॥
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्
।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे॥३९॥
भृशाशिताः भृशं सन्तर्पिताः दन्त्यपाठे अस गतिदीप्त्यादानेष्वित्यस्य वा रूपं भृशमुद्दीपिता इत्यर्थः॥३९॥
ततो निस्त्रिंशमादाय जघानान्यान् पृथक् पृथक्
।
भागशो विचरन्मार्गानसियुद्धविशारदः॥४०॥
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्
।
श्रान्तान् व्यस्तायुधान्सर्वान् क्षणेनैव व्यपोथयत्॥४१॥
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना
।
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः॥४२॥
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिशस्योद्यमेन च
।
आक्षेपणेन चैवासोस्त्रिधा रक्तोक्षितोऽभवत्॥४३॥
तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्छलद्भी रक्तबिन्दुभिरित्यर्थः। असेः शोणितार्द्रस्योद्यमनान्मुष्टिद्वारा लोहितधारा बाहुमूलमायाति यत्रासिः क्षिप्यते ततोऽपि स्थानात् रक्तबिन्दवः उच्छलन्ति तैस्त्रिभिः प्रकारैरेव रक्तोक्षितो न तु स्वदेहस्यान्येन प्रहारादित्यर्थः॥४३॥
तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः
।
अमानुष इवाकारो बभौ परमभीषणः॥४४॥
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः
।
निरीक्ष्यमाणा अन्योऽन्यं दृष्ट्वा दृष्ट्वा प्रविव्यथुः॥४५॥
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्षिणः
।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्॥४६॥
स घोररूपो व्यचरत्कालवच्छिबिरे ततः
।
अपश्यद् द्रौपदीपुत्रानवशिष्टांश्च सोमकान्॥४७॥
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः
।
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते॥४८॥
अवाकिरन् शरव्रातैर्भारद्वाजमभीतवत्
।
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः॥४९॥
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समादयन्
।
भारद्वाजः स तान् दृष्ट्वा शरवर्षाणि वर्षतः॥५०॥
ननाद बलवन्नादं जिघांसुस्तान्महारथान्
।
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्॥५१॥
अवरुह्य रथोपस्थात्वरमाणोऽभिदुद्रुवे
।
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे॥५२॥
खड्गं च विमलं दिव्यं जातरूपपरिष्कृतम्
।
द्रौपदेयानभिद्रुत्य खड्गेन व्यधमद्वली॥५३॥
ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे
।
कुक्षिदेशेऽवधीद्राजन् स हतो न्यपतद्भुवि॥५४॥
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्
।
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्॥५५॥
सुतसोमस्य सासिं तं बाहुं छित्वा नरर्षभ
।
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत्॥५६॥
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्
।
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्॥५७॥
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः
।
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः॥५८॥
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्
।
अभिद्रुत्य ययौ द्रौणिं सव्ये सफलके भृशम्॥५९॥
फलकेऽताडयदित्यन्वयः॥५९॥
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना
।
स हतो न्यपतद्भूमौ विमूढो विकृताननः॥६०॥
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महारथः
।
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्॥६१॥
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः
।
सकुण्डलं शिरः कायात् भ्राजमानमुपाहरत॥६२॥
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः
।
अहनत्सर्वतो वीरं नानाप्रहरणैर्बली॥६३॥
शिलीमुखेन चान्येन भ्रुवोर्मध्ये समार्पयत्
।
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः॥६४॥
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना
।
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः॥६५॥
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्
।
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्॥६६॥
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि
।
चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः॥६७॥
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च
।
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः॥६८॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्
।
रक्ताम्बरधरामेकां पाशहस्तां कुटुम्बिनीम्॥६९॥
ददृशुः कालरात्रिं ते गायमानामवस्थिताम्
।
नराश्वकुञ्जरान्पाशैर्बद्ध्वाघोरैः प्रतस्थुषी॥७०॥
वहन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान्
।
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान्॥७१॥
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष
।
ददृशुर्योधमुख्यास्ते घ्रन्तं द्रौणिं च सर्वदा॥७२॥
यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः
।
ततः प्रभृति तां कन्यामपश्यन् द्रौणिमेव च॥७३॥
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत्
।
त्रासयन्सर्वभूतानि विनदन् भैरवान् रवान्॥७४॥
तदनुस्मृत्यतेवीरा दर्शनं पूर्वकालिकम्
।
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः॥७५॥
ततस्तेन निनादेन प्रत्यबुद्ध्यन्त धन्विनः
।
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः॥७६॥
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित्
।
कांश्चिद्विभेद पार्श्वेषु कालसृष्ट इवान्तकः॥७७॥
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः
।
गजाश्वमथितैश्चान्यैर्महीकीर्णाऽभवत्प्रभो॥७८॥
क्रोशतां किमिदं कोऽयं कः शब्दः किं नु किं कृतम्
।
एवं तेषां तथा द्रौणिरन्तकः समपद्यत॥७९॥
अपेतशस्त्रसन्नाहान्सन्नद्धान्पाण्डुसृञ्जयान्
।
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः॥८०॥
पाण्डुसृञ्जयान् पाण्डवसम्बन्धिनः सृञ्जयान् पाण्डोर्गोत्रापत्याः सृञ्जयाश्च तान्वा॥८०॥
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः
।
निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे॥८१॥
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः
।
विनदन्तो भृशं त्रस्ताः समासीदन्परस्परम्॥८२॥
ततो रथं पुनर्द्रौणिरास्थितो भीमनिःस्वनम्
।
धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम्॥८३॥
पुनरुत्पततश्चापि दूरादपि नरोत्तमान्
।
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत्॥८४॥
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति
।
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः॥८५॥
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा
।
तेन चाकाशवर्णेन तथाऽचरत सोऽसिना॥८६॥
तथा च शिबिरं तेषां द्रौणिराहवदुर्मदः
।
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः॥८७॥
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः
।
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः॥८८॥
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथा वदन्
।
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च॥८९॥
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन् परस्परम्
।
उत्पतन्तोऽपतन् श्रान्ताः केचित्तत्राभ्रमंस्तदा॥९०॥
पुरीषमसृजन् केचित्केचिन्मूत्रं प्रसुस्रुवुः
।
बन्धनानि च राजेन्द्र सञ्च्छिद्य तुरगा द्विपाः॥९१॥
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्
।
तत्र केचिन्नरा भीता व्यलीयन्त महीतले॥९२॥
तथैव तान्निपतितानपिंषन्गजवाजिनः
।
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ॥९३॥
हृष्टानि व्यनदन्नुच्चैर्मुदा भरतसत्तम
।
स शब्दः पूरितो राजन्भूतसङ्घैर्मुदायुतैः॥९४॥
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः
।
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः॥९५॥
मुक्ताः पर्यपतन् राजन्मृद्नन्तः शिबिरे जनम्
।
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः॥९६॥
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः
।
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः॥९७॥
नाजानन्पितरः पुत्रान् भ्रातॄन् भ्रातर एव च
।
गजो गजानतिक्रम्य निर्मनुष्या हया हयान्॥९८॥
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्नंश्च भारत
।
ते भग्नाः प्रपतन्ति स्म निघ्नन्तश्च परस्परम्॥९९॥
अभञ्जन् गात्राण्यनमयन् अमृद्रन् परस्परं मर्दितवन्तः॥९९॥
न्यपातयंस्तथा चान्यान् पातयित्वा तदाऽपिषन्
।
विचेतसः सनिद्राश्च तमसा चावृता नराः॥१००॥
अपिषन् अर्पिषन्॥१००॥
जघ्नुः स्वानेव तत्राथ कालेनैव प्रचोदिताः
।
त्यक्त्वा द्वाराणि च द्वास्थास्तथा गुल्मानि गौल्मिकाः॥१०१॥
प्राद्रवन्त यथाशक्ति कान्दिशीका विचेतसः
।
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तथा विभो॥१०२॥
कान्दिशीकाः भयद्रुताः॥१०२॥
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः
।
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्॥१०३॥
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः
।
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे॥१०४॥
तान्बुद्ध्वा रणमध्येऽसौ द्रोणपुत्रो न्यवारयत्
।
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः॥१०५॥
शिबिरानिष्पतन्ति स्म क्षत्रिया भयपीडिताः
।
तांस्तु निष्पतितांस्त्रस्तान् शिबिराज्जीवितैषिणः॥१०६॥
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः
।
विस्रस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्॥१०७॥
वेपमानान् क्षितौ भीतान् नैव कांश्चिदमुच्यताम्
।
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः॥१०८॥
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः
।
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्॥१०९॥
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्
।
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः॥११०॥
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्
।
कांश्चिदापततो वीरानपरांश्चैव धावतः॥१११॥
व्ययोजयत खड्गेन प्राणैर्द्विजवरोत्तमः
।
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान्॥११२॥
अपातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत्
।
निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः॥११३॥
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ
।
मानुषाणां सहस्रेषु हतेषु पतितेषु च॥११४॥
उदतिष्ठन्कबन्धानि बहुन्युत्थाय चापतन्
।
सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च॥११५॥
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत
।
पृष्ठच्छिन्नान्पार्श्वच्छिन्नान्शिरश्छिन्नांस्तथा परान्॥११६॥
स महात्माऽकरोद्दौणिः कांश्चिच्चापि पराङ्मुखान्
।
मध्यदेशे नरानन्यान्श्चिच्छेदान्यांश्च कर्णतः॥११७॥
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः
।
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान्॥११८॥
तमसा रजनी घोरा बभौ दारुणदर्शना
।
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः॥११९॥
बहुना च गजाश्वेन भूरभूद्भीमदर्शना
।
यक्षरक्षः समाकीर्णे रथाश्वद्विपदारुणे॥१२०॥
क्रुद्धेन द्रोणपुत्रेण सञ्च्छन्नाः प्रापतन् भुवि
।
भातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः॥१२१॥
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे
।
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः॥१२२॥
असान्निध्याद्धि पार्थानामिदं वः कदनं कृतम्
।
न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः॥१२३॥
शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः
।
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः॥१२४॥
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्
।
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः॥१२५॥
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः
।
इति लालप्यमानाः स्म शेरते बहवो जनाः॥१२६॥
स्तनतां च मनुष्याणामपरेषां च कूजताम्
।
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्॥१२७॥
शोणितव्यतिषक्तायां वसुधायां च भूमिप
।
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत॥१२८॥
स चेष्टमानानुद्विग्नानिरुत्साहान्सहस्रशः
।
न्यपातयन्नरान् क्रुद्धः पशून्पशुपतिर्यथा॥१२९॥
अन्योन्यं सम्परिष्वज्य शयानान्द्रवतो परान्
।
सल्लीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्॥१३०॥
दह्यमाना हुताशेन वध्यमानाश्च तेन ते
।
परस्परं तदा योधाननयद्यमसादनम्॥१३१॥
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्
।
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्॥१३२॥
निशाचराणां सत्वानां रात्रिः सा हर्षवर्द्धिनी
।
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्॥१३३॥
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः
।
खादन्तो नरमांसानि पिबन्तः शोणितानि च॥१३४॥
करालाः पिङ्गलाश्चैव शैलदन्ता रजस्वलाः
।
जटिला दीर्घशङ्खाश्च पञ्चपादा महोदराः॥१३५॥
पश्चादङ्गुलेया रूक्षा विरूपा भैरवस्वनाः
।
घण्टाजालावसक्ताश्च नीलकण्ठा विभीषणाः॥१३६॥
सपुत्रदाराः सक्रूराः सुदुर्दर्शाः सुनिर्घृणाः
।
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्॥१३७॥
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे
।
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्॥१३८॥
मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः
।
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः॥१३९॥
वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः
।
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः॥१४०॥
विकुक्षिकाः विपुलकुक्षयः॥१४०॥
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च
।
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम्॥१४१॥
मुदितानां वितृप्तानां तस्मिन्महति वैशसे
।
समेतानि बहून्यासन् भूतानि च जनाधिप॥१४२॥
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः
।
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः॥१४३॥
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो
।
दुर्गमां पदवीं गत्वा विरराज जनक्षये॥१४४॥
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः
।
यथाप्रतिज्ञं तत् कर्म कृत्वा द्रौणायनिः प्रभो॥१४५॥
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः
।
यथैव संसुप्तजने शिबिरे प्राविशन्निशि॥१४६॥
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः
।
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्॥१४७॥
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो
।
तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा॥१४८॥
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः
।
प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्॥१४९॥
एवंविधा हि सा रात्रिः सोमकानां जनक्षये
।
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा॥१५०॥
असंशयं हि कालस्य पर्यायो दुरतिक्रमः
।
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्॥१५१॥
धृतराष्ट्र उवाच।
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः
।
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः॥१५२॥
अथ कस्माद्धते क्षुद्रं कर्मेदं कृतवानसौ
।
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि॥१५३॥
सञ्जय उवाच।
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन
।
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः॥१५४॥
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्
।
को हि तेषां समक्षं तान् हन्यादपि मरुत्पतिः॥१५५॥
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो
।
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्॥१५६॥
दिष्ट्यादिष्ट्यैव चान्योन्यं समेत्योचुर्महारथाः
।
पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः॥१५७॥
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम्
।
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः॥१५८॥
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया
।
इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम्
।
यदि जीवति नो राजा तस्मै शंसामहे वयम्॥१५९॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि रात्रियुद्धे पाञ्चालादिवधेऽष्टमोऽध्यायः॥८॥
सञ्जय उवाच।
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः
।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः॥१॥
तेहत्वेति॥१॥
गत्वा चैनमपश्यन्त किश्चित्प्राणं जनाधिपम्
।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्॥२॥
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्
।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले॥३॥
वृतं समन्ताद्बहुभिः श्वापदैर्घौरदर्शनैः
।
शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्॥४॥
निवारयन्तं कृच्छ्रात्तान् श्वापदांश्च चिस्वादिषून्
।
विचेष्टमानं मह्यां च सुभृशं गाढवेदनम्॥५॥
चिखादिषून् भक्षयितुमिच्छून्॥५॥
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्
।
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्॥६॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
।
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः॥७॥
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः
।
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्॥८॥
अविषह्येन दुःखेन ततस्ते रुरुदुस्रयः
।
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि
।
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्॥९॥
कृप उवाच।
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः
।
एकादशचमूभर्त्ता शेते दुर्योधनो हतः॥१०॥
पश्य चामीकराभस्य चामीकरविभूषिताम्
।
गदां गदाप्रियस्येमां समीपे पतितां भुवि॥११॥
इयमेनं गदा शूरं न जहाति रणे रणे
।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्॥१२॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्
।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव॥१३॥
योऽयं मूर्धाभिषिक्तानामग्रे जातः परन्तपः
।
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम्॥१४॥
येनाजौ निहता भूमावशेरत हतद्विषः
।
स भूमौ निहतः शेते कुरुराजः परैरयम्॥१५॥
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः
।
स वीरशयने शेते क्रव्याद्भिः परिवारितः॥१६॥
उपासत द्विजाः पूर्वमर्थ हेतोर्यमीश्वरम्
।
उपासते च तं ह्यद्य क्रव्यादा मांसहेतवः॥१७॥
मांसहेतवः मांसार्थिनः॥१७॥
सञ्जय उवाच।
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तम
।
अश्वत्थामा समालोक्य करुणं पर्यदेवयत्॥१८॥
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्
।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च॥१९॥
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ
।
बलिनं कृतिनं नित्यं स च पापात्मवान्नृप॥२०॥
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः
।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे॥२१॥
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः
।
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः॥२२॥
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे
।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव॥२३॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
।
य उपेक्षितवान् क्षुद्रं धिक् कृष्णं धिग्युधिष्ठिरम्॥२४॥
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्
।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः॥२५॥
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः
।
दुर्योधनसमो नास्ति गदया इति वीर्यवान्॥२६॥
श्लाघते त्वां हि वार्ष्णेयो राजसंसत्सु भारत
।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो॥२७॥
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः
।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्॥२८॥
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ
।
हतपुत्रौ तु शोचामि गान्धारीं पितरं च ते॥२९॥
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
।
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्॥३०॥
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम्
।
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप॥३१॥
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः
।
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हृतः॥३२॥
प्रायशोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ
।
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा॥३३॥
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते
।
धिगस्तु कृतवर्माणं मां कृपं च महारथम्॥३४॥
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्
।
दातारं सर्वकामानां रक्षितारं प्रजाहितम्॥३५॥
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्
।
कृपस्य तव वीर्येण मम चैव पितुश्च मे॥३६॥
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च
।
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः॥३७॥
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः
।
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्॥३८॥
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्
।
वयमेव त्रयो राजन् गच्छन्तं परमां गतिम्॥३९॥
यद्वै त्वां नानुगच्छामस्तेन धक्ष्यामहे वयम्
।
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते॥४०॥
धक्ष्यामहे भस्मी भवेम॥४०॥
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै
।
दुःखं नूनं कुरुश्रेष्ठ चरिष्याम महीमिमाम्॥४१॥
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम्
।
गत्वैव तु महाराज समेत्य च महारथान्॥४२॥
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम
।
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्॥४३॥
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप
।
परिष्वजेथा राजानं बाल्हिकं सुमहारथम्॥४४॥
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च
।
तथा पूर्वगतानन्यान् स्वर्गे पार्थिवसत्तमान्॥४५॥
अस्मद्वाक्यात्परिष्वज्य संपृच्छेत्वमनामयम्॥४६॥
सञ्जय उवाच।
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतनम्
।
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत्॥४७॥
दुर्योधन जीवसि त्वं वाक्यं श्रोत्रसुखं शृणु
।
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम्॥४८॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा॥४९॥
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
।
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत॥५०॥
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः
।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्॥५१॥
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते
।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः॥५२॥
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्
।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्॥५३॥
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता
।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्॥५४॥
न मेऽकरोदिति ‘पापः कण्ठगतप्राणोऽप्यभिनन्दति पापिनम् द्रौणिं प्रसुप्तबालघ्नं पांसुमुक्कुरुराडिव’॥५४॥
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना
।
तेन मन्ये मघवता सममात्मानमद्य वै॥५५॥
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः
।
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः॥५६॥
प्राणानुपासृजद्वीरः सुहृदां दुःखमुत्सृजन्
।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्॥५७॥
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप
।
अग्रे यात्वा रणे शूरः पश्चाद्विनिहतः परैः॥५८॥
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्
।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्॥५९॥
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्
।
प्रत्यूषकाले शोकार्त्ताः प्राद्रवन्नगरं प्रति॥६०॥
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः
।
घोरो विशसनो रौद्रो राजन् दुर्मन्त्रिते तव॥६१॥
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ
।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै॥६२॥
वैशम्पायन उवाच।
इति श्रुत्वा स नृपतिः पुत्रस्य निधनं तदा
।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्॥६३॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि दुर्योधनप्राणत्यागे नवमोऽध्यायः॥९॥