सौप्तिकपर्व - १ऐषीकपर्व - २

ऐषीकपर्व

दशमोऽध्यायः

वैशम्पायन उवाच। तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः ।
शशंस धर्मराजाय सौप्तिके कदनं कृतम्॥१॥

जयेन हर्षतामनुपदमेव शोकभये प्रवर्त्तते इति दर्शयन्नैषीकमारभते तस्यामिति॥१॥

सूत उवाच। द्रौपदेया हता राजन् द्रुपदस्यात्मजैः सह ।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके॥२॥

कृतवर्मणा नृशंसेन गौतमेन कृपेण च ।
अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि॥३॥

एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः ।
सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम्॥४॥

छिद्यमानस्य महतो वनस्येव परश्वधैः ।
शुश्रुवे सुमहान्शब्दो बलस्य तव भारत॥५॥

अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महामते ।
मुक्तः कथञ्चिद्धर्मात्मन् व्यग्राच्च कृतवर्मणः॥६॥

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।
पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः॥७॥

पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ॥८॥

अतिक्रम्य धैर्यमर्यादां त्यक्त्वा पतन्तम्॥८॥

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।
जित्वा शत्रून् जितः पश्चात्पर्यदेवयदार्तवत्॥९॥

दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः ।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः॥१०॥

अन्ये शत्रवः जयमानाः जयन्तः जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः॥१०॥

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वान् जितावयम्॥११॥

अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः ।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः॥१२॥

यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः ।
कथं मन्येत विजयं ततो जिततरः परैः॥१३॥

येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः ।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः॥१४॥

कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे ।
चापव्यात्तस्य रौद्रस्य ज्वातलस्वननादिनः॥१५॥

क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः ।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः॥१६॥

व्यमुञ्चन्त मुक्ताः कर्णस्य कर्णात् प्रमादात् अस्मत्कृतात् असान्निध्यात्॥१६॥

रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनवाजियुक्तम् ।
शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम्॥१७॥

सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् ।
ये तेरुरुच्चावचशस्त्रनौभिस्ते राजपुत्रा निहताः प्रमादात्॥१८॥

न हि प्रमादात्परमस्ति कश्चिद्वधो नराणामिह जीवलोके ।
प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति॥१९॥

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं कोपमहासमीरम् ।
महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम्॥२०॥

तनुत्राणि नानाविधानि शस्त्राणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम्॥२०॥

महाचमूकक्षदवाभिपन्नं महाहवे भीष्ममयाग्निदाहम् ।
ये सेहुरात्तायुधतीक्ष्णवेगं ते राजपुत्रा निहताः प्रमादात्॥२१॥

भीष्ममयं भीष्मप्रधानमग्निदाहं भीष्मरूपेणाग्निना दाहमित्यर्थः ते सेहिरे सोढवन्तः॥२१॥

न हि प्रमत्तेन नरेण शक्यं विद्या तपः श्रीर्विपुलं यशो वा ।
पश्याप्रमादेन निहत्य शत्रून्सर्वान्महेन्द्रं सुखमेधमानम्॥२२॥

इन्द्रोपमान् पार्थिव पुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात् ।
तीर्त्वा समुद्रं वणिजः समृद्धा मग्नाः कुनद्यामिव हेलमानाः॥२३॥

अमर्षितैर्यो निहताः शयाना निःसंशयं ते त्रिदिवं प्रपन्नाः ।
कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवं साऽद्य विशत्यभीता॥२४॥

भातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम् ।
ध्रुवं विसंज्ञा पतिता पृथिव्यां सा शोष्यते शोककृशाङ्गयष्टिः॥२५॥

तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् ।
पुत्रक्षयभ्रातृवधप्रणुन्ना प्रदह्यमानेन हुताशनेन॥२६॥

इत्येवमार्त्तः परिदेवयन्स राजा कुरूणां नकुलं बभाषे ।
गच्छानयैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम्॥२७॥

माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः ।
ययौ रथेनालयमाशु देव्याः पञ्चालराजस्य च यत्र दाराः॥२८॥

प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः ।
रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम्॥२९॥

स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च ।
भूमौ शयानान् रुधिरार्द्रगात्रान्विभिन्नदेहान्प्रहृतोत्तमाङ्गान्॥३०॥

स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः ।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसंज्ञः॥३१॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि युधिष्ठिरशिबिरप्रवेशे दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः

वैशम्पायन उवाच। स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पौत्रान्सखींस्तथा ।
महादुःखपरीतात्मा बभूव जनमेजय॥१॥

स दृष्ट्वेति॥१॥

ततस्तस्य महान् शोकः प्रादुरासीन्महात्मनः ।
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह॥२॥

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् ।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा॥३॥

ततस्तस्मिन् क्षणे कल्पो रथेनादित्यवर्चसा ।
नकुलः कृष्णया सार्धमुपायात्परमार्तया॥४॥

उपप्लव्यं गता सा तु श्रुत्वा सुमहदप्रियम् ।
तदा विनाशं सर्वेषां पुत्राणां व्यथिताऽभवत्॥५॥

कम्पमानेव कदली वातेनाभिसमीरिता ।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि॥६॥

बभूव वदनं तस्याः सहसा शोककर्षितम् ।
फुल्लपद्मपलाशाक्ष्यास्तमोग्रस्त इवांशुमान्॥७॥

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः ।
बाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः॥८॥

सा समाश्वासिता तेन भीमसेनेन भामिनी ।
रुदती पाण्डवं कृष्णा सा हि भारतमब्रवीत्॥९॥

दिष्ट्या राजन्नवाप्येमामखिलां मोक्ष्यसे महीम् ।
आत्मजान् क्षत्रधर्मेण सम्प्रदाय यमाय वै॥१०॥

दिष्ट्येति पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यभिक्षेपः॥१०॥

दिष्ट्या त्वं कुशली पार्थ मत्तमातङ्गगामिनीम् ।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि॥११॥

आत्मजान् क्षत्रधर्मेण श्रुत्वा शूरानिपातितान् ।
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि॥१२॥

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा ।
शोकस्तपति मां पार्थं हुताशन इवाश्रयम्॥१३॥

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया रणे ।
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्॥१४॥

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः॥१५॥

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् ।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी॥१६॥

दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् ।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्॥१७॥

धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे ।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि॥१८॥

स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः ।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने॥१९॥

द्रौपद्युवाच द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः ।
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्॥२०॥

राजन्शिरसि ते कृत्वा जीवेयमिति मे मतिः ।
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना॥२१॥

भीमसेनमथागत्य परमं वाक्यमब्रवीत् ।
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्॥२२॥

जहि तं पापकर्माणं शम्बरं मघवानिव ।
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन॥२३॥

श्रुतं तत्सर्वलोकेषु परमव्यसने यथा ।
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते॥२४॥

हिडिम्बदर्शने चैव तथात्वमभवो गतिः ।
तथा विराटनगरे कीचकेन भृशार्दिताम्॥२५॥

मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ।
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा॥२६॥

तथा द्रौणिममित्रघ्नं विनिहत्य सुखी भव ।
तस्या बहुविधं दुःखं निशम्य परिदेवितम्॥२७॥

न चामर्षत कौन्तेयो भीमसेनो महाबलः ।
स काञ्चनविचित्राङ्गमारुरोह महारथम्॥२८॥

आदाय रुचिरं चित्रं समार्गणगुणं धनुः ।
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः॥२९॥

विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ।
ते हयाः पुरुषव्याघ्रचोदिता वातरंहसः॥३०॥

वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ।
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः॥३१॥

पदं गमनमार्गचिन्हं गृहीत्वाऽऽलक्ष्य॥३१॥
॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि द्रौणिवधार्थं भीमसेनगमने एकादशोऽध्यायः॥११॥
द्वादशोऽध्यायः

वैशम्पायन उवाच। तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥१॥

तस्मिन्निति॥१॥

एष पाण्डव ते भ्राता पुत्रशोकपरायणः ।
जिघांसुर्द्रोणिमाक्रन्दे एक एवाभिधावति॥२॥

आक्रन्दे सङ्ग्रामे॥२॥

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे॥३॥

यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः ।
अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि॥४॥

तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।
प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम्॥५॥

तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः ।
ततः प्रोवाच पुत्राय नातिहृष्टमना इव॥६॥

विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः ।
सर्वधर्मविदाचार्यः सोऽन्वशात्स्वसुतं ततः॥७॥

परमापद्गतेनापि न स्म तात त्वया रणे ।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः॥८॥

इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् ।
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ॥९॥

स्थाता स्थास्यसि॥९॥

स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् ।
निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम्॥१०॥

ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः॥११॥

स कदाचित्समुद्रान्ते वसन् द्वारवतीमनु ।
एक एकं समागम्य मामुवाच हसन्निव॥१२॥

यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः ।
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता॥१३॥

अस्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।
तदद्य मयि दाशार्ह यथा पितरि मे तथा॥१४॥

अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ।
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे॥१५॥

स राजन्प्रीयमाणेन मयाऽप्युक्तः कृताञ्जलिः ।
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ॥१६॥

देवदानवगन्धर्वमनुष्यपतगोरगाः ।
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः॥१७॥

इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददामि ते॥१८॥

यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि॥१९॥

मे मह्यं दातुमिच्छसि तेन विनाऽपि गृहाण त्वदीयेऽस्त्रे मम इच्छा नास्तीति भावः॥१९॥

स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।
वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह॥२०॥

गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना॥२१॥

न चैनमशकत्स्थानात्सञ्चालयितुमप्युत ।
अथैनं दक्षिणेनापि गृहीतुमुपचक्रमे॥२२॥

सर्वयत्नबलेनापि गृह्णन्नेवमिदं ततः ।
ततः सर्वबलेनापि यदैनं न शशाक ह॥२३॥

उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।
कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत॥२४॥

निवृत्तमनसं तस्मादभिप्रायाद्विचेतसम् ।
अहमामन्त्र्य संविग्रमश्वत्थामानमब्रुवम्॥२५॥

यः सदैव मनुष्येषु प्रमाणं परमं गतः ।
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः॥२६॥

यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।
द्वन्द्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम्॥२७॥

यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि ।
नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा॥२८॥

तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा ।
नोक्तपूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे॥२९॥

ब्रह्मचर्यं महद्घोरं तीर्त्वा द्वादशवार्षिकम् ।
हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः॥३०॥

समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः॥३१॥

तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे ।
न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया॥३२॥

रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन ।
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया॥३३॥

द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।
नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया॥३४॥

भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः ।
चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे॥३५॥

एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह ।
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह॥३६॥

प्रार्थितं ते मया चक्रं देवदानवपूजितम् ।
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते॥३७॥

त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव ।
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्॥३८॥

एतत्सुभीमं भीमानामृषभेण त्वया धृतम् ।
चक्रमप्रतिचक्रेण भूवि नान्योऽभिपद्यते॥३९॥

एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान् धनानि च ।
आदायोपययौ काले रत्नानि विविधानि च॥४०॥

स संरम्भी दुरात्मा च चपलः क्रूर एव च ।
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः॥४१॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि युधिष्ठिरकृष्णसंवादे द्वादशोऽध्यायः॥१२॥
त्रयोदशोऽध्यायः

वैशम्पायन उवाच। एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः ।
सर्वायुधवरोपेतमारुरोह रथोत्तमम्॥१॥

एवमिति॥१॥

युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ।
आदित्योदयवर्णस्य धुरं रथवरस्य तु॥२॥

दक्षिणामवहच्छैब्यः सुग्रीवः सव्यतोऽभवत् ।
पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ॥३॥

विश्वकर्मकृता दिव्या रत्नधातुविभूषिता ।
उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत॥४॥

वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् ।
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत॥५॥

अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।
अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः॥६॥

अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ ।
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्॥७॥

तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् ।
प्रतोदेन जयोपेतान्परमाश्वानचोदयत्॥८॥

ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् ।
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च॥९॥

वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् ।
प्रादुरासीन्महान् शब्दः पक्षिणां पततामिव॥१०॥

ते समार्च्छन्नरव्याघ्राः क्षणेन भरतर्षभ ।
भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः॥११॥

क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।
नाशक्नुवन्वारयितुं समेत्यापि महारथाः॥१२॥

स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् ।
ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः॥१३॥

॥इति सौप्तिके पर्वणि नीलकण्ठीये भारतभावदीपे त्रयोदशोऽध्यायः॥१३॥

यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ।
स ददर्श महात्मानमुदकान्ते यशस्विनम्॥१४॥

कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ।
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्॥१५॥

रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तके ।
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः॥१६॥

भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ।
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम्॥१७॥

भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ।
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत॥१८॥

स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् ।
जग्राह च स चैषीकां द्रौणिः सत्येन पाणिना॥१९॥

स तामापदमासाद्य दिव्यमस्त्रमुदैरयत् ।
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधवरान् स्थितान्॥२०॥

अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ।
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्॥२१॥

अपाण्डवाय पाण्डवानामभावाय॥२१॥

सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ।
ततस्तस्यामिषीकायां पावकः समजायत ।
प्रधक्ष्यन्निव लोकांस्त्रीन् कालान्तकयमोपमः॥२२॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि ब्रह्मशिरोस्त्रत्यागे त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

वैशम्पायन उवाच। इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः ।
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत॥१॥

इङ्गितेनेति॥१॥

अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव॥२॥

भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्॥३॥

केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा ।
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः॥४॥

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।
भ्रातुभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः॥५॥

देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्॥६॥

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना ।
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम्॥७॥

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्॥८॥

निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।
महद्भयं च भूतानां सर्वेषां समजायत॥९॥

सशब्दमभवव्द्योम ज्वालामालाकुलं भृशम् ।
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा॥१०॥

ते त्वस्त्रतेजसी लोकांस्तापयन्ती व्यवस्थिते ।
महर्षी सहितौ तत्र दर्शयामासतुस्तदा॥११॥

नारदः सर्वभूतात्मा भरतानां पितामहः ।
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ॥१२॥

तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ ।
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ॥१३॥

तदन्तरमथाधृष्यावुपगम्य यशस्विनौ ।
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ॥१४॥

प्राणभृद्भिरनाधृष्यौ देवदानवसङ्गतौ ।
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया॥१५॥

ऋषी ऊचतुः। नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः ।
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ।
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्॥१६॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि अर्जुनास्त्रत्यागे चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

वैशम्पायन उवाच। दृष्ट्वैव नरशार्दूल तावग्निसमतेजसौ ।
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः॥१॥

दृष्ट्वेति॥१॥

उवाच भरतश्रेष्ठ तावृषी प्राञ्जलिस्तदा ।
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया॥२॥

संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा॥३॥

यदत्र हितमस्माकं लोकानां चैव सर्वथा ।
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः॥४॥

इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः ।
संहारो दुष्करस्तस्य देवैरपि हि संयुगे॥५॥

विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे ।
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः॥६॥

ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना ।
न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते॥७॥

अचीर्णब्रह्मचर्यो यः सृष्ट्वा वर्तयते पुनः ।
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति॥८॥

आवर्तयते उपसंहरति एतेनार्जुनस्यास्त्रमुपसंहरतश्चीर्णब्रह्मचर्यत्वं ख्याप्यते॥८॥

ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् ।
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत॥९॥

सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः ।
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः॥१०॥

द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ ।
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा॥११॥

अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।
द्रौणिर्दीनमना राजन् द्वैपायनमभाषत॥१२॥

उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना ।
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने॥१३॥

अधर्मश्च कृतोऽनेन धार्त्तराष्ट्रं जिघांसता ।
मिथ्याचारेण भगवन् भीमसेनेन संयुगे॥१४॥

अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना ।
तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे॥१५॥

विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् ।
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै॥१६॥

तदिदं पाण्डवेयानामन्तकायाभिसंहितम् ।
अद्य पाण्डुसुतान्सर्वान् जीविताद्भ्रंशयिष्यति॥१७॥

अन्तकायान्ताय स्वार्थे कः॥१७॥

कृतं पापमिदं ब्रह्मन् रोषाविष्टेन चेतसा ।
वधमाशास्य पार्थानां मयाऽस्त्रं सृजता रणे॥१८॥

व्यास उवाच। अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः ।
उत्सृष्टवान्न रोषेण न नाशाय तवाहवे॥१९॥

अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता ।
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्॥२०॥

ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः॥२१॥

एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः ।
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि॥२२॥

अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति॥२३॥

एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया॥२४॥

पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि ।
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज॥२५॥

अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः ।
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति॥२६॥

मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति ।
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः॥२७॥

द्रौणिरुवाच। पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते॥२८॥

यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् ।
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन॥२९॥

न च रक्षोगणभयं न तस्करभयं तथा ।
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन॥३०॥

यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् ।
अयं मणिरयं चाहमीषिका तु पतिष्यति॥३१॥

गर्भेषु पाण्डवेयानाममोघं चैतदुत्तमम् ।
न च शक्तोऽस्मि भगवन्संहर्तुं पुनरुद्यतम्॥३२॥

एतदस्त्रमतश्चैव गर्भेषु विसृजाम्यहम् ।
न च वाक्यं भगवतो न करिष्ये महामुने॥३३॥

व्यास उवाच। एवं कुरु न चान्या तु बुद्धिः कार्यात्वयाऽनघ ।
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम॥३४॥

वैशम्पायन उवाच। ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे ।
द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह॥३५॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि ब्रह्मशिरोस्त्रस्य पाण्डवेयगर्भप्रवेशने पञ्चदशोऽध्यायः॥१५॥
षोडशोऽध्यायः

वैशम्पायन उवाच। तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा ।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा॥१॥

तदेति॥१॥

विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः ।
उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत्॥२॥

परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति ।
एतदस्य परिक्षित्वं गर्भस्थस्य भविष्यति॥३॥

तस्य तद्वचनं साधोः सत्यमेतद्भविष्यति ।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः॥४॥

एवं ब्रुवाणं गोविन्दं सात्वतां प्रवरं तदा ।
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम्॥५॥

नैतदेवं यथाऽऽत्थ त्वं पक्षपातेन केशव ।
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा॥६॥

पतिष्यति तदस्रं हि गर्भे तस्या मयोद्यतम् ।
विराटदुहितुः कृष्ण यं त्वं रक्षितुमिच्छसि॥७॥

श्रीभगवानुवाच। अमोघः परमास्त्रस्य पातस्तस्य भविष्यति ।
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति॥८॥

त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः ।
असकृत्पापकर्माणं बालजीवितघातकम्॥९॥

तस्मात्त्वमस्य पापस्य कर्मणः फलप्राप्नुहि ।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्॥१०॥

अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि॥११॥

संविदं संलापम्॥११॥

भवित्री न हि ते क्षुद्रजनमध्येषु संस्थितिः ।
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः॥१२॥

विचरिष्यसि पापात्मा सर्वव्याधिसमन्वितः ।
वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च॥१३॥

कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते ।
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः॥१४॥

पष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ।
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति॥१५॥

परिक्षिन्नाम नृपतिर्भिषतस्ते सुदुर्मते ।
अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा ।
पश्य मे तपसो वीर्यं सत्यस्य च नराधम॥१६॥

व्यास उवाच। यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम् ।
ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम्॥१७॥

तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः ।
असंशयं ते तद्भावि क्षत्रधर्मस्त्वयाऽऽश्रितः॥१८॥

अश्वत्थामोवाच। सहैव भवता ब्रह्मंस्थास्यामि पुरुषेष्विह ।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः॥१९॥

वैशम्पायन उवाच। प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्॥२०॥

पाण्डवश्चापि गोविन्दं पुरस्कृत्य हतद्विषः ।
कृष्णद्वैपायनं चैव नारदं च महामुनिम्॥२१॥

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्॥२२॥

प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम्॥२२॥

वैशम्पायन उवाच। ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः ।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि॥२३॥

अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः ।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्॥२४॥

हृष्टामश्वत्थाम्नः पराभवेन आर्तां पुत्रादेः शोकेन॥२४॥

तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् ।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः॥२५॥

ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः ।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्॥२६॥

अयं भद्रे तव मणिः पुत्रहन्तुर्जितः स ते ।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर॥२७॥

प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे ।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि॥२८॥

मधुघातिनि मधुदैत्यहन्तरि॥२८॥

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च ।
न वै त्वमिति गोविन्द शममिच्छति राजनि॥२९॥

उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम् ।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि॥३०॥

हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः ।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया॥३१॥

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च॥३२॥

विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म॥३२॥

यशोऽस्य पतितं देवि शरीरं त्ववशेषितम् ।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि॥३३॥

द्रौपद्युवाच। केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम ।
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत॥३४॥

तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि॥३५॥

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः॥३६॥

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी ।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्॥३७॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषिके पर्वणि द्रौपदीसान्त्वनायां षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

वैशम्पायन उवाच। हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः ।
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्॥१॥

हतेष्विति॥१॥

कथं नु कृष्ण पापेन क्षुद्रेणाकृतकर्मणा ।
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः॥२॥

तथा कृतास्त्रविक्रान्ताः सहस्रशतयोधिनः ।
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः॥३॥

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् ।
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः॥४॥

किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ ।
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः॥५॥

श्रीभगवानुवाच। नूनं स देवदेवानामीश्वरेश्वरमव्ययम् ।
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्॥६॥

प्रसन्नो हि महादेवो दद्यादमरतामपि ।
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्॥७॥

वेदाहं हि महादेवं तत्वेन भरतर्षभ ।
यानि चास्य पुराणानि कर्माणि विविधानि च॥८॥

आदिरेष हि भूतानां मध्यमन्तश्च भारत ।
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा॥९॥

‘तरति शोकमात्मवित्’ इति श्रुतेर्युधिष्ठिरादीनां शोकमपनिनीषुरात्मज्ञानमाह आदिरिति। यथा कनकं कुण्डलादेरादिर्मध्यमन्तश्चैवं रुद्रोऽपि जगत इत्यर्थः। तर्हि साङ्ख्याभिमतप्रधानवदचेतनः स्यादित्याशङ्क्याह विचेष्टत इति। ‘को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इति श्रुतेः प्राणापानचेष्टाऽपि ईश्वराधीना किमुत मरणमारणादिरिति सर्वस्येश्वराधीनत्वात्। न कृताकृताभ्यां पुरुषेण सन्तापः कार्य इति भावः॥९॥

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः ।
पितामहोऽब्रवीच्चैनं भूतानि सृज मा चिरम्॥१०॥

न केवलं वयमेवास्य कर्मणा चेष्टां कुर्मोऽपि तु ब्रह्मादयोऽपीत्याह एवमित्यादिना। प्रथमं रुद्रं तमोमयं विभुस्त्रिगुणमय ईश्वरः॥१०॥

हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् ।
दीर्घकालं तपस्तेपे मग्नोम्भसि महातपाः॥११॥

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः ।
स्रष्टारं सर्वभूतानां ससर्ज मनसा परम्॥१२॥

अपरं चतुर्मुखं रजोमयम्॥१२॥

सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं सुप्तमम्भसि ।
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः॥१३॥

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः ।
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वैकृतम्॥१४॥

वैकृतं विकारम्॥१४॥

भूतान्यन्वसृजत्सप्त दक्षादींस्तु प्रजापतीन् ।
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्॥१५॥

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ।
विभक्षयिषवो राजन् सहसा प्राद्रवंस्तदा॥१६॥

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ।
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्॥१७॥

त्रातु रक्षतु॥१७॥

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च ।
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्॥१८॥

विहितान्नाः प्रजास्तास्तु जग्मुः सृष्टा यथागतम् ।
ततो ववृधिरे राजन् प्रीतिमत्यः स्वयोनिषु॥१९॥

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि ।
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः॥२०॥

बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा ।
चुक्रोध भगवान् रुद्रो लिङ्गं स्वं चाप्यविध्यत॥२१॥

लिङ्गं प्रसवसामर्थ्यं मेन्ढ्ररूपेण अविध्यत भूमौ पातितवान्। एतदेव पूजितं तत्सर्वसिद्धिप्रदमास्तिकानां भविष्यतीत्यभिप्रायेण॥२१॥

तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत ।
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव॥२२॥

किं कृतं सलिले शर्व चिरकालस्थितेन ते ।
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्॥२३॥

सोऽब्रवीज्जात संरम्भस्तथा लोकगुरुर्गुरुम् ।
प्रजाः सृष्टाः परेणमाः किं करिष्याम्यनेन वै॥२४॥

तपसाऽधिगतं चान्नं प्रजार्थं मे पितामह ।
ओषध्यः परिवर्तेरन् यथैवं सततं प्रजाः॥२५॥

तपसेति मे मम तपसा जलवासरूपेण प्रजार्थम् अन्नं जातम्। अन्नादन्नमित्येवं रूपेण ओषध्यो बीजाङ्कुरसन्तानक्रमेण परिवर्तन्ते एवमेवान्नाद्रेतोद्वारा प्रजाश्च परिवर्तन्तेऽतः प्रवाहरूपेण सृष्टिस्थितिकार्ययोर्निर्वाहे सातत्येन प्रवृत्ते किमीश्वरेणेत्यभिप्रायेण लिङ्गेऽनादृते सति ईश्वरस्तिरोधानं प्राप्तवानित्यर्थः॥२५॥

एवमुक्त्वा स सक्रोधो जगाम विमना भवः ।
गिरेर्भुञ्जवतः पादं तपस्तप्तुं महातपाः॥२६॥

॥इति श्रीमहाभारते सौप्तिके पर्वणि ऐषीके पर्वणि युधिष्ठिरकृष्णसंवादे सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

श्रीभगवानुवाच। ततो देवयुगेऽतीते देवा वै समकल्पयन् ।
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः॥१॥

तत इति। ईश्वरतिरोधानानन्तरं देवयुगे कृतयुगे विनापीश्वराराधनं प्रजाः स्वाभाविकैरेव शमदमादिभिः कृतकृत्या अभूवन् अतीते तु देवयुगे निरीश्वरास्ताः केवलेन कर्मणैव फलसिद्धिम् इच्छन्त्यो यज्ञमकल्पयन्॥१॥

कल्पयामासुरथ ते साधनानि हवींषि च ।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च॥२॥

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप॥३॥

रुद्रम् ईश्वरं यज्ञस्य फलदातारम्॥३॥

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।
ततः साधनमन्विच्छन्धनुरादौ ससर्ज ह॥४॥

‘यो वा एतदक्षरं गार्ग्य विदित्वाऽस्मिँल्लोके यजति जुहोति ददाति तपस्तप्यतेऽन्तवदेवास्य तद्भवति’ इति श्रुतेरीश्वराराधनहीनो यज्ञोऽन्तवानित्येतद्दर्शयति आख्यायिकामुखेनैव सोऽकल्प्यमाने इत्यादिना। साधनं यज्ञनाशकम्॥४॥

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्॥५॥

लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः क्रियायज्ञः गर्भाधानादिसंस्काररूपः। गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः। पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः। विषयजं सुखमित्यर्थः। एतैरेव चतुभिर्यज्ञैः सर्वं जगत्सृष्टम्॥५॥

लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः ।
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः॥६॥

तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्याम् ईश्वरो धनुः कृतवान् किष्कुर्हस्तः। पञ्चहस्तं पञ्चविषयप्रमाणम्। लोकवासना देहवासना च शब्दादिविषयपञ्चकात्परतो नास्तीत्यर्थः॥६॥

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।
यज्ञाङ्गानि च चत्वारि तस्य संनहनेऽभवन्॥७॥

वषट्कारसंज्ञेन गृहयज्ञेन ते उभे वासने किञ्चित्सङ्कोचं गच्छत इति स तस्य वासनाद्वयरूपस्य धनुषो ज्यास्थानीयः यानि तु याज्ञाङ्गानि चत्वारि अर्थित्वं समर्थवं विद्वत्वं शास्त्रेण पर्युदस्तत्वं च तानि तस्य धनुषः लोकदेहवासनारूपस्य सन्नहने दार्ढ्याय अभवन्॥७॥

ततः क्रुद्धो महादेवस्तदुपापादाय कार्मुकम् ।
आजगामाथ तत्रैव यत्र देवाः समीजिरे॥८॥

यतः यज्ञाङ्गानि लोकेषणादौ विनियुक्तानि मूढैस्ततो हेतोः महादेवः क्रुद्धो यज्ञं जघानेत्यादि सष्टार्थम्॥८॥

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे॥९॥

न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः ।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्॥१०॥

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम्॥११॥

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा॥१२॥

ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा ।
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा स पावकः॥१३॥

रौद्रेण अहङ्कारेण दर्पेण वाऽहमेव यज्वा दाता विज्ञातेत्येवंरूपेण यज्ञो यज्ञात्पूर्वम् अपक्रान्तं मुख्याद्विविदिषन्ति यज्ञेनेत्यादिशास्त्रोक्तादात्मविविदिषाख्यात् फलात् भ्रष्टः॥१३॥

स तु तेनैव रूपेण दिव्यं प्राप्य व्यराजत ।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले॥१४॥

किञ्चित्कालं फलं भुञ्जानो दिवि यजमानरूपेण व्यराजत। तथापि तेन कालात्मना रुद्रेण अन्वीयमानः सन् ततोऽप्यपक्रान्तः स्वर्गात् च्युतोऽभूदित्यर्थः॥१४॥

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् ।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन॥१५॥

अपक्रान्ते यज्ञे यज्ञफले भुक्ते सति व्रीह्यादौ गर्भवासादौ च जाते यज्ञपतौ सुरान् इन्द्रियाणि संज्ञा न प्रत्यभात् मूढान्यभूवन् हेयोपादेयविवेकशून्यान्यभूवन्नित्यर्थः॥१५॥

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।
पूष्णश्च दृशनान् क्रुद्धो धनुष्कोट्या व्यशातयत्॥१६॥

त्र्यम्बक इति। त्रीणि श्रवणमनननिदिध्यासनानि अम्बकानि गमकानि यस्य स परमेश्वरः। सवितुर्यज्ञप्रसोतुर्देहस्य। बाहू कर्मकरणहेतू। तथा भगस्य नेत्रे मनसः सङ्कल्पौ अहमिदं करिष्ये इत्येवंरूपौ विहितप्रतिषिद्धरूपौ पूष्णो दशनान्वागिन्द्रियस्थानानि मन्त्राश्चेत्यर्थः। एतानि सर्वाणि धनुष्कोट्या पूर्वोक्तया लोकेषणया व्यशातयत्॥१६॥

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः ।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्॥१७॥

स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च ।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः॥१८॥

एवं यज्ञे नष्टेऽपि धनुष्कोटिमपि पुण्याभावात् पूर्वोक्तां रुरोध ततो लोकदेहयोरपि रञ्जनं कुण्ठितमभूदित्यर्थः॥१८॥

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः॥१९॥

ततोऽमरैरुक्ता वाक् विविदिषन्ति यज्ञेनेति पूर्वोक्ता देववाणीज्यां श्रौतयज्ञरूपां धनुषः पूर्वोक्तवासनाद्वयात्मकात् अच्छिनत् दूरीचकार निष्कामं ईश्वरप्रीत्यर्थं यज्ञं कारितवतीत्यर्थः॥१९॥

ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः॥२०॥

विधनुषं काम्यकर्महीनं देवम् आत्मानं देवा इन्द्रियाणि उपागमन् चित्तशुद्ध्यतिशयात् आत्मवश्यान्यभूवन्। ततश्च ईश्वरस्तैः शरणीकृतः प्रसन्नोऽभूत्॥२०॥

ततः प्रसन्नो भगवान् स्थाप्य कोपं जलाशये ।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो॥२१॥

कोपं रजस्तमोरूपं जलाशये मूढचित्ते॥२१॥

भगस्य नयने चैव बाहू च सवितुस्तथा ।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव॥२२॥

ततः सात्त्विको यज्ञः प्रवृत्त इत्याह भगस्येति पूर्ववदित्यर्थः॥२२॥

ततः सुस्थमिदं सर्वं बभूव पुनरेव हि ।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्॥२३॥

सर्वाणि हवींषि सर्वाणि कर्माणि ईश्वरार्पितान्येवाकुर्वन्नित्यर्थः॥२३॥

तस्मिन् क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो ।
प्रसन्ने च पुनः सुस्थं प्रसन्नोऽस्य च वीर्यवान्॥२४॥

ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः॥२५॥

न तन्मनसि कर्तव्यं न च तद्द्रौणिना कृतम् ।
महादेवप्रसादेन कुरु कार्यमनन्तरम्॥२६॥

फलितमाह न तदिति ईश्वरस्य वशे सर्वमिति ज्ञात्वा शोकं मा कार्षीरिति भावः॥२६॥
॥इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां सौप्तिकैषीकपर्वणि अष्टादशोऽध्यायः॥१८॥
॥ऐषीकं पर्वसमाप्तम्॥॥सौप्तिकपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in