शल्यवधपर्व - १ह्रदप्रवेशपर्व - २गदायुद्धपर्व - ३

शल्यवधपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥

प्रथमोऽध्यायः

जनमेजय उवाच। एवं निपातिते कर्णे समरे सव्यसाचिना ।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥१॥

श्रीगणेशाय नमः। उक्ता सङ्गतिः कर्णपर्वादौ। एवं निपातित इति। उद्यमं पलायनं वा चक्रुरिति प्रष्टुरभिप्रायः। अल्पाः अवशिष्टा इति च्छेदः। अत्राकारलोप आर्षः॥१॥

उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः॥२॥

तत्र द्वितीयमेव मत्वाह- उदीर्यमाणमिति। पाण्डववलस्योत्कर्षं दृष्ट्वा किं प्रापद्यत। पलायनमेवास्य श्रेय इति भावः॥२॥

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥३॥

वैशम्पायन उवाच।ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः ।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्॥४॥

कृत्स्नसैन्यवधेनदुर्योधनः पलायनमेव कृतवानित्याह- "ततः कर्णे हते" इत्यादिना "प्राङ्मुखः प्रादवद्भयात्" इत्यनेन ग्रन्थेन॥४॥

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः ।
कृच्छ्रात्स्वशिबिरं प्राप्तो हतशेषैर्नृपैः सह॥५॥

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।
राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन्॥६॥

स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः ।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ॥७॥

शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवः ।
रणाय निर्ययौ राजा हतशैषैर्नृपैः सह॥८॥

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।
बभूव भरतश्रेष्ठ देवासुररणोपमम्॥९॥

ततः शल्यो महाराज कृत्वा कदनमाहवे ।
ससैन्योऽथ स मध्याह्ने धर्मराजेन घातितः॥१०॥

ततो दुर्योधनो राजा हतबन्धू रणाजिरात् ।
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात्॥११॥

अथापराह्ने तस्याह्नः परिवार्य सुयोधनः ।
ह्रदादाहूय युद्धाय भीमसेनेन पतितः॥१२॥

एवं सर्वान् घातयित्वा पलायने दुर्यशो लब्ध्वापि मरणमेव प्रापेत्याह- अथेति। अपराह्णे अहरर्धे॥१२॥

तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः ।
संरम्भान्निशि राजेन्द्र जघ्नुः पाञ्चालसोमकान्॥१३॥

ततः पूर्वाह्नसमये शिबिरादेत्य सञ्जयः ।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः॥१४॥

ततः रात्रिवृत्तदर्शनान्तरम्॥१४॥

स प्रविश्य पुरीं सूतो भुजावुच्छ्रित्य दुखितः ।
वेपमानस्ततो राज्ञः प्रविवेश निकेतनम्॥१५॥

रुरोद च नरव्याघ्रं हा राजन्निति दुखितः ।
अहो बत विनष्टाः स्म निधनेन महात्मनः॥१६॥

विधिश्च बलवानत्र पौरुषं तु निरर्थकम् ।
शक्रतुल्यबलाः सर्वे यथावध्यन्त पाण्डवैः॥१७॥

दृष्ट्वैव च पुरे राजञ्जनः सर्वः स सञ्जयम् ।
क्लेशेन महता युक्तं सर्वतो राजसत्तम॥१८॥

जनः रुरोदेति द्वयोरन्वयः॥१८॥

रुरोद च भृशोद्विग्नो हा राजन्निति विस्वरम् ।
आकुमारं नरव्याघ्र तत्र तत्र समन्ततः॥१९॥

आर्तनादं ततश्चक्रे श्रुत्वा विनिहतं नृपम् ।
धावतश्चाप्यपश्यामस्तत्र तान् पुरुषर्षभान्॥२०॥

अपश्यामः अडाहमो विसर्गो वा आर्षः। वैशम्पायनवाक्यमिदम्॥२०॥

नष्टचित्तानिवोन्मत्तान् शोकेन भृशपीडितान् ।
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्॥२१॥

ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ।
तथा चासीनमनघं समन्तात्परिवारितम्॥२२॥

स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ।
तथान्यैश्च सुहृद्धिश्च ज्ञातिभिश्च हितैषिभिः॥२३॥

तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय॥२४॥

नातिहष्टमनाः सूतो वाक्यसन्दिग्धया गिरा ।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ॥२५॥

वाक्येन वचनेनसन्दिग्धया वाक्यसन्दिग्धया॥२५॥

मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः॥२६॥

संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह ।
म्लेच्छाश्च पर्वतीयाश्च यवना विनिपातिताः॥२७॥

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः ।
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः॥२८॥

राजानो राजपुत्राश्च सर्वे ते निहता नृप ।
दुर्योधनो हतो राजा यथोक्तं पाण्डवेन ह॥२९॥

भग्नसक्थो महाराज शेते पांसुषु रूषितः ।
धृष्टद्युम्नो महाराज शिखण्डी चापराजितः॥३०॥

उत्तमौजा युधामन्युस्तथा राजन् प्रभद्रकाः ।
पाञ्चालाश्च नरव्याघ्र चेदयश्च निषूदिताः॥३१॥

तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ।
कर्णपुत्रो हतः शूरो वृषसेनः प्रतापवान्॥३२॥

नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।
रथिनश्च नरव्याघ्र हयाश्च निहता युधि॥३३॥

किञ्चिच्छेषं च शिबिरं तावकानां कृतं प्रभो ।
पाण्डवानां कुरूणां च समासाद्य परस्परम्॥३४॥

प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् ।
सप्त पाण्डवतः शेषा धार्तराष्ट्रस्त्रयो रथाः॥३५॥

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः॥३६॥

तथाप्येते महाराज रथिनो नृपसत्तम ।
अक्षौहिणीनां सर्वासां समेतानां जनेश्वर॥३७॥

एते शेषा महाराज सर्वेऽन्ये निधनं गताः ।
कालेन निहतं सर्वं जगद्वै भरतर्षभ॥३८॥

दुर्योधनं वै पुरतः कृत्वा वैरं च भारत ।
वैशम्पायन उवाच। एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः॥३९॥

निपपात स राजेन्द्रो गतसत्त्वो महीतले ।
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः॥४०॥

निपपात महाराज शोकव्यसनकर्षितः ।
गान्धारी च नृपश्रेष्ठ सर्वांश्च कुरुयोषितः॥४१॥

पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचस्तदा ।
निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम्॥४२॥

प्रलापयुक्तं महति चित्रन्यस्तं पटे यथा ।
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः॥४३॥

शनैरलभत प्राणान् पुत्रव्यसनकर्शितः ।
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः॥४४॥

उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ।
विद्वन् क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ॥४५॥

ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ।
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह॥४६॥

तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि॥४७॥

स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः ।
तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः॥४८॥

निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशाम्पते ।
सञ्जयोऽप्यरुदत् तत्र दृष्ट्वा राजानमातुरम्॥४९॥

तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ।
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्॥५०॥

धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ।
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी॥५१॥

तथेमे सुहृदः सर्वे भ्राम्यते मे मनो भृशम् ।
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ॥५२॥

विसर्जयामास शनैर्वेपमानः पुनः पुनः ।
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम॥५३॥

सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ।
ततो नरपतिं तूर्णं लब्धसंज्ञं परन्तप॥५४॥

अवैक्षत्सञ्जयो दीनं रोदमानं भृशातुरम् ।
प्राञ्जलिर्निश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः ।
समाश्वासयत क्षत्ता वचसा मधुरेण च॥५५॥

॥इति श्रीमहाभारते शल्यपर्वणि धृतराष्ट्रप्रमोहे प्रथमोऽध्यायः॥१॥
द्वितीयोऽध्यायः

वैशम्पायन उवाच। विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद् दुःखान्तरं गतः॥१॥

विसृष्टास्विति॥१॥

सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः ।
विचिन्त्य च महाराज वचनं चेदमब्रवीत्॥२॥

सधूममिव अत्युष्णमित्यर्थः॥२॥

धृतराष्ट्र उवाच। अहो बत महद्दुःखं यदहं पाण्डवान् रणे ।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै॥३॥

पाण्डवाः क्षेमिण इत्येकं दुःखं स्वीयाश्च सर्वे निहता इत्यपरं ते द्वे आह द्वाभ्याम् अहो इति॥३॥

वज्रसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतान्पुत्रान् दीर्यते न सहस्रधा॥४॥

चिन्तयित्वा वयस्तेषां बालक्रीडां च सञ्जय ।
हतान्पुत्रानशेषेण दीर्यते मे भृशं मनः॥५॥

वयः एतावत्कालपर्यन्तं प्रौढत्वम्॥५॥

अनेत्रत्वाद्यदेतेषां न मे रूपनिदर्शनम् ।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता॥६॥

बालभावमतिक्रम्य यौवनस्थांश्च तानहम् ।
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तदानघ॥७॥

तानद्य निहताञ्श्रुत्वा हतैश्वर्यान् हतौजसः ।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः॥८॥

एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम् ।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्॥९॥

कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् ।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा॥१०॥

प्राकृतो नीचः। कुनृपः कुत्सितान्नरान्पातीति नीचपरिजन इत्यर्थः॥१०॥

गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।
अन्धं वृद्धं च मां वीर विहाय क्व नु यास्यसि॥११॥

सा कृपा सा च ते प्रीतिः सा राजन्सुमानिता ।
कथं विनिहतः पार्थैः संयुगेष्वपराजितः॥१२॥

को नु मामुत्थितं वीर तात तातेति वक्ष्यति ।
महाराजेति सततं लोकनाथेति तासकृत्॥१३॥

परिष्वज्य च मां कण्ठे स्नेहेन किन्नलोचनः ।
अनुशाधीति कौरव्य तत्साधु वद मे वचः॥१४॥

तत्परागुक्तं साधु यथा स्यात्तथा मे मां प्रति वद पुनरिति शेषः॥१४॥

ननु नामाहमश्रौषं वचनं तव पुत्रक ।
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा॥१५॥

भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्निकः॥१६॥

अश्वत्थामा च भोजश्च मागधश्च महाबलः ।
बृहद्वलश्च काशीशः शकुनिश्चापि सौबलः॥१७॥

म्लेच्छश्च शतसाहस्राः शकाश्चः यवनैः सह ।
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा॥१८॥

भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।
श्रुतायुश्चायुतायुश्च शतायुश्चापि वीर्यवान्॥१९॥

जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः ।
अलम्बुषो महाबाहुः सुबाहुश्च महारथः॥२०॥

एते चान्ये च बहवो राजानो राजसत्तम ।
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा धनानि च॥२१॥

तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।
योधयिष्याम्यहं पार्थान्पञ्चालांश्चैव सर्वशः॥२२॥

चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्॥२३॥

एकोऽप्येषां महाराज समर्थः सन्निवारणे ।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम्॥२४॥

किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः॥२५॥

योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान् मृघे ।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्॥२६॥

ततो नृपतयो वीराः स्थास्यन्ति मम शासने ।
यश्च तेषां प्रणेता वै वासुदेवो महाबलः॥२७॥

न स सन्नह्यते राजन्निति मामब्रवीद्वचः ।
तस्याथ वदतः सूत बहुशो मम सन्निधौ॥२८॥

शक्तितो ह्यनुपश्यामि निहतान्पाण्डवान् रणे ।
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः॥२९॥

व्यायच्छमानाः समरे किमन्यद्भागधेयतः ।
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्॥३०॥

शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ।
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः॥३१॥

निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ।
कर्णश्च निहतं सङ्ख्ये दिव्यास्त्रज्ञो महाबलः॥३२॥

भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे ।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः॥३३॥

भगदत्तो हतो यत्र गजयुद्धविशारदः ।
जयद्रथश्च निहतः किमन्यद्भादधेयतः॥३४॥

सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः ।
श्रुतायुश्चायुतायुश्च किमन्यद्भागधेयतः॥३५॥

महाबलस्तथा पाण्डयः सर्वशस्त्रभृतां वरः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः॥३६॥

बृहद्बलो हतो यत्र मागधश्च महाबलः ।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्॥३७॥

प्रतिमानं केतुभूतम्॥३७॥

आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः ।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः॥३८॥

अलम्बुषस्तथा राजन् राक्षसश्चाप्यलायुधः ।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः॥३९॥

नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः॥४०॥

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।
निहतः सबलो वीरः किमन्यद्भागधेयतः॥४१॥

एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः॥४२॥

निहता बहवो यत्र किमन्यद्भागधेयतः ।
यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः॥४३॥

बहवो निहताः सूत महेन्द्रसमविक्रमाः ।
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय॥४४॥

निहताः समरे सर्वे किमन्यद्भागधेयतः ।
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः॥४५॥

वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ।
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः॥४६॥

यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ।
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय॥४७॥

कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ।
नान्यदत्र परं मन्ये वनवासादृते प्रभो॥४८॥

सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ।
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते॥४९॥

इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ।
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि॥५०॥

दुःशासनो विविंशश्च विकर्णश्च महाबलः ।
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्॥५१॥

एकेन समरे येन हतं पुत्रशतं मम ।
असकृद्वदतस्तस्य दुर्योधनवधेन च॥५२॥

दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ।
वैशम्पायन उवाच। एवं वृद्धश्च सन्तप्तः पार्थिवो हतबान्धवः॥५३॥

मुहुर्मुहुर्मुह्यमानः पुत्रादिभिरभिप्लुतः ।
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः॥५४॥

दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् ।
दुःखेन महता राजन्सन्तप्तो भरतर्षभः॥५५॥

पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ।
धृतराष्ट्र उवाच। भीष्मद्रौणौ हतौ श्रुत्वा सूतपुत्रं च घातितम्॥५६॥

सेनापतिं प्रणेतारं किमकुर्वत मामकाः ।
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः॥५७॥

अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ।
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना॥५८॥

एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ।
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्॥५९॥

स राजकानां सर्वेषां पश्यतां वः किरीटिना ।
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना॥६०॥

दुर्योधनापराधेन प्रजेयं विनशिष्यति ।
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च ।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत्॥६१॥

सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीत्युत्तरेण सम्बन्धः॥६१॥

यदब्रवीत् स धर्मात्मा विदुरो दीर्घदर्शिवान् ।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः॥६२॥

तथाभूतं यथार्थम्॥६२॥

दैवोपहतचित्तेन यन्मया न कृतं पुरा ।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः॥६४॥

को वा मुखमनीकानामासीत्कर्णे निपातिते ।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी॥६५॥

केऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे ।
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः॥६६॥

कथं च वः समेतानां मद्रराजो महारथः ।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय॥६७॥

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम॥६८॥

पञ्चालानां यथा सर्वे निहताः सपदानुगाः ।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः॥६९॥

पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि ।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः॥७०॥

तथाभूतं यथार्थम्॥७०॥

यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् ।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय॥७१॥

॥इति श्रीमहाभारते शल्यपर्वणि धृतराष्ट्रविलापे द्वितीयोऽध्यायः॥२॥
तृतीयोऽध्यायः

सञ्जय उवाच। शृणु राजन्नवहितो यथावृत्तो महान् क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम्॥१॥

श्रुण्विति॥१॥

निहते सूतपुत्रे तु पाण्डवेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्॥२॥

समानीतेषु युद्धोन्मुखीकृतेषु॥२॥

घोरे मनुष्यदेहानामाजौ नरवरक्षये ।
यत्तत्कर्णे हते पार्थः सिंहनादमथाकरोत्॥३॥

तदा तव सुतान् राजन्प्राविशत्समुहद्भयम् ।
न सन्धातुमनीकानि न चैवाथ पराक्रमे॥४॥

आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् ।
वणिजो नावि भिन्नायामगाधे विप्लवा इव॥५॥

अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ।
सूतपुत्रे हते राजन्वित्रस्ताः शरविक्षताः॥६॥

अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ।
भग्नशृङ्गा इव वृषाः शीर्णदंष्ट्रा इवोरगाः॥७॥

प्रत्युपायाम सायाह्ने निर्जिता सव्यसाचिना ।
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः॥८॥

सूतपुत्रे हते राजन् पुत्रास्ते प्राद्रवंस्ततः ।
विध्वस्तकवचाः सर्वे कान्दिशीका विचेतसः॥९॥

अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः ।
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः॥१०॥

अभियातीति मन्वाना: पेतुर्मम्लुश्च भारत ।
अश्वानन्ये गजानन्ये रथानन्ये महारथाः॥११॥

आरुह्य जवसम्पन्ना पादातान्प्रजहुर्भयात् ।
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः॥१२॥

पदातिसङ्घाश्चाश्वौधैः पलायद्भिर्भृशं हताः ।
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने॥१३॥

तथा त्वदीया निहते सूतपुत्रे तदाभवन् ।
हतारोहास्तथा नागाश्छिन्नहस्तास्तथापरे॥१४॥

सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः ।
तान्प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान्॥१५॥

दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् ।
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम्॥१६॥

जघने युद्ध्यमानं मां तूर्णमश्वान्प्रचोदय ।
समरे युद्ध्यमानं हि कौन्तेयो मां धनञ्जयः॥१७॥

जघने अन्ते प्राणपणेन युध्यन्तमित्यर्थः॥१७॥

नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः ।
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्॥१८॥

निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् ।
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः॥१९॥

सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ।
गजाश्वरथहीनास्तु पादाताश्चैव मारिष॥२०॥

पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव ।
तान् भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः॥२१॥

बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः ।
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम्॥२२॥

पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ।
अक्रुद्ध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः॥२३॥

सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ।
न तान् रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः॥२४॥

योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः ।
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्॥२५॥

न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ।
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः॥२६॥

भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् ।
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः॥२७॥

विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ।
श्येनवद्व्यचरद्भीमः खड्गेन गदया तथा॥२८॥

पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् ।
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः॥२९॥

धृष्टद्युम्नं पुरस्कृस्य पुनस्तस्थौ महाबलः ।
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान्॥३०॥

माद्रीपुत्रो च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन् हृष्टा ध्नन्तो दौर्योधनं बलम्॥३१॥

तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः ।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत॥३२॥

ततो धनञ्जयो राजन् रथानीकमगाहत ।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन् धनुः॥३३॥

कृष्णसारथिमायन्तं दृष्ट्वा श्वेतहयं रथम् ।
अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन्भयात्॥३४॥

विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः ।
पञ्चविंशतिसाहस्राः पार्थमार्छन् पदातयः॥३५॥

हत्वा तत्पुरुषानीकं पञ्चालानां महारथः ।
भीमसेनं पुरस्कृत्य नचिरात्प्रत्यदृश्यत॥३६॥

महाधनुर्धरः श्रीमानमित्रगणमर्दनः ।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः॥३७॥

पारावतसवर्णाश्वं कोविदारवरध्वजम् ।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्॥३८॥

गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी॥३९॥

चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ।
हत्वा त्वदीयं सुमहत् सैन्यं शङ्खानथाधमन्॥४०॥

ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् ।
अभ्यधावन्त निघ्नन्तो वृषाञ्जित्वा वृषा इव॥४१॥

सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः ।
अवस्थितं सव्यसाची चुक्रोध बलावन्नृप॥४२॥

तत एनं शरै राजन्सहसा समवाकिरत् ।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते॥४३॥

अन्धकारीकृते लोके शरीभूते महीतले ।
दिशः सर्वा महाराज तावकाः प्राद्रवन् भयात्॥४४॥

भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते ।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत्॥४५॥

ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः॥४६॥

त एनमभिगर्जन्तं सहिताः समुपाद्रवन् ।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः॥४७॥

दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन् व्यधमच्छरैः ।
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्॥४८॥

यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् ।
नातिदूरापयातं च कृतबुद्धिः पलायने॥४९॥

दुर्योधनः स्वकं सैन्यमपश्यद्भृशविक्षतम् ।
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः॥५०॥

हर्षयन्निव तान् योधांस्ततो वचनमब्रवीत् ।
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च॥५१॥

यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ।
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ॥५२॥

यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ।
विप्रयातांस्तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान्॥५३॥

अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः ।
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्॥५४॥

मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ।
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः॥५५॥

द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः ।
पितामहैराचरितं न धर्मं हातुमर्हथ॥५६॥

नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् ।
न युद्धधर्माच्छ्रेयान् हि पन्थाः स्वर्गस्य कौरवाः॥५७॥

सुचिरेणार्जिताँल्लोकान्सद्यो युद्धात्समश्रुते ।
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः॥५८॥

पुनरेवामभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति ।
पराजयममृष्यन्तः कृतचित्ताश्च विक्रमे॥५९॥

ततः प्रववृते युद्धं पुनरेव सुदारुणम् ।
तावकानां परेषां च देवासुररणोपमम्॥६०॥

युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् ।
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव॥६१॥

॥इति श्रीमहाभारते शल्यपर्वणि कौरवसैन्यापयाने तृतीयोऽध्यायः॥३॥
चतुर्थोऽध्यायः

सञ्जय उवाच। पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् ।
रणे च निहतान्नागान् दृष्ट्वा पत्तींश्च मारिष॥१॥

पतितानिति॥१॥

आयोधनं चातिघोरं रुद्रस्याक्रीडसन्निभम् ।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः॥२॥

अप्रख्यातिमिति पाठेऽपि तुल्योर्थः॥२॥

विमुखे तव पुत्रे तु शोकोपहतचेतसि ।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्॥३॥

भृशेत्यत्र दृशेति पाठे दृशा दृङ्मात्रेण॥३॥

ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत ।
बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम्॥४॥

अभिज्ञानं नरेन्द्राणां विक्षतं प्रेक्ष्य संयुगे ।
कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः॥५॥

अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् ।
दुर्योधनं मन्युवशाद्वाक्यं वाक्यविशारदः॥६॥

मन्युवशाद्दुर्योधनस्य दैन्यवशात्॥६॥

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ॥७॥

न युद्धधर्माच्छ्रेयान् वै पन्था राजेन्द्र विद्यते ।
यं समाश्रित्य युद्ध्यन्ते क्षत्रियाः क्षत्रियर्षभ॥८॥

पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा ।
सम्बन्धिबान्धवाश्चैव योद्ध्या वै क्षत्रजीविना॥९॥

वधे चैव परो धर्मस्तथाधर्मः पलायने ।
ते स्म घोरां समापन्ना जीविका जीवितार्थिनः॥१०॥

तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ।
हते भीष्मे च द्रोणे च कर्णे चैव महारथे॥११॥

जयद्रथे च निहते तव भ्रातृषु चनाघ ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपासते॥१२॥

येषु भारं समासाद्य राज्ये मतिमकुर्महि ।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्॥१३॥

वयं त्विह विना भूता गुणवद्भिर्महारथैः ।
कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून्॥१४॥

सर्वैरथ च जीवद्भिर्बीभत्सुरापराजितः ।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः॥१५॥

कृष्णो नेत्रं नेता यस्य स तथा॥१५॥

इन्द्रकार्मुकतुल्याभमिन्द्रकेतुमिवोच्छ्रितम् ।
वानरं केतुमासाद्य सञ्चचाल महाचमूः॥१६॥

सिंहनादाच्च भीमस्य पाञ्चजन्यस्वेनन च ।
गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः॥१७॥

संहृष्यन्ति संहरतिष्यति इडभाव आर्षः। मनांसि आत्मानं संहरिष्यन्ति मूढानि भविष्यन्तीत्यर्थः। संमुह्यन्तीति पाठान्तरम्॥१७॥

चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् ।
अलातमिव चाविद्धं गाण्डीवं समदृश्यत॥१८॥

जाम्बूनदविचित्रं च धूयमानं महद्धनुम् ।
दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव॥१९॥

श्वेताश्च वेगसम्पन्ना शशिकाशसमप्रभाः ।
पिबन्त इव चाकाशं रथे युक्तास्तु वाजिनः॥२०॥

उह्यमानांश्च कृष्णेन वायुनेव बलाहकाः ।
जाम्बूनदविचित्राङ्गा वहन्ते चार्जुनं रणे॥२१॥

तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः ।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः॥२२॥

गाहमानमनीकानि महेन्द्रसदृशप्रभम् ।
धनञ्जयमपश्याम चतुर्दष्ट्रमिव द्विपम्॥२३॥

विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् ।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम्॥२४॥

त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् ।
भूय एनमपश्याम सिंहं मृगगणानिव॥२५॥

सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् ।
आमुक्तकवचौ कृष्णौ लोकमध्ये विचेरतुः॥२६॥

अद्य सप्तदशाहानि वर्तमानस्य भारत ।
सङ्ग्रामस्यातिघोरस्य वध्यतां चाभितो युधि॥२७॥

वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जानातीत्यन्वयः जातानीति शेषः॥२७॥

वायुनेव विधूतानि तव सैन्यानि सर्वतः ।
शरदम्भोदजालानि व्यशीर्यन्त समन्ततः॥२८॥

तां नावमिव पर्यस्तां वातधूतां महार्णवे ।
तव सेनां महाराज सव्यसाची व्यकम्पयत्॥२९॥

क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः ।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु॥३०॥

दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्व नु ।
बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम्॥३१॥

सम्बन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा ।
सर्वान्विक्रम्य मिषतो लोकमाक्रस्य मूर्धनि॥३२॥

जयद्रथो हतो राजन्किं नु शेषमुपास्महे ।
को हीह स पुमानस्ति यो विजेष्यति पाण्डवम्॥३३॥

तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः ।
गाण्डीवस्य न निर्घोषो धैर्याणि हरते हि नः॥३४॥

नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका ।
नागभग्नद्रुमा शुष्का नदीवाकुलतां गता॥३५॥

ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।
चरिष्यति महाबाहुः कक्षेष्वग्निरिव ज्वलन्॥३६॥

सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।
दारयेच्च गिरीन्सर्वान् शोषयेच्चैव सागरान्॥३७॥

उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते ।
कृतं तत्सफलं तेन भूयश्चैव करिष्यति॥३८॥

प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना॥३९॥

युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु ।
अकारणकृतान्येव तेषां वः फलमागतम्॥४०॥

आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः ।
स ते संशायितस्तात आत्मा वै भरतर्षभ॥४१॥

रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्॥४२॥

हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा ।
विग्रहो वर्धमानेन मतिरेषा बृहस्पतेः॥४३॥

ते वयं पाण्डुपुत्रेभ्यो हीना स्म बलशक्तितः ।
तदत्र पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो॥४४॥

न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दते॥४५॥

प्रणिपत्य हि राजानं राज्यं यदि लभेमहि ।
श्रेयः स्यान्न तु मौढ्येन राजन् गन्तुः पराभवम्॥४६॥

वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः ।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च॥४७॥

यद् ब्रूयाद्धि हृषीकेशो राजानमपराजितम् ।
अर्जुनं भीमसेनं च सर्वे कुर्युरसंशयम्॥४८॥

असंशयं गतवैरमित्यर्थः॥४८॥

नातिक्रमिष्यते कृष्णो वचनं कौरवस्य तु ।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः॥४९॥

एतत्क्षेममहं मन्ये न च पार्थैश्च विग्रहम् ।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात्॥५०॥

पथ्यं राजन् ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ।
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।
दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च॥५१॥

॥इति श्रीमहाभारते शल्यपर्वणि कृपवाक्ये चतुर्थोऽध्याः॥४॥
पञ्चमोऽध्यायः

सञ्जय उवाच। एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते॥१॥

एवमुक्तस्ततो राजेति स्पष्टार्थः॥१॥

ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः॥२॥

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता॥३॥

गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्॥४॥

सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्॥५॥

हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राय रोचते॥६॥

राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् ।
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः॥७॥

स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ।
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः॥८॥

प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् ।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते॥९॥

विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा॥१०॥

एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो॥११॥

स्वस्रीयं निहतं श्रुत्वा दुःखं स्वपिति केशवः ।
कृतागसो वयं तस्य स मदर्थं कथं क्षमेत्॥१२॥

आभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः॥१३॥

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्॥१४॥

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ॥१५॥

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम॥१६॥

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः॥१७॥

तथा विवसनां दीनां स्मरत्वद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः॥१८॥

यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता ।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्॥१९॥

उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा॥२०॥

कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ।
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन॥२१॥

अभिमन्योर्विनाशेन स सन्धेयः कथं मया ।
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्॥२२॥

पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ।
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा॥२३॥

युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ।
कथं भुक्त्वा स्वयं भोगान् दत्त्वा दायांश्च युष्कलान्॥२४॥

कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ।
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया॥२५॥

न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप॥२६॥

नायं कीबयितुं कालः संयोद्धं काल एव नः ।
इष्टं मे बुहभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः॥२७॥

प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ।
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः॥२८॥

नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ।
जितानि परराष्ट्रानि स्वराष्ट्रमनुपालितम्॥२९॥

भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ।
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः॥३०॥

न ध्रुवं सुखमस्तीति कुतो राष्ट्रं कुतो यशः ।
इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा॥३१॥

गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् ।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे॥३२॥

अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नरः ।
ऋतूनादृत्य महतो महिमानं स गच्छति॥३३॥

कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः ।
म्रियते रुद्रतां मध्ये ज्ञातीनां न स पूरुषः॥३४॥

त्यक्त्वा तु विविधान् भोगान् प्राप्तानां परमां गतिम् ।
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम्॥३५॥

शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् ।
धीमतां सत्यसन्घानां सर्वेषां क्रतुयाजिनाम्॥३६॥

शस्त्रावभृथपूतानां ध्रुवं वासस्त्रिविष्टपे ।
मुदा नूनं प्रपश्यन्ति युद्धे ह्यप्सरसां गणाः॥३७॥

पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि ।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे॥३८॥

पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः ।
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि॥३९॥

पितामहेन वृद्धेन तथाऽऽचार्येण धीमता ।
जयद्रथेन कर्णेन तथा दुःशासनेन च॥४०॥

घटमाना मदर्थेऽस्मिन् हताः शूरा जनाधिपाः ।
शेरते लोहिताक्ताङ्गा सङ्ग्रामे शरविक्षताः॥४१॥

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।
त्यक्त्वा प्राणान् यथान्यायमिन्द्रसद्मसु धिष्ठिताः॥४२॥

तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् ।
सम्पतद्भिर्महावेगैर्यास्यद्भिरिह सद्गतिम्॥४३॥

ये मदर्थे हता शूरास्तेषां कृतमनुस्मरन् ।
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे॥४४॥

घातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् ।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम्॥४५॥

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम्॥४६॥

सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् ।
सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा॥४७॥

एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः ।
साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे॥४८॥

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।
सर्वे सुनिश्चिता योद्धमुदग्रमनसोऽभवन्॥४९॥

ततो वाहान्समाश्वस्य सर्वे युद्धाभिनन्दिनः ।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः॥५०॥

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च ते जलम्॥५१॥

तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः ।
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ।
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः॥५२॥

॥इति श्रीमहाभारते शल्यपर्वणि दुर्योधनवाक्ये पञ्चमोऽध्यायः॥५॥
षष्ठोऽध्यायः

सञ्जय उवाच। अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः ।
सर्व एव महायोधास्तत्र तत्र समागताः॥१॥

अथेति। प्रस्थे शिखरे॥१॥

शल्यश्च चित्रसेनश्च शकुनिश्च महारथः ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥२॥

सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् ।
जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः॥३॥

ततः तत्र॥३॥

रणे कर्णे हते वीरे त्रासिता जितकाशिभिः ।
नालभशर्म ते पुत्रा हिमवन्तमृते गिरिम्॥४॥

तेऽब्रुवन्सहितास्तत्र राजानं शल्यसन्निधौ ।
कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा॥५॥

कृत्वा सेनाप्रणेतारं परांस्त्वं योद्भुमर्हसि ।
येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम्॥६॥

ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् ।
सर्वयुद्धविभावज्ञमन्तकप्रतिमं युधि॥७॥

सर्वेषां युद्धगतानां विविधानां भावानामभिप्रायाणां ज्ञं सर्वयुद्धविभावज्ञम्॥७॥

स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् ।
व्याकोशपद्मपत्राक्षं व्याघ्रास्यं मेरुगौरवम्॥८॥

स्वङ्गं शोभनाङ्गम्॥८॥

स्थाणोवृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः ।
पुष्टश्लिष्टायतभुजं सुविस्तीर्णवरोरसम्॥९॥

स्थाणोः सम्बन्धिनो वृषस्य॥९॥

बले जवे च सदृशमरुणानुजवातयोः ।
आदित्यस्यार्चिषा तुल्यं बुद्ध्या चोशनसा समम्॥१०॥

अर्चिाषा ज्योतिषा तुल्यं तुल्यतेजसम् अर्चिषा आदित्यस्य तुल्यमिति वा॥१०॥

कान्तिरूयमुखैश्वर्यैस्त्रिभिश्चन्द्रमसा समम् ।
काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम्॥११॥

सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् ।
स्मृत्वा स्मृत्वैव तु गुणान्धात्रा यत्नाद्विनिर्मितम्॥१२॥

सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् ।
जेतारं तरसारीणामजेयमरिभिर्बलात्॥१३॥

दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः ।
साङ्गांस्तु चतुरो वेदान्सम्यगाख्यानपञ्चमान्॥१४॥

दशाङ्गम्। "व्रतं प्राप्तिर्धृतिः पुष्टिः स्मृतिः क्षेपोऽरिभेदनम्। चिकित्सोद्दीपनं कृष्टिरिष्वस्त्रं स्याद्दशाङ्गकम्॥ दीक्षा शिक्षात्मरक्षा च एतत्साधनमेव च। धनुर्वेदस्य चत्वार एते पादाः प्रकीर्तिताः"॥१४॥

आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः ।
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः॥१५॥

तमप्रतिमकर्माणं रूपेणाप्रतिमं भुवि ।
पारगं सर्वविद्यानां गुणार्णवमनिन्दितम्॥१६॥

तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ।
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्॥१७॥

तुभ्यं तव॥१७॥

गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ।
भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम॥१८॥

द्रौणिरुवाच। अयं कुलेन रूपेण तेजसा यशसा श्रिया ।
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः॥१९॥

भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः ।
महासेनो महाबाहुर्महासेन इवापरः॥२०॥

महासेन इव कार्तिकेय इव महती सेना यस्य स महासेनः॥२०॥

एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम ।
शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम्॥२१॥

तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः ।
परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे॥२२॥

युद्धाय च मतिं चक्रुरावेशं च परं ययुः ।
ततो दुर्योधनो भूमौ स्थित्वा रथवरे स्थितम्॥२३॥

उवाच प्राञ्जलिर्भूत्वा द्रोणभीष्मसमं रणे ।
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल॥२४॥

यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ।
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे॥२५॥

रणं याते च भवति पाण्डवा मन्दचेतसः ।
भविष्यन्ति सहामात्यः पञ्चालाश्च निरुद्यमाः॥२६॥

दुर्योधनवचः श्रुत्वा शल्यो मद्राधिपस्तदा ।
उवाच वाक्यं वाक्यज्ञो राजानं राजसन्निधौ॥२७॥

यत्तु मां मन्यसे राजन् कुरुराज करोमि तत् ।
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च॥२८॥

दुर्योधन उवाच। सैनापत्येन वरये त्वामहं मातुलातुलम् ।
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे॥२९॥

अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः ।
जहि शत्रून् रणे वीर महेन्द्रो दानवानिव॥३०॥

॥इति श्रीमहाभारते शल्यपर्वणि शल्यदुर्योधनसंवादे षष्ठोऽध्यायः॥६॥
सप्तमोऽध्यायः

सञ्जय उवाच। एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् ।
दुर्योधनं तदा राजन् वाक्यमेतदुवाच ह॥१॥

एतच्छ्रुत्वेति॥१॥

दुर्योधन महाबाहो शृणु वाक्यविदां वर ।
यावतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ॥२॥

न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ।
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्॥३॥

योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ।
विजेष्यामि रणे पार्थन् सोमकांश्च समागतान्॥४॥

अहं सेनाप्रणेता ते भविष्यामि न संशयः ।
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे॥५॥

न तरिष्यन्तीत्यत्र न भविष्यन्तीति पाठे यं प्राप्य न भविष्यन्ति मरिष्यन्तीत्यध्याहृत्य योज्यम्॥५॥

इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ।
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा॥६॥

अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ।
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते॥७॥

क्लिष्टरूपः पराजयनिश्चयात्॥७॥

अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् ।
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत॥८॥

कुष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः ।
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्॥९॥

क्रुष्टा आहूताः॥९॥

जय राजंश्चिरञ्जीव जहि शत्रून्समागतान् ।
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः॥१०॥

निखिलाः पृथिवीं सर्वा प्रशासन्तु हतद्विषः ।
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्॥११॥

मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् ।
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली॥१२॥

मर्त्यधर्माणः मर्त्यधर्मणः॥१२॥

हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ।
शल्य उवाच। अद्य चाहं रणे सर्वान् पञ्चालान्सह पाण्डवैः॥१३॥

निहनिष्यामि वा राजन् स्वर्गं यास्यामि वा हतः ।
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्॥१४॥

अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ।
पञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः॥१५॥

धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ।
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्॥१६॥

लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ।
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः॥१७॥

यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ।
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः॥१८॥

प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः ।
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः॥१९॥

द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे ।
विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव॥२०॥

सञ्जय उवाच। अभिषिक्ते तथा शल्ये तव सैन्येषु मानद ।
न कर्णं व्यसनं किञ्चिन्मेनिरे तत्र भारत॥२१॥

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः ।
मेनिरे निहतान्पार्थान्मद्रराजवशं गतान्॥२२॥

प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ ।
तां रात्रिमुषिता सुप्ता हर्षचित्ता च साभवत्॥२३॥

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः॥२४॥

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव ।
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः॥२५॥

एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् ।
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्॥२६॥

तमब्रवीन्महाराज वासुदेवो जनाधिपम् ।
आर्तायनिमहं जाने यथा तत्त्वेन भारत॥२७॥

वीर्यवांश्च महातेजा महात्मा च विशेषतः ।
कृती च चित्रयोधी च संयुक्तो लाघवेन च॥२८॥

यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे ।
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम॥२९॥

युद्ध्यमानस्य तस्याहं चिन्तयानश्च भारत ।
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप॥३०॥

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत ।
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे॥३१॥

मद्रराजो महाराजः सिंहद्विरदविक्रमः ।
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव॥३२॥

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे ।
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्॥३३॥

स देवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान् भवेत् ।
मद्रराजं रणे क्रुद्धं यो हन्यात् कुरुनन्दन॥३४॥

अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ।
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्॥३५॥

अजेयश्चाप्यसौ वीरो धार्तराष्ट्रेण सत्कृतः ।
तवैव हि जयो नूनं हते मद्रेश्वरे युधि॥३६॥

तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ।
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्॥३७॥

प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् ।
जहि चैनं महाबाहो वासवो नमुचिं यथा॥३८॥

न चैवात्र दया कार्या मातुलोऽयं ममेति वै ।
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्॥३९॥

द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् ।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्॥४०॥

यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव ।
तद्दर्शय रणे सर्वं जहि चैनं महारथम्॥४१॥

एतावदुक्त्वा वचनं केशवः परवीरहा ।
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः॥४२॥

केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः ।
विसृज्य सर्वान् भ्रातॄंश्च पञ्चालानथ सोमकान्॥४३॥

सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ।
ते च सर्वे महेष्वासाः पञ्चालाः पाण्डवास्तथा॥४४॥

कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ।
गतज्वरं महेष्वासं तीर्णपारं महारथम्॥४५॥

बभूव पाण्डवेयानां सैन्यं च मुदितं नृप ।
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष॥४६॥

॥इति श्रीमहाभारते शल्यपर्वणि शल्यसैनापत्याभिषेके सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

सञ्जय उवाच। व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः॥१॥

व्यतीतायामिति॥१॥

राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः ।
अयोजयन् रथांस्तूर्णं पर्यधावंस्तथा परे॥२॥

अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।
रथानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः॥३॥

वादित्राणां च निनदः प्रादुरासीद्विशाम्पते ।
आयोधनार्थं योधानां बलानां चाप्युदीर्यताम्॥४॥

ततो बलानि सर्वाणि सेनाशिष्टानि भारत ।
प्रस्थितानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्॥५॥

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः॥६॥

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः ।
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः॥७॥

अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः॥८॥

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् ।
स पञ्चभिर्भवेद्युक्तः पातकैचोपपातकैः॥९॥

अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च ह ।
एवं ते समयं कृत्वा सर्वे तत्र महारथाः॥१०॥

मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन् परान् ।
तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे॥११॥

अभ्ययुः कौरवान् राजन् योत्स्यमानाः समन्ततः ।
तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्॥१२॥

समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ।
धृतराष्ट्र उवाच। द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम्॥१३॥

पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ।
कथं रणे हतः शल्यो धर्मराजेन सञ्जय॥१४॥

भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ।
सञ्जय उवाच। क्षयं मनुष्यदेहानां तथा नागाश्वसंक्षयम्॥१५॥

शृणु राजन् स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ।
आशा बलवती राजन् पुत्राणां तेऽभवत्तदा॥१६॥

हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष॥१७॥

तामाशां हृदये कृत्वा समाश्वस्य च भारत ।
मद्रराजं च समरे समाश्रित्य महारथम्॥१८॥

नाथवन्तं तदाऽऽत्मानममन्यन्त सुतास्तव ।
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे॥१९॥

तदा तु तावकान् राजन्नाविवेश महद्भयम् ।
तान्समाश्वास्य योधास्तु मद्रराजः प्रतापवान्॥२०॥

व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ।
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान्॥२१॥

विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः॥२२॥

तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् ।
स तेन संवृतो वीरो रथेनामित्रकर्षणः॥२३॥

तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ।
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः॥२४॥

मद्रकैः सिहतो वीरैः कर्णपुत्रैश्च दुर्जयैः ।
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः॥२५॥

गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ।
अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः॥२६॥

दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ।
हयानीकेन महता सौबलश्चापि संवृतः॥२७॥

प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ।
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः॥२८॥

त्रिधा भूता महाराज तव सैन्यमुपाद्रवन् ।
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः॥२९॥

शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ।
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः॥३०॥

शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ।
हार्दिक्यं च महेष्वाससमर्जुनः शत्रुसैन्यहा॥३१॥

संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ।
गौतमं भीमसेनो वै सोमकाश्च महारथाः॥३२॥

अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि ।
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्॥३३॥

ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ।
तथैवायुतशो योधास्तावकाः पाण्डवान् रणे॥३४॥

अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ।
धृतराष्ट्र उवाच। हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे॥३५॥

कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ।
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु सञ्जय॥३६॥

मामकानां परेषां च किं शिष्टमभवद्बलम् ।
सञ्जय उवाच। यथा वयं परे राजन् युद्धाय समुपस्थिताः॥३७॥

यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ।
एकादश सहस्राणि रथानां भरतर्षभ॥३८॥

दश दन्तिसहस्राणि सप्त चैव शतानि च ।
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत॥३९॥

पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ।
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः॥४०॥

दश चाश्वसहस्राणि पत्तिकोटी च भारत ।
एतद्बलं पाण्डवानामभवच्छेषमाहवे॥४१॥

पत्तिकोटि इति द्विवचनम्॥४१॥

एत एव समाजग्मुर्युद्धाय भरतर्षभ ।
एवं विभज्य राजेन्द्र मद्रराजवशे स्थिताः॥४२॥

पाण्डवान्प्रत्युदीयुस्ते जयगृद्धाः प्रमन्यवः ।
तथैव पाण्डवाः शूराः समरे जितकाशिनः॥४३॥

उपयाता नरव्याघ्राः पञ्चालाश्च यशस्विनः ।
इमे ते च बलौघेन परस्परवधैषिणः॥४४॥

उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ।
ततः प्रवर्वृते युद्धं घोररूपं भयानकम् ।
तावकानां परेषां च निघ्नतामितरेतरम्॥४५॥

॥इति श्रीमहाभारते शल्यपर्वणि व्यूहनिर्माणे अष्टमोऽध्यायः॥८॥
नवमोऽध्यायः

सञ्जय उवाच। ततः प्रववृते युद्धं कुरूणां भयवर्धनम् ।
सञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्॥१॥

तत इति॥१॥

नरा रथा गजौघाश्च सादिनश्च सहस्रशः ।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्॥२॥

गजानां भीमरूपाणां द्रवतां निःस्वनो महान् ।
अश्रूयत यथा काले जलदानां नभस्तले॥३॥

नागैरभ्याहताः केचित् सरथा रथिनोऽपतन् ।
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः॥४॥

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः ।
शरैः सम्प्रेषयामासुः परलोकाय भारत॥५॥

सादिनः शिक्षिता राजन्परिवार्य महारथान् ।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा॥६॥

धन्विनः पुरुषाः केचित्परिवार्य महारथान् ।
एकं बहव आसाद्य प्रययुर्यमसादनम्॥७॥

नागान् रथवरांश्चान्ये परिवार्य महारथाः ।
सान्तरायोधिनं जघ्नुर्द्रवमाणं महारथम्॥८॥

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् ।
नागा जघ्नुर्महाराज परिवार्य समन्ततः॥९॥

नागो नागमभिद्रुत्य रथी च रथिनं रणे ।
शक्तितोमरनाराचैर्निजघ्ने तत्र भारत॥१०॥

पादातानवमृद्नन्तो रथवारणवाजिनः ।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महादाकुलम्॥११॥

हयाश्च पर्यधावन्त चामरैरुपशोभिताः ।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनाम्॥१२॥

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते ।
अशोभत यथा नारी करजैः क्षतविक्षता॥१३॥

वाजिनां खुरशब्देन रथनेमिस्वनेन च ।
पत्तीनां चापि शब्देन नागानां बृंहितेन च॥१४॥

वादित्राणां च घोषेण शङ्खानां निनदेन च ।
अभवन्नादिता भूमिर्निर्घातैरिव भारत॥१५॥

धनुषां कूजमानानां शस्त्रौघानां च दीप्यताम् ।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन॥१६॥

बहवो बाहवश्छिन्ना नागराजकरोपमाः ।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्॥१७॥

शिरोभिः पतितैर्भाति पततां धरणीतले ।
च्युतानामिव तालेभ्यस्तालानां श्रूयते स्वनः॥१८॥

तालानां तालफलानाम्॥१८॥

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा ।
तपनीयनिभैः काले नलिनैरिव भारत॥१९॥

उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः ।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता॥२०॥

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः ।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव॥२१॥

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे ।
हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम्॥२२॥

कबन्धशतसङ्कीर्णं छत्रचामरसङ्कुलम् ।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा॥२३॥

तत्र योधा महाराज विचरन्तो ह्यभीतवत् ।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः॥२४॥

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः ।
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे॥२५॥

गजानीकं महाराज वध्यमानं महात्मभिः ।
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव॥२६॥

ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः ।
वज्रनुन्ना इव बभुः पर्वता युगसंक्षये॥२७॥

हयानां सादिभिः सार्धं पतितानां महीतले ।
राशयः स्म प्रदृश्यन्ते गिरिमात्रस्ततस्ततः॥२८॥

सञ्जज्ञे रणभूमौ तु परलोकवहा नदी ।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा॥२९॥

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला ।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा॥३०॥

कवचोष्णीषसञ्च्छन्ना पताकारुचिरद्रुमा ।
चक्रचक्रावलीजुष्टा त्रिवेणुदण्डकावृता॥३१॥

शूराणां हर्षजननी भीरूणां भयवर्धनी ।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुला॥३२॥

तां नदीं परलोकाय वहन्तीमतिभैरवाम् ।
तेरुर्वाहननौभिस्तैः शूराः परिघबाहवः॥३३॥

वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते ।
चतुरङ्गक्षये घोरे पूर्वदेवासुरोपमे॥३४॥

व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप ।
क्रोशाद्भिर्दयितैरन्ये भयार्ता न निवतिरे॥३५॥

न निवर्तिरे न निवर्तिताः॥३५॥

निर्मर्यादे तथा युद्धे वर्तमाने भयानके ।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान्॥३६॥

सा वध्यमाना महती सेना तव नराधिप ।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव॥३७॥

मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः॥३८॥

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डीनौ ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ॥३९॥

तत्राश्चर्यमपश्याम घोररूपं विशाम्पते ।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः॥४०॥

माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ परन्तप॥४१॥

ततो न्यवर्तत बलं तावकं भरतर्षभ ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः॥४२॥

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव ।
भेजे दिशो महाराज प्रणुन्ना शरवृष्टिभिः॥४३॥

हाहाकारो महाञ्जज्ञे योधानां तत्र भारत ।
तिष्ठ तिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम्॥४४॥

क्षत्रियाणां सहान्योन्यं संयुगे जयमिच्छताम् ।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः॥४५॥

त्यक्त्वा युद्धे प्रियान्पुत्रान् भ्रातॄनथ पितामहान् ।
मातुलान्भागिनेयांश्च वयस्यानपि भारत॥४६॥

हयान् द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः ।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ॥४७॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे नवमोऽध्यायः॥९॥
दशमोऽध्यायः

सञ्जय उवाच। तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्॥१॥

तत्प्रभगनमिति। अध्यायः स्पष्टार्थः॥१॥

एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता॥२॥

अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।
न समर्थो हि मे पार्थः स्थातुमद्य पुरो युधि॥३॥

एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।
यत्र राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः॥४॥

प्रापतत्तच्च सहसा पाण्डवानां महद्बलम् ।
दधारैको रणे शल्यो वेलोवृत्तमिवार्णवम्॥५॥

पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्॥६॥

मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् ।
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम्॥७॥

तेषु राजन् निवृत्तेषु व्यूढानीकेषु भागशः ।
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः॥८॥

समार्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः ।
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ॥९॥

चित्रसेनः कर्णपुत्रः॥९॥

मोघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ।
शरतोयैः सिषिचतुस्तौ परस्परमाहवे॥१०॥

नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य च ।
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ॥११॥

परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ।
चित्रसेनस्तु भल्लेन पीतेन निशितेन च॥१२॥

नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ।
अथैनं छिन्नधन्वानं रुक्मपुङ्खः शिलाशितैः॥१३॥

त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् ।
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे॥१४॥

तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ।
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः॥१५॥

नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ।
स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च॥१६॥

रथादवातरद्वीरः शैलाग्रादिव केसरी ।
पद्भ्यामापततस्तस्य शरवृष्टिं समासृजत्॥१७॥

नुकलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ।
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः॥१८॥

आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ।
सकुण्डलं समुकुटं सुमनसं स्वायतेक्षणम्॥१९॥

चित्रसेनशिरः कायादपाहरत पाण्डवः ।
स पपात रथोपस्थे दिवाकरसमद्युतिः॥२०॥

चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः ।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्॥२१॥

विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।
सुषेणः सत्यसेनश्च मुञ्चन्तौ विविधाशरान्॥२२॥

ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने॥२३॥

तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् ।
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा॥२४॥

स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।
अन्यत्कार्मुकमादाय रथमारुह्य वेगवान्॥२५॥

अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ।
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः॥२६॥

रथं विशकलीकर्तुं समारब्धौ विशाम्पते ।
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे॥२७॥

जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः ।
ततः सन्धाय नाराचं रुक्मपुङ्ख शिलाशितम्॥२८॥

धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ।
अथान्यं रथमास्थाय धनुरादाय चापरम्॥२९॥

सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ।
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान्॥३०॥

द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ।
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः॥३१॥

चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः ।
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः॥३२॥

सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ।
सत्यसेनस्य च धनुर्हस्तावापं च मारिष॥३३॥

चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ।
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम्॥३४॥

शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ।
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा॥३५॥

सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ।
तावेनं प्रत्यविध्येतां पृथक् पृथगजिह्मगैः॥३६॥

सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः ।
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा॥३७॥

पृथक्छराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ।
स रथेऽतिरथस्तिष्ठन् रथशक्तिं परामृशत्॥३८॥

स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ।
लेलिहानामिव विभो नागकन्यां महाविषाम्॥३९॥

समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ।
सा तस्य हृदयं सङ्ख्ये बिभेद च तथा नृप॥४०॥

स पपात रथाद्भूमिं गतसत्त्वोऽल्पचेतनः ।
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्च्छितः॥४१॥

अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् ।
चतुर्भिश्चतुरो वाहान् ध्वजं छित्वा च पञ्चभिः॥४२॥

त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह ।
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम्॥४३॥

सुतसोमोऽभिदुद्राव परीप्सन् पितरं रणे ।
ततोऽधिरुह्य नुकलः सुतसोमस्य तं रथम्॥४४॥

शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।
अन्यत्कार्मुकमादाय सुषेणं समयोधयत्॥४५॥

तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् ।
परस्परवधे यत्नं चक्रतुः सुमहारथौ॥४६॥

सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।
सुतसोमं तु विंशत्या बाह्वोरुरसि चार्पयत्॥४७॥

ततः क्रुद्धो महाराज नकुलः परवीरहा ।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्॥४८॥

ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।
सुवेगवन्तं चिक्षेप कर्णपुत्राय संयुगे॥४९॥

तस्य तेन शिरः कायाज्जहार नृपसत्तम ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥५०॥

स हतः प्रापतद्राजन्नकुलेन महात्मना ।
नदीवेगादिवारुग्णस्तीरजः पादपो महान्॥५१॥

कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् ।
प्रदुद्राव भयात्सेना तावकी भरतर्षभ॥५२॥

तां तु सेनां महाराज मद्रराजः प्रतापवान् ।
अपालयद्रणे शूरः सेनापतिररिन्दमः॥५३॥

विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् ।
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्॥५४॥

तावकाः समरे राजन् रक्षिता दृढधन्वना ।
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः॥५५॥

मद्रराजं महेष्वासं परिवार्य समन्ततः ।
स्थिता राजन्महासेना योद्धुकामा समन्ततः॥५६॥

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेवमरिन्दमम्॥५७॥

परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।
बाणशङ्खरवांस्तीव्रान् क्ष्वेडाश्च विविधा दधुः॥५८॥

तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा ।
परिवार्य सुसंरब्धाः पुनयुद्धमरोचयन्॥५९॥

ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥६०॥

यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते ।
अभीतानां तथा राजन् यमराष्ट्रविवर्धनम्॥६१॥

ततः कपिध्वजो राजन्हत्वा संशप्तकान् रणे ।
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः॥६२॥

तथैव पाण्डवाः सर्वे धृष्टद्युम्नपरोगमाः ।
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान्॥६३॥

पाण्डवैरवकीर्णानां सम्मोहः समजायत ।
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा॥६४॥

आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः ।
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः॥६५॥

कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ।
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः॥६६॥

रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ।
ते सेने भृशसन्तप्ते वध्यमाने परस्परम्॥६७॥

व्याकुले समपद्येतां वर्षासु सरिताविव ।
आविवेश ततस्तीव्रं तावकानां महद्भयम् ।
पाण्डवानां च राजेन्द्र तथाभूते महाहवे॥६८॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः

सञ्जय उवाच। तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु॥१॥

तस्मिन्निति॥१॥

कूजतां स्तनतां चैव पदातीनां महाहवे ।
निहतेषु महाराज हयेषु बहुधा तदा॥२॥

प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् ।
नानाशस्त्रसमावाये व्यतिषक्तरथद्विपे॥३॥

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।
गाहमानेषु योधेषु परस्परवधैषिषु॥४॥

प्राणादाने महाघोरे वर्तमाने दुरोदरे ।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने॥५॥

पाण्डवास्तावकं सैन्यं व्यदमन्निशितैः शरैः ।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्॥६॥

तस्मिंतथा वर्तमाने युद्धे भीरुभयावहे ।
पूर्वाह्ने चापि सम्प्राप्ते भास्करोदयनं प्रति॥७॥

लब्धलक्षाः परे राजन् रक्षितास्तु महात्मना ।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्॥८॥

बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः ।
कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला॥९॥

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति॥१०॥

मद्रराजः सुसङ्क्रद्धो गृहीत्वा धनुरुत्तमम् ।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः॥११॥

पाण्डवा अपि भूपाल समरे जितकाशिनः ।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः॥१२॥

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः ।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः॥१३॥

प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः ।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता॥१४॥

सदण्डशूला दीप्ताग्रा शीर्यमाणाः समन्ततः ।
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्॥१५॥

मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते ।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप॥१६॥

भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम्॥१७॥

भृग्विति। सर्वभूभुजां कृत्स्नपृथ्वीपतिनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शुक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन्। एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः॥१७॥

शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती ।
शिरःस्वलीयन्त भृशं काकोलूकाश्च केतुषु॥१८॥

आहत्य स्पृष्ट्वा वर्षती भुवि पतन्ती कर्षतीति पाठे आहत्य बलेन कर्षयती॥१८॥

ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् ।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप॥१९॥

अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् ।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्॥२०॥

अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् ।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः॥२१॥

द्रौपदेयांस्तथा सर्वान् माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च॥२२॥

एकैकं दशभिर्बाणैर्विव्याध स महाबलः ।
ततोऽसृजद्बाणवर्षं धर्मान्ते मघवानिव॥२३॥

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः॥२४॥

भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।
ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतशराः॥२५॥

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।
शल्यस्य बाणैरपतन् बभ्रमुर्व्यनदंस्तथा॥२६॥

आविष्ट इव मद्रेशो मन्युना पौरुषेण च ।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः॥२७॥

विनर्दमानो मद्रेशो मेघह्रादो महाबलः ।
सा वध्यमाना शल्येन पाण्डवानामनीकिनी॥२८॥

अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ।
तां सम्पर्द्यत्ततः सङ्ख्ये लघुहस्तः शितैः शरैः॥२९॥

बाणवर्षेण महता युधिष्ठिरमताडयत् ।
तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः॥३०॥

अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ।
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्॥३१॥

स निर्भिद्य महात्मानं वेगेनाभ्यपतच्च गाम् ।
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः॥३२॥

पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ।
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः॥३३॥

अभ्यवर्षन्महाराज मेघा इव महीधरम् ।
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः॥३४॥

कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ।
उलूकश्च महावीर्यः शकुनिश्चापि सौबलः॥३५॥

समागम्याथ शनकैरश्वत्थामा महाबलः ।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे॥३६॥

भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः ।
बाणवर्षेण महता क्रुद्धरूपमवारयत्॥३७॥

धृष्टद्युम्नं ततः क्रुद्धो बाणवधैरपीडयत् ।
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्॥३८॥

दुर्योधनो युधां श्रेष्ठ आहवे केशवार्जुनौ ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली॥३९॥

एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह ।
घोररूपाणि चित्राणि तत्र तत्र विशाम्पते॥४०॥

ऋक्षवर्णाञ्जघानाश्वान् भोजो भीमस्य संयुगे ।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः॥४१॥

कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ।
प्रमुखे सहदेवस्य जघानाश्वान् स मद्रराट्॥४२॥

ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ।
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्॥४३॥

असम्भ्रान्तमसम्भ्रान्तो यत्नवान् यत्नवत्तरम् ।
द्रौपदेयांस्तथा वीरानैकैकं दशभिः शरैः॥४४॥

अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ।
पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे॥४५॥

सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ।
कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः॥४६॥

पोथयामास तुरगान् रथं च कृतवर्मणः ।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमात्॥४७॥

शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् ।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत्॥४८॥

तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् ।
विनाशायाभिसन्धाय गदामादाय वीर्यवान्॥४९॥

यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् ।
गजवाजिमनुष्याणां देहान्तकरणीमपि॥५०॥

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम्॥५१॥

परिक्षिप्तां परिच्छन्नाम्॥५१॥

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव॥५२॥

पटुघण्टाशतरवां वासवीमशनीमिव ।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि॥५३॥

वासवीम् ऐन्द्रीम्। रासनीमिति पाठे शब्दवतीम्॥५३॥

त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् ।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम्॥५४॥

यया कैलासभवने महेश्वरसखं बली ।
आह्वयामास युद्धाय भीमसेनो महाबलः॥५५॥

महरश्वरसखं कुबेरम्॥५५॥

यया मायामयान् दृप्तान्सुबहून् धनदालये ।
जघान गुह्यकान् क्रुद्धो नदन्पार्थो महाबलः॥५६॥

निवार्यमाणो बहुभिद्रौपद्याः प्रियमास्थितः ।
तां वज्रमणिरत्नौघकल्मषां वज्रगौरवाम्॥५७॥

समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ।
गदया युद्धकुशलस्तया दारुणनादया॥५८॥

पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ।
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्॥५९॥

निचखान नदन्वीरो वर्म भित्वा च सोऽभ्ययात् ।
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम्॥६०॥

यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि ।
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः॥६१॥

पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ।
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः॥६२॥

गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ।
ततः सुमनसः पार्था भीमसेनमपूजयन् ।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः॥६३॥

॥इति श्रीमहाभारते शल्यपर्वणि भीमसेनशल्ययुद्धे एकादशोऽध्यायः॥११॥
द्वादशोऽध्यायः

सञ्जय उवाच। पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् ।
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः॥१॥

पतितमिति॥१॥

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् ।
सशृङ्गमिव कैलासं सवज्रमिव वासवम्॥२॥

सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् ।
जवेनाभ्यपतद्भीम: प्रगृह्य महतीं गदाम्॥३॥

हर्यक्षं रुद्रम्॥३॥

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः ।
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः॥४॥

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ ।
तावकाश्चापरे चैव साधु साध्वित्यपूजयन्॥५॥

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् ।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥६॥

तथा मद्राधिरपस्यापि गदावेगं महात्मनः ।
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्॥७॥

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ॥८॥

मण्डलावर्तमार्गेषु गदाविहरणेषु च ।
निर्विशेषमभूद्युद्धं तयोः पुरुषिसंहयोः॥९॥

तप्तहेममयैः शुभैर्बभूव भयवर्धिनी ।
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा॥१०॥

शुभ्रैर्दीप्तिमद्भिः॥१०॥

तथैव चरतो मार्गन्मण्डलेषु महात्मनः ।
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा॥११॥

ताडिता मद्रराजेन भीमस्य गदया गदा ।
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः॥१२॥

तथा भीमेन शल्यस्य ताडिता गदया गदा ।
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्॥१३॥

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ ।
तौत्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः॥१४॥

तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ ।
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ॥१५॥

गदया मद्रराजस्य सव्यदक्षिणमाहतः ।
भीमसेनो महाबाहुन् चचालाचलो तथा॥१६॥

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः ।
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः॥१७॥

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।
गदानिपातसंह्रादो वज्रयोरिव निःस्वनः॥१८॥

निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ ।
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः॥१९॥

अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः ।
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः॥२०॥

पोथयन्तौ तदान्योन्यं मण्डलानि विचेरतुः ।
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा॥२१॥

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ ।
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः॥२२॥

क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ ।
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशसातौ॥२३॥

युगपत्पेततुर्वीरावुभाविन्द्राध्वजाविव ।
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्॥२४॥

भृशं मर्माण्यभिहतावुभावास्तां सुविह्वलौ ।
ततः स्वरथमारोप्य मद्राणामृषभं रणे॥२५॥

अपोवाह कृपः शल्यं तूर्णमायोधनादथ ।
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः॥२६॥

भीमसेनो गदापाणिः समाह्वयत मद्रपम् ।
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः॥२७॥

नानावादित्रशब्देन पाण्डुसेनामयोधयन् ।
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः॥२८॥

अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ।
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः॥२९॥

प्रययुः सिंहनादेन दुर्योधनपुरोगमान् ।
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ॥३०॥

प्रासेन चेकितानं वै विव्याध हृदयं भृशम् ।
स पपात रथोपस्थे तव पुत्रेण ताडितः॥३१॥

रुधिरौघपरिस्किन्नः प्रविश्य विपुलं तमः ।
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः॥३२॥

असक्तमभ्यवर्षन्त शरवर्षाणि भागशः ।
तावकानामनीकेषु पाण्डवा जितकाशिनः॥३३॥

व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ।
कृपश्च कृतवर्मा च सौबलश्च महारथः॥३४॥

अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ।
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्॥३५॥

दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ।
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः॥३६॥

अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ।
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः॥३७॥

प्राविशंस्तावका राजन् हंसा इव महत्सरः ।
ततो युद्धमभूद्घोरं परस्परवधैषिणाम्॥३८॥

अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ।
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये॥३९॥

अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ।
श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात्॥४०॥

परस्परं विजानीमो यदयुद्ध्यन्नभीतवत् ।
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्॥४१॥

दिशश्च विमला जातास्तस्मिंस्तमसि नाशिते ।
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके॥४२॥

तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ।
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि॥४३॥

सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्स्वः ।
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः॥४४॥

स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ।
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः॥४५॥

अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ।
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत॥४६॥

इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ।
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम्॥४७॥

विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ।
तस्य पार्थो महाराज नाराचान्वै चतुर्दश॥४८॥

मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ।
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः॥४९॥

विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ।
अथ भूयो महाराज शरेणानतपर्वणा॥५०॥

युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ।
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महायशाः॥५१॥

विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।
चन्द्रसेनं च सप्तात्या सूतं च नवभिः शरैः॥५२॥

द्रुमसेनं चतुःषष्ट्या निजघान महारथः ।
चक्ररथे हते शल्यः पाण्डवेन महात्मना॥५३॥

निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ।
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः॥५४॥

माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ।
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम॥५५॥

सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् ।
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः॥५६॥

प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् ।
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना॥५७॥

निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ।
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्॥५८॥

सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ।
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्॥५९॥

अभ्यवर्षदमेयात्मा क्षत्रियान् क्षत्रियर्षभः ।
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ॥६०॥

एकैकं पञ्चभिर्विध्वा युधिष्ठिरमपीडयत् ।
ततो बाणमयं जालं विततं पाण्डवोरसि॥६१॥

अपश्याम महाराज मेघजालमिवोद्गतम् ।
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः॥६२॥

दिशः सञ्छादयामास प्रदिशश्च महारथः ।
ततो युधिष्ठिरो राजा बाणजालेन पीडितः ।
बभूवाद्भुतविक्रान्तो जम्भो वृत्रहणा यथा॥६३॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे द्वादशोऽध्यायः॥१२॥
त्रयोदशोऽध्यायः

सञ्जय उवाच। पीडिते धर्मराजे तु मद्रराजेन मारिष ।
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ॥१॥

पीडिते इति॥१॥

परिवार्य रथैः शल्यं पीडयामासुराहवे ।
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः॥२॥

तं शल्यमेकं बहुभिः पीड्यमानं दृष्ट्वा सिद्धाः प्रहर्षिताआसन् इति सम्बन्धः॥२॥

साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ।
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः॥३॥

साधुवादो जज्ञे अर्थात्सिद्धानाम्॥३॥

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे ।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः॥४॥

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया ।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्॥५॥

नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः ।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः॥६॥

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः ।
विकृत्य कार्मुकं घोरं वेगनं भारसाधनम्॥७॥

सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष ।
भीमसेनं तु सप्तत्या नुकलं सप्तभिस्तथा॥८॥

ततः सविशिखं चापं सहदेवस्य धन्विनः ।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः॥९॥

सहदेवस्तु समरे मातुलं भूरिवर्चसम् ।
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्॥१०॥

शरैराशीविषाकारैर्ध्वलज्वलनसन्निभैः ।
सारथिं चास्य समरे शरेणानतपर्वणा॥११॥

विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः ।
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः॥१२॥

धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् ।
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः॥१३॥

सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ।
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः॥१४॥

विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ।
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष॥१५॥

धनुश्चिच्छेद समरे सज्यं स सुमहारथः ।
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः॥१६॥

साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ।
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः॥१७॥

युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ।
सात्यकिस्तु ततः क्रुद्धो दर्मपुत्रे शरार्दिते॥१८॥

मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः ।
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः॥१९॥

भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ।
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः॥२०॥

तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ।
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्॥२१॥

नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे॥२२॥

तानापतत एवाशु पञ्चानां वै भुजच्युतान् ।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट्॥२३॥

सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ।
प्रहितं भीमसेनेन शरं कनकभूषणम्॥२४॥

द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्॥२५॥

गदां च सहदेवेन शरौघैः समवारयत् ।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत॥२६॥

सहदेवेन प्रोषितामिति पूर्वस्मात्सम्बध्यते॥२६॥

पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे॥२७॥

अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः ।
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः॥२८॥

सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते॥२८॥

ततः शल्यो रणे राजन्सर्वास्तान्दशभिः शरैः ।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान्॥२९॥

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः ।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः॥३०॥

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् ।
निहतान्पाण्डवान् मेने पञ्चालानथ सृञ्जयान्॥३१॥

ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् ।
सन्त्यज्य मनसा प्राणान् मद्राधिपमयोधयत्॥३२॥

नकुलः सहदेवश्च सात्यकिश्च महारथः ।
परिवार्य तदा शल्यं समन्तादव्यकिरञ्शरैः॥३३॥

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः ।
वृतस्तान्योधयामास मद्राराजः प्रतापवान्॥३४॥

तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे ।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः॥३५॥

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे ।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः॥३६॥

समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् ।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः॥३७॥

कथं नु समरे शक्यं तन्माधववचो महत् ।
न हि क्रुद्धो रणे राजन् क्षपयेत बलं मम॥३८॥

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।
मद्रराजं समासेदुः पीडयन्तः समन्ततः॥३९॥

नानाशस्त्रौघबहुलां शस्त्रावृष्टिं समुद्यताम् ।
व्यधमत्समरे राजा महाभ्राणीव मारुतः॥४०॥

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् ।
शरवृष्टिमपश्याम शलभानामिवायतिम्॥४१॥

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि ।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव॥४२॥

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः ।
निरन्तरमिवाकाशं सम्बभूव जनाधिप॥४३॥

न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत ।
बाणान्धकारे महति कृते तत्र महाहवे॥४४॥

मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः ।
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्॥४५॥

विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ।
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष॥४६॥

धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ।
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः॥४७॥

नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् ।
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः ।
न जहुः समरे शूरं शल्यमाहवशोभिनम्॥४८॥

॥इति श्रीमहाभारते शल्यपर्वणि शल्ययुद्धे त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

सञ्जय उवाच। अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः॥१॥

अर्जुन इति॥१॥

द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ।
तथेतरान्महेष्वासान् द्वाभ्यां द्वाभ्यां धनञ्जयः॥२॥

भूयश्चैव महाराज शरवर्षैरवाकिरत् ।
शरकण्टकितास्ते तु तावका भरतर्षभ॥३॥

न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ।
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः॥४॥

अयोधयन्त समरे परिवार्य महारथाः ।
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः॥५॥

अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ।
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्॥६॥

शरैर्वीक्ष्य विनुन्नाङ्गौ प्रहृष्टा युद्धदुर्मदाः ।
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो॥७॥

युगं चैवानुकर्षं च शरभूतमभूत्तदा ।
नैतादृशं दृष्टपूर्वं राजन्नैव च नस श्रुतम्॥८॥

यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ।
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः॥९॥

उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ।
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः॥१०॥

अवाकिरत्तां पृतनां मघो वृष्ट्येव पर्वतम् ।
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः॥११॥

पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ।
कोपोद्धृतशरज्वालो धनुःशब्दानिलो महान्॥१२॥

सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ।
चक्राणां पततां चापि युगानां च धरातले॥१३॥

तूणीराणां पताकानां ध्वजानां च रथैः सह ।
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत॥१४॥

अक्षाणमथ योक्त्राणां प्रतोदानां च सर्वशः ।
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्॥१५॥

भुजानां च महाभाग स्कन्धानां च समन्ततः ।
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः॥१६॥

समदृश्यन्त पार्थस्य रथमार्गेषु भारत ।
ततः क्रुद्धस्य पार्थस्य रथमार्गे विशाम्पते॥१७॥

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी॥१८॥

बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ।
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः॥१९॥

रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ।
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्॥२०॥

विधूमो दृश्यते राजंस्तथा पार्थो धनञ्जयः ।
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्॥२१॥

रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ।
तावुभौ पुरुषव्याघ्रौ तावुभौ धन्विनां वरौ॥२२॥

समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ।
तयोरासीन्महाराज बाणवर्षं सुदारुणम्॥२३॥

जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ।
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभि॥२४॥

ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ।
तयोर्युद्धं महाराज चिरं सममिवाभवत्॥२५॥

शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ।
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः॥२६॥

वासुदेवं च दशभिद्रौणिर्विव्याध भारत ।
ततः प्रहर्षाद्बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः॥२७॥

मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ।
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः॥२८॥

मृदुपूर्वं ततश्चैनं पुनः पुनरताडयत् ।
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्॥२९॥

मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ।
तमापतन्तं सहसा हेमपट्टविभूषितम्॥३०॥

चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ।
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः॥३१॥

आददे परिघं घोरं नगेन्द्रिशिखरोपमम् ।
चिक्षेप चैव पार्थाय द्रौणियुद्धविशारदः॥३२॥

तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः ।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः॥३३॥

स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे ।
दारयन् पृथिवीन्द्राणं मनांसीव च भारत॥३४॥

ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण्डवः ।
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना॥३५॥

नाकम्पत तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ।
सुरथं च ततो राजन् भारद्वाजो महारथम्॥३६॥

अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ।
ततस्तु सुरथोऽप्याजौ पञ्चालानां महारथः॥३७॥

रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ।
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम्॥३८॥

ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ।
सुरथं तं ततः क्रुद्धमापतन्तं महारथम्॥३९॥

चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ।
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिसंलहन्॥४०॥

उद्वीक्ष्य सुरथं रोषाद्धनुर्ध्यामवमृज्य च ।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम्॥४१॥

स तस्य ह्रदयं भित्त्वा प्रविवेशातिवेगितः ।
शक्राशनिरिवोत्सृष्टो विदार्य धरणीतलम्॥४२॥

ततः स पतितो भूमौ नाराचेन समाहतः ।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः॥४३॥

तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् ।
आरुरोह रथं तूर्णं तमेव रथिनां वरः॥४४॥

ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।
अर्जुनं योधयामास संशप्तकवृतो रणे॥४५॥

तत्र युद्धं महच्चासीदर्जुनस्य परैः सह ।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम्॥४६॥

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।
यदेको युगपद्वीरान्समयोधयदर्जुनः॥४७॥

विमर्दः सुमहानासीदेकस्य बहुभिः सह ।
शतक्रतुर्यथा पूर्वं महत्या दैत्यसेनया॥४८॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

सञ्जय उवाच। दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्॥१॥

दुर्योधन इति॥१॥

तयोरासन्महाराज शरधाराः सहस्रशः ।
अम्बुदानां यथा काले जलधाराः समन्ततः॥२॥

राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः ।
द्रोणहन्तारमुग्रेषु पुनर्विव्याध सप्तभिः॥३॥

धृष्टद्युम्नस्तु समरे बलवान् दृढविक्रमः ।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्॥४॥

पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्॥५॥

स तैः परिवृतः शूरः सर्वतोऽतिरथैर्भृशम् ।
व्यचरत्समरे राजन् दर्शयन्नस्त्रलाघवम्॥६॥

शिखण्डी कृतवर्माणं गौतमं च महारथम् ।
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ॥७॥

तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते ।
प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने॥८॥

शल्यः सायकवर्षाणि विमुञ्चन्सर्वतोदिशम् ।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान्॥९॥

तथा तौ तु यमौ युद्धे यमतुल्यपराक्रमौ ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च॥१०॥

शल्यसायकनुन्नानां पाण्डवानां महामृधे ।
त्रातारं नाभ्यगच्छन्त केचित्तत्र महारथः॥११॥

ततस्तु नकुलः शूरो धर्मराजे प्रपीडते ।
अभिदुद्राव वेगेन मातुलं मातृनन्दनः॥१२॥

सञ्छाद्य समरे वीरं नकुलः परवीरहा ।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे॥१३॥

सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः ।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः॥१४॥

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना ।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः॥१५॥

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्॥१६॥

तानापतत एवाशु पूरयाणान् रथस्वनैः ।
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्॥१७॥

प्रतिजग्राह समरे सेनापतिरमित्रजित् ।
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः॥१८॥

सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ।
ततस्तु शसरं चापं नुकलस्य महात्मनः॥१९॥

मद्रेश्वरः क्षुरप्रेण तदा मारिष चिच्छिदे ।
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः॥२०॥

अथान्यद्धनुरादाय माद्रीपुत्रो महारथः ।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः॥२१॥

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्॥२२॥

भीमेसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः ।
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः॥२३॥

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्॥२४॥

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे॥२५॥

विरथं सात्यकिं कृत्वा मद्रराजो महारथः ।
विशिखानां शतेनैनमाजघान समन्ततः॥२६॥

माद्रीपुत्रौ च संरब्धौ भीमसेनं च पाण्डव ।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः॥२७॥

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे॥२८॥

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः ।
पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशङ्गतान्॥२९॥

अभिदुद्राव वेगेन मद्राणामधिपं बलात् ।
आपतन्तं रथं तस्य शल्यः समितिशोभनः॥३०॥

प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ।
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः॥३१॥

सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः॥३२॥

सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् ।
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्॥३३॥

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः॥३४॥

ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् ।
अभ्यवर्तन् रथैस्तूर्णं मातुलं वधकांक्षया॥३५॥

तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।
शूराणां युध्यमानानां सिंहानामिव नर्दताम्॥३६॥

तेषामासीन्महाराज व्यतिक्षेपः परस्परम् ।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे॥३७॥

तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् ।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा॥३८॥

शरान्धकारं सहसा कृतं तत्र समन्ततः ।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः॥३९॥

तत्र राजन् शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा॥४०॥

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।
यदेकः समरे शूरो योधयामास वै बहून्॥४१॥

मद्रराजभुजोत्सष्टैः कङ्कबर्हिणवाजितैः ।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी॥४२॥

तत्र शल्यरथं राजन्विचरन्तं महाहवे ।
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये॥४३॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे पञ्चदशोऽध्यायः॥१५॥
षोडशोऽध्यायः

सञ्जय उवाच। ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः ।
पुनरभ्यद्रवन्पार्थान् वेगेन महता रणे॥१॥

तत इति॥१॥

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन्॥२॥

ते वध्यामानाः समरे पाण्डवा नावतस्थिरे ।
निवार्यमाणा भीमेन पश्यतोः कृष्णयोस्तदा॥३॥

ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः ।
अवाकिरच्छरौघेण कृतवर्माणमेव च॥४॥

शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् ।
नकुलः पार्श्वतः स्थित्वा मद्राराजमवैक्षत॥५॥

द्रौपदेया नरेन्द्राश्च भूयिष्ठान् समवारयन् ।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्॥६॥

भीमसेनस्तु राजानं गदापाणिवारयत् ।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः॥७॥

ततः समभवत्सैन्यं संसक्तं तत्र तत्र ह ।
तावकानां परेषां च सङ्ग्रामेष्वनिविर्तनाम्॥८॥

तत्र पश्याम्यहं कर्म शल्यस्यातिमहद्रणे ।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत्॥९॥

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः॥१०॥

पीडयित्वा तु राजानं शरैराशीविषोपमैः ।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत्॥११॥

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् ।
अपूजयन्ननीकानि परेषां तावकानि च॥१२॥

पीड्यमानस्तु शल्येन पाण्डवा भृशविक्षताः ।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्टिरे॥१३॥

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः॥१४॥

ततः पौरुषामास्थाय मद्रराजमताडयत् ।
जयो वास्तु वधो वास्तु कृतबुद्धिर्महारथः॥१५॥

समाहूयाब्रवीत्सर्वान् भ्रातॄन् कृष्णं च माधवम् ।
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः॥१६॥

कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः॥१७॥

भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम्॥१८॥

तत्र यन्मानसं मह्यं तत् सर्वं निगदामि वः ।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ॥१९॥

अजेयौ वासवेनापि समरे शूरसम्मतौ ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ॥२०॥

मदर्थे प्रतियुद्ध्येतां मानार्हौ सत्यसङ्गरौ ।
मां वा शल्यो रणे हन्तां तं वाहं भद्रमस्तु वः॥२१॥

इति सत्यामिमां वाणीं लोकवीरा निबोधत ।
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः॥२२॥

स्वमंशमभिसन्धाय विजयायेतराय च ।
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च॥२३॥

संसज्जन्तु रथे क्षिप्रं शास्त्रवद्रथयोजकाः ।
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्॥२४॥

पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ।
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः॥२५॥

एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ।
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः॥२६॥

ततः प्रहर्षः सैन्यानां पुनरासीत्तदा मृधे ।
पञ्चालानां सोमकानां मत्स्यानां च विशेषतः॥२७॥

प्रतिज्ञां तां तदा राजा कृत्वा मद्रेशमभ्ययात् ।
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्कलान्॥२८॥

अवादयन्त पञ्चालाः सिंहनादांश्च नेदिरे ।
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्॥२९॥

महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ।
ह्रादेन गजघण्टानां शङ्खानां निनदेन च॥३०॥

तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ।
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्॥३१॥

महामेघानिव बहून् शैलावस्तोदयावुभौ ।
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम्॥३२॥

ववर्ष शरवर्षेण शम्बरं मघवा इव ।
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः॥३३॥

द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च॥३४॥

न चास्य विवरं कश्चिद्ददर्श चरतो रणे ।
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्॥३५॥

शार्दूलावामिषप्रेप्सू पराक्रान्ताविवावहे ।
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः॥३६॥

पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।
शकुनिप्रमुखान्वीरान् प्रत्यगृह्णन्समन्ततः॥३७॥

तदाऽऽसीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव॥३८॥

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा ।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम्॥३९॥

स किङ्किणीकजालेन महता चारुदर्शनः ।
पपात रुचिरः सङ्ख्ये भीमसेनस्य पश्यतः॥४०॥

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।
क्षुरेण शितधारेण प्रचकर्त नराधिपः॥४१॥

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्॥४२॥

रथशक्त्या रथस्थया शक्त्या॥४२॥

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा॥४३॥

हतसूता हयास्तस्य रथमादाय भारत ।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत्॥४४॥

तमभ्यधावत् त्राणार्थं द्रोणपुत्रो महारथः ।
कृपश्च कृतवर्मा च पुत्रं तेऽपि पीरप्सवः॥४५॥

तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः ।
गाण्डीवधन्वा विस्फार्य धनुस्यानहनच्छरैः॥४६॥

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।
स्वयं सन्नोयदन्नश्वान् दन्तवर्णान् मनोजवान्॥४७॥

तत्राश्चर्यमपश्याम कुन्तीपुत्रे युधिष्ठिरे ।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्॥४८॥

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः॥४९॥

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः ।
शरैरपातयद्राजन् गिरीन्वज्रेरिवौत्तमैः॥५०॥

साश्वसूतध्वजरथान् रथिनः पातयन्बहून् ।
अक्रीडदेको बलवान्पवनस्तोयदानिव॥५१॥

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा ।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव॥५२॥

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्॥५३॥

तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः ।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्॥५४॥

ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलौद्भवौ ।
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः॥५५॥

शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् ।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत्॥५६॥

अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ ।
उद्भिनरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ॥५७॥

पुष्पितौ शुशुभाते वै वसन्ते किंशुकौ यथा ।
दीप्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ॥५८॥

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ।
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्॥५९॥

शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ।
इतीव निश्चयो नाभूद्योधानां तत्र भारत॥६०॥

प्रदिक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ।
ततः शरशतं शल्यो मुमोचाथ युधिष्ठिरे॥६१॥

धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ।
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः॥६२॥

अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ।
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः॥६३॥

द्वाभ्यामतिसिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ।
ततोऽस्य दीप्यमानेन पीतेन निशितेन च॥६४॥

प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ।
ततः प्रभग्नं तत् सैन्यं दौर्योधनमरिन्दम॥६५॥

ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् ।
आरोप्य चैनं स्वरथे त्वरमाणः प्रदुदुवे॥६६॥

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।
स्मित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः॥६७॥

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।
सज्जयन्त्रोपकरणं द्विषतां लोमहर्षणम्॥६८॥

॥इति श्रीमहाभारते शल्यपर्वणि शल्ययुधिष्ठिरयुद्धे षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

सञ्जय उवाच। अथान्यद्धनुरादाय बलवान्वेगवत्तरम् ।
युधिष्ठिरं मद्रपतिर्भित्वा सिंह इवानदत्॥१॥

अथेति॥१॥

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः॥२॥

सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत्॥३॥

तांस्तानन्यान्महेष्वासान् साश्वान्सरथकूबरान् ।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान्॥४॥

कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।
रथांश्च रथिनः सार्धं जघान रथिनां वरः॥५॥

बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च ।
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव॥६॥

तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः॥७॥

तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
समागतं भीमबलेन राज्ञा पर्याप्तमन्योन्यमथाह्वयन्त॥८॥

ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम् ।
आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः॥९॥

संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन ।
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने॥१०॥

ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् ।
पार्यवव्रुः प्रवरास्ते सुसज्जा दुर्योधनस्यानुमते पुरस्तात्॥११॥

ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्ध्यत् ।
तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा॥१२॥

आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः ।
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च॥१३॥

ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ॥१४॥

तयोर्धनुर्ज्यातलनिःस्वनो महान् महेन्द्रवज्राशनितुल्यनिःस्वनः ।
परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः॥१५॥

तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव ।
विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदर्पौ॥१६॥

ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य ।
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण॥१७॥

ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् ।
जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम्॥१८॥

ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।
शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः॥१९॥

त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य कोपान्नवभिः पृषत्कैः ।
भित्वा झुरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः॥२०॥

ततस्तु मद्राधिपतिः प्रकृष्टं धनुर्विकृष्य व्यसृजत् पृषत्कान् ।
द्वाभ्यां शराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुङ्गवस्य॥२१॥

नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा ।
शल्यं विव्याध शरैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः॥२२॥

ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य ।
निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा॥२३॥

ततोऽपरेण ज्वलनार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ ।
कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखः पपात॥२४॥

मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् ।
वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः॥२५॥

तथा कृते राजनि भीमसेनो मद्राधिपस्याथ ततो महात्मा ।
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्॥२६॥

तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात् ।
जधान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः॥२७॥

संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात्॥२७॥

तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् ।
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव॥२८॥

तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म ।
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्मसहस्रतारम्॥२९॥

प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्ध कुन्तीसुतमभ्यधावत् ।
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत्॥३०॥

तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् ।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः॥३१॥

अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा नवभिः पृषत्कैः ।
खड्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये॥३२॥

तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः ।
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शसिसन्निकाशान्॥३३॥

तेनाथ शब्देन विभीषणेन तथाभितप्तं बलमप्रधृष्यम् ।
कान्दिग्भूतं रुधिरेणोक्षिताङ्गं विसंज्ञकल्पं च तदा विषण्णम्॥३४॥

स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः ।
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः॥३५॥

स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः ।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत्तमरिं बलेन॥३६॥

गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय ।
स धर्मराजो निहताश्वसूतो रथे तिष्ठन् शक्तिमेवाभ्यकाक्षत्॥३७॥

तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् ।
कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे॥३८॥

कर्म युद्धरूपम् अवशिष्टं स्वस्य भागं च निशम्यालोच्य शल्यवधे मनः कृत्वा इन्द्रवरजस्य कृष्णस्य यथोक्तं वचनं चक्रे इत्यन्वयः॥३८॥

स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् ।
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत्॥३९॥

निरीक्षितोऽसौ नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण ।
आसीन्न यद्भस्मसान्मद्रराजस्ततद्भुतं मे प्रतिभाति राजन्॥४०॥

ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम् ।
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम्॥४१॥

दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसा पतन्तीम् ।
प्रैक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम्॥४२॥

तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् ।
स ब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः॥४३॥

गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।
सांवर्तकग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम्॥४४॥

ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम् ।
भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम्॥४५॥

घण्टापताकां मणिवज्रनालां वैदूर्यचित्रां तपनीयदण्डाम् ।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममोघाम्॥४६॥

बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्र्य यत्नात् ।
ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम्॥४७॥

हतोऽसि पापेत्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम् ।
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः॥४८॥

तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्यम् ।
प्रतिग्रहायाभिननर्द शल्यः सम्यग्धुतामग्निरिवाज्यधाराम्॥४९॥

सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव भित्त्वा ।
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती॥५०॥

तोयमिव सुप्रवेशाङ्गम् अप्रतिहता नृपतेः शल्यस्य॥५०॥

नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसम्भवेन ।
संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः॥५१॥

प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन ।
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य॥५२॥

बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् ।
ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः॥५३॥

स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ।
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः॥५४॥

प्रियया कान्तया कान्तः पतमान इवोरसि ।
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः॥५५॥

सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् ।
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना॥५६॥

सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ।
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्॥५७॥

संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति ।
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्॥५८॥

व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् ।
देहान्सुनिशितैर्भल्लैरिपूणां नाशयन् क्षणात्॥५९॥

ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव ।
निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः॥६०॥

क्षरन्तो रुधिरं देहैर्विपन्नायुधजीविताः ।
ततः शल्ये निपतिते मद्रराजानुजो युवा॥६१॥

भ्रातुस्तुल्यो गणैः सर्वै रथी पाण्डवमभ्ययात् ।
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्॥६२॥

हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ।
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव॥६३॥

कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ।
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च॥६४॥

प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ।
स कुण्डलं तद्ददृशे पतमानं शिरो रथात्॥६५॥

पुण्यक्षयमनुप्राप्य पतन् स्वर्गादिव च्युतः ।
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्॥६६॥

स्वर्गात्स्वर्गसुखात् च्युतो भ्रष्टः अत एव पतन् तस्मादेव॥६६॥

रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ।
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे॥६७॥

हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवः ।
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः॥६८॥

वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तदा भृशम् ।
तांस्तथा भज्यमानांस्तु कौरवान् भरतर्षभ॥६९॥

शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ।
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्॥७०॥

हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ।
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ॥७१॥

हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ ।
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्॥७२॥

अर्चिभिरिव सूर्यस्य दिवाकरसमप्रभौ ।
चापमार्गबलोद्धूतान्मार्गणान् वृष्णिसिंहयोः॥७३॥

आकाशगानपश्याम पतङ्गानिव शीघ्रगान् ।
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः॥७४॥

चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ।
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः॥७५॥

अन्यदादत्त वेगेन वेगवत्तरमायुधम् ।
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्॥७६॥

हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
ततो रथं युगेषां च च्छित्त्वा भल्लैः सुसंयतैः॥७७॥

अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ।
ततस्तं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो॥७७॥

अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् ।
मद्रराजे हते राजन्विरथे कृतवर्मणि॥७८॥

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ।
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृते॥८७९॥

बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ।
ततो मुहूर्तात्तेऽपश्यन् रजो भीमं समुत्थितम्॥८०॥

विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ।
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्॥८१॥

जवेनापततः पार्थानेकः सर्वानवारयत् ।
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्॥८२॥

आनर्तं च दुराधर्षं शितैर्बाणैरवारयत् ।
तं परे नाभ्यवर्तन्त मा मृत्युमिवागतम्॥८३॥

अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ।
ततो युधिष्ठिरो राजा त्वरमाणो महारथः॥८४॥

चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ।
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः॥८५॥

अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् ।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्॥८६॥

ततः शारद्वतः षड्भिः प्रत्यविद्ध्यद्युधिष्ठिरम् ।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः॥८७॥

एवमेतन्महाराज युद्धशेषमवर्तत ।
तव दुर्मन्त्रिते राजन्सह पुत्रस्य भारत॥८८॥

तस्मिन्महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन ।
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्॥९९॥

युधिष्ठिरं च प्रशशंसुराजौ पुरा कृते वृत्रवधे यथेन्द्रम् ।
चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समेताः॥९०॥

॥इति श्रीमहाभारते शल्यपर्वणि शल्यवधे सप्तदशोऽध्यायः॥१७॥
अष्टदशोऽध्यायः

सञ्जय उवाच। शल्येऽथ निहते राजन्मद्रराजपदानुगाः ।
रथाः सप्तशता वीरो निर्ययुर्महतो बलात्॥१॥

शल्ये इति॥१॥

दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् ।
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः॥२॥

न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ।
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः॥३॥

युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ।
ते तु शूरा महाराज कृतचित्ताश्च योधने॥४॥

धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ।
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम्॥५॥

मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ।
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः॥६॥

पूरयन् रथघोषेण दिशः सर्वा महारथः ।
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ॥७॥

सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ।
धृष्टद्युम्नः शिखण्डी च पञ्चालाः सह सोमकैः॥८॥

युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ।
ते समन्तान्परिवृताः पाण्डवाः पुरुषर्षभाः॥९॥

क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ।
वृक्षानिव महावताः कम्पयन्ति स्म तावकान्॥१०॥

पुरोवातेन गङ्गेव क्षोभ्यमाणा महानदी ।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः॥११॥

प्रस्कन्ध सेनां महतीं महात्मानो महारथाः ।
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः॥१२॥

भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केन च ।
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः॥१३॥

पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः ।
एवं तान् वादिनः शूरान्द्रौपदेया महारथाः॥१४॥

अभ्यघ्नन् युयुधानश्च मद्रराजपदानुगान् ।
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः॥१५॥

ते दृश्यन्तेऽपि समरे तावका निहताः परैः ।
आलोक्य पाण्डवान् युद्धे योधा राजन्समन्ततः॥१६॥

वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत ।
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन्॥१७॥

न चास्य शासनं केचित्तत्र चक्रुर्महारथाः ।
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्॥१८॥

दुर्योधनं महाराज वचनं वचनक्षमः ।
किं न सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्॥१९॥

न युक्तमेतत्समरे त्वयि तिष्ठति भारत ।
सहितैश्चापि योद्धव्यमित्येष समयः कृतः॥२०॥

अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ।
दुर्योधन उवाच। वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम॥२१॥

एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ।
शकुनिरुवाच। न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः॥२२॥

प्रस्कन्नाः प्रपन्नाः॥२२॥

अलं क्रोद्धुमथैतेषां नायं काल उपेक्षितम् ।
यामः सर्वे च सम्भूय सवाजिरथकुञ्जराः॥२३॥

परित्रातुं महेष्वासान्मद्रराजपदानुगान् ।
अन्योयं परिरक्षामो यत्नेन महता नृप॥२४॥

एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ।
सञ्जय उवाच। एवमुक्तस्तदा राजा बलेन महता वृतः॥२५॥

प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् ।
हत विद्ध्यत गृह्णीत प्रहरध्वं निकृन्तत॥२६॥

इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ।
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्॥२७॥

सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ।
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते॥२८॥

निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ।
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः॥२९॥

हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ।
उत्थितानि कबन्धानि समदृश्यन्त सर्वशः॥३०॥

पपात महती चोल्का मध्येनादित्यमण्डलम् ।
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः॥३१॥

अश्चैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा ।
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः॥३२॥

अदृश्यन्त महाराज योधास्तत्र रणाजिरे ।
भग्नचक्रान् रथान् केचिदहरंस्तुरगा रणे॥३३॥

रथार्धं केचिदादाय दिशो दश विबभ्रमुः ।
तत्र तत्र व्यदृश्यन्त यौक्त्रैः श्लिष्टाः स्म वाजिनः॥३४॥

रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः ।
गगनात्प्रच्युता सिद्धाः पुण्यानामिव संक्षये॥३५॥

निहतेषु च शूरेषु मद्रराजानुगेषु वै ।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः॥३६॥

अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः ।
बाणशब्दरवान् कृत्वा विमिश्राञ्शङ्खनिःस्वनैः॥३७॥

अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः ।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः॥३८॥

ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् ।
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्॥३९॥

दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम् ।
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः ।
दिशो भेजेऽथ सम्भ्रान्तं भ्रामितं दृढधन्विभिः॥४०॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे अष्टादशोऽध्यायः॥१८॥
ऊनविंशोऽध्यायः

सञ्जय उवाच। पातिते युधि दुर्धर्षे मद्रराजे महारथे ।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन्॥१॥

पातिते इति॥१॥

वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे ।
अपारे पारमिच्छन्तो हते शूरे महात्मना ।
मद्रराजे महाराज वित्रस्ताः शरविक्षताः॥२॥

अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ।
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः॥३॥

मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ।
न सन्धातुमनीकानि न च राजन् पराक्रमे॥४॥

आसीद्बुद्धिर्हते शल्ये भूयो योधस्य कस्यचित् ।
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत॥५॥

यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ।
तद्भयं स च नः शोको भूय एवाभ्यवर्तत॥६॥

निराशाच जये तस्मिन्हते शल्ये महारथे ।
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः॥७॥

मद्रराजे हते राजन् योधास्ते प्राद्रवन्भयात् ।
अश्वानन्ये गजानन्ये रथानन्ये महारथाः॥८॥

आरुह्य जवसम्पन्नाः पादाताः प्राद्रवंस्तथा ।
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः॥९॥

सम्प्राद्रवन् हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ।
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः॥१०॥

धावतश्चाप्यपश्याम श्वसमानान् शराहतान् ।
तान्प्रभग्नान् दुतान्दृष्ट्वा हतोत्साहान्पराजितान्॥११॥

अभ्यवर्तन्त पञ्चालाः पाण्डवाश्च जयैषिणः ।
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः॥१२॥

शङ्खशब्दाश्च शूराणां दारुणः समपद्यत ।
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्॥१३॥

अन्योन्यं समभाषन्त पञ्चालाः पाण्डवैः सह ।
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः॥१४॥

अद्य दुर्योधनो हीनो दीप्ताया नृपतिश्रियः ।
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः॥१५॥

विह्वलः पतितो भूमौ किल्विषं प्रतिपद्यताम् ।
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्॥१६॥

अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ।
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्॥१७॥

अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् ।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः॥१८॥

अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः ।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे॥१९॥

अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः॥२०॥

हते दुर्योधने युद्धे शक्रेणेवासुरे बले ।
यत्कृतं भीमसेनेन दुःशासनवधे तदा॥२१॥

नान्यः कर्तास्ति लोकेऽस्मिनृते भीमान्महाबलात् ।
अद्य श्रेष्ठस्य जानीतां पाण्डवस्य पराक्रमम्॥२२॥

मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ।
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ॥२३॥

निहते सौबले वीरे प्रवीरेषु च सर्वशः ।
कथं जयो न तेषां स्याद्येषां योद्धा धनञ्जयः॥२४॥

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ॥२५॥

शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ।
येषां च जगतीनाथो नाथः कृष्णो जनार्दनः॥२६॥

कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ।
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च॥२७॥

तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ।
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात्॥२८॥

यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ।
इत्येवं वदमानास्ते हर्षेण महता युताः॥२९॥

प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ।
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्॥३०॥

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ।
तान्प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान्॥३१॥

दुर्योधनस्तदा सूतमब्रवीद्विजयाय च ।
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम्॥३२॥

जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ।
जघने युध्यमानं हि कौन्तेयो मां समन्ततः॥३३॥

नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ।
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम्॥३४॥

सैन्यरेणुं समुद्भूतं पश्यस्वैनं समन्ततः ।
सिंहनादांश्च बहुशः शृणु घोरान् भयावहान्॥३५॥

तस्माद्याहि शनैः सूत जघनं परिपालय ।
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु॥३६॥

पुनरावर्तते तूर्णं मामकं बलमोजसा ।
तच्छ्रुत्वा तव पुत्रस्य शूरार्यसदृशं वचः॥३७॥

सारथिर्हेमसञ्छन्नान् शनैरश्वानचोदयत् ।
गजाश्च रथिभिर्हीनास्त्यक्तात्मानः पदातयः॥३८॥

एकविंशतिसाहस्राः संयुगायावतस्थिरे ।
नानादेशसमुद्भूता नानानगरवासिनः॥३९॥

अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ।
तेषामापततां तत्र संहृष्टानां परस्परम्॥४०॥

सम्पर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ।
भीमसेनस्तदा राजन् धृष्टद्युम्नश्च पार्षतः॥४१॥

बलेन चतुरङ्गेण नानादेश्यानवारयत् ।
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः॥४२॥

प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ।
आसाद्य भीमसेनं संरब्धा युद्धदुर्मदाः॥४३॥

धार्तराष्ट्रा विनेदुर्हि नान्यामकथयन्कथाम् ।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः॥४४॥

स वध्यमानः समरे पदातिगणसंवृतः ।
न चचाल ततः स्थानान्मैनाक इव पर्वतः॥४५॥

ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन्॥४६॥

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः॥४७॥

जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः॥४८॥

विप्रहीणरथाश्वांस्तानवधीत्पुरुषर्षभः ।
एकविंशतिसाहस्रान्पदातीन्समपोथयत्॥४९॥

हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत॥५०॥

पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः ।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः॥५१॥

नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः ।
नानाजात्या हतास्तत्र नानादेशसमागताः॥५२॥

पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् ।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम्॥५३॥

युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः ।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव॥५४॥

ते सर्वे तावकान् दृष्ट्वा महेष्वासान्पराङ्मुखान् ।
नात्यवर्तन्त ते पुत्रं वेलेव मकरालयम्॥५५॥

तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्॥५६॥

नातिदूरापयातं तु कृतबुद्धिं पलायने ।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम्॥५७॥

न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः॥५८॥

अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत्॥५९॥

विप्रयातांस्तु वो भिन्नान् पाण्डवाः कृतविप्रियाः ।
अनुसृत्य हनिष्यन्ति श्रेयान्नः समरे वधः॥६०॥

शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा॥६१॥

को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् ।
श्रेयो नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितम्॥६२॥

सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन॥६३॥

युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः ।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम्॥६४॥

न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते॥६५॥

श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः ।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः॥६६॥

तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः॥६७॥

धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् ।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन् गाण्डिवं धनुः॥६८॥

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम्॥६९॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे एकोनविंशोऽध्यायः॥१९॥
विंशोऽध्यायः

सञ्जय उवाच। सन्निवृत्ते जनौघे तु शाल्वो म्लेच्छगणाधिपः ।
अभ्यवर्तत सङ्क्रुद्धः पाण्डवानां महद्बलम्॥१॥

सन्निवृत्ते इति॥१॥

आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् ।
दृप्तमैरावतप्रख्यममित्रगणमर्दनम्॥२॥

योऽसौ महान्भद्रकुलप्रसूतः सुम्पूजितो धार्तराष्ट्रेण नित्यम् ।
सुकल्पितः शास्त्रविनिश्चयज्ञैः सदोपवाह्यः समरेषु राजन्॥३॥

तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते ।
स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान्समेतान्॥४॥

सितैः पृषत्कैर्विददार वेगैर्महेन्द्रवज्रप्रतिमैः सुघोरैः ।
ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमालयम्॥५॥

पुरा पूर्वं वज्रधरस्य ऐरावणस्थस्य वासवस्य पुरा प्रथमे चमूविमर्दे दैत्या अदैत्या देवाश्च यथा अन्तरं न ददृशुरित्यन्वयः। इवशब्दो वाक्यालङ्कारे॥५॥

नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः ।
ऐरावणस्थस्य चमूविर्दे दैत्याः पुरा वासवस्येव राजन्॥६॥

ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेकनागं ददृशुः समन्तात् ।
सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे॥७॥

सन्द्राव्यमाणं तु बलं परेषां परीतकल्पं विबभौ समन्ततः ।
नैवावतस्थे समरे भृशं भयाद्विमृद्यमानं तु परस्परं तदा॥८॥

ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन ।
दिशश्चतस्रः सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती॥९॥

दृष्ट्वा च तां वेगवतीं प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः ।
अपूजयंस्ते तु नराधिपं तं दध्मुश्च शङ्खान् शशिसन्निकाशान्॥१०॥

श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः ।
सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न कोपात्॥११॥

ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय ।
जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम्॥१२॥

तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहः ।
तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन् द्रुपदात्मजस्य॥१३॥

स तं द्विपेन्द्रं सहसा पतन्तमविध्यदग्निप्रतिमैः पृषत्कैः ।
कर्मारधौतैर्निशितैर्ज्वलद्भिर्नाराचमुख्यैस्त्रिभिरुपवेगैः॥१४॥

ततो परान्पञ्चशतान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे ।
स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे॥१५॥

तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं विनिवर्त्य शाल्वः ।
तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य रथं प्रदिश्य॥१६॥

दृष्ट्वा पतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छ्रीघ्रमेव ।
गदां प्रगृह्योग्रजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः॥१७॥

स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्या ।
उत्क्षिप्य हस्तेन नदन् महाद्विपो विपोथयामास वसुन्धरातले॥१८॥

पाञ्चालराजस्य सुतं च दृष्ट्वा तदार्दितं नागवरेण तेन ।
तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता॥१९॥

शरैश्च वेगं सहसा निगृह्य तस्याभितो व्यापततो गजस्य ।
स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणाश्च सङ्ख्ये॥२०॥

ततः पृषत्कान् प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् ।
तैराशुगैर्वध्यमाना रथौधाः प्रदुद्रुवुः सहितास्तत्र तत्र॥२१॥

तत् कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चालपुत्रा नृप सृञ्जयाश्च ।
हाहाकारैर्नादयन्ति स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः॥२२॥

पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् ।
ससम्भ्रमं भारतशत्रुघाती जवेन वीरोऽनुससार नागम्॥२३॥

ततस्तु नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् ।
गदां समाविद्ध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी॥२४॥

स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् ।
पपात नागो धरणीधराभः क्षितिप्रकम्पाच्चलितो यथाऽद्भिः॥२५॥

निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये ।
स शाल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन॥२६॥

हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा ।
यथाद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन॥२७॥

॥इति श्रीमहाभारते शल्यपर्वणि शाल्ववधे विंशतितमोऽध्यायः॥२०॥
एकविंशोऽध्यायः

सञ्जय उवाच। तस्मिंस्तु निहते शूरे शाल्वे समिति शोभने ।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः॥१॥

तस्मिन्निति॥१॥

तत् प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।
दधार समरे शूरः शत्रुसैन्यं महाबलः॥२॥

सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।
शैलोपमं स्थिरं राजन् कीर्यमाणं शरैर्युधि॥३॥

सात्वतं कृतवर्माणम्॥३॥

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्॥४॥

तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह ।
यदेको वारयामास पाण्डुसेनां दुरासदाम्॥५॥

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।
सिंहनादः प्रहृष्टानां दिविस्पृक् सुमहानभूत्॥६॥

तेन शब्देन वित्रस्ताः पञ्चालान् भरतर्षभ ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः॥७॥

स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्॥८॥

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम्॥९॥

सात्वतौ च महावीर्यौ धन्विनौ रथिनां वरौ ।
अन्योन्यमभिधावेतां शस्त्रप्रवरधारिणौ॥१०॥

पाण्डवाः सहपञ्चाला योधाश्चान्ये नृपोत्तमाः ।
प्रेक्षकाः समपद्यन्त तयोर्घोरे समागमे॥११॥

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ॥१२॥

चरन्तौ विविधान्मार्गान् हार्दिक्यशिनिपुङ्गवौ ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्॥१३॥

चापवेगबलोद्धृतान्मार्गणान् वृष्णिसिंहयोः ।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्॥१४॥

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्॥१५॥

स दीर्घबाहुः सङ्क्रुद्धस्तोत्रादित इव द्विपः ।
अष्टभिः कृतवर्माणमविद्ध्यत्परमेषुभिः॥१६॥

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे॥१७॥

निकृत्तं तद्धनुः श्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः॥१८॥

तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
आरोग्य च धनुः शीघ्रं महावीर्यो महाबलः॥१९॥

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्॥२०॥

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः ।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः॥२१॥

ततो राजन्महेष्वासः कृतवर्मा महारथः ।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्॥२२॥

रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष ।
चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम्॥२३॥

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः ।
चूर्णितं पातयामास मोहयन्निव माधवम्॥२४॥

ततोऽपरेण भल्लेन हृद्येनं समताडयत् ।
स युद्धे युयुधानेन हताश्वो हतसारथिः॥१५॥

कृतवर्मा कृतस्तेन धरणीमन्वपद्यत ।
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते॥२६॥

समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ।
पुत्रस्य तव चात्यर्थं विषादः समजायत॥२७॥

हतसूते हताश्वे तु विरथे कृतवर्मणि ।
हताश्वं च समालक्ष्य हतसूतमरिन्दम॥२८॥

अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ।
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्॥२९॥

अपोवाह महाबाहुं तूर्णमायोधनादपि ।
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि॥३०॥

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ।
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः॥३१॥

तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ।
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्॥३२॥

जवेनाभ्यपत्तूर्णं सर्वांश्चैको न्यवारयत् ।
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम्॥३३॥

शिखण्डिनं द्रौपदेयान्पञ्चालानां च ये गणाः ।
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष॥३४॥

असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ।
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः॥३५॥

यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशवान् ।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत्॥३६॥

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत॥३७॥

॥इति श्रीमहाभारते शल्यपर्वणि सात्यकिकृतवर्मयुद्धे एकविंशोऽध्यायः॥२१॥
द्वाविंशोऽध्यायः

सञ्जय उवाच। पुत्रस्तु ते महाराज रथस्थो रथिनां वरः ।
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्॥१॥

पुत्र इति॥१॥

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही ।
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्॥२॥

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे ।
हयो गजो रथो वापि यः स्याद्बाणैरविक्षतः॥३॥

यं यं हि समरे योधं प्रपश्यामि विशाम्पते ।
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत॥४॥

यथा सैन्येन रजसा समुद्भूतेन वाहिनी ।
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः॥५॥

बाणभूतामपश्याम पृथिवीं पृथिवीपते ।
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना॥६॥

तेषु योधसहस्रेषु तावकेषु परेषु च ।
एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम॥७॥

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् ।
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत॥८॥

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ ।
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः॥९॥

नकुलं त चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः ।
सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्॥१०॥

धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ।
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्॥११॥

अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः ।
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः॥१२॥

नकुलस्तु ततो वीरो राजानं नवभिः शरैः ।
घोररूपैर्महेष्वासो विव्याध च ननाद च॥१३॥

सात्यकिश्चैव राजानं शरेणानतपर्वणा ।
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः॥१४॥

अशीत्या भीमसेनश्च शरै राजानमार्पयन् ।
समन्तात्कीर्यमाणस्तु बाणसङ्धैर्महात्मभिः॥१५॥

न चचाल महाराज सर्वसैन्यस्य पश्यतः ।
लाघवं सौष्ठवं चापि वीर्यं चापि महात्मनः॥१६॥

अतिसर्वाणि भूतानि ददृशुः सर्वमानवाः ।
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम्॥१७॥

अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ।
तेषामापततां घोरस्तुमुलः समपद्यत॥१८॥

क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः ।
समासाद्य रणे ते तु राजानमपराजितम्॥१९॥

प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ।
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत्॥२०॥

नानाबाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ।
नाज्ञायन्त रणे वीरा न दिशः प्रदिशः कुतः॥२१॥

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ ।
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ॥२२॥

त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ ।
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्॥२३॥

तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो ।
नादं चकार बलवत्सर्वसैन्यानि कोपयन्॥२४॥

एतस्मिन्नन्तरे वीरं राजानमपराजितम् ।
अपोवाह रथेनाजौ सहदेवः प्रतापवान्॥२५॥

अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः ।
शकुनिं नरभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः॥२६॥

ननाद च महानादं प्रवरः सर्वधन्विनाम् ।
तद्युद्धमभवच्चित्रं घोररूपं च मारिष॥२७॥

प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् ।
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्॥२८॥

अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः ।
तथैव नकुलः शूरः सौबलस्य सुतं रणे॥२९॥

शरवर्षेण महता समन्तात्पर्यवारयत् ।
तौ तत्र समरे वीरो कुलपुत्रौ महारथौ॥३०॥

योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ ।
तथैव कृतवर्माणं शैनेयः शत्रुतापनः॥३१॥

योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे ।
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे॥३२॥

अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ।
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्॥३३॥

राजानं योधयामास पश्यतां सर्वधन्विनाम् ।
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ॥३४॥

प्रभिन्नयोर्यथासक्तं मत्तयोर्वरहस्तिनोः ।
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान्॥३५॥

विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः ।
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः॥३६॥

घोररूपमसंवार्यं निर्मर्यादमवर्तत ।
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम्॥३७॥

स च तान्प्रति संरब्धः प्रत्ययोधयदाहवे ।
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत॥३८॥

उत्थायोत्थाय हि यथा देहिनामिन्द्रयैर्विभो ।
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा॥३९॥

हया हयैः समासक्ता रथिनो राथभिः सह ।
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते॥४०॥

इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो ।
युद्धान्यासन्महाराज घोराणि च बहूनि च॥४१॥

ते समासाद्य समरे परस्परमरिन्दमाः ।
व्यनदंश्चैव जघ्नुश्च समासाद्य महाहवे॥४२॥

तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत ।
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः॥४३॥

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् ।
रजःसन्ध्याभ्रकलिलं दिवाकरपथं ययौ॥४४॥

रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः ।
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः॥४५॥

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः ।
वीरशोणितसिक्तायां भूमौ भरतसत्तम॥४६॥

उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ।
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत॥४७॥

यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणे ।
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वला प्रभाः॥४८॥

शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत् ।
महावेणुवनस्येव दह्यमानस्य पर्वते॥४९॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशोऽध्यायः

सञ्जय उवाच। वर्तमाने तदा युद्धे घोररूपे भयानके ।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः॥१॥

वर्तमाने इति॥१॥

तांस्तु यत्नेन महता सन्निवार्य महारथान् ।
पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्॥२॥

निवृत्ताः सहसा योधास्तव पुत्रजयैषिणः ।
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्॥३॥

तावकानां परेषां च देवासुररणोपमम् ।
परेषां तव सैन्ये वा नासीत्कश्चित्पराङ्मुखः॥४॥

अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम् ।
तेषां क्षयो महानासीद्युध्यतामितरेतरम्॥५॥

ततो युधिष्ठिरो राजा क्रोधेन महता युतः ।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान्॥६॥

त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खः शिलाशितैः ।
चतुर्भिर्निजघानाश्वान्नाराचैः कृतवर्मणः॥७॥

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् ।
अथ शारद्वतोऽष्टाभिः प्रत्यविद्ध्यद्युधिष्ठिरम्॥८॥

ततो दुर्योधनो राजा रथान्सप्तशतान् रणे ।
प्रैषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः॥९॥

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः ।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति॥१०॥

ते समन्तान्महाराज परिवार्य युधिष्ठिरम् ।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्॥११॥

ते दृष्ट्वा धर्मराजानं कौरवेयैस्तथा कृतम् ।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः॥१२॥

रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः ।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्॥१३॥

ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः ।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः॥१४॥

रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् ।
पाण्डवाः सह पञ्चालैः पुनरेवाभ्यवारयन्॥१५॥

तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः ।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम्॥१६॥

वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः ।
वध्यमानेषु योधेषु तावकेष्वितरेषु च॥१७॥

विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः ।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्॥१८॥

अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु ।
धावमानेषु योधेषु जयगृद्धिषु मारिष॥१९॥

संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे ।
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा॥२०॥

निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे ।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः॥२१॥

चचाल शब्दं कुर्वाणा सपर्वतवना मही ।
सदण्डाः सोल्मुका राजन् कीर्यमाणाः समन्ततः॥२२॥

उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः॥२३॥

अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् ।
एतान् घोराननादृत्य समुत्पातान्सुदारुणान्॥२४॥

पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः ।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः॥२५॥

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
युद्ध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्॥२६॥

ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः ।
हृष्टाः किलकिलाशब्दमकुर्वन्त परे तथा॥२७॥

अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः ।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्॥२८॥

ततो हतं परैस्तत्र मद्रराजबलं तदा ।
दुर्योधनबलं दृष्ट्वा पुनरासीत् पराङ्मुखम्॥२९॥

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥३०॥

अनीकं दशसाहस्रमश्वानां भरतर्षभ ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम्॥३१॥

बलेन तेन विक्रम्य वर्तमाने जनक्षये ।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः॥३२॥

तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः ।
अभज्यत महाराज पाण्डूनां सुमहद्बलम्॥३३॥

ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
अभ्यनादयदव्यग्रः सहदेवं महाबलम्॥३४॥

असौ सुबलपुत्रो नो जघनं पीड्य दंशितः ।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिम्॥३५॥

गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि ।
रथनीकमहं धक्ष्ये पञ्चालसहितोऽनघ॥३६॥

गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया ।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि॥३७॥

ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः ।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्॥३८॥

पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः ।
रणे ह्यभ्येद्रवंस्ते तु शकुनिं युद्धदुर्मदम्॥३९॥

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् ।
जघान पृष्ठतः सेनां जयगृद्धः प्रतापवान्॥४०॥

अश्वरोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् ।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान् रथान्॥४१॥

ते तत्र सादिनाः शूराः सौबलस्य महद्बलम् ।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्॥४२॥

तदुद्यतगदाप्रासमाकपुरुषसेवितम् ।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव॥४३॥

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् ।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत॥४४॥

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः॥४५॥

ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशाम्पते ।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत॥४६॥

प्रासानां पततां राजन् रूपमासीत्समन्ततः ।
शलभानामिवाकाशे तदा भरतसत्तम॥४७॥

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः ।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥४८॥

अन्योयं परिपिष्टाश्च समासाद्य परस्परम् ।
आविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः॥४९॥

ततोऽभवत्तमो घोरं सैन्येन रजसा वृते ।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम॥५०॥

अश्वान् राजन्मनुष्यांश्च रजसा संवृते सति ।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु॥५१॥

केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः ।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः॥५२॥

मल्ला इव समासाद्य निजघ्नुरितरेतरम् ।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः॥५३॥

भूमौ निपतिताश्चान्ये बहवो विजयैषिणः ।
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः॥५४॥

रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः ।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः॥५५॥

दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् ।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले॥५६॥

रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः ।
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः॥५७॥

सुसन्निकृष्टैः सङ्ग्रामे हतभूयिष्ठसैनिकैः ।
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते॥५८॥

षट्साहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः ।
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्॥५९॥

षट्साहस्रैर्हयैः शिष्टैरपायाच्छान्तवाहनम् ।
अश्वारोहाश्च पाण्डूनामब्रुवन् रुधिरोक्षिताः॥६०॥

सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः ।
न हि शक्यं स्थैर्योद्धुं कुत एव महागजैः॥६१॥

रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ।
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः॥६२॥

न पुनः सौबलो राजा युद्धमभ्यागमिष्यति ।
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः॥६३॥

प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ।
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते॥६४॥

एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ।
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः॥६५॥

पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ।
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत॥६६॥

तावकानां परेषां च परस्परवधैषिणाम् ।
ते चान्योन्यमवैक्षन्त तस्मिन् वीरसमागमे॥६७॥

योधाः पर्यपतन् राजन् शतशोऽथ सहस्रशः ।
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये॥६८॥

प्रादुरासीन्महाशब्दस्तालानां पततामिव ।
विमुक्तानां शरीराणां छिन्नानां पततां भुवि॥६९॥

सायुधानां च बाहूनामुरूणां च विशाम्पते ।
आसीत्कटकटाशब्दः सुमहाँल्लोमहर्षणः॥७०॥

निघ्नन्तो निशितैः शस्त्रैर्भातॄन्पुत्रान्सखीनपि ।
योधाः परिपतन्ति स्म यथामिषकृते खगाः॥७१॥

अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् ।
अहं पूर्वमहं पूर्वमिति निघ्नन्सहस्रशः॥७२॥

सङ्घातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः ।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥७३॥

स्फुरतां प्रतिविष्टानामश्वानां शीघ्रगामिनाम् ।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते॥७४॥

शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत ।
भिन्दतां परमर्माणि राजन् दुर्मन्त्रिते तव॥७५॥

श्रमाभिभूताः सरंब्धाः श्रान्तवाहाः पिपासवः ।
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः॥७६॥

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः ।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्॥७७॥

बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः ।
भूमावभ्यपतन् राजन् शरवृष्टिभिरावृताः॥७८॥

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः॥७९॥

नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते ।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी॥८०॥

असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः ।
तावकाः पाण्डवेयाश्च न न्यवर्तन्त भारत॥८१॥

प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् ।
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः॥८२॥

शिरो गृहीत्वा केशेषु कबन्धः स्म प्रदृश्यते ।
उद्यम्य च शितं खड्गं रुधिरेण परिप्लुतम्॥८३॥

तथोत्थितेषु बहुषु कबधेषु नराधिप ।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्॥८४॥

मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् ।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः॥८५॥

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः ।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः॥८६॥

कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः ।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः॥८७॥

त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् ।
रथाश्वपत्तिद्विरदाः पाण्डवनभिदुद्रुवुः॥८८॥

केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् ।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्॥८९॥

रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः ।
विमानेभ्यो दिवो भ्रष्टाः सिद्धाः पुण्यक्षयादिव॥९०॥

एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे ।
पितॄन् भ्रातॄन्वयस्यांश्च पुत्रानापि तथा परे॥९१॥

एवमासीदमर्यादं युद्धं भरतसत्तम ।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे॥९२॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशोऽध्यायः

सञ्जय उवाच। तस्मिञ्शब्दे मृदौ जाते पाण्डवैनिहते बले ।
अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः॥१॥

तस्मिन्निति॥१॥

स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि ।
युद्ध्यध्वमिति संहृष्टाः पुनः पुनररिन्दमाः॥२॥

अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः ।
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ॥३॥

असौ तिष्ठति कौरव्यो रणमध्ये महाबलः ।
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्॥४॥

यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः ।
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः॥५॥

तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ।
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा॥६॥

प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप ।
सर्वतः संवृत्तो वीरैः समरे चित्रयोधिभिः॥७॥

ततो दुर्योधनं दृष्ट्वा रथीनीके व्यवस्थितम् ।
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः॥८॥

दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते ।
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीनृपम्॥९॥

जहि राजन् रथानीकमश्वाः सर्वे जिता मया ।
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः॥१०॥

हते तस्मिन् रथानीके पाण्डवेनाभिपालिते ।
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा॥११॥

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः ।
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनाम्॥१२॥

सर्वे विवृततूणीराः प्रगृहीतशरासनाः ।
शरासनानि धुन्वानाः सिंहनादान्प्रणेदिरे॥१३॥

ततो ज्यातलनिर्घोषः पुनरासीद्विशाम्पते ।
प्रादुरासीच्छाराणां च सुमुक्तानां सुदारुणः॥१४॥

तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् ।
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः॥१५॥

चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् ।
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः॥१६॥

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन ।
वर्तमानस्य महतः समासाद्य परस्परम्॥१७॥

अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् ।
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्॥१८॥

समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव ।
अस्मानासाद्य सञ्जातं गोष्पदोपममच्युत॥१९॥

हते भीष्मे तु सन्दध्याच्छिवं स्यादिह माधव ।
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः॥२०॥

उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव ।
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः॥२१॥

तस्मिंस्तु तुमुले भीष्मे प्रच्युते धरणीतले ।
न जाने कारणं किं तु येन युद्धमवर्तत॥२२॥

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान् सुबालिशान् ।
पतिते शान्तनोः पुत्रे येऽकार्षुः संयुगं पुनः॥२३॥

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे ।
राधेये च विकर्णे च नैवाशाम्यत वैशसम्॥२४॥

अल्पावशिष्टे सैन्येऽस्मिन् सूतपुत्रे च पातिते ।
सपुत्रे वै नरव्याघ्र नैवाशाम्यत वैशसम्॥२५॥

श्रुतायुषि हते वीरे जलसन्धे च पौरवे ।
श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्॥२६॥

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन ।
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्॥२७॥

जयद्रथे च निहते राक्षसे चाप्यलायुधे ।
बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम्॥२८॥

भगदत्ते हते शूरे काम्बोजे च सुदारुणे ।
दुःशासने च निहते नैवाशाम्यत वैशसम्॥२९॥

दृष्ट्वा विनिहताञ्शूरान् पृथङ्माण्डलिकान्नृपान् ।
बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्॥३०॥

अक्षौहिणीपतीन् दृष्ट्वा भीमसेननिपातितान् ।
मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम्॥३१॥

को नु राजकुले जातः कौरवेयो विशेषतः ।
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात्॥३२॥

गुणतोऽभ्यधिकाज्ञात्वा बलतः शौर्यतोऽपि वा ।
अमूढः को नु युद्ध्येत जानन्प्राज्ञो हिताहितम्॥३३॥

यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः ।
प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम्॥३४॥

येन शान्तनवो वीरो द्रोणो विदुर एव च ।
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्॥३५॥

मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन ।
तथा माता हितं वाक्यं भाषमाणा हितैषिणी॥३६॥

प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ।
कुलान्तकरणो व्यक्तं जात एष जनार्दन॥३७॥

तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते ।
नैष दास्यति नो राज्यमिति मे मतिरच्युत॥३८॥

उक्तोऽहं बहुशस्तात विदुरेण महात्मना ।
न जीवन्दास्यते भागं धार्तराष्ट्रस्तु मानद॥३९॥

यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः ।
तावद्युष्मास्वपायेषु प्रचरिष्यति पापकम्॥४०॥

पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः॥४०॥

न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव ।
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः॥४१॥

तत् सर्वमद्य जानामि व्यवसायं दुरात्मनः ।
यदुक्तं वचनं तेन विदुरेण महात्मना॥४२॥

यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् ।
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः॥४३॥

उक्तं हि बहुशः सिद्धैर्जातमात्रे सुयोधने ।
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति॥४४॥

तदिदं वचनं तेषां निरुक्तं वै जनार्दन ।
क्षयं याता हि राजानो दुर्योधनकृते भृशम्॥४५॥

सोऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव ।
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते॥४६॥

वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ।
तदन्तं हि भवेद्वैरमनुमानेन माधव॥४७॥

एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया ।
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः॥४८॥

तस्माद्याहि चमूं वीर यावद्धन्मि शितैः शरैः ।
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे॥४९॥

क्षेममद्य करिष्यामि धर्मराजस्य माधव ।
हत्वैतद्दुर्बलं सैन्यं धार्तरष्ट्रस्य पश्यतः॥५०॥

सञ्जय उवाच। अभीषुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना ।
तद्बलौघममित्राणामभीतः प्राविशद्बलात्॥५१॥

कुन्तखड्गशरैर्घोरं शक्तिकण्टकसङ्कुलम् ।
गदापरिघपन्थानं रथनागमहाद्रुमम्॥५२॥

हयपत्तिलताकीर्णं गाहमानो महायशाः ।
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना॥५३॥

ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे ।
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः॥५४॥

ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः ।
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा॥५५॥

प्रादुरासीन्महाशब्दः शराणां नतपर्वणाम् ।
इषुभिश्छाद्यमानानां समरे सव्यसाचिना॥५६॥

असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन् भुवि ।
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः॥५७॥

नरान्नागन्समाहृत्य हयांश्चापि विशाम्पते ।
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः॥५८॥

आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः ।
न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा॥५९॥

सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः ।
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः॥६०॥

ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः ।
पार्थं न प्रजहुर्घोरा वध्यमानाः शितैः शरैः॥६१॥

शरचापधरः पार्थः प्रज्वलन्निव भास्करः ।
ददाह समरे योधान्कक्षमग्निरिव ज्वलन्॥६२॥

यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सुघोषः ।
भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी॥६३॥

एवं स नाराचगणप्रतापी शरार्चिरुच्चावचतिग्मतेजाः ।
ददाह सर्वां तव पुत्रसेना ममृष्यमाणस्तरसा तरस्वी॥६४॥

तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः ।
न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा॥६५॥

अनेकरूपाकृतिभिर्हि बाणैर्महारथानीकमानुप्रविश्य ।
स एव एकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः॥६६॥

॥इति श्रीमहाभारते शल्यपर्वणि सङ्कुलयुद्धे चतुर्विंशोऽध्यायः॥२४॥
पञ्चविंशोऽध्यायः

सञ्जय उवाच। पश्यतां यतमानानां शूराणामनिवर्तिनाम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥१॥

पश्यतामिति॥१॥

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।
विसृजन् दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः॥२॥

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः॥३॥

पितॄन् भ्रातॄन्परित्यज्य वयस्यानपि चापरे ।
हतधुर्या रथाः केचिद्धतसूतास्तथा परे॥४॥

भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते ।
अन्येषां सायकाः क्षीणास्तथान्ये बाणपीडिताः॥५॥

अक्षता युगपत्केचित्प्राद्रवन् भयपीडितः ।
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवः॥६॥

विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः ।
बान्धवांश्च नरव्याघ्र भ्रातॄन् सम्बन्धिनस्तथा॥७॥

दुद्रुवः केचिदुत्सृज्य तत्र तत्र विशाम्पते ।
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः॥८॥

निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहताः नराः ।
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम्॥९॥

विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ।
तानपास्य गताः केचित्पुनरेव युयुत्सवः॥१०॥

कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ।
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्॥११॥

वर्माणि च समारोप्य केचिद्भरतसत्तम ।
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च॥१२॥

पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ।
सज्जयित्वा रथान्किचिद्यथा मुख्यं विशाम्पते॥१३॥

आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ।
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे॥१४॥

त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ।
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः॥१५॥

पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ।
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः॥१६॥

नाकुलिस्तु शतानीको रथानीकमयोधयन् ।
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः॥१७॥

अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः ।
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप॥१८॥

बाणसङ्घाननेकान्वै प्रेषयामास भारत ।
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना॥१९॥

नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः ।
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः॥२०॥

अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पयत् ।
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः॥२१॥

तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्॥२२॥

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।
अपाक्रामद्धतरथो नातिदूरमरिन्दमः॥२३॥

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः ।
तव पुत्रो महाराज प्रययौ यत्र सौबलः॥२४॥

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।
पाण्डवान् रथिनः सर्वान्समन्तात्पर्यवारयन्॥२५॥

ते वृताः समरे पञ्च गजानीकेन भारत ।
अशोभन्त महाराज ग्रहा व्याप्ता घनैरिव॥२६॥

ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः ।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः॥२७॥

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत्॥२८॥

तत्रैकबाणनिहतानपश्याम महागजान् ।
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना॥२९॥

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः ।
करेणादाय महतीं गदामभ्यपतद्बली॥३०॥

अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ।
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्॥३१॥

वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रे च सुस्रवुः ।
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे॥३२॥

गदया भीमसेनेन भिन्नकुम्भान् रजस्वलान् ।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान्॥३३॥

प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः ।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः॥३४॥

प्रभिन्नकुम्भास्तु बहून्द्रवमाणानितस्ततः ।
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः॥३५॥

युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।
गार्ध्रपत्रैः शितैर्बाणैर्निन्युर्वै यमसादनम्॥३६॥

धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् ।
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते॥३७॥

दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् ।
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत्॥३८॥

पुत्रः पञ्चालराजस्य जिघांसुः कुञ्जरान् ययौ ।
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम्॥३९॥

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः॥४०॥

ते पश्यमाना राजानं वर्तमाने जनक्षये ।
मन्वाना निहतं तत्र तव पुत्रं महारथाः॥४१॥

विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ।
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः॥४२॥

हित्वा पञ्चालराजस्य तदनीकं दुरुत्सहम् ।
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः॥४३॥

दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति ।
युद्ध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति॥४४॥

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन्॥४५॥

इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः॥४६॥

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।
भित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्॥४७॥

कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः ।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः॥४८॥

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः ।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकम्॥४९॥

दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् ।
पराक्रान्तास्ततो वीरा निराशा जीविते तदा॥५०॥

विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ।
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान्॥५१॥

राजन्बलेन व्यङ्गेन त्यक्त्वा जीवितमात्मनः ।
आत्मना पञ्चमोऽयुद्ध्यं पाञ्चालस्य बलेन ह॥५२॥

तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः ।
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः॥५३॥

धृष्टद्युम्नं महारौद्रं तत्र नोऽभूद्रणो महान् ।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः॥५४॥

अथापश्यं सात्यकिं तमुपायान्तं महारथम् ।
रथैश्चतुःशतैर्वीरो मामभ्यद्रवदाहवे॥५५॥

धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छ्रान्तवाहनात् ।
पतिता माधवानीकं दुष्कृती नरकं यथा॥५६॥

तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ।
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्॥५७॥

जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ।
ततो मुहूर्तादिव तद्गजानीकमविध्यत॥५८॥

गदया भीमसेनेन नाराचैरर्जुनेन च ।
अभिषिष्टैर्महानागैः समन्तात्पर्वतोपमैः॥५९॥

नातिप्रसिद्धैव गतिः पाण्डवानामजायत ।
रथमार्गं ततश्चक्रे भीमसेनो महाबलः॥६०॥

पाण्डवानां महाराज व्यपाकर्षन्महागजान् ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥६१॥

अपश्यन्तो स्थानीके दुर्योधनमरिन्दमम् ।
राजानं मृगयामासुस्तव पुत्रं महारथम्॥६२॥

परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः ।
राज्ञो दर्शनसंविग्ना वर्तमाने जनक्षये॥६३॥

॥इति श्रीमहाभारते शल्यपर्वणि दुर्योधनापयाने पञ्चविंशोऽध्यायः॥२५॥
षड्विंशोऽध्यायः

सञ्जय उवाच। गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत ।
वध्यमाने बले चैव भीमसेनेन संयुगे॥१॥

गजानीके इति॥१॥

चरन्तं च तथा दृष्ट्वा भीमसेनमरिन्दमम् ।
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम्॥२॥

समेत्य समरे राजन् हतशेषाः सुतास्तव ।
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव॥३॥

सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ।
दुर्मर्षणः श्रुतान्तश्च जैत्रौ भूरिबलो रविः॥४॥

जयत्सेनः सुजातश्च तथा दुर्विषहोऽरिहा ।
दुर्विमोचननामा च दुष्प्रधर्षस्तथैव च॥५॥

श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः ।
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः॥६॥

भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ।
ततो भीमो महाराज स्वरथं पुनरास्थितः॥७॥

मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ।
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे॥८॥

भीमसेनमुपासेदुः प्रवणादिव कुञ्जरम् ।
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह॥९॥

क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ।
ततोऽपरेण भल्लेन सर्वावरणभेदिना॥१०॥

श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ।
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव॥११॥

पातायामास कौरव्यं रथोपस्थादरिन्दमः ।
स पपात स्थाद्राजन् भूमौ तूर्णं ममार च॥१२॥

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।
शतेन गृध्रवाजानां शराणां नतपर्वणाम्॥१३॥

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः॥१४॥

ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः ।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः॥१५॥

ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः ।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे॥१६॥

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः॥१७॥

दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव ।
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे॥१८॥

तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ।
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव॥१९॥

भल्लेन पातयामास भीमो दुर्विषहं रणे ।
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम्॥२०॥

दृष्ट्वा तु निहतान् भ्रातॄन्बहूनेकेन संयुगे ।
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात्॥२१॥

विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् ।
विसृजन्सायकांश्चैव विषाग्निप्रतिमान् बहून॥२२॥

स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे ।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्॥२३॥

ततोऽन्यद्धनुरादाय भीमसेनो महाबलः ।
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्॥२४॥

महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् ।
यादृशं समरे पूर्वं जम्भवासवयोर्युधि॥२५॥

तयोस्तत्र शितैर्मुक्तैर्यमदण्डनिभैः शरैः ।
समाच्छन्ना धरा सर्वा खं दिशो विदिशस्तथा॥२६॥

ततः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः ।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्॥२७॥

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना ।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः॥२८॥

ततो भीमो रुषाविष्ट पुत्रस्य तव मारिष ।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम्॥२९॥

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्॥३०॥

श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी ।
अथास्याददतः खङ्गं शतचन्द्रं च भानुमत्॥३१॥

क्षुरप्रेण शिरः कायात्पातायामास पाण्डवः ।
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना॥३२॥

पपात कायः स रथाद्वसुधामनुनादयन् ।
तस्मिन्निपतिते वीरे तावका भयमोहिताः॥३३॥

अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ।
तानापतत एवाशु हतशेषाद्बलार्णवात्॥३४॥

दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् ।
ते तु तं वै समासाद्य परिवव्रुः समन्ततः॥३५॥

ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः ।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्॥३६॥

ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि॥३७॥

हत्वा शतसहस्राणि पत्तीनां परमेषुभिः ।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते॥३८॥

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो॥३९॥

तं तथा युद्ध्यमानं च विनिघ्नन्तं च तावकान् ।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप॥४०॥

विद्राव्य च कुरुन्सर्वांस्तांश्च हत्वा पदानुगान् ।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्॥४१॥

हतभूयिष्ठयोधा तु तव सेना विशाम्पते ।
किञ्चिच्छेषा महाराज कृपणं समपद्यत॥४२॥

॥इति श्रीमहाभारते शल्यपर्वणि एकादशधार्तराष्ट्रवधे षड्विंशोऽध्यायः॥२६॥
सप्तविंशोऽध्यायः

सञ्जय उवाच। दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ॥१॥

दुर्योधन इति॥१॥

ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम्॥२॥

शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः ।
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः॥३॥

परिश्रान्तश्च नकुलः सहदेवश्च भारत ।
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान्॥४॥

दुर्योधनमभित्यज्य त्रय एते व्यवस्थिताः ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः॥५॥

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः॥६॥

असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः॥७॥

प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः ।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि॥८॥

गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम ।
यावन्न विद्रवन्त्यते तावज्जहि सुयोधनम्॥९॥

यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति ।
परिश्रान्तबलस्तात नैष मुच्येत किल्विषी॥१०॥

हत्वा तव बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः ।
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत्॥११॥

निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।
ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः॥१२॥

एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत ।
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव॥१३॥

यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ।
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः॥१४॥

मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ।
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च॥१५॥

रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः॥१६॥

अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः॥१७॥

एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।
मोक्षो न नूनं कालात्तु विद्युते भुवि कस्यचित्॥१८॥

तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् ।
अद्याह्ना हि महाराजो हतामित्रो भविष्यति॥१९॥

न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये ।
त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः॥२०॥

तान्वै सर्वान्हनिष्यामि यद्यपि स्युर्न मानुषाः ।
अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रमागरम्॥२१॥

अपनेष्यामि गान्धारं घातयित्वा शितैः शरैः ।
निकृत्या वै दुराचारो यानि रत्नानि सौबलः॥२२॥

सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ।
अद्य ता अपि रोत्स्यन्ति सर्वा नागपुरे स्त्रियः॥२३॥

श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ।
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति॥२४॥

अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति ।
नापयाति भयात्कृष्णं सङ्ग्रामाद्यदि चेन्मम॥२५॥

निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ।
मम ह्येतदशक्तं वै वाजिवृन्दमरिन्दम॥२६॥

सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ।
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना॥२७॥

अचोदयद्धयान् राजन् दुर्योधनबलं प्रति ।
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः॥२८॥

भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ।
प्रययुः सिंहनादेन दुर्योधनजिघांसया॥२९॥

तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः॥३०॥

सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् ।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना॥३१॥

सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ।
ततो हि यत्नतः क्षिप्रं तव पुत्रो जनाधिप॥३२॥

प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ।
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः॥३३॥

रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ।
प्रतिलभ्य ततः संज्ञा सहदेवो विशाम्पते॥३४॥

दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ।
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः॥३५॥

शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ।
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः॥३६॥

पातयित्वा हयान् सर्वास्त्रिगर्तानां रथान् ययौ ।
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः॥३७॥

अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ।
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः॥३८॥

ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ।
शिलाशितेन च विभो क्षुरप्रेण महायशाः॥३९॥

शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् ।
सत्येषुमध चादत्त योधानां मिषतां ततः॥४०॥

यथा सिंहो वने राजन् मृगं परिबुभुक्षितः ।
तं निहत्य ततः पार्थः सुशर्माणः त्रिभिः शरैः॥४१॥

विद्ध्वा तानहनत् सर्वान् रथान् रुक्मविभूषितान् ।
ततः प्रायात् त्वरन्पार्थो दीर्घकालं सुसंवृतम्॥४२॥

मुञ्चन् क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ।
तमर्जुनः पृषत्कानां शतेन भरतर्षभ॥४३॥

पूरयित्वा ततो वाहान् प्राहरत्तस्य धन्विनः ।
ततः शरं समादाय यमदण्डोपमं तदा॥४४॥

सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ।
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना॥४५॥

सुशर्माण समासाद्य बिभेद हृदयं रणे ।
स गतासुमहाराज पपात धरणीतले॥४६॥

नन्दयन्पाण्डवान् सर्वान् व्यथयंश्चापि तावकान् ।
शुशर्माणं रणे हत्वा पुत्रानस्य महारथान्॥४७॥

सप्त चाष्टौ च त्रिंशच्च सायकैरनयत् क्षमम् ।
ततोऽस्य निशितैर्बाणैः सर्वान् हत्वा पदानुगान्॥४८॥

अभ्यगाद्भारती सेनां हतशेषां महारथः ।
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप॥४९॥

सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ।
ततोऽस्य प्रहसन् क्रुद्धः शिरः कायादपाहरत्॥५०॥

क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ।
तस्मिंस्तु निहते वीर ततस्तस्य पदानुगाः॥५१॥

परिववू रणे भीमं किरन्तो विविधाशरान् ।
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः॥५२॥

इन्द्राशनिसमस्पर्शः समन्तात्पर्यवाकिरत् ।
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ॥५३॥

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः ।
भीमसेनं समासाद्य ततोऽयुद्ध्यन्त भारत॥५४॥

स तान्सर्वाशरैघोरैरवाकिरत पाण्डवः ।
तथैव तावका राजन्पाण्डवेयान् महारथान्॥५५॥

शरवर्षेण महता समन्तात् पर्यवारयन् ।
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह॥५६॥

तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ।
तत्र योधास्तदा पेतुः परस्परसमाहताः ।
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान्॥५७॥

॥इति श्रीमहाभारते शल्यपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः॥२७॥
अष्टाविंशोऽध्यायः

सञ्जय उवाच। तस्मिन् प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये ।
शकुनिः सौबलो राजन् सहदेवं समभ्ययात्॥१॥

तस्मिन्निति॥१॥

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् ।
शरौघान् प्रेषयामास पतङ्गानिव शीघ्रगान्॥२॥

उलूकश्च रणे भीमं विव्याध दशभिः शरैः ।
शकुनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः॥३॥

सायकानां नवत्या वै सहदेवमवाकिरत् ।
ते शूराः समरे राजन् समासाद्य परस्परम्॥४॥

विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।
स्वर्णपुङ्गैः शिलाधौतेराकर्णप्रहितैः शरैः॥५॥

तेषां चापभुजोत्सृष्टा शरवृष्टिविशाम्पते ।
आच्छादयद्दिशः सर्वा धारा इव पयोमुचः॥६॥

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ॥७॥

रणे वीरशब्दाविशिष्टे॥७॥

ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत ।
सान्धकारमिवाकाशमभवत्तत्र तत्र ह॥८॥

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते ।
तत्र तत्र वृतो मार्गो विकर्षद्भिर्हतान् बहून्॥९॥

निहतानां हयानां च सहैव हयसादिभिः ।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष॥१०॥

ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वधैः ।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव॥११॥

योधास्तत्र महाराज समासाद्य परस्परम् ।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्॥१२॥

उद्वत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः ।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्जल्कसन्निभैः॥१३॥

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः ।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः॥१४॥

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि ।
क्रव्यादगणसञ्छन्ना घोराभूत्पृथिवी विभो॥१५॥

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्॥१६॥

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्॥१७॥

स विह्वलो महाराज रथोपस्थ उपाविशत् ।
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्॥१८॥

सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ।
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः॥१९॥

विनिर्भिद्याकरोच्चैव सिंहनादमरिन्दमः ।
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः॥२०॥

प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ।
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्॥२१॥

निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ।
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते॥२२॥

प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् ।
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः॥२३॥

पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ।
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः॥२४॥

क्षुब्धसागरसङ्काशाः क्षुभिताः सर्वतोऽभवन् ।
तांस्तथा पुरतो दृष्ट्वा सौबलस्य पदानुगान्॥२५॥

प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः ।
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते॥२६॥

शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव॥२७॥

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः॥२८॥

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे॥२९॥

तं भीमसेनः समरे विव्याध नवभिः शरैः ।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः॥३०॥

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः ।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः॥३१॥

पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ।
ततोऽस्यापततः शूराः सहदेवः प्रतापवान्॥३२॥

उलूकस्य महाराज भल्लेनापाहरच्छिरः ।
स जगाम रथाद्भूमिं सहदेवेन पातितः॥३३॥

रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान् युधि ।
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत॥३४॥

साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ।
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्॥३५॥

सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ।
तानपास्य शरान्मुक्ताशरसङ्धैः प्रतापवान्॥३६॥

सहदेवो महाराज धनुश्चिच्छेद संयुगे ।
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा॥३७॥

प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ।
तमापतन्तं सहसा घोररूपं विशाम्पते॥३८॥

द्विधा चिच्छेद समरे सौबलस्य हसन्निव ।
असिं दृष्ट्वा तथा च्छिन्नं प्रगृह्य महतीं गदाम्॥३९॥

प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ।
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्॥४०॥

प्रेषयामास सङ्क्रुद्धः पाण्डवं प्रति सौबलः ।
तामापतन्तीं सहसा शरैः कनकभूषणैः॥४१॥

त्रिधा चिच्छेद समरे सहदेवो हसन्निव ।
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा॥४२॥

शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ।
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्॥४३॥

दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ।
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः॥४४॥

धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ।
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्॥४५॥

शरैरनेकसाहस्रैर्वारयामास संयुगे ।
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्॥४६॥

आससाद रणे यान्तं सहदेवोऽथ सौबलम् ।
स्वमंशमवशिष्टं तं संस्मृत्य शकुनि नृप॥४७॥

रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ।
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः॥४८॥

स सौबलमभिदुत्य गार्ध्रपत्रैः शिलाशितैः ।
भृशमभ्यहनत्क्रुद्धस्तोत्रैरिव महाद्विपम्॥४९॥

उवाच चैनं मेधावी विगृह्य स्मारयन्निव ।
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव॥५०॥

यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले ।
फलमद्य प्रपश्यस्व कर्मणस्तस्य दुर्मते॥५१॥

निहत्तास्ते दुरात्मानो येऽस्मानवहसन्पुरा ।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः॥५२॥

अद्य ते निहनष्यामि क्षुरेणोन्मथितं शिरः ।
वृक्षात्फलमिवाविद्धं लगुडेन प्रमाथिना॥५३॥

एवमुक्त्वा महाराज सहदेवो महाबलः ।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्॥५४॥

अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः ।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव॥५५॥

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः ।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्॥५६॥

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः॥५७॥

ततो भूयो महाराज सहदेवः प्रतापवान् ।
शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्॥५८॥

ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे ।
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम्॥५९॥

माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे ।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ननाद चोच्चैस्तरसाऽऽजिमध्ये॥६०॥

तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन ।
भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः॥६१॥

शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन ।
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः॥६२॥

स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिराशितेन ।
प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम्॥६३॥

भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात्कबन्धं रुधिरावसिक्तम् ।
विस्पन्दमानं निपपात घोरं रथोत्तमात्पार्थिव पार्थिवस्य॥६४॥

हृतोत्तमाङ्जं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् ।
योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः॥६५॥

प्रविद्रुताः शुष्कमुखा विसंज्ञा गाण्डीवघोषेण समाहताश्च ।
भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः॥६६॥

ततो रथाच्छुकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः ।
शङ्खान्प्रदध्मुः समरेऽतिहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः॥६७॥

तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ ।
दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति॥६८॥

॥इति श्रीमहाभारते शल्यपर्वणि शकुन्युलूकवधे अष्टाविंशोऽध्यायः॥२८॥
॥समाप्तं शल्यवधपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in