शल्यवधपर्व - १ह्रदप्रवेशपर्व - २गदायुद्धपर्व - ३

ह्रदप्रवेशपर्व

एकोनत्रिंशोऽध्यायः

सञ्जय उवाच। ततः क्रुद्धा महाराज सौबलस्य पदानुगाः ।
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्॥१॥

ततः क्रुद्ध इति॥१॥

तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः ।
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः॥२॥

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥३॥

सङ्गृहीतायुधान् वाहून्योधानामभिधावताम् ।
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि॥४॥

ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः ।
चरता लोकवीरेण प्रहताः सव्यसाचिना॥५॥

ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् ।
हतशेषान्समानीय क्रुद्धो रथगणान् बहून्॥६॥

कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः ।
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः॥७॥

समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् ।
पाञ्चाल्यं चापि सबलं हत्वा शघ्रं न्यवर्तत॥८॥

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः ।
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्॥९॥

तानभ्यापततः शीघ्रं हतशेषान्महारणे ।
शरैराशीविषाकारैः पाण्डवाः समवाकिरन्॥१०॥

तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः ।
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत॥११॥

प्रतिष्ठमानं तु भयान्नावतिष्ठति दंशितम् ।
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते॥१२॥

न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा ।
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः॥१३॥

अभ्यघ्नंस्तावकान् युद्धे मुहूर्तादिव भारत ।
ततो निःशेषमभवत्तत्सैन्यं तव भारत॥१४॥

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः॥१५॥

तेषु राजसहस्रेषु तावकेषु महात्मसु ।
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः॥१६॥

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् ।
विहीनः सर्वयोधैश्च पाण्डवान् वीक्ष्य संयुगे॥१७॥

मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः ।
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्॥१८॥

दुर्योधनो महाराज कश्मलेनाभिसंवृतः ।
अपयाने मनश्चक्रे विहीनबलवाहनः॥१९॥

धृतराष्ट्र उवाच। निहते मामके सैन्ये निःशेषे शिबिरे कृते ।
पाण्डवानां बले सूतं किं नु शेषमभूत्तदा॥२०॥

एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय ।
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम॥२१॥

बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ।
सञ्जय उवाच। स्थानां द्वे सहस्रे तु सप्त नागशतानि च॥२२॥

पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ।
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम्॥२३॥

परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ।
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः॥२४॥

नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ।
नर्दमानान्परान्दृष्ट्वा स्वबलस्य संक्षयम्॥२५॥

तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः ।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्॥२६॥

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।
गदामादाय तेजस्वी पदातिः प्रस्थितो हृदम्॥२७॥

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः॥२८॥

इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा ।
महद्वैशसमस्माकं क्षत्रियाणां च संयुगे॥२९॥

एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः ।
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम्॥३०॥

पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः ।
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति॥३१॥

शक्त्वृष्टिप्रासहस्तानां बलानामभिगर्जताम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥३२॥

तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः ।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत॥३३॥

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।
महावनमिव च्छिन्नमभवत्तावकं बलम्॥३४॥

अनेकशतसाहस्रे बले दुर्योधनस्य ह ।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत॥२५॥

द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात्॥३६॥

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता॥३७॥

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा॥३८॥

तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन॥३९॥

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय॥४०॥

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः॥४१॥

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्॥४२॥

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम्॥४३॥

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः॥४४॥

ततोऽस्मै तदहं सर्वमुक्तवान् ग्रहणं तदा ।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे॥४५॥

स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् ।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः॥४६॥

तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् ।
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम्॥४७॥

त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्॥४८॥

स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः ।
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत॥४९॥

त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय ।
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः॥५०॥

ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् ।
दुर्योधनस्तव सुतः प्रविष्टो हृदमित्युत॥५१॥

सुहृद्धिस्तादृशैर्हीनः पुत्रैर्धातृभिरेव च ।
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः॥५२॥

आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् ।
अस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम्॥५३॥

एवमुक्त्वा महाराज प्राविशत्तं महाह्रदम् ।
अस्तम्भयत तोयं च मायया मनुजाधिपः॥५४॥

तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथान् श्रान्तवाहनान् ।
अपश्यं सहितानेकस्तं देशं समुपेयुधः॥५५॥

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान्॥५६॥

ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् ।
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय॥५७॥

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय॥५८॥

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्॥५९॥

ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः ।
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम॥६०॥

तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ।
अहो धिक् स न जानाति जीवतोऽस्मान्नराधिपः॥६१॥

पर्याप्ता हि वयं तेन सह योधयितुं परान् ।
ते तु तत्र चिरं कालं विलप्य च महारथाः॥६२॥

प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे ।
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्॥६३॥

सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ।
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति॥६४॥

सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ।
ततो वृद्धा महाराज योषितां रक्षिणो नराः॥६५॥

राजदारानुपादाय प्रययुर्नगरं प्रति ।
तत्र विक्रोशमानानां रुदतीनां च सर्वशः॥६६॥

प्रादुरासीन्महाशब्दः श्रुत्वा तद्बलसंक्षयम् ।
ततस्ता योषितो राजन् रुदन्त्यो वै मुहुर्मुहुः॥६७॥

कुरर्य इव शब्देन नादयन्त्यो महीतलम् ।
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत॥६८॥

लुलुचुश्च तदा केशान् क्रोशत्यस्तत्र तत्र ह ।
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च॥६९॥

शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते ।
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः॥७०॥

राजदारानुपादाय प्रययुर्नगरं प्रति ।
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते॥७१॥

शयनीयानि शुभ्राणि स्पार्ध्यास्तरणवन्ति च ।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः॥७२॥

आस्थायाश्वतरीयुक्तान् स्यन्दनानपरे पुनः ।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति॥७३॥

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।
ददृशुस्ता महाराज जना याताः पुरं प्रति॥७४॥

ताः स्त्रियो भरतश्रेष्ठ सौ कुमार्यसमन्विताः ।
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः॥७५॥

आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ।
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः॥७६॥

अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् ।
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति॥७७॥

तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे ।
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत्॥७८॥

जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः ।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः॥७९॥

हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ।
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया॥८०॥

विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ।
इतस्ततः पलायन्ते हतनाथा हतौजसः॥८१॥

अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः ।
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश॥८२॥

दुर्योधनस्य सचिवा ये केचिदवशेषिताः ।
राजदारानुपादाय प्रययुर्नगरं प्रति॥८३॥

प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभुो ।
युधिष्ठिरमनुज्ञाय भीमसेनं तथैव च॥८४॥

एतमर्थं महाबाहुरुभयोः स न्यवेदयत् ।
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता॥८५॥

परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ।
ततः स रथमास्थाय दुतमश्वानचोदयत्॥८६॥

संवाहयितवांश्चापि राजदारान्पुरं प्रति ।
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे॥८७॥

प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ।
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्॥८८॥

राज्ञः समीयान्निष्क्रान्तं शोकोसपहतचेतसम् ।
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम्॥८९॥

दिष्ट्या कुरुक्षये वृत्ते अस्मिस्त्वं पुत्र जीवसि ।
विना राज्ञः प्रेवशाद्वै किमसि त्वमिहागतः॥९०॥

एतद्वै कारणं सर्वं विस्तरेण निवेदय ।
युयुत्सुरुवाच। निहते शकुनौ तत्र सज्ञातिसुतबान्धवे॥९१॥

हतशेषपरीवारो राजा दुर्योधनस्ततः ।
स्वकं सहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्॥९२॥

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति॥९३॥

ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः ।
वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन् भयात्॥९४॥

ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् ।
प्रविष्टो हास्तिनपुरं रक्षन्लोकान्प्रधावितान्॥९५॥

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् ।
प्राप्तकालमिति श्रुत्वा विदुरः सर्वधर्मवित्॥९६॥

अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् ।
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये॥९७॥

रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया ।
दिष्ट्या त्वामिह सङ्ग्रामादस्माद्वीरक्षयात्पुरम्॥९८॥

समागतमपश्याम ह्यंशुमन्तमिव प्रजाः ।
अन्धस्य नृपतेर्यष्टिर्लुब्धस्य दीर्घदर्शिनः॥९९॥

बहुशो याच्यमानस्य दैवोपहतचेतसः ।
त्वमेको व्यसानर्तस्य ध्रियसे पुत्र सर्वथा॥१००॥

अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ।
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः॥१०१॥

युयुत्सुं समनुप्राप्य प्रविवेश नृपक्षयम् ।
पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्॥१०२॥

निरानन्दं गतश्रीकं हृताराममिवाशयम् ।
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत्॥१०३॥

विदुरः सर्वधर्मज्ञो विकुवेनान्तरात्मना ।
विवेश नगरे राजन्निःशश्वास शनैः शनैः॥१०४॥

युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ।
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः ।
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम्॥१०५॥

॥इति श्रीमहाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनविंशोऽध्यायः॥२९॥
॥समाप्तं ह्रदप्रवरशपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in