सञ्जय उवाच।
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः
।
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्॥१॥
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः
।
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः॥२॥
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्
।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥३॥
सङ्गृहीतायुधान् वाहून्योधानामभिधावताम्
।
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि॥४॥
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः
।
चरता लोकवीरेण प्रहताः सव्यसाचिना॥५॥
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्
।
हतशेषान्समानीय क्रुद्धो रथगणान् बहून्॥६॥
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः
।
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः॥७॥
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान्
।
पाञ्चाल्यं चापि सबलं हत्वा शघ्रं न्यवर्तत॥८॥
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः
।
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्॥९॥
तानभ्यापततः शीघ्रं हतशेषान्महारणे
।
शरैराशीविषाकारैः पाण्डवाः समवाकिरन्॥१०॥
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः
।
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत॥११॥
प्रतिष्ठमानं तु भयान्नावतिष्ठति दंशितम्
।
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते॥१२॥
न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा
।
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः॥१३॥
अभ्यघ्नंस्तावकान् युद्धे मुहूर्तादिव भारत
।
ततो निःशेषमभवत्तत्सैन्यं तव भारत॥१४॥
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत
।
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः॥१५॥
तेषु राजसहस्रेषु तावकेषु महात्मसु
।
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः॥१६॥
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्
।
विहीनः सर्वयोधैश्च पाण्डवान् वीक्ष्य संयुगे॥१७॥
मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः
।
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्॥१८॥
दुर्योधनो महाराज कश्मलेनाभिसंवृतः
।
अपयाने मनश्चक्रे विहीनबलवाहनः॥१९॥
धृतराष्ट्र उवाच।
निहते मामके सैन्ये निःशेषे शिबिरे कृते
।
पाण्डवानां बले सूतं किं नु शेषमभूत्तदा॥२०॥
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय
।
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम॥२१॥
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः
।
सञ्जय उवाच।
स्थानां द्वे सहस्रे तु सप्त नागशतानि च॥२२॥
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः
।
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम्॥२३॥
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः
।
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः॥२४॥
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः
।
नर्दमानान्परान्दृष्ट्वा स्वबलस्य संक्षयम्॥२५॥
तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः
।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्॥२६॥
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव
।
गदामादाय तेजस्वी पदातिः प्रस्थितो हृदम्॥२७॥
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः
।
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः॥२८॥
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा
।
महद्वैशसमस्माकं क्षत्रियाणां च संयुगे॥२९॥
एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः
।
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम्॥३०॥
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः
।
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति॥३१॥
शक्त्वृष्टिप्रासहस्तानां बलानामभिगर्जताम्
।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः॥३२॥
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः
।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत॥३३॥
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे
।
महावनमिव च्छिन्नमभवत्तावकं बलम्॥३४॥
अनेकशतसाहस्रे बले दुर्योधनस्य ह
।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत॥२५॥
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः
।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात्॥३६॥
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत्
।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता॥३७॥
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः
।
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा॥३८॥
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
।
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन॥३९॥
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः
।
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय॥४०॥
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः
।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः॥४१॥
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्
।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्॥४२॥
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्
।
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम्॥४३॥
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे
।
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः॥४४॥
ततोऽस्मै तदहं सर्वमुक्तवान् ग्रहणं तदा
।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे॥४५॥
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम्
।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः॥४६॥
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान्
।
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम्॥४७॥
त्रयः किल रथाः शिष्टास्तावकानां नराधिप
।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्॥४८॥
स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः
।
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत॥४९॥
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय
।
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः॥५०॥
ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम्
।
दुर्योधनस्तव सुतः प्रविष्टो हृदमित्युत॥५१॥
सुहृद्धिस्तादृशैर्हीनः पुत्रैर्धातृभिरेव च
।
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः॥५२॥
आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात्
।
अस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम्॥५३॥
एवमुक्त्वा महाराज प्राविशत्तं महाह्रदम्
।
अस्तम्भयत तोयं च मायया मनुजाधिपः॥५४॥
तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथान् श्रान्तवाहनान्
।
अपश्यं सहितानेकस्तं देशं समुपेयुधः॥५५॥
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्
।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान्॥५६॥
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वाननोदयन्
।
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय॥५७॥
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्
।
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय॥५८॥
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम्
।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्॥५९॥
ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः
।
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम॥६०॥
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्
।
अहो धिक् स न जानाति जीवतोऽस्मान्नराधिपः॥६१॥
पर्याप्ता हि वयं तेन सह योधयितुं परान्
।
ते तु तत्र चिरं कालं विलप्य च महारथाः॥६२॥
प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे
।
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्॥६३॥
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः
।
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति॥६४॥
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्
।
ततो वृद्धा महाराज योषितां रक्षिणो नराः॥६५॥
राजदारानुपादाय प्रययुर्नगरं प्रति
।
तत्र विक्रोशमानानां रुदतीनां च सर्वशः॥६६॥
प्रादुरासीन्महाशब्दः श्रुत्वा तद्बलसंक्षयम्
।
ततस्ता योषितो राजन् रुदन्त्यो वै मुहुर्मुहुः॥६७॥
कुरर्य इव शब्देन नादयन्त्यो महीतलम्
।
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत॥६८॥
लुलुचुश्च तदा केशान् क्रोशत्यस्तत्र तत्र ह
।
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च॥६९॥
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते
।
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः॥७०॥
राजदारानुपादाय प्रययुर्नगरं प्रति
।
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते॥७१॥
शयनीयानि शुभ्राणि स्पार्ध्यास्तरणवन्ति च
।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः॥७२॥
आस्थायाश्वतरीयुक्तान् स्यन्दनानपरे पुनः
।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति॥७३॥
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु
।
ददृशुस्ता महाराज जना याताः पुरं प्रति॥७४॥
ताः स्त्रियो भरतश्रेष्ठ सौ कुमार्यसमन्विताः
।
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः॥७५॥
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति
।
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः॥७६॥
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम्
।
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति॥७७॥
तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे
।
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत्॥७८॥
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः
।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः॥७९॥
हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः
।
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया॥८०॥
विद्रुतानि च सर्वाणि शिबिराणि समन्ततः
।
इतस्ततः पलायन्ते हतनाथा हतौजसः॥८१॥
अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः
।
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश॥८२॥
दुर्योधनस्य सचिवा ये केचिदवशेषिताः
।
राजदारानुपादाय प्रययुर्नगरं प्रति॥८३॥
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभुो
।
युधिष्ठिरमनुज्ञाय भीमसेनं तथैव च॥८४॥
एतमर्थं महाबाहुरुभयोः स न्यवेदयत्
।
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता॥८५॥
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्
।
ततः स रथमास्थाय दुतमश्वानचोदयत्॥८६॥
संवाहयितवांश्चापि राजदारान्पुरं प्रति
।
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे॥८७॥
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः
।
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्॥८८॥
राज्ञः समीयान्निष्क्रान्तं शोकोसपहतचेतसम्
।
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम्॥८९॥
दिष्ट्या कुरुक्षये वृत्ते अस्मिस्त्वं पुत्र जीवसि
।
विना राज्ञः प्रेवशाद्वै किमसि त्वमिहागतः॥९०॥
एतद्वै कारणं सर्वं विस्तरेण निवेदय
।
युयुत्सुरुवाच।
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे॥९१॥
हतशेषपरीवारो राजा दुर्योधनस्ततः
।
स्वकं सहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्॥९२॥
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्
।
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति॥९३॥
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः
।
वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन् भयात्॥९४॥
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्
।
प्रविष्टो हास्तिनपुरं रक्षन्लोकान्प्रधावितान्॥९५॥
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्
।
प्राप्तकालमिति श्रुत्वा विदुरः सर्वधर्मवित्॥९६॥
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत्
।
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये॥९७॥
रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया
।
दिष्ट्या त्वामिह सङ्ग्रामादस्माद्वीरक्षयात्पुरम्॥९८॥
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः
।
अन्धस्य नृपतेर्यष्टिर्लुब्धस्य दीर्घदर्शिनः॥९९॥
बहुशो याच्यमानस्य दैवोपहतचेतसः
।
त्वमेको व्यसानर्तस्य ध्रियसे पुत्र सर्वथा॥१००॥
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्
।
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः॥१०१॥
युयुत्सुं समनुप्राप्य प्रविवेश नृपक्षयम्
।
पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्॥१०२॥
निरानन्दं गतश्रीकं हृताराममिवाशयम्
।
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत्॥१०३॥
विदुरः सर्वधर्मज्ञो विकुवेनान्तरात्मना
।
विवेश नगरे राजन्निःशश्वास शनैः शनैः॥१०४॥
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा
।
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः
।
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम्॥१०५॥