धृतराष्ट्र उवाच।
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
।
मम सैन्यावशिष्टास्ते किमकुर्वत सञ्जय॥१॥
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे इत्यारभ्य शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् इत्यन्तः शल्यपर्वशेषो गदापर्वाख्यस्तस्य तात्पर्यं सर्वसाशेऽपि जीवितं दुस्त्यजं पराभूतमपि शत्रुं न त्यजन्तीति च॥१॥
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्
।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा॥२॥
सञ्जय उवाच।
सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्
।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः॥३॥
निशम्य पाण्डुपुत्राणां तदा वै जयिनां स्वनम्
।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः॥४॥
स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः
।
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे॥५॥
हृष्टः पर्यचरद्राजन् दुर्योधनवधेप्सया
।
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः॥६॥
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्
।
स हि तीव्रण वेगेन गदापाणिरपाक्रमत्॥७॥
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया
।
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः॥८॥
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त स्वसैनिकाः
।
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः॥९॥
सन्निविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः
।
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः॥१०॥
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि
।
राजन्नुत्तिष्ठ युद्ध्यस्व सहास्माभिर्युधिष्ठिरम्॥११॥
जित्वा वा पृथिवीं भुड्क्ष्व हतो वा स्वर्गमाप्नुहि
।
तेषामपि बलं सर्वं हतं दुर्योधन त्वया॥१२॥
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः
।
न ते वेगं विषहितुं शक्तास्तव विशाम्पते॥१३॥
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत
।
दुर्योधन उवाच।
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्॥१४॥
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्
।
विजेष्यामो वयं सर्वे विश्रान्ता विगतकुमाः॥१५॥
भवन्तश्च परिश्रान्तां वयं च भृशविक्षताः
।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये॥१६॥
न त्वेदतद्भुतं वीरा यद्वो महदिदं मनः
।
अस्मासु च परा भक्तिर्न तु कालः पराक्रमे॥१७॥
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे
।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः॥१८॥
सञ्जय उवाच।
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्
।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्॥१९॥
इष्टापूर्तेन दानेन सत्येन च जयेन च
।
शपे राजन् यथा ह्यद्य निहनिष्यामि सोमकान्॥२०॥
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्
।
यदीमां रजनीं व्युष्टां न हि हन्मि परान् रणे॥२१॥
यज्ञकृतां प्रीतिं यज्ञादिजस्य पुण्यस्य फलम्॥२१॥
नाहत्वा सर्वपाञ्चालान् विमोक्ष्ये कवचं विभो
।
इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप॥२२॥
तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः
।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया॥२३॥
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
।
मांसभारानुपाजह्रुर्भक्त्या परमया विभो॥२४॥
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः
।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः॥२५॥
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः॥२६॥
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्
।
अयुद्धमनसं चैव राजानं स्थितमम्भसि॥२७॥
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः
।
व्याधाभ्यजानन् राजेन्द्र सलिलस्थं सुयोधनम्॥२८॥
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन् सुतं तव
।
यदृच्छोपगतास्तत्र राजानं परिमार्गता॥२९॥
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा
।
अन्योन्यमब्रुवन् राजन् मृगव्याधाः शनैरिव॥३०॥
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः
।
अव्यक्तमिह नः ख्यातो ह्रदे दुर्योधनो नृपः॥३१॥
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः
।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्॥३२॥
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते
।
शयानं सलिले सर्वे कथयामो धनुर्भृते॥३३॥
स नो दास्यति सुप्रीतो धनानि बहुलान्युत
।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा॥३४॥
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः
।
मांसभारानुपादाय प्रययुः शिबिरं प्रति॥३५॥
पाण्डवापि महाराज लब्धलक्ष्याः प्रहारिणः
।
अपश्यमानाः समरे दुर्योधनमवस्थितम्॥३६॥
निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः
।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे॥३७॥
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्
।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः॥३८॥
नष्टम् अदृश्यत्वं गतं लीनमित्यर्थः॥३८॥
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ
।
चिन्तामभ्यगमत्तीव्रां निःशश्वास च पार्थिवः॥३९॥
अत स्थितानां पाण्डूनां दीनानां भरतर्षभ
।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो॥४०॥
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्
।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः॥४१॥
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्
।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्॥४२॥
ततो वृकोदरो राजन् दत्त्वा तेषां धनं बहु
।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः॥४३॥
असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः
।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे॥४४॥
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते
।
अज्ञातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः॥४५॥
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदे
।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्॥४६॥
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते
।
पाण्डवानां प्रहृष्टानां पञ्चालानां च सर्वशः॥४७॥
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ
।
त्वरिताः क्षत्रिया राजञ्जग्मुद्वैपायनं ह्रदम्॥४८॥
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे
।
प्राक्रोशन् सोमकास्तत्र हृष्टरूपाः समन्ततः॥४९॥
तेषामाशु प्रयातानां स्थानां तत्र वेगिनाम्
।
बभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते॥५०॥
दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम्
।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः॥५१॥
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः॥५२॥
उत्तमौजा युधामन्युः सात्यकिश्च महारथः
।
पञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत॥५३॥
हयाश्च सर्वे नागाश्च शतशश्च पदातयः
।
ततः प्राप्तो महाराज धर्मराजः प्रतापवान्॥५४॥
द्वैपायनं ह्रदं घोरं यत्र दुर्योधनोऽभवत्
।
शीतामलजलं हृद्यं द्वितीयमिव सागरम्॥५५॥
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः
।
अत्यद्भुतेन विधिना दैवयोगेन भारत॥५६॥
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो
।
मानुष्यस्य मनुष्येन्द्र गदाहस्तो जनाधिपः॥५७॥
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्
।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्॥५८॥
युधिष्ठिरश्च राजेन्द्रं तं ह्रदं सह सोदरैः
।
आजगाम महाराज तव पुत्रवधाय वै॥५९॥
महता शङ्खनादेन रथनेमिस्वनेन च
।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्॥६०॥
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः
।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्॥६१॥
इमे ह्यायान्ति संहृष्टाः पाण्डवाजितकाशिनः
।
अपयास्यामहे तावदनुजानातु नो भवान्॥६२॥
अपयास्यामहे त्वदन्वेषणभिया॥६२॥
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्
।
तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो॥६३॥
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः
।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः॥६४॥
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष
।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति॥६५॥
विष्टभ्य सलिलं सूतो धार्तराष्ट्रो महाबलः
।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः॥६६॥
कथं नु युद्धं भविता कथं राजा भविष्यति
।
कथं नु पाण्डवा राजन् प्रतिपत्स्यन्ति कौरवम्॥६७॥
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते
।
तत्रासाञ्चक्रिरे राजन् कृपप्रभृतयो रथाः॥६८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि त्रिंशोऽध्यायः॥३०॥
सञ्जय उवाच।
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
।
ते ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्॥१॥
तत इति॥१॥
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं ह्रदम्
।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्॥२॥
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः
।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्॥३॥
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्
।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्॥४॥
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते
।
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्॥५॥
तथाप्येनं हयं युद्धे लोका द्रक्ष्यन्ति माधव
।
वासुदेव उवाच।
मायाविन इमां मायां मायया जहि भारत॥६॥
जीवितेप्सुं दुर्योधनं विज्ञान कदाचिद्राज्यार्धं युधिष्ठिरस्तस्मै दास्यतीत्याशङ्क्य भगवांस्तं बोधयति दुर्योधनवधार्थी मायाविन इत्यादिना॥६॥
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर
।
क्रियाभ्युपायैर्बहुभिर्मायामप्सु प्रयोज्य च॥७॥
क्रियाभ्युपायैः शत्रुक्रियानुरूपैः प्रतीकारैर्धर्म्यैरधर्म्यैर्वेत्यर्थः। एते तु क्षलकारिणश्छलैरेव हन्तव्या इति भावः॥७॥
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम्
।
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः॥८॥
क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना
।
क्रियाभ्युपायैर्बहुभिर्हिरण्याक्षो महासुरः॥९॥
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ
।
वृत्रश्च निहतो राजन् क्रिययैव न संशयः॥१०॥
तथा पौलस्त्यतनयो रावणो नाम राक्षसः
।
रामेण निहतो राजन् सानुबन्धः सहानुगः॥११॥
क्रियया योगमास्थाय तथा त्वमपि विक्रम
।
क्रियाभ्युपायैर्निहतौ मया राजन् पुरातनौ॥१२॥
विक्रम विक्रमं कुरुष्व॥१२॥
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्
।
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो॥१३॥
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ
।
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो॥१४॥
क्रिया बलवती राजन् नान्यत्किञ्चिद्युधिष्ठिर
।
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा॥१५॥
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर
।
सञ्जय उवाच।
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः॥१६॥
जलस्थं तं महाराज तव पुत्रं महाबलम्
।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत॥१७॥
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया
।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते॥१८॥
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः
।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन॥१९॥
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः
।
यस्त्वं संस्तभ्य सलिलं भीतो राजन् व्यवस्थितः॥२०॥
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि
।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः॥२१॥
उत्तिष्ठ राजन् युध्यस्व क्षत्रियोऽसि कुलोद्भवः
।
कौरवेयो विशेषेण कुलं जन्मं च संस्मर॥२२॥
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः
।
युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि॥२३॥
अयुद्धमव्यस्थानं नैष धर्मः सनातनः
।
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्॥२४॥
अयुद्धं युद्धवर्जनम् अव्यवस्थानं विशेषेण अवस्थानं राज्ये वा स्वर्गे वा स्थितिर्व्यवस्थानं तदभावश्चैतत् द्वयं क्षत्रियस्य न धर्म इत्यर्थः॥॥२४॥
कथं पारमगत्वा हि युद्धे त्वं वै जिजीवीषुः
।
इमान्निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितॄंस्तथा॥२५॥
सम्बन्धिनो वयस्यांश्च मातुलान् बान्धवांस्तथा
।
घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम्॥२६॥
शूरमानी न शूरस्त्वं मृषा वदसि भारत
।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः॥२७॥
न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथञ्चन
।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम्॥२८॥
ब्रूहीति। हे शूरेति साधिक्षेपसम्बोधनम्। यया वृत्त्या निमित्तमूतया वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि। न त्वं वानप्रस्थोऽसि राज्यार्थित्वात्। नापि न्यस्तशस्त्रो गदाधरित्वात्। परिशेषात् क्लीबोऽस्मीति मा भाषस्व युद्धं कुर्वीति भावः॥२८॥
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः
।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन॥२९॥
विनीय त्यक्त्वा॥२९॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन॥३०॥
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम्
।
अमर्त्य इव सम्मोहात्त्वमात्मानं न बुद्धवान्॥३१॥
तत्पापं सुमहत्कृत्वा प्रतियुद्ध्यस्व भारत
।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्॥३२॥
क्व ते तत् पौरुषं यातं क्व च मानः सुयोधन
।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्॥३३॥
पौरुषं यत्नः विक्रान्तता शौर्यं विस्फूर्जितं गर्जनम्॥३३॥
क्व ते कृतास्त्रता याता किञ्च शेषे जलाशये
।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत॥३४॥
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम्
।
अथवा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत॥३५॥
एष ते परमो धर्मः सृष्टो धात्रा महात्मना
।
तं कुरुष्व यथातथ्यं राजा भव महारथ॥३६॥
सञ्जय उवाच।
एवमुक्तो महाराज धर्मपुत्रेण धीमता
।
सलिलस्थस्तव सुत इदं वचनमब्रवीत्॥३७॥
दुर्योधन उवाच।
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्
।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत॥३८॥
नैतदिति प्राणेन रक्षितव्येन हेतुना भीर्भयं मा मां मनुष्यम् आविशेदिति ब्रुवन्नेतच्चित्रमपि तु प्राणिनां स्वाभाविकोऽयं धर्मः परं तु मय्येतन्नास्तीत्याह- न चेति॥३८॥
अरथश्चानिषङ्गी च निहतः पार्णिसारथिः
।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम्॥३९॥
न प्राणहेतोर्न भयान्न विषादाद्विशाम्पते
।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्॥४०॥
प्राणहेतोर्जीवितार्थित्वात् भयात् बन्धनादित्रासात् विषादात् शोकाभिभूतत्वात्॥४०॥
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव
।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे॥४१॥
युधिष्ठिर उवाच।
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे
।
तदिदानी समुत्तिष्ठ युध्यस्वेह सुयोधन॥४२॥
हत्वा वा समरे पार्थान् स्फीतं राज्यमवाप्नुहि
।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि॥४३॥
दुर्योधन उवाच।
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन
।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर॥४४॥
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम्
।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्॥४५॥
अद्यापि त्वहमाशंसे त्वहमाशंसे त्वां विजेतुं युधिष्ठिर
।
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ॥४६॥
न त्विदानीमाहं मन्ये कार्यं युद्धेन कर्हिचित्
।
द्रोणे कर्णे च संशान्ते निहते च पितामहे॥४७॥
अस्त्विदानीमियं राजन् केवला पृथिवी तव
।
असहायो हि को राजा राज्यमिच्छेतत्प्रशासितुम्॥४८॥
सुहृदस्तादृशान् हित्वा पुत्रान् भ्रातॄन् पितॄनपि
।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः॥४९॥
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः
।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत॥५०॥
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा
।
एषा ते पृथिवी राजन् भुंक्ष्वैनां विगतज्वरः॥५१॥
वनमेव गमिष्यामि वसानो मृगचर्मणी
।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो॥५२॥
गच्छ त्वं भुक्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्
।
हतयोधां नष्टरत्नां क्षीणवृत्तिर्यथासुखम्॥५३॥
सञ्जय उवाच।
दुर्योधनं तव सुतं सलिलस्थं महायशाः
।
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः॥५४॥
युधिष्ठिर उवाच।
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषिथाः
।
नैतन्मनसि मे राजन् वाशितं शकुनेरिव॥५५॥
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन
।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्॥५६॥
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्
।
न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः॥५७॥
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्
।
त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्॥५८॥
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि
।
त्वयेयं पृथिवी राजन् किन्न दत्ता तदैव हि॥५९॥
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः
।
वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम्॥६०॥
किमिदानीं ददासि त्वं को हि के चित्तविभ्रमः
।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्॥६१॥
न त्वमद्य महीं दातुमीशः कौरवनन्दन
।
आच्छेत्तुं वा बलाद्राजन् स कथं दातुमिच्छसि॥६२॥
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम्
।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत॥६३॥
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान्
।
स कथं पृथिवीमेतां प्रददासि विशाम्पते॥६४॥
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्
।
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्॥६५॥
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्
।
त्वं तु केवलमौर्ख्येण विमूढो नावबुद्ध्यसे॥६६॥
पृथिवीं दातुकामोऽपि जीवितेन विमोक्ष्यसे
।
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्॥६७॥
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान्
।
आवयोर्जीवतो राजन् मयि च त्वयि च ध्रुवम्॥६८॥
संशयः सर्वभूतानां विजये नौ भविष्यति
।
जीवितं तव दुष्प्रज्ञं मयि सम्प्रति वर्तते॥६९॥
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः
।
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः॥७०॥
आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः
।
त्वया विनिकृता राजन् राज्यस्य हरणेन च॥७१॥
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च
।
एतस्मात्कारणात्पाप जीवितं ते न विद्यते॥७२॥
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति
।
एवं तु विविधा वाचो जययुक्ताः पुनः पुनः
।
कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप॥७३॥
॥इति श्रीमहाभारते शल्यान्तर्गतगदापर्वणि सुयोधनयुधिष्ठिरसंवादे एकत्रिंशोऽध्यायः॥३१॥
धृतराष्ट्र उवाच।
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः
।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः॥१॥
एवमिति॥१॥
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन
।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्॥२॥
यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा
।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गिरः॥३॥
यस्येति। आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न सहते इति भावः॥३॥
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
।
प्रसादाद्भियते यस्य प्रत्यक्षं तव सञ्जय॥४॥
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः
।
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम्॥५॥
स श्रुत्वा कटुका वाचो जययुक्ताः पुनः पुनः
।
किमब्रवीत्पाण्डवेयांस्ततन्ममाचक्ष्व सञ्जय॥६॥
सञ्जय उवाच
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः
।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह॥७॥
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः
।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः॥८॥
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः
।
मनश्चकार युद्धाय राजानं चाभ्यभाषत॥९॥
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः
।
अहमेकः परिद्यूनो विरथो हतवाहनः॥१०॥
परिद्यूनः परिश्रान्तः॥१०॥
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवारितः
।
कथमेकः पदातिः सन्नशस्त्रो योद्धमुत्सहे॥११॥
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर
।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि॥१२॥
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः
।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः॥१३॥
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्
।
फाल्गुनाद्वासुदेवाद्वा पञ्चालेभ्योऽथवा पुनः॥१४॥
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः
।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः॥१५॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप
।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्॥१६॥
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे
।
अनुगम्यागतान्सर्वानृतून्संवत्सरो यथा॥१७॥
अद्यः वः सरथान् साश्वानशस्त्रो विरथोऽपि सन्
।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये॥१८॥
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः
।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्॥१९॥
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः
।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः॥२०॥
मद्रराजस्य शल्यस्य भूरिश्रवस एव च
।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च॥२१॥
मित्राणां सुहृदां चैव बान्धवानां तथैव च
।
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह॥२२॥
एतावदुक्त्वा वचनं विरराम जनाधिपः
।
युधिष्ठिर उवाच।
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन॥२३॥
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज
।
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम्॥२४॥
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्धुमिच्छसि
।
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्॥२५॥
तत्त्वमादाय युध्वस्व प्रेक्षकास्ते वयं स्थिताः
।
स्वयमिष्टं च ते कामं वीर भूयो ददाम्यहम्॥२६॥
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि
।
दुर्योधन उवाच।
एकश्चेद्योद्धमाक्रन्दे शूरोऽद्य मम दीयताम्॥२७॥
हत्वैकम् अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राज्यं प्राप्स्यसीत्यर्थः॥२७॥
आयुधानामियं चापि वृता त्वत्सम्मते गदा
।
हन्तैकं भवतामेकः शक्यं मां योऽभिमन्यते॥२८॥
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह
।
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे॥२९॥
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्
।
अस्त्राणामपि पर्यायं कर्तुमिच्छन्ति मानवाः॥३०॥
युद्धानामपि पर्यायो भवत्वनुमते तव
।
गदया त्वां महाबाहो विजेष्यामि सहानुजम्॥३१॥
पञ्चालान् सञ्जयांश्चैव ये चान्ये तव सैनिकाः
।
न हि मे सम्भ्रमो जातु शक्रादपि युधिष्ठिर॥३२॥
युधिष्ठिर उवाच।
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
।
एक एकेन सङ्गम्य संयुगे गदया बली
।
॥३३॥
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
।
अद्य ते जीवितं नास्ति यदीन्द्रोऽपि तवाश्रयः॥३४॥
सञ्जय उवाच।
एतत्स नरशार्दूलो नामृष्यत तवात्मजः
।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्॥३५॥
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः
।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव॥३६॥
संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्
।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्॥३७॥
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्
।
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वाऽऽयसीं गदाम्॥३८॥
उदतिष्ठत पुत्रस्ते प्रतपन् रश्मिवानिव
।
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्॥३९॥
गदां परामृशद्धीमान् धार्तराष्ट्रो महाबलः
।
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्॥४०॥
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम्
।
सगदो भारतो भाति प्रतपन् भास्करो यथा॥४१॥
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्
।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्॥४२॥
वज्रहस्तं यथा शक्रः शूलहस्तं यथा हरम्
।
ददृशुः सर्वपञ्चालाः पुत्रं तव जनाधिप॥४३॥
तमुत्तीर्णं तु सम्प्रेक्ष्य समहष्यन्त सर्वशः
।
पञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः॥४४॥
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव
।
उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्॥४५॥
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः
।
प्रत्युवाच ततस्तान्वै पाण्डवान् सहकेशवान्॥४६॥
दुर्योधन उवाच।
अस्यावहासस्य फलं प्रतिभोक्ष्यथ पाण्डवाः
।
गमिष्यथ हताः सद्यः सपञ्चाला यमक्षयम्॥४७॥
सञ्जय उवाच।
उत्थितश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव
।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः॥४८॥
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्
।
शरीरं स्म तदा भाति स्रवन्निव महीधरः॥४९॥
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्॥५०॥
स मेघनिनदो हर्षान्नर्दन्निव न गोवृषः
।
आजुहाव ततः पार्थान् गदया युधि वीर्यवान्॥५१॥
दुर्योधन उवाच।
एकैकेन च मां यूयमासीत युधिष्ठिर
।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि॥५२॥
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः
।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः॥५३॥
अवश्यमेव योद्धव्यं सर्वैरेव मया सह
।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा॥५४॥
युधिष्ठिर उवाच।
मा भूदियं तव प्रज्ञा कथमेवं सुयोधन
।
यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः॥५५॥
क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिघृणम्
।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम्॥५६॥
क्षत्रधर्मम् अस्तीति शेषः। "धर्मोऽस्त्री पुण्य आचारे" इति मेदिनी॥५६॥
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः
।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा॥५७॥
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु
।
तदाभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्॥५८॥
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम्
।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति॥५९॥
आमुञ्च कवचं वीर मूर्धजान् यमयस्व च
।
यचान्यदपि ते नास्ति तदप्यादत्स्व भारत॥६०॥
इममेकं च ते कामं वीर भूयो ददाम्यहम्
।
पञ्चानां पाण्डवेयानां येनं त्वं योद्धुमिच्छसि॥६१॥
तं हत्वा वै भवान् राजा हतो वा स्वर्गमाप्नुहि
।
ऋते च जीविताद्वीर युद्धे किं कर्म ते प्रियम्॥६२॥
सञ्जय उवाच।
ततस्तव सुतो राजन् वर्म जग्राह काञ्चनम्
।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्॥६३॥
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्
।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव॥६४॥
सन्नद्धः सगदो राजन् सज्जः सङ्ग्राममूर्धनि
।
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव॥६५॥
भ्रातॄणां भवतामेको युध्यतां गदया मया
।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा॥६६॥
अथवा फाल्गुनेनाद्य त्वया वा भरतर्षभ
।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे॥६७॥
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया॥६८॥
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये
।
गदया वो हनिष्यामि सर्वानेव समागतान्॥६९॥
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन
।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः
।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः॥७०॥
अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद्भविष्यति
।
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह॥७१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि युधिष्ठिरदुर्योधनसंवादे द्वात्रिंशोऽध्यायः॥३२॥
सञ्जय उवाच।
एवं दुर्योधने राजन् गर्जमाने मुहुर्मुहुः
।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम्॥१॥
एवमिति॥१॥
यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर
।
अर्जुनं नकुलं चैव सहदेवमथापि वा॥२॥
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्
।
एकमेव निहत्याजौ भव राजा कुरुष्विति॥३॥
न समर्थानहं मन्ये गदाहस्तस्य संयुगे
।
एतेन हि कृता योग्या वर्षाणीह त्रयोदश॥४॥
योग्या-अभ्यासः। योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी॥४॥
आयसे पुरुषे राजन् भीमसेनजिघांसया
।
कथं नाम भवेत्कार्यमस्याभिर्भरतर्षभ॥५॥
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम
।
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे॥६॥
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः
।
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा॥७॥
शकुनेश्च तव च यथा पुरा तथैवेदमिति द्वयोः सम्बन्धः॥७॥
विषमं शकुनेश्चैव तव चैव विशाम्पते
।
बली भीमः समर्थश्च कृती राजा सुयोधनः॥८॥
बलवान्वा कृती वेति कृती राजन्विशिष्यते
।
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः॥९॥
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्
।
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा॥१०॥
कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्
।
पणित्वा चैकपाणेन रोचयेदेवमाहवम्॥११॥
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे
।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोऽपि हि॥१२॥
न त्वं भीमो न नकुलः सहदेवोऽथ फाल्गुनः
।
जेतुं न्यायेन शक्तोः वै कृती राजा सुयोधनः॥१३॥
स कथं वदसे शत्रुं युध्यस्व गदयेति हि
।
एकं च नो निहत्याजौ भव राजेति भारत॥१४॥
वृकोदरं समासाद्य संशयो वै जये हि नः
।
न्यायतो युध्यमानानां कृती ह्येष महाबलः॥१५॥
एकं वास्मान्निहत्य त्वं भव राजेति वै पुनः
।
नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः॥१६॥
इति कथं वदसे इत्यनुकर्षणीयम्॥१६॥
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः
।
भीमसेन उवाच।
मधुसूदन मा कार्षीर्विषादं यदुनन्दन॥१७॥
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्
।
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः॥१८॥
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते
।
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम॥१९॥
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्
।
अहमेनं हि गदया संयुगे योद्धमुत्सहे॥२०॥
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन
।
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान् युधि॥२१॥
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम्
।
सञ्जय उवाच।
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम्॥२२॥
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत्
।
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः॥२३॥
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः
।
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे॥२४॥
राजानो राजपुत्राश्च नागाश्च विनिपातिताः
।
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा॥२५॥
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन
।
हत्वा दुर्योधन चापि प्रयच्छोर्वीं ससागराम्॥२६॥
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः
।
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनंक्ष्यति॥२७॥
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पालयिष्यसि
।
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः॥२८॥
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा
।
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्॥२९॥
पञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः
।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्॥३०॥
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्
।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्॥३१॥
अहमेतेन सङ्गम्य संयुगे योद्धमुत्सहे
।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः॥३२॥
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्
।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः॥३३॥
शल्यमद्योद्धरिष्यामि तव पाण्डवहृच्छयम्
।
निहत्य गदया पापमद्य राजन् सुखी भव॥३४॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ
।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः॥३५॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्
।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्॥३६॥
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्
।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्॥३७॥
तदाह्वानममृष्यन् वै तव पुत्रोऽतिवीर्यवान्
।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम्॥३८॥
गदाहस्त तव सुतं युद्धाय समुपस्थितम्
।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्॥३९॥
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्
।
वियूथमिव मातङ्गं समहष्यन्त पाण्डवाः॥४०॥
न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा
।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे॥४१॥
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
।
भीमसेनस्तदा राजन् दुर्योधनमथाब्रवीत्॥४२॥
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्
।
स्मर तद्दृष्कृतं कर्म यद्भूतं वारणावते॥४३॥
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला
।
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात्॥४४॥
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि
।
अनागःसु च पार्थेषु तस्य पश्य महत्फलम्॥४५॥
त्वकृते निहतः शेते शरतल्पे महायशाः
।
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः॥४६॥
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्
।
वैरस्त चादिकर्ताऽसौ शकुनिर्निहतो रणे॥४७॥
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः
।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः॥४८॥
एते चान्ये च निहता बहवः क्षत्रियर्षभाः
।
प्रातिकामी तथा पापो द्रौपद्याः केशकृद्धतः॥४९॥
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः
।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः॥५०॥
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप
।
राज्याशां विपुलां राजन् पाण्डवेषु च दुष्कृतम्॥५१॥
दुर्योधन उवाच।
किं कत्थितेन बहुना युद्ध्यस्वाद्य मया सह
।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर॥५२॥
किं न पश्यमि मां पाप गदायुद्धे व्यवस्थितम्
।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्॥५३॥
गदिनं कोऽध मां पाप हन्तुमुत्सहते रिपुः
।
न्यायतो युद्ध्यमानश्च देवेष्वपि पुरन्दरः॥५४॥
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्
।
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते॥५५॥
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः
।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः॥५६॥
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः
।
भूयः संहर्षयामासू राजन् दुर्योधनं नृपम्॥५७॥
बृंहन्ति कुञ्जरास्तत्र हया द्वेषन्ति चासकृत्
।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम्॥४८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि भीमसेनदुर्योधनसंवादे त्रयस्त्रिंशोऽध्यायः॥३३॥
सञ्जय उवाच।
तस्मिन् युद्धे महाराज सुसंवृत्ते सुदारुणे
।
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु॥१॥
तस्मिन्युद्धे इति॥१॥
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते
।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः॥२॥
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः
।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन्॥३॥
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्
।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव॥४॥
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्
।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्॥५॥
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै
।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः॥६॥
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै। पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः॥ इति। ननु श्रवणेऽत्र युद्धसमाप्तिर्दृश्यते तदनुपातेन युद्धारम्भो मृगशीर्षे भवितुं युज्यते। अष्टादशाहानि युद्धमभूदिति कवचनात्। एवं च युद्धारम्भं प्रकृत्य भीष्मपर्वणि सञ्जयवाक्यम्- मघाविषयगः सोमस्तद्दिनं सम्प्रपद्यत। इति मघायां युद्धारम्भप्रदर्शकं विरुध्यते। तथात्वे रेवत्यां युद्धसमाप्त्यापत्तेरित्युपक्रमोपसंहारयोर्विरोधो दुःसमाधेय इति चेत्। सत्यम्। उपसंहारस्य निर्णीतार्थकत्वात्तदनुरोधेनोपक्रमस्य नेयत्वान्मघाविषयग इत्यस्यायमर्थः- अत्र मघाशब्देन तत्सहचराः पितरो लक्ष्यन्ते "मघानक्षत्रं पितरो देवता" इति श्रुतेरिति मघायां पितृसम्बन्धित्वावधारणात्। तेन युद्धे मृतानाम् उत्तमदेहप्रदानार्थं चन्द्रस्तदा पितृलोके सन्निहितोऽभूदिति। स्वर्गिणां दिव्यदेहलाभश्चन्द्राधीन इति शास्त्रप्रसिद्धम्। युद्धारम्भस्तु मृगशीर्षे इति भीष्मपर्वणि निपुणतरमुपपादितं तन्न विस्मर्तव्यम्॥६॥
शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव
।
ततस्तदा गदाहस्तौ दुर्योधनवृकोदरौ॥७॥
युद्धभूमिं गतौ वीरावुभावेव रराजतुः
।
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्॥८॥
रराजतुः तेजतुः॥८॥
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्
।
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्॥९॥
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ
।
माद्रीपुत्रो तथा शूरौ द्रौपद्याः पञ्च चात्मजाः॥१०॥
अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्
।
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप॥११॥
तथैव चोद्यतगदौ पूजयामासतुर्बलम्
।
स्वागतेन च ते तत्र प्रतिपूज्य समन्ततः॥१२॥
पश्य युद्धं महाबाहो इति ते राममब्रुवन्
।
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः॥१३॥
परिष्वज्य तदा रामः पाण्डवान् सहसृञ्जयान्
।
अपृच्छत्कुशलं पार्थिवांश्चामितौजसः॥१४॥
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्
।
प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश्च महात्मनः॥१५॥
कृत्वा कुशलसंयुक्तां संविदं च यथावयः
।
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे॥१६॥
मूर्ध्नि चैतावुपानाया कुशलं पर्यपृच्छत
।
तौ च तं विधिवद्राजन् पूज्यामासतुर्गुरुम्॥१७॥
ब्रह्मामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ
।
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम्॥१८॥
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत
।
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः॥१९॥
न्यविशत्परमप्रीतः पूज्यमानो महारथैः
।
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः॥२०॥
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः
।
ततस्तयोः सन्निपातस्तुमुलो लोमहर्षणः॥२१॥
आसीदन्तकारो राजन् वैरस्य तव पुत्रयोः॥२२॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवागमने चतुस्त्रिंशोऽध्यायः॥३४॥
जनमेजय उवाच।
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते
।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः॥१॥
पूर्वमेवेति॥१॥
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव
।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्॥२॥
एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः
।
तस्य चागमनं भूयो ब्रह्मशंसितुमर्हसि॥३॥
आख्याहि मे विस्तरशः कथं राम उपस्थितः
।
कथं च दृष्टवान् युद्धं कुशलो ह्यसि सत्तम॥४॥
वैशम्पायन उवाच।
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु
।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः॥५॥
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्
।
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च॥६॥
उक्त्वान्वचनं तथ्यं हितं चैव विशेषतः
।
न च तत्कृतवान् राजा यथा ख्यातं हि तत्पुरा॥७॥
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः
।
आगच्छत महाबाहुरुपप्लव्यं जनाधिप॥८॥
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः
।
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्॥९॥
अक्रियायां सन्धिकार्यानिष्पत्तौ॥९॥
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः
।
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया॥१०॥
ततो विभज्यमानेषु बलेषु बलिनां वरः
।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः॥११॥
तेषामपि महाबाहो साहाय्यं मधुसूदन
।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा॥१२॥
ततो मन्युपरीतात्मा जगाम यदुनन्दनः
।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः॥१३॥
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः
।
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः॥१४॥
मैत्रनक्षत्रयोगे अनुराधायाम्। भोजः कृतवर्मा॥१४॥
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्
।
रौहिणेये गते शूरे पुष्येण मधुसूदनः॥१५॥
पुष्येण हि पाण्डवेभ्यः प्रयाणमनुराधातस्तीर्थयात्रार्थमिति विवेकः॥१५॥
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून्
।
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह॥१६॥
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च
।
आनयध्वं द्वारकायामग्नीन्वै याजकांस्तथा॥१७॥
सुवर्णरजतं चैव धेनूर्वासांसि वाजिनः
।
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च॥१८॥
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्
।
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः॥१९॥
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्
।
एवं सन्दिश्य तु प्रेष्यान् बलदेवो महाबलः॥२०॥
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा
।
सरस्वतीं प्रतिस्रोतः समन्तादभिजग्मिवान्॥२१॥
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः
।
रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ॥२२॥
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः
।
श्रान्तानां कान्तवपुषां शिशूनां विपुलायुषाम्॥२३॥
देशे देशे तु देयानि दानानि विविधानि च
।
अर्चायै चार्थिनां राजन् क्लृप्तानि बहुशस्तथा॥२४॥
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत
।
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः॥२५॥
यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा
।
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप॥२६॥
तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्
।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः॥२७॥
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च
।
पूजार्थं तत्र क्लृप्तानि विप्राणं सुखमिच्छताम्॥२८॥
यत्र यः स्वदते विप्रः क्षत्रियो वापि भारत
।
तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत॥२९॥
यथासुखं जनः सर्वो याति तिष्ठति वै तदा
।
यातुकामस्य यानानि पानानि तृषितस्य च॥३०॥
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ
।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च॥३१॥
स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः
।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्॥३२॥
नित्यप्रमुदितोपतेः स्वादुभक्ष्यः शुभान्वितः
।
विपण्यापणपण्यानां नानाजनशतैर्वृतः
।
नानाद्रुमलतोपेतो नानारत्नविभूषितः॥३३॥
विपणिः पण्यवीथिका आपणाः हट्टाः पण्यानि विक्रेयद्रव्याणि॥३३॥
ततो महात्मा नियते स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन्
।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत् प्रतीतः॥३४॥
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः
।
हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान् द्विजेभ्यः॥३५॥
रत्नानि मुक्तामणिविद्रुमं चाप्यग्र्यं सुवर्णं रजतं सुशुद्धम्
।
अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः॥३६॥
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि
।
ययौ क्रमेणाप्रतिमप्रभावस्ततः कुरुक्षेत्रमुदारवृत्तिः॥३७॥
जनमेजय उवाच।
सारस्वतानां तीर्थानां गुणोत्पात्तिं वदस्व मे
।
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च॥३८॥
गुणान् रमणीयत्वादीन् उत्पत्तिं सम्भवं कर्मनिवृत्तिं तीर्थयात्राविधिसिद्धम्॥३८॥
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः
।
ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे॥३९॥
वैशम्पायन उवाच।
तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः
।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः॥४०॥
पूर्वं महाराज यदुप्रवीर ऋत्विग्सुहृद्विप्रगणैश्च सार्धम्
।
पुण्यं प्रभासं समुपाजगाम यत्रोडुराड्यक्ष्मणा क्लिश्यमानः॥४१॥
विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र
।
एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः॥४२॥
प्रभासः प्रभासत्त्वम्॥४२॥
जनमेजय उवाच।
कथं तु भगवान्सोमो यक्ष्मणा समगृह्यत
।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत॥४३॥
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी
।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने॥४४॥
वैशम्पायन उवाच।
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते
।
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ॥४५॥
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्
।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः॥४६॥
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि
।
अत्यरित्यत तासां तु रोहिणी रूपसम्पदा॥४७॥
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः
।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा॥४८॥
पुरा हि सोमो राजेन्द्र रोहिण्यामवसत्परम्
।
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः॥४९॥
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः
।
सोमो वसति नास्मासु रोहिणीं भजते सदा॥५०॥
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर
।
वत्स्यामो नियताहारस्तपश्चरणतत्पराः॥५१॥
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्
।
समं वर्तस्व भार्यासु मा त्वाऽधर्मो महान् स्पृशेत्॥५२॥
त्वा त्वाम् अधर्मः मा स्पृशेत्॥५२॥
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोऽन्तिकम्
।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्॥५३॥
विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा
।
तथापि सोमो भगवान्पुनरेव महीपते॥५४॥
रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः
।
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्॥५५॥
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके
।
सोमो वसति नास्मासु नाकरोद्वचनं तव॥५६॥
विरोचन। हे विशेषेण रोचमान। त्वां मा शप्स्ये तव रोचनं यथाहं शापन न हरामि तथा यतस्वेत्यर्थः॥५६॥
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्
।
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन॥५७॥
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी
।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः॥५८॥
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा
।
सोमो वसति नास्मासु तस्मान्नः शरणं भव॥५९॥
रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः
।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति॥६०॥
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्
।
तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणां पृथिवीपते॥६१॥
ससर्ज रोषात्सोमाय त चोडुपतिमाविशत्
।
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी॥६२॥
यत्नं चाप्यकरोद्राजन् मोक्षार्थं तस्य यक्ष्मणः
।
इष्ट्वेभिर्महाराज विविधाभिर्निशाकरः॥६३॥
न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत्
।
ततः सोमे ओषध्यो न प्रजज्ञिरे॥६४॥
निरास्वादरसाः सर्वाः हतवीर्याश्च सर्वशः
।
ओषधीनां क्षये जाते प्राणिनामपि संक्षयः॥६५॥
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे
।
ततो देवाः समागम्य सोममूचुर्महीपते॥६६॥
किमिदं भवतो रूपमीदृशं न प्रकाशते
।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्॥६७॥
श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्
।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः॥६८॥
शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः
।
देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन्॥६९॥
शापस्य लक्षणं कारणम्॥६९॥
प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्
।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते॥७०॥
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्
।
वीरुदोषधयश्चैव बीजानि विविधानि च॥७१॥
तेषां क्षये क्षयोऽस्माकं विनाऽस्मभिर्जगच्च किम्
।
इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि॥७२॥
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः
।
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा॥७३॥
हेतुना तु महाभागा निवर्तिष्यति केनचित्
।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः॥७४॥
सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः
।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम॥७५॥
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति
।
मासार्धं तु सदा वृद्धिं सत्यमेतद्वचो मम॥७६॥
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्
।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति॥७७॥
सरस्वतीं ततः सोमः स जगामर्षिशासनात्
।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह॥७८॥
अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः
।
लोकान्प्रभासयामास शीतांशुत्वमवाप च॥७९॥
देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्
।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्॥८०॥
ततः प्रजापतिः सर्वा विससर्जाथ देवताः
।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्॥८१॥
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन
।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥८२॥
स विसृष्टो महाराज जगामाथ स्वमालयम्
।
प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा॥८३॥
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः
।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्॥८४॥
अमावास्यां महाराज नित्यशः शशलक्षणः
।
स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे॥८५॥
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप
।
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः॥८६॥
ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली
।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत॥८७॥
तत्र दत्वा च दानानि विशिष्टानि हलायुधः
।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा॥८८॥
उदपानमथागच्छत्त्वरावान् केशवाग्रजः
।
आद्यं स्वस्त्ययनं चैव यत्रावाप्य महत्फलम्॥८९॥
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय
।
जानान्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्॥९०॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां प्रभासोत्पत्तिकथने पञ्चत्रिंशोऽध्यायः॥३५॥
वैशम्पायन उवाच।
तस्मान्नदीगतां चापि ह्युदपानं यशस्विनः
।
त्रितस्य च महाराज जगामाथ हलायुधः॥१॥
तस्मादिति॥१॥
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः॥२॥
तत्र धर्मपरो भूत्वा त्रितः स सुमहातपाः
।
कूपे च वसता तेन सोमः पीतो महात्मना॥३॥
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्ग्रहान्
।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः॥४॥
जनमेजय उवाच।
उदपानं कथं ब्रह्मन् कथं च सुमहातपाः
।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम॥५॥
कूपे कथं च हित्वैनं भ्रातुरौ जग्मुतुहान्
।
कथं च याजयामास पपौ सोमं त वै कथम्॥६॥
याजयामास स्वार्थे णिच्। यागं कृतवान्॥६॥
एतदाचक्ष्व मे ब्रह्मश्रोतव्यं यदि मन्यसे
।
वैशम्पायन उवाच।
आसन् पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः॥७॥
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः
।
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च॥८॥
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः
।
तेषां तु तपसा प्रीतो नियमेन दमेन च॥९॥
अभवद्गौतमो नित्यं पिता धर्मरतः सदा
।
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च॥१०॥
जगाम भगवान् स्थानमनुरूपमिवात्मनः
।
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः॥११॥
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्
।
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च॥१२॥
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा
।
तथा सर्वे महाभागा मुनयः पुण्यलक्षणा॥१३॥
अपूजयन्महाभागं यथास्य पितरं तथा
।
कदाचिद्धि ततो राजन् भ्रातरवेकतद्वितौ॥१४॥
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च
।
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप॥१५॥
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः
।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्॥१६॥
चक्रुश्चैवं तथा राजन् भ्रातरस्त्रय एव च
।
तथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति॥१७॥
पशून् प्रति पश्वर्थं दक्षिणार्था गाः प्राप्तुमित्यर्थः॥१७॥
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून्
।
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः॥१८॥
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः
।
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्॥१९॥
एकतश्च द्वितश्चैव पृष्टतः कालयन्पशून्
।
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत्॥२०॥
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्
।
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह॥२१॥
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर
।
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः॥२२॥
अन्यास्तु बहुला गावस्त्रितः समुपलप्स्यते
।
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे॥२३॥
त्रितोऽपि गच्छतां काममावभ्यां वै विना कृतः
।
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्॥२४॥
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान्
।
अद्य त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः॥२५॥
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह
।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे॥२६॥
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः
।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी॥२७॥
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः॥२८॥
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः
।
उदपाने तदा राजन्निर्जले पांसुसंवृते॥२९॥
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते
।
निमग्नं भरतश्रेष्ट नरके दुष्कृती यथा॥३०॥
स बुद्ध्यागणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः
।
सोमः कथं तु पातव्य इहस्थेन मया भवेत्॥३१॥
स एवमभिनिश्चित्य तस्मिन्कूपे महातपाः
।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया॥३२॥
पांसुग्रस्ते ततः कूपे विचन्त्य सलिलं मुनिः
।
अग्नीन्सङ्कल्पयामास होत्रे चात्मानमेव च॥३३॥
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः
।
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः॥३४॥
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप
।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्॥३५॥
ससोमस्याभिषवं कृत्वा चकार विपुलं ध्वनिम्
।
स चाविशद्दिवं राजन्पुनः शब्दस्त्रितस्य वैः॥३६॥
समवाप्य च तं यज्ञं यथोक्तं ब्रह्मवादिभिः
।
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः॥३७॥
आविग्नं त्रिदिवं सर्वं कारणं च न बुद्ध्यते
।
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः॥३८॥
श्रुत्वा चैवाब्रवीत्सर्वान् देवान् देवपुरोहितः
।
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः॥३९॥
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः
।
तच्छुत्वा वचनं तस्य सहिताः सर्वदेवताः॥४०॥
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते
।
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः॥४१॥
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु
।
दृष्टा चैनं महात्मानं श्रिया परमया युतम्॥४२॥
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्
।
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः॥४३॥
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्
।
ततस्त्रितो महाराज भागांस्तेषां यथाविधि॥४४॥
मन्त्रयुक्तान्समददत्ते च प्रीतास्तदाभवन्
।
ततो यथाविधि प्राप्तान् भागान्प्राप्य दिवौकसः॥४५॥
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति
।
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः॥४६॥
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत्
।
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती॥४७॥
तयोत्क्षिप्तः समुत्तस्थौ पूजयंस्त्रिदिवौकसः
।
तथेति चोक्त्वा विबुधा जग्मू राजन् यथागताः॥४८॥
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा
।
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा॥४९॥
उवाच परुषं वाक्यं शशाप च महातपाः
।
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ॥५०॥
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ
।
भवितारौ मया शप्तौ पापेनानेन कर्मणा॥५१॥
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः
।
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते॥५२॥
तथाभूतावदृश्येतां वचनात्सत्यवादिनः
।
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः॥५३॥
दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान्
।
उदपानं च तं वीक्ष्य प्रशस्य च पुनः पुनः
।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा॥५४॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां त्रिताख्याने षट्त्रिंशोऽध्यायः॥३६॥
वैशम्पायन उवाच।
ततो विनशनं राजञ्जगामाथ हलायुधः
।
शूद्राभीरान्प्रतिद्वेषाद्यत्र नष्टा सरस्वती॥१॥
तत इति॥१॥
तस्मात्तु ऋषयो नित्यं प्राहुर्विनशनेति च
।
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः॥२॥
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे
।
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः॥३॥
शुभ्राः शुचयः॥३॥
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः
।
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर॥४॥
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्
।
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः॥५॥
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्
।
तत्र मोदन्ति देवाश्च पितरश्च सवीस्थः॥६॥
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
।
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा॥७॥
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे
।
तत्र स्नात्वा च दत्त्वा च वसु विप्राय माधवः॥८॥
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्
।
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्॥९॥
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः
।
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः॥१०॥
नृत्यवादित्रगीतं च कुर्वन्ति सुमनोरमम्
।
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु॥११॥
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा
।
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः॥१२॥
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः
।
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः॥१३॥
गर्गस्रोतो महातीर्थमाजगामैककुण्डली
।
तत्र गर्गेण वृद्धेन तपसा भावितात्मना॥१४॥
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः
।
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय॥१५॥
सरस्वत्या शुभे तीर्थे विदिता वै महात्मना
।
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्॥१६॥
तत्र गर्गं महाभागमृषयः सुव्रता नृप
।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो॥१७॥
कालज्ञानं प्रति कालज्ञानार्थम्॥१७॥
तत्र गत्वा महाराज बलः श्वेतानुलेपनः
।
विधिवद्धि धनं दत्वा मुनीनां भावितात्मनाम्॥१८॥
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः
।
नीलवासास्तदागच्छच्छङ्खतीर्थं महायशाः॥१९॥
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्
।
श्वेतपर्वतसङ्काशमृषिसन्धैर्निषेवितम्॥२०॥
शङ्खं शङ्खनामानम्॥२०॥
सरस्वत्यास्तटे जातं नगं तालध्वजो बली
।
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः॥२१॥
नगं वृक्षम्॥२१॥
पिशाचाश्वामितबला यत्र सिद्धाः सहस्रशः
।
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः॥२२॥
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
।
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक् पृथक्॥२३॥
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ
।
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः॥२४॥
ततस्तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
।
तस्मिंश्च यदुशार्दूलो दत्वा तीर्थे पयस्विनीः॥२५॥
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
।
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः॥२६॥
पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः
।
तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान्बलः॥२७॥
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
।
तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान्॥२८॥
ततः प्रायाद्बलो राजन् दक्षिणेन सरस्वतीम्
।
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः॥२९॥
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः
।
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम्॥३०॥
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
।
ऋषीणां हि सहस्राणि यत्र नित्यं चतुर्दश॥३१॥
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्
।
सर्वपन्नगराजानमभ्यषिञ्चन् यथाविधि॥३२॥
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव
।
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान्॥३३॥
प्रायात्प्राचीं दिशं तत्र तत्र तीर्थान्यनेकशः
।
सहस्रशतसङ्ख्यानि प्रथितानि पदे पदे॥३४॥
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः
।
कृत्वोपवासनियमं दत्त्वा दानानि सर्वशः॥३५॥
अभिवाद्य मुनींस्तान्वै तत्र तीर्थनिवासिनः
।
उद्दिष्टमार्गः प्रययौ यत्र भूयः सरस्वती॥३६॥
प्राङ्मुखं वै निववृते वृष्टिर्वातहता यथा
।
ऋषीणां नैमिषयाणामवेक्षार्थं महात्मनाम्॥३७॥
अपेक्षार्थम् इष्टसिद्ध्यर्थम्॥३७॥
निवृत्तां तां सरिच्छ्रेष्टां तत्र दृष्ट्वा तु लाङ्गली
।
बभूव विस्मितो राजन् बलः श्वेतानुलेपनः॥३८॥
जनमेजय उवाच।
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखीभवत्
।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम॥३९॥
इच्छामि श्रोतुमिति शेषः॥३९॥
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः
।
निवृत्ता हेतुना केन कथमेव सरिद्वरा॥४०॥
वैशम्पायन उवाच।
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः
।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके॥४१॥
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे
।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि॥४२॥
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके
।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्॥४३॥
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते
।
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा॥४४॥
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः
।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः॥४५॥
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः॥४६॥
अग्निहोत्रैस्ततस्तेषां क्रियमाणैर्महात्मनाम्
।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः॥४७॥
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः
।
दन्तोलूखलिनश्चान्ये प्रसङ्ख्यानास्तथा परे॥४८॥
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः
।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः॥४९॥
आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः
।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः॥५०॥
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः
।
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः॥५१॥
ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै
।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः॥५२॥
यज्ञोपवीतैः यज्ञसूत्रैः। तीर्थं त्रेताग्नीनामुत्तरभागं तीर्थत्वेन श्रौते प्रसिद्धं निर्मिमाय निर्मायेत्यर्थः॥५२॥
ततस्तमृषिसङ्घातं निराशं चिन्तयान्वितम्
।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती॥५३॥
निराशं सरस्वतीजललाभे इत्यर्थः॥५३॥
ततः कुञ्जान् बहून्कृत्वा सन्निवृत्ता सरस्वती
।
ऋषीणां पुण्यतपसां कारुण्याजनमेजय॥५४॥
कुञ्चान् आत्मनो वासस्थानानि तीर्थविशेषानित्यर्थः॥५४॥
ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती
।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा॥५५॥
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम्
।
इत्युद्भुतं महच्चक्रे तदा राजन्महानदी॥५६॥
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः
।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्॥५७॥
तत्र कुञ्जान्बहून् दृष्ट्वा निवृत्तां च सरस्वतीम्
।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः॥५८॥
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः
।
दत्त्वा दायान् द्विजातिभ्यो भाण्डानि विविधानि च॥५९॥
भक्ष्यं भोज्यं च विविधं ब्राह्मणेभ्यः प्रदाय च
।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः॥६०॥
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्
।
बदरेङ्गु्दकाश्मर्यप्लक्षाश्वत्थबिभीतकैः॥६१॥
कङ्कोलैश्च पलाशैश्च करीरैः पीलुभिस्तथा
।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा॥६२॥
करूषकवरैश्चैव बिल्वैराम्रातकैस्तथा
।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्॥६३॥
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्
।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि॥६४॥
तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्
।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम्॥६५॥
अहिंस्रैर्धर्मपरमैर्नृभिपत्यर्थसेवितम्
।
सप्तसारस्वतं तीर्थमाजगाम हलायुधः
।
यत्र मकुणकः सिद्धस्तपस्तेपे महामुनिः॥६६॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने सप्तत्रिंशोऽध्यायः॥३७॥
जनमेजय उवाच।
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः
।
कथं सिद्धः स भगवान् कश्चास्य नियमोऽभवत्॥१॥
सप्तेति॥१॥
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम
।
एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम॥२॥
वैशम्पायन उवाच।
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत्
।
आहूता बलवद्भिर्हि तत्र तत्र सरस्वती॥३॥
सुप्रभा काञ्चनाक्षी त विशाला च मनोरमा
।
सरस्वती चौघवती सुरेणुर्विमलोदका॥४॥
पितामहस्य महतो वर्तमाने महामखे
।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु॥५॥
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा
।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा॥६॥
तत्र चैव महाराज दीक्षिते प्रपितामहे
।
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना॥७॥
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा
।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह॥८॥
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः
।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा॥९॥
तस्य यज्ञस्य सम्पत्या तुतुषुर्देवता अपि
।
विस्मयं परमं जग्मुः किमु मानुषयोनयः॥१०॥
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे
।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः॥११॥
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती
।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम्॥१२॥
पितामहेन यजता आहूता पुष्करेषु वै
।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती॥१३॥
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम्
।
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे॥१४॥
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्॥१५॥
नैमिषे मुनयो राजन्समागम्य समासते
।
तत्र चित्राः कथा ह्यासन् वेदं प्रति जनेश्वर॥१६॥
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः
।
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम्॥१७॥
सस्मरुः स्मृतवन्तः॥१७॥
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः
।
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्॥१८॥
आजगाम महाभाग तत्र पुण्या सरस्वती
।
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम्॥१९॥
आगता सरितां श्रेष्ठा तत्र भारत पूजिता
।
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्॥२०॥
गयेषु गयदेशेषु॥२०॥
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती
।
विशालां तु गयस्यहुर्ऋषयः संशितव्रताः॥२१॥
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी
।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत
।
॥२२॥
समेते सर्वतः स्फीते मुनीनां मण्डले तदा
।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः॥२३॥
उद्दालकेन यजता पूर्वं ध्यात्वा सरस्वती
।
आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात्॥२४॥
पूज्यमाना मुनिगणैर्वल्कलाजिसंवृत्तैः
।
मनोरमेति विख्याता सा हि तैर्मनसा कृता॥२५॥
सुरेणुर्ऋषभे द्वीपे पुण्ये राजर्षिसेविते
।
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः॥२६॥
सुरेणुरुद्देशे षष्ठी यद्यपि तथापि पञ्चमे स्थाने कीर्त्यते श्लोकानां पर्वापर्यं वा विज्ञेयम्॥२६॥
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती
।
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना॥२७॥
समाहूता कुरुक्षेत्रे दिव्यातोया सरस्वती
।
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती॥२८॥
सुरेणुरिति विख्याता प्रस्रुता शीघ्रगामिनी
।
विमलोदा भगवती ब्रह्मणा यजता पुनः॥२९॥
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ
।
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः॥३०॥
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि
।
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः॥३१॥
सप्त सारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम्
।
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः॥३२॥
आपगामवगाढस्य राजन् प्रक्रीडितं महत्
।
दृष्ट्वा यदृच्छया यत्र स्त्रियमम्भसि भारत॥३३॥
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्
।
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि॥३४॥
स्नायन्तीं स्नातीम्॥३४॥
तद्रेतः स तु जग्राह कलशे वै महातपाः
।
सप्तधा प्रविभागं तु कलशस्थं जगाम ह॥३५॥
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः
।
वायुवेगो वायुबलो वायुहा वायुमण्डलः॥३६॥
वायुज्वालो वायुरेता वायुचक्राश्च वीर्यवान्
।
एवमेते समुत्पन्ना मरुतां जनयिष्णवः॥३७॥
मरुतां प्राणवायूनाम् एकोनपञ्चाशतम् एतेषां तपसा मरुतोऽदित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः॥३७॥
इदमत्यद्भुतं राजन्शृण्वाश्चर्यतरं भुवि
।
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम्॥३८॥
दमत्यद्भुतं राजन्नित्यस्य तात्पर्यं योगेन सिद्धस्य कायस्य परिणामान्तरं ह्रासवृद्ध्यादिकं न जायतेऽऽतस्तत्र प्रविष्टोऽन्नरसोऽपरिणममाण एव देहान्निःसरति तं दृष्ट्वा आत्मनः सिद्धकायत्वं मत्वा मङ्कणको गर्वेण नृत्यति तदेव क्षयशून्यत्वं देहस्य महती योगसिद्धिः देहस्य भस्मभूतत्वं तु महीयसी सिद्धिरित्येतद्रुद्रो दर्शयंस्तस्य गर्वं परिहरतीति॥३८॥
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम्
।
क्षतः किल करे राजस्तस्य शाकरसोऽस्रवत्॥३९॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
।
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्॥४०॥
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
।
ब्रह्मादिभिः सुरै राजन् ऋषिभिश्च तपोधनैः॥४१॥
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप
।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि॥४२॥
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह
।
सुराणां हितकामार्थं महादेवोऽभ्यभाषत॥४३॥
भो भो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान्
।
हर्षस्थानं किमर्थं च तवेदमधिकं मुने॥४४॥
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम
।
ऋषिरुवाच।
किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम्॥४५॥
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो
।
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्॥४६॥
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्
।
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता॥४७॥
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत्
।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम्॥४८॥
तद्दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर्गतः
।
मेने देवं महादेवमिदं चोवाच विस्मितः॥४९॥
नान्यं देवादहं मन्ये रुद्रात्परतरं महत्
।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत्॥५०॥
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः
।
त्वामेव सर्वं विशति पुनरेव युगक्षये॥५१॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः॥५२॥
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ
।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह॥५३॥
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः
।
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्॥५४॥
यदिदं चापलं देव कृतमेतत्स्मयदिकम्
।
ततः प्रसादयामि त्वां तपो मे न क्षरेदिति॥५५॥
स्मयादिकं गर्वादिकम्॥५५॥
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्
।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा॥५६॥
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा
।
सप्तासारस्वते चास्मिन्यो मामर्चिष्यते नरः॥५७॥
न तस्य दुर्लभं किञ्चिद्भवितेह परत्र वा
।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः॥५८॥
एतन्मङ्कणकस्यापि चरितं भूरितेजसः
।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना॥५९॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने अष्टत्रिंशोऽध्यायः॥३८॥
वैशम्पायन उवाच।
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः
।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः॥१॥
उषित्वेति॥१॥
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च
।
पूजितो मुनिसङ्गैश्च प्रातरुत्थाय लाङ्गली॥२॥
अनुज्ञाप्य मुनीन्सर्वान् स्पृष्ट्वा तोयं च भारत
।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महावलः॥३॥
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः
।
कपालमोचनं नाम यत्र मुक्तो महामुनिः॥४॥
महता शिरसा राजन् ग्रस्तजङ्घो महोदरः
।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा॥५॥
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना
।
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः॥६॥
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्
।
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्॥७॥
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम्
।
जनमेजय उवाच।
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः॥८॥
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना
।
वैशम्पायन उवाच।
पुरा वै दण्डकारण्ये राघवेण महात्मना॥९॥
वसता राजशार्दूल राक्षसान् शमयिष्यता
।
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः॥१०॥
क्षुरेण शितधारेण उत्पपात महावने
।
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया॥११॥
वने विचरतो राजन्नस्थि भित्वाऽस्फुरत्तदा
।
स तेन लग्नेन तदा द्विजातिर्न शशाक ह॥१२॥
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च
।
स पूतिना विस्रवता वेदनार्तो महामुनिः॥१३॥
जगाम सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्
।
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः॥१४॥
कथयामास तत्सर्वमृषीणां भावितात्मनाम्
।
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्॥१५॥
स तु शुश्राव विप्रेन्द्र मुनीनां वचनं महत्
।
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा॥१६॥
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्
।
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः॥१७॥
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा
।
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा॥१८॥
विमुक्तस्तेन शिरसा परं सुखमवाप ह
।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो॥१९॥
ततः स विशिरा राजन्पूतात्मा वीतकल्मषः
।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः॥२०॥
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः
।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्॥२१॥
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद
।
कपालमोचनमिति नाम चक्रुः समागताः॥२२॥
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः
।
पीत्वा पयः सुविपुलं सिद्धिमायात्तदा मुनिः॥२३॥
तत्र दत्त्वा बहून् दायान्विप्रान् सम्पूज्य माधवः
।
जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा॥२४॥
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत
।
ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः॥२५॥
सर्वकामसमृद्धं च तदाश्रमपदं महत्
।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो॥२६॥
ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः
।
जगाम तत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत्॥२७॥
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत
।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा॥२८॥
ततः सर्वानुपादाय तनयान्वै महातपाः
।
रुषङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम्॥२९॥
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः
।
तं च तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम्॥३०॥
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्
।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम्॥३१॥
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः
।
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः॥३२॥
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः
।
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्॥३३॥
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
।
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः॥३४॥
श्चोमरणं तपेत् अक्षयं स्वर्गमाप्नोतीत्यर्थः॥३४॥
दत्त्वा चैव बहून्दायान् विप्राणां विप्रवत्सलः
।
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः॥३५॥
यत्रार्ष्टिषेणः कौरव्या ब्राह्मण्यं संशितव्रतः
।
तपसा महता राजन् प्राप्तवानृषिसत्तमः॥३६॥
ब्राह्मणं ब्रह्मसङ्घातो वेदसमूह इति यावत्। ततः स्वार्थे ष्यञ् "ब्राह्मनं ब्रह्मसङ्घाते" इति मेदिनी॥३६॥
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः
।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः॥३७॥
महातपस्वी भगवानुग्रतेजा महातपाः
।
तत्राजगाम बलवान् बलभद्रः प्रतापवान्॥३८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने ऊनचत्वारिंशोऽध्यायः॥३९॥
जनमेजय उवाच।
कथमार्ष्टिषेणो भगवान् विपुलं तप्तवांस्तपः
।
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा॥१॥
कथमिति॥१॥
देवापिश्च कथं ब्रह्मन् विश्वामित्रश्च सत्तम
।
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे॥२॥
वैशम्पायन उवाच।
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः
।
वसन् गुरुकले नित्यं नित्यमध्ययने रतः॥३॥
तस्य राजन् गुरुकुले वसतो नित्यमेव च
।
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते॥४॥
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः
।
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्॥५॥
स विद्वान् वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः
।
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः॥६॥
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः
।
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्॥७॥
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति
।
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्॥८॥
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः
।
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान्॥९॥
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
।
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्॥१०॥
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः
।
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्॥११॥
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि
।
तस्य पुत्रोऽभवद्राजन् विश्वामित्रः प्रतापवान्॥१२॥
स राजा कौशिकस्तात महायोग्यभवत्किल
।
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः॥१३॥
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः
।
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्॥१४॥
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः
।
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम॥१५॥
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च
।
जगाम त्रिदिवं राजन् विश्वामित्रोऽभवन्नृपः॥१६॥
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम्
।
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्॥१७॥
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः
।
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्॥१८॥
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून्
।
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात्॥१९॥
ददृशोऽथ ततः सर्वं भज्यमानं महावनम्
।
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः॥२०॥
सृजस्व शबरान् घोरानिति स्वां गामुवाच ह
।
तथोक्ता साऽसृजद्धेनुः पुरुषान् घोरदर्शनान्॥२१॥
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्
।
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः॥२२॥
तपः परं मन्यमानस्तपस्येव मनो दधे
।
सोऽस्मिंस्तीर्थवरे राजन् सरस्वत्याः समाहितः॥२३॥
नियमैश्चोपवासैश्च कर्षयन् देहमात्मनः
।
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्॥२४॥
तथा स्थाण्डिलशायी च ये चान्ये नियमाः पृथक्
।
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे॥२५॥
न चास्य नियमाद्बुद्धिरपयाति महात्मनः
।
ततः परेण यत्नेन तप्त्वा बहुविधं तपः॥२६॥
तेजसा भास्कराकारो गाधिजः समपद्यत
।
तपसा तु तथा युक्तं विश्वामित्रं पितामहः॥२७॥
अमन्यत महातेजा वरदो वरमस्य तत्
।
स तु वव्रे वरं राजन् स्यामहं ब्राह्मणास्त्विति॥२८॥
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः
।
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः॥२९॥
विचचार महीं कृत्स्नां कृतकामः सुरोपमः
।
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु॥३०॥
पयस्विनीस्तथा धेनूर्यानानि शयनानि च
।
अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्॥३१॥
अददन्मुदितो राजन् पूजयित्वा द्विजोत्तमान्
।
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्
।
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः॥३२॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने चत्वारिंशोऽध्यायः॥४०॥
वैशम्पायन उवाच।
ब्रह्मयोनेरवाकीर्णं जगाम यदुनन्दनः
।
यत्र दाल्भ्यो बको राजन्नाश्रमस्थो महातपाः॥१॥
ब्रह्मेति। ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं गमः दाल्म्यसेवितं तीर्थं जगाम॥१॥
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः
।
तपसा घोररूपेण कर्षयन् देहमात्मनः॥२॥
तस्यावाकीर्णत्वमाह- जुहावेत्यादिना। अवाकीर्यन्ते नीचैरवपात्यन्ते शत्रवोऽस्मिन्नित्यवकीर्णमित्यर्थः। वैचित्रवीर्यिणः विचित्रवीर्य एव वैचित्रवीर्यः स पितृत्वेनास्त्यस्य तस्तैवेत्यर्थः॥२॥
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्
।
पुरा हि नैमिषीयाणां सत्रे द्वादशवार्षिके॥३॥
प्रतापवान् राष्ट्रं जुहावेति सम्बन्धः। सत्रे वृत्ते विवृत्ते सतीत्युत्तरेण सम्बन्धः॥३॥
वृत्ते विश्वाजितोऽन्ते वै पञ्चालानृषयोऽगमन्
।
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्वनः॥४॥
पञ्चालान् विश्वजितो यज्ञस्यान्ते अगमन्। पञ्चालराजानं युयुरित्यर्थः। ईश्चरं पन्चालराज्यम्॥४॥
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम्
।
तानब्रवीद्बको दाल्भ्यो विभजध्वं पशूनिति॥५॥
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्
।
एवमुक्त्वा ततो राजन् ऋषीन्सवान् प्रतापवान्॥६॥
एतान् पञ्चालराजदत्तान् स्वयं तत्र भागं न गृहीतवान् इत्यर्थः॥६॥
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः
।
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्॥७॥
अयाचत पशून् दाल्भ्यः स चैनं रुषितोऽब्रवीत्
।
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः॥८॥
यदृच्छयेति। गाः बलीवर्दान् धेनूंश्च॥८॥
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि
।
ऋषिस्तथा वचः श्रुत्वा चिन्तयामास धर्मवित्॥९॥
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि
।
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः॥१०॥
मतिं चक्रे विनाशय धृतराष्ट्रस्य भूपतेः
।
सतूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः॥११॥
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा
।
अवाकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्॥१२॥
बको दाल्भ्यो महाराज नियमं परमं स्थितः
।
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः॥१३॥
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे
।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव॥१४॥
ततः प्रक्षीयमाणं तद्राज्यं तस्य महीपतेः
।
छिद्यमानं यथानन्तं वनं परशुना विभो॥१५॥
बभूवापद्गतं तच्च व्यवकीर्णमचेतनम्
।
दृष्ट्वा तथावकीर्णं तु राष्ट्रं स मनुजाधिपः॥१६॥
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः
।
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा॥१७॥
न च श्रेयोऽध्यगच्छत्तु क्षीयते राष्ट्रमेव च
।
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदानघ॥१८॥
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृप
।
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय॥१९॥
ततो वैप्राश्निकाः प्राहुः पशुं विप्रकृतस्त्वया
।
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः॥२०॥
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्
।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान्॥२१॥
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव
।
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्॥२२॥
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ
।
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे॥२३॥
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि॥२४॥
तं तथा विलपन्तं तु शोकोपहतचेतसम्
।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्॥२५॥
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहायसः
।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम्॥२६॥
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून्
।
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव सः॥२७॥
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः
।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत्॥२८॥
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः
।
असुराणामभावाय भवाय त दिवौकसाम्॥२९॥
तत्र तीर्थे इति। शत्रुनाशकामैस्तत्र होमजपादिकं कर्तव्यमित्याख्यानतात्पर्यम्॥२९॥
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः
।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे॥३०॥
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः
।
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्॥३१॥
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्
।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते॥३२॥
तत्र यज्ञे ययातेश्च महाराज सरस्वती
।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः॥३३॥
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः
।
अक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान्॥३४॥
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः
।
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्॥३५॥
ददौ कामान् ब्राह्मणेभ्यो यान् यान् यो मनसेच्छति
।
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे॥३६॥
तस्य तस्य सरिच्छ्रेष्ठा गृहादिशयनादिकम्
।
षड्रसं भोजनं चैव दानं नानाविधं तथा॥३७॥
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम्
।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः॥३८॥
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा
।
विस्मिता मानुषाश्चासन् दृष्ट्वा तां यज्ञसम्पदम्॥३९॥
ततस्तालकेतुर्महाधर्मकेतुर्महात्मा कृतात्मा महादाननित्यः
।
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम॥४०॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने एकचत्वारिंशोऽध्यायः॥४१॥
जनमेजय उवाच।
वसिष्ठस्यापवाहोऽसौ भीमवेगः कथं नु सः
।
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्॥१॥
वसिष्ठस्येति। अपोह्यते तीरे प्रास्यतेऽनेनेत्यापवाहस्तीर्थविशेषः॥१॥
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो
।
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति॥२॥
कथ्यति त्वयि कथयति सति॥२॥
वैशम्पायन उवाच।
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत
।
भृशं वैरमभूद्राजंस्तपः स्पर्धाकृतं महत्॥३॥
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्
।
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः॥४॥
यत्र स्थाणुर्महाराज तप्तवान् परमं तपः
।
तत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः॥५॥
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्
।
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो॥६॥
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप
।
सैनापत्येन महता सुरारिविनिबर्हणम्॥७॥
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः
।
वसिष्ठं चालयामास तपसोगेण तच्छृणु॥८॥
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत
।
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ॥९॥
तत्राप्याधिकसन्तापो विश्वामित्रो महामुनिः
।
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह॥१०॥
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत
।
इयं सरस्वती तूर्णं मत्समीपं तपोधनम्॥११॥
आनयिष्यति वेगेन वसिष्ठं तपतां वरम्
।
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः॥१२॥
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः
।
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः॥१३॥
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
।
जज्ञे चैनं महावीर्यं महाकोपं च भाविनी॥१४॥
तत एनं वेपमानां विवर्णा प्राञ्जलिस्तदा
।
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती॥१५॥
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम्
।
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्॥१६॥
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय
।
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी॥१७॥
प्राञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा
।
प्राकम्पत भृशं भीता वायुनेवाहता लता॥१८॥
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम्
।
अविचारं वसिष्ठं त्वमानयस्वान्तिकं मम॥१९॥
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्पितम्
।
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि॥२०॥
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत्
।
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता॥२१॥
उभयोः शापयोर्भीता वेपमाना पुनः पुनः
।
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्॥२२॥
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
।
उवाच राजन् धर्मात्मा वसिष्ठो द्विपदां वरः॥२३॥
वसिष्ठ उवाच।
पाह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
।
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम्॥२४॥
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्
।
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्॥२५॥
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि
।
कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया॥२६॥
अथ कूले स्वके राजन् जपन्तमृषिसत्तमम्
।
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्॥२७॥
इदमन्तरमित्येवं ततः सा सरितां वरा
।
कूलापहारमकरोत्स्वेन वेगेन सा सरित्॥२८॥
तेन कूलापहारेण मैत्रावरुणिरौह्यत
।
उह्यमानः स तुष्टाव तदा राजन् सरस्वतीम्॥२९॥
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति
।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः॥३०॥
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः
।
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहि॥३१॥
वयं ऋषयः त्वत्तोऽधीमहि वेदान् कदाचिदनावृष्ट्या मृतेषु ऋषिषु सम्प्रदायोच्छेदे सतीति भावः॥३१॥
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिबुद्धिरुमा तथा
।
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्॥३२॥
त्वमेव सर्वभूतेषु वससीह चतुर्विधा
।
एवं सरस्वती राजन् स्तूयमाना महर्षिणा॥३३॥
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
।
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्॥३४॥
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
।
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा॥३५॥
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी
।
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता॥३६॥
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्
।
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्॥३७॥
अब्रवीद्दुःखसङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः
।
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता॥३८॥
शोणितं वह कल्याणि रक्षोग्रामणिसम्मतम्
।
ततः सरस्वती शप्ता विश्वामित्रेण धीमता॥३९॥
रक्षोग्रामणिसम्मतमित्यत्र ह्रस्वत्वमार्षम्॥३९॥
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा
।
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा॥४०॥
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः
।
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप
।
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा॥४१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने द्विचत्वारिंशोऽध्यायः॥४२॥
वैशम्पायन उवाच।
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
।
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्॥१॥
सा शप्तेति॥१॥
अथाजग्मुस्ततो राजन् राक्षसास्तत्र भारत
।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते॥२॥
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा॥३॥
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः
।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते॥४॥
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः
।
प्राप्य प्रीतिं पराञ्चापि तपोलुब्धा विशारदाः॥५॥
प्रययुर्हि ततो राजन् येन तीर्थमसृग्वहम्
।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा॥६॥
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्
।
पीतमानं च रक्षोभिर्बहुभिर्नृपसत्तम॥७॥
तान्दृष्ट्वा राक्षसान् राजन्मुनयः संशितव्रताः
।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे॥८॥
ते तु सर्वे महाभागाः समागम्य महाव्रताः
।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्॥९॥
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्
।
एवमाकुलतां यातः श्रुत्वाध्यास्यामहे वयम्॥१०॥
अध्यास्यामहे अध्यवसायं करिष्यामहे॥१०॥
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती
।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः॥११॥
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे
।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः॥१२॥
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्
।
विमोचयामहे सर्वे शापादेतां सरस्वतीम्॥१३॥
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा
।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा॥१४॥
आराध्य पशुभर्तारं महादेवं जगत्पतिम्
।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम्॥१५॥
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती
।
प्रसन्नसलिला जज्ञे यथापूर्वं तथैव हि॥१६॥
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा
।
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्॥१७॥
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा
।
कृत्वाञ्जलिं ततो राजन् राक्षसाः क्षुधयाऽर्दिताः॥१८॥
ऊचुस्तान्वै मुनीन्सर्वान् कृपायुक्तान्पुनः पुनः
।
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्॥१९॥
न च नः कामकारोऽयं यद्वयं पापकारिणः
।
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा॥२०॥
यत्पापं वर्धतेऽस्माकं ततः स्मो ब्रह्मराक्षसाः
।
योषितां चैव पापेन योनिदोषकृतेन च॥२१॥
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः॥२२॥
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा
।
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः॥२३॥
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः
।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे॥२४॥
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्
।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः॥२५॥
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्
।
सुकेशमवधूतं च रुदितोपहतं च यत्॥२६॥
एभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह
।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्॥२७॥
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्
।
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः॥२८॥
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्
।
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा॥२९॥
अरुणामानयामास स्वां तनूं पुरुषर्षभ
।
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः॥३०॥
अरुणायां महाराज ब्रह्मवध्यापहा हि सा
।
एतमर्थमभिज्ञाय देवराजः शतक्रतुः॥३१॥
तस्मिंस्तीर्थे वीरे स्नात्वा विमुक्तः पाप्मना किल
।
जनमेजय उवाच।
किमर्थं भगवान् शक्रो ब्रह्मवध्यामवाप्तवान्॥३२॥
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्
।
वैश्मपायन उवाच।
शृणुष्वैतदुपाख्यानं यथा वृत्तं जनेश्वर॥३३॥
यथा बिभेद समयं नमुचेर्वासवः पुरा
।
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्॥३४॥
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्
।
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि॥३५॥
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे
।
एवं स कृत्वा समयं दृष्ट्वा नीहारमीश्वरः॥३६॥
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः
।
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्तिकात्॥३७॥
भो भो मित्रहन्पापेति ब्रुवाणां शक्रमन्तिकात्
।
एवं स शिरसा तेन चोद्यमानः पुनः पुनः॥३८॥
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्
।
तमब्रवील्लोकगुरुररुणायां यथाविधि॥३९॥
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे
।
एषा पुण्यजला शक्र कृता मुनिभिरेव तु॥४०॥
निगूढमस्यागमनमिहासीत्पूर्वमेव तु
।
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा॥४१॥
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान्
।
इह त्वं यज देवेन्द्र दद दानान्यनेकशः॥४२॥
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे
।
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय॥४३॥
इष्ट्वा यथावद्बलभिदरुणायामुपस्पृशत्
।
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च॥४४॥
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः
।
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत
।
लोकान्कामदुघान्प्राप्तमक्षयान् राजसत्तम॥४५॥
वैशम्पायन उवाच।
तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि
।
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत्सुतीर्थम्॥४६॥
यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्रः
।
अत्रिर्धीमान्विप्रमुख्यो बभूव होता यस्मिन् ऋतुमुख्ये महात्मा॥४७॥
यस्यान्तेऽभूत्सुमहद्दानवानां दैतेयानां राक्षसानां च देवैः
।
यस्मिन् युद्धं तारकाख्यं सुतीव्रं यत्र स्कन्दस्तारकाख्यं जघान॥४८॥
सैनापत्यं लब्धवान् देवतानां महासेनो यत्र दैत्यान्तकर्ता
।
साक्षाच्चैव न्यवसत्कार्तिकेयः सदा कुमारो यत्र स प्लक्षराजः॥४९॥
॥इति श्रमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने त्रिचत्वारिंशोऽध्यायः॥४३॥
जनमेजय उवाच।
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम
।
कुमारस्याभिषेकं तु ब्रह्मन् व्याख्यातुमर्हसि॥१॥
सरस्वत्या इति॥१॥
यस्मिन्देशे च काले च यथा च वदतां वर
।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः॥२॥
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्
।
तथा मे सर्वामाचक्ष्व परं कौतूहलं हि मे॥३॥
वैशम्पायन उवाच।
कुरुवंशस्य सदृशं कौतूहलमिदं तव
।
हर्षमुत्पादयत्येव वचो मे जनमेजय॥४॥
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप
।
अभिषेकं कुमारस्य प्रभावं च महात्मनः॥५॥
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा
।
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम्॥६॥
तेनासीदतितेजस्वी दीप्तिमान् हव्यवाहनः
।
न चैव धारयामास गर्भं तेजोमयं तदा॥७॥
स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः
।
गर्भमाहितवान् दिव्यं भास्करोपमतेजसम्॥८॥
अथ गङ्गापि तं गर्भमसहन्ती विधारणे
।
उत्ससर्ज गिरौ रम्ये हिमवत्मरार्चिते॥९॥
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः
।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः॥१०॥
शरस्तम्बे महात्मानमनलात्मजमीश्वरम्
।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः॥११॥
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः
।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा॥१२॥
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः॥१३॥
यत्रोत्सृष्टः स भगवान् गङ्गया गिरिमूर्धनि
।
स शैलकाञ्चनः सर्वः सम्बभौ कुरुसत्तम॥१४॥
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः॥१५॥
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः
।
गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः॥१६॥
शमेन तपसा चैव वीर्येण च समन्वितः
।
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः॥१७॥
स तस्मिन्काञ्चने दिव्ये शरस्तम्भे श्रिया वृतः
।
स्तूयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा॥१८॥
तथैतमन्वनृत्यन्तः देवकन्याः सहस्रशः
।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः॥१९॥
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा
।
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्॥२०॥
जातकर्मादिकास्तत्र क्रियाश्चक्रे बृहस्पतिः
।
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः॥२१॥
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः
।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला॥२२॥
स ददर्श महावीर्यं देवदेवमुमापतिम्
।
शैलपुत्र्या समासीनं भूतसङ्घशतैर्वृतम्॥२३॥
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः
।
विकृता विकृताकारा विकृताभरणध्वजाः॥२४॥
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः
।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा॥२५॥
बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ॥२५॥
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः
।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि॥२६॥
श्वाविच्छल्यकगोधानामजैडकगवां तथा
।
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन्॥२७॥
केचिच्छैलाम्बुदप्रख्याश्चक्रोद्यतगदायुधाः
।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः॥२८॥
सप्त मातृगणाश्चैव समाजग्मुर्विशाम्पते
।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा॥२९॥
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः
।
ब्रह्मा स्वयम्भूभगवान् सपुत्रः सह विष्णुना॥३०॥
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम्
।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः॥३१॥
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः
।
पितरो जगतः श्रेष्ठा देवानामपि देवताः॥३२॥
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः
।
स तु बालोऽपि बलवान्महायोगबलान्वितः॥३३॥
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्
।
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्॥३४॥
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च
।
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति॥३५॥
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्
।
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः॥३६॥
युगपद्योगमास्थाय ससर्ज विविधास्तनूः
।
ततोऽभवच्चतुर्मूतिः क्षणेन भगवान्प्रभुः॥३७॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः
।
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः॥३८॥
तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन् ते स्कन्देन सह चत्वारः॥३८॥
यतो रुद्रस्ततः स्कन्दो गजामाद्भुतदर्शनः
।
विशाखस्तु ययौ येन देवी गिरीवरात्मजा॥३९॥
शाखो ययौ स भगवान् वायुमूर्तिर्विभावसुम्
।
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः॥४०॥
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः
।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्॥४१॥
हाहाकारो महानासीद्देवदानवरक्षसाम्
।
तद्दृष्ट्वा महदाश्चर्यमद्भूतं लोमहर्षणम्॥४२॥
अद्भुतमदृष्टपूर्वम्॥४२॥
ततो रुद्रश्च देवीं च पावकश्च पितामहम्
।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्॥४३॥
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव
।
इदमूचुर्वचो राजन् कार्तिकेयप्रियेप्सया॥४४॥
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्
।
अस्मात्प्रियार्थं देवेश सदृशं दातुमर्हसि॥४५॥
ततः स भगवान् धीमान् सर्वलोकपितामहः
।
मनसा चिन्तयामास किमयं लभतामिति॥४६॥
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम्
।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः॥४७॥
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्
।
समर्थं च तमैश्वर्ये महामतिरमन्यत॥४८॥
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः
।
सैनापत्यं ददौ तस्मै सर्वभूतेषु भारत॥४९॥
सर्वदेवनिकायानां ये राजानः परिश्रुताः
।
तान् सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः॥५०॥
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः
।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः॥५१॥
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्
।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता॥५२॥
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः॥५३॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने कुमाराभिषेकोपक्रमे चतुश्चत्वारिंशोऽध्यायः॥४४॥
वैशम्पायन उवाच।
ततोऽभिषेकसम्भारान्सर्वान् सम्भृत्य शास्त्रतः
।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि॥१॥
तत इति॥१॥
ततो हिमवता दत्ते मणिप्रवरशोभिते
।
दिव्यारत्नाचिते पुण्ये निषण्णं परमासने॥२॥
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्
।
आभिषेचनिकं द्रव्यं गृहीत्वा देवातगणाः॥३॥
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा
।
धाता चैव विधाता च तथा चैवानिलानलौ॥४॥
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
।
रुद्रश्च सहितो धीमान् मित्रेण वरुणेन च॥५॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः
।
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह॥६॥
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः
।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा॥७॥
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः
।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः॥८॥
सर्पैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः
।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः॥९॥
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भूगुरेव च
।
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च॥१०॥
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते
।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः॥११॥
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च
।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप॥१२॥
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
।
उमा शची सिनीवाली तथा चानुमतिः कुहूः॥१३॥
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्
।
हिमवांश्चैव विन्ध्यश्च मेस्श्चानेकशृङ्गवान्॥१४॥
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च
।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप॥१५॥
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वासुकिः
।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह॥१६॥
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः
।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये॥१७॥
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः
।
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः॥१८॥
जगृहुस्ते तदा राजन् सर्व एव दिवौकसः
।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः॥१९॥
आभिषेचनिकं भाण्डम् अभिषेकोपकारणम्॥१९॥
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप
।
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु॥२०॥
सरस्वतीभितुदकवतीभिर्नदीभिः ताभिरेव वा सप्तभिः॥२०॥
अभ्यषिञ्चन् कुमारं वै सम्प्रहृष्टा दिवौकसः
।
सेनापतिं महात्मानमसुराणां भयङ्करम्॥२१॥
पुरा यथा महाराज वरुणं वै जलेश्वरम्
।
तथाभ्यषिञ्चद्भगवान्सर्वलोकपितामहः॥२२॥
कश्यपश्च महातेजा ये चान्ये लोककीर्तिताः
।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः॥२३॥
कामवीर्यधरान् सिद्धान्महापरिषदान्प्रभुः
।
नन्दिसेनं लोहिताक्षं घण्टाकर्णं च सम्मतम्॥२४॥
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्
।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः॥२५॥
मायाशतधरं कामं कामवीर्यबलान्वितम्
।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्॥२६॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश॥२७॥
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम्
।
देवशत्रुक्षयकरीमजय्यां विष्णुरूपिणीम्॥२८॥
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः
।
गन्धर्वा यक्षरक्षांसि मनुयः पितरस्तथा॥२९॥
ततः प्रादादनुचरौ यमकालोपमावुभौ
।
उन्माथश्च प्रमाथश्च महावीर्यौ महाद्युती॥३०॥
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ
।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्॥३१॥
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ
।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च॥३२॥
ज्वालाजिह्वां तथा ज्योतिरात्मजाय हुताशनः
।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ॥३३॥
परिघं च वटं चैव भीमं च सुमहाबलम्
।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ॥३४॥
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते
।
उत्क्रोशं पञ्चकं चैव वज्रदण्जधरावुभौ॥३५॥
ददावनलपुत्राय वासवः परवीरहा
।
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्॥३६॥
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्
।
स्कन्दाय त्रीननुचरान् ददौ विष्णुर्महायशाः॥३७॥
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ
।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ॥३८॥
कुन्दं च कुसुमं चैव कुमुदं च महायशाः
।
डम्बराडम्बरौ चैव ददौ धाता महात्मने॥३९॥
चक्रानुचक्रौ बलिनौ मेघचक्रौ बलोत्कटौ
।
ददौ त्वष्टा महामायौ स्कन्दायानुतरावुभौ॥४०॥
सुव्रतं सत्यसन्धं च ददौ मित्रौ महात्मने
।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः॥४१॥
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ
।
सुव्रतं च महात्मानं शुभकर्माणमेव च॥४२॥
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ
।
पाणीतकं कालिकं च महामायाविनावुभौ॥४३॥
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत
।
बलं चातिबलं चैव महावक्त्रौ महाबलौ॥४४॥
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम
।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ॥४५॥
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः
।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥४६॥
हिमवान्प्रददौ राजन् हुताशनसुताय वै
।
काञ्चनं च महात्मानं मेघमालिनमेव च॥४७॥
ददावनुचरौ मेरुरग्निपुत्राय भारत
।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ॥४८॥
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ
।
उच्छृङ्गं चाग्निशृङ्गं च महापाषाणयोधिनौ॥४९॥
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ
।
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ॥५०॥
प्रददावग्निपुत्राय महापारिषदावुभौ
।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च॥५१॥
प्रददावग्निपुत्राय पार्वती शुभदर्शना
।
जयं महाजयं चैव नागौ ज्वलनसूनवे॥५२॥
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा॥५३॥
सागराः सरितश्चैव गिरयश्च महाबलाः
।
ददुः सेनागणाध्यक्षान् शूलपट्टिशधारिणः॥५४॥
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्
।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः॥५५॥
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः
।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च॥५६॥
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ
।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः॥५७॥
अक्षः सन्तर्जनो राजन् कुनदीकस्तमोऽन्तकृत्
।
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः॥५८॥
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः
।
पुण्यमाना सुनामा च सुचक्रः प्रियदर्शनः॥५९॥
परिश्रुतः कोकनदः प्रियामाल्यानुलेपनः
।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः॥६०॥
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः
।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः॥६१॥
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः
।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः॥६२॥
उदारक्षो रथाक्षश्च वज्रनाभो वसुप्रभः
।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च॥६३॥
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ
।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्था॥६४॥
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्
।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा॥६५॥
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत
।
गोव्रजः कनकापीडो महापारिषदेश्वरः॥६६॥
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान्
।
वैताली गतिताली च तथा कथकवातिकौ॥६७॥
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह
।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः॥६८॥
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः
।
कालकक्षः सितश्चैव भूतानां मथनस्तथा॥६९॥
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः
।
मज्जनश्च महातेजाः क्रथनाथौ च भारत॥७०॥
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्
।
मधुरः सुप्रसादश्च किरीटी च महाबलः॥७१॥
वत्सलो मधुवर्णश्च कलशोदर एव च
।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्॥७२॥
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः
।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा॥७३॥
अचलः कनकाक्षश्च बालानामपि यः प्रभुः
।
सञ्चारकः कोकनदो गृघ्रपत्रश्च जम्बुकः॥७४॥
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः
।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः॥७५॥
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः
।
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुञ्जलः॥७६॥
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः
।
पैतामहा महात्मानो महापारिषदाश्च ये॥७७॥
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय
।
सहस्रशः पारिषदाः कुमारमवतस्थिरे॥७८॥
वक्त्रैर्नानाविधैर्ये तु श्रुणु ताञ्जनमेजय
।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा॥७९॥
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा
।
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत॥८०॥
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे
।
आखुबभुकवक्त्राश्च मयूरवदनास्तथा॥८१॥
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः
।
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा॥८२॥
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये
।
गरुडाननाः कङ्कमुखा वृककाकमुखास्तथा॥८३॥
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा
।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत॥८४॥
पारावतमुखाश्चान्ये तथा वृषमुखाः परे
।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः॥८५॥
कृकलासमुखाश्चैव विरजोऽम्बरधारिणः
।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः॥८६॥
आशीविषाश्चीरधरा गोनासावदनास्तथा
।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः॥८७॥
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः
।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः॥८८॥
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः
।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि॥८९॥
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा
।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः॥९०॥
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः
।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे॥९१॥
भुजङ्गभोगवदना नानागुल्मनिवासिनः
।
चीरसंवृतगात्राश्च नानाकनकवाससः॥९२॥
नानावेषधराश्चैव नानामाल्यानुलेपनाः
।
नानावस्त्रधराश्चैव चर्मवासस एव च॥९३॥
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः
।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः॥९४॥
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे
।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा॥९५॥
चित्रमालाधराः केचित् केचिद्रोमाननास्तथा
।
विग्रहैकरसा नित्यमजेयाः सुरसत्तमैः॥९६॥
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः
।
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः॥९७॥
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः
।
कुब्जाश्च ह्रस्वजङ्घाश्च हस्तिकर्णशिरोधराः॥९८॥
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे
।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः॥९९॥
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे
।
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः॥१००॥
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः
।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत॥१०१॥
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः
।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः॥१०२॥
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत
।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः॥१०३॥
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा
।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः॥१०४॥
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत
।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः॥१०५॥
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे
।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत॥१०६॥
चामरापीडकनिभाः श्वेतलोहितराजयः
।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः॥१०७॥
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
।
शेषैः कृतः पारिषदैपरायुधानां परिग्रहः॥१०८॥
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः
।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः॥१०९॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
।
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत॥११०॥
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः
।
आयुधैविविधैर्घोरैर्महात्मानो महाजवाः॥१११॥
महाबला महावेगा महापारिषदास्तथा
।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः॥११२॥
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः
।
एते चान्ये च बहवो महापारिषदा नृप॥११३॥
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्
।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः॥११४॥
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचरा भवन्
।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च
।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे॥११५॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलरामतीर्थयात्रायां सारस्वतोपाख्याने स्कन्दाभिषेके पञ्चचत्वारिंशोऽध्यायः॥४५॥
वैशम्पायन उवाच।
शृणु मातृगणान् राजन्कुमारानुचरानिमान्
।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्॥१॥
श्रुण्विति॥१॥
यशस्विनीनां मातॄणां शृणु नामानि भारत
।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्च भागशः॥२॥
प्रभावती विशालाक्षी पालिता गोस्तनी तथा
।
श्रीमती बहुला चैव तथैव बहुपुत्रिका॥३॥
अप्सु जाता च गोपाली बृहदम्बालिका तथा
।
जयावती मालतिका ध्रुवरत्ना भयङ्करी॥४॥
वसुदामा च दामा च विशोका नन्दिनी तथा
।
एकचूडा महाचूडा चक्रनेमिश्च भारत॥५॥
उत्तेजनी जयत्सेना कमलाक्ष्यश्च शोभना
।
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी॥६॥
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत
।
गीतप्रिया च कल्याणी रुद्ररोमामिताशना॥७॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती
।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत॥८॥
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना
।
सन्तानिका च कौरव्य कमला च महाबला॥९॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी
।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला॥१०॥
शतघण्टा शतानन्दा भगनन्दा च भाविनी
।
वपुष्मती चन्द्रशीता भद्रकाली च भारत॥११॥
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी
।
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया॥१२॥
धनदा सुप्रसादा च भवदा च जलेश्वरी
।
एडी भेडी समेडी च वेतालजननी तथा॥१३॥
कण्डूतिः कालिका चैव देवमित्रा च भारत
।
वसुश्रीः कोटरा चैव चित्रसेना तथाचला॥१४॥
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप
।
कुण्डारिका कौकुलिका कुम्भिकाथ शतोदरी॥१५॥
उत्क्राथिनी जलेला च महावेगा च कङ्कणा
।
मनोजवा कण्टकिनी प्रघसा पूतना तथा॥१६॥
केशयन्त्री त्रुटिर्वामा क्रोशनाथ तडित्प्रभा
।
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी॥१७॥
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी
।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला॥१८॥
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च
।
पक्षालिका मत्कुलिका जरायुर्जर्जरानना॥१९॥
ख्याता दहदहा चैव तथा धमधमा नृप
।
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका॥२०॥
अमोघा चैव कौरव्य तथा लम्बपयोधरा
।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला॥२१॥
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा
।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा॥२२॥
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा
।
कालेहिका वामनिका मुकुटा चैव भारत॥२३॥
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप
।
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत॥२४॥
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा
।
चतुष्पथनिकेता च गोकर्णी महिषानना॥२५॥
खरकर्णी महाकर्णी भेरीस्वनमहास्वना
।
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला॥२६॥
गणा च सुगणा चैव तथाऽभीत्यथ कामदा
।
चतुष्पथरता चैव भूतितीर्थान्यगोचरी॥२७॥
पशुदा वित्तदा चैव सुखदा च महायशाः
।
पयोदा गोमहिषदा सुविशाला च भारत॥२८॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना
।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा॥२९॥
एकचन्द्रा मेघकर्णा मेघमाला विरोचना
।
एताश्चान्याश्च बहवो मातरो भतरर्षभ॥३०॥
कार्तिकेयानुयायिन्यो नानारूपा सहस्रशः
।
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत॥३१॥
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः
।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा॥३२॥
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः
।
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ॥३३॥
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः
।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः॥३४॥
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः
।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथा पराः॥३५॥
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा
।
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः॥३६॥
वारुण्योऽथ च माहेन्द्र्यऽस्तथाऽऽग्नेय्यः परन्तप
।
वायव्यश्चाथ कौमार्यो ब्राह्मयश्च भरतर्षभ॥३७॥
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः
।
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः॥३८॥
परपुष्टोपमावाक्ये तथर्द्ध्या धनदोपमाः
।
शक्रवीर्योपमा युद्धे दीप्त्या वह्नि समास्तथा॥३९॥
शत्रूणां विग्रहे नित्यं भयदास्ता भवन्त्युत
।
कामरूपधराश्चैव जवे वायुसमास्तथा॥४०॥
अचिन्तबलवीर्याश्च तथाचिन्त्यपराक्रमाः
।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः॥४१॥
गुहाश्मशानवासिन्यः शैलप्रस्त्रवणालयाः
।
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा॥४२॥
नानाविचित्रवेषाश्च नानाभाषास्तथैव च
।
एते चान्ये च बहवो गणाः शत्रुभयङ्कराः॥४३॥
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते
।
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः॥४४॥
गुहाय राजशार्दूल विनाशाय सुरद्विषाम्
।
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्॥४५॥
अरुणादित्यवर्णां च पताकां भतरर्षभ
।
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥४६॥
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्
।
अजेयां स्वगणैर्युक्तां नाम्नां सेनां धनञ्जयाम्॥४७॥
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः
।
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम्॥४८॥
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्
।
उमा ददौ विरजसी वाससी रविसप्रभे॥४९॥
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्
।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः॥५०॥
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्
।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥५१॥
नागं तु वरुणो राजा बलवीर्यसमन्वितम्
।
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः॥५२॥
समरेषु जयं चैव प्रददौ लोकभावनः
।
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह॥५३॥
शुशुभे ज्वलितोऽर्चिष्मान् द्वितीय इव पावकः
।
ततः पारिषदैश्चैव मातृभिश्च समन्वितः॥५४॥
ययौ दैत्यविनाशाय ह्लादयन्सुरपुङ्गवान्
।
सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना॥५५॥
सभेरीशङ्खमुरजा सायुधा सपताकिनी
।
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता॥५६॥
ततो देवनिकायास्ते नानाभूतगणास्तथा
।
वादयामासुरव्यग्रा भेरीः शङ्खांश्च पुष्कलान्॥५७॥
पटहाञ्झर्झरांश्चैव क्रकचान् गोविषाणकान्
।
आडम्बरान् गोमुखांश्च डिण्डिमांश्च महास्वनान्॥५८॥
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः
।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥५९॥
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ
।
रिपून् हन्तास्मि समरे ये वो वधचिकीर्षवः॥६०॥
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात्
।
प्रीतात्मानो महात्मानो मेनिरे निहतान् रिपुन॥६१॥
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः
।
अपूरयत लोकांस्त्रीन् वरे दत्ते महात्मना॥६२॥
स निर्ययौ महासेनो महत्या सेनया वृतः
।
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम्॥६३॥
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीधृतिः स्मृतिः
।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप॥६४॥
स तया भीमया देवः शूलमुद्गरहस्तया
।
ज्वलितालातधारिण्या चित्राभरणवर्मया॥६५॥
गदामुसलनाराचशक्तितोमरहस्तया
।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः॥६६॥
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा
।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः॥६७॥
अभ्यद्रवन्त देवास्तान् विविधायुधपाणयः
।
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः॥६८॥
शक्त्यस्त्रं भगवान् भीमं पुनः पुनरवाकिरत्
।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः॥६९॥
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा
।
उल्काज्वाला महाराज पपात वसुधातले॥७०॥
संह्रादयन्तश्च तथा निर्घाताश्चापतन् क्षितौ
।
यथान्तकालसमये सुघोराः स्युस्तथा नृप॥७१॥
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना
।
ततः कट्यो विनिष्पेतुः शक्तीनां भरतर्षभ॥७२॥
ततः प्रीतो महासेनो जधान भगवान्प्रभुः
।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्॥७३॥
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप
।
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान्॥७४॥
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम्
।
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः॥७५॥
जघानानुचरैः सार्धं विविधायुधपाणिभिः
।
तथाकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु॥७६॥
कुमारानुचरा राजन्पूरयन्तो दिशो दश
।
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः॥७७॥
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिभिः समन्ततः
।
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च॥७८॥
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे
।
पताकयाऽवधूताश्च हताः केचित् सुरद्विषः॥७९॥
केचिद्घण्टारवत्रस्ता निषेदुर्वसुधातले
।
केचित्प्रहरणैश्छिन्ना विनिष्येतुर्गतायुषः॥८०॥
एवं सुरद्विषोऽनेकान् बलवानाततायिनः
।
जघान समरे वीरः कार्तिकेयो महाबलः॥८१॥
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः
।
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत॥८२॥
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः
।
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान्॥८३॥
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम्
।
शक्त्या बिभेद भगवान् कार्तिकेयोऽग्निदत्तया॥८४॥
स शालस्कन्धशबलं त्रस्तवानरवारणम्
।
प्रोड्डीनोद्धान्तविहगं विनिष्पतितपन्नगम्॥८५॥
गोलाङ्गुलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम्
।
कुरङ्गमविनिर्घोषनिनादितवनान्तरम्॥८६॥
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः
।
शोच्यामपि दशां प्राप्तो रराजेव स पर्वतः॥८७॥
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः
।
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः॥८८॥
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः
।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः॥८९॥
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे
।
स चैव भगवान् क्रुद्धो दैत्येन्द्रस्य सुतं तदा॥९०॥
सहानुजं जघानाशु वृत्रं देवपतिर्यथा
।
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा॥९१॥
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः
।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः॥९२॥
एवम्प्रभावो भगवांस्ततो भूयश्च पावकिः
।
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया॥९३॥
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः
।
ततः स भगवान्देवो निहत्य विबुधद्विषः॥९४॥
स भाज्यमानो विबुधैः परं हर्षमवाप ह
।
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत॥९५॥
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्
।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥९६॥
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः
।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः॥९७॥
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम्
।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम्॥९८॥
"तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारस्तꣳस्कन्द इत्याचक्षते" इति छान्दोग्ये श्रुतं स्कन्दस्य पूर्वपरिग्रहमाह- केचिदिति॥९८॥
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः
।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत॥९९॥
एकधा च द्विधा चैव चतुर्धा च महाबलम्
।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥१००॥
एतत्ते कथितं राजन् कार्तिकेयाभिषेचनम्
।
शृणु चैव सरस्वत्यास्तीर्थवर्यस्य पुण्यताम्॥१०१॥
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु
।
कुमारेण महाराज त्रिविष्टपमिवापरम्॥१०२॥
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक् पृथक्
।
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः॥१०३॥
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः
।
अभिषिक्तो महाराज देवसेनापतिः सुरैः॥१०४॥
तैजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः
।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ॥१०५॥
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली
।
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च॥१०६॥
उषित्वा रजनीं तत्र माधवः परवीरहा
।
पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली॥१०७॥
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः
।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
।
यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः॥१०८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने तारकवधे षट्चत्वारिंशोऽध्यायः॥४६॥
जनमेजय उवाच।
अत्यद्भुतमिदं ब्रह्मन् श्रुतवानस्मि तत्त्वतः
।
अभिषेकं कुमारस्य विस्तरेण यथाविधि॥१॥
अत्यद्भुतमिति॥१॥
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन
।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम॥२॥
अभिषेकं कुमारस्य दैत्यानां च वधं तथा
।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे॥३॥
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः
।
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम॥४॥
वैशम्पायन उवाच।
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम्
।
आदौ कृतयुगे राजन् वर्तमाने यथाविधि॥५॥
वरुणं देवताः सर्वाः यमेत्येदपथाब्रुवन्
।
यथास्मान् सुरराट्छक्रो भयेभ्यः पाति सर्वदा॥६॥
तथा त्वमपि सर्वासां सरितां वै पतिर्भव
।
वासश्च ते सदा देव सागरे मकरालये॥७॥
समुद्रोऽयं तव वशे भविष्यति नदीपतिः
।
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः॥८॥
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत्
।
समागम्य ततः सर्वे वरुणं सागरालयम्॥९॥
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा
।
अभिषिच्य ततो देवा वरुणं यादसां पतिम्॥१०॥
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्
।
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः॥११॥
सरितः सागरांश्चैव नदांश्चापि सरांसि च
।
पालयामास विधिना यथा देवाशतक्रतुः॥१२॥
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु
।
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा॥१३॥
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः
।
लोकालोकविनाशे च प्रादुर्भूते तदानघ॥१४॥
उपतस्थुः सुरा यत्र सर्वलोकपितामहम्
।
अग्निः प्रनष्टो भगवान् कारणं च न विद्महे॥१५॥
सर्वभूतक्षयो राजन् सम्पादय विभोऽनलम्
।
जनमेजय उवाच।
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः॥१६॥
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः
।
वैशम्पायन उवाच।
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान्॥१७॥
शमीगर्भमथासाद्य ननाश भगवांस्ततः
।
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः॥१८॥
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः
।
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि॥१९॥
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि
।
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः॥२०॥
ज्वलनं तं समासाद्य प्रीताऽभूवन् सवासवाः
।
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्॥२१॥
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना
।
तत्राप्याप्लुत्य मतिमान् ब्रह्मयोनिं जगाम ह॥२२॥
ससर्ज भगवान् यत्र सर्वलोकपितामहः
।
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा॥२३॥
ससर्ज तीर्थानि तथा देवतानां यथाविधि
।
तत्र स्नात्वा च दत्वा च वसूनि विविधानि च॥२४॥
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः
।
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिल प्रभुः॥२५॥
ऐलबिलः कुबेरः॥२५॥
तत्रस्थमेव तं राजन् धनानि निधयस्तथा
।
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः॥२६॥
गत्वा दत्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ
।
ददृशे तत्र तत् स्थानं कौबेरे काननोत्तमे॥२७॥
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना
।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः॥२८॥
धनादिपत्यं सख्यं च रुद्रेणामिततेजसा
।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्॥२९॥
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा
।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः॥३०॥
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम्
।
विमानं पुष्पकं दिव्यं नैर्ऋतैश्चर्यमेव च॥३१॥
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान्
।
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः॥३२॥
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम्
।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम्॥३३॥
॥इति श्रीमहााभरते शल्यपर्वान्तर्गतगदापर्वणि बलदेवयात्रायां सारस्वतोपाख्याने सप्तचत्वारिंशोऽध्यायः॥४७॥
वैशम्पायन उवाच।
ततस्तीर्थवरं रामो ययौ बदरपाचनम्
।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता॥१॥
तत इति॥१॥
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी॥२॥
तपश्चचार साऽत्युग्रं नियमैर्बहुभिर्वृता
।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी॥३॥
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान् सुदुश्चरान्॥४॥
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते
।
भक्त्या च भगवान्प्रीतः परया पाकशासनः॥५॥
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः
।
आस्थाय रूपं विप्रर्षैर्वसिष्ठस्य महात्मनः॥६॥
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत॥७॥
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो॥८॥
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत
।
शक्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन॥९॥
व्रतैश्च नियमैश्चैव तपसा च तपोधन
।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः॥१०॥
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्
।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत॥११॥
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते
।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः॥१२॥
तच्च सर्वं यथाभूतं भविष्यति वरानने
।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति॥१३॥
यथा स्थानानि दिव्यानि विबुधानां शुभानने
।
तपसा तानि प्राप्याणि तपोमूलं महत्सुखम्॥१४॥
इति कृत्वा तपो घोरं देहं संन्यस्य मानवाः
।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम॥१५॥
पञ्च चैतानि सुभगे बदराणि शुभव्रते
।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः॥१६॥
आमन्त्र्यतां तु कल्याणीं ततो जप्यं जजाप सः
।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम्॥१७॥
इन्द्रतीर्थेति विख्यातं त्रिषु लोकेषु मानद
।
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः॥१८॥
बरदाणामपचनं चकार विबुधाधिपः
।
ततः प्रतप्ता सा राजन् वाग्यता विगतक्लमा॥१९॥
तत्परा शुचिसंवीता पावके समधिश्रयत्
।
अपचद्राजशार्दूल बदराणि महाव्रता॥२०॥
तस्याः पतन्त्याः सुमहान् कालोऽगात्पुरुषर्षभ
।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्॥२१॥
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः
।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्॥२२॥
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ॥२३॥
दग्धाविति। उपावर्तयताग्रेऽग्रे प्रसारितवती॥२३॥
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
।
कुर्वाणा दुष्करं कर्म महर्षिप्रियकाम्यया॥२४॥
यतोऽनिन्दिता योगधर्मेण निर्देषा अतो नाचिन्तयदिति स्वपादसंवर्धनक्षमापि दाहपीडां देहे इति धैर्योक्तिः॥२४॥
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाभवत्
।
शरीरमग्निना दीप्य जलमध्येऽवहर्षिता॥२५॥
तच्चास्या वचनं नित्यमवर्तद्धृदि भारत
।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका॥२६॥
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा
।
अपचद्बदराण्येव न चापच्यन्त भारत॥२७॥
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम्
।
न च तस्या मनो दुःखं स्वल्पमप्यभवत्तदा॥२८॥
अथ तत्कर्म दृष्ट्वास्याः प्रीतिस्त्रिभुवनेश्वरः
।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः॥२९॥
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्
।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च॥३०॥
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे
।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि॥३१॥
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्॥३२॥
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्
।
अस्मिन् खलु महाभागे शुभे तीर्थवरेऽनघे॥३३॥
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्
।
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः॥३४॥
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल
।
तेषां वृत्यर्थिनां तत्र वसतां हिमवद्वने॥३५॥
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी
।
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः॥३६॥
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा
।
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्॥३७॥
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा
।
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः॥३८॥
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे
।
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना॥३९॥
क्षीणाऽन्नसञ्चयो विप्र बदराणीह भक्षय
।
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते॥४०॥
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया
।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी॥४१॥
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा
।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी॥४२॥
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः
।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः॥४३॥
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्
।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः॥४४॥
उपसर्गस्व धर्मज्ञे यथापूर्वमिमानृषीन्
।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च॥४५॥
ततः सन्दर्शयामास स्वरूपं भगवान् हरः
।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत्॥४६॥
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्
।
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम॥४७॥
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्
।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः॥४८॥
ततः प्रोवाच भगवांस्तामेवारुन्धती पुनः
।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि॥४९॥
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि
।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्॥५०॥
सिद्धदेवर्षिदयितं नाम्ना बरदपाचनम्
।
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः॥५१॥
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्
।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्॥५२॥
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा
।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्॥५३॥
अश्रान्तां चाविवर्णां च क्षुत्पिपासासमायुताम्
।
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया॥५४॥
यथा त्वया महाभागे मदर्थं संशितव्रते
।
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन् समर्पितः॥५५॥
विशेषः समर्पितः वह्नौ देहोऽपि न्यस्तः पादयोः समर्पणादिति भावः॥५५॥
तथा चेदं ददाम्यद्य नियमेन सुतोषितः
।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे॥५६॥
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना
।
तस्य चाहं प्रभावेण तव कल्याणि तेजसा॥५७॥
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि
।
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः॥५८॥
स स्नात्वा प्राप्स्यते लोकान् देहन्यासात्सुदुर्लभान्
।
इत्युक्त्वा भगवान् देवः सहस्राक्षः प्रतापवान्॥५९॥
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः
।
गते वज्रधरे राजंस्तत्र वर्षं पपात ह॥६०॥
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्
।
देवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः॥६१॥
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते
।
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्॥६२॥
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत
।
जनमेजय उवाच।
का तस्या भगवन्माता क्व संवृद्धा च शोभना॥६३॥
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे
।
वैशम्पायन उवाच।
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः॥६४॥
दृष्ट्वाऽप्सरसभायान्तीं घृताचीं पृथुलोचनाम्
।
स तु जग्राह तद्रेतः करेण जपतां वरः॥६५॥
तदाऽपतत्पर्णपुटे तत्र सा समभवत् सुता
।
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः॥६६॥
नाम चास्याः स कृतवान् भरद्वाजो महामुनिः
।
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि
।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्॥६७॥
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः
।
जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम्॥६८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने बदरपाचनतीर्थकथने अष्टचत्वारिंशोऽध्यायः॥४८॥
वैशम्पायन उवाच।
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बलः
।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि॥१॥
इन्द्रतीर्थमिति॥१॥
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन च
।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्॥२॥
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्
।
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः॥३॥
जारूथ्यान् पुष्टान्॥३॥
तान् क्रतून् भरतश्रेष्ठ शतकृत्वो महाद्युतिः
।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः॥४॥
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम्
।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्॥५॥
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः
।
ब्राह्मणान् पूजयित्वा च सदाच्छादनभोजनैः॥६॥
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह
।
यत्र रामो महाभागो भार्गवः सुमहातपाः॥७॥
असकृत्पृथिवीं जित्वा हतक्षत्रियपुङ्गवाम्
।
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्॥८॥
अयजद्वाजपेयेन सोऽश्वमेधशतेन च
।
प्रददौ दक्षिणां चैव पृथिवीं वै ससागराम्॥९॥
दत्त्वा च दानं विविधं नानारत्नसमन्वितम्
।
सगोहस्तिकदासीकं साजावि गतवान्वनम्॥१०॥
साजावि अजाभिरविभिश्च सहितं दानम्॥१०॥
पुण्ये तीर्थवरे तत्र देवब्रह्मर्षिसेविते
।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्॥११॥
यत्रानयामास तदा राजसूयं महीपते
।
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः॥१२॥
आनयामास मुनीनित्यनुषज्यते, राजसूयं कर्तुमिति शेषः॥१२॥
तत्र निर्जित्य सङ्ग्रामे मानुषान् देवतास्तथा
।
वरं क्रतुं समाजह्रे वरुणः परवीरहा॥१३॥
तस्मिन् क्रतुवरे वृत्ते सङ्ग्रामः समजायत
।
देवानां दानवानां च त्रैलोक्यस्य भयावहः॥१४॥
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय
।
जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति॥१५॥
तत्रापि लाङ्गली देव ऋषीनभ्यर्च्य पूजया
।
इतरेभ्योऽप्यदाद्दानमर्थिभ्यः कामदो विभुः॥१६॥
वनमाली ततो हृष्टः स्तूयमानो महर्षिभिः
।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः॥१७॥
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम
।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत॥१८॥
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः
।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह॥१९॥
द्वैपायनः शुकश्चैव कृष्णाश्च मधुसूदनः
।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते॥२०॥
एते चान्ये च बहवो योगसिद्धाः सहस्रशः
।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप॥२१॥
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ
।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे॥२२॥
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत
।
सम्प्राप्य परमं योगं सिद्धिं च परमां गतः॥२३॥
असितो देवलश्चैव तस्मिन्नेव महातपाः
।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्॥२४॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
वैशम्पायन उवाच।
तस्मिन्नेव त धर्मात्मा वसति स्म तपोधनः
।
गार्हस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा॥१॥
तस्मिन्निति॥१॥
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु॥२॥
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः
।
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः॥३॥
काञ्चने लोष्ठभावे च समदर्शी महातपाः
।
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह॥४॥
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः
।
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः॥५॥
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः
।
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः॥६॥
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः
।
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्॥७॥
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः
।
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्॥८॥
व्यतिक्रमत् व्यत्यक्रामत्॥८॥
जैगीषव्यं मुनिवरं व ददर्शाथ देवलः
।
आहारकाले मतिमान्परिव्राड्जनमेजय॥९॥
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्
।
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्॥१०॥
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा
।
देवलस्तु यथाशक्ति पूजयामास भारत॥११॥
ऋषिदृष्टेन विधिना समा बह्वीः समाहितः
।
कदाचित्तस्य नृपते देवलस्य महात्मनः॥१२॥
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्
।
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम॥१३॥
न चायमलसो भिक्षुरभ्यभाषत किञ्चन
।
एवं विगणयन्नेव स जगाम महोदधिम्॥१४॥
अन्तरिक्षचरः श्रीमान् कलशं गृह्य देवलः
।
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्॥१५॥
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत
।
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः॥१६॥
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च
।
इत्येवं चिन्तयामास महर्षिरसितस्तदा॥१७॥
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप सः
।
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह॥१८॥
कलशं जलपूर्णं वै गृहीत्वा जनमेजय
।
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः॥१९॥
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत
।
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन॥२०॥
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः
।
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्॥२१॥
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः
।
असितो देवलो राजंश्चिन्तयामास बुद्धिमान्॥२२॥
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
।
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः॥२३॥
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्
।
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः॥२४॥
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते
।
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः॥२५॥
सोऽन्तरिक्षचरान् सिद्धान् समपश्यत्समाहितान्
।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत॥२६॥
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
।
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः॥२७॥
तस्मात्तु पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
।
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत॥२८॥
तस्मादपि समुत्पत्य सोमलोकमभिप्लुतम्
।
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम्॥२९॥
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम्
।
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह॥३०॥
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
।
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्॥३१॥
व्रजन्तं लोकममलमपश्यद्देवपूजितम्
।
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः॥३२॥
तेषां स्थानं ततो यातं तथाग्निष्टोमयाजिनाम्
।
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः॥३३॥
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः
।
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्॥३४॥
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत
।
यजन्ते राजसूयेन पुण्डरीकेण चैव ये॥३५॥
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
।
अश्वमेधं क्रतुवरं नरमेधं तथैव च॥३६॥
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत
।
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये॥३७॥
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
।
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप॥३८॥
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
।
मैत्रावरुणयोर्लोकानादित्यानां तथैव च॥३९॥
सलोकतामनुप्राप्तमपश्यत ततोऽसितः
।
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः॥४०॥
तानि सर्वाण्यतीतानि समपश्यत्ततोऽसितः
।
आरुह्य च गवां लोकं प्रयातो ब्रह्मसत्रिणाम्॥४१॥
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः
।
त्रीँल्लोकानपरान् विप्रमुत्पतन्तं स्वतेजसा॥४२॥
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत
।
ततो मुनिवरं भूयो जैगीषव्यमथासितः॥४३॥
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम
।
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः॥४४॥
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्
।
असितोऽपृच्छत सदा सिद्धाँल्लोकेषु सत्तमान्॥४५॥
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः
।
जैगीषव्यं न पश्यामि तं शंसध्वं महौजसम्॥४६॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
।
सिद्धा उचुः।
शृणु देवल भूतार्थं शंसता नो दृढव्रत॥४७॥
भूतार्थं यथाभूतार्थम्॥४७॥
जैगीषव्यः स वै लोकं शाश्वतं ब्रह्मणो गतः
।
वैशम्पायन उवाच।
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्॥४८॥
असितो देवलस्तूर्णमुत्पपात पपात च
।
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह॥४९॥
उत्पपात ब्रह्मलोकं गन्तुमिति शेषः। पपात च गगनात्॥४९॥
न देवलगतिस्तत्र तव गन्तुं तपोधन
।
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान्॥५०॥
वैशम्पायन उवाच।
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः
।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह॥५१॥
स्वमाश्रमपदं पुण्यमाजगाम पतत्रिवत्
।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः॥५२॥
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया
।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्॥५३॥
संन्यासे कृता वुद्धिर्येन तम्॥५३॥
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
।
विनयावनतो राजन्नुपसर्प्य महामुनिम्॥५४॥
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्
।
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः॥५५॥
विधिं च योगस्य परं कार्याकार्यस्य शास्त्रतः
।
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः॥५६॥
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा
।
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह॥५७॥
सर्वाः क्रियाः उत्सर्गेष्त्यादयः॥५७॥
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति
।
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा॥५८॥
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे
।
ततस्तु फलमूलानि पवित्राणि च भारत॥५९॥
मोक्षं संन्यासं त्युक्तुं मनो दधे उत्सृष्टनामाग्नीनां पुनराधानं कर्तुमैच्छत्॥५९॥
पुष्पाण्योषधयश्चैव रोरूयन्ति सहस्रशः
।
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः॥६०॥
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते
।
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः॥६१॥
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्
।
इति निश्चित्य मनसा देवलो राजसत्तम॥६२॥
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्
।
एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः॥६३॥
प्राप्तवान्परमां सिद्धिं परं योगं च भारत
।
ततो देवाः समागम्य बृहस्पतिपुरोगमाः॥६४॥
जैगीषव्ये तपश्चास्य प्रशंसन्ति तपस्विनः
।
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा॥६५॥
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्
।
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः॥६६॥
जैगीषव्ये तत्वविदि तपो नास्ति पूर्वस्य तपसो दग्धत्वात् क्रियमाणस्य चाश्लेषात्। तथा च श्रुती भवतः "तद्यथैषीकतूलमग्नौ प्रोतं प्रढूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते तद्यथा पुष्करपलाशे आपो न श्लिष्यन्त एवमेवामिष्मिन् पापं कर्म नाश्लिष्यत" इति॥६६॥
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्
।
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः॥६७॥
तेजसस्तपसश्चास्य योगस्य च महात्मनः
।
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथासितः
।
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः॥६८॥
असितः देवलः॥६८॥
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः
।
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत्सुतीर्थम्॥६९॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने पञ्चाशत्तमोऽध्यायः॥५०॥
वैशम्पायन उवाच।
यत्रेजिवानुडुपती राजसूयेन भारत
।
तस्मिंस्तीर्थे महानासीत्सङ्ग्रामस्तारकामयः॥१॥
यत्रेति॥१॥
तत्राप्युपस्पृश्य बले दत्त्वा दानानि चात्मवान्
।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह॥२॥
तत्र द्वादशवार्षिक्यामनावृशष्ट्या द्विजोत्तमान्
।
वेदानध्यापयामास पुरा सारस्वतो मुनिः॥३॥
जनमेजय उवाच।
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्
।
ऋषीनध्यापयामास पुरा सारस्वतो मुनिः॥४॥
वैशम्पायन उवाच।
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः
।
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः॥५॥
तस्यातितपसः शक्रो बिभेति सततं विभो
।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि॥६॥
प्रलोभनार्थं तस्याथ प्राहिणोत् पाकशासनः
।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुषाम्॥७॥
तस्य तर्पयतो देवान् सरस्वत्यां महात्मनः
।
समीपतो महाराज सोऽपातिष्ठत भाविनी॥८॥
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः
।
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा॥९॥
कुक्षौ चाप्यदधद्धृष्टा तद्रेतः पुरुषर्षभ
।
सा दधार च तं गर्भं पुत्रहेतोर्महानदी॥१०॥
सुषुवे चापि समये पुत्रं सा सरितां वरा
।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो॥११॥
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्
।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्॥१२॥
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया
।
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुपाम्॥१३॥
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्
।
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्॥१४॥
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्
।
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम्॥१५॥
स्वसुतं चाप्यजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः
।
परिष्वज्यं चिरं कालं तदा भरतसत्तम॥१६॥
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः
।
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः॥१७॥
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा
।
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्॥१८॥
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव
।
प्रस्रुतासि महाभागे सरसो ब्रह्मणः पुरा॥१९॥
जानान्ति त्वां सरिच्छ्रेष्ठे मनुयः संशितव्रताः
।
मम प्रियकरी चापि सततं प्रियदर्शने॥२०॥
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि
।
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः॥२१॥
सारस्वत इति ख्यातो भविष्यति महातपाः
।
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्॥२२॥
सारस्वतो महाभागे वेदानध्यापयिष्यति
।
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे॥२३॥
भविष्यसि महाभागे मत्प्रसादात्सरस्वति
।
एवं सा संस्तुताऽनेन वरं लब्ध्वा महानदी॥२४॥
पुत्रमादाय मुदिता जगाम भरतर्षभ
।
एतस्मिन्नेव काले तु विरोधे देवदानवैः॥२५॥
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह
।
न चोपलेभे भगवाञ्छक्रः प्रहरणं तदा॥२६॥
यद्वैतेषां भवेद्योग्यं वधाय विबुधद्विषाम्
।
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः॥२७॥
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः
।
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः॥२८॥
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्
।
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा॥२९॥
प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयन्
।
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा॥३०॥
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा
।
कारयामास दिव्यानि नानाप्रहरणानि च॥३१॥
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान्
।
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा॥३२॥
परमर्षिणा दधीचिना स देहस्तपसा सम्भृतः॥३२॥
प्रजापतिसुतेनाथ भृगुणा लोकभावनः
।
अतिकायः स तेजस्वी लोकसारो विनिर्मितः॥३३॥
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः
।
नित्यमुद्विजते चास्य तेजसः पाकशासनः॥३४॥
अस्य मुनेः॥३४॥
तेन वज्रेण भगवान् मन्त्रयुक्तेन भारत
।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च॥३५॥
तेन तदस्थिजेन वज्रेण॥३५॥
दैत्यदानववीराणां जघान नवतीर्नव
।
अथ काले व्यतिक्रान्ते महत्यतिभयङ्कारे॥३६॥
नवतीर्नव दशाधिकामष्टशतीम्॥३६॥
अनावृष्टिरनुप्राप्ता राजन् द्वादशवार्षिकी
।
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः॥३७॥
वृत्यर्थं प्राद्रवन् राजन् क्षुधार्ताः सर्वतोदिशम्
।
दिग्भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिः सारस्वतस्तदा॥३८॥
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती
।
न गन्तव्यमितः पुत्र तवाहारमहं सदा॥३९॥
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत
।
इत्युक्तस्तर्पयामास स पितॄन् देवतास्तथा॥४०॥
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन्
।
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः॥४१॥
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्
।
तेषां क्षुधापरीतानां नष्टा वेदाऽभिधावताम्॥४२॥
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान्
।
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्॥४३॥
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्
।
स गत्वाऽऽचष्ट तेभ्यश्च सारस्वतमतिप्रभम्॥४४॥
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने
।
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः॥४५॥
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः
।
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः॥४६॥
शिष्यत्वमुपगच्छध्वं विधिवद्धि ममेत्युत
।
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक॥४७॥
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्
।
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः॥४८॥
हीयेतां तावुभौ क्षिप्तं स्यातां वा वैरिणावुभौ
।
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः॥४९॥
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्
।
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः॥५०॥
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे
।
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे॥५१॥
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्
।
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन्
।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः॥५२॥
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ
।
जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र॥५३॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने एकपञ्चाशत्तमोऽध्यायः॥५१॥
जनमेजय उवाच।
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा
।
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्॥१॥
कथमिति॥१॥
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्
।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता॥२॥
वैशम्पायन उवाच।
ऋषिरासीन्महावीर्यः कुणिर्गर्गो महायशाः
।
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः॥३॥
मनसाऽथ सुतां सुभ्रूं समुत्पादितवान् विभुः
।
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गर्गो महायशाः॥४॥
जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम्
।
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा॥५॥
महता तपसोग्रेण कृत्वाऽऽश्रममनिन्दिता
।
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा॥६॥
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप
।
सा पित्रा दीयमानापि तत्र नैच्छदनिन्दिता॥७॥
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत
।
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम्॥८॥
पितृदेवार्चनरता बभूव विजने वने
।
साऽऽत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता॥९॥
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता
।
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्॥१०॥
चकार गमने बुद्धिं परलोकाय वै तदा
।
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्॥११॥
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे
।
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते॥१२॥
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः
।
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि॥१३॥
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तम
।
इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः॥१४॥
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्
।
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने॥१५॥
यद्येकरात्रं वस्त्वयं त्वया सह मयेति ह
।
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा॥१६॥
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः
।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः॥१७॥
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी
।
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना॥१८॥
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया
।
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम्॥१९॥
यस्त्वया समयो विप्र कृतो मे तपतां वर
।
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्॥२०॥
सा निर्गताऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः
।
वसन्ते रजनीमेकां तर्पयित्वा दिवौकसः॥२१॥
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्
।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः॥२२॥
चत्वारिंशतमष्टौ चेति प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि ततो द्वौ वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीति अष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम्॥२२॥
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता
।
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्॥२३॥
समयेन तपोऽर्धं त कृच्छ्रात्प्रतिगृहीतवान्
।
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमन्वियात्॥२४॥
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः
।
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्॥२५॥
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा
।
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः॥२६॥
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः
।
शुश्राव शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा॥२७॥
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः
।
पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत्फलम्॥२८॥
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
।
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्॥२९॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने द्विपञ्चाशत्तमोऽध्यायः॥५२॥
ऋषय ऊचुः।
प्रजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम्
।
समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः॥१॥
प्रजापतेरिति॥१॥
पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा
।
प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे॥२॥
राम उवाच।
किमर्थं कुरूणां कृष्टं क्षेत्रमेतन्महात्मना
।
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः॥३॥
ऋषय ऊचुः।
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम्
।
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम्॥४॥
इन्द्र उवाच।
किमिदं वर्तते राजन्प्रयत्नेन परेण च
।
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः॥५॥
कुरुरुवाच।
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो
।
ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान्॥६॥
अवहस्य ततः शक्रो जगाम त्रिदिवं पुनः
।
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम्॥७॥
आगम्यागम्य चैवैनं भूयोभूयोऽवहस्य च
।
शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह॥८॥
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः
।
ततः शक्रोऽब्रवीद्देवान् राजर्षेर्यच्चिकीर्षितम्॥९॥
एतच्छ्रुत्वाब्रुवन् देवाः सहस्राक्षमिदं वचः
।
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते॥१०॥
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः
।
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति॥११॥
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्
।
अलं खेदेन भवतः क्रियतां वचनं मम॥१२॥
मानवा ये निराहारा देहं त्यक्ष्यन्यतन्द्रिताः
।
युधि वा निहताः सम्यगपि तिर्यग्गता नृप॥१३॥
ते स्वर्गभाजो राजेन्द्र भविष्यन्ति महामते
।
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह॥१४॥
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना
।
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः॥१५॥
एवमेदतद्यदुश्रेष्ठं कृष्टं राजर्षिणा पुरा
।
शक्रेण चाभ्यनुज्ञातं ब्रह्माद्यैश्च सुरैस्तथा॥१६॥
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति
।
इह तप्स्यन्ति ये केचित्तपः परमकं नरा॥१७॥
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम्
।
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः॥१८॥
ब्रह्मणः क्षयं निवासम्॥१८॥
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै
।
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः॥१९॥
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन
।
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः॥२०॥
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति
।
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः॥२१॥
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध
।
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः
।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥२२॥
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः
।
इष्ट्वा महार्हैः क्रतुभिर्नृसिंहा सन्त्यज्य देहान् सुगतिं प्रपन्नाः॥२३॥
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च
।
एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते॥२४॥
शिवं महापुण्यमिदं दिवौकसां सुसम्मतं सर्वगुणैः समन्वितम्
।
अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा॥२५॥
सारस्वतानां तीर्थानां वर्णनं कुरुक्षेत्रमाहात्म्यज्ञापनार्थम्। तदपि तत्र मृतानामन्येषामपि स्वर्गतिप्रदं किमुत क्षत्रधर्मेण मृतानामित्येतदर्थं तदेवोपसंहरन् दर्शयति- अतश्चेति॥२५॥
इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा
।
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः॥२६॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थायां सारस्वतोपाख्याने कुरुक्षेत्रकथने त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
वैशम्पायन उवाच।
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः
।
आश्रमं सुमहद्दिव्यमगमज्जनमेजय॥१॥
कुरुक्षेत्रमिति॥१॥
मधूकाम्रवणोपेतं प्लक्षन्यग्रोधसङ्कुलम्
।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम्॥२॥
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्॥३॥
ते तु सर्वे महात्मानमूचु राजन् हालयुधम्
।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः॥४॥
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्
।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः॥५॥
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी
।
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी॥६॥
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः
।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी॥७॥
सा तु तप्त्वा तपो घोरं दुश्चरं स्त्रीजनेन ह
।
गता स्वर्गं महाभागा देब्राह्मणपूजिता॥८॥
श्रुत्वा ऋषीणां वचनमाश्रमं तं जगाम ह
।
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः॥९॥
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम्
।
नातिदूरं ततो गत्वा नगं तालध्वजो बली॥१०॥
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः
।
प्रभावं च सरस्वत्याः प्लक्षप्रस्रवणं बलः॥११॥
सम्प्राप्तः कारपवनं प्रवरं तीर्थमुत्तमम्
।
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः॥१२॥
आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ
।
सन्तर्पयामास पितॄन् देवांश्च रणदुर्मदः॥१३॥
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह
।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः॥१४॥
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवन्
।
तं देशं कारपवनाद्यमुनायां जगाम ह॥१५॥
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च
।
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः॥१६॥
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः
।
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः॥१७॥
आजगामाथ तं देशं यत्र रामो व्यवस्थितः
।
जटामण्डलसंवीतः स्वर्णचीरो महातपाः॥१८॥
हेमदण्डधरो राजन् कमण्डलुधरस्तथा
।
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम्॥१९॥
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः
।
प्रकर्ता कलहानां च नित्यं च कलहप्रियः॥२०॥
तं देशमदमद्यत्र श्रीमान् रामो व्यवस्थितः
।
प्रत्युत्थाय च तं सम्यक् पूजयित्वा यतव्रतम्॥२१॥
देवर्षिं पर्यपृच्छत्स यथा वृत्तं कुरून्प्रति
।
ततोऽस्याकथयद्राजन् नारदः सर्वधर्मवित्॥२२॥
सर्वमेतद्यथावृत्तमतीव कुरुसंक्षयम्
।
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा॥२३॥
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः
।
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन॥२४॥
विस्तरश्रवणे जातं कौतूहलमतीव मे
।
नारद उवाच।
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा॥२५॥
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः
।
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्॥२६॥
एते चान्ये च बहवस्तत्र तत्र महाबलाः
।
प्रियान्प्राणान्परित्यज्य जयार्थं कौरवस्य वै॥२७॥
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः
।
अहतांस्तु महाबाहो शृणु मे तत्र माधव॥२८॥
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः
।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्॥२९॥
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा
।
दुर्योधने हते शल्ये विद्रुतेषु कृपादिषु॥३०॥
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः
।
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा॥३१॥
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्
।
स तुद्यमानो बलवान् वाग्मी रामसमन्ततः॥३२॥
उत्थितः स ह्रदाद्वीरः प्रगृह्य महतीं गदाम्
।
स चाप्युपगतो योद्धं भीमेन सह साम्प्रतम्॥३३॥
भविष्यति तयोरद्य युद्धं राम सुदारुणम्
।
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्
।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे॥३४॥
वैशम्पायन उवाच।
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्
।
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह॥३५॥
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः
।
सोऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणाच्छुभात्॥३६॥
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत्
।
विप्राणां संनिधौ श्लोकमगायदिममच्युतः॥३७॥
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः
।
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम्॥३८॥
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा
।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च॥३९॥
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम्
।
हयैर्युक्तं रथं शुभ्रमातिष्ठत परन्तपः॥४०॥
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः
।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम्॥४१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवतीर्थयात्रायां सारस्वतोपाख्याने चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
वैशम्पायन उवाच।
एवं तदभवद्युद्धं तुमुलं जनमेजय
।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥१॥
एवमिति॥१॥
धृतराष्ट्र उवाच।
रामं सन्निहितं दृष्ट्वा गदायुद्ध उपस्थिते
।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय॥२॥
सञ्जय उवाच।
रामसान्निध्यमासाद्य पुत्रो दुर्योधनस्तव
।
युद्धकामो महाबाहुः समहृष्यत वीर्यवान्॥३॥
दृष्ट्वा लागलिनं राजा प्रत्युत्थाय च भारत
।
प्रीत्या परमया युक्तः समभ्यर्च्य यथाविधि॥४॥
आसनं च ददौ तस्मै पर्यपृच्छदनामयम्
।
ततो युधिष्ठरं रामो वाक्यमेतदुवाच ह॥५॥
मधुरं धर्मसंयुक्तं शूराणां हितमेव च
।
मया श्रुतं कथयतामृषीणां राजसत्तम॥६॥
कुरुक्षेत्रं परं पुण्यं पावनं स्वर्गमेव च
।
दैवतैर्ऋषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः॥७॥
तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः
।
तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष॥८॥
तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप
।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः॥९॥
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने
।
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गे भविष्यति॥१०॥
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः
।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः॥११॥
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्
।
पद्भ्यामपर्षी द्युतिमानगच्छत्पाण्डवैः सह॥१२॥
तथाऽऽयान्तं गदाहस्तं वर्मणा चापि दंशितम्
।
अन्तरिक्षचरा देवाः साधु साध्वित्यपूजयन्॥१३॥
वातिकाश्चारणा ये तु दृष्ट्वा ते हर्षमागताः
।
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः॥१४॥
वातिकाः वातेन सह गच्छन्ति आकाशचारिणः चारणाः सिद्धविशेषाः॥१४॥
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्
।
ततः शङ्खनिनादेन भेरीणां च महास्वनैः॥१५॥
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः
।
ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः॥१६॥
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते
।
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम्॥१७॥
प्रतीच्यभिमुखमित्यत्र प्रतीयेति पाठे प्रतिगत्य अन्योन्याभिमुखं प्रातिभट्येन प्राप्येत्यर्थः। स्वयनं सुगतिदम्॥१७॥
तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन्
।
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्॥१८॥
अनिरिणे अनूषरे अनिघृणे इति पाठे निहीनया घृणया कथमहं भ्रातरं वधिष्यामि इत्येवंरूपया करुणया रहिते अत एव समरे निष्ठुरत्वं प्रशस्यते स्वर्गहेतुत्वात्॥१८॥
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः
।
अवबद्धशिरस्त्राणः सङ्ख्ये काञ्चनवर्मभृत्॥१९॥
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव
।
वर्मभ्यां संयतौ वीरौ भीमदुर्योधनावुभौ॥२०॥
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ
।
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ॥२१॥
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ
।
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ॥२२॥
दहन्तौ लोचनौ राजन्परस्परवधैषिणौ
।
सम्प्रहृष्टमना राजन् गदामादाय कौरवः॥२३॥
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन्
।
ततो दुर्योधनो राजन्गदामादाय वीर्यवान्॥२४॥
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत्
।
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान्॥२५॥
आह्वयामास नृपतिं सिंहं सिंहो यथा वने
।
तावुद्यतगदापाणी दुर्योधनवृकोदरौ॥२६॥
संयुगे च प्रकाशेतां गिरी सशिखराविव
।
तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ॥२७॥
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः
।
उभौ सदृशकर्माणौ यमवासवयोरिव॥२८॥
तथा सदृशकर्माणौ वरुणस्य महाबलौ
।
वासुदेवस्य रामस्य तथा वैश्रवणस्य च॥२९॥
सदृशौ तौ महाराज मधुकैटभयोर्युधि
।
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः॥३०॥
रामरावणयोश्चैव वालिसुग्रीवयोस्तथा
।
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ॥३१॥
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ
।
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ॥३२॥
वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ॥३२॥
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव
।
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ॥३३॥
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ
।
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ॥३४॥
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ
।
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ॥३५॥
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ
।
पूर्वपश्चिमजौ मेधौ प्रेक्षमाणावरिन्दमौ॥३६॥
लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा॥३६॥
गर्जमानौ सुविषमं क्षरन्तौ प्रादृषीव हि
।
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ॥३७॥
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ
।
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ॥३८॥
जहृषाते महाबाहू सिंहकेसरिणाविव
।
जगाविव सुसंरब्धौ ज्वलिताविव पावकौ॥३९॥
जहृषाते हर्षं प्रापतुः॥३९॥
ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ
।
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम्॥४०॥
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ
।
उभौ परमसंहृष्टावुभौ परमसम्मतौ॥४१॥
सदश्वाविव हेषन्तौ बृहन्ताविव कुञ्जरौ
।
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ॥४२॥
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ
।
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम्॥४३॥
भ्रातृभिः सहितं चैव कृष्णेन च महात्मना
।
रामेणामितवीर्येण वाक्यं शौटीर्यसम्मतम्॥४४॥
शौटीर्यसम्मतं गर्वयुक्तम्॥४४॥
केकयैः सृञ्जयैर्दृप्तं पञ्चालैश्च महात्मभिः
।
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः॥४५॥
उपोपविष्टाः पश्यध्वं सहितैर्नुपपुङ्गवैः
।
श्रुत्वा दुर्योधनवचः प्रत्यपद्यन्त तत्तथा॥४६॥
ततः समुपविष्टं तत्सुमहद्राजमण्डलम्
।
विराजमानं ददृशे दिवीवादित्यमण्डलम्॥४७॥
तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः
।
उपविष्टो महाराज पूज्यमानः समन्ततः॥४८॥
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः
।
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः॥४९॥
तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ
।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ॥५०॥
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ
।
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे॥५१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि युद्धारम्भे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
वैशम्पायन उवाच।
ततो वाग्युद्धमभवत्तुमुलं जनमेजय
।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥१॥
तत इति॥१॥
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी
।
एकादश चमूभर्ता यज्ञ पुत्रो ममानघ॥२॥
आज्ञाप्य सर्वान्नृपतीन् भुक्त्वा चेमां वसुन्धराम्
।
गदामादाय वेगेन पदातिः प्रस्थितो रणे॥३॥
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः
।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः॥४॥
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय
।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः॥५॥
सञ्जय उवाच।
स मेघनिनदो हर्षान्निनदन्निव गोवृषः
।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान्॥६॥
भीममाह्वायमाने तु कुरुराजे महात्मानि
।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत॥७॥
ववुर्वाताः सनिर्घाताः पांशुवर्षं पपात च
।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः॥८॥
महास्वनाः सुनिर्वातास्तुमुला लोमहर्षणा
।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात्॥९॥
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते
।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा॥१०॥
दीप्ताश्च वातः प्रववुर्नीचैः शर्करकर्षिणः
।
गिरीणां शिखराण्येव न्यपतन्त महीतले॥११॥
मृगा बहुविधाकाराः सम्पतन्ति दिशो दश
।
दीप्ताः शिवाश्चाप्यनदन् घोररूपाः सुदारुणाः॥१२॥
निर्घाताश्च महाघोरा बभूवुर्लोमहर्षणाः
।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवेदिनः॥१३॥
उदपानगताश्चापो व्यवर्धन्त समन्ततः
।
अशरीरा महानादाः श्रूयन्ते स्म तदा नृप॥१४॥
एवमादीनि दृष्ट्वाऽऽथ निमित्तानि वृकोदरः
।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्॥१५॥
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः
।
अद्य क्रोधं विमोक्ष्यामि विगूढं हृदये चिरम्॥१६॥
सुयोधने कौरवेन्द्रे खाण्डवे पावको तथा
।
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्॥१७॥
निहत्य गदया पापमिमं कुरुकुलाधमम्
।
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि॥१८॥
हत्वेमं पापकर्माणं गदया रणमूर्धनि
।
अद्यास्य शतधा देहं भिनद्मि गदयाऽनया॥१९॥
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्
।
सर्पोत्सर्गस्य शयने विषदानस्य भोजने
।
॥२०॥
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि
।
सभायामवहासस्य सर्वस्वहरणस्य च॥२१॥
वर्षमज्ञातवासस्य वनवासस्य चानघ
।
अद्यान्तमेषां दुःखानां गन्ताहं भरतर्षभ॥२२॥
एकाह्रा विनिहत्येमं भविष्याम्यात्मनोऽनृणः
।
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः॥२३॥
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्
।
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः॥२४॥
समाप्तं च महाराज नारीणां दर्शनं पुनः
।
अद्यायं कुरुराजस्य शान्तनोः कुलपांसनः॥२५॥
प्राणान् श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले
।
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्॥२६॥
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्
।
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्॥२७॥
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्
।
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्॥२८॥
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह
।
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः॥२९॥
स्पर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते
।
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला॥३०॥
द्यूते न वञ्चितो राजा यत्त्वया सौबलेन च
।
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत्॥३१॥
विराटनगरे चैव योन्यन्तरगतैरिव
।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते॥३२॥
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान्
।
गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना॥३३॥
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्
।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः॥३४॥
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः
।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः॥३५॥
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः
।
त्वामद्य निहनिष्यामि गदया नात्र संशयः॥३६॥
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम्
।
उवाच गतभी राजन् पुत्रस्ते सत्यविक्रमः॥३७॥
किं कत्थनेन बहुना युध्यस्व त्वं वृकोदर
।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम॥३८॥
न हि दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै
।
शक्यस्त्रासयितुं वाचां यथाऽन्यः प्राकृतो नरः॥३९॥
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम
।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम्॥४०॥
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते
।
वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः॥४१॥
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्
।
राजानः सोमकाश्चैव ये तत्रासन् समागताः॥४२॥
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः
।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः॥४३॥
उन्मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः
।
भूयः संहर्षयाञ्चक्रुर्दुर्योधनममर्षणम्॥४४॥
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः
।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः॥४५॥
बृंहन्ति कुञ्जरास्तत्र हया ह्रेषन्ति चासकृत्
।
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम्॥४६॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि गदायुद्धारम्भे षट्पञ्चाशत्तमोऽध्यायः॥५६॥
सञ्जय उवाच।
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम्
।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन्॥१॥
तत इति॥१॥
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव
।
महानिर्घातघोषश्च प्रहाराणामजायत॥२॥
अभवच्च तयोर्युद्धं तुमुलं लोमहर्षणम्
।
जिगीषतोर्यथान्योन्यमिन्द्रप्रह्लादयोरिव॥३॥
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ
।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ॥४॥
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे
।
खद्योतसं घौरिव खं दर्शनीयं व्यरोचत॥५॥
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम्
।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ॥६॥
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ
।
अभ्यहारयतान्योन्यं सम्प्रगृह्य गदे शुभे॥७॥
अभ्यहारयतान्योन्यं परस्परमभ्यहारयतां गदे अजिग्रहीषाताम् सन्धिरार्षः॥७॥
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ
।
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ॥८॥
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ
।
विस्मयं परमं जग्मुर्देवगन्धर्वमानवाः॥९॥
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ
।
संशयः सर्वभूतानां विजये समपद्यत॥१०॥
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ
।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति॥११॥
अन्तरं गतिविशेषम्॥११॥
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम्
।
ददृशुः प्रेक्षका राजन् रौद्रीं विशसनीं गदाम्॥१२॥
आविद्ध्यतो गदां तस्य भीमसेनस्य संयुगे
।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत॥१३॥
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्
।
गदामतुलवेगां तां विस्मितः सम्बभूव ह॥१४॥
चरंश्च विविधान्मार्गान्मण्डलानि च भारत
।
अशोभत तदा वीरो भूय एव वृकोदरः॥१५॥
मण्डलानि- शत्रोः परिवेष्टनानि परितो भ्रमणानि॥१५॥
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे
।
मार्जाराविव भक्षार्ये ततक्षाते मुहुर्मुहुः॥१६॥
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा
।
मण्डलानि विचित्राणि गतप्रत्यागतानि च॥१७॥
गतं- शत्रोः सम्मुखगमनं प्रत्यागतम्- आभिमुख्यमत्यजत एवापसरणम्॥१७॥
अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च
।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम्॥१८॥
अस्त्रयन्त्राणि- कञ्चिन्मर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमपक्षेपणम च क्रियते तदस्त्रयन्त्रम्। अस्यते क्षिप्यतेऽनेनेत्यस्त्रं तच्च तद्यन्त्रं निग्रहणं चास्त्रयन्त्रमिति समासः। स्थानानि- तेषामेवोपयोगीनि मर्मदेशादीनि। परिधावनं- वेगेन सव्यापसव्यकरणम्॥१८॥
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्
।
परिवर्तनसंवर्तमवप्लुतमुपप्लुतम्॥१९॥
अभिद्रवणम्- वेगेनाभ्यागमनम्। आक्षेपं- परयत्नस्य ततप्रातनहेतुतासम्पादनम्। अवस्थानम्- अचाञ्चल्यम्। सविग्रहम्- शत्रावुत्तिते पुनस्तेन सह युद्धकरणम्। परिवर्तनम्- शत्रुं प्रहर्तुं परितः प्रसरणम्। संवर्तम्- शत्रुप्रसरणस्यावरोधनम्। अवप्लुतम्- प्रहारवञ्चनार्थं नम्रीभूय निःसरणम्। उपप्लुतम्- तदेवार्वाग्गममनयुक्तम्॥१९॥
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ
।
एवं तौ विचरन्तौ तु परस्परमविध्यताम्॥२०॥
उपन्यस्तम्- पेत्यायुधप्रक्षेपः। अपन्यस्तम्- परावृत्य पृष्ठतः कृतेन हस्तेन शत्रोस्ताडनम्॥२०॥
वञ्जयानौ पुनश्चैव चेरतुः कुरुसत्तमौ
।
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः॥२१॥
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः
।
गदाभ्यां सहसान्योन्यमाजघ्नतुररिन्दमौ॥२२॥
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा
।
अशोभेतां महाराज शोणितेन परिप्लुतौ॥२३॥
एवं तदभवद्युद्धं घोररूपं परन्तप
।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव॥२४॥
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली
।
दक्षिणं मण्डलं राजन् भीमसेनोऽभ्यवर्तत॥२५॥
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत
।
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि॥२६॥
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्
।
आहतस्तु ततो भीमः पुत्रेण तव भारत॥२७॥
आविद्ध्यत गदां गुर्वीं प्रहारं तमचिन्तयन्
।
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्॥२८॥
ददृशुस्ते महाराज भीमसेनस्य तां गदाम्
।
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः॥२९॥
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः
।
गदामारुतवेगेन तव पुत्रस्य भारत॥३०॥
शब्द आसीत्सुतुमुलस्तेजश्च समजायत
।
स चरन्विविधान्मार्गान् मण्डलानि च भागशः॥३१॥
समशोभत तेजस्वी भूयो भीमात्सुयोधनः
।
आविद्धा सर्ववेगेन भीमेन महती गदा॥३२॥
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना
।
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः॥३३॥
अद्रिसारमयीं गुर्वीमाविध्यन् बहशोभत
।
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः॥३४॥
भयं विवेश पाण्डूंस्तु सर्वानेव ससोमकान्
।
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः॥३५॥
गदाभ्यां सहसान्योन्यमाजघ्नतुररिन्दमौ
।
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा॥३६॥
अशोभेतां महाराज शोणितेन परिप्लुतौ
।
एवं तदभवद्युद्धं घोररूपमसंवृतम्॥३७॥
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव
।
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः॥३८॥
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे
।
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम्॥३९॥
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम्
।
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः॥४०॥
प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव
।
वेगवत्या तया तत्र भीमसेनप्रमुक्तया॥४१॥
निपतन्त्या महाराज पृथिवी समकम्पत
।
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे॥४२॥
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्
।
स सव्यं मण्डलं राजा उद्भ्राम्य कृतनिश्चयः॥४३॥
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया
।
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः॥४४॥
नाकम्पत महाराज तदद्भुतमिवाभवत्
।
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन्॥४५॥
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम्
।
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्॥४६॥
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः
।
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः॥४७॥
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान्
।
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता॥४८॥
चालयामास पृथिवीं महानिर्घातनिःस्वना
।
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः॥४९॥
आस्थायेति। कौशिकान् कृश उन्मत्तस्तदाचरितान् मार्गान् आस्थाय पुनः पुनतुत्पतनेन वञ्चनेन च भीमम् उन्मत्तीकृत्य गदया ताडयामासेति द्वयोः सम्बन्धः॥४९॥
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम्
।
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः॥५०॥
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः
।
गदया निहतो भीमो मुह्यमानो महारणे॥५१॥
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव
।
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः॥५२॥
भृशोपहतसङ्कल्पा न हृष्टमनसोऽभवन्
।
स तु तेन प्रहारेण मातङ्ग इव रोहितः॥५३॥
नहृष्टमनसः खिन्नचेतसः॥५३॥
हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम्
।
ततस्तु तरसा भीमो गदया तनयं तव॥५४॥
अभिदुद्राव वेगेन सिंहो वनगजं यथा
।
उपसृत्य तु राजानं गदामोक्षविशारदः॥५५॥
आविध्यत गदां राजन्समुद्दिश्य सुतं तव
।
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा॥५६॥
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम्
।
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते॥५७॥
उदतिष्ठत्ततो नादः सञ्जयानां जगत्पते
।
तेषां तु निनदं श्रुत्वा सञ्जयानां नरर्षभः॥५८॥
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत
।
उत्थाय तु महाबाहुर्महानाग इव श्वसन्॥५९॥
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत
।
ततः स भरतश्रेष्ठो गजापाणिरभिद्रवन्॥६०॥
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे
।
स महात्मा महात्मानं भीमं भीमपराक्रमः॥६१॥
अताडयच्छङ्खदेशे न चचालाचलोपमः
।
स भूयः शुशुभे पार्थस्ताडितो गदया रणे
।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः॥६२॥
शङ्खदेशे ललाटप्रान्ते॥६२॥
ततो गदां वीरहणीमयोमयीं प्रगृह्य वज्राशनितुल्यानिःस्वनाम्
।
अताडयच्छत्रुममित्रकर्षणो बलेन विक्रम्य धनञ्जयाग्रजः॥६३॥
स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः
।
सुपुष्पितो मारुतवेगताडितो वने यथा शाल इवावघूर्णितः॥६४॥
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव
।
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात्॥६५॥
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन्
।
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत्॥६६॥
स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा
।
बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम्॥६७॥
ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम्
।
पपात चौच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम्॥६८॥
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम्
।
अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः॥६९॥
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः
।
धृतिं समालम्व्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः॥७०॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि गदायुद्धे सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
सञ्जय उवाच।
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः
।
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्॥१॥
समुदीर्णमिति॥१॥
अनयोर्वीरयोर्युद्धे को ज्यायान् भवतो मतः
।
कस्य वा को गुणो भूयानेतद्वद जनार्दन॥२॥
वासुदेव उवाच।
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः
।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्॥१॥
समुदीर्णमिति॥१॥
भीमसेनस्तु धर्मेण युद्ध्यमानो न जेष्यति
।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम्॥२॥
मायया निर्जिता देवैरसुरा इति नः श्रुतम्
।
विरोचनस्तु शक्रेण मायया निर्जितः स वै॥३॥
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः
।
तस्मान्मायामयं भीम आतिष्ठतु पराक्रमम्॥४॥
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय
।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम्॥५॥
सोऽयं प्रतिज्ञां तां चापि पालयत्वरिकर्षणः
।
मायाविनं तु राजानं माययैव निकृन्ततु॥६॥
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति
।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः॥७॥
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे
।
धर्मराजापराधेन भयं नः पुनरागतम्॥१०॥
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्
।
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्॥११॥
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः
।
अबुद्धिरेषा महती धर्मराजस्य पाण्डव॥१२॥
यदेकविजये युद्धं पाणितं घोरमीद्दशम्
।
सुयोधनः कृती वीर एकायनगतस्तथा॥१३॥
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः
।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु॥१४॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्
।
भेतव्यमरिशेषाणामेकायनगता हि ते॥१५॥
साहसोत्पतितानां च निराशानां च जीविते
।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय॥१६॥
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्
।
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने॥१७॥
को न्वेष संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्
।
अपि नो निर्जितं राज्यं न हरेत सुयोधनः॥१८॥
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः
।
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया॥१९॥
एनं चेन्न महाबाहुरन्यायेन हनिष्यति
।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति॥२०॥
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः
।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्॥२१॥
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे
।
मण्डलानि विचित्राणि यमकानीतराणि च॥२२॥
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च
।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव॥२३॥
तथैव तव पुत्रोऽपि गदामार्गविशारदः
।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया॥२४॥
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते
।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ॥२५॥
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
।
युयुधाते गरुत्मन्तौ तथा नागामिषैषिणौ॥२६॥
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः
।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः॥२७॥
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मधे
।
क्षुब्धयोर्वायुना राजन् द्वयोरिव समुद्रयोः॥२८॥
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव
।
गदानिर्घातसंह्रादः प्रहाराणामजायत॥२९॥
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम्
।
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ॥३०॥
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तप
।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे॥३१॥
तयोः समभवद्युद्धं घोररूपमसंवृतम्
।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्॥३२॥
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव॥३३॥
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ
।
दद्दशाते हिमवति पुष्पिताविव किंशुकौ॥३४॥
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते
।
ईषदुन्मिषमाणस्तु सहसा प्रससार ह॥३५॥
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः
।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बली॥३६॥
आक्षिपन्तं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते
।
अवासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि॥३७॥
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्
।
भीमसेनं त गदया प्राहरत्कुरुसत्तम॥३८॥
तस्य विस्यन्दमानेन रुधिरेणामितौजसः
।
प्रहारगुरुपाताच्च मूर्छेव समजायत॥३९॥
दुर्योधनो न तं वेद पीडितं पाण्डवं रणे
।
धारयामास भीमोऽपि शरीरमतिपीडितम्॥४०॥
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे
।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः॥४१॥
ततो मुहूर्तमाश्वस्य दुर्योधनमुपस्थितम्
।
वेगेनाभ्यपद्राजन् भीमसेनः प्रतापवान्॥४२॥
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम्
।
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ॥४३॥
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः
।
इयेषोत्पतितुं राजञ्छलयिष्यन् वृकोदरम्॥४४॥
अबुद्ध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्
।
अथास्य समभिद्रुत्य समुत्क्रुश्य च सिंहवत्॥४५॥
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः
।
ऊरुभ्यां प्राहिणोद्राजन् गदां वेगेन पाण्डवः॥४६॥
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा
।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ॥४७॥
स पपात नरव्याघ्रो वसुधामनुनादयन्
।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते॥४८॥
ववुर्वाताः सनिर्घाताः पांशुवर्षं पपात च
।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता॥४९॥
क्षुपः क्षुद्रवृक्षः॥४९॥
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
।
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी॥५०॥
पपात चोल्का महती पतिते पृथिवीपतौ
।
तथा शोणितवर्षं च पांशुवर्षं च भारत॥५१॥
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते
।
यक्षाणां राक्षसानां च पिशाचानां तथैव च॥५२॥
अन्तरिक्षे महानादः श्रूयते भतरर्षभ
।
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्॥५३॥
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्
।
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह॥५४॥
मुमुचुस्ते महानादं तव पुत्रे निपातिते
।
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्॥५५॥
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते
।
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः॥५६॥
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप
।
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च॥५७॥
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते
।
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम॥५८॥
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्
।
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्॥५९॥
दुर्योधने तदा राजन्पतिते तनये तव
।
दृष्ट्वा तानद्भुतोत्पातान्पञ्चालाः पाण्डवैः सह॥६०॥
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ
।
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा॥६१॥
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत
।
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः
।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्॥६२॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि दुर्योधनवधे अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
सञ्जय उवाच।
तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम्
।
प्रहृष्टमनसः सर्वे दद्दशुस्तत्र पाण्डवाः॥१॥
तत इति॥१॥
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्
।
दद्दशुर्हष्टरोमाणः सर्वे ते चापि सोमकाः॥२॥
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्
।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्॥३॥
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्
।
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते॥४॥
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि
।
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्॥५॥
शिरश्च राजसिंहस्य पादेन समलोडयत्
।
तथैव क्रोधसंरक्तो भीमः परबलार्दनः॥६॥
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप
।
येऽस्मान्पुरोपनृत्यन्त मूढा गौरिति गौरिति॥७॥
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
।
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना
।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्॥८॥
सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्य
।
युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च॥९॥
रजस्वलां द्रौपदीमानयन्ये ये चाप्यकुर्वन्त सदस्यवस्त्राम्
।
तान् पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः॥१०॥
ये नः पुरा षण्ढतिलानवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः
।
ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा पतामः॥११॥
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्य
।
वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकं न्यवोचत्॥१२॥
हृष्टेन राजन्कुरुसत्तमस्य क्षुद्रात्मना भीमसेनेन पादम्
।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् धर्मात्मानः सोमकानां प्रबर्हाः॥१३॥
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्
।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्॥१४॥
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया
।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना॥१५॥
मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽतिगो भवेत्
।
राजा ज्ञातिर्हतश्चायं नैतन्नयाय्यं तवानघ॥१६॥
एकादशचमूनाथं कुरूणामधिपं तथा
।
मा स्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च॥१७॥
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे
।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः॥१८॥
विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः
।
उत्सन्नपिण्डो भ्राता च नैतन्याय्यं कृतं त्वया॥१९॥
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः
।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि॥२०॥
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः
।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम्॥२१॥
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा
।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते॥२२॥
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्
।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम॥२३॥
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम्
।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत॥२४॥
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा
।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोऽसि निधनं गतः॥२५॥
तवापराधदस्माभिर्भ्रातरस्ते निपातिताः
।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्॥२६॥
आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ
।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव॥२७॥
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः
।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः॥२८॥
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः
।
त्वमेकः सुस्थितो राजन् स्वर्गे ते निलयो ध्रुवः॥२९॥
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्
।
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः
।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः॥३०॥
सञ्जय उवाच।
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः
।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः॥३१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गगदापर्वणि युधिष्ठिरविलापे एकोनषष्टितमोऽध्यायः॥५९॥
धृतराष्ट्र उवाच।
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
।
किमब्रवीत्तदा सूत बलदेवो महाबलः॥१॥
अधर्मेणेति॥१॥
गदायुद्धविशेषज्ञो गदायुद्धविशारदः
।
कृतवान् रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय॥२॥
सञ्जय उवाच।
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
।
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली॥३॥
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः
।
कुर्वन्नार्तस्वरं घोरं धिग्भीमेत्युवाच ह॥४॥
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे
।
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः॥५॥
अधो नाभ्यां न हन्तव्यमिति शास्त्रस्य निश्चयः
।
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते॥६॥
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्
।
ततो राजानमालोक्य रोषसंरक्तलोचनः॥७॥
बलदेवो महाराज ततो वचनमब्रवीत्
।
न चैष पतितः कृष्ण केवलं मत्समोऽसमः॥८॥
आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते
।
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली॥९॥
tस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः
।
बहुधा तु विचित्रस्य श्वेतस्येव महागिरेः॥१०॥
तमुत्पतन्तं जग्राह केशवो विनयान्वितः
।
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्वली॥११॥
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा
।
नभोगतौ यथा राजंश्चन्द्रसूर्यो दिनक्षये॥१२॥
धर्मार्थौ कामेनापीडयन् धर्मकामावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः॥१२॥
उवाच चैनं संरब्धं शमयन्निव केशवः
।
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा॥१३॥
आत्मेति। १आत्मवृद्धिः २शत्रुक्षयः ३स्वमित्रस्य बुद्धिः ४शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः॥१३॥
विपरीतं द्विषत्स्वेतत् षड्विधा वृद्धिरात्मनः
।
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत्॥१४॥
विपरीतम् आत्मक्षयशत्रुवृद्ध्यादिकम् इदमेव षट्कम्॥१४॥
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्
।
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः॥१५॥
प्रकृते मित्रवृद्धिरेवात्मवृद्धिरित्याह- अस्माकमिति॥१५॥
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्
।
प्रतिज्ञापालनं धर्मः क्षत्रियस्येह वेम्यहम्॥१६॥
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे
।
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले॥१७॥
भङ्क्ता भङ्क्ष्ये इति प्रतिज्ञापालनरूपत्वादप्यधोनाभिप्रहारो नाधर् इत्यर्थः॥१७॥
मैत्रैयेणाभिशप्तश्च पूर्वमेव महर्षिणा
।
ऊरू ते भेत्स्यते भीमो गदयेति परन्तप॥१८॥
अतो दोषं न पश्यामि मा क्रुद्ध्यस्व प्रलम्बहन्
।
यौनः स्वैः सुखहार्दैच सम्बन्धः सह पाण्डवैः॥१९॥
यौनः योनिनिमित्तः सम्बन्धः। अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः। एवमर्जुने जामातृत्वादिरपि सुखहार्दैः अन्योन्यसुखप्रदैः सौहार्दैः स्नेहेन चेत्यर्थः॥१९॥
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ
।
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित्॥२०॥
सीरभृत् रामः॥२०॥
धर्मः सुचरितः सद्भिः स च द्वाभ्यां नियच्छति
।
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिणः॥२१॥
धर्म इति। नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्यर्थः॥२१॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्
।
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते॥२२॥
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
।
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम्॥२३॥
कामं यथैष्टं त्वं मां प्रति उक्तवानसि न तु धर्म्यं यतोऽर्थलुब्धेन भीमेन धर्मस्य पीडनात्पूर्वोक्तो मार्गो व्याकुलीकृत इत्यर्थः॥२३॥
श्रीकृष्ण उवाच।
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः
।
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः॥२४॥
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
।
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः॥२५॥
प्राप्तमिति। कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः॥२५॥
सञ्जय उवाच।
धर्मच्छलमपि श्रुत्वा केशवात्स विशाम्पते
।
नैव प्रीतमना रामो वचनं प्राह संसदि॥२६॥
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्
।
जिह्मयोधीते लोकेऽस्मिन् ख्यातिं यास्यति पाण्डवः॥२७॥
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्
।
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः॥२८॥
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
।
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः॥२९॥
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्
।
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति॥३०॥
पञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते
।
रामे द्वारावतीं याते नातिप्रमनसोऽभवन्॥३१॥
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्
।
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम्॥३२॥
वासुदेव उवाच।
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे
।
हतबन्धोर्यदेतस्य पतितस्य विचेतसः॥३३॥
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा
।
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप॥३४॥
युधिष्ठिर उवाच।
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः
।
पदा मूर्ध्न्यस्पृशत्क्रोधान्न हृष्ये कुलक्षये॥३५॥
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्
।
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह॥३६॥
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते
।
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम्॥३७॥
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्
।
लभतां पाण्डवः कामं धर्मेऽधर्मे च वा कृते॥३८॥
सञ्जय उवाच।
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्
।
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः॥३९॥
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा
।
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि॥४०॥
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः
।
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः॥४१॥
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्
।
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते॥४२॥
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका
।
तां प्रशाधि महाराज स्वधर्ममनुपालय॥४३॥
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः
।
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते॥४४॥
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः
।
राधेयः शकुनिश्चैव हताश्च तव शत्रवः॥४५॥
सेयं रत्नसमाकीर्णा मही सवनपर्वता
।
उपावृत्ता महाराज त्वामद्य निहतद्विषम्॥४६॥
युधिष्ठिर उवाच।
गतो वैरस्य निधनं हतो राजा सुयोधनः
।
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा॥४७॥
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः
।
दिष्ट्या जयति दुर्धर्ष दिष्ट्या शत्रुर्निपातितः॥४८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि बलदेवसान्त्वने षष्टितमोऽध्यायः॥६०॥
धृतराष्ट्र उवाच।
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
।
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय॥१॥
हतमिति॥१॥
सञ्जय उवाच।
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
।
सिंहेनेव महाराज मत्तं वनगजं यथा॥२॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः
।
पञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने॥३॥
आविद्ध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे
।
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा॥४॥
धनूंष्यन्ते व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन्
।
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन्॥५॥
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः
।
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः॥६॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्
।
कौरवेन्द्रं रणे हत्वा गदयाऽतिकृतश्रमम्॥७॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे
।
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः॥८॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः
।
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात्॥९॥
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्
।
अशक्यमेतदन्येन सम्पादयितुमीदृशम्॥१०॥
कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि
।
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया॥११॥
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम्
।
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ॥१२॥
ये विप्रकुर्वन् राजानं धर्मात्मानं युधिष्ठिरम्
।
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा॥१३॥
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च
।
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः॥१४॥
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः
।
तथा त्वां निहतामित्रं वयं नन्दाम भारत॥१५॥
दुर्योधनवधे यानि रोमाणि हृषितानि नः
।
अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत॥१६॥
इत्यब्रुवन् भीमसेनं वातिकास्तत्र सङ्गताः
।
तान् हृष्टान्पुरुषव्याघ्रान् पञ्चालान्पाण्डवैः सह॥१७॥
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः
।
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः॥१८॥
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः
।
तदैवैष हतः पापो यदैव निरपत्रपः॥१९॥
लुब्धः पापसहायश्च सुहृदां शासनातिगः
।
बहुशो विदुरद्रोणकृपगाङ्गेयसञ्जयैः॥२०॥
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान्
।
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः॥२१॥
किमनेनातिभुग्नेन वाग्भिः काष्ठसधर्मणा
।
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः॥२२॥
अतिभूग्नेन अत्यन्तं नामितेन॥२२॥
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः
।
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः॥२३॥
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते
।
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्॥२४॥
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवो न्यपातयत्
।
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु॥२५॥
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत
।
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन्॥२६॥
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्
।
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै॥२७॥
अधर्मेण गदायुद्धे यदहं विनिपातितः
।
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता॥२८॥
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः
।
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः॥२९॥
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा
।
अहन्यहनि शूराणां कुर्वाणः कदनं महत्॥३०॥
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः
।
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते॥३१॥
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया
।
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्॥३२॥
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः
।
वधार्थं पाण्डपुत्रस्य याचितां शक्तिमेव च॥३३॥
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः
।
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली॥३४॥
त्वयाऽभिसृष्टेन हतः शैनेयेन महात्मना
।
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया॥३५॥
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः
।
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः॥३६॥
पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीनृणाम्
।
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुतौ॥३७॥
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम्
।
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः॥३८॥
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः
।
वासुदेव उवाच।
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः॥३९॥
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः
।
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ॥४०॥
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः
।
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि॥४१॥
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात्
।
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः॥४२॥
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते
।
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला॥४३॥
तदैव तावद्दुष्टात्मन् वध्यस्त्वं निरपत्रप
।
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना॥४४॥
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे
।
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने॥४५॥
या तेषु मृगयां चैव तृणबिन्दोरथाश्रमम्
।
अभिमन्युश्च यद्बाल एको बहुभिराहवे॥४६॥
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे
।
यान्यकार्याणि चास्माकं कृतानीति प्रभाषसे॥४७॥
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम्
।
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया॥४८॥
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतम्
।
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः॥४९॥
कृतवानस्य कार्याणि विपाकस्तस्य भुज्यताम्
।
दुर्योधन उवाच।
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा॥५०॥
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया
।
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्॥५१॥
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया
।
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः॥५२॥
ऐश्वर्यं चोत्तमं प्राप्तः को नु स्वन्ततरो मया
।
ससुहृत्सानुगश्चैव स्वर्गं गन्ताहमच्युत॥५३॥
यूयं निहतसङ्कल्पाः शोचन्तो वर्तयिष्यथ
।
सञ्जय उवाच।
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः॥५४॥
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम्
।
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम्॥५५॥
जगुश्चाप्सरसो राज्ञो यशःसम्बद्धमेव च
।
सिद्धाश्च मुमुचुर्वाचः साधु साध्विति पार्थिव॥५६॥
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः
।
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसंनिभम्॥५७॥
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः
।
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन्॥५८॥
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते
।
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च॥५९॥
तांस्तु चिन्तापरान् दृष्ट्वा पाण्डवान् दीनचेतसः
।
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिःस्वनः॥६०॥
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः
।
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे॥६१॥
नैष शक्यः कदाचित्तु हन्तुं धर्मेण पार्थिवः
।
ते वा भीष्ममुखाः सर्वे महेष्वासा महारथाः॥६२॥
मयानेकैरूपायैस्तु मायायोगेन चासकृत्
।
हतास्ते सर्व एवाजौ भवतां हितमिच्छता॥६३॥
यदि नैवंविधं जातु कुर्यां जिह्ममहं रणे
।
कुतो वो विजयो भूयः कुतो राज्यं कुतो धनम्॥६४॥
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि
।
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम्॥६५॥
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः
।
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना॥६६॥
न च वो हृदि कर्तव्यं यदयं घातितो रिपुः
।
मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः॥६७॥
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः
।
सद्धिश्चानुगतः पन्थाः स सर्वैरनुगम्यते॥६८॥
कृतकृत्याश्च सायाह्ने निवासं रोचयामहे
।
साश्चनागरथाः सर्वे विश्रमामो नराधिपाः॥६९॥
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह
।
पञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत्॥७०॥
ततः प्राध्यापयञ्शङ्खान्पाञ्चजन्यं च माधवः
।
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभ॥७१॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि कृष्णपाण्डवदुर्योधनसंवादे एकषष्टितमोऽध्यायः॥६१॥
सञ्जय उवाच।
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः
।
शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः॥१॥
तत इति॥१॥
पाण्डवान् गच्छतश्चापि शिबिरं नो विशाम्पते
।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा॥२॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः
।
सर्वे चान्ये महेष्वासाः प्रययुः शिबिराण्युत॥३॥
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्
।
दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने॥४॥
गतोत्सवं पुरमिव हृतनागमिव ह्रदम्
।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्॥५॥
वर्षवरः षण्ढः॥५॥
तत्रैतान्पर्युपातिष्ठन् दुर्योधनपुरःसराः
।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः॥६॥
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः॥७॥
ततो गाण्डीवधन्वानमभ्यभाषत केशवः
।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ॥८॥
अवरोपय गाण्डीवमक्षयौ च महेषुधी
।
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम॥९॥
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ
।
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः॥१०॥
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्
।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः॥११॥
अथातवतीर्णे भूतानामीश्वरे सुमहात्मनि
।
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः॥१२॥
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः
।
अथादीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते॥१३॥
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः
।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः॥१४॥
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो
।
अभवन् विस्मिता राजन्नर्जुनश्चेदमब्रवीत्॥१५॥
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह
।
गोविन्द कस्माद्भगवन् रथो दग्धोऽयमग्निना॥१६॥
किमेतन्महदाश्चर्यमभवद्यदुनन्दन
।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे॥१७॥
वासुदेव उवाच।
अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन
।
मदधिष्ठित्तत्वात्समरे न विशीर्णः परन्तप॥१८॥
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजा
।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि॥१९॥
ईषदुत्स्मयमास्तु भगवान्केशवोऽरिहा
।
परिष्वज्य च राजानं युधिष्ठिरमभाषत॥२०॥
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः
।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः॥२१॥
त्वं चापि कुशली राजन्माद्रीपुत्रो च पाण्डवौ
।
मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः॥२२॥
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत
।
उपायतमुपप्लव्यं सह गाण्डीवधन्वना॥२३॥
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः
।
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः॥२४॥
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो
।
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्॥२५॥
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर
।
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः॥२६॥
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात्
।
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः॥२७॥
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्
।
युधिष्ठिर उवाच।
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन॥२८॥
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः
।
भवतस्तु प्रसादेन संशप्तकगणा जिताः॥२९॥
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः
।
तथैव च महाबाहो पर्यायैर्बहुभिर्मया॥३०॥
कर्मणामनुसन्तानं तेजसश्च गतीः शुभाः
।
उपप्लव्ये महषिर्मे कृष्णद्वैपायनोऽब्रवीत्॥३१॥
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
।
इत्येवमुक्ते ते वीराः शिबिरं तव भारत॥३२॥
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान्
।
रजतं जातरूपं च मणीनथ च मौक्तिकान्॥३३॥
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च
।
दासीदासमसङ्ख्येयं राज्योपकरणानि च॥३४॥
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ
।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः॥३५॥
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च
।
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा॥३६॥
अथाब्रवीन्महाराज वासुदेवो महायशाः
।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः॥३७॥
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा
।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः॥३८॥
ते समासाद्य सरितं पुण्यामोघवतीं नृप
।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः॥३९॥
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत्
।
तत्र ते गमनं प्राप्तं रोचते तव माधव॥४०॥
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम
।
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः॥४१॥
क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि
।
पितामहश्च भगवान् व्यासस्तत्र भविष्यति॥४२॥
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्
।
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान्॥४३॥
दारुकं रथमारोप्य येन राजाम्बिकासुतः
।
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम्॥४४॥
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्
।
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः
।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम्॥४५॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि वासुदेवप्रेषणे द्विषष्टितमोऽध्यायः॥६२॥
जनमेजय उवाच।
किमर्थं द्विजशार्दूलं धर्मराजो युधिष्ठिरः
।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम्॥१॥
किमर्थमिति॥१॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति
।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्॥२॥
निहतेषु तु योधेषु हते दुर्योधने तदा
।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि॥३॥
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
।
किं न तत्कारणं ब्रह्मन् येन कृष्णो गतः पुनः॥४॥
न चैतत्कारपां ब्रह्मन्नल्पं विप्रतिभाति मे
।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः॥५॥
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम
।
यच्चात्र कारणं ब्रह्मन् कार्यस्यास्य विनिश्चये॥६॥
वैशम्पायन उवाच।
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव
।
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ॥७॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
।
व्युत्क्रम्य समयं राजन् धार्तराष्ट्रं महाबलम्॥८॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
।
युधिष्ठिरं महाराज महद्भयमथाविशत्॥९॥
चिन्तयानो महाभागं गान्धारीं तपसान्विताम्
।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्॥१०॥
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा
।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्॥११॥
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति॥१२॥
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति
।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्॥१३॥
एवं विचिन्त्य बहुधा भयशोकसमन्वितः
।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत॥१४॥
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्
।
अप्राप्यं मनसापीदं प्राप्तमस्माभिरच्युत॥१५॥
प्रत्यक्षं मे महाबाहो सङ्ग्रामे लोमहर्षणे
।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन॥१६॥
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः॥१७॥
साह्यं तथा महाबाहो दत्तमस्माकमच्युत
।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम्॥१८॥
यदि न त्वं भवेन्नाथः फाल्गुनस्य महारणे
।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः॥१९॥
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्
।
शक्तिभिर्भिन्दिपालैश्च तोमरैः सपरश्वधैः॥२०॥
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः
।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे॥२१॥
ते च ते सफला जाता हते दुर्योधनेऽच्युत
।
तत्सर्वं न यथा नश्येत्पुनः क्रोधं कृष्ण तथा कुरु॥२२॥
सन्देहदोलां प्राप्तं नश्चेतः कृष्ण जये सति
।
गान्धार्या हि महाबाहो क्रोधं बुद्ध्यस्व माधव॥२३॥
सा हि नित्यं महाभाग तपसोग्रेण कर्शिता
।
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति॥२४॥
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम
।
कश्च तां क्रोधताम्राक्षीं पुत्रव्यसनकर्शिताम्॥२५॥
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम
।
तत्र मे गमनं प्राप्तं रोचते तव माधव॥२६॥
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम
।
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः॥२७॥
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः
।
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि॥२८॥
हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः कारणानि अदृष्टान्यवश्यम्भावीनि तैर्युक्तानि तैः॥२८॥
पितामहश्च भगवान् कृष्णस्तत्र भविष्यति
।
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्॥२९॥
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना
।
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः॥३०॥
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम्
।
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः॥३१॥
न्यवेदयद्रथं सज्जे केशवाय महात्मने
।
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः॥३२॥
जगाम हास्तिनपुरं त्वरितः केशवो विभुः
।
ततः प्रायान्महाराज माधवो भगवान् रथी॥३३॥
प्रायादगच्छत्॥३३॥
नागसाह्वयमासाद्य प्रविवेश न वीर्यवान्
।
प्रविश्य नगरं वीरो रथघोषेण नादयन्॥३४॥
विदितं धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्
।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्॥३५॥
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्
।
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः॥३६॥
कृष्णस्य व्यासस्य॥३६॥
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः
।
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः॥३७॥
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह
।
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्॥३८॥
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि
।
उवाच प्रस्तुतं वाक्यं धृतराष्ट्रमरिन्दमः॥३९॥
न तेऽस्त्यविदितं किञ्चिद्वृद्धस्य तव भारत
।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो॥४०॥
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः
।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत॥४१॥
भ्रातृभिः समयं कृत्वा क्षान्तवान् धर्मवत्सलः
।
द्यूतच्छलजितैः शुद्धैर्वनवासो ह्युपागतः॥४२॥
अज्ञातवासचर्या च नानावेषसमावृतैः
।
अन्ये च बहवः क्लेशात्स्वशक्तैरिव सर्वदा॥४३॥
मया च स्वयमागम्य युद्धकाल उपस्थिते
।
सर्वलोकस्य सान्निध्ये ग्रामांस्त्वं पञ्च याचितः॥४४॥
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्॥४५॥
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च
।
द्रोणेन च सपुत्रेण विदुरेण च धीमता॥४६॥
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि
।
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत॥४७॥
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते
।
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम्॥४८॥
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय
।
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्॥४९॥
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप
।
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्॥५०॥
असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति
।
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृतं फलम्॥५१॥
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्
।
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी॥५२॥
मा शुचो नरशार्दूल पाण्डवान्प्रति किल्बिषम्
।
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्॥५३॥
शिवेन पाण्डवान्पाहि नमस्ते भरतर्षभ
।
जानासि च महाबाहो धर्मराजस्य या त्वयि॥५४॥
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः
।
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्॥५५॥
दह्यते स दिवा रात्रौ न च शर्माधिगच्छति
।
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्॥५६॥
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति
।
ह्रिया च परयाऽऽविष्टो भवन्तं नाधिगच्छति॥५७॥
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलतेन्द्रियम्
।
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः॥५८॥
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्
।
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि तच्छृणु॥५९॥
त्वत्समानास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे
।
जानासि च यथा राज्ञि सभायां मम सन्निधौ॥६०॥
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्
।
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम्॥६१॥
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः
।
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः॥६२॥
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे
।
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः॥६३॥
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन
।
शक्ता चासि महाभागे पृथिवीं सचराचराम्॥६४॥
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्
।
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्॥६५॥
एवमेतन्महाबाहो यथा वदसि केशव
।
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम॥६६॥
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन
।
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव॥६७॥
त्वं गतिः सहितैर्वीरैः पाण्डवैर्द्विपदां वरः
।
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा॥६८॥
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह
।
तत एनां महाबाहुः केशवः शोककर्शिताम्॥६९॥
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः
।
समाश्वास्य च गान्धारी धृतराष्ट्रं च माधवः॥७०॥
द्रौणिसङ्कल्पितं भावमवबुद्ध्यत केशवः
।
ततस्त्वरित उत्थाय पादौ मूर्घ्ना प्रणम्य च॥७१॥
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्
।
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः॥७२॥
द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः
।
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता॥७३॥
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्
।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्॥७४॥
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय
।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन॥७५॥
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः
।
वासुदेवे गते राजन् धृतराष्ट्रं जनेश्वरम्॥७६॥
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः
।
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह॥७७॥
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप
।
आगम्य शिबिरं सोऽभ्यगच्छत पाण्डवान्
।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः॥७८॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि धृतराष्ट्रगान्धारीसमाश्वासने त्रिषष्टितमोऽध्यायः॥६३॥
धृतराष्ट्र उवाच।
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः
।
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय॥१॥
अधिष्ठित इति। शौटीरः शुरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी॥१॥
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु
।
व्यसनं परमं प्राप्तः किमाह परमाहवे॥२॥
सञ्जय उवाच।
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप
।
राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते॥३॥
भग्नसक्थो नृपो राजन् पांसुना सोऽवगुण्ठितः
।
यमयन्मूर्धजास्तत्र वीक्ष्य चैव दिशो दश॥४॥
केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा
।
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्॥५॥
बाहू धरण्यां निष्यिष्य सुदुर्मत्त इव द्विपः
।
प्रकीर्णान्मूर्धजान्धुन्वन् दन्तैर्दन्तानुपस्पृशन्॥६॥
गर्हयन्पाण्डवं ज्येष्ठः निःश्वस्येदमथाब्रवीत्
।
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे॥७॥
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे
।
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि॥८॥
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः
।
एकादशचमूभर्ता सोऽहमेतां दशां गतः॥९॥
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते
।
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे॥१०॥
यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः
।
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः॥११॥
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति
।
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्॥१२॥
येन ते सत्सु निर्वेदं गमिष्यन्ति हि मे मतिः
।
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपाधिकृतं जयम्॥१३॥
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति
।
अधर्मेण जयं लब्ध्वा को न हृष्येत पण्डितः॥१४॥
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः
।
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम॥१५॥
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः
।
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु॥१६॥
एवं कुर्यान्नरो यो हि स वै सञ्जय पूजितः
।
अभिज्ञौ युद्धधर्मस्य मम माता पिता च मे॥१७॥
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्धि मे
।
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा॥१८॥
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय
।
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्॥१९॥
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया
।
मानिता बान्धवाः सर्वे वश्यः सम्पूजितो जनः॥२०॥
मया मत्तः॥२०॥
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया
।
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः॥२१॥
आजानेयैस्तथा यातं को नु स्वन्ततरो मया
।
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्॥२२॥
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया
।
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्॥२३॥
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया
।
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः॥२४॥
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो
।
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्॥२५॥
निधनं तन्मया प्राप्तं को न स्वन्ततरो मया
।
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः॥२६॥
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः
।
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा॥२७॥
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः
।
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः॥२८॥
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम
।
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः॥२९॥
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ
।
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः॥३०॥
वार्तिकान् वार्ताहारिणः॥३०॥
अधर्माद् भीमसेनेन निहतोऽहं यथा रणे
।
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा॥३१॥
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्
।
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम्॥३२॥
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्
।
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा॥३३॥
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ
।
एतांश्चान्यांश्च सुबहून् मदीयांश्च सहस्रशः॥३४॥
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः
।
कथं भ्रातॄन् हताञ्श्रुत्वा भर्तारं च स्वसा मम॥३५॥
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति
।
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम॥३६॥
गान्धारीसहितश्चैव कां गतिं प्रतिपत्स्यति
।
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा॥३७॥
विनाशं यास्यति क्षिप्रं कल्याणी पृथलोचना
।
यदि जानाति चार्वाका परिवाड्वाग्विशारदः॥३८॥
चार्वाकः ब्राह्मणवेषधारी राक्षसः॥३८॥
करिष्यति महाभागो ध्रुवं चापचितिं मम
।
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते॥३९॥
अपचितं प्रतीकारम्॥३९॥
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान्
।
ततो जनसहस्राणि बाष्पपूर्णानि मारिष॥४०॥
प्रलापं नृपतेः श्रुत्वा व्यद्रवन्त दिशो दश
।
ससागरवना घोरा पृथिवी सचराचरा॥४१॥
चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन्
।
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्॥४२॥
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्
।
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत
।
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्॥४३॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि दुर्योधनविलापे चतुःषष्टितमोऽध्यायः॥६४॥
सञ्जय उवाच।
वार्तिकाणां सकाशात्तु श्रुत्वा दुर्योधनं हतम्
।
हतशिष्टास्ततो राजन् कौरवाणां महारथाः॥१॥
वार्तिकाणामिति॥१॥
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः
।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥२॥
त्वरिता जवनैरश्वैरायोधनमुपागमन्
।
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्॥३॥
प्रभग्नं वायुवेगेन महाशालं यथा वने
।
भूमौ विचेष्टमानं तं रुधिरेण समुक्षितम्॥४॥
महागजमिवारण्ये व्याधेन विनिपातितम्
।
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्॥५॥
यदृच्छया निपतितं चक्रमादित्यगोचरम्
।
महावातसमुत्थेन संशुष्कमिव सागरम्॥६॥
चक्रमादित्यगोचरं सूर्यमण्डलमिवेति लुप्तोपमा॥६॥
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्
।
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे॥७॥
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः
।
यथा धनं लिप्समानैर्भूत्यैर्नृपतिसत्तमम्॥८॥
भृकुटीकृतवक्त्रान्तं क्रोधादुवृत्तचक्षुषम्
।
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा॥९॥
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम्
।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः॥१०॥
अवतीर्य रथेभ्यश्च प्राद्रवन् राजसन्निधौ
।
दुर्योधनं च सम्प्रेक्ष्य सर्वे भीमावुपाविशन्॥११॥
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्
।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्॥१२॥
न नूनं विद्यते सत्यं मानुषे किञ्चिदेव हि
।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः॥१३॥
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्
।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने॥१४॥
दुःशासनं न पश्यामि नापि कर्णं महारथम्
।
नापि तान् सुहृदः सर्वान् किमिदं भरतर्षभ॥१५॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन
।
लोकानां च भवान्यत्र शेषे पांसुषु रूषितः॥१६॥
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः
।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्॥१७॥
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव
।
सा च ते महतीं सेनां क्व गता पार्थिवोत्तमा॥१८॥
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे
।
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः॥१९॥
कारणान्तरे अदृष्टरूपे सति तेन दृष्टसामग्रीवैय्यर्थ्यं जायत इति भावः॥१९॥
अध्रुवा सर्वमर्त्येषु श्रीरूपालक्ष्यते भृशम्
।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्॥२०॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः
।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः॥२१॥
विमृज्य नेत्रे पाणिभ्यां शोकजं वाष्पमुत्सृजन्
।
कृपादीन्स तदा वीरान् सर्वानेव नराधिपः॥२२॥
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते
।
विनाशः सर्वभूतानां कालपर्यायमागतः॥२३॥
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः
।
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः॥२४॥
दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि
।
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः॥२५॥
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता
।
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः॥२६॥
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्
।
स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम्॥२७॥
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे
।
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः॥२८॥
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः
।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्॥२९॥
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन
।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः॥३०॥
यतितं विजये नित्यं दैवं तु दुरतिक्रमम्
।
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः॥३१॥
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्
।
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम्॥३२॥
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये
।
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च॥३३॥
बाष्पविह्वलया वाचा राजानमिदमब्रवीत्
।
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा॥३४॥
न तथा तेन तप्यामि यथा राजंस्त्वयाऽद्य वै
।
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो॥३५॥
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च
।
अद्याहं सर्वपञ्चालान्वासुदेवस्य पश्यतः॥३६॥
सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम्
।
अनुज्ञां तु महाराज भवान्मे दातुमर्हति॥३७॥
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः
।
मनसः प्रीतिजननं कृपं वचनमब्रवीत्॥३८॥
आचार्य शीघ्रं कलशं जलपूर्णं समानय
।
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः॥३९॥
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्
।
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते॥४०॥
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्
।
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्॥४१॥
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः
।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः॥४२॥
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्तथा
।
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत्॥४३॥
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्
।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन्॥४४॥
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः
।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्॥४५॥
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप
।
शोकसंविग्नमनसश्चिन्ताध्यानपराऽभवन्॥४६॥
॥इति श्रीमहाभारते शल्यपर्वान्तर्गतगदापर्वणि अश्वत्थामसैनापत्याभिषेके पञ्चषष्टितमोऽध्यायः॥६५॥