वैशम्पायन उवाच।
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः
।
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥१॥
तत्र तावच्छान्तौ राजधर्मापद्धर्ममोक्षधर्माख्याः काण्डास्त्रयः क्रमेण विश्वस्यापन्नस्य विरक्तस्य चोपकारकास्तेष्वभ्यर्हितत्वात्प्राथम्यं राजधर्माणाम् । राजशब्दार्थश्चात्र प्रकरणात् 'राजा रञ्जनकाम्यया' इति वक्ष्यमाणनिर्वचनानुसारेण समानप्रकरणे सर्वा रञ्जयति प्रजा इति मनूक्तेः, ’अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया' इति वृद्धपराशरेणापि सर्ववर्णसाधारणनृपतिशब्दप्रयोगाच्च यः प्रजारञ्जनं करोति स एव बोध्यः । स च क्षत्रियोऽक्षत्रियो वा 'उत्थानेन सदा पुत्र' इत्यादिना वक्ष्यमाणानुत्थानादीन् धर्माननुतिष्ठेत् । तत्रापि यः कामलोभादिहीनोऽत्यन्तनिर्विण्णः केवलं प्रजापालनजं धर्ममात्रं कामयते स एव राज्यार्ह इति युधिष्ठिरोदाहरणेन प्रथमं निरूपयति- कृतोदकास्ते सुहृदामित्यादिना नमो धर्माय महते इत्यतः प्राक्तनेन ग्रन्थेन । कृतोदकाः कृतप्रेततर्पणाः । सुहृदामित्यनेनैव दुर्योधनादीनामपि ग्रहणं 'मरणान्तानि वैराणि' इति न्यायेन तेषामपि इदानीं सुहृत्त्वात् ॥१॥
तत्र ते सुमहात्मानो न्यवसन्पाण्डुनन्दनाः
।
शौचं निवर्तयिष्यन्तो मासमात्रं बहिः पुरात् ॥२॥
तत्र गङ्गातीरे पुराद्बहिर्मासमात्रवासस्य प्रयाजनं तु यत् क्वचिच्छद्मयुद्धं कृतं तज्जन्यदोषनिर्हरणेन शुद्धिसम्पादनं तदेतदुक्तं शौचं निर्वर्तयिष्यन्त इति । न त्वत्र शावाशौचशुद्धिर्मासमात्रेणेति विवक्षितम् ।
`दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूपतिः
।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति'॥
इति मनुवाक्यविरोधात् । न चैते शूद्रा येन मासमाशौचं कुर्युः । किं
'उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च
।
सद्यः सन्तिष्ठते यज्ञस्तथाऽऽशौचमिति स्थितिः' ॥
इति संग्रामहतानां सपिण्डाः सद्य एव शुद्ध्यन्ति इत्युक्तं मनुना । तेन द्वादशाहमपि नैषामाशौचं मासस्तु दूरतो निरस्त इति प्रतीयते । यद्वा सौप्तिके पशुवद्धतानां सुहृदां द्वादशाहमाशौचमस्ति तेन युद्धदिनेषु अष्टादशाहपर्यन्तं प्रत्यहमाशौचप्राप्तिः सद्यः शुद्धिश्च अन्त्यदिने प्राप्तस्याशौचस्य द्वादशाहेन निवृत्तिरिति शौचसम्पादनोक्तिर्युज्यते ॥२॥
कृतोदकं तु राजानं धर्मपुत्रं युधिष्ठिरम्
।
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥३॥
द्वैपायनो नारदश्च देवलश्च महानृषिः
।
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥४॥
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः
।
गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम् ॥५॥
वेदविद्वांसो वेदार्थविदः कृतप्रज्ञाः । वेदोक्ताचारनिष्ठाः । स्नातका ब्रह्मचारिणः सन्तः अभयदक्षिणाप्रदाः संन्यासिनः ॥५॥
तेऽभिगम्य महात्मानः पूजिताश्च यथाविधि
।
आसनेषु महार्हेषु विविशुस्ते महर्षयः ॥६॥
ते राज्ञाऽभिगम्य प्रत्युपगम्य नमस्कारादिना पूर्वं पूजिताः सन्तः आसनेषु विविशुरिति सम्बन्धः ॥६॥
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा
।
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ॥७॥
पूजामर्घादिकां परिवार्य पर्युपासन् परित उपविष्टवन्तः तङभाव आर्षः ॥७॥
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्
।
आश्वासयन्तो राजानं विप्राः शतसहस्रशः ॥८॥
आश्वासयन्तः हेतौ शतृप्रत्ययः । आश्वासनार्थं पर्युपासान्नित्यर्थः ॥८॥
नारदस्त्वब्रवीत्काले धर्मपुत्रं युधिष्ठिरम्
।
संभाष्य मुनिभिः सार्धं कृष्णदैपायनादिभिः ॥९॥
कालेऽवसरे संभाष्य ऐकमत्यं कृत्वाऽब्रवीत् ॥९॥
भवता बाहुवीर्येण प्रसादान्माधवस्य च
।
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ॥१०॥
भवत इति षष्ठ्यन्तपाठे पूर्वमधर्मेणाक्रान्ता सतीयमवनिरिदानीं त्वद्बलेन माधवबलसहायेन धर्मेण कर्त्रा जिता युवाभ्यां खलनाशे कृते सति धर्मः प्रादुरभूदित्यर्थः ॥१०॥
दिष्ट्या मुक्तस्तु संग्रामादस्माल्लोकभयंकरात्
।
क्षत्रधर्मरतञ्चापि कच्चिन्मोदसि पाण्डव ॥११॥
दिष्ट्या भाग्येन कच्चिदिति कामप्रवेदने । अनेन कर्मणा तव मोदं सुहृत्प्रीणनं विशोकत्वं च कामयमानस्त्वां पृच्छामीत्यर्थः ॥११॥
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप
।
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥१२॥
युधिष्ठिर उवाच।
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्
।
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥१३॥
इदं मम महद्दुःखं वर्तते हृदि नित्यदा
।
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ॥१४॥
सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान् प्रियान्
।
जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥१५॥
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्
।
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥१६॥
किं नु वक्ष्यतीति । वधूः कनिष्ठभ्रातृभार्यात्वात् स्नुषाभूता वार्ष्णेयी सुभद्रा । मे मां प्रति किं नु वक्ष्यति राज्यलोभेन त्वया मत्पुत्रो घातित इति वक्ष्यत्येवेति भावः । तथा मधुसूदनं हरिं इतः द्वारकां प्रति गतं सन्तं प्रति वासिनी अस्मज्जयश्रवणोत्सुका द्वारका द्वारकावासिजनसमूहः किं नु वक्ष्यतीति सम्बन्धः । खलहन्त्रा स्वजनपीडापहन्त्रा ईश्वरेण त्वया साधुः स्वीयः सौभद्रः कथं घातित इति वक्ष्यत्येवेति भावः । एतच्च कृष्णस्य मधुसूदनं हरिमिति विशेषणद्वयसामर्थ्यादेव लभ्यते ॥१६॥
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा
।
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥१७॥
यतो हतपुत्रा हतबान्धवाऽतः कृपणा दीनातिदुःखिता इत्यर्थः । प्रियं सुखकरं हितं पथ्यं प्रियं च तद्धितं च तस्मिन्नर्थे युक्ता सन्नद्धा ॥१७॥
इदमन्यत्तु भगवन् यत्त्वां वक्ष्यामि नारद
।
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥१८॥
मन्त्रसंवरणेन गूढोत्पन्नस्यास्मद्भ्रातुः कर्णस्याप्रकाशेन ॥१८॥
यः स नागायुतबलो लोकेऽप्रतिरथो रणे
।
सिंहखेलगतिर्धीमान् घृणी दाता यतव्रतः ॥१९॥
तदेवाह त्रिभिः - यः स इति । सिंहस्येव खेलो युद्धक्रीडा गतिर्गमनं च यस्य स तथा घृणी दयालुः ॥१९॥
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः
।
अमर्षी नित्यसंरंभी क्षेप्ताऽस्माकं रणे रणे ॥२०॥
अमर्षी परोत्कर्षासहिष्णुः नित्यसंरम्भी सदा क्रोधवान् ॥२०॥
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः
।
गूढोत्पन्नः सुतः कुन्त्या भ्राताऽस्माकमसौ किल ॥२१॥
तोयकर्मणि तं कुन्ती कथयामास सूर्यजम्
।
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ॥२२॥
पुत्रं स्वस्येति शेषः । अवकीर्णं त्यक्तम् ॥२२॥
मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत्
।
यं सुतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत ॥२३॥
स ज्येष्ठपुत्रः कुन्त्या वै भ्राताऽस्माकं च मातृजः
।
अजानता मया भ्रात्रा राज्यलुब्धेन घातितः ॥२४॥
मातृजः मातृसम्बन्धेन ॥२४॥
तन्मे दहति गात्राणि तुलराशिमिवानलः
।
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ॥२५॥
श्वेतवाहनोऽर्जुनः ॥२५॥
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः
।
गता किल पृथा तस्य सकाशमिति नः श्रुतम् ॥२६॥
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ
।
पृथाया न कृतः कामस्तेन चापि महात्मना ॥२७॥
पाण्डववत् त्वं च पुत्रो ममेत्यब्रवीदिति शेषः कामोऽभिलषितम् ॥२७॥
अपि पश्चादिद मातर्यवोचदिति नः श्रुतम्
।
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे ॥२८॥
मातरि मातरं प्रति अवोचत्कर्ण इति शेषः । नः अस्माभिः श्रुतम् ॥२८॥
अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत्
।
युधिष्ठिरेण सन्धिं हि यदि कुर्यां मते तव ॥२९॥
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः
।
सोऽहं निर्जित्य समरे विजयं सहकेशवम् ॥३०॥
नृशंसत्वं सङ्कटे मित्रत्यागान्निर्दयत्वं कृतघ्नत्वमुपकर्तृष्वपकारित्वं च प्रसिद्धमित्यतोऽनार्यत्वमेव स्पष्टीकरोति- भीत इति । विजयमर्जुनम् ॥३०॥
सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत्
।
तमुवाच किल पृथा पुनः पृथुलवक्षसम् ॥३१॥
पृथुलवक्षसं कपाटवक्षसम् ॥३१॥
चतुर्णामभयं देहि कामं युध्यस्व फाल्गुनम्
।
सोऽब्रवीन्मातरं धीमान् वेपमानां कृताञ्जलिः ॥३२॥
वेपमानाम् अर्जुननाशभीत्या ॥३२॥
प्राप्तान् विषह्यांश्चतुरो न हनिष्यामि ते सुतान्
।
पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः ॥३३॥
विषह्यान्वशगान् ॥३३॥
सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने
।
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ॥३४॥
पुत्रगृद्धिनी पुत्रलोभवती ॥३४॥
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि
।
एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान् ॥३५॥
विसृज्य कर्णमिति शेषः ॥३५॥
सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः
।
न चैव विवृतो मन्त्रः पृथायास्तस्य वा विभो ॥३६॥
अथ शूरो महेष्वासः पार्थेनाजौ निपातितः
।
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ॥३७॥
पूर्वजं भ्रातरं कर्णं पृथया वचनात्प्रभो
।
तेन मे दूयते तीव्रं हृदयं भ्रातृघातिनः ॥३८॥
दूयते उपतप्यते ॥३८॥
कर्णार्जुनसहायोऽहं जयेयमपि वासवम्
।
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ॥३९॥
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति
।
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकादयाः ॥४०॥
सभायां गदतो द्यूते दुर्योधनहितैषिणः
।
तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह ॥४१॥
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम
।
सादृश्यहेतुमन्विच्छन् पृथायास्तस्य चैव ह ॥४२॥
कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन्
।
कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ॥४३॥
कारणं सादृश्यहेतोस्तज्जन्यत्वस्य ज्ञापकं कथं नु इत्यद्भुतप्रश्ने चक्रं रथचक्रम् ॥४३॥
कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि
।
श्रोतुमिच्छामि भगवंस्तत्तः सर्वं यथातथम्
।
भवान्हि सर्वविद्विद्वान् लोके वेद कृताकृतम्॥४४॥
सर्ववित्त्वे हेतुः विद्वानिति आत्मज्ञ इत्यर्थः । अत एव कृतं कार्यम् अकृतं कारणं च वेद जानाति ॥४४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कर्णाभिज्ञाने प्रथमोऽध्यायः ॥१॥
वैशम्पायन उवाच।
स एवमुक्तस्तु मुनिर्नरदो वदतां वरः
।
कथयामास तत्सर्वं यथा शप्तः स सूतजः॥१॥
स एवमिति । उक्तः पृष्टः ॥१॥
एवमेतन्महाबाहो यथा वदसि भारत
।
न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे ॥२॥
कर्णार्जुनसहायोऽहं जयेयमपि वासवमित्युक्तमनुमोदते - एवमेतदिति ॥२॥
गुह्यमेतत्तु देवानां कथयिष्यामि तेऽनघ
।
तन्निबोध महाबाहो यथा वृत्तमिदं पुरा ॥३॥
तर्हि किमर्थं देवैरनयोर्वैरमुत्पादितमित्याशङ्क्याह- गुह्यमिति ॥३॥
क्षेत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो
।
संघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ॥४॥
क्षत्रमिति । सङ्घर्षजननो वैराग्न्युद्दीपकः कन्यागर्भो देवैः क्षत्रस्य स्वर्गमनाय निर्मित इत्यर्थः ॥४॥
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः
।
चकाराङ्गिरसां श्रेष्ठाद्धनुर्वेदं गुरोस्तदा ॥५॥
चकार अधीतवान् । अङ्गिरसां श्रेष्ठात् द्रोणात् ॥५॥
स बलं भीमसेनस्य फाल्गुनस्य च लाघवम्
।
बुद्धिं च तव राजेन्द्र यमयोर्विनयं तदा ॥६॥
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः
।
प्रजानामनुरागं च चिन्तयानो व्यदह्यत ॥७॥
स सख्यमकरोद्बाल्ये राज्ञा दुर्योधनेन च
।
युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि खभावतः ॥८॥
दैवाच्चापि स्वभावत इति । दैवाद्देवानां संकल्यात् पूर्वोक्तात् स्वभावतः 'वीर्याधिको नीचकुलो दुःसंगेन समेधितः । महाजनैः स्पर्धमानो हन्ति राष्ट्रं सराजकम्' इति श्लोकोक्तात् ॥८॥
वीर्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम्
।
द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥९॥
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम्
।
अर्जुनेन समं चाहं युध्येयमिति मे मतिः ॥१०॥
ब्रह्मास्त्रमिति । रहस्यं तत्प्रसादनविधिर्निवर्तनमुपंसहारः ताभ्यां सहितं सरहस्यनिवर्तनम् ॥१०॥
समः शिष्येषु वः स्नेहः पुत्रे चैव तथा ध्रुवम्
।
त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः॥११॥
द्रोणस्तथोक्तः कर्णेन सापेक्षः फाल्गुनं प्रति
।
दौरात्म्यं चैव कर्णस्य विदित्वा तमुवाच ह ॥१२॥
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः
।
क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ॥१३॥
ब्रह्मास्त्रमिति । त्वं तु ब्रह्मक्षत्रेतरत्वान्न विद्यार्ह इत्यर्थः ॥१३॥
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च
।
जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ॥१४॥
स तु राममुपागम्य शिरसाऽभिप्रणम्य च
।
ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ॥१५॥
गुरवे पितेत्यभिसन्धायाहं ब्राह्मणो भार्गवोऽस्मीति ॥१५॥
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः
।
उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥१६॥
तत्र कर्णस्य वसतो महेन्द्रे स्वर्गसन्निभे
।
गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥१७॥
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि
।
प्रियश्चाभवदत्यर्थं देव-दानव-रक्षसाम् ॥१८॥
स कदाचित्ससुद्रान्ते विचरन्नाश्रमान्तिके
।
एकः खड्गधनुष्पाणिः परिचक्राम सूर्यजः ॥१९॥
समुद्रान्ते दक्षिसमुद्रसमीपे ॥१९॥
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः
।
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥२०॥
होमधेनुं कर्णपर्वोक्तदिशा वत्सवध एवात्र धेनुवधो ज्ञेयः ॥२०॥
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत्
।
कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥२१॥
अबुद्धिपूर्वं भगवन् धेनुरेषा हता तव
।
मया तत्र प्रसादं च कुरुष्वेति पुनः पुनः ॥२२॥
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव
।
दुराचारवधार्हस्त्वं फलं प्राप्नुहि दुर्मते ॥२३॥
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्
।
युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥२४॥
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः
।
पातयिष्यति विक्रम्यः शत्रुर्गच्छ नराधम ॥२५॥
यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम
।
प्रमत्तस्य तथाऽरातिः शिरस्ते पातयिष्यति ॥२६॥
शप्तः प्रसादयामास कर्णस्तं द्विजसत्तमम्
।
गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥२७॥
न हि मेऽव्याहृतं कुर्यात्सर्वलोकोऽपि केवलम्
।
गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ॥२८॥
मे व्याहृतमिति शेषः। अव्याहृतमनुक्तं तद्वदन्यथेत्यर्थः । नेदमव्याहृतमिति पाठः सुगमः । केवलं तूष्णीं यथा स्यात्तथा यत्ते कार्यं तद्वा समाचरेत्यन्वयः ॥२८॥
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः
।
राममभ्यगमद्भीतस्तदेव मनसा स्मरन् ॥२९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कर्णशापो नाम द्वितीयोऽध्यायः ॥२॥
नारद उवाच।
कर्णस्य बाहुवीर्येण प्रणयेन दमेन च
।
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥१॥
कर्णस्येति । प्रश्रयेणेति पाठेऽनुरागेण दमेन इन्द्रियजयेन ॥१॥
तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्
।
प्रोवाचाखिलमव्यग्रं तपस्वी तत्तपस्विने ॥२॥
कृत्स्नं सरहस्यं न तु मन्त्रमात्रम् अखिलम् अङ्गप्रत्यङ्गदेवताराधनसहितम् अव्ययं यथा स्यात्तथा तपस्वी एकाग्रचित्तः ॥२॥
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः
।
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥३॥
अश्रमे श्रमवर्जिते आश्रमे इत्यर्थः ॥३॥
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्
।
कर्णेन सहितो धीमानुपवासेन कर्शितः ॥४॥
सुष्वाप जामदग्न्यस्तु विश्रंभोत्पन्नसौहृदः
।
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ॥५॥
विश्रभो विश्वासः ॥५॥
अथ कृमिः श्लेष्म-मेदो-मांस-शोणितभोजनः
।
दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागतः ॥६॥
स तस्योरुमथासाद्य बिभेद रुधिराशनः
।
न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ॥७॥
क्षेप्तुं दूरीकर्तुं भयात् निद्राभङ्गभयात् ॥७॥
संदश्यमानस्तु तथा कृमिणा तेन भारत
।
गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्यजः॥८॥
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्
।
अकम्पयन्नव्यथयन् धारयामास भार्गवम् ॥९॥
यदाऽस्य रुधिरेणाङ्गं परिस्पृष्टं भृगूद्वहः
।
तदाऽबुद्ध्यत तेजस्वी संत्रस्तश्चेदमब्रवीत् ॥१०॥
अहोस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया
।
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥११॥
तस्य कर्णस्तदाऽऽचष्ट कृमिणा परिभक्षणम्
।
ददर्श रामस्तं चापि कृमिं सूकरसन्निभम् ॥१२॥
अष्टपादं तीक्ष्णदंष्ट्रं सुचीभिरिव संवृतम्
।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः ॥१३॥
सूचीभिरिव तीक्ष्णै रोमभिः संवृतं सन्निरुद्धाङ्गं त्रासेन संकुचिताङ्गं नाम प्रसिद्धं नामतो नाम्ना ॥१३॥
स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत्
।
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत् ॥१४॥
असृजि शोणिते ॥१४॥
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
।
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥१५॥
विश्वरूपः कामरूपी करालवान् भीषणरूपवान् मेघवाहनो मेघोपरिस्थः ॥१५॥
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः
।
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम् ॥१६॥
मोक्षितो नरकादस्माद्भवता मुनिसत्तम
।
भद्रं तवास्तु वन्दे त्वां प्रियं मे भवता कृतम् ॥१७॥
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्
।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥१८॥
सोऽब्रवीदहमासं प्राक् दंशो नाम महासुरः
।
पुरा देवयुगे तात भृगोस्तुल्यवया इव ॥१९॥
देवयुगे सत्ययुगे ॥१९॥
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्
।
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ॥२०॥
अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः
।
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ॥२१॥
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम्
।
भविता भार्गवाद्रामादिति मामब्रवीद्भृगुः॥२२॥
सोऽहमेनां गतिं प्राप्तो यथा नकुशलं तथा
।
त्वया साधो समागम्य विमुक्तः पापयोनितः ॥२३॥
नकुशलम् अभद्रम् ॥२३॥
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः
।
रामः कर्णं च सक्रोधमिदं वचनमब्रवीत् ॥२४॥
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्
।
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम् ॥२५॥
कामया स्वरसेन ॥२५॥
तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन्
।
ब्रह्मक्षत्रान्तरे जातं सुतं मां विद्धि भार्गव ॥२६॥
ब्रह्मक्षत्रयोरन्तरे अन्यत्र जातं तदेवाह- सूतं मां विद्धीति ॥२६॥
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
।
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥२७॥
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः
।
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥२८॥
कथं तर्हि ब्राह्मणो भार्गवोऽस्मीति मिथ्यावचनं त्वयोक्तमित्यत आह- पिता गुरुरिति ॥२८॥
तमुवाच भृगुश्रेष्ठः सरोषः प्रदहन्निव
।
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥२९॥
यस्मान्मिथ्योपचरितो ह्यस्त्रलोभादिह त्वया
।
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥३०॥
तस्मादिति । हे मूढ ! ते तव वधकालादन्यत्र ब्रह्मास्त्रं न प्रतिभास्यतीति न किं तु वधकाल एव न प्रतिभास्यति कालान्तरे तु प्रतिभास्यत्येवेत्यर्थः इत्युत्तरेण सम्बन्धः ॥३०॥
अन्यत्र वधकालात्ते सदृशेन समीयुषः
।
अब्राह्मणेन हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ॥३१॥
सदृशेऽर्जुनादौ शूरे ते पुरतः स्थिते समीयुषः युध्यमानस्य 'समित्याजिसमिद्युधः' इति संर्पूर्वस्य इणो युद्धार्थत्वदर्शनात् । ध्रुवं मरणावधि न तिष्ठेद्ब्रह्म ब्रह्मास्त्रम् ॥३१॥
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते
।
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥३२॥
एवमुक्तः स रामेण न्यायेनोपजगाम ह
।
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥३३॥
न्यायेनाभिवन्दनादिपूर्वकम् उपजगाम इष्टं देशमिति शेषः ॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कर्णास्त्रप्राप्तिर्नाम तृतीयोऽध्यायः ॥३॥
वैशम्पायन उवाच।
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः
।
शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथनम् ॥१॥
युधिष्ठिर इति ॥१॥
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः
।
दृष्ट्वाऽर्जुनमुवाचेदं वचनं शोककर्शितः ॥२॥
दुखं देहेन्द्रियादीनां तापः शोकस्तत्कृतं वैकल्यं ताभ्यामाविष्टो व्याप्तः कर्शितः कृशीकृतः ॥२॥
युधिष्ठिर उवाच।
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम्
।
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥३॥
यत् यदि भैक्ष्यमाचीर्णं स्यात्तर्हि ज्ञातिवधाज्जाता दुर्गतिर्न प्राप्ता स्यादित्यर्थः । लिङ्निमित्ते लुङ्क्रियातिपत्तौ ॥३॥
अमित्रा नः समुद्धार्था वृत्तार्थाः कुरवः किल
।
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥४॥
यतो वयं वृत्तार्थाः संक्षिप्तपुरुषार्था ज्ञातिवधेन हतभाग्याः स्म ततो हेतोर्नः अस्माकममित्राः समृद्धार्था इत्यर्थः । ज्ञातिवधोऽप्यस्माकं धर्मवध एवेत्याशङ्क्याह- आत्मानमिति । धर्मफलं यशःस्वर्गौ किम् आप्नुमः उभयमपि नास्तीत्यर्थः ॥४॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्
।
धिगस्त्वमर्षं यनेमामापदं गमिता वयम् ॥५॥
सत्यपि शास्त्रदृष्टे फले बीभत्सत्वान्निंद्य एवायं धर्म इत्याह- धिगिति । बलं सहायादि पौरुषं पराक्रमः अमर्षः क्रोधः । येन आचारादिना आपदं शोकम् ॥५॥
साधु क्षमा दमः शौचं वैराग्यं चाप्यमत्सरः
।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥६॥
तर्हि को धर्मः श्रेष्ठ इत्यत आह- साध्विति । क्षमादिकमेव श्रेष्ठमित्यर्थः ॥६॥
वयं तु लोभान्मोहाच्च दंभं मानं च संश्रिताः
।
इमामवस्थां संप्राप्ता राज्यलाभबुभुत्सया ॥७॥
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत्
।
बान्धवान्निहतान्दृष्ट्वा पृथिव्यां विजयैषिणः ॥८॥
ननु युद्धे जयश्चेद्राज्यलाभो मृत्युश्चेत्स्वर्गलाभ इत्युभयलोकहितं युद्धमित्याशङ्क्याद्यं निरस्यति- त्रैलोक्यस्येति ॥८॥
ते वयं पृथिवीहेतोरवध्यान् पृथिवीश्वरान्
।
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः ॥९॥
आमिषे गृध्यमानानामशुभं वै शुनामिव
।
आमिषं चैव नो हीष्टमामिषस्य विवर्जनम् ॥१०॥
हीनार्थत्वमेवाह-आमिषमिति । आमिषे राज्यनिमित्ते अशुभं ज्ञातिद्रोहाख्यम् । शुनामिव इतरेषां भवति नो हि अस्माकं तु आमिषं च आमिषस्य विवर्जनं चेति द्वयमपीष्टम् ॥१०॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः
।
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥११॥
एतदेव विभजते- न पृथिव्येति । पृथिव्यादेरामिषस्य वर्जनम् इष्टं बन्धुरूपं त्वामिषमिष्टमेव बन्धूनामर्थे सर्वं त्याज्यमित्यर्थः ॥११॥
काममन्युपरीतास्ते क्रोधहर्षसमन्विताः
।
मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥१२॥
कामेति । मृत्युयानं मृत्युमार्गं युद्धे मृतानां स्वर्गोऽपि नास्ति किं तु कामाद्याक्रान्तत्वान्नरक एवास्तीत्यर्थः ॥१२॥
बहुकल्याणसंयुक्तानिच्छन्ति पितरः सुतान्
।
तपसा ब्रह्मचर्येण सत्येन च तितिक्षया ॥१३॥
एवं हि नृणां पापहतानां नरकं चोपपाद्य तत्सम्बन्धिनां शोकं च व्युत्पादयति- बहुकल्याणेत्यादिना ॥१३॥
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः
।
लभन्ते मातरो गर्भान् मासान्दश च बिभ्रति ॥१४॥
व्रतानि गौरीव्रतादीनि कौतुकानि दुर्गोत्सवादीनि मङ्गलानि लक्ष्मीनारायणशिलादीनि तैः ॥१४॥
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि
।
संभाविता जातबलास्ते दद्युर्यदि नः सुखम् ॥१५॥
इह चामुत्र चैवेति कृपणाः फलहेतवः
।
तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः ॥१६॥
यदासां निहता पुत्रा युवानो मृष्टकुण्डलाः॥१७॥
अभुक्त्वा पार्थिवान् भोगानृणान्यनपहाय च
।
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्॥१८॥
अनपहाय अपरिहृत्य अनवदायेति पाठे अपरिशोध्य पितृभ्य इति षष्ठ्यर्थे चतुर्थी ॥१८॥
यदैषामम्ब पितरौ जातकामावुभावपि
।
सञ्जातधनरत्नेषु तदैव निहता नृपाः ॥१९॥
यदैषामिति । अर्जुनेन सह वदन्नापि सन्निहितां मातरमुक्तार्थसंवादाय संबोधयति- हे अम्बेति । पितरौ मातापितरौ गान्धारीधृतराष्ट्रौ यदैव जातकामौ तदैव ते नृपा दुर्योधनप्रभृतयो हताः ॥१९॥
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः
।
न ते जयफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ॥२०॥
संयुक्ता इति । कामोऽर्थस्याभिलाषः । मन्युस्तदलाभे दैन्यम् । क्रोधः कामप्रतिबन्धे सत्यत्युत्तप्तता । हर्षो लाभे सति अत्युत्फुल्लता तैः असमञ्जसाः । ह्रस्वपाठेऽसमञ्जस् इति सकारान्तः शब्दः । विषमा ये पुरुषास्ते जयफलं भूमेः स्वर्गस्य वा जयेन यत्फलं तन्न भोक्तारो न भोक्ष्यन्ति । जातु कदाचित् जीवने मरणे वा कर्हिचित् क्वचिद्देशे इह परत्र वा ॥२०॥
पञ्चालानां कुरूणां च हता एव हि ये हताः
।
न चेत्सर्वानयं लोकः पश्येत् स्वेनैव कर्मणा ॥२१॥
ननु ये हतास्ते स्वर्गं भोक्ष्यंत्येवेत्याशङ्क्याह- पञ्चालानामिति । ये हतास्ते हता एव न तु स्वर्गं गताः कामाद्युपेतत्वादित्युक्तहेतोः । एवं न चेदपहन्ता स्वेनैव कर्मणा निमित्तेन स्वर्गतांस्तान्पश्येन्न च पश्यतीति लोकायतमतमाश्रित्योक्तम् ॥२१॥
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः
।
धृतराष्ट्रस्य पुत्रेषु तत्सर्वं प्रतिपत्स्यति ॥२२॥
तत्सर्वं विनाशकारणत्वं प्रतिपत्स्यति पर्यवस्यति वयं राज्यलोभाद्विनाशे अवान्तरकारणं मुख्यं कारणं तु अस्मद्राज्यापहाराद्धार्तराष्ट्रा एवेति भावः ॥२२॥
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः
।
मिथ्याविनीतः सततमस्मास्वनपकारिषु ॥२३॥
तदेवाह- सदैवेत्यादिना । निकृतिर्वचनं तन्निष्ठैव प्रज्ञा यस्येति निकृतिप्रज्ञः । मायया कपटद्यूतादिनोपजीवनं यस्य स तथा मिथ्याविनीतश्च धृतराष्ट्र एवात्र ग्राह्यः । सर्वमूलत्वात् ॥२३॥
न सकामा वयं ते च न चास्माभिर्न तैर्जितम्
।
न तैर्मुक्तेयमवनिर्न नार्यो गीतवादितम् ॥२४॥
युद्ध्यतां लोकद्वयनाशमुपपाद्योपसंहरत्यर्धेन न सकामा इति ॥२४॥
नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम्
।
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥२५॥
श्रुतवतां पण्डितानां रत्नानीत्यादौ भुक्तानीत्यादिर्यथालिङ्गं शेषः ॥२५॥
अस्मद्द्वेषेण सन्तप्तः सुखं न स्मेह विन्दति
।
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः ॥२६॥
तत्र हेतुरस्मादिति । हरिणः पाण्डुरः ॥२६॥
धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः
।
तं पिता पुत्रगृद्धित्वादनुमेने नये स्थितः ॥२७॥
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा
।
असंशयं क्षयं राजा यथैवाहं तथा गतः ॥२८॥
तथागतः बुद्धमुनिः क्षणिकबुद्धिरिति यावत् । यथाहमनवस्थितबुद्धिस्तथा धृतराष्ट्रोऽपीत्यर्थः ॥२८॥
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्
।
यशसः पतितो दीप्ताद्घातयित्वा सहोदरान् ॥२९॥
एतत्फलमाह- अनियम्येति ॥२९॥
इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः
।
अस्मत्प्रद्वेषसंगुक्तः पापबुद्धिः सदैव ह ॥३०॥
प्रक्षिप्य गत इति शेषः ॥३०॥
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने
।
यथाऽसाववदद्वाक्यं युयुत्सुः कृष्णसन्निधौ ॥३१॥
युयुत्सुर्योद्धुकामः । वाक्यमस्मद्द्वेषेण पाण्डवा नष्टा इत्येवंरूपम् ॥३१॥
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः
।
प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा ॥३२॥
तदेवार्थत आह-आत्मन इति । दुर्योधनेऽप्युपचारादात्मपदप्रयोगः आत्मनो दुर्योधनस्य ॥३२॥
सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः
।
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ॥३३॥
प्रग्रहं दृढबन्धनं गतः प्राप्तः । नोऽस्माभिः ॥३३॥
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम्
।
कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम् ॥३४॥
अवध्यानामवध्यकल्पानां भीष्मादीनां गुरुत्वाद्वा वधानर्हाणाम् ॥३४॥
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति
।
हताः शूराः कृतं पापं विषयः स्वो विनाशितः ॥३५॥
विषयः आमिषम् ॥३५॥
हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम्
।
धनञ्जयकृतं पापं कल्याणेनोपहन्यते ॥३६॥
नोऽस्माकं सर्वेषां मन्युः क्रोधस्तान्हत्वा विगतः मां त्वेकं शोको रुन्धयति रुणद्धि रोधयति इति वक्तव्ये रुन्धयतीति प्रयोगा वक्तुर्वैक्लव्यं सूचयति कल्याणेनोपकारेण ॥३६॥
ख्यापनेनानुतापेन दानेन तपसाऽपि वा
।
निवृत्त्या तीर्थगमनाच्छ्रुति-स्मृति-जपेन वा ॥३७॥
निवृत्त्या त्यागेन ॥३७॥
त्यागवांश्च पुनः पापं नालंकर्तुमिति श्रुतिः
।
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा ॥३८॥
एतेषु त्यागमेव प्रशंसति- त्यागवानिति । श्रुतिः 'त्यागेनैके अमृतत्वमानशुः’ इति यदा यदाह ॥३८॥
प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा
।
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः ॥३९॥
तस्मात्प्राप्तवर्त्मा लब्धयोगमार्गः कृतमतिः श्रवणमननादिना अहं ब्रह्मास्मीति निश्चितबुद्धिः ब्रह्म अखण्डानन्दं संपद्यते ऐक्येन प्राप्नोति । स इति । एवं त्यागफलं जानन्नहं निर्द्वन्द्वः परिग्रहशून्यः मुनिर्ध्याननिष्ठ । ज्ञानेन ब्रह्मात्मैक्यविषयेण समन्वितो भवितुमिच्छुः ॥३९॥
वनमामन्त्र्य वः सर्वान् गमिष्यामि परन्तप
।
न हि कृत्स्नतमो धर्मः शक्यः प्राप्नुमिति श्रुतिः ॥४०॥
समन्वितः सन् वा वनं गमिष्यामि कृत्स्नो धर्मः योगेनात्मदर्शनं यदाह याज्ञवल्क्यः-
'इज्याऽऽचारदमोऽहिंसादानस्वाध्यायकर्मणाम्
।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्' ॥
इति। कृत्स्नतमो धर्मस्तु पार्यन्तिकं जीवन्मुक्तिसुखम् ॥४०॥
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन
।
मया निसृष्टं पापं हि परिग्रहमभीप्सता ॥४१॥
परिग्रहवता गृहस्थेन नहि प्राप्तुं शक्यं एतेन याज्ञवल्क्यादिवत्स्वस्यापि विद्वत्संन्यासेऽधिकारो दर्शितः । परिग्रहसत्त्वे दोषमाह- मयेति । परिग्रहात्पापकरणं, ततश्च जन्मादिहेतोर्मोहस्य पुनः प्राप्तिरित्यर्थः । अत्र श्रुतिः- 'तत्त्वेत्व भयं विदुषोऽमन्वानस्य' तदेव ब्रह्म भयहेतुर्विदुषोऽप्यमन्वानस्य ध्यानशून्यस्येति श्रुत्यर्थः । फलितमाह- स इति ॥४१॥
जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः
।
सपरिग्रहमुत्सृज्य कृत्स्रं राज्यं सुखानि च ॥४२॥
गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित्
।
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् ॥४३॥
गमिष्यामि निर्विक्षेपेण ध्यानसिद्ध्यर्थम् । क्वचिदिति । अज्ञातदेशत्वं दर्शितम् ॥४३॥
न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन
।
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः
।
उपारमत्ततः पार्थः कनीयानभ्यभाषत ॥४४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरपरिदेवनं नाम सप्तमोऽध्यायः ॥७॥
वैशम्पायन उवाच।
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
।
अभिनीततरं वाक्यं दृढवादपराक्रमः ॥१॥
अथार्जुनः दृढो युक्तिशक्त्युपेतौ वादपराक्रमौ उक्तिविक्रमौ यस्य स तथा ॥१॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
।
स्मयमानो महातेजाः सृक्किणी परिसंलिहन् ॥२॥
अर्जुन उवाच ।
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
।
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥३॥
अमानुषमिति च्छेदः ॥३॥
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
।
एवंविधं कथं सर्वं त्यजेथा बुद्धिलाघवात् ॥४॥
दुःखं स्वजनवधात् कृच्छ्रं परवीरजयात् वैक्लव्यं मौढ्यं धर्मलब्धस्य त्यागादित्याह- शत्रूनिति । शत्रून् शातयितॄन् परान् हत्वा प्रविनाश्य शत्रून् शातयितव्यान् स्वीयान्हत्वा घातयित्वेति च द्वयोरेकेन वाक्येन संग्रहः ॥४॥
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
।
किमर्थं च महीपालानवधीः क्रोधमूर्छितः ॥५॥
क्लीबस्य स्वीयवधे कातरस्य दीर्घसूत्रस्य परवधे अलसस्य । एवं चेन्महीपालान् उभयपक्षीयान् किमर्थमवधीः अतोऽपि क्लीबोऽसीत्यर्थः ॥५॥
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव कस्यचित्
।
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः
।
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥६॥
एतदेव स्पष्टयति- यो हाति सार्धश्लोको वाक्यम् । हि प्रसिद्धं यः पुमान् हतस्वस्तिर्नष्टकल्याणः अकिञ्चनो दरिद्रः अत एव क्रमात्सर्वलोकेषु न विख्यातः । पुत्रपशुसंहितः पुत्रादिमिराश्लिष्टश्च न भवति स भैक्ष्यमाजिजीविषेत् उपजीवितुमिच्छेत् स कर्मणा पौरुषेण कस्याचिदपि परस्य समारभ्यन्त इति समारंभा अर्थास्तान्नैव बुभूषेत नैव प्राप्तुमिच्छेत् त्वं तु प्राप्तकल्याणः संपन्नः ख्यातः पुत्राद्याश्लिष्टश्च पौरुषेणार्थाঁल्लब्ध्वा भैक्ष्येण जीवितुमिच्छसीति विपर्यस्तबुद्धिरसीति भावः ॥६॥
कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः
।
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥७॥
कापालीं भिक्षापात्रवतीमिमां वृत्तिं जीविकामासाद्य राज्यं संत्यज्य जीवतस्ते इति सम्बन्धः ॥७॥
सर्वारम्भान् समुत्सृज्य हतस्वस्तिरकिञ्चनः
।
कस्मादाशंससे भैक्ष्यं कर्तुं प्राकृतवत्प्रभो ॥८॥
सर्वारंभान् सर्वार्थान् धर्मादीन् प्राकृतवत् मूढवत् ॥८॥
अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुन्धराम्
।
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥९॥
यदीमानि हवींषीहं विमथिष्यन्त्यसाधवः
।
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ॥१०॥
धर्महानिं व्युत्पादयति- यदीति । अस्माकं राज्ये अनधिकारात् अधिकारिणस्तवैव धर्मलोपजं किल्बिषं भवतीत्यर्थः ॥१०॥
आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत्
।
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह ॥११॥
अर्थस्तु धर्मादीनां चतुर्णामपि मूलमिति सर्वथा स न त्याज्य इत्याह आकिञ्चन्यमित्यादिना । 'आकिञ्चन्य मुनीनां च राज्यादप्यधिकं मतम्' इति यद्वाक्यं तदुद्दिश्य नहुषो राजा अधनतामिह धिगस्त्विति अब्रवीत् । अधने धनाभावे निमित्ते सति अगस्त्यशापात्सर्पीभावदशायां नृशंसं निर्दयं भीमसेनादिमनुष्यग्रासरूपं कर्म कृत्वा दारिद्र्यं पापहेतुत्वान्निन्दितवानित्यर्थः ॥११॥
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान्
।
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥१२॥
एतदपि ऋषीणामेवोचितं न राज्ञामित्याह- अश्वस्तनमिति । 'वयमेवास्य लोकस्य विनाशे कारणं स्मृताः-' इति यदुक्तं तत्राह- यं त्विममित्यादि ॥१२॥
धर्म संहरते तस्य धनं हरति यस्य सः
।
ह्रिमाणे धने राजन् वयं कस्य क्षमेमहि ॥१३॥
वयं क्षत्रियाः कस्य भ्रातुः पितुर्वा अपराधं क्षमेमहि न कस्यापीत्यर्थः ॥१३॥
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्
।
दरिद्रं पातकं लोके न तच्छंसितुमर्हति ॥१४॥
क्षमायां दोषमाह- अभिशस्तमिति । अभिशस्तवदित्यर्थः शंसितुं प्रशंसितुम् ॥१४॥
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते
।
विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥१५॥
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः
।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥१६॥
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप
।
प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्ध्यति ॥१७॥
प्राणेति । मुमुक्षूणां प्राणयात्राप्यर्थाधीनेति मोक्षोऽप्यर्थादेव भवतीत्याशयः ॥१७॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥१८॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥१९॥
अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम्
।
अर्थैरर्थानि बध्यन्ते गजैरिव महागजाः ॥२०॥
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः
।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥२१॥
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते
।
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥२२॥
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
।
धनाद्धि धर्मः स्रवति शैलादभि नदी यथा ॥२३॥
यः कुशार्थः कृशगवः कृशभृत्यः कृशातिथिः
।
स वै राजन् कृशो नाम न शरीरकृशः कृशः ॥२४॥
कृशार्थः क्षीणार्थः ॥२४॥
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
।
राजन् किमन्यज्जातीनां वधाद्गृद्ध्यन्ति देवताः ॥२५॥
यत्तूक्तं ज्ञातीनां परस्परं युद्धे हतानां हन्तॄणां च श्रेयो नास्तीति तच्छिष्टाचारदर्शनेन दूषयति- अवेक्षस्वेत्यादिना ॥२५॥
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्
।
एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥२६॥
अन्यस्य परस्य धनं चेन्न हर्तव्यं तत्तर्हि राजा कथं धर्ममाचरेत् तस्य वृत्त्यन्तराभावान्न कथञ्चिदित्यर्थः ॥२६॥
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता
।
सर्वथा धनमाहार्यं यष्टव्यं चापि यनतः ॥२७॥
आहार्यं स्वधर्मेणार्जनीयं तस्य च प्रयोजनं यष्टव्यमित्युक्तम् ॥२७॥
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः
।
द्रोहात्किमन्यज्ज्ञातीनां गृद्ध्यन्ते येन देवताः ॥२८॥
इति देवा व्यवसिता वेदवादाश्च शाश्वताः
।
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च ॥२९॥
कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः
।
न पश्यामोऽनपकृतं धनं किञ्चित्क्वचिद्वयम् ॥३०॥
ननु परद्रव्यापहारे दोषोऽस्तीत्याशङ्क्याह- कृत्स्नमिति । यदेव धनं राजानोऽन्यतः परस्मादाददते तदेव तेषां श्रेयः श्रेयस्करम् । अन्यथा अनपकृतम् अपकारवर्जितं धनं राज्ञां नास्त्येवेत्यर्थः । यज्ञार्थं पशुबीजादिवघादिव परद्रव्यापहारादपि राज्ञां न दोषोऽस्तीति भावः ॥३०॥
एवमेव हि राजानो यजन्ति पृथिवीमिमाम्
।
जित्वा ममेयं ब्रुवते पुत्रा इव पितुर्धनम् ॥३१॥
राजर्षयोऽपि ते स्वर्ग्यो धर्मो ह्येषां निरुच्यते
।
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ॥३२॥
निरुच्यते उत्कृष्टत्वेन कीर्त्यते स्यन्दन्ति प्रस्रवन्ति ॥३२॥
एवं राजकुलाद्वित्तं पृथिवीं प्रति तिष्ठति
।
आसीदियं दिलीपस्य नृगस्य नहुषस्य च ॥३३॥
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता
।
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः ॥३४॥
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम्
।
येषां राजाऽश्वमेधेन यजते दक्षिणावता ॥३५॥
किंच परवित्तापहारोऽस्य परोद्धरणार्थ एवेत्याह- येषामिति । येषां माण्डलिकानां प्रजादीनां च । द्रव्यापहर्ता राजा यजते ते सर्वे तदवभृथे पूता भवन्तीत्यन्वयः ॥३५॥
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते
।
विश्वरूपो महादेवः सर्वमेधे महामखे
।
जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥३६॥
विश्वरूप इति । ब्रह्मणे ब्राह्मणमालभेत इत्यादिशास्त्रात् ब्राह्मणादीनां भूतानां च स्वदेहस्य च होमः यज्ञार्थं क्रियते । तत्र कियान् द्रव्यापहार इति भावः ॥३६॥
शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम
।
महान् दाशरयः पन्था मा राजन्कुपथं गमः ॥३७॥
एवमनादिरनन्तश्चायं यज्ञियः पन्था इत्याह- शाश्वत इति । दाशरथः- एकः पशुः, द्वौ पत्नीयजमानौ, त्रयो वेदाः, चत्वार ऋत्विजः इति दश रथाश्च प्रचरन्ति यस्मिन्स दशरथः स एव दाशरथः ॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अर्जुनवाक्ये अष्टमोध्यायः ॥८॥
युधिष्ठिर उवाच।
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि
।
धारयन्नपि तच्छ्रुत्वा रोचेत वचनं मम ॥१॥
मुहूर्तमिति । त्वमपि मदुक्तं निवृत्तिमार्गमपि श्रुत्वा मुहूर्तमन्तरात्मनि हृदयपुण्डरीके मनःश्रोत्रे बाह्याभ्यन्तरकरणे धारयन् स्थिरीकुर्वंस्तावदादौ एकाग्रो भवेति शेषः । पश्चान्मम वचनं तुभ्यं रोचेत त्वद्रुचये भवेत् अन्तर्मुखस्यैव निवृत्तिमार्ग इष्टो न बहिर्मुखस्येति भावः । श्रोत्रेऽन्तरिति सन्धिरार्षः ॥१॥
साधुगम्यमहं मार्गं न जातु त्वत्कृते पुनः
।
गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥२॥
साध्विति । उत अपि ग्राम्यसुखानि हित्वा साधुगम्यं मार्गं गच्छेयं न पुनस्त्वत्कृते जातु तत् राज्यं गमिष्यामि स्वीकरिष्यामि ॥२॥
क्षेम्यश्चैकाकिना गम्यः पन्था कोऽस्तीति पृच्छ माम्
।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे श्रृणु ॥३॥
राज्यमेव साधुगम्यो मार्ग इति चेत्तत्राह- क्षेभ्य इति ॥३॥
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः
।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥४॥
तत्र तावद्वनस्थधर्माननुष्ठास्यामीत्याह- हित्वेत्यादिना ॥४॥
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
।
कृशः परिमिताहारश्चर्मचीरजटाधरः ॥५॥
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
।
तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥६॥
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः
।
मुदितानामरण्येषु वसतां मृगपक्षिणाम् ॥७॥
पेशलान् रम्यान् ॥७॥
आजिघ्रन्पेशलान् गन्धान्फुल्लानां वृक्षवीरुधाम्
।
नानारूपान्वने पश्यन् रमणीयान्वनौकसः ॥८॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
।
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम् ॥९॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
।
पितॄन्देवांश्च वन्येन चाग्भिरद्भिश्च तर्पयन् ॥१०॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥११॥
अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
।
चरन् भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥१२॥
यतेर्धर्मानुष्ठानं प्रतिजानीतेऽथवेति ॥१२॥
पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः
।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१३॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ॥१४॥
आत्मारामः प्रसन्नात्मा जडान्धवधिराकृतिः
।
अकुर्वाणः परैः काञ्चित्संविदं जातु कैरपि ॥१५॥
आत्मारामः योगेनात्मन्येव रममाणः प्रसन्नात्मा शुद्धसत्त्वः केनचिन्निमित्तेन संविदं संवादमकुर्वाणः कृत्याभावात् ॥१५॥
जङ्गमाजङ्गमान्सर्वानविहिसंश्चतुर्विधान्
।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥१६॥
चतुर्विधान् जङ्गमस्य जरायुजाण्डजस्वेदजभेदेन त्रैविध्यात् स्वधर्मस्थाः प्राणभृत इन्द्रियपोषकाश्च प्रजाः प्रति सम इत्यन्वयः ॥१६॥
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीः क्वचित्
।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥१७॥
अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित्
।
न देशं न दिशं काञ्चिद्गन्तुमिच्छन् विशेषतः ॥१८॥
केनचिन्मार्गेण ॥१८॥
गमने निरपेक्षश्च पश्चादनवलोकयन्
।
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ॥१९॥
एवं यत्याश्रमधर्मानुक्त्वाऽत्याश्रमधर्ममाह- ऋजुरिति । कामक्रोधादिशून्यः प्रणिहितोन्तर्मुखः । त्रस्यतीति त्रसं भयादिधर्मकं लिङ्गशरीरं मरणकालेऽत्रैव तिष्ठतीति स्थावरं स्थूलशरीरं तयोर्वर्जकः स्थूलसूक्ष्मशरीराभिमानशून्य इत्यर्थः ॥१९॥
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि
।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥२०॥
एवंरूपस्य कथं देहयात्रानिर्वाह इत्याशङ्क्याह- स्वभाव इति । स्वभावो देहादीनां पूर्वसंस्कारः कटवेष्टनवत् प्रारब्धक्रर्मोपस्थापितदेहनिर्वाहार्थमग्रे व्रजति पुरस्कृतो भवति । नन्वेवं सुषुप्तावपि यात्रा स्यादित्याशङ्क्याह- प्रभवन्त्यशनान्यपीति । यथा प्रसुप्तः शिशुस्तनं पिबति संस्कारदार्ढ्यात् एवं देहद्वयाभिमानहीनोऽहमपि भोजनादिकं करिष्यामीत्यर्थः । द्वन्द्वादिषु यानि विरुद्धान्यपमानाल्पभोज्यादीनि तान्यचिन्तयन् ॥२०॥
अल्पं वा स्वादु वा भोज्यं पूर्वालाभे न जातु चित्
।
अन्येष्वपि चरँलाभमलाभे सप्त पूरयन् ॥२१॥
पूर्वालाभेन पूर्वस्मिन् गृहेऽलामेन हेतुना जातु कदाचित् । अन्येष्वपि गृहेषु लाभ लब्धमन्नं चरन् भक्षयन् ॥२१॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
।
अतीतपात्रसञ्चारे काले विगतभिक्षुके ॥२२॥
भैक्ष्यकालमाह- विधूमे इति । गृहे इति शेषः ॥२२॥
एककालं चरन्भैक्ष्यं त्रीनथ द्वे च पञ्च वा
।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम् ॥२३॥
त्रीन् गृहान् ॥२३॥
अलाभे सति वा लाभे समदर्शी महातपाः
।
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् ॥२४॥
जिजीविषुवद्धनादिसंग्रहं ममूर्षुवदन्नादित्यागम् ॥२४॥
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्
।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥२५॥
वासी तक्षायुधं तया ॥२५॥
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
।
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥२६॥
या इति । निमेषोन्मेषाशनपानादिशारीरनिर्वाहमात्रकर्मस्ववस्थित इत्यर्थः॥२६॥
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
।
अपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः ॥२७॥
तेष्वपि कर्मसु असक्तः अपरित्यक्तः नित्यं वशीकृतः संकल्पो मनःक्रिया येन दृढमना इत्यर्थः। नास्ति परित्यक्तः सङ्कल्पो यस्मादन्य इति वा सुनिर्णिक्तात्मकल्मषः सम्यक् दूरीकृतधीमलः ॥२७॥
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः
।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥२८॥
वागुराः स्नेहपाशान् ॥२८॥
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्
।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥२९॥
चिकीर्षितमाह- वीतराग इति ॥२९॥
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
।
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ॥३०॥
एके मूढाः कार्यकारणसंश्लिष्टं स्वसुखेन निमित्तभूतेन संलग्नं स्त्र्यादिकं बिभ्रति आत्मोपकारकत्वेन पुष्णन्ति तथा च श्रुतिः 'न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति' इति ॥३०॥
आयुषोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्
।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥३१॥
अनात्मीयेष्वात्मीयबुद्ध्या तत्पोषणार्थं कृतं कर्म तु मरणान्तेऽपि न मुञ्चतीत्याह- आयुष इति ॥३१॥
एवं संसारचक्रेऽस्मिन् व्याविद्धे रथचक्रवत्
।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥३२॥
व्याविद्धे भ्राम्यमाणे समेति संयोगमेति ॥३२॥
जन्म-मृत्यु-जरा-व्याधिवेदनाभिरभिद्रुतम्
।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम् ॥३३॥
अस्वस्थमात्मनि अध्यासं विना रज्ज्वां भुजङ्गवदविद्यमानम् ॥३३॥
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥३४॥
ऐहिकार्थानां त्यागे सुखमुक्त्वाऽऽमुष्मिकाणामपि त्यागे तदस्तीत्याह- दिव इति । भवेन स्वर्गैश्वर्येण कारणमविद्या तस्यास्तत्त्वं तद्दुःखमयत्वं तद्वित् ॥३४॥
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्
।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥३५॥
कृत्वा हीति । विविधं सामाद्युपायवत् विविधलक्षणं नानाविधकपटादिरूपं कर्म कृत्वा स्वल्पैः पार्थिवैः क्षुद्रराजभिर्नृपतिर्महाराजो वध्यते कारणैः स्वापमानादिभिर्हेतुभिः बहवो मिलित्वा एकं महान्तं घ्रन्तीत्यर्थः ॥३५॥
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्
।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥३६॥
यस्माद्दुःखमयं क्षयिष्णु च ऐश्वर्यं तस्मात् स्थानं मोक्षम् अव्ययमपक्षयशून्यं शाश्वतम् अनाद ध्रुवं सदैकरूपम् ॥३६॥
एतया सन्ततं धृत्या चरन्नेवंप्रकारया
।
जन्म-मृत्यु-जरा-व्याधिवेदनाभिरभिद्रुतम्
।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥३७॥
संस्थापयिष्यामि समापयिष्यामि ॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरवाक्ये नवमोऽध्यायः ॥९॥
भीम उवाच ।
श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः
।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥१॥
श्रोत्रियस्य वेदपाठकस्य मन्दत्वादेवाविपश्चितः अर्थज्ञानशून्यस्य अनुवाकेन नित्यपाठेन हता नष्टा ॥१॥
आलस्ये कृतचित्तस्य राजधर्मानसूयतः
।
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥२॥
आलस्य एव न तु परमार्थे कृतचित्तस्य तव ॥२॥
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते
।
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥३॥
त्वदन्तरे त्वत्तोऽन्यत्र ॥३॥
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्
।
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ॥४॥
भैक्ष्यमेवाचरिष्याम शरीरस्याविमोक्षणात्
।
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥५॥
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः
।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥६॥
प्राणस्य प्राणवतो बलिष्टस्य इदं सर्वम् अन्नमिवान्नं भोग्यम्- 'वीरभोग्या वसुंधरा' इति स्मृतेः । अत एव तस्यैव भोजनं भुज्यते पाल्यते इति व्युत्पत्त्या पालनीयमिदं यद्यप्येतत्प्राणोपासनाप्रकरणे श्रुतं तथापि सर्वस्यात्मार्थत्वमित्यंशेन साम्यादुदाहृतम् ॥६॥
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः
।
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥७॥
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः
।
तान् हत्वा भुंक्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥८॥
हताऽस्माभिरिति सन्धिरार्षः । तान् धर्मेण हत्वा निघ्नन् त्वं राज्यं भुङ्क्ष्व हन्तेरन्येभ्योऽपि दृश्यत इति क्वनिप् अनुनासिकलोपः ह्रस्वस्येति तुक् ॥८॥
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्
।
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ॥९॥
तथा तेन प्रकारेण उपमीयत इति तथोपमम् ॥९॥
यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु
।
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥१०॥
यथा महान्तमध्वानमाशया पुरुषः पतन्
।
स निराशो निवर्तेत कर्मैतन्नस्तयोपमम् ॥११॥
पतन् गच्छन् ॥११॥
यथा शत्रून् घातयित्वा पुरुषः कुरुनन्दन
।
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तयोपमम् ॥१२॥
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद्यदृच्छया
।
कामीव कामिनीं लब्ध्वा कर्मेदं नस्तथोपमम् ॥१३॥
वयमेवात्र गर्ह्या हि यद्वयं मन्दचेतसम्
।
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥१४॥
वयं हि बाहुबलिनः कृतविद्या मनखिनः
।
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥१५॥
अशक्तयः शक्तिहीनाः ॥१५॥
अगतीकगतीनस्मान्नष्टार्थानर्थसिद्धये
।
कथं वै नानुपश्येयुर्जनाः पश्यत यादृशम् ॥१६॥
अगतीकगतीननाथरक्षकान् । दैर्घ्यमार्षम् । ईदृशानपि नष्टार्थान् दृष्ट्वा जना इतरेऽपि अर्थसिद्धये कथं नानुपश्येयुरपि तु आलोचयेयुरेव । एतत् यादृशं मम वचनं तादृशं पश्यत युक्तमयुक्तं वेति परीक्षयेत्यर्थः । समर्थैः स्वार्थसिद्ध्यर्थं यतितव्यमेवेति भावः ॥१६॥
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते
।
जरयाऽभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥१७॥
ननु संन्यास एव नः श्रेयानित्युक्तं तत आह- आपदिति । व्यंसितेन दुर्गतिं प्रापितेन ॥१७॥
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते
।
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः ॥१८॥
इह क्षत्रयोनौ त्यागं चरन् भैक्ष्यं मुनिर्मुण्ड इत्युक्तविधं संन्यासं न परिचक्षते न प्रशंसन्ति । तत्र हेतुः- धर्मेति ।
'मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्
।
बाहुजातोरुजातानां नायं धर्मो विधीयते' ॥
इत्ति स्मृतेः क्षत्रियस्य मौण्ड्यादिकं निषिद्धं तस्याचरणे धर्मव्यतिक्रमोऽस्त्येवेति भावः ॥१८॥
कथं तस्मात्समुत्पन्नास्तन्निष्ठास्तदुपाश्रयाः
।
तदेव निन्दां भाषेयुर्धाता तत्र न गर्ह्यते ॥१९॥
ननु हिंस्रोऽयं क्षात्रधर्मो निन्द्य एवेत्याशङ्क्याह- कथमिति । हिंसार्थमुत्पन्नाः हिंस्रयोनौ जाताः हिंसैकजीवनास्तदेव तस्यैव हिंस्रधर्मस्य निन्दां कथं भाषेयुः । कथं वा तत्र धाता तस्य धर्मस्य स्रष्टा न गर्ह्यते न निन्द्यते । धातृविहितत्वात्सहजत्वाच्च नासौ धर्मो निन्द्य इत्यर्थः । यदाह भगवान्- 'सदोषमपि कौन्तेय सहजं कर्म न त्यजेत्' इति ॥१९॥
श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम्
।
वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ॥२०॥
कथं तर्हि जाबालोपनिषदि- 'अथ परिव्राट् मुण्डो विवर्णवासा इत्युपक्रम्य भरतरैवतकप्रभृतयोऽनुन्मत्ता उन्मत्तवदाचरन्ते' इति भरतादीनां क्षत्रियाणां मौण्ड्यमुन्मत्तचर्या च श्रूयते इत्याशङ्क्याह- श्रियेति । 'ऋचः सामानि यजूषि । सा हि श्रीरमृता सताम्' इति श्रुतेः । श्रिया त्रय्या विद्यया विहीनैः अधनैर्लक्ष्म्या च हीनैः इदमनृतं संप्रवर्तितं वेदयतीति वेदो विधिस्तस्य वादोऽर्थवादस्तत्सबन्धि विज्ञानं संन्यासविधिस्तुत्यर्थं भरतादिकीर्तनं प्रजापतिवपोत्खननवदर्थवादो न तु तावता मौण्ड्ये क्षत्रियस्याधिकारः सिध्यतीति भावः ॥२०॥
शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना
।
धर्मच्छद्म समास्थाय च्यवितुं न तु जीवितुम् ॥२१॥
यत्तु ऋजुः प्रणिहितो गच्छन्नित्यत्याश्रम उक्तस्तं दूषयति- शक्यं त्विति । आत्मानं देहमात्मना स्वेनैव बिभ्रता निश्चलं स्थापयता धर्मच्छद्म कपटयोगे आस्थाय च्यवितुं मर्तुमेव शक्यं न जीवितुं केवलं प्रणिधानेन शरीरनाशो भवेदित्यर्थः ॥२१॥
शक्यं पुनररण्येषु सुखमेकेन जीवितुम्
।
अबिभ्राता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥२२॥
यत्तु स्वभावस्तु व्रजत्यग्रे इति सुप्तबालकस्तनपानवद्देहयात्रासिद्धिरुका तां दूषयति द्वाभ्यां- शक्यं पुनरिति । पुत्राद्यभरणेन पशुसाम्येन च तत्रापि दोषोऽस्तीत्यर्थः ॥२२॥
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः
।
अथान्येन प्रकारेण पुण्यमाहुर्न तं जनाः ॥२३॥
अथेत्यतः शब्दार्थे तमेकचरमेन्येन प्रकारेण एकचर्यां विना न पुण्यं श्रेयांसमाहुः, सा च मृगेऽप्यस्तीति न तयोर्विशेष इति भावः ॥२३॥
यदि संन्यासतः सिद्धिं राजा कश्चिदवाप्नुयात्
।
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥२४॥
संन्यासयुक्तमेकाकित्वमपि निरस्यति द्वाभ्यां- यदीति ॥२४॥
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः
।
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः ॥२५॥
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते
।
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥२६॥
ननु पश्वादयः कर्मयोनयो न भवन्ति, किं तु पूर्वकृतमेव ते भुञ्जते; अहं तु कर्माधिकृतः स्वप्रयत्नेन ध्रुवं पदं प्राप्स्यामीति चेत्तत्राह-अथ चेदिति । आत्मभाग्येषु स्वसंपत्सु अन्येषां सिद्धिं परकर्मार्जितं फलं नाप्नुते किं तु स्वकर्मार्जितमेवाप्नुते तर्हि कर्मैव कुर्वित्यर्थः । सिद्धिर्मोक्षः ॥२६॥
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः
।
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥२७॥
ननु मुमुक्षूणां देहभरणव्यतिरिक्तं कर्म नापेक्षितमित्यत आह- औदका इति । उदके भवाः मीनादयः सृष्टयः स्थावरास्तेषामपि आत्मैव देह एव भर्तव्यो नान्य इति तेऽपि मुच्येरन् ॥२७॥
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्
।
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥२८॥
लोकदृष्ट्यापि कर्मैव कर्तव्यमित्याह- अवेक्षस्वेति ॥२८॥
इति श्रीमहाभारते शान्तिपवणि राजधर्मानुशासनपर्वणि भीमवाक्ये दशमोऽध्यायः ॥१०॥
अर्जुन उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥१॥
एवं संन्यासः श्रेयानिति धर्मस्य पक्षो गार्हस्थ्यं श्रेय कृतसंन्यासापेक्षया गार्हस्थ्यमेव श्रेय इत्याख्यायिकामुखेन समर्थयन्नर्जुन उवाच- अत्रैवेत्यादिना ॥१॥
केचिद् गृहान्परित्यज्य वनमभ्यागमन् द्विजाः
।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥२॥
प्रवव्रजुः पुनगृहं प्रति न गन्तव्यमिति प्रकर्षेण गता इत्यर्थः ॥२॥
धर्मोऽयमिति मन्वानाः समृद्धा ब्रह्मचारिणः
।
त्यक्त्वा भ्रातॄन् पितंश्चैव तानिन्द्रोऽन्वकृपायत ॥३॥
तानाबभाषे भगवान् पक्षी भूत्वा हिरण्मयः
।
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥४॥
विधसाशिभिः महायज्ञावशिष्टभोजिभिः ॥४॥
पुण्यं भवति कर्मेदं प्रशस्तं चैव जीवितम्
।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥५॥
ऋषय ऊचुः ।
अहो बतायं शकुनिर्विघसाशान्प्रशंसति
।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥६॥
शास्ति ज्ञापयति विगतो घसोऽन्नं यस्य तदन्नं विघसं शीर्णतृणपर्णफलादिकं तददनशीलास्तु वयमेवातो विघसाशिनः श्रेयांसः स्म इति मेनिरे इत्यर्थः ॥६॥
शकुनिरुवाच ।
नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान्
।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥७॥
पङ्कदिग्धान् रजस्वलानित्यागन्तुकस्वाभाविकदोषयुक्तत्वमुक्तं क्रमेण उच्छिष्टभोजिन इति । प्रायेण शर्णितृणपर्णफलानि मृगकीटपक्ष्युच्छिष्टानि भवन्ति तद्भोजिनो मन्दान् मूढान् ॥७॥
ऋषय ऊचुः ।
इदं श्रेयः परमिति वयमेवाभ्युपास्महे
।
शकुने ब्रूहि यच्छ्रेयो भृशं ते श्रद्दधामहे ॥८॥
ते तव वच इति शेषः ॥८॥
शकुनिरुवाच ।
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना
।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥९॥
श्रद्दधानोऽन्यो वक्ताऽऽत्मा शङ्कितान्यो मन्ताऽऽत्मेतीत्यात्मन्येवायं विभागो विषमभागद्वयं यदि धूर्ता न भविष्यथेत्यर्थः ॥९॥
ऋषय ऊचुः ।
शृणुमस्ते वचस्तात पन्थानो विदितास्तव
।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥१०॥
पन्थानः श्रेयोमार्गाः ॥१०॥
शकुनिरुवाच ।
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्
।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥११॥
मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते
।
जीवतोऽपि यथाकालं श्मशाननिधनादिभिः ॥१२॥
मन्त्रो मन्त्रोक्तसंस्कारः श्मशानेति पदं यतिनिधनव्यावृत्त्यर्थम् ॥१२॥
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः
।
कथं मे सर्वकर्माणि मन्त्रसिद्धानि चक्रिरे ॥१३॥
कर्माणि स्वर्ग्यः पन्था इति न चेत्तर्हि कथं मे मत्समक्षं मदर्थं वा कर्माणि चक्रिरे प्राञ्चः स्वर्गार्थिन इति शेषः । अतस्तानि स्वर्ग्याण्येवेति भावः । मन्त्रसिद्धानि मन्त्रैः प्रकाशितानि ॥१३॥
आत्मानं दृढवादीति तथा सिद्धिरिहेष्यते
।
मासार्धमासा ऋतव आदित्यशशितारकम् ॥१४॥
आत्मानमिति । दृढवादी दृढनिश्चयः पुमान्यथाऽऽत्मानं इति- एति गुणाभाव आर्षः । यद्देवतारूपं जानीते अयमहमस्मि साम्बशिव इति, तथैवेह लोके शास्त्रे वा सिद्धिस्तत्तद्देवतातादात्म्यरूपा इष्यते, 'तं यथा यथोपासते तथेतः प्रेत्य भवन्ति' इति श्रुतेः । अथागमो 'यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्यमनुभवति' इति स्मृतेश्च । तत्र कतिप्रकारा सिद्धिरित्यत आह-मासेति । माघादिभिर्मासैः शुक्लैरर्धमासैः शिशिरादिभिरृतुभिश्च आदित्यमार्गप्राप्तिरूपा एका सिद्धिः क्रममुक्तिस्थानभूतब्रह्मलोकावाप्तिफला । तथा श्रावणादिभिर्मासैः कृष्णैरर्धमासैः वर्षादिभिरृतुभिः शशिर्मागप्राप्तिरूपा द्वितीया सिद्धिः पुनरावृत्तिस्थानभूतस्वर्गलोकावाप्तिफला । तथा मार्गद्वयानपेक्षा आध्यात्मिकमाधिभौतिकं वा विमुक्तमुपासीनानां देहान्ते तारकब्रह्मावाप्तिरूपा तृतीया सद्योमुक्तिफला । तथा च श्रुतयः - 'स एतान्ब्रह्म गमयति न स पुनरावर्तते' इति । तथा 'एतमेवाध्वानं पुनर्निवर्तते' इति । ’तथाऽत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीमवति' इति च क्रमेण ज्ञेयाः ॥१४॥
ईहन्ते सर्वभूतानि तदिदं कर्मसंज्ञितम्
।
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥१५॥
ईहन्त इति । तदिदम् आदित्यशशितारकात्मकं सिद्धित्रयं कर्मसंज्ञितं कर्मफलत्वेनाभिहितम् ईहन्ते कामयन्ते सर्वभूतानि । तस्मात् कर्माधिकारस्थानं गार्हस्थ्यमेव सिद्धिक्षेत्रं पुण्यश्चायमाश्रमो महांश्च ॥१५॥
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः
।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥१६॥
अन्यथा दोषमाह- अथेति । निन्दन्तो निन्दां कृत्वा कापथं त्वदुक्तं त्यागमार्गं ये गतास्तेषां एनः पापं विद्यते ॥१६॥
देववंशान्पितृवंशान् ब्रह्मवंशांश्च शाश्वतान्
।
सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥१७॥
आदित्यशशितारकाख्यसिद्धित्रयानादरे दुर्गतिमाह- देवेति । वंश इव वंशोर्चिरादिपर्वोपेतत्वान्मार्गः देववंशो देवयानमार्गः । तथा पितृवंशः पितृयानमार्गः ब्रह्मवंशो ब्रह्मावाप्तिमार्गः । तत्प्राप्त्युपायबहुत्वात्प्रत्येकं बहुवचनम् एषां त्यागेन अश्रुतीपथं क्षुद्रदंदशूकादियोनिं यान्ति । श्रुतीति दैर्घ्यमार्षम् ॥१७॥
एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम्
।
तस्मात्तत्तद्व्यवस्थानं तपस्वितप उच्यते ॥१८॥
एतत्कर्म वो युष्माकमस्तु तच्च तपोयुक्तम् उपासनायुक्तम् उपासना चात्र द्विविधा अध्यात्मम् अधियज्ञं च । तत्र यज्ञाङ्गेऽश्वादौ विराट्दृष्टिरूपा वा अश्वस्य मेधस्य शिर इत्यादिना विहितान्त्या । आद्या त्वविमुक्तोपासनो सोऽविमुक्त उपास्य इत्युपक्रम्य कतमच्चास्य स्थानं भ्रुवोर्घ्राणस्य च यः सन्धिरित्यादिना विहिता । एतेन द्विविधाप्युपासनाकर्मसमुच्चितैव कर्तव्येति दर्शितम् । किंभूतम् एतत्कर्म ददामीति ऋषिणा मन्त्रेण चोदितं तथा चेन्द्रवाक्यं कर्मकाण्डे- 'देहि मे ददामि ते' इति । देवतोद्देशेन द्रव्यत्यागरूपं दानं कुरु तुभ्यं चाहं पुत्रपशुवर्गादिकं फलं दास्यामीति मन्त्रार्थः । यस्मादेवं तस्मात्तत्र तत्र मार्गे व्यवस्थानं निष्ठापूर्विका स्थितिस्तदेव तपस्विनां तप उच्यते नान्यत्क्रायशोषणादि ॥१८॥
देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान्
।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥१९॥
देवेति । अङ्गोपास्तियुक्तं वा केवलं वा विमुक्तोपास्तियुक्तं वा देववंशादिशब्दोपलक्षितं कर्म गुरोश्चर्यां परिचर्यां संविभज्य परस्पराविरोधेन दिननाडीविभागेन नित्यं क्रियमाणं दुष्करं दुःसाध्यमुच्यते विद्वद्भिः । इत्थमेव कर्तव्यमिति भावः ॥१९॥
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥२०॥
एतदेव परकृत्या द्रढयति- देवा इति ॥२०॥
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः
।
कुटुम्बविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम् ॥२१॥
तपः कर्मैव प्रजानां मूलमतः श्रेष्ठं यतः अनेन च्छान्दोग्यदृष्टेन कुटुम्बविधिना कुटुंबे शुचौ देशे स्वाध्यायमधीयान इत्यादिना यस्मिन्गृहस्थकर्मणि सर्वं प्रतिष्ठितं तथा च सूत्रं- 'कृत्स्नभावात्तु गृहिणोपसंहारः' इति । सर्वेषामाश्रमाणां धर्मा गृहे एव सन्ति न त्वन्यत्रेति हेतोश्छान्दोग्ये कुटुम्ब इत्यादिश्रुत्या गृहिणैव विद्योपसंहारः कृत इति सूत्रार्थः ॥२१॥
एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः
।
तस्माद्रतं मध्यमं तु लोकेषु तप उच्यते ॥२२॥
व्रतं ब्रह्मचर्याद्युपेतमध्ययनं मध्यमं च तद्रहितं यज्ञादि च तपःशब्देनोच्यते ॥२२॥
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥२३॥
तयोर्द्वितीयं स्तौति- दुराधर्षेति ॥२३॥
दत्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च
।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥२४॥
विघसाशिपदं व्याचष्टे- सायमिति सार्धेन ॥२४॥
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः
।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥२५॥
अनुपस्कृताः निःसंशयाः ॥२५॥
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः
।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः ॥२६॥
अर्जुन उवाच ।
ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम्
।
उत्सृज्य नास्तीति गता गार्हस्थ्यं समुपाश्रिताः ॥२७॥
तत इति । ते तरुणाः संन्यासचिकीर्षवः उत्सृज्य नास्तीति गताः आश्रमान्तरे सिद्धिर्नास्तीति तदुत्सृज्य गता इति योज्यम् ॥२७॥
तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम्
।
प्रशाधि पृथिवीं कृत्नां हतामित्रां नरोत्तमे ॥२८॥
फलितमाह- तस्मादिति ॥२८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अर्जुनवाक्ये ऋषिशकुनिसंवादकथने एकादशोऽध्यायः ॥११॥
वैशम्पायन उवाच।
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्
।
राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ॥१॥
एवमर्जुनवाक्यात् कर्मणामवश्यकर्तव्यत्वे सिद्धे सङ्गं कर्तृत्वाभिमानं फलाशां च त्यक्त्वा तानि कर्तव्यानीति नकुलवाक्येन प्रतिपादयिष्यन्नारभते- अर्जुनस्येत्यादि ॥१॥
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दम
।
व्यूढोरस्को महाबाहुस्ताम्रास्योमितभाषिता ॥२॥
ताम्रास्यो दुःखेन विवर्णमुखः ॥२॥
नकुल उवाच ।
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः
।
तस्माद्विद्धि महाराज देवाः कर्मफले स्थिताः ॥३॥
विशाखयूपे क्षेत्रविशेषे । देवानां देवैः अग्नयोऽग्निस्थापनार्थानि स्थण्डिलानि । चिता इष्टकाभी रचिता । अद्यापि दृश्यन्ते तेन देवत्वमपि कर्मफलमेवेत्यर्थः । 'कर्मणा पितृलोको विद्यया देवलोकः' इति श्रुतेश्चयनाश्रितविद्याबलात् ब्रह्मलोकं गता ये तेऽत्र देवाः । तथाऽग्नेः केवलकर्मणा स्वर्लोकं गता ये तेऽत्र पितर इति बोध्यम् ॥३॥
अनास्तिकानां भूतानां प्राणदाः पितरश्च ये
।
तेऽपि कर्मैव कुर्वन्ति विधिं संप्रेक्ष्य पार्थिव ॥४॥
अनास्तिकानामास्तिक्यशून्यानामपि । पाठान्तरे स्पष्टोऽर्थः । प्राणदा वृष्टिद्वारा अन्नप्रदाः 'अन्नं ह प्राणः' इति श्रुतेः । विधिमग्निं वा अकामयतेत्याद्यग्न्यादिभावस्य कर्मसाध्यत्वज्ञापकम् ॥४॥
वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान्
।
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ॥५॥
वेदवादः अपविद्धस्त्यक्तो यैस्तान् ॥५॥
देवयानेन नाकस्य पृष्ठमाप्नोति भारत
।
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः ॥६॥
देवयानेन मार्गेण पृष्ठमुपरिभागं ब्रह्मलोकमित्यर्थः । अयं गृहाश्रमः सर्वानाश्रमान् अति अतिक्रान्तः तेभ्यः श्रेष्ठ इत्यर्थः ॥६॥
ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध नराधिप
।
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ॥७॥
तान्ब्राह्मणान् गत्वा निबोध बुध्यस्व अवासृजन् समार्पयन् ॥७॥
कृतात्मा स महाराज स वै त्यागी स्मृतो नरः ॥८॥
कृतात्मा जितचित्तः अहंममाभिमानशून्य इत्यर्थः । स त्यागी सात्त्विक इति शेषः ॥८॥
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः
।
आत्मत्यागी महाराज स त्यागी तामसो मतः ॥९॥
सुखादानं गार्हस्थ्यसुखभोगम् । ऊर्ध्वं वनादौ प्रतिष्ठितो निष्ठावान् सन् यः आत्मत्यागी देहत्यागी स तामसो मतः।
अनधीत्य द्विजो वेदाननुत्पाद्य सुतानपि
।
अनिष्ट्वा शक्तितो यज्ञैर्मोक्षमिच्छन् पतत्यधः' ॥
इति मनूक्त्यनभिज्ञत्वात्तामसोऽयं त्यागीति भावः ॥९॥
अनिकेतः परिपतन् वृक्षमूलाश्रयो मुनिः
।
अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ॥१०॥
परिपतन् भिक्षार्थं पर्यटन् यतोऽपाचकः योगी निरुद्धसर्ववृत्तिः । भिक्षुक इति । याञ्चाधर्मा ब्राह्मणः स्मृतः । सोऽयं ब्राह्मणकल्पो धर्मः शुभोऽपि प्रजापरिपालनक्लेशार्हेण क्षत्रियेण आश्रित इति राजसत्त्वाद्दोषमूलः। तथा च श्रुतिः- 'यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायते' इति माभूवं याचको भिक्षुकः ॥१०॥
क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः
।
विप्रो वेदानधीते यः स त्यागी पार्थ उच्यते ॥११॥
'संन्यस्येत्सर्वकर्माणि वेदं तु न परित्यजेत्
।
नियतो वेदमभ्यस्यन्पुत्रैश्वर्ये सुखं वसेत् '॥
इति मनूक्तं वेदन्यासमकृत्वा भ्रातृराज्ये निवत्स्यामीत्याशङ्क्याह- क्रोधेति । विप्र इत्यनेनायमपि धर्मो ब्राह्मणस्यैव विहितोऽधिकारादिति दर्शितम् । तेनायं त्यागो राजस एव पूर्ववदिति सिद्धम् ॥११॥
आश्रमांस्तुलया सर्वान् घृतानाहुर्मनीषिणः
।
एकतश्च त्रयो राजन् गृहस्थाश्रम एकतः ॥१२॥
समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत
।
अयं पन्था महर्षीणामियं लोकविदां गतिः ॥१३॥
समीक्ष्येति । आश्रमान्तरे स्वर्ग एवास्ति न कामः गार्हस्थ्ये तूभयमस्तीति अयमेव मार्गो गतिश्चेत्यर्थः ॥१३॥
इति यः कुरुते भावं स त्यागी भरतर्षभ
।
न यः परित्यज्य गृहान्वनमेति विमूढवत् ॥१४॥
इतीति । आवश्यकमेवेदं ममेतिभावं कृत्वा यः संगफलेप्सारहितः करोति स त्यागी नान्य इत्यर्थः ॥१४॥
यदा कामान् समीक्षेत धर्मवैतंसिको नरः
।
अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ॥१५॥
वनेऽपि कामस्मरणं चेत्पतत्येवेत्याह - यदेति । धर्मवैतंसिको धर्मध्वजी ॥१५॥
अभिमानकृतं कर्म नैतत्फलवदुच्यते
।
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥१६॥
अभिमानः कर्ताहमित्येवंरूपस्तेन कृतं कर्म फलवन्न गतिप्रदं न त्यागयुक्तम् अभिमानत्यागोपेतम् ॥१६॥
शमो दमस्तथा धैर्यं सत्यं शौचमथार्जयम्
।
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥१७॥
आर्षः ऋषीणां हितः ॥१७॥
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते
।
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥१८॥
अत्र गार्हस्थ्ये ॥१८॥
एतस्मिन्वर्तमानस्य विधावप्रतिषेधिते
।
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥१९॥
इह विधौ प्रसृतस्य निष्ठावतः ॥१९॥
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः
।
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः ॥२०॥
वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः
।
पशूंश्चैव तथा मेध्यान् यज्ञार्थानि हवींषि च ॥२१॥
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम्
।
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥२२॥
तच्च कर्म गृहस्थाश्रमिणो विरोधकं निगडवद्विशेषेण रोधकम् ॥२२॥
तत्सम्प्राप्य गृहस्था ये पशु-धान्य-धनान्विताः
।
न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ॥२३॥
एत्तत्त्यागे दोषमाह- तदिति ॥२३॥
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे
।
अथापरे महायज्ञान् मनस्येव वितन्वते ॥२४॥
अपरे योगिनः महायज्ञानिति बहुवचनं वितर्कविचाराद्यवान्तरयोगभेदापेक्षम् ॥२४॥
एवं मनःसमाधानं मार्गमातिष्ठतो नृप
।
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥२५॥
स रत्नानि विचित्राणि संहृतानि ततस्ततः
।
मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि ॥२६॥
त्रिष्वपि यज्ञेष्वाद्योऽतीतकालः उपस्थितं मध्यममुल्लंध्यान्त्यस्य वार्तां कुर्वतस्तेनास्तिक्यं स्पष्टमित्याह- स इति ॥२६॥
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप
।
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः॥२७॥
पूर्वं वेदसंन्यासेऽपि तवाधिकारो नास्तीत्युक्तम् । इदानीं वेदसंन्यास एव न संभवतीत्यर्धेनाह- कुटुम्बमिति । कुत्र तर्हि त्यागं पश्यसीत्यत आह- राजसूयेति ॥२७॥
ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः
।
तैर्यजस्व महीपाल शक्रो देवपतिर्यथा ॥२८॥
फलितमाह- ये चेति ॥२८॥
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्
।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥२९॥
प्रमादो राज्याकरणं परिमुष्यतां लुप्यमानानाम् ॥२९॥
अश्वान् गाश्चैव दासीश्च करेणूश्च स्वलंकृताः
।
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥३०॥
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः
।
वयं ते राजकलयो भविष्याम विशांपते ॥३१॥
मात्सर्यं बन्धुद्रोहः दानाभावेन कलिस्वरूपा एव वयं जाता इत्यर्थः ॥३१॥
अदातारो शरण्याश्च राजकिल्बिषभागिनः
।
दोषाणामेव भोक्तारो न सुखानां कदाचन ॥३२॥
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम्
।
तीर्थेष्वनभिसंप्लुत्य प्रव्रजिष्यसि चेत्प्रभो ॥३३॥
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम्
।
लोकयोरुभयोभ्रष्टो ह्यन्तराले व्यवस्थितः ॥३४॥
अन्तराले पिशाचयोनौ ॥३४॥
अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम्
।
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति ॥३५॥
अन्तर्व्यासङ्गः अहं ज्ञाता दाता कर्ता हर्ता इत्यादिरात्मपूजा, बहिर्व्यासंगः पुत्रपश्वादिपूजा, तयोः कारकं मूलम् अहङ्कारममकारौ त्यक्त्वैव त्यागी भवेन्न तु यो गृहं हित्वा प्रतितिष्ठति स इत्यर्थः ॥३५॥
एतस्मिन् वर्तमानस्य विधावप्रतिषेधिते
।
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥३६॥
निहत्य शत्रूंस्तरसा समृद्धान् शक्रो यथा दैत्यबलानि सङ्ख्ये
।
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ॥३७॥
क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय
।
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ ॥३८॥
इति श्रीमहाभारते शान्तिपर्वाणि राजधर्मानुशासनपर्वणि नकुलवाक्ये द्वादशोऽध्यायः ॥१२॥
वैशम्पायन उवाच।
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
।
भ्रातॄणां ब्रुवतां तांस्तान् विविधान् वेदनिश्चयान् ॥१॥
अव्याहरति । वक्तव्याभावान्न तु क्रोधान्मौर्ख्याद्वा ॥१॥
महाभिजनसम्पन्ना श्रीमत्यायतलोचना
।
अभ्यभाषत राजेन्द्र द्रौपदी योषितां वरा ॥२॥
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम्
।
सिंह-शार्दूलसदृशैर्वारणैरिव यूथपम् ॥३॥
अभिमानवती नित्यं विशेषेण युधिष्ठिरे
।
लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ॥४॥
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना
।
भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् ॥५॥
साम्ना-सान्त्ववादेन । वल्गुना- रमणीयेन ॥५॥
द्रौपद्युवाच ।
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव
।
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥६॥
स्तोककाश्चातकाः । वावाश्यमानाः- पुनः पुनः क्रन्दन्तः ॥६॥
नन्दयैतान्महाराज मत्तानिव महाद्विपान्
।
उपपन्नेन वाक्येन सततं दुःखभागिनः ॥७॥
उपपन्नेन युक्तियुक्तेन ॥७॥
कथं द्वैतवने राजन् पूर्वमुक्त्वा तथा वचः
।
भ्रातॄनेतान् स्म सहितान् शीतवातातपार्दितान् ॥८॥
वयं दुर्योधनं हत्वा मुधे भोक्ष्याम मेदिनीम्
।
सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ॥९॥
सर्वकामानां सर्वैरर्थैः ॥९॥
विरथांश्च रथान् कृत्वा निहत्य च महागजान्
।
संस्तीर्य च रथैर्भूमिं ससादिभिररिन्दमाः ॥१०॥
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः
।
वनवासकृतं दुःखं भविष्यति सुखाय वः ॥११॥
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर
।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः ॥१२॥
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते
।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥१३॥
क्लीबः- अधीरः ॥१३॥
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते
।
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत ॥१४॥
मित्रता सर्वभूतेषु दानमध्ययनं तपः
।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ॥१५॥
असतां प्रतिषेधश्च सतां च परिपालनम्
।
एष राज्ञां परो धर्मः समरे चापलायनम् ॥१६॥
प्रतिषेधो-दण्डः राज्यान्निर्वासनं वा ॥१६॥
यस्मिन् क्षमा च क्रोधश्च दानादाने भयामये
।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥१७॥
दानम् आदानं च ते ॥१७॥
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया
।
त्वयेयं पृथिवी लब्धा न सङ्कोचेन चाप्युत ॥१८॥
सङ्कोचेन - याञ्चया ॥१८॥
यत्तद्बलममित्राणां तथा वीर्यसमुद्यतम्
।
हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैरनुत्तमम् ॥१९॥
त्रिभिरङ्गैः तिसृभिः शक्तिभिः ताश्च- प्रभुशक्तिर्मन्त्रशक्तिरुत्साहशक्तिस्ताभिरनुत्तमं श्रेष्ठम् ॥१९॥
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च
।
तत्त्वत्या निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् ॥२०॥
जम्बूद्वीपो महाराज नानाजनपदैर्युतः
।
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ॥२१॥
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप
।
अधरेण महामेरोर्दण्डेन मृदितास्त्वया ॥२२॥
अधरेण पश्चिमतः ॥२२॥
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप
।
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥२३॥
क्रौञ्चद्वीपादिवशीकरणं सिद्धद्वारा राजसूये ॥२३॥
उत्तरेण महामेरोः शाकद्वीपेन सम्मितः
।
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥२४॥
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः
।
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥२५॥
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत
।
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥२६॥
स त्वं भ्रातॄनिमान् दृष्ट्वा प्रतिनन्दस्व भारत
।
ऋषभानिव सम्मत्तान् गजेन्द्रानूर्जितानिव ॥२७॥
अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः
।
एकोऽपि हि सुखायैषां मम स्यादिति मे मतिः ॥२८॥
किं पुनः पुरुषव्याघ्र पतयो मे नरर्षभाः
।
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥२९॥
अनृतं नाब्रवीच्छ्वश्रूः सर्वेज्ञा सर्वदर्शिनी
।
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ॥३०॥
हत्वा राजसहस्राणि बहून्याशुपराक्रमः
।
तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप ॥३१॥
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः
।
तवोन्मादान्महाराज सोन्मादाः सर्वपाण्डवाः ॥३२॥
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप
।
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् ॥३३॥
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति
।
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ॥३४॥
नस्यकर्म नासाद्वारा भेषजग्रहणं नष्टेति पाठे नष्टाः प्रेता तद्बाधानिवृत्त्यर्थैः रक्षाबन्धनादिभिः कर्मभिः ॥३४॥
भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति
।
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम ॥३५॥
तथा विनिकृता पुत्रैर्याहमिच्छामि जीवितुम्
।
एतेषां यतमानानां न मेऽद्य वचनं मृषा ॥३६॥
एतेषाम् एताननादृत्य ॥३६॥
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम्
।
यथाऽऽस्तां सम्मतौ राज्ञां पृथिव्यां राजसत्तम ॥३७॥
मान्धाता चाम्बरीषश्च तथा राजन् विराजसे
।
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् ॥३८॥
सपर्वतवनद्वीपां मा राजन् विमना भव
।
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च
।
धनानि भोगान् वासांसि द्विजातिभ्यो नृपोत्तम ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि द्रौपदीवाक्ये चतुर्दशोध्यायः ॥१४॥
वैशम्पायन उवाच।
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्
।
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमच्युतम् ॥१॥
याज्ञसेन्या वच इति ॥१॥
अर्जुन उवाच ।
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥२॥
नादण्डः क्षत्रियो भातीति द्रौपद्युक्तिमुपबृंहयति- दण्ड इति ॥२॥
दण्डः संरक्षते धर्मं तथैवार्थं जनाधिप
।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥३॥
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
।
एवं विद्वन्नुपाधत्स्व भावं पश्यस्व लौकिकम् ॥४॥
उपाधत्स्व दण्डमिति शेषः । लौकिकं भावं लोकव्यवहारं पश्यस्व पश्य । यद्वा शोभनश्चासावलौकिकश्च तं भावं शास्त्रैकगम्यमानन्दात्मानमन्तर्दृष्ट्या पश्य बहिश्च दण्डमुपाधत्स्व । तेन सहदेवोक्तोऽर्थः प्रदर्शितो भवति ॥४॥
राजदण्डभयादेके पापाः पापं न कुर्वते
।
यमदण्डभयादेके परलोकभयादपि ॥५॥
परस्परभयादेके पापाः पापं न कुर्वते
।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥६॥
सांसिद्धिके पशुवत् दण्डार्हस्वभावे ॥६॥
दण्डस्यैव भयादेके न खादन्ति परस्परम्
।
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥७॥
यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि
।
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥८॥
दण्डशब्दार्थमाह- यस्मादिति । दमयति ताडनादिना दण्डयति वित्तमपहरति ॥८॥
वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
।
दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥९॥
भुज्यत इति भुजं भक्तं तन्मात्रार्पणं वेतनप्रदानमित्यर्थः । दानं राज्ञे द्रव्यार्पणम् । निर्दण्डः दास्यमेव कारयेन्न त्वस्य दण्डोऽस्ति । शूद्रं तु कारयेद्दास्यमिति मनूक्तेः । एतच्चाल्पापराधे ज्ञेयम् ॥९॥
असंमोहाय मर्त्यानामर्थसंरक्षणाय च
।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥१०॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः
।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥११॥
श्यामः दृढाभिघातेन दण्ड्यस्यांध्यजनकत्वात् । लोहिताक्षो दण्डयितुः क्रोधातिशयात् सूद्यतः सुतरामुद्यतः साधु यथापराधम् ॥११॥
ब्रह्मचारी गृहस्यश्च वानप्रस्थश्च भिक्षुकः
।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥१२॥
नाभीतो यजते राजन्नाभीतो दातुमिच्छति
।
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥१३॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्
।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥१४॥
महतीम् इन्द्रलोकादिं मत्स्यघातीवेत्यनपकारिणामपि वधः कार्य इत्यत्र दृष्टान्तः ॥१४॥
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः
।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥१५॥
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्
।
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥१६॥
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः
।
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥१७॥
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः
।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१८॥
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्
।
जयन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥१९॥
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया
।
सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥२०॥
नकुलो मूषिकानत्ति विडालो नकुलं तथा
।
बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा ॥२१॥
व्यालमृगश्चित्रव्याघ्रः ॥२१॥
तानत्ति पुरुषः सर्वान्पश्य कालो यथागतः
।
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥२२॥
विधानं दैवविहितं तत्र विद्वान्न मुह्यति
।
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥२३॥
यथासृष्टः शौर्यं तेजो धृतिर्दाक्ष्यमित्याद्युक्तस्वभावः क्षत्रियः सृष्टोऽसि धात्रा ॥२३॥
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः
।
विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥२४॥
विनीतौ अपनीतौ क्रोधहर्षौ यैस्ते मन्दाः क्षत्रियाः ॥२४॥
उदके बहवः प्राणाः पृथिव्यां च फलेषु च
।
न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात् ॥२५॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥२६॥
स्कन्धपर्ययः देहस्य विपर्ययः ॥२६॥
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः
।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः॥२७॥
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून्
।
मनुष्यास्तन्वते यज्ञास्ते स्वर्गं प्राप्नुवन्ति च ॥२८॥
दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः
।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥२९॥
ततो दण्डयुक्ता नीतिर्दण्डनीतिस्तस्यां प्रणीतायां प्रवर्तितायाम् ॥२९॥
दण्डश्चैन्न भवेल्लोके विनश्येयुरिमाः प्रजाः
।
जले मत्स्यानिवाभक्ष्यन् दुर्बलान्बलवत्तराः ॥३०॥
अभक्ष्यन् भक्षयेयुः ॥३०॥
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः
।
पश्याग्नयश्च प्रतिशाम्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥३१॥
सन्तर्जिताः फूत्कारेण ॥३१॥
अन्धं तम इवेदं स्यान्न प्राज्ञायत किञ्चन
।
दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥३२॥
येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः
।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥३३॥
भोगाय पालनाय मर्यादाया इति शेषः ॥३३॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः
।
दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्तते ॥३४॥
चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च
।
दण्डो विधात्रा विहितो धर्मार्थौ भुवि रक्षितुम् ॥३५॥
सुनीतिनयनाय विनयप्रापणाय ॥३५॥
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च
।
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥३६॥
न ब्रह्मचार्यधीयीत कल्याणीं न दुहेत गाम्
।
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥३७॥
कल्याणीमपत्यवतीं न दुहेत लोकः । उद्वहनं न गच्छेत् किं तु व्यभिचरेदेव ॥३७॥
विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः
।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥३८॥
विष्वग्लोपः सर्वोच्छेदः सेतवो मर्यादाः ममत्वं परिच्छिन्नं न जानीयुः सर्वः सर्वत्र ममत्वं कुर्यादित्यर्थः ॥३८॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥३९॥
तिष्ठेयुरनुतिष्ठेयुः ॥३९॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः
।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥४०॥
आश्रिता आश्रमिणः ॥४०॥
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः
।
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ॥४१॥
न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित्
।
न तिष्ठेद्युवती धर्मे यदि दण्डो न पालयेत् ॥४२॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः
।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं सुप्रतिष्ठितः ॥४३॥
न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते
।
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥४४॥
हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत्
।
हरेत्काकः पुरोडाशं यदि इण्डो न पालयेत् ॥४५॥
यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः
।
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान् यजस्व च ॥४६॥
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः
।
संवर्षन्तः फलैर्दानैर्भुञ्जानाश्चान्नमुत्तमम् ॥४७॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः
।
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥४८॥
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्
।
अहिंसाऽसाधुहिंसेति श्रेयान् धर्मपरिग्रहः ॥४९॥
गोष्ठप्रविष्टव्याघ्रादेरहिंसा गवामेव हिंसा भवति । अत एतयोर्मध्ये धर्मस्य परिग्रह आर्तत्राणं श्रेयान् ॥४९॥
नात्यन्तं गुणवत्किञ्चिन्न चाप्यत्यन्तनिर्गुणम्
।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा ॥५०॥
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति मस्तकम्
।
वहन्ति बहयो भारान्बध्नन्ति दमयन्ति च ॥५१॥
मस्तकं भिन्दन्ति श्रृङ्गवृद्धिर्माभूदिति । नस्तकानिति पाठे नासिकाः ॥५१॥
एवं पर्याकुले लोके वितथैर्जर्जरीकृते
।
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥५२॥
जर्जरीकृते दण्डेन तदभावे भारवहनादि कार्यं न स्यादतः पुराणमेव धर्ममाचर । न त्वत्र प्रवाहायातं हिंसादिदोषमवेक्षस्वेति भावः ॥५२॥
यज, देहि, प्रजा रक्ष, धर्मं समनुपालय
।
अमित्राञ्जहि कौन्तेय, मित्राणि परिपालय ॥५३॥
मा च ते निघ्नतः शत्रून् मन्युर्भवतु पार्थिव
।
न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत ॥५४॥
मन्युः दैन्यं ॥५४॥
आततायी हि यो हन्यादाततायिनमागतम्
।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति ॥५५॥
आततायी शस्त्रपाणिः मन्युः क्रोधः मन्युं क्रोधमार्छति आ सर्वतः ऋच्छति प्राप्नोति 'मन्युः कर्ता नाहं कर्ता' इति श्रुतेस्तत्र न भ्रूणहा भवतीत्यर्थः ॥५५॥
अवध्यः सर्वभूतानामन्तरात्मा न संशयः
।
अवध्ये चात्मानि कथं वध्यो भवति कस्यचित्
।
यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् ॥५६॥
वस्तुतस्त्ववध्य एव आत्मा देहस्तु शालावदनात्मा तेन देहेन देहे निहते नात्मा हन्ता वा वध्यो वेत्याह- अवध्य इत्यादिना ॥५६॥
एवं जीवः शरीराणि तानि तानि प्रपद्यते ॥५७॥
देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते
।
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः ॥५८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अर्जुनवाक्ये पञ्चदशोऽध्यायः ॥१५॥
वैशम्पायन उवाच।
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
।
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ॥१॥
अर्जुनस्येति । ननु देहश्चेच्छालातुल्यस्तर्हि तत्पीडया कः पीड्यते इत्याशंक्य मन एव पीड्यते नात्मेति वक्तुमयमध्यायः ॥१॥
राजन् विदितधर्मोऽसि न तेऽस्त्यविदितं क्वचित्
।
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥२॥
न च शक्नुमः कर्तुमिति शेषः ॥२॥
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्
।
अतिदुःखात्तु वक्ष्यामि तान्निबोध जनाधिप ॥३॥
भवतः सम्प्रमोहेन सर्वं संशयितं कृतम्
।
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ॥४॥
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
।
मोहमापद्यसे दैन्याद्यथा कापुरुषस्तथा ॥५॥
अगतिश्च गतिश्चैव लोकस्य विदिता तव
।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥६॥
आयत्यामुत्तरकाले तदात्वे वर्तमानकाले अगतिर्दुर्मार्गः गतिः सन्मार्गः ॥६॥
एवं गते महाराज राज्यं प्रति जनाधिप
।
हेतुमत्र प्रवक्ष्यामि तमिहैकमनाः शृणु ॥७॥
राज्यं प्रति हेतुं राज्यं कर्तुं युक्तिम् ॥७॥
द्विविधो जायते व्याधिः शारीरो मानसस्तथा
।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते ॥८॥
देहमनसी दुःखाश्रये न त्वात्मेति ज्ञात्वा सुखेन राज्यं कर्तव्यमिति तात्पर्यम् । निर्द्वन्द्धं शरीरं विना व्याधिर्नास्ति मनो विना आधिर्नास्तीत्यर्थः ॥८॥
शारीराज्जायते व्याधिर्मानसो नात्र संशयः
।
मानसाज्जायते वापि शारीर इति निश्चयः ॥९॥
शारीरं मानसं दुःखं योऽतीतमनुशोचति
।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति ॥१०॥
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः
।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥११॥
शीतोष्णे कफपित्ते वायुर्वातः ॥११॥
तेषामन्यतमोद्रेके विधानमुपदिश्यते
।
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ॥१२॥
विधानं चिकित्सा उष्णेन द्रव्येण ॥१२॥
सत्त्वं रजस्तम इति मानसाः स्युस्त्रयो गुणाः
।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥१३॥
तेषामन्यतमोत्सेके विधानमुपदिश्यते
।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥१४॥
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥१५॥
कश्चिदिति । कश्चिन्मूढो दिव्यस्त्र्यादिसुखकाले नष्टं पुत्रादि स्मरन् शोकेन हर्षं बाधते । कश्चिद्दुःखकालेऽतीतं सुखं स्मरन् हर्षेण शोक बाधते । इदमुभयं देहाद्यभिमानविषयम् ॥१५॥
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य वा
।
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ॥१६॥
त्वं तु शारीरमानसाभ्यामन्यः कालत्रयेऽपि न दुःखी न वा सुखी । अतस्तदुभयस्मरणानर्हत्वात्सुखकाले दुःखं दुःखकाले सुखं वा स्मर्तुं नार्हसि । अथापि चेत्स्मरसि तर्हि दैवमेव बलीय इत्याह सार्धेन - स इति ॥१६॥
स्मर्तुमिच्छसि कौरव्य दिष्टं हि बलवत्तरम्
।
अथवा ते स्वभावोऽयं येन पार्थिव क्लिश्यसे ॥१७॥
अथ ते तव देहादिसङ्घात्ममानिनः स्वभाव एवेति चेत्किं द्रौपदीक्लेशादिकं दुःखं न स्मर्तुमर्हसि अपि तु अर्हस्येवेत्याह-अथवेत्यादिना ॥१७॥
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
।
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥१८॥
प्रव्राजनं च नगरादजिनैश्च विवासनम्
।
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥१९॥
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम्
।
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ॥२०॥
पुनरज्ञातचर्यायां कीचकेन पदा वधम्
।
द्रौपद्या राजपुत्र्याश्च कथं विस्मृतवानसि ॥२१॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम
।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥२२॥
यच्च यथा च ते द्रोणभीष्माभ्याम् । आत्मतुल्याभ्यां सह युद्धमासीत्तत्तथा ते तव चात्मसमेन मनसा एकेन योद्धव्यमुपस्थितमिति योजना । द्रोणादिवन्मनोऽपि त्वत्तोऽन्यदित्याशयः । एकेन निर्विकल्पावस्थेन आत्ममनोनाशो भवतीत्यर्थः ॥२२॥
यत्र नास्ति शरैः कार्यं न मित्रैर्ने च बन्धुभिः
।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥२३॥
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि विमोक्ष्यसे
।
अन्यं देहं समास्थाय ततस्तैरपि योत्स्यसे ॥२४॥
तस्मिन्मनसि वासनातन्तुसन्तानरूपे अनिर्जिते सति देहान्तरेऽपि पूर्वसंस्कारात्तव युध्यतस्तस्य युद्धप्राप्तिरनिवार्येत्याह- तस्मिन्निति ॥२४॥
तस्मादद्यैव गन्तव्यं युद्ध्यस्व भरतर्षभ
।
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः ॥२५॥
तस्मादिति । यस्मादेवं तस्मादद्यैव स्वकर्मभिर्यमाद्यष्टाङ्गैर्व्यक्तं स्थूलशरीरं त्यक्त्वा अव्यक्तरूपस्य मनसः परं शत्रुभूतम् ऐकात्म्यं गन्तव्यं प्राप्तव्यम् । अतो युध्यस्व मनोजयार्थं सन्नद्धो भवेत्यर्थः ॥२५॥
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि
।
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥२६॥
तस्मिन्मनसि कामवस्थामवाच्यामित्यर्थः । एतन्मनः ॥२६॥
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥२७॥
एतां मनोदेहाभ्यामन्यश्चात्मेत्येवंरूपाम् । भूतानामागतिं गतिं च मनसा तादात्म्येन कृतामवेक्ष्य तदपहाय हर्षशोकविमुक्तः सन् राज्यं कुर्वित्यर्थः ॥२७॥
दिष्ट्या दुर्योधनः पापो निहतः सानुनो युधि
।
द्रौपद्याः केशपाशस्य दिष्ट्या त्वं पदवीं गतः ॥२८॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
।
वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ॥२९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि भीष्मवाक्ये षोडशोऽध्यायः ॥१६॥
युधिष्ठिर उवाच।
असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता
।
बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः ॥१॥
असंतोष इति । मनस्तादात्म्यं त्यक्त्वा हर्षविषादशून्यो राज्यं यज्ञांश्च कुर्वित्युक्तम् । तत्र त्यागो वाङ्मात्रेण न भवति किं तु मनोनिरोधेन स च सन्तोषैकाग्र्यविनयवैराग्यशान्तिधैर्यविवेकाहङ्कारत्यागानुद्वेगादिना साध्यः । राज्यं त्वसन्तोषादिमता कर्तव्यमतो राज्याकांक्षी वृथापाण्डित्यं मा कुरु किं तु राज्यं त्यक्त्वा सन्तोषादिनिष्ठ एव भवेति श्लोकद्वयार्थः ॥१॥
एभिः पाप्मभिराविष्टो राज्यं त्वमभिक्षकाङ्क्षसे
।
निराभिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥२॥
य इमामखिलां भूमिं शिष्यादेको महीपतिः
।
तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि ॥३॥
नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ
।
अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ॥४॥
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति
।
अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ॥५॥
इद्धः प्रदीप्तः ॥५॥
आत्मोदरकृते प्राज्ञः करोति विवसं बहु
।
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥६॥
श्रेयसा परलोकजयेनैव पृथिवी जिता भवतीति ते तव जितं जय एवास्तीति भावः ॥६॥
मानुषाङ्कामभोगांस्त्वमैश्वर्यं च प्रशंससि
।
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥७॥
अबलास्तपः कृशाः ॥७॥
योगः क्षेमश्च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ
।
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥८॥
अलब्धलाभो योगः, लब्धसंरक्षणं क्षेमस्तदुभयं धर्माधर्मात्मकसंसाररूपत्वान्महद्भयं तस्मान्मुच्यस्व मुक्तो भव ॥८॥
एकोदरकृते व्याघ्रः करोति विघसं बहु
।
तमन्येऽप्युपजीवन्ति मन्दा लोभवशा मृगाः ॥९॥
एकेति । व्याघ्र इव स्वार्थपर एव राजाऽतो बध्यते पारार्थ्यं त्वस्यानुषङ्गिकं न मोचयितुं क्षममिति भावः ॥९॥
विषयान्प्रतिसङ्गृह्य संन्यासं कुर्वते यदि
।
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥१०॥
विषयानिति । बहिरर्थांस्त्यक्त्वा शान्तः संन्यासी सन्न बध्यत इत्युक्तम् । तत् बुद्ध्यन्तरं बुद्धेर्विपर्ययो यथा तथा पश्य जानीहि ॥१०॥
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा
।
अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ॥११॥
एवं चेत्पत्राहारादिकं मुनयो न कुर्युरिति द्वयोः श्लोकयोर्भावः ॥११॥
यस्त्विमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः
।
तुल्याश्मकाञ्चनो यश्च सकृतार्थो न पार्थिवः ॥१२॥
सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव
।
अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥१३॥
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम्
।
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥१४॥
मनसैव त्यागः कार्य इत्येतन्निरस्यति - निरामिषा इति । अत आत्मानं त्यागीति वदन् मृषावादी भवसीत्यर्थः ॥१४॥
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ
।
ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥१५॥
ईजानाः वर्णाश्रमाद्यभिमानिनः गता इति शेषः । मोक्षिणः निःसङ्गाः ॥१५॥
तपसा ब्रह्मचर्येण स्वाध्यायेन महर्षयः
।
विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः ॥१६॥
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम्
।
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥१७॥
बन्धनं राज्यसङ्गः ताभ्यामामिषाभ्याम् ॥१७॥
अपि गाथां पुरा गीतां जनकेन वदन्त्युत
।
निर्द्धन्द्धेन विमुक्तेन मोक्षं समनुपश्यता ॥१८॥
यत्तु पितृपैतामहं राज्यमित्युक्तं तत्रापि स्वस्यासङ्गं दर्शयति- अपि गाथामिति ॥१८॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन
।
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥१९॥
प्रज्ञाप्रासादमारुह्य अशोच्यां शोचतो जनान्
।
जगतीस्थानिवाद्रिस्थो मन्दबुद्धिर्न चेक्षते ॥२०॥
यत्तूक्तं दिष्ट्या दुर्योधनो हत इति तत्राह- प्रज्ञेति । मन्दत्वादेव प्रज्ञाप्रासादसारोढुमशक्तः । अशोच्यान् स्वर्गतान् दुर्योधनादीन् शोचतस्तद्दारादीन्न पश्यसि । परदुःखेन सुखी भवन्मूर्खोऽसीति भावः ॥२०॥
दृश्यं पश्यति यः पश्यन् स चक्षुष्मान्स बुद्धिमान्
।
आज्ञातानां च विज्ञानात् सम्बोधाद्बुद्धिरुच्यते ॥२१॥
कस्तर्हि बुद्धिमान् इत्यत आह- दृश्यमिति । दृश्यं द्रष्टुं योग्यं कर्तव्यमकर्तव्यं च । अज्ञातं ज्ञापयति तस्य कर्तव्यत्वमकर्तव्यत्वं वा सम्बोधयति सम्यक् निश्चाययत्ति सा बुद्धिस्तद्वान्बुद्धिमान् ॥२१॥
यस्तु वाचं विजानाति बहुमानमियात्स वै
।
ब्रह्मभावप्रपन्नानां वैद्यानां भावितात्मनाम् ॥२२॥
यत्तु एतां बुद्धिं विनिश्चित्येत्युक्तं तत्राह- य इति । यस्तु वैद्यानां विद्यावतां वाचं विजानाति न तु तदर्थं स त्वादृशो बहुमानं इयात् । गुरूनप्युपदेष्टुं योग्यमात्मानं मन्यते न तु तत्त्वं विन्दति ॥२२॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति
।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥२३॥
कस्तर्हि तत्त्वं विन्दतीत्यत आह- यदेति । यदा यस्मिन्काले भूतानां वियदादीनां पृथग्भावं नानात्वम् एकस्थम् एकस्मिन्नात्मनि पर्यवसन्नं विलीनमिति यावत् । घटशरावादीनामिव मृन्मात्रमनुपश्यति शास्त्राचार्योपदेशमनु ध्यानेन साक्षात्करोति तथा तत् एकस्मादेव विस्तारम् उत्पत्तिं च पश्यति तदा ब्रह्म सम्पद्यते तत्त्वं विन्दति ॥२३॥
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पतेजसः
।
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥२४॥
ते बुद्धिमन्तस्तां गतिं ब्रह्मसम्पत्तिं यान्ति न त्वादृशा विद्वांसः शास्त्रमात्राभिज्ञाः यतोऽल्पचेतसः मन्दबुद्धयो बहिर्मुखा इत्यर्थः । कथं तर्हि बुद्धिमन्तो भवन्तीत्यत आह- नाबुद्धयो नातपस इति । ये अतपसो न ते अबुद्धयो न तपसैव बुद्धिः प्राप्यत इत्यर्थः ॥२४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरवाक्ये सप्तदशोध्यायः ॥१७॥
वैशम्पायन उवाच।
तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्
।
संतप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः ॥१॥
तुष्णींभूतमिति ॥१॥
अर्जुन उवाच ।
कथयन्ति पुरावृत्तमितिहासमिमं जनाः
।
विदेहराज्ञः संवादं भार्यया सह भारत ॥२॥
बुद्ध्यर्थं तपोऽनुष्ठातुं वनमेव श्रेय इत्युक्तं तत्र 'कर्मणैव हि संसिद्धिमास्थिता जनकादय' इति उक्ते गृहेऽपि चित्तशुद्धिकरं यज्ञादिकं तपोऽस्तीत्याख्यायिकामुखेन प्रतिपादयिष्यन्नर्जुन उवाच- कथयन्तीति ॥२॥
उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम्
।
विदेहराजमहिषी दुःखिता यदभाषत ॥३॥
धनान्यपत्यं दाराश्च रत्नानि विविधानि च
।
पन्थानं पावकं हित्वा जनको मौढ्यमास्थितः ॥४॥
पावकं यज्ञादिद्वारा शोधकम् ॥४॥
तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिञ्चनम्
।
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ॥५॥
धाना भृष्टयवाः निरीहं वितृष्णम् ॥५॥
तमुवाच समागत्य भर्तारमकुतोभयम्
।
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥६॥
हेतुमत् युक्तियुक्तम् ॥६॥
कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम्
।
कापालीं वृत्तिमास्थाय धानामुष्टिर्न ते वरः ॥७॥
न ते वरः न ते त्वया वरणीयः ॥७॥
प्रतिक्षा तेऽन्यथा राजन् विचेष्ठा चान्यथा तव
।
यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ॥८॥
प्रतिज्ञा सर्वसङ्गं त्यक्ष्यामीत्येवंरूपा स्वल्पेनापि कुण्डिकादिसंग्रहेण नष्टेत्यर्थः ॥८॥
नैतेनातिथयो राजन्देवर्षिपितरस्तथा
।
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥९॥
एतेन धानामुष्टिना ॥९॥
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव
।
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥१०॥
यतो निष्क्रियः अतो देवतादिभिः परित्यक्तः सन्नेव परिव्रजसि ॥१०॥
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः
।
भर्ता भूत्वा च लोकस्य सोऽद्य तैर्भृतिमिच्छसि ॥११॥
भृतिं स्वोदरभरणम् ॥११॥
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे
।
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ॥१२॥
अमी च धर्मकामास्त्वां क्षत्रियाः पर्युपासते
।
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः ॥१३॥
फलहेतुकाः फलार्थिनः ॥१३॥
तांश्च त्वं विफलान्कुर्वन् कं नु लोकं गमिष्यसि
।
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ॥१४॥
परतन्त्रेषु अदृष्टाधीनेषु ॥१४॥
नैव तेऽस्ति परो लोको नापरः पापकर्मणः
।
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥१५॥
स्रजो गन्धानलङ्कारान् वासांसि विविधानि च
।
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रयः ॥१६॥
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्
।
आढ्यो वनस्पतिर्भूत्वा सोऽन्यांस्त्वं पर्युपाससे ॥१७॥
निपीयतेऽस्मिन्स्वेच्छया गोभिर्जलमिति निपानम् आहावः कूपोपान्तस्थक्षुद्रजलाशय इति यावत् तद्वद्भूत्वा तथा आढ्यः फलवान् पक्षिणामाश्रयश्च भूत्वा अन्यान् उदरार्थं कथं पर्युपाससे ॥१७॥
खादन्ति हस्तिनं न्यासैः क्रव्यादा बहवोऽप्युत
।
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥१८॥
हस्तिनमपि न्यासैः सर्वकर्मत्यागैरुपेतं क्रव्यादा मांसादाः खादन्ति अनर्थकं सर्वपुरुषार्थहीनम् ॥१८॥
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च यो हरेत्
।
वासश्चापि हरेत्तस्मिन् कथं ते मानसं भवेत् ॥१९॥
य इमामिति । त्रिविष्टब्धं त्रिदण्डम् ॥१९॥
यस्त्वयं सर्वमुत्सृज्य धानामुष्टेरनुग्रहः
।
यदाऽनेन समं सर्वं किमिदं ह्यवसीयसे ॥२०॥
अवसीयसे अध्यवस्यसि अनेन धानामुष्टिना सर्वं राज्यादिकं समं सङ्गित्वाविशेषात् ॥२०॥
धनामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति
।
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः ॥२१॥
इहार्थम् इति जीवनार्थं बाह्यमप्यर्थं त्यक्तुमशक्तः कथमान्तरान्देहेन्द्रियादींस्त्यक्ष्यसि । तथा च सर्वसंगत्यागप्रतिज्ञा व्यर्थैव किं तर्हि सर्वसंगत्यागरूपमत आह- का वेति । देहेन्द्रियमनोबुद्धिविषयाणां त्यागे शुद्धचिन्मात्रस्य तवाहं च तादृशी का मम त्वं च कः । न ह्यसंगचिन्मात्रयोर्द्वयोः परस्परसम्बन्धोऽस्ति भेदकोपाधेरभावात् एवं सति मयि कश्च तेऽनुग्रहो न कश्चिदित्यर्थः ॥२१॥
प्रशाधि पृथिवीं राजन् यदि तेऽनुग्रहो भवेत्
।
प्रासादं शयनं यानं वासांस्याभरणानि च ॥२२॥
एवमसङ्गस्य तव राज्यं कुर्वतो यथा कथञ्चित्प्रारब्धकर्मावसानपर्यन्तं देहं घारयतः कुण्डिकाद्यपेक्षया राज्यमेव मङ्गलमनुग्राहकमित्याह प्रशाधीत्यादिना ॥२२॥
श्रिया विहीनैरधनैस्त्यक्तमित्रैरकिञ्चनैः
।
सौखिकैः संभृतानर्थान् यः संत्यजति किं नु तत् ॥२३॥
सौखिकैः परमसुखार्थिभिः संन्यासिभिः संभृतानर्थान् कुण्डिकादीन् वीक्ष्य यः स्वयमपि तथा करोति स किं नु तद्राज्यादिकं त्यजति अपि तु नैव त्यजति किं तु उचितं परिग्रहं त्यक्त्वा दैवोपहतत्वादनुचितं परिग्रहान्तरमेव करोतीत्यसंगत्वमस्य दुर्लभमित्यर्थः ॥२३॥
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि
।
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥२४॥
एतदेवाह- य इति ॥२४॥
सदैव याचमानेषु तथा दम्भान्वितेषु च
।
एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ॥२५॥
सदैव याचमानः परिव्राट् ॥२५॥
जातवेदा यथा राजन्नादग्ध्यैवोपशाम्यति
।
सदैव याचमानो हि तथा शाम्यति वै द्विजः ॥२६॥
स च क्लेशान्दग्ध्वैवोपशाम्यति अग्निवदित्याह- जातेति ॥२६॥
सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा
।
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥२७॥
एतच्च गृहस्थाधीनमित्याह- सतामिति । सतां संन्यासिनां प्रकृतिर्जीवनम् ॥२७॥
अन्नाद्गृहस्था लोकेऽस्मिन् भिक्षवस्तत एव च
।
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ॥२८॥
गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः
।
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते ॥२९॥
त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात्
।
ऋजुस्तु योऽर्थं त्यजति न सुखं विद्धि भिक्षुकम् ॥३०॥
असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः
।
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥३१॥
ऋजुत्वमेवाह- असक्त इति ॥३१॥
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः
।
सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ॥३२॥
दानार्थं दानं प्राप्तुं सिता बद्धाः पाशैः मठो मे भुयाच्छिष्यो मे भूयान्मानो मे भूयादित्यादिभिः । आमिषं धनं मठपुस्तकाद्यर्थम् ॥३२॥
त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये
।
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ॥३३॥
अनिष्कषाये काषायमीहार्थमिति विद्धि तम्
।
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मितिः ॥३४॥
अनिष्कषाये रागादिदोषवर्जनाभावे ॥३४॥
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान्
।
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥३५॥
साधून्निष्कषायान् ॥३५॥
अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान्
।
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः ॥३६॥
अर्जुन उवाच ।
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते
।
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः ॥३७॥
एवं धर्ममनुक्रान्ताः सद दानतपःपरा
।
आनृशंस्यगुणोपेताः काम-क्रोधविवर्जिताः॥३८॥
प्रजानां पालने युक्ता दानमुत्तममास्थिताः
।
इष्टाँल्लोकानवाप्स्यामो गुरुवृद्धोपचायिनः ॥३९॥
देवतातिथिभूतानां निर्वपन्तो यथाविधि
।
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ॥४०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अर्जुनवाक्ये अष्टादशोऽध्यायः ॥१८॥
युधिष्ठिर उवाच।
वेदाहं तात शास्त्राणि अपराणि पराणि च
।
उभयं वेदवचनं कुरु कर्म त्यजेति च ॥१॥
अन्तःसङ्गं त्यक्त्वा बहिः कर्म कुर्वित्युक्तं दूषयन् युधिष्ठिर उवाच - वेदेति । अपराणि धर्मशास्त्राणि पराणि ब्रह्मशास्त्राणि 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति त्यजतैव हि 'तज्ज्ञेयम्' इति 'कुरु कर्म त्यज' इति च शास्त्रद्वयं वेद जाने ॥१॥
आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च
।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि ॥२॥
तयोर्निश्चयमप्यहं वेद । विविदिषन्ति यज्ञेन दानेनेत्यादिश्रुतेरात्मवेदनेच्छापर्यन्तं कर्मविधयः ॥२॥
त्वं तु केवलमस्त्रज्ञो वीरव्रतसमन्वितः
।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ॥३॥
'एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति' इति इच्छोत्तरं प्रव्रज्येति कर्मतत्त्यागश्रुत्योर्व्यवस्थामजानंस्त्वं मूर्खोऽसीत्याह- त्वं त्वित्यादिना ॥३॥
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः
।
तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ॥४॥
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया
।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥५॥
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च
।
न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ॥६॥
धर्मं सूक्ष्मतरं वाच्यं तत्र दुष्प्रतरं त्वया
।
धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि ॥७॥
धर्मं धर्मप्रतिपादकं तत्र विषये दुष्प्रतरं दुरवगाहम् ॥७॥
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया
।
संक्षिप्तविस्तरविदां न तेषां वेत्सि निश्चयम् ॥८॥
तपस्त्यागो विधिरिति निश्चयस्त्वेष धीमताम्
।
परस्परं ज्याय एषां येषां नैश्रेयसी मतिः ॥९॥
कस्तर्हि निश्चय इत्यत आह- तप इति अविधिरनिर्देश्यं ब्रह्म ॥९॥
यस्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति
।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥१०॥
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः
।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥११॥
एतेषु तपो विभजते- तप इति ॥११॥
अजातशत्रवो धीरास्तथाऽन्ये वनवासिनः
।
अरण्ये बहवश्चैव साध्यायेन दिवं गताः ॥१२॥
अरण्य इति । अतिजघन्यं तपोऽपि धनाज्ज्यायः किमुत त्यागविधिरिति भावः ॥१२॥
उत्तरेण तु पन्थानमार्या विषयनिग्रहात्
।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥१३॥
त्यागमाह- उत्तरेणेति ॥१३॥
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते
।
एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥१४॥
श्मशानानीति । क्रियावतां जन्ममरणसम्बन्धो दुर्वार इति त्याग एव कर्तव्य इति दर्शितम् ॥१४॥
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः
।
तस्माद्योगः प्रधानेष्टः स तु दुःखं प्रवेदितुम् ॥१५॥
अविधिमाह- अनिर्देश्येति । गतिर्मोक्षः प्रत्यगानन्दरूपः तस्माद्धेतोस्तल्लाभायेत्यर्थः । योगश्चित्तवृत्तिनिरोधः सः प्रधानं च तदिष्टश्च प्रधानेष्टः योगेनव ब्रह्म प्राप्यते नान्यथेत्यर्थः । यदाह दक्षः -
'स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा
।
अयोगी नैव जानाति जात्यन्धो वै यथा घटम्' ॥
इति । स तु दुःखं प्रवेदितुं तुभ्यं ज्ञापयितुम् अशक्यस्तव तत्रानधिकारादित्यर्थः ॥१५॥
अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः
।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥१६॥
अपिर्वार्थे इह वा सारोस्तीह वेति एवमिह चाऽसार इह वेति शास्त्राणि आलोक्य कवयः सारमुपादायासारं परित्यज्य समवस्थिताः सम्यक् निश्चयवन्तो जाता इत्यर्थः ॥१६॥
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च
।
विपाट्य कदलीस्तंभं सारं ददृशिरे न ते ॥१७॥
आरण्यकानि वेदान्तान् ॥१७॥
अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके
।
इच्छा-द्वेषसमासक्तमात्मानं प्राहुरिङ्गितैः ॥१८॥
एकान्तं जनवर्जितं तद्व्युदासेन तत्त्यागेन केचिच्छरीरे स्थितमात्मानम् इच्छादिमन्तं प्राहुः । ममेदं भूयादित्यादिभिरिङ्गितैर्लिङ्गैः ॥१८॥
अग्राह्यं चक्षुषा सूक्ष्ममनिर्देश्यं च तद्गिरा
।
कर्महेतुपुरस्कारं भूतेषु परिवर्तते ॥१९॥
एवं परमतमुपन्यस्य सिद्धान्तमाह- अग्राह्यमिति । चक्षुषा समनस्कैश्चक्षुरादिभिरग्राह्यं यतः सूक्ष्मं गिरा वाऽनिर्देश्यम् । कर्महेतुरविद्या तयैव पुरस्कारो ब्राह्मणोऽहं गृहस्थोऽहमिति चक्षुर्वाग्गोचरत्वं यस्य तत्सूक्ष्ममेव विपरिवर्तते जीवरूपेणास्तीत्यर्थः ॥१९॥
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च
।
कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥२०॥
कल्याणगोचरम् आत्मोन्मुखं निरालम्बनः निरहङ्कारः ॥२०॥
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते
।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥२१॥
सूक्ष्मगम्ये सूक्ष्मया बुद्ध्या गम्ये सद्भिश्च निषेवितेऽन्तरहङ्कारत्यागरूपे सति कथं बाह्यतमान् अर्थान् उपादेयत्वेन प्रशंससि ॥२१॥
पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत
।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥२२॥
पूर्वशास्त्रविदः कर्मकाण्डविदोऽपि एवमर्थमनर्थत्वेन पश्यन्ति किमुत ज्ञानिनः ॥२२॥
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः
।
दृढपूर्वे स्मृता मूढा नैतदस्तीतिवादिनः ॥२३॥
दुरावर्ताः दुःखेनापि सिद्धान्तं ग्राहयितुमशक्याः दृढः पूर्वः प्राग्भावीयः संस्कारो येषां ते दृढपूर्वे । बहुब्रीहावप्यार्षी सूर्वनामता ॥२३॥
अनृतस्यावमन्तारो वक्तारो जनसंसदि
।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥२४॥
पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति
।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः ॥२५॥
हे पार्थ यत् यान् लौकिकानप्यर्थान्न वयं विजानीमस्तान् इतरः को ज्ञातुमर्हति न कोऽपि यथा एवं प्राज्ञा अपि अस्माकमन्येषां च दुर्ज्ञेया इत्यर्थः ॥२५॥
तपसा महदाप्नोति बुध्या वै विन्दते महत्
।
त्यागेन सुखमाप्नोति सदा कौन्तेय तत्त्ववित् ॥२६॥
महद्वैराग्यं महत्परं ब्रह्म तत्त्ववित् तप आदीनामेव ॥२६॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरवाक्ये एकोनविंशतितमोऽध्यायः ॥१९॥
वैशम्पायन उवाच।
एवमुक्तस्तु कौन्तेयो गुडाकेशेन पाण्डवः
।
नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥१॥
एवमुक्त इति ॥१॥
व्यास उवाच ।
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर
।
शास्त्रदृष्टः परो धर्मः स्थितो गार्हस्थ्यमाश्रितः ॥२॥
गार्हस्थ्यं गृहस्थस्यायं गार्हस्थ्यस्तम् ॥२॥
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
।
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥३॥
तव क्षत्रियत्वात् अरण्यं संन्यासः ॥३॥
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा
।
भृत्याश्चैवोपजीवन्ति तान् भरस्व महीपते ॥४॥
वयांसि पशवश्चैव भूतानि च जनाधिप
।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी ॥५॥
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः
।
तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥६॥
दुर्बलानि जितानि च तानि इन्द्रियाणि तैः ॥६॥
वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत्
।
पितृपैतामहं राज्यं धुर्यवद्वोढुमर्हसि ॥७॥
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः
।
ध्यानमेकान्तशीलत्वं तुष्टिर्ज्ञानं च शक्तितः॥८॥
विद्या आत्मनोऽसंगत्वज्ञानम्, ज्ञानं शास्त्रविषयम् ॥८॥
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका
।
क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः ॥९॥
यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति
।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥१०॥
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा
।
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम् ॥११॥
एतानि राज्ञां कर्माणि सुकृतानि विशांपते
।
इमं लोकममुं चैव साधयन्तीति नः श्रुतम् ॥१२॥
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते
।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥१३॥
एता विद्याः क्षत्रियाणां राजन् संसिद्धिकारिकाः
।
अपि गाथामिमां चापि बृहस्पतिरगायत ॥१४॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव
।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१५॥
बिलशयान्मूषिकान् अप्रवासिनं गृहादिसंगिनम् ॥१५॥
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्
।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥१६॥
युधिष्ठिर उवाच।
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः
।
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥१७॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥१८॥
तयोरावसथावास्तां रमणीयौ पृथक पृथक्
।
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥१९॥
बाहुदां नदीमनु तत्समीपे ॥१९॥
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः
।
यदृच्छयाऽथ शङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात् ॥२०॥
सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा
।
फलानि पातयामास सम्यक्परिणतान्युत ॥२१॥
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः
।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥२२॥
विस्रब्धो ममैवैतानीति निश्चयवान् ॥२२॥
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्
।
कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥२३॥
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च
।
इत एव गृहीतानि मयेति प्रहसन्निव ॥२४॥
तमब्रवीत्तथा शङ्खस्तीव्ररोषसमन्वितः
।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥२५॥
इदं भक्षणं कृतम् ॥२५॥
गच्छ राजानमासाद्य स्वकर्म कथयस्व वै
।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम ॥२६॥
हे पार्थिवसत्तम मया अदत्तादानं कृतमिति अस्मै राज्ञे कथयस्वेति सम्बन्धः ॥२६॥
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय
।
शीघ्रं धारय चौरस्य मम दण्डं नराधिप ॥२७॥
इत्युक्तस्तस्य वचनात्सुद्युम्नं स नराधिपम्
।
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥२८॥
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्
।
अभ्यगच्छत्सहामात्यः पद्भ्यामेव जनेश्वरः ॥२९॥
अन्तपालेभ्यः द्वारपालेभ्यः ॥२९॥
तमब्रवीत्समागम्य स राजा धर्मवित्तमम्
।
किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥३०॥
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्
।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥३१॥
करिष्येति सन्धिरार्षः ॥३१॥
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ
।
भक्षितानि महाराज तत्र मां शाधि मा चिरम् ॥३२॥
अनिसृष्टान्यदत्तानि गुरुणा ज्येष्ठभ्रात्रा ॥३२॥
सुद्युम्न उवाच ।
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे
।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥३३॥
यथा दण्डधारणे राजा प्रमाणं तथाऽनुज्ञायां हेतुः प्रमाणम् ॥३३॥
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः
।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥३४॥
शुचिकर्मा मदनुज्ञयैव शोधितदोषः । श्रुतकर्मेति पाठे श्रावितकर्मा । कीर्तनेनापि दोषो नश्यतीत्यर्थः ॥३४॥
व्यास उवाच ।
संच्छाद्यमानो ब्रह्मर्षि पार्थिवेन महात्मना
।
नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥३५॥
ततः स पृथिवीपालो लिखितस्य महात्मनः
।
करौ प्रच्छेदयाप्रास धृतदण्डो जगाम सः ॥३६॥
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्
।
धृतदण्डस्य दुर्बुद्धेर्भवांतत् क्षन्तुमर्हति ॥३७॥
शङ्ख उवाच ।
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम
।
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥३८॥
मम मां मया वा न दूषयसे ते त्वया निष्कृतिः प्रायश्चित्तम् ॥३८॥
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
।
देवान्नृषीन्पितॄंश्चैवं मा चाधर्मे मनः कृथाः ॥३९॥
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा
।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥४०॥
उदकस्यार्थं प्रयोजनम् आचमनादि कर्तुमिति शेषः ॥४०॥
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ
।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥४१॥
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया
।
मा च तेऽत्र विशङ्काऽभूद्दैवमत्र विधीयते ॥४२॥
लिखित उवाच ।
किं तु नाहं त्वया पूतः पूर्वमेव महाद्युते
।
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥४३॥
शङ्ख उवाच ।
एवमेतन्मया कार्यं नाहं दण्डधरस्तव
।
स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥४४॥
व्यास उवाच ।
स राजा पाण्डवश्रेष्ठ श्रेयान्वै तेन कर्मणा
।
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥४५॥
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
।
उत्पथोऽन्यो महाराज मा स्म शोके मनः कृथाः ॥४६॥
भ्रातुरस्य हितं वाक्यं श्रुणु धर्मज्ञ सत्तम
।
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्॥४७॥
आख्यायिकातात्पर्यमाह- दण्ड इति ॥४७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्यासवाक्ये त्रयोविंशोऽध्यायः ॥२३॥
वैशम्पायन उवाच।
पुनरेव महर्षिस्तं कृष्णद्वैपायनो मुनिः
।
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत् ॥१॥
पुनरेवेति ॥१॥
अरण्ये वसतां तात भ्रातॄणां ते मनस्विनाम्
।
मनोरथा महाराज ये तत्रासन् युधिष्ठिर ॥२॥
स्वधर्म इति राज्यं कर्तव्यमित्युक्तं भ्रात्रादीनामानृण्यार्थमपि तत्कर्तव्यमित्याह- अरण्य इत्यादिना ॥२॥
तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः
।
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥३॥
अरण्ये दुःखवसतिरनुभूता तपस्विभिः
।
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै ॥४॥
धर्ममर्थं च कामं च भ्रातृभिः सह भारत
।
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशांपते ॥५॥
अर्थिनां च पितॄणां च देवतानां च भारत
।
आनृण्यं गच्छ कौन्तेय तत्सर्वं च करिष्यति ॥६॥
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन
।
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥७॥
भ्रातॄंश्च सर्वान् क्रतुभिः संयोज्य बहुदक्षिणैः
।
सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ॥८॥
विद्मस्ते पुरुषव्याघ्र वचनं कुरुसत्तम
।
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप ॥९॥
वचनं हिंसाप्रधानः क्षत्रधर्मो मे माऽस्त्वित्येवंरूपम् । हे कुरुसत्तम ॥९॥
आददानस्य विजयं विग्रहं च युधिष्ठिर
।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर ॥१०॥
आददानस्य परस्वापहर्तुः समानधर्मः अविषमो धर्मस्तत्र कुशलाः स्थापयन्ति अवश्यकर्तव्यतया व्यवस्थापयन्ति । हे नरेश्वर नरेश्वरमिति पाठान्तरे विजयादिकं कर्तुमिति शेषः ॥१०॥
देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः
।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ॥११॥
मर्षयते दस्यूनपि न हन्ति एनसा तज्जेन पापेन ॥११॥
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति
।
प्रतिगृह्णाति तत् पापं चतुर्थांशेन भूमिपः ॥१२॥
निबोध च यथा तिष्ठन् धर्मान्न च्यवते नृपः
।
निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः ॥१३॥
आतिष्ठन्निति छेदः । धर्मशास्त्राणां निग्रहादतिलङ्घनाज्जातादधर्माद्धेतोश्च्यवते । तानि अनुरुध्यन्नपेतभीश्च भवति ॥१३॥
काम-क्रोधावनादृत्य पितेव समदर्शनः
।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ॥१४॥
दैवेनाभ्याहतो राजा कर्मकाले महाद्युते
।
न साधयति यत्कर्म न तत्रातुरतिक्रमम् ॥१५॥
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः
।
पापैः सह न सन्दध्याद्राज्यं पुण्यं च कारयेत् ॥१६॥
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर
।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः ॥१७॥
गां वाचं मिमते विचारयन्ति ते गोमिनो ब्रह्मकर्मकाण्डार्थविदो ब्राह्मणाः गोमन्तो वा धनिनो वैश्याः ॥१७॥
व्यवहारेषु धर्मेषु योक्तव्याश्च बहुश्रुताः
।
गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः ॥१८॥
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः
।
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥१९॥
स्तब्धो मान्यानमानयन् अभ्यसूयको गुणेषु दोषदृष्टिः ॥१९॥
ये रक्ष्यमाणा हीयन्ते दैवेनाभ्याहता नृप
।
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्बिषम् ॥२०॥
ये जनाः दैवेन अवर्षणादिना ॥२०॥
सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते
।
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥२१॥
मन्त्रनीतिसहायाद्युपेते पुरुषकारे कृतेऽपि यदि जना हीयन्ते म्रियन्ते वा तर्हि राज्ञोऽधर्मो नास्तीत्यर्थः ॥२१॥
विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः
।
कृते पुरुषाकारं तु नैनः स्पृशति पार्थिवम् ॥२२॥
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्
।
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव ॥२३॥
शत्रून्हत्वा हतस्याजौ शुरस्याक्लिष्टकर्मणः
।
असहायस्य संग्रामे निर्जितस्य युधिष्ठिर॥२४॥
शत्रून्हत्वा प्राप्य ततः शत्रोः सकाशादाजौ हतस्य वधं प्राप्तस्य तत्र हेतुरसहायस्येति ॥२४॥
यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम्
।
कृत्वा कर्म प्राप्य कीर्तिं स युद्धाद्वाजिग्रीवो मोदते स्वर्गलोके ॥२५॥
यत्कर्म कर्तव्यं तत्कर्म कृत्वेति संबन्धः ॥२५॥
संयुक्तात्मां समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः
।
अश्वग्रीवः कर्मशीलो महात्मा संसिद्धार्थो मोदते स्वर्गलोके ॥२६॥
धनुर्यूपो रशना ज्या शरः स्रुक् स्रुवः खड्गो रुधिरं यत्र चाज्यजम्
।
रथो वेदी कामजो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः ॥२७॥
कामजः क्रोधः युद्धमूलभूतोऽग्निः चातुर्होत्रं ब्रह्माद्याः ऋत्विजश्चतुरश्चत्वारः ॥२७॥
हुत्वा तस्मिन्यज्ञवह्नावथारीन् पापान्मुक्तो राजसिंहस्तरस्वी
।
प्राणान् हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके ॥२८॥
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा
।
सर्वाल्लोकान् व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके ॥२९॥
संत्यक्तात्मा त्यक्ताहंकारः ॥२९॥
दैवीं सिद्धिं मानुषीं दण्डनीतिं योगन्यासैः पालयित्वा महीं च
।
तस्माद्राजा धर्मशीलो महात्मा वाजिग्रीवो मोदते देवलोके ॥३०॥
योगः क्रियायामुत्साहो न्यासा अभिमानत्यागास्तैर्युक्तां दैवीं सिद्धिं यज्ञादिक्रियामन्यदीयां मानुषीं च सिद्धिं दण्डनीतिं महीं च पालयित्वेति योजना । स्वयं च यज्ञशीलः ॥३०॥
विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा
।
मेधाविनां विदुषां संमतानां तनुत्यजां लोकमाक्रम्य राजा ॥३१॥
मानुषं लोकमिति संबन्धः तनुत्यजां प्रयागादौ ॥३१॥
सम्यग्वेदान् प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा महात्मा
।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके ॥३२॥
जित्वा संग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्
।
युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणे मोदते देवलोके ॥३३॥
वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्
।
स्वर्गं जित्वा वीरलोकानवाप्य सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्यासवाक्ये चतुर्विंशतितमोऽध्यायः॥२४॥
वैशम्पायन उवाच।
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये
।
व्यासमामंत्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥१॥
द्वैपायनेति । कुपिते राज्यकारणात् ॥१॥
युधिष्ठिर उवाच।
न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः
।
प्रीणयन्ति मनो मेऽद्य शोको मां रुन्धयत्ययम् ॥२॥
रुन्धयति शोकोपहतो गुरूणां बन्धूनां वा वाक्यं न शृणोतीति भावः ॥२॥
श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम्
।
परिदेवयमानानां शान्तिं नोपलभे मुने ॥३॥
वीरविहीनानां पतिहीनानाम् ॥३॥
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः
।
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः ॥४॥
व्यास उवाच ।
न कर्मणा लभ्यते चेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित्
।
पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥५॥
न लभ्यते वीरो इतवीराभिर्वीरपत्नीभिरित्यर्थः । नापि ताभ्यः कश्चित्पतिं दातुं समर्थोऽस्तीत्यर्थः । कालेन लभते न त्वकालेऽतस्तासां पतिलाभकालोऽतीत इति न ताः शोच्याः ॥५॥
न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले
।
मूर्खोऽपि चाप्नोति कदाचिदर्थान् कालो हि कार्यं प्रति निर्विशेषः ॥६॥
विशेषं विगतं शेषम् अस्यास्ति तत् विशेषं पुत्रादिकम् ॥६॥
नाभूतिकालेषु फलं ददन्ति शिल्पानि मन्त्राश्च तथौषधानि
।
तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥७॥
ददन्ति ददते ॥७॥
कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति
।
कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति वनेषु वृक्षाः ॥८॥
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः
।
नाकालतः पुष्पफलं द्रुमाणां नाकालवेगाः सरितो वहन्ति ॥९॥
नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाश्च लोके
।
नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः ॥१०॥
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः
।
नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥११॥
नाकालतो भानुरुपैति योगं नाकालतोऽस्तङ्गिरिमभ्युपैति
।
नाकालतो वर्धते हीयते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥१२॥
अस्तंगिरिं भानुरभ्युपैति ॥१२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥१३॥
सेनजिता पुत्रशोककृतदुःखार्तेन ॥१३॥
सर्वानेवैष पर्यायो मर्त्यान् स्पृशति दुःसहः
।
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः ॥१४॥
पर्यायः कालगतिः ॥१४॥
घ्नन्ति चान्यान्नरान् राजंस्तानप्यन्ये तथा नराः
।
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥१५॥
न हिनस्ति न हन्यते हननस्य कर्ता कर्म वा न भवति तेन कर्त्रात्मवादो देहात्मवादश्च तार्किकलोकायतिकमतौ क्रमेण निरस्तौ ॥१५॥
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः
।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥१६॥
कश्चित्तार्किकः अपरः सांख्यः स्वभावतः चित्सत्तातः भूतानां देहाद्याकाराणां प्रभवाप्ययौ उत्पत्तिनाशौ नियतौ आत्मा न कर्ता नाप्यकर्ता किं तु स्वसत्तामात्रेण महाह्रदतरङ्गाणां मरीचय इव भूतानामुत्पत्तिविनाशयोर्हेतुरिति भावः ॥१६॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृत
।
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत् ॥१७॥
मौढ्यात् ध्यायन्नेवापचितिं प्रतीकारं चरेन्न त्वध्यायन् ॥१७॥
स किं शोचसि मूढः सन् शोच्यान् किमनुशोचसि
।
यस्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥१८॥
शोच्यान् शोकाक्रान्तान्बालविधवया दुहित्रा तुल्यान् दुःखेषु शोकजेषु मनस्तापेषु दुःखानि शिरस्ताडनादीनि दुःखादेर्द्विगुणीकरणं मूढकार्यमित्यर्थः ॥१८॥
आत्मापि चायं न मम सर्वापि पृथिवी मम
।
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति ॥१९॥
मोहनिवृत्तेरविधिमाह- आत्मेति । अयं व्यावहारिक आत्मा अहंप्रत्ययविषयः सोऽपि मम स्वरूपं न मत्तः पृथग्भूतत्वात् सर्वा पृथिवीति सर्वप्रपञ्चोपलक्षणं सर्वं वा ममैव स्वरूपम् । यथाहं सर्वस्मादन्यः सर्वात्मा च तथाऽन्येऽपीत्याह - यथेति । एवमद्वैतात्मत्तत्त्वं पश्यन्न मुह्यतीत्यर्थः । तथा च श्रुतिः 'तरति शोकमात्मवित्' इति ॥१९॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च
।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥२०॥
एवमेतानि कालेन प्रियद्वेष्याणि भागशः
।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥२१॥
यानि प्रियाणि तान्येव काले दुःखानि भवन्ति । यानि द्वेष्याणि तान्येव सुखानि तस्माद्वातजडस्य ताडनमिव सर्वदुःखमेव मोहात्सुखवद्विभातीत्यर्थः ॥२१॥
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते
।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥२२॥
तृष्णाया याऽऽर्तिरनवस्थितचित्तता तज्जं दुःखं दुःखस्यार्तिर्विनाशस्तज्जं सुखम् ॥२२॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥२३॥
सन्ततेयं सुखदुःखधारा इत्यतस्त्याज्यैवेत्याह- सुखस्येत्यादिना ॥२३॥
सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम्
।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥२४॥
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्
।
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्छितः॥२५॥
दुःखमूर्छितः दुःखेन वर्धितः । एकाङ्गमपि सर्पदष्टाङ्गुष्ठवत् त्यजेत् किमुत बाह्यं राज्यादीति भावः ॥२५॥
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत्
।
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्
।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥२६॥
हृदयेन शोकमूलेन ॥२६॥
ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम्
।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च ॥२७॥
प्रियम् आचरन्कुर्वन्केन हेतुना कथं केन प्रकारेण कस्य सम्बन्धीति ज्ञास्यसि ॥२७॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः
।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥२८॥
मूढतमाः प्रसुप्तनरवज्जडाः बुद्धेः परं ब्रह्म गताः प्राप्ताः अतस्त्वमधमस्तु न भवसि मध्यमोऽपि मा भूरित्यर्थः ॥२८॥
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्
।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥२९॥
येन दुःखेन यो दुःखी न स जातु सुखी भवेत्
।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥३०॥
येन तृष्णादिनिमित्तेन ॥३०॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च
।
पर्यायतः सर्वमवाप्नुवन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥३१॥
भवाभवौ ऐश्वर्यानैश्वर्ये ॥३१॥
दीक्षां राज्ञः संयुगे युद्धमाहुर्योगं राज्ये दण्डनीत्यां च सम्यक्
।
वित्तत्यागो दक्षिणानां च यज्ञे सम्यग्दानं पावनानीति विद्यात् ॥३२॥
दीक्षामिति । राज्ञो यागयोगसंन्यासस्थानीयाः युद्धं, पालनं, क्रतौ वित्तत्यागश्चेति तान्येवास्य पावनानीत्यर्थः ॥३२॥
रक्षन् राज्यं बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा
।
सर्वोंल्लोकान् धर्मदृष्ट्या चरंश्चाप्यूर्ध्वं देहान्मोदते देवलोके ॥३३॥
संत्यक्तात्मा निरहङ्कारः ॥३३॥
जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च
।
युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोक ॥३४॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा च राजा
।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके ॥३५॥
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः
।
पौरजानपदामात्याः स राजा राजसत्तमः ॥३६॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सेनजिदुपाख्याने पञ्चविंशोऽध्यायः॥२५॥
वैशम्पायन उवाच।
अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः
।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः॥१॥
अस्मिन्नेवेति ॥१॥
यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति
।
न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा ॥२॥
स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः
।
तपोरताश्च मुनयो येषां लोकाः सनातनाः॥३॥
ऋषीणां समयं शश्वद्ये रक्षन्ति धनञ्जय
।
आश्रिताः सर्वधर्मज्ञा देवास्तान्ब्राह्मणान्विदुः॥४॥
समयमध्ययनसंप्रदायस्याविच्छेदम् आश्रिता आश्रमिणः ब्रह्मचारिण इत्यर्थः ॥४॥
स्वाध्यायनिष्ठान् हि ऋषीन् ज्ञाननिष्ठांस्तथापरान्
।
बुद्ध्येथाः सन्ततं चापि धर्मनिष्ठान् धनञ्जय ॥५॥
ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव
।
वैखानसानां वचनं यथा नो विदितं प्रभो ॥६॥
कार्याणि राजकार्याणि प्रतिष्ठाप्यानि तद्वचसाऽनुष्ठेयानीत्यर्थः । तथाहि । धर्माधर्मनिर्णयार्थं पर्षदमुपक्रम्य एको वाऽध्यात्मवित्तम इति स्मरन्ति । पर्षत्त्वेन वरणीय इति शेषः। कव्यानीति पाठे पित्र्याणि हवींषि ज्ञाननिष्ठेभ्य एव देयानीत्यर्थः । ज्ञाननिष्ठेषु कव्यानि प्रतिपाद्यानि इत्येव वैखानसानां वानप्रस्थानां वचनम् ॥६॥
अजाश्च पृश्नयश्चैव सिकताश्चैव भारत
।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥७॥
अजादयो वालखिल्यवदृषीणां गणविशेषाः ॥७॥
अवाप्यैतानि कर्माणि वेदोक्तानि धनञ्जय
।
दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः ॥८॥
दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः
।
एतान् क्रियावतां लोकानुक्तवान्पूर्वमप्यहम् ॥९॥
एतान् द्युरूपान् क्रियावतां कर्मिणाम् ॥९॥
उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि
।
एते यागवतां लोका भान्ति पार्थ सनातनाः ॥१०॥
उत्तरेण उत्तरतः स्थितम् ॥१०॥
तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः
।
सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् ॥११॥
गतिद्वयादप्यधिकमाह- संतोष इति । संतोषः परं वैराग्यम् । परमं सुखं कैवल्यम् ॥११॥
तुष्टेर्न किञ्चित्परमं सा सम्यक् प्रतितिष्ठति
।
विनीतक्रोधहर्षस्य सततं सिद्धिरुत्तमा ॥१२॥
सा तुष्टिः परमवैराग्याभिधा उत्तमा सिद्धिः विनीतक्रोधहर्षस्य क्रोधादिजयिनः सम्यक् प्रतितिष्ठति इतरस्य तु नेत्यर्थः ॥१२॥
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना
।
योऽभिप्रेत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः ॥१३॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥१४॥
यदा न भावं कुरुते सर्वभूतेषु पापकम्
।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१५॥
विनीतमानमोहश्च बहुसङ्गविवर्जितः
।
तदाऽऽत्मज्योतिषः साधोर्निर्वाणमुपपद्यते ॥१६॥
आत्मज्योतिषः आत्मज्ञस्य निर्वाणं मोक्षः ॥१६॥
इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः
।
धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे ॥१७॥
वृत्तं शीलं ईहन्ति ईहन्ते ॥१७॥
धनहेतोर्य ईहेत तस्यानीहा गरीयसी
।
भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥१८॥
धनहेतोः धर्माय वित्तस्यार्जने इति शेषः । तदाश्रयो धर्मो यज्ञादिस्तस्मिन्नपि भूयान्दोषोऽस्ति ॥१८॥
प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि
।
वर्जनं वर्जनीयानामीहमानेन दुष्करम् ॥१९॥
इहमानेन धनार्थिना ॥१९॥
ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्
।
द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम् ॥२०॥
सम्यक्त्वं साधुकर्म द्रुह्यतः द्रोहयुक्तानेव तद्धनं प्रैति न त्वद्रोहानिति प्राहुः हिंसां विना धनप्राप्तिर्नास्तीत्यर्थः । प्राप्तमपि यथायथं सर्वथा प्रतिकूलं नानाभयहेतुत्वात् ॥२०॥
यस्तु सम्भिन्नवृत्तः स्याद्वीतशोकभयो नरः
।
अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते ॥२१॥
संभिन्नवृत्तः संकीर्णस्वभावः वतिं गतं भाविशोकजं भय यस्मात्स वीतशोकमयः । अल्पेन धनेन हेतुना तृषितः तृष्णावान् सन् द्रुह्यन् तेन द्रोहेण जायमानां ब्रह्महत्यां न बुध्यते । लोभी अल्पार्थेऽपि ब्रह्महत्याम् अर्जयतीत्यर्थः ॥२१॥
दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव
।
दुर्लभं च धनं प्राप्य भृशं दत्त्वाऽनुतप्यते ॥२२॥
दुर्लभं धनं प्राप्यानुकूलेभ्योऽपि भृत्येभ्यो दत्वा दस्युभयादिव भृशमनुतप्यत इतिः संबन्धः । वित्तव्यय महद्दुःखं भवतीत्यर्थः ॥२२॥
अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी
।
देवस्वमुपगृह्यैव धनेन न सुखी भवेत् ॥२३॥
देवस्वं तथा 'त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत्' इति स्मृतेरल्पमपि सञ्चितं धनं देवस्वमेव । तदापि उपसंगृह्य देवेभ्योऽदत्वैव न तेन तावतापि सुखी भवेत्किं तु 'लाभाल्लोभः प्रवर्तते' इति न्यायेन तृष्णाधिक्याद्दुःखमेवानुभवतीत्यर्थः ॥२३॥
तत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः
।
त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम् ॥२४॥
गाथां वैदिकजने यज्ञप्रतिष्ठाकरीम् ॥२४॥
यज्ञाय सृष्टानि धनानि धात्रा यज्ञाय सृष्टः पुरुषो रक्षिता च
।
तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं न कामाय हितं प्रशस्तम् ॥२५॥
तामाह-यज्ञायेति ॥२५॥
एतत्स्वार्थे च कौन्तेय धनं धनवतां वर
।
धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत् ॥२६॥
एतद्धनं स्वार्थे चाद्यज्ञार्थेऽपि ॥२६॥
तस्माद्बुद्ध्यन्ति पुरुषा न हि तत्कस्यचिद्ध्रुवम्
।
श्रद्धाधानस्ततो लोको दद्याच्चैव यजेत च ॥२७॥
तस्मादिति । धनस्वाम्यं तस्यापि नास्तीत्यर्थः । तथा च श्रुतिः 'मा गृधः कस्यस्विद्धनम्' इति । फलितमाह- श्रद्दधान इति ॥२७॥
लब्धस्य त्यागमित्याहुर्न भोगं न च संक्षयम्
।
तस्य किं सञ्चयेनार्थः कार्ये ज्यायसि तिष्ठति ॥२८॥
इत्याहुः प्रशस्तमाहुरित्यर्थः । कार्ये त्यागरूपे ॥२८॥
ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः
।
शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः ॥२९॥
अपात्रे धनं न देयमित्याह- य इति ॥२९॥
अनर्हते यद्ददाति न ददाति यदर्हते
।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥३०॥
लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ
।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥३१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरवाक्ये षड्विंशोऽध्यायः ॥२६॥
युधिष्ठिर उवाच।
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च
।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥१॥
अभिमन्याविति ॥१॥
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे
।
तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥२॥
वृषसेने कर्णे । पाठान्तरे वसुषेणोऽपि स एव ॥२॥
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम्
।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम् ॥३॥
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम्
।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः ॥४॥
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः
।
कम्पमानं यथा वज्रैः प्रेक्ष्यमाणं शिखण्डिना ॥५॥
जीर्णसिंहमिव प्रांशुं नरसिंहं पितामहम्
।
कीर्यमाणं शरैर्दृष्ट्वा भृशं मे व्यथितं मनः ॥६॥
प्राङ्मुखं सीदमानं च रथे पररथारुजम्
।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥७॥
पररथारुजं पररथानां पीडकम् ॥७॥
यः स बाणधनुष्पाणिर्योधयामास भार्गवम्
।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥८॥
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः
।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥९॥
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः
।
दग्धश्चास्त्रप्रतापेन स मया युधि घातितः ॥१०॥
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्
।
न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥११॥
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्
।
तदैवाविशदत्युग्रो ज्वरो मां मुनिसत्तम ॥१२॥
येन संवर्धिता बाला येन स्म परिरक्षिताः
।
स मया राज्यलुब्धेन पापेन गुरुघातिना ॥१३॥
अल्पकालस्य राज्यस्य कृते मूढेन घातितः
।
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः
।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥१४॥
तन्मे दहति गात्राणि यन्मां गुरुरभाषत
।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः ॥१५॥
सत्यामामर्षयन् विप्रो मयि तत्परिपृष्टवान्
।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया ॥१६॥
आमर्शयन् निश्चिन्वन् ॥१६॥
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना
।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे ॥१७॥
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते
।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम् ॥१८॥
अघातयं च यत्कर्णं समरेष्वपलायिनम् ॥१९॥
ज्येष्ठभ्रातरमत्युग्रं को मत्तः पापकृत्तमः
।
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु ॥२०॥
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्
।
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् ॥२१॥
कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा
।
द्रौपदीं चापि दुःखार्तां पञ्चपुत्रैर्विनाकृताम् ॥२२॥
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव
।
सोऽहमागस्करः पापः पृथिवीनाशकारकः ॥२३॥
आसीन एवमेवेदं शोषयिष्ये कलेवरम्
।
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम् ॥२४॥
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्
।
न भोक्ष्ये न च पानीयमुपभोक्ष्ये कथञ्चन ॥२५॥
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः
।
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः ॥२६॥
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्
।
वैशम्पायन उवाच।
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ॥२७॥
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥२८॥
व्यास उवाच ।
अतिवेलं महाराज न शोकं कर्तुमर्हसि
।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो ॥२९॥
अतिवेलमत्यर्थम् ॥२९॥
संयोगा विप्रयोगान्ता जातानां प्राणिनां ध्रुवम्
।
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥३०॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥३१॥
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्
।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥३२॥
आलस्यं तत्काले सुखमपि दुःखान्तं, दाक्ष्यं तत्काले दुःखमपि सुखोदयम् । भूतिः अणिमादिः ॥३२॥
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
।
न च प्रजालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥३३॥
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु
।
अत एव हि सिद्धिस्ते नेशस्त्वं कर्मणां नृप ॥३४॥
अत एव कर्मभ्य एव कर्मणां त्यागे त्वं नेशो न प्रभुः ॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्यासवाक्ये सप्तविंशतितमोऽध्यायः ॥२७॥
वैशम्पायन उवाच।
ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः
।
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥१॥
ज्ञातीति । अभ्युत्सिसृक्षतः त्यतुमिच्छतः ॥१॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥२॥
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः
।
संशयं परिपप्रच्छ दुःखशोकसमन्वितः ॥३॥
जनक उवाच ।
आगमे यदि वाऽपाये ज्ञातीनां द्रविणस्य च
।
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥४॥
कल्याणमिच्छता सुखादिकं कथं प्रतिपत्तव्यं केन प्रकारेण इष्टत्वेन अनिष्टत्वेन उदासीनत्वेन वा ज्ञातव्यम् ॥४॥
अश्मोवाच ।
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः
।
तानि तान्यनुवर्तन्ते दुःखानि च सुखानि च ॥५॥
आत्मानं देहम् उत्पन्नमनु अनन्तरम् अव्यवधानेनैव देहस्वभावप्राप्ते सुखादौ हर्षविषादौ न कुर्वीत, किं तु उदासीतैवेति भावः ॥५॥
तेषामन्यतरापत्तौ यद्यदेवोपपद्यते
।
तदस्य चेतनामाशु हरत्यभ्रमिवानिलः ॥६॥
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः
।
इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥७॥
प्रसिच्यते क्लिन्नं श्वथं भवतीत्यर्थः ॥७॥
सम्प्रसक्तमना भोगान् विसृज्य पितृसंचितान्
।
परिक्षीणः परस्वानामादानं साधु मन्यते ॥८॥
भोगान् भोग्यार्थान् धनादीन् विसृज्य भोगेन नटनर्तकादिद्वारा व्ययीकृत्य, आदानं चौर्यं साधु हितम् ॥८॥
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम्
।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥९॥
असांप्रतमयुक्तं यथा स्यात्तथा इषुभिः प्रतिषेधन्ति निघ्नन्तीत्यर्थः । लुब्धा व्याधाः ॥९॥
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः
।
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥१०॥
ये चोरास्ते परेण विंशत्यादिवर्षादूर्ध्वं वर्षशतात् शतवर्षपर्यन्तं न भविष्यन्ति न जीविष्यन्ति । चौर्यप्रसक्ताः सद्य एव मार्यन्त इत्यर्थः ॥१०॥
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्
।
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥११॥
तेषां दारिद्र्योत्थानां भैषज्यं प्रतीकारं तमेवाह- सर्वेति । 'दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान् । आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत्' इति भावः ॥११॥
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः
।
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥१२॥
विभ्रमो विपर्यासः अनिष्टेऽपीष्टबुद्धिरिष्टे चानिष्टबुद्धिरिति अनिष्टं पुत्रशोकादि तत्प्राप्तिर्वा ॥१२॥
एवमेतानि दुःखानि तानि तानीह मानवम्
।
विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि ॥१३॥
संस्पर्शजानि विषयसङ्गजानि ॥१३॥
जरामृत्यू हि भूतानां खादितारौ वृकाविव
।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥१४॥
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः
।
अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ॥१५॥
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्
।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥१६॥
प्राप्तव्यं भोक्तव्यम् ॥१६॥
पूर्वे वयसि मध्ये वाऽप्युत्तरे वा नराधिप
।
अवर्जनीयास्तेऽर्था वै कांक्षिता ये ततोऽन्यथा ॥१७॥
तेऽर्था जरादयः पदार्थाः ततोऽन्यथाऽजरत्यादिरूपेण ये मनुष्यस्य कांक्षिता इष्टाः ॥१७॥
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः
।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥१८॥
विधानमदृष्टम् ॥१८॥
प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च
।
प्राप्तिर्व्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥१९॥
प्राप्तिर्लाभो व्यायामः श्रमः अलाभ इति यावत्, तयोर्योगः प्रतिष्ठितं विधानमित्यनुषज्यते ॥१९॥
गन्ध-वर्ण-रस-स्पर्शा निवर्तन्ते स्वभावतः
।
तथैव सुखदुःखानि विधानमनुवर्तते ॥२०॥
गन्धेति । फलस्था गन्धादयो निवर्तन्ते पूर्वे पूर्वे उत्तरे उत्तरे उपयान्ति तथैव सुखादीनि अप्रत्याख्येयानि अनुसृत्य वर्तते विद्वान् ॥२०॥
आसनं शयनं यानमुत्थानं पानभोजनम्
।
नियतं सर्वभूतानां कालेनैव भवत्युत ॥२१॥
वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः
।
श्रीमन्तश्चापरे षण्ढा विचित्रः कालपर्ययः ॥२२॥
कुले जन्म, तथा वीर्यमारोग्यं रूपमेव च
।
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥२३॥
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्
।
नास्तिः पुत्रः समृद्धानां विचित्रं विधिचेष्टिम् ॥२४॥
व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम्
।
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा ॥२५॥
बुभुक्षाः क्षुत्प्रभृतयः ॥२५॥
निर्माणे यस्य यद्दिष्टं तेन गच्छति सेतुना
।
दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः ॥२६॥
निर्माणेऽदृष्टे सेतुना कर्ममर्यादया अतिक्रामन्नतिपापी अनिष्कान्तो न दृश्यते किं तु पापेन सद्यो बध्यत एव कश्चित्तु निग्राह्यो न भवतीत्यपि दृश्यते ॥२६॥
दृश्यते चाप्यतिक्रामन्न निग्राह्योऽथवा पुनः
।
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः
।
दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः ॥२७॥
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः
।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥२८॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते
।
काष्ठान्यपि हि जीर्यन्ते दरिद्राणां च सर्वशः ॥२९॥
अहमेतत्करोमीति मन्यते कालनोदितः
।
यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरेत् ॥३०॥
मृगयाऽक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः
।
दृश्यन्ते पुरुषाश्चात्र सम्प्रयुक्ता बहुश्रुताः ॥३१॥
प्रसङ्गात् युद्धविवादादयः । अत्र मृगयादौ ॥३१॥
इति कालेन सर्वार्थानीप्सितानीप्सितानिह
।
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥३२॥
इह निमित्तं नोपलभामहे किंतु अदृष्टनिमित्तमेव तदित्यर्थः ॥३२॥
वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे
।
ज्योतींषि सरितः शैलान् कः करोति बिभर्ति च ॥३३॥
यथा वाय्वादिरीशकृतत्वादविनाश्य एवं दुःखमपीत्याह- वायुमित्यादिना ॥३३॥
शीतमुष्णं तथा वर्षं कालेन परिवर्तते
।
एवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥३४॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः
।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम् ॥३५॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥३६॥
ये चैव पुरुषाः स्त्रीभिर्गीतवाद्यैरुपस्थिताः
।
य चानाथाः परान्नादा: कालस्तेषु समक्रियः ॥३७॥
उपस्थिताः सेविताः कालो मृत्युः ॥३७॥
मातापितृसहस्राणि पुत्रदारशतानि च
।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥३८॥
नैवास्य कश्चिद्भविता नायं भवति कस्यचित्
।
पथि सङ्गतमेवेदं दारबन्धुसुहृज्जनैः ॥३९॥
पथि मार्गे अन्यैरिवेह दारादिभिः सङ्गतं ज्ञेयम् ॥३९॥
क्वासे क्व च गमिष्यामि को न्वहं किमिहास्थितः
।
कस्मात्किमनुशोचेयमित्येवं स्थापयेन्मनः ॥४०॥
स्थापयेद्विचारे इति शेषः ॥४०॥
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ
।
पथि सङ्गतमेवैतद्भ्राता माता पिता सखा ॥४१॥
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः
।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥४२॥
एवमिष्टवियोगे शोको न कार्य इत्युक्त्वाऽमुत्र नरकपातभयादपि शोको न कार्य इत्याह- न दृष्टपूर्वमित्यादिना । आगमैकगम्यः परलोकः आगमे च युद्धे शत्रुघातिनां स नश्यतीति न दृष्टमतो वृथैव ते शोक इत्यर्थः ॥४२॥
कुर्वीत पितृदैवत्यं धर्म्याणि च समाचरेत्
।
यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्युपाचरेत् ॥४३॥
धर्म्याणि धमोवहानि ॥४३॥
सन्निमज्जेज्जगदिदं गम्भीरे कालसागरे
।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥४४॥
आयुर्वेदमधीयानाः केवलं सपरिग्रहाः
।
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥४५॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च
।
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥४६॥
रसायनविदश्चैव सुप्रयुक्तरसायनाः
।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥४७॥
नागाः गजाः उत्तमैर्बलिष्ठैः ॥४७॥
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः
।
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥४८॥
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः
।
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ॥४९॥
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः
।
नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ॥५०॥
अध्वानं संसारमार्गम् । अवश इति च्छेदः ॥५०॥
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः
।
पथि सङ्गममभ्येति दारैरन्यैश्च बन्धुभिः ॥५१॥
अभ्येति - आविर्भवति नित्यात्मपक्षे जीवाद्देहोत्पत्तिरनित्यात्मपक्षे देहाज्जीवोत्पत्तिर्वा भवतु सर्वथा दारादिसङ्गमः पान्थसङ्गमतुल्य एवेत्यर्थः ॥५१॥
नायमत्यन्तसंवासो लभ्यते जातु केनचित्
।
अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥५२॥
संवासः सहावस्थानम् ॥५२॥
क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहाः
।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ ॥५३॥
न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च
।
आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥५४॥
चरितब्रह्मचर्यो हि प्रजायेत यजेत च
।
पितृ-देव-मनुष्याणामानृण्यादनसूयकः ॥५५॥
प्रजायेत पुत्रादीनुत्पादयेत् आनृण्याद्धेतोः ॥५५॥
स यज्ञशीलः प्रजने निविष्टः प्राग्ब्रह्मचारी प्रविविक्तचक्षुः
।
आराधयेत्स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम् ॥५६॥
प्रजने प्रजोत्पादने हृदयव्यलीकं हृत्स्थम् अप्रियं शोकमनृतं वा ममत्वाद्यध्यासं मुक्त्वा स्वर्गम् इमं च लोकं परं परमात्मानं वा आराधयेत् ॥५६॥
समं हि धर्मं चरतो नृपस्य द्रव्याणि चाभ्याहरतो यथावत्
।
प्रवृत्तधर्मस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु ॥५७॥
समं रागद्वेषवर्जं यथा स्यात्तथा धर्मं चरतः ॥५७॥
इत्येवमाज्ञाय विदेहराजो वाक्यं समग्रं परिपूर्णहेतुः
।
अश्मानमामंत्र्य विशुद्धबुद्धिर्ययौ गृहं स्वं प्रति शान्तशोकः ॥५८॥
तथा त्वमप्यच्युत मुञ्च शोकमुत्तिष्ठ शक्रोपम हर्षमेहि
।
क्षात्रेण धर्मेण मही जिता ते तां भुङ्क्ष्व कुन्तीसुत मावमंस्थाः ॥५९॥
हे अच्युतेति । स्वधर्मान्न च्युतोऽसीत्यर्थः ते त्वया ॥५९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्यासवाक्ये अष्टाविंशोऽध्यायः ॥२८॥
वैशम्पायन उवाच।
अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे
।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥१॥
अव्याहरतीति । अव्याहरति हेत्वभावेऽपि शोको बाधते इति विस्मयात् मौनमास्थिते ॥१॥
अर्जुन उवाच ।
ज्ञातिशोकाभिसन्तप्तो धर्मपुत्रः परन्तपः
।
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥२॥
सर्वे स्म ते संशयिताः पुनरेव जनार्दन
।
अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ॥३॥
ते वयम् ॥३॥
वैशम्पायन उवाच।
एवमुक्तस्तु गोविन्दो विजयेन महात्मना
।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥४॥
पर्यवर्तत अभिमुखोऽभूत् ॥४॥
अनतिक्रमणीयो हि धर्मराजस्य केशवः
।
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ॥५॥
सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्
।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥६॥
भुजं राज्ञः संप्रगृह्य हस्ते धृत्वा ॥६॥
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्
।
व्याकोशमिव विस्पष्टं पद्मं सूर्य इवोदिते ॥७॥
व्याकोशं विकसितम् ॥७॥
वासुदेव उवाच ।
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम्
।
न हि ते सुलभा भूयो ये हताऽस्मिन् रणाजिरे ॥८॥
हताः अस्मिन्सन्धिरार्षः ॥८॥
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने
।
एवं ते क्षत्रिया राजन् ये व्यतीता महारणे ॥९॥
लाभाः अर्थाः ॥९॥
सर्वेप्यभिमुखाः शूरा विजिता रणशोभिन:
।
नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ॥१०॥
सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे
।
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि ॥११॥
क्षत्रधर्मरताः शूराः वेदवेदाङ्गपारगाः
।
प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि ॥१२॥
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्
।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥१३॥
मृतान्महानुभावान् श्रुत्वा तान्बन्धून् शोचितुं नार्हसीति सम्बन्धः ॥१३॥
सञ्जयं पुत्रशोकार्तं यथायं नारदोऽब्रवीत्
।
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सञ्जय ॥१४॥
सृञ्जयस्य पुत्रः सहदेवस्तस्य शोकेनार्तं सहदेवाय सार्जयायेति ब्राह्मणात् ॥१४॥
अविमुक्ता मरिष्यामस्तत्र का परिदेवना
।
महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु ॥१५॥
अविमुक्ता इति । मरणेऽपि सुखादेर्वियोगो नास्तीति प्रायोपवेशनं व्यर्थमिति भावः । महाभाग्यं माहात्म्यम् ॥१५॥
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि
।
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ॥१६॥
शममानय सन्तापं शृणु विस्तरशश्च मे
।
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् ॥१७॥
आविक्षितं मरुत्तं च मृतं सञ्जय शुश्रुम ॥१८॥
उपादानम् उपादातुं श्रोतुं योग्यम् ॥१८॥
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः
।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥१९॥
ईयुः प्रत्यक्षमागतवन्तः ॥१९॥
यः स्पर्धयाऽयजच्छक्रं देवराजं पुरन्दरम्
।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥२०॥
यागं मा कुर्विति प्रत्याचष्ट प्रत्याख्यातवान् ॥२०॥
संवर्तो याजयामास यवीयान्स बृहस्पतेः
।
यस्मिन्प्रशासति महीं नृपतौ राजसत्तम
।
अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥२१॥
आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः
।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥२२॥
'मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे
।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासदः'
।
इति श्रुतेरर्थं दर्शयति - आविक्षितस्येति ॥२२॥
मरुद्गणा मरुत्तस्य यत्सोममपिबंस्ततः
।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥२३॥
अत्यरिच्यन्त एभ्यो याः दक्षिणा दत्तास्तास्तैर्वोढुमशक्या जाता इत्यर्थः ॥२३॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥२४॥
चतुर्भद्रतरः चत्वारि धर्मज्ञानवैराग्यैश्वर्याख्यानि भद्राणि यस्मिन्स चतुर्भद्रः । त्वया अवधिभूतेन त्वत्तोऽतिशयेन चतुर्भद्र इत्यर्थः ॥२४॥
सुहोत्रं चैवातिथिनं मृतं सञ्जय शुश्रुम
।
यस्मिन्हिरण्यं ववृषे मघवा परिवत्सरम् ॥२५॥
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिपम्
।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥२६॥
कूर्मान्कर्कटकान्नक्रान्मकरांञ्छिशुकानपि
।
नदीष्वपातयद्राजन्मघवा लोकपूजितः ॥२७॥
हिरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान्
।
सहस्रशोऽथ शतशस्ततोऽस्मयदथोऽतिथिः ॥२८॥
तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले
।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत् ॥२९॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥३०॥
अङ्गं बृहद्रथं चैव मृतं सञ्जय शुश्रुम ॥३१॥
चेत्यचेतनावान्भव जानीहीत्यर्थः । संशाम्य ज्ञात्वा शान्तो भवेत्यर्थः ॥३१॥
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत्
।
सहस्रं च सहस्राणां कन्या हेमपरिष्कृताः ॥३२॥
अवासृजत् यज्ञार्थमुत्सृष्टवान् ॥३२॥
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
।
यः सहस्रं सहस्राणां गजानामतिपद्मिनाम् ॥३३॥
अत्यकालयत् दत्तवान् ॥३३॥
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
।
शतं शतसहस्राणि वृषाणां हेममालिनाम् ॥३४॥
गवां सहस्रानुचरं दक्षिणामत्यकालयत्
।
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ॥३५॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
।
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुरा ॥३६॥
देवान्मनुष्यान् गन्धर्वानत्यरिच्यन्त दक्षिणाः
।
न जातो जनिता नान्यः पुमान्यः सम्प्रदास्यति ॥३७॥
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु
।
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया ॥३८॥
सप्तसु-अग्निष्टोमेऽत्यग्निष्टोमो उक्थ्यः षोडशी वाजपेयोऽतिरात्र आप्तोर्याम इति सप्त सोमसंस्थास्तासु ॥३८॥
शिबिमौशीनरं चैव मृतं सञ्जय शुश्रुम ॥३९॥
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत्
।
महता रथघोषेण पृथिवीमनुनादयन् ॥४०॥
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः
।
यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह ॥४१॥
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे
।
न वोढारं धुरं तस्य कञ्चिन्मेने प्रजापतिः ॥४२॥
न भूतं न भविष्यं च सर्वराजसु सञ्जय
।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥४३॥
अदक्षिणमयज्वानं मा पुत्रमनुतप्यथाः
।
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥४४॥
भरतं चैव दौष्यन्तिं मृतं सञ्जय शुश्रुम
।
शाकुन्तलं महात्मानं भूरिद्रविणसञ्चयम् ॥४५॥
यो बद्ध्वा त्रिशतं चाश्वान्देवेभ्यो यमुनामनु
।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥४६॥
अश्वमेधसहस्रेण राजसूयशतेन च
।
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा ॥४७॥
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः
।
खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥४८॥
'भरतस्य महाकर्म न पूर्वे नापरे जनाः
।
दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवाः' ॥
इति श्रुतेरर्थं संगृह्णाति- भरतस्येति ॥४८॥
परं सहस्राद्यो बद्धान् हयान्वेदीर्वितत्य च
।
सहस्रं यत्र पद्यानां कण्वाय भरतो ददौ ॥४९॥
बद्ध्वान् हयानिति पाठः । बद्धं संख्याविशेषः अर्बुदपर्यायः 'यस्मिन्सहस्रं ब्राह्मणा बद्वशो गा विभेजिरे' इति श्रुतेः ॥४९॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥५०॥
रामं दाशरथिं चैव मृतं सञ्जय शुश्रुम
।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥५१॥
विधवा यस्य विषये नानाथाः काश्च नाभवन्
।
सदैवासीत्पितृसमो रामो राज्यं यदन्वशात् ॥५२॥
कालवर्षी च पर्जन्यः सस्यानि समपादयत्
।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥५३॥
प्राणिनो नाप्सु मज्जन्ति नान्यथा पावकोऽदहत्
।
रुजा भयं न तत्रासीद्रामे राज्यं प्रशासति ॥५४॥
आसन्वर्षसहस्त्रिण्यस्तथा वर्षसहस्रकाः
।
अरोगा: सर्वसिद्धार्था रामे राज्यं प्रशासति ॥५५॥
वर्षसहस्रिण्यः स्त्रियः वर्षसहस्रकाः पुरुषाः ॥५५॥
नान्योऽन्येन विवादोऽभूत् स्त्रीणामपि कुतो नृणाम्
।
धर्मनित्याः प्रजाश्चासन् रामे राज्यं प्रशासति ॥५६॥
सन्तुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः
।
नराः सत्यव्रताश्चासन् रामे राज्यं प्रशासति ॥५७॥
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः
।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥५८॥
द्रोणदुघाः द्रोणपरिमितं क्षीरं दुहन्ति ताः । द्रोणः कलश इत्येके ॥५८॥
स चतुर्दशवर्षाणि वने प्रोष्य महातपाः
।
दशाश्वमेधान् जारूथ्यानाजहार निरर्गलान् ॥५९॥
जारूथ्यान् स्तुत्यान् त्रिगुणदक्षिणानित्यन्ये निरर्गलान् अवारितद्वारान् ॥५९॥
युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः
।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥६०॥
दशवर्षसहस्राणि दशवर्षशतानि च
।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥६१॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥६२॥
भगीरथं च राजानं मृतं सञ्जय शुश्रुम
।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥६३॥
असुराणां सहस्राणि बहूनि सुरसत्तमः
।
अजयद्बाहुवीर्येण भगवान्पाकशासनः ॥६४॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः
।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥६५॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः
।
शतं शतं रथे नागाः पद्मिनो हेममालिनः ॥६६॥
चतुर्युजः चतुरश्वाः ॥६६॥
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः
।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥६७॥
उपह्वरे निवसतो यस्याङ्के निषसाद ह
।
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा ॥६८॥
उपह्वरे समीपे अङ्के ऊरौ निषसाद आसाञ्चक्रे, तस्माद्योगात्सा उर्वशी ऊरौ वासो यस्याः सा इति योगात् । ऊर्वसीत्यपेक्षिते ह्रस्त्रत्वं वर्णविपर्ययश्च पृषोदरादित्वात् ज्ञेयः ॥६८॥
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम्
।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥६९॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥७०॥
दिलीपं च महात्मानं मृतं सञ्जय शुश्रुम
।
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥७१॥
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः
।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥७२॥
यस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः
।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥७३॥
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः
।
तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ॥७४॥
चषाले यस्य सौवर्णे तस्मिन् यूपे हिरण्मये
।
ननृतुर्देवगन्धर्वाः षट् सहस्राणि सप्तधा ॥७५॥
सप्तधा सप्तस्वरानुसारेणावादयदिति सम्बन्धः ॥७५॥
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम्
।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥७६॥
मम पुरत इति शेषः । मां लक्षीकृत्येत्यर्थः ॥७६॥
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे
।
यस्येभा हेमसंछन्नाः पथि मत्ताः स्म शेरते ॥७७॥
राजानं शतधन्वानं दिलीपं सत्यवादिनम्
।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥७८॥
शतधन्वानं- शतम् अनन्तान् सहते धनुर्यस्य तं शतधन्वानं मध्यमपदलोपी समासः ॥७८॥
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने
।
स्वाध्यायघोषो ज्याघोषो दीयतामिति वै त्रयः ॥७९॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥८०॥
मान्धातारं यौवनाश्वं मृतं सञ्जय शुश्रुम
।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥८१॥
समृद्धो युवनाश्वस्य जठरे यो महात्मनः
।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥८२॥
पृषदाज्यं दधिमिश्रमाज्यं कस्यचिदर्थे पुत्रोत्पादनाय निर्मितं तद्युवनाश्वेन पीतं तत् रेतोरुधिरयोगं विनाऽपि तदुदरे गर्भोऽभवत् । स पितुः पार्श्वं भित्त्वा निःसारितो देवैरित्याख्यायिकार्थोऽत्र सूचितः ॥८२॥
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम्
।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥८३॥
मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत
।
मान्धातेति ततस्तस्य नाम तस्य नाम चक्रे शतक्रतुः ॥८४॥
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः
।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥८५॥
तं पिबन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत
।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः ॥८६॥
अह्ना एकेन शतं पलानि व्यवर्धत । द्वादशसमो द्वादशवषतुल्यः । द्वादशशतपलतुलितो वाऽभवत्, एतावानेव प्रायेण पक्रस्य पुरुषस्य भारो भवति ॥८६॥
तमिमं पृथिवी सर्वा एकाह्ना समपद्यत
।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥८७॥
यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम्
।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥८८॥
यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत
।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥८९॥
अभेदि भिन्ना ॥८९॥
यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति
।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥९०॥
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च
।
अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥९१॥
मत्स्यान् हैरण्यानिति सम्बन्धः ॥९१॥
हैरण्यान् योजनोत्सेधानायतान्दशयोजनम्
।
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः ॥९२॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥९३॥
ययातिं नाहुषं चैव मृतं सञ्जय शुश्रुम
।
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम् ॥९४॥
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम्
।
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम् ॥९५॥
शम्या स्थूलबुध्नः काष्ठदण्डः स बलवता क्षिप्तो यावद्दूरं पतेत्तावान्देशः शम्यापातः । तावतान्तरेण पुरः पुरो यज्ञवेदीं कुर्वाणो वसुन्धरां पर्यगच्छत्, परित्यज्य समुद्रतीरं प्राप्त इत्यर्थः ॥९५॥
दृष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च
।
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः ॥९६॥
व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान्
।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥९७॥
व्यभजत्पुत्रभ्यो दत्तवान् ॥९७॥
अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान्
।
पूरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम् ॥९८॥
यदुर्द्रुह्युरनुस्तुर्वसुश्च तान् यदुद्रुह्युपुरोगमान् ॥९८॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥९९॥
अम्बरीषं च नाभागं मृतं सञ्जय शुश्रुम
।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम् ॥१००॥
यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम्
।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः सुसंहितः ॥१०१॥
याजिनां यज्वनां राज्ञां सहस्रं ब्राह्मणेभ्यः ब्राह्मणानामातिथ्यार्थम् अयुत योजितवान्, नृपान् दास्ये योजितवानित्यर्थः ॥१०१॥
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
।
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः ॥१०२॥
दक्षिणाः दाक्ष्ययुक्ताः ॥१०२॥
शतं राजसहस्राणि शतं राजशतानि च
।
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम् ॥१०३॥
सर्वे राजानोऽम्बरीषयज्ञेषु विप्रदास्यं कुर्वाणा अश्वमेधफलभागित्वात्तद्याजिनः सन्तः अम्बरीषमाहात्म्यादृक्षिगायनम् अनुपश्चात् अनुर्गताः । उत्तरायणमार्गेण हिरण्यगर्भलोकं प्राप्ताः इत्यर्थः ॥१०३॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१०४॥
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय
।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥१०५॥
सहस्रं तु सहस्राणां यस्यासन् शाशबिन्दवाः
।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥१०६॥
शाशबिन्दवाः शशबिन्दोः पुत्राः ॥१०६॥
शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः
।
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ॥१०७॥
रथे रथे शतं चाश्वा देशजा हेममालिनः
।
अश्वे अश्वे शतं गावो गवां तद्वदजाविकम् ॥१०८॥
एतद्धनमपर्यन्तमश्वमेधे महामखे
।
शशबिन्दुर्महाराज ब्राह्मणेभ्यः समार्पयत् ॥१०९॥
स चेन्मार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥११०॥
गयं चामूर्तरयसं मृतं शुश्रुम सञ्जय
।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥१११॥
यस्मै वह्निर्वरं प्रादात्ततो वव्रे वरान्गयः
।
ददतो योऽक्षयं वित्तं धर्मे श्रद्धा च वर्धताम् ॥११२॥
ददतो दानं कुर्वतः अयः सुवर्णं तदेव वित्तम् अक्षयं सत् वर्धतां मे क्षयमिति पाटस्न्वनाषः ॥११२॥
मनो मे रमतां सत्ये त्वत्प्रसादाद्भुताशन
।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥११३॥
दर्शे च पूर्णमासे च चातुर्मास्यं पुनः पुनः
।
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥११४॥
शतं गवां सहस्राणि शतमश्वतराणि च
।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥११५॥
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि
।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स पुरुषर्षभ ॥११६॥
सौवर्णीं पृथिवीं कृत्वा दशव्यामां द्विरायताम्
।
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ ॥११७॥
व्यामं व्यायतहस्तप्रमाणं पञ्चहस्तोन्मितं दशव्यामां पञ्चाशद्धस्तविस्तारां द्विरायतां शतहस्तदीर्घाम् ॥११७॥
यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ
।
तावतीरेव गाः प्रादादामूर्तरयसो गयः ॥११८॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतश्चैव मा पुत्रमनुतप्यथाः ॥११९॥
रन्तिदेवं च सांकृत्यं मृतं सञ्जय शुश्रुम
।
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः ॥१२०॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि
।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ॥१२१॥
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम्
।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥१२२॥
उपातिष्ठन्त पितृकार्ये मां नियोजय मां नियोजयेति ॥१२२॥
महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः
।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥१२३॥
तेषां मारितानां पशूनां चर्मराशेः उत्क्लेदात् सारद्रवात् ॥१२३॥
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः
।
तुभ्यं निष्कं तुभ्यं निष्कमिति क्रोशन्ति वै द्विजाः ॥१२४॥
तुभ्यमिति । निष्कं निष्कशतं 'शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति' इति मन्त्रवर्णात् तुभ्यं निष्कशां ददामीति क्रोशन्येव द्विजाः न तु कश्चिद् गृह्णाति ॥१२४॥
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्सम्प्रपद्यते
।
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् ॥१२५॥
सहस्रं तुभ्यामत्युक्त्वा तु ब्राह्मणान्प्रतिग्रहीतृन्प्रपद्यते प्राप्नोति ॥१२५॥
घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च
।
नासीत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥१२६॥
पिठराणि विततमुखानि दारुपत्राणि ॥१२६॥
सांकृते रन्तिदेवस्य यां रात्रिमवसन् गृहे
।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥१२७॥
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः
।
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥१२८॥
नाद्य मांसं पशुपात्रोपयोगस्य प्रागुक्तत्वात् ॥१२८॥
स चेन्मार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२९॥
सगरं च महात्मानं मृतं शुश्रुम सञ्जय
।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥१३०॥
ऐक्ष्वाकमिश्वाकुवंशजम् ॥१३०॥
षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे
।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥१३१॥
एकच्छत्रा मही यस्य प्रतापादभवत्पुरा
।
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥१३२॥
यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम्
।
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥१३३॥
द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून्
।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥१३४॥
आदेशेन आज्ञया तद्वितं स्वर्णप्रासादरूपम् ॥१३४॥
खानयामास यः कोपात्पृथिवीं सागराङ्किताम्
।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥१३५॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१३६॥
राजानं च पृथुं वैन्यं मृतं शुश्रुम सञ्जय
।
यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ॥१३७॥
वैन्यं वेनपुत्रं महारण्ये दण्डकारण्ये ॥१३७॥
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः
।
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥१३८॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्
।
ततो राजेति नामास्य अनुरागादजायत ॥१३९॥
अकृष्टपच्या पृथिवी पुटके पुटके मधु
।
सर्वा द्रोणदुधा गावो वैन्यस्यासन्प्रशासतः ॥१४०॥
पुटके पुटके पत्रे पत्रे इति प्राञ्चः ॥१४०॥
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः
।
यथाभिकाममवसन् क्षेत्रेषु च गृहेषु च ॥१४१॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः
।
सरितश्चानुदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥१४२॥
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम्
।
ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ॥१४३॥
त्रिनलोत्सेधान् नल्वः किष्कुचतुःशतमिति पाठं प्रकल्प्य व्याख्यायते- प्राचीनैः । वस्तुतस्तु नल इत्यत्र च्छान्दसो वर्णलोपः ॥१४३॥
स चेन्ममार सञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१४४॥
किं वा तूष्णीं ध्यायसे सञ्जय त्वं न मे राजन्वाचमिमां शृणोषि
।
न चेन्मोघं विप्रलप्तं ममेदं पथ्यं मुमूर्षोरिव सुप्रयुक्तम् ॥१४५॥
विप्रलप्तं विप्रलपितम् ॥१४५॥
सञ्जय उवाच ।
शृणोमि ते नारद वाचमेनां विचित्रार्थां स्रजमिव पुण्यगन्धाम्
।
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्नाशनार्थाम् ॥१४६॥
न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैवाहं नारद त्वां विशोकः
।
शुश्रूषे ते वचनं ब्रह्मवादिन् न ते तृप्याम्यमृतस्येव पानात् ॥१४७॥
विशोको जात इति शेषः ॥१४७॥
अमोघदर्शिन्मम चेत्प्रसादं सन्तापदग्धस्य विभो प्रकुर्याः
।
सुतस्य सञ्जीवनमद्य मे स्यात्तवप्रसादात्सुतसङ्गमश्च ॥१४८॥
नारद उवाच।
यस्ते पुत्रो गमितोऽयं विजातः स्वर्णष्ठीवी यमदात्पर्वतस्ते
।
पुनस्तु ते पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्त्रिणं च ॥१४९॥
गमितः मृतः विजातः गुणवान् ॥१४९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि षोडशराजोपाख्याने एकोनत्रिंशत्तमोध्यायः ॥२९॥
युधिष्ठिर उवाच।
स कथं काञ्चनष्ठीवी सञ्जयस्य सुतोऽभवत्
।
पर्वतेन किमर्थं वा दत्तस्तेन ममार च ॥१॥
स इति ॥१॥
यदा वर्षसहस्रायुस्तदा भवति मानवः
।
कथमप्राप्तकौमारः सञ्जयस्य सुतो मृतः ॥२॥
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्
।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥३॥
श्रीकृष्ण उवाच ।
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर
।
नारदः पर्वतश्चैव द्वावृषी लोकसत्तमौ ॥४॥
मातुलो भागिनेयश्च देवलोकादिहागतौ
।
विहर्तुकामौ सम्प्रीत्या मानुषेषु पुरा विभो ॥५॥
हविः पवित्रभोज्येन देवभोज्येन चैव हि
।
नारदो मातुलश्चैव भागिनेयश्च पर्वतः ॥६॥
हविः पवित्रभोज्येन शाल्यन्नेन देवभोज्यन घृतेन ताभ्यां विहर्तुकामाविति सम्बन्धः ॥६॥
तावुभौ तपसोपेताववनीतलचारिणौ
।
भुञ्जानौ मानुषान्भोगान् यथावत्पर्यधावताम् ॥७॥
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः
।
यो भवेद्धदि संकल्पः शुभो वा यदि वाऽशुभः ॥८॥
अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्
।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ॥९॥
सञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः
।
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते ॥१०॥
यथावत्पृथिवीपाल आवयोः प्रगुणी भव
।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह ॥११॥
प्रगुणी भव अनुकूलो भव ॥११॥
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ
।
अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ॥१२॥
एकैव मम कन्यैषा युवां परिचरिष्यति
।
दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमाहिता ॥१३॥
सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा
।
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम् ॥१४॥
सुकुमारी नाम्ना सौम्यम् उत्तमम् ॥१४॥
कन्ये विप्रावुपचर देववत्पितृवच्च ह
।
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ॥१५॥
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह
।
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च ॥१६॥
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत
।
ववृधे हि ततस्तस्य हृदि कामो महात्मनः ॥१७॥
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः
।
न च तं भागिनेयाय पर्वताय महात्मने ॥१८॥
शशंस हृच्छयं तीव्रं व्रीडमानः स धर्मवित्
।
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम् ॥१९॥
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्
।
कृत्वा समयमव्यग्रो भवान्वै सहितो मया ॥२०॥
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः
।
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ॥२१॥
भवता वचनं ब्रह्मस्तस्मादेष शपाम्यहम्
।
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ॥२२॥
प्रवर्तन्तं प्रवर्तमानम् ॥२२॥
सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम्
।
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ॥२३॥
ते त्वाम् ॥२३॥
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः
।
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे ॥२४॥
सुकुमारी च ते भार्या भविष्यति न संशयः
।
वानरं चैव ते रूपं विवाहात्प्रभृति प्रभो ॥२५॥
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाशनम्
।
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा ॥२६॥
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः
।
तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥२७॥
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि
।
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ ॥२८॥
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ
।
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः ॥२९॥
पूज्यमानो यथान्यायं तेजसा स्वेन भारत
।
अथ तामलभत्कन्यां नारदः सञ्जयात्मजाम् ॥३०॥
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम्
।
सा तु कन्या यथाशापं नारदं तं ददर्श ह ॥३१॥
पाणिग्रहणमन्त्राणां नियोगादेव नारदम्
।
सुकुमारी च देवर्षिं वानरप्रतिमाननम् ॥३२॥
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्
।
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् ॥३३॥
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला
।
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह ॥३४॥
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम्
।
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ॥३५॥
भवान्प्रसादं कुरुतात्स्वर्गादेशाय मे प्रभो
।
तमुवाचा ततो दृष्ट्वा पर्वतं नारदस्तथा ॥३६॥
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्
।
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ॥३७॥
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात्
।
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ॥३८॥
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान्
।
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी ॥३९॥
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्
।
सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ॥४०॥
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्
।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥४१॥
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः
।
तवैवाभेद्यहृदयो मा तेऽभूदत्र संशयः ॥४२॥
साऽनुनीता बहुविधं पर्वतेन महात्मना
।
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता ॥४३॥
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान्
।
वासुदेव उवाच ।
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः
।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम ॥४४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि नारदपर्वतोपाख्याने त्रिंशत्तमोऽध्यायः॥३०॥
वैशम्पायन उवाच।
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत
।
भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ॥१॥
तत इति ॥१॥
एवमुक्तस्तु स मुनिर्धर्मराजेन नारदः
।
आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति ॥२॥
नारद उवाच।
एवमेतन्महाबाहो यथाऽयं केशवोऽब्रवीत्
।
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥३॥
अहं च पर्वतश्चैव स्वस्त्रीयो मे महामुनिः
।
वस्तु कामावभिगतौ सञ्जयं जयतां वरम् ॥४॥
तत्रावां पूजितौ तेन विधिदृष्टेन कर्मणा
।
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥५॥
व्यतिक्रान्तासु वर्षासु समये गमनस्य च
।
पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥६॥
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ
।
उषितौ समये ब्रह्मंस्तद्विचिन्तय साम्प्रतम् ॥७॥
सांप्रतं कल्याणम् ॥७॥
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम्
।
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥८॥
वरेण च्छन्द्यतां राजा लभतां यद्यदिच्छति
।
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥९॥
तत आहूय राजानं सञ्जयं जयतां वरम्
।
पर्वतोऽनुमतो वाक्यमुवाच कुरुपुङ्गव ॥१०॥
प्रीतौ स्वो नृप सत्कारैर्भवदार्जवसंभृतैः
।
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥११॥
देवानामविहिंसायां न भवेन्मानुषक्षयम्
।
तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥१२॥
देवानामिति । येनं देवपीडा मनुष्यक्षयश्च न भवति तत्तादृशं वरं गृहाणेति भावः ॥१२॥
सञ्जय उवाच ।
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम
।
एष एव परो लाभो निर्वृत्तो मे महाफलः ॥१३॥
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत
।
वृणीष्व राजन्संकल्पं यत्ते हृदि चिरं स्थितम् ॥१४॥
सञ्जय उवाच ।
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम्
।
आयुष्मन्तं महाभागं देवराजसमद्युतिम् ॥१५॥
पर्वत उवाच ।
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति
।
देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि ॥१६॥
ख्यातः सुवर्णष्ठीवीति पुत्रस्तव भविष्यति
।
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥१७॥
तच्छुत्वा सञ्जयो वाक्यं पर्वतस्य महात्मनः
।
प्रसादयामास तदा नैतदेवं भवेदिति ॥१८॥
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने
।
न च तं पर्वत: किञ्चिदुवाचेन्द्रव्यपेक्षया ॥१९॥
तमहं नृपतिं दीनमब्रुवं पुनरेव च
।
स्मर्तव्योऽस्मि महाराज दर्शयिष्यामि ते सुतम् ॥२०॥
अहं ते दयितं पुत्रं प्रेतराजवशं गतम्
।
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥२१॥
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्
।
सञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥२२॥
सञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये
।
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥२३॥
ववृधे स यथाकालं सरसीव महोत्पलम्
।
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥२४॥
तदद्भुततमं लोके पप्रथे कुरुसत्तम
।
बुबुधे तच्च देवेन्द्रो वरदानं महर्षितः ॥२५॥
ततः स्वाभिभवाद्भीतो बृहस्पतिमते स्थितः
।
कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ॥२६॥
चोदयामास तद्वज्रं दिव्यास्त्रं मूर्तिमत्स्थितम्
।
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥२७॥
प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति
।
सञ्जयस्य सुतो वज्र यथैनं पर्वतोऽब्रवीत् ॥२८॥
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः
।
कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत ॥२९॥
सञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम्
।
हृष्टः सान्तःपुरो राजा वननित्यो बभूव ह ॥३०॥
ततो भागीरथीतीरे कदाचिन्निर्जने वने
।
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥३१॥
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः
।
सहसोत्पतितं व्याघ्रमाससाद महाबलम् ॥३२॥
स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः
।
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥३३॥
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत
।
शार्दूलो देवराजस्य माययाऽन्तर्हितस्तदा ॥३४॥
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत्
।
अभ्यधावत तं देशं स्वयमेव महीपतिः ॥३५॥
स ददर्श शयानं तं गतासु पीतशोणितम्
।
कुमारं विगतानन्दं निशाकरमिव च्युतम् ॥३६॥
स तमुत्सङ्गमारोप्य परिपीडितमानसः
।
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥३७॥
ततस्ता मातरस्तस्य रुदत्यः शोककर्शिताः
।
अभ्यधावन्त तं देशं यत्र राजा स सञ्जयः ॥३८॥
ततः स राजा सस्मार मामेव गतमानसः
।
तदाहं चिन्तनं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥३९॥
मयैतानि च वाक्यानि श्रावितः शोकलालसः
।
यानि ते यदुवीरेण कथितानि महीपते ॥४०॥
सञ्जीवितश्चापि पुनर्वासवानुमते तदा
।
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ॥४१॥
तत ऊर्ध्वं कुमारस्तु स्वर्णष्ठीवी महायशाः
।
चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ॥४२॥
कारयामास राज्यं च पितरि स्वर्गते नृप
।
वर्षाणां शतमेकं च सहस्रं भीमविक्रमः ॥४३॥
तत ईजे महायज्ञैर्बहुभिर्भूरिदक्षिणैः
।
तर्पयामास देवांश्च पितॄश्चैव महाद्युतिः ॥४४॥
उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः
।
कालेन महता राजन्कालधर्ममुपेयिवान् ॥४५॥
स त्वं राजेन्द्र सञ्जातं शोकमेनं निवर्तय
।
यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ॥४६॥
पितृपैतामहं राज्यमास्थाय धुरमुद्वह
।
इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि ॥४७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि स्वर्णष्ठीविसम्भवोपाख्याने एकत्रिंशत्तमोऽध्यायः ॥३१॥
वैशम्पायन उवाच।
तूष्णीभूतं तु राजानं शोचमानं युधिष्ठिरम्
।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥१॥
तूष्णींभूतमिति ॥१॥
व्यास उवाच ।
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
।
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तिनः ॥२॥
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम्
।
ब्राह्मणेषु तपो धर्मः स नित्यो वेदनिश्चितः ॥३॥
तत्तस्माद्धर्मम् अनुतिष्ठस्व पदं पालयेति च सम्बन्धः ॥३॥
तत्प्रमाणं ब्राह्मणानां शाश्वतं भरतर्षभ
।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥४॥
यः स्वयं प्रतिहन्ति स्म शासनं विषये रतः
।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥५॥
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः
।
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥६॥
पापान्सर्वैरुपायैस्तान् नियच्छेच्छातयीत वा
।
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ॥७॥
शातयीत मारयेत् ॥७॥
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा
।
ते त्वया धर्महन्तारो निहताः सपदानुगाः ॥८॥
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव
।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥९॥
युधिष्ठिर उवाच।
न तेऽभिशंके वचनं यद्ब्रवीषि तपोधन
।
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर ॥१०॥
मया त्ववध्या बहवो घातिता राज्यकारणात्
।
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च ॥११॥
मे मां दहन्ति हृदयं पचन्ति शरीरं शोषयन्ति ॥११॥
व्यास उवाच ।
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत
।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥१२॥
मया बहवो घातिता इत्युक्तं तत्किं हननक्रियायां तव प्रयोज्यकर्तृत्वं प्रयोजककर्तृत्वं वा वध्यस्य च कर्मत्वं वा प्राकृतकर्मफलभोक्तृत्वं वेति विकल्पानाह- ईश्वर इति ॥१२॥
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत
।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत् ॥१३॥
नाद्य इत्याह- ईश्वरेणेति परशोरिव परप्रयोज्यस्य तव हन्तृत्वं नास्तीत्यर्थः ॥१३॥
यथा हि पुरुषश्छिद्याद्वृक्षं परशुना वने
।
छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ॥१४॥
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम्
।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१५॥
परप्रयोज्योऽप्यहं परशोः प्रयोक्ताऽस्मि । न तु परशुवदचेतनोऽस्मीति । मम पापसम्बन्धोऽस्त्येवेत्याह-अथवेति । प्राप्नुयात् परशोरुपादाता । एवं तर्हि येन परशोर्दण्डः शस्त्रं परशुश्च कृतः तमेव पापं कर्तृ नाप्नुयात् । तस्य प्रथमप्रयोज्यत्वात्, पुरुषे उपादातरि तन्न विद्यते तस्य जघन्यत्वात् ॥१५॥
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्
।
प्राप्नुयादिति यस्माच्च ईश्वरे तन्निवेशय ॥१६॥
न चेति । यदि च एतन्नेष्टम् एतत्किं यत् अन्येन प्रहर्त्रा कृतं पापं तस्य फलं शस्त्रकर्ता आप्नुयादिति । तर्हि जघन्यप्रयोज्ये त्वय्यपि पापाभावादीश्वरे एव तन्निवेशय ॥१६॥
अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः
।
न परो विद्यते तस्मादेवमेतच्छुभं कृतम् ॥१७॥
अथापिति । यदा पुरुष एव कर्ता पर ईश्वरो नास्ति तस्मादपि हेतोस्त्वया एतच्छुभमेव कृतम् ॥१७॥
न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते
।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१८॥
यतः कश्चिदपि दिष्टं प्रति अदृष्टस्य प्रतिकूलो भूत्वाऽवश्यंभाविनः कर्मणः सकाशान्न निवर्तते दैवस्य दुर्लंघ्यत्वादिति भावः । ननु दिष्टमपि जन्मान्तरीयः स्वस्यैवापराध इत्याशङ्क्याह- दण्डेति । पूर्वपूर्वापराधस्य उत्तरोत्तरहेतुत्वमित्यनादित्वादिदानींतनस्य कर्तुर्नापराधोऽस्तीत्यतः प्राचीनकर्ता दण्डशस्त्रकृदिव न पर्यनुयोज्य इति भावः ॥१८॥
यदि वा मन्यसे राजन् हतमेकं प्रतिष्ठितम्
।
एवमप्यशुभं कर्म न भूतं न भविष्यति ॥१९॥
तृतीयं पक्षं दूषयति- यदीति । प्रतिष्ठितं निश्चितं यथा स्यात्तथा । यदि पुरुषं हतं हननक्रियायाः कर्मीभूतमेव मन्यसे तर्हि स्वभाववादिनस्ते भूतभाव्यशुभाभावाद्वृथैव शोक इत्यर्थः ॥१९॥
अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः
।
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम् ॥२०॥
चतुर्थपक्षमाह- अथेति । पुण्यपापयोः सुखदुःखयोः अभिपत्तिरुपपत्तिः कर्तव्या सा च धर्माधर्मावन्तरेण न घटते तौ च शास्त्रैकगम्याविति चेद्राज्ञामुद्यतदण्डनम् उद्धतदमनं लोके शास्त्रे चोपपन्नतरमित्यर्थः ॥२०॥
तथापि लोके कर्माणि समावर्तन्ति भारत
।
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः ॥२१॥
अत्र शङ्कते- तथापीति । यद्यप्येवं तथापि लोके शास्यमाने कर्माणि शुभान्यशुभानि च समापतन्ति-अवश्यम् आयान्ति फलं च प्रयच्छन्ति, अतो मम प्रायोपवेशनमेव वरमिति भावः ॥२१॥
एवमप्यशुभं कर्म कर्मणस्तत्फलात्मकम्
।
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा ॥२२॥
समाधते- एवमिति । यस्मात्कर्मणः पापादशुभफलात्मकं पापप्रवृत्तिरूपं कर्म भवति तत्पापमूलं कर्म त्यज ॥२२॥
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत
।
एवमात्मपरित्यागस्तव राजन्न शोभनः ॥२३॥
सापवादे निन्द्येऽपि स्वधर्मे स्थितस्य त आत्मत्यागो नोचित इत्यर्थः ॥२३॥
विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्
।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥२४॥
ननु तथापि निन्द्यात्कर्मणः पापं भवतीत्याशङ्क्याह- विहितानीति ॥२४॥
तद्राजन् जीवनमानस्त्वं प्रायश्चित्तं करिष्यसि
।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥२५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि प्रायश्चित्तविधौ द्वात्रिंशत्तमोऽध्यायः॥३२॥
युधिष्ठिर उवाच।
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
।
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः ॥१॥
हताः पुत्राश्चेति ॥१॥
क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा
।
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह ॥२॥
बहवश्च मनुष्येन्द्रा नानादेशसमागताः
।
घातिता राज्यलुब्धेन मयैकेन पितामह ॥३॥
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः
।
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ॥४॥
दह्याम्यनिशमद्यापि चिन्तयानः पुनः पुनः
।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥५॥
दृष्ट्वा ज्ञातिवधं घोरं हन्तांश्च शतशः परान्
।
कोटिशश्च नरानन्यान्परितप्ये पितामह ॥६॥
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति
।
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा ॥७॥
अस्मानन्तकरान्घोरान् पाण्डवान्वृष्णिसंहतान्
।
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले ॥८॥
अपश्यन्त्यः पितॄन् भ्रातॄन् पतीन्पुत्रांश्च योषितः
।
त्यक्त्वा प्राणान् स्त्रियः सर्वा गमिष्यन्ति यमक्षयम् ॥९॥
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः
।
व्यक्तं सौक्ष्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥१०॥
यद्वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्
।
नरके निपतिष्यामो ह्यधःशिरस एव ह ॥११॥
अनन्तकं प्रायश्चितैरप्यविनाश्यम् ॥११॥
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम
।
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह ॥१२॥
शरीराणीति । मम तु तप एव प्रशस्तमिति निश्चयोऽस्ति । तथापि आश्रमाणां मध्ये विशेषं श्रेष्ठम् उक्तदोषनिवर्तनक्षमम् आचक्ष्वेत्यर्थः ॥१२॥
वैशम्पायन उवाच।
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा
।
निरीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥१३॥
व्यास उवाच ।
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मरन्
।
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ॥१४॥
कांक्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः
।
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥१५॥
कृतान्तविधिः परप्राणहरणं तेन संयुक्ताः स्वापराधेनैव हता इत्यर्थः ॥१५॥
न त्वं हन्ता न भीमोऽयं नार्जुनो न यमावपि
।
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥१६॥
वस्तुतस्तु तेषामपि स्वातन्त्र्यं नास्तीत्याह- न त्वमिति । पर्यायधर्मेण मरणविधिना आदत्त गृहीतवान् ॥१६॥
न तस्य मातापितरौ नानुग्राह्यो हि कश्चन
।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥१७॥
हेतुमात्रमिदं तस्य विहितं भरतर्षभ
।
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ॥१८॥
हेतुमात्रं निमित्तमात्रम् इदं युद्धं तस्य तेन अस्मै अस्य ऐश्वरं नियन्तृत्वम् ॥१८॥
कर्मसूत्रात्मकं विद्धि साक्षिणं शुभपापयोः
।
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥१९॥
कर्मैव सूत्रं बन्धनं तदात्मकं तत्प्रधानम् ईश्वरोऽपि कर्मानुसारेण फलं ददन्न वैषम्यनैर्घृण्यदोषौ भजतीत्यर्थः । कालं कर्मापि काल एवेत्यर्थः ॥१९॥
तेषामपि महाबाहो कर्माणि परिचिन्तय
।
विनाशहेतुकानि त्वं यैस्ते कालवशं गताः ॥२०॥
आत्मनश्च विजानीहि नियतव्रतशासनम्
।
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः ॥२१॥
आत्मन इति । शान्तस्यापि तव हिंस्रे कर्मणि प्रवृत्तिरिति कालस्यैवैतन्माहात्म्यमित्यर्थः ॥२१॥
त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे
।
कर्मणा कालयुक्तेन तथेदं चेष्टते जगत् ॥२२॥
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः
।
यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥२३॥
पुरुषस्येति । उत्पत्तिवद्विनाशोऽपि यादृच्छिक एवेति भावः ॥२३॥
व्यलीकमपि यत्त्वत्र चित्तवैतंसिकं तव
।
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥२४॥
व्यलीकम् अनृतं चित्तवैतंसिकं चित्तबन्धनं तदर्थं तन्निवृत्त्यर्थं मृषाभूतमपि हन्तृत्वादिकं यदि सत्यमिति मन्यसे तर्हि प्रायश्चित्तं कुर्वित्यर्थः ॥२४॥
इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा
।
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥२५॥
यवीयसः यवीयांसः ॥२५॥
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः
।
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ॥२६॥
समुच्छ्रयो विरोधः ॥२६॥
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
।
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे ॥२७॥
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
।
संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः ॥२८॥
संश्रिताः सन्नद्धाः साह्यार्थं साहाय्यार्थम् ॥२८॥
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत
।
अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ॥२९॥
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः
।
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ॥३०॥
अधर्मस्येति च्छेदः ॥३०॥
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्
।
कुलं हत्वा च राष्ट्रे च न तद्वृत्तोपघातकम् ॥३१॥
राष्ट्रेऽनामयं स्यात्तर्हि तदेकस्य कुलस्य वा हननं वृत्तोपघातकं धर्मनाशकं न भवति ॥३१॥
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप
।
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ॥३२॥
अधर्मरूपो धर्मवद्भाति धर्मः यथा-शालावृकाख्यब्राह्मणवधः । धर्मश्चाधर्मः यथा- कर्णपर्वोक्तसत्यवादिनः चोरेभ्यः कार्पटिकमार्गं प्रदिशतः ॥३२॥
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव
।
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥३३॥
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
।
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप ॥३४॥
यो हि पापसमारम्भे कार्ये तद्भावभावितः
।
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥३५॥
तद्भावभावितः पापभावनां गतः कुर्वन्पापामति वर्तते ॥३५॥
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम्
।
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥३६॥
तस्मिन्निति । तस्य अपश्चात्तापिनो निर्लज्जस्य प्रायश्चित्तं वा तेन पापह्रासो वा नास्तीत्यर्थः ॥३६॥
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
।
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥३७॥
परदोषेण दुर्योधनदोषेण ॥३७॥
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्
।
तमाहर महाराज विपाप्मैवं भविष्यसि ॥३८॥
मरुद्भिः सह जित्वाऽरीन्भगवान्पाकशासनः
।
एकैकं क्रतुमाहृत्य शतकृत्व: शतक्रतुः ॥३९॥
धूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान्
।
मरुद्गणैर्वृतः शक्रः शुशुभे भासयन्दिशः ॥४०॥
स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम्
।
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ॥४१॥
महीयन्तं महीयमानम् ॥४१॥
सेयं त्वामनुसम्प्राप्ता विक्रमेण वसुन्धरा
।
निर्जिताश्च महीपाला विक्रमेण त्वयाऽनध ॥४२॥
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः
।
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ॥४३॥
इतनाथानां स्त्रीणां शोकेन मम दोषोऽनन्त इत्युक्तं तत्राह- तेषामिति ॥४३॥
बालानपि च गर्भस्थान्सान्त्वेन समुदाचरन्
।
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ॥४४॥
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय
।
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि ॥४५॥
कामाः आशेरतेऽस्मिन्कामाशयः पूर्णकाम इत्यर्थः ॥४५॥
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत
।
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ॥४६॥
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ
।
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥४७॥
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम्
।
रक्षस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भारत ॥४८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि प्रायश्चित्तीयोपाख्याने त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥
युधिष्ठिर उवाच।
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः
।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह ॥१॥
कानि कृत्वेति । प्रायश्चित्तीयते प्रायश्चितेऽधिक्रियते ॥१॥
व्यास उवाच ।
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्
।
प्रायश्चित्तीयते ह्येवं नरो मिथ्यानुवर्तयन् ॥२॥
मिथ्यानुवर्तयन्कापट्यं चरन् ॥२॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत
।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥३॥
सूर्येणाभ्युदितः यस्मिन् शयाने सति सूर्योऽभ्युदेतीत्यर्थः । अभिनिर्मुक्तः यस्मिन् शयान सति सूर्योऽस्तं गच्छतीत्यर्थः । अव्याधितं चेत्स्वपन्तमादित्योऽभ्युदियादित्यादित्यादि स्मृत्युक्तप्रायश्चित्तं स कुर्यादित्यर्थः । कुनखी श्यावदन्निति च 'स्वर्णहारी तु कुनखी सुरापः श्यावदन्तकः' इति कर्मविपाके जन्मान्तरीयदोषवतापि सूर्यारुणसंवादादावुपदिष्टं प्रायश्चित्तं कर्तव्यमित्युक्तम् ॥३॥
परिवित्तिः परिवेत्ता ब्रह्मघ्नो यश्च कुत्सकः
।
दिधिषूपपतिर्यः स्यादग्रेदिधिषुरेव च ॥४॥
अनूढे ज्येष्ठे ऊढवान् कनिष्ठः । परिवेत्ता परिवित्तिः पूर्वजः । ज्येष्ठायामनूढायां कनिष्ठामूढवानग्रेदिधिषुः । दिधिषूपपतिस्तु कनिष्ठाविवाहोत्तरं ज्येष्ठामूढवान् ॥४॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा
।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥५॥
अवकीर्णी नष्टव्रतः । अतीर्थे अपात्रे त्यागी दाता ॥५॥
ग्रामघाती च कौन्तेय मांसस्य परिविक्रयी
।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ॥६॥
ग्रामघाती समूहहन्ता । याजीति पाठान्तरम् । मांसस्येति नृपश्वादेः अपविध्येत त्यजेत् । ब्रह्मविक्रयी भृतकाध्यापकः । राजविक्रयीति पाठे सोमविक्रयी राजानमाप्यायतीत्यादौ सोमे राजशब्दश्रवणात् ॥६॥
गुरुस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः
।
वृथापशुसमालम्भी गृहदाहस्य कारकः ॥७॥
अनृतेनोपवर्ती च प्रतिरोद्धा गुरोस्तथा
।
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥८॥
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे
।
लोकवेदविरुद्धानि तान्येकाग्रममनाः शृणु ॥९॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया
।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम् ॥१०॥
अभक्ष्यस्य लशुनादेः ॥१०॥
शरणागतसंत्यागो भृत्यस्याभरणं तथा
।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥११॥
रसानां लवणगुडादीनाम् ॥११॥
आधानादीनि कर्माणि शक्तिमान्न करोति यः
।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत ॥१२॥
नित्यदेयानि गोग्रासादीनि ॥१२॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्
।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥१३॥
दक्षिणानां प्रतिश्रुतानाम् ॥१३॥
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः
।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः ॥१४॥
विवदते धनाद्यर्थं पित्रा सह कलहं करोति । अप्रजायन् धर्मपत्न्यां काले मैथुनमकुर्वन् ॥१४॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च
।
यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते नरः ॥१५॥
इतरेण संक्षेपेण ॥१५॥
एतान्येव तु कर्माणि क्रियमाणानि मानवाः
।
येषु येषु निमित्तेषु न लिप्यन्तेऽथ तान् शृणु ॥१६॥
एतानि स्वधर्मस्य परित्याग इत्यादीनि कर्माणि क्रियमाणानि ये मानवाः उपजीवन्त इति शेषः ॥१६॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे
।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥१७॥
जिघांसी हन्तुमिच्छावान् इयात् गच्छेत् ॥१७॥
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते
।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते ॥१८॥
मन्त्रो मन्युरकार्षीन्नमो नम इत्यादिर्मन्यवे स्वाहेत्यन्तः ॥१८॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्
।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥१९॥
मन्युः क्रोधः तन्मन्युं शत्रोः क्रोधं प्रति ऋच्छति गच्छति क्रोध एव तं प्रतीपीभूय परशरीरद्वारा हन्तीत्यर्थः ॥१९॥
प्राणात्यये तथाऽज्ञानादाचरन्मदिरामपि
।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति ॥२०॥
असाध्यरोगादिना प्राणात्यये उपस्थिते जीवनार्थं मदिरामपि आचरन्पिबन्धर्मपरैः चिकित्सकैः आदेशित उपदिष्टः ॥२०॥
एतत् ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्
।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति ॥२१॥
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम्
।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥२२॥
गुर्वर्थं गुर्वाज्ञया ॥२२॥
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते
।
बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ॥२३॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति
।
स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥२४॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च
।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥२५॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन
।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥२६॥
व्रतं नावर्तते पुनरुपनयनं न कर्तव्यमित्यर्थः । आज्यहोमः पुनर्मा भैत्विन्द्रियमिति मन्त्रेण ॥२६॥
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा
।
भिक्षितेः पारदार्यं च तद्धर्मस्य न दूषकम् ॥२७॥
पतिते ज्येष्ठभ्रातारी भिक्षिते धर्मार्थमपि रेतः सिञ्चेति स्त्रिया प्रार्थिते सति ॥२७॥
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्
।
अनुग्रहः पशूनां हि संस्कारो विधिनोदितः ॥२८॥
वृथा श्राद्धादिनिमित्तं विना । संस्कारः पावित्र्यम् ।
'यो यजेताश्वमेधेन मासि मासि शतं समाः
।
मांसानि च न खादेत द्वयमेतत्समं स्मृतम्'॥
इति स्मृतेः॥२८॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्
।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम् ॥२९॥
तीर्थे सत्काराणामज्ञानादप्रतिपादनमपि न दूषकम् ॥२९॥
स्त्रियास्तथाऽपचारिण्या निष्कृतिः स्याददूषिका
।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति ॥३०॥
अपचारिण्याः व्यभिचारिण्याः निष्कृतिः धिक्करणं दासीवत् अन्नाच्छादनमात्रेण दूरस्थापनं तया सह रतिभोजनादिवर्जनं चेत्यर्थः ॥३०॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान्
।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्
।
वनदाहो गवामर्थे क्रियमाणो न दूषकः ॥३१॥
सोमस्य तत्त्वम् अनेन तृप्ता देवा मनुष्यान्कामैरभिवर्षन्तोति लोकद्वयोपकारणकोऽयं सोम इति ॥३१॥
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति
।
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥३२॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि प्रायश्चित्तीये चतुस्त्रिंशत्तमोऽध्यायः॥३४॥
व्यास उवाच ।
तपसा कर्मणा चैव प्रदानेन च भारत
।
पुनाति पापं पुरुषः पुनश्चेन्न प्रवर्तते ॥१॥
साधारणानि प्रायश्चित्तानि तावदाह- तपसेति । तपसा कृच्छ्रचान्द्रायणादिना । कर्मणा यज्ञादिना प्रदानेन गवादीनां पुनाति शोधयति ॥१॥
एककालं तु भुञ्जीत चरन्भैक्ष्यं स्वकर्मकृत्
।
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥२॥
स्वकर्मकृद्दासादिरहितः ॥२॥
अनसूयुरधःशायी कर्म लोके प्रकाशयन्
।
पूर्णैर्द्वादशाभिर्वषैर्ब्रह्महा विप्रमुच्यते ॥३॥
कर्म ब्रह्महत्याम् ॥३॥
लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽऽत्मनः
।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः ॥४॥
लक्ष्य इति । कामकारविषये विदुषां प्रायश्चित्तोपदेष्टॄणाम् आत्मनो वा इच्छया वैदुष्ये सति अकामतस्त्वाह - त्रिरित्यादिना ॥४॥
जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत्
।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥५॥
अवाक्शिराः यं कश्चिद्वेदं जपन् योजनानां शतं त्रिर्व्रजेत् शतत्रययोजनं पादचारेण तार्थयात्रायां वेदं जपन्मुच्यत इत्यर्थः ॥५॥
धनं वा जीवनायालं गृहं वा सपरिच्छदम्
।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥६॥
षड्भिर्वर्षेः कृच्छ्रभोजी ब्रह्महा पूयते नरः
।
मासे मासे समश्नंस्तु त्रिभिर्वर्षेः प्रमुच्यते ॥७॥
कृच्छ्रभोजी कृच्छ्ररीत्या सातत्येन भुञ्जानः 'त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् ।' इति विधिना एकैकः कृच्छ्रो द्वादशदिनात्मको ज्ञेयः । मासे मासे इति तस्यैवातिदेशः । सप्ताहं प्रातः - सप्ताहं सायंसप्ताहमयाचितं सप्ताहमनशनं विषमेषु मासेषु स एवाष्टाहक्रमेण समेषु मासेषु प्रकार एवं वर्षत्रयमिति द्वितीयः ॥७॥
संवत्सरेण मासाशी पूयते नात्र संशयः
।
तथैवोपवसन् राजन् स्वल्पेनापि प्रपूयते ॥८॥
मासाशीति । मासं सायं मासं प्रातर्मासमयाचितं मासमुपवास इति क्रमेण वर्षं वा नयेत् । मासादधिकेन स्वल्पेनापि कालेन उपवसन् जलमात्रेण वर्तयन् मुच्यते ॥८॥
क्रतुना चाश्वमेधेन पूयते नात्र संशयः
।
ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः ॥९॥
'सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति श्रुतिः ॥९॥
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः
।
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥१०॥
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत्
।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥११॥
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्
।
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥१२॥
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
।
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ॥१३॥
शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति
।
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥१४॥
काम्बोजान् जात्यश्वान् कम्बुदेशजान् ॥१४॥
मनोरथं तु यो दद्यादेकस्मा अपि भारत
।
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥१५॥
मनोरथं वाञ्च्छितं गृहक्षेत्रादि ॥१५॥
सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत्
।
स पावयत्यथात्मानमिह लोके परत्र च ॥१६॥
मरुप्रपातं प्रपतन् ज्वलनं वा समाविशन्
।
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्विषैः ॥१७॥
मरुप्रपातं निर्जलदेशे पर्वताग्रात्पतनं महाप्रस्थानं केदारे हिमवदारोहणम् ॥१७॥
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
।
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः ॥१८॥
समितिं गच्छेदित्यस्य निष्पापः सन् ब्रह्मणः सभामारोढुं योग्यो भवतीत्यर्थः ॥१८॥
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः
।
पुनर्न च पिबेद्राजन्संस्कृतः स च शुद्ध्यति ॥१९॥
गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत्
।
अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः ॥२०॥
शेफं शिश्नम् ॥२०॥
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्
।
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः ॥२१॥
यत्ताः त्यक्ताहारविहाराः युक्तेष्वेव पापेषु सत्सु मुच्यन्ते ॥२१॥
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु
।
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥२२॥
महाव्रतं मासमात्रं जलस्यापि त्यागः ॥२२॥
अनृतेनापवर्ती चेत्प्रतिरोद्धा गुरोस्तथा
।
उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥२३॥
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
।
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात् ॥२४॥
परदारापहारी तु परस्यापहरन्वसु
।
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥२५॥
धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु
।
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात् ॥२६॥
कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः
।
परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च ॥२७॥
कृच्छ्रादिति । एतच्च ज्येष्ठस्यापि दाराग्निहोत्रकरणानन्तरं द्रष्टव्यम् ॥२७॥
निवेश्यं तु पुनस्तेन सदा तारयता पितॄन्
।
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥२८॥
तेन कनिष्ठेन निवेश्यं विवाहान्तरं कर्तव्यम् । अन्यथा शुद्धिर्नास्तीत्यर्थः ॥२८॥
भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते
।
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः ॥२९॥
अन्तरा भोजनं धारणापारणव्रतेन मासचतुष्टयकृतेन शुध्यन्ति महापापयोगे ॥२९॥
स्त्रियस्त्वाशङ्किताः पापा नोपगम्या विजानता
।
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥३०॥
अन्यत्र तु सकृद्व्यभिचारमात्रे मानसिके वा आह- स्त्रिय इति ॥३०॥
पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा
।
गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत् ॥३१॥
प्रसङ्गाद्भाजनशुद्धिमाह- पादजेति । शूद्रस्य उच्छिष्टं कांस्यं पात्रं तथा तदेव गवाघ्रातं तथा गण्डूषपात्रं ब्राह्मणस्यापि पूतानि दशभिः शोधनैः शुद्ध्यन्ति । तानि पञ्चगव्येन मृत्तोयैर्भस्मनाऽऽम्लेन वह्निनेति ॥३१॥
चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते
।
पादावकृष्टो राजन्ये तथा धर्मो विधीयते ॥३२॥
तथा वैश्ये च शूद्रे च पादः पादो विधीयते
।
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ॥३३॥
विधीयते पादः पादोपकृष्टः इत्यर्थः । वैश्यस्य द्विपादः शूद्रस्य पादमात्रः । धर्मः शौचादिः । प्रायश्चितादेरधिकस्य विधानात् ॥३३॥
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून्
।
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः ॥३४॥
अगम्यागमने राजन्प्रायश्चित्तं विधीयते
।
आर्द्रवस्त्रेण षण्मासान्विहार्यं भस्मशायिना ॥३५॥
एष एव तु सर्वेषामकार्याणां विधिर्भवेत्
।
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥३६॥
एष इति । भस्मसाहचर्याच्छतरुद्रायजपोऽप्यत्र द्रष्टव्यः । यदाह वृद्धशातातपः-
'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा
।
भस्मच्छन्नो भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः' ॥
इति । पापानां गौरवलाघवानुसारेण दीक्षा संवत्सरं षण्मासं त्रिमासं मासं द्वादशाहमिति यथायोग्य ज्ञेया । तत्र यथा कूष्माण्डहोमे यो योनौ रेतः सिञ्चतीति पारदार्यं प्रकृत्य वर्ष-मास-चतुर्विंशतिरात्र-द्वादशरात्र-षड्रात्र-त्रिरात्रपक्षा उक्ताः यावदेनो दीक्षामुपैतीति च पापानुसारित्वं दीक्षायामुक्तं तद्दृष्टान्तेन सर्वत्र बोध्यम् । दृष्टान्तभूतो य आगमस्तत्रोक्तैर्हेतुभिर्यावदेन इत्याद्यैः ॥३६॥
सावित्रीमप्यधीयीत शुचौ देशे मिताशनः
।
अहिंसो मन्दकोऽजल्पो मुच्यते सर्वकिल्बिषैः ॥३७॥
मन्द इव मन्दकः रागद्वेषमानापमानशून्यः अजल्प इति च्छेदः ॥३७॥
अहःसु सततं तिष्ठेदभ्याकाशं निशां स्वपन्
।
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत् ॥३८॥
तिष्ठेदित्युपवेशनादेर्व्यावृत्तिः अभ्याकाशं निरावरणे स्थण्डिलादौ अहःसु इति बहुवचनादिनापि पापानुसारेण व्यवराणामह्नां गणना कल्पनीया ॥३८॥
स्त्रीशूद्रं पतितं चापि नाभिभाषेद्व्रतान्वितः
।
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥३९॥
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम्
।
अतिरिच्येत यो यत्र तत्कर्ता लभते फलम् ॥४०॥
यत्र पुण्ये पापे वाऽतिरिच्यत योऽधिको भवति स इतरेणेतरदभिभूयातिरिक्तस्य फलं भुङ्क्त इत्यर्थः ॥४०॥
तस्माद्दानेन तपसा कर्मणा च फलं शुभम्
।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥४१॥
कुर्याच्छुभानि कर्माणि निवर्तेत्पापकर्मणः
।
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥४२॥
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्
।
महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥४३॥
व्रतादिरूपं प्रायश्चितं महापातकवर्जं ज्ञेयम् ॥४३॥
भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च
।
अज्ञानज्ञानयो राजन् विहितान्यनुजानतः ॥४४॥
जानता तु कृतं पापं गुरु सर्वं भवत्युत
।
अज्ञानात्स्वल्पको दोषः प्रायश्चित्तं विधीयते ॥४५॥
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्
।
आस्तिके श्रद्दधाने च विधिरेष विधीयते ॥४६॥
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन
।
दम्भद्वेषप्रधानेषु विधिरेष न दृश्यते ॥४७॥
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर
।
सेवितव्यो नरव्याघ्र प्रेत्येह च सुखेप्सुना ॥४८॥
स राजन्मोक्ष्यसे पापात्तेन पूर्णेन हेतुना
।
प्राणार्थं वा धनेनैषामथवा नृपकर्मणा ॥४९॥
अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि
।
मा त्वेवानार्यजुष्टेन मन्युना निधनं गमः ॥५०॥
वैशम्पायन उवाच।
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः
।
चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम् ॥५१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि प्रायश्चित्तीये पञ्चत्रिंशत्तमोऽध्यायः॥३५॥
युधिष्ठिर उवाच।
किं भक्ष्यं चाप्यभक्ष्यं च किं च देयं प्रशस्यते
।
किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥१॥
किं भक्ष्यमिति ॥१॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥२॥
ऋषयस्तु व्रतपराः समागम्य पुरा विभुम्
।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥३॥
प्रजापतिं मनुम् ॥३॥
कथमन्नं कथं पात्रं दानमध्ययनं तपः
।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते ॥४॥
कथं केन प्रकारेण अन्ननदनीयं किंद्रव्यकं कर्तव्यमित्यर्थः ॥४॥
तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत्
।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥५॥
व्यासो विस्तरः ॥५॥
अनादेशे जपो होम उपवासस्तथैव च
।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः ॥६॥
अनादेशे विशेषतोऽनुक्ते दोषे यत्र दशे तत्पराः जपादिपराः प्रायः बहुशः सन्ति सोऽपि गङ्गादिवत्पावन इत्यर्थः । यत्रोपाया इति पाठे स्पष्टोऽर्थः ॥६॥
अनादिष्टं तथैतानि पुण्यानि धरणीभृतः
।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च ॥७॥
तथा जपादिवत् पुण्यानि एतानि वक्ष्यमाणानि धरणीभृतः पर्वता ब्रह्मगिरिप्रभृतयः आदिपदात्सुवर्णस्नानादि अनादिष्टं प्रायश्चितं सामान्यमित्यर्थः ॥७॥
देवस्थानाभिगमनमाज्यप्राशनमेव च
।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः ॥८॥
न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः
।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत् ॥९॥
गर्वेण युक्तो न भवेत् पूजां नावगणयेत् । अवगणने तु त्रिरात्रमुष्णपो भवेदिति तप्तकृच्छ्रं धर्मशास्त्रोक्तं कुर्यादित्यर्थः । भवेदित्यत्र पिबेदिति पाठं प्रकल्प्य सुरामित्यध्याहृत्य सुरां न पिबेत् । पाने तु उष्णपो भवेत्सुरामेवोष्णां कृत्वा पिबेदिति केचित् ॥९॥
अदत्तस्यानुपादानं दानमध्ययनं तपः
।
अहिंसा सत्यमक्रोध इज्या धर्मस्य लक्षणम् ॥१०॥
तप उपवासादि ॥१०॥
स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः
।
आदानमनृतं हिंसा धर्मो ह्यावस्थिकः स्मृतः ॥११॥
आदानं स्तेयम् आवस्थिकः अवस्थाविशेषे भवः प्राणात्ययादौ अधर्मस्यापि स्तेयादेर्धर्मत्वं धर्मस्याप्यस्तेयादेरधर्मत्वमित्यर्थः ॥११॥
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्
।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥१२॥
वैदिक्यौ प्रवृत्यप्रवृत्ती मर्त्यत्वामृतत्वपदे लौकिक्यौ तु ते शुभे चेत् शुभफले अशुभे चेदशुभफले इत्याह द्वाभ्याम्- द्विविधाविति ॥१२॥
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्
।
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च
।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ॥१३॥
एतयोलौकिक्योः फले अपि कारणानुरूपे इत्यर्थः ॥१३॥
दैवं च दैवसंयुक्तं प्राणश्च प्राणदश्च ह
।
अपेक्षापूर्वकरणादशुभानां शुभं फलम् ॥१४॥
दैवयुक्तं शास्त्रीयं कर्म प्राणः जीवनम् एतेषां चतुर्णामपेक्षापूर्वं यत्किञ्चित्क्रियते तर्हि अशुभानां नीचानामपि पुंसां तस्य फलं शुभं भवति ॥१४॥
ऊर्ध्वं भवति सन्देहादिह दृष्टार्थमेव च
।
अपेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥१५॥
ऊर्ध्वमिति । सत्यपि सन्देहे यल्लोकविगानपरिहारार्थं कृतं नित्यादि यच्च केवलं दृष्टार्थं कृतं श्येनादि तन्नोभयत्रापि ॥१५॥
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः
।
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये
।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥१६॥
क्रोधादिना यन्मनसः प्रियमप्रियं कृतं तत्र दृष्टान्तागमहेतुभिः पूर्वोक्तैर्यावदेन इत्याद्यैः प्रमाणैर्देहस्य शोषणम् उपवासादिकं प्रायश्चित्तं कर्तव्यम् । औषधैर्हविष्याशनैः मन्त्रैश्च पवित्रजपैः चादव्यदपि तीर्थाटनश्रमादिभिः तत्पापं शाम्यतीति सार्धम् ॥१६॥
उपवासमेकरात्रं दण्डोत्सर्गे नराधिपः
।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः ॥१७॥
क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः
।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत् ॥१८॥
क्षयं पुत्रादिमरणनिमित्तम् आत्मवधार्थं प्रवृत्तो न म्रियेत चेत् त्रिरात्रमुपवासं चरेत् ॥१८॥
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः
।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते ॥१९॥
जातिर्बाह्मणत्वादिः । श्रेणी गृहस्थादीनां पङ्क्तिः । अघिवासः जन्मभूमिः जात्यादिधर्मांश्च ये वर्जयन्ति तेषां धर्मः प्रायश्चित्तादिस्वरूपो न विद्यते ॥१९॥
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः
।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥२०॥
पाठकाः शोधकाः विचारका इति यावत् । कार्ये प्रायश्चित्तनिमित्ते दोषे ॥२०॥
अनड्वान्मृत्तिका चैव तथा क्षुद्रपिपीलिकाः
।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥२१॥
अभक्ष्यानाह चतुर्भिः- अनड्वानिति ॥२१॥
अभक्ष्या ब्राह्मणैर्मत्स्याः शुल्कैर्ये वै विवर्जिताः
।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥२२॥
भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः
।
काको मद्गुश्च गृध्रश्च श्लेनोलूकस्तथैव च ॥२३॥
क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये
।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥२४॥
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि
।
मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ॥२५॥
एडका मेषी । सूतिकानामनिर्देशानाम् ॥२५॥
प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम्
।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम् ॥२६॥
अभोज्यं पायसाद्यन्तर्गतम् ॥२६॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्
।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः ॥२७॥
अवीरायाः पतिपुत्रहीनायाः ॥२७॥
विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम्
।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः ॥२८॥
इन्द्रियं शुक्रं गणिकादित्रयाणामन्नम् ॥२८॥
दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च
।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ॥२९॥
दीक्षितस्य अग्नीषोमीयवपाहोमात्प्राक् न भोक्तव्यं, कदर्यः धनव्ययभयाद्भोगत्यागहीनः ॥२९॥
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा
।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा ॥३०॥
रक्षिणः ग्रामपालकस्य सामादि रक्षिणो वा ॥३०॥
परिवित्तीनां पुंसां च बन्दिद्यूतविदां तथा
।
वामहस्ताहृतं चान्नं भक्तं पर्युषितं च यत् ॥३१॥
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्
।
पिष्टस्य चेक्षुशाकानां विकाराः पयसस्तथा ॥३२॥
शेषितं कुटुम्बाय अदत्वाऽऽत्मार्थं रक्षितम् ॥३२॥
सक्तुधानाकरम्भाणां नोपभोग्याश्चिरस्थिताः
।
पायसं कृसरं मांसमपूपाश्च वृथाकृताः ॥३३॥
धानाः भृष्टयवाः, करंभाः दधिसक्तवः सक्त्वादीनां विकाराः नष्टाः क्सत्वादयः, कृसरं तिलमिश्रः ओदनः । वृथाकृताः देवताद्युद्देशं विना कृताः ॥३३॥
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः
।
देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः ॥३४॥
चात् पेयाः पीयूषादयः ॥३४॥
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
।
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत् ॥३५॥
एवंवृत्तः प्रियैर्दारैः संवसन् धर्ममाप्नुयात्
।
न दद्याद्यशसे दानं न भयान्नोपकारिणे ॥३६॥
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः
।
न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके ॥३७॥
हासकेषु परिहासपरेषु भण्डेषु ॥३७॥
न वाग्धीने विवर्णे वा नाङ्गहीने न वामने
।
न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः ॥३८॥
वाग्घीने मूके मूर्खे वा ॥३८॥
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते
।
असम्यक् चैव यद्दत्तमसम्यक् च प्रतिग्रहः
।
उभयं स्यादनार्थाय दातुरादातुरेव च ॥३९॥
यथा खदिरमालम्ब्य शिलां वाऽप्यर्णवं तरन्
।
मज्जेत मज्जतस्तद्वद्दाता यश्च प्रतिग्रही ॥४०॥
काष्ठैरार्दैर्यथा वह्निरुपस्तीर्णो न दीप्यते
।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥४१॥
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः
।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥४२॥
श्वदृतौ शुनकचर्ममये कोशे ॥४२॥
निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः
।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च ॥४३॥
अनसूयकः गुणेषु दोषारोपम् अकुर्वन् अनुक्रोशात् दयया ॥४३॥
न वै देयमनुक्रोशाद्दीनार्तातुरकेष्वपि
।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः ॥४४॥
आप्तचरितः इष्टकारीति बुद्ध्या धर्मबुद्ध्या वा निर्मन्त्रे न देयमित्याह- न वा इति ॥४४॥
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते
।
भवेदपात्रदोषेण न चात्रास्ति विचारणा ॥४५॥
अत्रैव हेतुमाह- निष्कारणमिति । निष्कारणं निष्फलं दोषेण युक्त इति शेषः ॥४५॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
।
ब्राह्मणश्चानधीयानस्त्रयस्ते नाम बिभ्रति ॥४६॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला
।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥४७॥
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः
।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥४८॥
निराकृतौ मूर्खे ॥४८॥
देवतानां पितॄणां च हव्यकव्यविनाशकः
।
शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥४९॥
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर
।
समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ॥५०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्यासवाक्ये षट्त्रिंशत्तमोऽध्यायः ॥३६॥
युधिष्ठिर उवाच।
श्रोतुमिच्छामि भगवन् विस्तरेण महामुने
।
राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥१॥
श्रोतुमिति ॥१॥
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम
।
धर्म्यमालक्ष्य पन्थानं विजयेयं कथं महीम् ॥२॥
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्जिता
।
कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥३॥
भक्ष्याभक्ष्यविवर्जिता उपवासात्मिका कौतूहलेन प्रसङ्गेन अनुप्रवणा अभिमुखा ॥३॥
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते
।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥४॥
वैशम्पायन उवाच।
तमुवाच महाराज व्यासो वेदविदां वरः
।
नारदं समभिप्रेक्ष्य सर्वज्ञानां पुरातनम् ॥५॥
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप
।
प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥६॥
प्रैहि प्रयाहि ॥६॥
स ते धर्मरहस्येषु संशयान्मनसि स्थितान्
।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥७॥
जनयामास यं देवी दिव्या त्रिपथगा नदी
।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥८॥
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः
।
तोषयित्वोपचारेण राजनीतिमधीतवान् ॥९॥
उशना वेद यच्छास्त्रं यच्च देवगुरुर्द्विजः
।
यच्च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥१०॥
सवैयाख्यं व्याख्यासहितम् ॥१०॥
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्
।
प्रतिपेदे महाबाहुर्वसिष्ठाच्चरितव्रतः ॥११॥
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्
।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥१२॥
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्
।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुषर्षभः ॥१३॥
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि
।
तथाऽनपत्यस्य सतः पुण्यश्लोकादिविश्रुताः ॥१४॥
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः
।
यस्य नाविदितं किञ्चिज्ज्ञानयज्ञेषु विद्यते ॥१५॥
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्
।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥१६॥
विमुञ्चति विमोक्ष्यति ततः पुरा ॥१६॥
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः
।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥१७॥
युधिष्ठिर उवाच।
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम्
।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥१८॥
वैशसं विनाशम् ॥१८॥
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्
।
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ॥१९॥
उपसंप्रष्टुम् उपागत्य सम्यक्प्रष्टुम् ॥१९॥
वैशम्पायन उवाच।
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया
।
पुनराह महाबाहुर्यदुश्रेष्ठो महामतिः ॥२०॥
वासुदेव उवाच ।
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि
।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥२१॥
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः
।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥२२॥
नाथमानाः याचमानाः उपासत इत्युत्तरत्रापि योज्यम् ॥२२॥
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्
।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥२३॥
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्
।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥२४॥
सुहृदामस्मदादीनां द्रौपद्याश्च परंतप
।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥२५॥
वैशम्पायन उवाच।
एवमुक्तः स कृष्णेन राजा राजीवलोचनः
।
हितार्थं सर्वलोकस्य समुत्तस्थौ महात्मनाः ॥२६॥
सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम्
।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥२७॥
विष्टरश्रवसा विष्णुना ॥२७॥
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः
।
व्यजहान्मानसं दुःखं सन्तापं च महायशाः ॥२८॥
सन्तापं शारीरं तापम् ॥२८॥
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः
।
व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ॥२९॥
वाक्यानि वेदावयवाः । निधिस्तदर्थविचारग्रंथो मीमांसा । अन्यदपि यत् श्रुतं श्रव्यं नीतिशास्त्रादि तत्र विशारदः ऊहापोहकुशलः । व्यवस्य कर्तव्यमर्थं निश्चित्य ॥२९॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥३०॥
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः
।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥३१॥
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम्
।
युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ॥३२॥
तत इति । गोभिर्बलीवर्दैः । एतस्माल्लिङ्गाद्गम्यते यत्पुरप्रवेशे प्रथमं गोरथेन प्रवेष्टव्यमिति । मन्त्रलिङ्गादप्येतद्गम्यते-
'सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय
।
जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूঁरिवाजौ ॥'
अस्यार्थः- हे बृहस्पते बृहस्पतितुल्य हे पुरोहित आङ्गिरसो वृहस्पतिः गोभिर्वृषैः रथमित्यर्थात् । संनक्षमाणो रथस्य सन्नहनं करिष्यन् । यकारलोप आर्षः अर्यमणं देवं भग इव षड्विधमैश्वर्यमिव निनाय प्रापितवान् । तत्र दृष्टान्तः- जने इति । नकार उपमार्थे । यथा जने लोके मित्रः सखा दम्पती अनक्ति अन्योन्यसंबद्धे स करोति एवं नगरगतामैश्वर्यलक्ष्मीं परिणेष्यन् गोरथेन नगरं प्रवेशयेद्राजानं पुरोहितः । एवं जयलक्ष्मीं परिणेष्यन्नश्वरथेन आजिं प्रविशेदित्याह- वाजयेति । आजौ संग्रामे अशूनश्वान् रथे युञ्जन् वाजय गमय यजमानं जयलक्ष्मीं परिणेतुमित्यर्थादनुषञ्जनीयम् ॥३२॥
मन्त्रैरभ्यर्चितं पुण्यैः स्तूयमानश्च बन्दिभिः
।
आरुरोह यथा देवः सोमोऽमृतमयं रथम् ॥३३॥
अमृतमयं देवतामयम् ॥३३॥
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः
।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥३४॥
ध्रियमाणं च तच्छत्रं पाण्डुरं रथमूर्धनि
।
शुशुभे तारकाकीर्णं सितमभ्रमिवाम्बरे ॥३५॥
तारकास्ताराः तत्तुल्याश्छत्रुप्रान्तस्थमौक्तिकगुच्छाश्च ॥३५॥
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा
।
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते ॥३६॥
ते पञ्चरथमास्थाय भ्रातरः समलंकृताः
।
भूतानीव समस्तानि राजन्ददृशिरे तदा ॥३७॥
यथा देहरथो भूतपञ्चकमयः एवं सोऽपि रथो भ्रातृपञ्चकयुक्तः ॥३७॥
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः
।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥३८॥
युयुत्सुर्धृतराष्ट्रपुत्रः ॥३८॥
रथं हेममयं शुभं शैब्यसुग्रीवयोजितम्
।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥३९॥
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत
।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥४०॥
नरयानं 'तखतरावा' इति म्लेच्छभाषायां प्रसिद्धं न तु शिबिका ॥४०॥
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा तथैव च
।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥४१॥
ततो रथाश्च बहुला नागाश्वसमलंकृताः
।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥४२॥
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः
।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥४३॥
तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि
।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥४४॥
आकुलाकुलमतिसंकुलं सम्मर्दवशात् ॥४४॥
अभियाने तु पार्थस्य नरैर्नगरवासिभिः
।
नगरं राजमार्गाश्च यथावत्समलङ्कृताः ॥४५॥
पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी
।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥४६॥
माल्येन पुष्पसमूहेन मेदिनी समलङ्कृतेत्यनुषज्ज्यते । धूपनैः अगरुप्रभृतिभिर्धूपद्रव्यैः ॥४६॥
अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः
।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥४७॥
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः
।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥४८॥
सिताः चूर्णादिना शुक्लीकृताः सुमनसः पुष्पाणि गौराः शुक्लाः ॥४८॥
यथा स्वलङ्कृतं द्वारं नगरं पाण्डुनन्दनः
।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥४९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरप्रवेशे सप्तत्रिंशत्तमोऽध्यायः॥३७॥
वैशम्पायन उवाच।
प्रवेशने तु पार्थानां जनानां पुरवासिनाम्
।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ॥१॥
प्रवेशने इति ॥१॥
स राजमार्गः शुशुभे समलङ्कृतचत्वरः
।
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥२॥
गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च
।
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत ॥३॥
स्त्रीणां स्त्रीभिः ॥३॥
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्
।
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥४॥
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्
।
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ॥५॥
तव कर्माण्यमोघानि व्रतचर्या च भाविनि
।
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥६॥
प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत
।
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥७॥
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः
।
अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह ॥८॥
ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा
।
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः ॥९॥
दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन
।
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥१०॥
भवनस्त्वं महाराज राजेह शरदां शतम्
।
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा ॥११॥
एवं राजकुलद्वारि मङ्गलैरभिपूजितः
।
आशीर्वादान् द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥१२॥
प्रविश्य भवनं राजा देवराजगृहोपमम्
।
श्रद्धाविजयसंयुक्तं रथात्पश्चादवातरत् ॥१३॥
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च
।
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः ॥१४॥
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः
।
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान् ॥१५॥
अभिरूपान्मङ्गलद्रव्यपाणीन् ॥१५॥
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः
।
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥१६॥
तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान्
।
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ॥१७॥
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा
।
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥१८॥
किमिच्छसि किमिच्छसीति पृच्छद्भिर्भूत्यैर्विविधैर्गोवस्त्रादिद्रव्यैर्निमन्त्रयद्भिरित्यर्थः॥१८॥
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत
।
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः ॥१९॥
स्तब्ध्वा व्याप्य ॥१९॥
हंसवद्विदुषां राजा द्विजानां तत्र भारतीम्
।
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षराम् ॥२०॥
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः
।
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥२१॥
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः
।
राजानं ब्राह्मणच्छद्या चार्वाको राक्षसोऽब्रवीत् ॥२२॥
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
।
साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥२३॥
वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः
।
परं सहस्रै राजेन्द्र तपोनियमसंवृतैः ॥२४॥
स दुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्
।
अनामन्त्र्यैव तान् विप्नांस्तमुवाच महीपतिम् ॥२५॥
चार्वाक उवाच ।
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि
।
धिग् भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥२६॥
किं तेन स्याद्धि कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्
।
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥२७॥
इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः
।
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥२८॥
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिर
।
व्रीडिताः परमोद्विग्नास्तूष्णीमासन् विशाम्पते ॥२९॥
युधिष्ठिर उवाच।
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
।
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ ॥३०॥
प्रत्यासन्नाः समीपस्थाः व्यसनिनश्चिरदुःखिनो भ्रात्रादयो यस्य तं भ्रात्रादिदुःखपरिहारार्थं ममेदं राज्यकरणं न तु स्वसुखार्थमित्यर्थः ॥३०॥
वैशम्पायन उवाच।
ततो राजन् ब्राह्मणास्ते सर्व एव विशाम्पते
।
ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ॥३१॥
जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा
।
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥३२॥
जज्ञुः ज्ञातवन्तः ॥३२॥
ब्राह्मणा ऊचुः
।
एष दुर्योधनसखा चार्वाको नाम राक्षसः
।
परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥३३॥
न वयं ब्रूम धर्मात्मन् व्येतु ते भयमीदृशम्
।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥३४॥
वैशम्पायन उवाच।
ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः
।
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥३५॥
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्
।
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥३६॥
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
।
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि चार्वाकवधे अष्टत्रिंशत्तमोऽध्यायः॥३८॥
युधिष्ठिर उवाच।
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम
।
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥१॥
किमिदमिति ॥१॥
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषर्षभ
।
अपक्रान्तो यतो देवस्तेन मे विस्मितं मनः ॥२॥
चतुर्थं जाग्रत्स्वप्नसुषुप्तिभ्यः परम् आलम्ब्य अपक्रान्तः देहत्रयात् ॥२॥
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः
।
इन्द्रियाणि प्रसन्नानि मनसि स्थापितानि ते ॥३॥
पञ्चकर्मा प्राणनादिकारी ॥३॥
वाक्च सत्त्वं च गोविन्द बुद्धौ संवेशितानि ते
।
सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः ॥४॥
सत्त्वं मनः वागुपलक्षितानीन्द्रियाणि च बुद्धौ महत्तत्त्वे गुणाः शब्दादिगुणभाजो देवाः श्रोत्रादीनि इन्द्रियाणि ॥४॥
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः
।
काष्ठकुड्यशिलाभूतो निरीहश्चासि माधव ॥५॥
नेङ्गन्ति न कम्पन्ते निरीहो निश्चेष्टः ॥५॥
यथा दीपो निवातस्थो निरिङ्गो ज्वलते पुनः
।
तथाऽसि भगवन्देव पाषाण इव निश्चलः ॥६॥
निरिङ्गः अचलः ॥६॥
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि
।
छिन्धि मे संशयं देव प्रपन्नायाभियाचते ॥७॥
त्वं हि कर्ता विकर्ता च क्षरं चैवाक्षरं च हि
।
अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ॥८॥
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च
।
ध्यानस्यास्य यथा तत्त्वं ब्रूहि धर्मभृतां वर ॥९॥
ततः स्वे गोचरे न्यस्य मनोबुद्धीन्द्रियाणि सः
।
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥१०॥
गोचरे स्वे स्वे स्थाने ॥१०॥
वासुदेव उवाच ।
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः
।
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥११॥
ध्याति- ध्यायति ॥११॥
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
।
न सेहे देवराजोऽपि तमस्मि मनसा गतः ॥१२॥
येनाभिजित्य तरसा समस्तं राजमण्डलम्
।
ऊढास्तिस्त्रस्तुताः कन्यास्तमस्मि मनसा गतः ॥१३॥
त्रयोविंशतिरात्रं यो योधयामास भार्गवम्
।
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥१४॥
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया
।
शरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥१५॥
यं गङ्गा गर्भविधिना धारयामास पार्थिव
।
वसिष्ठशिक्षितं तात तमस्मि मनसा गतः ॥१६॥
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्
।
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥१७॥
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव
।
आधारं सर्वविद्यानां तमस्मि मनसा गतः ॥१८॥
स हि भूतं भविष्यच्च भवच्च भरतर्षभ
।
वेत्ति धर्मविदां श्रेष्ठं तमस्मि मनसा गतः ॥१९॥
तस्मिन्हि पुरुषव्याघ्ने कर्मभिः स्वैर्दिवं गते
।
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥२०॥
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्
।
अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् ॥२१॥
चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च
।
राजधर्मांश्च निखिलान् पृच्छैनं पृथिवीपते ॥२२॥
चतस्रो विद्याः धर्मार्थकाममोक्षविद्याः सर्ववर्णसाधारणाः चातुर्होत्रं त्रैवर्णिकानां विशेषधर्मो यज्ञादिः ॥२२॥
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे
।
ज्ञानान्यस्तं गमिष्यन्ति तस्मात्त्वां चोदयाम्यहम् ॥२३॥
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्
।
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥२४॥
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव
।
तथा तन्नात्र सन्देहो विद्यते मम माधव ॥२५॥
महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते
।
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ॥२६॥
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन
।
तथा तदनभिध्येयं वाक्यं यादवनन्दन ॥२७॥
अनभिध्येयम् अविचारणीयम् ॥२७॥
यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव
।
त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम् ॥२८॥
आवृत्ते भगवत्यर्के स हि लोकान् गमिष्यति
।
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥२९॥
तव चाद्यस्य देवस्य क्षरस्यैवाक्षरस्य च
।
दर्शनं त्वस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥३०॥
वैशम्पायन उवाच।
श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः
।
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥३१॥
सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः
।
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥३२॥
स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम्
।
मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमनिबद्धचक्रम् ॥३३॥
स इति । मसारगल्वर्कमयैर्विभङ्गैः मसारो मरकतमणिः गलुश्चन्द्रकान्तः अर्कः सूर्यकान्तः तन्मयैः विभङ्गैः विस्तरैः । विटङ्कैरिति पाठे पक्ष्युपवेशनस्थानैः ॥३३॥
दिवाकरांशुप्रभमाशुगामिनं विचित्रनानामणिभूषितान्तरम्
।
नवोदितं सूर्यमिव प्रतापिनं विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥३४॥
सुग्रीवशैब्यप्रमुखैर्वराश्वैर्मनोजवैः काञ्चनभूषिताङ्गैः
।
संयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह ॥३५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि महापुरुषस्तवे षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥
जनमेजय उवाच।
शरतल्पे शयानस्तु भरतानां पितामहः
।
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥१॥
शरतल्पे इति ॥१॥
वैशम्पायन उवाच।
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥२॥
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे
।
समावेशयदात्मानमात्मन्येव समाहितः ॥३॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः
।
शुशुभे परया लक्ष्या वृतो ब्राह्मणसत्तमैः ॥४॥
व्यासेन वेदविदुषा नारदेन सुरर्षिणा
।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥५॥
तथा जैमिनिना चैव पैलेन च महात्मना
।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥६॥
असितेन वसिष्ठेन कौशिकेन महात्मना
।
हारीतलोमशाभ्यां च तथाऽऽत्रेयेण धीमता ॥७॥
बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः
।
सनत्कुमारः कपिलो वाल्मीकिस्तुम्बुरुः कुरुः ॥८॥
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः
।
पिप्पलादोऽथ वायुश्च संवर्तः पुलहः कचः ॥९॥
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः
।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥१०॥
धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः
।
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ॥११॥
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः
।
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ॥१२॥
श्रद्धा-दम-शमोपेतैर्वृतश्चन्द्र इव ग्रहैः
।
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ॥१३॥
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः
।
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् ॥१४॥
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्
।
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः
।
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥१५॥
भीष्म उवाच।
आरिराधयिषुः कृष्णं वाचं जिगदिषामियाम्
।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥१६॥
आरिराधयिषुः वस्तुतस्तत्त्वावधारणपूर्वकं ध्यानमाराधनं तत्कर्तुमिच्छुः। जिगदिषामि । वक्तुमिच्छामि व्याससमासिन्या विस्तरसंक्षेपवत्या ॥१६॥
शुचिं शुचिपदं हंसं तत्पदं परमेष्ठिनम्
।
मुक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥१७॥
तत्र संक्षेपमाह- शुचिमिति ।शुचिं स्वतः परतो वा दोषहीनं शुचिपदं तादृशमेव पदं प्राप्तिमार्गो योगो यस्य तम् । हंसं सर्वातिगम् । तत्पदं तत्त्वमसीतिवाक्ये तत्पदस्याथभूतम् ईश्वरं परमेष्ठिनं हिरण्यगर्भम् आत्मानं देहेत्रयम् ॥१७॥
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः
।
एकोऽयं वेद भगवान् धाता नारायणो हरिः ॥१८॥
नारायणादृषिगणास्तथा सिद्धमहोरगाः
।
देवा देवर्षयश्चैव यं विदुः परमव्ययम् ॥१९॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः
।
यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥२०॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥२१॥
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति
।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥२२॥
सदसत्कार्यं कारणं च ताभ्यां सूत्रान्तर्यामिभ्यां ग्रथितम् । विश्वम् अङ्गेऽधिष्ठानभूते यस्य तस्मिन् । विश्वं कर्म यस्मात् । को ह्येवान्यादिति श्रुतिः ॥२२॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्
।
सहस्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् ॥२३॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम्
।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥२४॥
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥२५॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च
।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥२६॥
वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषु अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु । निषत्सु कर्माङ्गाद्यवबद्धदेवतादिज्ञानवाक्येषु उपनिषत्सु केवलात्मज्ञापकवाक्येषु । गृणन्ति ध्यायन्ति सत्यम् अबाधितं सत्येषु अबाधितार्थेषु सामसु ज्येष्ठसामादिषु ॥२६॥
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्
।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥२७॥
चतुर्भिर्नामभिः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपैः क्रमाच्चतुरात्मानं ब्रह्म जीवमनोऽहङ्काररूपम् । सत्त्वस्थं बुद्धौ अभिव्यक्तम् । सात्वतां भक्तानां पतिम् ॥२७॥
यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति
।
सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥२८॥
नित्यं तपः स्वधर्मः तत् यस्मिन् । यत्प्रीत्यर्थं तप्तं सत् यत् यस्मादङ्गेषु चित्तेषु अनुतिष्ठति उपतिष्ठति । यश्च सर्वात्मा तं प्रपद्ये इति सर्वेषां यच्छब्दसम्बद्धानां प्रथमेनान्वयः । ईश्वरार्थमनुष्ठितो धर्मः स्वचित्तशुद्धिद्वारा स्वार्थ एव भवतीत्याश्चर्यमिति भावः ॥२८॥
यं देवं देवकी देवी वसुदेवादजीजनत्
।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥२९॥
भौमं ब्रह्म वेदा ब्राह्मणा यज्ञाश्च ॥२९॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्
।
दृष्ट्यानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥३०॥
अनन्यः त्यक्तभेदः आत्मानं प्रत्यञ्चमेव आत्मानं सर्वेश्वरम् आत्मनि हार्दाकाशे दृष्ट्या सूक्ष्मबुद्ध्या । इष्ट्वेति पाठे योगेन पश्यति आनन्त्याय मोक्षाय ॥३०॥
अतिवाय्विन्द्रकर्माणमतिसूर्यातितेजसम्
।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥३१॥
पुराणे पुरुषं प्रोक्तं ब्रह्म प्रोक्तं युगादिषु
।
क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥३२॥
पुराणे अतीतकल्पादिविषये पुरुषं पूर्णं सर्वमस्मिन्नतीतमस्त्येवेति योगात्पुरुष इति नाम । युगादिषु युगारम्भेषु बृंहकत्वात्सृष्टेरेनं ब्रह्मेत्याहुः । क्षये सर्वस्य सम्यक्कर्षणादयं सङ्कर्षण इत्युक्तः ॥३२॥
यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम्
।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥३३॥
बहुधा इन्द्रादिदेवतारूपेण नान्यभक्ताः अनन्यभक्ताः ॥३३॥
यमाहुर्जगतः कोशं यस्मिन्सन्निहिताः प्रजाः
।
यस्मिल्लोकाः स्फुरन्तीमे जले शकुनयो यथा ॥३४॥
शकुनयो हंसकारण्डवाद्याः ॥३४॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतोः परम्
।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः
।
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः ॥३५॥
प्रयता नित्यमर्चन्ति परमं दुःखभेषजम्
।
अनादिनिधनं देवमात्मयोनिं सनातनम् ॥३६॥
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम्
।
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
।
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥३७॥
अथ भीष्मस्तवराजः
।
हिरण्यवर्णं यं गर्भमदितेर्दैत्यनाशनम्
।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥३८॥
जज्ञे जनयामास ॥३८॥
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः
।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥३९॥
महतस्तमसः पारे पुरुषं ह्यतितेजसम्
।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥४०॥
अतितेजसं स्वयंज्योतिषं ज्ञेयात्मने न तूपास्यात्मने ॥४०॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे
।
यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः ॥४१॥
उक्थे बह्वृचाः अग्नौ चयनेऽध्वर्यवः ॥४१॥
ऋग्यजुःसामधामानं दशार्धहविरात्मकम्
।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥४२॥
ऋग्यजुःसामान्येव धामानि यस्य तम् । दशार्धानि पञ्चधानाः करम्भः परिवापः पुरोडाशः पयश्चेति पञ्चहवींषि तदात्मकम् । सप्ततन्तव इव योजनीयाः गायत्र्यादयो यस्मिन् तं सप्ततन्तुम् ॥४२॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च
।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥४३॥
चतुर्भिरिति । आश्रावयेति चतुरक्षरम् । अस्तु श्रौषडिति चतुरक्षरम् । यजेति द्व्यक्षरम् । ये यजामहे इति पञ्चाक्षरम् । द्व्यक्षरो वषट्कार इति सप्तदशभिरक्षरैर्यो हूयते तस्मै होमात्मने नमः ॥४३॥
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः
।
रथन्तरं वृहत्साम तस्मै स्तोत्रात्मने नमः ॥४४॥
सुपर्णः वेदपुरुषः यजुरिति यस्य नाम छन्दांसि गायत्र्यादीनि यस्य गात्राणि हस्तादीनि । त्रिवृत् त्रिभिरृग्यजुःसामभिर्वर्तत इति योगाद्यज्ञः स एव शिरो यस्य यस्य रथन्तरं बृहच्च वैकल्पिकं साम प्रीतिवाक्यम् ॥४४॥
यः सहस्रसमे सत्रे जज्ञे विश्वसृजामृषिः
।
हिरण्यपक्षः शकुनिस्तस्मै हंसात्मने नमः ॥४५॥
सहस्रसमे सहस्रसंवत्सरे सत्रे जज्ञे आविर्बभूव ॥४५॥
पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषणम्
।
यमाहुरक्षरं दिव्यं तस्मै वागात्मने नमः ॥४६॥
पादाश्चरणाः पदसमूहा वाक्यानि वा अङ्गानि हस्तादीनि यस्य तं पादाङ्गम् । सन्धयः शाब्दिकप्रसिद्धाः । पर्वाणि अङ्गुल्यादीनि काण्डानि । स्वराः अचः । व्यञ्जनानि हलः ॥४६॥
यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार ह
।
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥४७॥
यः शेते योगमास्थाय पर्यङ्के नागभूषिते
।
फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥४८॥
यस्तनोति सतां सेतुमृतेनामृतयोनिना
।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥४९॥
सेतुं तरणोपायं योगधर्मम् । ऋतेन वेदोक्तेन उपायेन अमृतयोनिना मोक्षहेतुना धर्मार्थ एव न त्वर्थकामार्थो व्यवहारो वागादिपरिस्पन्दस्तदर्थानि अङ्गानि तैः जितैरिन्द्रियैरित्यर्थः ॥४९॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥५०॥
धर्मैः पाशुपतपञ्चरात्रादितन्त्रोक्तैः ॥५०॥
यतः सर्वं प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः
।
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥५१॥
अनङ्गात्मानि काममयानि अङ्गानि यस्य सः अनङ्गात्माङ्गः स चासौ देही च तस्य अनङ्गात्माङ्गदेहिनः ॥५१॥
यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः
।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥५२॥
व्यक्तस्थं देहान्तस्थं क्षेत्रे बुद्धौ ॥५२॥
यं त्रिधात्मानमात्मस्थं वृतं षोडशभिर्गुणैः
।
प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥५३॥
आत्मानं चेतनम् । आत्मस्थं नित्यं स्वरूपस्थितमपि षोडशभिर्गुणैर्गुणकार्यैरेकादशभिरिन्द्रियैः पञ्चभिर्भूतैश्च त्रिधा जाग्रत्स्वप्नसुषुप्तिषूदारतनुप्रसुप्तरूपैर्वृतम् ॥५३॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः
।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥५४॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः
।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥५५॥
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः
।
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ॥५६॥
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्
।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥५७॥
तद्यस्य नाभ्यां सम्भूतं यस्मिन्विश्वं प्रतिष्ठितम्
।
पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥५८॥
तत्पुष्करं यस्य नाभ्यां सम्भूतम् । यस्मिन्पुष्करे विश्वं प्रतिष्ठितम् ॥५८॥
सहस्रशिरसे चैव पुरुषायामितात्मने
।
चतुः समुद्रपर्याययोगनिद्रात्मने नमः ॥५९॥
चतुर्णां प्रसुप्ततनुविच्छिन्नोदाराणां समुद्राणां कामानां पर्यायः सर्वात्मना निर्गमनं यस्याः सा योगनिद्रा तदात्मने 'कामं समुद्रमाविश’ इति मन्त्रवर्णात्समुद्रः कामः ॥५९॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु
।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥६०॥
यस्मात्सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः
।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥६१॥
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः
।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥६२॥
रात्रौ सुषुप्तौ निषण्ण एव न तु सुप्तः साक्षीत्यर्थः । दिवा जाग्रत्स्वप्नयोः विष्टितः कर्तृरूपेण तद्विपरीतेन स्थितः । वस्तुतस्तु द्रष्टा न तु कर्ता ॥६२॥
अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम्
।
वैकुण्ठस्य च तद्रूपं तस्मै कार्यात्मने नमः ॥६३॥
अकुण्ठम् अनिरुद्धम् ॥६३॥
त्रिःसप्तकृत्वो यः क्षत्रं धर्मव्युत्क्रान्तगौरवम्
।
क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः ॥६४॥
विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः
।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥६५॥
पञ्चधा प्राणादिरूपेण ॥६५॥
युगेष्वावर्तते योगैर्मासर्त्वयनहायनैः
।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥६६॥
युगेषु कृतादिषु आवर्तते मत्स्यादिरूपेण किं कर्मवशोऽयं नेत्याह- योगैरिति । योगमायाबलेन नटवदित्यर्थः ॥६६॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः
।
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥६७॥
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः
।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥६८॥
परः कालात्परो यज्ञात्परात्परतरश्च यः
।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥६९॥
परात् हिरण्यगर्भात् परो मायावी परतरस्तु शुद्धः ॥६९॥
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः
।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥७०॥
विषये श्रोत्रादिगोचरे वर्तमानानाम् । अनादरे षष्ठी । तान् अनादृत्य वैशेषिकैर्गुणैः विशेषजै रागद्वेषैः यं विषयगोप्तारं प्राहुः । यत्र रागस्तमेवार्थं वासनारूपेण मनसि रक्षन् संसरति न तु सर्वमित्यर्थः ॥७०॥
अन्नपानेन्धनमयो रसप्राणविवर्धनः
।
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥७१॥
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्
।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥७२॥
अन्तर्भूतः अन्तः प्रविष्टः ॥७२॥
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम्
।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥७३॥
दृप्तात्मने नृसिंहाय ॥७३॥
यं न देवा न गन्धर्वा न दैत्या न च दानवाः
।
तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः ॥७४॥
रसातलगतः श्रीमाननन्तो भगवान्विभुः
।
जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः ॥७५॥
यो मोहयति भूतानि स्नेहपाशानुबन्धनैः
।
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥७६॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्
।
यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥७७॥
आत्मेति । शब्दादिविषयको यो बोधः स विषयमनन्तर्भाव्य आत्मस्वरूपभूतमेव ज्ञानम् । यथोक्तम्-
'परागर्थप्रमेयेषु या फलत्वेन संमता
।
संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः' ॥
इति। ईदृशमेव यं ज्ञानेन ज्ञानसाधनवाक्येन ॥७७॥
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे
।
अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः ॥७८॥
अप्रमेयमगोचरं शरीरं स्वरूपं यस्य अनन्तमपारं परिमेयं विषयजातं यत्र तस्मै ॥७८॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे
।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥७९॥
कमण्डलुनिषङ्गाय तज्जलैरेव बाणभूतैरसुरान्नाशयते इत्यर्थः ॥७९॥
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥८०॥
चन्द्राधकृतशीर्षाय व्यालयज्ञोपवीतिने
।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥८१॥
सर्वभूतात्मभूताय भूतादिनिधनाय च
।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥८२॥
भूतादेरहङ्कारस्य निधनं मरणं तस्मै ॥८२॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः
।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥८३॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव
।
अपवर्गस्थभूतानां पञ्चानां परतः स्थितः ॥८४॥
अपवर्गस्थ नित्यमुक्त यतः भूतानां भूतेभ्यः परतः स्थित ॥८४॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु
।
नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः ॥८५॥
त्रिषु लोकेषु तेभ्यः परतश्च विद्यमानाय ते त्रिषु कालेषु नमः ॥८५॥
नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय
।
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥८६॥
न हि पश्यामि ते भावं दिव्यं हि त्रिषु वर्त्मसु
।
त्वां तु पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥८७॥
वर्त्मसु वर्तमानादिषु ॥८७॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा
।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥८८॥
दिवं द्यौः ॥८८॥
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः
।
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥८९॥
सप्त उपरितनानि च्छिद्राणि प्रवाहादयो वा सर्वं त्वयैव व्याप्तमित्यर्थः ॥८९॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम्
।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥९०॥
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः
।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥९१॥
कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये
।
ते कृष्णदेहाः प्रविशन्ति कृष्णमाज्यं यथा मन्त्रहुतं हुताशे ॥९२॥
नमो नरकसंत्रासरक्षामण्डलकारिणे
।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥९३॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥९४॥
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्
।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥९५॥
यथा विष्णुमयं सत्यं तथा विष्णुमयं जगत्
।
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥९६॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे
।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥९७॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः
।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥९८॥
नारायणः परं ब्रह्म नारायणपरं तपः
।
नारायणः परो देवः सर्वं नारायणः सदा ॥९९॥
वैशम्पायन उवाच।
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः
।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥१००॥
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥१०१॥
भीष्माय ज्ञानं दत्वा पुनः स्वदेहं प्रति शयनस्थाने ययौ आगतवान् । तदा युधिष्ठिरेण च प्रबोधितः सन्नुत्थित इत्यर्थः ॥१०१॥
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः
।
भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥१०२॥
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम्
।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥१०३॥
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः
।
सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ॥१०४॥
विदित्वा योगबलेन ज्ञात्वा ॥१०४॥
केशवः सात्यकिश्चापि रथेनैकेन जग्मतुः
।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥१०५॥
भीमसेनो यमौ चोभौ रथमेकं समाश्रिताः
।
कृपो युयुत्सुः सूतश्च सञ्जयश्च परन्तपः ॥१०६॥
ते स्थैर्नगराकारैः प्रयाताः पुरुषर्षभाः
।
नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ॥१०७॥
ततो गिरः पुरुषवरस्तवान्विता द्विजेरिताः पथि सुमनाः स शुश्रुवे
।
कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाऽभ्यनन्दत ॥१०८॥
अभ्यनन्दतेति सन्धिरार्षः ॥१०८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि भीष्मस्तवराजे सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥
वासुदेव उवाच ।
शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः
।
महर्षीणां कथयतां विक्रमं तस्य जन्म च ॥१॥
शृण्विति ॥१॥
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
।
उद्भूता राजवंशेषु ये भूयो भारते हताः ॥२॥
भारते भारतसंग्रामे ॥२॥
जह्नोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः
।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥३॥
अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि
।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥४॥
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः
।
समर्थं पुत्रजनने स्वयमेवान्वपद्यत ॥५॥
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः
।
गाधिर्नामाऽभवत्पुत्रः कौशिकः पाकशासनः ॥६॥
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो
।
तां गाधिर्भुगुपुत्राय सर्चीकाय ददौ प्रभुः ॥७॥
तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन
।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥८॥
गाधेः पुत्रार्थं तस्याश्च पुत्रार्थं चरुं चरुद्वयम् ॥८॥
आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा
।
उपभोज्यश्चरुरयं त्वया मात्राऽप्ययं तव ॥९॥
उपयोज्यो भोज्यो भोक्तव्यः ॥९॥
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः
।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥१०॥
तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्
।
तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥११॥
इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः
।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥१२॥
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः
।
गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति ॥१३॥
चरुद्वयं गृहीत्वा च राजन्सत्यवती तदा
।
भर्तुर्वाक्यं तदा व्यग्रा मात्रे हृष्टा न्यवेदयत् ॥१४॥
व्यग्रा हर्षेणैव ॥१४॥
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ
।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥१५॥
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा
।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥१६॥
तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्
।
अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥१७॥
मात्राऽसिव्यंसिता भद्रे चरुव्यत्यासहेतुना
।
भविष्यति हि ते पुत्रः क्रूरकर्माऽत्यमर्षणः ॥१८॥
व्यंसिता वञ्चिता ॥१८॥
उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः
।
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् ॥१९॥
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्
।
विपर्ययेण ते भद्रे नैतदेवं भविष्यति ॥२०॥
मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः
।
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥२१॥
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्
।
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः
।
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥२२॥
ऋचीक उवाच ।
नैष संकल्पितः कामो मया भद्रे तथा त्वयि
।
उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना ॥२३॥
सत्यवत्युवाच ।
इच्छन् लोकानपि मुने सृजेथाः किं पुनः सुतम्
।
शामात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥२४॥
ऋचीक उवाच ।
नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन
।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥२५॥
दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया
।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥२६॥
सत्यवत्युवाच ।
काममेवं भवेत्पौत्रो ममेह तव च प्रभो
।
शमात्मकमहं पुत्रं लभेयं जपतां वर ॥२७॥
ऋचीक उवाच ।
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि
।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥२८॥
वासुदेव उवाच ।
ततः सत्यवती पुत्रं जनयामास भार्गवम्
।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥२९॥
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
।
यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम् ॥३०॥
ऋचीको जनयामास जमदग्निं तपोनिधिम्
।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥३१॥
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्
।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥३२॥
तोषयित्वा महादेवं पर्वते गन्धमादने
।
अस्त्राणि वरयामास परशुं चातितेजसम् ॥३३॥
स तेनाकुण्ठधारेण ज्वलितानलवर्चसा
।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥३४॥
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली
।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥३५॥
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्
।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥३६॥
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्
।
स्वबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित् ॥३७॥
तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना
।
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥३८॥
चित्रभानुना अग्निना ॥३८॥
ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्
।
जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया ॥३९॥
बाणाग्रात् उद्भूत इति शेषः ॥३९॥
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः
।
ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन् ॥४०॥
स शून्यमाश्रमं रम्यमापवस्य महात्मनः
।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥४१॥
आपवस्य वसिष्ठस्य ॥४१॥
आपवस्तु ततो रोषाच्छशापार्जुनमच्युत
।
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥४२॥
दग्धे श्रमे आश्रमे ॥४२॥
त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम्
।
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन ॥४३॥
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः
।
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ॥४४॥
नाचिन्तयत्तदा शापं तेन दत्तं महात्मना
।
तस्य पुत्रास्तु बलिनः शापेनासन्पितुर्वधे ॥४५॥
पितुर्वधे वधनिमित्तम् आसन् ॥४५॥
निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा
।
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ ॥४६॥
निमित्तात् शापादेव हेतोः ॥४६॥
अज्ञातं कार्तवीर्येण हैहेयेन्द्रेण धीमता
।
तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः ॥४७॥
ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः
।
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ॥४८॥
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः
।
अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा ॥४९॥
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः
।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥५०॥
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः
।
ततः पितृवधामर्षाद्रामः परममन्युमान् ॥५१॥
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्वत
।
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ॥५२॥
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः
।
स हैहयसहस्राणि हत्वा परममन्युमान् ॥५३॥
चकार भार्गवो राजन् महीं शोणितकर्दमाम्
।
स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम् ॥५४॥
कृपया परयाऽऽविष्टो वनमेव जगाम ह
।
ततो वर्षसहस्रेषु समतीतेषु केषुचित् ॥५५॥
क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपन: प्रभुः
।
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ॥५६॥
क्षेपं निन्दाम् 'अशक्तो रामः' इति ॥५६॥
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि
।
ये ते ययातिपतने यज्ञे सन्तः समागताः ॥५७॥
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥५८॥
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
।
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ॥५९॥
मिथ्याप्रतिज्ञः सर्वेषां क्षत्रियाणां वधाकरणात् ॥५९॥
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता
।
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः ॥६०॥
स्तृता व्याप्ता शस्त्रं जग्राह तत्कार्यं क्षत्रियाणामन्तं कृतवान् ॥६०॥
ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः
।
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥६१॥
वर्जिताः अहताः ॥६१॥
स पुनस्ताञ्जघानाशु बालानपि नराधिप
।
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ॥६२॥
जातं जातं स गर्भं तु पुनरेव जघान ह
।
अरक्षंश्च सुतान् कांश्चित्तदा क्षत्रिययोषितः ॥६३॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
।
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥६४॥
स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः
।
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ॥६५॥
स्रुक्प्रग्रहवता करेणेति कश्यपोऽध्वर्युः सन् कर्मान्तर एव माध्यन्दिनसवने दक्षिणाकाले इदं अब्रवीदिति सूच्यते ॥६५॥
गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने
।
न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ॥६६॥
ततः शूर्पारकं देशं सागरस्तस्य निर्ममे
।
सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम् ॥६७॥
कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम्
।
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम् ॥६८॥
ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः
।
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥६९॥
अराजके जीवलोके दुर्बला बलवत्तरैः
।
पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित्तदा ॥७०॥
ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः
।
विपर्ययेण तेनाशु प्रविवेश रसातलम् ॥७१॥
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः
।
तां दृष्ट्वा द्रवतीं तत्र संत्रासात्स महामनाः ॥७२॥
ऊरुणा धारयामास कश्यपः पृथिवीं ततः
।
धृता तेनोरुणा येन तेनोर्वीति मही स्मृता ॥७३॥
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा
।
प्रसाद्य कश्यपं देवी वरयामास भूमिपम् ॥७४॥
पृथिव्युवाच ।
सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः
।
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥७५॥
अस्ति पौरवदायादो विदूरथसुतः प्रभो
।
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते ॥७६॥
तथाऽनुकम्पमानेन यज्वनाऽथामितौजसा
।
पराशरेण दायादः सौदासस्याभिरक्षितः ॥७७॥
सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः
।
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥७८॥
द्विजः क्षत्रियोऽपि ॥७८॥
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः
।
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने ॥७९॥
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः
।
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥८०॥
दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च
।
गुप्तः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः ॥८१॥
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः
।
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ॥८२॥
मरुत्तस्यान्ववाये च रक्षिता: क्षत्रियात्मजाः
।
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥८३॥
एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः
।
द्योकारहेमकारादिजातिं नित्यं समाश्रिताः ॥८४॥
द्योतुल्यान्विचित्रप्रासादादीन्कुर्वन्ति ते द्योकाराः शिल्पिनः ज्याकारेति पाठान्तरे स्पष्टोऽर्थः ॥८४॥
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला
।
एतेषां पितरश्चैव तथैव च पितामहाः ॥८५॥
मदर्थं निहता युद्धे रामेणाक्लिष्टर्मणा
।
तेषामपचितिश्चैव मया कार्या महामुने ॥८६॥
अपचितिः आनृण्यार्थं पूजा ॥८६॥
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्
।
वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम् ॥८७॥
नित्यमतिक्रान्तेन धर्मातिक्रमिणा ॥८७॥
वासुदेव उवाच ।
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः
।
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसम्मतान् ॥८८॥
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः
।
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण्डव ॥८९॥
वैशम्पायन उवाच।
एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम्
।
रथेन तेनाशु ययौ महात्मा दिशः प्रकाशन्भगवानिवार्कः ॥९०॥
प्रकाशन् प्रकाशयन् ॥९०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि रामोपाख्याने एकोनपञ्चाशत्तमोऽध्यायः ॥४९॥
वैशम्पायन उवाच।
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः
।
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥१॥
तत इति ॥१॥
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः
।
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता ॥२॥
गोभिः समुद्रेण तथा गोलांगूलर्क्षवानरैः
।
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥३॥
अहो धन्यो नृलोकोऽयं सभाग्याश्च नरा भुवि
।
यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमित्युत ॥४॥
तथावृत्तौ कथां तात तावच्युतयुधिष्ठिरौ
।
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥५॥
तथावृत्तौ तादृक् गोष्ठीपरौ ॥५॥
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्
।
स्वरश्मिजालसंवीतं सायंसूर्यसमप्रभम् ॥६॥
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्
।
देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥७॥
दूरादेव तमालोक्य कृष्णो राजा च धर्मजः
।
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥८॥
अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः
।
एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीनन् ॥९॥
अवस्कन्द्यावरुह्य वाहेभ्यः ॥९॥
अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः
।
व्यासादीनृषिमुख्यांश्च गाङ्गेयमुपतस्थिरे ॥१०॥
ततो वृद्धं तथा दृष्ट्वा गाङ्गेयं यदुकौरवाः
।
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥११॥
ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम्
।
किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ॥१२॥
निशाम्य आलोच्य ॥१२॥
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथा पुरा
।
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर ॥१३॥
शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते
।
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥१४॥
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो
।
शान्तनोर्धर्मनित्यस्य न त्वेतन्मम कारणम् ॥१५॥
छन्दमृत्युः इच्छामरणः एतच्छन्दमृत्युतायाः कारणं पितृतोषणं ममापि न किमुतान्येषामित्यर्थः ॥१५॥
सुसूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम्
।
किं पुनः शरसङ्घातैश्चित्तस्य तव पार्थिव ॥१६॥
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ
।
उपदेष्टुं भवान् शक्तो देवानामपि भारत ॥१७॥
कामं एतन्न युक्तमिति शेषः । सर्वज्ञस्यापि तवोपदेशो न युक्त इत्यर्थः ॥१७॥
यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ
।
सर्वं तज्ज्ञानवृद्धस्य तव भीष्म प्रतिष्ठितम् ॥१८॥
प्रतिष्ठितं बुद्धाविति शेषः ॥१८॥
संहारश्चैव भूतानां धर्मस्य च फलोदयः
।
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः ॥१९॥
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्
।
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम् ॥२०॥
पश्यामीवेतीव शब्दात्प्रतिज्ञातः पूर्वम् ऊर्ध्वरेतस्त्वं नासीदिति भावः ॥२०॥
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव
।
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥२१॥
भीष्मादृते मृत्युमावार्य स्थितं किमपि निसर्गप्रभवं जनिमत्सत्त्वं न शुश्रुमेति द्वयोः सम्बन्धः ॥२१॥
मृत्युमावार्य तपसा शरसंस्तरशायिनः
।
निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम ॥२२॥
सत्ये, तपसि, दाने च, यज्ञाधिकरणे तथा
।
धनुर्वेदे च वेदे च नीत्यां चैवानुरक्षणे ॥२३॥
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्
।
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ॥२४॥
त्वं हि देवान्सगन्धर्वानसुरान् यक्षराक्षसान्
।
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः ॥२५॥
स त्वं भीष्म महाबाहो वसूनां वासवोपमः
।
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥२६॥
वसूनामष्टानामंशैर्घटितो नवमो गुणैरनवमश्च ॥२६॥
अहं च त्वाऽभिजानामि यस्त्वं पुरुषसत्तम
।
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः ॥२७॥
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः
।
भवतो वा गुणैर्युक्तः पृथिव्यां पुरुषः क्वचित् ॥२८॥
त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे
।
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ॥२९॥
किं पुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः
।
तदस्य तप्यमानस्य ज्ञातीनां संक्षयेन वै ॥३०॥
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद
।
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ॥३१॥
चातुराश्रभ्यसंयुक्ताः सर्वे ते विदितास्तव
।
चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ॥३२॥
योगे सांख्ये च नियता ये च धर्माः सनातनाः
।
चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते ॥३३॥
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव
।
प्रतिलोमप्रसूतानां वर्णानां चैव यः स्मृतः ॥३४॥
देशजातिकुलानां न जानीषे धर्मलक्षणम्
।
वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव ॥३५॥
इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव
।
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥३६॥
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः
।
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ॥३७॥
स पाण्डवेयस्य मनः समुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया
।
भवद्विधा ह्युत्तमबुद्धिविस्तरा विमुह्यमानस्य नरस्य शान्तये ॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कृष्णवाक्ये पञ्चाशत्तमोऽध्यायः ॥५०॥
जनमेजय उवाच।
धर्मात्मनि महावीर्ये सत्यसन्धे जितात्मनि
।
देवव्रते महाभागे शरतल्पगतेऽच्युते॥१॥
धर्मात्मनीति ॥१॥
शयाने वीरशयने भीष्मे शान्तनुनन्दने
।
गाङ्गेये पुरुषव्याघ्र पाण्डवैः पर्युपासिते॥२॥
काः कथाः समवर्तन्त तस्मिन् वीरसमागमे
।
हतेषु सर्वसैन्येषु तन्मे शंस महामुने॥३॥
वैशम्पायन उवाच।
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे
।
आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप॥४॥
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः
।
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा॥५॥
तेऽभिगम्य महात्मानो भरतानां पितामहम्
।
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा॥६॥
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः
।
उवाच पाण्डवान् सर्वान् हतशिष्टांश्च पार्थिवान्॥७॥
प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम्
।
अस्तमेति हि गाङ्गेयो भानुमानिव भारत॥८॥
समाचक्षे ब्रवीमि अनुयुज्यतां पृच्छताम् ॥८॥
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत
।
कृत्स्नात् विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्॥९॥
एष वृद्धः परान्लोकान्सम्प्राप्नोति तनुं त्यजन्
।
तं शीघ्रमनुयुजीध्वं संशयान् मनसि स्थितान्॥१०॥
वैशम्पायन उवाच।
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपः
।
प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम्॥११॥
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः
।
नान्यस्तु देवकीपुत्राच्छक्तः प्रष्टुं पितामहम्॥१२॥
ततः उवाचेति छेदः ॥१२॥
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन
।
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः॥१३॥
एवमुक्तः पाण्डवेन भगवान् केशवस्तदा
।
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः॥१४॥
प्रव्याहारयत् अवाचयत् ॥१४॥
वासुदेव उवाच।
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम
।
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव॥१५॥
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ
।
न ग्लायते च हृदयं न च ते व्याकुलं मनः॥१६॥
भीष्म उवाच।
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा
।
तव प्रसादाद्वार्ष्णेय सद्यः प्रतिगतानि मे॥१७॥
यच्च भूतं भविष्यच्च भवच्च परमद्युते
।
तत्सर्वमनुपश्यामि पाणौ फलमिवार्पितम्॥१८॥
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये
।
तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत॥१९॥
वेदोक्ताः अग्निहोत्रादयः वेदान्ताधिगताः शमदमसंन्यासादयः ॥१९॥
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते
।
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन॥२०॥
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः
।
राजधर्मांश्च सकलानवगच्छामि केशव॥२१॥
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन
।
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्॥२२॥
मे मम मनः कर्म बुद्धिराविशत् ॥२२॥
युवेवास्मि समावृत्तस्त्वदनुध्यानबृंहितः
।
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन॥२३॥
स्वयं किमर्थं तु भवाश्रेयो न प्राह पाण्डवम्
।
किं ते विवक्षितं चात्र तदाशु वद माधव॥२४॥
वासुदेव उवाच।
यशसः श्रेयसंश्चैव मूलं मां विद्धि कौरव
।
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः॥२५॥
शीतांशुश्चन्द्र इत्युक्ते लोके को विस्पयिष्यति
।
तथैव यशसा पूर्णे मयि को विस्मयिष्यति॥२६॥
आधेयं तु मया भूयो यशस्तव महाद्युते
।
ततो मे विपुला बुद्धिस्त्वयि भीष्म समर्पिता॥२७॥
मे मया ॥२७॥
याबद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा
।
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति॥२८॥
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते
।
वेदप्रवाद इव ते स्थास्यते वसुधातले॥२९॥
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना
।
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति॥३०॥
एतस्मात् कारणाद्भीष्म मतिर्दिव्या मया हि ते
।
दत्ता यशो विप्रथयेत् कथं भूयस्तवेति ह॥३१॥
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि
।
तावत् तस्याक्षयं स्थानं भवतीति विनिश्चिता॥३२॥
यशः परचित्तचमत्कृतिजनको गुणौघः कीर्तिः साधुतयाऽन्यैः कथनम् ॥३२॥
राजानो हतशिष्टास्त्वां राजन्नभित आसते
।
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत॥३३॥
अनुयुयुक्षन्तः प्रष्टुमिच्छन्तः ॥३३॥
भवान् हि वयसा वृद्धः श्रुताचारसमन्वितः
।
कुशलो राजधर्माणां सर्वेषामपराश्च ये॥३४॥
जन्मप्रभृति ते कश्चिद् वृजिनं न ददर्श ह
।
ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः॥३५॥
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम्
।
ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः॥३६॥
तस्माद्वक्तव्यमेवेदं त्वयाऽवश्यमशेषतः
।
धर्मं शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः॥३७॥
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणाः
।
अप्रतिब्रुवत: कष्टो दोषो हि भविता प्रभो॥३८॥
तस्मात् पुत्रैश्च पौत्रेश्च धर्मान् पृष्टान् सनातनान्
।
विद्वान् जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ॥३९॥
इति श्रीमहभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कृष्णवाक्ये चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
वैशम्पायन उवाच।
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्
।
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः॥१॥
प्रणिपत्येति । गुरून्कृपव्यासादीन् पर्यपृच्छत् धर्मानिति शेषः ॥१॥
युधिष्ठिर उवाच।
राज्ञां वै परमो धर्म इति धर्मविदो विदुः
।
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव॥२॥
धर्मः प्रजापालनात्मकः परमः सर्वधर्मश्रेष्ठः एतं धर्मं भारं दुर्वहं मन्ये ॥२॥
राजधर्मान्विशेषेण कथयस्व पितामह
।
सर्वस्य जीवलोकस्य राजधर्मः परायणम्॥३॥
परायणम् आश्रयः ॥३॥
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव
।
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः॥४॥
त्रिवर्गः धर्मार्थकामात्मकः राजधर्मेषु दण्डनीतौ समासक्तः समाश्रितः ॥४॥
यथा हि रश्मयोऽश्वस्य द्विरदस्यांकुशो यथा
।
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्॥५॥
प्रग्रहणं नियन्त्रणम् ॥५॥
तत्र चेत्सम्प्रमुह्येत धर्मे राजर्षिसेविते
।
लोकस्य संस्था न भवेत्सर्वं च व्याकुलीभवेत्॥६॥
संस्था मर्यादा व्यवस्था ॥६॥
उदयन् हि यथा सूर्यो नाशयत्यशुभं तमः
।
राजधर्मास्तथालोक्यां निक्षिपन्त्यशुभां गतिम्॥७॥
अलोक्यामप्रकाशात्मिकामशुभां गतिं नरकं निक्षिपन्ति दूरीकुर्वन्ति । तथा च स्मृतिः-
'राजभिः कृतदण्डास्तु शुध्यन्ति मलिना जनाः
।
कृतार्थाश्च ततो यान्ति स्वर्गं सुकृतिनो यथा'॥७॥
इति॥
तदने राजधर्मान् हि मदर्थे त्वं पितामह
।
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभृतां वरः॥८॥
अग्रे इतरेभ्यो धर्मेभ्यः पूर्वम् ॥८॥
आगमश्च परस्त्वत्तः सर्वेषां परंतप
।
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते॥९॥
परः आगमः परं रहस्यं नः अस्माकं त्वत्त एव विहितमस्तु ॥९॥
भीष्म उवाच।
नमो धर्माय महते नमः कृष्णाय वेधसे
।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्॥१०॥
शाश्वतान्वेदपरंपरागतान् ॥१०॥
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर
।
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि॥११॥
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया
।
देवतानां द्विजानां च वर्तितव्यं यथाविधि॥१२॥
रञ्जनकाम्ययेति । यः कश्चिदक्षत्रियोऽपि प्रजापालनाधिकृतस्तस्य राज्ञोऽयं धर्मः यत् देवद्विजादिषु यथाविधि अनुग्रहबुद्ध्या वर्तितव्यमिति ॥१२॥
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह
।
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते॥१३॥
यद्धर्मलोपाद्राज्ञो ऋणं भवति तद्देवताद्यर्चनेन नश्यतीत्याह- दैवतानीति । लोके च तत एव पूज्यो भवतीति संयोगान्तरम् ॥१३॥
उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर
।
न ह्युस्थानमृते दैवं राज्ञामर्थं प्रसादयेत्॥१४॥
उत्थानेन पुरुषकारेण प्रयतेथाः जयाद्यर्थे यतस्व दैवं प्राग्भवीयं कर्म देवताराधनादिकं वा । केवलम् उत्थानं विना न राज्ञाम् इष्टमर्थं साधयेत् ॥१४॥
साधारणं द्वयं ह्येतद् दैवमुत्थानमेव च
।
पौरुषं हि परं मन्ये दैवं निश्चितमुच्यते॥१५॥
साधारणं रथचक्रवत्समानं तत्रापि पौरुषं परं श्रेष्ठं दृष्टद्वारत्वात्, दैवं तु फलद्वारा निश्चित्य मुच्यते । अकरणदोषात्फलासिद्धौ फलसिद्धौ तु दुःखान्मुच्यते ॥१५॥
विपन्ने च समारम्भे संतापं मा स्म वै कृथाः
।
घटस्वैव सदाऽऽत्मानं राज्ञामेष परो नयः॥१६॥
विपन्ने इति। घटस्व घटयस्व कर्षकवत्सकृद्यत्नवैफल्येऽपि यतस्वैवेत्यर्थः ॥१६॥
न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारकम्
।
सत्ये हि राजा निरतः प्रेत्य चेह न नन्दति॥१७॥
न हीति । सत्यात्सामन्ता अपि वशे भवन्त्यन्यथा विश्वासाभावात्स्वीया अप्युद्विजन्ते । क्षीणा अपि परे प्रणपणेनापि जिगीषन्त एवेति श्लोकद्वयार्थः ॥१७॥
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्
।
तथा राज्ञां परं सत्यान्नान्यद्विश्वासकारणम्॥१८॥
गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः
।
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः॥१९॥
गुणाः शौर्यौदार्यगाम्भीर्यादयस्तद्वान् । शीलं सदाचारस्तद्वान् । दान्तः अचपलः। मृदुर्दयावान् । धर्म्यो धर्मादनपेतः । जितेन्द्रियः जितचित्तः । सुदर्शः प्रसन्नवक्त्रः । स्थूललक्ष्यः बहुप्रदः ॥१९॥
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन
।
पुनर्नयविचारेण त्रयीसंवरणेन च॥२०॥
आर्जवम् अवक्रतां नयो नीतिः स्वरन्ध्रगोपनं पररन्ध्रान्वेषणस्य स्वेन क्रियमाणस्य परेभ्यो गोपनं मन्त्रगोपनं चेत्यादि तद्युक्तेन विचारेण ऊहापोहेन साधकबाधकोपन्यासेन क्रियमाणेन । त्रयीसंवरणे उक्तविधनीतिरूपे आर्जवं यथार्थभाषित्वं च न श्रयेथाः ॥२०॥
मृदुर्हि राजा सततं लंघ्यो भवति सर्वशः
।
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाश्रय॥२१॥
उभयं मृदुत्वं तीक्ष्णत्वं च समुचितम् आश्रय ॥२१॥
अदण्ड्याश्चैव ते पुत्र विप्राश्च ददतां वर
।
भूतमेतत्परं लोके ब्राह्मणो नाम पाण्डव॥२२॥
तत्रापि तैक्ष्ण्यापवादमाह- अदण्ड्या इति ॥२२॥
मनुना चैव राजेन्द्र गीतौ श्लोकौ महात्मना
।
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि॥२३॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥२४॥
अयो हन्ति यदाश्मानमग्निना वारि हन्यते
।
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः॥२५॥
एवं कृत्वा महाराज नमस्या एव ते द्विजाः
।
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति समर्चिताः॥२६॥
भौमं ब्रह्म वेदान् यज्ञांश्च ॥२६॥
एवं चैव नरव्याघ्र लोकत्रयविधातकाः
।
निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः॥२७॥
मार्दवापवादमाह- एवमिति ॥२७॥
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा
।
तौ निबोध महाराज त्वमेकाग्रमना नृप॥२८॥
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे
।
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः॥२९॥
स्वधर्मेण शस्त्रोद्यमनेन निगृह्णीयादेव न तु हन्यात् ॥२९॥
विनश्यमानं धर्मं हि योऽभिरक्षेत्स धर्मवित्
।
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति॥३०॥
विनश्यमानम् आततायिदोषात् तेन आततायिनिग्रहेण । अनिग्रहे तु धर्महा स्यादेव जीवतोऽस्य निग्रहो दुःशकश्चेतत्राह - मन्युस्तन्मन्युमृच्छति यथा सूर्योशुतप्तः स्फटिकस्तूलपिण्डमुद्दीप्य तदूष्मणा स्वयं नश्यति, एवम् आततायिक्रोधोऽन्यमुद्दीप्य तद्द्वाराऽऽततायिनमेवाश्रयदाहेन दहति नात्र हन्तुर्दोष इत्यर्थः ॥३०॥
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः
।
सापराधानपि हि तान्विषयान्ते समुत्सृजेत्॥३१॥
एवं चेति । यद्यप्येवं तथापि द्विजातयो ब्राह्मणा रक्ष्या एव ॥३१॥
अभिशस्तमपि ह्येषां कृपायीत विशाम्पते
।
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च॥३२॥
अभिशस्तं सताऽसता वा दोषेण युक्तं तथा ख्यापितम् ॥३२॥
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्
।
विधीयते न शारीरं दण्डमेषां कदाचन॥३३॥
शारीरं कशाघातादिदण्डम् । क्लीबत्वमार्षम् ॥३३॥
दयिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये
।
न कोशः परमोऽन्योऽस्ति राज्ञां पुरुषसंचयात्॥३४॥
पुरुषसञ्चयात् ब्राह्मणभक्तादिति पूर्वार्धार्थः ॥३४॥
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः
।
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुस्तरम्॥३५॥
षट्सु मरु-जल-पृथिवी-वन-पर्वत-नरमयेषु ॥३५॥
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता
।
धर्मात्मा सत्यवाक् चैव राजा रञ्जयति प्रजाः॥३६॥
न च क्षान्तेन ते नित्यं भाव्यं पुत्र समन्ततः
।
अधर्मो हि मृदू राजा क्षमावानिव कुञ्जरः॥३७॥
पुनर्दयापवादमाह- न चेति । समन्ततः सर्वजातीयेषु अधर्मो धर्मविरोधी ॥३७॥
बार्हस्पत्ये च शास्त्रे च श्लोको निगदितः पुरा
।
अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु॥३८॥
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः
।
हस्तियन्ता गजस्यैव शिर एवारुरुक्षति॥३९॥
गजस्य क्षममाणस्य ॥३९॥
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो नैव भवेन्नृपः
।
वासन्तार्क इव श्रीमान् न शीतो न च घर्मदः॥४०॥
प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि
।
परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः॥४१॥
प्रत्यक्षेण उपकारापकारादिना । अनुमानेन नेत्रवक्त्रविकारादिना । यथोक्तम् - 'नेत्रवक्त्रविकारेण ज्ञायतेऽन्तर्गतं मनः' इति । औपम्यम् उपमानम् अन्यत्र कार्यदर्शनेन । आगमैः- शब्दादिना सामुद्रिकलक्षणेन ते पुरुषाः परीक्ष्याः ॥४१॥
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण
।
न चैव न प्रयुञ्जीत संकीर्णं परिवर्जयेत्॥४२॥
व्यसनानि अष्टादश । यथाऽऽह मनुः-
'मृगयाऽक्षा दिवास्वप्नः परिवादः स्त्रियो मदः
।
तौर्यत्रिक वृथापानं कामजो दशको गणः॥'
तौर्यत्रिकं वाद्यगीतनृत्यानि
।
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयार्थदूषणम्
।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः' ॥
इति । तत्र च सप्त कष्टतमानि । यथाऽऽह -
'पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्
।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे
।
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे
।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा'
।
इति । न प्रयुञ्जीतेति न अपि तु सर्वदा शूरान् जयाय प्रयोजयेदेव सङ्कीर्णं प्रयुक्त्यप्रयुक्त्योः सङ्करं साम्ना उपगते प्रयोगो नास्ति । अन्यत्र कुर्यादेवेत्यर्थः ॥४२॥
लोकस्य व्यसनी नित्यं परिभूतो भवत्युत
।
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः॥४३॥
व्यसनी मृगयाक्षाः स्त्रियः पानं च तद्वान् । अतिद्वेषी प्रजाद्रोहपरः ॥४३॥
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा
।
कारणं च महाराज शृणु येनेदमिष्यते॥४४॥
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्
।
गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम्॥४५॥
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना
।
स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्॥४६॥
प्रियम् इष्टम् ॥४६॥
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव
।
धीरस्य स्पष्टदण्डस्य न भयं विद्यते क्वचित्॥४७॥
ते त्वया स्पष्टः प्रख्यातो दण्डः अश्वरथहस्तिपुरुषादिसमूहो यस्य तस्य स्पष्टदण्डस्य ॥४७॥
परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर
।
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु॥४८॥
अवमन्यन्ति भर्तारं संघर्षादुपजीविनः
।
स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति च तद्वचः॥४९॥
सङ्घर्षात् अतिसंश्लेषात् ॥४९॥
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते
।
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च॥५०॥
विकल्पन्ते कार्ये संशयं दर्शयन्ति गुह्यं गोप्यमपि छिद्रम् अनुयुञ्जते प्रकटयन्ति भोज्यानि राज्ञः आहारयन्ति भक्षयन्ति ॥५०॥
क्रुश्यन्ति परिदीप्यन्ति भूमिपायाधितिष्ठते
।
उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च॥५१॥
उत्कोचैर्लञ्चाभिः वञ्चना अलीकगुणदोषादिप्रदर्शनम् । अनुविहन्ति विनिघ्नन्ति ॥५१॥
जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः
।
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च॥५२॥
प्रतिरूपकैः कृत्रिमैः शासनपत्रैः विषयं देशं जर्जरं निःसारं स्त्रीरक्षिभिः सज्जन्ते प्रीतिं कुर्वन्ति । अन्तःपुरे प्रवेशमिच्छन्तः ॥५२॥
वान्तं निष्ठीवनं चैव कुर्वते चास्य संनिधौ
।
निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः॥५३॥
वान्तं जृम्भादिना निष्ठीवनं थूत्कारं तद्वचः राजवाक्यं गुह्यमपि लोके व्याहरन्ति ॥५३॥
हयं वा दन्तिनं वापि रथं वा नृपसत्तम
।
अभिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ॥५४॥
हर्षुले परिहासशीले ॥५४॥
इदं ते दुष्करं राजन्निदं ते दुष्टचेष्टितम्
।
इत्येवं सुहृदो वाचं वदन्ते परिषद्गताः॥५५॥
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः
।
संहर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात्॥५६॥
विस्त्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्
।
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम्॥५७॥
विस्त्रंसयन्ति भेदयन्ति ॥५७॥
अलंकारे च भोज्ये च तथा स्नानानुलेपने
।
हेलनानि नरव्याघ्र स्वस्थास्तस्योपशृण्वतः॥५८॥
हेलनानि कुर्वन्तीति शेषः । उपशृण्वतः शृण्वन्तमनादृत्य स्वस्थाः निर्भयाः ॥५८॥
निन्दन्ते स्वानधीकारान् सन्त्यजन्ते च भारत
।
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च॥५९॥
राजदेयं राजभागम् ॥५९॥
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा
।
अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत॥६०॥
क्रीडितुं राज्ञा सह मृगयादिक्रीडां कर्तुं ससूत्रेण बद्धेन पक्षिणा श्येनेन राज्ञो निरोधका इत्यर्थः । प्रणेयः शास्यः ॥६०॥
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत
।
नृपतौ मार्दवोपेत हर्षुले च युधिष्ठिर॥६१॥
अपरे दारापहारादयः ॥६१॥
इति श्रीमहभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि षट्पञ्चाशत्तमोऽध्यायः॥५६॥
भीष्म उवाच।
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
।
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः॥१॥
अस्यैवाध्यायस्य सूत्रभूतस्योत्तरो ग्रन्थो वृत्तिरूपः । तत्र उत्थानेन यतेथा इत्युक्तं तद्विवृणोति- नित्येति ॥१॥
भगवानुशना चाह श्लोकमत्र विशाम्पते
।
तदिहैकमना राजन् गदतस्तं निबोध मे॥२॥
यत् श्लोकमाह तत् तस्मात्तं श्लोकं निबोध ॥२॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव
।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥३॥
अप्रवासिनं वेदाध्ययनार्थं ब्राह्मणं यतिं वा ॥३॥
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि
।
सन्धेयानभिसंधत्स्व विरोध्यांश्च विरोधया॥४॥
विरोधय पर्वतादौ तेषां विशेषेण रोधं कुरु ॥४॥
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्
।
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः॥५॥
सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि अङ्गानि यस्य तस्य सप्ताङ्गस्य । विपरीतं यस्य कस्यचिदप्यङ्गस्य प्रतिकूलम् ॥५॥
मरुत्तेन हि राज्ञा वै गीतः श्लोकः पुरातनः
।
राजाधिकारे राजेन्द्र बृहस्पतिमते पुरा॥६॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
।
उत्पथप्रतिपन्नस्य दण्डो भवति शाश्वतः॥७॥
शाश्वतः अप्रतिसमाधेयः पर्वतारोहणादिर्गुरोः अन्यस्य तु वध एव ॥७॥
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता
।
असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा॥८॥
असमंजाः सरय्वां स पौराणां बालकान्नृप
।
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः॥९॥
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः
।
मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः॥१०॥
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः
।
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्॥११॥
न हिंस्यात्परवित्तानि देयं काले च दापयेत्
।
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः॥१२॥
न हिंस्यात् करार्थं क्षेत्रेषु धान्यानि रुद्ध्वा वृष्ट्यादिना न नाशयेत् । देयं भृत्यानां वेतनं, विक्रान्तः पराक्रमी, क्षान्तः क्षमावान् पथः शुभमार्गात् ॥१२॥
आत्मवांश्च जितक्रोधः शास्त्रार्थकृतनिश्चयः
।
धर्मे चार्थे च कामे च मोक्षे च सततं रतः॥१३॥
आत्मवान् जितचित्तः शास्त्रार्थे कृतनिश्चयः निःसन्देहः सततं नित्यं पूर्वाह्णे धर्मं मध्याह्नेऽर्थमपराह्णे काममपररात्रे योगं चेति नित्यं सर्वानपि सेवेत ॥१३॥
त्रय्यां संवृतमन्त्रश्च राजा भवितुमर्हति
।
वृजिनं न नरेन्द्राणां नान्यच्चारक्षणात्परम्॥१४॥
वृजिनं सङ्कटम् । अरक्षणात् मन्त्रस्यागोपनादन्यन्नास्ति ॥१४॥
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता
।
धर्मसंकररक्षा च राज्ञां धर्मः सनातनः॥१५॥
धर्माणां सङ्करो व्यत्ययस्तस्मात्प्रजानां रक्षा धर्मसङ्कररक्षा ॥१५॥
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत्
।
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत्॥१६॥
न विश्वसेत् चात् विश्वसेदप्याप्तेषु तेष्वपि अत्यर्थं न विश्वसेत् षण्णां गुणानां भावः षाड्गुण्यं ते च बलवति स्थायिनि यानिनः सन्धिः, समबले विग्रहो युद्धादिः, दुर्बले यानं तदीयदुर्गाद्याक्रमणम् एवं स्थायिनो बलवति यायिन्यासनं दुर्गादावेव स्वरक्षणं, मध्यमे द्वैधीभावः अर्धेन दण्डेन दुर्गाश्रयणम् अर्धेन परेषां धान्यादिनिरोधनं, दुर्बले समाश्रयः मित्रान्तरमाश्रित्य तेन सह युद्धं कर्तव्यम् । एतेषु कर्तव्येषु गुणान् जयावहान् दोषान् पराजयावहांश्चार्थान्कोशदण्डादिपौष्कल्यादीन् बुद्ध्या स्वयमेव निश्चिनुयात् ॥१६॥
द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते
।
त्रिवर्ग विदितार्थश्च युक्तचारोपधिश्च यः॥१७॥
द्विषः शत्रोः सप्तसु राज्याङ्गेषु स्वप्रवेशद्वारशैथिल्यं तत् द्विट्छिद्रम् । एवं स्वस्य सप्तसु राज्याङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्परच्छिद्रं द्विट्छिद्रदर्शी स्यात् । एतच्च स्वच्छिद्रगोपनस्याप्युपलक्षणम् । त्रिवर्गे धर्मादौ विदितार्थो ज्ञाततत्त्वः युक्तः चारः प्रच्छन्नः स्पशः उपधिः परकीयानाममात्यादीनामुत्कोचदानादिना भेदनं च येन स युक्तचारोपधिः तत्र चारनियोजनस्थानान्युक्तानि नीतिशास्त्रे-
'मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः
।
पञ्चमो द्वारपालश्च षष्ठोऽन्तर्वेशिकस्तथा
।
कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा
।
कृत्याकृत्येषु चार्थानां नवमो विनियोजकः
।
प्रदेष्टा नगराध्यक्षः कार्यनिर्माणकृत्तथा
।
धर्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः
।
षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः
।
अटवीपालकान्तानि तीर्थान्यष्टादशैव तु
।
चारान्विचारयेत्तीर्थे स्वात्मनश्च परस्य च
।
पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि
।
मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम्॥'
इति । ॥१७॥
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः
।
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः॥१८॥
दशवर्गः 'अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः' इति प्रकृतिपञ्चकं स्वपक्षे परपक्षे चति दशको वर्गः स च उभयोः साम्यं चेत् स्थानं स्थितिस्तत्कर्ता स्वस्याधिकश्चेद्वृद्धिकर्ता परस्याधिकश्चेत्क्षयकर्ता ॥१८॥
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः
।
नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता॥१९॥
उपासिता च वृद्धानां जिततन्द्रिरलोलुपः
।
सतां वृत्ते स्थितमति: सन्तोष्यश्चारुदर्शनः॥२०॥
न चाददीत वित्तानि सतां हस्तात्कदाचन
।
असद्भ्यश्च समादद्यात्सद्भ्यस्तु प्रतिपादयेत्॥२१॥
स्वयं प्रहर्ता दाता च वश्यात्मा रम्यसाधनः
।
काले दाता च भोक्ता च शुद्धाचारस्तथैव च॥२२॥
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः
।
शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनोऽनवमानिनः॥२३॥
शूरान् सहायान् कुर्यादिति तृतीयेनान्वयः । असंहार्यान्परैरप्रतार्यान् शिष्टाभिसम्बन्धान् शिष्टपरिवारान् अनवमानिनः अवमानं परस्याकुर्वतः ॥२३॥
विद्याविदो लोकविदः परलोकान्ववेक्षकान्
।
धर्मे च निरतान्साधूनचलानचलानिव॥२४॥
अचलान् स्थिरान् अचलानिव पर्वतानिव ॥२४॥
सहायान्सततं कुर्याद्राजा भूतिपुरष्कृतः
।
तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः॥२५॥
छत्रमात्रेण सहिता या आज्ञा 'इदमित्थं कुरु' 'इदं न' इति तयाऽधिकः अन्यत्सर्वं शूरैः समानं भुञ्जीत ॥२५॥
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्समा
।
एवं कुर्वन्नरेन्द्रोऽपि न खेदमिह विन्दति॥२६॥
इयं च शूरेषु राज्ञो वृत्तिः प्रत्यक्षा परोक्षा च समा भवेत् । सन्निहितेष्वसन्निहितेषु वा तुल्या स्यादित्यर्थः ॥२६॥
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत्
।
स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बध्यते॥२७॥
सर्वाभिशङ्की सर्वत्राकृतविश्वासः सर्वहरः सर्वस्वापहारी । अनृजुः अनृतापराधारोपकृत् यतो लुब्धः ॥२७॥
शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः
।
न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते॥२८॥
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः
।
राजा भवति भूतानां विश्वास्यो हिमवानिव॥२९॥
प्राज्ञस्त्यागगुणोपेतः पररन्ध्रेषु तत्परः
।
सुदर्शः सर्ववर्णानां नयापनयवित्तथा॥३०॥
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
।
अरोषप्रकृतिर्युक्तः क्रियावानविकत्थनः॥३१॥
आरब्धान्येव कार्याणि सुपर्यवसितानि च
।
यस्य राज्ञः प्रदृश्यन्ति स राजा राजसत्तमः॥३२॥
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः
।
निर्भया विचरिष्यन्ति स राजा राजसत्तमः॥३३॥
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
।
नयापनयवेत्तारः स राजा राजसत्तमः॥३४॥
स्वकर्मनिरता यस्य जना विषयवासिनः
।
असंघातरता दान्ताः पाल्यमाना यथाविधि॥३५॥
असङ्घातरताः सङ्घाते शरीरे प्रीतिमन्तो न भवन्ति किं तु तत्साध्ये धर्मे एवेत्यर्थः ॥३५॥
वश्या नेया विधेयाश्च न च संघर्षशालिनः
।
विषये दानरुचयो नरा यस्य स पार्थिवः॥३६॥
नेयाः विनेतुं योग्याः सङ्घर्षः पराभिभवस्तच्छीलिनो न ॥३६॥
न यस्य कूटं कपटं न माया न च मत्सरः
।
विषये भूमिपालस्य तस्य धर्मः सनातनः॥३७॥
कूटं दम्भः कपटम् अनृतं मत्सरः परोत्कर्षासहिष्णुत्वम् ॥३७॥
यः सत्करोति ज्ञानानि ज्ञेये परहिते रतः
।
सतां वर्त्मानुगस्त्यागी स राजा राज्यमर्हति॥३८॥
ज्ञानानि ज्ञानयुक्तान्पण्डितान् ज्ञेये शास्त्रार्थे परस्य हितावहे रतः न तु हिंसामये । त्यागी दाता ॥३८॥
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः
।
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति॥३९॥
कृता अप्यकृता इवेति कृताकृताः॥३९॥
श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना
।
आख्याते राजचरिते नृपतिं प्रति भारत॥४०॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
।
राजन्यसति लोकस्य कुतो भार्या कुतो धनम्॥४१॥
प्रथमं श्रेष्ठम् असति अशुभे ॥४१॥
तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः
।
ऋते रक्षां तु विस्पष्टां रक्षा लोकस्य धारिणी॥४२॥
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ
।
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु॥४३॥
रक्षैव राज्ञः कर्म तामकुर्वन् राजा त्याज्य इत्याह प्राचेतस इति ॥४३॥
षडेतान्पुरुषो जह्याद् भिन्नां नावमिवार्णवे
।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥४४॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
।
ग्रामकामं च गोपालं वनकामं च नापितम्॥४५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
भीष्म उवाच।
एतत् ते राजधर्माणां नवनीतं युधिष्ठिर
।
बृहस्पतिर्हि भगवान्न्याय्यं धर्मं प्रशंसति॥१॥
एतदिति । एतत् रक्षणं नवनीतं नवनीतवत्सर्वधर्मसारं न्याय्यं न्यायादनपेतम् ॥१॥
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः
।
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः॥२॥
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः
।
राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः॥३॥
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर
।
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु॥४॥
अत्र रक्षणे साधनं युक्तिम् ॥४॥
चारश्च प्रणिधिश्चैव काले दानममत्सरात्
।
युक्त्या दानं न चादानमयोगेन युधिष्ठिर॥५॥
चारो गुप्तस्पशः, प्रणिधिः प्रकटस्पशः, दानं भक्तवेतनयोः युक्तेः आदानम् अयोगेन अनुपायेन आदानं करग्रहणं न च ॥५॥
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्
।
अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम्॥६॥
केतनानां च जीर्णानामवेक्षा चैव सीदताम्
।
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः॥७॥
केतनानां गृहादीनां द्विविधस्य शारीरदण्डोऽर्थदण्डश्चेति भेदात् ॥७॥
साधूनामपरित्यागः कुलीनानां च धारणम्
।
निचयश्च निचेयानां सेवा बुद्धिमतामपि॥८॥
निचेयानां संग्राह्याणां धान्यादीनां निचयः संग्रहः ॥८॥
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्
।
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्॥९॥
पुरगुप्तिरविश्वासः पौरसंघातभेदनम्
।
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्॥१०॥
अविश्वासो यामिकादीनामपि पौराणां सङ्घातस्य परैर्वाणिज्यादिच्छलेन वशीकृतस्य भेदनं विघटनम् ॥१०॥
उपजापश्च भृत्यानामात्मनः पुरदर्शनम्
।
अविश्वासः स्वयं चैव परस्याश्वासनं तथा॥११॥
उपजापः परैः स्वभृत्यानां भेदनम् अविश्वासः भृत्यानामेव ॥११॥
नीतिधर्मानुसरणं नित्यमुत्थानमेव च
।
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्॥१२॥
उत्थानम् उद्योगः अनार्यं हीनकर्म कदर्यत्वादि तद्वर्जनम् ॥१२॥
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत
।
राजधर्मस्य तन्मूलं श्लोकांश्चात्र निबोध मे॥१३॥
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः
।
उत्थानेन महन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥१४॥
उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति
।
उत्थानवीरान्वाग्वीरा रमयन्त उपासते॥१५॥
वाग्वीरान् पण्डितान् उत्थानमेव महत्पाण्डित्यमित्यर्थः ॥१५॥
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः
।
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः॥१६॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा
।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च॥१७॥
एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः
।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥१८॥
एकाङ्गेन हस्त्यश्वरथपादातानामन्यतमेनापि सम्भूतः सम्पन्नः समृद्धिनः समृद्धिमतः ॥१८॥
राज्ञो रहस्यं तद्वाक्यं यथार्थं लोकसंग्रहः
।
हृदि यच्चास्य जिह्यं स्यात्कारणेन च यद्भवेत्॥१९॥
स्वीयेन आर्जवेन राज्ञो यद्रहस्यं वाक्यं यो वा जयार्थं लोकसंग्रहो यच्चास्य कारणेन शत्रुजयादिहेतुना जिह्यं कपटं यच्च वृजिनं हीनं कार्यं तत्सर्वं समीकुर्यादित्याह द्वाभ्यां- राज्ञ इति ॥१९॥
यच्चास्य कार्यं वृजिनमार्जवेनैव निर्जयेत्
।
दम्भनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम्॥२०॥
दम्भनार्थं सङ्घातार्थम् ॥२०॥
राज्यं हि सुमहत्तन्त्रं धार्यते नाकृतात्मभिः
।
न शक्यं मृदुना वोढुमायासस्थानमुत्तमम्॥२१॥
अकृतात्मभिः क्रूरैः ॥२१॥
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते
।
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर॥२२॥
मिश्रेण क्रौर्यमार्दवाभ्याम् ॥२२॥
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः
।
सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः॥२३॥
एष ते राजधर्माणां लेशः समनुवर्णितः
।
भूयस्ते यत्र संदेहस्तद्ब्रूहि कुरुसत्तम॥२४॥
वैशम्पायन उवाच।
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च
।
वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा॥२५॥
साधु साध्विति संहृष्टाः पुष्ष्यमाणैरिवाननैः
।
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम्॥२६॥
ततो दीनमना भीष्ममुवाच कुरुसत्तमः
।
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्॥२७॥
श्व इदानीं स्वसन्देहं प्रक्ष्यामि त्वां पितामह
।
उपैति सविता ह्यस्तं रसमापीय पार्थिवम्॥२८॥
ततो द्विजातीनभिवाद्य केशवः कृपश्च ते चैव युधिष्ठिरादयः
।
प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदान्विताः॥२९॥
दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्थाः कृतजष्यमङ्गलाः
।
उपास्य संध्यां विधिवत्परंतपास्ततः पुरं ते विविशुर्गजाह्वयम्॥३०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि युधिष्ठिरादिस्वस्थानगमने अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
वैशम्पायन उवाच।
ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः
।
ययुस्ते नगराकारै रथैः पाण्डवयादवाः॥१॥
ततः कल्यमित्यध्यायो दण्डनीतिशास्त्रस्य राज्ञश्च उत्पत्तिं वक्तुं प्रवर्तते । कल्यं प्रातः ॥१॥
प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघ
।
सुखां न रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्॥२॥
व्यासदीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः
।
निषेदुरभितो भीष्मं परिवार्यं समन्ततः॥३॥
ततो राजा महातेजा धर्मराजो युधिष्ठिरः
।
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि॥४॥
युधिष्ठिर उवाच।
य एष राजन् राजेति शब्दश्चरति भारत
।
कथमेष समुत्पन्नस्तन्मे ब्रूहि परंतप॥५॥
मानुषत्वे समानेऽपि किं निमित्तेयम् एकस्मिन्निग्रहानुग्रहशक्तिरिति पृच्छति- य इत्यादिना ॥५॥
तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः
।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः॥६॥
तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च
।
निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्॥७॥
समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम्
।
विशिष्टबुद्धीन् शूरांश्च कथमेकोऽधितिष्ठति॥८॥
कथमेको महीं कृत्स्नां शूरवीरार्यसंकुलाम्
।
रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति॥९॥
एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति
।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः॥१०॥
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ
।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर॥११॥
नैतत्कारणमल्पं हि भविष्यति विशाम्पते
।
यदेकस्मिन् जगत्सर्वं देववद्याति संनतिम्॥१२॥
भीष्म उवाच।
नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः
।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्॥१३॥
न वै राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः
।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्॥१४॥
दण्डः दमनं दाण्डिको दण्डप्रणेता ॥१४॥
पाल्यमानास्तथान्योऽन्यं नरा धर्मेण भारत
।
खेदं परमुपाजग्मुस्ततस्तान्मोह आविशत्॥१५॥
धर्मेणैव न तु मातृवत्स्नेहे न भृत्यवद्वेतनेन वा खेदं श्रमं मोहो वैचित्यम् ॥१५॥
ते मोहवशमापन्ना मनुजा मनुजर्षभ
।
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्॥१६॥
प्रतिपत्तिविमोहात् ज्ञानलोपात् ॥१६॥
नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा
।
लोभस्य वशमापन्नाः सर्वे भरतसत्तम॥१७॥
प्रथमं ज्ञानलोपस्ततो मोहस्ततो लोभो लोभाद्विषयाभिलाषोऽभिलषितसंयोगादिन्द्रियप्रीत्याख्यः कामस्ततस्तद्विषये रागो रागात्कर्तव्याकर्तव्यप्रतिपत्तिशून्यत्वं ततः पुनर्मोह इत्यादि चक्रमाह- नष्टायामिति त्रिभिः ॥१७॥
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः
।
कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो॥१८॥
तांस्तु कामवशं प्राप्तान् रागो नामभिसंस्पृशत्
।
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर॥१९॥
अगम्यागमनं चैव वाच्यावाच्यं तथैव च
।
भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्॥२०॥
नात्यजन्दुष्टमदुष्टं च सर्वं स्वीचक्रुरित्यर्थः ॥२०॥
विप्लुते नरलोके वै ब्रह्म चैव ननाश ह
।
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्॥२१॥
ब्रह्म वेदः धर्मो यज्ञः ॥२१॥
नष्टे ब्रह्मणि धर्मे च देवांस्त्रासः समाविशत्
।
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः॥२२॥
प्रसाद्य भगवन्तं ते देवं लोकपितामहम्
।
ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः॥२३॥
भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम्
।
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्॥२४॥
ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्वर
।
ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर॥२५॥
मर्त्यैः समतां याताः स्म स्वाहाद्यभावेन क्षीणाः स्म इत्यर्थः ॥२५॥
अधो हि वर्षमस्माकं नरास्तूर्ध्वप्रवर्षिणः
।
क्रियाव्युपरमात्तेषां ततो गच्छाम संशयम्॥२६॥
नराः यजमानाः हविर्धाराभिरूर्ध्वप्रवर्षिणः ततश्चान्नाभावान्नश्याम इत्यर्थः ॥२६॥
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह
।
त्वत्प्रभावसमुत्थोऽसौ स्वभावो नो विनश्यति॥२७॥
नोऽस्माकं स्वभावः ऐश्वर्यसत्यसङ्कल्पत्वादिकम् ॥२७॥
तानुवाच सुरान्सर्वान् स्वयम्भूर्भगवांस्ततः
।
श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः॥२८॥
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्
।
यत्र धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः॥२९॥
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा
।
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः॥३०॥
पृथगर्थः त्रिवर्गफलापेक्षया विपरीतफलः पृथग्गुणः त्रिवर्गसाधनापेक्षया विपरीतसाधनः ॥३०॥
मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः
।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः॥३१॥
मोक्षस्य त्रिवर्गो धर्मादिरन्यो निष्कामः । धर्मादेर्भेदश्च सत्त्वादिगुणप्राधान्यनिमित्त इत्यर्थः । दण्डात्स्थानं साम्यं वणिजां वृद्धिस्तपस्विनां क्षयश्चोराणां च भवतीत्याहार्धेन- स्थानमिति ॥३१॥
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च
।
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः॥३२॥
नीतिजान्षड्गुणानाह- आत्मेति । आत्मा चित्तं नीतिबलात् । प्रजानां चित्तं दुःस्थितमपि सुस्थितं भवति । कुदेशोऽपि सुदेशो भवति कलिरपि कृतं भवति । उपायाः साधनानि कृत्यं कृतिनिर्वर्त्यं प्रयोजनम् । सहायाः सुहृदादयः । एते सर्वे विकला अपि सकला भवन्ति तत्र कारणं नीतिजः षड्वर्गो नीतिप्रोत्तम्भितश्चित्तादिरित्यर्थः ॥३२॥
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ
।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः॥३३॥
त्रयी कर्मकाण्डः । आन्वीक्षिकी ज्ञानकाण्डः । वार्ता कृषिवाणिज्यादि जीविकाकाण्डः । दण्डनीतिः पालनविद्या । एते धर्मादयस्तत्र ब्रह्मकृतशतसहस्त्राध्याये दर्शिताः ॥३३॥
अमात्यरक्षा प्रणिधी राजपुत्रस्य लक्षणम्
।
चारश्च विविधोपायः प्रणिधेयः पृथग्विधः॥३४॥
भेदशङ्कया अमात्यानामपि रक्षा कर्तव्या तदर्थं प्रणिधिर्गुप्तश्चारः स च चारो विविधोपायः ब्रह्मचार्यादिवेषधारी प्रणिधेयः पृथग्विधः एकैकस्मिन्स्थाने पृथक्पृथग्वेषास्त्रयस्त्रय इति ॥३४॥
सामभेदः प्रदानं च ततो दण्डश्च पार्थिव
।
उपेक्षा पञ्चमी चात्र कात्स्न्येन समुदाहृता॥३५॥
सामादिचतुष्टयम् उपेक्षा च पञ्चमीत्युपायाः ॥३५॥
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च
।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम्॥३६॥
विभ्रमो भेदार्थे ॥३६॥
सन्धिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः
।
भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम्॥३७॥
भयेन सन्धिर्हीनः । सत्कारेण मध्यमः । वित्तग्रहणेन उत्तमः । तत् त्रयं सन्धिकारणं वर्णितम् ॥३७॥
यात्रा कालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः
।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह॥३८॥
चत्वारः मित्रवृद्धिः कोशसञ्चयश्च स्वस्य मित्रनाशः कोशहानिश्च परस्येति ॥३८॥
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः
।
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्॥३९॥
आसुरो विजयः सौप्तिके गतः । पञ्चवर्गः अमात्यराष्ट्रदुर्गाणि बलं कोशाश्च पञ्चमः । त्रिविधम् उत्तममध्यमाधमभेदेन ॥३९॥
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः
।
प्रकाशोऽविधस्तत्र गुह्यश्च बहुविस्तरः॥४०॥
दण्डः सेना । 'दण्डोऽस्त्री लगुडे पुमान्' इत्युपक्रम्य 'सैन्ये काले मानभेदे' इति मेदिनी ॥४०॥
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव
।
विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमम्॥४१॥
विष्टिर्विष्टिगृहीता भारवाहाः चराश्चराः देशिकाः उपदेष्टारो गुरवः ॥४१॥
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु
।
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः॥४२॥
जङ्गमा महावृश्चिकादिजाः अजङ्गमाः रक्तशृङ्गिकादयः ॥४२॥
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः
।
अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः॥४३॥
स्पर्शे वस्त्रादौ अभ्यवहार्येऽन्नादौ उपांशुरभिचारादिरिति विविधो विषयोगरूपो दण्डः ॥४३॥
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च हा
।
आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम्॥४४॥
मार्गगुणाः ग्रहनक्षत्रादिमार्गगुणाः । भूमिगुणाश्चतुरशीति भूबलानि यामलोक्तानि आत्मरक्षणं मन्त्रयन्त्रादिना । सर्गाणां रथादिनिर्माणानाम् ॥४४॥
कल्पना विविधाश्चापि नृ-नाग-रथ-वाजिनाम्
।
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्॥४५॥
कल्पनाः बलपुष्टिकराःयोगाः विविधाभिख्याश्चक्रव्यूहक्रौञ्चव्यूहादिनानानामानः ॥४५॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्
।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ॥४६॥
उत्पाताः ग्रहयुद्धादयो धूमकेत्वादयश्च । निपाताः उल्कापातभूमिकम्पादयः । शस्त्राणां पालनं तीक्ष्णीकरणम् ॥४६॥
बलव्यसनमुक्तं च तथैव बलहर्षणम्
।
पीडा चापदकालश्च पत्तिज्ञानं च पाण्डव॥४७॥
पीडा च आपदां समूहो आपदं तस्य काल आपदकालः ॥४७॥
तथाख्यातविधानं च योगः संचार एव च
।
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम्॥४८॥
आख्यातम् अभिमन्त्रितदुन्दुभिध्वनिना प्रयाणादिकथनं योगः पताकादिमन्त्रणादि तयोः सञ्चारः श्रवणदर्शनाभ्यां परमोहनम् । एतत्सर्वं तत्र उक्तमिति सर्वत्र योज्यम् ॥४८॥
अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः
।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च॥४९॥
गरदैः विषदैः प्रातरूपकं प्रतिमा तत्कारकैस्तद्द्वारा कार्मणकारिभिः कौलिकैः श्रेणिमुख्याः बलाध्यक्षादयस्तेषामुपजापो भेदनं तेन वीरुधश्छेदनेन धान्याद्युच्छेदेन ॥४९॥
दूषणेन च नागानामातङ्कजननेन च
।
आराधनेन भक्तस्य प्रत्ययोपार्जनेन च॥५०॥
नागानां दूषणं मन्त्रतन्त्रौषधादिना तेन प्रत्ययोपार्जनेन विश्वासोत्पादनेन च परराष्ट्रस्य पीडनम् उक्तमिति प्रपूर्वेण सम्बन्धः ॥५०॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम्
।
दूतसामर्थ्यसंयोगात् सराष्ट्रस्य विवर्धनम्॥५१॥
समञ्जसं समत्वम् ॥५१॥
अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम्
।
अवमर्दः प्रतीघातस्तथैव च बलीयसाम्॥५२॥
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्
।
श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः॥५३॥
कष्टकशोधनं खलानामुन्मूलनं श्रमो मल्लक्रीडा व्यायामयोगः आयुधप्रयोगाभ्यासः त्यागो दानम् ॥५३॥
अभृतानां च भरणं भृतानां चान्ववेक्षणम्
।
अर्थस्य काले दानं च व्यसने चाप्रसङ्गिता॥५४॥
अप्रसङ्गिता असम्बन्धः ॥५४॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ह
।
कारणं च त्रिवर्गस्य गुणदोषास्तथैव च॥५५॥
राजगुणाः उत्थानादयः सेनापतिगुणाः मौलतादयः ॥५५॥
दुश्चेष्टितं च विविधं वृत्तिश्चैवानुवर्तिनाम्
।
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्॥५६॥
अलब्धलाभो लब्धस्य तथैव च विवर्धनम्
।
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्ततः॥५७॥
पात्रेभ्यः प्रदानं प्रथमम् ॥५७॥
विसर्गोऽर्थस्य धर्मार्थं कामहैतुकमुच्यते
।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम्॥५८॥
विसर्ग इति । विसर्गो दानं धर्मार्थं यज्ञार्थं द्वितीयं काम्यं तृतीयं व्यसनाघाते चतुर्थम् ॥५८॥
क्रोधजानि तथोग्राणि कामजानि तथैव च
।
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह॥५९॥
मृगयाऽक्षास्तथा पानं स्त्रियश्च भरतर्षभ
।
कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा॥६०॥
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च
।
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च॥६१॥
परिशेषात् वाक्पारुष्यादीनि षट्क्रोधजानि आत्मनो देहस्य ॥६१॥
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः
।
अवमर्दः प्रतीघातः केतनानां च भञ्जनम्॥६२॥
अवमर्दः परचक्रेण देशादेः पीडनम् ॥६२॥
चैत्यद्रुमावमर्दश्च रोधः कर्मानुशासनम्
।
अपस्करोऽथ वसनं तथोपायाश्च वर्णिताः॥६३॥
कर्मान्तः कृष्यादिफलं तत्रानुशासनं रोधः अपस्कर उपकरणानि वसनं कवचादिकम् उपायास्तन्निर्माणे युक्तयः ॥६३॥
पणवानकशङ्खानां भेरीणां च युधिष्ठिर
।
उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट्॥६४॥
तानि द्रव्याणि षट्- 'मणयः पशवः पृथिवी वासो दास्यादि काञ्चनम्' इति ॥६४॥
लब्धस्य च प्रशमनं सतां चैवाभिपूजनम्
।
विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता॥६५॥
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया
।
आहारयोजनं चैव नित्यमास्तिक्यमेव च॥६६॥
मङ्गलं स्वर्णादिकं तस्यालम्भनं स्पर्शः प्रतिक्रिया अलङ्करणम् ॥६६॥
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः
।
उत्सवानां समाजानां क्रियाः केतनजास्तथा॥६७॥
एकस्याप्युत्थानप्रकारः केतनजाः गृहजाः क्रियाः ध्वजारोहणाद्याः ॥६७॥
प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथा
।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्॥६८॥
अधिकरणेषु जनोपवेशनस्थानेषु चत्वरादिषु ॥६८॥
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम्
।
अनुजीवी स्वजातिभ्यो गुणेभ्यश्च समुद्भवः॥६९॥
जातितो गुणतश्च समुद्भवो मान्यत्वम् ॥६९॥
रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम्
।
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका॥७०॥
द्वादशानां राज्ञां समूहो द्वादशराजिका मध्यस्थस्य विजिगीषोश्चतुर्दिक्षु चत्वारोऽरयस्तेभ्योऽपरे चत्वारो मित्राणि तेभ्यः परे चत्वार उदासीना इति ॥७०॥
द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया
।
देशजातिकुलानां च धर्माः समनुवर्णिताः॥७१॥
द्वासप्ततिविधा वैद्यशास्त्रप्रसिद्धा प्रतिक्रिया संस्कारः शौच्याभ्यङ्गादिः ॥७१॥
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः
।
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिण॥७२॥
हे भूरिदक्षिण ॥७२॥
मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः
।
दूषणं स्त्रोतसां चैव वर्णितं चास्थिराम्भसाम्॥७३॥
मूलकर्माणि कोशवृद्धिकराणि कृष्यादीनि तेषां क्रिया करणप्रकारः ॥७३॥
यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः
।
तत् सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम्॥७४॥
एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः
।
देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान्॥७५॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च
।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता॥७६॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका
।
निग्रहानुग्रहरता लोकाननुचरिष्यति॥७७॥
दण्डेन नीयते चेदं दण्डं नयति वा पुनः
।
दण्डनीतिरिति ख्याता त्रील्लोकानभिवर्तते॥७८॥
नीयते पुरुषार्थफलायम् इदं जगत् दण्डं नयति प्रणयति अनया चेति ॥७८॥
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु
।
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः॥७९॥
ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः
।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः॥८०॥
प्रजानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः
।
सञ्चिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम्॥८१॥
वा सञ्चिक्षेप संक्षिप्तं कृतवान् ॥८१॥
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यप्त
।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः॥८२॥
वैशालाक्षं बाहुदन्तकं बार्हस्पत्यमित्युत्तरोत्तरसंक्षिप्तदण्डनीतिग्रन्थनामानि ॥८२॥
भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः
।
सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्॥८३॥
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः
।
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते॥८४॥
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्
।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः॥८५॥
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः
।
संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च॥८६॥
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम्
।
एको योऽर्हति मर्त्येभ्यः श्रेष्ठ्यं वै तं समादिश॥८७॥
एवं शास्त्रोत्पत्तिमुक्त्वा नृपोत्पत्तिमाह- अथेत्यादिना ॥८७॥
ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः
।
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्॥८८॥
विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत
।
न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव॥८९॥
कीर्तिमांस्तस्य पुत्रोऽभूत् सोऽपि पञ्चातिगोऽभवत्
।
कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत्तपः॥९०॥
पञ्चातिगः विषयातिगः मुक्तः ॥९०॥
प्रजापतेः कर्दमस्य त्वनङ्गो नाम वै सुतः
।
प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः॥९१॥
अनङ्ग इत्यङ्गस्यैव नामान्तरम् ॥९१॥
अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै
।
प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत्॥९२॥
मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी
।
प्रख्याता त्रिषु लोकेषु याऽसौ वेनमजीजनत्॥९३॥
तं प्रजासु विधर्माणं रागद्वेषवशानुगम्
।
मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः॥९४॥
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः
।
ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि॥९५॥
दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः
।
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः॥९६॥
तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः
।
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः॥९७॥
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः
।
ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः॥९८॥
कवची बद्धनिस्त्रिंशः सशरः सशरासनः
।
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः॥९९॥
तं दण्डनीतिः सकला श्रिता राजन् नरोत्तमम्
।
ततस्तु प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह॥१००॥
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी
।
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत॥१०१॥
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्
।
तदहं वै करिष्यामि नात्र कार्या विचारणा॥१०२॥
तमूचुस्तत्र देवास्ते ते चैव परमर्षयः
।
नियतो यत्र धर्मो वै तमशङ्कः समाचर॥१०३॥
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
।
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः॥१०४॥
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः
।
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता॥१०५॥
प्रतिज्ञां चाधिरोहस्व मनसा, कर्मणा गिरा
।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत॥१०६॥
यश्चात्र धर्मो नित्योक्तो दण्डनीतिव्यपाश्रयः
।
तमशङ्कः करिष्यामि स्ववशो न कदाचन॥१०७॥
स्ववशः स्वानीन्द्रियाणि तद्वशः न कदाचन भविष्यामीति शेषः । स्वेति स्वच्छ पाठः ॥१०७॥
अदण्ड्या मे द्विजाश्चेति प्रतिजानीहि हे विभो
।
लोकं च संकरात्कृत्स्नं त्रासाऽस्मीति परंतप॥१०८॥
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्
।
ब्राह्मणा मे महाभागा नमस्याः पुरुषर्षभः॥१०९॥
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः
।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः॥११०॥
मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा
।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्॥१११॥
सांवत्सरो ज्यौतिषिकः ॥१११॥
आत्मनाऽष्टम इत्येव श्रुतिरेषा परा नृषु
।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ॥११२॥
आत्मना स्वशरीरेण सहाष्टमः पृथुर्विष्णोः सकाशादित्यर्थः । तथा हि- विष्णुः प्रथमः । विरजा द्वितीयः । कीर्तिमांस्तृतीयः । कर्दमश्चतुर्थः । अनङ्गः पञ्चमः । अतिबलः षष्ठः । वेनः सप्तमः । पृथुरष्टम इति ॥११२॥
तयोः प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान्
।
अनूपदेशं सूताय मगधं मागधाय च॥११३॥
समतां वसुधायाश्च स सम्यगुदपादयत्
।
वैषम्यं हि परं भूमेरासीदिति च नः श्रुतम्॥११४॥
मन्वन्तरेषु सर्वेषु विषमा जायते मही
।
उज्जहार ततो वैन्यः शिलाजालान्समन्ततः॥११५॥
धनुष्कोट्या महाराज तेन शैला विवर्धिताः
।
स विष्णुना च देवेन शक्रेण विबुधैः सह॥११६॥
ऋषिभिश्च प्रजापालैर्ब्राह्मणैश्चाभिषेचितः
।
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव॥११७॥
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः
।
शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर॥११८॥
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः
।
यक्षराक्षसभर्ता च भगवान्नरवाहनः॥११९॥
धर्मे, चार्थे, च कामे, च समर्थं प्रददौ धनम्
।
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा॥१२०॥
प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव
।
न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा॥१२१॥
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन
।
भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात्॥१२२॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः
।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्॥१२३॥
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
।
यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत्॥१२४॥
तेन धर्मोत्तस्थायं कृतो लोको महात्मना
।
रंजिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते॥१२५॥
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते
।
प्रथिता धर्मतश्चेयं पृथिवी बहुभिः स्मृता॥१२६॥
प्रथितावनता चेति विग्रहे वर्णलोपविकाराभ्यां पृथिवी ॥१२६॥
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः
।
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत॥१२७॥
स्थापनं मर्यादाम् ॥१२७॥
तपसा भगवान्विष्णुराविवेश च भूमिपम्
।
देववन्नरदेवानां नमते यं जगन्नृपम्॥१२८॥
दण्डनीत्या च सततं रक्षितव्यं नरेश्वर
।
नाधर्षयेत्तथा कश्चिच्चारनिष्पन्ददर्शनात्॥१२९॥
दण्डेति । रक्षितव्यं राज्यं तच्चान्यो न आधर्षयेत् तत्र हेतुः चाराणां निष्पन्दः सञ्चारस्तद्द्वारा यद्दर्शनं लोकवृत्तान्तस्य दृष्ट्वा च पालनं तत इत्यर्थः । आत्मना चित्तेन कारणैः क्रियाभिश्च समस्य महीक्षितः कर्मेति सम्बन्धः ॥१२९॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
।
आत्मना कारणैश्चैव समस्येह महीक्षितः॥१३०॥
को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात्
।
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा॥१३१॥
विष्णर्भूमिपमाविवेशेत्युक्तं तत्रोपपत्तिः क इत्यर्धेन ॥१३१॥
श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः
।
श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव॥१३२॥
पत्नी पालयित्री ॥१३२॥
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता
।
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्॥१३३॥
पार्थिवो जायते तात दण्डनीतिविशारदः
।
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि॥१३४॥
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति
।
स्थापितं च ततो देवैर्न कश्चिदतिवर्तते
।
तिष्ठत्येकस्य च वशे तं चेदं न विधीयते॥१३५॥
स्थापितमभिषिक्तम् एकस्य राज्ञो वशे इदं तिष्ठति तं चेदं लक्षीकृत्य न विधीयते इदं जगद्विधानसामर्थ्यं न भवति ॥१३५॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
।
तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठते॥१३६॥
तुल्यस्य हस्ताद्यवयवैः समस्य ॥१३६॥
योऽस्य वै मुखमद्राक्षीत् सौम्यं सोऽस्य वशानुगः
।
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति॥१३७॥
अस्य राज्ञः सौम्यं मुखम् अद्राक्षीत् सुभगादिरूपं चैनं पश्यति अस्य द्रष्टुः स राजा वशानुगः आज्ञाकारीति ज्ञेयम् ॥१३७॥
महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा
।
नयचारश्च विपुलो येन सर्वमिदं ततम्॥१३८॥
महत्त्वादिति । दण्डसामर्थ्यादेव लोके नीत्यादिकं दृश्यत इत्यर्थः ॥१३८॥
आगमश्च पुराणानां महर्षीणां च सम्भवः
।
तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर॥१३९॥
आगमादिकं चात्र ग्रन्थे कीर्तितम् ॥१३९॥
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च
।
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तितम्॥१४०॥
इतिहासाश्च वेदाश्च न्यायः कृत्स्नश्च वर्णितः
।
तपो ज्ञानमहिंसा च सत्यासत्येन यः परः॥१४१॥
वृद्धोपसेवा दानं च शौचमुत्थानमेव च
।
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम्॥१४२॥
भुवि चाधोगतं यच्च तच्च सर्वं समर्पितम्
।
तस्मिन्पैतामहे शास्त्रे पाण्डवैतन्न संशयः॥१४३॥
ततो जगति राजेन्द्र सततं शब्दितं बुधैः
।
देवाश्च नरदेवाश्च तुल्या इति विशाम्पते॥१४४॥
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु
।
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तते॥१४५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सूत्राध्याये एकोनषष्टितमोऽध्यायः॥५९॥
वैशम्पायन उवाच।
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्
।
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः॥१॥
ततः पुनरिति ॥१॥
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्
।
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः॥२॥
सर्ववर्णानाम् अनुलोमविलोमजादीनां चातुर्वर्ण्यस्य ये आश्रमाः ब्राह्मणस्य चत्वार आश्रमाः क्षत्रियस्य त्रयो वैश्यस्य द्वौ शुद्रस्यैक इति तेषाम् ॥२॥
केन वै वर्धते राष्ट्रं राजा केन विवर्धते
।
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ॥३॥
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा
।
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः॥४॥
केषु विश्वसितव्यं स्यात् राज्ञा कस्याञ्चिदापदि
।
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह॥५॥
भीष्म उवाच।
नमो धर्माय महते नमः कृष्णाय वेधसे
।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्॥६॥
अक्रोधः सत्यवचनं संविभागः क्षमा तथा
।
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च॥७॥
सर्ववर्णधर्मानाह- अक्रोध इति सार्धेन ॥७॥
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः
।
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्॥८॥
दममेव महाराज धर्मबाहुः पुरातनम्
।
स्वाध्यायाभ्यसनं चैव तत्र कर्म समाप्यते॥९॥
तत्राध्ययने तावतैव नैष्ठिकः कृतार्थो भवतीत्यर्थः ॥९॥
तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि
।
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम्॥१०॥
स्वयमुपागते वित्ते दारक्रियापूर्वकम् अपत्यसन्तानमिच्छेत्स इत्याह द्वाभ्याम्- तं चेदिति ॥१०॥
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च
।
संविभज्य च भोक्तव्यं धनं सद्भिरितीर्यते॥११॥
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः
।
कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥१२॥
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत
।
दद्याद्राजन्न याचेत यजेत न च याजयेत्॥१३॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्
।
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम्॥१४॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः
।
य एवाहवजेतारस्त एषां लोकजित्तमाः॥१५॥
अविक्षतेन देहेन सपराद्यो निवर्तते
।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः॥१६॥
एवं हि क्षत्रबन्धूनां मार्गमाहुः प्रधानतः
।
नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात्॥१७॥
एवं हि क्षत्रबन्धूनां मार्गमाहुः प्रधानतः
।
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता॥१८॥
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः
।
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत्॥१९॥
परिनिष्ठितकार्यस्तु नृपतिः परिपालनात्
।
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते॥२०॥
वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम्
।
दानमध्ययनं यज्ञः शौचेन धनसंचयः॥२१॥
पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह
।
विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत्॥२२॥
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात्
।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्॥२३॥
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः
।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्॥२४॥
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्
।
लब्धाच्च सप्तमं भागं तथा शृङ्गे कला खुरे॥२५॥
षण्णां धेनूनां रक्षको वैश्य एकस्याः क्षीरं स्ववेतनं हरेत् शतस्य रक्षको वर्षे एकं गोवृषभमिथुनं वेतनं हरेत् । वाणिज्येतु लब्धात्सप्तमं भागं धनिकाद्धरेत् । गवयादिश्रुङ्गवाणिज्ये लाभात्सप्तममेव । खुरे पशुविशेषखुरे महामूल्ये । कला षोडशो भागः ॥२५॥
सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः
।
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति॥२६॥
एवं सस्यानामपि सप्तममेवांशं हरेत् ॥२६॥
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन
।
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत॥२७॥
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्
।
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते॥२८॥
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात्
।
शूद्र एतान्परिचरेत्त्रीन्वर्णाननुपूर्वशः॥२९॥
संचयांश्च न कुर्वीत जातु शूद्रः कथंचन
।
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः॥३०॥
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः
।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्॥३१॥
कुर्वीत सञ्चयानित्यपकृष्यते धार्मिकः कर्मप्रधानः न तु भोगलोभप्रधानः ॥३१॥
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते
।
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च॥३२॥
औशीरं वेष्टनं वीरणमूलकृताच्छदिः ॥३२॥
यातयामानि देयानि शूद्राय परिचारिणे
।
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः॥३३॥
यातयामानि भुक्तभोगानि । जीर्णानीति यावत् ॥३३॥
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत्
।
यं च कञ्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत्॥३४॥
द्विजातीनां मध्ये यं कञ्जित्प्रति ॥३४॥
कल्प्यां तेन तु ते प्राहुर्वृत्तिं धर्मविदो जनाः
।
देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ॥३५॥
तेन द्विजातिना ॥३५॥
शूद्रेण तु न हातव्यो भर्ता कस्याञ्चिदापदि
।
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये॥३६॥
अतिरेकेण स्वकुटुम्बपोषणादाधिक्येन भर्ता पोष्टा ॥३६॥
न हि स्वमस्ति शूद्रस्य भर्तृहार्येधनो हि सः
।
उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च भारत
।
स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते॥३७॥
अन्यत्र भृत्यार्जितमपि धनं शूद्रस्य स्वामिनैव हार्यं यथोक्तम्-
'त्रय एवाधना राजन्भार्या दासस्तथा सुतः
।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥ '
इति । तस्माद्युक्तमुक्तं भर्तृहार्यधनो हि स इति । तस्य शूद्रस्य चामन्त्रको यज्ञोऽस्तीत्यर्थः ॥३७॥
तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान्स्वयम्
।
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्॥३८॥
तस्मादिति । पाकयज्ञैः क्षुद्रयज्ञैर्ग्रहशान्तिवैश्वदेवादिभिर्यजेत अव्रतवान् श्रौतव्रतोपायहीनः ।
'अष्टमुष्टि भवेत्किञ्चित्किञ्चिदष्टौ तु पुष्कलम्
।
पुष्कलानि तु चत्वारि पूर्णपात्रं प्रचक्षते
।
'
इत्युक्तलक्षणपूर्णपात्रमयी यज्ञे गवामिव पूर्णपात्राणामेव गणना यज्ञानुसारेण । मंत्रास्तेषां पौराणिका नाममन्त्रा वा प्रणववर्जिता इति सर्वं शूद्रपद्धत्युक्तं द्रष्टव्यम् ॥३८॥
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ
।
ऐन्द्राग्नेन विधानेन दक्षिणामितिः नः श्रुतम्॥३९॥
सहस्राणां शतं लक्षं पूर्णपात्राणि ऐन्द्राग्नस्य विधिर्यथा श्रौते चरोः पशोर्वा विधिस्तथैवामन्त्रकमस्य विधानं तेन ॥३९॥
यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत
।
अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते॥४०॥
ननु 'तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः' इति श्रुतेः । कथमस्यामन्त्रोऽपि यज्ञ इत्याशङ्क्याह- यत इति । सर्ववर्णानां त्रैवर्णिकानां यो यज्ञः स तस्यैव शुद्रस्यैव भवति तस्य तत्सेवकत्वात् यथा हि श्रद्धया गुर्वग्नीन्परिचरत उपकोसलस्याग्नयो ब्रह्मविद्यां दत्तवन्तः एवं श्रद्धया ब्राह्मणादीनाराधयतः शूद्रस्यापि ब्राह्मणकृतयज्ञफलभागित्वमस्त्येवेत्यर्थः। सार्धः श्लोकः ॥४०॥
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत्
।
दैवतं हि परं विप्राः स्वेन स्वेन परस्परम्॥४१॥
अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः
।
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः॥४२॥
सृष्टयः सन्तानानि तेन सर्वेषां वर्णानां ब्राह्मणजत्वादस्त्येव शूद्रस्यापि यज्ञेऽधिकार इत्यर्थः ॥४२॥
देवानामपि ये देवा यद्ब्रूयुस्ते परं हितम्
।
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया॥४३॥
यद्ब्रूयुस्ते तत्ते तव परं हितं वर्णैः सशूद्रैः सर्वयज्ञाः श्रौताः स्मार्ताश्च न काम्यया स्वभावात्संसृज्यन्त इति पूर्वस्योपसंहारः ॥४३॥
ऋग्जयुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः
।
अनृग्यजुरसामा च प्राजापत्य उपद्रवः
।
यज्ञो मनीषया तात सर्ववर्णेषु भारत॥४४॥
अत्र हेतुमाह- ऋगिति । द्विजस्त्रैवर्णिकः पूज्यः शूद्रेण उपद्रवतीति तत्समीपगामित्वादुपद्रवो दासः शूद्रः स वेदहीनोऽपि प्राजापत्त्यः प्रजापतिदेवताकः यथाऽऽग्नेयो ब्राह्मण ऐन्द्रः क्षत्रियस्तद्वत् । तथा च मानसे देवतोद्देशेन द्रव्यत्यागात्मके यज्ञे सर्वे वर्णा आधक्रियन्त इत्यर्थः सार्धः श्लोकः ॥४४॥
नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः
।
ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते॥४५॥
अस्य मानसयज्ञकर्तुः देवाः इतरे जनाश्च न ईहन्ते इति न अपि तु श्रद्धापूतत्वात्सर्वेऽप्यस्य यज्ञे भागं कामयन्त इत्यर्थः । नास्य यज्ञस्य त इति पाठे एनं यज्ञं देवा अपि कर्तुं न ईहन्ते न समर्था भवन्तीति योज्यम् ॥४५॥
स्वं दैवतं ब्राह्मणः स्वेन नित्यं परान्वर्णानयजन्नैवमासीत्
।
अधरो वितानः संसृष्टो वैश्यो ब्राह्मणस्त्रिषु वर्णेषु यज्ञसृष्टः॥४६॥
नन्वग्निहीनस्य शूद्रस्य कथं पाकयज्ञेष्वधिकार इत्याशङ्क्याह - स्वं दैवतं ब्राह्मणः स्वेन नित्यं परान्वर्णानयजन्नैवमासीत् । अधरो वितानः संसृष्टो वैश्यो ब्राह्मणस्त्रिषु वर्णेषु यज्ञसृष्ट इति । ब्राह्मणस्त्रयाणामपि वर्णानां स्वम् असाधारणं दैवतम् अतः कारणात् ते स्वे आत्मीयाः ब्राह्मणाः परान्वर्णानुद्दिश्य न अयजन्निति नैव आसीत् । अपि तु 'अमुककामेनामुकशर्मणाऽहं वृतोऽमुकयज्ञेन यक्ष्ये' इत्युद्देशं कृत्वाऽयजन्नेव यागं कृतवन्त एवेत्येवमेवासीदेवं पुराकल्पप्रदर्शनमुखेनायं विधिर्ज्ञेयः । आयजन्निति परस्मैपदप्रयोगस्तु परगामित्वात्क्रियाफलस्य युक्तः । अधरो नीचः वैवाहिकात् श्रौताच्चान्यत्वात् वितानोऽग्नीनां विस्तरः । तस्य अग्नयो लौकिका एव पञ्चकुण्डीविधानादौ ज्ञेयाः । एककुण्डपक्षे त्वेक एव लौकिकः । स वाऽथ खलु यत्र क्व च होष्यन्स्यादित्युपक्रम्याग्निं प्रतिष्ठाप्येति गृह्यकारैर्दर्शितः । संसृष्ट इति । तत्रापि मन्त्रसंसर्ग उच्यते । वैश्यः वैश्यगृहादानीतः श्रौतेऽपि विट्कुलाद्वित्तवतो वेति वैश्यग्रहाद्दक्षिणाग्न्यर्थमग्न्यानयनं दृश्यते । यस्मादेवं तस्माद्ब्राह्मणस्त्रिष्वपि वर्णेषु यज्ञः सृष्टो येन स यज्ञस्रष्टा भवतीत्यर्थः । पाठान्तरे वैश्यपदे विभक्तिलोप आर्षः ॥४६॥
तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः संसृज्यन्ते तस्य विकार एव
।
एकं साम यजुरेकमृगेका विप्रश्चैको निश्चये तेषु सृष्टः॥४७॥
यस्मात् त्रिषु वर्णेषु ब्राह्मणो यज्ञस्रष्टा तस्मात्सर्वेऽपि वर्णाः ऋजवः साधव एव यज्ञसंयोगात् । एवं धर्मसाम्येऽपि ज्ञातिसाम्यं नास्तीत्याशङ्क्याह- ज्ञातिवर्णाः अपि क्षत्रियवैश्यशूद्रास्तस्य ब्राह्मणस्यैव विकारे क्षत्रियादिकन्यासूत्पन्ने मूर्धाभिषिक्तादौ संसृज्यन्त एव । तेन धर्मतो जन्मतश्च सर्वे वर्णा ब्राह्मणसंसृष्टा इति स्थितम् । तत्र हेतुमाह-एक इति । तेषु तत्त्वनिश्चये क्रियमाणे एको विप्रो ब्रह्मैव प्रथमो ब्राह्मणः सृष्टो जातः । ब्राह्मणसन्ततित्वात्सर्वेप्येते ब्राह्मणा एवेत्यर्थः । तत्र दृष्टान्तः- एकं सामेति । अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवतीति श्रुतेरेकम् अकाररूपमेव अक्षरं यथा सामादिरूपं तथा ब्रह्मैव ब्राह्मणादिरूपमित्यर्थः ॥४७॥
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः
।
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम्॥४८॥
वैखानसानां वानप्रस्थानां गाथाः यज्ञस्तुतिश्लोकाः यज्ञगीताः विष्णुगीताः ॥४८॥
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः
।
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत्॥४९॥
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम्
।
बहूनि यज्ञरूपाणि नानाकर्मफलानि च॥५०॥
यत्स्कन्नमिति । रौद्रं गवि सद्वायव्यमुपावसृष्टमित्यादिबह्वृचब्राह्मणे षोडशकमग्निहोत्रमुक्तम् । तत्र मारुतं विष्यन्दमानमिति स्कन्नमपि मरुद्दैवत्यं भवतीति तत्पूर्वम् आद्यम् अग्निहोत्रं यत् अस्कन्नं यथाविधि हुतम् उत्तरं सर्वोत्कृष्टं बहूनीति रौद्रादीनि ॥५०॥
तानि यः सम्प्रजानाति ज्ञाननिश्चयनिश्चितः
।
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति॥५१॥
तानि षोडश अग्निहोत्ररूपाणि ॥५१॥
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः
।
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम्॥५२॥
यज्ञं विष्णुं यष्टुं यज्ञदानादिना आराधितुम् ॥५२॥
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम्
।
सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः॥५३॥
ऋषय इति सार्धः ॥५३॥
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते
।
तस्माद् यष्टव्यमित्याहुः पुरुषेणानसूयता
।
श्रद्धा पवित्रमाश्रित्य यथाशक्ति यथेच्छया॥५४॥
श्रद्धा पवित्रं यथा स्यात्तथा यष्टव्यमिति सम्बन्धः आश्रित्य शास्त्रामिति शेषः ॥५४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वर्णाश्रमधर्मकथने षष्टितमोऽध्यायः॥६०॥
भीष्म उवाच।
ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च
।
शुश्रूषणं चापि तथाऽर्थहेतोरकार्यमेतत्परमं द्विजस्य॥१॥
ज्याकर्षणमिति ॥१॥
सेव्यं तु ब्रह्म षट्कर्म गृहस्थेन मनीषिणा
।
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते॥२॥
राजप्रेष्यं कृषिधनं जीवनं च वणिक्पथा
।
कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत्॥३॥
कौटिल्यमनार्जवं कौलटेयं कुलटाप्रधानं जारकर्म पारदार्यं वा । अन्ये तु कौटिलीयमिति पाठं प्रकल्प्य मात्सर्यमिति व्याचक्षते कुसीदं बुद्धिजीविकाम् ॥३॥
शूद्रो राजन्भवति ब्रह्मबन्धुर्दुश्चारित्रो यश्च धर्मादपेतः
।
वृषलीपतिः पिशुनो नर्तनश्च राजप्रेष्यो यश्च भवेद्विकर्मा॥४॥
जपन्वेदानजपंश्चापि राजन् समः शूरैर्दासवच्चापि भोज्यः
।
एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये॥५॥
राजप्रेष्यादिः वेदान् जपन् अजपन्वा शूद्र इव पङ्क्तेर्बहिर्भोजनीय एवेति भावः ॥५॥
निर्मर्यादे चाशुचौ क्रूरवृत्तौ हिंसात्मके त्यक्तधर्मस्ववृत्ते
।
हव्यं कव्यं यानि चान्यानि राजन् देयान्यदेयानि भवन्ति चास्मै॥६॥
तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचमार्जवं चापि राजन्
।
तथा विप्रस्याश्रमाः सर्व एव पुरा राजन्ब्राह्मणा वै निसृष्टाः॥७॥
यः स्याद्दान्तः सोमपश्चार्यशीलः सानुक्रोशः सर्वसहो निराशीः
।
ऋजुर्मूदुरनृशंसः क्षमावान् स वै विप्रो नेतरः पापकर्मा॥८॥
शूद्रं वैश्यं राजपुत्रं च राजन् ल्लोकाः सर्वे संश्रिता धर्मकामाः
।
तस्माद्वर्णाञ्शान्तिधर्मेष्वसक्तान् मत्वा विष्णुर्नेच्छति पाण्डुपुत्र॥९॥
लोके चेदं सर्वलोकस्य न स्यात् चातुर्वर्ण्यं वेदवादाश्च न स्युः
।
सर्वाश्चेज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमस्था न वै स्युः॥१०॥
धर्मेष्वसक्तान्विष्णुर्नेच्छति चेत्का हानिरत आह - लोक इति । लोके स्वर्गे इदं सुखादि आश्रमस्थाश्च स्वधर्मे न तिष्ठेयुः स्वर्गादिकं सर्वे विष्णुप्रसादादेव तदभावे सर्वं कृतं कर्म व्यर्थमिति भावः ॥१०॥
यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्
।
चातुराश्रम्यदृष्टांश्च धर्मांस्तान्शृणु पाण्डव॥११॥
यो राजा त्रयाणां ब्राह्मण-वैश्य-शूद्राणां स्वराज्ये आश्रमधर्मसेवनं यथोक्तम् इच्छेत् तेनावश्यज्ञातव्यान्धर्मान्शृणु ॥११॥
शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः
।
अभ्यनुज्ञातराजस्य शूद्रस्य जगतीपते॥१२॥
शुश्रूषोः वेदान्तेष्वनधिकारात्पुराणद्वारा आत्मानं श्रोतुमिच्छोः कृतकार्यस्य यावच्छरीरसामर्थ्यं सेवितत्रैवर्ण्यस्य कृतसन्तानकर्मणः जातपुत्रस्य अभ्यनुज्ञातो राज्ञा इत्यभ्यनुज्ञातराजस्तस्य ॥१२॥
अल्पान्तरगतस्यापि दशधर्मगतस्य वा
।
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्॥१३॥
अल्पान्तरगतस्य आचारनिष्ठया त्रैवर्णिकसमस्य दशधर्मगतस्येति मत्तप्रमत्तादीन्प्रकृत्य दशधर्मं न जानन्तीत्युक्तेरत्र योगधर्मानभिज्ञस्य ग्रहणं तस्यापि आधमाः सर्वे विहिताः । शुद्रोऽपि नैष्ठिकं ब्रह्मचर्यं वानप्रस्थं वा सकलविक्षेपककर्मत्यागरूपं संन्यासं वाऽनुतिष्ठेदेव निराशिषं शान्तिदान्त्यादिकल्याणगुणरहितम् ॥१३॥
भैक्ष्यचर्यां ततः प्राहुस्तस्य तद्धर्मचारिणः
।
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि॥१४॥
भैक्ष्यचर्यां पारिव्राज्यं तस्य शुद्रस्य तद्धर्मचारिणः तान्पूर्वोक्तान् स्वधर्मान् चरतीति तथाभूतस्य तथा वैश्यस्य राजपुत्रस्य च भैक्ष्यचर्यां प्राहुरित्यन्वयः ॥१४॥
कृतकृत्यो वयोऽतीतो राज्ञः कृतपरिश्रमः
।
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम्॥१५॥
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ
।
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च॥१६॥
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वरः
।
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च॥१७॥
आनयित्वा यथापाठं विप्रेभ्यो दत्तदक्षिणः
।
संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु॥१८॥
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव
।
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ॥१९॥
अर्चयित्वा पितॄन्सम्यक् पितृयज्ञैर्यथाविधि
।
देवान् यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः॥२०॥
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम्
।
सोऽनुपूर्व्याश्रमान् राजन् गत्वा सिद्धिमवाप्नुयात्॥२१॥
राजर्षित्वेन राजेन्द्र भैक्ष्यचर्यां न सेवया
।
अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया॥२२॥
राजा ऋषित्वेन मन्त्रार्थद्रष्टृत्वेन वेदान्तश्रवणकर्तृत्वेन हेतुना भैक्ष्यचर्यामिच्छेदिति पूर्वेण सम्बन्धः न तु सेवया श्रवणमकुर्वन्नान्नमात्रार्थमित्यर्थः । तत्कुर्वंस्तु जीवितकांक्षया भैक्ष्यचर्यां चरेदेवेत्यर्थः ॥२२॥
न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण
।
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्॥२३॥
एतद्भैक्ष्यं नैष्ठिकं नित्यं त्रयाणां राजादीनां तेषामाश्रमसंन्यासो नित्यो नास्ति अपि तु विक्षेपककर्मत्यागरूपः काम्य एवास्तीत्यर्थः । स च चतुर्णामप्याश्रमाणामस्तीति प्राहुः ॥२३॥
बाह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः
।
सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छृणोमि॥२४॥
राजधर्मं प्रशंसति- बाह्वायत्तमित्यादिना ॥२४॥
यथा राजन्हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि
।
एवं धर्मान् राजधर्मेषु सर्वान् सर्वावस्थं सम्प्रलीनान्निबोध॥२५॥
अल्पाश्रयानल्पफलान्वदन्ति धर्मानन्यान्धर्मविदो मनुष्याः
।
महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः॥२६॥
सर्वे धर्मा राजधर्मप्रधानाः सर्वे वर्णाः पाल्यमाना भवन्ति
।
सर्वस्त्यागो राजधर्मेषु राजंस्त्यागं धर्मं चाहुरग्र्यं पुराणम्॥२७॥
सर्वेषां त्यागिनां षड्भागहारी राजाऽपि सर्वत्यागी भवतीत्यर्थः ॥२७॥
मज्जेत्त्रयी दण्डनीतौ हतायां सर्वे धर्माः प्रक्षयेयुर्विबुद्धाः
।
सर्वे धर्माश्चाश्रमाणां हताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे॥२८॥
सर्वे त्यागा राजधर्मेषु दृष्टाः सर्वा दीक्षा राजधर्मेषु चोक्ताः
।
सर्वा विद्या राजधर्मेषु युक्ताः सर्वे लोका राजधर्मे प्रविष्टाः॥२९॥
यथा जीवाः प्राकृतैर्वध्यमाना धर्मश्रुतानामुपपीडनाय
।
एवं धर्मा राजधर्मैवियुक्ताः संचिन्वन्तो नाद्रियन्ते स्वधर्मम्॥३०॥
यथेति । जीवाः मृगादयः प्राकृतैर्नीचैर्वध्यमानाः हन्तॄणां धर्मस्य श्रुतदृष्टादीनां च नाशाय भवन्ति एवं राजधर्मैर्नीत्यादिभिर्वियुक्ता धर्मा अग्निहोत्रादयश्चोरैर्नाश्यमानाः कतॄणां धर्मं चित्तं च खेदयन्ति कर्तारश्च सञ्चिन्वन्तः स्वास्थ्यमन्वेषयन्तो व्याकुलतया स्वधर्मं नाद्रियन्ते तस्माद्राजधर्म एव मुख्यो धर्म इत्यर्थः ॥३०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वर्णाश्रमधर्मकथने त्रिषष्टितमोऽध्यायः॥६३॥
भीष्म उवाच।
चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव
।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः॥१॥
चातुराश्रम्येति ॥१॥
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम
।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते॥२॥
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम्
।
प्रकोपयन्ति तद्भावमागमैरेव शाश्वतम्॥३॥
धर्मं बहुद्वारं विद्धि अन्ये तु तद्भावं धर्मस्य स्वरूपं कोपयन्ति विरुद्धागमैः ॥३॥
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम्
।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे हताः॥४॥
अदृष्टान्तेन दृष्टोऽन्तो यस्य तस्मिन्परे धर्मे हताः नष्टधियः निश्चयं प्रकोपयन्ति ॥४॥
प्रत्यक्षं सुखभूयिष्ठमात्मसाक्षिकमच्छलम्
।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्॥५॥
धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर
।
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुराः॥६॥
धर्माश्रमे इति । गार्हस्थ्ये त्रयाणां वर्णानां धर्माणाम् उपश्रुतिरन्तर्भावः । संख्याता प्रकटा तथाऽध्यवासिनां नैष्ठिकवानप्रस्थयतीनां ब्राह्मणानां च धर्माणाम् उपश्रुतिः संख्याता तथा राजधर्मेषु धर्मैः सह लोका अन्तर्भूता इति सार्धः श्लोकः ॥६॥
राजधर्मेष्वनुमता लोकाः सुचरितैः सह
।
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्॥७॥
अत्र पूर्वोक्तां कथां स्मारयति- उदाहृतमिति सार्धः ॥७॥
सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा
।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये॥८॥
एकैकमात्मनः कर्म तुलयित्वाऽऽश्रमं पुरा
।
राजानः पर्युपासन्त दृष्टान्तवचने स्थिताः॥९॥
आश्रमम् आश्रमविहितं कर्मधर्मं तुलयित्वा किं दण्डनीतिजो धर्मो महान् उत आश्रमधर्म इति सन्दिह्य दृष्टान्तवचने सिद्धान्तं श्रोतुं प्रभुम् उपासन्तेति योजना ॥९॥
साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च
।
सृष्टाः पुरा ह्यादिदेवेन देवाः क्षात्रे धर्मे वर्तयन्ते च सिद्धाः॥१०॥
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम्
।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा॥११॥
अर्थस्य निश्चयो यत्र तम् ॥११॥
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्
।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया॥१२॥
अनादिमध्यनिधनं देवं नारायणं प्रभुम्
।
स राजा राजशार्दूल मान्धाता परमेश्वरम्॥१३॥
जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः
।
दर्शयामास तं विष्णू रूपमास्थाय वासवम्॥१४॥
वासवम् ऐन्द्रं रूपम् ॥१४॥
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम्
।
तस्य पार्थिवसिंहस्य तस्य चैव महात्मनः
।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम्॥१५॥
इन्द्र उवाच
।
किमिष्यते धर्मभृतां वरिष्ठ यद्द्रष्टुकामोऽसि तमप्रमेयम्
।
अनन्तमायामितमन्त्रवीर्यं नारायणं ह्यादिदेवं पुराणम्॥१६॥
नासौ देवो विश्वरूपो मयापि शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात्
।
येऽन्ये कामास्तव राजन् हृदिस्था दास्ये चैतांस्त्वं हि मर्त्येषु राजा॥१७॥
सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढप्रीतिरतः सुराणाम्
।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च ततस्तेऽहं दधि वरान्यथेष्टम्॥१८॥
मान्धातोवाच
।
असंशयं भगवन्नादिदेवं द्रक्ष्यामि त्वाऽहं शिरसा सम्प्रसाद्य
।
त्यक्त्वा कामान्धर्मकामो ह्यरण्यमिच्छे गन्तुं सत्पथं लोकदृष्टम्॥१९॥
त्वाऽहं त्वामहम् ॥१९॥
क्षात्राद्धर्माद्विपुलादप्रमेयाल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च
।
धर्मो योऽसावादिदेवात्प्रवृत्तो लोकश्रेष्ठं तं न जानामि कर्तुम्॥२०॥
तं क्षात्रधर्मात् श्रेष्ठं कर्तुं न जानामि ॥२०॥
इन्द्र उवाच
।
असैनिका धर्मपराश्च धर्मे परां गतिं न नयन्ते ह्ययुक्तम्
।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः॥२१॥
न सन्ति सैनिका येषां ते असैनिकाः अराजानः धर्मे विषये परां गतिं काष्ठां न नयन्ते न प्रापयन्ति अन्यं स्वयं च न व्रजन्ति । राजानस्तु प्रयुक्तैर्धर्मैर्द्वयमपि कुर्वन्ति । ह्ययुक्तामति पाठे हि प्रसिद्धम् अयुक्तम् अभिनिवेशशून्यं यथा स्यात्तथा । हेलयैव न नयन्ते इत्यर्थः । शेषभूताः अङ्गभूताः ॥२१॥
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सप्रस्थानाः क्षात्रधर्मा विशिष्टाः
।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टास्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति॥२२॥
सप्रस्थानाः पारिव्राज्यसहिताः शेषधर्मा अन्तवत्फलाः अनन्ता असंख्याताः ॥२२॥
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः
।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना॥२३॥
कर्मणा क्रियया ॥२३॥
यदि ह्यसौ भगवान्नाहनिष्यद्रिपून् सर्वानसुरानप्रमेयः
।
न ब्राह्मणा न च लोकादिकर्ता नायं धर्मो नादिधर्मोऽभविष्यत्॥२४॥
अयं क्षात्रः आदिर्ब्राह्मः ॥२४॥
इमामुर्वीं नाजयद्विक्रमेण देवश्रेष्ठः सासुरामादिदेवः
।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्राह्मणानां विनाशात्॥२५॥
नष्टा धर्माः शतधा शाश्वतास्ते क्षात्रेण धर्मेण पुनः प्रवृद्धाः
।
युगे युगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षात्रधर्मं वदन्ति॥२६॥
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च
।
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम्॥२७॥
आत्मत्यागो युद्धे मरणम् ॥२७॥
निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम्
।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधु धर्मं वदन्ति॥२८॥
पुत्रवत्पाल्यमानानि राजधर्मेण पार्थिवैः
।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः॥२९॥
सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम्
।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्॥३०॥
अक्षरपर्यन्तं मोक्षावसानम् ॥३०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वर्णाश्रमधर्मकथने चतुःषष्टितमोऽध्यायः॥६४॥
इन्द्र उवाच
।
एवंवीर्यः सर्वधर्मोपपन्न क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः
।
पाल्यो युष्माभिर्लोकहितैरुदारैर्विपर्यये स्यादभवः प्रजानाम्॥१॥
एवमिति ॥१॥
भूसंस्कारं राजसंस्कारयोगमभैक्ष्यचर्यां पालनं च प्रजानाम्
।
विद्याद्राजा सर्वभूतानुकम्पी देहत्यागं चाहवे धर्ममग्र्यम्॥२॥
भूसंस्कारं भुवः सम्पन्नसस्यत्वं राजसंस्कारो राजसूयाश्वमेधावभृथस्नानम् अभैक्ष्यचर्यां संन्यासाभावम् । एतेन संन्यासो राज्ञामधर्म इत्युक्तम् ॥२॥
त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठं यच्छरीरं त्यजन्तः
।
नित्यं युक्ता राजधर्मेषु सर्वे प्रत्यक्षं ते भूमिपाला यथैव॥३॥
यथैव शरीराणि त्यक्तवन्तः ॥३॥
बहुश्रुत्वा गुरुशुश्रूषया चा परस्पराः संहननाद्वदन्ति
।
नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः॥४॥
सामान्यार्थे व्यवहारप्रवृत्ते प्रियाप्रिये वर्जयन्नेव यत्नात्
।
चातुर्वर्ण्यं स्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौरसैश्च॥५॥
औरसैः पौरुषैः ॥५॥
सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्
।
स्वं स्वं धर्मं ये न चरन्ति वर्णास्तांस्तान्धर्मानन्यथार्थान्वदन्ति॥६॥
येन क्षात्रधर्मेण अन्यथाऽर्थांस्तांस्तान् धर्मान्वदन्ति ॥६॥
निर्मर्यादान्नित्यमर्थे निविष्टानाहुस्तांस्तान्वै पशुभूतान्मनुष्यान्
।
यथा नीतिं गमयत्यर्थयोगाच्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः॥७॥
त्रैविद्यानां या गतिर्ब्राह्मणानां ये चैवोक्ताश्चाश्रमा ब्राह्मणानाम्
।
एतत्कर्म ब्राह्मणस्याहुरग्र्यमन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः॥८॥
या गतिर्यज्ञादिः आश्रमधर्मश्च एतद्द्वयम् ॥८॥
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव
।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन॥९॥
अन्यथा वर्तमानस्य नासौ वृत्तिः प्रकल्प्यते
।
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः॥१०॥
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति
।
कर्म स्वं नोपयुञ्जानमविश्वास्यं हि तं विदुः॥११॥
नोपयुञ्जानं नाचरन्तम् ॥११॥
एते धर्माः सर्ववर्णेषु लीना उत्क्रष्टव्याः क्षत्रियैरेष धर्मः
।
तस्माज्ज्येष्ठा राजधर्मा न चान्ये वीरज्येष्ठा वीरधर्मा मता मे॥१२॥
उत्क्रष्टव्याः उत्कर्षं प्रापणीयाः एष धर्मः क्षत्रियस्य ॥१२॥
मान्धातोवाच
।
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः
।
शकास्तुषाराः कङ्काश्च पल्हवाश्चान्ध्रमद्रकाः॥१३॥
पौण्ड्राः पुलिन्दा रमठाः काम्बोजाश्चैव सर्वशः
।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः॥१४॥
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः
।
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः॥१५॥
दस्युजीविनः दस्युवृत्तिजीविनः ॥१५॥
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे
।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर॥१६॥
एतदिति । सङ्करजानां चोराणां च कथं धर्मे स्थापनं कर्तव्यमिति प्रश्नार्थः ॥१६॥
इन्द्र उवाच
।
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः
।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्॥१७॥
तेषामपि मात्रादिशुश्रूषारूपे धर्मे स्थापनं कर्तव्यमित्याह - मातेति ॥१७॥
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः
।
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते॥१८॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च
।
दानानि च यथाकालं द्विजेभ्यो विसृजेत्सदा॥१९॥
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्
।
भरणं पुत्रदाराणां शौचमद्रोह एव च॥२०॥
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता
।
पाकयज्ञा महार्हाश्च दातव्याः सर्वदस्युभिः॥२१॥
महार्हा इति । पाकयज्ञमुद्दिश्य ब्राह्मणाय धनं देयम् एवं श्राद्धमपि आमेन हिरण्येन चेति ज्ञेयम् ॥२१॥
एतान्येवंप्रकाराणि विहितानि पुराऽनघ
।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव॥२२॥
मान्धातोवाच
।
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः
।
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि॥२३॥
इन्द्र उवाच
।
विनष्टायां दण्डनीत्यां राजधर्मे निराकृते
।
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ॥२४॥
असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा
।
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे॥२५॥
अशृण्वानाः पुराणानां धर्माणां परमा गतीः
।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः॥२६॥
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः
।
तदा धर्मो न चलते सद्भूतः शाश्वतः परः॥२७॥
पापः पापादिति शेषः ॥२७॥
सर्वलोकगुरुं चैव राजानं योऽवमन्यते
।
न तस्य दत्तं न हुतं न श्राद्धं फलते क्वचित्॥२८॥
मानुषाणामधिपतिं देवभूतं सनातनम्
।
देवाऽपि नावमन्यन्ते धर्मकामं नरेश्वरम्॥२९॥
प्रजापतिर्हि भगवान्सर्वं चैवासृजज्जगत्
।
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति॥३०॥
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्
।
स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम्॥३१॥
गतिं फलम् आस्तिकत्वात्स मे मान्यः ॥३१॥
भीष्म उवाच।
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः
।
जगाम भवनं विष्णोरक्षरं शाश्वतं पदम्॥३२॥
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ
।
कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः॥३३॥
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च
।
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः॥३४॥
अन्यायेन क्षत्रधर्मावज्ञया ॥३४॥
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे
।
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ॥३५॥
चक्रे धातुराज्ञायाम् आदिपरायणे पूर्वेषां शरणभूते वर्तस्व ते त्वां संविजानामि सम्यक्समर्थोऽसीति जानामि ॥३५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि इन्द्रमान्धातृसंवादे पञ्चषष्टितमोऽध्यायः॥६५॥
युधिष्ठिर उवाच।
श्रुता मे कथताः पूर्वे चत्वारो मानवाश्रमाः
।
व्याख्यानयित्वा व्याख्यानमेषामाचक्ष्व पृच्छतः॥१॥
श्रुता इति । मानवस्य मनुष्यमात्रस्य आश्रमाश्चत्वार इति श्रुतं तत्कथं दस्यूनामप्युत्तमाश्रमयोगः । एषाम् आश्रमाणां व्याख्यानं स्पष्टीकरणं व्याख्यानयित्वा विस्तरं नीत्वा आचक्ष्व । व्याख्यानयित्वेति नामधातुपदम् ॥१॥
भीष्म उवाच।
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर
।
यथा मम महाबाहो विदिताः साधुसम्मताः॥२॥
यथा मम विदितास्तथा तव विदिता इत्यन्वयः ॥२॥
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर
।
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप॥३॥
लिङ्गस्य सूक्ष्मस्याप्यन्तरं कारणं हार्दाकाशं तद्गतं सर्वज्ञमित्यर्थः ॥३॥
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ
।
साध्वाचारप्रवृत्तानां चातुराश्रम्यकारिणाम्॥४॥
एतानि चातुराश्रम्यकारिणां लिङ्गानि सतां राज्ञां राजधर्मेष्वेव वर्तन्ते इत्यर्थः ॥४॥
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर
।
समदर्शिनश्च भूतेषु भैक्ष्याश्रमपदं भवेत्॥५॥
अत्र यो यस्याश्रमस्यासाधारणो धर्मः स यत्र कुत्रचिदाश्रमे यस्यां कस्यांचिज्जातौ दृष्टश्चेत्स तदाश्रमधर्मप्राप्यं स्थानमाप्नोति न तूत्तमपदप्राप्तौ जातिराश्रमो वा कारणमित्यध्यायार्थस्तमाह-अकामेत्यादिना । कामद्वेषराहित्यं समदर्शित्वं च यतेरसाधारणो धर्मस्तद्वान् राजा यदि दण्डनीत्या भूतेषु वर्तेत तर्हि तस्य यद्भैक्ष्याश्रमस्य संन्यासिनो यत्पदं ब्रह्मलोकप्राप्तिस्तद्भवेत् एवं सर्वत्र ज्ञेयम् ॥५॥
वेत्ति ज्ञानविसर्गं च निग्रहानुग्रहं तथा
।
यथोक्तवृत्तेर्धीरस्य क्षेमाश्रमपदं भवेत्॥६॥
क्षेमाश्रमो गार्हस्थ्यम् ॥६॥
अर्हान्पूजयतो नित्यं संविभागेन पाण्डव
।
सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत्॥७॥
भैक्ष्याश्रमो ब्रह्मचर्यम् ॥७॥
ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर
।
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्॥८॥
दीक्षाश्रमो वैखानसः ॥८॥
लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत्
।
कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत्॥९॥
आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान्
।
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत्॥१०॥
संविभागेन भूतानामतिथीनां तथार्चनात्
।
देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत्॥११॥
मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम
।
कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत्॥१२॥
परराष्ट्राणां वनौषधीनामिव शिष्टार्थं शिष्टसंरक्षणार्थं कुर्वन्वनितुल्यः ॥१२॥
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात्
।
दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत्॥१३॥
दीक्षा बहुविधेति । यावतां पालनं तावन्तो यज्ञाः कृता इत्यर्थः । सत्याश्रमो ब्रह्मलोकप्रद आश्रमः संन्यासः ॥१३॥
वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम्
।
अथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्॥१४॥
आह्निकं जपमानस्य देवान्पूजयतः सदा
।
धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत्॥१५॥
मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः
।
प्राणद्यूते ततस्तस्य ब्रह्माश्रमपदं भवेत्॥१६॥
अजिह्ममशठं मार्गं वर्तमानस्य भारत
।
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्॥१७॥
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत
।
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत्॥१८॥
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत
।
आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत्॥१९॥
अनुक्रोशं दयाम् आनृशंस्यमनिष्ठुरत्वम् ॥१९॥
बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर
।
अनुक्रोशक्रिया पार्थ सर्वावस्थं पदं भवेत्॥२०॥
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह
।
शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत्॥२१॥
चराचराणां भूतानां रक्षणं चापि सर्वशः
।
यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत्॥२२॥
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तॄणाम्
।
निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः॥२३॥
साधूनामर्चनीयानां पूजासु विदितात्मनाम्
।
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्॥२४॥
आश्रमस्थानि भूतानि यस्तु वेश्मनि भारत
।
आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर॥२५॥
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्
।
आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम्॥२६॥
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा
।
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर॥२७॥
स्थानमानं कुले मानं वयोमानं तथैव च
।
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर॥२८॥
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च
।
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्॥२९॥
काले विभूतिं भूतानामुपहारांस्तथैव च
।
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत्॥३०॥
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते
।
सर्वलोकस्य कौन्तेय राजा भवति सोऽश्रमी॥३१॥
दशधर्मगतो भीतत्वादिना अत्यन्तं व्याकुलतया धर्माधर्मप्रतिपत्तिशून्योऽपि सोश्रमी सः आश्रमी सर्वाश्रमफलभागित्यर्थः ॥३१॥
ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत
।
पालिता यस्य विषये धर्मांशस्तस्य भूपतेः॥३२॥
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान्
।
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते॥३३॥
ये चाप्यत्र सहायाः स्युः पार्थिवानां युधिष्ठिर
।
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ॥३४॥
सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्
।
पावनं पुरुषव्याघ्र यं धर्मं पर्युपास्महे॥३५॥
आत्मोपमस्तु भूतेषु यो वै भवति मानवः
।
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्॥३६॥
धर्मे स्थिता सत्त्ववीर्या धर्मसेतुवटारका
।
त्यागवाताध्वगा शीघ्रा नौस्तं संतारयिष्यति॥३७॥
धर्मे इति । राजधर्मात्मिका नौः घर्मेऽब्धाविव स्थिता सत्त्वमेव वीर्यं कर्णधारबलं यत्र धर्मसेतुः शास्त्रं सैव वटारका बन्धनरज्जुर्यत्र त्यागवातेनेव शीघ्रगा ॥३७॥
यदा निवृत्तः सर्वस्मात् कामो योऽस्य हृदि स्थितः
।
तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते॥३८॥
सत्त्वस्थः धीसत्त्वमात्रनिष्ठः ॥३८॥
सुप्रसन्नस्तु भावेन योगेन च नराधिप
।
धर्मं पुरुषशार्दूल प्राप्स्यते पालने रतः॥३९॥
भावेन चेतसा योगेन चित्तनिरोधेन ॥३९॥
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्
।
पालने यत्नमातिष्ठ सर्वलोकस्य चैव ह॥४०॥
वने चरन्ति ये धर्ममाश्रमेषु च भारत
।
रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः॥४१॥
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः
।
अनुतिष्ठ त्वमेनं वै पूर्वदृष्टं सनातनम्॥४२॥
पूर्वमनादिम् । सनातनं पारंपर्यागतम् ॥४२॥
चातुराश्रम्यमैकाग्र्यं चातुर्वर्यं च पाण्डव
।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः॥४३॥
अध्यायार्थमुपसंहरति- चातुराश्रम्यमिति ॥४३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि चातुराश्रम्यविधौ षट्षष्टितमोऽध्यायः॥६६॥
युधिष्ठिर उवाच।
चातुराश्रम्यमुक्तं ते चातुर्वर्यं तथैव च
।
राष्ट्रस्य यत्कृत्यतमं ततो ब्रूहि पितामह॥१॥
चातुराश्रम्यमिति ॥१॥
भीष्म उवाच।
राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम्
।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत॥२॥
राष्ट्रस्य तात्स्थ्यात् राष्ट्रवासिनो जनस्य कृत्यतमं मुख्यं कार्येम् अनिन्द्रम् अराजकम् अत एवाबलम् ॥२॥
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते
।
परस्परं च खादन्ति सर्वथा धिगराजकम्॥३॥
न व्यवतिष्ठते अन्योन्यं लोकाः धर्मव्यवस्थापनं न कुर्वन्तीत्यर्थः ॥३॥
इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः
।
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता॥४॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये
।
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्युत॥५॥
अथ चेदाभिवर्तेत राज्यार्थी बलवत्तरः
।
अराजकाणि राष्ट्राणि हतवीर्याणि वा पुनः॥६॥
अथेति । राज्यार्थी अन्योऽपि कश्चिदायाति तदा सम्पूज्यः राष्ट्रस्थैरित्युभयोः सम्बन्धः ॥६॥
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्
।
न हि पापात्परतरमस्ति किञ्चिदराजकात्॥७॥
अपूजने दोषमाह- न हीति ॥७॥
स चेत्समनुपश्येत समग्रं कुशलं भवेत्
।
बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि॥८॥
स चेदिति । तत्प्रसादप्रकोपायत्ते कुशलाकुशले राष्ट्रस्येत्यर्थः ॥८॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा
।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि॥९॥
यदतप्तं प्रणमते नैतत्संतापमर्हति
।
यत्स्वयं नमते दारु न तत्संनामयन्त्यपि॥१०॥
एतयोपमया वीर सन्नमेत बलीयसे
।
इन्द्राय स प्रणमते नमते यो बलीयसे॥११॥
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता
।
न धनार्थो न दारार्थस्तेषां येषामराजकम्॥१२॥
धनादेरर्थ उपभोगः ॥१२॥
प्रीयते हि हरन्पापः परवित्तमराजके
।
यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति॥१३॥
पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन
।
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे॥१४॥
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः
।
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे॥१५॥
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः
।
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः॥१६॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्
।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान्॥१७॥
समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम्
।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारजायिकः॥१८॥
वाक्शूरो निष्ठुरभाषी, दण्डपरुषः उग्रदण्डः पारजायिकः परस्त्रीगामी ॥१८॥
यः परस्वमथादद्यात्त्याज्या नस्तादृशा इति
।
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः
।
तास्तथा समयं कृत्वा समयेनावतस्थिरे॥१९॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्
।
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश॥२०॥
असुखार्ताः दुःखपीडिताः । असुखार्था इति पाठे सुखैरर्थैश्च हीनाः । दिश देहि ॥२०॥
यं पूजयेम सम्भूय यश्च नः प्रतिपालयेत्
।
ततो मनुं व्यादिदेश मनुर्नाभिननन्द ताः॥२१॥
ताः प्रजाः नाभिननन्द नाङ्गीचकार ॥२१॥
मनुरुवाच
।
बिभेमि कर्मणः पापाद्राज्यं हि भृशदुस्तरम्
।
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा॥२२॥
भीष्म उवाच।
तमब्रुवन्प्रजा मा भैः कर्तॄनेनो गमिष्यति
।
पशूनामधिपं चाशद्धिरण्यस्य तथैव च॥२३॥
अधिपञ्चाशत् पञ्चाशतमधिकृत्य पञ्चाशत्पशुलाभे एकं भागं तुभ्यं दास्याम इत्यर्थः । तथैव हिरण्यस्यापि ॥२३॥
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्
।
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च॥२४॥
विवाहेषूद्यतासु कन्यासु शुल्के मौल्यप्रसङ्गे सति सुरूपां कन्यां तुभ्यं दास्याम इति पूर्वेणान्वयः । विवादेषु ततासु चेति प्राचां पाठः । इयं मया क्रेया इयं मया क्रेयेति विवादविषयास्विति तदर्थः । विवादे द्यूततासु चेति पाठे द्यूतता द्यूते पणीकृतत्वम् ॥२४॥
मुखेन शस्त्रपत्रेण ये मनुष्याः प्रधानतः
।
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः॥२५॥
मुखेन मुखतः प्रथमामित्यर्थः। शस्त्रपत्रेण शस्त्रेण वाहनेन च प्रधानतः श्रेष्ठाः प्रथमार्थे तसिः ॥२५॥
स त्वं जातबलो राजा दुष्प्रधर्षः प्रतापवान्
।
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान्॥२६॥
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः
।
चतुर्थं तस्य धर्मस्य त्वत्संस्थं वै भविष्यति॥२७॥
तेन धर्मेण महता सुखं लब्धेन भावितः
।
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः॥२८॥
विजयाय हि निर्याहि प्रतपन् रश्मिवानिव
।
मानं विधम शत्रूणां जयोऽस्तु तव सर्वदा॥२९॥
मानं दर्पं विधम नाशय ॥२९॥
स निर्ययौ महातेजा बलेन महता वृतः
।
महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव॥३०॥
तस्य दृष्ट्वा महत्त्वं ते महेन्द्रस्येव देवताः
।
अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः॥३१॥
अपतत्रसिरे त्रासं प्राप्ताः ॥३१॥
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्
।
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन्॥३२॥
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्
।
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्॥३३॥
नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा
।
देवा इव च देवेन्द्रं तत्र राजानमन्तिके॥३४॥
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते
।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत॥३५॥
राज्ञः परैः परिभवः सर्वेषां स सुखावहः
।
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च॥३६॥
पत्रं वाहनम् ॥३६॥
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च
।
आसनानि च शय्याश्च सर्वोपकरणानि च॥३७॥
गोप्ता तस्माद्दुराधर्षः स्मितपूर्वाभिभाषिता
।
आभाषितश्च मधुरं प्रत्याभाषेत मानवान्॥३८॥
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः
।
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च सुष्ठु च॥३९॥
संविभागी विभज्य भोक्ता वल्गु शोभनम् ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि राष्ट्रे राजकरणावश्यकत्वकथने सप्तषष्टितमोऽध्यायः॥६७॥
युधिष्ठिर उवाच।
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ
।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह॥१॥
किमाहुरिति ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत॥२॥
राजा वसुमना नाम कौसल्यो धीमतां वरः
।
महर्षिं किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम्॥३॥
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम्
।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्॥४॥
वैनयिकम् अभ्युत्थानाभिवादनादिकं दक्षिणा दक्षिणातोऽनन्तरः समीपे भूत्वा प्रदक्षिणीकृत्येत्यर्थः ॥४॥
विधिं पप्रच्छ राज्यस्य सर्वलोकहिते रतः
।
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम्॥५॥
वसुमना उवाच
।
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा
।
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः॥६॥
एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा
।
राजसत्कारमव्यग्रं शशंसास्मै बृहस्पतिः॥७॥
बृहस्पतिरुवाच
।
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते
।
प्रजा राजभयादेव न खादन्ति परस्परम्॥८॥
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्
।
प्रसादयति धर्मेण प्रसाद्य च विराजते॥९॥
समुदीर्णं त्यक्तमर्यादं समुत्सुकं परदाराद्यासक्तं प्रसादयति दण्डेन शुद्धं करोति ॥९॥
यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः
।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्॥१०॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः
।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः॥११॥
अनुदके ह्यल्पोदके निराक्रन्दे हिंस्रभयरहिते ॥११॥
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्
।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः॥१२॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः
।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा॥१३॥
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्
।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्॥१४॥
परिग्रहान्गृहादीन् व्यायच्छमानान्स्वं स्वमर्थम् आग्रहेण रक्षमाणान् ॥१४॥
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः
।
न दारा न च पुत्रः स्यान्न धेनं न परिग्रहः
।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्॥१५॥
ममेदमिति न स्यात् अपि तु बलवत इदमित्येव स्यात् विष्वक्सर्वतः लोपः अर्थानां लुम्पनम् ॥१५॥
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः
।
यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च
।
हरेयुः सहसा पापा यदि राजा न पालयेत्॥१६॥
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु
।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्॥१७॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्॥१८॥
वधबन्धपिरक्लेशो नित्यमर्थवतां भवेत्
।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्॥१९॥
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत्
।
पतेयुर्नरकं घोरं यदि राजा न पालयेत्॥२०॥
अन्ताः मृत्यवः । दस्युसात् चोराधीनः ॥२०॥
न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः
।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्॥२१॥
योनिदोषः व्यभिचारे विगानम् ॥२१॥
न यज्ञाः सम्प्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः
।
न विवाहाः समाजो वा यदि राजा न पालयेत्॥२२॥
न वृषाः सम्प्रवर्तेरन्न मध्येरंश्च गर्गराः
।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्॥२३॥
न सम्प्रवर्तेरन् न रेतः सिञ्चेरन् गर्गरा मन्थन्यः 'गर्गरो मीनभेदेऽस्त्री मन्थन्याम्’ इति मेदिनी ॥२३॥
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्
।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्॥२४॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्॥२५॥
ब्राह्मणाश्चतुरो वेदान्नाधीयोरंस्तपस्विनः
।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्॥२६॥
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः
।
हर्ता स्वस्थेन्द्रियो गच्छेद्यदि राजा न पालयेत्॥२७॥
हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः
।
भयार्त विद्रवेत्सर्वं यदि राजा न पालयेत्॥२८॥
हस्ताद्धस्तं हस्तस्थमपि चोरा हरेयुः ॥२८॥
अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसंकरः
।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्॥२९॥
अनयाः अनीतयः । अनायासमिति पाठे अक्लेशं यथा स्यात्तथा प्रवर्तेरन्परदारादिषु ॥२९॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते
।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः॥३०॥
विवृत्य उद्घाट्य ॥३०॥
नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम्
।
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः॥३१॥
हस्तलाघवं तत्साध्यं ताडनम् आक्रुष्टं गालनं वा कुतो न सहते अपि तु अनायकत्वात्सहत एव । गां पृथ्वीम् ॥३१॥
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः
।
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः॥३२॥
अपुरुषाः अरक्षिता अपि ॥३२॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्
।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः॥३३॥
यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः
।
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः॥३४॥
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा
।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः॥३५॥
वार्ता जीविका तन्मूलः त्रय्या च वृष्ट्यादिहेतुतया त्रायते रक्षते सर्वं त्रयी वार्तादिः ॥३५॥
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः
।
महता बलयोगेन तदा लोकः प्रसीदति॥३६॥
यस्याभावेन भूतानामभावः स्यात्समन्ततः
।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत्॥३७॥
तस्य यो वहते भारं सर्वलोकभयावहम्
।
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्॥३८॥
यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत्
।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्॥३९॥
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः
।
महती देवता ह्येषा नररूपेण तिष्ठति॥४०॥
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा
।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः॥४१॥
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा
।
मिथ्योपचरितो राजा तदा भवति पावकः॥४२॥
आसीदतः समीफस्थात् मिथ्योपचरितो वञ्चितः ॥४२॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः
।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥४३॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्
।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः॥४४॥
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति
।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥४५॥
यदा तु धनधाराभिस्तर्पयत्युपकारिणः
।
आच्छिनत्ति न रत्नानि विविधान्यपकारिणाम्॥४६॥
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति
।
तदा वैश्रवणो राजा लोके भवति भूमिपः॥४७॥
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा
।
धर्म्यमाकाङ्क्षता लोकमीश्वरस्यानसूयता॥४८॥
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्
।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥४९॥
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः
।
न तु राजाभिपन्नस्य शेषं क्वचन विद्यते॥५०॥
कृष्णगतिरग्निः अभिपन्नस्य तिरस्कृतस्य ॥५०॥
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्
।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः॥५१॥
सर्वाणि द्रव्याणि रक्ष्याण्येव न तु हर्तव्यानि । यद्वा रक्षणीयानि द्रव्याण्येव रक्ष्याणि ॥५१॥
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन्
।
आत्मस्वमिव रक्षेत राजस्वमिह बुद्धिमान्॥५२॥
कूटं मारणयन्त्रं 'कूटोऽस्त्री सीरावयवयन्त्रयोः' इति मेदिनी ॥५२॥
महान्तं नरकं घोरमप्रतिष्ठमचेतनम्
।
पतन्ति चिररात्राय राजवित्तापहारिणः॥५३॥
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः
।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥५४॥
राजा रञ्जकः भोजः सुखानां भोजयिता विविधं राजत इति विराट् श्रीमान्सम्राडिति राज्ञामपि राजेत्यकुण्ठितैश्वर्यः ॥५४॥
तस्माद्बुभूषुर्नियतो जितात्मा नियतेन्द्रियः
।
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम्॥५५॥
बुभूषुर्भवितुमिच्छुः ॥५५॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्
।
धर्मनित्यं स्थितं नीत्यं मन्त्रिणं पूजयेन्नृपः॥५६॥
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्
।
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत्॥५७॥
निषिद्धजनम् अहमेक एवेदं कार्यं करिष्यामि किमेतैरिति वादिनम् एकाङ्गवीरम् ॥५७॥
राजा प्रगल्भं कुरुते मनुष्यं राजा कृशं वै कुरुते मनुष्यम्
।
राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति॥५८॥
राजा प्रजानां हृदयं गरीये गतिः प्रतिष्ठा सुखमुत्तमं च
।
समाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र॥५९॥
समाश्रिता राजानमिति शेषः ॥५९॥
नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन
।
महद्भिरिष्ट्वा क्रतुभिर्महायशस्त्रिविष्टपे स्थानमुपैति शाश्वतम्॥६०॥
स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः
।
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम्॥६१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि आङ्गिरसवाक्ये अष्टषष्टितमोऽध्यायः॥६८॥
युधिष्ठिर उवाच।
पार्थिवेन विशेषेण किं कार्यमवशिष्यते
।
कथं रक्ष्यो जनपदः कथं जेयाश्च शत्रवः॥१॥
एवं राज्ञां माहात्म्यं श्रुत्वा तत्कर्तव्यं पृच्छति- पार्थिवेनेति ॥१॥
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्
।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत॥२॥
भृत्यादीनपि कथं प्रयुञ्जीत विश्वासयेच्चेति योज्यम् ॥२॥
भीष्म उवाच।
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्
।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा॥३॥
पार्थिवेन पृथुवंश्येन राज्ञा पार्थिवप्रकृतेन वा विजातीयेनापि तत्कार्यकारिणा प्रहितेनेति पाठान्तरम् ॥३॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः
।
अजितात्मा नरपतिर्विजयेत कथं रिपून्॥४॥
आत्मा चित्तम् ॥४॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः
।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन्॥५॥
पञ्चवर्गः श्रोत्रादिः ॥५॥
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन
।
नगरोपवने चैव पुरोद्यानेषु चैव ह॥६॥
गुल्मान् रक्षिणः पत्तीन् सन्धौ सीमान्ते ॥६॥
संस्थानेषु च सर्वेषु पुरेषु नगरेषु च
।
मध्ये च नरशार्दूल तथा राजनिवेशने॥७॥
संस्थानेषु कोष्ठपालाद्युपवेशनस्थानेषु मध्ये अन्तःपुरे ॥७॥
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्
।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षयान्॥८॥
प्रणिधीन् चारान् ॥८॥
अमात्येषु च सर्वेषु मित्रेषु विविधेषु च
।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः॥९॥
प्रणिदध्याद्गुप्तचारान्नियुञ्ज्यात् ॥९॥
पुरे जनपदे चैव तथा सामन्तराजसु
।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते॥१०॥
चारांश्च विद्यात्प्रहितान्पुरेण भरतर्षभ
।
आपणेषु विहारेषु समाजेषु च भिक्षुषु॥११॥
आपणेषु, वणिजां हट्टेषु विहारेषु यूनां मल्लक्रीडास्थानेषु, समाजेषु महाजनसमुदायेषु ॥११॥
आरामेषु तथोद्याने पण्डितानां समागमे
।
देशेषु चत्वरे चैव सभास्वावसथेषु च॥१२॥
आरामेषु पुरवाटिकासु, उद्याने बहिर्वाटिकायां, देशेषु आकरस्थानेषु, चत्वरे अधिकारिणाम् उपवेशनस्थाने, सभासु राजसंसत्सु, आवसथेषु तत्र तत्र महतां गृहेषु ॥१२॥
एवं विचिनुयाद्राजा परचारं विचक्षणः
।
चारे हि विदिते पूर्वं हितं भवति पाण्डव॥१३॥
विचिनुयात् अन्विष्यात् ॥१३॥
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना
।
अमात्यैः सह सम्मन्त्र्य कुर्यात्सन्धिं बलीयसा॥१४॥
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै
।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः॥१५॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये
।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्॥१६॥
तैर्द्वारभूतैः तान्द्वारीकृत्य संदध्यात् बलवद्भिनृपैः सह सन्धिं कुर्यात् ॥१६॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः
।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः॥१७॥
पूर्वापकारिणः पूर्वं दुष्टा इति अपकृताः पश्चाद्दययाऽनुगृहीतास्ते पूर्वापकारवन्तस्तान् ॥१७॥
यो नोपकर्तुं शक्नोति नोपकर्तुं महीपतिः
।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्॥१८॥
तत्रापि विशेषमाह- य इति ॥१८॥
यात्रायां यदि विज्ञातमनाक्रन्दमनन्तरम्
।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः॥१९॥
यात्रायां यदि इच्छा स्यात्तर्हि दुर्बलत्वादिना विज्ञातं शत्रुं प्रत्येव यात्रामाज्ञापयेदित्युत्तरेण सम्बन्धः । यात्रां यायादविज्ञातमिति पाठे दुर्बलं शत्रुमुद्दिश्य तेन अविज्ञानं यथा स्यात्तथा यात्रां यायादिति योजना । अनाक्रन्दं मित्रहीनम् । अनन्तरं बन्धुजनहीम् । व्यासक्तम् अन्येन युद्धं कुर्वाणं प्रमत्तम् अनवहितम् ॥१९॥
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी
।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा॥२०॥
विधानं रक्षणं रक्षणादिसामग्रीसम्पादनम् ॥२०॥
न च वश्यो भवेदस्य नृपो यश्चातिवीर्यवान्
।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत्॥२१॥
कर्षयन् वीर्यवन्तं तत्परः वर्षणपरः ॥२१॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः
।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्॥२२॥
कर्षणमेवाह- राष्ट्रं चेति । कारयेत् भृत्यादिद्वारा ॥२२॥
वर्जनीयं सदा युद्धं राज्यकामेन धीमता
।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः॥२३॥
सान्त्वेन तु प्रदानेन भेदेन च नराधिप
।
यदर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः॥२४॥
बलिनो राष्ट्रं कर्षन्दुर्बलस्ततः सान्त्वेनार्थं यत् यावत् प्राप्तुं शक्नुयात्तेन तुष्येत भवद्भिर्मत्तो वार्षिकः करो न ग्राह्यो मया च भवतां राष्ट्रं नोपहन्तव्यमिति सान्त्वम् । मह्यं ग्रामद्वयं देयं तेनाह शमिष्ये इत्युक्त्या- अर्थप्रदानम् । भेदेन राजामात्यान्भेदयित्वा राज्ञः स्वोपरि प्रयाणस्य विघ्नादिकं वा कर्तव्यमित्यादिना । क्षीणः प्रबलेन सह वैरं चेत्संग्रामं विना एवमुपायत्रयेण स्वार्थं साधयेदित्यर्थः ॥२४॥
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन
।
स षड्भागमपि प्राज्ञस्तासामेवाभिगुप्तये॥२५॥
प्रजाभ्यः स्वाभ्यः ॥२५॥
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च
।
तदाददीत सहसा पौराणां रक्षणाय वै॥२६॥
दशधर्मगताः मत्तोन्मत्तादयस्तेभ्यो दण्ड्येभ्यो यद्वसु ग्राह्यं तत्पौराणां रक्षणाय भवति । अदण्डितास्ते पुरं बाधेरन्निति भावः ॥२६॥
यथा पुत्रास्तथा पौत्रा द्रष्टव्यास्ते न संशयः
।
भक्तिश्चैषां न कर्तव्या व्यवहारे प्रदर्शिते॥२७॥
भक्तिः स्वीयत्वेन स्नेहः एषामुपरि ॥२७॥
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः
।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्॥२८॥
व्यवहारेषु अर्थिप्रत्यर्थिवाक्यविचारेषु विषयेषु राजा प्राज्ञान्पण्डितान्न्यसेत् ॥२८॥
आकरे लवणे शुल्के तरे नागबले तथा
।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान्॥२९॥
आकरे स्वर्णाद्युत्पत्तिस्थाने । लवणे तदुत्पत्तिस्थाने । शुल्के धान्यादिविक्रयस्थाने । तरे नदीसन्तरणे । नागबले हस्तियूथे । एतेषु स्थानेषु आयव्ययविचारार्थम् अमात्यान् न्यसेत् ॥२९॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्
।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते॥३०॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्
।
दानशीलश्च सततं यज्ञशीलश्च भारत॥३१॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः
।
व्यवहारलोपे नृपतेः कुतः स्वर्गः कुतो यशः॥३२॥
यदा तु पीडितो राजा भवेद्राजा बलीयसा
।
तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः॥३३॥
विधानाऽक्रम्य मित्राणि विधानमुपकल्पयेत्
।
सामभेदान्विरोधार्थं विधानमुपकल्पयेत्॥३४॥
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि
।
प्रवेशयेच्च तान्सर्वान् शाखानगरकेष्वपि॥३५॥
घोषान् वनस्थान्मार्गेषु राजपथेषु न्यसेत् । शाखानगराणि महानगरस्योपनगराणि ॥३५॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्
।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः॥३६॥
ये इति । धनिकादीन् दुर्गेषु प्रवेशयेदित्यर्थः ॥३६॥
तस्याभिहारं कुर्याच्च स्वयमेव नराधिपः
।
असम्भवे प्रवेशस्य दहेद्दावाग्निना भृशम्॥३७॥
अभिहारं समीपमानयनं दहेत् परेषां तन्माभूदिति ॥३७॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजयेन्नरान्
।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वा॥३८॥
उपजपेत् भेदयित्वा तद्द्वारा दाहयेत् ॥३८॥
नदीमार्गेषु च तथा संक्रमानवसादयेत्
।
जलं विस्त्रावयेत्सर्वमविस्रव्यं च दूषयेत्॥३९॥
संक्रमान् । अवतरणार्थान्सेतून् । जलं तटाकादिस्थं विस्रावयेत् तदयोग्यं वापीकूपादिस्थं दूषयेत् विषादिना नाशयेत् ॥३९॥
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम्
।
प्रतीघातं परस्याजौ मित्रकार्येऽप्युपस्थिते॥४०॥
तदात्वेन वर्तमानकाले आयतीभिः उत्तरकालेषु च अपवर्गे तृतीया । सर्वदा मित्रकार्य उपस्थितेऽपि तद्विहायेत्यर्थात् । आजौ परस्य शत्रोः प्रतीघातं हन्तारं भूम्यनन्तरं निकटदेशवासिनं तच्छत्रुमाश्रित्य निवसेत् । अयमर्थः- स्वराष्ट्रे यन्मुख्यं स्थानं तदाक्रम्य वसन् शत्रोः शत्रुभिः सर्वदा स्नेहं कृत्वा तद्बलेन शत्रून्स्वराष्ट्राद्दूरीकुर्यादिति ॥४०॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्
।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत्॥४१॥
दुर्गाणां क्षुद्रदुर्गाणां परेषामाश्रयो माभूदिति मूलच्छेदं कुर्यात् ॥४१॥
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा
।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम्॥४२॥
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा
।
आपूरयेच्च परिखां स्थाणु-नक्र-झषाकुलाम्॥४३॥
'प्रगण्डीः कारयेत्सम्यक् षाड्गुण्यं सत्रिवगकम्
।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम्'॥
इति प्राचां पाठः । तद्व्याख्यानं च तदीयमेव ।
'सञ्चारो यत्र लोकानां दूरादेवावबुध्यते
।
प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता
।
प्राणधिस्तत्र यत्नेन कर्तव्यो भूतिमिच्छता
।
स एवाकाशरक्षीति ह्युच्यते शास्त्रकोविदैः'॥
इति । तांश्चतुर्दिक्षु कारयेदित्यर्थः । षाड्गुण्यं सन्धिविग्रहादि । त्रिवर्गः (१) स्थानवृद्धिक्षयरूपो वा । (२) अरिमित्रोदासीनरूपो वा । (३) मन्त्रोत्साहप्रभुशक्तिरूपो वा । (४) भूमिमित्रहिरण्यादिरूपो वा । (५) धर्मार्थकामरूपो वा । उत्तरार्धार्थः स्पष्टः। प्रगण्डीः दुर्गप्राकारभित्तौ शूराणाम् उपवेशनस्थानानि । आकाशजननीः तत्रैव एकपक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनार्थानि क्षुद्रच्छिद्राणि यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते । स्थाणवः सशूलाः येषु पतन्विदीर्यते नक्रैर्वा भक्ष्यते ॥४३॥
संकटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च
।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत्॥४४॥
सङ्कटद्वारकाणि सूक्ष्मद्वाराणि तेषां च द्वारवत् गुप्तिः कार्या । तेषां चाचारवद्गुप्तिरिति पाठे आचारवद्भिः शिष्टैर्गुप्तिः कार्या ॥४४॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा
।
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्॥४५॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्
।
संशोधयेत्तथा कूपान् कृतपूर्वान् पयोऽर्थिभिः॥४६॥
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्
।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्तथा॥४७॥
नक्तमेव च भक्तानि पाचयेत नराधिपः
।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम्॥४८॥
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः
।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः॥४९॥
कर्मारः लोहकारादिस्तच्छाला । अरिष्टं सूतिकागृहं तद्रूपासु शालासु । अन्तर्विधेयः आच्छादितः कर्तव्यः ॥४९॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्
।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च॥५०॥
महादण्डो वधः ॥५०॥
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान्
।
बाह्यान् कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा॥५१॥
चाक्रिकान् शाकटिकान् कुशीलवान् फाललेखान् कीनाशीनिति यावत् ॥५१॥
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च
।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वस्य पार्थिवः॥५२॥
तीर्थेषु मन्त्र्यादिषु अष्टादशसु प्राग्व्याख्यातेषु ॥५२॥
विशालान् राजमार्गांश्च कारयीत नराधिपः
।
प्रपाश्च विपणांश्चैव यथोद्देशं समाविशेत्॥५३॥
भाण्डागारायुधागारान्योधागारांश्च सर्वशः
।
अश्वागारान्गजागारान्बलाधिकरणानि च॥५४॥
परिखाश्चैव कौरव्य प्रतोलीर्निष्कुटानि च
।
न जात्वन्यः प्रपश्येत गुह्यमेतद्युधिष्ठिर॥५५॥
प्रतोली रथ्या निष्कुटानि गृहारामाः ॥५५॥
अर्थसंनिचयं कुर्याद्राजा परबलार्दितः
।
तैलं वसा मधु घृतमौषधानि च सर्वशः॥५६॥
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम्
।
यवसेन्धनादिग्धानां कारयीत च संचयान्॥५७॥
वर्णिनां लेखकानाम् । 'वर्णी स्याल्लेखके चित्रकारेऽपि ब्रह्मचारिणि' इति मेदिनी । यवसं घासः दिग्धानां विषाक्तबाणानां 'दिग्धो विषाक्तबाणे स्यात्' इति मेदिनी ॥५७॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम्
।
संचयानेवमादीनां कारयीत नराधिपः॥५८॥
औषधानि च सर्वाणि मूलानि च फलानि च
।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषतः॥५९॥
चतुर्विधान् विषशल्यरोगकृत्याहरान् ॥५९॥
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा
।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः॥६०॥
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः
।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयीत तान्॥६१॥
कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः
।
दानेन च यथार्हेण सान्त्वेन विविधेन च॥६२॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
।
ततोऽनृणो भवेद्राजा यथा शास्त्रे निदर्शितम्॥६३॥
अस्थाने कोपेन परस्य निर्वेदस्ताडनं वा कृतं चेत्तं दान मानादिना पुनस्तत्समीकर्तव्यमित्याह- निर्वेदयित्वेति ॥६३॥
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे
।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि॥६४॥
तथा जनपदाश्चैव पुरं च कुरुनन्दन
।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः॥६५॥
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा
।
यो वेत्ति पुरुषव्याघ्र स भुंक्ते पृथिवीमिमाम्॥६६॥
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर
।
सन्धानासनमित्येव यात्रासन्धानमेव च॥६७॥
सन्धानासनं सन्धिं कृत्वाऽवस्थितिः यात्रासन्धानं यानम् ॥६७॥
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च
।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च॥६८॥
विगृह्य वैरं कृत्वाऽवस्थानं विग्रहः । यात्रां सम्परिगृह्य आसनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थानम् । द्वैधीभावः उभयत्र सन्धिकरणं परस्य अन्यस्याश्रयो दुर्गादेर्महाराजस्य वा ॥६८॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु
।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा॥६९॥
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः
।
धर्मेण च महीपालश्चिरं पालयते महीम्॥७०॥
अस्मिन्नर्थे च श्लोकौ द्वौ गीतावङ्गिरसा स्वयम्
।
यादवीपुत्र भद्रं ते तावपि श्रोतुमर्हसि॥७१॥
कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम्
।
पालयित्वा तथा पौरान्परत्र सुखमेधते॥७२॥
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि
।
सुपालितप्रजो यः स्यात्सर्वधर्मविदेव सः॥७३॥
युधिष्ठिर उवाच।
दण्डनीतिश्च राजा च समस्तौ तावुभावपि
।
कस्य किं कुर्वतः सिद्ध्येत्तन्मे ब्रूहि पितामह॥७४॥
अत्राध्यायं केचित्समापयन्ति- दण्डेति । इदं द्वयं समस्तं च व्यस्तं च तत्र केन कस्य किं क्रियत इति प्रश्नत्रयम् ॥७४॥
भीष्म उवाच।
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः
।
शृणु मे शंसतो राजन् यथावदिह भारत॥७५॥
दण्डनीत्याः सकाशात् राज्ञां प्रजानां च यत् महाभाग्यं तत् शृणु ॥७५॥
दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति
।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति॥७६॥
तत्र दण्डनीत्या राजा स्वर्गादिकं प्राप्नोति राज्ञां च दण्डनीतिः कृतादीन् जनयति तावुभौ च प्रजानां क्षेमम् अजनयत इत्युत्तरमाह- दण्डनीतिरित्यादिना । स्वधर्मेभ्यः स्वधर्मार्थम् अधर्मेभ्य इति पञ्चमी ॥७६॥
चातुर्वर्ण्ये स्वकर्मस्थे मर्यादानामसंकरे
।
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये॥७७॥
असङ्करे तद्रूपे क्षेमे ॥७७॥
स्वाम्ये प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
।
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्॥७८॥
स्वाम्ये स्वास्थ्ये तन्निमित्तं तस्मात्क्षेमाख्यादसङ्करात् ॥७८॥
कालो वा कारणं राज्ञो राजा वा कालकारणम्
।
इति ते संशयो मा भूद्राजा कालस्य कारणम्॥७९॥
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते
।
तदा कृतयुगं नाम कालसृष्टं प्रवर्तते॥८०॥
ततः कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्
।
सर्वेषामेव वर्णानां नाधर्मे रमते मनः॥८१॥
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
।
वैदिकानि च सर्वाणि भवन्त्यपि गुणान्युत॥८२॥
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः
।
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च॥८३॥
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः
।
विधवा न भवन्त्यत्र कृपणो न तु जायते॥८४॥
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा
।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च॥८५॥
नाधर्मो विद्यते तत्र धर्म एव तु केवलम्
।
इति कार्तयुगानेतान्धर्मान्विद्धि युधिष्ठिर॥८६॥
दण्डनीत्यां यदा राजा त्रीनंशाननुवर्तते
।
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते॥८७॥
अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते
।
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा॥८८॥
अशुभस्य अधर्मस्य ॥८८॥
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते
।
ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते॥८९॥
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते
।
कृष्टपच्यैव पृथिवी भवत्यर्धफला तथा॥९०॥
दण्डनीतिं परित्यज्य यदा कार्त्स्येन भूमिपः
।
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः॥९१॥
अयोगेन अनुपायेन ॥९१॥
कलावधर्मो भूयिष्ठं धर्मो भवति न क्वचित्
।
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः॥९२॥
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
।
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः॥९३॥
वैदिकानि च कर्माणि भवन्ति विगुणान्युत
।
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा॥९४॥
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत
।
व्याधयश्च भवन्त्यत्र म्रियन्ते च गतायुषः॥९५॥
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा
।
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति॥९६॥
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः
।
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः॥९७॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
।
युगस्य च चतुर्थस्य राजा भवति कारणम्॥९८॥
चतुर्थस्य कलेः ॥९८॥
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते
।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते॥९९॥
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते
।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते॥१००॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
।
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति॥१०१॥
दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा
।
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्॥१०२॥
लोकस्य सीमन्तकरी मर्यादा लोकभाविनी
।
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता॥१०३॥
सीमन्तकरी व्यवस्थापिका ॥१०३॥
यस्यां भवन्ति भूतानि तद्विद्धि मनुजर्षभ
।
एष एव परो धर्मो यद्राजा दण्डनीतिमान्॥१०४॥
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्
।
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्॥१०५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि एकोनसप्ततितमोऽध्यायः॥६९॥
युधिष्ठिर उवाच।
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते
।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह॥१॥
कथमिति । बह्वीनां प्रजानां परिपालनं कथं स्यादिति चिन्ता आधिः स एव बन्धस्तेन न युज्यते नापराध्नोति नान्यथा करोति धर्मे व्यवहारनिर्णयादौ एतद्द्वयं कथं स्यादिति प्रश्नः ॥१॥
भीष्म उवाच।
समासेनैव ते राजन्धर्मान्वक्ष्यामि शाश्वतान्
।
विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात्॥२॥
उत्तरं वक्तुं प्रतिजानीते-समासेनैवेति ॥२॥
धर्मनिष्ठान् श्रुतवतो वेदव्रतसमाहितान्
।
अर्चयित्वा यजेथास्त्वं गृहे गुणवतो द्विजान्॥३॥
रागद्वेषहीनो ब्राह्मणान्पुरस्कृत्य व्यवहारनिर्णयं कुर्वन्धर्मेऽपि नापराध्नोतीति द्वितीयस्योत्तरमाह- धर्मनिष्ठानिति चतुर्भिः ॥३॥
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च
।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः॥४॥
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च
।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः॥५॥
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत
।
यथार्थं प्रतिगृह्णीयात् कामक्रोधौ च वर्जयेत्॥६॥
कामक्रोधौ पुरस्कृत्य योऽर्थं रजाऽनुतिष्ठति
।
न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः॥७॥
विपक्षे दोषमाह- कामेति ॥७॥
मा स्म लुब्धांश्च मूर्खांश्च च प्रयूयुजः
।
अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत्॥८॥
आद्यस्योत्तरमाह- मास्मेत्यादिना । साधून्सर्वत्र कार्येषु नियोज्य स्वयं नाधिबन्धेन युज्यत इत्यर्थः ॥८॥
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः
।
प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः॥९॥
अयोगेन योग इष्टप्राप्तिस्तदभावेन ॥९॥
बलिषष्ठेन शुक्तेन दण्डेनाथापराधिनाम्
।
शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्॥१०॥
बलिः राजदेयं तदेव सस्यादेः षष्ठांशस्तेन बालिषष्ठेन शुक्तेन शुद्धेन गणनादनधिकेनेत्यर्थः । 'शुक्तं पूताम्लनिष्ठुरे' इति मेदिनी । वेतनेन पथि रक्षितैर्वणिग्भिर्यद्दत्तं तद्राज्ञो वेतनं सेवाधनं तेन च धनागमं लिप्सेत राजा ॥१०॥
दापयित्वा कर धर्म्यं राष्ट्रं नीत्या यथाविधि
।
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः॥११॥
धान्यादेः षष्ठांशे हृते शेषेण प्रजानां यदि वार्षिको ग्रासो न भवेत्तदा राजैव तासां योगक्षेमं कल्पयेदित्याह- दापयित्वेति ॥११॥
गोपायितारं दातारं धर्मनित्यमतन्द्रितम्
।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः॥१२॥
मा स्मा लोभेनाधर्मेण लिप्सेथास्त्वं धनागमम्
।
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत्॥१३॥
अर्थशास्त्रपरो राजा धर्मार्थान्नाधिगच्छति
।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति॥१४॥
धर्मसहितान् अर्थान् धर्मार्थान् ॥१४॥
अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः
।
करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन् प्रजाः॥१५॥
ऊपश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्पयः
।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते॥१६॥
अर्थमूलोऽर्थार्थी प्रजाः पीडयन् आत्मानमेव हिनस्तीत्युक्तं तत्र दृष्टान्तमाह- ऊध इति ॥१६॥
यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः
।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्॥१७॥
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्
।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर॥१८॥
दोग्ध्री धान्यं हिरण्यं च मही राज्ञा सुरक्षिता
।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः॥१९॥
दोग्ध्री पूरयित्री ॥१९॥
मालाकारोपमो राजन्भव माऽऽङ्गारिकोपमः
।
तथायुक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पालयन्॥२०॥
आङ्गारिकः इङ्गालकर्ता ॥२०॥
परचक्राभियानेन यदि ते स्याद्धनक्षयः
।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्॥२१॥
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः
।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत॥२२॥
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः
।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्॥२३॥
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालय
।
स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन॥२४॥
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव
।
युधिष्ठिर यथा युक्तो नाधिबन्धेन योक्ष्यसे॥२५॥
यथा युक्तः उक्तेन प्रकारेण अवहितः ॥२५॥
एष एव परो धर्मो यद्राजा रक्षति प्रजाः
।
भूतानां हि यथा धर्मो रक्षणं परमा दया॥२६॥
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः
।
यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्॥२७॥
यो दयां कुरुते तं धर्मं मन्यन्ते इति योजना ॥२७॥
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः
।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति॥२८॥
अन्तं यातनाभोगनिष्कृतिम् ॥२८॥
यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन्
।
दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि॥२९॥
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः
।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्॥३०॥
स्विष्टिः स्वधीतिः सुतपा इति क्रमेण गृहस्थब्रह्मचारिवानप्रस्थधर्मान्सम्यगनुतिष्ठन् ॥३०॥
एवं धर्मं प्रयत्नेन कौन्तेय परिपालय
।
ततः पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे॥३१॥
स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव
।
असम्भवश्च धर्माणामीदृशानामराजसु॥३२॥
तस्माद्राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात्
।
स राज्यं धृतिमान्प्राप्य धर्मेण परिपालय
।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि एकसप्ततितमोऽध्यायः॥७१॥
भीष्म उवाच।
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः
।
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्॥१॥
राज्ञेति । अप्रमेयौ गहनौ अनन्तरं शीघ्रमेव पुरोहितः कार्यो भवेत् ॥१॥
धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्पुरोहितः
।
राजा चैवंगुणो येषां कुशलं तेषु सर्वशः॥२॥
धर्मात्मेति । धर्मसाधकः ॥२॥
उभौ प्रजा वर्धयतो देवान्सर्वान्सुतान्पितॄन्
।
भवेयातां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ॥३॥
परस्परस्य सुहृदौ विहितौ समचेतसौ
।
ब्रह्मक्षत्रस्य सम्मानात्प्रजा सुखमवाप्नुयात्॥४॥
विमाननात्तयोरेव प्रजा नश्येयुरेव हि
।
ब्रह्मक्षत्रं हि सर्वेषां वर्णानां मूलमुच्यते॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
ऐलकश्यपसंवादं तन्निबोध युधिष्ठिर॥६॥
ऐल उवाच
।
यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्म
।
अन्वग्बलं कतमेऽस्मिन्भजन्ते तथा वर्णाः कतमेऽस्मिन्ध्रियन्ते॥७॥
ब्रह्म कर्म, क्षत्रं कर्तृ, अनु पश्चात्प्रकाशमानं बलमन्वग्बलं यथा स्यात्तथाऽस्मिन्ब्रह्मक्षत्रान्यतरस्मिन् कतमे भजन्ते किं क्षत्रेण ब्रह्म बलवद्भवत्युत ब्रह्मणा क्षत्रमित्यर्थः ॥७॥
कश्यप उवाच
।
विद्धं राष्ट्रं क्षत्रियस्य भवति ब्रह्मक्षत्रं यत्र विरुद्ध्यतीह
।
अन्वग्बलं दस्यवस्तद्भजन्ते तथा वर्णं तत्र विदन्ति सन्तः॥८॥
नैषां ब्रह्म च वर्धते नोत पुत्रा न गर्गरो मथ्यते नो जयन्ते
।
नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति॥९॥
वृद्धं छिन्नं क्षत्रं कर्तृ तत्र क्षत्रे सन्तः वर्णं विन्दन्ति ब्राह्मणानामवमन्ता म्लेच्छजातीयोऽयं राजेत्यनुमानाज्जानन्ति यथोक्तं – 'भोगेन ज्ञायते कर्म कर्मणा ज्ञायते जनिः’ इति अपध्वस्ताः सङ्करजा इव कंसादिवत् सार्धश्लोकः ॥९॥
नैषामर्थो वर्धते जातु गेहे नाधीयते सुप्रजा नो यजन्ते
।
अपध्वस्ता दस्युभूता भवन्ति ये ब्राह्मणान्क्षत्रियाः संत्यजन्ति॥१०॥
एतौ हि नित्यं संयुक्तावितरेतरधारणे
।
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजाः॥११॥
उभावेतौ नित्यमभिप्रपन्नौ सम्प्रापतुर्महतीं सम्प्रतिष्ठाम्
।
तयोः संधिर्भिद्यते चेत्पुराणस्ततः सर्वं भवति हि सम्प्रमूढम्॥१२॥
अभिप्रपन्नौ अन्योन्यशरणौ क्षत्रशरणं ब्रह्म तपस्यति ब्रह्मशरणं क्षत्रं जयतीति भावः ॥१२॥
नात्र पारं लभते पारगामी महागाधं गौरिव सम्प्रपन्ना
।
चातुर्वर्ण्यं भवति हि सम्प्रमूढं प्रजास्ततः क्षयसंस्था भवन्ति॥१३॥
अत्र ब्रह्मक्षत्रयोर्वियोगे सम्प्रपन्ना विपन्ना ॥१३॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति
।
अरक्ष्यमाणः सततमश्रु पापं च वर्षति॥१४॥
मधु सुखं अश्रु दुःखं पापं नरकम् ॥१४॥
न ब्रह्मचारी चरणादयेतो यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत्
।
आश्चर्यतो वर्षति तत्र देवस्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति॥१५॥
न क्षत्रियं ब्रह्म ब्राह्मणजातिर्ब्रह्मचारी चरणात् अधीतशाखातः अपेतः दस्युभिर्वारितः सन्ब्रह्मणि वेदेऽध्येतव्ये त्राणं रक्षणम् इच्छेत् । रक्षितुरभावात्तदा देवस्तत्र आश्चर्यतो वर्षति तत्र वर्षम् अत्यन्तं दुर्लभमित्यर्थः । दुःसहाः मारी-दुर्भिक्षादयः । अब्रह्मचारी नाश्चर्यत इति च पाठे ब्रह्मचरणादपेतत्वादब्रह्मचारी वेदाध्ययनशून्यः सन् त्राणमिच्छेत्तर्हि तत्राश्चर्यतोऽपि न वर्षतीति योज्यम् ॥१५॥
स्त्रियं हत्वा ब्राह्मणं वाऽपि पापः सभायां यत्र लभतेऽनुवादम्
।
राज्ञः सकाशे न बिभेति चापि ततो भयं विद्यते क्षत्रियस्या॥१६॥
स्त्रियं ब्राह्मणं वापि हत्वाऽनुवादं प्रशंसाम् ॥१६॥
पापैः पापे क्रियमाणे हि चैल ततो रुद्रो जायते देव एषः
।
पापैः पापाः संजनयन्ति रुद्रं ततः सर्वान्साध्वसाधून्हिनस्ति॥१७॥
रुद्रः हिंस्रः देवो राजा रुद्रं कलिम् ॥१७॥
ऐल एवाच
।
कुतो रुद्रः कीदृशो वाऽपि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम्
।
एतत् सर्वं कश्यप मे प्रचक्ष्व कुतो रुद्रो जायते देव एषः॥१८॥
कश्यप उवाच
।
आत्मा रुद्रो हृदयो मानवानां स्वं स्वं देहं परदेहं न हन्ति
।
वातोत्पातैः सदृशं रुद्रमाहुर्देवैर्जीमूतैः सदृशं रूपमस्य॥१९॥
कुतो राज्ञो रुद्रत्वमिति पृष्टे आह- आत्मेति । मानवानां हृदये य आत्मा जीवोऽस्ति स एव रुद्रः संहर्ता भवति । यथा च ग्रहाविष्टस्य शरीरं देहस्वामिनः स्वं न भवति किन्तु तदानीं तद्ग्रहस्यैव स्वम् एवं रुद्रावेशकाले नृपस्य शरीरं रौद्रमेव भवतीत्यर्थः। ननु कुतः शान्तस्यात्मनो रुदत्वमत आह- वातेति । यथा उत्पातवतः आकाशोत्थः आकाशोत्थां मेघदेवताम् इतस्ततो नयति गर्जयति विद्यदशनिवारीणि च तत आविर्भावयत्येवम् आत्मोत्थितं जीवमात्मोत्थिताः कामक्रोधादयः सर्वं हिंस्रं कारयन्तीत्यर्थः ॥१९॥
ऐल उवाच
।
न वै वातः परिवृणोति कश्चिन्न जीमूतो वर्षति नापि देवः
।
तथायुक्तो दृश्यते मानुषेषु कामद्वेषाद्बध्यते मुह्यते च॥२०॥
इदमाक्षिपति- न वा इति । यथा आकाशेन युक्तास्ततः पृथग्भूताः वातो मेघाश्च मेघप्रवर्तकदेवता च प्रत्यक्षेण शास्त्रज्ञानेन च दृश्यन्ते नैवं जीवो वा तदभिभावकः कामादिर्वा पृथक दृश्यते किं तु आत्मन्येव वह्न्यौष्ण्यवत्कामद्वेषौ वर्तेते तौ चैतस्य सम्बन्धकौ मोहकौ च भवत इत्यर्थः ॥२०॥
कश्यप उवाच
।
यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं दहते चत्वरं वा
।
विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः॥२१॥
अत्रोत्तरमाह- यथेति । यथाऽल्पोऽपि वह्निरधिकमधिकं काष्ठभारमुपारुह्य कृत्स्नं ग्रामं दहति तत्र न केवलं काष्ठानां दाहकत्वं नापि काष्ठान्यनुपारूढस्याग्नेः किं तु तदुभयसङ्घातस्यैव । तत्रापि विवेके क्रियमाणे वह्नेरेव उपाध्यावेशाद्दाहकत्वम् । एवम् आत्मानमारुह्याहङ्कारवह्निः कामक्रोधादिवातैरुद्दीपितो रुद्रत्वं प्रतिपद्यते । ततश्च अयो दहति एधांसि पचन्तीतिवत् अहङ्कारेण कृतम् आत्मन्युपचर्यते मोहात्तेन च सर्वं जगदसङ्गमपि जलचन्द्रन्यायेन पुण्यैः पापैश्च स्पृश्यते तत्त्वालोचने त्वसङ्ग एवात्मेत्यर्थः ॥२१॥
ऐल उवाच
।
यदि दण्डः स्पृशतेऽपुण्यपापं पापं पापे क्रियमाणे विशेषात्
।
कस्य हेतोः सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात्॥२२॥
अत्र शङ्कते- यदीति । अपुण्यपापमपि आत्मानं यदि विशेषात् क्रियमाणे पापे निमित्तभूते सति दण्डः पापं दण्डात्मकं पापं गालनताडनादिदुःखं कर्तृ, स्पृशते मोहादिति ब्रवीषि तर्हि पुण्यकरणं पापवर्जनं च शास्त्रचोदितं वृथैव स्यात् । आत्मनि वास्तवदुःखाभावस्य सिद्धत्वात्तदर्थं साधनोपादानं व्यर्थं स्यादिति भावः ॥२२॥
कश्यप उवाच
।
असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात्
।
शुष्केणार्द्रं दह्यते मिश्रभावान्न मिश्रः स्यात्पापकृद्भिः कथंचित्॥२३॥
आत्माहङ्कारयोर्मिश्रीभावादहङ्कारगतं दुःखमात्मनि प्रतीयते अतोऽहङ्कारत्यागान्न किञ्चिदात्मनो दुःखमस्तीत्युत्तरयति- असंयोगादिति ॥२३॥
ऐल उवाच
।
साध्वसाधून्धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः
।
साध्वसाधूंश्चापि वातीह वायुरापस्तथा साध्वसाधून्पुनन्ति॥२४॥
अहंकर्त्रादीन् अधिष्ठानभूत आत्माभूमिसूर्यादिवदसङ्ग एव सन्धारयतु प्रकाशयतु । वाय्वंबुवच्चालयतु स्वसत्तया आप्याययतु वा कस्तत्रात्मनः सम्बन्धोऽहङ्कारधर्मेण रुद्रत्वेनात आत्मा रुद्र इत्युक्तमयुक्तमित्याक्षेपः ॥२४॥
कश्यप उवाच
।
एवमस्मिन्वर्तते लोक एव नामुत्रं वर्तते राजपुत्र
।
प्रेत्यैतयोरन्तरावान्विशेषो यो वै पुण्यं चरते यश्च पापम्॥२५॥
तत्त्वदृष्ट्या यद्यप्येवमेव तथापि ऐहिकामुष्मिकव्यवहारदृष्ट्याऽस्त्येवात्मनो रुद्रत्वमित्युत्तरयति- एवमस्मिन्नित्यादिना। एष एवंरूपोऽर्थः । अस्मिन्प्रत्यगात्मनि लोके लोक्यत इति लोको दर्शनं तत्र विषये वर्तते सिद्धान्तोऽस्ति न तु अमुत्र परलोकविषये एवं दर्शनं वर्तते किं तर्हि अमुत्र वर्तते यः पापं चरते यश्च पुण्यं, एतयोः प्रेत्य मरणानन्तरं विशेषोऽस्ति स चान्तरावान्तिरोहितः शास्त्रैकगम्ये धर्माधर्मफले इत्यर्थः ॥२५॥
पुण्यस्य लोको मधुमान्घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः
।
तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम्॥२६॥
शास्त्रमेवाह द्वाभ्यां -पुण्यस्येति ॥२६॥
पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठमेव
।
तत्रात्मानं शोचति पापकर्मा बह्वीः समाः प्रतपन्नपतिष्ठः॥२७॥
मिथो भेदाद्ब्राह्मणक्षत्रियाणां प्रजा दुःखं दुःसहं चाविशन्ति
।
एवं ज्ञात्वा कार्य एवेह नित्यं पुरोहितो नैकविद्यो नृपेणा॥२८॥
प्रकृतमनुसरति- मिथ इति । नैकविद्यो बहुविद्यः ॥२८॥
तं चैवान्वभिषिञ्चेत तथा धर्मो विधीयते
।
अग्रं हि ब्राह्मणः प्रोक्तं सर्वस्यैवेह धर्मतः॥२९॥
तं पुरोहितं वृत्वा अनु पश्चादात्मानं राज्येऽभिषिञ्चेत् ॥२९॥
पूर्वं हि ब्राह्मणः सृष्टिरिति ब्रह्मविदो विदुः
।
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तरम्॥३०॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्
।
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धर्मतः॥३१॥
अवश्यमेव कर्तव्यं राज्ञा बलवताऽपि हि
।
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते
।
एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा॥३२॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि ऐलकश्यपसंवादे त्रिसप्ततितमोऽध्यायः॥७३॥
युधिष्ठिर उवाच।
यथा वृत्त्या महीपालो विवर्धयति मानवान्
।
पुण्यांश्च लोकान् जयति तन्मे ब्रूहि पितामह॥१॥
एवं कृतपुरोहितो राजा कथं प्रजावृद्ध्या परलोकं जयेदिति पृच्छति- यथेति ॥१॥
भीष्म उवाच।
दानशीलो भवेद्राजा यज्ञशीलश्च भारत
।
उपवासतपःशीलः प्रजानां पालने रतः॥२॥
तत्र प्रजावृद्धिप्रकारमाह-दानेति ॥२॥
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन्
।
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्॥३॥
उत्थानेन नित्योद्योगेन ॥३॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते
।
यद्यदाचरते राजा तत्प्रजानां स्म रोचते॥४॥
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु
।
निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत्॥५॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
।
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति॥६॥
परलोकजयप्रकारमाह यं हीति ॥६॥
यदधीते यद्ददाति यज्जुहोति यदर्चति
।
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन्॥७॥
यदधीते ब्राह्मणादिः ॥७॥
यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञो रक्षयतः प्रजाः
।
चतुर्थं तस्य पापस्य राजा भारत विन्दति॥८॥
विपक्षे दोषमाह- यद्राष्ट्रे इति । अकुशलमिति च्छेदः ॥८॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः
।
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि॥९॥
नृशंसोऽनृतवाक् च यत्कर्म करोति तस्य कर्मणः सर्वं यत्ततो भूयो वा पापमाप्नोतीत्यन्ये आहुर्निश्चयस्त्वर्धमित्यर्थः ॥९॥
तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते
।
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि
।
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः॥१०॥
अशक्तेन राज्ञा उपजीवितः धनोपजीविनो वणिजादेः सार्धः ॥१०॥
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा
।
न स्थेयं विषये तेन योऽपकुर्याद् द्विजातिषु॥११॥
ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम्
।
तस्मात्तेषां प्रसादेन कृतकृत्यो भवेन्नृपः॥१२॥
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
।
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्॥१३॥
न हि कामात्मना राज्ञा सततं कामबुद्धिना
।
नृशंसेनातिलुब्धेन शक्यं पालयितुं प्रजाः॥१४॥
युधिष्ठिर उवाच।
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्
।
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते॥१५॥
नाहमिति - अत्र राज्ये पुण्यस्य चतुर्थांशः पापस्य त्वर्धं कृत्स्नं वा लभ्यत इति पापाधिक्याद्धर्मो नास्तीत्यर्थः ॥१५॥
तदलं मम राज्येन यत्र धर्मो न विद्यते
।
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया॥१६॥
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः
।
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः॥१७॥
आनृशंस्या परदुःखापहा सा चात्र राजधर्मेषु दस्युवधप्रधानेषु अगुणैव ॥१७॥
भीष्म उवाच।
वेदाहं तव या बुद्धिरानृशंस्यऽगुणैव सा
।
न च शुद्धा नृशंसेन शक्यं राज्यमुपासितम्॥१८॥
अपि तु त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्
।
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते॥१९॥
घृणा कृपा ॥१९॥
वृत्तं तु स्वमपेक्षस्व पितृपैतामहोचितम्
।
नैव राज्ञां तथावृत्तं यथा त्वं स्थातुमिच्छसि॥२०॥
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः
।
प्रजापालनसम्भूतमाप्ता धर्मफलं ह्यसि॥२१॥
आप्तासि प्राप्स्यसि ॥२१॥
न ह्येतामाशिषं पाण्डुर्न च कुन्ती त्वयाचता
।
तथैतत्प्रज्ञया तात यथाऽऽचरसि मेधया॥२२॥
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत्
।
माहात्म्यं च महौदार्यं भवतः कुन्त्ययाचत॥२३॥
नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते
।
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च॥२४॥
दानमध्ययनं यज्ञं प्रजानां परिपालनम्
।
धर्ममेतदधर्मं वा जन्मनैवाभ्यजायथाः॥२५॥
एतद्दानादिकं धर्मम् अधर्मं वा धर्म्यम् । अधर्म्यं वाऽस्तु तथापि तत्कर्तुं जन्मनैव त्वं जातोऽसि तथा च ’श्रेयान्स्वधर्मो विगुणः' इति न्यायेन तव तं विना गतिर्नास्तीत्यर्थः ॥२५॥
काले धुरि च युक्तानां वहतां भारमाहितम्
।
सीदतामपि कौन्तेय न कीर्तिरवसीदति॥२६॥
समन्ततो विनियतो वहत्यस्खलितो हि यः
।
निर्दोषः कर्मवचनात्सिद्धिः कर्मण एव सा॥२७॥
समन्तत इति । शिक्षितोऽश्वोऽपि सम्यग्वहति किमुत त्वं मानुष इत्यर्थः ॥२७॥
नैकान्तविनिपातेन विचचारेह कश्चन
।
धर्मी गृही वा राजा वा ब्रह्मचारी यथा पुनः॥२८॥
धर्मी धर्मवानेकान्तविनिपातेन अत्यन्ताभिनिवेशेन धर्मं कश्चिदपि न विचचार सूक्ष्मस्याधर्मस्यापरिहार्यत्वादिति भावः ॥२८॥
अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत्
।
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः॥२९॥
अल्पं दुष्टं हिंसामयत्वातुच्छमपि बहुजनसुखहेतुत्वात्पराभूयिष्ठम् ॥२९॥
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्
।
योगक्षेमस्तदा राज्ञः कुशलायैव कल्प्यते॥३०॥
ऐश्वर्यं साचिव्याद्यधिकारम् ॥३०॥
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा
।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः॥३१॥
प्रतिगृह्णीयात् वशीकुर्यात् ॥३१॥
यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः
।
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः॥३२॥
युधिष्ठिर उवाच।
किं तात परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा
।
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि॥३३॥
भीष्म उवाच।
यस्मिन्भयार्दितः सम्यक् क्षेमं विन्दत्यपि क्षणम्
।
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते॥३४॥
दरिद्रवैद्यतर्पणात् भयार्दितत्राणं महान्धर्म इत्याह- यस्मिन्निति ॥३४॥
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम
।
भव राजा जय स्वर्गं सतो रक्षासतो जहि॥३५॥
अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह
।
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः॥३६॥
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्
।
वत्सलं संविभक्तारमुपजीवन्ति तं नराः॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि पञ्चसप्ततितमोऽध्यायः॥७७॥
युधिष्ठिर उवाच।
केषां प्रभवते राजा वित्तस्य भरतर्षभ
।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह॥१॥
केषामिति ॥१॥
भीष्म उवाच।
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत॥२॥
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन
।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः॥३॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
।
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप॥४॥
अभिशस्तमिवात्मानं मन्यन्ते येन कर्मणा
।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्॥५॥
येन ब्राह्मणानामपालनेन ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गीतं कैकेयराजेन ह्रियमाणेन रक्षसा॥६॥
केकयानामधिपतिं रक्षो जग्राह दारुणम्
।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्॥७॥
राजोवाच
।
न मे स्तेनो जनपदे न कदर्यो न मद्यपः
।
नानाहिताग्निर्नायज्वा मामकान्तरमायिशः॥८॥
मामकान्तरमाविशः मदीयाभ्यन्तरं त्वमाविष्टवान् कुत इति शेषः ॥८॥
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः
।
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः॥९॥
अविद्वानिति च्छेदः ॥९॥
नानाप्रदक्षिणैर्यज्ञैर्यजन्ते विषये मम
।
नाधीते नाव्रती कश्चिन्मामकान्तरमाविशः॥१०॥
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च
।
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः॥११॥
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः
।
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः॥१२॥
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः
।
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न॥१३॥
न याचन्तीति प्रतिग्रहादिजीविकोपायान्निवृत्ताः ॥१३॥
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः
।
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः॥१४॥
कृषि-गोरक्ष-वाणिज्यमुपजीवन्त्यमायया
।
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः॥१५॥
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः
।
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः॥१६॥
त्रीन्वर्णानुपजीवन्ति यथावदनसूयकाः
।
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः॥१७॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
।
संविभक्ताऽस्मि सर्वेषां मामकान्तरमाविशः॥१८॥
कुलदेशादिधर्माणां प्रथितानां यथाविधि
।
अव्युच्छेत्ताऽस्मि सर्वेषां मामकान्तरमाविशः॥१९॥
तपस्विनो मे विषये पूजिताः परिपालिताः
।
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः॥२०॥
नासं विभज्य भोक्तास्मि नाविशामि परस्त्रियम्
।
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः॥२१॥
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाऽब्रह्मचर्यवान्
।
अनृत्विजा हुतं नास्ति मामकान्तरमाविशः॥२२॥
नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः
।
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः॥२३॥
स्वपति स्वापं कुर्वति सति ॥२३॥
आत्मविज्ञानसम्पन्नस्तपस्वी सर्वधर्मवित्
।
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः॥२४॥
दानेन विद्यामभिवाञ्छयामि सत्येनार्थं ब्राह्मणानां च गुप्त्या
।
शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः॥२५॥
वाञ्छयामि वाञ्छामि ॥२५॥
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्न ब्राह्मणः कितवो नोत चोरः
।
अयाज्ययाजी न च पापकर्मा न मे भयं विद्यते राक्षसेभ्यः॥२६॥
न मे शस्त्रैरनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
।
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः॥२७॥
गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम
।
आशासते जना राष्ट्रे मामकान्तरमाविशः॥२८॥
राक्षस उवाच
।
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे
।
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम्॥२९॥
येषां गोब्राह्मणं रक्ष्यं प्रजा रक्ष्याश्च केकय
।
न रक्षोभ्यो भयं तेषां कुत एव तु पावकात्॥३०॥
अध्यायतात्पर्यं संगृह्णाति - येषामिति ॥३०॥
येषां पुरोगमा विप्रा येषां ब्रह्मपरं बलम्
।
अतिथिप्रियास्तथा पौरास्ते वै स्वर्गजितो नृपाः॥३१॥
भीष्म उवाच।
तस्माद्द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः
।
आशीरेषां भवेद्राजन् राज्ञां सम्यक्प्रवर्तताम्॥३२॥
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः
।
नियम्याः संविभज्याश्च तदनुग्रहकारणात्॥३३॥
एवं यो वर्तते राजा पौरजानपदेष्विह
।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कैकेयोपाख्याने सप्तसप्ततितमोऽध्यायः॥७७॥
युधिष्ठिर उवाच।
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत
।
कथं स्विद्वैश्यधर्मेण संजीवेद्ब्राह्मणो न वा॥१॥
व्याख्याता ब्राह्मणस्येति शेषः । राजधर्मेणेति । शस्त्रधारणादिना वृत्तिर्जीविका । आपदि विकर्मस्थोऽपि ब्राह्मणादिर्न राज्ञः पापाय भवतीति भावः ॥१॥
भीष्म उवाच।
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
।
कृषिगोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये॥२॥
वर्तयेद्ब्राह्मणः ॥२॥
युधिष्ठिर उवाच।
कानि पण्यानि विक्रीय स्वर्गलोकान्न हीयते
।
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ॥३॥
भीष्म उवाच।
सुरा लवणमित्येव तिलान्केसरिणः पशून्
।
वृषभान्मधुमांसं च कृतान्नं च युधिष्ठिर॥४॥
केसरिणः अश्वान् पशून्गोजाविमहिषादीन् । कृतान्नं पक्वमन्नम् ॥४॥
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्
।
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत्॥५॥
अजोऽग्निर्वरुणो मेषःसूर्योऽश्वः पृथिवी विराट्
।
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन॥६॥
अजादीनां विक्रयेऽग्न्यादयो देवता एव विक्रीतास्ततश्चायज्ञियो भवतीत्यर्थः। विराट्- अन्नमिति प्राञ्चः । अन्नविक्रयात्पृथिवीविक्रयपापं भवतीति तेषामाशयः । पृथिवीविक्रयात्सर्वदेवतासमष्टिरूपो विराडेव विक्रीतस्तेन तदसम्बन्धाद्वेदादिरहितो भवतीत्यर्थः ॥६॥
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
।
निमयेत्पक्वमामेन भोजनार्थाय भारत॥७॥
पक्वेनामस्य विनिमये पक्वदो दुष्यति न त्वामद इत्यर्थः ॥७॥
वयं सिद्धमशिष्यामो भवान्साधयतामिदम्
।
एवं संवीक्ष्य नियमेन्नाधर्मोऽस्ति कथंचन॥८॥
इदमप्यपवदति- वयमिति ॥८॥
अत्र ते वर्तयिष्यामि पुराधर्मः सनातनः
।
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर॥९॥
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु
।
रुचितो वर्तते धर्मो न बलात्सम्प्रवर्तते॥१०॥
भवतेऽहमिति। रुचितः सर्वेऽपि विनिमया युक्ताः न तु लाभलोभ इत्यर्थः ॥१०॥
इत्येवं सम्प्रवर्तन्ते व्यवहाराः पुरातनाः
।
ऋषीणामितरेषां च साधु चैतदसंशयम्॥११॥
युधिष्ठिर उवाच।
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः
।
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्॥१२॥
प्रजाः वैश्यशूद्रान्त्यजाः ॥१२॥
राजा त्राता तु लोकस्य कथं च स्यात्परायणम्
।
एतन्मे संशयं ब्रूहि विस्तरेण नराधिप॥१३॥
भीष्म उवाच।
दानेन तपसा यज्ञैरद्रोहेण दमेन च
।
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः॥१४॥
क्षीणबलो राजा कथमन्यांस्त्रायेतेत्याह द्वाभ्यां- दानेनेति ॥१४॥
तेषां ये वेदबलिनस्तेऽभ्युत्थाय समन्ततः
।
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः॥१५॥
राज्ञोऽपि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
।
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता॥१६॥
यदि ताः स्पर्धेरन् तर्हि राजा ब्राह्मणानेवाश्रित्य प्रजा वशीकुर्यादित्याह द्वाभ्यां- राज्ञोऽपीति ॥१६॥
यदा भुवि जयी राजा क्षेमं राष्ट्रेऽभिसंदधेत्
।
तदा वर्णा यथाधर्मं निविशेयुः कथंचन॥१७॥
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
।
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर॥१८॥
कालविशेषे सर्वेषामपि शस्त्रधारणं युक्तमित्याह- उन्मर्यादे इति ॥१८॥
युधिष्ठिर उवाच।
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति
।
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्॥१९॥
ब्राह्मणान् द्विषतः क्षत्रियस्य ब्रह्मैव परायणमिति प्रश्नपूर्वकमाह- अथेत्यादिना ॥१९॥
भीष्म उवाच।
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
।
अमायया मायया च नियन्तव्यं तदा भवेत्॥२०॥
नियन्तव्यं क्षत्रं ब्राह्मणेनेति शेषः ॥२०॥
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः
।
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम्॥२१॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥२२॥
यदा छिनत्त्ययोऽश्मानग्निश्चापोऽभिगच्छति
।
क्षत्रं च ब्राह्मणं द्वेष्टि तदा नश्यन्ति ते त्रयः॥२३॥
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
।
समुदीर्णान्यजेयानि तेजांसि च बलानि च॥२४॥
ब्रह्मवीर्ये मृदुभूते क्षत्रवीर्ये च दुर्बले
।
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः॥२५॥
सर्वैर्वर्णैर्ब्रह्मक्षत्रयोरभिभवे ब्राह्मणार्थं क्षत्रेण मर्तव्यमेवेत्याह- ब्रह्मेत्यादिना ॥२५॥
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः
।
ब्राह्मणान्परिरक्षन्तो धर्मामात्मानमेव च॥२६॥
मनस्विनो मन्युमन्तः पुण्यश्लोका भवन्ति ते
।
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते॥२७॥
अतिस्विष्टमधीतानां लोकानतितपस्विनाम्
।
अनाशनाग्न्योर्विशतां शूरा यान्ति परां गतिम्॥२८॥
अतीति । यज्ञाध्ययनतपोयुक्तानाम् अनशनाग्निप्रवेशकारिणामप्यपेक्षया ब्राह्मणार्थं म्रियमाण उत्कृष्टान् लोकानाप्नोतीत्यर्थः ॥२८॥
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति
।
एवमेवात्मनस्त्यागन्नान्यं धर्मं विदुर्जनाः॥२९॥
एवं युद्धधर्मेण ॥२९॥
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वते
।
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता
।
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत्॥३०॥
नोऽस्माकमस्तु ॥३०॥
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत
।
दुष्कृतस्य प्रणाशेन ततः शस्त्रहता रणे॥३१॥
यथेति ततस्तथा ॥३१॥
भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि
।
कारणाद्देशकालस्य देशकालः स तादृशः॥३२॥
भवतीति । धर्माधर्मौ क्रमादधर्मो धर्मश्च भवतः कारणविशेषात् ॥३२॥
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्
।
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम्॥३३॥
मैत्राः उत्तंकपराशरादयः क्रूराणि सर्वराक्षससत्रादीनि । धर्म्याः धर्मादनपेताः क्षत्रियाः पापानि परराष्ट्रावमर्दादीनि । अधर्मस्य धर्मत्वे उदाहरणद्वयमुक्तम् । इदमेव अहिंसाख्यधर्माश्रयेऽधर्मरूपमपि भवतीति ज्ञेयम् ॥३३॥
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति
।
आत्मत्राणे वर्णदोषे दुर्दम्यनियमेषु च॥३४॥
वर्णदोषे क्षत्रियादिषूत्पथगामिषु सत्सु ॥३४॥
युधिष्ठिर उवाच।
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
।
सम्प्रमूढेषु क्षत्रेषु यद्यन्योऽभिभवेद्बली॥३५॥
दस्यूदये सति क्षत्रार्थे प्रजापालननिमित्तं लोकेषु मूढेषु वर्णसङ्करेऽन्योन्यं दारहरणादौ प्रवृत्ते सति यदि अन्योऽक्षत्रियो बली दस्यून् अभिभवेत् प्रजाश्च दस्युभ्यो रक्षेत्तर्हि स राजा कार्यं कुर्यान्न वा आर्यः स्वामी च भवेन्न वा आद्ये अक्षत्रियोऽपि मान्यः स्यात् अन्त्ये सर्वनाश इत्याह त्रिभिः- अभ्युत्थित इति ॥३५॥
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
।
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन्॥३६॥
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा
।
तस्माच्छस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः॥३७॥
भीष्म उवाच।
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत्
।
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति॥३८॥
आद्यमेव पक्षमुपादते-अपार इत्यादिना ॥३८॥
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्
।
अनाथाः परिकाल्यन्तो दस्युभिः परिपीडिताः॥३९॥
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम्
।
अभीरभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति॥४०॥
किं तैर्येऽनडुहो नोह्याः किं धेन्वा वाऽप्यदुग्धया
।
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता॥४१॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
।
यथा ह्यनर्थः षण्ढो वा पार्थ क्षेत्रं यथोषरम्॥४२॥
एवं विप्रोऽनधीयानो राजा यश्च न रक्षिता
।
मेघो न वर्षते यश्च सर्वथा ते निरर्थकाः॥४३॥
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्
।
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्॥४४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अष्टसप्ततितमोऽध्यायः॥७८॥
युधिष्ठिर उवाच।
क्व समुत्थाः कथंशीला ऋत्विजः स्युः पितामह
।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर॥१॥
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानां सप्तानां राज्यप्रकृतीनां मध्ये स्वामिरूपा प्रकृतिः ऋत्विक्पुरोहितनृपभेदेन त्रिविधा। तत्राभ्यर्हितत्वात् प्रथमं पुरोहितस्ततः शेषित्वाद्राजा च निरूपित इदानीम् ऋत्विजो निरूपयति- क्वेत्यादिना । क्वसमुत्थाः कस्मिन्निमित्त उदिताः किमेषां कर्तव्यं कर्मेत्यर्थ ॥१॥
भीष्म उवाच।
प्रतिकर्म पराचार ऋत्विजां स्म विधीयते
।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेव च॥२॥
प्रतीति । यथा योगशास्त्रे मैत्र्यादिभिश्चित्तप्रसादनाख्यं प्रतिकर्म विधीयते एवं राज्ञां शान्तिकपौष्टिकादिकर्म प्रयोगशुद्ध्याख्यं प्रतिकर्म ऋत्विग्भिः कर्तव्यम् । तत्र पराचारः अत्यन्ताभियोगेनाचरणम् ऋत्विजां विधीयते कीदृशानां छन्दो ऋचः साम आदिपदार्थो यजुः श्रुतं मीमांसा तानि विज्ञाय स्थितानामिति शेषः ॥२॥
ये त्वेकमतयो नित्यं वीराणां प्रियवादिनः
।
परस्परस्य सुहृदः समन्तात्समदर्शिनः॥३॥
एवं क्वसमुत्था इत्यस्योत्तरमुक्त्वा किंशीला इत्यस्योत्तरमाह- ये त्विति ॥३॥
अनृशंसाः सत्यवाक्या अकुसीदा अथर्जवः
।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः॥४॥
कथंविधा इत्यस्याह त्रिभिः - अनृशंसा इति ॥४॥
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः
।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः॥५॥
त्रिभिः श्रुतवृत्तवंशैः शुक्लैः निर्दोषैः ॥५॥
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति
।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः॥६॥
महर्त्विजो ब्रह्मादयः उपर्त्विजो ब्राह्मणाच्छम्यादयस्ते यथार्हतः यथायोग्यं मान्याः धनादिना आराधनीयाः ॥६॥
युधिष्ठिर उवाच।
यदिदं वेदवचनं दक्षिणासु विधीयते
।
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते॥७॥
ऋत्विक्प्रसङ्गात्तद्दानार्थं दक्षिणां विचारयति- यदिदमिति । न क्वचित् व्यवतिष्ठते व्यवस्थां प्राप्नोति अल्पेप्यपच्छेदनिमित्त सर्वस्वदक्षिणाविधानादुत्तरक्रतुकलापलोपप्राप्तेः ॥७॥
नेदं प्रतिधनं शास्त्रमापद्धर्मानुशास्त्रतः
।
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते॥८॥
ततश्च नेदं शास्त्रं प्रति धनं धनविभागाभिप्रायम् अपि तु आपत्कल्पाभिप्रायं द्वादशशतदक्षिणादानासमर्थस्य सर्वस्वदानं विधेयम् । अन्यथा दरिद्रस्य याग एव न घटेतेत्यर्थः ॥८॥
श्रद्धावता च यष्टव्यमित्येषा वैदिकी श्रुतिः
।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति॥९॥
ननु यावतीर्गास्तावन्ति वासांसि चरून्वा दद्यादिति दुरिद्रं प्रत्यनुकल्पोऽप्यस्तीति चेन्नेत्याह मिथ्येति । गोः स्थाने चरुमात्रदानं मिथ्याचारस्तदुपेतो यज्ञः श्रद्धयाऽपि न सम्पूर्यत इत्यर्थः ॥९॥
भीष्म उवाच।
न वेदानां परिभवान्न शाठ्येन न मायया
।
कश्चिन्महदवाप्नोति मा तेऽभूद्बुद्धिरीदृशी॥१०॥
सर्वस्वदानशास्त्रं दरिद्रपरं कुर्वतो वेदावज्ञा शाठ्यं च भवतीति नेदं शास्त्रतात्पर्यमित्याह- नेति । महत्पदम् ॥१०॥
यज्ञाङ्गं दक्षिणा तात वेदानां परिबृंहणम्
।
न यज्ञा दक्षिणाहीनास्तारयन्ति कथंचन॥११॥
शक्तिस्तु पूर्णपात्रेण सम्मिता न समाऽभवत्
।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि॥१२॥
पूर्णपात्रेणेति । यथा सक्तुप्रस्थस्य दानम् अश्वमेधादप्यधिकं तद्वद्दरिद्रस्य पूर्णपात्रं द्वादशशतसममित्यर्थः ॥१२॥
सोमो राजा ब्राह्मणानामित्येषा वैदिकी स्थितिः
।
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते॥१३॥
सोमविक्रयादिनाऽप्यर्थं प्रसाध्य यष्टव्यमित्याह द्वाभ्यां- सोम इति । वृथा यज्ञादिनिमित्तं विना वृत्तिर्वर्तनं न इष्यते ॥१३॥
तेन क्रीतेन यज्ञेन ततो यज्ञः प्रतायते
।
इत्येवं धर्मतो ध्यातमृषिभिर्धर्मचारिभिः॥१४॥
तेन सोमविक्रयलब्धेन धनेन क्रीतो यो यज्ञः सोमस्तेन यज्ञः प्रतायते ॥१४॥
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्
।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः॥१५॥
न्यायवृत्तः शाठ्यादिरहितः ॥१५॥
शरीरवृत्तमास्थाय इत्येषा श्रूयते श्रुतिः
।
नातिसम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम्॥१६॥
शरीरेति । देहधारणमात्रम् आस्थाय प्रवृत्तानां ब्राह्मणानां प्रणीतानि प्रणीताग्निसाध्यानि यज्ञादीनि नातिसम्यक् हिंसामयत्वान्न शुभं तत् ॥१६॥
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः
।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु॥१७॥
किं तर्हि शुभमत आह - तप इति ॥१७॥
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा
।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्॥१८॥
अहिंसेति । तपः अध्ययनं तदर्थानुसन्धानं च । घृणा दया त्रपा वा ॥१८॥
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्
।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः॥१९॥
निबोध देवहोतॄणां विधानं पार्थ यादृशम्
।
चित्तिः स्रुक्
चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः, इति दश होतारः(तैत्तिरीयारण्यकम् ३.१) ।
चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्॥२०॥
कर्माण्यपि ज्ञानपराण्येवेत्याह-निबोधेति । दश होतॄणां चित्तिः स्रुक्चित्तमाज्यम् इत्यादीनां मन्त्राणां चित्तिः साधनं जीवब्रह्मणोरेकीकरणसाधनं योगस्तत्स्थानेऽत्र स्रुक् । होतव्यं द्रव्यं परात्मनि प्रविलापनीयं चित्तं तत्स्थानेऽत्र आज्यमिति । यज्ज्ञानं तदेवात्यन्तं पवित्रं न केवलो यज्ञ इत्यर्थः ॥२०॥
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
।
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति॥२१॥
जिह्म शाठ्यम् आर्जवम् अवक्रत्वम् ॥२१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि एकोनाशीतितमोऽध्यायः॥७९॥
युधिष्ठिर उवाच।
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्
।
पुरुषेणासहायेन किमु राज्ञा पितामह॥१॥
एवं स्वामिसम्पदं विविच्यामात्यसम्पदं विविनक्ति - यदपीत्यादिना ॥१॥
किंशीलः किंसमाचारो राज्ञोऽथ सचिवो भवेत्
।
कीदृशे विश्वसेद्राजा कीदृशे न च विश्वसेत्॥२॥
यज्ञवत् राज्यमपि एकाकिना कर्तुमशक्यमतः ऋत्विजामिव सचिवानामपि परीक्षाऽवश्यं कर्तव्येत्यर्थः॥२॥
भीष्म उवाच।
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत
।
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा॥३॥
उत्तरमाह- चतुर्विधानीति । सहार्थः अयं शत्रुरुभाभ्यामुन्मूलनीय । अस्य राज्यम् उभाभ्यां विभज्य ग्राह्यमिति पणपूर्वकृतः । भजमानः पितृपैतामहक्रमागतः । सहजः मातृष्वस्रीयादिः। कृत्रिमो घनादिना आवर्जितः ॥३॥
धर्मात्मा पञ्चमश्चापि मित्रं नैकस्य न द्वयोः
।
यतो धर्मस्ततो वा स्याद्धर्मस्थो वा ततो भवेत्॥४॥
नैकस्येति पक्षपातशून्यः । न द्वयोरित्युभयवेतनत्वेन कपटकारी । यः प्रार्थितोऽपि धर्मपक्षपाती भवति तस्य उदासीनत्वे तु यो धर्मस्थः स तम् आश्रयेदित्यर्थः ॥४॥
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्
।
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः॥५॥
अर्थो धर्मापेतत्वात्स्वयमपि सोऽर्थस्त्याज्य इत्याशङ्क्याह - धर्मेति । केवलेन धर्मेण जिगीषवो न सिद्ध्यन्तीत्यर्थः ॥५॥
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ
।
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः॥६॥
मध्यमौ भजमानसहजौ । अपरौ सहार्थकृत्रिमौ । आद्यः फलप्राप्तिकाले बलवांश्चेत्सर्वमपजिहीर्षतीति शङ्क्य एव । कृत्रिमो विशेषधनलाभात्परकीयो भविष्यतीति सोऽपि शङ्क्य एव । सर्वे पञ्चापि प्रत्यक्षं कार्यमुद्दिश्य मन्त्रितमपि दुष्टामात्यनिग्रहादिकं कार्यं पञ्चानामपि समक्षं न कुर्यादित्यर्थः ॥६॥
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे
।
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत॥७॥
नहीति । कुमित्रं सर्वथा हन्तव्यमेवेत्यर्थः ॥७॥
असाधुः साधुतामेति साधुर्भवति दारुणः
।
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति॥८॥
यस्मात् नृणां चलचित्तत्वाद्विपर्यासो मित्रादीनां दृश्यते तस्मात्क्वचिदपि विश्वासमकृत्वा कोशदुगादिसंख्यारक्षणं स्वप्रत्यक्षमेव कुर्याद्राजेत्याह द्वाभ्याम्- असाधुरिति ॥८॥
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत्
।
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत्॥९॥
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः
।
अविश्वासश्च सर्वत्र मृत्युना च विशिष्यते॥१०॥
विश्वासाविश्वासावपि विरुद्धावित्याह त्रिभिः - एकान्तेनेति ॥१०॥
अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते
।
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति॥११॥
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित्
।
एषा नीतिगतिस्तात लक्ष्या चैव सनातनी॥१२॥
यं मन्येत ममाभावादिममर्थागमं स्पृशेत्
।
नित्यं तस्माच्छङ्कितव्यममित्रं तद्विदुर्बुधाः॥१३॥
अविश्वासस्थानान्याह- यमिति । मयि मृतेऽयं राजा भविष्यतीति य मन्यते प्रतिवेशी भ्राता वा पुत्रो वाऽस्तु तस्माच्छङ्कितव्यमेवेत्यर्थः ॥१३॥
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति
।
न तत्रानिच्छतस्तस्य भिघेरन्सर्वसेतवः॥१४॥
अमित्रस्य लक्षणान्तरमाह- यस्येति द्वाभ्याम् । यथा महातटाकसेतुसमीपे यस्य क्षेत्रं स चेत्सेतुं रक्षति तर्हि ततोऽर्वाचीनानि क्षेत्राणि समोदकानि सम्यक्फलन्ति । स चेत्सेतुं भिनत्ति तदातिजलप्रवाहात्क्षेत्राणामुपघातो भवति । एवं महति शत्रौ सीमान्तपालः सम्यक्सीमां पालयति तदा परराष्ट्रादुत्तमपण्यागमेन स्वराष्ट्रं सुखभाक् भवति । स चेत्सीमां भिनत्ति तदा स्वं राज्यं विपक्षप्रवेशान्नश्यति । तत्र यस्मात्सीमान्तपालाद्भयं सम्भावितं स शत्रुरिति ज्ञेयम् । यदधीनौ शत्रुप्रकोपौ सोऽन्तपालोऽप्यविश्वसनीय इत्यर्थः । अक्षरार्थः स्पष्टः ॥१४॥
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति
।
यमेवं लक्षणं विद्यात्तममित्रं विनिर्दिशेत्॥१५॥
यस्तु वृद्ध्या न तृप्येत क्षये दीनतरो भवेत्
।
एतदुत्तममित्रस्य निमित्तमिति चक्षते॥१६॥
मित्रलक्षणमाह- यस्त्विति । वृद्ध्या न तृप्येत एतदुक्तमिति च पाठान्तरे इदमेवामित्रलक्षणम् । अदीनेति च च्छेदः ॥१६॥
यन्मन्येत ममाभावादस्याभावो भवेदिति
।
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा॥१७॥
यत् मित्रं कर्तृ ॥१७॥
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत्
।
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु॥१८॥
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम्
।
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः॥१९॥
व्यसनान्नित्यभीतो यः समृद्ध्या यो न दुष्यति
।
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते॥२०॥
रूप-वर्ण-स्वरोपेतस्तितिक्षुरनसूयकः
।
कुलीनः कुलसम्पन्नः स तस्मात्प्रत्यनन्तरः॥२१॥
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्
।
यो मानितोऽमानितो वा न च दुष्येत्कदाचन॥२२॥
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यन्तसंस्तुतः
।
गृहे वसेदमात्यस्ते स स्यात्परमपूजितः॥२३॥
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः
।
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा॥२४॥
स इति । तत्रार्थप्रकृतिर्धर्मप्रकृतिरर्थधर्मप्रकृतिश्चेति त्रेधा प्रकृतिस्ताम् । तत्राद्या -
'कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्
।
खन्याकरकरादानं शून्यानां च निवेशनम्
।
अष्टौ सन्धानकर्माणि प्रयुक्तानि मनीषिभिः'
इति । सन्धानम् अर्थप्राप्तिः तथा -
'दुर्गाध्यक्षो बलाध्यक्षो धर्माध्यक्षश्चमूपतिः
।
पुरोधा वैद्यदैवज्ञौ सप्त प्रकृतयस्त्विमाः'
।
इति । तत्र धर्माध्यक्षो धर्मप्रकृतिः । अन्ये अर्थधर्मप्रकृतय इति विवेकः ॥२४॥
नैव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम्
।
एकार्थे ह्येव भूतानां भेदो भवति सर्वदा॥२५॥
एकार्थे एकस्मिन्प्रयोजने एक एवाध्यक्षः कार्यश्चारैस्तु तद्गुणदोषान्सङ्कलयेन्न तु एकार्थे द्वावध्यक्षौ कार्यावित्याह- एकार्थे इति ॥२५॥
कीर्तिप्रधानो यस्तु स्याद्यश्च स्यात्समये स्थितः
।
समर्थान् यश्च न द्वेष्टि नानर्थान्कुरुते च यः॥२६॥
समये नीतिमर्यादायाम् ॥२६॥
यो न कामाद्भयाल्लोभात् क्रोधाद्वा धर्ममुत्सृजेत्
।
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः॥२७॥
प्रत्यनन्तरः प्रतिनिधिः प्रधान इति यावत् ॥२७॥
कुलीनः शीलसम्पन्नस्तितिक्षुरविकत्थनः
।
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः॥२८॥
प्रतिपत्तिविशारदः कार्याकार्यविवेककुशलः ॥२८॥
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः
।
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः॥२९॥
स्वनुष्ठिताः सुष्ठु अनुष्ठितं कर्तव्यं येषां ते ॥२९॥
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु
।
युक्ता महत्सु कार्येषु श्रेयांस्युत्थापयन्त्युत॥३०॥
कृत्स्नम् अप्रतिकञ्चुकं यथा स्यात्तथा विनिक्षिप्ता अधिकृताः प्रतिरूपेषु अनुरूपेषु कर्मसु आयव्ययसङ्कलनादिषु कार्येषु पराभिभवादिषु ॥३०॥
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा
।
अनुतिष्ठन्ति चैवार्थमाचक्षाणाः परस्परम्॥३१॥
ज्ञातिभ्यश्चैव बुद्ध्येथा मृत्योरिव भयं सदा
।
उपराजेव राजर्धि ज्ञातिर्न सहते सदा॥३२॥
उपराजा समीपवर्ती सामन्तः ॥३२॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः
।
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति॥३३॥
अज्ञातिनोऽपि न सुखा नावज्ञेयास्ततः परम्
।
अज्ञातिमन्तं पुरुषं परे चाभिभवन्त्युत॥३४॥
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम्
।
नान्यो निकारं सहते ज्ञातिर्ज्ञातेः कथञ्चन॥३५॥
निकृतस्य लङ्घितस्य नान्यः परायणं कथं च कथमपि न सहते इत्यन्वयः ॥३५॥
आत्मानमेव जानाति निकृतं बान्धवैरपि
।
तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते॥३६॥
बान्धवैः सम्बन्धिभिर्निकृते कस्मिंश्चित्पुरुषे तज्ज्ञातिः कृत्स्ना आत्मानमेव निकृतं जानाति तेषु ज्ञातिषु यथोक्तम्
'परस्परविरोधे हि वयं पञ्च च ते शतम्
।
अन्यैः सह विराधे तु वयं पञ्चोत्तरं शतम्'
इति ॥३६॥
नाज्ञातिरनुगृह्णाति न चाज्ञातिर्नमस्यति
।
उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च॥३७॥
सम्मानयेत्पूजयेच्च वाचा नित्यं च कर्मणा
।
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत्॥३८॥
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा
।
न हि दोषा गुणो वेति निरूप्यस्तेषु दृश्यते॥३९॥
अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः
।
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि॥४०॥
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले
।
मित्रेष्वमित्रे मध्यस्थे चिरं यशसि तिष्ठति॥४१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अशीतितमोऽध्यायः॥८०॥
युधिष्ठिर उवाच।
एवमग्राह्यके तस्मिन् ज्ञातिसम्बन्धिमण्डले
।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते॥१॥
एवमिति । अग्राह्यके वशीकर्तुमशक्ये द्वयोरन्योन्यं स्पर्धमानयोरेकस्यादरे इतरस्य कोपोत्पत्तेरवश्यं मित्रमप्यमित्रतां याति अतः सर्वेषां भावश्चितं कथं विभाव्यते वशीक्रियते इति प्रश्नः ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
संवादं वासुदेवस्य सुरर्षेर्नारदस्य च॥२॥
वासुदेव उवाच।
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम्
।
अपण्डितो वाऽपि सुहृत्पण्डितो वाऽप्यनात्मवान्॥३॥
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद
।
कृत्स्नं बुद्धिबलं प्रेक्ष्य सम्पृच्छेस्त्रिदिवंगम॥४॥
दास्यमैश्वर्यवादेन ज्ञातीनां न करोम्यहम्
।
अर्धं भोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे॥५॥
दास्यमेवाह-अर्धमिति । अर्जितस्यार्धं ज्ञातिभ्यो देयं तद्दुरुक्तानि च क्षन्तव्यानीत्येवं ज्ञातिदास्यम् ॥५॥
अरणीमग्निकामो वा मथ्नाति हृदयं मम
।
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा॥६॥
वाशब्द इवार्थः । वाचा दुरुक्तम् आहुकस्नेहात्कृष्णो मां द्वेष्टीति अक्रूरदुरुक्तम् अक्रूरस्नेहात्कृष्णो मां द्वेष्टीत्याहुकदुरुक्तम् ॥६॥
बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे
।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद॥७॥
असहायः आहुकाक्रूरयोः सान्त्वने इति शेषः ॥७॥
अन्ये हि सुमहाभागा बलवन्तो दुरुत्सहाः
।
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः॥८॥
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत्
।
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च॥९॥
ते यस्य पक्षे न स्युः स न स्यात् नश्येदेव । यस्य पक्षे ते स्युस्तत्कुलं कृत्स्नमेव पुरुषार्थं लभते ईदृशा अपि मम साहाय्यं न कुर्वन्तीति भावः । द्वाभ्याम् आहुकाक्रूराभ्यां निवारितः निरस्तः सन् एकतरं न वृणोमि इतरस्य कोपो माभूदिति ॥९॥
स्यातां यस्याहुकाक्रूरो किं नु दुःखतरं ततः
।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः॥१०॥
द्वयोर्महिषयोरिव युध्यतोर्वारणे मध्यस्थस्य मम महद्दुःखं तथा द्वयोः सुहृदोस्त्यागेऽपीत्याह- स्यातामिति ॥१०॥
सोऽहं कितव मातेव द्वयोरपि महामते
।
एकस्य जयमाशंसे द्वितीयस्यापराजयम्॥११॥
द्वयोः कितवयोर्द्यूतकारिणोरेका मातेव ॥११॥
ममैवं क्लिश्यमानस्य नारदोभयतः सदा
।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा॥१२॥
नारद उवाच।
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह
।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः॥१३॥
अन्यतः बाह्याः आपदः स्वकृताः ज्ञातिकृताः अभ्यन्तरा आपदः ॥१३॥
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा
।
अक्रूरभोजप्रभवा सर्वे ह्येते त्वदन्वयाः॥१४॥
एते संकर्षणादयः तदन्वया अक्रूरान्वयाः ॥१४॥
अर्थहेतोर्हि कामाद्वा वाचा बीभत्सयाऽपि वा
।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्॥१५॥
तत्र हेतुरर्थेति । तत्स्नेहप्रभवा इयं तवापदिति सार्धः स्वकर्मजेत्युक्तं तद्विवृणोति- आत्मनेति सार्धेन । अन्यत्र आहुके ॥१५॥
कृतमूलमिदानीं तज्ज्ञातिशब्दं सहायवन्
।
न शक्यं पुनरादातुं वान्तमन्नमिव त्वया॥१६॥
तत् ऐश्वर्यं कृतमूलं यतो ज्ञातिशब्दं ज्ञातित्वादनुच्छदनीयं हे सहायवन् अत एव पुनरादातुं न शक्यमित्याह- नेति ॥१६॥
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन
।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः॥१७॥
तत्र हेतुः ज्ञातीति । त्वयेति महतां दत्तापहारो नाचितः 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति न्यायादित्यर्थः ॥१७॥
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्
।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत्॥१८॥
तच्च राज्यस्य पुनरादानं च ॥१८॥
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
।
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च॥१९॥
जिह्वामुद्धर तेषां मूकीभावं सम्पादय येन कलहोदयो न स्यात् ॥१९॥
वासुदेव उवाच।
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्
।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च॥२०॥
नारद उवाच।
शक्त्याऽन्नदानं सततं तितिक्षार्जवमार्दवम्
।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्॥२१॥
परिमार्जनं दोषापनयनं तितिक्षार्जवमार्दवैः कार्यम् । अनुमार्जनं प्रीतिगुणाधानं यथार्हपूजनादित्यर्थः ॥२१॥
ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च
।
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च॥२२॥
हृदयं क्रूरनिश्चयं मनांसि कुसंकल्पजालानि ॥२२॥
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्
।
महतीं धुरमाधत्ते तामुद्यम्योरसा वह॥२३॥
अनात्मा अजितचित्तः उरसा अङ्गीकृत्य क्षमया वहस्वेत्यर्थः ॥२३॥
सर्व एव गुरुं भारमनड्वानन्वहते समे
।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्॥२४॥
भेदाद्विनाशः संघानां संघमुख्योऽसि केशव
।
यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु॥२५॥
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
।
नान्यत्र धनसंत्यागाद्गणः प्राज्ञेऽवतिष्ठते॥२६॥
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं सदा
।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु॥२७॥
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
।
षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा॥२८॥
यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः
।
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये॥२९॥
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव
।
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्॥३०॥
त्वामासाद्य यदुश्रेष्ठमेधन्ते यादवाः सुखम्॥३१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वासुदेवनारदसंवादो नामैकाशीतितमोऽध्यायः॥८१॥
भीष्म उवाच।
एषा प्रथमतो वृत्तिद्वितीयां शृणु भारत
।
यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः सदा नरः॥१॥
एवममात्यान्मृष्टान्नदानतितिक्षार्जवमार्दवपूजाभिर्मानयेदित्युकं कोशवृद्धिकरं तु ततोऽप्यधिकतरं मानयेद्रक्षेच्चेत्याह- एषेति ॥१॥
ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः
।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर॥२॥
श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत्
।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत॥३॥
राजकोशस्य गोप्तारं राजकोशविलोपकाः
।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः॥४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह॥५॥
कोसलानामाधिपत्यं सम्प्राप्तं क्षेमदर्शिनम्
।
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्॥६॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः
।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः॥७॥
प्रवृत्त्यर्थी अमात्यदोषदर्शने राजानं प्रवर्तयितुकामः ॥७॥
अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः
।
अनागतमतीतं च यच्च सम्प्रति वर्तते॥८॥
इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह
।
सर्वेषां राजयुक्तानां दुष्करं परिदृष्टवान्॥९॥
परिपतन्पारतो भ्रमन् राजयुक्तानां राज्ञा तेषु तेषु कार्येषु नियुक्तानां दुष्करं स्वामिद्रव्यापहाररूपं पापम् ॥९॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः
।
राजयुक्तापहारांश्च सर्वान्बुद्ध्वा ततस्ततः॥१०॥
राजयुक्तैर्धनस्यापहारान् ॥१०॥
ततः स काकमादाय राजानं द्रष्टुमागमत्
।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः॥११॥
स स्म कौसल्यमागम्य राजामात्यमलंकृतम्
।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्॥१२॥
राजानमागम्य तत्समक्षमेवामात्यं प्राह अमुत्र स्थाने त्वया इदं धनचौर्यं कृतमिति ॥१२॥
असौ चासौ च जानीते राजकोशस्त्वया हतः
।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्॥१३॥
अनुगम्यताम् आलोच्यताम् ॥१३॥
तथाऽन्यानपि स प्राह राजकोशहरांस्तदा
।
न चास्य वचनं किंचिदनृतं श्रूयते क्वचित्॥१४॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह
।
तमस्यभिप्रसुप्तस्य निशि काकमवेधयन्॥१५॥
अस्य मुनेः तमनादृत्येत्यर्थः ॥१५॥
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे
।
पूर्वाह्ने ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्॥१६॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्
।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम्
।
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः
।
॥१७॥
आगतोऽहं त्वयाऽनुज्ञातः सन् तव हितं ब्रूयामिति सार्धः ॥१७॥
अयं तवार्थो ह्रियते यो ब्रूयादक्षमान्वितः
।
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः॥१८॥
अर्थो ह्रियत इति यो ब्रूयात्तस्य मित्रस्य तथाभूतं तद्वचनं त्वया क्षन्तव्यमिति द्वयोः सम्बन्धः न पुनः काकवत्तादृशं मित्रमनवहिततया परैर्घातनीयमिति भावः । सार्थश्लोलद्वयम् ॥१८॥
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात्
।
तथाविधस्य सुहृदा क्षन्तव्यं स्वं विजानता
।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता॥१९॥
तं राजा प्रत्युवाचेदं यत्किंचिन्मां भवान्वदेत्
।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्॥२०॥
ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि
।
करिष्यामि हि ते वाक्यं यदस्मान्विप्रवक्ष्यसि॥२१॥
मुनिरुवाच
।
ज्ञात्वा पापानपापांश्च भृत्यतस्ते भयानि च
।
भक्त्या वृत्तिं समाख्यातुं भवतोन्तिकमगमम्॥२२॥
पापान् अपापांश्च भृत्यान् ज्ञात्वा भृत्यतः भृत्यात्ते तव भयानि च ज्ञात्वा ॥२२॥
प्रागेवोक्तस्तु दोषोऽयमाचार्यैर्नृपसेविनाम्
।
अगतीकगतिर्ह्येषा पापा राजोपसेविनाम्॥२३॥
अगतीकगतिः श्ववृत्तित्वात् श्ववृतिनीचसेवनम् ॥२३॥
आशीविषैश्च तस्याहुः संगतं यस्य राजभिः
।
बहुमित्राश्च राजानो बह्वमित्रास्तथैव च॥२४॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम्
।
तथैषां राजतो राजन्मुहूर्तादेव भीर्भवेत्॥२५॥
तेभ्यः राजकीयमित्रेभ्योऽमित्रभ्यो राजतश्च भयमस्तीत्यर्थः ॥२५॥
नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ
।
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता॥२६॥
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम्
।
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः॥२७॥
प्रमादात् भृत्यकृतात्स्खलेत्पूर्वोपकारं विस्मृत्य द्विषेत् ॥२७॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्
।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः॥२८॥
नाहमस्मीति मत्वा जीवनाशां त्यक्त्वेत्यर्थः ॥२८॥
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात्
।
दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेश्तिात्॥२९॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः
।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्॥३०॥
इति राजन्यमः प्राह वर्तते च तथैव तत्
।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः॥३१॥
अहमिति पाठे भूयांसं बह्वैश्वर्यवन्तं करिष्यामि ॥३१॥
ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि
।
वायसस्त्वेष मे राजन्ननु कार्याभिसंहितः॥३२॥
तत्र द्वारमाह-ददातीति । बुद्धिदानेऽप्यनिष्टमाह- वायसस्त्विति । ननु इति वितर्के । तुशब्दो यथार्थे यथा मे वायसः कार्याभिसंहितः कार्यकारी तथाऽहमप्यस्मीति शेषः । तद्वदेव च मां त्वदमात्या मारयिष्यन्तीति वितर्कये इति भावः ॥३२॥
न च मेऽत्र भवान्गर्यो न च येषां भवान्प्रियः
।
हिताहितांस्तु बुद्ध्येथा मा परोक्षमतिर्भवेः॥३३॥
ये त्वादानपरा एव वसन्ति भवतो गृहे
।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्॥३४॥
आदानपराः कोशलोप्तारः भूतानां प्रजानां मे मयि तादृशैः अभिसंहितम् अभिसन्धिर्वैरं कृतं मदीयकाकहननादिति भावः ॥३४॥
यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम्
।
आन्तरैरभिसंधाय राजन्सिद्ध्यति नान्यथा॥३५॥
आन्तरैः सुदादिभिः अभिसन्धाय अन्नादौ विषं प्रक्षेप्तव्यमिति स्नेहं कृत्वा तेषामभीप्सितो भवद्विनाशः सिध्यति च अन्यथा न सिध्यति च आयुःशेषे सतीति भावः ॥३५॥
तेषामहं भयाद्राजन् गमिष्याम्यन्यमाश्रमम्
।
तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो॥३६॥
तेषां त्वद्वैरिणां काकमिव मामपि मारयिष्यन्तीति ध्वनिः ॥३६॥
छाद्मकामैरकामस्य गमितो यमसादनम्
।
दृष्टं ह्येतन्मया राजंस्तपोदीर्धेन चक्षुषा॥३७॥
बहुनक्रझषग्राहां तिमिङ्गिलगणैर्युताम्
।
काकेन बालिशेनेमां यामतार्षमहं नदीम्॥३८॥
इमां राजनीतिनदीं सजातीयविजातीयदुर्बलग्रासिभिः नक्रादितुल्यैरधिकारिपुरुषैर्व्याप्तां काकेन बालिशेन स्वमृत्युं संपादयता सहायेनाहमतार्षं तीर्णवानस्मि विरुद्धलक्षणया तन्मरणान्मृतोऽस्मीति भावः ॥३८॥
स्थाण्वश्मकण्टकवतीं सिंहव्याघ्रसमाकुलाम्
।
दुरासदां दुष्प्रसहां गुहां हैमवतीमिव॥३९॥
स्थाण्विति पूर्वनद्या एवोपमानम् ॥३९॥
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते
।
राजदुर्गावतरणे नोपायं पण्डिता तिदुः॥४०॥
अग्निना दीपेन ॥४०॥
गहनं भवतो राज्यमन्धकारं तमोऽन्वितम्
।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया॥४१॥
गहनं कपटम् अन्धकारमिव तमोन्वितं धर्माधर्मदर्शनशून्यम् ॥४१॥
अतो नायं शुभो वासस्तुल्ये सदसती इह
।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः॥४२॥
न्यायतो दुष्कृते घातः सुकृते न कथंचन
।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्बुधः॥४३॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति
।
तथोपमामिमां मन्ये वागुरां सर्वघातिनीम्॥४४॥
यथा बह्वावर्तायां सीतायां प्लवस्तारणोपायः निमज्जति तथा तव राजनीतौ प्लवो मादृशोऽपि निमज्जति ॥४४॥
मधुप्रपातो हि भवान् भोजनं विषसंयुतम्
।
असतामिव ते भावो वर्तते न सतामिव॥४५॥
मध्विति सार्धः ॥४५॥
आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव
।
दुर्गतीर्था बृहत्कूला कारीरा वेत्रसंयुता॥४६॥
तीर्थं जलावतरणमार्गः करीरो निष्पत्रकण्टीक्षुपः ॥४६॥
नदी मधुरपानीया यथा राजंस्तथा भवान्
।
श्व-गृध्र-गोमायुयुतो राजहंससमो ह्यसि॥४७॥
यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान्
।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते॥४८॥
यथेति । तेन कक्षेण सहैव दावो दावाग्निर्दहति वृक्षम्, एवं त्वदाश्रयाद्वृद्धिं प्राप्तास्त्वामतिक्रान्ता अमात्यास्तैः सह त्वं नाशं प्राप्स्यसीत्यर्थः ॥४८॥
तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः
।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय॥४९॥
त्वया चैव कृता राजन्भवता परिपालिताः
।
भवन्तमभिसंधाय जिघांसन्ति भवत्प्रियम्॥५०॥
उषितं शङ्कमानेन प्रमादं परिरक्षता
।
अन्तः सर्प इवागारे वीरपत्न्या इवालये
।
शीलं जिज्ञासमानेन राज्ञश्च सहजीविनः॥५१॥
उषितं मयेति शेषः । वीरपत्न्याः आलये जारेणेवेति शेषः । मृत्युस्थाने त्वच्छीलजिज्ञासया स्थितमिति सार्धाभिप्रायः ॥५१॥
कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः
।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः॥५२॥
जिज्ञासामेवाह- कच्चिदिति । आन्तराः कामादयः षट् । एषाम् अमात्यादीनाम् ॥५२॥
विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम
।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम्॥५३॥
रोचते भवानिति शेषः ॥५३॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्
।
भवतोऽर्थकृदित्येवं मयि दोषो हि तैः कृतः
।
विद्यते कारणं नान्यदिति मे नात्र संशयः॥५४॥
अमात्येष्वरुचौ हेतुमाह- भवत इति । दोषो मित्रध्वंसः ॥५४॥
न हि तेषामहं द्रुग्धस्तत्तेषां दोषदर्शनम्
।
अरेर्हि दुर्हृदाद्भेयं भग्नपुष्ठादिवोरगात्॥५५॥
न द्रुग्धः न द्रोहकर्ता एवं सत्यपि तत् अयमस्मद्द्रोहीति तेषां मयि दोषदर्शनमस्ति अतो मयाऽत्र न स्थेयमित्यर्थः। दुर्हृदात् दुष्टचित्तात् भेयं भेतव्यं भग्नपृष्ठात् पृष्ठभङ्गेन कोपितात् ॥५५॥
राजोवाच
।
भूयसा परिहारेण सत्कारेण च भूयसा
।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम॥५६॥
ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे
।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम्॥५७॥
यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम्
।
तथा समीक्ष्य भगवन् श्रेयसे विनियुंक्ष्व माम्॥५८॥
मुनिरुवाच
।
अदर्शयन्निमं दोषमेकैकं दुर्बलीकुरु
।
ततः कारणमाज्ञाय पुरुषं पुरुषं जहि॥५९॥
इमं हि तस्य काकस्य वधे दोषमदर्शयन् एकमेकममात्यं क्रमेण दुर्बली कुरु ऐश्वर्यात् च्यावय दुर्बलीकृतस्य कारणं वधहेतुं दोषमाज्ञाय साकल्येन ज्ञात्वा एकैकमेव जहि ॥५९॥
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान्
।
मन्त्रभेदभयाद्राजस्तस्मादेतद्ब्रवीमि ते॥६०॥
तेषामकस्मात् युगपच्च वधे दोषमाह- एकेति । संहताः कण्टकानपि मृद्नीयुः किमुत मादृशान्मृदूनित्यर्थः ॥६०॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः
।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः॥६१॥
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम्
।
मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः॥६२॥
पितुः सखा च भवतः सम्मतः सत्यसङ्गरः
।
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते॥६३॥
पितरि त्वदीये संस्थिते मृते ॥६३॥
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया
।
स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रमेदिति॥६४॥
विभ्रमेत् अनाप्तेष्वाप्तबुद्धिं भवान्माकार्षीदिति ॥६४॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया
।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि॥६५॥
केवलम् अमात्यसंस्थो मा भूरित्याशयेनाह- उभे इति ॥६५॥
ततो राजकुले नान्दी सञ्जज्ञे भूयसा पुनः
।
पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे॥६६॥
नान्दी मङ्गलपाठः ततस्तस्मिन्मन्त्रिणि वृते सति नन्दीति पाठे हर्षः । मन्त्रीतिपाठे भयसा यत्नेन सञ्जज्ञे जातः ॥६६॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने
।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः॥६७॥
कौसल्याय कौसल्यार्थे ॥६७॥
हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम्
।
तथा च कृतवान्राजा यथोक्तं तेन भारत॥६८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अमात्यपरीक्षायां कालकवृक्षीयोपाख्याने द्व्यशीतितमोऽध्यायः॥८२॥
युधिष्ठिर उवाच।
सभासदः सहायाश्च सुहृदश्च विशाम्पते
।
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह॥१॥
सभासदः व्यवहारनिर्णायकाः । सहायाः युद्धादावुपगोगिनः । सुहृदो हितकर्तारः । परिच्छदाः सेनान्यादयः । अमात्याः मन्त्रिणः ॥१॥
भीष्म उवाच।
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः
।
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः॥२॥
क्रमेणैषां लक्षणान्याह- ह्रीति । कथयितुं न्यायान्यायौ वक्तम् ॥२॥
अमात्यांश्चातिशूरांश्च ब्राह्मणांश्च परिश्रुतान्
।
सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु॥३॥
अमात्यान् नित्यं सन्निहितान् शूराः पुरोहितादयश्च सहाया इत्यर्थः ॥३॥
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत
।
कुलीनः पूजितो नित्यं न हि शक्तिं निगृहति॥४॥
सुहृदमाह सार्धेन- कुलीन इति ॥४॥
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा
।
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम्॥५॥
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः
।
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः॥६॥
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः
।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः॥७॥
यावदार्द्रकपाणयः शुष्कहस्तास्तु सद्यो विक्रियन्ते इत्यर्थः ॥७॥
कुलीनान् शीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान्
।
देशकालविधानज्ञान् भर्तृकार्यहितैषिणः॥८॥
इङ्गितज्ञान्नेत्रवक्त्रदिचेष्टितज्ञान् ॥८॥
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः
।
अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः॥९॥
अर्थो धनं मानः उच्चस्थाने निवेशादिः अर्घो दिव्यवस्त्रताम्बूलादिदानम् । सत्कार आदरः यान्प्रियान्मन्येथास्तेऽर्थभाजः सुखभागिनश्च स्युः ॥९॥
यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः
।
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः
।
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः॥१०॥
त एवापदि अभिन्नवृत्ताः स्वामिना सह अनर्थभाजो दुःखभाजश्च स्युः । नित्यम् आपद्यनापदि चार्थयन्त इति नित्यार्थिनः ॥१०॥
अनार्या ये न जानन्ति समयं मन्दचेतसः
।
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः॥११॥
समयं धर्माधर्ममर्यादां जुगुप्सेथाः रक्षस्व ॥११॥
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः
।
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत्॥१२॥
अन्यतरग्रहो गणैकयोरेकतरस्य ग्रहणप्रसङ्गः एकश्चेद्गुणी तदा गणं त्यक्त्वा स एव ग्राह्यः अन्यथा गण एव ग्राह्य इति ॥१२॥
श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते
।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति॥१३॥
श्रेयसः साधोः ॥१३॥
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः
।
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्॥१४॥
अमानी सत्यवान्क्षान्तो जितात्मा मानसंयुतः
।
स मन्त्रसहायः स्यात् सर्वावस्थापरीक्षितः॥१५॥
कुलीनः कुलसम्पन्नस्तितिक्षुर्दक्ष आत्मवान्
।
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्॥१६॥
सत्यः सत्यवान् ॥१६॥
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
।
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि॥१७॥
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम्
।
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः॥१८॥
भूमिपः परीक्षेतेति योजना ॥१८॥
सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः
।
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः॥१९॥
अभिजातैः कुलीनैः अहार्यैः लञ्चादिना वाशीकर्तुमशक्यैः सम्बन्धिपुरुषैर्येषां सम्बन्धोऽस्ति तादृशैः ॥१९॥
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः
।
कर्तव्या भूतिकामेन पुरुषेण बुभूषता॥२०॥
यौना उत्तमयोनयः श्रौता वेदपथगाः मौलाः परम्परागताः अनहङ्कृता अगर्वाः कर्तव्या मन्त्रिण इति शेषः ॥२०॥
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना
।
तेजो, धैर्यं, क्षमा, शौचमनुरागः स्थितिर्धृतिः॥२१॥
प्रकृतिः पूर्वकर्मजः संस्कारः । शोभना सत्यार्जवादिमती तेजः पराभिभवसामर्थ्यम् । धैर्यं महत्यामप्यापदि चित्तस्यानवसादः । क्षमा महत्यप्यपकारे सहिष्णुत्वम् । शौचं बाह्यमान्तरं च निष्कापट्यम् । अनुरागः स्वामिनि प्रीतिः । स्थितिः अव्यभिचारिता । धृतिः धारणसामर्थ्यम् ॥२१॥
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान्
।
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः॥२२॥
पञ्च मन्त्रिण इति तृतीयेनान्वयः । उपधा च्छलं तत् व्यतीतान् ॥२२॥
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्
।
कुलीनान्सत्त्वसम्पन्नानिङ्गितज्ञाननिष्ठुरान्॥२३॥
पर्याप्तं कृत्स्नस्य विवित्सितस्यार्थस्य निर्वाहकं वचनं येषां तान् ॥२३॥
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः
।
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः॥२४॥
हीनतेजोऽभिसंसृष्टो नैव जातु व्यवस्यति
।
अवश्यं जनयत्येव सर्वकर्मसु संशयम्॥२५॥
वर्ज्यानाह- हीनेत्यादिना । हीनतेजसा मित्रेणाभिसंसृष्टः सम्बद्धः न व्यवस्यति न कर्तव्याकर्तव्ये निश्चिनोति ॥२५॥
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत
।
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम्॥२६॥
बहुगुणयुक्तोऽपि किञ्चिद्दोषयुक्तस्त्याज्य इत्याह- एवमिति ॥२६॥
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः
।
अनायक इवाचक्षुर्मुह्यत्यणुषु कर्मसु॥२७॥
अणुषु सूक्ष्मषु ॥२७॥
यो वाप्यस्थिरसंकल्पो बुद्धिमानागतागमः
।
उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम्॥२८॥
प्रापयितुं समापयितुम् ॥२८॥
केवलात्पुनरादानात्कर्मणो नोपपद्यते
।
परामर्शो विशेषाणामश्रुतस्येह दुर्मतेः॥२९॥
केवलादिति । आरम्भूशूरोऽपि मूर्खः कर्मणः फलविशेषान् ज्ञातुं न शक्नोतीत्यर्थः ॥२९॥
मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते
।
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्॥३०॥
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः
।
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव दुमम्॥३१॥
संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति
।
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति॥३२॥
अनुरक्तलक्षणमाह त्रिभिः- संक्रुद्ध इति । संक्रुद्धः स्वामी कदाचिदाश्वासितमपि अधिकारच्युतं करोति कदाचित्परुषमुक्त्वाऽप्यनुगृह्णाति तच्चानुरक्तेनापि मन्त्रिणा सोढुमशक्यं मन्त्रिकोपश्च वज्रपाततुल्योऽतो नित्यं राजाहितार्थी यस्तानि सोढुं शक्नुयात्स एवानुरक्तस्तमेव राजा पृच्छेदित्यर्थः ॥३२॥
तानि तान्यनुरक्तेन शक्यानि हि तितिक्षितुम्
।
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः॥३३॥
यस्तु संसहते तानि भर्तुः प्रियचिकीर्षया
।
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्॥३४॥
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः
।
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति॥३५॥
योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते
।
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति॥३६॥
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः
।
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति॥३७॥
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः
।
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति॥३८॥
आगन्तुर्नूतनः सोऽप्यविश्वास्य इत्यर्थः ॥३८॥
विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा
।
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति॥३९॥
विधर्मतः अन्यायेन ॥३९॥
यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत्
।
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति॥४०॥
आक्षारितो धनग्रहणेन रिक्तः कृतः ॥४०॥
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः
।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति॥४१॥
उपादेयानाह- सर्वेति । जानपदः स्वदेशजः ॥४१॥
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः
।
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति॥४२॥
परस्य शत्रोः आत्मनः च प्रकृतीः स्वाम्यमात्यादिकाः जानातीति प्रकृतिज्ञः ॥४२॥
सत्यवाक् शीलसम्पन्नो गम्भीरः सत्रपो मृदुः
।
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति॥४३॥
गम्भीरो मन्त्रगोपनसमर्थः ॥४३॥
संतुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः
।
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति॥४४॥
शौटीरः प्रगल्भः द्वेष्यवत् हेयं पापं यस्य स द्वेष्यपापकः ॥४४॥
सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशे
।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप॥४५॥
आधित्सता आधातुमिच्छता ॥४५॥
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः
।
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति॥४६॥
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः
।
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः॥४७॥
पञ्चानामभावे त्र्यवरास्त्रिभ्यो न्यूना न कार्याः ॥४७॥
स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च
।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते॥४८॥
प्रकृतिषु स्वाम्यमात्यादिषु मन्त्रिणां छिद्रम् अयथोक्तकारित्वाभावेन परस्यावसरदानम् ॥४८॥
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
।
गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः॥४९॥
रक्षेत् गोपयेत् पिदध्यात् विवरं छिद्रम् ॥४९॥
मन्त्रगूढा हि राज्यस्य मन्त्रिणो ये मनीषिणः
।
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः॥५०॥
मन्त्रो गूढो येषां ते मन्त्रसंहननो मन्त्रकवचः इतरे शूरजनादयः ॥५०॥
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
।
स्वामिनस्त्वनुवर्तन्ते वृत्त्यर्थमिह मन्त्रिणः॥५१॥
स्वामिनो मन्त्रिणश्च मदादिरहिताः सन्तो यद्यन्योन्यमनुवर्तन्ते तर्हि निर्वृताः सुखिनो भवन्तीत्यर्थः ॥५१॥
संविनीय मदक्रोधौ मानमर्ष्यां च निवृताः
।
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः॥५२॥
नित्यमित्यर्धः । उपधाः छलानि तानि पञ्च तेषु केवलं वाचिकी द्रोणवधे इतोऽश्वत्थामा कुञ्जर इत्युक्तिर्युधिष्ठिरस्य मनसि च्छलाभावात् । भीमस्य तु तत्रैव कायिकी वाचिकी च । केवलं मानसिकी पाण्डवेषु धृतराष्ट्रस्य वाचिक्या अभावात् । तत्रैव धार्तराष्ट्राणां कायवाङ्मनोभवा जतुगृहे । सौतिकेऽश्वत्थाम्नः कायिकीति पञ्चविधा उपधा तामतीतैः ॥५२॥
तेषां त्रयाणां विविधं विमर्शं विबुद्ध्य चित्तं विनिवेश्य तत्र
।
स्वनिश्चयं तत्प्रतिनिश्चयज्ञं निवेदयेदुत्तरमन्त्रकाले॥५३॥
तेषामिति । त्रयाणां त्रीणि मतानि स्वनिश्चयं चावधार्य निश्चयज्ञं गुरुं प्रति तन्मतचतुष्टयं निवेदयेदिति द्वयोः सम्बन्धः ॥५३॥
धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तरार्थम्
।
निष्ठा कृता तेन यदा सहः स्यात्तं मन्त्रमार्गं प्रणयेदसक्तः॥५४॥
तेन गुरुणापि चतुर्भिः सह ऊहापोहपूर्वकं यदा निष्ठा सिद्धान्तः कृतो भवेत् सोऽपि यदा सहः स्यात्सर्वेषामैकमत्येन स्यात्तदा तं मन्त्रं प्रणयेत् कार्ये नियोजयेत् ॥५४॥
एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
।
तस्मात्तमेवं प्रणयेत्सदैव मन्त्रं प्रजासंग्रहणे समर्थम्॥५५॥
न वामनाः कुब्जकृशा न खञ्जा नान्धो जडः स्त्री च नपुंसकं च
।
न चात्र तिर्यक्च पुरो न पश्चानोर्ध्वं न चाधः प्रचरेत्कथंचित्॥५६॥
अत्र मन्त्रस्थाने ॥५६॥
आरुह्य वा वेश्म तथैव शून्यं स्थलं प्रकाशं कुशकाशहीनम्
।
वागङ्गदोषान्परिहृत्य सर्वान् सम्मन्त्रयेत्कार्यमहीनकालम्॥५७॥
वाग्दोष उच्चैर्भाषणादिः अङ्गदोषो नेत्रवक्त्रविकारादिः तेनान्यं नाधिक्षिपेदित्यर्थः ॥५७॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सभ्यादिलक्षणकथने त्र्यशीतितमोऽध्यायः॥८३॥
युधिष्ठिर उवाच।
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः
।
प्रीतिं धर्मविशेषेण कीर्तिमाप्नोति शाश्वतीम्॥१॥
कथमिति । प्रीतिं स्वर्गम् ॥१॥
भीष्म उवाच।
व्यवहारेण शुद्धेन प्रजापालनतत्परः
।
प्राप्य धर्मं च कीर्तिं च लोकानाप्नोत्युभौ शुचिः॥२॥
व्यवहारेण एकस्मिन्गृहक्षेत्रादौ विषये ममेदमिति द्वयोर्विवदतोर्मध्येऽयं सत्योऽयमनृत इति विवेको व्यवहारः । तेन शुद्धेन पक्षपातहीनेन ॥२॥
युधिष्ठिर उवाच।
कीदृशैर्व्यवहारैस्तु कैश्च व्यवहरेन्नृपः
।
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि॥३॥
कीदृशैः किंस्वरूपैः कैर्व्यवहारनिर्णायकैः व्यवहरेत् निर्णयं कुर्यात् ॥३॥
ये चैव पूर्वं कथिता गुणास्ते पुरुषं प्रति
।
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः॥४॥
भीष्म उवाच।
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्
।
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः॥५॥
किंतु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम्
।
वक्ष्यामि तु यथाऽमात्यान् यादृशांश्च करिष्यसि॥६॥
चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् स्नातकाञ्शुचीन्
।
क्षत्रियांश्च तथा चाष्टौ बलिनः शस्त्रपाणिनः॥७॥
वैश्यान्वित्तेन सम्पन्नानेकविंशतिसंख्यया
।
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके॥८॥
पूर्वके नित्ये ॥८॥
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा
।
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्॥९॥
अष्टाभिर्गुणैः । शुश्रूषा श्रवणं ग्रहणं धारणमूहनमपोहनं विज्ञानं तत्त्वज्ञानं चेति तैः । पञ्चाशद्वर्षत्रयसमित्येकैकस्य विशेषणम् ॥९॥
श्रुति-स्मृतिसमायुक्तं विनीतं समदर्शिनम्
।
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्॥१०॥
वर्जितं चैव व्यसनैः सुघोरैः सप्तभि शम्
।
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्॥११॥
सप्तभिः मृगयाक्षाः स्त्रियः पानमिति चतुर्भिः कामजैः दण्डपातनं वाक्पारुष्यम् अर्थदूषणमिति त्रिभिः क्रोधजैरिति सप्तभिः अष्टानां ब्राह्मणचतुष्टयं शूद्रत्रयं सूतश्चेति तेषाम् ॥११॥
ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत्
।
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजा: सदा॥१२॥
ते त्वया द्रष्टव्याः ॥१२॥
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्
।
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीदयेत्॥१३॥
गूढं न्यासापहारादिकं ते त्वया न ग्राह्यम् । अन्योन्यं विवदमानौ द्रव्ये परस्परसम्बन्धं दूषयतस्तथा च उभयोरसम्बन्धाद्राजकीयमिदमिति बुद्धिं न कारयेदित्यर्थः सार्धः ॥१३॥
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव
।
परिस्नवेच्च सततं नौर्विशीर्णेव सागरे॥१४॥
परिस्रवेत् मन्दं मन्दमन्यत्र गच्छेत् ॥१४॥
प्रजाः पालयतो सभ्यगधर्मेणेह भूपतेः
।
हार्दं भयं सम्भवति स्वर्गश्चास्य विरुद्ध्यते॥१५॥
अथ यो धर्मतः पाति राजामात्योऽथ वाऽऽत्मजः
।
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ॥१६॥
अधर्मत इति च्छेदः । धर्ममूले राज्ये ॥१६॥
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः
।
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः॥१७॥
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्
।
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्॥१८॥
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्
।
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः॥१९॥
ततः साक्षीति । यतोऽपरीक्षायां सामात्यस्य राज्ञोऽधोगतिस्ताते हेतोस्तत् व्यवहारजातं परीक्ष्यम् । तथाहि। अर्थिना ममायं शतं सुवर्णान्धारयतीति पक्षे उपन्यस्ते यदि प्रत्यर्थी धारयामीति वदेत्तदा न साक्ष्यादिप्रयोजनमस्ति यदि त्वसौ न धारयामीति वदति तदा द्वैधवादकृतम् अन्योन्यं विरुद्धो य उभयोर्वादस्तत्र कृतं साक्षिबलं साधु भवेत् निर्णायकमिति शेषः । तत्र अर्थिना प्रत्यर्थिनि स्वार्थसाधनाय साक्षिपत्रं शपथो वा आस्थेयः । क्षेत्रादिविषये विवादश्चेद्भोगोऽपि प्रदर्शनीयः । यदा तु प्रत्यर्थी वदति सत्यमस्य मया गृहीतं परन्तु प्रत्यर्पितमिति वा अस्मिन्नर्थे पूर्वमेवायं मया पराजितोऽस्ति पुनर्निर्लज्जत्वादुपागत इति वा वदति तदा प्रत्यर्पणकालीना अर्थिपराजयकालीना वा साक्ष्यादयः प्रदर्शनीयाः । यद्यर्थिनः प्रत्यर्थिनो वा साक्ष्यादिकं नास्ति शपथं वा परो नानुमन्यते तदा तद्विवादास्पदं द्रव्यमसाक्षिकत्वादनाथं निःस्वामिकं भवति अर्थी च तन्न मुञ्चति तदा विशेषतस्तप्तपरशुग्रहणादिना तत्परीक्ष्यमिति ॥१९॥
अपराधानुरूपं च दण्डं पापेषु धारयेत्
।
वियोजयेद्धनैर्ऋदानधनानथ बन्धनैः॥२०॥
परीक्षोत्तरमपि किं कार्यमत आह- अपराधेति ॥२०॥
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः
।
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्॥२१॥
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्
।
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च॥२२॥
चित्रोऽनेकधा आदीपकस्य गृहादिदाहकस्य चित्र इति सर्वत्रानुकृष्यते ॥२२॥
सम्यक् प्रणयतो दण्डं भूमिपस्य विशाम्पते
।
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः॥२३॥
युक्तस्य यथाशास्त्रमवहितस्य चित्रवधं कुर्वतोऽपि राज्ञो दोषो नास्ति प्रत्युत धर्म एवास्तीत्यर्थः ॥२३॥
कामकारेण दण्डं तु यः कुर्यादविचक्षणः
।
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति॥२४॥
न परस्य प्रवादेन परेषां दण्डमर्पयेत्
।
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा॥२५॥
नेति । पितुरपराधे पुत्रो न दण्ड्यः अपि तु आगमानुगमः कार्यः त्वं स्वपितरं पत्रादिद्वारा आनीयोपस्थापयेति तदुपरि पित्रागमनस्य पर्यनुयोगः कार्यः तावत्पर्यन्तं पुत्रं बध्नीयात् यदि तु स बद्धेऽपि पुत्रे नायाति तदा पुत्रमपि मोक्षयेत् । पितुः राष्ट्रान्निर्वासनरूपस्य दण्डस्य तेन स्वत एव सम्पादितत्वादिति भावः ॥२५॥
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि
।
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह॥२६॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः
।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः॥२७॥
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः
।
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः॥२८॥
एतैरेव गुणैर्युक्तः प्रतिहारोऽस्य रक्षिता
।
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः॥२९॥
प्रतीहारोद्वारपालः शिरोरक्षः शिरांसीव शिरांसि दुर्गनगरादीनि प्रधानस्थानानि तद्रक्षणकर्ता ॥२९॥
धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्
।
मतिमान्धृतिमान् ह्रीमान् रहस्यविनिगूहिता॥३०॥
कुलीनः सत्त्वसम्पन्नः शुक्लोऽमात्यः प्रशस्यते
।
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्॥३१॥
एतैः धर्मेत्यादिभिरमात्यगुणैः ॥३१॥
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः
।
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्॥३२॥
सेनापतेर्विशेषगुणानाह- व्यूहेति । व्यूहः सेनायाः निवेशनप्रकारविशेषः । यन्त्राणि धनुरादीनि आयुधानि खड्गादीनि ॥३२॥
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित्
।
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते॥३३॥
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ
।
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि अमात्यविभागे पञ्चाशीतितमोऽध्यायः॥८५॥
युधिष्ठिर उवाच।
कथंविधं पुरं राजा स्वयमावस्तुमर्हति
।
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह॥१॥
कथंविधमिति ॥१॥
भीष्म उवाच।
वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना
।
न्याय्यं तत्र परिप्रष्टुं वृत्तिं गुप्तिं च भारत॥२॥
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः
।
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः॥३॥
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्
।
सर्वसम्पत्प्रधानं यद्बाहुल्यं चापि सम्भवेत्॥४॥
अथ दुर्गाणामाश्रयेण पुराणि महानगराणि निवेशयेत् ॥४॥
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च
।
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गं च तानि षट्॥५॥
धन्वा निर्जलदेशः तदेव परितश्च दुर्गं धन्वदुर्गं महीदुर्गं कोटः ॥५॥
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम्
।
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्॥६॥
दुर्गेण मही दुर्गेण सम्पन्नम् अत एव दृढप्राकारपरिखम् ॥६॥
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः
।
धार्मिकश्च जनो यत्र दाक्ष्य उत्तममास्थितः॥७॥
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्
।
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्॥८॥
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्
।
शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम्॥९॥
सानुनादं गीतवादित्रध्वनिमत् ॥९॥
समाजोत्सवसम्पन्नं सदा पूजितदैवतम्
।
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्॥१०॥
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्
।
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत्॥११॥
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्
।
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रायुधालयान्॥१२॥
निचयान् धान्यादिसंग्रहान् ॥१२॥
काष्ठ-लोह-तुषाङ्गार-दारु-शृङ्गास्थि-वैणवान्
।
मज्जा-स्नेह-वसा-क्षौद्रमौषधग्राममेव च॥१३॥
शणं सर्जरसं धान्यमायुधानि शरांस्तथा
।
चर्म स्नायुं तथा वेत्रं मुञ्जबल्वजबन्धनान्॥१४॥
दन्ध्वनान् ध्वनिमतो निःसाणादीन् बन्धनानिति पाठान्तरे स्पष्टोऽर्थः ॥१४॥
आशयाश्चोदपानाश्च प्रभूतसलिलाकराः
।
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः॥१५॥
आशया निपानानि उदपानाः कूपाः निरोद्धव्या रक्षणीयाः ॥१५॥
सत्कृताश्च प्रयत्नेन आचार्यरत्वुक्पुरोहिताः
।
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः॥१६॥
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः
।
कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु॥१७॥
प्रज्ञा-ग्रन्थार्थग्रहणसामर्थ्यं मेघा ऊहापोहकौशलम् ॥१७॥
पूजयेद्धार्मिकान् राजा निगृह्णीयादधार्मिकान्
।
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान् स्वकर्मसु॥१८॥
बाह्ममाभ्यन्तरं चैव पौरजानपदं तथा
।
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्॥१९॥
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः
।
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्॥२०॥
अनुतिष्ठेत् आलोचयेत् ॥२०॥
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्
।
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा॥२१॥
ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः
।
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता॥२२॥
विधातव्यं प्रतिकर्तव्यम् ॥२२॥
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया
।
प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम्॥२३॥
कृपणानाथवृद्धानां विधवानां च योषिताम्
।
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्॥२४॥
आश्रमेषु यथाकालं चैलभाजनभोजनम्
।
सदैवोपहरेद्राजा सत्कृत्याभ्यर्च्य मान्य च॥२५॥
आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च
।
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा॥२६॥
तापसे तपस्विजने ॥२६॥
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्
।
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः॥२७॥
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि
।
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः॥२८॥
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च
।
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्॥२९॥
निधीन् धनभाण्डानि अभीक्ष्णं न सेवेत दस्यूनां तत्सूचने तपस्विनाशापत्तेः न प्रतिपूजयेच्च ॥२९॥
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः
।
अटवीषु परः कार्यः सामन्तनगरेष्वपि॥३०॥
अन्यस्तापसः कार्यः सखित्वेन सम्पादनीयः ॥३०॥
तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत्
।
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा॥३१॥
तेषु तत्तत्स्थानस्थेषु तापसेषु ॥३१॥
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने
।
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः॥३२॥
एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः
।
यादृशे नगरे राजा स्वयमावस्तुमर्हति॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि दुर्गपरीक्षायां षडशीतितमोऽध्यायः॥८६॥
युधिष्ठिर उवाच।
राष्ट्रगुप्तिं च मे राजन् राष्ट्रस्यैव तु संग्रहम्
।
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥१॥
राष्ट्रस्य गुप्तिः परिपालनं कथं कर्तव्यमिति पृच्छति नगरगुप्तिश्रवणानन्तरं तस्या बुद्धिस्थाया उपस्थानात् राष्ट्रेति ॥१॥
भीष्म उवाच।
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु संग्रहम्
।
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु॥२॥
ग्रामस्याधिपतिः कार्यो दशग्राम्यास्तथा परः
।
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्॥३॥
दशानां ग्रामाणां समाहारो दशग्रामी तस्याः दशग्राम्याः । द्विगुणायाः विंशतिग्राम्याः शतस्य सहस्रस्य चाधिपतिं कारयेत् ॥३॥
ग्रामे यान् ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत्
।
तान् ब्रूयाद्दशपायासौ स तु विंशतिपाय वै॥४॥
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने
।
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्॥५॥
यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्रियात्
।
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः॥६॥
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः
।
महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्॥७॥
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत
।
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः॥८॥
तत्र राष्ट्रे शताधिपतिभोग्यं ग्रामम् अनेकपायत्तं भवति क्लीबत्वमार्षं सार्धः । अन्यथा तस्य तदायत्तत्वे धनलोभात्स कृत्स्नं ग्रामं पीडयेदिति भावः । सहस्रपतिः शाखानगरं तत्रत्यधान्यहैरण्यसंबन्धी यो भोगो धनं तेन स्वस्य वेतनेन भोक्तुं पालयितुमर्हः तत्र क्षत्रियाणामभावाद्वैश्येभ्यो यः कर आयाति तदेव तस्य वेतनमित्यर्थः ॥८॥
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसङ्गतः
।
तेषां संग्रामकृत्यं स्याद्ग्रामकृत्यं च तेषु यत्॥९॥
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः
।
नगरे नगरे वा स्यादेकः सर्वार्थचिन्तकः॥१०॥
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः
।
भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः॥११॥
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः
।
जिघांसवः पापकामाः परस्वादायिनः शठाः॥१२॥
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः
।
विक्रयं क्रयमध्वानं भक्तं च सपरिच्छदम्॥१३॥
योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत्करान्
।
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत्॥१४॥
कारयेत् दापयेत् ॥१४॥
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्
।
उच्चावचकरा दाप्या महाराज्ञा युधिष्ठिर॥१५॥
यथा यथा न सीदेरंस्तथा कुर्यान्महीपतिः
।
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत्॥१६॥
फलं धान्यधनवृद्ध्यनुरूपः करः कल्प्य इत्यर्थः ॥१६॥
फलं कर्म च निर्हेतु न कश्चित् सम्प्रवर्तते
।
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ॥१७॥
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः
।
नोच्छिन्द्यादात्मानो मूलं परेषां चापि तृष्णया॥१८॥
आत्मनो मूलं राष्ट्रं परेषां मूलं कृष्यादि ॥१८॥
ईहाद्वाराणि संरुध्य राजा सम्प्रीतदर्शनः
।
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्॥१९॥
ईहा लोमः अतिखादिनं बहुभक्षम् ॥१९॥
प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम्
।
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना॥२०॥
भृतो वत्सो जातबलः पीडां सहति भारत
।
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर॥२१॥
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्
।
यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः॥२२॥
संजातमुपजीवन्स लभते सुमहत्फलम्
।
आपदर्थं च निर्यातं धनं त्विह विवर्धयेत्॥२३॥
निर्यातं दत्तम् इह राष्ट्रे ॥२३॥
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा
।
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा
।
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि॥२४॥
संश्रिताः साक्षादाश्रिताः उपाश्रिताः व्यवहिताः ॥२४॥
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्
।
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः॥२५॥
बाह्यमिति । आटविको दस्युसंघो बाह्यजनस्तं यूयमुपातिष्ठध्वमिति भेदयित्वा मध्यमो ग्रामीणजनो भोक्तव्यस्ततो बहुलं धनमादद्यादित्यर्थः ॥२५॥
प्रागेव तु धनादानमनुभाष्य ततः पुनः
।
संनिपत्य स्वविषये भयं राष्ट्र प्रदर्शयेत्॥२६॥
तत्र प्रकारमाह- प्रागिति । चोरनिग्रहार्थं कटकबन्धः कर्तव्यस्तदर्थं धनमपेक्षितमिति पूर्वमेव आभाष्य सूचनां कृत्वा ततः सन्निपत्य तेषु तेषु ग्रामेषु गत्वा भयं दर्शयेत् ॥२६॥
इयमापत्समुत्पन्ना परचक्रभयं महत्
।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः॥२७॥
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह
।
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्॥२८॥
आत्मवधायेति प्रजासु स्वसामर्थ्यं द्योत्यते ॥२८॥
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये
।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः॥२९॥
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये
।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः॥३०॥
कलत्रमादितः कृत्वा सर्वं वो विनशेदिति
।
अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते॥३१॥
नन्दामि वः प्रभावेण पुत्राणामिव चोदये
।
यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः॥३२॥
आपत्स्वेव च वोढव्यं भवद्भिः पुङ्गवैरिव
।
न च प्रियतरं कार्यं धनं कस्याञ्चिदापदि॥३३॥
पुङ्गवैर्बलीवर्दैः न च प्रियमित्यादिसार्धः । एवं चालेख्येन सुशिक्षितान्मुक्तांश्च स्वरश्मीन्स्वस्य रश्मिभूतान् पदातीन् अधिकारिणः प्रजासु धनमुद्ग्रहीतुम् अभ्यवसृजेत्प्रेरयेत् योगं धनग्रहणोपायम् आधाय प्रजासु प्रयोज्य धनं गृह्णीयादिति शेषः ॥३३॥
इति वाचा मधुरया श्लक्ष्णया सोपचारया
।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित्॥३४॥
प्राकारं भृत्यभरणं व्ययं संग्रामतोभयम्
।
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करम्॥३५॥
गोमिनः वैश्यान् भाषायां 'चारणा' इति प्रसिद्धान् प्राकारादीन्कर्तव्यान्प्रेक्ष्य संदर्शयित्वा । इदं कार्यमुपस्थितमत्यावश्यकमित्युक्त्वा करं कारयेत् ॥३५॥
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः
।
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्॥३६॥
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः
।
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च॥३७॥
अजस्रमुपयोक्तव्यं फलं गोमिषु भारत
।
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा॥३८॥
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः
।
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून्॥३९॥
सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु
।
न ह्यतः सदृशं किंचिद्वरमस्ति युधिष्ठिर॥४०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मपर्वणि राष्ट्रगुप्त्यादिकथने सप्ताशीतितमोऽध्यायः॥८७॥
युधिष्ठिर उवाच।
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते
।
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह॥१॥
यदेति ॥१॥
भीष्म उवाच।
यथादेशं यथाकालं यथाबुद्धि यथाबलम्
।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः॥२॥
यथा तासां च मन्येत श्रेय आत्मन एव च
।
तथा कर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत्॥३॥
मधुदोहं दुहेद्राष्ट्रं भ्रमरा इव पादपम्
।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्॥४॥
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः
।
व्याघ्रीव च हरेत्पुत्रान्संदशेन्न च पीडयेत्॥५॥
यथा शल्यकवानाखुः पदं धूनयते सदा
।
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत्॥६॥
शल्यकवान् तीक्ष्णतुण्ड आखुविशेषः स हि निद्रितस्य मनुष्यस्य पादतलस्थं मांसम् अतीक्ष्णेनैवोपायेन भक्षयति । शयानस्तु ईषद्वेदनया परं किञ्चिद्धूनयते कंपयते न तु तीव्रवेदनया प्रबुद्ध्यन् आखुं निवारयति तद्वद्राष्टं समापिबेत् ॥६॥
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्
।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत्॥७॥
प्रत्यब्दं शततमेनाधिकेन वांशेन वर्धमानं करं प्रदापयन् ग्रामद्रव्यस्य वृद्धिं कुर्यादित्याह- अल्पेनेति ॥७॥
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत्
।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्॥८॥
दम्यानि वत्सतरकुलानि यथाक्रमेण दमयेत्तद्वत्प्रजा अपीत्याह- दमयन्निवेति । अभ्यवहारयेत् ग्राहयेत् ॥८॥
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः
।
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः॥९॥
सकृत्सद्यः पाशावकीर्णाः सन्तो न भविष्यन्ति मरिष्यन्ति यतो दुर्दमाः अत उचितेन क्रमेण ते भोक्तव्याः दम्याः प्रजाश्च ॥९॥
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति
।
यथा मुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः॥१०॥
पुरुषं प्रतीत्यस्य प्रतिपुरुषमित्यर्थः ॥१०॥
ततस्तान् भेदयित्वा तु परस्परविवक्षितान्
।
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः॥११॥
ततो मुख्यद्वारा तान् इतरान् विवक्षितान्वोढुमिष्टान् ॥११॥
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत्
।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि॥१२॥
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता
।
अनुपायेन दमयन्प्रकोपयति वाजिनः॥१३॥
पानागारनिवेशाश्च वेश्याः प्रापणिकास्तथा
।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः॥१४॥
मद्यशालाः संदेशहराः कुट्टन्यः कुत्सितेन शीलेन वान्ति गच्छन्ति धर्म हिंसन्ति वा कुशीलवा विटाः कितवा द्यूतकाराश्च निग्राह्या इत्याह- पानेति ॥१४॥
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः
।
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः॥१५॥
भद्रिकाः कल्याण्यः ॥१५॥
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि
।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता॥१६॥
याचितव्यः दत्तमृणं करं वेति शेषः ॥१६॥
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह
।
सर्व एव इमे लोका न भवेयुरसंशयम्॥१७॥
अनुजीवेयुरनुसरेयुः अन्यथा दोषमाह- नेति ॥१७॥
प्रभुर्नियमने राजा य एतान्न नियच्छति
।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः॥१८॥
भोक्ता तस्य तु पापस्य सुकृतस्य यथा तथा
।
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप॥१९॥
कृतपापस्त्वसौ राजा य एतान्न नियच्छति
।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते॥२०॥
तथा नियच्छन्निति शेषः ॥२०॥
स्थानान्येतानि संयम्य प्रसंगो भूतिनाशनः
।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥२१॥
स्थानानि मद्यादीनां वक्ष्यमाणानां किमकार्यं विवर्जयेत् अपि तु सर्वमकार्यं कुर्यादेव ॥२१॥
मद्यमांसपरस्वानि तथा दारा धनानि च
।
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत्॥२२॥
अकार्यमेवाह- मद्येति । शास्त्रम् आज्ञां प्रदर्शयेत्प्रवर्तयेत् ॥२२॥
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः
।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु॥२३॥
आपद्येव न तु शाठ्यादिनाऽनापद्यपि ॥२३॥
मा ते राष्ट्रे याचनकाऽभूवन्मा चापि दस्यवः
।
एषां दातार एवैते नैते भूतस्य भावकाः॥२४॥
दातार आच्छेत्तारः ॥२४॥
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः
।
ते ते राष्ट्रेषु वर्तन्तां मा भूतानामभावकाः॥२५॥
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः
।
प्रयोगं कारयेयुस्तान् यथाबलिकरांस्तथा॥२६॥
धनेत्याधिकधनग्रहणं प्रयोजयन्तोऽधिकारिणो दण्ड्याः अन्ये च अधिकारिणस्तान् यथावद्बलिकरानुद्दिश्य प्रयोगं कारयेयुः ॥२६॥
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्
।
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः॥२७॥
बहुभिः कारयेदन्यथा कर्मभेदतः कर्मणो भेदो नाशः स्यादित्यर्थः ॥२७॥
नरश्चेत्कृषिगोरक्ष्यवाणिज्यं चाप्यनुष्ठितः
।
संशयं लभते किंचित्तेन राजा विगर्ह्यते॥२८॥
संशयं चोरेभ्यो राजकीयेभ्यो वा भयात् ॥२८॥
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः
।
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै॥२९॥
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत
।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः॥३०॥
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च
।
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति॥३१॥
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव
।
सत्यमार्जवमक्रोधमानृशस्यं च पालय॥३२॥
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि
।
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मपर्वणि कोशसञ्चयप्रकारकथने अष्टाशीतितमोऽध्यायः॥८८॥
भीष्म उवाच।
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः
।
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत॥१॥
स यथाऽनुशशासैनमुतथ्यो ब्रह्मवित्तमः
।
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर॥२॥
उतथ्य उवाच
।
धर्माय राजा भवति न कामकरणाय तु
।
मान्धातरिति जानीहि राजा लोकस्य रक्षिता॥३॥
राजा चरति चेद्धर्मं देवत्वायैव कल्पते
।
स चेदधर्मं चरति नरकायैव गच्छति॥४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
।
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः॥५॥
राजा परमधर्मात्मा लक्ष्मीवान्धर्म उच्यते
।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते॥६॥
एवं स्वाम्यादिप्रकृतिषट्कं निरूप्य प्रकीर्णकान् धर्मान्वक्तुम् उतथ्यमान्धातृसंवादं वामदेवगीतां चारभते यानं गिरा इत्यादिना अध्यायपञ्चकेन । अङ्गिराः आङ्गिरसः देवा इति । यदा पापो न वार्यते तदा दैवतनिन्दादयो दोषाः प्रवर्तन्त इति सार्धत्रयम् ॥६॥
स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते
।
तदेव मङ्गलं लोकः सर्वः समनुवर्तते॥७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्
।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते॥८॥
ममेदमिति नैवैतत्साधूनां तात धर्मतः
।
न वै व्यवस्था भवति यदा पापो न वार्यते॥९॥
नैव भार्या न पशवो न क्षेत्रं न निवेशनम्
।
संदृश्येत मनुष्याणां यदा पापबलं भवेत्॥१०॥
देवा: पूजां न जानन्ति न स्वधां पितरस्तदा
।
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते॥११॥
न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः
।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते॥१२॥
वृद्धानां शस्त्रेण छिन्नदेहानाम् ॥१२॥
वृद्धानामिव सत्त्वानां मनो भवति विह्वलम्
।
मनुष्याणां महाराज यदा पापो न वार्यते॥१३॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्
।
असृजन्सुमहद्भूतमयं धर्मो भविष्यति
।
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते॥१४॥
धर्मो धर्मपालः ॥१४॥
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः
।
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्
।
वृषं तं विदुर्देवास्तस्माद्धर्मं विवर्धयेत्॥१५॥
अलं वारणं छेदनमिति यावत् । तेन वृषं लुनाति छिनत्तीति वृषल इति योगो दर्शितः ॥१५॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा
।
तस्मिन् ह्रसति ह्रीयन्ते तस्माद्धर्मं न लोपयेत्॥१६॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः
।
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः॥१७॥
धर्मपदस्य द्वेधा व्युत्पत्तिमाह- धनादिति। धनवाची नान्तो धनशब्दः अर्तेर्गत्यर्थान्मक्प्रत्यये ततो नलोपगुणौ धनादि स्रवतीति धर्म इत्यर्थः । धनादिति पञ्चमी तु धनं प्रापयितुं स्रवति द्रवति कृपायत इति ल्यब्लोपे ज्ञेया धारणाद्वा धर्मः । धृञो मन्प्रत्ययः सीमान्तकरः यावत्पापं तावद्यातनाकर इत्यर्थः ॥१७॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा
।
तस्मात्प्रवर्तयेद्धर्मं प्रजानुग्रहकारणात्॥१८॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः
।
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभ॥१९॥
कामक्रोधावनादृत्य धर्ममेवानुपालय
।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम॥२०॥
धर्मस्य ब्राह्मणो योनिस्तस्मात्तान्पूजयेत्सदा
।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी॥२१॥
तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्
।
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि॥२२॥
अमित्रीभवन्ति वर्धन्ते ॥२२॥
ब्राह्मणानां सदाऽसूयाद्बाल्याद्वैरोचनो बलिः
।
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी॥२३॥
असूयात् असूयातः लिङ्गव्यत्यय आर्षः असूयया अतति सततं वर्तत इति वा असूयात् ॥२३॥
ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम्
।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे॥२४॥
एतत्फलमसूयाया अभिमानस्य वा विभो
।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी॥२५॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः
।
तेन देवासुरा राजन्नीताः सुबहवो व्ययम्॥२६॥
अधर्मादिति च्छेदः ॥२६॥
राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव
।
राजा भवति तं जित्वा दासस्तेन पराजितः॥२७॥
तं दर्पम् ॥२७॥
स यथा दर्पसहितमधर्मं नानुसेवते
।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि॥२८॥
मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः
।
तदभ्यासादुपावर्त संहितानां च सेवनात्॥२९॥
पौगण्डात् बालकात् अज्ञादित्यर्थः पाषण्डादिति मुख्यः पाठः । मत्तादिभ्य उपावर्त परावृतिं भज तदभ्यासात्तैः सह परिचयात् संहितानां मिलितानां च तेषां सेवनाच्च सुतरामुपावर्तेत्यर्थः ॥२९॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्॥३०॥
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्
।
अत्यागं चाभिमानं च दम्भं क्रोधं च वर्जयेत्॥३१॥
अत्यागं बद्धमुष्टिताम् ॥३१॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः॥३२॥
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्
।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः॥३३॥
अपुमांसः क्लीबाः स्थूलजिह्वा मूकाः ॥३३॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
।
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते॥३४॥
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्
।
अधर्माः सम्प्रवर्धन्ते प्रजासंकरकारकाः॥३५॥
अशीते विद्यते शीतं शीते शीतं न विद्यते
।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः॥३६॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते
।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः॥३७॥
नक्षत्राणि धूमकेत्वादयः ॥३७॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति
।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति॥३८॥
द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे
।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम्॥३९॥
एकस्य धनं द्वौ आददाते आच्छिद्य गृह्णीतः ॥३९॥
ममेदमिति नैकस्य मनुष्येष्ववतिष्ठति
।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति॥४०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि उतथ्यगीतासु नवतितमोऽध्यायः॥९०॥
उतथ्य उवाच
।
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
।
सम्पद्यदेषा भवति सा बिभर्ति सुखं प्रजाः॥१॥
कालेति ॥१॥
यो न जानाति हर्तुं वा वस्त्राणां रजको मलम्
।
रक्तानां वा शोधयितुं यथा नास्ति तथैव सः॥२॥
वस्त्राणां शुक्लानां शोधयितुं रङ्गमविचाल्य मलमात्रं दूरीकर्तुम् ॥२॥
एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशां तथा
।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः॥३॥
द्विजानां मध्ये यः कश्चिच्छूद्रो वा नानाकर्मस्ववस्थितः स्वकर्मच्युतो मूढः रजकतुल्य इत्यर्थः ॥३॥
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि
।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु॥४॥
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्
।
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः॥५॥
कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ
।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते॥६॥
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च
।
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति॥७॥
अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः
।
सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति॥८॥
अग्नित्रेता गार्हपत्यदाक्षिणाग्न्याहवनीयाख्यं वह्नित्रयं, त्रयी ऋग्यजुः सामवेदाः ॥८॥
राजैव कर्ता भूतानां राजैव च विनाशकः
।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः॥९॥
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा
।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति॥१०॥
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः
।
अधर्मभूते नृपतौ सर्वे सीदन्ति जन्तवः॥११॥
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते
।
अबलं तु महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्॥१२॥
अबलं तु अबलस्य पालनान्महत्पुण्यमपालनाच्च महत्पापमित्यर्थः ॥१२॥
यच्च भूतं सम्भजते ये च भूतास्तदन्वयाः
।
अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव॥१३॥
भूतं दुर्बलं संभजतेऽन्नादिना सेवते तदन्वयाः दातृसंबन्धिनः ॥१३॥
दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च
।
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः॥१४॥
अबलं तुम तु महद्भूतमित्येतद्विवृणोति- दुर्बलस्येत्यादिना ॥१४॥
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्
।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्॥१५॥
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहते
।
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासदः॥१६॥
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्
।
बलस्याबलदग्धस्य न किंचिदवशिष्यते॥१७॥
विमानितो हतः क्रुष्टस्त्रातारं चेन्न विन्दति
।
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्॥१८॥
मा स्म तात रणे स्थित्वा भुञ्जीथा दुर्बलं जनम्
।
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम्॥१९॥
रणे स्थित्वा प्रतिपक्षीभूय भुञ्जीथाः करादानेन ॥१९॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसनात्॥२०॥
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु
।
न हि पापं कृतं कर्म सद्यः फलति गौरिव॥२१॥
यदि आत्मनि फलं पापं न फलति तर्हि पुत्रादिषु फलति न तु सद्यः फलतीत्यर्थः ॥२१॥
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः॥२२॥
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
।
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः॥२३॥
राज्ञो यदा जनपदे बहवो राजपूरुषाः
।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्॥२४॥
यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा
।
कृपणं याचमानानां तद्राज्ञो वैशसं महत्॥२५॥
नयेत् अपहरेत् ॥२५॥
महान्वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति
।
यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति॥२६॥
यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः
।
तैरेवाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च॥२७॥
महानिति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह- यदेति । यदा धर्मं चरति तदा राजा वर्धत इति भावः दुष्कृतं चापयातीत्यर्थः ॥२७॥
यत्र पापा ज्ञायमानाश्चरन्ति सतां कलिर्विन्दते तत्र राज्ञः
।
यदा राजा शास्ति नरानशिष्टांस्तदा राज्यं वर्धते भूमिपस्य॥२८॥
राज्ञः नृपान् ॥२८॥
यश्चामात्यान्मानयित्वा यथार्थं मन्त्रे च युद्धे च नृपो नियुंज्यात्
।
विवर्धते तस्य राष्ट्रं नृपस्य भुंक्ते महीं चाप्यखिलां चिराय॥२९॥
यच्चापि सुकृतं कर्म वाचं चैव सुभाषिताम्
।
समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्यनुत्तमम्॥३०॥
संविभज्य यदा भुंक्ते नामात्यानवमन्यते
।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते॥३१॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा
।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते॥३२॥
संविभज्य यदा भुंक्ते नृपतिर्दुर्बलान्नरान्
।
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते॥३३॥
यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति
।
यदा जयति संग्रामे स राज्ञो धर्म उच्यते॥३४॥
पापमाचरतो यत्र कर्मणा व्याहृतेन वा
।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते॥३५॥
यदा सारणिकान् राजा पुत्रवत्परिरक्षति
।
भिनत्ति च न मर्यादां स राज्ञो धर्म उच्यते॥३६॥
सारणिकान् प्रसारिणीप्रधानान्वणिजः शारणिकानिति पाठे शरणागतान् ॥३६॥
यदाऽऽप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः
।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते॥३७॥
कृपणानाथवृद्धानां यदाश्रु परिमार्जति
।
हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते॥३८॥
विवर्धयति मित्राणि तथारींश्चापि कर्षति
।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते॥३९॥
सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति
।
पूजयेदतिथीन्भृत्यान् स राज्ञो धर्म उच्यते॥४०॥
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ
।
अस्मिन्लोके परे चैव राजा स प्राप्नुते फलम्॥४१॥
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
।
संयच्छन्भवति प्राणानसंयच्छंस्तु पातुकः॥४२॥
धार्मिकाणां परमेश्वरोऽनुग्राह कोऽस्ति अतः प्राणान् इन्द्रियाणि नियच्छन् भवति ऐश्वर्यं प्राप्नोति अनियच्छंस्तु पातुकः पतयालुर्भवति पावक इति पाठे स्वाश्रयदाही भवतीत्यर्थः ॥४२॥
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च
।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते॥४३॥
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः
।
तथा राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः॥४४॥
सहस्राक्षेण राजा हि सर्वथैवोपमीयते
।
स पश्यति च यं धर्मं स धर्मः पुरुषर्षभ॥४५॥
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्
।
भूतानां चैव जिज्ञासा साध्वसाधु च सर्वदा॥४६॥
संग्रहः सर्वभूतानां दानं च मधुरं वचः
।
पौरजानपदाश्चैव गोप्तव्यास्ते यथासुखम्॥४७॥
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्
।
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम्॥४८॥
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्
।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा॥४९॥
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः
।
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि॥५०॥
अभिरूपैरमात्यैः सहेति शेषः ॥५०॥
अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
।
स्वदेशे परदेशे वा न ते धर्मो विनक्षयति॥५१॥
तस्मादर्थाच्च कामाच्च धर्म एवोत्तरो भवेत्
।
अस्मिल्लोके परे चैव धर्मात्मा सुखमेधते॥५२॥
धर्मोऽर्थादुत्पद्यत इति तत्फलभूतत्वात्तत उत्तरः एवं कामादपि धर्म एवोत्तरस्तन्मूलत्वात् ॥५२॥
त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः
।
संग्रहश्चैव भूतानां दानं च मधुरा च वाक्॥५३॥
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्
।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः॥५४॥
प्रमादिथाः प्रमाद्येथाः ॥५४॥
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः
।
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्॥५५॥
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च
।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय॥५६॥
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
।
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ॥५७॥
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
।
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः॥५८॥
भीष्म उवाच।
स एवमुक्तो मान्धाता तेनोतथ्येन भारत
।
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम्॥५९॥
भवानपि तथा सम्यङ्मान्धातेव महीपते
।
धर्मं कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि॥६०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि उतथ्यगीतासु एकनवतितमोऽध्यायः॥९१॥
वामदेव उवाच
।
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः
।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः॥१॥
यत्रेति । यत्र राष्ट्रे प्रणयते आरोपयति बलवत्तरो राजा ॥१॥
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्
।
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति॥२॥
तं राजानम् अनुवर्तन्तेऽन्ये ॥२॥
यद्वृत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः
।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते॥३॥
प्रकृतिः स्वधर्मः विषमः कुमार्गः ॥३॥
साहसप्रकृतिर्यत्र किंचिदुल्बणमाचरेत्
।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति॥४॥
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते
।
जितानामजितानां च क्षत्रधर्मादपैति सः॥५॥
जितानाम् आपन्नानाम् अजितानां स्वस्थानाम् ॥५॥
द्विषन्त कृतकल्याणं गृहीत्वा नृपतिं रणे
।
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः॥६॥
कृतकल्याणं प्रागुपकारं कृतवन्तम् ॥६॥
शक्तः स्यात्सुसुखो राजा कुर्यात्करणमापदि
।
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः॥७॥
शक्तौ सुखमनुभवेत् । आपदि तु करणम् आपन्निवारणं कर्म कुर्यात् । 'करणं हेतुकर्मणोः' इति मेदिनी ॥७॥
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्
।
न चिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत्॥८॥
अप्रियमिति । उपकृतः शत्रुरग्रेऽप्युपकरिष्यत्येवेत्यर्थः ॥८॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः
।
न कामान्न च संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्॥९॥
नापत्रपेत प्रश्नेषु नाविभाव्यां गिरं सृजेत्
।
न त्वरेत न चासूयेत्तथा संगृह्यते परः॥१०॥
नापत्रपेत न्यायनिष्ठुरम् उत्तरं दद्यात् अविभाव्याम् अगम्भीराम् अभीतिपाठे दूषणार्हाम् ॥१०॥
प्रियेनातिभृशं हृष्येदप्रियेन च संज्वरेत्
।
न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्॥११॥
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः
।
तस्य कर्माणि सिद्ध्यन्ति न च संत्यज्यते श्रिया॥१२॥
प्रियं भृत्यादीनाम् ॥१२॥
निवृत्तं प्रतिकूलेषु वर्तमानमनुप्रिये
।
भक्तं भजेत नृपतिः सदैव सुसमाहितः॥१३॥
अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम्
।
शक्तं चैवानुरक्तं च युंज्यान्महति कर्मणि॥१४॥
एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम्
।
भर्तुरर्थेष्वप्रमत्तं नियुंज्यादर्थकर्मणि॥१५॥
एतैर्निवृत्तमिति श्लोकद्वयोक्तैः योऽनुरज्यति अनुरञ्जयति तं नियुञ्ज्यात् भूमिपः ॥१५॥
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्
।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्॥१६॥
त्यक्तोदात्तं माद्यरतं द्यूत-स्त्री-मृगयापरम्
।
कार्ये महति युञ्जानो हीयते नृपतिः श्रिया॥१७॥
त्यक्तोदात्तम् उदारकर्मत्यागिनम् ॥१७॥
रक्षितात्मा च यो राजा रक्ष्यान्यश्चानुरक्षति
।
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते॥१८॥
महत्पदम् ॥१८॥
ये केचिद्भूमिपतयः सर्वांस्तानन्ववेक्षयेत्
।
सुहृद्भिरनभिख्यातैस्तेन राजाऽतिरिच्यते॥१९॥
सुहृद्भिश्चारैः अनभिख्यातैः स्वेषां परेषां चाविदितैः ॥१९॥
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्
।
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः॥२०॥
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः
।
अबलानभियुञ्जीत न तु ये बलवत्तराः॥२१॥
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत्
।
आहवे निधनं कुर्याद्राजा धर्मपरायणः॥२२॥
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम्
।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्॥२३॥
मरणान्तमपि इदं पालनम् अनामयं कुशलमेव स्वर्गहेतुत्वादित्यर्थः ॥२३॥
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्
।
मन्त्रचिन्तासुखं काले पञ्चभिर्वर्धते मही॥२४॥
रक्षाधिकरणं दुर्गादि सुखं सुखप्रदानम् ॥२४॥
एतानि यस्य गुप्तानि स राजा राजसत्तम
।
सततं वर्तमानोऽत्र राजा धत्ते महीमिमाम्॥२५॥
गुप्तानि सुरक्षितानि ॥२५॥
नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम्
।
तेषु सर्वं प्रतिष्ठाप्य राजा भुंक्ते चिरं महीम्॥२६॥
एकेन राज्ञा तेषु दुर्गाद्यधिष्ठातृषु पञ्चसु ॥२६॥
दातारं संविभक्तारं मार्दवोपगतं शुचिम्
।
असन्त्यक्तमनुष्यं च तं जनाः कुर्वते नृपम्॥२७॥
यस्तु निःश्रेयसं श्रुत्वा ज्ञानं तत्प्रतिपद्यते
।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते॥२८॥
ज्ञानम् इदं मम निःश्रेयसमिति यज्ज्ञानं तत् ॥२८॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते
।
शृणोति प्रतिकूलानि सर्वदा विमना इव॥२९॥
अर्थकानस्य सख्युः प्रातिकूल्याद्द्वेषात् शृणोति तच्छत्रुभ्यः सकाशात् ॥२९॥
अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा
।
जितानामजितानां च क्षत्रधर्मादपैति सः॥३०॥
अग्राम्यैर्बुद्धिमद्भिः वृत्तिं लाभोपायम् ॥३०॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्
।
एतेभ्यो नित्ययुक्तः सन् रक्षेदात्मानमेव तु॥३१॥
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्
।
स वै व्यसनमासाद्य गाधमार्तो न विन्दति॥३२॥
मुख्यानिति । गाधं कार्यस्यान्तम् ॥३२॥
यः कल्याणगुणान् ज्ञातीन्प्रद्वेषान्नो बुभूषति
।
अदृढात्मा दृढक्रोधः स मृत्योर्वसतेऽन्तिके॥३३॥
अथ यो गुणसम्पन्नान्हृदयस्य प्रियानपि
।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति॥३४॥
नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत्
।
प्रिये नातिभृशं तुष्येद्युज्येतारोग्यकर्मणि॥३५॥
के वानुरक्ता राजानः के भयात्समुपाश्रिताः
।
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्॥३६॥
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित्
।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः॥३७॥
अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिनम्
।
अभिद्रुह्यति पापात्मा न तस्माद्विश्वसेज्जनात्॥३८॥
एवं राजोपनिषदं ययातिः स्माह नाहुषः
।
मनुष्यविषये युक्तो हन्ति शत्रूननुत्तमान्॥३९॥
राजोपनिषदं राज्ञां रहस्यविद्याम् ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वामदेवगीतासु त्रिनवतितमोऽध्यायः॥९३॥
युधिष्ठिर उवाच।
क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप
।
अपयानेन युद्धेन राजा हन्ति महाजनम्॥१॥
क्षत्रेति । महाजनं कटकाश्रितं वैश्यादिजनम् ॥१॥
अथ स्म कर्मणा केन लोकान् जयति पार्थिवः
।
विद्वन् जिज्ञासमानाय प्रबूहि भरतर्षभ॥२॥
केन तद्वधप्रायश्चित्तं कृत्वा पुण्यफलमाप्नोतीत्यर्थः ॥२॥
भीष्म उवाच।
निग्रहेण च पापानां साधूनां संग्रहेण च
।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः॥३॥
उत्तरमाह- निग्रहेणेति ॥३॥
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः
।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः॥४॥
उपरुन्धन्ति पीडयन्ति ॥४॥
अपविध्यन्ति पापानि दान-यज्ञ-तपोबलैः
।
अनुग्रहाय भूतानां पुण्यमेषां विवर्धते॥५॥
अपविध्यन्ति दूरीकुर्वन्ति ॥५॥
यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च
।
हिनस्ति धान्यं कक्षं च न च धान्यं विनश्यति॥६॥
निर्याता तृणाद्यपनयेन शोधकः । निर्दातेति पाठे दैप् शोधने इत्यस्य रूपम् । कक्षं तृणम् ॥६॥
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा
।
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः॥७॥
भावनं वर्धनम् ॥७॥
यो भूतानि धनाक्रान्त्या वधात्क्लेशाच्च रक्षति
।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट्॥८॥
स सर्वयज्ञैरीजानो राजाऽथाभयदक्षिणैः
।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥९॥
ब्राह्मणार्थे समुत्पन्ने योऽरिभिः सृत्य युध्यति
।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः॥१०॥
आत्मानं दहेयूपं यज्ञस्तंभम् उत्सृज्य उच्छ्रित्य यज्ञो युद्धयज्ञः ॥१०॥
अभीतो विकिरन् शत्रून् प्रतिगृह्य शरांस्तथा
।
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन॥११॥
तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे
।
तावतः सोऽश्नुते लोकान् सर्वकामदुहोऽक्षयान्॥१२॥
यदस्य रुधिरं गात्रादाहये सम्प्रवर्तते
।
सह तेनैव रक्तेन सर्वपापैः प्रमुच्यते॥१३॥
पापेन दुःखेन ॥१३॥
यानि दुःखानि सहते क्षत्रियो युधि तापितः
।
तेन तेन तपो भूय इति धर्मविदो विदुः॥१४॥
पृष्ठतो भीरवः संख्ये वर्तन्ते धर्मपूरुषाः
।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम्॥१५॥
यदि शूरस्तथा क्षेमं प्रतिरक्षेद्यथाऽभये
।
प्रतिरूपं जनं कुर्यान्न चेत्तद्वर्तते तथा॥१६॥
यदीति । रक्षित्वा प्रतिरूपं युद्धाभिमुखं जनं चेन्न कुर्यात् किं तर्हि स्वयं पुरतो भूत्वा तांश्चेत् पृष्ठतः कुर्यात्तर्हि तत्तथा पूर्ववत्पुण्यं वर्तते वान्यथेत्यर्थः ॥१६॥
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैवतम्
।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा॥१७॥
यदि ते रक्षितारः सन्तस्तं नमस्कुर्युः अथ च न्याय्यं युद्धं च परावृत्य कुर्युस्तदपि तथा न ॥१७॥
पुरुषाणां समानानां दृश्यते महदन्तरम्
।
संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतन्त्युत॥१८॥
अनीकवेलायाम् अनीकानां संघट्टकाले अभिपतन्त्यक उत अपि च नेत्यन्य इत्यर्थात् ॥१८॥
पतत्यभिमुखः शूरः परान्भीरुः पलायते
।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजेत्॥१९॥
तदेवाह- पततीति । विषमे प्राणसङ्कटे त्यजेत् देहमिति शेषः ॥१९॥
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान्
।
ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान्ययुः॥२०॥
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः
।
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति॥२१॥
तेभ्यः तस्मै ॥२१॥
तं हन्युः काष्ठलोष्ठैर्वा दहेयुर्वा कटाग्निना
।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः॥२२॥
तस्य दण्डमाह- तं हन्युरिति । तृणमये कटे वद्ध्वा दहनं कटाग्निना दाहः ॥२२॥
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्
।
विसृजन् श्लेष्ममूत्राणि कृपणं परिदेवयन्॥२३॥
अविक्षतेन देहेन प्रलयं योऽधिगच्छति
।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः॥२४॥
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते
।
शौटीराणामशौटीर्यमधर्मं कृपणं च तत्॥२५॥
शौटीराणां शूरत्वाभिमानवताम् ॥२५॥
इदं दुःखं महत्कष्टं पापीय इति नष्टनन्
।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन्॥२६॥
निष्टनन्शब्दं कुर्वन् पूतिः दुर्गन्धिः अमात्यान् पुत्रान् ॥२६॥
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति
।
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति॥२७॥
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः
।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मृत्युमर्हति॥२८॥
शूरो हि काममन्युभ्यामाविष्टो युद्ध्यते भृशम्
।
हन्यमानानि गात्राणि परैर्नैवावबुध्यते॥२९॥
स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्
।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्॥३०॥
सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः
।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्॥३१॥
यत्र यत्र हतः शूरः शत्रुभिः परिवारितः
।
अक्षयाँल्लभते लोकान्यदि दैन्यं न सेवते॥३२॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सप्तनवतितमोऽध्यायः॥९७॥
युधिष्ठिर उवाच।
के लोका युध्यमानानां शूराणामनिवर्तिनाम्
।
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह॥१॥
अक्षयाँल्लभते लोकानित्युक्तं तत्प्रश्नपूर्वकं विवृणोति- के इति ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर॥२॥
अम्बरीषो हि नाभागिः स्वर्गं गत्वा सुदुर्लभम्
।
ददर्श सुरलोकस्थं शक्रेण सचिवं सह॥३॥
नाभागिर्नाभागपुत्रः शक्रेण सह स्थितं सचिवम् ॥३॥
सर्वतेजोमयं दिव्यं विमानवरमास्थितम्
।
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम्॥४॥
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः
।
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्॥५॥
अम्बरीष उवाच
।
सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि
।
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया॥६॥
ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया
।
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्॥७॥
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा
।
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः॥८॥
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि
।
उदीक्षमाणः पृतनां जयामि युधि वासव॥९॥
देवराज सुदेवोऽयं मम सेनापतिः पुरा
।
आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्॥१०॥
अनेन क्रतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः
।
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम्॥११॥
इन्द्र उवाच
।
एतस्य विततस्तात सुदेवस्य बभूव ह
।
संग्रामयज्ञः सुमहान्यश्चान्यो युद्ध्यते नरः॥१२॥
यश्चान्यो क्षत्रियोऽपि युध्यते नरस्तस्याप्ययं च यज्ञोऽस्ति यश्चान्यो विद्यते नव इति पाठे यः यस्मात् अन्यो यज्ञो वः युष्माकं क्षत्रियाणां न विद्यत इत्यर्थः ॥१२॥
सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्
।
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः॥१३॥
अम्बरीष उवाच
।
कानि यज्ञे हवींष्यस्मिन् किमाज्यं का च दक्षिणा
।
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो॥१४॥
इन्द्र उवाच
।
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा
।
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते॥१५॥
शृगाल-गृध्र-काकोला: सदस्यास्तत्र पत्रिणः
।
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे॥१६॥
प्रास तोमरसंघाताः खड्ग-शक्ति-परश्वधाः
।
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः॥१७॥
निशिताः शाणघृष्टाः पीताः क्षारपानीयेन संभाविताः ॥१७॥
चापवेगायतस्तीक्ष्णः परकायावभेदनः
।
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो महान्॥१८॥
द्वीपीचर्मावनद्धश्च नागदन्तकृतत्सरुः
।
हस्तिहस्तहरः खड्गः स्फिग्भवेत्तस्य संयुगे॥१९॥
ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वधैः
।
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु॥२०॥
शैक्यायसमयैः सर्वलोहमयैः वसु यत्किञ्चिद्यज्ञियं द्रव्यम् ॥२०॥
संख्यासमयविस्तीर्णमभिजातोद्भवं बहु
।
आवेगाद्यच्च रुधिरं संग्रामे स्रवते भुवि॥२१॥
साऽस्य पूर्णाहुतिर्होमे समृद्धा सर्वकामधुक्
।
छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे॥२२॥
सामानि सामगास्तस्य गायन्ति यमसादने
।
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्॥२३॥
हविर्धानं हविषः स्थापनस्थलम् ॥२३॥
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
।
अग्निः श्येनचितो नाम स च यज्ञे विधीयते॥२४॥
उत्तिष्ठते कबन्धोऽत्र सहस्रे निहते तु यः
।
स यूपस्तस्य शूरस्य खादिरोऽष्टास्त्रिरुच्यते॥२५॥
इडोपहूताः क्रोशन्ति कुञ्जरास्त्वंकुशेरिताः
।
व्याघुष्टतलनादेव वषट्कारेण पार्थिव॥२६॥
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिर्नृप
।
ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम्॥२७॥
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः
।
भर्तुरर्थे च यः शूरो विक्रमेद्वाहिनीमुखे॥२८॥
न भयाद्विनिवर्तेत तस्य लोका यथा मम
।
नीलचर्मावृतैः खड्गैर्बाहुभिः परिघोपमैः॥२९॥
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम
।
यस्तु नापेक्षते कंचित्सहायं विजये स्थितः॥३०॥
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम
।
यस्य शोणितसंघाता भेरीमण्डूककच्छपा॥३१॥
शोणितसङ्घाता शोणितौघमयी ॥३१॥
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा
।
असिचर्मप्लवा घोरा केशशैवलशाद्वला॥३२॥
अश्व-नाग-रथैश्चैव संच्छिन्नैः कृतसंक्रमा
।
पताकाध्वजवानीरा हतवारणवाहिनी॥३३॥
शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः
।
हतनागमहानका परलोकवहाशिवा॥३४॥
ऋष्टि-खड्गमहानौका गृध्र-कङ्कबलप्लवा
।
पुरुषादानुचरिता भीरूणां कश्मलावहा॥३५॥
नदी योधस्य संग्रामे तदस्यावभृथं स्मृतम्
।
वेदिर्यस्य त्वमित्राणां शिरोभ्यश्च प्रकीर्यते॥३६॥
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम
।
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्॥३७॥
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः
।
सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम्॥३८॥
शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः
।
यदा तूभयतो व्यूहे भवत्याकाशमग्रतः॥३९॥
साऽस्य वेदिस्तदा यज्ञैर्नित्यं वेदास्त्रयोऽग्नयः
।
यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः॥४०॥
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः
।
यस्य शोणितवेगेन वेदिः स्यात्सम्परिप्लुता॥४१॥
केशमांसास्थिसम्पूर्णा स गच्छेत्परमां गतिम्
।
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति॥४२॥
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः
।
नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः॥४३॥
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम
।
आहवे तु हतं शूरं न शोचेत कथंचन॥४४॥
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते
।
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम्॥४५॥
हतस्य कर्तुमिच्छन्ति तस्य लोकान्शृणुष्व मे
।
वराप्सरःसहस्राणि शूरमायोधने हतम्॥४६॥
त्वरमाणाऽभिधावन्ति मम भर्ता भवेदिति
।
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः॥४७॥
चत्वारश्चाश्रमास्तस्य यो युद्धमनुपालयेत्
।
वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः॥४८॥
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत्
।
जम्भं वृत्रं बलं पाकं शतमायं विरोचनम्॥४९॥
दुर्वार्यं चैव नमुचिं नैकमायं च शम्बरम्
।
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः
।
प्रह्लादं च निहत्याजौ ततो देवाधिपोऽभवम्॥५०॥
भीष्म उवाच।
इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च
।
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान्॥५१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि इन्द्राम्बरीषसंवादे अष्टनवतितमोऽध्यायः॥९८॥
युधिष्ठिर उवाच।
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह॥१॥
यथेति । नयन्ति भीतानपि राजभयप्रदर्शनेन पुरस्कुर्वन्ति ॥१॥
भीष्म उवाच।
सत्येन हि स्थितो धर्म उपपत्त्या तथा परे
।
साध्वाचारतया केचित्तथैवौपयिकादपि॥२॥
सत्यं क्षत्रधर्मः उपपत्तिर्मरणनिश्चयः साध्वाचारः शिष्टाचारः औपयिक उक्तभयप्रदर्शनजा प्रवृत्तिः एतैश्चतुभिर्हेतुभिर्धर्मः स्थितः स्थिरो भवति ॥२॥
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः
।
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः॥३॥
सिद्धार्थान्सद्यःफलान् तेषां च येऽर्थधर्मयोर्निर्मर्यादास्ते परिपन्थिनो नाशका भवन्ति ॥३॥
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्
।
कार्याणां सर्वसिद्ध्यर्थं तानुपायान्निबोध मे॥४॥
तेषां दस्यूनां नैगमं वेदोक्तमुपायम् ॥४॥
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्॥५॥
प्रतीति । वक्रां वक्रयैव नाशयेत् ॥५॥
अमित्रा एव राजानं भेदेनोपचरन्त्युत
।
तां राजा निकृतिं जानन्यथाऽमित्रान्प्रबाधते॥६॥
अमित्रानिव तां निकृतिं प्रबाधते बाधेत् ॥६॥
गजानां पार्थ वर्माणि गोवृषाजगराणि च
।
शल्यकण्टकलोहानि तनुत्रचमराणि च॥७॥
गजानां वर्माणि बाणघातत्राणानि गवादीनां शल्यादीनि ॥७॥
सितपीतानि शस्त्राणि सन्नाहाः पीतलोहिताः
।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह॥८॥
ऋश्यस्तोमराः खड्गा निशिताश्च परश्वधाः
।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः॥९॥
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः
।
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते॥१०॥
पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा
।
नैवातिशीतो नात्युष्णः कालो भवति भारत॥११॥
तस्मात्तदा योजयेत परेषां व्यसनेऽथवा
।
एते हि योगाः सेनायाः प्रशस्ताः परबाधने॥१२॥
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते
।
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः॥१३॥
न ह्यरण्येन शक्येत गन्तुं मृगगणैरिव
।
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः॥१४॥
अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्
।
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते॥१५॥
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्
।
आकाशात्तु वनाभ्याशं मन्यन्ते गुणवत्तरम्॥१६॥
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः
।
उपन्यासो भवेत्तत्र बलानां नातिदूरतः॥१७॥
उपन्यासावतरणं पदातीनां च गूहनम्
।
अथ शत्रुप्रतीघातमापदर्थं परायणम्॥१८॥
उपन्यासं न्यासस्य धननिक्षेपस्य समीपे अवतरणं पदातीनां गूहनं च न्यासस्यैव कार्यम् । उपास्याः सवितरणमिति पाठे सदानं यथा स्यात्तथा जना उपास्या इति पूर्वान्वयि । पदातीनां गूहनं परवञ्चनार्थम् । अथ निलीय आगतशत्रुप्रतिघातं कुर्यात् ॥१८॥
सप्तर्षीन्पृष्ठतः कृत्वा युध्येयुरचला इव
।
अनेन विधिना शत्रून् जिगीषेतापि दुर्जयान्॥१९॥
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः
।
पूर्वं पूर्वं ज्याय एषां सन्निपाते युधिष्ठिर॥२०॥
अकर्दमामनुदकाममर्यादामलोष्टकाम्
।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः॥२१॥
अमर्यादां सेतुप्राकारादिहीनाम् ॥२१॥
अपङ्का गर्तरहिता रथभूमिः प्रशस्यते
।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्॥२२॥
बहुदुर्गा महाकक्षा वेणुवेत्रसमाकुला
।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च॥२३॥
पदातिबहुला सेना दृढा भवति भारत
।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते॥२४॥
सुदिनेषु वृष्टिवर्जितदिनेषु ॥२४॥
पदातिनागबहुला प्रावृट्काले प्रशस्यते
।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्॥२५॥
प्रसंख्याय सम्यग्विचार्य तिथौ नक्षत्रे च पूजितः आशीर्भिर्योजितः ॥२५॥
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः
।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्
।
प्रसुप्तांस्तृषितान् श्रान्तान् प्रकीर्णान्नाभिघातयेत्॥२६॥
मोक्षे प्रयाणे चलने पानभोजनकालयोः
।
अतिक्षिप्तान्व्यतिक्षिप्तान् निहतान्प्रतनूकृतान्॥२७॥
अविश्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान्
।
बहिश्चरानुपन्यासान्कृतवेश्मानुसारिणः॥२८॥
उपन्यासात्सुरुंगादिगुप्तोपायात् बहिस्तृणाद्यर्थं चरतो बहिश्चरान् अल्पान् उपन्यासान् तृणाद्याहर्तॄन् ॥२८॥
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः
।
परिचर्यावतो द्वारे ये च केचन वर्गिणः॥२९॥
राजद्वारेऽमात्यद्वारे वा ये वर्गिणः समुदायाधिपतयस्तान्नाभिघातयेदिति प्रपूर्वेण सम्बन्धः ॥२९॥
अनीकं ये विभिन्दन्ति भिन्नं संस्थापयन्ति च
।
समानाशनपानास्ते कार्या द्विगुणवेतनाः॥३०॥
अनीकं परकीयं भिन्नं स्वीयम् ॥३०॥
दशाधिपतयः कार्याः शताधिपतयस्तथा
।
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्॥३१॥
यथा मुख्यान्संनिपात्य वक्तव्याः संशपामहे
।
विजयार्थं हि संग्रामे न त्यक्ष्यामः परस्परम्॥३२॥
सन्निपात्य एकीकृत्य ॥३२॥
इहैव ते निवर्तन्तां ये च केचन भीरवः
।
ये घातयेयुः प्रवरं कुर्वाणास्तुमुलं प्रति॥३३॥
न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः
।
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे॥३४॥
प्रदरं भङ्गं प्रदरः शरभङ्गयोः' इति विश्वः । प्रदरं पलायनमित्येके वधं वा स्वीयानाम् ॥३४॥
अर्थनाशो वधोऽकीर्तिरयशश्च पलायने
।
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायने॥३५॥
प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च
।
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा॥३६॥
नः अस्मत्संबन्धिनां द्विषतां पुरुषस्य द्रव्यनाशादिकमस्त्विति पूर्वेण सह द्वयोः सम्बन्धः ॥३६॥
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः
।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह॥३७॥
राशिर्योधसंख्या शरीरं वा तस्य वर्धनाः वृथाजन्मान इत्यर्थः ॥३७॥
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
।
जयिनस्तु नरास्तात चन्दनैर्मण्डनेन च॥३८॥
पलायिनं जयिनः प्रत्युद्यान्ति यत् तदसह्यतरमित्यपकृष्यते ॥३८॥
यस्य स्म संग्रामगता यशो वै घ्नन्ति शत्रवः
।
तदसह्यतरं दुःखमहं मन्ये वधादपि॥३९॥
जयं जानीत धर्मस्य मूलं सर्वसुखस्य च
।
या भीरूणां परा ग्लानिः शूरस्तामधिगच्छति॥४०॥
परा ग्लानिः मृत्युः प्रहारो वा ॥४०॥
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः
।
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्॥४१॥
एवं संशप्तशपथाः समभित्यक्तजीविताः
।
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः॥४२॥
अग्रतः पुरुषानीकमसिचर्मवतां भवेत्
।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा॥४३॥
चर्मवतां पुरुषाणामनीकं विभक्तिलोप आर्षः ॥४३॥
परेषां प्रतिघातार्थं पदातीनां च बृंहणम्
।
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः॥४४॥
ये पुरोगमा भवेयुस्ते पदातीनां बृंहणं कुर्युः ॥४४॥
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः
।
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः॥४५॥
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः
।
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः॥४६॥
'स्कन्धः स्यान्नृपतावंसे संपरायसमूहयोः' इति मेदिनी । समूहमात्रार्थं वाः तिष्ठेयुः ॥४६॥
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥४७॥
संहतान् अन्योन्यं श्लिष्टान् स्वान्परैः सह योधयेत्सेनापतिः तदेवाह- सूचीति ॥४७॥
सम्प्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम्
।
प्रगृह्य बाहून् क्रोशते भग्ना भग्नाः परे इति॥४८॥
आगतं मे मित्रबलं प्रहरध्वमभीतवत्
।
सत्त्ववन्तोऽभिबाधेयुः कुर्वन्तो भैरवान् रवान्॥४९॥
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः
।
भेरी-मृदङ्ग-पणवा-न्नादयेयुः पुरश्चरान्॥५०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सेनानीतिकथने शततमोऽध्यायः॥१००॥
युधिष्ठिर उवाच।
जयित्र्याः कानि रूपाणि भवन्ति भरतर्षभ
।
पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम्॥१॥
जयित्र्या इति ॥१॥
भीष्म उवाच।
जयिन्या यानि रूपाणि भवन्ति भरतर्षभ
।
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः॥२॥
दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते
।
तद्विद्वांसोऽनुपश्यन्ति ज्ञानदिव्येन चक्षुषा॥३॥
दैवज्ञसंपत्तिः पुरोहितसंपत्तिश्च जयलक्षणमित्याह द्वाभ्यां- दैवे इति ॥३॥
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः
।
मङ्गलानि च कुर्वन्ति शमयन्त्यहितानि च॥४॥
उदीर्णमनसो योधा वाहनानि च भारत
।
यस्यां भवन्ति सेनायां ध्रुवं तस्यां परो जयः॥५॥
अन्वेतान्वायवो यान्ति तथैवेन्द्रधनूंषि च
।
अनुप्लवन्तो मेघाश्च तथाऽऽदित्यस्य रश्मयः॥६॥
अनुयान्तीति सम्बन्धः ॥६॥
गोमायवश्चानुकूला बलगृध्राश्च सर्वशः
।
अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा॥७॥
प्रसन्नभाः पावकश्चोर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः
।
पुण्या गन्धाश्चाहुतीनां भवन्ति जयस्यैतद्भाविनो रूपमाहुः॥८॥
गम्भीरशब्दाश्च महास्वनाश्च शङ्खाश्च भेर्यश्च नदन्ति यत्र
।
युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः॥९॥
अप्रतीपाः अनुकूलाः ॥९॥
इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां च
।
जिघांसतां दक्षिणाः सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधन्ति॥१०॥
माङ्गल्यशब्दाञ्शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः
।
हृष्टा योधाः सत्त्ववन्तो भवन्ति जयस्यैतद् भाविनो रूपमाहुः॥११॥
शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम्
।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून्॥१२॥
शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च
।
येषां योधाः शौचमनुष्ठिताश्च जयस्यैतद्भाविनो रूपमाहुः॥१३॥
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः
।
धैर्यं चाविशते योधान् विजयस्य मुखं च तत्॥१४॥
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः
।
पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति॥१५॥
इष्टः काक इति शेषः ॥१५॥
सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर
।
साम्नैव वर्तयेः पूर्वं प्रयतेथास्ततो युधि॥१६॥
जघन्य एष विजयो यद्युद्धं नाम भारत
।
यादृच्छिको युधि जयो दैवो वेति विचारणम्॥१७॥
अपामिव महावेगस्त्रस्ता इव महामृगाः
।
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः॥१८॥
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम्
।
उदारसारा महती रुरुसंघोपमा चमूः॥१९॥
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः
।
अपि पञ्चाशतं शूरा निघ्नन्ति परवाहिनीम्॥२०॥
पञ्चाशतं पशाशत् ॥२०॥
अपि वा पञ्चषट्सप्त संहताः कृतनिश्चयाः
।
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान्॥२१॥
सन्नियातो न मन्तव्यः शक्ये सति कथंचन
।
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते॥२२॥
सन्निपातो युद्धम् ॥२२॥
संदर्शेनैव सेनाया भयं भीरून् प्रबाधते
।
वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति॥२३॥
प्रबाधते भीरून् ॥२३॥
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ
।
तेषां स्यन्दन्ति गात्राणि योधानां विजयस्य च॥२४॥
समितिं सङ्ग्रामं स्यन्दन्ति स्विद्यन्ति विजयस्य विजिगीषमाणस्य च गात्राणि स्विद्यन्ति ॥२४॥
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः
।
अस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम्॥२५॥
विषयो देशः ॥२५॥
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः
।
सम्पीड्यमाना हि परैर्योगमायान्ति सर्वतः॥२६॥
योगं सन्धिम् ॥२६॥
आन्तराणां च भेदार्थं चरानभ्यवचारयेत्
।
यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते॥२७॥
आन्तराणां शत्रोः सखीनां तस्माच्छत्रोः परः श्रेष्ठस्तेन सन्धिं च कुर्यात् भयेन सन्धिना शत्रूत्तेजनेन च युगपत्प्रयुक्तेन त्रयेण परं जयेदिति समुदायार्थः ॥२७॥
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा
।
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम्॥२८॥
क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा
।
क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम्॥२९॥
नन्वेवं परं क्षमापयेदेव किं कपटेनेत्याशङ्क्याह- क्षमेति ॥२९॥
विजित्य क्षममाणस्य यशो राज्ञो विवर्धते
।
महापराधे हाप्यस्मिन् विश्वसन्त्यपि शत्रवः॥३०॥
अस्मिन्क्षमावति ॥३०॥
मन्यते कर्षयित्वा तु क्षमा साध्वीति शम्बरः
।
असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः॥३१॥
असन्ताप्य ऋजूकृतं वंशादि पुनर्वक्रीभवत्यतः शत्रुं सन्ताप्य क्षमां कुर्यादिति शाम्बस्य दैत्यस्य मतम् ॥३१॥
नैतत्प्रशंसन्त्याचार्या न च साधुनिदर्शनम्
।
अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत्॥३२॥
स्वमतमाह- नैतदिति ॥३२॥
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर
।
मृदुमप्यवमन्यन्ते तस्मादुभयमाचरेत्॥३३॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नापि भारत
।
प्रहृत्य च कृपायीत शोचन्निव रुदनिवा॥३४॥
न मे प्रियं यन्निहताः संग्रामे मामकैर्नरैः
।
न च कुर्वन्ति मे वाक्यमुच्यमानाः पुनः पुनः॥३५॥
अहो जीवितमाकाक्षेन्नेदृशो वधमर्हति
।
सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः॥३६॥
कृतं ममाप्रियं तेन येनायं निहतो मृधे
।
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः॥३७॥
हन्तॄणामाहतानां च यत्कुर्युरपराधिनः
।
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षन् जनसंग्रहम्॥३८॥
स्वीयान्बन्धून्हतानिव लोकप्रीत्यर्थं शोचेदित्याह- हन्तॄणामिति ॥३८॥
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत्
।
प्रियो भवति भूतानां धर्मज्ञो वीतभीनृपः॥३९॥
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत
।
विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः॥४०॥
विश्वस्तो जनः ॥४०॥
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया
।
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति॥४१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सेनानीतिकथने द्व्यधिकशततमोऽध्यायः॥१०२॥
युधिष्ठिर उवाच।
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
।
आदौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह॥१॥
कथमिति ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर॥२॥
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः
।
उपसंगम्य पप्रच्छ वासवः परवीरहा॥३॥
इन्द्र उवाच
।
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः
।
असमुच्छिद्य चैवैतान्नियच्छेयमुपायतः॥४॥
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्
।
किंकुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी॥५॥
व्यतिषङ्गेण मिश्रणेन युद्धेनेत्यर्थः साधारणो नियतः ॥५॥
ततो धर्मार्थकामानां कुशलः प्रतिभानवान्
।
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्॥६॥
प्रत्युवाच गुरुः ॥६॥
बृहस्पतिरुवाच
।
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः
।
बालैरासेवितं ह्येतद्यदमर्षो यदक्षमा॥७॥
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता
।
क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि॥८॥
विवृतः सावधानः सार्धः श्लोकः ॥८॥
अमित्रमुपसेवेत विश्वस्तवदविश्वसन्
।
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्॥९॥
विरमेच्छुष्कवैरेभ्यः कण्ठायासांश्च वर्जयेत्
।
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः॥१०॥
कण्ठायासान्मुखरत्वं वितंसः पक्षिबन्धनोपायस्तदुपजीवी वैतंसिकः ॥१०॥
तान् द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः
।
वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर॥११॥
न नित्यं परिभूयारीन्सुखं स्वपिति वासव
।
जागर्त्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः॥१२॥
स्वपिति महीपतिरित्यनुकर्षः । 'सङ्करोऽग्निचटत्कारः' इति मेदिनी ॥१२॥
न सन्निपातः कर्तव्यः सामान्ये विजये सति
।
विश्वास्यैवोपसन्नार्थो वशे कृत्वा रिपुः प्रभो॥१३॥
सामान्ये अनिश्चिते रिपुर्वशे कृत्वा उपसन्नार्थो लम्भितार्थः कृतश्चेत्स एनं काले प्रहरेदिति सार्धयोर्द्वयोः सम्बन्धः ॥१३॥
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः
।
उपेक्ष्यमाणोऽवज्ञातो हृदयेनापराजितः॥१४॥
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे
।
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः॥१५॥
किञ्चास्य दण्डं सेनां च भेदेन दूषयेत् सः ॥१५॥
आदिमध्यावसानज्ञः प्रच्छन्नं च विधारयेत्
।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः॥१६॥
प्रच्छन्नं यथा स्यात्तथा विधारयेत् मनसि विषमं धारयेत् ॥१६॥
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा
।
न त्वेवं खलु संसर्गं रोचयेदरिभिः सह॥१७॥
औषधैर्विषादिभिः फलितमाह- न त्विति ॥१७॥
दीर्घकालमपीक्षेत निहन्यादेव शात्रवान्
।
कालाकाङ्क्षीहि क्षपयेद्यथा विश्रम्भमाप्नुयुः॥१८॥
यथा विश्रमं विश्वासमाप्नुयुस्तथा कुर्यात् ॥१८॥
न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः
।
न शल्यं वा घटयति न वाचा कुरुते व्रणम्॥१९॥
द्रष्टव्यः प्रदर्शनीयः नेति सार्धः ॥१९॥
प्राप्ते न प्रहरेत्काले न च संवर्तते पुनः
।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति॥२०॥
रिपून्प्रतिहन्तुकामस्य पुनः कालो न संवर्तते नोपसंपद्यतेऽतः प्राप्ते काले प्रहरेदेव न तु कालान्तरं प्रतीक्षेतेत्यर्थः॥२०॥
यो हि कालो व्यतिक्रामेत्पुरुषं कालकाक्षिणम्
।
दुर्लभः स पुनस्तेन कालः कर्मचिकीर्षुणा॥२१॥
ओजश्च जनयेदेव संगृह्णन्साधुसम्मतम्
।
अकाले साधयेन्मित्रं न च प्राप्ते प्रपीडयेत्॥२२॥
ओजः सामर्थ्यं शत्रौ अकाले प्राप्ते सति स्वकार्यं न साधयेत् नापि तं प्रपीडयेत् काले च नातिक्रामेतेत्यर्थः ॥२२॥
विहाय कामं क्रोधं च तथाऽहंकारमेव च
।
युक्तो विवरमन्विच्छेदहितानां पुनः पुनः॥२३॥
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम
।
मायाः सुविहिताः शक्र सादयन्त्यविचक्षणम्॥२४॥
निहत्यैतानि चत्वारि मायां प्रति विधाय च
।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्॥२५॥
चत्वारि मार्दवादीनि ॥२५॥
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्
।
यच्छन्ति सचिवा गुह्यं मिथो विश्रावयन्त्यपि॥२६॥
मन्त्रविप्लवभयाद्यदेकेनैव कर्तुं शक्यं तत्तं प्रति वक्तव्यं न बहून्प्रतीत्याह- यदिति । यच्छन्ति निगृह्णन्ति कर्तुं न प्रयच्छन्तीत्यर्थः ॥२६॥
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्
।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्॥२७॥
अन्यैः सह संविदं सम्मतिं चरेद्यदि पूर्वो मन्त्रं विघ्नयेदित्यर्थः । ततश्चादृष्टेषु दूरस्थेषु ब्रह्मदण्डं पुरोहितद्वारमभिचारं प्रयुञ्ज्यात् । दृष्टे प्रत्यक्षशत्रौ चतुरङ्गिणीमपि प्रयुञ्ज्यादित्याह- ब्रह्मेति ॥२७॥
भेदं च प्रथमं युंज्यात्तूष्णीमपि तथैव च
।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा॥२८॥
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः
।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः॥२९॥
प्रणिपातेन, दानेन, वाचा मधुरया ब्रूवन्
।
अमित्रमपि सेवेत न च जातु विशङ्कयेत्॥३०॥
न विशङ्कयेत् शङ्कायत्तं न कुर्यात् ॥३०॥
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्
।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः॥३१॥
तदेवाह- स्थानानीति । निराकृताः स्वशत्रुभिः सह प्रीतिं कुर्वाणानन्यान् शत्रुत्वेन पश्यन्ति तदीयमित्रत्वे च विश्वसन्तीत्यर्थः ॥३१॥
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तमा
।
यथा विविधवृत्तानामैश्वर्यममराधिप॥३२॥
विविधवृत्तानाम् अस्थिराणां स्थिरचित्त एव भवेदित्यर्थः ॥३२॥
तथा विविधवृत्तानामपि सम्भव उच्यते
।
यतते योगमास्थाय मित्रामित्रं विचारयेत्॥३३॥
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः
।
मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव॥३४॥
यथा वप्रे वेगवति सर्वतः सम्प्लुतोदके
।
नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः॥३५॥
वेगवति पूरे सति वप्रे तटे विवरणाद्विदारणाद्बाध इति योजना ॥३५॥
न बहूनभियुञ्जीत यौगपद्येन शात्रवान्
।
साम्ना, दानेन, भेदेन, दण्डेन च पुरंदर॥३६॥
एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत्
।
न तु शक्तोऽपि मेधावी सर्वानेवारभेन्नृप॥३७॥
निपुणं कुशलम् आरभेत् पेष्टुमिति शेषः ॥३७॥
यदा स्यान्महती सेना हय-नाग-रथाकुला
।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी॥३८॥
षडङ्गिरनी रथ-तुरग-मातङ्ग-पदाति-कोश-वणिक्पथवती ॥३८॥
यदा बहुविधां वृद्धिं मन्येत प्रतिलोमतः
।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन्॥३९॥
प्रतिलोमतः शत्रोरपेक्षया विवृत्य प्रकटीभूय दस्यूनां दस्यून् ॥३९॥
न सामदण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा
।
न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा॥४०॥
उक्तमेवार्थं संगृह्णाति- न सामेति । बलवति शत्रौ साम न प्रशस्यते किं तर्हि दण्डोपनिषत् रहस्यदण्डः न शत्रुर्विवृतः कार्य इत्यादिना प्रागुक्तरीत्या छलेनैव स नाशनीय इत्यर्थः । अत एव शत्रुषु मार्दवं पार्यन्तिकं न कार्यम् । नापि यात्रिकं सदा कार्यं जयस्यानियतत्वात् यात्रायां हि सस्यानां घातः सङ्करक्रिया विषादिना जलादीनां नाशनं भूयः पुनः पुनः प्रकृतेः सप्तविधायाः विचारणा । कथं दण्डः कथं कोशः कथममात्य इत्यादिसंदेहश्चापतति । तत् त्रयमपि न कार्यं हिंसामूलत्वात् चिन्तावृद्धिकरत्वाच्च तस्मात्कपटपूर्वको दण्ड एव श्रेयानित्यर्थः ॥४०॥
मायाविभेदानुपसर्जनानि तथैव पापं न यशःप्रयोगात्
।
आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान्॥४१॥
एतदेव विवृणोति- मायेति मायाविभेदान्नानाविधाः मायाः प्रयुञ्जीत तत उपसर्जनानि परस्परमितरेषां शत्रूणामुत्थापनादीनि तत्तथैव शत्रुषु पापं कपटं च प्रयुञ्ज्यात् कथं यशसः प्रयोगात् । प्रयोगे हि यशो न नाशनीयं प्राक्फलोदयादयमनेनास्मासु अपकारश्चिन्तित आसीदित्यकीर्ति गूढमन्त्रतया न कुर्यात् किं तर्हि कुर्यादत आह- आप्तैरिति ॥४१॥
पुरापि चैषामनुसृत्य भूमिपाः पुरेषु भोगानखिलान् जयन्ति
।
पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन॥४२॥
एषाम् एतान् शत्रून्पुरेषु तत्तस्थानेषु अनुसृत्य भोगांस्तदीयान् जयन्ति नीतिं पुरेषु स्वीयेषु ॥४२॥
प्रदाय गूढानि वसूनी राजन् प्रच्छिद्य भोगानवधाय च स्वान्
।
दुष्टान्स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति॥४३॥
अनुसरणमेवाह- प्रदायेति । एतेन ममामात्याः दुष्टाः मां त्यक्त्वा राजान्तरं प्रति गता इति लोकमुखात्कीर्तयित्वा परेषां पुरेषु राष्ट्रेषु च तान्योजयन्ति ॥४३॥
तथैव चान्यैरपि शास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानदृष्टिभिः
।
सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च॥४४॥
कृत्यामिव कृत्यां मृत्युकारिणीं देवताम् ॥४४॥
इन्द्र उवाच
।
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम
।
कथं दुष्टं विजानीयामेतत्पृष्टो ब्रवीमि मे॥४५॥
बृहस्पतिरुवाच
।
परोक्षमगुणानाह सद्गुणानभ्यसूयते
।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः॥४६॥
तूष्णीम्भावेऽपि विज्ञेयं न चेद्भवति कारणम्
।
निश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥४७॥
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते
।
अदृष्टितो न कुरुते दृष्टो नैवाभिभाषते॥४८॥
संसृष्टं संसर्गम् असंसृष्टश्च पर इव भाषते अदृष्टितः परोक्षे प्रतिश्रुतमपि कार्यं न कुरुते ॥४८॥
पृथगेत्य समश्नाति नेदमद्य यथाविधि
।
आसने, शयने, याने भावा लक्ष्या विशेषतः॥४९॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्
।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्॥५०॥
एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप
।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥५१॥
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम
।
निशम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर॥५२॥
भीष्म उवाच।
स तद्वचः शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः
।
चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरंदरः॥५३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि इन्द्रबृहस्पतिसंवादे त्र्यधिकशततमोऽध्यायः॥१०३॥
युधिष्ठिर उवाच।
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः
।
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत्॥१॥
अधार्मिकस्य च्छलादिकं विधेयमित्युक्तं धार्मिकस्य हीनसंपदो विजिगीषमाणस्य कर्तव्यं पृच्छति- धार्मिक इति ॥१॥
भीष्म उवाच।
अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते
।
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर॥२॥
क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा
।
मुनिं कालकवृक्षीयमाजगामेति नः श्रुतम्
।
तं पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः॥३॥
राजोवाच
।
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः
।
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति॥४॥
भागी भागार्हः ईहमानो यतमानः ॥४॥
अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात्
।
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम॥५॥
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा
।
धर्मज्ञश्च कृतज्ञश्च त्वद्विधः शरणं भवेत्॥६॥
इतरेण शारीरेण ॥६॥
निर्विद्यति नरः कामान्निर्विद्य सुखमेधते
।
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु॥७॥
निर्विद्यति विरज्यते कामाद्विषयभोगात् बुद्धिमयं वसु ज्ञानरूपं धनम् ॥७॥
सुखमर्थाश्रयं येषामनुशोचामि तानहम्
।
मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः॥८॥
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यिजन्ति ये
।
वयं त्वेतान्परित्यक्तुमसतोऽपि न शक्नुमः॥९॥
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रिया च्युतम्
।
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम्॥१०॥
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता
।
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः॥११॥
मुनिरुवाच
।
पुरस्तादेव ते बुद्धिरियं कार्या विजानता
।
अनित्यं सर्वमेवैतदहं च मम चास्ति यत्॥१२॥
इयं निर्विद्यतीति श्लोकेन त्वया प्रोक्ता अहं च यच्च मम अस्ति एतत्सर्वम् अनित्यमिति जानता ॥१२॥
यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्
।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः॥१३॥
नास्ति तुच्छत्वात् ॥१३॥
यद्धि भूतं भविष्यं च सर्वं तन्न भविष्यति
।
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे॥१४॥
सर्वं तन्नाभून्न भविष्यति दृष्टिसमसमयैव सृष्टिरिति भावः ॥१४॥
यच्च पूर्वं समाहारे यच्च पूर्वं परे परे
।
सर्वं तन्नास्ति ते चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्॥१५॥
यच्च पूर्वं प्राचीनं समाहारे राज्ञां समुदाये धान्यादिकं यच्च पूर्वं परे परे पूर्वस्मिन्पूर्वस्मिन् राज्ञि तत्सर्वं ते तव नास्त्येवेति तज्ज्ञात्वा सर्वत्र ममतां त्यक्त्वेति भावः ॥१५॥
भूत्वा च न भवत्येतदभूत्वा च भविष्यति
।
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथंचन॥१६॥
सामर्थ्यं धनार्जनवीर्यं कथं च कथमपि न कुर्यात् शोकम् ॥१६॥
क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहः
।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च॥१७॥
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि
।
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न भविष्यसि॥१८॥
आत्मनः देहस्य अध्रुवतामिति च्छेदः । न भविष्यसि मरिष्यसि ॥१८॥
अहं च त्वं च नृपते सुहृदः शत्रवश्च ते
।
अवश्यं न भविष्यामः सर्वं च न भविष्यति॥१९॥
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः
।
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्॥२०॥
अपि चेन्महतो वित्तान्न प्रमुच्येत पूरुषः
।
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः॥२१॥
न प्रमुच्येत प्रत्यक्षेण त्यागो न संभवति चेन्ममत्वं बान्धवादौ त्याज्यमित्याह-अपीति ॥२१॥
अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात्
।
दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः॥२२॥
विद्यात् विद्युः तत् निर्ममत्वम् ॥२२॥
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासति
।
बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः॥२३॥
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः
।
किं न त्वं तैर्नरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः॥२४॥
राजोवाच।
यादृच्छिकं सर्वमासीत्तद्राज्यमिति चिन्तये
।
ह्रियते सर्वमेवेदं कालेन महता द्विज॥२५॥
यादृच्छिकम् अयत्नादागतम् ॥२५॥
तस्यैव ह्रियमाणस्य स्त्रोतसेव तपोधन
।
फलमेतत्प्रपश्यामि यथालब्धेन वर्तयन्॥२६॥
एतत् शोकाख्यं फलं यथालब्धेन वर्तयन् जीवन्नपि पश्यामि यादृच्छिकस्य नाशेन जीवनालोपेऽपि शोको न नश्यतीत्यर्थः ॥२६॥
मुनिरुवाच।
अनागतमतीतं च याथातथ्यविनिश्चयात्
।
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव॥२७॥
अवाप्यान्कामयन्नर्थान्नानवाप्यान्कदाचन
।
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान्॥२८॥
यथा लब्धोपपन्नार्थैस्तथा कौसल्य रंस्यसे
।
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि॥२९॥
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः
।
धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते॥३०॥
न मृष्यते तैर्न सन्तुष्यति ॥३०॥
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्
।
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते॥३१॥
अनर्हान् म्लेच्छादीन्नीचान् ॥३१॥
ईर्ष्याभिमानसम्पन्ना राजन्पुरुषमानिनः
।
कच्चित्त्वं न तथा राजन्मत्सरी कोसलाधिप॥३२॥
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा
।
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते सदा॥३३॥
सहस्वेतिसार्धम् अन्यत्र शत्रौ कुशलाः निर्मत्सराः जनं द्विषतः सकाशात् अभिनिस्यन्दते प्रस्रवति ॥३३॥
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
।
योगधर्मविदो धीराः स्वयमेव त्यजन्त्युत॥३४॥
बहुसंकुसुकं दृष्ट्वा विधित्सासाधनेन च
।
तथाऽन्ये संत्यजन्त्येव मत्वा परमदुर्लभम्॥३५॥
विधित्सा क्रियाणामनुपरमस्तेन साधनेन सङ्कुसुकम् अस्थिरं नित्यं नवं नवमारम्भं कुर्वाणं दृष्ट्वा अन्ये प्राकृतास्तत् संत्यजन्त्येव ॥३५॥
त्त्वं पुनः प्राज्ञरूपः सन् कृपणं परितप्यसे
।
अकाम्यान्कामयानोऽर्थान् पराधीनानुपद्रवान्॥३६॥
उपद्रवान् अस्थिरान् ॥३६॥
तां बुद्धिमुपजिज्ञासुस्त्वमेवैतान्परित्यज
।
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः॥३७॥
अर्थरूपेण भासमानाः ॥३७॥
अर्थायैव हि केषांचिद्धननाशो भवत्युत
।
आनन्त्यं तत्सुखं मत्वा श्रियमन्यः परीप्सति॥३८॥
आद्यस्योदाहरणम्-अथायेति ॥३८॥
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते
।
तथा तस्येहमानस्य समारम्भो विनश्यति॥३९॥
द्वितीयस्योदाहरणं रममाण इति ॥३९॥
कृच्छ्राल्लब्धमभिप्रेतं यदि कौसल्य नश्यति
।
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः॥४०॥
परिभग्नक्रमो नष्टारंभः ॥४०॥
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः
।
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात्॥४१॥
जीवितं संत्यजन्त्येके धनलोभपरा जनाः
।
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते॥४२॥
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम्
।
अध्रुवे जीविते मोहादर्थदृष्टिमुपाश्रिताः॥४३॥
संचये च विनाशान्ते मरणान्ते च जीवित
।
संयोगे च वियोगान्ते को नु विप्रणयेन्मनः॥४४॥
विप्रणयेत् दद्यात् ॥४४॥
धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम्
।
अवश्यं प्रजहात्येव तद्विद्वान्कोऽनुसंज्वरेत्॥४५॥
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च
।
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः
।
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्॥४६॥
अन्येषामपीति सार्धः । बुद्ध्या कल्पितामापदं पश्य कथमत आह- नियच्छेति । यथा- क्रमेणान्वयः इन्द्रियादीनां निरोधे हि जगत्तत्वं सम्यक् स्फुरति तेनापदां कल्पितत्वं स्फुटीभवतीति भावः ॥४६॥
प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेष्वपि ॥४७॥
प्रतीति । भावेषु अर्थेषु प्राप्तिसृष्टेषु दर्शनमात्रोत्पन्नेषु प्रतिषेद्धा न विद्यते अप्रत्याख्येयदर्शनाः सर्वे वर्तमानाः पदार्था इत्यर्थपव्यकृष्टेषु देशतः कालतश्च व्यवहितेष्वतीतानागतदूरस्थेषु दर्शनस्यासम्भवे च ज्ञाते सति त्वद्विधो नानुशोचति इष्टानिष्टसंयोगवियोगयोरिति सार्धार्थः ॥४७॥
प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसम्भवे
।
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति॥४८॥
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुनिश्चितः
।
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव शोचति॥४९॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
।
नृशंसवृत्तिं पापिष्ठां दुष्टां कापुरुषोचिताम्॥५०॥
अपि मूलफलाजीवो रमस्वैको महावने
।
वाग्यत संगृहीतात्मा सर्वभूतदयान्वितः॥५१॥
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना
।
यदेको रमतेऽरण्येष्वारण्येनैव तुष्यति॥५२॥
महाह्रदः संक्षुभित आत्मनैव प्रसीदति
।
एतदेवं गतस्याहं सुखं पश्यामि जीवितुम्॥५३॥
असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः
।
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्॥५४॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कालकवृक्षीये चतुरधिकशततमोऽध्यायः॥१०४॥
मुनिरुवाच
।
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि
।
ब्रवीमि तां तु ते नीतिं राज्यस्य प्रतिपत्तये॥१॥
एवं दुर्बलस्य हनिसंपदः परैर्निर्जितस्य निवृत्तिधर्म एव श्रेयानित्युक्तम् । प्रबलस्य तु तादृशस्य निकृत्याख्यं जयोपायं वक्तुमध्याय आरभ्यते- अथ चेदिति ॥१॥
तां चेच्छक्नोषि निर्मातुं कर्म चैव करिष्यसि
।
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः॥२॥
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि
।
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्॥३॥
अथैतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते
।
राजोवाच
।
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो॥४॥
उपपन्नोऽस्मि पौरुषेणेति शेषः ॥४॥
अमोघोऽयं भवत्वद्य त्वया सह समागमः
।
मुनिरुवाच
।
हित्वा दम्भं च कामं च क्रोधं हर्षं भयं तथा॥५॥
अप्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः
।
तमुत्तमेन शौचेन कर्मणा चाभिधारय॥६॥
दातुमर्हति ते वित्तं वैदेहः सत्यसंगरः
।
प्रमाणं सर्वभूतेषु प्रग्रहं च भविष्यसि॥७॥
वित्तं वेतनरूपं प्रमाणं विश्वासं प्रग्रहमिव प्रग्रहं भुजत्वं तस्य बाहुस्थानीयो भविष्यसीत्यर्थः । 'प्रग्रहस्तु तुलासूत्रे बन्द्यां नियमने भुजे' इति मेदिनी ॥७॥
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनान् शुचीन्
।
वर्तमानः स्वशास्त्रेण संयतात्मा जितेन्द्रियः॥८॥
स्वशास्त्रेण नीतिशास्त्रेण ॥८॥
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः
।
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः॥९॥
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्
।
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रिभिः॥१०॥
ग्रहणम् आदरं 'ग्रहणं स्वीकारादरकरोपरागोपलब्धिबन्दिषु' इति मेदिनी ॥१०॥
आन्तरैर्भेदयित्वाऽरीन्बिल्वं बिल्वेन भेदय
।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय॥११॥
बिल्वं बिल्वेनेति । अन्यपराजयोपीष्ट इति मत्वा जनकेनान्यं विपरीतं वा घातय अस्य वैदेहस्य ॥११॥
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च
।
शय्यासनानि यानानि महार्हाणि गृहाणि च॥१२॥
पक्षिणो मृगजातानि रसगन्धः फलानि च
।
तेष्वेव सज्जयेथास्त्वं यथा नश्यत्वयं परः॥१३॥
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति
।
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता॥१४॥
प्रतिषेधस्थाने तदकरणेऽयं मां न प्रतिषिद्धवानिति मम शत्रुरिति विवृतत्वं भवति तद्रक्ष्यमित्यर्थः ॥१४॥
रमस्व परमामित्रे विषये प्राज्ञसम्मतः
।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनर्थकैः॥१५॥
हे परम । अमित्रे शत्रुसमीपे श्वेतकाकीयैः श्वा च एतश्च काकश्च तेषामिमे धर्माः क्रमेण नित्यं जागरूकत्वभयचकितत्वपरेङ्गितज्ञत्वानि तैः उपायैः मित्रधर्मं भजस्व श्वेत इत्यत्रौमाङोश्चेति पररूपम् एतो मृगः ॥१५॥
आरम्भांश्चास्य महतो दुश्चरांश्च प्रयोजय
।
नदीवच्च विरोधांश्च बलवद्भिर्विरुध्यताम्॥१६॥
आरम्भान्विरोधांश्व महानदीवद्दुस्तरान् ॥१६॥
उद्यानानि महार्हाणि शयनान्यासनानि च
।
प्रतिभोगसुखेनैव कोशमस्य विरेचय॥१७॥
यज्ञदाने प्रशाध्यस्मै ब्राह्मणाननुवर्ण्य तान्
।
ते त्वां प्रतिकरिष्यन्ति तं भोक्ष्यन्ति वृका इव॥१८॥
प्रतिकरिष्यन्ति प्रत्युपकारेण स्वस्त्ययनादिना उपकरिष्यन्ति ॥१८॥
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति मानवः॥१९॥
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
।
उभयत्र प्रयुक्तस्य धर्मेणाधर्म एव च॥२०॥
धर्माधर्माभ्यां कोशक्षये सति ॥२०॥
फलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः
।
न चास्मै मानुषं कर्म दैवमस्योपवर्णय॥२१॥
फलस्य स्वर्गादेः अर्थस्य जयादेः मूलकारणं कोशः व्युच्छिद्येत् विशेषत उच्छेदं गच्छेत् दैवं जयादिकम् ॥२१॥
असंशयं दैवपरः क्षिप्रमेव विनश्यति
।
याजयैनं विश्वजिता सर्वस्वेन वियुज्य तम्॥२२॥
ततो गच्छसि सिद्धार्थः पीड्यमानं महाजनम्
।
योगधर्ममिदं पुण्यं कंचिदस्योपवर्णयेत्॥२३॥
गच्छसि अवगच्छसि सिद्धार्थः कृतयज्ञादिप्रयोजनः महाजनपीडां तस्मै निवेदयेत् तत्परिहारार्थम् आचार्यं च वर्णयेत् ॥२३॥
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्
।
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना
।
नागानश्वान्मनुष्यांश्च कृतकैरुपघातयेत्॥२४॥
तद्द्वारा राज्यं त्याजयेदित्याह- अपीति । यद्वा औषधाद्यैरस्य नागादीन्घातयेदिति सार्धः ॥२४॥
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः
।
शक्या विषहता कर्तुं पुरुषेण कृतात्मना॥२५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कालकवृक्षीये पञ्चाधिकशततमोऽध्यायः॥१०५॥
युधिष्ठिर उवाच।
महानयं धर्मपथो बहुशाखश्च भारत
।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्॥१॥
नीतिप्रधानान् राजधर्मान् श्रुत्वा तदनुग्राहकान् शुद्धधर्मानाह- महानित्यादिना ॥१॥
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्
।
यथाहं परमं धर्ममिह च प्रेत्य चाप्नुयाम्॥२॥
भीष्म उवाच।
मातापित्रोर्गुरूणां च पूजा बहुमता मम
।
इह युक्तो नरो लोकान्यशश्च महदश्नुते॥३॥
यच्च तेऽभ्यनुजानीयुः कर्म तात सुपूजिताः
।
धर्माधर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर॥४॥
न च तैरभ्यनुज्ञातो धर्ममन्यं समाचरेत्
।
यं च तेऽभ्यनुजानीयुः स धर्म इति निश्चयः॥५॥
एत एव त्रयो लोका एत एवाश्रमास्त्रयः
।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः॥६॥
पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः
।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी॥७॥
त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकांश्च विजेष्यसि
।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्॥८॥
वृत्त्या पूजया ॥८॥
ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि
।
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत॥९॥
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहत्फलम्
।
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्॥१०॥
न अतिशयेत् भोगेषु क्रियासु वा स्वस्याधिक्यं न दर्शयेत् ॥१०॥
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्
।
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे राजसत्तम॥११॥
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः
।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥१२॥
न चायं न परो लोकस्तस्य चैव परंतप
।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः॥१३॥
न चास्मिन्नपरे लोके यशस्तस्य प्रकाशते
।
न चान्यदपि कल्याणं परत्र समुदाहृतम्॥१४॥
तेभ्य एव हि यत्सर्वं कृत्वा च विसृजाम्यहम्
।
तदाऽसीन्मे शतगुणं सहस्रगुणमेव च॥१५॥
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर
।
दशैव तु सदाऽऽचार्यः श्रोत्रियानतिरिच्यते॥१६॥
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश
।
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि॥१७॥
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः
।
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः॥१८॥
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः
।
शरीरमेव सृजतः पिता माता च भारत॥१९॥
आचार्यशिष्टा या जातिः सा दिव्या साऽजरामरा
।
अवध्या हि सदा माता पिता चाप्यपकारिणौ॥२०॥
जातिर्जन्म अवध्येत्यादि सार्धं चाङ्गुरुः ॥२०॥
न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम्
।
धर्माय यतमानानां विदुर्देवा महर्षिभिः॥२१॥
तत् वध्यानामपि तेषाम् अवधं कृत्वा ते अपराधिनोऽपि पितृमातृगुरवः अवधेन राजानमिव नैनं दूषयन्ति । राजा हि वध्यानामवधे दुष्यति तद्वन्नात्रेत्यर्थः । धर्माय दुष्टानामपि पित्रादीनां पालनाय यतमानानां यतमानान्देवा अप्यनुग्राह्यत्वेन विदुः ॥२१॥
यश्चावृणोत्यवितथेन कर्मणा ऋतं ब्रुवन्ननृतं सम्प्रयच्छन्
।
तं वै मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्॥२२॥
आवृणोति अनुगृह्णाति कर्मणा प्रवचनेन ऋतं वेदम् ॥२२॥
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा वा
।
तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके
।
यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽभ्यर्चनीयाः॥२३॥
नाद्रियन्ते ये ते प्रत्यासन्नाः विपर्ययेण विशीर्णा नष्टा भवन्ति ॥२३॥
तस्मात्पूजयतिव्याश्च संविभज्याश्च यत्नतः
।
गुरवोऽर्चयितव्याश्च पुराणं धर्मभिच्छता॥२४॥
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः
।
प्रीणाति मातरं येन पृथिवी तेन पूजिता॥२५॥
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्
।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः॥२६॥
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह
।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः॥२७॥
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्
।
न च माता न च पिता मन्यते यादृशो गुरुः॥२८॥
न तेऽवमानमर्हन्ति न तेषां दूषयेत् कृतम्
।
गुरूणामेव सत्कारं विदुर्देवा महर्षिभिः॥२९॥
उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ते मनसा कर्मणा वा
।
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके॥३०॥
भृतो वृद्धो यो न बिभर्ति पुत्रः स्वयोनिजः पितरं मातरं च
।
तद्वै पापं भ्रूणहत्याविशिष्टं तस्मान्नान्य पापकृदस्ति लोके॥३१॥
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य गुरुघातिनः
।
चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुम॥३२॥
एतत्सर्वमनिर्देशेनैवमुक्तं यत्कर्तव्यं पुरुषेणेह लोके
।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान् धर्माननुसृत्यैतदुक्तम्॥३३॥
अनिर्देशेन विस्तरेण न तु निर्देशमात्ररूपेण संक्षेपेण अनुसृत्य एकीकृत्य एतत्सारभूतम् ॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि मातृ-पितृ-गुरुमाहात्म्ये अष्टाधिकशततमोऽध्यायः॥१०८॥
युधिष्ठिर उवाच।
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत
।
विद्वन् जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥१॥
कथमिति । सत्यानृतयोर्धर्माधर्मरूपत्वे हिंसाहिंसायुक्तयोस्तयोर्वैपरीत्यदर्शनात्संशय इत्यर्थः ॥१॥
सत्यं चेवानृतं चोभे लोकानावृत्य तिष्ठतः
।
दयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः॥२॥
उभयोस्त्यागस्त्वतिदुष्कर इत्याह- सत्यमिति । लोकान्संसारिणः ॥२॥
किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम्
।
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्॥३॥
भीष्म उवाच।
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
।
यत्तु लोकेषु दुर्ज्ञानं तत्प्रवक्ष्यामि भारत॥४॥
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्
।
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत्॥५॥
तादृशो बध्यते बालो [वर्धते पापो] यत्र सत्यमनिष्ठितम्
।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥६॥
तादृशः सत्यानृतयोस्तत्त्वमजानन्बालत्वाद्बध्यते यत्र विषये अहिंसोपकारादौ सत्यम् अनिष्ठितं न निष्ठायुक्तं ते सत्यानृते बहूपकारप्रधाने निश्चिन्वन्धर्मवित् भवति ॥६॥
अप्यनार्यो कृतप्रज्ञः पुरुषोऽप्यतिदारुणः
।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव॥७॥
अन्धस्य घ्राणचक्षुषः सर्वप्राणिवधायोद्यतस्य वधात् बलाकः व्याधः हिंस्रस्वभावोऽपि स्वर्गं जगामेति कर्णपर्वकथाऽनुसन्धेया ॥७॥
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्
।
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः॥८॥
मूढः कर्णपर्वोक्तः सत्यवादी चोरेभ्यः सत्यवचनाभिमानित्वान्मार्गमुपदिश्य कार्पटिकान्घातितवान् असौ धर्मविन्नेत्यर्थः ॥ कौशिक उलूकः गङ्गातीरे सहस्रशः सर्पिण्या स्थापितान्यण्डानि भित्त्वा महत्पुण्यं प्राप तदभेदने तु तीक्ष्णविषाणां सर्पाणां वृद्ध्या सद्यो लोकनाशः संभवेत् ॥८॥
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्लभः
।
दुष्करः प्रतिसंख्यातुं तत्केनात्र व्यवस्यति॥९॥
सुदुर्लभो दुर्विवेकः अत्र घर्मलक्षणे व्यवस्यति निश्चिनोति ॥९॥
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्
।
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः॥१०॥
प्रभवोऽभ्युदयः अहिंसा अपीडनं धारणं संरक्षणम् एतत् त्रयं येन सत्येनानृतेन वा मृदुना तीक्ष्णेन वा यतो भवति स धर्म इत्याह त्रिभिः- प्रभवति ॥१०॥
धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः
।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः॥११॥
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम्
।
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः॥१२॥
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः
।
न च तत्प्रत्यसूयामो न हि सर्वं विधीयते॥१३॥
श्रुतीति । श्रुत्युक्तोऽर्थः सर्वो धर्म इत्यपि न श्येनादेर्धर्मत्वाभावात् । ’फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ॥ केवलं प्रीतिहेतुत्वात्तद्धर्म इति कथ्यते' इति वचनात् श्येनादिफलस्य शत्रुवधादेरनर्थत्वादुक्तलक्षण एव धर्म इत्यर्थः । सर्वं श्येनाद्यपि विधीयते धर्मत्वेन चोद्यते ॥१३॥
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कस्यचित्
।
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः॥१४॥
य इति । अन्यायेनेति च्छेदः बुभुक्षितेभ्यश्चोरेभ्यो धनिकं न ज्ञापयेत् भिक्षुभ्यस्तु ज्ञापयेदेवेत्यर्थः ॥१४॥
अकूजनेन चेन्मोक्षो नावकूजेत्कथंचन
।
अवश्यं कूजितव्ये वा शङ्करन्वाऽप्यकूजनात्॥१५॥
अकूजनेनेति । चोरेषु धनिकं पृच्छत्सु न वदेत् अवदतो मोक्षाभावे न वेद्मीति शपथपूर्वकमपि वदेत्तादृशस्थलेऽनृते दोषो नास्तीति श्लोकद्वयार्थः ॥१५॥
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्
।
यः पापैः सह सम्बन्धान्मुच्यते शपथादपि॥१६॥
न तेभ्योऽपि धनं देयं शक्ये सति कथंचन
।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्॥१७॥
नेति । तेभ्यः स्तेनेभ्यः अपिर्हेत्वर्थे ॥१७॥
स्वशरीरोपरोधेन धनमादातुमिच्छतः
।
सत्यसम्प्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित्॥१८॥
स्वेति सार्धः । यदा धनं त्वदीयं श्रमो मदीयः लाभस्तूभाभ्यां विभज्य ग्राह्य इति नियमपूर्वकं प्रवृतेऽधर्मेण चोरादिना धननाशः स्यात्तदा उत्तमर्णः अधमर्णस्य शरीरोपरोधेन दासीकरणेन धनमादातुमिच्छति चेत्तस्य वाक्ये सत्यसंप्रतिपत्त्यर्थं संवादार्थमाहूताः साक्षिणो वाच्यं वक्तुं योग्यं वचोऽनुक्त्वा शतं रूप्याणि धारयत्येवेति निश्चयवादित्वादनृतवादिन इति भावः ॥१८॥
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः
।
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्॥१९॥
यदा त्वधमर्णो धनवानुत्तमर्णस्तु क्षीणस्तदा तदप्यनृतं न दोषायत्याह- प्राणेति ॥१९॥
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्
।
परेषां सिद्धिमाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः॥२०॥
ईदृशस्थले वेषान्तरेणापि परकीयमर्थं रक्षेदित्याह- अर्थस्येति ॥२०॥
प्रतिश्रुत्य प्रदातव्यः स्वकार्यस्तु बलात्कृतः
।
यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मसाधनः॥२१॥
यदि तु उक्तविषये एव लाभालाभौ समौ उभाभ्यां विभज्य ग्राह्यमिति प्रतिश्रुतं तदा नाशितोर्थोऽधमर्णेन यथाभागं प्रदातव्यः । अथवा स्वकारा धनार्जनकारी अधमर्णो बलात्कृत उक्तरीत्या दासीकृतोऽप्यस्तु स चेत्कपटं करोत्यनष्टमपि नष्टमिति वदति चेत्तत्राह- य इत्यादिना ॥२१॥
दण्डनैव स हन्तव्यस्तं पन्थानं समाश्रितः
।
च्युतः सदैव धर्मेभ्योऽमानवं धर्ममास्थितः॥२२॥
अमानव आसुरम् ॥२२॥
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्
।
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः॥२३॥
शठः वञ्चकः तम् अमानवम् ॥२३॥
धनमित्येव पापानां सर्वेषामिह निश्चयः
।
अविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः॥२४॥
धनमेव श्रेयो न धर्म इत्यर्थः ॥२४॥
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव त
।
निर्यज्ञास्तपसा हीना मा स्म तैः सह सङ्गमः॥२५॥
मा संगमः सङ्गं मा कार्षीः ॥२५॥
धननाशाद्दुःखतरं जीविताद्विप्रयोजनम्
।
अयं ते रोचतां धर्म इति वाच्यः प्रयत्नतः॥२६॥
तत्र हेतुर्धनेति । विप्रयोजनं वियोगः एतदपि पापाः कुर्वन्तीत्यर्थः । अयमिति । पापानां पापिनां मध्ये वाचा उपदेशार्हः कश्चिदपि नास्ति किं तु सर्वं धर्म इत्येव तेषां निश्चय इत्यन्वयः । अधर्मकोटिस्फुरणाभावादित्याशयः ॥२६॥
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः
।
तथागतं च यो हन्यान्नासौ पापेन लिप्यते॥२७॥
स्वकर्मणा हतं हन्ति हत एव स हन्यते
।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु॥२८॥
समयम् एतान् हनिष्यामीति व्रतं यश्चिकीर्षेत् स कुर्वीत तादृशानां वधे पुण्यमस्तीति भावः ॥२८॥
यथा काकाश्च गृध्राश्च तथैवोपधिजीविनः
।
अर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु॥२९॥
यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः
।
मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः॥३०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सत्यानृतकविभागे नवाधिकशततमोऽध्यायः॥१०९॥
युधिष्ठिर उवाच।
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शनाः
।
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम्॥१॥
असौम्या इति ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
व्याघ्र-गोमायुसंवादं तं निबोध युधिष्ठिर॥२॥
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
।
परहिंसारतिः क्रूरो बभूव पुरुषाधमः॥३॥
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
।
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा॥४॥
संस्मृत्य पूर्वभूतिं च निर्वेदं परमं गतः
।
न भक्षयति मांसानि परैरुपहृतान्यपि॥५॥
अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः
।
स चकार यथाकालमाहारं पतितैः फलैः॥६॥
श्मशाने तस्य चावासो गोमायोः सम्मतोऽभवत्
।
जन्मभूम्यनुरोधाच्च नान्यवासमरोचयत्॥७॥
तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः
।
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः॥८॥
वसन्पितृवने रौद्रे शौचे वर्तितुमिच्छसि
।
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः॥९॥
विप्रतिपत्तिर्विपरीता बुद्धिः ॥९॥
तत्समानो भवास्माभिर्भोज्यं दास्यामहे वयम्
।
भुंक्ष्व शौचं परित्यज्य यद्धि भुक्तं सदास्तु ते॥१०॥
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
।
मधुरैः प्रसृतैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः॥११॥
प्रसृतैः विस्तृतैः ॥११॥
अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम्
।
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः॥१२॥
श्मशाने यदि मे वासः समाधिर्मे निशम्यताम्
।
आत्मा फलति कर्माणि नाश्रमो धर्मकारणम्॥१३॥
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे
।
किं तु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत्॥१४॥
भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः
।
अनुबन्धे त्रयो दोषास्तान्न पश्यन्ति मोहिताः॥१५॥
अनुबन्धे परिणामे ॥१५॥
अप्रत्ययकृतां गार्ह्यामर्थापनयदूषिताम्
।
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये॥१६॥
अप्रत्ययः असन्तोषस्तेन कृताम् अर्थापनयो धर्महानिः ॥१६॥
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
।
कृत्वात्मसदृशीं पूजां साचिव्येऽवरयत्स्वयम्॥१७॥
शार्दूल उवाच
।
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
।
व्रियन्तामीप्सिताभोगाः परिहार्याश्च पुष्कलाः॥१८॥
यात्रां राजकार्यं गच्छ प्राप्नुहि परिहार्याश्चानीप्सिताः । परिहार्याः परिच्छेद्या इत्यन्ये ॥१८॥
तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे
।
मृदुपूर्वं हितं चैव श्रेयश्चाधिगमिष्यसि॥१९॥
ज्ञापयामहे सूचयामहे ॥१९॥
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः
।
गोमायुः संश्रितं वाक्यं बभाषे किंचिदानतः॥२०॥
गोमायुरुवाच
।
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे
।
यत्सहायान्मृगयसे धर्मार्थकुशलान् शुचीन्॥२१॥
मदन्तरे मन्निमित्तम् ॥२१॥
न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम्
।
दुष्टामात्येन वा वीर शरीरपरिपन्थिना॥२२॥
न शक्यं राज्ञेति शेषः ॥२२॥
सहायाननुरक्तांश्च नयज्ञानुपसंहितान्
।
परस्परमसंसृष्टान्विजिगीषूनलोलुपान्॥२३॥
अनतीतोपधान्प्राज्ञान् हिते युक्तान्मनस्विनः
।
पूजयेथा महाभाग यथाऽऽचार्यान्यथा पितॄन्॥२४॥
न त्वेव मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप
।
न कामये सुखान्भोगानैश्वर्यं च तदाश्रयम्॥२५॥
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
।
ते त्वां विभेदयिष्यन्ति दुःशीलाश्च मदन्तरे॥२६॥
योक्ष्यति योगं प्राप्स्यति मदन्तरे मन्निमित्तं दुःशीलाश्च भविष्यन्ति ॥२६॥
न संश्रयः श्लाघनीयोऽहमेषामपि भास्वताम्
।
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः॥२७॥
अत्र हेतुमाह - नेति । एषामहं श्लाघनीयो नास्मीति द्वयोः सम्बन्धः ॥२७॥
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
।
कृती चामोघकर्तास्मि भाग्यैश्च समलंकृतः॥२८॥
स्थूललक्ष्यो बहुप्रदः ॥२८॥
न खल्पेनास्मि संतुष्टो दुःखवृत्तिरनुष्ठिता
।
सेवायां चापि नाभिज्ञः स्वच्छन्देन वनचरः॥२९॥
दुःखा वृत्तिः सेवावृत्तिश्च नानुष्ठिता ॥२९॥
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
।
व्रतचर्या तु नि:संगा निर्भया वनवासिनाम्॥३०॥
राजसमीपे उपक्रोशो निन्दा तज्जाः दोषाः राजोपक्रोशदोषाः सन्ति ॥३०॥
नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि
।
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम्॥३१॥
पानीयं वा निरायासं स्वाद्वन्नं वाऽभयोत्तरम्
।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥३२॥
यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि निर्वृत्तिः सुस्थितिरिति वा सुखं शर्मणि नाके च 'निर्वृतिः सुस्थितौ' इति च मेदिनी ॥३२॥
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः
।
उपघातैर्यथा भृत्या दूषिता निधनं गताः॥३३॥
शिष्टाः कृतदण्डाः ॥३३॥
यदि त्वेतन्मया कार्यं मृगेन्द्र यदि मन्यसे
।
समयं कृतमिच्छामि वर्तितव्यं यथा मयि॥३४॥
मदीया माननीयास्ते श्रोतव्यं च हितं वचः
।
कल्पित्ता या च मे वृत्तिः सा भवेत्त्वयि सुस्थिरा॥३५॥
न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्
।
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि॥३६॥
एक एकेन संगम्य रहो ब्रूयां हितं वचः
।
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते॥३७॥
मया सम्मन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया
।
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः॥३८॥
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः
।
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः॥३९॥
व्याघ्रयोनितः व्याघ्रयोनेः व्याघ्रस्येत्यर्थः ॥३९॥
तं तथा सुकृतं दृष्ट्वा पूज्यमानं स्वकर्मसु
।
प्राद्विषन्कृतसंघाता पूर्वभृत्या मुहुर्मुहुः॥४०॥
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रसाद्य च
।
दोषैस्तु समतां नेतुमैच्छन्नशुभबुद्धयः॥४१॥
अन्यथा ह्युषिताः पूर्वं परद्रव्याभिहारिणः
।
अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः॥४२॥
व्युत्थानं च विकाङ्क्षद्भिः कथाभिः प्रतिलोभ्यते
।
धनेन महता चैव बुद्धिरस्य विलोभ्यते॥४३॥
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह
।
अथास्य समयं कृत्वा विनाशाय तथाऽपरे॥४४॥
ईप्सितं तु मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्
।
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि॥४५॥
तस्य गोमायोर्वेश्मनि ॥४५॥
यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम्
।
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम्॥४६॥
तस्य गोमायोस्तद्विदितं तेन च तन्मर्षितं कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः ॥४६॥
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता
।
नोपघातस्त्वया कार्यो राजन्मैत्रीमिहेच्छता॥४७॥
भीष्म उवाच।
क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च
।
भोजनायोपहर्तव्यं तन्मांसं नोपदृश्यते॥४८॥
मृगराजेन चाज्ञप्तं दृश्यतां चोर इत्युत
।
कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्॥४९॥
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना
।
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्॥५०॥
बभूवामर्षितो राजा वधं चास्य व्यरोचयत्
।
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः॥५१॥
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते
।
निश्चित्यैव पुनस्तस्य ते कर्माण्यपि वर्णयन्॥५२॥
वर्णयन् अवर्णयन् ॥५२॥
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत्
।
श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः॥५३॥
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः
।
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः॥५४॥
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवान् श्रमम्
।
यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते॥५५॥
विप्रत्ययः अविश्वासः ॥५५॥
तन्मांसं चैव गोमायोस्तैः क्षणादाशु ढौकितम्
।
मांसापनयनं ज्ञात्वा व्याघ्रः श्रुत्वा च तद्वचः॥५६॥
गोमायोर्गृहे ढौकितं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः ॥५६॥
आज्ञापयामास तदा गोमायुर्वध्यतामिति
।
शार्दूलस्य वचः श्रुत्वा शार्दूलजननी ततः॥५७॥
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत्
।
पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंयुतम्॥५८॥
कर्म न ग्राह्यमित्युत्तरश्लोकेन सम्बन्धः ॥५८॥
कर्मसंघर्षजैर्दोषैर्दुष्येताशुचिभिः शुचिः
।
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका॥५९॥
सङ्घर्षजैः स्पर्धोथैः प्रक्रिया प्रकृष्टं कर्म ॥५९॥
शुचेरपि हि युक्तस्य दोष एव निपात्यते
।
मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः॥६०॥
उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः
।
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः॥६१॥
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः
।
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः॥६२॥
बहवः पण्डिता मूर्खा लुब्धा मायोपजीविनः
।
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि॥६३॥
शून्यात्तच्च गृहान्मांसं यद्यप्यपहृतं तव
।
नेच्छते दीयमानं च साधु तावद्विमृश्यताम्॥६४॥
असभ्याः सभ्यसंकाशाः सभ्याश्चासभ्यदर्शनाः
।
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्॥६५॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव
।
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः॥६६॥
तलवत् अवाङ्मुखकटाहगर्भवेत् ॥६६॥
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम्
।
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात्परितप्यते॥६७॥
न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम्
।
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा॥६८॥
प्रभवतां प्रभूणाम् ॥६८॥
स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः
।
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्॥६९॥
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्
।
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति॥७०॥
तस्मादप्यरिसंघाताद्गोमायोः कश्चिदागतः
।
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम्॥७१॥
गोमायोश्चारः ॥७१॥
ततो विज्ञातचरितः सत्कृत्य स विमोक्षितः
।
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः॥७२॥
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्
।
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत॥७३॥
प्रायं मरणार्थमुपवेशनम् आसितुम् आचरितुम् ॥७३॥
शार्दूलस्तं तु गोमायुं स्नेहात्प्रोत्फुल्ललोचनः
।
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन्॥७४॥
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम्
।
उवाच प्रणतो वाक्यं बाष्पगद्गदया गिरा॥७५॥
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः
।
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि॥७६॥
असंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः
।
स्वयं चापहृता भृत्या ये चाप्युपहिताः परैः॥७७॥
उपहिताः वञ्चिताः ॥७७॥
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः
।
हतस्वा मानिनो ये च त्यक्तादाना महेप्सवः॥७८॥
प्रतारिताः क्षारिताः ॥७८॥
संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः
।
अन्तर्हिताः सोपहितास्ते सर्वेऽपरसाधनाः॥७९॥
अपरसाश्च अधनाश्चेतिः अपरसाधनाः प्रीतिशून्या निर्धनाश्चेत्यर्थः ॥७९॥
अवमानेन युक्तस्य स्थानभ्रष्टस्य वा पुनः
।
कथं यास्यसि विश्वासमहं तिष्ठामि वा कथम्॥८०॥
समर्थ इति संगृह्य स्थापयित्वा परीक्षितः
।
कृतं च समयं भित्त्वा त्वयाऽहमवमानितः॥८१॥
प्रथमं यः समाख्यातः शीलवानिति संसदि
।
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता॥८२॥
एवं चावमतस्येह विश्वासं मे न यास्यसि
।
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति॥८३॥
शंकितस्त्वमहं भीतः परच्छिद्रानुदर्शिनः
।
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम्॥८४॥
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
।
भिन्ना श्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते॥८५॥
कश्चिदेव हिते भर्तुर्दृश्यते न परात्मनोः
।
कार्यापेक्षा हि वर्तन्ते भावस्निग्धाः सुदुर्लभाः॥८६॥
कश्चिदेव कश्चिदपि भर्तुर्हिते न दृश्यते किं तु वाणिज्यवदुभयार्थः स्नेहो न केवलं भर्तुः कार्यार्थ इत्यर्थः ॥८६॥
सुदु:खं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्
।
समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते॥८७॥
पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्घटमित्यर्थः ॥८७॥
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्
।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम्॥८८॥
प्रक्रियामहीकरणम् । अकस्मात्कर्तुं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः ॥८८॥
एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत्
।
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्॥८९॥
प्रसादयित्वा प्रसाद्य ॥८९॥
अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान्
।
गोमायुः प्रायमास्थाय त्यक्त्वा देहं दिवं ययौ॥९०॥
अगृह्य अगृहीत्वा ॥९०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि व्याघ्रगोमायुसंवादे एकादशाधिकशततमोऽध्यायः॥१११॥
भीष्म उवाच।
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागतः
।
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः॥१॥
स श्वेति ॥१॥
एवं राज्ञा मतिमता विदित्वा सत्यशौचताम्
।
आर्जवं, प्रकृतिं, सत्यं, श्रुतं, वृत्तं, कुलं, दमम्॥२॥
दृष्टान्तमुपपाद्य दार्ष्टान्तिकमाह - एवमित्यादिना ॥२॥
अनुक्रोशं, बलं, वीर्यं प्रभावं प्रश्रयं, क्षमाम्
।
भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुरक्षिताः॥३॥
नापरीक्ष्य महीपालः सचिवं कर्तुमर्हति
।
अकुलीननराकीर्णो न राजा सुखमेधते॥४॥
कुलजः प्राकृतो राज्ञा स्वकुलीनतया सदा
।
न पापे कुरुते बुद्धिं भिद्यमानोऽप्यनागसि॥५॥
राज्ञा अनागसि भिद्यमानोऽपि कुलीनः पापे बुद्धिं न कुरुत इत्यन्वयः ॥५॥
अकुलीनस्तु पुरुषः प्राकृतः साधुसंश्रयात्
।
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्॥६॥
अकुलीनस्तु निन्दामात्रेण शत्रुतां व्रजेत् ॥६॥
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानपारगम्
।
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा॥७॥
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्
।
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्॥८॥
स्वामिनो मित्राणां बुभूषकम् ऐश्वर्यलिप्सुम् ॥८॥
सचिवं देशकालज्ञं सत्त्वसंग्रहणे रतम्
।
सततं युक्तमनसं हितैषिणमतन्द्रितम्॥९॥
सत्त्वसङ्ग्रहणे प्राणिमात्ररञ्जने ॥९॥
युक्तचारं स्वविषये सन्धिविग्रहकोविदम्
।
राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम्॥१०॥
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्
।
इङ्गिताकारतत्त्वज्ञं यात्राज्ञानविशारदम्॥११॥
खातकाः परसैन्यावदारका ये व्यूहादयस्तेषां तत्त्वज्ञम् ॥११॥
हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम्
।
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम्॥१२॥
चौक्षं चौक्षजनाकीर्णं सुमुखं सुखदर्शनम्
।
नायकं नीतिकुशलं गुणचेष्टासमन्वितम्॥१३॥
चौक्षं शुद्धम् ॥१३॥
अस्तब्धं प्रसृतं श्लक्ष्णं मृदुवादिनमेव च
।
धीरं शूरं महर्धिं च देशकालोपपादकम्॥१४॥
प्रसृतं सूक्ष्मार्थगामिनम् ॥१४॥
सचिवं यः प्रकुरुते न चैनमवमन्यते
।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव॥१५॥
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः
।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः॥१६॥
धीरो मार्षी शुचिस्तीक्ष्णः काले पुरुषकारवित्
।
शुश्रूषुः श्रुतवान् श्रोता ऊहापोहविशारदः॥१७॥
मर्षी क्षमी ॥१७॥
मेधावी धारणायुक्तो यथान्यायोपपादकः
।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये॥१८॥
विपर्ययेऽक्षमावति अपकारिणि क्षमावान् ॥१८॥
दानाच्छेदे स्वयंकारी श्रद्धालुः सुखदर्शनः
।
आर्तहस्तप्रदो नित्यममात्यो हि हिते रतः॥१९॥
दानस्य अच्छेदे विषये स्वयम् अविच्छेदकर्ता ॥१९॥
नाहंवादी न निर्द्वन्द्वो न यत्किंचनकारकः
।
कृते कर्मण्यमात्यानां कर्ता भक्तजनप्रियः॥२०॥
न निर्द्वन्द्वो न निष्परिग्रहः कर्ता उपकर्ता ॥२०॥
संगृहीतजनो स्तब्धः प्रसन्नवदनः सदा
।
सदा भृत्यजनापेक्षी न क्रोधी सुमहामनाः॥२१॥
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः
।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा॥२२॥
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्
।
योधाश्चैव मनुष्येन्द्र सर्वे गुणगणैर्वृताः॥२३॥
गुणशतं कुलीनत्वादयः एकपञ्चाशदमात्यगुणास्तत्सहितः धर्मपरमत्वादय एकचत्वारिंशदेवम् अष्टोनं गुणशतम् एतेषां सन्धिविग्रहकोविदमित्यादिरीत्याऽन्यत् गुणाष्टकम् ऊहयित्वा पूर्णं शतं ज्ञेयम् ॥२३॥
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे
।
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता॥२४॥
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः
।
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः॥२५॥
अभया गजपृष्ठस्था रथचर्याविशारदाः
।
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही॥२६॥
सर्वसंग्रहणे युक्तो नृपो भवति यः सदा
।
उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः॥२७॥
शक्या चाश्वसहस्रेण वीरारोहेण भारत
।
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा॥२८॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि श्वर्षिसंवादे अष्टादशाधिकशततमोऽध्यायः॥११८॥
युधिष्ठिर उवाच।
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत
।
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः॥१॥
राजवृत्तेति । राजवृत्तानीत्यध्यायः पूर्वोक्तानां राजधर्माणां सर्वेषामुपसंहारार्थः ॥१॥
तदेव विस्तरेणोक्तं पूर्वदृष्टं सतां मतम्
।
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ॥२॥
राजधर्माणां राजधर्मविदां मतं यत् विस्तरेणोक्तं तदेव प्रणेयं प्रकर्षेण नेतुं वोढुं शक्यं सङ्क्षिप्तमित्यर्थः प्रब्रूहि ॥२॥
भीष्म उवाच।
रक्षणं सर्वभूतानामिति क्षात्रं परं मतम्
।
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते॥३॥
सर्वभूतरक्षणे कृत्स्नो राजधर्मः परिसमाप्त इत्याह- रक्षणमिति ॥३॥
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः
।
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्॥४॥
एतदेव मयूरदृष्टान्तेनोपपादयति- यथेति । बर्हाणि पक्षान् भुजगाशनो मयूरः ॥४॥
तैक्ष्ण्यं जिह्मत्वमादाल्भ्यं सत्यमार्जवमेव च
।
मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति॥५॥
तैक्ष्ण्यं क्रूरत्वं जिह्मत्वं कौटिल्यम् आदाल्भ्यं दल्भो भयं तदभावोऽदल्भः अभयं तस्य भाव आदाल्भ्यम् । अभयप्रदत्वमित्यर्थः । रलयोः सावर्ण्यात् दृभी भये इत्यस्य रूपम् । आदानमिति पाठान्तरे स्पष्टोऽर्थः ॥५॥
यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमादिशेत्
।
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति॥६॥
यस्मिन्नर्थे दण्डेऽनुग्रहे वा हितं क्रूरं शान्तं वा रूपमादिशेत् दर्शयेत् ॥६॥
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी
।
श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः॥७॥
आपद्द्वारेषु युक्तः स्याज्जलप्रस्रवणेष्विव
।
शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्
।
अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम्॥८॥
आपदां द्वारेषु मन्त्रभेदादिषु युक्तोऽवहितः स्यात् । शैलवर्षोदकानि पर्वतप्रदेशे वृष्ट्या जनितानि महानदीजलानि शिखां योग्यलिङ्गं क्रूरत्वादिकं कुर्यात् प्रकाशयेत् ॥८॥
नित्यमुद्यतदण्डः स्यादाचरेदप्रमादतः
।
लोके चायव्ययौ दृष्ट्वा बृहद्वृक्षमिवास्रवत्॥९॥
नित्यमिति । आचरेत् यथायोग्यं दण्डम् । तत्र दृष्टान्तः बृहदिति । बृहन्तो वृक्षाः यत्र तद्बृहद्वृक्षं तालवनम् आस्रवत् रसं प्रस्रवत् यथा रसग्राही प्रदेशविशेषे एव प्रहृत्य रसं गृह्णाति न तु कृत्स्नवृक्षच्छेदेन इक्षुकाण्डादिवत्ततो रसं जघृक्षति एवं प्रजानामायव्ययौ ज्ञात्वा ताः जीवयंस्ताभ्यो धनरसमादद्यादित्यर्थः ॥९॥
मृजावान् स्यात् स्वयूथ्येषु भौमानि चरणैः क्षिपेत्
।
जातपक्षः परिस्पन्देत् प्रेक्षेद्वैकल्यमात्मनः॥१०॥
मृजा शुद्धिस्तद्वान् भौमानि परेषां सस्यानि चरणैरश्वादिगमनैः क्षिपेत् नाशयेत् ॥१०॥
दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत्
।
काननेष्विव पुष्पाणि बहिरर्थात्समाचरन्॥११॥
अर्थात् मृगयादिव्याजात्परराष्ट्रं समाचरन्परपक्षान्विधूनयेत् ॥११॥
उच्छ्रितान्नाशयेत्स्फीतान्नरेन्द्रानचलोपमान्
।
श्रयेच्छायामविज्ञातां गुप्तं रणमुपाश्रयेत्॥१२॥
छायां परदुर्गाधिपतिना सन्धिं कृत्वा देवतादर्शनादिव्याजेनाकस्मात्परदुर्गं गत्वा प्रविश्य तन्नाशयेदित्याह- उच्छ्रितानिति ॥१२॥
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने
।
मायूरेण गुणेनैव स्त्रीभिश्चावेक्षितश्चरेत्॥१३॥
असितग्रीवो मयूरो निशीव प्रावृषि मज्जेत अदृश्योऽन्तःपुरचर एव स्यात् ॥१३॥
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना
।
चारभूमिष्वभिगतान्पाशांश्च परिवर्जयेत्॥१४॥
तत्रापि चारैर्दर्शितासु भूमिषु धात्रीसौविदल्लसूपकारादिषु परैर्भेदितेषु अभिगतान्विषादीन्पाशान्परिवर्जयेदात्मानं रक्षेच्चेत्याह- नाति ॥१४॥
प्रणयेद्वापि तां भूमिं प्रणश्येद्गहने पुनः
।
हन्यात्क्रुद्धानतिविषांस्तान् जिह्मगतयोऽहितान्॥१५॥
ननु कुतस्तत्रापि पाशप्रसक्तिरत आह- प्रणयेदिति । गहने दुर्बोधे पाशज्ञाने सति तां कपटभूमिं प्रतिपद्यात्मानं प्रणयेत्प्रापयेत्तदा नश्येदेव वाशब्द एवार्थे । प्रयोजयन्ति हि राजानो विषमयीं कन्यां कृत्वा द्वीपान्तरप्राप्तेयं पद्मिनीजातीया कन्या अस्याः स्पर्शमात्रादशीतिवार्षिकोऽपि षोडशवर्षो भवतीति सेयमतिश्रेष्ठरत्नतया श्रीमतामर्थे कल्पिताऽनुग्राह्या चेयं वयं चेति ब्रुवाणाः । तत्र चारमुखात्कपटं श्रुत्वा तां न प्रणयेत् ऊहितान्केनचिन्निमित्तेन तर्कितांस्तानतिविषान्कन्यादीन् स्पर्शमात्रेणोच्छ्वासमात्रेण वा सङ्गतमक्षिकामशकादिमरणलिङ्गेन ज्ञातान्हन्यादेव ॥१५॥
नाशयेद्बलबर्हाणि सन्निवासान्निवासयेत्
।
सदा बर्हिनिभः कामं प्रशस्तं कृतमाचरेत्
।
सर्वतश्चाददेत्प्रज्ञा पतङ्गं गहनेष्विव॥१६॥
नाशयेदितिसार्धः । बलबर्हाणि स्थूलान्पक्षान्सैन्यस्य पक्षस्थानीयान्महाशिबिरवारवनितानटनर्तकादींश्च नाशयेत् मयूर इव दूरीकुर्यात् 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति मेदिनी । सन्निवासान्दृढमूलान्पक्षानमात्यादीन् शूरांश्च वासयेत्स्थापयेत् बर्हिनिभः मयूरतुल्यः कामं यथेष्टं प्रशस्तं कृतं प्रशस्तां क्रियां पक्षाणां विस्फारणमाचरेत् अनेनैव क्रमेण सर्वतश्च जातिमात्रात्प्रज्ञाम् आददीत । यथोक्तं 'बकवच्चिन्तयेदर्थान्सिंहवच्च पराकमेत्' इत्यादि । पतङ्गं शलभसमूहो यथा गहनेषु पतति गहनं च निष्पत्रं करोति एवं संभूय शत्रुराष्ट्रे पतितव्यमित्यर्थः । पन्नगं गहनेष्विवेति पाठे पन्नगग्राही पन्नगभिवाकस्माच्छत्रुं गृह्णीयादित्यर्थः ॥१६॥
एवं मयूरवद्राजा स्वराज्यं परिपालयेत्
।
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः॥१७॥
आत्मसंयमनं बुद्ध्या परबुद्ध्यावधारणम्
।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्॥१८॥
बुद्ध्या आत्मनः संयमनम् इत्थमेव कर्तुं युक्तं नियमं कुर्यात् परबुद्ध्या च तत्रैवार्थे संवादितया तस्यार्थस्यावधारणं दृढतरो निश्चयः कार्यः । बुद्ध्या शास्त्रोत्थधिया आत्मगुणस्य पूर्वोक्तनिश्चयहेतोः प्राप्तिर्भवति एतदेव शास्त्रस्य निदर्शनं प्रयोजनं यत्कार्यक्षोदक्षमता बुद्धेरित्यर्थः ॥१८॥
परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत्
।
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्॥१९॥
आत्मनः स्वस्य परिमर्शेन सर्वतोऽतीतानागतविचारेण बुद्धिं कार्यनिश्चयं बुद्ध्या ऊहापोहकौशलरूपया मेधया विचारयेत्साधकबाधकभूमौ संचारयेत् ॥१९॥
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजकः
।
निगूढबुद्धेर्धीरस्य वक्तव्ये वा कृतं तथा॥२०॥
तमेवाह - सान्त्वे उपदेशे कर्तव्ये कृतम् अलं तस्योपदेशापेक्षा नास्तीत्यर्थः ॥२०॥
स निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः
।
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके॥२१॥
सः अनन्तरश्लोकोक्तः प्राज्ञो बुद्ध्या बृहस्पतिसमोऽपि सन् यदि निकृष्टां कथां निर्बुद्धित्ववादं प्राप्नुयात्तर्हि सद्य एव युक्त्या स्वभावं स्वास्थ्यम् एष्यते उदके प्रक्षिप्तं तप्तायसं शैत्यमिव ॥२१॥
अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः
।
आगमैरुपदिष्टानि स्वस्य चैव परस्य च॥२२॥
मृदु शीलं तथा प्राज्ञं शूरं चार्थविधानवित्
।
स्वकर्मणि नियुञ्जीत ये चान्ये च बलाधिकाः॥२३॥
अथ दृष्ट्वा नियुक्तानि स्वानुरूपेषु कर्मसु
।
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता॥२४॥
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्
।
ममायमिति राजा यः सपर्वत इवाचलः॥२५॥
व्यवसायं समाधाय सूर्यो रश्मीनिवायतान्
।
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये॥२६॥
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः
।
मध्ये वयसि निर्दोषान् हिते युक्तानविक्लवान्॥२७॥
अलुब्धान् शिक्षितान्दान्तान् धर्मेषु परिनिष्ठितान्
।
स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः॥२८॥
एतेन च प्रकारेण कृत्यानामागतिं गतिम्
।
युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः॥२९॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षितुः
।
आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा॥३०॥
व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः
।
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित्॥३१॥
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोदितः
।
चरान्स्वनुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत्॥३२॥
गोभिः रश्मिभिः चरान् चरान्स्वनुचरान्समाचारान् ॥३२॥
कालं प्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्
।
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान्॥३३॥
न अर्थं प्रसूचयेत् अर्थवत्तां न ज्ञापयेत् ॥३३॥
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः
।
तथा द्रव्यमुपादाय राजा कुर्वीत संचयम्॥३४॥
यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः
।
सञ्चयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान्॥३५॥
सञ्चयान्न विसर्गी स्यात् कोशाद्धनं न दद्यादपि तु उपर्याहृतमेवेत्यर्थः ॥३५॥
नार्थमल्पं परिभवेन्नावमन्येत शात्रवान्
।
बुद्ध्या तु बुद्ध्येदात्मानं न चाबुद्धिषु विश्वसेत्॥३६॥
धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्यं शौर्यं देशकालाप्रमादः
।
अल्पस्य वा बहुनो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि॥३७॥
आत्मा देहः देशे काले वाऽप्रमाद इत्येकम् ॥३७॥
अग्निः स्तोको वर्धतेऽप्याज्यसिक्तो बीजं चैकं रोहसहस्रमेति
।
आयव्ययौ विपुलौ सन्निशाम्य तस्मादल्पं नावमन्येत वित्तम्॥३८॥
बालोऽप्यबालः स्थविरो रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात्
।
कालेनान्यस्तस्य मूलं हरेत कालज्ञाता पार्थिवानां वरिष्ठः॥३९॥
अबालः अहीनः अन्यः संपन्नः ॥३९॥
हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे दीर्घं वीर्यमस्योपहन्यात्
।
रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रीर्नैव हीयेद्यतात्मा॥४०॥
शत्रोः शत्रुं प्राप्य नैव हीयेन्नैव प्रमादी स्यात् ॥४०॥
क्षयं, वृद्धिं, पालनं, संचयं वा बुद्ध्वाऽप्युभौ संहतौ सर्वकामौ
।
ततश्चान्यन्मतिमान्संदधीत तस्माद्राजा बुद्धिमत्तां श्रयेत॥४१॥
क्षयम् ऐश्वर्यं सर्वम् ऐश्वर्यादि कामो विजिगीषादिस्तौ सर्वकामौ बुद्ध्वा वा संदधीत सन्धिं वा कुर्यात् अन्यद्विग्रहादिकं कुर्यात् ॥४१॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम्
।
शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम्॥४२॥
वर्धमानं क्षीयमाणं बुद्धेः पश्चात् बुद्ध्यनुसारि ॥४२॥
सर्वान्कामान्कामयानो हि धीरः सत्त्वेनाल्पेनाप्नुते हीनदोषः
।
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः श्रेयः पात्रं पूरयते च नाल्यम्॥४३॥
अल्पनापि सत्त्वेन बलेन अर्थ्यमानैर्युक्तम् आत्मानं प्रार्थयते लुब्धो दृप्तश्च भवतीत्यर्थः । श्रेयः पात्रं न पूरयते ततः श्रेयोऽपसर्पतीत्यर्थः ॥४३॥
तस्माद्राजा प्रगृहीतः प्रजासु मूलं लक्ष्म्याः सर्वशो ह्याददीत
।
दीर्घं कालं ह्यपि संपीड्यमानो विद्युत्सम्पातमपि वा नोर्जितः स्यात्॥४४॥
प्रगृहीतः स्निग्धः लक्ष्म्याः मूलम् अर्थं सर्वशः सर्वाभ्यः संपीड्यमानः संपीडयन् प्रजासु विद्युद्वत्संपातं सम्यक्पतित्वापि ऊर्जितः स्यात् । अत्र बृहद्वृक्षदृष्टान्तः प्रागेवोक्तः ॥४४॥
विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद्व्यवसायेन शक्यम्
।
बुद्ध्यायत्तं तन्निवसेद्देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम्॥४५॥
व्यवसायेन उद्योगेन विद्यात् लभेत् ॥४५॥
यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च
।
वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम्॥४६॥
अनुद्योगेन जन्म न नाशयेदित्याह- यत्रेति ॥४६॥
लुब्धं हन्यात्सम्प्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति
।
सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति॥४७॥
कर्म यज्ञादि गुणः अङ्गं यस्य तत्फलं सुखं तदुपभोगे सर्वोऽपि लुब्धः स चेदर्थैर्हीनस्तर्हि सुखलोभाद्धर्मं कामं द्रव्यादिविषयं च जहाति ॥४७॥
धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम्
।
लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धम्॥४८॥
समृद्धिं च प्राप्यापीति शेषः । धनम् उत्कोचरूपं न प्रगृह्णीत न संगृह्णीत ॥४८॥
संदर्शनेन पुरुषं जघन्यमपि चोदयेत्
।
आरम्भान्द्विषतां प्राज्ञः सर्वार्थाश्च प्रसूदयेत्॥४९॥
धर्मान्वितेषु विज्ञाता मन्त्री गुप्तश्च पाण्डव
।
आप्तो राजा कुलीनश्च पर्याप्तो राजसंग्रहे॥५०॥
धर्मान्वितेषु ब्राह्मणमण्डलेषु विज्ञाता ज्ञाततत्त्वः राजसंग्रहे सामन्तवशीकरणे ॥५०॥
विधिप्रयुक्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या
।
इमान्विदध्याद्व्यतिसृत्य यो वै राजा महीं पालयितुं स शक्तः॥५१॥
निबोध बुद्ध्यस्व व्यतिसृत्य गुरुमनुसृत्य विदध्यात् हृदि कुर्यात् ॥५१॥
अनीतिजं यस्य विधानजं सुखं हठप्रणीतं विधिवत्प्रदृश्यते
।
न विद्यते तस्य गतिर्महीपर्तेन विद्यते राज्यसुखं ह्यनुत्तमम्॥५२॥
विधानजं दैवप्राप्तं राजधर्माज्ञाने प्राप्तोऽप्यर्थः सद्यो नश्यतीत्यर्थः ॥५२॥
धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान्
।
गुणेषु दृष्ट्वा न चिरादिवात्मवान् यतोऽभिसन्धाय निहन्ति शात्रवान्॥५३॥
गुणोपपन्नान्शौर्यादियुक्तान् गुणेषु सन्धिविग्रहादिषु आत्मवानप्रमत्तः यतः उत्थानं कुर्वाणान्शात्रवानभिसन्धाय लशीकृत्य निहन्ति ॥५३॥
पश्येदुपायान्विविधैः क्रियापथैर्न चानुपायेन मतिं निवेशयेत्
।
श्रियं विशिष्टां, विपुलं यशो, धनं न दोषदर्शी पुरुषः समश्नुते॥५४॥
दोषदर्शी निर्दोषेष्वपीति शेषः ॥५४॥
प्रीतिप्रवृत्तौ विनिवर्तितौ यथा सुहृत्सु विज्ञाय निवृत्य चोभयोः
।
यदेव मित्रं गुरुभारमावहेत्तदेव सुस्निग्धमुदाहरेद्बुधः॥५५॥
सुहृत्सु विज्ञाय ज्ञानपूर्वकं प्रीतेः प्रवृत्तौ सत्यां यौ सुहृदौ निवृत्य नितरां वृत्वा एकस्मिन्कार्ये विनिवर्तितौ अभिमुखीकृतौ तयोरुभयोर्मध्ये यदेव गुरुभारमावहेत्तदेव उदाहरेत्प्रशंसेत् ॥५५॥
एतान्मयोक्तांश्चर राजधर्मान्नॄणां च गुप्तौ मतिमादधत्स्व
।
अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोको नृप धर्ममूलः॥५६॥
चर अनुतिष्ठ आदधत्स्व आधत्स्व । दध धारणे इत्यस्य रूपम् ॥५६॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि राजधर्मकथने विंशाधिकशततमोऽध्यायः॥१२०॥
युधिष्ठिर उवाच।
अयं पितामहेनोक्तो राजधर्मः सनातनः
।
ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्॥१॥
देवतानामृषीणां च पितॄणां च महात्मनाम्
।
यक्षरक्षःपिशाचानां साध्यानां च विशेषतः॥२॥
सर्वेषां प्राणिनां लोके तिर्यग्योनिनिवासिनाम्
।
सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो॥३॥
इत्येवमुक्तं भवता दण्डे वै सचराचरम्
।
पश्यता लोकमासक्तं ससुरासुरमानुषम्॥४॥
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ
।
को दण्डः कीदृशो द डः किंरूपः किंपरायणः
।
किमात्मकः कथंभूतः कथंमूर्तिः कथं प्रभो॥५॥
जागर्ति च कथं दण्डः प्रजास्ववहितात्मकः
।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्॥६॥
कश्च विज्ञायते पूर्वं को वरो दण्डसंज्ञितः
।
किंसंस्थश्च भवेद्दण्डः का वाऽस्य गतिरुच्यते॥७॥
भीष्म उवाच।
शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः
।
यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः॥८॥
धर्मसंख्या महाराज व्यवहार इतीष्यते
।
तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः॥९॥
अयमिति । अयं पितामहेनेत्यध्यायद्वयेन दण्डस्वरूपादिकमुच्यते - को दण्ड इत्यादय एकादशप्रश्नास्तत्र को दण्ड इत्यस्योत्तरमाह - धर्मेति । धर्मस्य संख्या सम्यक् ख्यानं प्रकाशनं दण्डापरपयर्यायव्यवहारशब्दवाच्यं व्यवहारपदं निर्वक्ति तस्येति सार्धेन । अवहितात्मनो राज्ञः तस्य धर्मस्य लोपः कथं केन प्रकारेण न स्यात्स प्रकारो व्यवहारः विगतः अवहारो नीचमार्गेण परस्वादिहरणं यस्मात्स इति व्युत्पत्त्या सिद्धः ॥९॥
इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते
।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः॥१०॥
अपि चेति । एतत् एतस्य व्यवहारस्य ॥१०॥
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना
।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः॥११॥
प्रजारक्षकत्वाद्व्यवहार एव धर्मपदवाच्योऽपीत्याह - सुप्रणीतेनेति ॥११॥
यथोक्तमेतद्वचनं प्रागेव मनुना पुरा
।
यन्मयोक्तं मनुष्येन्द्र ब्रह्मणो वचनं महत्॥१२॥
यथेति । सुप्रणीतेनेति श्लोकेन यन्मनुवचनमुक्तं तद्ब्रह्मण एव वचनं मनुमुखाच्छ्रुतमित्यर्थः ॥१२॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः
।
व्यवहारस्य चाख्यानद्व्यवहार इहोच्यते॥१३॥
प्रागिति । दण्ड एव उक्तवचनाद्धर्मशब्देन व्यवहारशब्देन चोच्यत इत्यर्थः । प्राग्वचनं धर्मवचनम् ॥१३॥
दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते
।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः॥१४॥
रूपतोऽग्निरिवोत्थित इति तस्यान्तरं रूपं दुष्टसन्तापकत्वात्क्रूरमग्नितुल्यमित्युक्तम् ॥१४॥
नीलोत्पलदलश्यामश्चतुर्दष्ट्रश्चतुर्भुजः
।
अष्टपान्नैकनयनः शंकुकर्णोर्ध्वरोमवान्॥१५॥
बाह्यं रूपं वर्णयति- नीलेति । दण्डाधिष्ठात्र्या देवताया इदं ध्यानादिकम् अज्ञानाददण्ड्यदण्डजं दोषं निराकर्तुं दण्डकर्तृभिरमात्यादिभिर्ध्येयमित्येवमर्थयुक्तम् । यदि तु लौकिकानि दण्डधर्मव्यवहाराङ्गान्यत्रोत्प्रेक्ष्यन्ते तर्हि एवं व्याख्येयम् । तत्र दण्डः संहर्तृत्वाद्रौद्रो रुद्रश्च नीललोहित इति तस्याग्निरिवोत्थित इति लोहितं रूपमुक्तम् । नीलं च नीलोत्पलेति निरुक्तम् । तत्र राज्ञो दण्ड्ये द्वेषात्तद्धने च लोभात्प्रणेयस्य दण्डस्य मालिन्यरागोत्पन्नत्वान्नीललोहितं दण्डस्य रूपं चतस्रो दंष्ट्रा इव प्राणिनां वधसाधनानि यत्र सः । तथा हि । केचिन्मानभङ्गेन केचिद्धनहरणेन केचिदङ्गवैकल्येन केचित्प्राणव्यापादनेन च वध्यन्तेऽतस्तान्येव तद्दंष्ट्राः । चत्वारो भुजाः अर्थादानकर्तारो यस्य सः तथाहि । प्रजाभ्यः सामन्तेभ्यश्च करादानम् । अनृतादर्थिनोऽर्थ्यमानद्रव्याद्द्विगुणधनादानम् । अनृतात्प्रत्यर्थिनस्तत्सभं द्रव्यादानम् । धनवतः कदर्याद्विप्रात्सर्वस्वादानं चेति । अथ तस्यैव व्यवहाररूपिणो रूपं वर्णयति 'अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् । जटी द्विजिह्व' इति आवेदनं भाषा संप्रतिपत्तिभिथ्योत्तरं कारणोत्तरं प्राङ्न्यायं प्रतिभूः क्रियाफलसिद्धिश्चेत्यष्टौ पादाः । एतैर्हि निमित्तैर्दण्डश्चरति नान्यथेत्येतेषां पादत्वम् । तत्र आवेदनम् अर्थिना सभ्यान्प्रति गत्वा देवदत्तो मदीयं शतं सुवर्णानाम् अमुकस्मिन् देशे काले साक्षिणि च गृहीत्वा न ददातीति तद्धस्तेन लेखनं पुनरपि प्रत्यर्थिनमाहूय तत्समक्षं तथैव लेखनं भाषा । तत्र प्रत्यर्थिनाऽहमेतस्य धारयामीत्युक्ते न कस्यापि दण्ड इति तदिदं संप्रतिपत्तिरूपमुत्तरम् । न दण्डपादत्वेन गण्यते नाहमेतस्य धारयामीति मिथ्योत्तरं मया गृहीतमासीत्तत्पुनः परावृत्य दत्तमिति कारणोत्तरम् । अस्मिन्नर्थेऽनेन पूर्वमहमभियुक्तस्तत्र पराजितो मयेति प्राङ्न्यायोत्तरम् । त्रिविधेऽप्यस्मिन्नुत्तरे अर्थिप्रत्यर्थिभ्यां प्रतिभूर्देयः अहमेतस्मिन्पराजित इदं द्रव्यं दास्यामीति क्रिया, स्वमतसाधकानां साक्षिपत्रभोगशपथादीनां प्रदर्शनं ततोऽच्यवने तस्य जय इति अष्टभ्यः पादेभ्योऽनन्तरम् अपराधी दण्ड्यत इत्येते दण्डस्य पादाः । यदाह-याज्ञवल्क्यः-
'निह्नवे भावितो दद्यात् धनं राज्ञे च तत्समम्
।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत्' ॥
इति। नैकनयनः नैकानि बहूनि नयनस्थानीयानि राजामात्यपुरोहितपर्षदाख्यानि दर्शनसाधनानि यस्मिन् । शङ्कुकर्ण तीक्ष्णकर्णः अवश्यं श्राव्यः । ऊर्ध्वरोमवान् अत्यन्तम् उत्फुल्लः शङ्कुकर्णश्चासौ ऊर्ध्वरोमवांश्चेति समासः ॥१५॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः
।
एतद्रूपं बिभर्युग्रं दण्डो नित्यं दुराधरः॥१६॥
जटीति । जटी अनेकसन्देहजटिलः । द्विजिह्वः अर्थिप्रत्यर्थिनोर्वाक्यवैमत्यात् द्वे जिह्वे यस्य स तथा । एवं व्यवहाररूपिणो दण्डस्य रूपमुक्त्वा धर्माख्यदण्डरूपमाह- ताम्रास्यो मृगराजतनुच्छद इति । ताम्रो वह्निरेवाहवनीयादिरास्यं यस्य स तथा । मृगराजः कृष्णमृगस्तत्सम्बन्धि चर्म तनुच्छदः शरीराच्छादकं प्रावरणमस्या तेन दीक्षाप्रधानो यज्ञ उक्तः । एतच्च सर्वेषां दानोपवासहोमादीनामुपलक्षणम् ॥१६॥
असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः
।
मुसलं परशुश्चक्रं पाशो दण्डर्ष्टितोमराः॥१७॥
सर्वप्रहरणीयानि सन्ति यानीह कानिचित्
।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान्॥१८॥
भिन्दंश्छिन्दन् रुजन्कृन्तन्दारयन्पाटयंस्तथा
।
घातयन्नभिधावंश्च दण्ड एव चरत्युत॥१९॥
असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः
।
श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः॥२०॥
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वरः
।
धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः॥२१॥
असंगो रुद्रतनयो मनुर्ज्येष्ठः शिवंकरः
।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर॥२२॥
दण्डो हि भगवान्विष्णुर्दण्डो नारायणः प्रभुः
।
शश्वद्रूपं महद्बिभ्रन्महान्पुरुष उच्यते॥२३॥
मुख्यं दण्डस्य रूपमाह- दण्डो हीति ॥२३॥
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती
।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः॥२४॥
तत्पत्न्या रूपमाह- तथेति । दण्डेन सहिता नीतिर्दण्डनीतिः ॥२४॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मो बलाबले
।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ॥२५॥
किंपरायण इत्यस्योत्तरमर्थानर्थादिविवेक एव तस्य परायणमित्याह- अर्थानर्थावित्यादिना । तस्माद्दण्डः परायणमित्यन्तेन ॥२५॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः
।
अप्रमादः प्रमादश्च हर्षक्रोधौ शमो दमः॥२६॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये
।
हिंसाहिसे तपो यज्ञः संयमोऽथ विषाविषम्॥२७॥
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्
।
मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ॥२८॥
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ
।
विनयश्च विसर्गश्च कालाकालौ च भारत॥२९॥
अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च
।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ॥३०॥
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा
।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले॥३१॥
असूया चानसूया च धर्माधर्मौ तथैव च
।
अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम्॥३२॥
तेजः कर्माणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता
।
एवं दण्डस्य कौरव्य लोकेऽस्मिन् बहुरूपता॥३३॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्
।
भयाद्दण्डस्य नान्योऽन्यं घ्नन्ति चैव युधिष्ठिर॥३४॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः
।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम्॥३५॥
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर
।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते॥३६॥
किमात्मकः कथंभूतः कथंमूर्तिरिति प्रश्नत्रयस्योत्तरमाह- व्यवस्थापयतीति । लोकपालनात्मकः, सत्यपक्षपाती, ब्राह्मणमूर्तिस्वरूप इत्यर्थः ॥३६॥
धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च
।
बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः॥३७॥
दण्डस्य ब्राह्मणमूर्तित्वं विवृण्वन् कथं जागर्ति इत्यस्योत्तरमाह- धर्मयुक्ता इत्यादिना । ब्राह्मणमूर्तिर्दण्डो यज्ञादिद्वाराऽन्नसृष्टिहेतुतया भूतानि पालयन् जागर्तीति श्लोकत्रयार्थः ॥३७॥
प्रीताश्च देवता नित्यमिन्द्रे परिवदन्त्यपि
।
अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः॥३८॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः
।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च॥३९॥
एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः
।
रक्षन्प्रजाः स जागर्ति नित्यं स्ववहितोऽक्षरः॥४०॥
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्नित्यस्योत्तरमाह - एवंप्रयोजन इत्यादिना ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव चेत्यन्तेन ॥४०॥
ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः
।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः॥४१॥
अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च
।
बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः॥४२॥
अदददीश्वर इति शेषः । अस्मै राज्ञे दण्डं दण्डनीतिम् । अत एवायं बलेन संयुक्तः पञ्चविध आत्मा यस्य स तथा । धर्मव्यवहारदण्डेश्वरजीवरूपेण पञ्चप्रकारात्मको राजा ॥४२॥
कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु
।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर॥४३॥
बहुधनसहिता अमात्याः बहुधनामात्याः । बलानि तु तेज ओजः सह आख्यानि देहेन्दियवुद्धिसामर्थ्यानि । अष्टकैरष्टसंख्याकैरनन्तरश्लोके बक्ष्यमाणैर्हस्त्यादिभिराहार्यमर्जनीयम् । अन्यद्बलं कोशवृद्धिरूपम् ॥४३॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च
।
दैशिकाश्चाविकाश्चैव तदष्टाङ्गं बलं स्मृतम्॥४४॥
अथवाङ्गस्य युक्तस्य रथिनो हस्तियायिनः
।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये॥४५॥
अङ्गस्य सैन्यस्य राज्यस्य दण्डमेवाङ्गमिति वाक्यशेषात् युक्तस्य सन्नद्धस्य रथादिकं शरीरं विदुरिति तृतीयेनान्वयः रसदाः वैद्याः ॥४५॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः
।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च॥४६॥
प्राड्विवाकाः पृच्छतीति प्राट् स चासौ विवाकश्च विवदमानयोर्द्वयोः प्रवृत्तिनिमित्तवेत्ता ॥४६॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः
।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च॥४७॥
दण्डः सैन्यं दण्डः प्रसिद्धः ॥४७॥
ईश्वरेण प्रयत्नेन कारणात्क्षत्रियस्य च
।
दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्॥४८॥
दण्डो दण्डाधीनम् ॥४८॥
राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः
।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च॥४९॥
प्रदर्शितो दण्डः स्थापनाय च प्रदर्शिता ब्राह्मणाः ॥४९॥
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः
।
तस्माद्यः सहितो दृष्टो भर्तुप्रत्ययलक्षणः॥५०॥
भर्तृप्रत्ययः भर्तारौ द्वौ विवदमानौ प्रत्ययः कारणं यस्य स तथा वादिप्रतिवादिभ्यां प्रवर्तितो व्यवहारः । तयोरन्यतरस्य प्रत्ययोऽभ्युपगमो लक्षणं यस्य स भर्तृप्रत्ययलक्षणः अन्यतरपराजयादित्यर्थः सहितो हितमिष्टं तेन युक्तः सहितः अन्यतरजयावह इत्यर्थः ॥५०॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते
।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथा परः॥५१॥
वेदात्मा वेदोक्तो दोषः पारदार्यादिस्तन्निवृत्त्यर्थं पर्षदं प्रति गतश्चेत्तत्र प्रायश्चित्तात्मको वेदहेतुक एव दण्डः । मौलः कुलाचारप्रयुक्तो यो व्यवहारस्तत्रापि शास्त्रोक्तो दण्डः । यथा शूद्रस्य सुरापाने प्रायश्चितं नास्ति अथापि कस्मिंश्चिच्छूद्रकुले एवं नियमो योऽस्माकं मध्ये सुरां पिबति स ज्ञातिबाह्य इति तस्योल्लङ्घने शूद्रस्य सुरापानोक्तं प्रायश्चित्तं भवति । तथा च शास्त्रविदामनुक्रमणं धर्मज्ञानां समयः प्रमाणं वेदाश्चेति ॥५१॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः
।
ज्ञेयो नः स नरेन्द्रस्थौ दण्डः प्रत्यय एव च॥५२॥
तेषां त्रयाणां दण्डानां मध्ये आद्यः क्षत्रियाधीन इत्याह - उक्त इति । नः अस्माभिः क्षत्रियैर्दण्डोऽपि ज्ञेयः तत्र प्रत्ययोऽपि ज्ञेयः ॥५२॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः
।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः॥५३॥
अस्यापि वेदमूलत्त्वमाह- दण्ड इति । विविधोऽवहारः अन्योन्यं परपक्षक्षेपेण स्वपक्षसाधनं व्यवहारस्तदात्मको न्यायः स यद्यपि दण्डः प्रत्ययदृष्टस्तथापि स व्यवहारपदार्थो मन्वादिभिः स्मृतोऽस्ति । अतः सोऽपि वैदिकप्रणीतत्वाद्वेदविषयात्मको वेदार्थगोचरोऽस्तीत्यर्थः ॥५३॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः
।
धर्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः॥५४॥
इतरौ द्वौ व्यवहारौ वेदमूलत्वाद्धर्मरूपावित्याह- यश्चेति द्वाभ्याम् । यथाधर्मम् उद्दिष्टः मम पारदार्यजेनाधर्मेण धर्मलोपो मा भूदिति पश्चात्तापवति उद्दिष्टः प्रायश्चित्तरूपो दण्डो धर्म एवेत्त्यर्थः ॥५४॥
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर
।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः॥५५॥
प्रजागोप्ता प्रजाकृतस्य नियमस्य रक्षिता शुद्रस्यापि सुरापानप्रायश्चित्तादिरूपः सोऽपि धर्म एवेत्यर्थः ॥५५॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः
।
व्यवहारश्च दृष्टो यः स वेद इति निश्चितम्॥५६॥
दण्डव्यवहारधर्मवेदसत्पथप्रजापतीनामैकात्म्यमाह द्वाभ्याम्- य इति ॥५६॥
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः
।
ब्रह्मा पितामहः पूर्वं बभूवाथ प्रजापतिः॥५७॥
लोकानां स हि सर्वेषां ससुरासुररक्षसाम्
।
समनुष्योरगवतां कर्ता चैव स भूतकृत्॥५८॥
ततोऽन्यो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः
।
तस्मादिदमथोवाच व्यवहारनिदर्शनम्॥५९॥
यतः प्रजापतिर्भूतकृत् ततो हेतोः अयमस्मदीयो भर्तृप्रत्ययलक्षणो व्यवहारः प्रवृत्तस्तस्मादस्मिन्विषये स इदं निदर्शनं वाक्यम् उवाच ॥५९॥
माता पिता च भ्राता च भार्या चैव पुरोहिताः
।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मे न तिष्ठति॥६०॥
तदेव वाक्यं पठति- मातेति । यो राजा स्वधर्मेण तिष्ठति तस्य राज्ञ इति सम्बन्धः ॥६०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि दण्डस्वरूपाधिकथने एकविंशाधिकशततमोऽध्यायः॥१२१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीपमितिहासं पुरातनम्
।
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः॥१॥
अत्रेति । अत्र दण्डोत्पत्तौ विषये ॥१॥
स राजा धर्मविन्नित्यं सह पत्न्या महातपाः
।
मुञ्जपृष्ठं जगामाथ पितृदेवर्षिपूजितम्॥२॥
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
।
यत्र मुञ्जावटे रामो जटाहरणमादिशत्॥३॥
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
।
मुजपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः॥४॥
स तत्र बहुभिर्यक्तस्तदा श्रुतिमयैर्गुणैः
।
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्॥५॥
तं कदाचिददीनात्मा सखा शक्रस्य मानितः
।
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः॥६॥
सोऽपसृत्य तु मान्धाता वसुहोमं नराधिपम्
।
दृष्ट्वा प्रकृष्टतयसं विनेतोऽग्रेऽभ्यतिष्ठत॥७॥
वसुहोमोऽपि राज्ञो वै पाद्यमर्घ्यं न्यवेदयत्
।
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्यये॥८॥
सद्भिराचरितं पूर्वं यथावदनुयायिनम्
।
अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते॥९॥
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्
।
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन॥१०॥
मान्धातोवाच
।
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
।
तथैवोशनसं शास्त्रं विज्ञातं ते नरोत्तम॥११॥
तदहं ज्ञातुमिच्छामि दण्ड उत्पद्यते कथम्
।
किं चास्य पूर्वं जागर्ति किं वा परममुच्यते॥१२॥
कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः
।
ब्रूहि मे समुहाप्राज्ञ ददाम्याचार्यवेतनम्॥१३॥
आचार्यवेतनं गुरुदक्षिणाम् ॥१३॥
वसुहोम उवाच
।
शृणु राजन्यथा दण्डः सम्भूतो लोकसंग्रहः
।
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः॥१४॥
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः
।
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम्॥१५॥
यियक्षुः यष्टुमिच्छुः ॥१५॥
स गर्भं शिरसा देवो बहुवर्षाण्यधारयत्
।
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्॥१६॥
क्षुवतः क्षुतवतः ॥१६॥
स क्षुपो नाम सम्भूतः प्रजापतिररिन्दम
।
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः॥१७॥
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
।
दृष्टरूपप्रधानत्वाद्दण्डः सोऽन्तर्हितोऽभवत्॥१८॥
दृष्टरूपप्रधानत्वात् दृष्टं रूपं दीक्षापरिग्रहः प्रजानियन्ता दीक्षां प्रविष्ट इति नियमनरूपो दण्डोऽन्तर्हितोऽभवदित्यर्थः ॥१८॥
तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत्
।
नैव कार्यं न वाकार्यं भोज्याभोज्यं न विद्यते॥१९॥
पेयापेये कुतः सिद्धिर्हिंसन्ति च परस्परम्
।
गम्यागम्यं तदा नासीत् स्वं परस्वं च वै समम्॥२०॥
परस्परं विलुम्पन्ति सारमेया यथामिषम्
।
अबलान्बलिनो घ्नन्ति निर्मर्यादमवर्तत॥२१॥
ततः पितामहो विष्णुं भगवन्तं सनातनम्
।
सम्पूज्य वरदं देवं महादेवमथाब्रवीत्॥२२॥
अत्र त्वमनुकम्पां वै कर्तुमर्हसि शंकर
।
संकरो न भवेदत्र यथा तद्वै विधीयताम्॥२३॥
ततः स भगवान्ध्यात्वा चिरं शूलवरायुधः
।
आत्मानमात्मना दण्डं ससृजे देवसत्तमः॥२४॥
तस्माच्च धर्मचरणान्नीतिर्देवी सरस्वती
।
ससृजे दण्डनीतिं सा त्रिषु लोकेषु विश्रुता॥२५॥
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः
।
तस्य तस्य निकायस्य चकारैकैकमीश्वरम्॥२६॥
देवानामीश्वरं चक्रे देवं दशशतेक्षणम्
।
यमं वैवस्वतं चापि पितॄणामकरोत्प्रभुम्॥२७॥
धनानां राक्षसानां च कुबेरमपि चेश्वरम्
।
पर्वतानां पतिं मेरुं सरितां च महोदधिम्॥२८॥
अर्पा राज्ये सुराणां च विदधे वरुणं प्रभुम्
।
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्॥२९॥
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुम्
।
महात्मानं महादेवं विशलाक्षं सनातनम्॥३०॥
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
।
तेजसा भास्करं चक्रे नक्षत्राणां निशाकरम्॥३१॥
वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्
।
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्॥३२॥
कालं सर्वेशमकरोत्संहारविनयात्मकम्
।
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च॥३३॥
विनयो विवृद्धिः चत्वारो विभागा यस्य तस्य शस्त्रं शत्रुर्यमः कर्म च रोगोऽपथ्याशनप्रयोजको रागो यमः कर्म चेति वा ॥३३॥
ईश्वरः सर्वदेवस्तु राजराजो नराधिपः
।
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः॥३४॥
तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
।
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि॥३५॥
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि
।
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ॥३६॥
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
।
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ॥३७॥
भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम्
।
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च॥३८॥
क्षुपस्तु मनवे प्रादादादित्यतनयायं च
।
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्॥३९॥
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
।
दुष्टानां निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया॥४०॥
विभज्य न्यायं न्यायाभासं च विविच्य दुष्टनिग्रह एव दण्डस्य मुख्यं प्रयोजनं हिरण्यादिग्रहणं तु लोकानां बिभीषिकार्थं न तु कोशवृद्ध्यर्थमित्यर्थः ॥४०॥
व्यङ्गत्वं च शरीरस्य वधो नाल्पस्य कारणात्
।
शरीरपीडास्तास्ताश्च देहत्यागो विवासनम्॥४१॥
देहत्यागः प्रपातादौ विवासनं स्वदेशाद् दूरीकरणम् ॥४१॥
तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणार्थकम्
।
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन्॥४२॥
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः
।
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः॥४३॥
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः
।
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः॥४४॥
व्यवसायात्ततस्तेजो जागर्ति परिपालयत्
।
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः॥४५॥
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा
।
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतेरपि॥४६॥
वेदाः प्रतिष्ठाः ज्योतिर्भ्यस्ततो हयशिराः प्रभुः
।
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः॥४७॥
पितामहान्महादेवो जागर्ति भगवान्शिवः
।
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः॥४८॥
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः
।
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय॥४९॥
ब्राह्मणेभ्यश्च राजन्या लोकान् रक्षन्ति धर्मतः
।
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्॥५०॥
प्रजा जागर्ति लोकेऽस्मिन् दण्डो जागर्ति तासु च
।
सर्वं संक्षिपते दण्डः पितामहसमप्रभः॥५१॥
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
।
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः॥५२॥
देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः
।
कपर्दी शङ्करो रुद्रः शिवः स्थाणुरुमापतिः॥५३॥
इत्येष दण्डो विख्यात आदौ मध्ये तथावरे
।
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्॥५४॥
भीष्म उवाच।
इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः
।
श्रुत्वा सम्यक्प्रवर्तेत सर्वान्कामानवाप्नुयात्॥५५॥
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
।
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत॥५६॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि दण्डोप्तत्त्युपाख्याने द्वाविंशाधिकशततमोऽध्यायः॥१२२॥
युधिष्ठिर उवाच।
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्
।
लोकयात्रा हि कार्येन तिष्ठेत्केषु प्रतिष्ठिता॥१॥
तातेति ॥१॥
धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः
।
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक्॥२॥
किंमूलाः किमुद्दिश्य क्रियन्त इत्यर्थः प्रभवत्यस्मादिति प्रभवः किमेषामुत्पत्तिस्थानं तेषां साहित्यं कथं पृथक् पृथक्त्वं च कथामति चत्वारः प्रश्नाः ॥२॥
भीष्म उवाच।
यदा ते स्युः सुमनसो लोके धर्मार्थनिश्चये
।
कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा॥३॥
सूचीकटाहन्यायेन साहित्यमाह - यदेति । सुमनसः शोभनचित्ताः पुमांसो यदा स्युस्तदा लोके भूमौ धर्मपूर्वके अर्थनिश्चये अहं गर्भाधानोक्तविधिना श्रुतौ भार्यां गत्वा सुपुत्रं लप्स्याम्येवेत्येवंरूपे प्रवृत्ते सति । ते धर्मार्थकामास्त्रयोऽपि कालो ऋतुवेलाप्रभवो जायासंस्थासंम्यक्कर्मनिष्पत्तिस्तासु सतीषु सज्जन्ते युगपदुत्पद्यन्ते । योनिसंस्काररूपो धर्मः पुत्ररूपोऽर्थः स्त्रीसंगरूपः कामश्च भवतीत्यर्थः ॥३॥
धर्ममूलः सदैवार्थः कामोऽर्थफलमुच्यते
।
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः॥४॥
आद्यस्य प्रश्नद्वयस्योत्तरमाह- धर्मेति । दिव्यदेवतादिशरीरप्राप्तिमर्थांश्च स्त्र्यादीनुद्दिश्य धर्मः क्रियतेऽतो दैवेन सहितोऽर्थो धर्ममूलः । अर्थस्य भोगार्थत्वं प्रसिद्धमिति काममूलोऽर्थ इति नोक्तं कामोऽर्यफलं कामस्य मूलम् इन्द्रियप्रीतिरित्यर्थः । सङ्कल्पमूलाः सङ्कल्पप्रभावास्ते सर्वेऽपीति द्वितीयस्योत्तरम् । एतदेवोपपादयति- सङ्कल्प इति । रूपादिविषयः सङ्कल्पो रूपाद्याश्च भोगार्था इति सर्वेप्येते सङ्कल्पमूलाः । मोक्षस्तु तद्विलक्षणो निःसङ्कल्परूप इत्यर्थः ॥४॥
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये
।
मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते॥५॥
धर्माच्छरीरसंगुप्तिर्धर्मार्थं चार्थ उच्यते
।
कामो रतिफलश्चात्र सर्वे ते च रजस्वलाः॥६॥
किमेवं त्रिवर्गः सर्वेणापि न सेव्य इत्याशङ्क्या रजस्वलो रजःप्रधानः स न सेव्यः सत्त्वप्रधानस्तु सेव्य एवेत्याह- धर्मादिति । आरोग्यार्थं धर्मः काम्यधर्मार्थ इन्द्रियप्रीत्यर्थं काम इत्येते हेया इत्यर्थः ॥६॥
सन्निकृष्टांश्चरेदेतान्न चैतान्मनसा त्यजेत्
।
विमुक्तस्तपसा सर्वान्धर्मादीन्कामनैष्ठिकान्॥७॥
स्वर्गादिकं बाह्यं फलं विप्रकृष्टं तदर्था एते विप्रकृष्टाः आत्मज्ञानरूपं फलं तु सन्निकृष्टं तदर्था एते सन्निकृष्टास्तांश्चरेत् सेवेत । धर्मश्चित्तशुद्ध्यर्थोऽर्थो निष्कामकर्मार्थः कामो देहधारणमात्रार्थम् इत्येवमेते सेव्या इत्यर्थः । धर्मादीन्कामनैष्ठिकान्कामान्तान्धर्मार्थकामान्सर्वानपि मनसाऽपि न त्यजेत्किमुत स्वरूपेण न त्यजेदित्यर्थः । कथं तर्ह्येतांस्त्यजेदित्याह- तपसा विमुक्त इति । विचारेणैव तेभ्यो विमुक्तो भवेत् सङ्गफलत्यागपूर्वकं धर्मादीननुतिष्ठेदिति भावः ॥७॥
श्रेष्ठे बुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयान्नरः
।
कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः॥८॥
ततश्च किमत आह - श्रेष्ठे इत्यर्धेन । त्रिवर्गस्य बुद्धिर्निष्ठा श्रेष्ठे मोक्ष एवास्ति यत् यदि अयं कर्ता तं श्रेष्ठं प्राप्नुयात् इतस्तु निष्कामस्य तस्य दौर्लभ्यमेवेति भावः । काम्यं धर्मं निन्दति - कर्मणेति । अस्मात्कर्मण इदं फलं प्राप्स्ये इति बुद्धिपूर्वं कृतेनापि कर्मणाऽर्थः कदाचिद्भवति कदाचिन्नेति व्यभिचारः ॥८॥
अर्थार्थमन्यद्भवति विपरीतमथापरम्
।
अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्
।
बुद्ध्या बुद्धिरिहार्थेन तदज्ञाननिकृष्टया॥९॥
अर्थार्थं धर्मादपि अन्यत् सेवाकृष्यादिकं भवतीति न धर्मैकलभ्योऽर्थ इत्यर्थार्थं धर्मो न कार्यः । प्रत्युत विपरीतमपि अपरं मतमस्ति । केचिद्धठेनैवार्थो भवति स्वभावेन वा दैवेन वेति मन्यन्त इति तदर्थमलं धर्मेणेत्यर्थः । एवं धर्मस्यार्थहेतुत्वं दूरीकृत्यार्थस्यापि धर्महेतुत्वं दूषयति अर्थमवाप्यापि जगदनर्थार्थमपायार्थं भवति । तथाहि धनमत्तः सर्वं पापं करोतीति नार्थेन धर्मोत्पत्तिर्नित्यास्ति । अर्थं विनाऽपि धर्मोत्पत्तिरस्तीत्याहान्यत्राद्योपकारकं स्वार्थे त्रल् । अन्यत्रान्यदेवोपवासव्रतादिकम् आद्यस्य धर्मस्योपकारकं वर्धकं भवति । इहार्थे अस्मिन्नर्थे धर्मादर्थोऽर्थतो धर्म इति विषये अज्ञाननिकृष्टया बुद्ध्या उपलक्षितः अबुद्धिर्विमूढः तत् उक्तरूपं धर्मार्थयोः फलं न प्राप्नुयात् । उभयत्रापि व्यभिचारस्यान्यथासिद्धेः प्रदर्शितत्वात्तस्माच्छ्रेष्ठमेव तयोः फलमव्यभिचारीति ज्ञेयम् ॥९॥
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्
।
सम्प्रमोदमलः कामो भूयः स्वगुणवर्जितः॥१०॥
धर्मादीनां रजस्वलत्वमुक्तं तदेव रजो दर्शयति - अपेति । अपध्यानं फलाभिसन्धिः । निगूहनं दानभोगयोरप्रतिपादनम् । संप्रमोदः प्रीतिविशेषः स एव त्रिवर्गः स्वगुणवर्जितः सुतराम् अगुणो दुर्गुणोऽपध्यानादिस्तेन वर्जितः सन् भूयः बहुतरं फलं चित्तशुद्धिद्वारा ब्रह्मानन्दरूपं प्रयच्छतीति शेषः ॥१०॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
कामन्दकस्य संवादमाङ्गरिष्ठस्य चोभयोः॥११॥
एवं पूर्वोक्तस्य प्रश्नत्रयस्योत्तरमुक्त्वा वर्तते च पृथक्पृथगिति चतुर्थप्रश्नस्योत्तरमितिहासमुखेनाह - अत्रापीति ॥११॥
कामन्दमृषिमासीनमभिवाद्य नराधिपः
।
आङ्गरिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्॥१२॥
सममपर्ययं मर्यादाभङ्गम् ॥१२॥
यः पापं कुरुते राजा काममोहबलात्कृतः
।
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम्॥१३॥
प्रत्यासन्नस्य पश्चात्तप्तस्य ॥१३॥
अधर्मं धर्म इति च योऽज्ञानादाचरेन्नरः
।
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्॥१४॥
कामन्दक उवाच
।
यो धर्मार्थौ परित्यज्य काममेवानुवर्तते
।
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति॥१५॥
अत्र आपस्तंबाम्रनिदर्शनात् तद्यथाऽऽम्रे फलार्थं निर्मिते च्छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्त इत्येवंरूपाद्धर्मोऽर्थकामाभ्यामविनाभूतोऽर्थश्च कामेनाविनाभूतः सर्वत्रास्ति परिशेषात्काम एव धर्मार्थौ अतिक्रम्यास्ति तत्परं निन्दति - य इति ॥१५॥
प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः
।
तस्मान्नस्तिकता चैव दुराचारश्च जायते॥१६॥
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति
।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव॥१७॥
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः
।
ततः संशयमाप्नोति तथा वध्यत्वमेति च॥१८॥
अपध्वस्तस्त्ववमतो दुःखं जीवितमृच्छति
।
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत्॥१९॥
अत्रैतदाहुराचार्याः पापस्य परिगर्हणम्
।
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च॥२०॥
एवं निन्दितस्य कर्तव्यमाह - अत्रेति ॥२०॥
महामना भवेद्धर्मे विवहेच्च महाकुले
।
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः॥२१॥
जपेदुदकशीलः स्यात्सततं सुखमास्थितः
।
धर्मान्वितान्सम्प्रविशेद्बहिः कृत्वेह दुष्कृतीन्॥२२॥
प्रसादयेन्मधुरया वाचा वाऽप्यथ कर्मणा
।
तवास्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान्॥२३॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्
।
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः॥२४॥
गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु
।
गुरूणां हि प्रसादाद्वै श्रेयः परमवाप्स्यसि॥२५॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि कामन्दाङ्गरिष्ठसंवादे त्रयोविंशाधिकशततमोऽध्यायः॥१२३॥
युधिष्ठिर उवाच।
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
।
धर्मस्य शीलमेवादौ ततो मे संशयो महान्॥१॥
इमे जना इति शीलाध्यायः धर्मस्य कारणमिति शेषः ॥१॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर
।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते॥२॥
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत
।
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वरः॥३॥
भीष्म उवाच।
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद
।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्॥४॥
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह
।
सभायां चाह वचनं तत्सर्वं शृणु भारत॥५॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्
।
दुर्योधनस्तदाऽऽसीनः सर्वं पित्रे न्यवेदयत्॥६॥
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा
।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः॥७॥
धृतराष्ट्र उवाच
।
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः
।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति॥८॥
त्वया च महदैश्वर्यं प्राप्तं परपुञ्जय
।
किंकरा भ्रातरः सर्वे मित्रसम्बन्धिनः सदा॥९॥
आच्छादयसि प्रावारान्नाश्नासि पिशितौदनम्
।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः॥१०॥
दुर्योधन उवाच
।
दश तानि सहस्राणि स्नातकानां महात्मनाम्
।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥११॥
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्
।
अश्वांस्तित्तिरकल्माषान् वस्त्राणि विविधानि च॥१२॥
दृष्ट्वा तां पाण्डवेयानामृद्धिं वैश्रवणीं शुभाम्
।
अमित्राणां सुमहतीमनुशोचामि भारत॥१३॥
धृतराष्ट्र उवाच
।
यदीच्छसि श्रियं तात तादृशी सा युधिष्ठिरे
।
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक॥१४॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः
।
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्॥१५॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः
।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिरे॥१६॥
एते हि पार्थिवाः सर्वे शीलवन्तो दयान्विताः
।
अतस्तेषां गुणक्रीता वसुधा स्वयमागता॥१७॥
गुणाक्रीडेति पाठे गुणारामा ॥१७॥
दुर्योधन उवाच
।
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत
।
येन शीलेन तैः प्राप्ता क्षिप्रमेव वसुन्धरा॥१८॥
धृतराष्ट्र उवाच
।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत॥१९॥
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः
।
शीलमाश्रित्या दैत्येन त्रैलोक्यं च वशे कृतम्॥२०॥
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः
।
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम्॥२१॥
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्
।
कथयामास भगवान्देवेन्द्राय कुरूद्वह॥२२॥
नैःश्रेयसं मोक्षोपयोगि ॥२२॥
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत
।
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति॥२३॥
को विशेषः नैःश्रेयसादपि किं श्रेय इत्यर्थः ॥२३॥
बृहस्पतिरुवाच
।
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः
।
अत्रागमय भद्रं ते भूय एव सुरर्षभ॥२४॥
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहातपाः
।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः॥२५॥
तेनापि समनुज्ञातो भार्गवेण महात्मना
।
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः॥२६॥
भार्गवस्त्वाह सर्वज्ञः प्रह्रादस्य महात्मनः
।
ज्ञानमस्मि विशेषेणेत्युक्तो हृष्टश्च सोऽभवत्॥२७॥
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः
।
गत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्॥२८॥
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ
।
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते॥२९॥
ब्राह्मणस्त्वब्रवीद्राजन् यस्मिन्काले क्षणो भवेत्
।
तदोपादेष्टुमिच्छामि यदाचर्यमनुत्तमम्॥३०॥
आचर्यम् आचरणीयम् ॥३०॥
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिनः
।
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा॥३१॥
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्
।
चकार सर्वभावेन यदस्य मनसेप्सितम्॥३२॥
पृष्टश्च तेन बहुशः प्राप्तं कथमनुत्तमम्
।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे
।
प्रह्रादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत्॥३३॥
नासूयामि द्विजान्विप्र राजास्मीति कदाचन
।
काव्यानि वदतां तेषां संयच्छामि वहामि च॥३४॥
काव्यानि शुक्रप्रोक्तानि नीतिशास्त्राणि सर्वज्ञत्वाभिमानेन नासूयामि ॥३४॥
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
।
ते मां काव्यपथे युक्तं शुश्रूषुमनसूयकम्॥३५॥
ते मुनयः ते त्वां संयच्छामि नियमयामीति मां प्रभाषन्ते ॥३५॥
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम्
।
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः॥३६॥
क्षुद्राभिर्मधुमक्षिकाभिर्निर्मितं क्षौद्रं मधु, तत्र मक्षिका मध्विव मां ते शास्त्रेण सिञ्चन्ति ॥३६॥
सोऽहं वागग्रविद्यानां रसानामवलेहिता
।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः॥३७॥
स इति । वागग्रविद्यानां वागग्रे एवं न तु पुस्तके विद्या येषां तेषाम् ॥३७॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
।
यद्ब्राह्मणमुखे काव्यमेतच्छ्रुत्वा प्रवर्तते॥३८॥
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम्
।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्॥३९॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तमा
।
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः॥४०॥
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः
।
प्रह्रादस्त्वब्रवीत् प्रीतो गृह्यतां वर इत्युत॥४१॥
ब्राह्मण उवाच।
यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम्
।
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम॥४२॥
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत्
।
वरे प्रदिष्टे विप्रेण नाल्पतेजाऽयमित्युत॥४३॥
तेजाऽयमिति सन्धिरार्षः ॥४३॥
एवमस्त्विति स प्राह प्रह्रादो विस्मितस्तदा
।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्॥४४॥
दत्ते वरे गते विप्रे चिन्ताऽऽसीन्महती तदा
।
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान्॥४५॥
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युति
।
तेजोविग्रहवत्तात शरीरमजहात्तदा॥४६॥
तेजो विग्रहवत् तेजोमयशरीरं शीलम् ॥४६॥
तमपृच्छन्महाकायं प्रह्रादः को भवानिति
।
प्रत्याहतं तु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया॥४७॥
तस्मिन्द्विजोत्तमे राजन् वत्स्याम्यहमनिन्दिते
।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः॥४८॥
इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो
।
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः॥४९॥
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत्
।
धर्म प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः॥५०॥
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्
।
ततोऽपरो महाराज प्रज्वलन्निव तेजसा॥५१॥
शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः
।
को भवानिति पृष्टश्च तमाह स महाद्युतिः॥५२॥
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम्
।
तस्मिन्ननुगते सत्ये महान्वै पुरुषोऽपरः॥५३॥
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महाबलः
।
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम्॥५४॥
तस्मिन्गते महाशब्दः शरीरात्तस्य निर्ययौ
।
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः॥५५॥
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप
।
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ॥५६॥
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत्
।
उषिताऽस्मि स्वयं वीर त्वयि सत्यपराक्रम॥५७॥
त्वया त्यक्ता गमिष्यामि बलं ह्यनुगता ह्यहम्
।
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः॥५८॥
अपृच्छत्स ततो भूयः क्व यासि कमलालये
।
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी
।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्॥५९॥
श्रीरुवाच
।
स शक्रो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः
।
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो॥६०॥
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः
।
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो॥६१॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम्
।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः॥६२॥
भीष्म उवाच।
एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर
।
दुर्योधनस्तु पितरं भूय एवाब्रवीद्वचः॥६३॥
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन
।
प्राप्यते च यथा शीलं तं चोपायं वदस्व मे॥६४॥
धृतराष्ट्र उवाच
।
सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना
।
संक्षेपेण तु शीलस्य शृणु प्राप्तिं नरेश्वर॥६५॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥६६॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्
।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन॥६७॥
तत्तु कर्म तथा कुर्याद्येन श्लाघ्येत संसदि
।
शीलं समासेनैतत्ते कथितं कुरुसत्तम॥६८॥
यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित्
।
न भुञ्जते चिरं तात समूलाश्च न सन्ति ते॥६९॥
धृतराष्ट्र उवाच
।
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक
।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्॥७०॥
भीष्म उवाच।
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिपः
।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्॥७१॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि शीलवर्णनं नाम चतुर्विंशाधिकशततमोऽध्यायः॥१२४॥
युधिष्ठिर उवाच।
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
।
राज्ञः संक्षीणकोशस्य बलहीनस्य भारत ॥१॥
मित्रैरित्यध्यायो वक्ष्यमाणानामापद्धर्माणां सूत्रभूतस्तत्र सर्वप्रकारैरापद्यागतायामधर्मेण प्रजापीडनजेनापि कोशवृद्धिः कर्तव्या तेनैव सर्वा आपदस्तरतीत्यध्यायार्थः ॥१॥
दुष्टामात्यसहायस्य च्युतमन्त्रस्य सर्वतः
।
राज्यात्प्रच्यवमानस्य गतिमग्र्यमपश्यतः ॥२॥
सर्वतः सर्वैः ॥२॥
परचक्राभियातस्य परराष्ट्राणि मृद्गतः
।
विग्रहे वर्तमानस्य दुर्बलस्य वलीयसा ॥३॥
परस्य चक्रं राष्ट्रं प्रति अभियातस्य बलीयसा सार्धम् ॥३॥
असंविहितराष्ट्रस्य देशकालावजानतः
।
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात्
।
जीवितं त्वर्थहेतुर्वा तत्र किं सुकृतं भवेत् ॥४॥
असंविहितम् असम्यग्रक्षितं राष्ट्रं येन तस्य अतिपीडनात् परकीयामात्यादीनां भेदोऽपि अप्राप्यः तत्र अर्थसाध्यं जीवितं वा सुकृतम् अर्थश्चामार्गेणापि ग्राह्य उतार्थं विना मरणं वा श्रेय इति सार्धेन प्रश्नः ॥४॥
भीष्म उवाच।
गुह्यं धर्मज मा प्राक्षीरतीव भरतर्षभ
।
अपृष्ठो नोत्सहे वक्तुं धर्ममेतं युधिष्ठिर ॥५॥
मा माम् अप्राक्षीः पृष्टवानसि ॥५॥
धर्मो ह्यणीयान्वचनाद्बुद्धिश्च भरतर्षभ
।
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ॥६॥
वचनात् शास्त्रात् धर्मं श्रुत्वा उपास्य च क्कचिद्देशे कश्चिदेव साधुर्भवति ॥६॥
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः
।
तादृशोऽयमनुप्रश्नः संव्यवस्यः स्वया धिया ॥७॥
आपत्काले धनार्थं प्रजाः कर्षन्नपि धनं लभते चेदापदं निस्तीर्य प्रजा अनुकम्पयेत् । न वा लभते चेत्स्वस्य प्रजानां च नाशो भवतीति विचार्य स्वस्य प्रश्नस्योत्तरं स्वयमेव चिन्तनीयमित्यर्थः ॥७॥
उपायं धर्मबहुलं यात्रार्थं शृणु भारत
।
नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ॥८॥
यात्रार्थं राज्ञां व्यवहारनिर्वाहार्थं धर्मो राज्ञाम् आपद्धर्मस्तदर्थत्वेन बहुलम् उपायं शृणु, अहं तु न बुभूष इति तस्य शब्दैरनादरणीयत्वं दर्शितं बुभूषे प्राप्तुमिच्छामि ॥८॥
दुःखादान इह ह्येष स्यात्तु पश्चात्क्षयोपमः
।
अभिगम्यमतीनां हि सर्वासामेव निश्चयः ॥९॥
एष उपायो दुःखादानः प्रजानां दुःखेन आदीयतेऽङ्गीक्रियतेऽत एव पश्चात्क्षयोपमो मरणतुल्यः।
'प्रजापीडनसंतापात्समुद्भूतो हुताशनः
।
राज्ञः प्राणान्बलं कोश नादग्ध्वा विनिवर्तते॥'
इति। अभिगम्याश्च ताः मतयश्च तासां सर्वासां प्रजानामिति वा ॥९॥
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते
।
तथा तथा विजानाति विज्ञानमथ रोचते ॥१०॥
अविज्ञानादयोगो हि पुरुषस्योपजायते
।
विज्ञानादपि योगश्च योगो भूतिकरः परः ॥११॥
अयोगः उपायाभावः ॥११॥
अशङ्कमानो वचनमनसूयुरिदं शृणु
।
राज्ञः कोशक्षयादेव जायते बलसंक्षयः ॥१२॥
कोशं च जनयेद्राजा निर्जलेभ्यो यथा जलम्
।
कालं प्राप्यानुगृह्णीयादेष धर्मः सनातनः
।
उपायधर्मं प्राप्येमं पूर्वैराचरितं जनैः ॥१३॥
अनुगृह्णीयात् प्राक्कर्षिताः प्रजा इति शेषः उपायधर्मम् उपधर्मम् अमुख्यधर्ममिति यावत् सार्धः ॥१३॥
अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत
।
प्राक्कोशात्प्राप्यते धर्मो वृत्तिर्धर्माद्गरीयसी ॥१४॥
प्राक्कोशाद्विनापि कोशं तप आदिना धर्मः वृत्तिर्जीवनं तल्लोपप्रसक्तौ तु कोशसञ्चयविरोधी धर्मो नादर्तव्य इत्यर्थः ॥१४॥
धर्मं प्राप्य न्यायवृत्तिं न बलीयान्न विन्दति
।
यस्माद्बलस्योपपत्तिरेकान्तेन न विद्यते ॥१५॥
नबलीयान्नैकधेतिवत्समासः दुर्बलो धर्मं प्राप्य अनुरुध्य न्यायवृत्तिं न्यायोपेतां श्रेष्ठां जीविकां न विन्दति यस्माद्यत्नाच्चावश्यं बलं भवतीति नियमो नास्ति । यस्मात् तस्मादापदि अधर्मोऽपि कर्तव्यत्वेन श्रूयते तत्र च योऽधर्मलक्षणो धर्मः स अधर्म एव भवतीति शास्त्रमर्यादेति श्लोकद्वयार्थः । प्रजाकर्षणादिरधर्मोऽप्यापदि धर्म एव अकृतश्चेत्स एवाधर्म इति भावः ॥१५॥
तस्मादापत्स्वधर्मोऽपि श्रूयते धर्मलक्षणः
।
अधर्मो जायते तस्मिन्निति वै कवयो विदुः ॥१६॥
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते
।
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा
।
तत् कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥१७॥
अनन्तरम् आपन्निवृत्त्युत्तरं तत्र पूर्वोक्ताधर्मे किं विचिकित्स्यते प्रायश्चित्तादिकं कराग्रहणादिकं च विधीयते दोषपरिहारार्थमित्यर्थः । फलितमाह- यथेति ॥१७॥
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः
।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥१८॥
धर्मस्येति कर्मणि षष्ठी परस्य धर्मं नोज्जिहीर्षेन्नाप्यात्मनो धर्ममुज्जिहीर्षेदपि तु आत्मानमेव उज्जिहीर्षेत् स्वपरधर्मलोपेऽप्यात्मानमेवोद्धर्तुमिच्छेदित्यर्थः ॥१८॥
तत्र धर्मविदां तात निश्चयो धर्मनैपुणम्
।
उद्यमो नैपुणं क्षात्रे बाहुवीर्यादिति श्रुतिः ॥१९॥
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति
।
अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत ॥२०॥
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्
।
अभोज्यानानि चाश्नीयात्तथेदं नात्र संशयः ॥२१॥
पीडितस्य किमु द्वारमुत्पथो विधृतस्य च
।
अद्वारतः प्रद्रवति यथा भवति पीडितः ॥२२॥
विधृतस्य निरुद्धस्य क उत्पथो न कोऽपि किं तु यथाऽपथेनापि प्रद्रवति तथा यतितव्यमिति शेषः ॥२२॥
यस्य कोशबलग्लान्या सर्वलोकपराभवः
।
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका ॥२३॥
स्वधर्मानन्तरा वृत्तिर्जात्याननुपजीवतः
।
जहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥२४॥
न विहिता यस्येत्यनुषज्ज्यते स्वधर्मो विजयेन क्षत्रियस्य धनार्जनं तस्य अनन्तरा प्रत्यासन्ना स्वपरराष्ट्रावमदन धनार्जनं तेन वृत्तिस्तस्य विहितेत्यनुषङ्गः । जात्यान्सजातीयाननुपजीवतः अयाचमानस्य नित्यं प्रथमं कल्पं वहतोऽपि आपदि अनुकल्पेन जीवनं युक्तमित्यर्थः ॥२४॥
आपद्गतेन धर्माणामन्यायेनोपजीवनम्
।
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥२५॥
अन्यायेन विपर्ययेण 'बुभुक्षितस्त्र्यहं विप्रो धान्यमब्राह्मणाद्धरेत्' इति प्रतिग्रहालाभे ब्राह्मणस्य यथा चौर्यं विहितम् ॥२५॥
क्षत्रिये संशयः कस्मादित्येवं निश्चितं सदा
।
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन ॥२६॥
एवं क्षत्रियोऽप्यापदि शिष्टेभ्यो बलादाददीतेत्यत्र संदेह एव न युक्त इत्यर्थः ॥२६॥
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः
।
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥२७॥
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित्
।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥२८॥
अस्यापवादमाह- अन्यत्रेति । अन्यत्र हिंसायाः कृशजनपीडामकृत्वेत्यर्थः । इह हिंसायां कस्यचिदपि वृत्तिहिंसापूर्विका न हिताऽस्तीति नेत्यर्थः । अरण्यससुत्थस्य वने एव तिष्ठतः ॥२८॥
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्
।
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सया ॥२९॥
शङ्खे ललाटास्थ्नि लिखितां वृत्तिं दिष्टमात्रालम्बिना राज्ञा जीवितुं न शक्यं 'शंखः कम्बुललाटास्थि' इति विश्वलोचनः । ईप्सया औत्कण्ठ्येन प्रजापालनं चिकीर्षतेति शेषः ॥२९॥
परस्परं हि संरक्षा राज्ञा राष्ट्रेण चापदि
।
नित्यमेव हि कर्तव्या एष धर्मः सनातनः ॥३०॥
राजा राष्ट्रं यथाऽऽपत्सु द्रव्यौघैरपि रक्षति
।
राष्ट्रेण राजा व्यसने रक्षितव्यस्तथा भवेत् ॥३१॥
कोशं दण्डं बलं मित्रं यदन्यदपि संचितम्
।
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा ॥३२॥
अन्तरं दूरतः ॥३२॥
बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः
।
अत्रैतच्छम्बरस्याहुमहामायस्य दर्शनम् ॥३३॥
बीजं भक्तेनासंपादितं चेदग्रे भक्तदौर्बल्यं यथा भवति एवमल्पधनो राजा प्रजाभिर्न रक्षितो नश्यति नष्टे च तस्मिन्सर्वाः प्रजा अपि नश्यन्तीत्यर्थः । एतत्पूर्वार्धोक्तं दर्शनं शास्त्रम् ॥३३॥
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति
।
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि ॥३४॥
अवृत्त्या जीविकाया अभावेन यस्य राष्ट्रम् अवसीदति यो वा अन्यमनुष्यः अल्पेति पाठेऽल्पपरीवारः यो वा वैदेशिको देशान्तरोपजीवी तस्य राज्ञो जीवितं धिक् ॥३४॥
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्
।
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥३५॥
राज्ञो मूलं दीर्घकारणं कोशो बलं च तत्रापि कोशो बलस्य मूलं तद्बलं धर्माणां मूलं धर्मश्च प्रजानां मूलम् अतः सर्वस्य मूलभूतं कोशं वर्धयेत् ॥३५॥
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्
।
तदर्थं पीडयित्वा च दोषं प्राप्तुं न सोऽर्हति ॥३६॥
अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु
।
एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ॥३७॥
कारणात् दृष्टान्तात् राजा रक्षार्थं प्रजाः कर्षन्न दोषं प्राप्नोति ॥३७॥
अर्थार्थमन्यद्भवति विपरीतमथापरम्
।
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम्
।
एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ॥३८॥
अन्यत् आपदि प्रजापीडनमप्यर्थार्थं भवति अपरम् अपीडनं विपरीतम् अनर्थार्थं भवति । यदप्यन्यदनर्थार्थम् अर्थाभावार्थं कुञ्जरपालनादि भवति तदेवेहार्थस्य कारणम् उत्पादकं भवति एवमेतदपीत्याहार्धेन एवमिति सार्धः ॥३८॥
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथा परः
।
यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् ॥३९॥
यज्ञार्थमिति । यथा पश्वादिकं यज्ञार्थं यज्ञश्च चित्तसंस्कारार्थः पश्वादिकं यशः संस्कारश्चेति त्रयम् अर्थार्थं मोक्षार्थं भवति । एवं दण्डः कोशार्थं कोशो बलार्थः बलं शत्रुपराभवार्थम् । कोशो बलं जयश्चेति त्रयं राष्ट्रपुष्ट्यर्थमिति भावः ॥३९॥
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्
।
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ॥४०॥
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि
।
ते चापि निपतन्तोऽन्यान्निघ्नन्त्येव वनस्पतीन् ॥४१॥
सामन्ताः प्रतिपक्षभूताः ॥४१॥
एवं कोशस्य महतो ये नराः परिपन्थिनः
।
तानहत्वा न पश्यामि सिद्धिमत्र परंतप ॥४२॥
धनेन जयते लोकावुभौ परमिमं तथा
।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥४३॥
यथा नास्त्यधनस्तथेति जीवन्मृतत्वमधनस्योक्तम् ॥४३॥
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्
।
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥४४॥
यज्ञार्थं धनं सर्वैरप्यनिषिद्धैरुपायैराददीत परं तु कार्याकार्येषु विहितनिषिद्धेषु आपदि प्रजापीडनं विहितं तदेवानापदि निषिद्धं तथाभूतेष्वर्थेषु तुल्यदोषो न स्याद्देशकालानुसारेण कार्यमप्यकार्यं भवत्यकार्यमपि कार्यं भवति तत्र विपरीतं न प्रतिपद्येतेति भावः ॥४४॥
नैतौ सम्भवतो राजन्कथंचिदपि पार्थिव
।
न हरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥४५॥
एतौ धनसंग्रहत्यागौ एकस्मिन् पुरुषे न संभवतः युगपत्तयोर्वृत्तिर्न सिध्यति विरक्तेषु संग्रहासंभवात् ॥४५॥
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन
।
ममेदं स्यान्ममेदं स्यादित्येवं काक्षते जनः ॥४६॥
अन्येषु त्यागासंभवमाह- यदिदमिति । तस्मादविरक्तत्वाद्राज्ञो धनमेष्टव्यमेवेति भावः ॥४६॥
न च राज्यसमो धर्मः कश्चिदस्ति परन्तप
।
धर्मः संशब्दितो राज्ञामापदर्थमतोऽन्यथा ॥४७॥
ननु किं पापमूलेन धनेन किं च तन्मूलेन राज्येनेत्याशङ्क्याह - न चेति । अनापद्येव राज्ञो बहुकरादानं पापमूलम् आपदि तु न तत्तथा भवति । अतो न पापमूलं धनं नापि तन्मूलराज्यस्य हेयत्वम् अपि तु धर्महेतुत्वादवश्यं कर्तव्यत्वमेवेत्यर्थः ॥४७॥
दानेन कर्मणा चान्ये तपसाऽन्ये तपस्विनः
।
बुद्ध्या दाक्ष्येण चैवान्ये विन्दन्ति धनसंचयान् ॥४८॥
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्
।
सर्वं धनवता प्राप्यं सर्वं तरति कोशवान् ॥४९॥
कोशेन धर्मः कामश्च परलोकस्तथा ह्ययम्
।
तं च धर्मेण लिप्सेत नाधर्मेण कदाचन ॥५०॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥१३०॥