राजधर्मानुशासनपर्व - १आपद्धर्मपर्व - २मोक्षधर्मपर्व - ३

आपद्धर्मपर्व

एकत्रिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितवृत्तस्य श्रुतमन्त्रस्य भारत ॥१॥

विभक्तपुरराष्ट्रस्य निर्द्रव्यनिचयस्य च ।
असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः ॥२॥

परचक्राभिजातस्य दुर्बलस्य बलीयसा ।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥३॥

भीष्म उवाच। बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पुर्वभुक्तान्विमोचयेत् ॥४॥

योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः ।
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥५॥

अपास्य राजधानीं वा तरेद्द्रव्येण चापदम् ।
तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥६॥

यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः ।
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥७॥

अवरोधान् जुगुप्सेत का सपत्नधने दया ।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन ॥८॥

युधिष्ठिर उवाच। आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते ।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते ॥९॥

भीष्म उवाच। क्षिप्रं वा सन्धिकामः स्यात् क्षिप्रं वा तीक्ष्णविक्रमः ।
तदापनयनं क्षिप्रमेतावत्साम्परायिकम् ॥१०॥

अनुरक्तेन चेष्टेन हृष्टेन जगतीपतिः ।
अल्पेनापि हि सैन्येन महीं जयति भूमिपः ॥११॥

हतो वा दिवमारोहेद्धत्वा वा क्षितिमावसेत् ।
युद्धे हि सन्त्यजन्प्राणान् शक्रस्यैति सलोकताम् ॥१२॥

सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च ।
विश्वासाद्विनयं कुर्याद्विश्वसेच्चाप्युपायतः ॥१३॥

अपचिक्रमिषुः क्षिप्रं साम्ना वा परिसान्त्वयन् ।
विलंघयित्वा मन्त्रेण ततः स्वयमुपक्रमेत् ॥१४॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥
द्वात्रिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। हीने परमके धर्मे सर्वलोकाभिसंहिते ।
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥१॥

केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ।
असंत्यजन्पुत्रपौत्राननुक्रोशात् पितामह ॥२॥

भीष्म उवाच। विज्ञानबलमास्थाय जीवितव्यं तथागते ।
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन ॥३॥

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मविदेव सः ॥४॥

आकाङ्क्षन्नात्मनो राज्यं राज्ये स्थितिमकोपयन् ।
अदत्तमेवाददीत दातुर्वित्तं ममेति च ॥५॥

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि ।
वृत्तिविज्ञानवान्धीरः कस्तं वा वक्तुमर्हति ॥६॥

येषां बलकृता वृत्तिस्तेषामन्या न रोचते ।
तेजसाऽभिप्रवर्तन्ते बलवन्तो युधिष्ठिर ॥७॥

यदैव प्राकृतं शास्त्रमविशेषेण वर्तते ।
तदैवमभ्यसेदेवं मेधावी वाऽप्यथोत्तरम् ॥८॥

ऋत्विक्पुरोहिताचार्यान् सत्कृतानभिसत्कृतान् ।
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन् ॥९॥

एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् ।
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥१०॥

बहवो ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् ।
न तेषां वचनाद्राजा सत्कुर्याद्घातयीत वा ॥११॥

न वाच्यः परिवादोऽयं न श्रोतव्यः कथञ्चन ।
कर्णावथापिधातव्यौ प्रस्थेयं चान्यतो भवेत् ॥१२॥

असतां शीलमेतद्वै परिवादोऽथ पैशुनम् ।
गुणानामेव वक्तारः सन्तः सत्सु नराधिप ॥१३॥

यथा सुमधुरौ दम्यौ सुदान्तौ साधुवाहिनौ ।
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥१४॥

यथा यथाऽस्य बहवः सहायाः स्युस्तथा परे ।
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ॥१५॥

अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः ।
मात्सर्यादथवा लोभान्न ब्रूयुर्वाक्यमीदृशम् ॥१६॥

आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य पातनम् ।
न तादृक्सदृशं किञ्चित्प्रमाणं दृश्यते क्वचित् ॥१७॥

देवताश्च विकर्मस्थं पातयन्ति नराधमम् ।
व्याजेन विन्दन्वित्तं हि धर्मात्स परिहीयते ॥१८॥

सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥१९॥

यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित् ।
अहेरिव हि धर्मस्व पदं दुःखं गवेषितुम् ॥२०॥

यथा मृगस्य विद्धस्य पदमेकपदं नयेत् ।
लक्षेद्रुधिरलेपेन तथा धर्मपदं नयेत् ॥२१॥

एवं सद्धिर्विनीतेन पथा गन्तव्यमित्युत ।
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर ॥२२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि राषर्षिवृत्तं नाम द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥
त्रयस्त्रिंशदधिकशततमोऽध्यायः

भीष्म उवाच। स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः ।
कोशाद्धि धर्मः कौन्तेय राज्यमूलं च वर्धते ॥१॥

तस्मात्संजनयेत्कोशं सत्कृत्य परिपालयेत् ।
परिपाल्यानुतनुयादेष धर्मः सनातनः ॥२॥

न कोशः शुद्धशौचेन न नृशंसेन जातुचित् ।
मध्यमं पदमास्थाय कोशसंग्रहणं चरेत् ॥३॥

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् ।
अबलस्य कुतो राज्यमराज्ञः श्रीर्भवेत्कुतः ॥४॥

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा ।
तस्मात्कोशं बलं मित्रमथ राजा विवर्धयेत् ॥५॥

हीनकोशं हि राजानमवजानन्ति मानवाः ।
न चास्याल्पेन तुष्यन्ति कार्यमप्युत्सहन्ति च ॥६॥

श्रियो हि कारणाद्राजा सक्रियां लभते पराम् ।
सास्य गृहति पापानि वासो गुह्यमिव स्त्रियाः ॥७॥

ऋद्धिमस्यानु तप्यन्ते पुरा विप्रकृता नराः ।
शालावृका इवाजस्त्रं जिघांसुमेव विन्दति ॥८॥

ईदृशस्य कुतो राज्ञः सुखं भवति भारत ।
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ॥९॥

अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ।
अप्यरण्यं समाश्रित्य चरेन्मृगगणैः सह ॥१०॥

न त्वेवोज्झितमर्यादैर्दस्युभिः सहितश्चरेत् ।
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ॥११॥

एकान्ततो ह्यमर्यादात्सर्वोऽप्युद्विजते जनः ।
दस्यवोऽप्यभिशङ्कन्ते निरनुक्रोशकारिणः ॥१२॥

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् ।
अल्पेऽप्यर्थे च मर्यादा लोके भवति पूजिता ॥१३॥

नायं लोकोऽस्ति न पर इति व्यवसितो जनः ।
नालं गन्तुं हि विश्वासं नास्तिके भयशङ्किते ॥१४॥

यथा सद्भिः परादानमहिंसा दस्युभिः कृता ।
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥१५॥

अयुद्ध्यमानस्य वधो दारामर्षः कृतघ्नता ।
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ॥१६॥

स्त्रिया मोषः पतिस्थानं दस्युष्वेतद्विगर्हितम् ।
संश्लेषं च परस्त्रीभिर्दस्युरेतानि वर्जयेत् ॥१७॥

अभिसंदधते ये च विश्वासायास्य मानवाः ।
अशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयः ॥१८॥

तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः ।
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ॥१९॥

स शेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः ।
निःशेषकारिणो नित्यं निःशेषकरणाद्भयम् ॥२०॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥
चतुस्त्रिंशदधिकशततमोऽध्यायः

भीष्म उवाच। अत्र धर्मानुवचनं कीर्तयन्ति पुराविदः ।
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ॥१॥

तत्र न व्यवधातव्यं परोक्षा धर्मयापना ।
अधर्मो धर्म इत्येतद्यथा वृकपदं तथा ॥२॥

धर्माधर्मफले जातु ददर्शेह न कश्चन ।
बुभूषेद्बलमेवैतत्सर्वं बलवतो वशे ॥३॥

श्रियो बलममात्यांश्च बलवानिह विन्दति ।
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् ॥४॥

बह्वपथ्यं बलवति न किंचित्क्रियते भयात् ।
उभौ सत्याधिकारस्थौ त्रायेते महतो भयात् ॥५॥

अतिधर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ।
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमम् ॥६॥

धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते ।
अनीश्वरो बले धर्मो द्रुमे वल्लीव संश्रिता ॥७॥

वशे बलवतां धर्मः सुखं भोगवतामिव ।
नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि ॥८॥

दुराचारः क्षीणबलः परित्राणं न गच्छति ।
अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥९॥

अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
जीवितं यदपक्रुष्टं यथैव मरणं तथा ॥१०॥

यदेवमाहुः पापेन चारित्रेण विवर्जितः ।
सुभृशं तप्य तेनैव वाक्शल्येन परिक्षतः ॥११॥

अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे ।
त्रयीं विद्यामवेक्षेत तथोपासीत वै द्विजान् ॥१२॥

प्रसादयेच्चक्षुषा च वाचा चाप्यथ कर्मणा ।
महामनाश्चापि भवेद्विवहेच्च महाकुले ॥१३॥

इत्यस्मीति वदेदेवं परेषां कीर्तयेद् गुणान् ।
जपेदुदकशीलः स्यात्पेशलो नातिजल्पकः ॥१४॥

ब्रह्मक्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम् ।
उच्यमानो हि लोकेन बहुकृत्तदचिन्तयन् ॥१५॥

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।
सुखं च चित्रं भुञ्जीत कृतेनैकेन गोपयेत् ॥१६॥

लोके च लभते पूजां परत्रेह महत्फलम् ॥१७॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥१३४॥
पञ्चत्रिंशदधिकशततमोऽध्यायः

भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥१॥

प्रहर्ता मतिमान् शूरः श्रुतवान् सुनृशंसवान् ।
रक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥२॥

निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कायव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥३॥

अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता ।
विधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥४॥

सर्वकालप्रदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥५॥

अप्यनेकशतां सेनामेक एव जिगाय सः ।
स वृद्धावन्धबधिरौ महारण्येऽभ्यपूजयत् ॥६॥

मधुमांसैर्मूलफलैरन्नरुच्चावचैरपि ।
सत्कृत्य भोजयामास मान्यान्परिचचार च ॥७॥

आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन् ।
अपि तेभ्यो मृगान् हत्वा निनाय सततं वने ॥८॥

येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥९॥

बहूनि च सहस्राणि ग्रामणित्वेऽभिवव्रिरे ।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥१०॥

दस्यव ऊचुः ।
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः ।
ग्रामणीर्भवनो मुख्यो सर्वेषामेव सङ्गतः ॥११॥

यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा ।
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥१२॥

कायव्य उवाच ।
मा वधीस्त्वं स्त्रियं भीरूं मा शिष्टुं मा तपस्विनम् ।
नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः ॥१३॥

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित् ।
नित्यं तु ब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥१४॥

सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः ।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥१५॥

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति ।
कार्या चोपचितिस्तेषां सर्वस्वेनापि या भवेत् ॥१६॥

यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् ।
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥१७॥

यो ब्राह्मणान्परिवदेद्विनाशं चापि रोचयेत् ।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥१८॥

इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः ।
ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥१९॥

शिष्ट्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः ।
ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः ॥२०॥

ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन ।
तदैव तेऽनुमार्यन्ते कुणपे कृमयो यथा ॥२१॥

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः ।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥२२॥

भीष्म उवाच। ते सर्वमेवानुचक्रुः कायव्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥२३॥

कायव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।
साधूनामाचरन् क्षेमं दस्यून्पापान्निवर्तयन् ॥२४॥

इदं कायव्यचरितं यो नित्यमनुचिन्तयेत् ।
नारण्येभ्यो हि भूतेभ्यो भयं प्राप्नोति किंचन ॥२५॥

न भयं तस्य भूतेभ्यः सर्वेभ्यश्चैव भारत ।
नासतो विद्यते राजन् स ह्यरण्येषु गोपतिः ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कायव्यचरिते पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
षट्त्रिंशदधिकशततमोऽध्यायः

भीष्म उवाच। अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
येन मार्गेण राजा वै कोशं संजनयत्युत ॥१॥

न धनं यज्ञशीलानां हार्यं देवस्वमेव च ।
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥२॥

इमाः प्रजाः क्षत्रियाणां राज्यभोगाश्च भारत ।
धनं हि क्षत्रियस्यैव द्वितीयस्य न विद्यते ॥३॥

तदस्य स्याद्बलार्थ वा धनं यज्ञार्थमेव च ।
अभोग्याश्चौषधीश्छित्त्वा भोग्या एव पचन्त्युत ॥४॥

यो वै न देवान्न पितॄन्न मार्त्यान्हविषाऽर्चति ।
अनर्थकं धनं तः प्राहुर्धर्मविदो जनाः ॥५॥

हरेत द्रविणं राजन् धार्मिकः पृथिवीपतिः ।
ततः प्रीणयते लोकं न कोशं तद्विधं नृपः ॥६॥

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः ॥७॥

तथा तथा जयेल्लोकान् शक्त्या चैव यथा यथा ।
उद्भिज्जा जन्तवो यद्वच्छुक्लजीवा यथा यथा ॥८॥

अनिमित्तात्सम्भवन्ति तथाऽयज्ञः प्रजायते ॥९॥

यथैव दंशमशकं यथा चाण्डपिपीलिकम् ।
सैव वृत्तिरयज्ञेषु यथा धर्मो विधीयते ॥१०॥

यथा ह्यकस्माद्भवति भूमौ पांसुर्विलोलितः ।
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरस्तथा ॥११॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥१३६॥
सप्तत्रिंशदधिकशततमोऽध्यायः

भीष्म उवाच। अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति ॥१॥

अत्रैव चेदमव्यग्रं शृणुष्वाख्यानमुत्तमम् ।
दीर्घं सूत्रमुपाश्रित्य कार्याकार्यविनिश्चये ॥२॥

नातिगाधे जलाधारे सुहृदः कुशलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥३॥

तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां सहचारिणाम् ॥४॥

कदाचित् तं जलस्थायं मत्स्यबन्धाः समन्ततः ।
निस्त्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥५॥

प्रक्षीयमाणं तं दृष्ट्वा जलस्थायं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥६॥

इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ॥७॥

अनागतमनर्थं हि सुनयैर्यः प्रबाधयेत् ।
स न संशयमाप्नोति रोचतां भो व्रजामहे ॥८॥

दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते ।
न त कार्या त्वरा तावदिति मे निश्चिता मतिः ॥९॥

अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किञ्चिन्यायतः परिहास्यते ॥१०॥

एवं श्रुत्वा निराक्रम्य दीर्घदर्शी महामतिः ।
जगाम स्रोतसा तेन गम्भीरं सलिलाशयम् ॥११॥

ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥१२॥

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।
अगच्छद्बन्धनं तत्र दीर्घसूत्रः सहापरैः ॥१३॥

उद्याने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः ।
प्रविश्यान्तरमेतेषां स्थितः सम्प्रतिपत्तिमान् ॥१४॥

गृह्यमेव तदुद्यानं गृहीत्वा तं तथैव सः ।
सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति ॥१५॥

ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले ।
मुक्त्वा रज्जुं प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान् ॥१६॥

दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः ।
मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः ॥१७॥

एवं प्राप्ततमं कालं यो मोहान्नावबुद्ध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥१८॥

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ॥१९॥

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते दीर्घसूत्रो विनश्यति ॥२०॥

काष्ठाः कला मुहूर्ताश्च दिवा रात्रिस्तथा लवाः ।
मासाः पक्षाः षड् ऋतवः कल्पः संवत्सरास्तथा ॥२१॥

पृथिवी देश इत्युक्तः कालः स च न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं ध्यायते यच्च तत्तथा ॥२२॥

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम् ॥२३॥

परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् ।
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ॥२४॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि शाकुलोपाख्याने सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥
अष्टत्रिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥१॥

तदिच्छामि परां श्रोतुं बुद्धिं ते भरतर्षभ ।
यथा राजा न मुह्येत शत्रुभिः परिवारितः ॥२॥

धर्मार्थकुशलो राजा धर्मशास्त्रविशारदः ।
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ॥३॥

शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः ।
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ॥४॥

विषमस्थं हि राजानं शत्रवः परिपन्थिनः ।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥५॥

सर्वत्र प्रार्थ्यमानेन दुर्बलेन महाबलैः ।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम् ॥६॥

कथं मित्रमरिं चापि विन्दते भरतर्षभ ।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥७॥

प्रज्ञातलक्षणे मित्रे तयैवामित्रतां गते ।
कथं तु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत् ॥८॥

विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत् ।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि ॥९॥

एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप ।
नैतस्य कश्चिद्वक्तास्ति श्रोता वापि सुदुर्लभः ॥१०॥

ऋते शान्तनवाद्भीष्मात् सत्यसंधाज्जितेन्द्रियात् ।
तदन्विष्य महाभाग सर्वमेतद्वदस्व मे ॥११॥

भीष्म उवाच। त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर सुखोदयः ।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥१२॥

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात्कार्याणामनित्या वै सदा गतिः ॥१३॥

तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् ।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥१४॥

संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः ।
अमित्रैरपि सन्धेयं प्राणा रक्ष्या हि भारत ॥१५॥

यो ह्यमित्रैर्नरो नित्यं न सन्दध्यादपण्डितः ।
न सोऽर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत ॥१६॥

यस्त्वमित्रेण सन्दध्यान्मित्रेण च विरुद्ध्यते ।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥१७॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च ॥१८॥

वनो महति कस्मिंश्चिन्यग्रोधः सुमहानभूत् ।
लताजालपरिच्छिन्नो नानाद्विजगणान्वितः ॥१९॥

स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः ।
अरण्यमभितो जातः स तु व्यालमृगाकुलः ॥२०॥

तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् ।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः ॥२१॥

शाखां तस्य समाश्रित्य वसति स्म सुखं पुरा ।
लोमशो नाम मार्जारः पक्षिसंघातखादकः ॥२२॥

तत्र चागत्य चाण्डालो शरण्ये कृतकेतनः ।
प्रयोजयति चोन्माथं नित्यमस्तंगते रवौ ॥२३॥

तत्र स्नायुमयान् पाशान् यथावत्संविधाय सः ।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥२४॥

तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः ।
कदाचिदत्र मार्जारस्त्वप्रमत्तो व्यबध्यत ॥२५॥

तस्मिन् बधे महाप्राणे शत्रौ नित्याततायिनि ।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः ॥२६॥

तेनानुचरता तस्मिन्वने विश्वस्तचारिणा ।
भक्ष्यं मृगयमाणेन चिराद्दृष्टं तदामिषम् ॥२७॥

स तमुन्माथमारुह्य तदामिषमभक्षयत् ॥२८॥

तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ।
आमिषे तु प्रसक्तः स कदाचिदवलोकयन् ॥२९॥

अपश्यदपरं घोरमात्मनः शत्रुमागतम् ।
शरप्रसूनसङ्काशं महीविवरशायिनम् ॥३०॥

नकुलं हरिणं नाम चपलं ताम्रलोचनम् ।
तेन मूषिकगन्धेन त्वरमाणमुपागतम् ॥३१॥

भक्ष्यार्थं संलिहानं तं भूमावूर्ध्वमुखं स्थितम् ।
शाखागतमरिं चान्यमपश्यत्कोटरालयम् ॥३२॥

उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ।
गतस्य विषयं तत्र नकुलोलूकयोस्तथा ॥३३॥

अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ।
आपद्यस्यां सुकशयां मरणे प्रत्युपस्थिते ॥३४॥

समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ।
स तथा सर्वतो रुद्धः सर्वत्र भयदर्शनः ॥३५॥

अभवद्भयसंतप्तश्चक्रे च परमां मतिम् ।
आपद्विनाशभूयिष्ठं गतैः कार्यं हि जीवितम् ॥३६॥

समन्तात्संशयात्सैषा तस्मादापदुपस्थिता ।
गतं मा सहसा भूमिं नकुलो भक्षयिष्यति ॥३७॥

उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ।
न त्वेवास्मद्विधः प्राज्ञः सम्मोहं गन्तुमर्हति ॥३८॥

करिष्ये जीविते यत्नं यावद्युक्त्या प्रतिग्रहात् ।
न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः ॥३९॥

निमज्जत्यापदं प्राप्य महतीं दारुणामपि ॥४०॥

न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम् ।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया ॥४१॥

जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः ।
तस्मादेनमहं शत्रु मार्जारं संश्रयामि वै ॥४२॥

नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये ।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥४३॥

अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः ।
मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ॥४४॥

कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह ।
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः ॥४५॥

कार्य इत्याहुराचार्या विषमे जीवितार्थिना ।
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः ॥४६॥

मम त्वमित्रे माजरि जीवितं सम्प्रतिष्ठितम् ।
हन्तास्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे ॥४७॥

अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् ।
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम् ॥४८॥

ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् ।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत् ॥४९॥

सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसि ।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥५०॥

न ते सौम्य भयं कार्यं जीविष्यसि यथासुखम् ।
अहं त्वामुद्धरिष्यामि यदि मां न जिघांससि ॥५१॥

अस्मि कश्चिदुपायोऽत्र दुष्करः प्रतिभाति मे ।
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयस्तथा मया ॥५२॥

मयाप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः ।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥५३॥

इदं हि नकुलोलूकं पापबुद्ध्याभिसंस्थितम् ।
न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् ॥५४॥

कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते ।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे ॥५५॥

सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः ।
सांवास्यकं करिष्यामि नास्ति ते भयमद्य वै ॥५६॥

न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना ।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि ॥५७॥

त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः ।
चिरोषितावुभावावां वृक्षेऽस्मिन् विदितं च ते ॥५८॥

यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित् ।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ ॥५९॥

तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ ।
कालातीतमिहार्थं तु न प्रशंसन्ति पण्डिताः ॥६०॥

अर्थयुक्तिमिमां तत्र यथाभूतां निशामय ।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥६१॥

कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥६२॥

ईदृशो नौ समायोगो भविष्यति सुविस्तरः ।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि ॥६३॥

एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम् ।
हेतुमद्ग्रहणीयं च कालापेक्षी न्यवेक्ष्य च ॥६४॥

अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः ।
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥६५॥

बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन् ।
स्वामवस्थां समीक्ष्याथ साम्नैव प्रत्यपूजयत् ॥६६॥

ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः ।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ॥६७॥

नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि ।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥६८॥

अहं हि भृशमापन्नस्त्वमापनतरो मम ।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च ॥६९॥

विधास्ये प्राप्तकालं यत्कार्यं सिद्धिकरं विभो ।
मयि कृच्छ्राद्विनिर्मुक्ते न विनंक्ष्यति ते कृतम् ॥७०॥

न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा ।
निदेशवशवर्ती च भवन्तं शरणं गतः ॥७१॥

इत्येवमुक्तः पलितो मार्जारं वशमागतम् ।
वाक्यं हितमुवाचेदमभिनीतार्थमर्थवित् ॥७२॥

उदारं यद्भवानाह नैतच्चित्रं भवद्विधे ।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥७३॥

अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम् ।
त्रायस्व भो मावधीस्त्वं शक्तोऽस्मि तव रक्षणे ॥७४॥

उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् ।
अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे ॥७५॥

तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् ।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥७६॥

तं सम्पूज्याथ पलितं मार्जारः सौहृदे स्थितः ।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च ॥७७॥

शीघ्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा ।
तव प्राज्ञ प्रसादाद्धि प्रायः प्राप्स्यामि जीवितम् ॥७८॥

यद्यदेवं गते नाथ शक्यं कर्तुं मया तव ।
तदाज्ञापय कर्ताऽस्मि सन्धिरेवास्तु नौ सखे ॥७९॥

अस्मात्तु संकटान्मुक्तः समित्रगणबान्धवः ।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च ॥८०॥

मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते ।
प्रीतिमुत्पादयेयं च प्रीतिकर्तुश्च सत्क्रियाम् ॥८१॥

प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः ।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः ॥८२॥

भीष्म उवाच। ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा ।
प्रविवेश तु विश्रम्य क्रोडमस्य कृतागसः ॥८३॥

एवमाश्वासितो विद्वान्मार्जरेण स मूषिकः ।
मार्जारोरसि विस्त्रब्धः सुष्वाप पितृमातृवत् ॥८४॥

लीनं तु तस्य गात्रेषु मार्जारस्य च मूषिकम् ।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम् ॥८५॥

तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ ।
दृष्ट्वा तयोः परां प्रीति विस्मयं परमं गतौ ॥८६॥

बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ ।
अशक्तौ तु नयात्तस्मात्सम्प्रधर्षयितुं बलात् ॥८७॥

कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषिकौ ।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् ॥८८॥

लीनः स तस्य गात्रेषु पलितो देशकालवित् ।
चिच्छेद पाशान्नृपते कालापेक्षी शनैः शनैः ॥८९॥

अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम् ।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥९०॥

तमत्वरन्तं पलितं पाशानां छेदने तथा ।
संचोदयितुमारेभे मार्जारो मूषिकं तदा ॥९१॥

किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे ।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति च ॥९२॥

इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् ।
मार्जारमकृतप्रज्ञं पथ्यमात्महितं वचः ॥९३॥

तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः ।
वयमेवात्र कालज्ञा न कालः परिहास्यते ॥९४॥

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥९५॥

अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत् ।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥९६॥

यदा पश्यामि चाण्डालमायान्तं शस्त्रपाणिनम् ।
ततश्छेत्स्यामि ते पाशान् प्राप्ते साधारणे भये ॥९७॥

तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे ।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥९८॥

ततो भवत्यपक्रान्ते त्रस्ते भीते च लोमश ।
अहं बिलं प्रवेक्ष्यामि भवान् शाखां भजिष्यति ॥९९॥

एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम् ।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥१००॥

अथात्मकृत्ये त्वरितः सम्यक् प्रश्रितमाचरन् ।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणम् ॥१०१॥

न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ।
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ॥१०२॥

तथा हि त्वरमाणेन त्वया कार्यं हितं मम् ।
यत्नं कुरु महाप्राज्ञ यथा रक्षाऽऽवयोर्भवेत् ॥१०३॥

अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि ।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुः क्षयं तव ॥१०४॥

यदि किंचिन्मयाज्ञानात्पुरस्ताद्दुष्कृतं कृतम् ।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे ॥१०५॥

तमेवंवादिनः प्राज्ञः शास्त्रबुद्धिसमन्वितः ।
उवाचेदं वचः श्रेष्ठं मार्जार मूषिकस्तदा ॥१०६॥

श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः ।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः ॥१०७॥

यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् ।
सुरक्षितव्यं तत्कार्यं पाणिः सर्पमुखादिव ॥१०८॥

कृत्वा बलवता संधिमात्मनं यो न रक्षति ।
अपथ्यमिव तद्भुक्तं तस्य नार्थाय कल्पते ॥१०९॥

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् ।
अर्थतस्तु निबद्ध्यन्ते मित्राणि रिपवस्तथा ॥११०॥

अर्थैरर्था निबद्ध्यन्ते गजैर्वनगजा इव ।
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते ॥१११॥

तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ।
तस्मिन् कालेऽपि च भवान् दिवाकीर्तिभयार्दितः ॥११२॥

मम न ग्रहणे शक्तः पलायनपरायणः ।
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ॥११३॥

छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश ।
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ॥११४॥

क्षयं जगाम सा रात्रिर्लोमशं त्वाविशद्भयम् ।
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः ॥११५॥

स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः ।
शंकुकर्णो महावक्त्रो मलिनो घोरदर्शनः ॥११६॥

परिघो नाम चाण्डालः शस्त्रपाणिरदृश्यत ।
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ॥११७॥

उवाच वचनं भीतः किमिदानीं करिष्यसि ।
अथ तावपि संत्रस्तौ तं दृष्ट्वा घोरसंकुलम् ॥११८॥

क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः ।
बलिनौ मतिमन्तौ च संघाते चाप्युपागतौ ॥११९॥

अशक्तौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् ।
कार्यार्थे कृतसंधानौ दृष्ट्वा मार्जारमूषिकौ ॥१२०॥

उलूकनकुलौ तत्र जग्मतुः स्वं स्वमालयम् ।
ततश्चिच्छेद तं पाशं मार्जारस्य च मूषिकः ॥१२१॥

विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम् ।
स तस्मात्सम्भ्रमावर्तान्मुक्तो घोरेण शत्रुणा ॥१२२॥

बिलं विवेश पलितः शाखां लेभे स लोमशः ।
उन्माथमप्यथादाय चाण्डालो वीक्ष्य सर्वशः ॥१२३॥

विहताशः क्षणेनास्ते तस्माद्देशादपाक्रमत् ।
जगाम स स्वभवनं चाण्डालो भरतर्षभ ॥१२४॥

ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् ।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥१२५॥

अकृत्वा संविदं काञ्चित्सहसा समवप्लुतः ।
कृतज्ञं कृतकर्माणं कच्चिन्मां नाभिशंकसे ॥१२६॥

गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् ।
मित्रोपभोगसमये किं मां त्वं नोपसर्पसि ॥१२७॥

कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति ।
न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥१२८॥

सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मनः सखे ।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥१२९॥

यानि मे सन्ति मित्राणि ये च सम्बन्धिबान्धवाः ।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥१३०॥

अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् ।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥१३१॥

ईश्वरो मे भवानस्तु स्वशरीरगृहस्य च ।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥१३२॥

अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम् ।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥१३३॥

बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम् ।
त्वं मन्त्रबलयुक्तो हि दत्त्वा जीवितमद्य मे ॥१३४॥

एवमुक्तः परां शान्तिं मार्जारेण स मूषिकः ।
उवाच परमन्त्रज्ञः श्लक्ष्णमात्महितं वचः ॥१३५॥

यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् ।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे ॥१३६॥

वेदितव्यानि मित्राणि विज्ञेयाश्चापि शत्रवः ।
एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥१३७॥

शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः ।
संधितास्ते न बुद्ध्यन्ते कामक्रोधवशं गताः ॥१३८॥

नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥१३९॥

यो यस्मिन् जीवति स्वार्थे पश्येत्पीडां न जीवति ।
स तस्य मित्रं तावत्स्याद्यावन्न स्याद्विपर्ययः ॥१४०॥

स्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् ।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा ॥१४१॥

मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥१४२॥

यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु ।
अर्थयुक्तिमविज्ञाय यः प्रीतौ कुरुते मनः ॥१४३॥

मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥१४४॥

विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति ।
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ॥१४५॥

मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ।
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् ॥१४६॥

लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ।
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्प्रत्यनन्तरम् ॥१४७॥

कृतं मृगयसे शत्रुं सुखोपायमसंशयम् ।
अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः ॥१४८॥

पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ।
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ॥१४९॥

तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ।
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति ॥१५०॥

तन्मित्रकारणं सर्वं विस्तरेणापि मे शृणु ।
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ॥१५१॥

अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ।
सख्यं सोदर्ययोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् ॥१५२॥

कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ।
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ॥१५३॥

स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ।
प्रियो भवति दानेन प्रियवादेन चापरः ॥१५४॥

मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ।
उत्पन्ना कारणे प्रीतिरासीन्नौ कारणान्तरे ॥१५५॥

प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते ।
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः ॥१५६॥

अन्यत्राभ्यवहारार्थं तत्रापि च बुधा वयम् ।
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ॥१५७॥

स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ।
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते ॥१५८॥

अकाले हि समर्थस्य स्नेहहेतुरयं तव ।
तस्मान्नाहं चले स्वार्थात्सुस्थिरः संधिविग्रहे ॥१५९॥

अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ।
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत् ॥१६०॥

पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ।
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा ॥१६१॥

सा गता सह तेनैव कालयुक्तेन हेतुना ।
त्वं हि मे जातितः शत्रुः सामर्थ्यान्मित्रतां गतः ॥१६२॥

तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता ।
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ॥१६३॥

प्रविशेयं कथं पाशं त्वत्कृते तद्वदस्व मे ।
त्ववीर्येण प्रमुक्ताऽहं मद्वीर्येण तथा भवान् ॥१६४॥

अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ।
त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् ॥१६५॥

न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात् ।
अहमन्नं भवान् भोक्ता दुर्बलोऽहं भवान्बली ॥१६६॥

नावयोर्विद्यते संधिर्वियुक्ते विषमे बले ।
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ॥१६७॥

भक्ष्यं मृगयसे नूनं सुखोपायेन कर्मणा ।
भक्ष्यार्थं ह्यवबद्धस्त्वं स मुक्तः पीडितः क्षुधा ॥१६८॥

शास्त्रजां मतिमास्थाय नूनं भक्षयिताऽद्य माम् ।
जानामि क्षुधितं तु त्वामाहारसमयश्च ते ॥१६९॥

स त्वं मानभिसंधाय भक्ष्यं मृगयसे पुनः ।
त्वं चापि पुत्रदारस्थो यत्संधि सृजसे मयि ॥१७०॥

शुश्रूषां यतसे कर्तुं सखे मम न तत्क्षमम् ।
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ते ॥१७१॥

कस्मात्ते मां न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ।
नाहं त्वया समेष्यापि वृत्तो हेतुः समागमे ॥१७२॥

शिवं ध्यायस्व मे स्वस्थः सुकृतं स्मरसे यदि ।
शत्रोरनार्यभूतस्य क्लिष्टस्य क्षुधितस्य च ॥१७३॥

भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ।
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे ॥१७४॥

विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत् ।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते ॥१७५॥

नाहं त्वया समेष्यामि निवृत्तो भव लोमश ।
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय ॥१७६॥

प्रशान्तादपि मे पापात् भेतव्यं बलिनः सदा ।
यदि स्वार्थं न ते कार्यं ब्रूहि किं करवाणि ते ॥१७७॥

कामं सर्वं प्रदास्यामि न त्वाऽऽत्मानं कदाचन ।
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च ॥१७८॥

अपि सर्वं स्वमुत्सृज्य रक्षेदात्मानमात्मना ।
ऐश्वर्यधनरत्नानां प्रत्यमित्रे निवर्तताम् ॥१७९॥

दृष्ट्वा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ।
न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते ॥१८०॥

आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि ।
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् ॥१८१॥

आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ।
शत्रुं सम्यग्विजानन्ति दुर्बला ये बलीयसः ॥१८२॥

न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतनिश्चया ।
इत्यभिव्यक्तमेवं स पलितेनाभिभर्त्सितः ॥१८३॥

मार्जारो वीडितो भूत्वा मूषिकं वाक्यमब्रवीत् ॥१८४॥

लोमश उवाच ।
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः ।
तन्मन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ॥१८५॥

उक्तवानर्थतत्त्वेन मयासम्भिन्नदर्शनः ।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि ॥१८६॥

प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम् ।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः ॥१८७॥

मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः ।
तस्मादेवं पुनः साधो मय्याचरितुमर्हसि ॥१८८॥

त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः ।
विश्रम्भो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु ॥१८९॥

तदेतद्धर्मतत्त्वज्ञ न त्वं शङ्कितुमर्हसि ।
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः ॥१९०॥

मनसा भावगम्भीरो मार्जारं वाक्यमब्रवीत् ।
साधुर्भवान् श्रुतार्थोऽस्मि प्रीये च न च विश्वसे ॥१९१॥

संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ।
न ह्यमित्रे वशं यान्ति प्राज्ञा निष्कारणं सखे ॥१९२॥

अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ।
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ॥१९३॥

समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥१९४॥

नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ।
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ॥१९५॥

द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवितः ।
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः ॥१९६॥

नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ।
वध्यन्ते न हि विश्वस्ताः शत्रुभिर्दुर्बला अपि ॥१९७॥

विश्वतास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ॥१९८॥

रक्ष त्वमपि चात्मानं चाण्डालाज्जातिकिल्बिषात् ।
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ॥१९९॥

शाखां हित्वा जवेनाशु मार्जारः प्रययौ ततः ।
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ॥२००॥

विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ।
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ॥२०१॥

एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः ।
अरिणाऽपि समर्थेन सन्धि कुर्वीत पण्डितः ॥२०२॥

मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ।
इत्येवं क्षात्रधर्मश्च मया मार्गेषु दर्शितः ॥२०३॥

विस्तरेण महाराज संक्षेपमपि मे शृणु ।
अन्योन्यकृतवैरी तु चक्रतुः प्रीतिमुत्तमाम् ॥२०४॥

अन्योन्यमभिसंधातुं सम्बभूव तयोर्मतिः ।
तत्र प्राज्ञोऽभिसंधत्ते सम्यक् बुद्धिसमाश्रयात् ॥२०५॥

अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः ।
तस्मादभीतवद्भीतो विश्वस्तदविश्वसन् ॥२०६॥

न ह्यप्रमत्तश्चलति चलितो वा तिनश्यति ।
कालन रिपुणा संधिः काले मित्रेण विग्रहः ॥२०७॥

कार्य इत्ये व संधिज्ञाः प्राहुर्नित्यं नराधिप ।
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च ॥२०८॥

अभियुक्तः प्रसन्नश्च प्राग्भयाद्भीतवच्चरेत् ।
भीतवत्संनिधिः कार्यः प्रतिसंधिस्तथैव च ॥२०९॥

भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ।
न भयं विद्यते राजन् भीतस्यानागते भये ॥२१०॥

अभीतस्य च विश्रम्भात् सुमहज्जायते भयम् ।
अभीश्चरति यो नित्यं मन्त्रो देयः कथंचन ॥२११॥

अविज्ञानाद्धि विज्ञातो गच्छेदास्पददर्शिषु ।
तस्मादभीतवद्भीतो विश्वस्तो बहु विश्वसन् ॥२१२॥

कार्याणां गुरुतां प्राप्य नानृतं किंचिदाचरेत् ।
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर ॥२१३॥

श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर ।
उपलभ्य मतिं चाग्र्यमरिमित्रान्तरं तथा ॥२१४॥

सन्धिविग्रहकाले च मोक्षोपायस्तथैव च ।
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ॥२१५॥

समागमे चरेद्युक्त्या कृतार्थो न च विश्वसेत् ।
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते ॥२१६॥

अभ्युत्तिष्ठ श्रुतादस्माद्भूयः संरक्षयन्प्रजाः ।
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ॥२१७॥

ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत ।
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥२१८॥

पृजिताः शुभकर्तारः पूजयेत्तान्नराधिप ।
राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे ॥२१९॥

कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ॥२२०॥

द्वयोरिमं भारत सन्धिविग्रहं सुभाषितं बुद्धिविशेषकारकम् ।
यथा त्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले ॥२२१॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि मार्जारमूषिकसंवादे अष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥
एकोनचत्वरिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु ।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥१॥

विश्वासाद्धि परं राजन् राज्ञामुत्पद्यते भयम् ।
कथं हि नाश्वसन् राजा शत्रून् जयति पार्थिवः ॥२॥

एतन्मे संशयं छिन्धि मतिर्मे सम्प्रमुह्यति ।
अविश्वासकथामेतामुपश्रुत्य पितामह ॥३॥

भीष्म उवाच। शृणुष्व राजन् यद्वृत्तं ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः ॥४॥

काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी ।
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता ॥५॥

रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः ।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि सा ॥६॥

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत ॥७॥

तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा ।
समुद्रतीरं सा गत्वा आजहार फलद्वयम् ॥८॥

पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ।
फलमेकं सुतायादाद्राजपुत्राय चापरम् ॥९॥

अमृतास्वादसदृशं बलतेजोऽभिवर्धनम् ।
आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः ॥१०॥

ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ।
ततः स धाच्या कक्षेण उह्यमानो नृपात्मजः ॥११॥

ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः ।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा ॥१२॥

शून्ये च तमुपादाय पक्षिणं समजातकम् ।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः ॥१३॥

अथ सा पूजनी राजन्नागमत्फलहारिणी ।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥१४॥

वाष्पपूर्णमुखी दीना दृष्ट्वा तं रुदती सुतम् ।
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् ॥१५॥

क्षत्रिये सगतं नास्ति न प्रीतिर्न च सौहृदम् ।
कारणात्सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च ॥१६॥

क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु ।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥१७॥

अहमस्य करोम्यद्य सदृशीं वैरयातनाम् ।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥१८॥

सहसंजातवृद्धस्य तथैव सहभोजिनः ।
शरणागतस्य च वधस्त्रिविधं ह्येव पातकम् ॥१९॥

इत्युक्त्वा चरणाभ्यां नेत्रे नृपसुतस्य सा ।
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥२०॥

इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति ।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम् ॥२१॥

पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते ।
नृपते तस्य पुत्रेषु पौत्रेष्वपि च नप्तृषु ॥२२॥

तु ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्याहृतलोचनम् ।
कृते प्रतिकृतं मत्वा पूजनीमिदमब्रवीत् ॥२३॥

ब्रह्मदत्त उवाच ।
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥२४॥

पूजन्युवाच ।
सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥२५॥

सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत् ।
क्षिप्रं स बध्यते मूढो न हि वैरं प्रशाम्यति ॥२६॥

अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति ।
पुत्रपौत्रविनाशे च परलोकं नियच्छति ॥२७॥

सर्वेषां कृतवैराणामविश्वासः सुखोदयः ।
एकान्ततो न विश्वासः कार्यो विश्वासघातकैः ॥२८॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत् ॥२९॥

माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता ॥३०॥

अन्योन्यकृतवैराणां न संधिरुपपद्यते ।
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥३१॥

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः ।
मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान् ॥३२॥

पूर्वं सम्मानन यत्र पश्चाच्चैव विमानना ।
जह्यात्तत्सत्त्ववान्स्थानं शत्रोः सम्मानितोऽपि सन् ॥३३॥

उषितास्मि तवागारे दीर्घकालं समर्चिता ।
तदिदं वैरमुत्पन्नं सुखमाशु व्रजाम्यहम् ॥३४॥

ब्रह्मदत्त उवाच ।
यः कृते प्रतिकुर्याद्वै न स तत्रापरानुयात् ।
अनृणस्तेन भवति वस पूजनि मा गमः ॥३५॥

पूजन्युवाच ।
न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः ।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥३६॥

ब्रह्मदत उवाच ।
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥३७॥

पूजन्युवाच ।
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्बद्ध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥३८॥

तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि ।
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥३९॥

ब्रह्मदत्त उवाच ।
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य च विश्वासः श्वपचेन शुनो पथा ॥४०॥

अन्योन्कृतवैराणां संवासान्मृदुतां गतम् ।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥४१॥

पूजन्युवाच ।
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाजं ससापत्नापराधजम् ॥४२॥

तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः ।
प्रकाशं वाऽप्रकाशं वा बुध्वा दोषबलाबलम् ॥४३॥

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४४॥

न वित्तेन न पारुष्यैर्न च सान्त्वेन वाऽऽश्रितैः ।
कोपाग्निः शाम्यते राजस्तोयाग्निरिव सागरे ॥४५॥

न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥४६॥

सत्कृतस्यार्थमानाभ्यामनुपूर्वापकारिणः ।
नादेयोऽमित्रविश्वासः कर्म त्रासयतेऽबलान् ॥४७॥

नैवापकार्ये कस्मिंश्चिदहं त्वयि तथा भवान् ।
उषितास्मि गृहेऽहं ते नेदानीं विश्वसाम्यहम् ॥४८॥

ब्रह्मदत्त उवाच ।
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।
कालेनैते प्रवर्तन्ते कः कस्येहापराध्यति ॥४९॥

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह ।
कार्यते चैव कालेन तन्निमित्तं न जीवति ॥५०॥

वध्यन्ते युगपत्केचिदेकैकस्य न चापरे ।
कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ॥५१॥

नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे ।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम् ॥५२॥

एवं वसेह सस्नेहा यथाकाममहिंसिता ।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि ॥५३॥

पूजन्युवाच ।
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवैर्हतैः ॥५४॥

कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे ।
यदि कालेन निर्याणं सुखं दुःखं भवाभवौ ॥५५॥

भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥५६॥

प्रलापः सुमहान्कस्मात् क्रियते शोकमूर्च्छितैः ।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥५७॥

तव पुत्रो ममापत्यं हतवान्स हतो मया ।
अनन्तरं त्वयाऽहं च हन्तव्या हि नराधिप ॥५८॥

अहं हि पुत्रशोकेन कृतपापा तवात्मजे ।
यथा त्वया प्रहर्तव्यं तथा तत्त्वं च मे शृणु ॥५९॥

भक्ष्यार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः ।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥६०॥

वधबन्धभयादेते मोक्षतन्त्रमुपाश्रिताः ।
मरणोत्पातजं दुःखं प्राहुर्वेदविदो जनाः ॥६१॥

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥६२॥

दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः ।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम् ॥६३॥

वधबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा ।
दुःख सुतेन सततं जनान्विपरिवर्तते ॥६४॥

न दुःखं परदुःखे वै केचिदाहुरबुद्धयः ।
यो दुःखं नाभिजानाति स जल्पति महाजने ॥६५॥

यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् ।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे ॥६६॥

यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् ।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिन्दम ॥६७॥

आवयोः कृतमन्योन्यं पुनः सन्धिर्न विद्यते ।
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥६८॥

वैरपन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति ।
मृन्मयस्येव भग्नस्य यथा संधिर्न विद्यते ॥६९॥

निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः ।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा ॥७०॥

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।
वध्यन्ते श्रद्दधानास्तु मधु शुष्कतृणैर्यथा ॥७१॥

न हि वैराणि शाम्यन्ति कुले दुःखगतानि च ।
आख्यातारश्च विद्यन्ते कुले वै ध्रियते पुमान् ॥७२॥

उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप ।
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥७३॥

सदा न विश्वसेद्राजा पापं कृत्वेह कस्यचित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥७४॥

ब्रह्मदत्त उवाच ।
नाविश्वासाद्विन्दतेऽर्थानीहते चापि किंचन ।
भयात्त्वेकतरान्नित्यं मृतकल्पा भवन्ति च ॥७५॥

पूजन्युवाच ।
यस्येह व्रणिनी पादौ पद्भ्यां च परिसर्पति ।
खन्येते तस्य तौ पादौ सुगुप्तमिह धावतः ॥७६॥

नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते ।
तस्य वायुरुन्दाऽत्यर्थं नेत्रयोर्भवति ध्रुवम् ॥७७॥

दुष्टं पन्थानमासाद्य यो मोहादुपपद्यते ।
आत्मनो बलभज्ञाय तदन्तं तस्य जीवितम् ॥७८॥

यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः ।
हीनः पुरुषकारेण सस्यं नैवाश्नुते ततः ॥७९॥

यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम् ।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥८०॥

पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम् ।
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥८१॥

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥८२॥

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ॥८३॥

तस्मात्सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः ।
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ॥८४॥

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् ।
मित्राणि सहजान्याहुर्वर्तयन्तीह तैर्बुधाः ॥८५॥

निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः ।
एतान्युपहितान्याहुः सर्वत्र लभते पुमान् ॥८६॥

सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते ।
न विभीपयते कश्चिद्भीषितो न बिभेति च ॥८७॥

नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
दाक्ष्येणकुर्वतः कर्म संयपात्प्रतितिष्ठति ॥८८॥

गृहस्नेहावबद्धानां नराणामल्पमेधसाम् ।
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥८९॥

गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे ।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥९०॥

उत्पतेत्सहजाद्देशाद्व्याधिदुर्भिक्षपीडितात् ।
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥९१॥

तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे ।
कृतमेतदनार्यं मे तव पुत्रे च पार्थिव ॥९२॥

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥९३॥

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका ॥९४॥

कुमित्रे संगतिर्नास्ति नित्यमस्थिरसौहृदे ।
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये ॥९५॥

सा भार्या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥९६॥

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः ।
भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते ॥९७॥

भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः ।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ ॥९८॥

अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात् ।
राजा मूलं त्रिवर्गस्य स्वप्रमत्तोऽनुपालयेत् ॥९९॥

बलिषड्भागमुद्धृत्य बलिं समुपयोजयेत् ।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥१००॥

दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् ।
स सर्वलोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥१०१॥

दत्त्वाभयं स्वयं राजा प्रमाणं कुरुते यदि ।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥१०२॥

माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥१०३॥

पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः ।
तस्मिन्मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥१०४॥

सम्भावयति मातेव दीनमप्युपपद्यते ।
दहत्यग्निरिवानष्टान्यमयन्नसतो यमः ॥१०५॥

इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः ।
गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन् ॥१०६॥

यस्तु रञ्जयते राजा पौरजानपदान् गुणैः ।
न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात् ॥१०७॥

स्वयं समुपजानन्हि पौरजानपदार्चनम् ।
स सुखं प्रेक्षते राजा इह लोके परत्र च ॥१०८॥

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।
अनर्थैविप्रलुप्यन्ते स गच्छति पराभवम् ॥१०९॥

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।
स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥११०॥

बलिना विग्रहो राजन्न कदाचित् प्रशस्यते ।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम् ॥१११॥

भीष्म उवाच। सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम् ॥११२॥

एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।
मयोक्तं नृपतिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥११३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि ब्रह्मदत्तपूजन्योः संवाद एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥१३९॥
चत्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥१॥

भीष्म उवाच। अत्र ते वर्तयिष्यामि नीतिमापत्सु भारत ।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥२॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भारद्वाजस्य संवादं राज्ञः शत्रुजयस्य च ॥३॥

राजा शत्रुजयो नाम सौवीरेषु महारथः ।
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥४॥

अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।
वर्धितं पाल्यते केन पालितं प्रणयेत्कथम् ॥५॥

तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थनिश्चयम् ।
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तमम् ॥६॥

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥७॥

नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥८॥

एवं दण्डं प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः ।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥९॥

छिन्नमूले त्वधिष्ठाने सर्वेषां जीवनं हतम् ।
कथ हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥१०॥

मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः ।
ततः सहायान् पक्षं च मूलमेवानुसाधयेत् ॥११॥

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
आपदास्पदकाले तु कुर्वीत न विचारयेत् ॥१२॥

वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥१३॥

सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत् ।
अपक्रामेत् ततः शीघं कृतकार्यो विचक्षणः ॥१४॥

शत्रु च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।
नित्यशश्नोद्विजेत्तस्माद्गृहात्सर्पयुतादिव ॥१५॥

यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥१६॥

अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता ॥१७॥

वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ।
प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि ॥१८॥

मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
न तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥१९॥

नानार्थिकोऽर्थसम्बन्धं कृतघ्नेन समाचरेत् ।
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥२०॥

कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः ।
नटस्य भक्तिमित्रस्य यच्छ्रेचस्तत्समाचरेत् ॥२१॥

उत्थायोत्थाय गच्छेत नित्ययुक्तो रिपोर्गृहान् ।
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥२२॥

नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नाभिमानिनः ।
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥२३॥

नात्मच्छिद्रं रिपुर्विद्याद्विहाच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥२४॥

बकवच्चिन्तयेदर्थान् सिंहतच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥२५॥

पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसंगो ह्यत्र दोषवान् ॥२६॥

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥२७॥

देशकालौ समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥२८॥

कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।
परस्य च बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥२९॥

दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥३०॥

सुपुष्पितः स्यादफलः फलवान् स्याद्दुरारुहः ।
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥३१॥

आशां कालवतीं कुर्यात्तां च विघ्न योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥३२॥

भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥३३॥

न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥३४॥

अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् ।
पुनर्वृद्धिभयात्किंचिदनिवृत्तं निशामयेत् ॥३५॥

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥३६॥

योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते ॥३७॥

कर्मणा येन तेनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥३८॥

ये सपत्नाः सपत्नानां सर्वांस्तानुपसेवयेत् ।
आत्मनश्चापि बोद्धव्याचारा विनिहताः परैः ॥३९॥

चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च ।
पाषण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥४०॥

उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥४१॥

धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः ।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥४२॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेद् ॥४३॥

विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥४४॥

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥४५॥

अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥४६॥

पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् ।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥४७॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य दण्डो भवति शासनम् ॥४८॥

अभ्युत्थानाभिवादाभ्यां सम्प्रदानेन केनचित् ।
प्रतिपुष्पकलाघाती तीक्ष्णतुण्ड इव द्विजः ॥४९॥

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यधातीव प्राप्नोति महतीं श्रियम् ॥५०॥

नास्ति जात्या रिपुर्नाम मित्रं वापि न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥५१॥

अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥५२॥

संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥५३॥

प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यैव प्रियोत्तरम् ।
असिनापि शिरश्छित्त्वा शोचेत च रुदेत च ॥५४॥

निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया ।
लोकाराधनमित्येतत्कर्तव्यं भूतिमिच्छता ॥५५॥

न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् ।
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते ॥५६॥

त्रिवर्गस्त्रिविधा पीडानुबन्धास्तथैव च ।
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥५७॥

ऋणशेषमाग्निशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत् ॥५८॥

वर्धमानमृणं तिष्ठेत्परिभूताश्च शत्रवः ।
जनयन्ति भयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥५९॥

नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् ।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥६०॥

वधेन च मनुष्याणां मार्गाणां दूषणेन च ।
अगाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥६१॥

गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ॥६२॥

शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् ।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥६३॥

श्रेणीमुख्योपजायेषु वल्लभानुनयेषु च ।
अमात्यान् परिरक्षेत भेदसंघातयोरपि ॥६४॥

मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥६५॥

मृदुनैव मृदुं छिन्दि मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥६६॥

काले मृदुर्यो भवति काले भवति दारुणः ।
प्रसाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥६७॥

पण्डितेन विरुद्धः सन् दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥६८॥

न तत्तरेद्यस्य न पारमुत्तरेन्नतद्धरेद्यत्पुनराहरेत्परः ।
न तत्खनेद्यस्य न मूलमुद्धरेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥६९॥

इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।
परप्रयुक्ते न कथं विभावयेदतो मयोक्तं भवतो हितार्थिना ॥७०॥

यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः ।
तथाऽकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे स बान्धवः ॥७१॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कणिकोपदेशे चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥
एकचत्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। हीने परमके धर्मे सर्वलोकाभिलंघिते ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥१॥

मर्यादासु विनष्टासु क्षुभिते धर्मनिश्चये ।
राजभिः पीडिते लोके परैर्वाऽपि विशाम्पते ॥२॥

सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥३॥

अविश्वस्तेषु सर्वेषु नित्यं भीतेषु पार्थिव ।
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥४॥

सम्प्रदीप्तेषु देशेषु ब्राह्मणे चातिपीडिते ।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥५॥

सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥६॥

अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥७॥

कथं च राजा वर्तेत लोके कलुषतां गते ।
कथमर्थाच्च धर्माच्च न हीयेत परन्तप ॥८॥

भीष्म उवाच। राजमूला महाबाहो योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥९॥

कृतं त्रेतां द्वापरं च कलिश्च भरतर्षभ ।
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥१०॥

तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥११॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विश्वामित्रस्य संवादं चाण्डालस्य च पक्कणे ॥१२॥

त्रेताद्वापरयोः संधौ तदा दैवविधिक्रमात् ।
अनावृष्टिरभूद्घोरा लोके द्वादशवार्षिकी ॥१३॥

प्रजानामतिवृद्धानां युगान्ते समुपस्थिते ।
त्रेताविमोक्षसमये द्वापरप्रतिपादने ॥१४॥

नववर्षसहस्त्राक्षः प्रतिलोमोऽभवद्गुरुः ।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥१५॥

नावश्यायोऽपि तत्राभूत्कुत एवाभ्रजातयः ।
नद्यः संक्षिप्ततोयौघाः किंचिदन्तर्गतास्ततः ॥१६॥

सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।
हतत्विषो न लक्ष्यन्ते निसर्गाद्दैवकारितात् ॥१७॥

उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा ।
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥१८॥

उच्छिन्नकृषिगोरक्षा निवृत्तविपणापणा ।
निवृत्तयूपसम्भारा विप्रनष्टमहोत्सवा ॥१९॥

अस्थिसंचयसंकीर्णा महाभूतरवाकुला ।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥२०॥

क्वचिद्धोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः ।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥२१॥

गतदैवतसंस्थाना वृद्धलोकनिराकृता ।
गोजाविमहिषीहीना परस्परपराहता ॥२२॥

हतविप्रा हतारक्षा प्रणष्टौषधिसंचया ।
सर्वभूतरुतप्राया बभूव वसुधा तदा ॥२३॥

तस्मिन्प्रतिभये काले क्षते धर्मे युधिष्ठिर ।
बभूवुः क्षुधिता मार्त्याः खादमानाः परस्परम् ॥२४॥

ऋषयो नियमांस्त्यक्त्वा परित्यज्याग्निदेवताः ।
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥२५॥

विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।
क्षुधापरिगतो धीमान्समन्तात्पर्यधावत ॥२६॥

त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि ।
भक्ष्याभक्ष्यसमो भूत्वा निरग्निरनिकेतनः ॥२७॥

स कदाचित्परिपतन् श्वपचानां निवेशनम् ।
हिंस्त्राणां प्राणिघातानामाससाद वने क्वचित् ॥२८॥

विभिन्नकलशाकीर्णं श्वचर्मच्छेदनायुतम् ।
वराहखरभग्नास्थिकपालघटसंकुलम् ॥२९॥

मृतचैलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥३०॥

कुक्कुटारावबहुलं गर्दभध्वनिनादितम् ।
उद्घोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥३१॥

उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम् ।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥३२॥

तत्प्रविश्य क्षुधाविष्टो विश्वामित्रो महानृषिः ।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥३३॥

न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।
मांसमन्नं फलं मूलमन्यद्वा तत्र किञ्चन ॥३४॥

अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।
पपात भूमौ दौर्बल्यात्तस्मिंश्चाण्डालपक्कणे ॥३५॥

स चिन्तयामास मुनिः किं नु मे सुकृतं भवेत् ।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥३६॥

स ददर्श श्वमांसस्य कुतन्त्री विवतां मुनिः ।
चाण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य वै ॥३७॥

स चिन्तयामास तदा स्तैन्यं कार्यमितो मया ।
न हीदानीमुपायो मे विद्यते प्राणधारणे ॥३८॥

आपत्सु विहितं स्तैन्यं विशिष्टं च महीयसः ।
विप्रेण प्राणरक्षार्थं कर्तव्यमिति निश्चयः ॥३९॥

हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।
असम्भवे वाऽऽदीत विशिष्टादपि धार्मिकात् ॥४०॥

सोऽहमन्त्यावसायानां हराम्येनां प्रतिग्रहात् ।
न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम् ॥४१॥

एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।
तस्मिन्देशे स सुष्वाप श्वपचो यत्र भारत ॥४२॥

स विगाढां निशां दृष्ट्वा सुप्ते चाण्डालपक्कणे ।
शनैरुत्थाय भगवान्प्रविवेश कुटीमतः ॥४३॥

स सुप्त इव चाण्डालः श्लेष्मापिहितलोचनः ।
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥४४॥

श्वपच उवाच ।
कः कुतन्त्री घट्टयति सुप्ते चाण्डालपक्कणे ।
जागर्मि नात्र सुप्तोऽस्मि हतोऽसीति च दारुणः ॥४५॥

विश्वामित्रस्ततो भीतः सहसा तमुवाच ह ।
तत्र व्रीडाकुलमुखः सोद्वेगस्तेन कर्मणा ॥४६॥

विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः ।
मा वधीर्मम सद्बुद्धे यदि सम्यक् प्रपश्यसि ॥४७॥

चाण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।
शयनादुपसम्भ्रान्त उद्ययौ प्रति तं ततः ॥४८॥

स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥४९॥

विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥५०॥

क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः ।
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥५१॥

अवसीदन्ति मे प्राणाः श्रुतिर्मे नश्यति क्षुधा ।
दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः ॥५२॥

सोऽधर्मं बुद्ध्यमानोऽपि हरिष्यामि श्वजाघनीम् ।
अटन् भैक्ष्यं न विन्दामि यदा युष्माकमालये ॥५३॥

तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ।
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाड्विभुः ॥५४॥

यथावत्सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ।
तमुवाच स चाण्डालो महर्षे शृणु मे वचः ॥५५॥

श्रुत्वा तत्त्वं तथाऽऽतिष्ठ यथा धर्मो न हीयते ।
धर्मं वापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥५६॥

शृगालादधमं श्वानं प्रवदन्ति मनीषिणः ।
तस्याप्यधम उद्देशः शरीरस्य श्वजाघनी ॥५७॥

नेदं सम्यग्व्यवसितं महर्षे धर्मगर्हितम् ।
चाण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥५८॥

साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥५९॥

जानता विहितं धर्मं न कार्यो धर्मसंकरः ।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मभृतां वरः ॥६०॥

विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥६१॥

निराहारस्य सुमहान्मम कालोऽभिधावतः ।
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥६२॥

येन येन विशेषेण कर्मणा येन केनचित् ।
अभ्युज्जीवेत्साद्यमानः समर्थो धर्ममाचरेत् ॥६३॥

ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।
ब्रह्मवह्निर्मम बलं भक्ष्यामि शमयन् क्षुधाम् ॥६४॥

यथा यथैव जीवेद्धि तत्कर्तव्यमहेलया ।
जीवितं मरणाच्छ्रेयो जीवन् धर्ममवाप्नुयात् ॥६५॥

सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम् ।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥६६॥

बलवन्तं करिष्यामि प्रणोत्स्याम्यशुभानि तु ।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥६७॥

श्वपच उवाच ।
नैतत्खादन्प्राप्नुते दीर्घमायुर्नैव प्राणान्नामृतस्येव तृप्तिः ।
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥६८॥

विश्वामित्र उवाच ।
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक मन्ये न च मेऽस्ति वित्तम् ।
क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन् षड्रसान् साधु मन्ये ॥६९॥

श्वपच उवाच ।
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः ।
यथा शास्त्रं प्रमाणं ते माऽभक्ष्ये मानसं कृथाः ॥७०॥

विश्वामित्र उवाच ।
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुत्तो भक्षयिष्ये श्वजाघनीम् ॥७१॥

श्वपच उवाच ।
भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥७२॥

विश्वामित्र उवाच ।
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥७३॥

श्वपच उवाच ।
असता यत्समाचीर्णं न च धर्मः सनातनः ।
नाकार्यमिह कार्यं वै मा छलेनाशुभं कृथाः ॥७४॥

विश्वामित्र उवाच ।
न पातकं नावमतमृषिः सन्कर्तुमर्हति ।
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥७५॥

श्वपच उवाच ।
यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तदवस्थाधिकारे ।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥७६॥

विश्वामित्र उवाच ।
मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।
तं धर्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न बिभ्ये ॥७७॥

श्वपच उवाच ।
कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम् ।
सर्वान्कामान्प्राप्नुवन्तीह विद्वन् प्रियस्व कामं सहितः क्षुधैव ॥७८॥

विश्वामित्र उवाच ।
स्थाने भवेत्संशयः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः ।
अहं पुनर्व्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥७९॥

बुद्ध्यात्मके व्यक्तमस्तीति पुण्यं मोहात्मके यत्र यथा श्वभक्ष्ये ।
यद्यप्येतत्संशयात्मा चरामि नाहं भविष्यामि यथा त्वमेव ॥८०॥

श्वपच उवाच ।
गोपनीयमिदं दुःखमिति मे निश्चिता मतिः ।
दुष्कृतो ब्राह्मणः सत्रं यस्त्वामहमुपालभे ॥८१॥

विश्वामित्र उवाच ।
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥८२॥

श्वपच उवाच ।
सुहृद्भूत्वाऽनुशासे त्वांकृपा हि त्वयि मे द्विज ।
यदिदं श्रेय आधत्स्व मा लोभात्पातकं कृथाः ॥८३॥

विश्वामित्र उवाच ।
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जानेऽहं धर्मतोऽऽत्मानं शौनीमुत्सृज जाघनीम् ॥८४॥

श्वपच उवाच ।
नैवात्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।
उभौ स्यावः पापलोकावलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छन् ॥८५॥

विश्वामित्र उवाच ।
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।
स पूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥८६॥

श्वपच उवाच ।
आत्मैव साक्षी कुलधर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम् ।
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥८७॥

विश्वामित्र उवाच ।
उपादाने खादने चास्ति दोषः कार्यात्यये नित्यमत्रापवादः ।
यस्मिन् हिंसा नानृतं वाच्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः ॥८८॥

श्वपच उवाच ।
यद्येष हेतुस्तव खादने स्यान्न ते वेदः कारणं नार्यधर्मः ।
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र ॥८९॥

विश्वामित्र उवाच ।
नैवातिपापं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः ।
अन्योन्यकार्याणि यथा तथैव न पापमात्रेण कृतं हिनस्ति ॥९०॥

श्वपच उवाच ।
अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधुवृत्तम् ।
श्वानं पुनर्यो लभतेऽभिषङ्गात्तेनापि दण्डः सहितव्य एव ॥९१॥

भीष्म उवाच। एवमुक्त्वा निववृत्ते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥९२॥

ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः ।
सदारस्तामुपाहृत्य वने भोक्तुमियेष सः ॥९३॥

अथास्य बुद्धिरभवद्विधिनाहं श्वजाघनीम् ।
भक्षयामि यथाकामं पूर्वं सन्तर्प्य देवताः ॥९४॥

ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः ।
ऐन्द्राग्नेयेन विधिना चळं श्रपयत स्वयम् ॥९५॥

ततः समारभत्कर्म दैवं पित्र्यं च भारत ।
आहूय देवानिन्द्रादीन् भागं भागं विधिक्रमात् ॥९६॥

एतस्मिन्नेव काले तु प्रववर्ष स वासवः ।
संजीवयन् प्रजाः सर्वा जनयामास चौषधीः ॥९७॥

विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः ।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥९८॥

स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः ।
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥९९॥

एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥१००॥

एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥१०१॥

तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।
बुद्धिमास्थाय लोकेऽस्मिन् वर्तितव्यं कृतात्मना ॥१०२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि विश्वामित्रश्वपचसंवादे एकचत्वारिंशदधिकशततमोऽध्यायः ॥१४१॥
द्विचत्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। यदि घोरं समुद्दिष्टमश्रद्धेयमिवानृतम् ।
अस्मि स्विद्दस्युमर्यादा यामहं परिवर्जये ॥१॥

सम्मुह्यामि विषीदामि धर्मो मे शिथिलीकृतः ।
उद्यमं नाधिगच्छामि कदाचित्परिसान्त्वयन् ॥२॥

भीष्म उवाच। नैतच्छ्रुत्वाऽऽगमादेव तव धर्मानुशासनम् ।
प्रजासमवहारोऽयं कविभिः सम्भृतं मधु ॥३॥

बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।
नैकशाखेन धर्मेण यत्रैषा सम्प्रवर्तते ॥४॥

बुद्धिसंजननो धर्म आचारश्च सतां सदा ।
ज्ञेयो भवति कौरव्य सदा तद्विद्धि मे वचः ॥५॥

बुद्धिश्रेष्ठा हि राजानश्चरन्ति विजयैषिणः ।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥६॥

नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते ।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुपाहृता ॥७॥

अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति ।
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ॥८॥

पार्श्वतः करणं प्राज्ञो विष्टंभित्वा प्रकारयेत् ।
जनस्तच्चरितं धर्मं विजानात्यन्यथान्यथा ॥९॥

अमिथ्याज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे ।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम् ॥१०॥

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते ॥११॥

आजिजीविषवो विद्यां यशःकामौ समन्ततः ।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः ॥१२॥

अपक्वमतयो मन्दा न जानन्ति यथातथम् ।
यथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः ॥१३॥

परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।
विज्ञानमर्थं विद्यानां न सम्यगिति वर्तते ॥१४॥

निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च ।
वागस्त्रा वाक्छरीभूता दुग्धविद्याफला इव ॥१५॥

तान्विद्यावणिजो विद्धि राक्षसानिव भारत ।
व्याजेन सद्भिर्विहितो धर्मस्ते परिहास्यति ॥१६॥

न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम् ।
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् ॥१७॥

न त्वेव वचनं किंचिदनिमित्तादिहोच्यते ।
सुविनीतेन शास्त्रेण न व्यवस्यन्त्यथापरे ॥१८॥

लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः ।
समुद्दिष्टं सतां धर्मं स्वयमूहेत पण्डितः ॥१९॥

अमर्षाच्छास्त्रसम्मोहादविज्ञानाच्च भारत ।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ॥२०॥

आगतागमया बुद्ध्या वचनेन प्रशस्यते ।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ॥२१॥

अनया हतमेवेदमिति शास्त्रमपार्थकम् ।
दैतेयानुशना प्राह संशयच्छेदनं पुरा ॥२२॥

ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत् ।
तं तथा छिन्नमूलेन सन्नोदयितुमर्हसि ॥२३॥

अनव्यवहितं यो वा नेदं वाक्यमुपाश्नुते ।
उग्रायैव हि सृष्टोऽसि कर्मणे न त्वमीक्षसे ॥२४॥

अङ्ग मामन्ववेक्षस्व राजन्याय बुभूषते ।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते ॥२५॥

अजोऽश्वः क्षत्रमित्येतत् सदृशं ब्रह्मणा कृतम् ।
तस्मादभीक्ष्णं भूतानां यात्रा काचित्प्रसिद्ध्यति ॥२६॥

यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।
या चैव खलु मर्यादा यामयं परिवर्जयेत् ॥२७॥

तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेत्ततः ।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥२८॥

यस्य दस्युगणा राष्ट्रे ध्वांक्षा मत्स्यान् जलादिव ।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥२९॥

कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान् ।
प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन् ॥३०॥

विहीनं कर्मणा न्यायं यः प्रगृह्णाति भूमिपः ।
उपायस्याविशेषज्ञं तद्वै क्षत्रं नपुंसकम् ॥३१॥

नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥३२॥

कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम् ।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥३३॥

अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् ।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥३४॥

युधिष्ठिर उवाच। अस्ति चेदिह मर्यादा यामन्यो नाभिलंघयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥३५॥

भीष्म उवाच। ब्राह्मणानेव सेवेत विद्यावृद्धास्तपस्विनः ।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥३६॥

या देवतासु वृत्तिस्ते साऽस्तु विप्रेषु नित्यदा ।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥३७॥

प्रीत्या यशो भवेन्मुख्यमप्रीत्या परमं भयम् ।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव विषं यथा ॥३८॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥१४२॥
त्रिचत्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणं पालयानस्य यो धर्मस्तं ब्रवीहि मे ॥१॥

भीष्म उवाच। महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥२॥

शिबिप्रभृतयो राजन् राजानः शरणागतान् ।
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥३॥

श्रूयते च कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥४॥

युधिष्ठिर उवाच। कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसं भोजितः कां च गतिं लेभे स भारत ॥५॥

भीष्म उवाच। शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै ॥६॥

इमर्थं पुरा शत्रुः पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥७॥

तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥८॥

मुनिरुवाच ।
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन् गदतो मे महाभुज ॥९॥

कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसम्मितः ।
विचचार महारण्ये घोरः शकुनिलुब्धकः ॥१०॥

काकोल इव कृष्णाङ्गो रक्ताक्षः कालसम्मितः ।
दीर्घजंघो ह्रस्वपादो महावक्त्रो महाहनुः ॥११॥

नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवाः ।
स हि तैः सम्परित्यक्तस्तेन रौद्रेण कर्मणा ॥१२॥

नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः ।
आत्मानं योऽभिसंधत्ते सोऽन्यस्य स्यात्कथं हितः ॥१३॥

ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥१४॥

स वै क्षारकमादाय द्विजान् हत्वा वने सदा ।
चकार विक्रयं तेषां पतङ्गानां जनाधिप ॥१५॥

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥१६॥

तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥१७॥

ततः कदाचित्तस्थाय वनस्थस्य समन्ततः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः ॥१८॥

मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।
संछन्नस्तु मुहूर्तेन नौसाथैरिव सागरः ॥१९॥

वारिधारासमूहेन सम्प्रविष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुन्धराम् ॥२०॥

ततो धाराकुले काले सम्भ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥२१॥

नैव निम्न स्थलं वापि सोऽविन्दत विहङ्गहा ।
पूरितो हि जलौघेन तस्य मार्गो वनस्य च ॥२२॥

पक्षिणो वर्षवेगेन हता लीनास्तदाभवन् ।
मृग-सिंह-वराहाश्च स्थलमाश्रित्य शेरते ॥२३॥

महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥२४॥

स तु शीतहतैर्गात्रैर्न जगाम न तस्थिवान् ।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् ॥२५॥

दृष्ट्वाऽऽर्तोऽपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् ।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे ॥२६॥

पापात्मा पापकारित्वात्पापमेव चकार सः ।
सोऽपश्यत्तरुखण्डेषु मेघनीलवनस्पतिम् ॥२७॥

सेव्यमानं विहङ्गौघैश्छायावासफलार्थिभिः ।
धात्रा परोपकाराय स साधुरिव निर्मितः ॥२८॥

अथाभवत्क्षणेनैव वियद्विमलतारकम् ।
महत्सर इवोत्फुल्लं कुमुदच्छरितोदकम् ॥२९॥

ताराढ्यं कुमुदाकारमाकाशं निर्मलं बहु ।
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥३०॥

दिशो विलोकयामास विगाढां प्रेक्ष्य शर्वरीम् ।
दूरतो मे निवेशश्च अस्माद्देशादिति प्रभो ॥३१॥

कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः ।
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् ॥३२॥

शरणं यामि यान्यस्मिन् दैवतानि वनस्पतौ ।
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा ॥३३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कपोतलुब्धकसंवादोपक्रमे त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥
चतुश्चत्वारिंशदधिकशततमोऽध्यायः

भीष्म उवाच। अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥१॥

तस्य कल्पगता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥२॥

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।
किं नु तत्कारणं येन साऽद्यापि न निवर्तते ॥३॥

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।
तया विरहितं हीदं शून्यमद्य गृहं मम ॥४॥

पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः ।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ॥५॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥६॥

यदि सारक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नायाति मे कान्ता न कार्यं जीवितेन मे ॥७॥

न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता ।
नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि ॥८॥

हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता ।
प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी ॥९॥

पतिव्रता पतिगतिः पतिप्रियहिते रता ।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥१०॥

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ॥११॥

वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् ।
प्रासादोऽपि तया हीनः कान्तार इति निश्चितम् ॥१२॥

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी ।
विदेशगमने चास्य सैव विश्वासकारिका ॥१३॥

भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते ।
असहायस्य लोकेऽस्मिल्लोकयात्रासहायिनी ॥१४॥

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥१५॥

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रह ॥१६॥

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥१७॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि भार्याप्रशंसायां चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥
पञ्चचत्वारिंशदधिकशततमोऽध्यायः

भीष्म उवाच। एवं विलपतस्तस्य श्रुत्वा तु करुणं वचः ।
गृहीता शकुनिघ्नेन कपोती वाक्यमब्रवीत् ॥१॥

कपोत्युवाच ।
अहोऽतीव सुभाग्याहं यस्या मे दयितः पतिः ।
असतो वा सतो वापि गुणानेवं प्रभाषते ॥२॥

न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
अग्निसाक्षिकमित्येव भर्ता वै दैवतं परम् ।
दावाग्निनेव निर्दग्धा सपुष्पस्तवका लता ॥३॥

भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ॥४॥

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत् ॥५॥

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा ।
शरणागतसंत्राता भव कान्त विशेषतः ॥६॥

एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर॥७॥

ये हि कश्चिद्द्विजं हन्यात् गां च लोकस्य मातरम् ।
शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम् ॥८॥

अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।
सा न्याय्याऽत्मवता नित्यं त्वद्विधेनानुवर्तितुम् ॥९॥

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥१०॥

स त्वं सन्तानवानद्य पुत्रवानसि च द्विज ।
तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य च ।
पूजामस्मै प्रयुंक्ष्व त्वं प्रीयेतास्य मनो यथा ॥११॥

मत्कृते मा च संतापं कुर्वीथास्त्वं विहङ्गम ।
शरीरयात्राकृत्यर्थमन्यान् दारानुपैष्यसि ॥१२॥

इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी ।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥१३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कपोतं प्रति कपोतीवाक्ये पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥१४५॥
षट्चत्वारिंशदधिकशततमोऽध्यायः

भीष्म उवाच। स पल्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥१॥

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम् ॥२॥

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते ।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥३॥

तद्ब्रवीतु भवान् क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥४॥

अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥५॥

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥६॥

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे ।
तस्य नायं न च परो लोको भवति धर्मतः ॥७॥

तद्ब्रूहि मां सुविश्रब्धो यत्त्वं वाचा वदिष्यसि ।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥८॥

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मे शीतं संत्राणं हि विधीयताम् ॥९॥

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले ।
यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ ॥१०॥

स गत्वाऽङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् ।
ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥११॥

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निं प्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ॥१३॥

हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः ।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा ॥१४॥

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ॥१५॥

न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥१६॥

संचयो नास्ति चास्माकं मुनीनामिव भोजने ।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥१७॥

कथं न खलु कर्तव्यमिति चिन्तापरस्तदा ।
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ॥१८॥

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम् ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥१९॥

इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम् ।
हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत् ॥२०॥

ऋषीणां देवतानां च पितॄणां च महात्मनाम् ।
श्रुतः पूर्वं मया धर्मो महानतिथिपूजने ॥२१॥

कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रवीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥२२॥

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव ।
तमग्निं त्रिःपरिक्रम्य प्रविवेश महामतिः ॥२३॥

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा तु पक्षिणम् ।
चिन्तयामास मनसा किमिदं वे मया कृतम् ॥२४॥

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मः सुमहान् घोरो भविष्यति न संशयः ॥२५॥

एवं बहुविधं भूरि विललाप स लुब्धकः ।
गार्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कपोतलुब्धकसंवादे षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥
सप्तचत्वारिंशदधिकशततमोऽध्यायः

भीष्म उवाच। ततः स लुब्धकः पश्यन् क्षुधयापि परिप्लुतः ।
कपोतमग्निपतितं वाक्यं पुनरुवाच ह ॥१॥

किमीदृशं नृशंसेन मया कृतमबुद्धिना ।
भविष्यति हि मे नित्यं पातकं कृतजीविनः ।
स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह ॥२॥

अविश्वास्यः सुदुर्बुद्धिः सदा निकृतिनिश्चयः ।
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः ॥३॥

नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः ।
दत्तः स्वमांसं दहता कपोतेन महात्मना ॥४॥

सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारांस्तथैव च ।
उपदिष्टे हि मे धर्मः कपोतेन महात्मना ॥५॥

अद्यप्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् ।
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्यहं तथा ॥६॥

क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ।
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥७॥

अहो देहप्रदानेन दर्शितातिथिपूजना ।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः॥८॥

दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे ।
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ।
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥१०॥

ततो यष्टिं शलाकां च क्षारकं पञ्जरं तथा ।
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह ॥११॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि लुब्धकोपरतौ सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥
अष्टचत्वारिंशदधिकशततमोऽध्यायः

भीष्म उवाच। ततो गते शाकुनिके कपोती प्राह दुःखिता ।
संस्मृत्य सा च भर्तारं रुदतो शोककर्शिता ॥१॥

नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे ।
सर्वापि विधवा नारी बहुपुत्रापि शोचते ॥२॥

शोच्या भवति बन्धूनां पतिहीना तपस्विनी ।
लालिताहं त्वया नित्यं बहुमानाच्च पूजिता ॥३॥

वचनैर्मधुरैः स्निग्धैरसंक्लिष्टमनोहरैः ।
कन्दरेषु च शैलानां नदीनां निर्झरेषु च ॥४॥

दुमागेषु च रम्येषु रमिताहं त्वया सह ।
आकाशगमने चैव विहृताऽहं त्वया सुखम् ॥५॥

रमामि स्म पुरा कान्त तन्मे नास्त्यद्य किञ्चन ।
मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥६॥

अमितस्य हि दातारं भर्तारं का न पूजयेत् ।
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ॥७॥

विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ।
न कार्यमिह मे नाथ जीवितेन त्वया विना ॥८॥

पतिहीना तु का नारी सती जीवितुमुत्सहेत् ।
एवं विलप्य बहुधा करुणं सा सुदुःखिता ॥९॥

पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् ।
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपश्यत ॥१०॥

विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ।
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् ॥११॥

विमानशतकोटीभिरावृतं पुण्यकर्मभिः ।
ततः स्वर्गं गतः पक्षी विमानवरमास्थितः ।
कर्मणा पूजितस्तत्र रेमे स सह भार्यया ॥१२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कपतस्वर्गगमने अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८॥
एकोनपञ्चाशदधिकशततमोऽध्यायः

भीष्म उवाच। विमानस्थौ तु तौ राजन् लुब्धकः खे ददर्श ह ।
दृष्ट्वा तौ दम्पती राजन् व्यचिन्तयत तां गतिम् ॥१॥

ईदृशेनैव तपसा गच्छेयं परमां गतिम् ।
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥२॥

महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः ।
निश्चेष्टो मरुदाहारो निर्ममः स्वर्गकांक्षया ॥३॥

ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्माभिभूषितम् ।
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम् ॥४॥

पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः ।
उपवासकृशोऽत्यर्थं स तु पार्थिवलुब्धकः ॥५॥

अनवेक्ष्यैव संहृष्टः श्वापदाध्युषितं वनम् ।
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह ॥६॥

प्रविशन्नेव स वनं निगृहीतः स कण्टकैः ।
स कण्टकैर्विभिन्नाङ्गो लोहितार्द्रीकृतच्छविः ॥७॥

बभ्राम तस्मिन्विजने नानामृगसमाकुले ।
ततो द्रुमाणां महता पवनेन वने तदा ॥८॥

उदतिष्ठत संघर्षात्सुमहान् हव्यवाहनः ।
तद्वनं वृक्षसम्पूर्णं लताविटपसंकुलम् ॥९॥

ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ।
स ज्वालैः पवनोद्भूतैर्विस्फुलिङ्गैः समन्ततः ॥१०॥

ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ।
ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा ॥११॥

अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा ।
ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः ।
जगाम परमां सिद्धिं ततो भरतसत्तम ॥१२॥

ततः स्वर्गस्थमात्मानमपश्यद्विगतज्वरः ।
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ॥१३॥

एवं खलु कपोतश्च कपोती च पतिव्रता ।
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥१४॥

यापि चैवंविधा नारी भर्तारमनुवर्तते ।
विराजते हि सा क्षिप्रं कपोतीव दिविस्थिता ॥१५॥

एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः ।
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥१६॥

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।
नाशुभं विद्यते तस्य मनसापि प्रमादतः ॥१७॥

युधिष्ठिर महानेष धर्मो धर्मभृतां वर ।
गोघ्रेष्वपि भवेदस्मिनिष्कृतिः पापकर्मणः ॥१८॥

न निष्कृतिर्भवेत् तस्य यो हन्याच्छरणागतम् ।
इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम् ।
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥१९॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि लुब्धकस्वर्गगमने एकोनपञ्चाशदधिकशततमोऽध्यायः ॥१४९॥
पञ्चाशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम ।
मुच्यते स कथं तस्मादेतत्सर्वं ब्रवीहि मे ॥१॥

भीष्म उवाच। अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम् ।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥२॥

आसीद्राजा महावीर्यः परिक्षिज्जनमेजयः ।
अबुद्धिपूर्वामागच्छद्ब्रह्महत्यां महीपतिः ॥३॥

ब्राह्मणाः सर्व एवैते तत्यजुः सपुरोहिताः ।
स जगाम वनं राजा दह्यमानो दिवानिशम् ॥४॥

प्रजाभिः स परित्यक्तश्चकार कुशलं महत् ।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥५॥

ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान् बहून् ।
पर्यटन् पृथिवीं कृत्स्नां देशे देशे नराधिपः ॥६॥

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् ।
दह्यमानः पापकृत्या जगाम जनमेजयः ॥७॥

चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् ।
समासाद्योपजग्राह पादयोः परिपीडयन् ॥८॥

ऋषिर्दृष्ट्वा नृपं तत्र जगर्हे सुभृशं तदा ।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥९॥

किं त्वयाऽस्मासु कर्ताव्यं मा मां स्प्राक्षीः कथंचन ।
गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन् ॥१०॥

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् ।
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि ॥११॥

ब्रह्ममृत्युरशुद्धात्मा पापमेवानुचिन्तयन् ।
प्रबुद्ध्यसे प्रस्वपिषि वर्तसे परमे सुखे ॥१२॥

मोघं ते जीवितं राजन् परिक्लिष्टं च जीवसि ।
पापायैव हि सृष्टोऽसि कर्मणे हि यवीयसे ॥१३॥

बहुकल्याणमिच्छन्ति ईहन्ते पितरः सुतान् ।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया ॥१४॥

पितृवंशमिमं पश्य त्वत्कृते नरकं गतम् ।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥१५॥

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः ।
तेषु त्वं सततं द्वेष्टा ब्राह्मणेषु निरर्थकः ॥१६॥

इमं लोकं विमुच्य त्वमवाङ्मूर्द्धा पतिष्यसि ।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥१७॥

अर्धमानो यत्र गृध्रैः शितिकण्ठैरयोमुखैः ।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि ॥१८॥

यदिदं मन्यसे राजन् नायमस्ति कुतः परः ।
प्रति स्मारयितारस्त्वां यमदूता यमक्षये ॥१९॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि इन्द्रोत-पारिक्षितीयसंवादे पञ्चाशदधिकशततमोऽध्यायः ॥१५०॥
एकपञ्चाशदधिकशततमोऽध्यायः

भीष्म उवाच। एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।
गर्ह्यं भवान् गर्हयते निन्द्यं निन्दति मां पुनः ॥१॥

धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये ।
सर्वं हीदं दुष्कृतं मे ज्वलाम्यग्नाविवाहितः ॥२॥

स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः ।
प्राप्य घोरं भयं नूनं मया वैवस्वतादपि ॥३॥

तत्तु शल्यमनिर्हत्य कथं शक्ष्यामि जीवितुम् ।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक ॥४॥

महानासं ब्राह्मणानां भूयो वक्ष्यामि साम्प्रतम् ।
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥५॥

न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति ।
स्तुतीरलभमानानां संविदं वेदनिश्चितान् ॥६॥

निर्विद्यमानः सुभृशं भूयो वक्ष्यामि शाश्वतम् ।
भूयश्चैवाभिरक्षन्तु निर्धनान् निर्जना इव ॥७॥

न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन ।
आपातान्प्रतितिष्ठन्ति पुलिन्दशबरा इव ॥८॥

अविज्ञायैव मे प्रज्ञा बालस्येव स पण्डितः ।
ब्रह्मन् पितेव पुत्रस्य प्रीतिमान् भव शौनक ॥९॥

शौनक उवाच। किमाश्चर्यं ततः प्राज्ञो बहु कुर्यादसाम्प्रतम् ।
इति वै पण्डितो भूत्वा भूतानां नानुकुप्यते ॥१०॥

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति ॥११॥

न चोपलभ्यते तेन न चाश्चर्याणि कुर्वते ।
निविण्णात्मा परोक्षो वा धिक्कृतः पूर्वसाधुषु ॥१२॥

विदितं भवतो वीर्यं माहात्म्यं वेद आगमे ।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते ॥१३॥

तद्वै पारत्रिकं तात ब्राह्मणानामकुप्यताम् ।
अथवा तप्यसे पापे धर्ममेवानुपश्य वै ॥१४॥

जनमेजय उवाच। अनुतप्ये च पापेन न च धर्मं विलोपये ।
बुभूषुं भजमानं च प्रीतिमान् भव शौनक ॥१५॥

शौनक उवाच। छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप ।
सर्वभूतहितं तिष्ठ धर्मं चैव प्रति स्मरन् ॥१६॥

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह ॥१७॥

सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये ।
क्रोशतां सर्वभूतानां हाहा धिगिति जल्पताम् ॥१८॥

वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः ।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् ॥१९॥

केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति तत्त्वतः ।
जानीहि मत्कृतं तात ब्राह्मणान् प्रति भारत ॥२०॥

यथा ते मत्कृते क्षेमं लभन्ते ते तथा कुरु ।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥२१॥

जनमेजय उवाच। नैव वाचा न मनसा पुनर्जातु न कर्मणा ।
द्रोग्धास्मि ब्राह्मणान्विप्र चरणावपि ते स्पृशे ॥२२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि इन्द्रोत-पारीक्षितीये एकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥
द्विपञ्चाशदधिकशततमोऽध्यायः

शौनक उवाच। तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे ।
श्रीमान्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥१॥

पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥२॥

कृत्स्नं नूनं स दहति इति लोको व्यवस्यति ।
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि ॥३॥

हित्वा तु सुचिरं भक्ष्यं भोज्यांश्च तप आस्थितः ।
इत्येतदभिभूतानामद्भुतं जनमेजय ॥४॥

योऽदुर्लभो भवेद्दाता कृपणो वा तपोधनः ।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥५॥

एतदेव हि कार्पण्यं समग्रमसमीक्षितम् ।
यच्चेत्सममीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥६॥

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥७॥

तदेव राज्ञां परमं पवित्रं जनमेजय ।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥८॥

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥९॥

यो मर्त्यः प्रतिपद्येत आयुर्जीवितमात्मनः ।
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥१०॥

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥११॥

यत्रावगाह्य पीत्वा च नैनं श्वोमरणं तपेत् ।
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥१२॥

कालोदकं च गन्तासि लब्धायुर्जीविते पुनः ।
सरस्वतीदृषद्वत्योः संगमो मानसः सरः ॥१३॥

स्वाध्यायशीलः स्थानेषु सर्वेष्वेवमुपस्पृशेत् ।
त्यागधर्मः पवित्राणां संन्यासं मनुरब्रवीत् ॥१४॥

अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ।
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत् ॥१५॥

न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ।
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ॥१६॥

त्यजतां जीवितं श्रेयो निवृत्ते पुण्यपापके ।
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥१७॥

बलेन संविभागैश्च जय स्वर्गं जनेश्वर ।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥१८॥

ब्राह्मणार्थं सुखार्थं हि त्वं पाहि वसुधां नृप ।
यथैवैतान्पुराऽऽक्षेप्सीस्तथैवैतान्प्रसादय ॥१९॥

अपि विक्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा ।
आत्मनो दर्शनाद्विप्रान्न हन्तास्मीति मार्गय ।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥२०॥

हिमाग्निघोरसदृशो राजा भवति कश्चन ।
लांगलाशनिकल्पो वा भवेदन्यः परंतप ॥२१॥

न विशेषेण गन्तव्यमविच्छिन्नेन वा पुनः ।
न जातु नाहमस्मीति सुप्रसक्तमसाधुषु ॥२२॥

विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।
नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ॥२३॥

करिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ।
शुचिस्तीर्थान्यनुचरन् बहुत्वात्परिमुच्यते ॥२४॥

कल्याणमनुकर्तव्यं पुरुषेण बुभूषता ।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥२५॥

ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ।
तपश्चर्यापरः सद्यः पापाद्विपरिमुच्यते ॥२६॥

संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥२७॥

महासरः पुष्कराणि प्रभासोत्तरमानसे ।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥२८॥

यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः ।
प्रमीयमानानुन्मोच्य प्राणिहा विप्रमुच्यते ॥२९॥

अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम् ।
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥३०॥

तत्क्षिप्रं नुदते पापं सत्कारं लभते यथा ।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥३१॥

बृहस्पतिं देवगुरुं सुरासुराः सर्वे समेत्याभ्यनुयुज्य राजन् ।
धर्म्यं फलं वेत्थ फलं महर्षे तथैव तस्मिन्नरके पारलोक्ये ॥३२॥

उभे तु यस्य सदृशे भवेतां किंस्वित्तयोस्तत्र जयोऽथ न स्यात् ।
आचक्ष्व नः पुण्यफलं महर्षे कथं पापं नुदते धर्मशीलः ॥३३॥

बृहस्पतिरुवाच ।
कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम् ।
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्तम् ॥३४॥

पापं कृत्वाऽभिमन्येत नाहमस्मीति पूरुषः ।
तच्चिकीर्षति कल्याणं श्रद्दधानोऽनसूयकः ॥३५॥

छिद्राणि विवृतान्येव साधूनां चावृणोति यः ।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥३६॥

यथाऽऽदित्यः प्रातरुद्यंस्तमः सर्वं व्यपोहति ।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥३७॥

भीष्म उवाच। एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम् ।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥३८॥

ततः स राजा व्यपनीतकल्मषः श्रेयोवृतः प्रज्वलिताग्निरूपवान् ।
विवेश राज्यं स्वममित्रकर्षणो यथा दिवं पूर्णवपुर्निशाकरः ॥३९॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि इन्द्रोत-पारिक्षितीये द्विपञ्चाशदधिकशततमोऽध्यायः ॥१५२॥
त्रिपञ्चाशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। कच्चित्पितामहेनासीच्छ्रुतं वा दृष्टमेव च ।
कच्चिन्मर्त्यो मृतो राजन् पुनरुज्जीवितोऽभवत् ॥१॥

भीष्म उवाच। शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।
गृध्रजम्बुकसंवादं यो वृत्तो नैमिषे पुरा ॥२॥

कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः ।
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥३॥

दुःखिताः केचिदादाय बालमप्राप्तयौवनम् ।
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ॥४॥

बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः ।
अङ्केनैव च संक्रम्य रुरुदुर्भृशदुःखिताः ॥५॥

शोचन्तस्तस्य पूर्वोक्तान् भाषितांश्चासकृत्पुनः ।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥६॥

तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।
एकात्मजमिमं लोके त्यक्त्वा गच्छत मा चिरम् ॥७॥

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह ।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥८॥

सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥९॥

गृहीत्वा ये च गच्छन्ति ये न यान्ति च तान् मृतान् ।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥१०॥

अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहुले रौद्रे सर्वप्राणिभयङ्करे ॥११॥

न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥१२॥

सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥१३॥

कर्मान्तविरते लोके अस्तं गच्छति भास्करे ।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥१४॥

ततो गृध्रवचः श्रुत्वा प्राक्रोशन्तस्तदा नृप ।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥१५॥

विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः ।
मृतमित्येव गच्छन्तो निराशास्तस्य दर्शने ॥१६॥

निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम् ।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥१७॥

ध्वांक्षपक्षसवर्णस्तु विलान्निसृत्य जम्बुकः ।
गच्छमानान् स्म तानाह निघृणाः खलु मानुषाः ॥१८॥

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्तश्च जीवेदपि कदाचन ॥१९॥

यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥२०॥

न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥२१॥

ते पश्यत सुतस्नेहो यादृशः पशुपक्षिणाम् ।
न तेषां धारयित्वा तान् कश्चिदस्ति फलागमः ॥२२॥

चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥२३॥

तेषां पुत्राभिरामाणामिहलोके परत्र च ।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥२४॥

अपश्यतां प्रियान्पुत्रान् तेषां शोको न तिष्ठति ।
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ॥२५॥

मानुषाणां कुतः स्नेहो येषां शोको भविष्यति ।
इमं कुलकरं पुत्रं त्यक्त्वा क्व न गमिष्यथ ॥२६॥

चिरं मञ्चत बाष्पं च चिरं स्नेहेन पश्यत ।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥२७॥

क्षीणस्याभियुक्तस्य श्मशानाभिमुखस्य च ।
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नाधितिष्ठति ॥२८॥

सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥२९॥

त्यक्त्वा कथं गच्छथेमं पद्मलोलायताक्षिकम् ।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ॥३०॥

जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ॥३१॥

गृध्र उवाच ।
अहो वत नृशंसेन जम्बुकेनाल्पमेधसा ।
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥३२॥

पञ्चेन्द्रियपरित्यक्तं शुष्कं काष्ठत्वमागतम् ।
कस्माच्छोवथ तिष्ठन्तमात्मानं किं न शोचथ ॥३३॥

तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥३४॥

अनिष्टानि च भाग्यानि जातानि सह मूर्तिना ।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥३५॥

धनं, गावः, सुवर्णं च मणिरत्नमथापि च ।
अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ॥३६॥

यथाकृता च भूतेषु प्राप्यते सुखदुःखिता ।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥३७॥

न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा ।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥३८॥

धर्मं चरत यत्नेन न चाधर्मे मनः कृथाः ।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥३९॥

शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।
त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ॥४०॥

यत्करोति शुभं कर्म तथा कर्म सुदारुणम् ।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥४१॥

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥४२॥

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥४३॥

किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥४४॥

यौवनस्थांश्च बालांश्च वृद्धान् गर्भगतानपि ।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥४५॥

जम्बुक उवाच ।
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना ।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥४६॥

समैः सम्यक्प्रयुक्तैश्च वचनैः प्रत्ययोत्तरैः ।
यद्गच्छति जनश्चायं स्नेहमुत्सृज्य दुस्त्यजम् ॥४७॥

अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।
क्रोशतां सुभृशं दुःखं विवत्सानां गवामिव ॥४८॥

अद्य शोकं विजानामि मानुषाणां महीतले ।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥४९॥

यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति ।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥५०॥

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥५१॥

आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् ।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥५२॥

अथवाऽस्तंगते सूर्ये संध्याकाल उपस्थिते ।
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥५३॥

गृध्र उवाच ।
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।
न च पश्यमि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥५४॥

मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च ।
चङ्क्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥५५॥

अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।
जङ्गमानां नगानां वाप्यायुरग्रेऽवतिष्ठते ॥५६॥

इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥५७॥

अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥५८॥

त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।
अन्यदेहविषक्तं हि शावं काष्ठत्वमागतम् ॥५९॥

त्यक्तजीवस्य चैवास्य कस्माद्धित्वा न गच्छत ।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥६०॥

चक्षुर्भ्यां न च कर्णाभ्यां संशृणोति समीक्षते ।
कस्मादेनं समुत्सृज्य न गृहान्गच्छताशु वै ॥६१॥

मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः ।
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥६२॥

प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना ।
वचनं श्राविता नूनं मानुषाः संन्यवर्तत ।
शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् ॥६३॥

इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः ।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥६४॥

जम्बुक उवाच ।
इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥६५॥

न स्नेहस्य च विच्छेदो विलापरुदितस्य च ।
मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम् ॥६६॥

श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥६७॥

तथा श्वेतस्य राजर्षेर्बालो दृष्टान्तमागतः ।
श्वेतेन धर्मनिष्ठेन मृतः संजीवितः पुनः ॥६८॥

तथा कश्चिल्लभेत्सिद्धो मुनिर्वा देवतापि वा ।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥६९॥

इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः ।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥७०॥

गृध्र उवाच ।
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः ।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥७१॥

तपसापि हि संयुक्ता धनवन्तो महाधियः ।
सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनम् ॥७२॥

बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः ।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥७३॥

अलं निर्बन्धमागत्य शोकस्य परिधारणे ।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥७४॥

मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ।
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि ॥७५॥

शक्यं जीवयितुं ह्येष बालो वर्षशतैरपि ।
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च ॥७६॥

वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः ।
नैव बाष्पविमोक्षेण न वा श्वासकृते न च ॥७७॥

न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति ।
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः ॥७८॥

धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ।
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ॥७९॥

अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ।
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् ॥८०॥

अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ।
मातरं पितरं वापि बान्धवान् सुहृदस्तथा ॥८१॥

जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ।
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन ॥८२॥

तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ।
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥८३॥

जम्बुक उवाच ।
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥८४॥

बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम् ।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम् ॥८५॥

न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ।
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा ॥८६॥

कथं गच्छत निःस्नेहाः सुतस्नेहं विसृज्य च ।
प्रदीप्ताः पुत्रशोकेन सन्निवर्तत मानुषाः ॥८७॥

श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥८८॥

सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् ।
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् ॥८९॥

कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ।
रूप-यौवनसम्पन्नं द्योतमानमिव श्रिया ॥९०॥

जीवन्तमेव पश्यामि मनसा नात्र संशयः ।
विनाशो नास्य न हि वै सुखं प्राप्स्यथ मानुषाः ॥९१॥

पुत्रशोकाभितप्तानां मृतानामद्य वः क्षमम् ।
सुखसम्भावनं कृत्वा धारयित्वा सुखं स्वयम् ।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥९२॥

भीष्म उवाच। तथा धर्मविरोधेन प्रियमिथ्याभिधायिना ।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥९३॥

ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।
जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ॥९४॥

गृध्र उवाच ।
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥९५॥

भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।
अस्मिञ्छवं परित्यज्य प्रेतकार्याण्युपासत ॥९६॥

भानुवत्प्रयात्यस्तं यावच्च विमला दिशः ।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥९७॥

नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम् ।
मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ॥९८॥

चिताधूमेन नीलेन संरज्यन्ते च पादपाः ।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥९९॥

सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे ।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥१००॥

क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति ।
त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ॥१०१॥

यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनंक्ष्यथ ॥१०२॥

जम्बुक उवाच ।
स्थीयतां नेह भेतव्यं यावत्तपति भास्करः ।
तावदस्मिन् सुते स्नेहादनिर्वेदेन वर्तत ॥१०३॥

स्वैरं रुदन्तो विश्रब्धाश्चिरं स्नेहेन पश्यत ।
स्थीयतां यावदादित्यः किं च क्रव्यादभाषितैः ॥१०४॥

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥१०५॥

भीष्म उवाच। गृध्रोऽस्तमित्याह गतो गतो नेति च जम्बुकः ।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥१०६॥

स्वकार्यबद्धकक्षौ तौ राजन् गृध्रोऽथ जम्बुकः ।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥१०७॥

तयोर्विज्ञानविदुषोर्द्वयोर्मुगपतत्रिणोः ।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ति व्रजन्ति च ॥१०८॥

शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।
स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् ॥१०९॥

तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।
बान्धवानां स्थितानां चाप्युपातिष्ठत शङ्करः ॥११०॥

देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः ।
ततस्तानाह मनुजान् वरदोऽस्मीति शङ्करः ॥१११॥

ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः ।
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् ॥११२॥

पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ।
एवमुक्तः स भगवान् वारिपूर्णेन चक्षुषा ॥११३॥

जीवितं स्म कुमाराय प्रादाद्वर्षशतानि वै ।
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् ॥११४॥

वरं पिनाकी भगवान् सर्वभूतहिते रतः ।
ततः प्रणम्य ते देवं प्रायो हर्षसमन्विताः ॥११५॥

कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो ।
अनिवेदेन दीर्घेण निश्चयेन ध्रुवेण च ॥११६॥

देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ।
पश्य दैवस्य संयोगं बान्धवानां च निश्चयम् ॥११७॥

कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम् ।
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च ॥११८॥

प्रसादं शङ्करात्प्राप्य दुःखिताः सुखमाप्नुवन् ।
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात् पुनः ॥११९॥

बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै ।
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् ॥१२०॥

विविशुः पुत्रमादाय नगरं हृष्टमानसाः ।
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥१२१॥

धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् ।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥१२२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि गृध्रगोमायुसंवादे कुमारसंजीवने त्रिपञ्चाशदधिकशततमोऽध्यायः ॥१५३॥
चतुष्पञ्चाशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। बलिनः पत्यमित्रस्य नित्यमासन्नवर्तिनः ।
उपकारापकाराभ्यां समर्थस्योद्यतस्य च ॥१॥

मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः ।
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह ॥२॥

आत्मनो बलमास्थाय कथं वर्तेत मानवः ।
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणरकाम्यया ॥३॥

भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च ॥४॥

हिमवन्तं समासाद्य महानासीद्वनस्पतिः ।
वर्षपूगाभिसंवृद्धः शाखी स्कन्धी पलाशवान् ॥५॥

तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः ।
विश्राम्यन्ति महाबाहो तथान्या मृगजातयः ॥६॥

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः ।
सारिकाशुकसंजुष्टः पुष्पवान्फलवानपि ॥७॥

सार्थिका वणिजश्चापि तापसाश्च वनौकसः ।
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे ॥८॥

तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः ।
अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥९॥

अहो नु रमणीयस्त्वमहो चासि मनोहरः ।
प्रीयामहे त्वया नित्यं तरुप्रवरशाल्मले ॥१०॥

सदैव शकुनास्तात मृगाश्चाथ तथा गजाः ।
वसन्ति तव संदृष्टा मनोहर मनोहराः ॥११॥

तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा ।
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन ॥१२॥

किं नु ते पवनस्तात प्रीतिमानथवा सुहृत् ।
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम् ॥१३॥

भगवान्पवनः स्थानाद् वृक्षानुच्चावचानपि ।
पर्वतानां च शिखराण्याचालयति वेगवान् ॥१४॥

शोषयत्येव पातालं वहन् गन्धवहः शुचिः ।
सरांसि सरितश्चैव सागरांश्च तथैव च ॥१५॥

संरक्षति त्वां पवनः सखित्वेन न संशयः ।
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि ॥१६॥

इदं च रमणीयं ते प्रतिभाति वनस्पते ।
यदिमे विहगास्तात रमन्ते मुदितास्त्वयि ॥१७॥

एषा पृथक् समस्तानां श्रूयते मधुरस्वरः ।
पुष्पसम्मोदने काले वाशतां सुमनोहरम् ॥१८॥

तथेमे गर्जिता नागाः स्वयूथकुलशोभिताः ।
घर्मार्तास्त्विां समासाद्य सुखं विन्दन्ति शाल्मले ॥१९॥

तथैव मृगजातीभिरन्याभिरभिशोभसे ।
तथा सर्वाधिवासैश्च शोभसे मेरुवद्द्रुम् ॥२०॥

ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैस्तथा ।
त्रिविष्टपसमं मन्ये तवायतनमेव हि ॥२१॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवनशाल्मलिसंवादे चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥१५४॥
पञ्चपञ्चाशदधिकशततमोऽध्यायः

नारद उवाच। बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः ।
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥१॥

न्यग्भावं परमं वायोः शाल्मले त्वमुपागतः ।
तवाहमस्मीति सदा येन रक्षति मारुतः ॥२॥

न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम् ।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः ॥३॥

त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा ।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥४॥

शाल्मलिरुवाच ।
न मे वायुः सखा ब्रह्मन्न बन्धुर्न च सुहृत् ।
परमेष्ठी तथा नैव येन रक्षति वाऽनिलः ॥५॥

मम तेजो बलं भीमं वायोरपि हि नारद ।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥६॥

आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात् ।
भञ्जन् द्रुमान् पर्वतांश्च यच्चान्यदपि किंचन ॥७॥

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥८॥

नारद उवाच। शाल्मले विपरीतं ते दर्शनं नात्र संशयः ।
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥९॥

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥१०॥

यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि ।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥११॥

एष चेश्यते सम्यक् प्राणिनः सम्यगायतः ।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥१२॥

स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम् ।
न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् ॥१३॥

असारश्चापि दुर्मेधाः केवलं बहु भाषसे ।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥१४॥

मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति ।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥१५॥

चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः ।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः ॥१६॥

तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ।
तेऽपि जानन्ति वायोश्च बलमात्मन एव च ॥१७॥

तस्मात्तं वै नमस्यन्ति श्वसनं तरुसत्तमाः ।
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् ।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः ॥१८॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवनशाल्मलिसंवादे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥१५५॥
षट्पञ्चाशदधिकशततमोऽध्यायः

भीष्म उवाच। एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः ।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥१॥

नारद उवाच। हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥२॥

बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः ।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥३॥

जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥४॥

भीष्म उवाच। एतत्तु वचनं श्रुत्वा नारदस्य समीरणः ।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥५॥

वायुरुवाच ।
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम् ।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥६॥

अहं त्वामभिजानामि विदितश्चासि मे दुम ।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥७॥

तस्य विश्रमणादेष प्रसादो मत्कृतस्तव ।
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम ॥८॥

यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा ।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥९॥

भीष्म उवाच। एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव ।
पवन त्वं च मे क्रुद्धो दर्शयात्मानमात्मना ॥१०॥

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि ।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः ॥११॥

बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव ।
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ॥१२॥

प्राणमात्रबला ये वै नैव ते बलिनो मताः ।
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ॥१३॥

दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ।
अथ निश्चित्य मनसा शाल्मलिर्वातकारितम् ॥१४॥

पश्यमानस्तदाऽऽत्मानमसमं मातरिश्वना ।
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ॥१५॥

असमर्थो ह्यहं वायोर्बलेन बलवान् हि सः ।
मारुतो बलवान्नित्यं यथा वै नारदोऽब्रवीत् ॥१६॥

अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ।
किं तु बुद्ध्या समो नास्ति मया कश्चिद्वनस्पतिः ॥१७॥

तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् ।
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ॥१८॥

अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ।
ते तु बाला न जानन्ति यथा वै तान् समीरणः ।
समीरयति संक्रुद्धो यथा जानाम्यहं तथा ॥१९॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवनशाल्मलिसंवादे षट्पञ्चाशदधिकशततमोऽध्यायः ॥१५६॥
सप्तपञ्चाशदधिकशततमोऽध्यायः

भीष्म उवाच। ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा ।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥१॥

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च ।
प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः ॥२॥

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः ॥३॥

तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः ।
उवाच वाक्यं स्मयमान एवं मुदा युतः शाल्मलिमुग्रशाखम् ॥४॥

वायुरुवाच ।
अहमप्येवमेव त्वां कुर्वाणः शाल्मले रुषा ।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्षणम् ॥५॥

हीनपुष्पाग्रशाखस्त्वं शीर्णांकुरपलाशकः ।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः ॥६॥

भीष्म उवाच। एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा ।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत् ॥७॥

एवं हि राजशार्दूल दुर्बलः सन्बलीयसा ।
वैरमारभते बालस्तप्यते शाल्मलिर्यथा ॥८॥

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा ॥९॥

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥१०॥

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।
बुद्धिर्बुद्धिमतो याति तृणेष्विव हुताशनः ॥११॥

न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप ।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन ॥१२॥

तस्मात्क्षमेत बालाय जडान्धबधिराय च ।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥१३॥

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते ।
बलेन न समा राजन्नर्जुनस्य महात्मनः ॥१४॥

निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।
चरत बलमास्थाय पाकशासनिना मृधे ॥१५॥

उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत ।
विस्तरेण महाराज किं भूयः श्रोतुमिच्छसि ॥१६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवन-शाल्मलिसंवादे सप्तपञ्चाशदधिकशततमोऽध्यायः ॥१५७॥
अष्टपञ्चाशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥१॥

भीष्म उवाच। पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥२॥

अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥३॥

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥४॥

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥५॥

अत्यागश्चातितर्षश्च विकर्मसु च याः क्रियाः ।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥६॥

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः ।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥७॥

हरणं परवित्तानां परदाराभिमर्शनम् ।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥८॥

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ।
ईर्ष्यावेगश्च बलवान् मिथ्यावेगश्च दुर्जयः ॥९॥

रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसहः ।
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता ॥१०॥

साहसानां च सर्वेषामकार्याणां क्रियास्तथा ।
जातौ बाल्ये च कौमारे यौवने चापि मानवाः ॥११॥

न संत्यजन्त्यात्मकर्म यो न जीर्यति जीर्यतः ।
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह ॥१२॥

नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ।
न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति ॥१३॥

यों न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ।
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ॥१४॥

स लोभः सह मोहेन विजेतव्यो जितात्मना ।
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा ॥१५॥

भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ।
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः ॥१६॥

छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ।
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ॥१७॥

अन्तःक्रूरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव ।
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ॥१८॥

कुर्वते च बहून्मार्गांस्तान् हेतुबलमाश्रिताः ।
सतां मार्गान् विलुम्पन्ति लोभाज्ञानेष्ववस्थिताः ॥१९॥

धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।
या या विक्रियते संस्था ततः साऽपि प्रपद्यते ॥२०॥

दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता ।
एव एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥२१॥

एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् ।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥२२॥

येष्वावृत्तिभयं नास्ति परलोकभयं न च ।
नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च ॥२३॥

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ।
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥२४॥

दातारो न ग्रहीतारो दयावन्तस्तथैव च ।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥२५॥

सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः ।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥२६॥

न ते चालयितुं शक्या धर्मव्यापारकारिणः ।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥२७॥

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ।
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता ॥२८॥

कामक्रोधव्यपेता ये निर्ममा निरहंकृताः ।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥२९॥

न धनार्थं यशोऽर्थं वा धर्मस्तेषां युधिष्ठिर ।
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥३०॥

न भयं क्रोधचापल्ये न शोकस्तेषु विद्यते ।
न धर्मध्वजिनश्चैव न गुह्यं कञ्चिदास्थिताः ॥३१॥

येष्वलोभस्तथा मोहो ये च सत्यार्जवे स्थिताः ।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥३२॥

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।
निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः ॥३३॥

लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च ।
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्त्वपथे स्थितानाम् ॥३४॥

धर्मप्रियांस्तान्सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः ।
दैवान्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथान्ये ॥३५॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि आपन्मूलभूतदोषकथने अष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥
एकोनषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। अनर्थानामधिष्ठानमुक्तो लोभः पितामह ।
अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः ॥१॥

भीष्म उवाच। करोति पापं योऽज्ञानानात्मनो वेत्ति च क्षयम् ।
प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥२॥

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् ।
अज्ञानात्क्लेशमाप्नोति तथाऽऽपत्सु निमज्जति ॥३॥

युधिष्ठिर उवाच। अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिक्षयोदयौ ।
मूलं योगं गतिं कालं कारणं हेतुमेव च ॥४॥

श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव ।
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते ॥५॥

भीष्म उवाच। रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता ।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च ॥६॥

इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता ।
अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः ॥७॥

एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि ।
विस्तरेण महाराज शृणु तच्च विशेषतः ॥८॥

उभावेतौ समफलौ समदोषौ च भारत ।
अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव ॥९॥

लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ।
स्थाने स्थाने भवेत्क्षीणमुपैति विविधां गतिम् ॥१०॥

मूलं लोभस्य मोहो वै कालात्मगतिरेव च ।
छिन्ने भिन्ने तथा लोभे कारणं काल एव च ॥११॥

तस्याज्ञानाद्धि लोभो हि लोभादज्ञानमेव च ।
सर्वदोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥१२॥

जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् ।
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये नराधिपाः ॥१३॥

प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना ।
त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि ॥१४॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अज्ञानमाहात्म्ये एकोनषष्ट्यधिकशततमोऽध्यायः ॥१५९॥
षष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। स्वाध्याये कृतयत्नस्य नरस्य च पितामह ।
धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते ॥१॥

बहुधा दर्शने लोके श्रेयो यदिह मन्यसे ।
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥२॥

महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥३॥

धर्मस्यो महतो राजन् बहुशाखस्य तत्त्वतः ।
यन्मूलं परमं तात तत्सर्वं ब्रूह्यशेषतः ॥४॥

भीष्म उवाच। हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि ।
पीत्वाऽमृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ॥५॥

धर्मस्य विधयो नैके ये वै प्रोक्ता महर्षिभिः ।
स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥६॥

दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥७॥

दमात्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।
दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥८॥

दमस्तेजो वर्धयति पवित्रं च दमः परम् ।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥९॥

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥१०॥

प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम् ।
दमेन हि समायुक्तो महान्तं धर्ममश्नुते ॥११॥

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥१२॥

अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते ।
अनर्थांश्च बहूनन्यान् प्रसृजत्यात्मदोषजान् ॥१३॥

आश्रमेषु चतुर्ष्बाहुर्दममेवोत्तमं व्रतम् ।
तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥१४॥

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥१५॥

अकार्पण्यमसंरम्भः संतोषः प्रियवादिता ।
अविहिंसानसूया चाप्येषां समुदयो दमः ॥१६॥

गुरुपूजा च कौरव्य दया भूतेषु पैशुनम् ।
जनवादं मृषावादं स्तुतिनिन्दाविसर्जनम् ॥१७॥

कामं क्रोधं च लोभं च दर्पं स्तम्भं विकत्थनम् ।
रोषमीर्ष्या॑वमानं च नैव दान्तो निषेवते ॥१८॥

अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः ।
समुद्रकल्पः स नरो न कथंचन पूर्यते ॥१९॥

अहं त्वयि ममत्वं च मयि तेषु तथाऽप्यहम् ।
पूर्वसम्बन्धिसंयोगं नैतद्दान्तो निषेवते ॥२०॥

सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः ।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥२१॥

मैत्रोऽथ शीलसम्पन्नः प्रसन्नात्माऽऽत्मविच्च यः ।
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥२२॥

सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद्बुधः ।
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥२३॥

कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥२४॥

निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः ।
कालाकाङ्क्षी चरत्येवं ब्रह्मभूयाय कल्पते ॥२५॥

अभयं यस्य भूतेभ्यो भूतानामभयं यतः ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥२६॥

अवाचिनोति कर्माणि न च सम्प्रचिनोति ह ।
समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ॥२७॥

शकुनीनामिवाकाशे जले वारिचरस्य च ।
यथा गतिर्न दृश्येत तथा तस्य न संशयः ॥२८॥

गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥२९॥

संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः ।
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥३०॥

कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः ।
प्राप्येह लोके सत्कारं स्वर्ग समभिपद्यते ॥३१॥

यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् ।
गुहायां पिहितं नित्यं तद्दमेनाभिगम्यते ॥३२॥

ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥३३॥

एक एव दमे दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥३४॥

एकोऽस्य सुमहाप्राज्ञः दोषः स्यात् सुमहान्गुणः ।
क्षमया विपुला लोकाः सुलभा हि सहिष्णुता ॥३५॥

दान्तस्य किमरण्येन तथाऽदान्तस्य भारत ।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥३६॥

वैशम्पायन उवाच। एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।
अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥३७॥

पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।
तपः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वह ॥३८॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि दमकथने षष्ट्यधिकशततमोऽध्यायः ॥१६०॥
एकषष्ट्यधिकशततमोऽध्यायः

भीष्म उवाच। सर्वमेतत्तपोमूलं कवयः परिचक्षते ।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते ॥१॥

प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥२॥

तपसैव ससर्जान्नं फलमूलानि यानि च ।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥३॥

औषधान्यगदादीनि क्रियाश्च विविधास्तथा ।
तपसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम् ॥४॥

यद्दुरापं भवेत्किंचित्तत्सर्वं तपसो भवेत् ।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः ॥५॥

सुरापो सम्मतादायी भ्रूणहा गुरुतल्पगः ।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते ॥६॥

तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः ।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥७॥

अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः ।
एतेभ्यो हि महाराज तपो नानशनात्परम् ॥८॥

न दुष्करतरं दानान्नातिमातरमाश्रमः ।
त्रैविद्यभ्यः परं नास्ति संन्यासः परमं तपः ॥९॥

इन्द्रियाणीह रक्षन्ति स्वर्गधर्माभिगुप्तये ।
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥१०॥

ऋषयः पितरो देवा मनुष्या मृगपक्षिणः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥११॥

तपःपरायणाः सर्वे सिद्ध्यन्ति तपसा च ते ।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे ॥१२॥

इमानीष्टविभागानि फलानि तपसः सदा ।
तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात् ॥१३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि तपःप्रशंसायाम् एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
द्विषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः ।
सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह ॥१॥

सत्यं किंलक्षणं राजन् कथं वा तदवाप्यते ।
सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यताम् ॥२॥

भीष्म उवाच। चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते ।
अविकारितमं सत्यं सर्ववर्णेषु भारत ॥३॥

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।
सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥४॥

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् ।
सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥५॥

आचारानिह सत्यस्य यथावदनुपूर्वशः ।
लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् ॥६॥

प्राप्यते च यथा सत्यं तच्च श्रोतुमिहार्हसि ।
सत्यं त्रयोदशविधं सर्वलोकेषु भारत ॥७॥

सत्यं च समता चैव दमश्चैव न संशयः ।
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता ॥८॥

त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा ।
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥९॥

सत्यं नामाव्ययं नित्यमविकारि तथैव च ।
सर्वधर्माविरुद्धेन योगेनैतदवाप्यते ॥१०॥

आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा ।
इच्छाद्वेषं क्षयं प्राप्य कामक्रोधक्षयं तथा ॥११॥

दमो नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च ।
अभयं रोगशमनं ज्ञानेनैतदवाप्यते ॥१२॥

अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः ।
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥१३॥

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च ।
क्षमते सम्मतः साधुः साध्वाप्नोति च सत्यवाक् ॥१४॥

कल्याणं कुरुते बाढं धीमान्न ग्लायते क्वचित् ।
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ॥१५॥

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते ।
लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते ॥१६॥

त्यागः स्नेहस्य यत्त्यागो विषयाणां तथैव च ।
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥१७॥

आर्यता नाम भूतानां यः करोति प्रयत्नतः ।
शुभं कर्म निराकारो वीतरागस्तथैव च ॥१८॥

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् ।
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥१९॥

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च ।
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥२०॥

अद्रोहः सर्वभूतेषु कर्मणा, मनसा, गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥२१॥

एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः ।
भजन्ते सत्यमेवेह बृंहयन्ते च भारत ॥२२॥

नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव ।
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥२३॥

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
श्रुतिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥२४॥

उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः ।
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ॥२५॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सत्यप्रशंसायां द्विषष्ट्यधिकशततमोऽध्यायः ॥१६२॥
त्रिषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। यतः प्रभवति क्रोधः कामो वा भरतर्षभ ।
शोकमोहौ विधित्सा च परासुत्वं च तद्वदः ॥१॥

लोभो मात्सयमिर्ष्या च कुत्साऽसूया कृपा भयम् ।
एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥२॥

भीष्म उवाच। त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः ।
उपासन्ते महाराज समन्तात्पुरुषानिह ॥३॥

एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च ।
वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषं बलात् ॥४॥

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ ॥५॥

एतेषामुदयं स्थानं क्षयं च पृथिवीपते ।
हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः ॥६॥

यथातत्त्वं क्षितिपते तदिहैकमनाः शृणु ।
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते ॥७॥

क्षमया तिष्ठते राजन् क्षमया विनिवर्तते ।
संकल्पाज्जायते कामः सेव्यमानो विवर्धते ॥८॥

यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति ।
परासुता क्रोधलोभावन्तरा प्रतिमुच्यते ॥९॥

दयया सर्वभूतानां निर्वेदाद्विनिवर्तते ।
अवद्यदर्शनादेति तत्त्वज्ञानाच्च धीमताम् ॥१०॥

अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥११॥

विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह ।
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते ॥१२॥

प्रीत्या शोकः प्रभवति वियोगात्तस्य देहिनः ।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥१३॥

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते ।
दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥१४॥

सत्यत्यागात्तु मात्सर्यमहितानां च सेवया ।
एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥१५॥

कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैः स च सद्यः प्रणश्यति ॥१६॥

ईर्ष्या कामात् प्रभवति संहर्षाच्चैव जायते ।
इतरेषां तु सत्त्वानां प्रज्ञया सा प्रणश्यति ॥१७॥

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः ।
कुत्सा संजायते राजन् लोकान् प्रेक्ष्याभिशाम्यति ॥१८॥

इति कर्तुं न शक्ता ये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥१९॥

कृपणान्सततं दृष्ट्वा ततः संजायते कृपा ।
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥२०॥

अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा ।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते ॥२१॥

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश ।
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ।
त्वया सत्यार्थिना नित्यं विजिता ज्येष्ठसेवनात् ॥२३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि लोभनिरूपणे त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
चतुःषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
नृशंसान्न विजानामि तेषां कर्म च भारत ॥१॥

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥२॥

नृशंसो हि दहेद्व्यक्तं प्रेत्य चेह च भारत ।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥३॥

भीष्म उवाच। स्पृहा स्याद्गर्हिता चैव विधित्सा चैव कर्मणाम् ।
आक्रोष्टा क्रुश्यते चैव वञ्चितो बुद्ध्यते स च ॥४॥

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
असंविभागी मानी च तथा सङ्गी विकत्थनः ॥५॥

सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
वर्गप्रशंसी सततमाश्रमद्वेषसंकरी ॥६॥

हिंसाविहारः सततमविशेषगुणागुणः ।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥७॥

धर्मशीलं गुणोपेतं पापमित्यवगच्छति ।
आत्मशीलप्रमाणेन न विश्वसिति कस्यचित् ॥८॥

परेषां यत्र दोषः स्यात्तद्गुह्यं सम्प्रकाशयेत् ।
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् ॥९॥

तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
दत्त्वाऽपि च धनं काले सन्तपत्युपकारिणे ॥१०॥

भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥११॥

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥१२॥

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
सदा विवर्जनीयो हि पुरुषेण विजानता ॥१३॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि नृशंसाख्याने चतुःषष्ट्यधिकशततमोऽध्यायः ॥१६४॥
पञ्चषष्ट्यधिकशततमोऽध्यायः

भीष्म उवाच। हृतार्थो यक्ष्यमाणश्व सर्ववेदान्तगश्च यः ।
आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च ॥१॥

एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥२॥

अन्यत्र दक्षिणादानं देयं भरतसत्तम ।
अन्येभ्योऽपि बहिर्वेदि चाकृतान्नं विधीयते ॥३॥

सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत् ।
ब्राह्मणा एव वेदाश्च यज्ञाश्च बहुदक्षिणाः ॥४॥

अन्योन्यविभवाचारा यजन्ते गुणतः सदा ।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥५॥

यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥६॥

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥७॥

आहरेदथ नो किञ्चत्कामं शूद्रस्य वेश्मनः ।
न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः ॥८॥

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥९॥

अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा ।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥१०॥

तथैव शृणु मे भक्तं भक्तानि षडनश्नतः ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥११॥

खलात्क्षेत्रात्तथारामाद्यतो वाऽप्युपपद्यते ।
आख्यातव्यं नृपस्यैतत्पृच्छतेऽपृच्छतेऽपि वा ॥१२॥

न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ।
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ॥१३॥

श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ।
अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ॥१४॥

इष्टिं वैश्वानरीं नित्यं निर्वयेदब्दपर्यये ।
अनुकल्पः परो धर्मो धर्मवादैस्तु केवलम् ॥१५॥

विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु मरणाद्भीतैर्विधिः प्रतिनिधीकृतः ॥१६॥

प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते ।
न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ॥१७॥

न ब्राह्मणो निवेदेत किंचिद्राजनि वेदवित् ।
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् ॥१८॥

तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम् ।
कर्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ॥१९॥

तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम् ।
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ॥२०॥

धनैर्वैश्यश्च शूद्रश्च, मन्त्रैर्होमैश्च वै द्विजः ।
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः ॥२१॥

परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ।
नरकं निपतन्त्येते जुह्वानाः स च यस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥२२॥

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥२३॥

पुण्यानि यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ॥२४॥

प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।
इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति ॥२५॥

उदक्यामासते ये च द्विजाः केचिदनग्नयः ।
होमं चाश्रोत्रियं येषां ते सर्वे पापकर्मिणः ॥२६॥

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।
उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥२७॥

अभार्यां शयने बिभ्रच्छूद्रं वृद्धं च वै द्विजः ।
अब्राह्मणं मन्यमानस्तृणेष्वासीत पृष्ठतः ।
तथा संशुध्यते राजन् शृणु चात्र वचो मम ॥२८॥

यदेकरात्रेण करोति पापं निकृष्टवर्णं ब्राह्मणः सेवमानः ।
स्थानासनाभ्यां विहरन् व्रती स त्रिभिर्वर्षैः शमयेदात्मपापम् ॥२९॥

न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि ॥३०॥

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥३१॥

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥३२॥

गोब्राह्मणहितार्थं च वर्णानां संकरेषु च ।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥३३॥

सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा ।
अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा ॥३४॥

सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम् ।
विहरन्मद्यपानाच्च अगम्यागमनादपि ॥३५॥

पतितैः सम्प्रयोगाच्च ब्राह्मणीयोनितस्तथा ।
अचिरेण महाराज पतितो वै भवत्युत ॥३६॥

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥३७॥

एतानि हित्वाऽतोऽन्यानि निर्देश्यानीति भारत ।
निर्देश्यानेन विधिना कालेनाव्यसनी भवेत् ॥३८॥

अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्यपातिते ।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ॥३९॥

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।
प्रायश्चित्तानि कुर्याच्च न तैरर्हन्ति संविदम् ॥४०॥

अधर्मकारी धर्मेण तपसा हन्ति किल्विषम् ।
ब्रुवंस्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ॥४१॥

अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ।
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती ॥४२॥

यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः ।
ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् ॥४३॥

वर्षाणां हि शतं तावत्प्रतिष्ठां नाधिगच्छति ।
सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् ॥४४॥

तस्मान्नैवावगर्ह्येत नैव जातु निपातयेत् ।
शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ॥४५॥

तावतीः स समा राजन् नरके प्रतिपद्यते ।
भ्रूणहाऽऽहवमध्ये तु शुद्ध्यते शस्त्रपाततः ॥४६॥

आत्मानं जुहुयादग्नौ समिद्धे तेन शुद्ध्यते ।
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥४७॥

तया स काये निर्दग्धे मृत्युं वा प्राप्य शुद्ध्यति ।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥४८॥

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः ।
स्त्र्याकारां प्रतिमां लिंग्य मृत्युना सोऽभिशुद्ध्यति ॥४९॥

अथवा शिश्नवृषणावादायाञ्जलिना स्वयम् ॥५०॥

नैर्ऋतीं दिशमास्थाय निपतेत्स त्वजिह्मगः ।
ब्राह्मणार्थेऽपि वा प्राणान् संत्यजेत्तेन शुद्ध्यति ॥५१॥

अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा ।
अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥५२॥

तथैव द्वादशसमाः कपाली ब्रह्महा भवेत् ।
ब्रह्मचारी भवेन्नित्यं स्वकर्म ख्यापयन्मुनिः ॥५३॥

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।
एवं तु समभिज्ञातामात्रेयीं वा निपातयेत् ॥५४॥

द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत् ।
सुरापो नियताहारो ब्रह्मचारी क्षितीशयः ॥५५॥

ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम् ।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥५६॥

वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशतं च गाः ।
शूद्रं हत्वाब्दमेवैकमृषभं च शतं च गाः ॥५७॥

श्ववराहस्वरान् हत्वा शौद्रमेव व्रतं चरेत् ।
मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम् ॥५८॥

उक्तः पशुसमो दोषो राजन्प्राणिनिपातनात् ।
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥५९॥

अल्पे वाऽप्यथ शोचेत पृथक् संवत्सरं चरेत् ।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥६०॥

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।
स्थानासनाभ्यां विहरेत्त्रिरह्नाभ्युपयन्नपः ।
एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥६१॥

त्यजत्यकारणे यश्च पितरं मातरं गुरुम् ।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥६२॥

ग्रासाच्छादनमात्रं तु दद्यादिति निदर्शनम् ।
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ।
यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम् ॥६३॥

श्रेयांसं शयनं हित्वा याऽन्यं पापं निगच्छति ।
श्वभिस्तामर्दयेद्राजा संस्थाने बहुविस्तरे ॥६४॥

पुमांसमुन्नयेत्प्राज्ञः शयने तप्त आयसे ।
अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥६५॥

एष दण्डो महाराज स्त्रीणां भर्तृष्वतिक्रमात् ।
संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥६६॥

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनि ।
कुचरः पञ्चवर्षाणि चरेद्भैक्ष्यं मुनिव्रतः ॥६७॥

परिवित्तिः परिवेत्ता या चैव परिविद्यते ।
पाणिग्रहास्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥६८॥

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥६९॥

परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये ।
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम् ।
एवं च मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥७०॥

अमानुषीषु गोवर्ज्यमनावृष्टिर्न दुष्यति ।
अधिष्ठात्रवमन्तारं पशूनां पुरुषं विदुः ॥७१॥

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् ।
चरेत्सप्तगृहान्नित्यं स्वकर्म परिकीर्तयन् ॥७२॥

तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुद्ध्यति ।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥७३॥

भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् ।
दानं वा दानशक्तेषु सर्वमेतत्प्रकल्पयेत् ॥७४॥

अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते ।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥७५॥

मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति ।
ब्राह्मणास्तु सुरापस्य गन्धमादाय सोमपः ॥७६॥

अपस्त्र्यहं पिबेदुष्णं त्र्यहमुष्णं पयः पिबेत् ।
त्र्यहमुष्णं पयः पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥७७॥

एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम् ।
ब्राह्मणस्य विशेषेण यदज्ञानेन सम्भवेत् ॥७८॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि प्रायश्चित्तीये पञ्चषष्ट्यधिकशततमोऽध्यायः ॥१६५॥
षट्षष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। कथान्तरमथासाद्य खड्गयुद्धविशारदः ।
नकुलः शरतल्पस्थमिदमाह पितामहम् ॥१॥

नकुल उवाच ।
धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह ।
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥२॥

विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु ।
खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥३॥

शरासनधरांश्चैव गदाशक्तिधरांस्तथा ।
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥४॥

अत्र मे संशयश्चैव कौतूहलमतीव च ।
किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धषु पार्थिव ॥५॥

कथं चोत्पादितः खड्गः कस्मै चार्थाय केन च ।
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥६॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।
स तु कौशल संयुक्तं सूक्ष्मचित्रार्थसम्मतम् ॥७॥

ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।
शिक्षया चोपपन्नाय द्रोणशिष्याय भारत ॥८॥

उवाच स तु धर्मज्ञो धनुर्वेदस्य पारगः ।
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥९॥

भीष्म उवाच। तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि ।
प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥१०॥

सलिलैकार्णवं तात पुरा सर्वमभूदिदम् ।
निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥११॥

तमसाऽऽवृतमस्पर्शमतिगम्भीरदर्शनम् ।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥१२॥

सोऽसृजद्वातमग्निं च भास्करं चापि वीर्यवान् ।
आकाशमसृजच्चोर्ध्वमधो भूमिं च नैर्ऋतीम् ॥१३॥

नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।
संवत्सरानृतून्मासान्पक्षानथ लवान् क्षणान् ॥१४॥

ततः शरीरं लोकस्थं स्थापयित्वा पितामहः ।
जनयामास भगवान् पुत्रानुत्तमतेजसः ॥१५॥

मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं ऋतुम् ।
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥१६॥

प्राचेतसस्तथा दक्षः कन्याषष्टिमजीजनत् ।
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥१७॥

ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥१८॥

पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः ।
तथा पक्षिगणाः सर्वे जलस्थलविचारिणः ॥१९॥

उद्भिदः स्वेदजाश्चैव साण्डजाश्च जरायुजाः ।
जज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥२०॥

भूतसर्गमिमं कृत्वा सर्वलोकपितामहः ।
शाश्वतं वेदपठितं धर्मं प्रयुयुजे ततः ॥२१॥

तस्मिन् धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।
आदित्या वसवो रुद्राः ससाध्या मरुदतश्विनः ॥२२॥

भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपाश्च तपोधनाः ।
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥२३॥

ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा ।
घृतपाः सोमवायव्या वैश्वानरमरीचिपाः ॥२४॥

अकृष्टाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः ।
वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥२५॥

दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥२६॥

हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।
शम्बरो विप्रचित्तिश्च विराधो नमुचिर्बलिः ॥२७॥

एते चान्ये च बहवः सगणा दैत्यदानवाः ।
धर्मसेतुमतिक्रम्य रेमिरे धर्मनिश्चयाः ॥२८॥

सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् ।
इत्येवं धर्ममास्थाय स्पर्धमानाः सुरर्षिभिः ॥२९॥

न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।
त्रीनुपायानुपाक्रम्य दण्डेन रुरुधुः प्रजाः ॥३०॥

न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ।
अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः ॥३१॥

तदा हिमवतः शृङ्गे सुरम्ये पद्मतारके ।
शतयोजनविस्तारे मणिरत्नचयाचिते ॥३२॥

तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने ।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥३३॥

ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।
विधिना कल्पदृष्टेन यथावच्चोपपादितम् ॥३४॥

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
समिद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः ॥३५॥

काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।
वृतं देवगणैश्चैव प्रवरैर्यज्ञमण्डलम् ॥३६॥

तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥३७॥

चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् ।
विकीर्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥३८॥

नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्र कृशोदरम् ।
प्रांशुं सुदुर्धर्षतरं तथैव ह्यमितौजसम् ॥३९॥

तस्मिन्नुतपतमाने च प्रचचाल वसुन्धरा ।
महोर्मिकलितावर्तश्चुक्षुभे स महोदधिः ॥४०॥

पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।
अप्रशान्ता दिशः सर्वाः पवनश्चाशिवो ववौ ॥४१॥

मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ।
ततः स तुमुलं दृष्ट्वा तं च भूतमुपस्थितम् ॥४२॥

महर्षिसुरगन्धर्वानुवाचेदं पितामहः ।
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ॥४३॥

रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ।
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥४४॥

विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ।
ततः स शितिकण्ठाय रुद्रायार्षभकेतवे ॥४५॥

ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम् ।
ततः स भगवान् रुद्रो महर्षिजनसंस्तुतः ॥४६॥

प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ।
चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि दिवाकरम् ॥४७॥

उर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ।
विकुर्वन् बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥४८॥

बिभ्रत्कृष्णाजिनं वासो हेम प्रवरतारकम् ।
नेत्रं चैकं ललाटेन भास्करप्रतिमं वहन् ॥४९॥

शुशुभातेऽतिविमले द्वे नेत्रे कृष्णपिङ्गले ।
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ॥५०॥

सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम् ।
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।
चचार विविधान्मार्गान्महाबलपराक्रमः ॥५१॥

विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया ।
तस्य नादं विनदतो महाहासं च मुञ्चतः ॥५२॥

बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ।
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया ॥५३॥

निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ।
अश्मभिश्चाभ्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ॥५४॥

घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयोमयैः ।
ततस्तु दानवानीकं सम्प्रणेतारमुच्यतम् ॥५५॥

रुद्रं दृष्ट्वा बलोद्भूतं प्रमुमोह चचाल च ।
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् ॥५६॥

तमेकमसुराः सर्वे सहस्रमिति मेनिरे ।
छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् पोथयन्नपि ॥५७॥

अचरद्वैरिसंघेषु दावाग्निरिव कक्षगः ।
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः ॥५८॥

सम्प्रकीर्णांत्रगात्राश्च पेतुरुर्व्यां महाबलाः ।
अपरे दानवा भग्नाः खड्गपातावपीडिताः ॥५९॥

अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे ।
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ॥६०॥

अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ।
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥६१॥

बभूव भूः प्रतिभया मांसशोणितकर्दमा ।
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः ॥६२॥

समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ।
स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत् ॥६३॥

रौद्रं रूपमथोत्क्षिप्य चक्रे रूपं शिवं शिवः ।
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ॥६४॥

जयेनाद्भुतकल्पेन देवदेवं तथाऽर्चयन् ।
ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् ॥६५॥

असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ।
विष्णुर्मरीचये प्रादान्मरीचिर्भगवानपि ॥६६॥

महर्षिभ्यो ददौ खड्गमृषयो वासवाय च ।
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रका ॥६७॥

मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ।
उचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः ॥६८॥

असिना धर्मगर्भेण पालयस्व प्रजा इति ।
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मात्मकारणात् ॥६९॥

विभज्य दण्डं रक्ष्यास्तु धर्मतो न यदृच्छया ।
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ॥७०॥

व्यङ्गता च शरीरस्य वधो वाऽनल्पकारणात् ।
असेरेतानि रूपाणि दुर्वारादीनि निर्दिशेत् ॥७१॥

असेरेवं प्रमाणानि परिपाल्य व्यतिक्रमात् ।
स विसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः ॥७२॥

मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ।
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ॥७३॥

आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ।
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ॥७४॥

अमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ।
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् ॥७५॥

तस्माल्लेभे च धर्मज्ञो राजन्नैलविलस्तथा ।
ततस्त्वैलविलाल्लेभे धुन्धुमारो नरेश्वरः ॥७६॥

धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ।
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ॥७७॥

रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ।
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ॥७८॥

हरिणाश्वादसिं लेभे शुनकः शुनकादपि ।
उशीनरो वै धर्मात्मा तस्माद्भोजः स यादवः ॥७९॥

यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ।
प्रतर्दनादष्टकश्च पृषदश्वोऽष्टकादपि ॥८०॥

पृषदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥८१॥

कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम् ।
रोहिणीं गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥८२॥

असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
पाण्डवेय सदा यानि कीर्तयन् लभते जयम् ॥८३॥

असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥८४॥

अग्न्यः प्रहरणानां च खड्गो माद्रवतीसुत ।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥८५॥

पृथुस्तूत्पादयामास धनुराद्यमरिन्दमः ।
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि ।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥८६॥

तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥८७॥

इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरात् ।
असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥८८॥

सर्वथैतदिदं श्रुत्वा खड्गसाधनमुत्तमम् ।
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥८९॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि खड्गोत्पत्तिकथने षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥
सप्तषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः ।
पप्रच्छावसथं गत्वा भ्रातॄन् विदुरपञ्चमान् ॥१॥

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान् कतमो मध्यमः को लघुश्च कः ॥२॥

कस्मिंश्चात्मा निधातव्यस्त्रिवर्गविजयाय वै ।
संहृष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥३॥

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥४॥

विदुर उवाच ।
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥५॥

एतदेवाभिपद्यस्व मा तेऽभूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हि मे ॥६॥

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा ववृधुर्धर्मे चार्थः समाहितः ॥७॥

धर्मो राजन् गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥८॥

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ।
तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि ॥९॥

वैशम्पायन उवाच। समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः ।
पार्थो धर्मार्थतत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥१०॥

अर्जुन उवाच ।
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥११॥

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
न ह्यृतेऽर्थेन वर्तेत धर्मकामाविति श्रुतिः ॥१२॥

विषयैरर्थवान् धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥१३॥

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः ॥१४॥

तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥१५॥

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यार्थार्थिनः पृथक् ॥१६॥

काषायवसनाश्चान्ये श्मश्रुला ह्रीनिषेविणः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥१७॥

अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वं स्वं धर्ममनुष्ठिताः ॥१८॥

आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥१९॥

भृत्यान् भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥२०॥

वैशम्पायन उवाच। ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥२१॥

नकुलसहदेवावूचतुः ।
आसीनश्च शयानश्च विचरन्नपि वा स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥२२॥

अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥२३॥

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
तद्धित्वाऽमृतसंवादं तस्मादेतौ मताविह ॥२४॥

अनर्थस्य न कामोऽस्ति तथाऽर्थोऽधर्मिणः कुतः ।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥२५॥

तस्माद्धर्मप्रदानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥२६॥

धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थः स हि तत्परम् ॥२७॥

वैशम्पायन उवाच। विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥२८॥

भीमसेन उवाच ।
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
कामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥२९॥

कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशफलमूलादा वायुभक्षाः सुसंयताः ॥३०॥

वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥३१॥

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥३२॥

समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥३३॥

नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।
एतत्सारं महाराज धर्मार्थावत्र संस्थितौ ॥३४॥

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं हि पिण्याकाद्घृतं श्रेय उदश्वितः ।
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः ॥३५॥

पुष्पतो मध्विव रसः काम आभ्यां तथा स्मृतः ।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥३६॥

नाकामतो ब्राह्मणाः स्वन्नमर्थान्नाकमतो ददति ब्राह्मणेभ्यः ।
नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥३७॥

सुचारुवेषाभिरलंकृताभिर्मदोत्कटाभिः प्रियदर्शनाभिः ।
रमस्व योषाभिरुपेत्य कामं कामो हि राजन्परमो भवेन्नः ॥३८॥

बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र ।
स्यात्संहितं सद्भिरफल्गुसारं ममेति वाक्यं परमानृशंसम् ॥३९॥

धर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः ।
तयोस्तु दाक्ष्यं प्रवदन्ति मध्यं स उत्तमो योऽभिरतस्त्रिवर्गे ॥४०॥

प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।
ततो वचः संग्रहविस्तरेण प्रोक्त्वाथ वीरान् विरराम भीमः ॥४१॥

ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् ।
उवाच वाचा वितथं स्मयन्वै लब्धश्रुतां धर्मभृतां वरिष्ठः ॥४२॥

युधिष्ठिर उवाच। निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।
इदं त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥४३॥

यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समलोष्टकाञ्चनो विमुच्यते दुःखसुखार्थसिद्धेः ॥४४॥

भूतानि जातिस्मरणात्मकानि जराविकारैश्च समन्वितानि ।
भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥४५॥

स्नेहेन युक्तस्य न चास्ति मुक्तिरिति स्वयम्भूर्भगवानुवाच ।
बुधाश्च निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥४६॥

एतत्प्रधानं च न कामकारो यथा नियुक्तोऽस्मि तथा करोमि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥४७॥

न कर्मणाऽऽप्नोत्यनवाप्यमर्थे यद्भावि तद्वै भवतीति वित्त ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादहो लोकहिताय गुह्यम् ॥४८॥

वैशम्पायन उवाच। ततस्तदग्र्यं वचनं मनोनुगं समस्तमाज्ञाय ततो हि हेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥४९॥

सुचारुवर्णाक्षरचारुभूषितां मनोनुगां निर्धुतवाक्यकण्टकाम् ।
निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते ॥५०॥

स चापि तान् धर्मसुतो महामनास्तदा प्रतीतान्प्रशशंस वीर्यवान् ।
पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनचेतसम् ॥५१॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षड्जगीतायां सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥
अष्टषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन ।
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥१॥

कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् ।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥२॥

न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः ।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥३॥

दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥४॥

भीष्म उवाच। सन्धेयान् पुरुषान् राजन्नसन्धेयांश्च तत्त्वतः ।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥५॥

लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च ।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥६॥

दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्षकः ।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥७॥

सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।
सम्प्रकीर्णेन्द्रियो लोके यः कामं निरतश्चरेत् ॥८॥

असत्यो लोकविद्विष्टः समये चानवस्थितः ।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥९॥

दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।
मित्रैरपकृतिर्नित्यमिच्छतेऽर्थं परस्य यः ॥१०॥

ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नरर्षभ ॥११॥

अस्थानक्रोधनोऽयुक्तो यश्चाकस्माद्विरुध्यते ।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥१२॥

अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च ।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप ॥१३॥

शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोचनः ।
न विरज्यति कल्याणे यः कुर्यात्तादृशं नरम् ॥१४॥

पानपो द्वेषणः क्रोधी निर्घृणः परुषस्तथा ।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥१५॥

कृतघ्नश्चाधमो लोके न सन्धेयः कदाचन ।
छिद्रान्वेषी ह्यसन्धेयः सन्धेयानपि मे शृणु ॥१६॥

कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः ।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥१७॥

सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः ।
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः ॥१८॥

व्यायामशीलाः सततं कुलपुत्राः कुलोद्वहाः ।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥१९॥

यथाशक्ति समाचाराः सम्प्रतुष्यन्ति हि प्रभो ।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ।
विरक्तश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः ॥२०॥

आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः ।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥२१॥

क्रोधाच्च लोभमोहाभ्यां नानर्थे युवतीषु च ।
न दर्शयन्ति सुहृदो विश्वस्ता धर्मवत्सलाः ॥२२॥

लोष्ठकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः ।
ये चरन्त्यभिमानानि सृष्टार्थमनुषङ्गिणः ॥२३॥

संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ।
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः ॥२४॥

तस्य विस्तीर्यते राज्यं ज्योत्स्नाग्रहपतेरिव ।
शास्त्रनित्या जितक्रोधा बलवन्तो रणे सदा ॥२५॥

जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः ।
ये च दोषसमायुक्ता नराः प्रोक्ता मयाऽनघ ॥२६॥

तेषामप्यधमा राजन् कृतघ्ना मित्रघातकाः ।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः ॥२७॥

युधिष्ठिर उवाच। विस्तरेणाथ सम्बन्धं श्रोतुमिच्छामि तत्त्वतः ।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तद्वदस्व मे ॥२८॥

भीष्म उवाच। हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥२९॥

ब्राह्मणो मध्यदेशीयः कश्चिद्वै ब्रह्मवर्जितः ।
ग्रामं वृद्धियुतं वीक्ष्य प्राविशद्भैक्ष्यकासया ॥३०॥

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥३१॥

तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥३२॥

प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् ।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा ॥३३॥

एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तथा ।
तस्मिन् गृहवरे राजंस्तया रेमे स गौतमः ॥३४॥

कुटुम्बार्थं च दास्याश्च साहाय्यं चाप्यथाकरोत् ।
तत्रावसत्स वर्षांश्च समृद्धे शबरालये ॥३५॥

बाणवेधे परं यत्नमकरोच्चैव गौतमः ।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् ॥३६॥

जघान गौतमो राजन् यथा दस्युगणास्तथा ।
हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः ॥३७॥

गौतमः सन्निकर्षेण दस्युभिः समतामियात् ।
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ॥३८॥

अगमन्बहवो मासा निघ्नतः पक्षिणो बहून् ।
ततः कदाचिदपरो द्विजस्तं देशमागतः ॥३९॥

जटाचीराजिनधरः स्वाध्यायपरमः शुचिः ।
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः ॥४०॥

स ब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियः ।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽवसत् ॥४१॥

स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः ।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतोदिशम् ॥४२॥

ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।
गौतमश्चापि सम्प्राप्तस्तावन्योन्येन संगतौ ॥४३॥

चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम् ।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥४४॥

तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् ।
अभिज्ञाय द्विजो व्रीडत्रिदं वाक्यमथाब्रवीत् ॥४५॥

किमिदं कुरुषे मोहाद्विप्रस्त्वं हि कुलोद्वहः ।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥४६॥

पूर्वान् स्मर द्विज ज्ञातीन् प्रख्यातान्वेदपारगान् ।
तेषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥४७॥

अवबुध्यात्मनाऽऽत्मानं स त्वं शीलं श्रुतं दमम् ।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥४८॥

स एवमुक्तः सुहृदा तेन तत्र हितैषिणा ।
प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत् ॥४९॥

निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम् ।
वित्तार्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम ॥५०॥

त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज ।
आवां हि सह यास्यावः श्वो वसस्वाद्य शर्वरीम् ॥५१॥

स तत्र न्यवसद्विप्रो घृणी किञ्चिदसंस्पृशन् ।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत ॥५२॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥
एकोनसप्तत्यधिकशततमोऽध्यायः

भीष्म उवाच। तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे ।
निष्क्रम्य गौतमोऽगच्छत् समुद्रं प्रति भारत ॥१॥

सामुद्रिकान्सवणिजस्ततोऽपश्यत् स्थितान् पथि ।
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥२॥

स तु सार्थो महान् राजन् कस्मिंश्चिद्गिरिगह्वरे ।
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥३॥

स कथंचिद्भयात्तस्माद्विमुक्तो ब्राह्मणस्तथा ।
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥४॥

स तु सार्थपरिभ्रष्टस्तस्माद्देशात् तथा च्युतः ।
एकाकी व्यचरत्तत्र वने किंपुरुषो यथा ॥५॥

स पन्थानमथासाद्य समुद्राभिसरं तदा ।
आससाद वनं रम्यं दिव्यं पुष्पितपादपम् ॥६॥

सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम् ।
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् ॥७॥

शालैस्तालैस्तमालैश्च कालागुरुवनैस्तथा ।
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ।
गिरिप्रस्थेषु रम्येषु तेषु तेषु सुगन्धिषु ॥८॥

समन्ततो द्विजश्रेष्ठास्तत्राकूजन्त वै तदा ।
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ॥९॥

भूलिङ्गशकुनाश्चान्ये सामुद्राः पर्वतोद्भवाः ।
स तान्यतिमनोज्ञानि विहगानां रुतानि वै ॥१०॥

शृण्वन् सुरमणीयानि विप्रोऽगच्छत गौतमः ।
ततोऽपश्यत्सुरम्येषु सुवर्णसिकताचिते ॥११॥

देशे समे सुखे चित्रे स्वर्णोद्देशसमे नृप ।
श्रिया जुष्टं महावृक्षं न्यग्रोधं च सुमण्डलम् ॥१२॥

शाखाभिरनुरूपाभिर्भूयिष्ठं क्षत्रसन्निभम् ।
तस्य मूलं च संसिक्तं वरचन्दनवारिणा ॥१३॥

दिव्यपुष्पान्वितं श्रीमत्पितामहसभोपमम् ।
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम् ॥१४॥

मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥१५॥

तत्रासीनस्य कौन्तेय गौतमस्य सुखः शिवः ।
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः ।
ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप ॥१६॥

स तु विप्रः प्रशान्तश्च स्पृष्टः पुण्येन वायुना ।
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात् ॥१७॥

ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते ।
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥१८॥

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।
बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ॥१९॥

राजधर्मेऽतिविख्यातो बभूवाप्रतिमो भुवि ।
देवकन्यासुतः श्रीमान् विद्वान्देवसमप्रभः ॥२०॥

मृष्टाभरणसम्पन्नो भूषणैरर्कसन्निभैः ।
षितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥२१॥

तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् ।
क्षुत्पिपासापरिश्रान्तो हिंसार्थी चाभ्यवेक्षत ॥२२॥

राजधर्मोवाच ।
स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् ।
अस्तं च सविता यातः सन्ध्येयं समुपस्थिता ॥२३॥

मम त्वं निलय प्राप्तः प्रियातिथिरनिन्दितः ।
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥२४॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने एकोनसप्तत्यधिकशततमोऽध्यायः ॥१६९॥
सप्तत्यधिकशततमोऽध्यायः

भीष्म उवाच। गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।
कौतूहलान्वितो राजन् राजधर्माणमैक्षत ॥१॥

राजधर्मोवाच ।
भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे ।
अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजोत्तम ॥२॥

भीष्म उवाच। तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।
शालपुष्पमयीं दिव्यां बृसीं वै समकल्पयत् ॥३॥

भगीरथरथाक्रान्तदेशान् गङ्गानिषेवितान् ।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥४॥

वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान् ।
स गौतमायातिथये न्यवेदयत काश्यपिः ॥५॥

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महातपाः ।
क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥६॥

ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत ।
सोऽब्रवीद्गौतमोऽस्मीति ब्रह्म नान्यदुदाहरत् ॥७॥

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥८॥

अथोपविष्टं शयने गौतमं धर्मराट् तदा ।
पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् ॥९॥

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥१०॥

तं काश्यपोऽबवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि ।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥११॥

चतुर्विधा ह्यर्थसिद्धिर्बृहस्पतिमतं यथा ।
पारम्पर्यं तथा दैवं काम्यं मैत्रमिति प्रभो ॥१२॥

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि ।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥१३॥

ततः प्रभातसमये सुखं दृष्ट्वाऽब्रवीदिदम् ।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि ॥१४॥

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।
विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥१५॥

तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः ।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥१६॥

इत्युक्तः प्रययौ राजन् गौतमो विगतक्लमः ।
फलान्यमृतकल्पानि भक्षयन् स यथेष्टतः ॥१७॥

चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च ।
तस्मिन् पथि महाराज सेवमानो द्रुतं ययौ ॥१८॥

ततो मेरुव्रजं नाम नगरं शैलतोरणम् ।
शैलप्राकारवप्रं च शैलयन्त्राकुलं तथा ॥१९॥

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।
प्रहितः सुहृदा राजन् प्रीयमाणः प्रियातिथिः ॥२०॥

ततः स राक्षसेन्द्रः स्वान् प्रेष्यानाह युधिष्ठिर ।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥२१॥

ततः पुरवरात्तस्मात्पुरुषाः श्येनचेष्टनाः ।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥२२॥

ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम् ।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥२३॥

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥२४॥

ततः स प्राद्रवद्विप्रो विस्मयाद्विगलक्लमः ।
गौतमः परमर्धिं तां पश्यन् परमविस्मितः ॥२५॥

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने सप्तत्यधिकशततमोऽध्यायः ॥१७०॥
एकसप्तत्यधिकशततमोऽध्यायः

भीष्म उवाच। ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥१॥

पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।
न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥२॥

ब्रह्मवर्चसहीनस्य स्वाध्यायोपरतस्य च ।
गोत्रमात्रविदो राजा निवासं समपृच्छत ॥३॥

राक्षस उवाच ।
क्वते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते ।
तत्त्वं ब्रूहि न भीः कार्या विश्वसस्व यथासुखम् ॥४॥

गौतम उवाच ।
मध्यदेशप्रसूतोऽहं वासो मे शबरालये ।
शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥५॥

भीष्म उवाच। ततो राजा विममृशे कथं कार्यमिदं भवेत् ।
कथं वा सुकृतं मे स्यादिति बुद्ध्याऽन्वचिन्तयत् ॥६॥

अयं वै जन्मना विप्रः सुहृत्तस्य महात्मनः ।
सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥७॥

तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।
भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः ॥८॥

कार्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।
तत्रायमपि भोक्ता च देयमस्मै च मे धनम् ॥९॥

स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः ।
संकल्पितं चैव धनं किं विचार्यमतः परम् ॥१०॥

ततः सहस्रं विप्राणां विदुषां समलंकृतम् ।
स्नातानामनुसम्प्राप्तं सुमहत्क्षौमवाससाम् ॥११॥

तानागतान् द्विजश्रेष्ठान् विरूपाक्षो विशाम्पते ।
यथार्ह प्रतिजग्राह विधिदृष्टेन कर्मणा ॥१२॥

बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुशाः स्तीर्णाः प्रेष्यैर्भरतसत्तम॥१३॥

तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।
तिलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः ॥१४॥

विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः ।
विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः ॥१५॥

व्यराजन्त महाराज नक्षत्रपतयो यथा ।
ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः ॥१६॥

वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः ।
तस्य नित्यं सदाऽऽषाढ्यां माध्यां च बहवो द्विजाः ॥१७॥

ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ।
विशेषतस्तु कार्तिक्यां द्विजेभ्यः सम्प्रयच्छति ॥१८॥

शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ।
सुवर्णं रजतं चैव मणीनथ च मौक्तिकान् ॥१९॥

वज्रान्महाधनांश्चैव वैदूर्याजिनराङ्कवान् ।
रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत ॥२०॥

ततः प्राह द्विजश्रेष्ठान् विरूपाक्षो महाबलः ।
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः ॥२१॥

येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ।
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥२२॥

इत्युक्तवचने तस्मिन् राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥२३॥

ततो महार्हास्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म ततोऽभवन् ॥२४॥

ततस्तान् राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।
नानादेशगतान् राजन् राक्षसान् प्रतिषिध्य वै ॥२५॥

अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥२६॥

ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥२७॥

कृच्छ्रात्समुद्धरन् भारं न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः ॥२८॥

ततस्तमभ्यगाद्राजन् राजधर्मा खगोत्तमः ।
स्वागतेनाभिनन्दंश्च गौतमं मित्रवत्सलः ॥२९॥

तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः ।
पूजां चाप्यकरोद्धीमान् भोजनं चाप्यकल्पयत् ॥३०॥

स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥३१॥

गृहीतो लोभमोहाभ्यां दूरं च गमनं मम ।
न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम ॥३२॥

किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ।
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन ॥३३॥

कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ।
अयं बकपतिः पार्श्वे मांसराशिः स्थितो महान् ।
इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥३४॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने एकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥
द्विसप्तत्यधिकशततमोऽध्यायः

भीष्म उवाच। अथ तत्र महार्चिष्माननलो वातसारथिः ।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥१॥

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा ।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरथाग्रतः ॥२॥

ततोऽलातेन दीप्तेन निःश्वस्तं निजघान तम् ।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥३॥

स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा ।
तं गृहीत्वा सुवर्णं व ययौ द्रुततरं द्विजः ॥४॥

ततोऽन्यस्मिन् गते चाह्नि विरुपाक्षोऽब्रवीत्सुतम् ।
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ॥५॥

स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।
मां वा दृष्ट्वा कदाचित्स न गच्छति गृहं खगः ॥६॥

उभे द्विरात्रिसंध्ये वै नाभ्यगात्स ममालयम् ।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत् ॥७॥

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।
तद्व्रतस्तत्र मे शंका हन्यात्तं स द्विजाधमः ॥८॥

दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।
निष्कृतो दारुणाकारो दुष्टो दस्युरिवाधमः ॥९॥

गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ।
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ॥१०॥

ज्ञायतां स विशुद्धात्मा यदि जीवति मा चिरम् ।
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ॥११॥

न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः ।
स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः ॥१२॥

त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ।
ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा ॥१३॥

राजधर्मशरीरं च पक्षास्थि चरणोज्झितम् ।
तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः ॥१४॥

राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः ।
कृतघ्नं परुषं तं च गौतमं पापकारिणम् ॥१५॥

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः ।
आर्तनादश्च सुमहानभूत्तस्य निवेशने ॥१६॥

सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् ।
अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति ॥१७॥

अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः ।
पापाचारः पापकर्मा पापात्मा पापसाधनः ॥१८॥

हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ।
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः ॥१९॥

नैच्छन्त तं भक्षयितुं पापकर्माणमित्युत ।
दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः ॥२०॥

इत्यूचुस्ते महाराज राक्षसेन्द्रं निशाचराः ।
शिरोभिः प्रणताः सर्वे व्याहरन् राक्षसाधिपम् ॥२१॥

न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ।
एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् ॥२२॥

दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ।
इत्युक्ता राक्षसास्तेन शूलपट्टिशपाणयः ॥२३॥

कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ।
दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् ।
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते ॥२४॥

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ।
निष्कृतिर्विहिता राजन् कृतघ्ने नास्ति निष्कृतिः ॥२५॥

मित्रद्रोही कृतघ्नश्च नृशंसश्च नराधमः ।
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने द्विसप्तत्यधिकशततमोऽध्यायः ॥१७२॥
त्रिसप्तत्यधिकशततमोऽध्यायः

भीष्म उवाच। ततश्चितां बकपतेः कारयामास राक्षसः ।
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् ॥१॥

ततः प्रज्वाल्य नृपतिर्बकराज प्रतापवान् ।
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥२॥

तस्मिन्काले च सुरभिर्देवी दाक्षायणी शुभा ।
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥३॥

तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदाऽनघ ।
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥४॥

ततः संजीवितस्तेन बकराजस्तदाऽनघ ।
उत्पत्य च समीयाय विरूपाक्षं बकाधिपः ॥५॥

ततोऽभ्यगाद्देवराजो विरूपाक्षपुरं तदा ।
प्राह चेदं विरूपाक्षं दिष्ट्या संजीवितस्त्वया ॥६॥

श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् ।
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥७॥

यदा बकपती राजन् ब्रह्माणं नोपसर्पति ।
ततो रोषादिदं प्राह खगेन्द्राय पितामहः ॥८॥

यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः ।
तस्माद्वधं स दुष्टात्मा न चिरात्समवाप्स्यति ॥९॥

तदयं तस्य वचनान्निहतो गौतमेन वै ।
तेनैवामृतसिक्तश्च पुनः सञ्जीवितो बकः ॥१०॥

राजधर्मा बकः प्राह प्रणिपत्य पुरन्दरम् ।
यदि तेऽनुग्रहकृता मयि बुद्धिः सुरेश्वर ॥११॥

सखायं मे सुदयितं गौतमं जीवयेत्युत ।
तस्य वाक्यं समादाय वासवः पुरुषर्षभ ॥१२॥

सिक्त्वाऽमृतेन तं विप्रं गौतमं जीवयत्तदा ।
सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः ॥१३॥

सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः ।
अथ तं पापकर्माणं राजधर्मा बकाधिपः ॥१४॥

विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ।
यथोचितं च स बको ययौ ब्रह्मसदस्तथा ॥१५॥

ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत् ।
गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम् ।
शूद्रायां जनयामास पुत्रान् दुष्कृतकारिणः ॥१६॥

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा ।
कुक्षौ पुनर्भ्वाः पापोऽयं जनयित्वा चिरात्सुतान् ॥१७॥

निरयं प्राप्स्यति महत् कृतघ्नोऽयमिति प्रभो ।
एतत्प्राह पुरा सर्वं नारदो मम भारत ॥१८॥

संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ ।
मयाऽपि भवते सर्वं यथावदनुवर्णितम् ॥१९॥

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥२०॥

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।
मित्रध्रुङ्नरकं घोरमनन्तं प्रतिपद्यते ॥२१॥

कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह ।
मित्राच्च लभते सर्वं मित्रात्पूजां लभेत च ॥२२॥

मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते ।
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥२३॥

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः ।
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥२४॥

एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव ।
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥२५॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना ।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥२६॥

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥
॥समाप्तं चापद्धर्मपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in