युधिष्ठिर उवाच।
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ
।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥१॥
सर्वत्रेति ॥१॥
तदिच्छामि परां श्रोतुं बुद्धिं ते भरतर्षभ
।
यथा राजा न मुह्येत शत्रुभिः परिवारितः ॥२॥
धर्मार्थकुशलो राजा धर्मशास्त्रविशारदः
।
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ॥३॥
शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः
।
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ॥४॥
विषमस्थं हि राजानं शत्रवः परिपन्थिनः
।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥५॥
उद्धर्तुमुन्मूलयितुम् ॥५॥
सर्वत्र प्रार्थ्यमानेन दुर्बलेन महाबलैः
।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम् ॥६॥
सर्वत्र सर्वदिक्स्थैः प्रार्थ्यमानेन ग्रसितुमिति शेषः ॥६॥
कथं मित्रमरिं चापि विन्दते भरतर्षभ
।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥७॥
प्रज्ञातलक्षणे मित्रे तयैवामित्रतां गते
।
कथं तु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत् ॥८॥
विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत्
।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि ॥९॥
प्राकृतकृत्रिममित्रयोर्मध्ये केन सन्धिः कर्तव्यः केन वा वैरम् ॥९॥
एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप
।
नैतस्य कश्चिद्वक्तास्ति श्रोता वापि सुदुर्लभः ॥१०॥
ऋते शान्तनवाद्भीष्मात् सत्यसंधाज्जितेन्द्रियात्
।
तदन्विष्य महाभाग सर्वमेतद्वदस्व मे ॥११॥
भीष्म उवाच।
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर सुखोदयः
।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥१२॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति
।
सामर्थ्ययोगात्कार्याणामनित्या वै सदा गतिः ॥१३॥
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्
।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥१४॥
संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः
।
अमित्रैरपि सन्धेयं प्राणा रक्ष्या हि भारत ॥१५॥
व्यवस्य निश्चित्य ॥१५॥
यो ह्यमित्रैर्नरो नित्यं न सन्दध्यादपण्डितः
।
न सोऽर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत ॥१६॥
यस्त्वमित्रेण सन्दध्यान्मित्रेण च विरुद्ध्यते
।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥१७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च ॥१८॥
अत्र पूर्वश्लोकोक्तेऽर्थे ॥१८॥
वनो महति कस्मिंश्चिन्यग्रोधः सुमहानभूत्
।
लताजालपरिच्छिन्नो नानाद्विजगणान्वितः ॥१९॥
स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः
।
अरण्यमभितो जातः स तु व्यालमृगाकुलः ॥२०॥
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्
।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः ॥२१॥
शाखां तस्य समाश्रित्य वसति स्म सुखं पुरा
।
लोमशो नाम मार्जारः पक्षिसंघातखादकः ॥२२॥
तत्र चागत्य चाण्डालो शरण्ये कृतकेतनः
।
प्रयोजयति चोन्माथं नित्यमस्तंगते रवौ ॥२३॥
'उन्माथं' कूटयन्त्रं पशुमृगपक्षिबन्धनम् ॥२३॥
तत्र स्नायुमयान् पाशान् यथावत्संविधाय सः
।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥२४॥
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
।
कदाचिदत्र मार्जारस्त्वप्रमत्तो व्यबध्यत ॥२५॥
तस्मिन् बधे महाप्राणे शत्रौ नित्याततायिनि
।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः ॥२६॥
पलितो मूषिकः ॥२६॥
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा
।
भक्ष्यं मृगयमाणेन चिराद्दृष्टं तदामिषम् ॥२७॥
स तमुन्माथमारुह्य तदामिषमभक्षयत् ॥२८॥
तदामिषं तस्य उन्माथे धृतमामिषम् ॥२८॥
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्
।
आमिषे तु प्रसक्तः स कदाचिदवलोकयन् ॥२९॥
सपत्नस्य सपत्नं बद्धम् अनादृत्य ॥२९॥
अपश्यदपरं घोरमात्मनः शत्रुमागतम्
।
शरप्रसूनसङ्काशं महीविवरशायिनम् ॥३०॥
शरस्तृणविशेषस्तत्प्रसूनं पुष्पम् ॥३०॥
नकुलं हरिणं नाम चपलं ताम्रलोचनम्
।
तेन मूषिकगन्धेन त्वरमाणमुपागतम् ॥३१॥
भक्ष्यार्थं संलिहानं तं भूमावूर्ध्वमुखं स्थितम्
।
शाखागतमरिं चान्यमपश्यत्कोटरालयम् ॥३२॥
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम्
।
गतस्य विषयं तत्र नकुलोलूकयोस्तथा ॥३३॥
अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम्
।
आपद्यस्यां सुकशयां मरणे प्रत्युपस्थिते ॥३४॥
समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा
।
स तथा सर्वतो रुद्धः सर्वत्र भयदर्शनः ॥३५॥
अभवद्भयसंतप्तश्चक्रे च परमां मतिम्
।
आपद्विनाशभूयिष्ठं गतैः कार्यं हि जीवितम् ॥३६॥
गतैः आपद्गतैः जीवितम् आपद्विनाशेन भूयिष्ठं प्रशस्तं कार्यम् ॥३६॥
समन्तात्संशयात्सैषा तस्मादापदुपस्थिता
।
गतं मा सहसा भूमिं नकुलो भक्षयिष्यति ॥३७॥
स्पष्टोऽध्यायशेषः ॥३७॥
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात्
।
न त्वेवास्मद्विधः प्राज्ञः सम्मोहं गन्तुमर्हति ॥३८॥
करिष्ये जीविते यत्नं यावद्युक्त्या प्रतिग्रहात्
।
न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः ॥३९॥
निमज्जत्यापदं प्राप्य महतीं दारुणामपि ॥४०॥
न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम्
।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया ॥४१॥
जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः
।
तस्मादेनमहं शत्रु मार्जारं संश्रयामि वै ॥४२॥
नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये
।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥४३॥
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः
।
मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ॥४४॥
कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह
।
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः ॥४५॥
कार्य इत्याहुराचार्या विषमे जीवितार्थिना
।
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः ॥४६॥
मम त्वमित्रे माजरि जीवितं सम्प्रतिष्ठितम्
।
हन्तास्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे ॥४७॥
अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत्
।
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम् ॥४८॥
ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्
।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत् ॥४९॥
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसि
।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥५०॥
न ते सौम्य भयं कार्यं जीविष्यसि यथासुखम्
।
अहं त्वामुद्धरिष्यामि यदि मां न जिघांससि ॥५१॥
अस्मि कश्चिदुपायोऽत्र दुष्करः प्रतिभाति मे
।
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयस्तथा मया ॥५२॥
मयाप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः
।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥५३॥
इदं हि नकुलोलूकं पापबुद्ध्याभिसंस्थितम्
।
न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् ॥५४॥
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते
।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे ॥५५॥
सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः
।
सांवास्यकं करिष्यामि नास्ति ते भयमद्य वै ॥५६॥
न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना
।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि ॥५७॥
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः
।
चिरोषितावुभावावां वृक्षेऽस्मिन् विदितं च ते ॥५८॥
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित्
।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ ॥५९॥
तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ
।
कालातीतमिहार्थं तु न प्रशंसन्ति पण्डिताः ॥६०॥
अर्थयुक्तिमिमां तत्र यथाभूतां निशामय
।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥६१॥
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्
।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥६२॥
ईदृशो नौ समायोगो भविष्यति सुविस्तरः
।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि ॥६३॥
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम्
।
हेतुमद्ग्रहणीयं च कालापेक्षी न्यवेक्ष्य च ॥६४॥
अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः
।
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥६५॥
बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन्
।
स्वामवस्थां समीक्ष्याथ साम्नैव प्रत्यपूजयत् ॥६६॥
ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः
।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ॥६७॥
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि
।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥६८॥
अहं हि भृशमापन्नस्त्वमापनतरो मम
।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च ॥६९॥
विधास्ये प्राप्तकालं यत्कार्यं सिद्धिकरं विभो
।
मयि कृच्छ्राद्विनिर्मुक्ते न विनंक्ष्यति ते कृतम् ॥७०॥
न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा
।
निदेशवशवर्ती च भवन्तं शरणं गतः ॥७१॥
इत्येवमुक्तः पलितो मार्जारं वशमागतम्
।
वाक्यं हितमुवाचेदमभिनीतार्थमर्थवित् ॥७२॥
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे
।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥७३॥
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम्
।
त्रायस्व भो मावधीस्त्वं शक्तोऽस्मि तव रक्षणे ॥७४॥
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्
।
अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे ॥७५॥
तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत्
।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥७६॥
तं सम्पूज्याथ पलितं मार्जारः सौहृदे स्थितः
।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च ॥७७॥
शीघ्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा
।
तव प्राज्ञ प्रसादाद्धि प्रायः प्राप्स्यामि जीवितम् ॥७८॥
यद्यदेवं गते नाथ शक्यं कर्तुं मया तव
।
तदाज्ञापय कर्ताऽस्मि सन्धिरेवास्तु नौ सखे ॥७९॥
अस्मात्तु संकटान्मुक्तः समित्रगणबान्धवः
।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च ॥८०॥
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते
।
प्रीतिमुत्पादयेयं च प्रीतिकर्तुश्च सत्क्रियाम् ॥८१॥
प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः
।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः ॥८२॥
भीष्म उवाच।
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा
।
प्रविवेश तु विश्रम्य क्रोडमस्य कृतागसः ॥८३॥
एवमाश्वासितो विद्वान्मार्जरेण स मूषिकः
।
मार्जारोरसि विस्त्रब्धः सुष्वाप पितृमातृवत् ॥८४॥
लीनं तु तस्य गात्रेषु मार्जारस्य च मूषिकम्
।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम् ॥८५॥
तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ
।
दृष्ट्वा तयोः परां प्रीति विस्मयं परमं गतौ ॥८६॥
बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ
।
अशक्तौ तु नयात्तस्मात्सम्प्रधर्षयितुं बलात् ॥८७॥
कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषिकौ
।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् ॥८८॥
लीनः स तस्य गात्रेषु पलितो देशकालवित्
।
चिच्छेद पाशान्नृपते कालापेक्षी शनैः शनैः ॥८९॥
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम्
।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥९०॥
तमत्वरन्तं पलितं पाशानां छेदने तथा
।
संचोदयितुमारेभे मार्जारो मूषिकं तदा ॥९१॥
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे
।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति च ॥९२॥
इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत्
।
मार्जारमकृतप्रज्ञं पथ्यमात्महितं वचः ॥९३॥
तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः
।
वयमेवात्र कालज्ञा न कालः परिहास्यते ॥९४॥
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते
।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥९५॥
अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत्
।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥९६॥
यदा पश्यामि चाण्डालमायान्तं शस्त्रपाणिनम्
।
ततश्छेत्स्यामि ते पाशान् प्राप्ते साधारणे भये ॥९७॥
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे
।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥९८॥
ततो भवत्यपक्रान्ते त्रस्ते भीते च लोमश
।
अहं बिलं प्रवेक्ष्यामि भवान् शाखां भजिष्यति ॥९९॥
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम्
।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥१००॥
अथात्मकृत्ये त्वरितः सम्यक् प्रश्रितमाचरन्
।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणम् ॥१०१॥
न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः
।
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ॥१०२॥
तथा हि त्वरमाणेन त्वया कार्यं हितं मम्
।
यत्नं कुरु महाप्राज्ञ यथा रक्षाऽऽवयोर्भवेत् ॥१०३॥
अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि
।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुः क्षयं तव ॥१०४॥
यदि किंचिन्मयाज्ञानात्पुरस्ताद्दुष्कृतं कृतम्
।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे ॥१०५॥
तमेवंवादिनः प्राज्ञः शास्त्रबुद्धिसमन्वितः
।
उवाचेदं वचः श्रेष्ठं मार्जार मूषिकस्तदा ॥१०६॥
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः
।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः ॥१०७॥
यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम्
।
सुरक्षितव्यं तत्कार्यं पाणिः सर्पमुखादिव ॥१०८॥
कृत्वा बलवता संधिमात्मनं यो न रक्षति
।
अपथ्यमिव तद्भुक्तं तस्य नार्थाय कल्पते ॥१०९॥
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत्
।
अर्थतस्तु निबद्ध्यन्ते मित्राणि रिपवस्तथा ॥११०॥
अर्थैरर्था निबद्ध्यन्ते गजैर्वनगजा इव
।
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते ॥१११॥
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्
।
तस्मिन् कालेऽपि च भवान् दिवाकीर्तिभयार्दितः ॥११२॥
मम न ग्रहणे शक्तः पलायनपरायणः
।
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ॥११३॥
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश
।
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ॥११४॥
क्षयं जगाम सा रात्रिर्लोमशं त्वाविशद्भयम्
।
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः ॥११५॥
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः
।
शंकुकर्णो महावक्त्रो मलिनो घोरदर्शनः ॥११६॥
परिघो नाम चाण्डालः शस्त्रपाणिरदृश्यत
।
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ॥११७॥
उवाच वचनं भीतः किमिदानीं करिष्यसि
।
अथ तावपि संत्रस्तौ तं दृष्ट्वा घोरसंकुलम् ॥११८॥
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः
।
बलिनौ मतिमन्तौ च संघाते चाप्युपागतौ ॥११९॥
अशक्तौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात्
।
कार्यार्थे कृतसंधानौ दृष्ट्वा मार्जारमूषिकौ ॥१२०॥
उलूकनकुलौ तत्र जग्मतुः स्वं स्वमालयम्
।
ततश्चिच्छेद तं पाशं मार्जारस्य च मूषिकः ॥१२१॥
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम्
।
स तस्मात्सम्भ्रमावर्तान्मुक्तो घोरेण शत्रुणा ॥१२२॥
बिलं विवेश पलितः शाखां लेभे स लोमशः
।
उन्माथमप्यथादाय चाण्डालो वीक्ष्य सर्वशः ॥१२३॥
विहताशः क्षणेनास्ते तस्माद्देशादपाक्रमत्
।
जगाम स स्वभवनं चाण्डालो भरतर्षभ ॥१२४॥
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम्
।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥१२५॥
अकृत्वा संविदं काञ्चित्सहसा समवप्लुतः
।
कृतज्ञं कृतकर्माणं कच्चिन्मां नाभिशंकसे ॥१२६॥
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्
।
मित्रोपभोगसमये किं मां त्वं नोपसर्पसि ॥१२७॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति
।
न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥१२८॥
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मनः सखे
।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥१२९॥
यानि मे सन्ति मित्राणि ये च सम्बन्धिबान्धवाः
।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥१३०॥
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्
।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥१३१॥
ईश्वरो मे भवानस्तु स्वशरीरगृहस्य च
।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥१३२॥
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम्
।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥१३३॥
बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम्
।
त्वं मन्त्रबलयुक्तो हि दत्त्वा जीवितमद्य मे ॥१३४॥
एवमुक्तः परां शान्तिं मार्जारेण स मूषिकः
।
उवाच परमन्त्रज्ञः श्लक्ष्णमात्महितं वचः ॥१३५॥
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम्
।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे ॥१३६॥
वेदितव्यानि मित्राणि विज्ञेयाश्चापि शत्रवः
।
एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥१३७॥
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः
।
संधितास्ते न बुद्ध्यन्ते कामक्रोधवशं गताः ॥१३८॥
नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते
।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥१३९॥
यो यस्मिन् जीवति स्वार्थे पश्येत्पीडां न जीवति
।
स तस्य मित्रं तावत्स्याद्यावन्न स्याद्विपर्ययः ॥१४०॥
स्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्
।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा ॥१४१॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये
।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥१४२॥
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु
।
अर्थयुक्तिमविज्ञाय यः प्रीतौ कुरुते मनः ॥१४३॥
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः
।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥१४४॥
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति
।
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ॥१४५॥
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः
।
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् ॥१४६॥
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्
।
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्प्रत्यनन्तरम् ॥१४७॥
कृतं मृगयसे शत्रुं सुखोपायमसंशयम्
।
अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः ॥१४८॥
पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान्
।
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ॥१४९॥
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम्
।
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति ॥१५०॥
तन्मित्रकारणं सर्वं विस्तरेणापि मे शृणु
।
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ॥१५१॥
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः
।
सख्यं सोदर्ययोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् ॥१५२॥
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह
।
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ॥१५३॥
स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः
।
प्रियो भवति दानेन प्रियवादेन चापरः ॥१५४॥
मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः
।
उत्पन्ना कारणे प्रीतिरासीन्नौ कारणान्तरे ॥१५५॥
प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते
।
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः ॥१५६॥
अन्यत्राभ्यवहारार्थं तत्रापि च बुधा वयम्
।
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ॥१५७॥
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते
।
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते ॥१५८॥
अकाले हि समर्थस्य स्नेहहेतुरयं तव
।
तस्मान्नाहं चले स्वार्थात्सुस्थिरः संधिविग्रहे ॥१५९॥
अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे
।
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत् ॥१६०॥
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्
।
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा ॥१६१॥
सा गता सह तेनैव कालयुक्तेन हेतुना
।
त्वं हि मे जातितः शत्रुः सामर्थ्यान्मित्रतां गतः ॥१६२॥
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता
।
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ॥१६३॥
प्रविशेयं कथं पाशं त्वत्कृते तद्वदस्व मे
।
त्ववीर्येण प्रमुक्ताऽहं मद्वीर्येण तथा भवान् ॥१६४॥
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः
।
त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् ॥१६५॥
न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात्
।
अहमन्नं भवान् भोक्ता दुर्बलोऽहं भवान्बली ॥१६६॥
नावयोर्विद्यते संधिर्वियुक्ते विषमे बले
।
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ॥१६७॥
भक्ष्यं मृगयसे नूनं सुखोपायेन कर्मणा
।
भक्ष्यार्थं ह्यवबद्धस्त्वं स मुक्तः पीडितः क्षुधा ॥१६८॥
शास्त्रजां मतिमास्थाय नूनं भक्षयिताऽद्य माम्
।
जानामि क्षुधितं तु त्वामाहारसमयश्च ते ॥१६९॥
स त्वं मानभिसंधाय भक्ष्यं मृगयसे पुनः
।
त्वं चापि पुत्रदारस्थो यत्संधि सृजसे मयि ॥१७०॥
शुश्रूषां यतसे कर्तुं सखे मम न तत्क्षमम्
।
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ते ॥१७१॥
कस्मात्ते मां न खादेयुर्हृष्टाः प्रणयिनस्त्वयि
।
नाहं त्वया समेष्यापि वृत्तो हेतुः समागमे ॥१७२॥
शिवं ध्यायस्व मे स्वस्थः सुकृतं स्मरसे यदि
।
शत्रोरनार्यभूतस्य क्लिष्टस्य क्षुधितस्य च ॥१७३॥
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्
।
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे ॥१७४॥
विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत्
।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते ॥१७५॥
नाहं त्वया समेष्यामि निवृत्तो भव लोमश
।
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय ॥१७६॥
प्रशान्तादपि मे पापात् भेतव्यं बलिनः सदा
।
यदि स्वार्थं न ते कार्यं ब्रूहि किं करवाणि ते ॥१७७॥
कामं सर्वं प्रदास्यामि न त्वाऽऽत्मानं कदाचन
।
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च ॥१७८॥
अपि सर्वं स्वमुत्सृज्य रक्षेदात्मानमात्मना
।
ऐश्वर्यधनरत्नानां प्रत्यमित्रे निवर्तताम् ॥१७९॥
दृष्ट्वा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम्
।
न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते ॥१८०॥
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि
।
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् ॥१८१॥
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः
।
शत्रुं सम्यग्विजानन्ति दुर्बला ये बलीयसः ॥१८२॥
न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतनिश्चया
।
इत्यभिव्यक्तमेवं स पलितेनाभिभर्त्सितः ॥१८३॥
मार्जारो वीडितो भूत्वा मूषिकं वाक्यमब्रवीत् ॥१८४॥
लोमश उवाच ।
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः
।
तन्मन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ॥१८५॥
उक्तवानर्थतत्त्वेन मयासम्भिन्नदर्शनः
।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि ॥१८६॥
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम्
।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः ॥१८७॥
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः
।
तस्मादेवं पुनः साधो मय्याचरितुमर्हसि ॥१८८॥
त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः
।
विश्रम्भो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु ॥१८९॥
तदेतद्धर्मतत्त्वज्ञ न त्वं शङ्कितुमर्हसि
।
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः ॥१९०॥
मनसा भावगम्भीरो मार्जारं वाक्यमब्रवीत्
।
साधुर्भवान् श्रुतार्थोऽस्मि प्रीये च न च विश्वसे ॥१९१॥
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया
।
न ह्यमित्रे वशं यान्ति प्राज्ञा निष्कारणं सखे ॥१९२॥
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते
।
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ॥१९३॥
समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत्
।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥१९४॥
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत्
।
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ॥१९५॥
द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवितः
।
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः ॥१९६॥
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः
।
वध्यन्ते न हि विश्वस्ताः शत्रुभिर्दुर्बला अपि ॥१९७॥
विश्वतास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः
।
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ॥१९८॥
रक्ष त्वमपि चात्मानं चाण्डालाज्जातिकिल्बिषात्
।
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ॥१९९॥
शाखां हित्वा जवेनाशु मार्जारः प्रययौ ततः
।
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ॥२००॥
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह
।
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ॥२०१॥
एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः
।
अरिणाऽपि समर्थेन सन्धि कुर्वीत पण्डितः ॥२०२॥
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्
।
इत्येवं क्षात्रधर्मश्च मया मार्गेषु दर्शितः ॥२०३॥
विस्तरेण महाराज संक्षेपमपि मे शृणु
।
अन्योन्यकृतवैरी तु चक्रतुः प्रीतिमुत्तमाम् ॥२०४॥
अन्योन्यमभिसंधातुं सम्बभूव तयोर्मतिः
।
तत्र प्राज्ञोऽभिसंधत्ते सम्यक् बुद्धिसमाश्रयात् ॥२०५॥
अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः
।
तस्मादभीतवद्भीतो विश्वस्तदविश्वसन् ॥२०६॥
न ह्यप्रमत्तश्चलति चलितो वा तिनश्यति
।
कालन रिपुणा संधिः काले मित्रेण विग्रहः ॥२०७॥
कार्य इत्ये व संधिज्ञाः प्राहुर्नित्यं नराधिप
।
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च ॥२०८॥
अभियुक्तः प्रसन्नश्च प्राग्भयाद्भीतवच्चरेत्
।
भीतवत्संनिधिः कार्यः प्रतिसंधिस्तथैव च ॥२०९॥
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा
।
न भयं विद्यते राजन् भीतस्यानागते भये ॥२१०॥
अभीतस्य च विश्रम्भात् सुमहज्जायते भयम्
।
अभीश्चरति यो नित्यं मन्त्रो देयः कथंचन ॥२११॥
अविज्ञानाद्धि विज्ञातो गच्छेदास्पददर्शिषु
।
तस्मादभीतवद्भीतो विश्वस्तो बहु विश्वसन् ॥२१२॥
कार्याणां गुरुतां प्राप्य नानृतं किंचिदाचरेत्
।
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर ॥२१३॥
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर
।
उपलभ्य मतिं चाग्र्यमरिमित्रान्तरं तथा ॥२१४॥
सन्धिविग्रहकाले च मोक्षोपायस्तथैव च
।
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ॥२१५॥
समागमे चरेद्युक्त्या कृतार्थो न च विश्वसेत्
।
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते ॥२१६॥
अभ्युत्तिष्ठ श्रुतादस्माद्भूयः संरक्षयन्प्रजाः
।
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ॥२१७॥
ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत
।
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥२१८॥
पृजिताः शुभकर्तारः पूजयेत्तान्नराधिप
।
राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे ॥२१९॥
कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ॥२२०॥
द्वयोरिमं भारत सन्धिविग्रहं सुभाषितं बुद्धिविशेषकारकम्
।
यथा त्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले ॥२२१॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि मार्जारमूषिकसंवादे अष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥
युधिष्ठिर उवाच।
उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु
।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥१॥
उक्तो मन्त्रो इति ॥१॥
विश्वासाद्धि परं राजन् राज्ञामुत्पद्यते भयम्
।
कथं हि नाश्वसन् राजा शत्रून् जयति पार्थिवः ॥२॥
एतन्मे संशयं छिन्धि मतिर्मे सम्प्रमुह्यति
।
अविश्वासकथामेतामुपश्रुत्य पितामह ॥३॥
भीष्म उवाच।
शृणुष्व राजन् यद्वृत्तं ब्रह्मदत्तनिवेशने
।
पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः ॥४॥
अविश्वस्तं यथा स्यात्तथा बहु विश्वसेदित्युक्तम् । तत्र सर्वत्राविश्वासे कार्यस्यासिद्धिरेव स्यादित्याशङ्क्य पूजनीदृष्टान्तेन पूर्वकृतापकारो न विश्वसेदिति निरूपयति उक्त इत्यध्यायेन । पूजन्या चटकया ॥४॥
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी
।
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता ॥५॥
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि सा ॥६॥
जीवजीवकः शाकुनिकः स हि अयं पक्षी अस्यां दिशि लाभम् अस्यामलाभं दिशतीति वर्णयति- जीवजीवक इति । पक्षिविशेष इत्यन्ये ॥६॥
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत ॥७॥
अभिप्रजाता प्रसूतवती देव्यां राजभार्यायाम् ॥७॥
तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा
।
समुद्रतीरं सा गत्वा आजहार फलद्वयम् ॥८॥
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह
।
फलमेकं सुतायादाद्राजपुत्राय चापरम् ॥९॥
अमृतास्वादसदृशं बलतेजोऽभिवर्धनम्
।
आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः ॥१०॥
ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात्
।
ततः स धाच्या कक्षेण उह्यमानो नृपात्मजः ॥११॥
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः
।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा ॥१२॥
शून्ये च तमुपादाय पक्षिणं समजातकम्
।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः ॥१३॥
समजातकं समानवयसम् ॥१३॥
अथ सा पूजनी राजन्नागमत्फलहारिणी
।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥१४॥
वाष्पपूर्णमुखी दीना दृष्ट्वा तं रुदती सुतम्
।
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् ॥१५॥
क्षत्रिये सगतं नास्ति न प्रीतिर्न च सौहृदम्
।
कारणात्सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च ॥१६॥
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु
।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥१७॥
अहमस्य करोम्यद्य सदृशीं वैरयातनाम्
।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥१८॥
सहसंजातवृद्धस्य तथैव सहभोजिनः
।
शरणागतस्य च वधस्त्रिविधं ह्येव पातकम् ॥१९॥
इत्युक्त्वा चरणाभ्यां नेत्रे नृपसुतस्य सा
।
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥२०॥
इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति
।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम् ॥२१॥
इच्छया बुद्धिपूर्वकम् उपसर्पति फलरूपेण कर्तारम् ॥२१॥
पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते
।
नृपते तस्य पुत्रेषु पौत्रेष्वपि च नप्तृषु ॥२२॥
कर्तर्यदृष्टं तत्पुत्रादावपि पापं दृश्यत एवेत्याह- पापमिति । तेषां महतां पापमपराधकृतमेनः ॥२२॥
तु ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्याहृतलोचनम्
।
कृते प्रतिकृतं मत्वा पूजनीमिदमब्रवीत् ॥२३॥
ब्रह्मदत्त उवाच ।
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया
।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥२४॥
माङ्गंमः मास्म गमः ॥२४॥
पूजन्युवाच ।
सकृत्कृतापराधस्य तत्रैव परिलम्बतः
।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥२५॥
परिलम्बतः विश्वासं कुर्वतः ॥२५॥
सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्
।
क्षिप्रं स बध्यते मूढो न हि वैरं प्रशाम्यति ॥२६॥
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति
।
पुत्रपौत्रविनाशे च परलोकं नियच्छति ॥२७॥
नियच्छति मृत्युर्नाशयति ततो नष्टसन्ततित्वात्परलोकं च नियच्छति ॥२७॥
सर्वेषां कृतवैराणामविश्वासः सुखोदयः
।
एकान्ततो न विश्वासः कार्यो विश्वासघातकैः ॥२८॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति
।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत् ॥२९॥
माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः
।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता ॥३०॥
जरा वीर्यहरत्वात् । बीजमात्रं प्रसवरूपत्वात् । शत्रुः रिक्थहरत्वात् । क्लिन्नपाणिः उपक्रियमाणः धनादिना पूज्यमानमेव मित्रं नान्यदित्यर्थः ॥३०॥
अन्योन्यकृतवैराणां न संधिरुपपद्यते
।
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥३१॥
हेतुः पुत्ररक्षा स्नेहो वा ॥३१॥
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
।
मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान् ॥३२॥
कर्म स्वकृतम् अबलान् मादृशान् ॥३२॥
पूर्वं सम्मानन यत्र पश्चाच्चैव विमानना
।
जह्यात्तत्सत्त्ववान्स्थानं शत्रोः सम्मानितोऽपि सन् ॥३३॥
उषितास्मि तवागारे दीर्घकालं समर्चिता
।
तदिदं वैरमुत्पन्नं सुखमाशु व्रजाम्यहम् ॥३४॥
ब्रह्मदत्त उवाच ।
यः कृते प्रतिकुर्याद्वै न स तत्रापरानुयात्
।
अनृणस्तेन भवति वस पूजनि मा गमः ॥३५॥
पूजन्युवाच ।
न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः
।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥३६॥
नेति । अन्योन्यस्यापकारमुभावपि नित्यं स्मरत इत्यर्थः ॥३६॥
ब्रह्मदत उवाच ।
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः
।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥३७॥
प्रतिकृतं प्रायश्चित्तं जातमिति मन्वानः साधुः पुनर्नापकरोतीत्याशयेनाह- कृतस्येति ॥३७॥
पूजन्युवाच ।
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्
।
विश्वासाद्बद्ध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥३८॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि
।
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥३९॥
न शक्यन्ते जेतुमिति शेषः ॥३९॥
ब्रह्मदत्त उवाच ।
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि
।
अन्योन्यस्य च विश्वासः श्वपचेन शुनो पथा ॥४०॥
श्वपचश्चाण्डालः श्वमांसाहारोऽपि शुना सह सख्यमेति । संवादादेवं मामपि जानीहीत्यर्थः ॥४०॥
अन्योन्कृतवैराणां संवासान्मृदुतां गतम्
।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥४१॥
पूजन्युवाच।
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः
।
स्त्रीकृतं वास्तुजं वाजं ससापत्नापराधजम् ॥४२॥
वैरं स्त्रीकृतं कृष्णशिशुपालयोः । वास्तुगृहादिकं स्थानं तज्जं कौरवपाण्डवानाम् । वाग्जं द्रोणद्रुपदयोः । सापत्नं जातिवैरं मूषकमार्जारयोः अपराधजम् आवयोः तच्च तच्चेति द्वन्द्वः ताभ्यां सहितं ससापत्नापराधजम् ॥४२॥
तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः
।
प्रकाशं वाऽप्रकाशं वा बुध्वा दोषबलाबलम् ॥४३॥
कृतवैरोऽपि दाताऽर्थादिना मानयिताऽर्थाशावता राज्ञा न हन्तव्यः ॥४३॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि
।
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४४॥
यद्यप्येवं नित्यं फलद्वयदानात्त्वं मां न हनिष्यसीति जानामि तथाऽपि कृतवैरे विश्वासो नीतिविरुद्ध इत्याह- कृतेति ॥४४॥
न वित्तेन न पारुष्यैर्न च सान्त्वेन वाऽऽश्रितैः
।
कोपाग्निः शाम्यते राजस्तोयाग्निरिव सागरे ॥४५॥
पारुष्यैः गुरुशिक्षार्थं गुरुभिरुक्तैः ॥४५॥
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम्
।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥४६॥
वैराग्निः अदग्ध्वा न शाम्यत्यपराधजं कर्म एकतरक्षयाद्विना शाम्यतीति योजना ॥४६॥
सत्कृतस्यार्थमानाभ्यामनुपूर्वापकारिणः
।
नादेयोऽमित्रविश्वासः कर्म त्रासयतेऽबलान् ॥४७॥
नैवापकार्ये कस्मिंश्चिदहं त्वयि तथा भवान्
।
उषितास्मि गृहेऽहं ते नेदानीं विश्वसाम्यहम् ॥४८॥
कस्मिंश्चिदन्यतरे अपकार्येऽन्यतरेण बाध्ये सति अहं च त्वयि तथास्मि एवं भवानपि मयि तथाऽस्तीति योज्यम् । अतो नावयोरन्योन्यं विश्वासः सम्भवतीत्यर्थः ॥४८॥
ब्रह्मदत्त उवाच ।
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
।
कालेनैते प्रवर्तन्ते कः कस्येहापराध्यति ॥४९॥
कालाधीने जगति आवयोर्मध्ये कस्यापि दोषो नास्तीत्याह- कालेनेत्यादिना ॥४९॥
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह
।
कार्यते चैव कालेन तन्निमित्तं न जीवति ॥५०॥
कार्यते जायते तन्निमित्तं कालनिमित्तं न जीवति म्रियते ॥५०॥
वध्यन्ते युगपत्केचिदेकैकस्य न चापरे
।
कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ॥५१॥
एकैकस्य एकैकेन ॥५१॥
नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे
।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम् ॥५२॥
एवं वसेह सस्नेहा यथाकाममहिंसिता
।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि ॥५३॥
क्षम क्षमस्व ॥५३॥
पूजन्युवाच ।
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्
।
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवैर्हतैः ॥५४॥
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे
।
यदि कालेन निर्याणं सुखं दुःखं भवाभवौ ॥५५॥
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः
।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥५६॥
प्रलापः सुमहान्कस्मात् क्रियते शोकमूर्च्छितैः
।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥५७॥
कस्माद्धर्मोऽस्ति कर्तृषु तदा विधिनिषेधकथा व्यर्या स्यादिति भावः ॥५७॥
तव पुत्रो ममापत्यं हतवान्स हतो मया
।
अनन्तरं त्वयाऽहं च हन्तव्या हि नराधिप ॥५८॥
अहं हि पुत्रशोकेन कृतपापा तवात्मजे
।
यथा त्वया प्रहर्तव्यं तथा तत्त्वं च मे शृणु ॥५९॥
भक्ष्यार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः
।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥६०॥
वधबन्धभयादेते मोक्षतन्त्रमुपाश्रिताः
।
मरणोत्पातजं दुःखं प्राहुर्वेदविदो जनाः ॥६१॥
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः
।
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥६२॥
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः
।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम् ॥६३॥
वधबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा
।
दुःख सुतेन सततं जनान्विपरिवर्तते ॥६४॥
सुतेन नष्टेन दुष्टेन वा ॥६४॥
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः
।
यो दुःखं नाभिजानाति स जल्पति महाजने ॥६५॥
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्
।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे ॥६६॥
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्
।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिन्दम ॥६७॥
आवयोः कृतमन्योन्यं पुनः सन्धिर्न विद्यते
।
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥६८॥
कृतम् अलं पर्याप्तं सख्यमिति शेषः ॥६८॥
वैरपन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति
।
मृन्मयस्येव भग्नस्य यथा संधिर्न विद्यते ॥६९॥
निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः
।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा ॥७०॥
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा
।
वध्यन्ते श्रद्दधानास्तु मधु शुष्कतृणैर्यथा ॥७१॥
वैरिणः वाक्ये इति शेषः । शत्रुणा दर्शितं पुरःस्थितं मधु श्रद्दधानाः शुष्कतृणैश्छन्ने प्रपाते यथा पतन्ति तद्वदेते इत्यर्थः ॥७१॥
न हि वैराणि शाम्यन्ति कुले दुःखगतानि च
।
आख्यातारश्च विद्यन्ते कुले वै ध्रियते पुमान् ॥७२॥
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप
।
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥७३॥
सदा न विश्वसेद्राजा पापं कृत्वेह कस्यचित्
।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥७४॥
ब्रह्मदत्त उवाच ।
नाविश्वासाद्विन्दतेऽर्थानीहते चापि किंचन
।
भयात्त्वेकतरान्नित्यं मृतकल्पा भवन्ति च ॥७५॥
सर्वथाऽनाश्वासे नृणां जीवनमेव न स्यादित्याह- नेति ॥७५॥
पूजन्युवाच।
यस्येह व्रणिनी पादौ पद्भ्यां च परिसर्पति
।
खन्येते तस्य तौ पादौ सुगुप्तमिह धावतः ॥७६॥
स्वयं दोषवती अहं निर्दोषमपि त्वया सह वासं कर्तुं न शक्नोमीत्याह दृष्टान्तमुखेन - यस्येत्यादिना ॥७६॥
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते
।
तस्य वायुरुन्दाऽत्यर्थं नेत्रयोर्भवति ध्रुवम् ॥७७॥
दुष्टं पन्थानमासाद्य यो मोहादुपपद्यते
।
आत्मनो बलभज्ञाय तदन्तं तस्य जीवितम् ॥७८॥
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः
।
हीनः पुरुषकारेण सस्यं नैवाश्नुते ततः ॥७९॥
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्
।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥८०॥
पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम्
।
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥८१॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्
।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥८२॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु
।
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ॥८३॥
अकर्मशील इति च्छेदः ॥८३॥
तस्मात्सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः
।
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ॥८४॥
अर्थं कालदैवस्वभावाख्यम् ॥८४॥
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्
।
मित्राणि सहजान्याहुर्वर्तयन्तीह तैर्बुधाः ॥८५॥
बलं वैराग्यम् ॥८५॥
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः
।
एतान्युपहितान्याहुः सर्वत्र लभते पुमान् ॥८६॥
कुप्यं ताम्रादि चादकुप्यं स्वर्णरत्नादि उपहितानि उपमित्राणि ॥८६॥
सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते
।
न विभीपयते कश्चिद्भीषितो न बिभेति च ॥८७॥
विद्यादीनां फलानि क्रमेणाह- सर्वत्रेति । कश्चित्तमिति शेषः ॥८७॥
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते
।
दाक्ष्येणकुर्वतः कर्म संयपात्प्रतितिष्ठति ॥८८॥
दाक्ष्येण वर्धते संयमाद्दाक्ष्यसंकोचात् प्रतितिष्ठति प्रतिष्ठां स्थितिमेव गच्छति वर्धत इत्यर्थः ॥८८॥
गृहस्नेहावबद्धानां नराणामल्पमेधसाम्
।
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥८९॥
बलहीनस्यावस्थामाह- गृहेति । खादति स्वापराधैस्तं संतापयति शुष्कं करोति माधमां - कर्कटीं सेगवा - तदपत्यानि कर्कट्या नाशहेतुगर्भ एवेति प्रसिद्धम् ॥८९॥
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥९०॥
निर्धैर्यस्याह- गृहमिति ॥९०॥
उत्पतेत्सहजाद्देशाद्व्याधिदुर्भिक्षपीडितात्
।
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥९१॥
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे
।
कृतमेतदनार्यं मे तव पुत्रे च पार्थिव ॥९२॥
मे मया ॥९२॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥९३॥
कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका ॥९४॥
कुमित्रे संगतिर्नास्ति नित्यमस्थिरसौहृदे
।
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये ॥९५॥
सा भार्या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥९६॥
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः
।
भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते ॥९७॥
यत्रेति । यत्र देशे बलात्कारो नास्ति तत्र भीरेव नास्ति यो राजा दरिद्रं जनं बुभूषति पालयितुमिच्छति स एव तेन सह पाल्यपालकभावलक्षणः सम्बन्ध इति योज्यम् ॥९७॥
भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः
।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ ॥९८॥
धर्मनेत्रो धर्मनेता ॥९८॥
अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात्
।
राजा मूलं त्रिवर्गस्य स्वप्रमत्तोऽनुपालयेत् ॥९९॥
निग्रहात् बन्दीरूपात् न तु स्वेच्छया स्वप्रमत्तः सुतराम् अप्रमत्तः ॥९९॥
बलिषड्भागमुद्धृत्य बलिं समुपयोजयेत्
।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥१००॥
समुपयोजयेत् भक्षयेत् अथ च न रक्षति ॥१००॥
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात्
।
स सर्वलोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥१०१॥
अभयमिति च्छेदः ॥१०१॥
दत्त्वाभयं स्वयं राजा प्रमाणं कुरुते यदि
।
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥१०२॥
माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः
।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥१०३॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः
।
तस्मिन्मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥१०४॥
सम्भावयति मातेव दीनमप्युपपद्यते
।
दहत्यग्निरिवानष्टान्यमयन्नसतो यमः ॥१०५॥
सम्भावयति इष्टं चिन्तयति उपपद्यते पालयति ॥१०५॥
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः
।
गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन् ॥१०६॥
यस्तु रञ्जयते राजा पौरजानपदान् गुणैः
।
न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात् ॥१०७॥
स्वयं समुपजानन्हि पौरजानपदार्चनम्
।
स सुखं प्रेक्षते राजा इह लोके परत्र च ॥१०८॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
।
अनर्थैविप्रलुप्यन्ते स गच्छति पराभवम् ॥१०९॥
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्
।
स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥११०॥
बलिना विग्रहो राजन्न कदाचित् प्रशस्यते
।
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम् ॥१११॥
भीष्म उवाच।
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्
।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम् ॥११२॥
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
।
मयोक्तं नृपतिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥११३॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि ब्रह्मदत्तपूजन्योः संवाद एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥१३९॥
युधिष्ठिर उवाच।
युगक्षयात्परिक्षीणे धर्मे लोके च भारत
।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥१॥
युगेति ॥१॥
भीष्म उवाच।
अत्र ते वर्तयिष्यामि नीतिमापत्सु भारत
।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥२॥
घृणां दयाम् ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
भारद्वाजस्य संवादं राज्ञः शत्रुजयस्य च ॥३॥
राजा शत्रुजयो नाम सौवीरेषु महारथः
।
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥४॥
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते
।
वर्धितं पाल्यते केन पालितं प्रणयेत्कथम् ॥५॥
तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थनिश्चयम्
।
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तमम् ॥६॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः
।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥७॥
नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः
।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥८॥
एवं दण्डं प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः
।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥९॥
छिन्नमूले त्वधिष्ठाने सर्वेषां जीवनं हतम्
।
कथ हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥१०॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः
।
ततः सहायान् पक्षं च मूलमेवानुसाधयेत् ॥११॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्
।
आपदास्पदकाले तु कुर्वीत न विचारयेत् ॥१२॥
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः
।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥१३॥
सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत्
।
अपक्रामेत् ततः शीघं कृतकार्यो विचक्षणः ॥१४॥
शत्रु च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्
।
नित्यशश्नोद्विजेत्तस्माद्गृहात्सर्पयुतादिव ॥१५॥
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्
।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥१६॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्
।
अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता ॥१७॥
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः
।
प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि ॥१८॥
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्
।
न तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥१९॥
नित्यमुद्यतदण्डः स्यादित्येतदन्तो ग्रन्थ आदिपर्वणि व्याख्यातः ॥१९॥
नानार्थिकोऽर्थसम्बन्धं कृतघ्नेन समाचरेत्
।
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते
।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥२०॥
नानार्थिकः बहुप्रयोजनवान् कृतघ्ने पुरुषे अर्थसम्बन्धं न समाचरेत् । मानार्थिक इति पाठे मानी यद्याचरेत्तर्हि तत्कार्यसमाप्तेः प्रागेवाचरेदित्याह - अर्थीति । फलितमाह- तस्मादिति सार्द्धः ॥२०॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः
।
नटस्य भक्तिमित्रस्य यच्छ्रेचस्तत्समाचरेत् ॥२१॥
’कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः
।
नटस्य भक्तिमित्रस्य यच्छ्रेयस्तत्समाचरेत्’
।
कोकिलस्य श्रेयः स्वपोष्याणां परैः पोषणम् । तथाहि -
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्
।
खन्याकरकरादानं सञ्चयार्थाष्टकं मतम्॥
यः कीनाशः शतं निवर्तनानि भूमेः कर्षति तेन विष्टिरूपेण राजकीयमपि निवर्तनदशकं कर्षणीयं स्वीयवद्रक्षणीयं च तदुत्पन्नं धान्यादिकं राज्ञे देयम् । एवमेव यो वणिक् शतेन बलीवर्दैः पण्यमाहरति तेन राजकीया अपि दश बलीवर्दा वोढव्याः पोषणीयाश्च । दुर्गेऽटव्यादौ मार्गं रक्षाम इति व्यपदेशेन पान्थेभ्यो वेतनं ग्राह्यम् । एवं सेतौ नदीतरणे । प्रतिग्रामं कुञ्जरान्विभज्य बध्नीयात् ग्रामीणैरेव तेषां पोषणं कर्तव्यमित्येवमादि यथायथमूह्यम् । एवं सर्वोऽपि राजकीयः कुटुम्बार्थः प्रजाद्वारैव निर्वोढव्यः । षड्भागहारस्तु कोशार्थमुपयुज्यते । कोशश्च धर्माय परावमर्दाय वोपयुज्यते इत्यन्यत् । वराहस्य श्रेयः वराहश्रेयो मूलोत्खननम् तच्च राजा शत्रूणां कुर्यात् । मेरोरचञ्चलत्वमनुल्लङ्घनीयत्वं च तत्स्वयमात्मन इच्छेत् । शून्यस्य वेश्मनः संपदागम इष्टस्तमिच्छेत् । नटस्य नानारूपत्वमिष्टम् । एवं राजा स्निग्धप्रसन्नादीन् गुणान् बिभृयात् । व्यालस्येति पाठे सर्पवदवन्ध्यकोपत्वमिष्टम् । भक्तिमित्रस्य स्वाराध्योदय इष्ट एवं स्वप्रतिपाल्यानां प्रजानामुदयो राज्ञा नित्यमेष्टव्य इत्यर्थः ॥२१॥
उत्थायोत्थाय गच्छेत नित्ययुक्तो रिपोर्गृहान्
।
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥२२॥
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नाभिमानिनः
।
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥२३॥
नात्मच्छिद्रं रिपुर्विद्याद्विहाच्छिद्रं परस्य तु
।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥२४॥
बकवच्चिन्तयेदर्थान् सिंहतच्च पराक्रमेत्
।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥२५॥
बकादीनामेकाग्रत्वं निर्भयत्वं शीघ्रकारित्वम् अपरावृत्तित्वं च गुणास्तान् परार्थादाने राजाश्रयेदित्यर्थः ॥२५॥
पानमक्षास्तथा नार्यो मृगया गीतवादितम्
।
एतानि युक्त्या सेवेत प्रसंगो ह्यत्र दोषवान् ॥२६॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्
।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥२७॥
देशकालौ समासाद्य विक्रमेत विचक्षणः
।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥२८॥
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः
।
परस्य च बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥२९॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति
।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥३०॥
अश्वतरी गर्दभजा अश्वा उदरभेदेनैव प्रसूत इति प्रसिद्धम् ॥३०॥
सुपुष्पितः स्यादफलः फलवान् स्याद्दुरारुहः
।
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥३१॥
आशां कालवतीं कुर्यात्तां च विघ्न योजयेत्
।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥३२॥
भीतवत्संविधातव्यं यावद्भयमनागतम्
।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥३३॥
न संशयमनारुह्य नरो भद्राणि पश्यति
।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥३४॥
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम्
।
पुनर्वृद्धिभयात्किंचिदनिवृत्तं निशामयेत् ॥३५॥
निगृहीतमपि भयं पुनर्विवृद्धिभयादनिवृत्तमिव निशामयेत् जानीयात् सर्वदाऽवहितस्तिष्ठेदिति भावः ॥३५॥
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्
।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥३६॥
योऽरिणा सह संधाय सुखं स्वपिति विश्वसन्
।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते ॥३७॥
कर्मणा येन तेनैव मृदुना दारुणेन च
।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥३८॥
ये सपत्नाः सपत्नानां सर्वांस्तानुपसेवयेत्
।
आत्मनश्चापि बोद्धव्याचारा विनिहताः परैः ॥३९॥
चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च
।
पाषण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥४०॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च
।
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥४१॥
धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः
।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥४२॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
।
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेद् ॥४३॥
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना
।
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥४४॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्
।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥४५॥
अवधानेन मौनेन काषायेण जटाजिनैः
।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥४६॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्
।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥४७॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
।
उत्पथं प्रतिपन्नस्य दण्डो भवति शासनम् ॥४८॥
अभ्युत्थानाभिवादाभ्यां सम्प्रदानेन केनचित्
।
प्रतिपुष्पकलाघाती तीक्ष्णतुण्ड इव द्विजः ॥४९॥
अभ्युत्थानादिमृदूपायैः शत्रोः प्रतिपुष्पफलाघाती स्यात् । पुष्पफलं पुष्पफलं प्रति इति प्रतिपुष्पफलम् । सर्वं पुष्पं पुरुषार्थसाधनं सर्वं फलं पुरुषार्थरूपं च तद्विनाशयेत् तीक्ष्णतुण्डो द्विजः पक्षी यथा सर्वं वृक्षस्य पुष्पं फलं च नाशयति तद्वत् ॥४९॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
।
नाहत्वा मत्स्यधातीव प्राप्नोति महतीं श्रियम् ॥५०॥
नास्ति जात्या रिपुर्नाम मित्रं वापि न विद्यते
।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥५१॥
नास्तीति । समर्थस्य ते जीयांसो रिपवो भवन्त्यन्ये मित्राणि भवन्तीत्यर्थः ॥५१॥
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि
।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥५२॥
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता
।
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥५३॥
प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यैव प्रियोत्तरम्
।
असिनापि शिरश्छित्त्वा शोचेत च रुदेत च ॥५४॥
निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया
।
लोकाराधनमित्येतत्कर्तव्यं भूतिमिच्छता ॥५५॥
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत्
।
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम्
।
दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते ॥५६॥
शुष्कं लाभशून्यं तत्र दृष्टान्तो गोविषाणस्य भक्षणमिति शत्रोरियं गौरिति तद्विषाणचर्वणे प्रवृत्तस्यायासो व्यर्थस्तद्वदित्यर्थः सार्धः ॥५६॥
त्रिवर्गस्त्रिविधा पीडानुबन्धास्तथैव च
।
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥५७॥
त्रिवर्गः धर्मार्थकामाः तत्र त्रिविधा पीडा धर्मेणार्थस्य पीडा अर्थेन धर्मस्य कामेन तयोरिति । अनुबन्धाः फलानि । धर्मस्यार्थोऽर्थस्य कामः कामस्येन्द्रियप्रीतिरिति क्षुद्राः । धर्मस्य चित्तशुद्धिरर्थस्य यज्ञः कामस्य जीवनमात्रमिति प्राज्ञाः । तत्र बलाबलं ज्ञात्वाऽनुबन्धान् लिप्सेत पीडां तु परिवर्जयेदेवेत्यर्थः ॥५७॥
ऋणशेषमाग्निशेषं शत्रुशेषं तथैव च
।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत् ॥५८॥
वर्धमानमृणं तिष्ठेत्परिभूताश्च शत्रवः
।
जनयन्ति भयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥५९॥
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्
।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥६०॥
वधेन च मनुष्याणां मार्गाणां दूषणेन च
।
अगाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥६१॥
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः
।
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ॥६२॥
गृध्रदृष्टिर्गृध्रवत् दूरदर्शी । बकवदालीनो निश्चलो बकालीनः । श्वचेष्टः शुनकवज्जागरूकश्चोरसूचकश्च । सिंहवद्विक्रमो यस्य अनिर्दयस्य तद्वदेव । काकवत् शङ्की परेङ्गितज्ञः । भुजङ्गचरितम् अकस्मात्परकृते दुर्गादौ प्रवेशनं तत्कुर्यात् ॥६२॥
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत्
।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥६३॥
श्रेणीमुख्योपजायेषु वल्लभानुनयेषु च
।
अमात्यान् परिरक्षेत भेदसंघातयोरपि ॥६४॥
श्रेणीमुख्यः नानाजातीयाः सन्त एककार्ये निविष्टाः श्रेणयस्तासां मुख्यस्य उपजापो भेदः । उपतापेष्विति पाठे उपतापः क्लेशो वा वल्लभानां मित्राणामनुनयेषु अन्यैः क्रियमाणेषु अमात्यान्परिरक्षेत । भेदात्सङ्घातात्सम्भूय कार्यकारित्वाच्च संहता ह्यमात्याः सद्यो राजानमराजानं कुर्युर्विपरीतं वा कुर्युरित्यर्थः ॥६४॥
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च
।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥६५॥
मृदुनैव मृदुं छिन्दि मृदुना हन्ति दारुणम्
।
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥६६॥
काले मृदुर्यो भवति काले भवति दारुणः
।
प्रसाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥६७॥
पण्डितेन विरुद्धः सन् दूरस्थोऽस्मीति नाश्वसेत्
।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥६८॥
न तत्तरेद्यस्य न पारमुत्तरेन्नतद्धरेद्यत्पुनराहरेत्परः
।
न तत्खनेद्यस्य न मूलमुद्धरेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥६९॥
इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत्
।
परप्रयुक्ते न कथं विभावयेदतो मयोक्तं भवतो हितार्थिना ॥७०॥
वृजिनाभिसंहितम् आपत्कालाभिप्रायेणैतदुक्तं न त्वेतदेवं पुरुषः समाचरेत् । परप्रयुक्ते परेणाभियोगे कृते सति इदं मदुक्तं कथं न भावयेत् अपि तु भावयेदेव । आपदि एतदनुष्ठानादधर्मो नास्तीति भावः ॥७०॥
यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः
।
तथाऽकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे स बान्धवः ॥७१॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कणिकोपदेशे चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥
युधिष्ठिर उवाच।
हीने परमके धर्मे सर्वलोकाभिलंघिते
।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥१॥
हीने इति । आपद्यकार्यमपि कणिकेनोक्तं तत्र विश्वामित्रश्वजाघनीपचनरूपं शिष्टाचारं प्रमाणयति ॥१॥
मर्यादासु विनष्टासु क्षुभिते धर्मनिश्चये
।
राजभिः पीडिते लोके परैर्वाऽपि विशाम्पते ॥२॥
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
।
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥३॥
अविश्वस्तेषु सर्वेषु नित्यं भीतेषु पार्थिव
।
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥४॥
सम्प्रदीप्तेषु देशेषु ब्राह्मणे चातिपीडिते
।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥५॥
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
।
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥६॥
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप
।
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥७॥
अतितिक्षुः त्यक्तुमनिच्छुः अनुक्रोशात् दयातः ब्राह्मणान्पालयितुमशक्तो राजा किं कुर्यादित्यर्थः ॥७॥
कथं च राजा वर्तेत लोके कलुषतां गते
।
कथमर्थाच्च धर्माच्च न हीयेत परन्तप ॥८॥
भीष्म उवाच।
राजमूला महाबाहो योगक्षेमसुवृष्टयः
।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥९॥
अप्राप्तप्रापणं योगः प्राप्तसंरक्षणं क्षेमः सुवृष्टिश्च ताः ब्राह्मणादीनां विपदागमो राज्ञ एव दोष इत्यर्थः ॥९॥
कृतं त्रेतां द्वापरं च कलिश्च भरतर्षभ
।
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥१०॥
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके
।
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥११॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
विश्वामित्रस्य संवादं चाण्डालस्य च पक्कणे ॥१२॥
पक्कणे चाण्डालागारे ॥१२॥
त्रेताद्वापरयोः संधौ तदा दैवविधिक्रमात्
।
अनावृष्टिरभूद्घोरा लोके द्वादशवार्षिकी ॥१३॥
दैवविधिर्दैवविहितः ॥१३॥
प्रजानामतिवृद्धानां युगान्ते समुपस्थिते
।
त्रेताविमोक्षसमये द्वापरप्रतिपादने ॥१४॥
नववर्षसहस्त्राक्षः प्रतिलोमोऽभवद्गुरुः
।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥१५॥
प्रतिलोमो वक्री व्यावृत्तम् अन्यथाभूतं लक्षणं चिह्नं यस्य ॥१५॥
नावश्यायोऽपि तत्राभूत्कुत एवाभ्रजातयः
।
नद्यः संक्षिप्ततोयौघाः किंचिदन्तर्गतास्ततः ॥१६॥
अवश्यायो धूमिका ॥१६॥
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च
।
हतत्विषो न लक्ष्यन्ते निसर्गाद्दैवकारितात् ॥१७॥
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा
।
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥१८॥
जलस्थायाः क्षुद्रजलाशयाः ॥१८॥
उच्छिन्नकृषिगोरक्षा निवृत्तविपणापणा
।
निवृत्तयूपसम्भारा विप्रनष्टमहोत्सवा ॥१९॥
विपणो विक्रयादिः आपणो हट्टः ॥१९॥
अस्थिसंचयसंकीर्णा महाभूतरवाकुला
।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥२०॥
क्वचिद्धोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः
।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥२१॥
गतदैवतसंस्थाना वृद्धलोकनिराकृता
।
गोजाविमहिषीहीना परस्परपराहता ॥२२॥
हतविप्रा हतारक्षा प्रणष्टौषधिसंचया
।
सर्वभूतरुतप्राया बभूव वसुधा तदा ॥२३॥
हता आरक्षा रक्षाकर्तारो यस्यां सा भूततरुः श्मशानवृक्षस्तद्वदगम्या भूततरुप्राया भूतनरप्रायेति पाठे भूतप्रायनरेत्यर्थः । शावभूतनरप्रायेति प्राचां पाठः । स्पष्टार्थः शव एव शावः ॥२३॥
तस्मिन्प्रतिभये काले क्षते धर्मे युधिष्ठिर
।
बभूवुः क्षुधिता मार्त्याः खादमानाः परस्परम् ॥२४॥
ऋषयो नियमांस्त्यक्त्वा परित्यज्याग्निदेवताः
।
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥२५॥
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः
।
क्षुधापरिगतो धीमान्समन्तात्पर्यधावत ॥२६॥
त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि
।
भक्ष्याभक्ष्यसमो भूत्वा निरग्निरनिकेतनः ॥२७॥
स कदाचित्परिपतन् श्वपचानां निवेशनम्
।
हिंस्त्राणां प्राणिघातानामाससाद वने क्वचित् ॥२८॥
विभिन्नकलशाकीर्णं श्वचर्मच्छेदनायुतम्
।
वराहखरभग्नास्थिकपालघटसंकुलम् ॥२९॥
मृतचैलपरिस्तीर्णं निर्माल्यकृतभूषणम्
।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥३०॥
कुक्कुटारावबहुलं गर्दभध्वनिनादितम्
।
उद्घोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥३१॥
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम्
।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥३२॥
तत्प्रविश्य क्षुधाविष्टो विश्वामित्रो महानृषिः
।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥३३॥
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः
।
मांसमन्नं फलं मूलमन्यद्वा तत्र किञ्चन ॥३४॥
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः
।
पपात भूमौ दौर्बल्यात्तस्मिंश्चाण्डालपक्कणे ॥३५॥
स चिन्तयामास मुनिः किं नु मे सुकृतं भवेत्
।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥३६॥
वृथा अन्नं विना ॥३६॥
स ददर्श श्वमांसस्य कुतन्त्री विवतां मुनिः
।
चाण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य वै ॥३७॥
कुतन्त्रीं दण्डिकाम् ॥३७॥
स चिन्तयामास तदा स्तैन्यं कार्यमितो मया
।
न हीदानीमुपायो मे विद्यते प्राणधारणे ॥३८॥
आपत्सु विहितं स्तैन्यं विशिष्टं च महीयसः
।
विप्रेण प्राणरक्षार्थं कर्तव्यमिति निश्चयः ॥३९॥
हीनादादेयमादौ स्यात्समानात्तदनन्तरम्
।
असम्भवे वाऽऽदीत विशिष्टादपि धार्मिकात् ॥४०॥
सोऽहमन्त्यावसायानां हराम्येनां प्रतिग्रहात्
।
न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम् ॥४१॥
प्रतिग्रहात् तज्जदोषात् स्तैन्यदोषम् अधिकं न पश्यामीत्यर्थः । श्वजाघनीं शुनो जङ्घाम् ॥४१॥
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः
।
तस्मिन्देशे स सुष्वाप श्वपचो यत्र भारत ॥४२॥
स विगाढां निशां दृष्ट्वा सुप्ते चाण्डालपक्कणे
।
शनैरुत्थाय भगवान्प्रविवेश कुटीमतः ॥४३॥
स सुप्त इव चाण्डालः श्लेष्मापिहितलोचनः
।
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥४४॥
श्वपच उवाच ।
कः कुतन्त्री घट्टयति सुप्ते चाण्डालपक्कणे
।
जागर्मि नात्र सुप्तोऽस्मि हतोऽसीति च दारुणः ॥४५॥
घट्टयति चालयति ॥४५॥
विश्वामित्रस्ततो भीतः सहसा तमुवाच ह
।
तत्र व्रीडाकुलमुखः सोद्वेगस्तेन कर्मणा ॥४६॥
विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः
।
मा वधीर्मम सद्बुद्धे यदि सम्यक् प्रपश्यसि ॥४७॥
मम माम् ॥४७॥
चाण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः
।
शयनादुपसम्भ्रान्त उद्ययौ प्रति तं ततः ॥४८॥
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः
।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥४९॥
नेत्राभ्यां श्लेष्मपिहिताभ्याम् ॥४९॥
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन्
।
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥५०॥
क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः
।
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥५१॥
कलुषं यातः पापं कर्मानुसृतः ॥५१॥
अवसीदन्ति मे प्राणाः श्रुतिर्मे नश्यति क्षुधा
।
दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः ॥५२॥
सोऽधर्मं बुद्ध्यमानोऽपि हरिष्यामि श्वजाघनीम्
।
अटन् भैक्ष्यं न विन्दामि यदा युष्माकमालये ॥५३॥
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम्
।
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाड्विभुः ॥५४॥
अग्निर्देवानां मुखं च पुरोधाश्च सः शुचिषाट् शुचिमेध्यमेव सहते नामेध्यम् ॥५४॥
यथावत्सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः
।
तमुवाच स चाण्डालो महर्षे शृणु मे वचः ॥५५॥
तस्यापि यथा सर्वमुक्त्वं तथाऽहं ब्रह्मा ब्राह्मणोऽपि तत्तुल्यत्वात्सर्वभुग्भविष्यामीत्यर्थः ॥५५॥
श्रुत्वा तत्त्वं तथाऽऽतिष्ठ यथा धर्मो न हीयते
।
धर्मं वापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥५६॥
शृगालादधमं श्वानं प्रवदन्ति मनीषिणः
।
तस्याप्यधम उद्देशः शरीरस्य श्वजाघनी ॥५७॥
नेदं सम्यग्व्यवसितं महर्षे धर्मगर्हितम्
।
चाण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥५८॥
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे
।
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥५९॥
जानता विहितं धर्मं न कार्यो धर्मसंकरः
।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मभृतां वरः ॥६०॥
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ
।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥६१॥
निराहारस्य सुमहान्मम कालोऽभिधावतः
।
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥६२॥
येन येन विशेषेण कर्मणा येन केनचित्
।
अभ्युज्जीवेत्साद्यमानः समर्थो धर्ममाचरेत् ॥६३॥
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः
।
ब्रह्मवह्निर्मम बलं भक्ष्यामि शमयन् क्षुधाम् ॥६४॥
ऐन्द्रः पालनात्मकः आग्निकः सर्वभुक्त्वरूपः ब्रह्म वेदः स एव वह्निः ॥६४॥
यथा यथैव जीवेद्धि तत्कर्तव्यमहेलया
।
जीवितं मरणाच्छ्रेयो जीवन् धर्ममवाप्नुयात् ॥६५॥
सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम्
।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥६६॥
बलवन्तं करिष्यामि प्रणोत्स्याम्यशुभानि तु
।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥६७॥
ज्योतींषीव तप इन्धनेन बलवन्तं करिष्यामि आत्मानमिति शेषः ॥६७॥
श्वपच उवाच ।
नैतत्खादन्प्राप्नुते दीर्घमायुर्नैव प्राणान्नामृतस्येव तृप्तिः
।
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥६८॥
विश्वामित्र उवाच ।
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक मन्ये न च मेऽस्ति वित्तम्
।
क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन् षड्रसान् साधु मन्ये ॥६९॥
श्वपच उवाच।
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः
।
यथा शास्त्रं प्रमाणं ते माऽभक्ष्ये मानसं कृथाः ॥७०॥
पञ्च शशशल्यकादयः पञ्चैव भक्ष्या नान्ये इति हेतोरभक्ष्ये श्वमांसे मनो मा कृथाः ॥७०॥
विश्वामित्र उवाच ।
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै
।
अहमापद्गतः क्षुत्तो भक्षयिष्ये श्वजाघनीम् ॥७१॥
श्वपच उवाच ।
भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि
।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥७२॥
इति कर्तुं नार्हसीति योजना ॥७२॥
विश्वामित्र उवाच ।
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये
।
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥७३॥
शिष्टाः अगस्त्यादयः ॥७३॥
श्वपच उवाच ।
असता यत्समाचीर्णं न च धर्मः सनातनः
।
नाकार्यमिह कार्यं वै मा छलेनाशुभं कृथाः ॥७४॥
विश्वामित्र उवाच ।
न पातकं नावमतमृषिः सन्कर्तुमर्हति
।
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥७५॥
समौ पशुत्वादिति भावः ॥७५॥
श्वपच उवाच ।
यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तदवस्थाधिकारे
।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥७६॥
यदिति । तेनागस्त्येन ब्राह्मणानामर्थेऽर्थितेन प्रार्थितेन अर्थाद्ब्राह्मणैरेव वातापि भक्षणं कृतं न स्वार्थे तदपि अवस्थाधिकारे स तादृश एव समयो नान्यत् किञ्चित्कर्तुं शक्यमित्यर्थः । नृशंसमपि भक्षित्वा तेन वातापिना भक्ष्यमाणा ब्राह्मणा रक्षिता इति धर्म एवेत्यर्थः ॥७६॥
विश्वामित्र उवाच ।
मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके
।
तं धर्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न बिभ्ये ॥७७॥
तर्हि अयमात्मा देहो मम मित्रम् एतस्य रक्षणार्थं मया अप्येतद्भुक्तं चेन्न कश्चिद्दोषोऽस्तीत्याह- मित्रं चेति ॥७७॥
श्वपच उवाच ।
कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम्
।
सर्वान्कामान्प्राप्नुवन्तीह विद्वन् प्रियस्व कामं सहितः क्षुधैव ॥७८॥
क्षुधैव जितया सर्वान्कामानन्ये आप्नुवन्ति अतस्त्वमपि क्षुधैव सहितः अनाहारेणैव कामं प्रियस्व पूरयस्व ॥७८॥
विश्वामित्र उवाच ।
स्थाने भवेत्संशयः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः
।
अहं पुनर्व्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥७९॥
स्थाने इति । सकामः प्रेत्यभावे मरणे सति यशः यशस्करो भवेदिति स्थाने युक्तम् अनशनेन मरणं श्रेय इति सत्यमित्यर्थः । जीवतस्त्वनश्नतो धर्मलोपः प्रत्यक्षः मूलं धर्मस्य शरीरं रक्ष्यं तस्य वैकल्येन धर्मविरोधो भवतीत्यर्थः ॥७९॥
बुद्ध्यात्मके व्यक्तमस्तीति पुण्यं मोहात्मके यत्र यथा श्वभक्ष्ये
।
यद्यप्येतत्संशयात्मा चरामि नाहं भविष्यामि यथा त्वमेव ॥८०॥
बुद्ध्यात्मके प्रमातरि विचारिते श्वजाघनीभक्षणेऽपि पुण्यमस्तीति जाने । ज्ञानोत्पत्तियोग्यं शरीरमपथेनापि रक्ष्यमेवेति भावः मोहात्मके कर्तृत्वाद्यभिमानभाजि यथा श्वभक्षणे दोषस्तथैव तत्र विषयेऽस्ति । संशयात्माऽन्यतरस्यात्मनो द्रुढपरिग्रहाभावात् । तथापि श्वभक्षणमात्रेण त्वादृशः श्वपचोऽहं न भविष्यामि तपसा दोषं दूरीकर्तुं शक्तोऽस्मीति भावः ॥८०॥
श्वपच उवाच
।
गोपनीयमिदं दुःखमिति मे निश्चिता मतिः
।
दुष्कृतो ब्राह्मणः सत्रं यस्त्वामहमुपालभे ॥८१॥
इदं श्वजाघनीभक्षणजं दुःखं पापं गोपनीयं गूहनीयं त्वया क्रियमाणं निरसनीयमिति मे बुद्धिर्निश्चिताऽस्ति । ततोऽहं दुष्कृतः पापीयानपि अब्राह्मणोऽपि त्वामुपालभे यः सोऽहं सत्रं कैतवकारी । अस्मि स त्वमितिपाठे स त्वं प्रसिद्धो विश्वामित्रस्त्वां यदब्राह्मणोऽहमुपालभेऽतः दुष्कृतोऽस्मीति योजना ॥८१॥
विश्वामित्र उवाच ।
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि
।
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥८२॥
धर्मे धर्मानुशासने ॥८२॥
श्वपच उवाच ।
सुहृद्भूत्वाऽनुशासे त्वांकृपा हि त्वयि मे द्विज
।
यदिदं श्रेय आधत्स्व मा लोभात्पातकं कृथाः ॥८३॥
विश्वामित्र उवाच ।
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर
।
जानेऽहं धर्मतोऽऽत्मानं शौनीमुत्सृज जाघनीम् ॥८४॥
श्वपच उवाच ।
नैवात्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम्
।
उभौ स्यावः पापलोकावलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छन् ॥८५॥
पापलोकौ च ताववलिप्तौ चेति समासः । प्रतीच्छन् प्रतिगृह्णन् ॥८५॥
विश्वामित्र उवाच ।
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम्
।
स पूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥८६॥
श्वपच उवाच ।
आत्मैव साक्षी कुलधर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम्
।
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥८७॥
विश्वामित्र उवाच ।
उपादाने खादने चास्ति दोषः कार्यात्यये नित्यमत्रापवादः
।
यस्मिन् हिंसा नानृतं वाच्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः ॥८८॥
कार्यात्यये प्राणात्ययेऽभक्ष्यमपि भक्षणीयमिति भक्ष्याभक्ष्यविधेरपवादोऽस्ति तथा च सूत्रम्-'सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्' इति । यत्राभक्ष्यक्रिया अभक्ष्यतापादकं वाक्यं तच्छास्त्रं गरीयो न यतः यस्मिन्नभक्ष्यभक्षणे हिंसाऽनृतं च न इदमेव द्वयम् अधर्मस्य ज्ञापकं, किं तर्हि भक्ष्याभक्ष्यशास्त्रमनर्थकं नेत्याह - वाच्यलेश इति । भावप्रधानो निर्देशः । तत्र वाच्यत्वस्य निन्द्यत्वस्य लेशमात्रं न तु तद्धिंसानृतवदत्यन्तं निन्द्यमित्यर्थः ॥८८॥
श्वपच उवाच ।
यद्येष हेतुस्तव खादने स्यान्न ते वेदः कारणं नार्यधर्मः
।
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र ॥८९॥
हेतुः प्राणपोषणेच्छाऽस्ति कारणं प्रमाणं भक्ष्ये भक्षणे । अभक्षणे इति च्छेदः ॥८९॥
विश्वामित्र उवाच ।
नैवातिपापं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः
।
अन्योन्यकार्याणि यथा तथैव न पापमात्रेण कृतं हिनस्ति ॥९०॥
अतिपापं हिंसावदभक्ष्यं भक्षमाणस्य न दृष्टं पततीति शब्दः शब्दशास्त्रस्याज्ञामात्रम् । परं तु पापहेतुर्मुख्यो हिंसाख्योऽत्र न दृश्यत इति भावः । अन्योन्यकार्याणि मैथुनानि । पापमात्रेण कृतं पुण्यं हिनस्ति नाशयति तेन ईषत्पापोत्पत्तिरस्तु न तु ब्राह्मण्यादिधर्महानिरस्तीति भावः ॥९०॥
श्वपच उवाच ।
अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधुवृत्तम्
।
श्वानं पुनर्यो लभतेऽभिषङ्गात्तेनापि दण्डः सहितव्य एव ॥९१॥
अस्थानतः चाण्डालगृहात् हीनतः चौर्यतः कुत्सितात् अदित्सतः कदर्यात् अभिषङ्गात् अत्याग्रहात् श्वानं लभते तेनापि तेनैव दण्डः सहितव्यः सोढव्य एव । न तु दातुर्मम दोषोऽस्तीति भावः ॥९१॥
भीष्म उवाच।
एवमुक्त्वा निववृत्ते मातङ्गः कौशिकं तदा
।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥९२॥
ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः
।
सदारस्तामुपाहृत्य वने भोक्तुमियेष सः ॥९३॥
अथास्य बुद्धिरभवद्विधिनाहं श्वजाघनीम्
।
भक्षयामि यथाकामं पूर्वं सन्तर्प्य देवताः ॥९४॥
ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः
।
ऐन्द्राग्नेयेन विधिना चळं श्रपयत स्वयम् ॥९५॥
ततः समारभत्कर्म दैवं पित्र्यं च भारत
।
आहूय देवानिन्द्रादीन् भागं भागं विधिक्रमात् ॥९६॥
एतस्मिन्नेव काले तु प्रववर्ष स वासवः
।
संजीवयन् प्रजाः सर्वा जनयामास चौषधीः ॥९७॥
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः
।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥९८॥
स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः
।
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥९९॥
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः
।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥१००॥
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्
।
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥१०१॥
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये
।
बुद्धिमास्थाय लोकेऽस्मिन् वर्तितव्यं कृतात्मना ॥१०२॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि विश्वामित्रश्वपचसंवादे एकचत्वारिंशदधिकशततमोऽध्यायः ॥१४१॥
युधिष्ठिर उवाच।
यदि घोरं समुद्दिष्टमश्रद्धेयमिवानृतम्
।
अस्मि स्विद्दस्युमर्यादा यामहं परिवर्जये ॥१॥
यदिति । यदि महद्भिरपि घोरं कर्म कर्तव्यत्वेन समुद्दिष्टं यदश्रद्धेयमिवानृतमिव च तर्हि दस्यूनामकार्यकारिणामपि मर्यादा काचिदस्ति इतोऽधिकं दस्यूनां न कर्तव्यमिति ॥१॥
सम्मुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
।
उद्यमं नाधिगच्छामि कदाचित्परिसान्त्वयन् ॥२॥
अस्मिंश्चाकृत्ये कर्तव्ये सम्मोहादिकं प्राप्तोऽप्यात्मानं सान्त्वयन्नप्युद्यममध्यवसायं नाधिगच्छामि एतान् धर्मान् कर्तुमहं न शक्नोमीत्यर्थः ॥२॥
भीष्म उवाच।
नैतच्छ्रुत्वाऽऽगमादेव तव धर्मानुशासनम्
।
प्रजासमवहारोऽयं कविभिः सम्भृतं मधु ॥३॥
एतदागमादेव श्रुत्वा तव धर्मानुशासनं मया कृतमिति नास्ति किन्तु प्रज्ञायाः समवहारः निष्ठा कल्पितेयमित्यर्थः एतदग्निहोत्रादिवद्विधेयं न अपि तु कविभिरकरणे महान्तं दोषं पश्यद्भिः कल्पितमिति भावः ॥३॥
बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः
।
नैकशाखेन धर्मेण यत्रैषा सम्प्रवर्तते ॥४॥
ततस्ततः कोकिलवराहवृकसिंहादिभ्यः शिक्षित्वा यत्र यासु प्रज्ञासु अनुष्ठयासु एषा तव बुद्धिः ऐकशाखेनैकदेशिना धर्मेणोपलक्षिता न सम्प्रवर्तते ताः प्रज्ञाः बह्व्यः प्रतिविधातव्याः सन्ति ॥४॥
बुद्धिसंजननो धर्म आचारश्च सतां सदा
।
ज्ञेयो भवति कौरव्य सदा तद्विद्धि मे वचः ॥५॥
धर्मादिर्ज्ञेयः तत्तत्र विषये मे मम वचो विद्धि ॥५॥
बुद्धिश्रेष्ठा हि राजानश्चरन्ति विजयैषिणः
।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥६॥
प्रतिविधातव्यः चिकित्सनीयः ॥६॥
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते
।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुपाहृता ॥७॥
यतः पुरस्तादध्ययनकालेऽनुपाहृता अशिक्षिता अतः दुर्बलस्यैकदेशाध्ययनवतः प्रज्ञा कुतः न कुतःश्चिदित्यर्थः ॥७॥
अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति
।
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ॥८॥
द्वैधम् एकस्यैव कर्मणः क्वचित्काले धर्मत्वं क्वचिदधर्मत्वमिति द्विप्रकारत्वं, तस्मिन्प्राप्ते तदनभिज्ञः संशयं सङ्कटं प्राप्नोति । अहिंसाया धर्मत्वेऽपि चोररक्षया पापं भवति तद्वदिदं ज्ञेयम् ॥८॥
पार्श्वतः करणं प्राज्ञो विष्टंभित्वा प्रकारयेत्
।
जनस्तच्चरितं धर्मं विजानात्यन्यथान्यथा ॥९॥
पार्श्वतः पश्चात्करणं करणीयं विष्टम्भित्वा निश्चित्याग्रिमवर्षे प्रजाभ्यः षड्भागस्यार्धम् अंशत्रयं वा गृहीष्यामीत्यभिसन्धाय प्रकारयेत् आपत्काले तमेव षड्भागं सार्धगुणं सपादगुणं वा प्रकर्षेण गृह्णीयात् तत्कुर्वन्मूढदृष्ट्याऽधर्मी भवति न तु प्राज्ञदृष्ट्येत्यर्थः ॥९॥
अमिथ्याज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे
।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम् ॥१०॥
सतां मतमिति शेषः ॥१०॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते ॥११॥
मुष्णन्ति धर्मशास्त्रविरुद्धम् अर्थशास्त्रं नादर्तव्यमिति वदन्ति वैषम्यम् अप्रामाण्यम् अधर्मत्वं वा ॥११॥
आजिजीविषवो विद्यां यशःकामौ समन्ततः
।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः ॥१२॥
शास्त्रचोरनिन्दाप्रसङ्गात्तदुपजीविनोऽपि निन्दति आजिजीविषव इति सार्धैश्चतुर्भिः ॥१२॥
अपक्वमतयो मन्दा न जानन्ति यथातथम्
।
यथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः ॥१३॥
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
।
विज्ञानमर्थं विद्यानां न सम्यगिति वर्तते ॥१४॥
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च
।
वागस्त्रा वाक्छरीभूता दुग्धविद्याफला इव ॥१५॥
तान्विद्यावणिजो विद्धि राक्षसानिव भारत
।
व्याजेन सद्भिर्विहितो धर्मस्ते परिहास्यति ॥१६॥
दम्भिनं निन्दत्यर्धेन- व्याजेनेति । कृत इति शेषः ते तव ॥१६॥
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम्
।
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् ॥१७॥
प्रकृतमाह- नेति । वाचा केवलया बुद्धया तर्केण वा केवलेन धर्मवचनं धर्मनिश्चयो नास्ति अपि तु समुच्चिताभ्याम् उभाभ्यां धर्मनिर्णय इत्यर्थः ॥१७॥
न त्वेव वचनं किंचिदनिमित्तादिहोच्यते
।
सुविनीतेन शास्त्रेण न व्यवस्यन्त्यथापरे ॥१८॥
न त्विति । आततायी ब्राह्मणोऽपि हन्तव्य इत्यादिवचनं कामतो ब्राह्मणं हन्तुः प्रायश्चितं न विद्यत इत्यनेन विरुद्धमपि निष्कारणं प्रवर्तते न को हि तद्वेदयद्यमुष्मिल्लोकेऽस्ति वा न वेति वचनं यथा दिक्ष्वतीकाशान् करोतीत्यतीकाशविधिपरं न तु परलोकफले सन्देहोपन्यासपरम् । एवम् आाततायिब्राह्मणवधवाक्यमपि आततायी सर्वथा हन्तव्यः इत्येवम्परं न तु ब्राह्मणरूपोऽप्याततायी हन्तव्य इत्येवम्परम् इति कैश्चिदुच्यते । अपरे तु सुविनीतेन युक्तिमतापि शास्त्रेण शिक्षितम् आततायिवधं न व्यवस्यन्ति कर्तव्यत्वेन निश्चिन्वन्ति अहिंसाशास्त्रप्राबल्यात् । आत्मवधार्थमुद्यताद्गोरिवाततायिनोऽप्यात्मानं रक्षेन्न गामिव तं हन्यादिति तेषां भावः॥१८॥
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः
।
समुद्दिष्टं सतां धर्मं स्वयमूहेत पण्डितः ॥१९॥
इहलोके तु एके मुख्यास्त्वाचार्याः लोकयात्रां तन्निर्वाहमेव धर्मं प्राहुः । सा च चोरादीनां वधमन्तरेण न सम्भवतीत्यवश्यं हिंसाऽपि कर्तव्येति तेषामाशयः । तथाहि कल्पकाराः श्रुतिमुदाहरन्ति- अन्नादेर्भ्रूणहा मार्ष्टि अनेनाभिशंसति स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्गरे गुरौयाजश्च शिष्यश्च भर्तुर्व्यभिचारिणीति मार्ष्टिस्त्रियश्चपापमिति शेषः । एवं सत्यपि मतभेदे युक्त्यैव धर्मम् ऊहेतेत्याह- समिति ॥१९॥
अमर्षाच्छास्त्रसम्मोहादविज्ञानाच्च भारत
।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ॥२०॥
तस्मादमर्षादींस्त्यक्ता समूहे सभायां शास्त्रं वदेदित्याशयेनाह अमर्षादिति ॥२०॥
आगतागमया बुद्ध्या वचनेन प्रशस्यते
।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ॥२१॥
आगतागमया बुद्ध्या श्रुत्युपगृहीतेन तर्केण सहितं यद्वचनं तेन प्रशस्यते शास्त्रं नान्यतरेण । अन्यस्तु ज्ञानहेतुत्वात् । अज्ञातज्ञापकतया वचनं तर्केण हीनं शब्दमेव साधु मन्यते कुतः अज्ञानात् ॥२१॥
अनया हतमेवेदमिति शास्त्रमपार्थकम्
।
दैतेयानुशना प्राह संशयच्छेदनं पुरा ॥२२॥
अन्यः पुनः अनया युक्त्या इदं शास्त्रं हतं दुषितम् इति हेतोरपार्थकं व्यर्थमिति मन्यते तदप्यज्ञानादेव । तस्मात्तर्केण शास्त्रस्य शास्त्रेण तर्कस्य वा बाधमकृत्वा यदुभयसम्मतं तदेवानुष्ठेयमित्युशनसो मतं पूर्वोक्तेन बार्हस्पत्येन ज्ञानेनैक्यङ्गतमिति दर्शितम् ॥२२॥
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत्
।
तं तथा छिन्नमूलेन सन्नोदयितुमर्हसि ॥२३॥
किञ्च अपदिश्यं दिशोर्मध्ये स्थितं कोटिद्वयस्पर्शि ज्ञानं संशयरूपं तद्यथा नास्ति तथैव व्यर्थमित्यर्थः । अतस्तं संशयं छिन्नमूलेन मूलोच्छेदेन यथा स्यात्तथा सन्नोदयितुं दूरीकर्तुमर्हसि निःसंशयं यत् ज्ञानं तदेवाश्रयस्वेत्यर्थः ॥२३॥
अनव्यवहितं यो वा नेदं वाक्यमुपाश्नुते
।
उग्रायैव हि सृष्टोऽसि कर्मणे न त्वमीक्षसे ॥२४॥
यो वा भवान् मम इदं नीतिवाक्यं न उपाश्नुते नाङ्गीकरोति तत् अनव्यवहितम् अयुक्तम् । व्यवहितपदं न शब्देन समस्तं चेत् न व्यवहितशब्दः सन्निकृष्टवचनः तदभावोऽनव्यवहितमिति योगोऽत्र ज्ञेयः । कुतो युक्तमत आह- उग्रायति । यतः उग्राय हिंस्रकमार्थमेव त्वं सृष्टोऽसि । तच्च त्वं न समीक्षसेऽतो मम वचनं तव चेतसि न किञ्चिल्लग्नमित्यर्थः ॥२४॥
अङ्ग मामन्ववेक्षस्व राजन्याय बुभूषते
।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते ॥२५॥
हे अङ्ग मां अन्ववेक्षस्व बुभूषते ऐश्वर्यलिप्सवे राजन्याय राजसमूहाय तदर्थं यथा तत्प्रमुच्यते तथाकुर्वाणं मामन्ववेक्षस्वेत्यध्याहृत्य योज्यम् । अन्यो लोको यदर्थं यमर्थं न प्रमोदते नानुमोदते हिंस्रोऽयमिति मां निन्दन्तोऽपि भूलोकार्थिनो राजानः स्वहितमजानाना अपि मया स्वर्लोकं प्रापिताः उपकारायैव न स्वार्थाय । एवं त्वमप्युग्रेण कर्मणा प्रजास्तद्धितायैव शाधीति भावः ॥२५॥
अजोऽश्वः क्षत्रमित्येतत् सदृशं ब्रह्मणा कृतम्
।
तस्मादभीक्ष्णं भूतानां यात्रा काचित्प्रसिद्ध्यति ॥२६॥
अज इति । यथाऽजो यज्ञार्थं नीयते तद्धितायैवम् अश्वक्षत्रियावपि सङ्ग्रामार्थं नीयेते तद्धितायैव । 'हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्' इत्युक्तेः । तथा यज्ञे हन्यमानस्य पशोरपि स्वर्गप्राप्तिर्दृष्टा । 'पशुर्वै नीयमानः स मृत्युं प्रापश्यत्स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्यामः' इति ॥२६॥
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः
।
या चैव खलु मर्यादा यामयं परिवर्जयेत् ॥२७॥
एवं सम्मुह्यामीत्यादेरुत्तरमुक्त्वाऽस्तिस्विद्दस्युमर्यादा इत्यस्योत्तरमाह- यस्त्विति ॥२७॥
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेत्ततः
।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥२८॥
यस्य दस्युगणा राष्ट्रे ध्वांक्षा मत्स्यान् जलादिव
।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥२९॥
कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान्
।
प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन् ॥३०॥
विहीनं कर्मणा न्यायं यः प्रगृह्णाति भूमिपः
।
उपायस्याविशेषज्ञं तद्वै क्षत्रं नपुंसकम् ॥३१॥
अन्यायं न्यायवर्जितं यथा स्यात्तथा प्रगृह्णाति षड्भागमादत्ते कर्मणा पालनात्मकेन विहीनं क्षत्रम् ॥३१॥
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते
।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥३२॥
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम्
।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥३३॥
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्
।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥३४॥
युधिष्ठिर उवाच।
अस्ति चेदिह मर्यादा यामन्यो नाभिलंघयेत्
।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥३५॥
भीष्म उवाच।
ब्राह्मणानेव सेवेत विद्यावृद्धास्तपस्विनः
।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥३६॥
ब्राह्मणादर्वागेव दण्डस्य मर्यादा ब्राह्मणस्तु नैवं दण्ड्योऽपि तु पूज्य एवेत्याह- ब्राह्मणानेवेति॥३६॥
या देवतासु वृत्तिस्ते साऽस्तु विप्रेषु नित्यदा
।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥३७॥
प्रीत्या यशो भवेन्मुख्यमप्रीत्या परमं भयम्
।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव विषं यथा ॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥१४२॥
शौनक उवाच।
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे
।
श्रीमान्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥१॥
तस्मादिति । यस्मात् श्रीमान् विद्यावानस्मि तस्मात् ॥१॥
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत्
।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥२॥
कृत्स्नं नूनं स दहति इति लोको व्यवस्यति
।
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि ॥३॥
स भवान् तादृशस्तापकः ॥३॥
हित्वा तु सुचिरं भक्ष्यं भोज्यांश्च तप आस्थितः
।
इत्येतदभिभूतानामद्भुतं जनमेजय ॥४॥
अभिभूतानामधर्मेणेति शेषः ॥४॥
योऽदुर्लभो भवेद्दाता कृपणो वा तपोधनः
।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥५॥
नास्ति दुर्लभं यस्य सोऽदुर्लभः संपन्नः ॥५॥
एतदेव हि कार्पण्यं समग्रमसमीक्षितम्
।
यच्चेत्सममीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥६॥
यत् असमीक्षितं पौर्वापर्येणानालोचितम् एतदेकं समग्रं कृत्स्नं कार्पण्यं चेत्कार्ये समीक्षयैव स्यात् तस्मिन् कार्ये ततः समीक्षातः गुणः स्यात् ॥६॥
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते
।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥७॥
समीक्षामेवाह- यज्ञ इति ॥७॥
तदेव राज्ञां परमं पवित्रं जनमेजय
।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥८॥
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्
।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥९॥
यो मर्त्यः प्रतिपद्येत आयुर्जीवितमात्मनः
।
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥१०॥
एकान्ततोऽतियत्नेन ॥१०॥
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्
।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥११॥
तप एवाह-पुण्यमिति ॥११॥
यत्रावगाह्य पीत्वा च नैनं श्वोमरणं तपेत्
।
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥१२॥
कालोदकं च गन्तासि लब्धायुर्जीविते पुनः
।
सरस्वतीदृषद्वत्योः संगमो मानसः सरः ॥१३॥
मानस इति पुंस्त्वमार्षम् ॥१३॥
स्वाध्यायशीलः स्थानेषु सर्वेष्वेवमुपस्पृशेत्
।
त्यागधर्मः पवित्राणां संन्यासं मनुरब्रवीत् ॥१४॥
पवित्राणां पावनानां मध्ये त्यागधर्मो दानात्मको धर्मः पवित्रतरः संन्यासं तु परं धर्मं ततोऽप्यधिकं मनुरब्रवीत् ॥१४॥
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः
।
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत् ॥१५॥
कुमारो बालः सत्यो रागद्वेषशून्यत्वात् तथा तिष्ठेदित्यर्थः ॥१५॥
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम्
।
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ॥१६॥
नहीति सार्धः । सुखं दुःखं चोभयमपि कल्पितमित्यर्थः । प्रकृतिर्ब्रह्म तद्भूतानां ब्रह्मस्वरूपाणां सर्वाणि यानि संसर्गरूपाणि पापानि यान्ति तद्वताम् आविद्यकसंगमात्राद्दुःखादिभाजामित्यर्थः ॥१६॥
त्यजतां जीवितं श्रेयो निवृत्ते पुण्यपापके
।
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥१७॥
बलेन संविभागैश्च जय स्वर्गं जनेश्वर
।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥१८॥
बलेन धैर्येण संविभागैः दानैः । ओज इन्द्रियपाटवम् ॥१८॥
ब्राह्मणार्थं सुखार्थं हि त्वं पाहि वसुधां नृप
।
यथैवैतान्पुराऽऽक्षेप्सीस्तथैवैतान्प्रसादय ॥१९॥
अपि विक्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा
।
आत्मनो दर्शनाद्विप्रान्न हन्तास्मीति मार्गय
।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥२०॥
विक्रममाणः कर्मणि शानच् । नीचैः क्रियमाण इत्यर्थः । त्यजमानः दूरीक्रियमाणः आत्मनो दर्शनात् । आत्मौपम्येन मार्गय निश्चिनु ॥२०॥
हिमाग्निघोरसदृशो राजा भवति कश्चन
।
लांगलाशनिकल्पो वा भवेदन्यः परंतप ॥२१॥
हिमवत् शीतलः अग्निवत् क्रूरः घोरो यमस्तद्वद्गुणदोषविचारकः लांगलवद्दुष्टमूलोन्मूलनपरः अशनिवदाकस्मिकपातो दुष्टेषु ॥२१॥
न विशेषेण गन्तव्यमविच्छिन्नेन वा पुनः
।
न जातु नाहमस्मीति सुप्रसक्तमसाधुषु ॥२२॥
असाधुषु सुप्रसक्तं प्रीतिविशेषेण विशेषेण विद्वत्त्वादिना हेतुना अविच्छिन्नेन सामान्येन ब्राह्मणत्वादिना धर्मेण वा न गन्तव्यं न प्राप्तव्यं केनापि हेतुना खलेषु संगो न कर्तव्य इत्यर्थः । तत्र हेतुमाह - नेति । जातु कदाचित् अहं न अस्मीति न अपि त्वस्मीत्येव । मत्वेति शेषः स्वनाशार्थिखलसंगं न कुर्यादिति भावः ॥२२॥
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते
।
नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ॥२३॥
विकर्मणेति । सकृत्कृतात्पापात्पश्चात्तापमात्रेण मुच्यते । द्विरावृत्तात्पुनर्न करिष्यामीति नियमग्रहणमात्रेण । त्रिरावृत्ताद्यात्किञ्चिद्धर्मस्वीकारमात्रेण बहुकृत्वेति तदभ्यस्तात्तु तीर्थादिना मुच्यत इति श्लोकद्वयार्थः ॥२३॥
करिष्ये धर्ममेवेति तृतीयात्परिमुच्यते
।
शुचिस्तीर्थान्यनुचरन् बहुत्वात्परिमुच्यते ॥२४॥
कल्याणमनुकर्तव्यं पुरुषेण बुभूषता
।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥२५॥
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते
।
तपश्चर्यापरः सद्यः पापाद्विपरिमुच्यते ॥२६॥
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते
।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥२७॥
महासरः पुष्कराणि प्रभासोत्तरमानसे
।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥२८॥
यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः
।
प्रमीयमानानुन्मोच्य प्राणिहा विप्रमुच्यते ॥२९॥
यावत इति प्रकृतोपयोगि ॥२९॥
अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम्
।
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥३०॥
अघमर्षणम् ऋतं च सत्यं चेति ऋक्त्रयम् ॥३०॥
तत्क्षिप्रं नुदते पापं सत्कारं लभते यथा
।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥३१॥
बृहस्पतिं देवगुरुं सुरासुराः सर्वे समेत्याभ्यनुयुज्य राजन्
।
धर्म्यं फलं वेत्थ फलं महर्षे तथैव तस्मिन्नरके पारलोक्ये ॥३२॥
अनुयुज्य अत्यादरपूर्वकम् उपेत्यापृच्छन्निति शेषः । धर्म्यं धर्मोद्भवं फलं सुखरूपं वेत्थ जानीषे । तथा नरके फलं दुःखं तदपि वेत्थ ॥३२॥
उभे तु यस्य सदृशे भवेतां किंस्वित्तयोस्तत्र जयोऽथ न स्यात्
।
आचक्ष्व नः पुण्यफलं महर्षे कथं पापं नुदते धर्मशीलः ॥३३॥
यस्य योगिनः उभे अपि सुखदुःखे सदृशे यस्य च तयोर्द्वयोस्तुल्यो जयोऽस्ति उत न सामान्याभावेऽपि किं पुण्यस्य फलं कथं दानपुण्येन पापं नुदति तदाचक्ष्वेति द्वयोः सम्बन्धः ॥३३॥
बृहस्पतिरुवाच
।
कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम्
।
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्तम् ॥३४॥
अबुद्धिपूर्वमित्यस्य प्रश्नस्योत्तरमाह - कृत्त्वेति ॥३४॥
पापं कृत्वाऽभिमन्येत नाहमस्मीति पूरुषः
।
तच्चिकीर्षति कल्याणं श्रद्दधानोऽनसूयकः ॥३५॥
पापमिति कर्तृत्वाभिमानशून्यः पापं कुर्वन्नपि न करोत्यवत्येधेस्यार्थः ॥३५॥
छिद्राणि विवृतान्येव साधूनां चावृणोति यः
।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥३६॥
आवृणोति पिघत्ते स कल्याणं चिकीर्षतीति सम्बन्धः ॥३६॥
यथाऽऽदित्यः प्रातरुद्यंस्तमः सर्वं व्यपोहति
।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥३७॥
भीष्म उवाच।
एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम्
।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥३८॥
ततः स राजा व्यपनीतकल्मषः श्रेयोवृतः प्रज्वलिताग्निरूपवान्
।
विवेश राज्यं स्वममित्रकर्षणो यथा दिवं पूर्णवपुर्निशाकरः ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि इन्द्रोत-पारिक्षितीये द्विपञ्चाशदधिकशततमोऽध्यायः ॥१५२॥
युधिष्ठिर उवाच।
कच्चित्पितामहेनासीच्छ्रुतं वा दृष्टमेव च
।
कच्चिन्मर्त्यो मृतो राजन् पुनरुज्जीवितोऽभवत् ॥१॥
तदेवं व्यापन्नस्य राज्ञो बुद्धिपूर्वमबुद्धिपूर्वं वा कृतं पापं सत्कर्मणा धर्माध्यवसायेन च नश्यतीति परलोकभयाभावो दर्शितः । इहलोकेऽप्यत्यन्तापन्नस्य मृतकल्पस्य द्वाभ्यामहमहमिकया ग्रसितुमवेक्षितस्य केनचित्कारणेन कञ्चित्कालमवस्थितस्य काचिद्गतिरस्ति न वेति पृच्छति - कच्चिदिति । तादृशस्याप्युज्जीवनं क्वचिद्दृष्टमस्तीति प्रष्टुराशयः ॥१॥
भीष्म उवाच।
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्
।
गृध्रजम्बुकसंवादं यो वृत्तो नैमिषे पुरा ॥२॥
अत्रोत्तरं गृध्रगोमायुभ्यां युगपत्प्रार्थ्यमानस्य शिशोः स्वजननिरोधात्कञ्चित्कालमवस्थितस्य ईश्वरेण यथा जीवनं दत्तम् एवमेवेश्वरोऽनुगृह्णातीत्याख्यायिकामुखेनैवाह - शृणु पार्थेत्यादिना । स्पष्टार्थोऽध्यायशेषः ॥२॥
कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः
।
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥३॥
दुःखिताः केचिदादाय बालमप्राप्तयौवनम्
।
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ॥४॥
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः
।
अङ्केनैव च संक्रम्य रुरुदुर्भृशदुःखिताः ॥५॥
शोचन्तस्तस्य पूर्वोक्तान् भाषितांश्चासकृत्पुनः
।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥६॥
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्
।
एकात्मजमिमं लोके त्यक्त्वा गच्छत मा चिरम् ॥७॥
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह
।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥८॥
सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्
।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥९॥
गृहीत्वा ये च गच्छन्ति ये न यान्ति च तान् मृतान्
।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥१०॥
अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले
।
कङ्कालबहुले रौद्रे सर्वप्राणिभयङ्करे ॥११॥
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः
।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥१२॥
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता
।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥१३॥
कर्मान्तविरते लोके अस्तं गच्छति भास्करे
।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥१४॥
ततो गृध्रवचः श्रुत्वा प्राक्रोशन्तस्तदा नृप
।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥१५॥
विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः
।
मृतमित्येव गच्छन्तो निराशास्तस्य दर्शने ॥१६॥
निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम्
।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥१७॥
ध्वांक्षपक्षसवर्णस्तु विलान्निसृत्य जम्बुकः
।
गच्छमानान् स्म तानाह निघृणाः खलु मानुषाः ॥१८॥
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्
।
बहुरूपो मुहूर्तश्च जीवेदपि कदाचन ॥१९॥
यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः
।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥२०॥
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि
।
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥२१॥
ते पश्यत सुतस्नेहो यादृशः पशुपक्षिणाम्
।
न तेषां धारयित्वा तान् कश्चिदस्ति फलागमः ॥२२॥
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
।
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥२३॥
तेषां पुत्राभिरामाणामिहलोके परत्र च
।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥२४॥
अपश्यतां प्रियान्पुत्रान् तेषां शोको न तिष्ठति
।
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ॥२५॥
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति
।
इमं कुलकरं पुत्रं त्यक्त्वा क्व न गमिष्यथ ॥२६॥
चिरं मञ्चत बाष्पं च चिरं स्नेहेन पश्यत
।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥२७॥
क्षीणस्याभियुक्तस्य श्मशानाभिमुखस्य च
।
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नाधितिष्ठति ॥२८॥
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति
।
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥२९॥
त्यक्त्वा कथं गच्छथेमं पद्मलोलायताक्षिकम्
।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ॥३०॥
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः
।
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ॥३१॥
गृध्र उवाच ।
अहो वत नृशंसेन जम्बुकेनाल्पमेधसा
।
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥३२॥
पञ्चेन्द्रियपरित्यक्तं शुष्कं काष्ठत्वमागतम्
।
कस्माच्छोवथ तिष्ठन्तमात्मानं किं न शोचथ ॥३३॥
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्
।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥३४॥
अनिष्टानि च भाग्यानि जातानि सह मूर्तिना
।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥३५॥
धनं, गावः, सुवर्णं च मणिरत्नमथापि च
।
अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ॥३६॥
यथाकृता च भूतेषु प्राप्यते सुखदुःखिता
।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥३७॥
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा
।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥३८॥
धर्मं चरत यत्नेन न चाधर्मे मनः कृथाः
।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥३९॥
कृथा इति वचनव्यत्ययश्छान्दसः ॥३९॥
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत
।
त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ॥४०॥
यत्करोति शुभं कर्म तथा कर्म सुदारुणम्
।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥४१॥
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्
।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥४२॥
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा
।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥४३॥
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ
।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥४४॥
यौवनस्थांश्च बालांश्च वृद्धान् गर्भगतानपि
।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥४५॥
जम्बुक उवाच ।
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना
।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥४६॥
समैः सम्यक्प्रयुक्तैश्च वचनैः प्रत्ययोत्तरैः
।
यद्गच्छति जनश्चायं स्नेहमुत्सृज्य दुस्त्यजम् ॥४७॥
अहो पुत्रवियोगेन मृतशून्योपसेवनात्
।
क्रोशतां सुभृशं दुःखं विवत्सानां गवामिव ॥४८॥
अद्य शोकं विजानामि मानुषाणां महीतले
।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥४९॥
यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति
।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥५०॥
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्
।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥५१॥
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम्
।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥५२॥
अथवाऽस्तंगते सूर्ये संध्याकाल उपस्थिते
।
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥५३॥
गृध्र उवाच ।
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः
।
न च पश्यमि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥५४॥
मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च
।
चङ्क्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥५५॥
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि
।
जङ्गमानां नगानां वाप्यायुरग्रेऽवतिष्ठते ॥५६॥
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा
।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥५७॥
अनिष्टानां सहस्राणि तथेष्टानां शतानि च
।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥५८॥
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः
।
अन्यदेहविषक्तं हि शावं काष्ठत्वमागतम् ॥५९॥
त्यक्तजीवस्य चैवास्य कस्माद्धित्वा न गच्छत
।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥६०॥
चक्षुर्भ्यां न च कर्णाभ्यां संशृणोति समीक्षते
।
कस्मादेनं समुत्सृज्य न गृहान्गच्छताशु वै ॥६१॥
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः
।
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥६२॥
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना
।
वचनं श्राविता नूनं मानुषाः संन्यवर्तत
।
शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् ॥६३॥
इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः
।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥६४॥
जम्बुक उवाच ।
इमं कनकवर्णाभं भूषणैः समलंकृतम्
।
गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥६५॥
न स्नेहस्य च विच्छेदो विलापरुदितस्य च
।
मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम् ॥६६॥
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः
।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥६७॥
तथा श्वेतस्य राजर्षेर्बालो दृष्टान्तमागतः
।
श्वेतेन धर्मनिष्ठेन मृतः संजीवितः पुनः ॥६८॥
तथा कश्चिल्लभेत्सिद्धो मुनिर्वा देवतापि वा
।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥६९॥
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः
।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्
।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥७०॥
गृध्र उवाच ।
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः
।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥७१॥
तपसापि हि संयुक्ता धनवन्तो महाधियः
।
सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनम् ॥७२॥
बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः
।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥७३॥
अलं निर्बन्धमागत्य शोकस्य परिधारणे
।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥७४॥
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते
।
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि ॥७५॥
शक्यं जीवयितुं ह्येष बालो वर्षशतैरपि
।
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च ॥७६॥
वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः
।
नैव बाष्पविमोक्षेण न वा श्वासकृते न च ॥७७॥
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति
।
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः ॥७८॥
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि
।
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ॥७९॥
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत्
।
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् ॥८०॥
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत
।
मातरं पितरं वापि बान्धवान् सुहृदस्तथा ॥८१॥
जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः
।
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन ॥८२॥
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ
।
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः
।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥८३॥
जम्बुक उवाच ।
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः
।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥८४॥
बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम्
।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम् ॥८५॥
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते
।
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा ॥८६॥
कथं गच्छत निःस्नेहाः सुतस्नेहं विसृज्य च
।
प्रदीप्ताः पुत्रशोकेन सन्निवर्तत मानुषाः ॥८७॥
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः
।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥८८॥
सुखदुःखावृते लोके नेहास्त्येकमनन्तरम्
।
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् ॥८९॥
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ
।
रूप-यौवनसम्पन्नं द्योतमानमिव श्रिया ॥९०॥
जीवन्तमेव पश्यामि मनसा नात्र संशयः
।
विनाशो नास्य न हि वै सुखं प्राप्स्यथ मानुषाः ॥९१॥
पुत्रशोकाभितप्तानां मृतानामद्य वः क्षमम्
।
सुखसम्भावनं कृत्वा धारयित्वा सुखं स्वयम्
।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥९२॥
भीष्म उवाच।
तथा धर्मविरोधेन प्रियमिथ्याभिधायिना
।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥९३॥
ततो मध्यस्थतां नीता वचनैरमृतोपमैः
।
जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ॥९४॥
गृध्र उवाच ।
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः
।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥९५॥
भीमः सुघोरश्च तथा नीलमेघसमप्रभः
।
अस्मिञ्छवं परित्यज्य प्रेतकार्याण्युपासत ॥९६॥
भानुवत्प्रयात्यस्तं यावच्च विमला दिशः
।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥९७॥
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम्
।
मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ॥९८॥
चिताधूमेन नीलेन संरज्यन्ते च पादपाः
।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥९९॥
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे
।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥१००॥
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति
।
त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ॥१०१॥
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च
।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनंक्ष्यथ ॥१०२॥
जम्बुक उवाच ।
स्थीयतां नेह भेतव्यं यावत्तपति भास्करः
।
तावदस्मिन् सुते स्नेहादनिर्वेदेन वर्तत ॥१०३॥
स्वैरं रुदन्तो विश्रब्धाश्चिरं स्नेहेन पश्यत
।
स्थीयतां यावदादित्यः किं च क्रव्यादभाषितैः ॥१०४॥
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च
।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥१०५॥
भीष्म उवाच।
गृध्रोऽस्तमित्याह गतो गतो नेति च जम्बुकः
।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥१०६॥
स्वकार्यबद्धकक्षौ तौ राजन् गृध्रोऽथ जम्बुकः
।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥१०७॥
तयोर्विज्ञानविदुषोर्द्वयोर्मुगपतत्रिणोः
।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ति व्रजन्ति च ॥१०८॥
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा
।
स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् ॥१०९॥
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः
।
बान्धवानां स्थितानां चाप्युपातिष्ठत शङ्करः ॥११०॥
देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः
।
ततस्तानाह मनुजान् वरदोऽस्मीति शङ्करः ॥१११॥
ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः
।
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् ॥११२॥
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि
।
एवमुक्तः स भगवान् वारिपूर्णेन चक्षुषा ॥११३॥
जीवितं स्म कुमाराय प्रादाद्वर्षशतानि वै
।
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् ॥११४॥
वरं पिनाकी भगवान् सर्वभूतहिते रतः
।
ततः प्रणम्य ते देवं प्रायो हर्षसमन्विताः ॥११५॥
कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो
।
अनिवेदेन दीर्घेण निश्चयेन ध्रुवेण च ॥११६॥
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते
।
पश्य दैवस्य संयोगं बान्धवानां च निश्चयम् ॥११७॥
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम्
।
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च ॥११८॥
प्रसादं शङ्करात्प्राप्य दुःखिताः सुखमाप्नुवन्
।
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात् पुनः ॥११९॥
बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै
।
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् ॥१२०॥
विविशुः पुत्रमादाय नगरं हृष्टमानसाः
।
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥१२१॥
धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम्
।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥१२२॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि गृध्रगोमायुसंवादे कुमारसंजीवने त्रिपञ्चाशदधिकशततमोऽध्यायः ॥१५३॥
युधिष्ठिर उवाच।
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते
।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥१॥
तदेवमापद्धर्मानुक्त्वा राज्ञामराज्ञां च सर्वापन्मूलभूतान् दोषान् उत्पत्तिप्रतिबन्धकान् गुणांश्च लोभाज्ञानदमतपःसत्यादीन् हेयानुपादेयांश्च क्रमेणाध्यायसप्तकेनाह- पापस्य यदधिष्ठानमित्यादिना ॥१॥
भीष्म उवाच।
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप
।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥२॥
ग्राह इव ग्राहो ग्रासकर्ता ॥२॥
अतः पापमधर्मश्च तथा दुःखमनुत्तमम्
।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥३॥
येन लोभेन जनाः पापकृतो भवन्ति ॥३॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते
।
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥४॥
परासुता पराधीनप्राणत्वम् ॥४॥
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः
।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥५॥
अभिध्या चिन्ता अप्रख्यता अपकीर्तिः ॥५॥
अत्यागश्चातितर्षश्च विकर्मसु च याः क्रियाः
।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥६॥
अत्यागादयोऽकार्यक्रियान्ताः सर्वे दोषाः लोभात् प्रवर्तन्त इति पूर्वेणान्वयः ॥६॥
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः
।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥७॥
हरणं परवित्तानां परदाराभिमर्शनम्
।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥८॥
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः
।
ईर्ष्यावेगश्च बलवान् मिथ्यावेगश्च दुर्जयः ॥९॥
रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसहः
।
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता ॥१०॥
साहसानां च सर्वेषामकार्याणां क्रियास्तथा
।
जातौ बाल्ये च कौमारे यौवने चापि मानवाः ॥११॥
जातौ जन्मनि ॥११॥
न संत्यजन्त्यात्मकर्म यो न जीर्यति जीर्यतः
।
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह ॥१२॥
यो न पूरयितुं शक्य इत्यादीनां स लोभो जेतव्य इति तृतीयेनान्वयः ॥१२॥
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः
।
न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति ॥१३॥
यों न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः
।
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ॥१४॥
स लोभः सह मोहेन विजेतव्यो जितात्मना
।
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा ॥१५॥
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्
।
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः ॥१६॥
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः
।
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ॥१७॥
अल्पेऽपि धनादौ बुद्धिर्येषां तेऽल्पबुद्धयो लुब्धा इत्यर्थः ॥१७॥
अन्तःक्रूरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव
।
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ॥१८॥
धर्मवैतंसिकाः धर्मव्याजेनेतरान् हिंसन्तः ध्वजिनो धर्मख्यापकाः ॥१८॥
कुर्वते च बहून्मार्गांस्तान् हेतुबलमाश्रिताः
।
सतां मार्गान् विलुम्पन्ति लोभाज्ञानेष्ववस्थिताः ॥१९॥
हेतुबलं -
'येन केनाप्युपायेन यस्य कस्यापि देहिनः
।
सन्तोषं जनयेत्प्राज्ञस्तदेवेश्वरपूजनम्॥'
इत्यागमबलेन अन्योन्यसंतोषहेतुतया पारदार्यादेरपि धर्मत्वं वर्णयन्तीति भावः ॥१९॥
धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः
।
या या विक्रियते संस्था ततः साऽपि प्रपद्यते ॥२०॥
संस्था स्थितिः विक्रियतेऽन्यथा भवति सा तथैव प्रपद्यते प्रथां याति ॥२०॥
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता
।
एव एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥२१॥
एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान्
।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥२२॥
येष्वावृत्तिभयं नास्ति परलोकभयं न च
।
नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च ॥२३॥
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः
।
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥२४॥
दातारो न ग्रहीतारो दयावन्तस्तथैव च
।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥२५॥
सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः
।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥२६॥
सर्वं प्राणपर्यन्तमपि देयं परार्थे दातुं योग्यं येषां ते ॥२६॥
न ते चालयितुं शक्या धर्मव्यापारकारिणः
।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥२७॥
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः
।
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता ॥२८॥
कामक्रोधव्यपेता ये निर्ममा निरहंकृताः
।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥२९॥
पृच्छ च धर्ममिति शेषः ॥२९॥
न धनार्थं यशोऽर्थं वा धर्मस्तेषां युधिष्ठिर
।
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥३०॥
क्रिया आहारादयः ॥३०॥
न भयं क्रोधचापल्ये न शोकस्तेषु विद्यते
।
न धर्मध्वजिनश्चैव न गुह्यं कञ्चिदास्थिताः ॥३१॥
गुह्यं गोपनीयं कञ्चित्पाखण्डधर्मम् ॥३१॥
येष्वलोभस्तथा मोहो ये च सत्यार्जवे स्थिताः
।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥३२॥
अमोह इति च्छेदः येषां वृत्तमिति शेषः ॥३२॥
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च
।
निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः ॥३३॥
लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च
।
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्त्वपथे स्थितानाम् ॥३४॥
धर्मप्रियांस्तान्सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः
।
दैवान्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथान्ये ॥३५॥
हे शुभ हे भद्र सर्वे वाक्प्रलापाः गुणवन्तो भवन्ति तान् दैवान् प्रधानान् अन्ये तु मूढानां वाक्प्रलापा अशुभे अशुभार्थमेव भवन्तीति शेषः । लोभं जेतुकामेन सत्संगः कर्तव्यः इत्यर्थः ॥३५॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि आपन्मूलभूतदोषकथने अष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥
युधिष्ठिर उवाच।
स्वाध्याये कृतयत्नस्य नरस्य च पितामह
।
धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते ॥१॥
स्वाध्याये इति ॥१॥
बहुधा दर्शने लोके श्रेयो यदिह मन्यसे
।
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥२॥
महानयं धर्मपथो बहुशाखश्च भारत
।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥३॥
धर्मस्यो महतो राजन् बहुशाखस्य तत्त्वतः
।
यन्मूलं परमं तात तत्सर्वं ब्रूह्यशेषतः ॥४॥
भीष्म उवाच।
हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि
।
पीत्वाऽमृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ॥५॥
धर्मस्य विधयो नैके ये वै प्रोक्ता महर्षिभिः
।
स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥६॥
दमः इन्द्रियनियमः परायणं पराकाष्ठा अत्रैव सर्वे धर्मा अन्तर्भूता इत्यर्थः ॥६॥
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः
।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥७॥
दमात्तस्य क्रियासिद्धिर्यथावदुपलभ्यते
।
दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥८॥
दमस्तेजो वर्धयति पवित्रं च दमः परम्
।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥९॥
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम
।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥१०॥
प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम्
।
दमेन हि समायुक्तो महान्तं धर्ममश्नुते ॥११॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥१२॥
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते
।
अनर्थांश्च बहूनन्यान् प्रसृजत्यात्मदोषजान् ॥१३॥
आश्रमेषु चतुर्ष्बाहुर्दममेवोत्तमं व्रतम्
।
तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥१४॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥१५॥
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता
।
अविहिंसानसूया चाप्येषां समुदयो दमः ॥१६॥
गुरुपूजा च कौरव्य दया भूतेषु पैशुनम्
।
जनवादं मृषावादं स्तुतिनिन्दाविसर्जनम् ॥१७॥
पैशुनं दान्तो नैव निषेवत इत्युत्तरेणान्वयः स्तुतिनिन्दयोरविसर्जनम् ॥१७॥
कामं क्रोधं च लोभं च दर्पं स्तम्भं विकत्थनम्
।
रोषमीर्ष्या॑वमानं च नैव दान्तो निषेवते ॥१८॥
दर्पं गर्वं स्तम्भम् अविनयम् ॥१८॥
अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः
।
समुद्रकल्पः स नरो न कथंचन पूर्यते ॥१९॥
अल्पेषु अनित्यसुखेषु कथञ्चन ब्रह्मलोकलाभेऽपि न पूर्यते न तृप्तो भवति ॥१९॥
अहं त्वयि ममत्वं च मयि तेषु तथाऽप्यहम्
।
पूर्वसम्बन्धिसंयोगं नैतद्दान्तो निषेवते ॥२०॥
सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः
।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥२१॥
मैत्रोऽथ शीलसम्पन्नः प्रसन्नात्माऽऽत्मविच्च यः
।
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥२२॥
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद्बुधः
।
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥२३॥
कर्म यच्छुभमेवेह सद्भिराचरितं च यत्
।
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥२४॥
वर्त्म स्वाभाविकः पन्थाः यदयेषां विहितं तज्ज्ञानिनः स्वभावसिद्धमित्यर्थः ॥२४॥
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः
।
कालाकाङ्क्षी चरत्येवं ब्रह्मभूयाय कल्पते ॥२५॥
निष्क्रम्य गृहादिति शेषः । सन्न्यस्येत्यर्थः ॥२५॥
अभयं यस्य भूतेभ्यो भूतानामभयं यतः
।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥२६॥
अवाचिनोति कर्माणि न च सम्प्रचिनोति ह
।
समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ॥२७॥
अवाचिनोति भोगेन व्ययीकरोति न च सञ्चिनोति संगृह्णाति तत्त्वज्ञस्य कर्माश्लेषस्मरणात् मैत्रायणं सर्वभूतेभ्योऽभयदानम् ॥२७॥
शकुनीनामिवाकाशे जले वारिचरस्य च
।
यथा गतिर्न दृश्येत तथा तस्य न संशयः ॥२८॥
अनेन देवयानेनान्येन वा पथा गत इति न ज्ञायते उत्क्रमणाभावात् । 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति' इति श्रुतेरिति भावः ॥२८॥
गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते
।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥२९॥
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः
।
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥३०॥
कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः
।
प्राप्येह लोके सत्कारं स्वर्ग समभिपद्यते ॥३१॥
कामे शुचिः सत्यकाम इत्यर्थः । अनावृत्तः सर्वत्र कामाचारभाक् । 'तस्य सर्वेषु लोकेषु कामचारो भवति' इति श्रुतेः शुचिस्त्यक्तकामः सत्कारं सत्यसंस्कारत्वादिगुणयोगेन सम्मानम् इह प्राप्य स्वर्गम् अभिपद्यते विदेहकैवल्यकाले ॥३१॥
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्
।
गुहायां पिहितं नित्यं तद्दमेनाभिगम्यते ॥३२॥
गुहायां हृत्पुण्डरीके पैतामहं ब्रह्मलोकाख्यम् ॥३२॥
ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः
।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥३३॥
एक एव दमे दोषो द्वितीयो नोपपद्यते
।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥३४॥
एकोऽस्य सुमहाप्राज्ञः दोषः स्यात् सुमहान्गुणः
।
क्षमया विपुला लोकाः सुलभा हि सहिष्णुता ॥३५॥
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत
।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥३६॥
वैशम्पायन उवाच।
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः
।
अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥३७॥
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम्
।
तपः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वह ॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि दमकथने षष्ट्यधिकशततमोऽध्यायः ॥१६०॥
भीष्म उवाच।
हृतार्थो यक्ष्यमाणश्व सर्ववेदान्तगश्च यः
।
आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च ॥१॥
हतेति । एवमापदां निदानप्रतीकारादिकमुक्तम् । इदानीं सामान्यतः सर्वासामापदां मूलं पापं तच्चाकृतप्रायश्चित्तानामापद्रूपेण बाधत इति साधारणासाधारणं प्रायश्चित्तमाह हृतार्थ इत्यध्यायेन । हृतार्थः चोरैर्लुठितः ॥१॥
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः
।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥२॥
अन्यत्र दक्षिणादानं देयं भरतसत्तम
।
अन्येभ्योऽपि बहिर्वेदि चाकृतान्नं विधीयते ॥३॥
निःस्वो निर्धनः अन्यत्र उक्तेभ्योऽन्यत्रापि ब्राह्मणेषु अन्येभ्योऽब्राह्मणेभ्यः अकृतान्नम् अपक्वानं विधीयते तेभ्योऽप्यकृतान्नं देयमिति भावः ॥३॥
सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत्
।
ब्राह्मणा एव वेदाश्च यज्ञाश्च बहुदक्षिणाः ॥४॥
अन्योन्यविभवाचारा यजन्ते गुणतः सदा
।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥५॥
यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः
।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥६॥
ब्राह्मणस्य यज्ञः एकेनांशेन स्त्र्याद्यङ्गनाशेन प्रतिरुद्धः स्यात्तर्हि तस्य वैश्यस्य तद्धनं पार्थिवो यज्ञार्थं हरेदिति द्वितीयेन सम्बन्धः ॥६॥
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः
।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥७॥
आहरेदथ नो किञ्चत्कामं शूद्रस्य वेश्मनः
।
न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः ॥८॥
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः
।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥९॥
अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा
।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥१०॥
तथैव शृणु मे भक्तं भक्तानि षडनश्नतः
।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥११॥
भक्तं एकाहपर्याप्तं धान्यं भक्तानि षडनश्नतः त्र्यहमुपोषितस्य ॥११॥
खलात्क्षेत्रात्तथारामाद्यतो वाऽप्युपपद्यते
।
आख्यातव्यं नृपस्यैतत्पृच्छतेऽपृच्छतेऽपि वा ॥१२॥
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्
।
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ॥१३॥
बालिश्यादित्यनेन क्षत्रियस्यैव स दोष इत्युक्तम् ॥१३॥
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
।
अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ॥१४॥
इष्टिं वैश्वानरीं नित्यं निर्वयेदब्दपर्यये
।
अनुकल्पः परो धर्मो धर्मवादैस्तु केवलम् ॥१५॥
अब्दपर्यये प्रत्यब्दं कर्तव्यस्य आग्रयणपशुसोमादेरकरणे धर्मवादैर्धर्मज्ञैरुक्त इति शेषः ॥१५॥
विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः
।
आपत्सु मरणाद्भीतैर्विधिः प्रतिनिधीकृतः ॥१६॥
अनुकल्पे मानमाह - विश्वैरिति ॥१६॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते
।
न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ॥१७॥
सांपरायिकं पारलौकिकं शठत्वात् ॥१७॥
न ब्राह्मणो निवेदेत किंचिद्राजनि वेदवित्
।
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् ॥१८॥
न निवेदेत अहं ब्राह्मणोऽस्मीति न निवेदयेत् ॥१८॥
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम्
।
कर्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ॥१९॥
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम्
।
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ॥२०॥
धनैर्वैश्यश्च शूद्रश्च, मन्त्रैर्होमैश्च वै द्विजः
।
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः ॥२१॥
परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
।
नरकं निपतन्त्येते जुह्वानाः स च यस्य तत्
।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥२२॥
परिवेष्टा आहुतिप्रक्षेप्ता कन्यायुवत्योः स्मार्ताग्निहोमे ’स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा' इत्याश्वलायनवचनादधिकृतयोरत्रापि प्रसक्तेर्निषेध उक्तः ॥२२॥
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्
।
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥२३॥
पुण्यानि यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ॥२४॥
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः
।
इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति ॥२५॥
उदक्यामासते ये च द्विजाः केचिदनग्नयः
।
होमं चाश्रोत्रियं येषां ते सर्वे पापकर्मिणः ॥२६॥
आसते मिथुनीभवन्ति 'सङ्ग्रामदाडिम' इत्यादिलिङ्गानुशासनसूत्राद्धोमशब्दस्य नपुंसकत्वम् । सर्वे त्रयोऽपि ॥२६॥
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
।
उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥२७॥
उदपानः कूपः तदेकोदके एककूपोपजीव्ये इत्यर्थः ॥२७॥
अभार्यां शयने बिभ्रच्छूद्रं वृद्धं च वै द्विजः
।
अब्राह्मणं मन्यमानस्तृणेष्वासीत पृष्ठतः
।
तथा संशुध्यते राजन् शृणु चात्र वचो मम ॥२८॥
अभार्याम् अपरिणीतां शयने विभ्रद्ब्राह्मणः तथा शुद्रं वृद्धं महानिति मन्यमानः तथा अब्राह्मणं क्षत्रियं वैश्यं वा वृद्धं मन्यमानः तृणेषु यद्यासीत उपविष्टः स यथा संशुध्येत तथा शृणु इति सार्धार्थः ॥२८॥
यदेकरात्रेण करोति पापं निकृष्टवर्णं ब्राह्मणः सेवमानः
।
स्थानासनाभ्यां विहरन् व्रती स त्रिभिर्वर्षैः शमयेदात्मपापम् ॥२९॥
विहरन् करोतीति सम्बन्धः ॥२९॥
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले
।
न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि ॥३०॥
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्
।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥३१॥
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥३२॥
गोब्राह्मणहितार्थं च वर्णानां संकरेषु च
।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥३३॥
सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा
।
अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा ॥३४॥
अनिर्देश्यानि बुद्धिपूर्वकानि चेदत्र प्रायश्चित्तं नास्तीत्यर्थः । किं तर्हि मरणान्तमेव प्रायश्चित्तमिति धारणा निश्चयः ॥३४॥
सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्
।
विहरन्मद्यपानाच्च अगम्यागमनादपि ॥३५॥
पतितैः सम्प्रयोगाच्च ब्राह्मणीयोनितस्तथा
।
अचिरेण महाराज पतितो वै भवत्युत ॥३६॥
ब्राह्मणीयोनितः अब्राह्मणो ब्राह्मणीगमनादित्यर्थः ॥३६॥
संवत्सरेण पतति पतितेन सहाचरन्
।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥३७॥
याजनादित्रयेण सद्यःपतति न तु यानादिना तेन तु वर्षेण पततीत्यर्थः । यौनं विवाहादिना सम्बन्धः ॥३७॥
एतानि हित्वाऽतोऽन्यानि निर्देश्यानीति भारत
।
निर्देश्यानेन विधिना कालेनाव्यसनी भवेत् ॥३८॥
एतानि पञ्चमहापापानि अन्यानि तु निर्देश्यानि स प्रायश्चित्तानि निर्देश्य विशोध्य अव्यसनी पुनः पापरुचिर्न स्यात् ॥३८॥
अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्यपातिते
।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ॥३९॥
अन्नमिति । पूर्वेषु त्रिषु सुरापब्रह्मघ्नगुरुतल्पगेषु मृतेषु प्रेतकर्मण्यपातितेऽपि दाहाद्यकरणेऽपि अन्नं वीर्यं हिरण्यं च ग्रहीतव्यं तेषु मृतेषु सपिण्डानामाशौचाभावात् तेषां प्रेतकर्मनिषेधाच्चेति भावः ॥३९॥
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः
।
प्रायश्चित्तानि कुर्याच्च न तैरर्हन्ति संविदम् ॥४०॥
अमात्यादीन्पतितान् जह्यादेत्र धार्मिकस्तैः सह संविदं न कुर्यात् यतस्ते प्रायश्चित्तानि नार्हन्तीति योजना । प्रायश्चित्तान्यकुर्वाणैर्न तैरर्हन्ति संविदमिति पाठान्तरे तु सुगमम् ॥४०॥
अधर्मकारी धर्मेण तपसा हन्ति किल्विषम्
।
ब्रुवंस्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ॥४१॥
ब्रुवन्निति । उपलक्षणमिदं दोषान्तराणाम् ॥४१॥
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्
।
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती ॥४२॥
दुष्यती अप्रत्तापि मैथुनमिच्छन्ती ॥४२॥
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः
।
ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् ॥४३॥
शेषं भागद्वयम् अवगर्ह्य गालयित्वा विनिन्द्य स्पृष्ट्वाऽर्धचन्द्रादिनापनोद्य गुरुतरं शेषादप्यधिकं पातकं तस्य फलम् ॥४३॥
वर्षाणां हि शतं तावत्प्रतिष्ठां नाधिगच्छति
।
सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् ॥४४॥
तावत् शेषकालपर्यन्तं प्रतिष्ठां नाधिगच्छति प्रेतत्वान्न मुच्यते ब्रह्महत्यायास्तृतीयांशद्वयस्य यावान् भोगस्तावन्तं कालमित्यर्थः ॥४४॥
तस्मान्नैवावगर्ह्येत नैव जातु निपातयेत्
।
शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ॥४५॥
तावतीः स समा राजन् नरके प्रतिपद्यते
।
भ्रूणहाऽऽहवमध्ये तु शुद्ध्यते शस्त्रपाततः ॥४६॥
आहवमध्ये गोब्राह्मणरक्षार्थं सङ्ग्रामे शस्त्रेण हतश्चेद्ब्रह्महा शुद्ध्यते ॥४६॥
आत्मानं जुहुयादग्नौ समिद्धे तेन शुद्ध्यते
।
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥४७॥
तया स काये निर्दग्धे मृत्युं वा प्राप्य शुद्ध्यति
।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥४८॥
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः
।
स्त्र्याकारां प्रतिमां लिंग्य मृत्युना सोऽभिशुद्ध्यति ॥४९॥
स्त्र्याकारां प्रतिमां सन्तप्तामिति शेषः । लिङ्ग्य आलिङ्ग्य ॥४९॥
अथवा शिश्नवृषणावादायाञ्जलिना स्वयम् ॥५०॥
नैर्ऋतीं दिशमास्थाय निपतेत्स त्वजिह्मगः
।
ब्राह्मणार्थेऽपि वा प्राणान् संत्यजेत्तेन शुद्ध्यति ॥५१॥
अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा
।
अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥५२॥
तथैव द्वादशसमाः कपाली ब्रह्महा भवेत्
।
ब्रह्मचारी भवेन्नित्यं स्वकर्म ख्यापयन्मुनिः ॥५३॥
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्
।
एवं तु समभिज्ञातामात्रेयीं वा निपातयेत् ॥५४॥
सवनी त्रिषवणस्नायी । आत्रेयीं प्राप्तगर्भां स्त्रियम् ॥५४॥
द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत्
।
सुरापो नियताहारो ब्रह्मचारी क्षितीशयः ॥५५॥
ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम्
।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥५६॥
वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशतं च गाः
।
शूद्रं हत्वाब्दमेवैकमृषभं च शतं च गाः ॥५७॥
श्ववराहस्वरान् हत्वा शौद्रमेव व्रतं चरेत्
।
मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम् ॥५८॥
उक्तः पशुसमो दोषो राजन्प्राणिनिपातनात्
।
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥५९॥
अल्पे वाऽप्यथ शोचेत पृथक् संवत्सरं चरेत्
।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥६०॥
अल्पे पापे अबुद्धिपूर्वकृते कीटवधादौ शोचेत पश्चात्तापं कुर्यात् । तावतैव तत्र शुद्धिरिति भावः । अन्यत्र तु गोवधात् पृथक् एकैकस्योपपातकस्य प्रायश्चित्तं संवत्सरं चरेत् ॥६०॥
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्
।
स्थानासनाभ्यां विहरेत्त्रिरह्नाभ्युपयन्नपः
।
एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥६१॥
त्यजत्यकारणे यश्च पितरं मातरं गुरुम्
।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥६२॥
पूर्वश्लोकोक्तं निराकर्तृपदं व्याचष्टे - त्यजतीति ॥६२॥
ग्रासाच्छादनमात्रं तु दद्यादिति निदर्शनम्
।
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
।
यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम् ॥६३॥
ग्रासेति सार्धः ॥६३॥
श्रेयांसं शयनं हित्वा याऽन्यं पापं निगच्छति
।
श्वभिस्तामर्दयेद्राजा संस्थाने बहुविस्तरे ॥६४॥
श्रेयांसं ब्राह्मणं स्वपतिं हित्वा या पापं स्ववर्णान्नीचवर्णं प्रति शयनं शय्यां निगच्छति तस्याः दण्डः- श्वभिरिति ॥६४॥
पुमांसमुन्नयेत्प्राज्ञः शयने तप्त आयसे
।
अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥६५॥
एष दण्डो महाराज स्त्रीणां भर्तृष्वतिक्रमात्
।
संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥६६॥
अभिशस्तस्य प्रायश्चितं सद्योऽकुर्वतः ॥६६॥
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनि
।
कुचरः पञ्चवर्षाणि चरेद्भैक्ष्यं मुनिव्रतः ॥६७॥
तस्य पतितस्य सहसेविनि संसर्गिणि प्रायश्चित्तं तु कुचरः पृथिवीं पर्यटन् ॥६७॥
परिवित्तिः परिवेत्ता या चैव परिविद्यते
।
पाणिग्रहास्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥६८॥
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत्
।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥६९॥
परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये
।
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम्
।
एवं च मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥७०॥
परिवेत्ता कनिष्ठः परिवत्तये ज्येष्ठाय भार्यां स्नुषात्वेन प्रयच्छेत् एतां स्वेनाभुक्ताम् । तवैवेयं स्नुषेति मानपूर्वकं समर्पयेत् तदा ज्येष्ठानुज्ञातो यवीयाननन्तरं तां स्वीकुर्यात् । पाणिग्राहेण स्वदोषे क्षमापिते त्रयोऽपि पापान्मुच्यन्त इति सार्धश्लोकार्थः ॥७०॥
अमानुषीषु गोवर्ज्यमनावृष्टिर्न दुष्यति
।
अधिष्ठात्रवमन्तारं पशूनां पुरुषं विदुः ॥७१॥
अमानुषीषु पशुजातिषु अनावृष्टिः अजीवनं हिंसेत्यर्थः । वृश्चतेश्छिदिकर्मण इदं रूपम् । अनाधृष्टिरिति पाठेऽपि स एवार्थः ॥७१॥
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्
।
चरेत्सप्तगृहान्नित्यं स्वकर्म परिकीर्तयन् ॥७२॥
उर्ध्ववालं चमरीपुच्छं परिधाय रङ्गेऽवतरन् ब्राह्मण एवैतत्प्रायश्चित्तं कुर्यात् ॥७२॥
तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुद्ध्यति
।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥७३॥
तत्रैव सप्तसु गृहेषु येन परिधानेन हेतुभूतेन ऊर्ध्ववालं यः कृन्तति छिनत्ति स उक्तं व्रतं संवत्सरं चरेत् ॥७३॥
भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्
।
दानं वा दानशक्तेषु सर्वमेतत्प्रकल्पयेत् ॥७४॥
अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते
।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥७५॥
अनास्तिकेषु आस्तिकेषु ॥७५॥
मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति
।
ब्राह्मणास्तु सुरापस्य गन्धमादाय सोमपः ॥७६॥
अपस्त्र्यहं पिबेदुष्णं त्र्यहमुष्णं पयः पिबेत्
।
त्र्यहमुष्णं पयः पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥७७॥
एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम्
।
ब्राह्मणस्य विशेषेण यदज्ञानेन सम्भवेत् ॥७८॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि प्रायश्चित्तीये पञ्चषष्ट्यधिकशततमोऽध्यायः ॥१६५॥
वैशम्पायन उवाच।
कथान्तरमथासाद्य खड्गयुद्धविशारदः
।
नकुलः शरतल्पस्थमिदमाह पितामहम् ॥१॥
कथान्तरमिति । कथान्तरमापद्धर्माणां साङ्गानां समाप्तत्वात् कथाया अवसानम् आसाद्य प्राप्य ॥१॥
नकुल उवाच
।
धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह
।
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥२॥
मम तु मनः खड्गेऽस्ति यतः सुसंशितः सम्यग्विनीत आत्मा खड्गेन परिरक्षितुं शक्यते इति द्वितीयेनान्वयः ॥२॥
विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु
।
खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥३॥
शरासनधरांश्चैव गदाशक्तिधरांस्तथा
।
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥४॥
अत्र मे संशयश्चैव कौतूहलमतीव च
।
किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धषु पार्थिव ॥५॥
कथं चोत्पादितः खड्गः कस्मै चार्थाय केन च
।
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥६॥
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
।
स तु कौशल संयुक्तं सूक्ष्मचित्रार्थसम्मतम् ॥७॥
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्
।
शिक्षया चोपपन्नाय द्रोणशिष्याय भारत ॥८॥
उवाच स तु धर्मज्ञो धनुर्वेदस्य पारगः
।
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥९॥
भीष्म उवाच।
तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि
।
प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥१०॥
धातुमान् गैरिकवान् रुधिरोक्षितत्वात् ॥१०॥
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्
।
निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥११॥
तमसाऽऽवृतमस्पर्शमतिगम्भीरदर्शनम्
।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥१२॥
सोऽसृजद्वातमग्निं च भास्करं चापि वीर्यवान्
।
आकाशमसृजच्चोर्ध्वमधो भूमिं च नैर्ऋतीम् ॥१३॥
नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा
।
संवत्सरानृतून्मासान्पक्षानथ लवान् क्षणान् ॥१४॥
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः
।
जनयामास भगवान् पुत्रानुत्तमतेजसः ॥१५॥
मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं ऋतुम्
।
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥१६॥
प्राचेतसस्तथा दक्षः कन्याषष्टिमजीजनत्
।
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥१७॥
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा
।
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥१८॥
पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः
।
तथा पक्षिगणाः सर्वे जलस्थलविचारिणः ॥१९॥
उद्भिदः स्वेदजाश्चैव साण्डजाश्च जरायुजाः
।
जज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥२०॥
भूतसर्गमिमं कृत्वा सर्वलोकपितामहः
।
शाश्वतं वेदपठितं धर्मं प्रयुयुजे ततः ॥२१॥
तस्मिन् धर्मे स्थिता देवाः सहाचार्यपुरोहिताः
।
आदित्या वसवो रुद्राः ससाध्या मरुदतश्विनः ॥२२॥
भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपाश्च तपोधनाः
।
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥२३॥
ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा
।
घृतपाः सोमवायव्या वैश्वानरमरीचिपाः ॥२४॥
अकृष्टाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः
।
वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥२५॥
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्
।
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥२६॥
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः
।
शम्बरो विप्रचित्तिश्च विराधो नमुचिर्बलिः ॥२७॥
एते चान्ये च बहवः सगणा दैत्यदानवाः
।
धर्मसेतुमतिक्रम्य रेमिरे धर्मनिश्चयाः ॥२८॥
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम्
।
इत्येवं धर्ममास्थाय स्पर्धमानाः सुरर्षिभिः ॥२९॥
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत
।
त्रीनुपायानुपाक्रम्य दण्डेन रुरुधुः प्रजाः ॥३०॥
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः
।
अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः ॥३१॥
तदा हिमवतः शृङ्गे सुरम्ये पद्मतारके
।
शतयोजनविस्तारे मणिरत्नचयाचिते ॥३२॥
पद्मानीव तारका यत्र लग्नास्तस्मिन् पद्मतारके अत्यन्तमुछ्रित इत्यर्थः ॥३२॥
तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने
।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥३३॥
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः
।
विधिना कल्पदृष्टेन यथावच्चोपपादितम् ॥३४॥
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः
।
समिद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः ॥३५॥
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्
।
वृतं देवगणैश्चैव प्रवरैर्यज्ञमण्डलम् ॥३६॥
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्
।
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥३७॥
चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्
।
विकीर्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥३८॥
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्र कृशोदरम्
।
प्रांशुं सुदुर्धर्षतरं तथैव ह्यमितौजसम् ॥३९॥
तस्मिन्नुतपतमाने च प्रचचाल वसुन्धरा
।
महोर्मिकलितावर्तश्चुक्षुभे स महोदधिः ॥४०॥
पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः
।
अप्रशान्ता दिशः सर्वाः पवनश्चाशिवो ववौ ॥४१॥
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा
।
ततः स तुमुलं दृष्ट्वा तं च भूतमुपस्थितम् ॥४२॥
महर्षिसुरगन्धर्वानुवाचेदं पितामहः
।
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ॥४३॥
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्
।
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥४४॥
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः
।
ततः स शितिकण्ठाय रुद्रायार्षभकेतवे ॥४५॥
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम्
।
ततः स भगवान् रुद्रो महर्षिजनसंस्तुतः ॥४६॥
प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह
।
चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि दिवाकरम् ॥४७॥
उर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन्
।
विकुर्वन् बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥४८॥
बिभ्रत्कृष्णाजिनं वासो हेम प्रवरतारकम्
।
नेत्रं चैकं ललाटेन भास्करप्रतिमं वहन् ॥४९॥
शुशुभातेऽतिविमले द्वे नेत्रे कृष्णपिङ्गले
।
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ॥५०॥
सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्
।
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्
।
चचार विविधान्मार्गान्महाबलपराक्रमः ॥५१॥
त्रिकूटं त्रीणि कूटानि कपटानि पार्श्वयोरग्रे च तीक्ष्णधाररूपाणि परविदारकाणि यस्मिन् ॥५१॥
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया
।
तस्य नादं विनदतो महाहासं च मुञ्चतः ॥५२॥
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत
।
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया ॥५३॥
निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः
।
अश्मभिश्चाभ्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ॥५४॥
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयोमयैः
।
ततस्तु दानवानीकं सम्प्रणेतारमुच्यतम् ॥५५॥
रुद्रं दृष्ट्वा बलोद्भूतं प्रमुमोह चचाल च
।
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् ॥५६॥
तमेकमसुराः सर्वे सहस्रमिति मेनिरे
।
छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् पोथयन्नपि ॥५७॥
अचरद्वैरिसंघेषु दावाग्निरिव कक्षगः
।
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः ॥५८॥
सम्प्रकीर्णांत्रगात्राश्च पेतुरुर्व्यां महाबलाः
।
अपरे दानवा भग्नाः खड्गपातावपीडिताः ॥५९॥
अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे
।
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ॥६०॥
अपरे जग्मुराकाशमपरेऽम्भः समाविशन्
।
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥६१॥
बभूव भूः प्रतिभया मांसशोणितकर्दमा
।
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः ॥६२॥
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः
।
स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत् ॥६३॥
रौद्रं रूपमथोत्क्षिप्य चक्रे रूपं शिवं शिवः
।
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ॥६४॥
जयेनाद्भुतकल्पेन देवदेवं तथाऽर्चयन्
।
ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् ॥६५॥
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे
।
विष्णुर्मरीचये प्रादान्मरीचिर्भगवानपि ॥६६॥
महर्षिभ्यो ददौ खड्गमृषयो वासवाय च
।
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रका ॥६७॥
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम्
।
उचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः ॥६८॥
असिना धर्मगर्भेण पालयस्व प्रजा इति
।
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मात्मकारणात् ॥६९॥
स्थूलसूक्ष्मात्मकारणात् स्थूल आत्मा शरीरं सूक्ष्म आत्मा मनः तयोः प्रीणनार्थम् ॥६९॥
विभज्य दण्डं रक्ष्यास्तु धर्मतो न यदृच्छया
।
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ॥७०॥
व्यङ्गता च शरीरस्य वधो वाऽनल्पकारणात्
।
असेरेतानि रूपाणि दुर्वारादीनि निर्दिशेत् ॥७१॥
दुर्वारादीनीत्यत्र दुर्वाचादीनीति साधीयान्पाठः ॥७१॥
असेरेवं प्रमाणानि परिपाल्य व्यतिक्रमात्
।
स विसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः ॥७२॥
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्
।
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ॥७३॥
आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि
।
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ॥७४॥
अमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः
।
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् ॥७५॥
तस्माल्लेभे च धर्मज्ञो राजन्नैलविलस्तथा
।
ततस्त्वैलविलाल्लेभे धुन्धुमारो नरेश्वरः ॥७६॥
धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत्
।
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ॥७७॥
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः
।
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ॥७८॥
हरिणाश्वादसिं लेभे शुनकः शुनकादपि
।
उशीनरो वै धर्मात्मा तस्माद्भोजः स यादवः ॥७९॥
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः
।
प्रतर्दनादष्टकश्च पृषदश्वोऽष्टकादपि ॥८०॥
पृषदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः
।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥८१॥
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम्
।
रोहिणीं गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥८२॥
असेरष्टौ हि नामानि रहस्यानि निबोध मे
।
पाण्डवेय सदा यानि कीर्तयन् लभते जयम् ॥८३॥
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः
।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥८४॥
अग्न्यः प्रहरणानां च खड्गो माद्रवतीसुत
।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥८५॥
पृथुस्तूत्पादयामास धनुराद्यमरिन्दमः
।
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि
।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥८६॥
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि
।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥८७॥
इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरात्
।
असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥८८॥
सर्वथैतदिदं श्रुत्वा खड्गसाधनमुत्तमम्
।
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥८९॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि खड्गोत्पत्तिकथने षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥
वैशम्पायन उवाच।
इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः
।
पप्रच्छावसथं गत्वा भ्रातॄन् विदुरपञ्चमान् ॥१॥
एवं शूराणां सर्वापन्निवारणहेतुः खड्ग इति खड्गोत्पत्यन्ता कया सर्वैः श्रुता । अथेदानीमेकरूपेऽप्युपदेष्टरि शिष्याः स्वस्वाभिप्रायानुसारेणैव शास्त्रतत्त्वं गृह्णन्तीति एतमर्थमाख्यायिकामुखेन दर्शयति- इत्युक्तवतीत्यादिना । आवसथं गृहं बिदुरः पञ्चमो येषु तान् स्वयं षष्टः षड्योगजा गीता इत्ययं षड्जगीताध्यायः ॥१॥
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता
।
तेषां गरीयान् कतमो मध्यमः को लघुश्च कः ॥२॥
कस्मिंश्चात्मा निधातव्यस्त्रिवर्गविजयाय वै
।
संहृष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥३॥
त्रिवर्गविजयाय कामक्रोधलोभानां जयाय ॥३॥
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्
।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥४॥
विदुर उवाच ।
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा
।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥५॥
धर्मावतारत्वाद्धर्मशास्त्रानुसारिवाक्यं विदुर उवाच- बाहुश्रुत्यमिति । बाहुश्रुत्यं बह्वध्ययनम् । तपः स्वधर्माचरणम् । त्यागो दानम् । श्रद्धा आस्तिक्यम् । यज्ञक्रिया सोमसंस्थादिः । क्षमा आक्रुष्टस्य ताडितस्य वा निर्विकारित्वम् । भावशुद्धिर्निष्कपटत्वम् । दयादीनेष्वनुजिघृक्षा । सत्यं हिंसाशून्यं यथार्थवचनम् । संयम इन्द्रियनिग्रहः । एता दश आत्मनो धर्मस्य संपदः ऐश्वर्याणि ॥५॥
एतदेवाभिपद्यस्व मा तेऽभूच्चलितं मनः
।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हि मे ॥६॥
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः
।
धर्मेण देवा ववृधुर्धर्मे चार्थः समाहितः ॥७॥
धर्मो राजन् गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते
।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥८॥
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना
।
तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि ॥९॥
वैशम्पायन उवाच।
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः
।
पार्थो धर्मार्थतत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥१०॥
अर्जुन उवाच ।
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते
।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥११॥
एवं धर्मश्रैष्ठ्ये विदुरेण प्रतिपादितेऽर्थश्रैष्ठ्यमर्जुन आह-कर्मभूमिरिति ॥११॥
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः
।
न ह्यृतेऽर्थेन वर्तेत धर्मकामाविति श्रुतिः ॥१२॥
अव्यतिक्रमो मर्यादा ॥१२॥
विषयैरर्थवान् धर्ममाराधयितुमुत्तमम्
।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥१३॥
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः
।
अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः ॥१४॥
तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः
।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥१५॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
।
मुण्डा निस्तन्तवश्चापि वसन्त्यार्थार्थिनः पृथक् ॥१६॥
निस्तन्तवः नैष्ठिकब्रह्मचारिणः ॥१६॥
काषायवसनाश्चान्ये श्मश्रुला ह्रीनिषेविणः
।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥१७॥
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः
।
कुलप्रत्यागमाश्चैके स्वं स्वं धर्ममनुष्ठिताः ॥१८॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे
।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥१९॥
प्रज्ञानमर्थश्रैष्ठ्यविषयम् ॥१९॥
भृत्यान् भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्
।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्
।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥२०॥
अनयोर्नकुलसहदेवयोः ॥२०॥
वैशम्पायन उवाच।
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्
।
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥२१॥
नकुलसहदेवावूचतुः
।
आसीनश्च शयानश्च विचरन्नपि वा स्थितः
।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥२२॥
अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये
।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥२३॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः
।
तद्धित्वाऽमृतसंवादं तस्मादेतौ मताविह ॥२४॥
तद्धि निश्चितं त्वा त्वां प्रति अमृतसमं यथा स्यात्तथा मतौ आवयोरिति शेषः ॥२४॥
अनर्थस्य न कामोऽस्ति तथाऽर्थोऽधर्मिणः कुतः
।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥२५॥
अनर्थस्य अर्थहीनस्य अधर्मिणः धर्महीनस्य ॥२५॥
तस्माद्धर्मप्रदानेन साध्योऽर्थः संयतात्मना
।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥२६॥
धर्मरूपेण प्रदानेन विश्वस्तेषु अस्मद्वाक्ये विश्वासवत्सु ॥२६॥
धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम्
।
ततः कामं चरेत्पश्चात्सिद्धार्थः स हि तत्परम् ॥२७॥
धर्ममिति । अत्र धर्मार्थयोः समत्वेऽपि धर्मस्य पूर्वत्वाद्विदुरमतमेवैतदीषद्भेदेन दर्शितम् ॥२७॥
वैशम्पायन उवाच।
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ
।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥२८॥
भीमसेन उवाच ।
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति
।
कामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥२९॥
कामस्यैव प्राधान्यं मन्वानो भीमसेन उवाच- न काम इति ॥२९॥
कामेन युक्ता ऋषयस्तपस्येव समाहिताः
।
पलाशफलमूलादा वायुभक्षाः सुसंयताः ॥३०॥
वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः
।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥३१॥
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा
।
देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥३२॥
समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः
।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥३३॥
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम्
।
एतत्सारं महाराज धर्मार्थावत्र संस्थितौ ॥३४॥
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः
।
श्रेयस्तैलं हि पिण्याकाद्घृतं श्रेय उदश्वितः
।
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः ॥३५॥
उदश्वितः तक्रात् ॥३५॥
पुष्पतो मध्विव रसः काम आभ्यां तथा स्मृतः
।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥३६॥
नाकामतो ब्राह्मणाः स्वन्नमर्थान्नाकमतो ददति ब्राह्मणेभ्यः
।
नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥३७॥
अकामतः कामं विना केवलार्थात्स्वन्नं मृष्टान्नमस्ति न हि धनमस्तीति मृष्टं भुज्यते अपि तु रुच्यात्मकः कामोऽस्तीति अन्यथा ज्वरितस्यापि मृष्टं दीयेत ॥३७॥
सुचारुवेषाभिरलंकृताभिर्मदोत्कटाभिः प्रियदर्शनाभिः
।
रमस्व योषाभिरुपेत्य कामं कामो हि राजन्परमो भवेन्नः ॥३८॥
बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र
।
स्यात्संहितं सद्भिरफल्गुसारं ममेति वाक्यं परमानृशंसम् ॥३९॥
परिखास्थितस्य परितः खाता परिखा सर्वतो मूलशोध इत्यर्थः । तत्र स्थितस्य अनुशंसमनिष्ठुरम् ॥३९॥
धर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः
।
तयोस्तु दाक्ष्यं प्रवदन्ति मध्यं स उत्तमो योऽभिरतस्त्रिवर्गे ॥४०॥
दाक्ष्यम् अर्थहेतुत्वान्मध्यं मध्यमम् अर्थात्काम उत्तमो धर्मो जघन्य इति फलितम् ॥४०॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः
।
ततो वचः संग्रहविस्तरेण प्रोक्त्वाथ वीरान् विरराम भीमः ॥४१॥
ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक्
।
उवाच वाचा वितथं स्मयन्वै लब्धश्रुतां धर्मभृतां वरिष्ठः ॥४२॥
लब्धं श्रुत् श्रवणं यैस्तेषां लब्धश्रुताम् ॥४२॥
युधिष्ठिर उवाच।
निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः
।
विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे
।
इदं त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥४३॥
नैष्ठिकं सिद्धान्तरूपम् एतेन पूर्वे सर्वे पूर्वपक्षा एवेत्युक्तम् ॥४३॥
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे
।
विमुक्तदोषः समलोष्टकाञ्चनो विमुच्यते दुःखसुखार्थसिद्धेः ॥४४॥
यः पापादिपञ्चके न निरतः स दुःखसुखादिसिद्धिर्यस्य तस्मात् सर्वकर्मवृन्दाद्विमुच्यते ॥४४॥
भूतानि जातिस्मरणात्मकानि जराविकारैश्च समन्वितानि
।
भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥४५॥
जातिर्जन्मस्मरणमतीतार्थस्मरणं तेनातीतत्वमात्रं लक्ष्यते । जन्ममरणात्मकानीत्यर्थः ॥४५॥
स्नेहेन युक्तस्य न चास्ति मुक्तिरिति स्वयम्भूर्भगवानुवाच
।
बुधाश्च निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥४६॥
स्नेहेनेतिरागद्वेषयोरुपलक्षणम् एतेन मुक्तेर्दुर्लभत्वमाह- न चेति । तथापि प्रार्थ्या च सेत्याह- बुधा इति ॥४६॥
एतत्प्रधानं च न कामकारो यथा नियुक्तोऽस्मि तथा करोमि
।
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥४७॥
एतत्पदार्थमाह- यथेत्यादिना ॥४७॥
न कर्मणाऽऽप्नोत्यनवाप्यमर्थे यद्भावि तद्वै भवतीति वित्त
।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादहो लोकहिताय गुह्यम् ॥४८॥
अर्थं मोक्षं वित्त जानीत लोकहिताय मोक्षाय त्रिवर्गहीनोऽपि गुह्यमर्थं रहस्यं ज्ञानं विन्दते लभते पूर्वोक्तोऽधिकारी ॥४८॥
वैशम्पायन उवाच।
ततस्तदग्र्यं वचनं मनोनुगं समस्तमाज्ञाय ततो हि हेतुमत्
।
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥४९॥
ततो युधिष्ठिरात् ततः पूर्वोक्तात्सर्वेषां वाक्यात् हेतुमदिति वा ॥४९॥
सुचारुवर्णाक्षरचारुभूषितां मनोनुगां निर्धुतवाक्यकण्टकाम्
।
निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते ॥५०॥
स चापि तान् धर्मसुतो महामनास्तदा प्रतीतान्प्रशशंस वीर्यवान्
।
पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनचेतसम् ॥५१॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षड्जगीतायां सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन
।
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥१॥
यद्यपि सर्वे यथाप्रज्ञमुपदेशार्थं गृह्णन्ति तथापि सन्मित्रलाभः सर्वासां संपदां हेतुर्दुर्मित्रसम्बन्धः सर्वासामापदां हेतुरिति सर्वपुरुषसाधारणोऽर्थः कृत्स्नाया राजनीतेश्च सारभूत इति तमेव व्युत्पादयति प्रश्नोत्तरमुखेन - पितामह महाप्राज्ञेत्यादिना ॥१॥
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्
।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥२॥
आयत्यां परिणामकाले तदात्वे च वर्तमानकाले क्षमाः हितायेति शेषः ॥२॥
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः
।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥३॥
मित्रस्यार्थादिभ्योऽन्तरङ्गत्वमाह - न हीति ॥३॥
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्
।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥४॥
भीष्म उवाच।
सन्धेयान् पुरुषान् राजन्नसन्धेयांश्च तत्त्वतः
।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥५॥
संधेयान् मित्रीकर्तुं योग्यान् ॥५॥
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च
।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥६॥
अलसोऽनुद्योगी ॥६॥
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्षकः
।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥७॥
दीर्घसूत्रश्चिरकारी । क्रुष्टो लोकनिन्दितः ॥७॥
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः
।
सम्प्रकीर्णेन्द्रियो लोके यः कामं निरतश्चरेत् ॥८॥
असत्यो लोकविद्विष्टः समये चानवस्थितः
।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥९॥
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा
।
मित्रैरपकृतिर्नित्यमिच्छतेऽर्थं परस्य यः ॥१०॥
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः
।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नरर्षभ ॥११॥
अस्थानक्रोधनोऽयुक्तो यश्चाकस्माद्विरुध्यते
।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥१२॥
अयुक्तः अनवहितः ॥१२॥
अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च
।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप ॥१३॥
अज्ञानात्कृतेऽपकृते कार्यार्थमेव सेवते न तु धर्मार्थमिति कार्यसेवी ॥१३॥
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोचनः
।
न विरज्यति कल्याणे यः कुर्यात्तादृशं नरम् ॥१४॥
विलोचनः विपरीतदृष्टिः ॥१४॥
पानपो द्वेषणः क्रोधी निर्घृणः परुषस्तथा
।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥१५॥
कृतघ्नश्चाधमो लोके न सन्धेयः कदाचन
।
छिद्रान्वेषी ह्यसन्धेयः सन्धेयानपि मे शृणु ॥१६॥
कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः
।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥१७॥
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः
।
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः ॥१८॥
व्यायामशीलाः सततं कुलपुत्राः कुलोद्वहाः
।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥१९॥
यथाशक्ति समाचाराः सम्प्रतुष्यन्ति हि प्रभो
।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः
।
विरक्तश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः ॥२०॥
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः
।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥२१॥
वासो रक्तमिवाविकं मेषकम्बलः ॥२१॥
क्रोधाच्च लोभमोहाभ्यां नानर्थे युवतीषु च
।
न दर्शयन्ति सुहृदो विश्वस्ता धर्मवत्सलाः ॥२२॥
अनर्थे निर्धने क्रोधाद्विरागं न दर्शयन्ति । युवतीषु च लोभमोहाभ्यां विरागं न दर्शयन्तीति योजना । विरज्यन्तीति पूर्वश्लोकाद्वि परिणामेनानुषज्यते । दोषांश्च लोभमोहादीनर्थेषु युवतीषु चेति पाठान्तरं तु स्पष्टार्थम् ॥२२॥
लोष्ठकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः
।
ये चरन्त्यभिमानानि सृष्टार्थमनुषङ्गिणः ॥२३॥
अभिमानानि सर्वतः प्रमाणानि शास्त्रादीनि सृष्टार्थं प्रारब्धकर्मप्रापितं चार्थं चरन्ति अनुसरन्ति अनुषङ्गिणः आत्ममानरहिताः ॥२३॥
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा
।
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः ॥२४॥
तस्य विस्तीर्यते राज्यं ज्योत्स्नाग्रहपतेरिव
।
शास्त्रनित्या जितक्रोधा बलवन्तो रणे सदा ॥२५॥
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः
।
ये च दोषसमायुक्ता नराः प्रोक्ता मयाऽनघ ॥२६॥
तेषामप्यधमा राजन् कृतघ्ना मित्रघातकाः
।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः ॥२७॥
कृतम् उपकारं घ्नन्ति वाचाऽपलापेन वा ते कृतघ्नाः त एव उपकर्तुर्नाशकराः मित्रद्रुहः ॥२७॥
युधिष्ठिर उवाच।
विस्तरेणाथ सम्बन्धं श्रोतुमिच्छामि तत्त्वतः
।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तद्वदस्व मे ॥२८॥
सम्बन्धं सम्बध्यते सज्जते हातुमुपादातुं वा श्रुतमर्थं येन तम् इतिहासम् ॥२८॥
भीष्म उवाच।
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्
।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥२९॥
ब्राह्मणो मध्यदेशीयः कश्चिद्वै ब्रह्मवर्जितः
।
ग्रामं वृद्धियुतं वीक्ष्य प्राविशद्भैक्ष्यकासया ॥३०॥
ब्रह्म वेदस्तदुक्तं कर्म च तद्विवर्जितः ॥३०॥
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्
।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥३१॥
तस्य क्षयमुपागम्य ततो भिक्षामयाचत
।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥३२॥
क्षयं गृहम् ॥३२॥
प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम्
।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा ॥३३॥
वयोपेतां युवतीं सन्धिरार्षः । भर्त्राविरहितां दासीमित्यर्थः ॥३३॥
एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तथा
।
तस्मिन् गृहवरे राजंस्तया रेमे स गौतमः ॥३४॥
कुटुम्बार्थं च दास्याश्च साहाय्यं चाप्यथाकरोत्
।
तत्रावसत्स वर्षांश्च समृद्धे शबरालये ॥३५॥
बाणवेधे परं यत्नमकरोच्चैव गौतमः
।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् ॥३६॥
चक्राङ्गान् हंसान् ॥३६॥
जघान गौतमो राजन् यथा दस्युगणास्तथा
।
हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः ॥३७॥
गौतमः सन्निकर्षेण दस्युभिः समतामियात्
।
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ॥३८॥
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून्
।
ततः कदाचिदपरो द्विजस्तं देशमागतः ॥३९॥
जटाचीराजिनधरः स्वाध्यायपरमः शुचिः
।
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः ॥४०॥
स ब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियः
।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽवसत् ॥४१॥
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः
।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतोदिशम् ॥४२॥
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः
।
गौतमश्चापि सम्प्राप्तस्तावन्योन्येन संगतौ ॥४३॥
चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम्
।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥४४॥
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम्
।
अभिज्ञाय द्विजो व्रीडत्रिदं वाक्यमथाब्रवीत् ॥४५॥
किमिदं कुरुषे मोहाद्विप्रस्त्वं हि कुलोद्वहः
।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥४६॥
पूर्वान् स्मर द्विज ज्ञातीन् प्रख्यातान्वेदपारगान्
।
तेषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥४७॥
अवबुध्यात्मनाऽऽत्मानं स त्वं शीलं श्रुतं दमम्
।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥४८॥
स एवमुक्तः सुहृदा तेन तत्र हितैषिणा
।
प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत् ॥४९॥
निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम्
।
वित्तार्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम ॥५०॥
त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज
।
आवां हि सह यास्यावः श्वो वसस्वाद्य शर्वरीम् ॥५१॥
स तत्र न्यवसद्विप्रो घृणी किञ्चिदसंस्पृशन्
।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत ॥५२॥
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कृतघ्नोपाख्याने अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥