युधिष्ठिर उवाच।
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ॥१॥
ननु मोक्षो नाम शरीरनाशादन्यो नास्ति 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतेः । स च स्वयमेवोपनमतीति किं तदर्थं शास्त्रेणेति चेन्न -
`कर्तव्यमेव कर्मेह जानताऽमित्रकर्शन
।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः
।
यावद्गोस्तनपानाच्च यावच्छायोपसेवनात्
।
प्राणिनः कर्मणा वृत्तिमाप्नुवन्ति नरर्षभ '
इति आरण्यके प्राक्कर्मसद्भावसाधनात् स्थूलदेहनाशेऽपि कर्माश्रयलिङ्गदेहनाशायोगात् । तत्र श्लोकार्थः- न जीवन्तीति सम्बन्धः इतरे जना इति दृष्टान्तः । तथा चायं प्रयोगः- स्थावरजीविका प्राक्कर्मपूर्विका जीविकात्वात् पाकादिक्रियापूर्वकास्मदादिजीविकावदिति । यावदिति कार्त्स्न्ये ल्यब्लोपे पञ्चम्यौ । गोस्तनपानमारभ्य छायोपसेवनं प्रति माद्वारकं भोग चारभ्य सर्वां वृत्तिं जीविकां कर्मणैवाप्नुवन्तीति योजना । सद्योजातस्य हि गोवत्सस्य स्तनपाने प्रवृत्तिः प्राग्भवीयेष्टसाधनताज्ञानजन्यसंस्कारपूर्विका अस्मदादिपाकादिप्रवृत्तिवद्दृश्यते । एवं मरणात् त्रासोऽपि प्राचीनमरणजदुःखानुभवसंस्कारात्प्राणिमात्रस्य सिद्धोऽतोऽस्ति प्राचीनं कर्म । किंच कौलिकशास्त्रप्रसिद्ध्या यथा चैत्रः स्वदेहे कण्टकेन तुन्ने सति व्यथते एवं शत्रुकृतायां स्वदेहप्रतिमायामपि कण्टकेन तुन्नायां व्यथते । तत्र व्यथाहेतुर्नान्तरं धातुवैषम्यं दृश्यते बाह्यं वा कण्टकवेधादि दृष्टं द्वारमस्ति किं तु केवलमदृष्टमेव । एवं प्राक्कर्मसद्भावसिद्धेस्तत्तत्पूर्वपूर्वजन्मकल्पनयाऽनादिः संसारः । एवमनादित्वादानन्त्यं चास्य सिद्धम् । तर्हि अनादिभावस्य ध्वंसायोगात्पुनरनर्थकं शास्त्रमिति चेत् सत्यम् । न वयमात्मनि कर्तृत्वभोक्तृत्वादेः संसारस्य सम्बन्धं सत्यं वदामः । यक्षस्य परशरीर इव चितो लिङ्गशरीरे आभिमानिकतादात्म्यादपि तद्धर्मभाक्त्वोपपत्तेः । अभिमन्तृत्वमपि न वास्तवम् अनुपदोक्तच्छायोपसेवनन्यायेन परकल्पितसम्बन्धेनापि व्यवहारनिर्वाहे सति तत्सत्यत्वकल्पनानौचित्यात् । संसारस्य सुप्तिमूर्च्छादावदर्शनेन कादाचित्कप्रतीतिविषयतया रज्जूरगवत्कल्पितत्वेनात्मनि तत्सम्बन्धस्य सत्यत्वायोगाच्च । यथा नौकास्थस्तीरतरौ चाञ्चल्यमारोपयति । यथा वा प्रत्यग्भूतमपि मुखं मुकुरः परागिव दर्शयति । यथा वा सूक्ष्ममपि पुस्तकाक्षरमुपनेत्रमहिम्ना स्थूलमिव भाति । तद्वत्कूटस्थे दृङ्मात्रे सूक्ष्मे प्रतीचि द्वितीयेन्दुतुल्येश्वरसृष्टदेहप्रतिभाद्वारा चञ्जलत्वदृश्यत्वस्थूलत्वाद्यारोपो युज्यत एवेति नास्माकं किञ्चिदवद्यम् । यस्य त्वनादिः सत्यश्च संसारस्तस्यैव पूर्ववाद्युक्तो दोषोऽपरिहार्यः । तस्मात्संसारकल्पिकाया अविद्याया आत्मविद्यया निवृत्तौ समूलस्य संसारस्योच्छेदोऽवश्यंभावीति विद्योत्पत्तये शास्त्रमारम्भणीयमिति सिद्धम् । तत्र नानाविधान् दुरनुष्ठेयान् क्षुद्रफलान् राजधर्मानापद्धर्मांश्च श्रुत्वाऽत्यन्तमुद्विग्नः सर्वापन्निवारणमात्यन्तिकश्रेयोहेतुं धर्मं जिज्ञासमानो राजा युधिष्ठिर उवाच -
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव॥
इति। पितामहेनेति श्रैष्ठ्यं वात्सल्यं च सूचितम् । राजधर्माश्रिता राजधर्मांगत्वेनोपस्थिता धर्मा आपद्धर्मा उक्ताः । श्रेष्ठः प्रशस्यतमो मोक्षधर्मस्तमाश्रमिणामित्युक्तेर्गृहस्थादीनां सर्वेषामप्यत्राधिकारो दर्शितः । तथा च याज्ञवल्क्यः- `स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु’ इति ॥१॥
भीष्म उवाच।
सर्वत्र विहितो धर्मः सत्यप्रेत्य तपःफलम्
।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥२॥
कर्मज्ञानफले विभजति ज्ञाने श्रैष्ठ्यं वक्तुम् ॥ सर्वत्रेति । सर्वत्राश्रमेषु धर्मो विहितो वेदेन 'अग्निहोत्रं जुहुयात्स्वर्गकामः’ इत्यादिना अदृष्टफलः स इत्यर्थः । सत्यप्रेत्य तपः - फलम् सति सद्वस्तुनि विषये तप आलोचनं श्रवणमनननिदिध्यासनात्मकं तस्य फलं साक्षात्कारः सः अप्रेत्य मरणात्प्रागेव भवति । ज्ञानं दृष्टफलमित्यर्थः। ननु तर्हि तप एव क्रियतां किं धर्मेणेत्याशङ्क्याह - बह्विति । अयमर्थः - 'विविदिषन्ति यज्ञेन’ इत्यादिश्रुतेरश्वेन जिगमिषतीतिवत्करणस्य धात्वर्थेनान्वयात् विद्यार्थत्वं कर्मणाम् । यद्वा। सन्प्रत्ययस्य प्राधान्यात् ज्ञानेच्छैव कर्मसाध्या। यथोक्तम् ।
'प्रत्यग्विविदिषां बुद्धेः कर्माण्युत्पाद्य शुद्धितः
।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव॥’
इति । तथा 'यो वेदेदं मेऽनेनांगं संस्क्रियते' । इति स्मृतेश्चित्तशुद्ध्यर्थमेव कर्माणीति त्रेधा विभागः । तत्राद्यपक्षे विशिष्टगुर्वादिलाभो निष्प्रत्यूहं श्रवणादिसिद्धिश्च कर्मभिरेव जन्या । द्वितीये इच्छोत्पत्तिरेव कर्मफलं इतरत्तु यत्नान्तरसाध्यम् । तृतीये चित्तशुद्धिरेव कर्मफलं ज्ञानेच्छादिकं सर्वं यत्नान्तरसाध्यमिति विवेकः । एवं ज्ञानाद्यर्थमपि कृतात्कर्मणस्तद्यथाम्रे फलार्थं निर्मिते छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते इत्यापस्तंबोक्ताम्रनिदर्शनादानुषङ्गिकं स्वर्गाद्यपि भवति । तथा स्वर्गार्थमपि कृतं तत् विशुद्धदेवतादिदेहोत्पादनद्वारा मोक्षाय भवति । यथाहुः- 'विड्वराहादिदेहेन नह्यैन्द्रं भुज्यते पदम्' इति । 'भोगं भङ्गुरमीक्षन्ते' 'बुद्धिशुद्ध्यनुरोधतः' इति च । तथा दृष्टफलः पुत्रकामेष्ट्यादिरपि धर्मः सद्यः फलप्रदर्शनेन वैदिकधर्मे श्रद्धोत्पादनद्वारा श्रेयोहेतुरिति न धर्मक्रिया विफला । सर्वथाऽपि कृतो धर्मो मोक्षद एवेत्यर्थः । स्वर्ग्यः सत्यफलोदय इतिपाठे स्वर्गार्थं तैस्तैर्वाक्यैर्विहितोऽपि धर्मः सत्यमबाधितं फलं मोक्षाख्यं तदुदयाय भवति । विविदिषन्ति यज्ञेनेत्यादिश्रुत्या संयोगपृथक्त्वन्यायेन 'दध्नेन्द्रियकामस्य जुहुयात्' इति वाक्यान्तरेण नित्यस्यापि दध्न इन्द्रियार्थत्वमिव स्वर्गाद्यर्थानामपि यज्ञादीनां विद्यार्थत्वमिष्टम् । केवलकाम्यस्यापि धर्मस्य परम्परया परमपुरुषार्थत्वमाह- बह्विति । पाठान्तरं तु नादरणीयम् ॥२॥
यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम्
।
स तमेवाभिजानाति नान्यं भरतसत्तम ॥३॥
यस्मिन्निति । विद्या तदिच्छा चित्तसंस्कारस्वर्गपुत्रादिकामेषु यस्मिन्विषये द्वारभूते कामे अभिजानाति श्रेयस्त्वेन ॥३॥
यथा यथा च पर्येति लोकतन्त्रमसारवत्
।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥४॥
पर्येति पर्यालोचयति तेनैव द्वारेण चित्तशुद्धौ सत्याम् असारं तृणादि तद्वत्तुच्छम् ॥४॥
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर
।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥५॥
व्यवसिते निश्चिते लोके स्थावरादिसत्यलोकपर्यन्ते । बहुदोषे ऐश्वर्यतारतम्यक्षयिष्णुत्वादिदोषबहुले । दोषदर्शननिश्चयेन वैराग्ये सतीत्यर्थः । व्यवस्थिते इति पाठे विविधरूपेणावस्थिते सति ॥५॥
युधिष्ठिर उवाच।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
।
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥६॥
तन्मे तां मे ॥६॥
भीष्म उवाच।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
।
अहो दुःखमिति ध्यायन् शोकस्यापचितिं चरेत् ॥७॥
ध्यायन् 'अतोऽन्यदार्तम्' इति श्रुतेरात्मनोऽन्यत्सर्वं दुःखस्वरूपमिति श्रुत्यनुमानादिना आलोचयन् अपचितिं चरेत् - 'तरति शोकमात्मवित्' इति श्रुतेरात्मज्ञानार्थं शोकप्रतीकारहेतुं शमादिकमनुतिष्ठेदित्यर्थः ॥७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत्सुहृत् ॥८॥
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
।
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत् ॥९॥
स तं शोकेत्यत्र पुत्रशोकेत्येव पाठः । सन्तापोऽन्तर्बहिर्दाहः विह्वलत्वं बाह्येन्द्रियचलनशून्यत्वम् । विषण्णं मूढं मनो यस्य ॥९॥
किं नु मुह्यसि मूढस्त्वं शोच्यः किमनुशोचसि
।
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥१०॥
किन्विति । मूढाः सर्वेऽपि शोच्याः शोकाक्रान्ताश्चेत्यतो निःशोकं पदमन्वेष्टव्यमित्यर्थः ॥१०॥
त्वं चैवाहं च ये चान्ये त्वामुपासन्ति पार्थिव
।
सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥११॥
तदेवाह- त्वमिति त्वं चाहं चेति भोक्तृवर्ग उक्तः । ये चेति । देहेन्द्रियवियदादिर्भोग्यवर्गः । तद्द्वयं यत आगतं यत्र लवणोदकवल्लीयते तदद्वैतमशोकं पदं द्वैतं तु सशोकमित्यर्थः । तथाच श्रुती भवतः 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इति 'द्वितीयाद्वै भयं भवति' इति च ॥११॥
सेनजिदुवाच ।
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन
।
किं ज्ञानं किं श्रुतं चैव यत्प्राप्य न विषीदसि ॥१२॥
तत्र बुद्धिरुपपत्तिः । तपस्तदालोचनम् । समाधिर्बुद्धेरेकत्र पर्यवसानम् । ज्ञानं साक्षात्कारः । श्रुतम् एतेष्वर्थेषु प्रमाणम् ॥१२॥
ब्राह्मण उवाच।
पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः
।
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु ॥१३॥
तत्र बुद्धिमाह सार्धद्वयेन- पश्येति । व्यतिषिक्तानि व्याप्तानि उत्तमाधममध्यानि देवतिर्यङ्मनुष्यादीनि । कर्मसु निमित्तभूतेषु ॥१३॥
आत्मापि चायं न मम सर्वा वा पृथिवी मम
।
यथा मम तथाऽन्येषामिति चिन्त्य न मे व्यथा
।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥१४॥
एवं कर्मजं दुःखं देवादीनामप्यस्तीति दृश्यमानभूतदृष्टान्तेनोपपाद्य तन्निवृत्तावप्युपपत्तिमाह- आत्मेति । योऽयमहमिति प्रतीतिगोचर आत्मा सोऽपि न मम चिन्मात्रस्य स्वरूपम् । चिद्भास्यत्वात्तस्य । भास्यभासकयोश्च घटालोकयोः प्रसिद्धो भेदः । एवमहमर्थाच्चिदात्मानं विविच्य तत्रैव पृथिव्याद्यध्यस्तमिति सर्वस्य तदनन्यत्वमाह - सर्वा वा पृथिवी मम स्वरूपमिति । एतदेवाभ्यासेन द्रढयति- यथा ममेति । अयं भावः- यथा दर्पणप्रतिबिम्बितं मुखं न स्वरूपतः स्वमुखं दृश्यत्वात् नाप्यन्यत् तद्व्यतिरेकेणाभावात् एवं मायाकल्पितेषु इन्द्रियमनोविद्यादर्पणेषु स्थूलसूक्ष्मसूक्ष्मतरेषु प्रतिफलितश्चिदात्मा विराट्सूत्रान्तर्यामिभावेन दृश्यो न प्रत्यगात्मा नापि ततोऽन्य इति । एवमुपपन्नमात्मैकत्वं चिन्त्य ध्यानेन साक्षात्कृत्य न मे व्यथेति तत्फलमुक्तम् । तद्व्याचष्टे- एताभित्यर्धेन । हर्षोऽपि वृथैवैति भावः ॥१४॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥१५॥
बुद्धिमुक्त्वा तप आह - यथेत्यादिना ॥१५॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
।
तेषां स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः ॥१६॥
तपःफलमाह - एवमिति ॥१६॥
अदर्शनादापतितः पुनश्चादर्शनं गतः
।
न त्वासौ वेद न त्वं तं कः सन् किमनुशोचसि ॥१७॥
अदर्शनादिति । नास्ति दर्शनं दृश्यत्वेन द्रष्टृत्वेन वा प्रकाशो यस्य तददर्शनं शुद्धचिन्मात्रं तस्मात् । आपतितस्तव पुत्र इति शेषः । त्वा त्वां चिन्मात्रम् असौ पुत्रो न वेद स्वप्नोपलब्धपुरुषवत्त्वत्कल्पनामात्रत्वात्तस्य तथा त्वमपि तं चिन्मात्रं न वेत्थ चितश्चिद्गोचरत्वायोगात् । किमनुशोचसीत्यस्य अयं भावः - शोच्यः पुत्रः किंस्विदात्मा उताचिद्रूपो देहो वा । नाद्यः । चित एकत्वादविनाशित्वाच्च कः केन शोच्यः । नान्त्यः । लोष्ठादेरपि शोच्यतापत्तेरिति ॥१७॥
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
।
सुखात्संजायते दुःखं दुःखमेवं पुनः पुनः ॥१८॥
कुतस्तर्ह्ययं शोक उल्लसतीत्याशङ्क्याह - तृष्णेतित्रिभिः । तृष्णार्तिः विषयेषु प्राप्यमाणेष्वपि मोहादतृप्तिरूपा पीडा । दुःखार्तिर्दुःखनाशस्तज्जं सुखम् । तेन दुःखार्तिरेव सुखमिति वदन्परास्तः ॥१८॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
।
सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः ॥१९॥
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्
।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥२०॥
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्
।
यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत् ॥२१॥
शरीरं स्थूलसूक्ष्मभेदेन द्विविधम् । तदेव सुखादेरायतनम् आश्रयो न त्वात्मा तदभावे सुप्तिसमाध्योरात्मनि दुःखाद्यनुपलम्भात् जाग्रत्स्वप्नयोस्तत्र तदुपलम्भस्तु देहोपाधिकः । जलचाञ्चल्यमिव जलचन्द्रे । दुःखादेरात्मधर्मत्वे वह्न्यौष्ण्यवदाश्रयनाशमन्तरेणात्यन्तिकदुःखोच्छेदायोगात् । घटे यावद्रूपनाशादर्शनादिति भावः । यद्यदित्यत्राद्यो यच्छव्दो हेत्वर्थः । यस्माच्छरीरमेवं दुःखाद्याश्रयस्तस्माद्देही देहाभिमानी येन यत्कर्म करोति तेनैव तत्फलमश्नुते । तेन यः कर्ता स एव चिदाभासो भोक्ता न तु प्रकृतिः कर्त्री चिदात्मा भोक्तेति वदतः सांख्यस्यावकाशोऽस्ति ॥२१॥
जीवितं च शरीरेण जात्यैव सह जायते
।
उभे सह विवर्तेते उभे सह विनश्यतः ॥२२॥
जीवितं जीवनहेतुर्लिङ्गशरीरं शरीरेण स्थूलेन । पाठान्तरे जात्या स्वभावेनैव सह जायते तेनैवेति स्थूलस्य लिङ्गादनन्यत्वमुक्तम् । लिङ्गमेव हि चिरभावितं स्थूलं भवतीत्यर्थः । तथा चोक्तं वासिष्ठे -
'आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः
।
आधिभौतिकया बुद्ध्या गृहीतश्चिरभावनात्॥'
इति। विवर्तेते संसारकाले विविधेन रूपेण वर्तेते विनश्यतश्च मोक्षे स्थूलदेहवत्कर्त्रादिधर्मकं लिङ्गमपि नश्यतीत्यर्थः ॥२२॥
स्नेहपाशैर्बहुविधैराविष्टविषया जनाः
।
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः ॥२३॥
आविष्टाश्चित्ते मग्ना विषया येषां ते सेतव इवेति लुप्तोपमा । सीदन्ते सीदन्ति । चित्तस्थैर्विषयैरिति शेषः ॥२३॥
स्नेहेन तिलवत्सर्वं सर्गचक्रे निपीड्यते
।
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसम्भवैः ॥२४॥
स्नेहेन निमित्तेन तिलपीडैस्तैलिकैः क्लेशैरविद्यद्यादभिरनित्याशुचिदुःखानात्मसु देहादिषु नित्यत्वशुचित्वसुखत्वात्मत्वारोपप्रभृतिभिरज्ञानमूलैः । ततश्चाज्ञाननाशात् क्लेशोच्छेदे प्रवृत्त्याद्यभावेन देहदुःखाद्यभावान्निष्प्रत्यूहो मोक्षः सिद्धः । तथाचाक्षपादचरणाः- दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति ॥२४॥
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः
।
एकः क्लेशानवाप्नोति परत्रेह च मानवः ॥२५॥
अशुभं चौर्यादि कलत्रापेक्षया भार्यादिपोषणार्थं धनसुखभागिनः सर्वे पापफलभागी तु एक एवायमित्यर्थः ॥२५॥
पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः
।
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥२६॥
पुत्रनाशे वित्तनाशे ज्ञातिसम्बन्धिनामपि
।
प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो
।
दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ ॥२७॥
पुत्रेति । यथा जीवनाशे मरणे दुःखं प्राप्यते तथा पुत्रस्य ज्ञात्यादेश्च नाशेऽपीति तेषु ममता न कार्येत्यर्थः । भवाभवौ ऐश्वर्यानैश्वर्ये ॥२७॥
असृहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि
।
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥२८॥
सुहृत् प्रत्युपकारमनपेक्ष्य उपकारकर्ता । मित्रं प्रत्युपकारमपेक्ष्य उपकारकर्तृ । तयोः प्रज्ञायाश्च भावेऽभावे वा शत्रुयोगेऽपि वा दैवादेव सुखं लभते निर्दैवाः सत्त्यपि सुखसाधने दुःखिन एव तृष्णाधिक्यात् सदैवास्तु तदभावात्सुखिन एव तृष्णात्यागादित्यर्थः ॥२८॥
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
।
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम् ॥२९॥
सुखाय सुखं दातुं नालं पर्याप्ताः अर्थानां लाभे इति शेषः ॥२९॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥३०॥
जाड्यं मूढता असमृद्धये घनादिनाशाय लोको भोग्यप्रपञ्चस्तस्य पर्यायो निर्माणं तत्र विषये वृत्तान्तं सिद्धान्तं प्राज्ञस्तत्त्ववित् । 'पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे' इति विश्वः । तत्त्ववित्तु मरीचिकोदकवल्लोकं पश्यन्न सुखे दुःखे वा हर्षविषादौ लभते इत्यर्थः ॥३०॥
बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम्
।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥३१॥
मूढं निर्बुद्धि जडम् अलसं कविं दीर्घदर्शिनं भागिनं सदैवं भजते स्वयमेव उपनमते न तु तदर्थं यत्नोऽपेक्ष्य इत्यर्थः ॥३१॥
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥३२॥
धेनुरिति । पयः पातुरेव धेनुः इतरेषां तु तत्र ममता व्यर्था । तस्मादावश्यकादधिके स्पृहा न कार्येत्यर्थः यथोक्तम् -
'गोशतादपि गोक्षीरं प्रस्थं धान्यशतादपि
।
प्रासादादपि खट्वार्धं शेषाः परविभूतयः॥'
इति॥३२॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः
।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥३३॥
मूढतमाः सुषुप्तिस्थाः बुद्धेः परङ्गताः निर्विकल्पसमाधिस्थाः । एधन्ते वृद्धिं ब्रह्मभावाख्यां प्राप्नुवन्ति । 'सता सौम्य तदा सम्पन्नो भवति । ब्रह्मविद्ब्रह्मैव भवति' इति सुषुप्तिसमाध्योर्ब्रह्मभावश्रुतेः । अत्र सुषुप्त्युपन्यासो दृष्टान्तार्थः । अत एव माध्यंदिनाः- 'यद्वै तन्न पश्यति' इत्यादिना सुषुप्तिसमाध्योर्द्वैतादर्शनं तुल्यवदामनन्ति । सूत्रमपि- स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि इति । स्वाप्यये सुषुप्तौ सम्पत्तौ कैवल्येऽत्र द्वैतादर्शनं स्पष्टीकृतमिति सूत्रार्थः । अन्तरं भेदः सञ्जातोऽस्य जाग्रत्स्वप्नसविकल्पसमाधिस्थस्य सः अन्तरितः भेददर्शी क्लिश्यति । अथ 'यत्रान्यत्पश्यति तदल्पम् । नाल्पे सुखमस्तीत्यतोऽन्यदार्तम्' इत्यादि श्रुतिभ्यः ॥३३॥
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
।
अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्त्ययोः ॥३४॥
अन्त्येष्विति बहुवचनं सुप्तिसमाधिव्यक्त्यभिप्रायम् । अन्त्ययोरिति द्विवचनं तु तज्जात्यभिप्रायम् । अन्तरं मध्यम् ॥३४॥
ये च बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः
।
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥३५॥
विवेकिनस्त्वन्तरस्था अपि न क्लिश्यन्तीत्याह - ये चेति । बुद्धिसुखं बुद्धेः परं सुखं स्वरूपसुखं प्राप्ताः । अत एव द्वन्द्वातीताः सुखदुःखाद्यतीताः मत्सरः परोत्कर्षासहिष्णुत्वं तद्वर्जिताः । अर्थाः स्त्र्यादयः अनर्थास्तद्वियोगाः ॥३५॥
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
।
तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च ॥३६॥
अल्पज्ञं प्रति प्राह- अथ ये इति । अतिवेलम् अत्यन्तम् ॥३६॥
नित्यं प्रमुदिता मूढा दिवि देवगणा इव
।
अवलेपेन महता परिभूत्या विचेतसः ॥३७॥
अत्यज्ञं प्रति प्राह- नित्यमिति । अवलेपेन गर्वेण मूढाः सदसद्विवेकहीनाः विचेतसः कामादिभिर्ग्रस्तचित्ताः । परिभूत्या परपराभवेन ॥३७॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
।
भूतिस्त्वेवं श्रिया सार्धं दक्षे वसति नालसे ॥३८॥
तर्हि मौढ्यमेव सुखदमित्याशङ्क्याह - सुखमिति । दुःखम् अन्ते यस्य । उदर्कदुःखं मौढ्यसुखं न श्रेय इत्यर्थः । आलक्ष्य दुःखं चापि सुखोदयमिति पाठे सुखेष्वसक्तो दुःखादनुद्विग्नो दाक्ष्यं ज्ञानसाधनानुष्ठाने उत्साहं श्रयेदित्यर्थः । आलस्यं दुःखं दाक्ष्यं सुखोदयमिति पाठे त्वालस्यं ज्ञानसाधनेष्वप्रवृत्तिः दुःखं दुःखकरं भूतिरणिमाद्यैश्वर्यम् । श्रिया 'ऋचः सामानि यजूषि सा हि श्रीरमृता सताम्' इति श्रुत्युक्तया विद्यया ॥३८॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्
।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥३९॥
सुखदुःखसाधने प्रियाप्रिये हृदयेन हर्षशोकमयेन अपराजितः अवशीकृतः ॥३९॥
शोकस्थानसहस्त्राणि भयस्थानशतानि च
।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥४०॥
शोकेति । शोकमूलानि इष्टवियोगादीनि । भयमूलानि अनिष्टसंयोगादीनि । आविशन्ति स्वकार्योत्पादनेन व्याप्नुवन्ति ॥४०॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्
।
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥४१॥
न पण्डितमित्येतद्विवृणोति - बुद्धीति । बुद्धिः ग्रन्थधारणसामर्थ्यं तद्वन्तम् । कृता स्वतःसिद्धा प्रज्ञा ऊहापोहकौशलं यस्य तम् । शुश्रूषुं शास्त्राभ्यासपरम् । अनसूयकं शास्त्रीयेऽर्थे दोषदृष्टिरसूया तद्रहितम् । दान्तं जितबाह्येन्द्रियम् । जितेन्द्रियं जितचित्तम् ॥४१॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः
।
उदयास्तमयज्ञं हि न शोकः स्पष्टुमर्हति ॥४२॥
गुप्तं कामादिभ्यो रक्षितं चित्तं येन सः गुप्तचित्तः । युक्तचित्त इति पाठे प्रतीचि योजितचित्त इत्यर्थः । अत एव उदयास्तमयज्ञं जगदुत्पत्तिलयस्थानं ब्रह्म तज्ज्ञं युक्तचित्तत्वात् । एतेन 'तरति शोकमात्मवित्' इति श्रुत्यर्थो दर्शितः । उदयास्तमयेत्यतः प्राक् 'शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम्' इत्यर्धं गौडाः पठन्ति । तस्यार्थः - शुक्लं सत्त्वं कृष्णं तमः ताभ्यां प्राप्ये गती प्रकाशावरणकार्ये मुक्तिसंसाराख्ये तज्ज्ञम् । देवाः दानदयादिरूपाः सात्त्विक्यश्चेतोवृत्तयः । असुराः राजस्यस्तामस्यः लोभमोहाद्यास्ता एव तासामुभयीनामपि विशेषेण निर्गमो बहिर्भावो यस्मात्तं युक्तचित्तो हि योगबलेन मुक्तिसंसारयोस्तत्त्वं जानन् निरुद्धसदसद्वृत्तिर्ब्रह्मभूतो भवत्यतस्तं शोको न स्पृशतीति ॥४२॥
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमेव च
।
आयासो वा यतो मूलमेकाङ्गमपि तत्त्यजेत् ॥४३॥
यतः आयासस्तन्मूलं कारणम् आयासादेः एकाङ्गं शरीरैकदेशभूतमपि त्यजेत् किमुत धनदारादि ॥४३॥
किंचिदेव ममत्वेन यदा भवति कल्पितम्
।
तदेव परितापार्थं सर्वं सम्पद्यते तथा ॥४४॥
दारादौ ममतैवानर्थहेतुः प्रत्युत तत्त्याग एव सुखकर इत्याह द्वाभ्यां - किञ्चिदेवेति ॥४४॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
।
कामानुसारी पुरुषः कामाननुविनश्यति ॥४५॥
कामानां विषयाणां मध्ये ॥४५॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥४६॥
वैराग्यं स्तौति- यच्चेति । लोके मानुषे दिव्यं स्वर्गभवं तृष्णाक्षयो वैराग्यम् ॥४६॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाऽशुभम्
।
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ॥४७॥
नन्वेवं धनादित्यागे कथं देहनिर्वाह इत्याशङ्क्याह - पूर्वेति । दृष्टसुखार्थम् ऐहिको यत्नो व्यर्थ इत्यर्थः ॥४७॥
एवमेव किलैतानि प्रियाण्येवाप्रियाणि च
।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥४८॥
ननु पूर्वकर्मापि दृष्टयत्नापेक्षमत आह- एवमिति । यथा रोगारोग्यादिजानि दुःखसुखानि अप्रार्थितान्येव लभ्यन्ते एवमेव प्रियाप्रियासम्बन्धादीनि लाभनाशादीनि च लभ्यन्ते इत्यनर्थको यत्न इत्यर्थः ॥४८॥
एतां बुद्धिं समास्थाय सुखमास्ते गुणान्वितः
।
सर्वान्कामान् जुगुप्सेत कामान्कुर्वीत पृष्ठतः ॥४९॥
एतां यच्च कामसुखमित्यादिना उक्तं सुखं निरुद्योगं यथा स्यात्तथा गुणान्वितः वैतृष्ण्यान्वितः जुगुप्सेत निन्देत कामान् विषयान् कामात् हठात् क्रोधं कुर्वीतेत्यपि वा पाठः ॥४९॥
वृत्त एष हृषि प्रौढो मृत्युरेष मनोभवः
।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः ॥५०॥
वृत्तो नित्यनिष्पन्नमृत्युः जन्ममरणाख्यसंसारद्वारभूतः । मनोभवः कामः स एव केनचिन्निमित्तेन प्रतिहतः क्रोधरूपेण परिणमते इत्यर्थः ॥५०॥
यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः
।
तदाऽऽत्मज्योतिरात्माऽयमात्मन्येव प्रपश्यति ॥५१॥
यदेति । त्रिविधाः कामाः स्थूलसूक्ष्मकारणोपाधिभोग्या विषयाः । तत्र स्थूलानां त्यागः सङ्गवर्जनेन स्थवीयानेव । सूक्ष्माणां वासनामयानां त्यागो वैराग्यदार्ढ्यात्सर्वविषयस्मरणस्याप्यभावः । एतानपि गुरूक्तयुक्त्या परित्यज्य हार्दाकाशाख्यं कारणं ब्रह्मप्रविष्टो योगी । 'अत्र हि सर्वे कामाः समाहिता यच्चास्येहास्ति यच्च नास्ति सर्वं तदन्न गत्वा विन्दते' इति श्रुतेर्वर्तमानं त्रिलोक्यन्तर्गतमतीतानागतं च कामजातं सङ्कल्पसमकालोत्थितं पुरो वर्तमानमेव पश्यन् कदाचिद्वैराग्यमान्द्यान्मुह्येतातस्तानपि संहरेत् । तथा च सूत्रं भगवतः पतञ्जलेः - स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्' इति । व्याख्यातं चैतद्भगवता बादरायणेन - तत्र मधुमतीभूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वबुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते । भो इहास्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्यू बाधते । वैहायसमिदं यानम् । अमी कल्पद्रुमाः । पुण्या मन्दाकिनी । सिद्धा महर्षयः । उत्तमा अनुकूलाश्च अप्सरसः । दिव्ये श्रोत्रचक्षुषी । वज्रोपमः कायः । स्वगुणैः सर्वमिदमप्यर्जितमायुष्मता । प्रतिपद्यतामिदमक्षयमजरममरं स्थानं देवानां प्रियमित्येवमभिधीयमानः । सङ्गदोषान् भावयेत् । घोरेषु संसारागारेषु पच्यमानेन मया जननमरणान्धकारे विवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपः । तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितः तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । सङ्गमकृत्वा स्मयं कुर्यात् । एवमहं देवानां प्रार्थनीय इति स्मयादयं सुस्थितंमन्यतया मृत्युना केशगृहीतमात्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भविष्यति । ततश्च पुनरनिष्टप्रसङ्ग इति । तस्मात्सर्वशः सर्वान् त्रिविधानपि कामान् संहरेत् कूर्मोङ्गानीति दृष्टान्तः । कामानां स्वरूपादनन्यत्वं स्वाधीनोत्पत्तिप्रलयत्वं च दर्शयति - यदा कामान् सर्वान्संहरेत्तदा अयमात्माऽहंप्रत्ययगोचरो जीवः । आत्मन्येव अपेतसर्वोपाधौ स्वस्वरूपे एव आत्मज्योतिः प्रत्यगभिन्नं चिन्मात्रं पश्यति । अयमर्थः - यथा जागरे घटं सूर्यादिना ज्योतिषा पश्यति । गाढान्धकारे तु वाचैव ज्योतिषा पश्यति । स्वप्ने तु आलोकेन्द्रियज्योतिषोरभावाद्वासनामयस्य घटस्य प्रत्यगात्मज्योतिषैव प्रकाश इति प्रसाधितं ज्योतिर्ब्रह्मणे - अत्रायं पुरुषः स्वयञ्ज्योतिरिति । तेन तत्र कारणाभावे सिद्धे सुषुप्तौ वासनामयस्य प्रपञ्चस्यापि नाशे दृश्याभावाद्दृङ्मात्रं प्रकाशते । एवं समाधावपि संप्रज्ञाते करणाभावः । असंप्रज्ञाते कर्मकरणयोरभावद्द्रष्टृत्वनिवृत्तौ दृङ्मात्रं शिष्यते इति । प्रसीदतीति पाठे कार्यकरणसम्पर्कजं कालुष्यं त्यजतीत्यर्थः । किञ्चिदेव ममत्वेनेति श्लोकं केचिदित उत्तरं पठन्ति । तदा मधुमत्यां योगभूमौ उपस्थितेषु विषयेषु वैराग्यार्थमिदं वचनमिति ज्ञेयम् ॥५१॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति
।
यदा नेच्छति न द्वैष्टि ब्रह्म सम्पद्यते तदा ॥५२॥
असंप्रज्ञातावस्थामेव प्रपञ्चयति द्वाभ्यां - न बिभेतीति । 'ह्रीर्धीर्भीरित्येतत्सर्वं मन एव' इति श्रुतेर्भयादेर्मनोधर्मत्वोन्मनसश्च लीनत्वाद्यदा भयादिरहितः स्थाणुवदचञ्चलो भवति । तदाऽस्मादन्ये जना न बिभ्यति । अयं च ब्रह्म सम्पद्यते तथा च श्रुतिः -
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह
।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्॥'
इति ॥५२॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति ॥५३॥
सत्यं व्यावहारिकं देहादि । अनृतं स्वप्नसबीजसमाधिकालिकं प्रातिभासिकं च देहादि । प्रशान्तात्मा प्रकर्षेण शान्त उपरतः आत्मा चित्तं यस्य स प्रशान्तात्मा ॥५३॥
यदा न कुरुते धीरः सर्वभूतेषु पापकम्
।
कर्मणा, मनसा, वाचा ब्रह्म सम्पद्यते तदा ॥५४॥
व्युत्थानावस्थामाह- यदा नेति । पापकं हिंसनम् ॥५४॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥५५॥
एषा स्थितिस्तृष्णात्यागेनैव लभ्येत्याख्यायिकापूर्वकमाह- या दुस्त्यजेत्यादिना ॥५५॥
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव
।
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥५६॥
कृच्छ्रकाले दुःखकाले सनातनं धर्मं नित्यप्रसिद्धं योगम् ॥५६॥
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता
।
अथ कृच्छ्रगता शान्ता बुद्धिमास्थापयत्तदा ॥५७॥
सङ्केते इति । आस्थापयत् व्यवस्थापितवती । तीव्रदुःखमेव वैराग्यहेतुरिति भावः ॥५७॥
पिङ्गलोवाच
।
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम्
।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥५८॥
उन्मत्ता विकारवती । अनुन्मत्तं निर्विकारं कान्तं स्वामिनमन्तर्यामिणम् । अन्ववसं वस आच्छादने आर्षः पदव्यत्ययः । अहङ्कारधर्मं कामादिकमनुलक्षीकृत्य आच्छादितवती । अन्तिके हृदयकोशे रमणम् आनन्दप्रदम् । ’एष ह्येवानन्दं याति' इति श्रुतेः । मरणमित्यपपाठः ॥५८॥
एकस्थूणं नवद्वारमपि धास्याम्यगारकम्
।
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते ॥५९॥
एका अविद्यैव स्थूणेव विधारिका यस्य तदेकस्थूणम् । नव श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमनोबुद्धिकामकर्माणि विषयप्राप्तिद्वाराणि यस्य तत् । नवद्वारम् अपिधास्यामि विद्याबलेनाच्छादयामि । अगारमिव चिदात्मोपलब्धिस्थानं देहादिसङ्घातम् । का हीति।
'विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते
।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति॥'
इति विष्णुपुराणोक्तेर्दर्पणापगमे बिम्बप्रतिबिम्बयोरिवाविद्यानाशे ईशजीवयोर्भेदाभावात् । इह हार्दाकाशे आयान्तं चिन्मात्ररूपेणाविर्भवन्तं प्रत्यगनन्यमीशम् अयं कान्त इति का मंस्यते न काऽपीत्यर्थः । तथा च श्रुतिः- ’यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति विद्यावस्थायां मन्तृमन्तव्यभावाभावेन भेदमपवदति- कान्तेति सन्धिरार्षः ॥५९॥
अकामां कामरूपेण धूर्ता नरकरूपिणः
।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥६०॥
अकामाम् आत्मलाभेन सर्वकामावाप्तेर्निरिच्छां कामरूपेण कामुकरूपेण । प्रतिबुद्धा ज्ञातात्मतत्त्वा । जागृमि जागर्मि । अविद्यानिद्रोच्छेदात् । ज्ञाततत्त्वो न विषयैराकृष्यत इत्यर्थः ॥६०॥
अनर्थो हि भवेदर्थो दैवात्पूर्वकृतेन वा
।
सम्बुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया ॥६१॥
अनर्थो धनाद्याशया वैक्लव्यं तदेव अर्थो भवेत् आशाया निरन्वयोच्छेदहेतुत्वेन सुखायापि स्यात् । तत्र हेतुः देवात् देवस्यानुग्रहात् । निरीश्वरवादिमतमनुरुध्याह - पूर्वकृतेन वेति । निराकारा निर्विषयज्ञानरूपा ॥६१॥
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्
।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥६२॥
सुखमिति । नैराश्यमेव परं सुखं मोक्षाख्यपरसुखप्रापकम् । अशनं भोजनमाशो विषयभोगस्तद्राहितामनाशाम् । भोगार्थं हि धनाद्याशा भोगत्यागादुच्छिद्यते इत्यर्थः ॥६२॥
भीष्म उवाच।
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः
।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखी ॥६३॥
पर्यवस्थापितः आत्मतत्त्वे निष्ठां प्रापितः ॥६३॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि ब्राह्मणसेनजित्संवादकथने चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥
युधिष्ठिर उवाच।
अतिक्रामति कालेऽस्मिन् सर्वभूतक्षयावहे
।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥१॥
पूर्वं जिताशो मोक्षमिच्छेदित्युक्तम् । संप्रति तत्र कालविलम्बो न कर्तव्य इत्याहाध्यायेन- अतीति । अतिक्रामति जरारोगादिभिर्नृणां पराभवं कुर्वति । श्रेयः प्रशस्ततरम् ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥२॥
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै
।
बभूव पुत्रो मेधावी मेधावी नाम नामतः ॥३॥
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्
।
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ॥४॥
मोक्षधर्माणाम् अर्थेषु कुशलः । विचक्षणः ऊहापोहकुशलः ॥४॥
पुत्र उवाच ।
धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्
।
पितस्तदाचक्ष्व यथार्थयोगं मामनुपूव्यां येन धर्मं चरेयम् ॥५॥
यथार्थयोगं फलसम्बन्धमनतिक्रम्य ॥५॥
पितोवाच ।
वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम्
।
अग्नीनाधाय विविवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥६॥
मुनिर्ध्यानभिक्षुः ॥६॥
पुत्र उवाच ।
एवमभ्याहते लोके समन्तात्परिवारिते
।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥७॥
अभ्याहते मृत्युनाऽभितस्ताडिते परिवारिते जरया व्याप्ते । परितापिते इति जीर्णपाठः । अमोघासु आयुर्हरणेन सफलासु रात्रिषु ॥७॥
पितोवाच ।
कथमभ्याहतो लोकः केन वा परिवारितः
।
अमोघाः काः पतन्तीह किं नु भीषयसीव माम् ॥८॥
पुत्र उवाच ।
मृत्युनाऽभ्याहतो लोको जरया परिवारितः
।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ॥९॥
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च
।
यदाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह
।
सोऽहं कथं प्रतीक्षिष्ये ज्ञानेनापिहितश्चरन् ॥१०॥
अहो वा रात्रयश्चापीति पाठे अहो इति खेदे । वाशब्द एवार्थे भिन्नक्रमः । यान्त्येव न तु तिष्ठन्तीत्यर्थः। न तिष्ठति अपि तु क्षणे क्षणे अर्वागायाति ज्ञानेन अपिहितः अनाच्छादितज्ञानकवचस्य हि मृत्युभयं नास्ति अहं तु तद्रहितः कथं नोद्विजेयमित्यर्थः । अपिशब्दस्य भागुरिमतेन अकारलोपं कृत्वा नञ्समासः । जालेनापिहित इति पाठे तु न अकारलोपादि । जालेन मायावरणेन अपिहित आच्छादितः ॥१०॥
राज्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा
।
तदैव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ॥११॥
वंध्यं निष्फलम् ॥११॥
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा
।
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् ॥१२॥
यदा मृत्युरभ्येति तदा कः सुखं विन्दतेति सम्बन्धः ॥१२॥
पुष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्
।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥१३॥
पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा आर्तवं विना पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात् । विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन च उरणं मेषम् ॥१३॥
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्
।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥१४॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥१५॥
को हि नाजाति कस्याद्य मृत्युकालो भविष्यति
।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्
।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥१६॥
अनित्यं खल्वित्यत्रानिमित्तमिति पाठे आयुरियत्तावधारणकारणहीनम् ॥१६॥
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः
।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥१७॥
मोहेनेति । एषां पुत्रादीनाम् ॥१७॥
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम्
।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥१८॥
सुप्तं व्याघ्रं महौघेवेतिपाठे- सुप्तं सैकते महौघा महानदी अकालपूरवती ॥१८॥
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्
।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥१९॥
सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् ॥१९॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥२०॥
कार्यं कर्तुमिष्टं कृताकृतम् अर्धकृतम् ईहा तृष्णा ॥२०॥
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्
।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥२१॥
फलं न प्राप्तं येन तं फलमप्राप्तं नरम् । अप्राप्तकर्मफलमित्यर्थः । कर्मसंज्ञितं वणिगित्यादिकर्मानुरूपसंज्ञावन्तम् ॥२१॥
दुर्बलं बलवन्तं च शूरं भीरूं जडं कविम्
।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥२२॥
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्
।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥२३॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्
।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥२४॥
द्वयेन अन्तकजराख्येन ॥२४॥
मृत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः
।
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥२५॥
एवं पुत्रादिषु वैराग्यमुक्त्वा तेषां त्यागमप्याह - मृत्योरिति । ग्रामे स्त्र्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं न तु वासमात्रं गोष्ठमिव गोष्ठं वासस्थानम् । अरण्यं विविक्तदेशः । तद्धि देवानामिन्द्रियाणां गवां गोष्ठमिव बन्धनस्थानं गृहं त्यक्त्वा एकान्ते ध्यानपरो भवेदित्यर्थः । लिङ्गव्यत्यय आर्षः ॥२५॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥२६॥
यान्ति मुक्तिमिति शेषः ॥२६॥
न हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः
।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥२७॥
न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः। हेतुः श्राद्धादिनिमित्तं तैः कर्महेतुभिरिति पाठेऽपि स एवार्थः । जीवितम् अर्थांश्च अपनयन्ति तैहिंस्रस्तेनादिभिः प्राणिभिः स न हिंस्यते निमित्ताभावात् यथोक्तं वैष्णवे -
'यः परस्य न पापानि चिन्तयत्यात्मनो यथा
।
तस्य पापागमस्तात हेत्वभावान्न विद्यते॥'
इति। कर्मभिर्न स बद्ध्यत इति पाठे मनोवाक्कायजैरपध्यानपरुषोक्तिशस्त्रपातनादिभिः करणभूतैः न बध्यते सम्बन्धं न प्राप्नोति । वध्यत इति स्पष्टार्थः पाठः। यो हि संयच्छति प्राणानित्यपपाठः॥२७॥
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते
।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥२८॥
मृत्युसेनां जराव्याधिरूपां सत्यम् अबाधितात्मतत्त्वप्रापकत्त्वाद्योगधर्मम् । अमृतं मरणाभावः । एतेन 'न तस्य रोगो न जरा न मृत्युः प्राप्तस्ययोगाग्निमयं शरीरम्' इति श्रुतेरर्थ उक्तः । ऋते सत्यमसत्याद्यमिति पाठे - असत्यमज्ञानम् अद्यं भक्ष्यं यस्येत्यर्थः ॥२८॥
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः
।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥२९॥
सत्यव्रताचारः ब्रह्मप्राप्त्यर्थानि व्रतानि यमनियमरूपाणि आचरतीति तथा । सत्ययोगः चिदाभासरूपस्य जीवस्य प्रविलापनं तत्र परायणः । सत्यः प्रमाणभूत आगमो गुरुवेदवाक्यं यस्य स सत्यागमः श्रद्धावान् ॥२९॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्
।
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥३०॥
देहे चित्ते मोहात् विषयपारवश्यात् सत्येन तद्वर्जनात्मकेन योगेन तथा च।
’मन एव मनुष्याणां कारणं बन्धमोक्षयोः
।
बंधाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्॥'
इति श्रुत्यर्थ उक्तः ॥३०॥
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः
।
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ॥३१॥
क्षेमी परसुखार्थी । अमर्त्यवत् । हिरण्यगर्भवत् ॥३१॥
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
।
वाङ्मनः कर्मयज्ञश्च भविष्याम्युदगायने ॥३२॥
शान्तियज्ञो निवृत्तिमार्गाभ्यासः ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम् । वाग्यज्ञः प्रणवजपः । मनोयज्ञः अकारोकारमकारार्धमात्राणां पूर्वपूर्वस्योत्तरोत्तरत्र प्रविलापनम् । कर्मयज्ञः स्नानशौचगुरुशुश्रूषाद्यावश्यकधर्मानुष्ठानम् । उदगायने इति देवयानपथनिमित्तम् । उक्तपञ्चयज्ञपरो भविष्यामि दैर्घ्यमार्षम् ॥३२॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति
।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥३३॥
अन्तवद्भिरनित्यफलैः क्षेत्रयज्ञैः शरीरत्यागैः यथा कश्चित्पिशाचः प्राप्तं प्राप्तं शरीरं पूर्वपुर्ववासनावशाद्विषाग्न्युद्बन्धनादिना पुनः पुनर्हिनस्ति तद्द्वदहं पश्वादिशरीरमात्मदेहत्वेन पश्यन् कथं नाशयेयमित्यर्थः । क्षत्रेत्यपि पाठः । क्षत्रियाणामुचितैर्युद्धयज्ञतुल्यैरित्यर्थः ॥३३॥
यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा
।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥३४॥
यस्य वागादिपञ्चकं ब्रह्मणि प्रणिहितं समर्पितं स सर्वं ब्रह्म प्राप्नुयात् । सत्यं च स वै परमवाप्नुयादिति मूलपाठः ॥३४॥
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः
।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥३५॥
विद्या ग्रंथज्ञानं ब्रह्माकारा चरमान्तःकरणवृत्तिश्च ज्ञानापरपर्याया ॥३५॥
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा
।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥३६॥
आश्रमक्रमं पित्रा प्रोक्तं निरस्यति - आत्मनीति । आत्मनि ब्रह्मणि आत्मना ब्रह्मरूपेण जातः न पित्रा मातरि । आत्मनिष्ठो ब्रह्मभूतः । अप्रजोऽनपत्यः वाशब्द एवार्थे आत्मन्येव ब्रह्मण्येव भविष्यामि न जायायां पुत्ररूपेण प्रजा सन्ततिः ॥३६॥
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च
।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥३७॥
एकता एकाकित्वं शीलं श्लाघनीयं वृत्तं दण्डनिधानं वाङ्मनःकायैर्हिंसात्यागः ॥३७॥
किं ते धनैर्बान्धवैर्वाऽपि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि
।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ॥३८॥
गुहां बुद्धिम् ॥३८॥
भीष्म उवाच।
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप
।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पितापुत्रसंवादकथने पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥
युधिष्ठिर उवाच।
ईहमानः समारम्भान्यदि नासादयेद्धनम्
।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥१॥
पूर्वं धनस्य मोक्षहेतुत्वं निरस्तम् । जीवनहेतुत्वं तु प्रत्यक्षम् । अतो जीवनाय समारम्भान् कृषिवाणिज्ययज्ञदानाद्यारम्भान् ईहमानः कर्तुमिच्छन् यो धनमलभमानस्तृष्णाभिभूतश्च स किं कुर्यात् । यतेतैव वा धनार्थम् उपरमेतैव वाऽऽरम्भादित्यर्थः । आद्ये वैयग्र्यात् अन्त्ये देहनाशापाताच्च मोक्षसाधनं विघ्नितं भवति । अतस्तयोर्मध्ये किं श्रेय इति भावः ॥१॥
भीष्म उवाच।
सर्वसाम्यमनायासं सत्यवाक्यं च भारत
।
निर्वेदश्चाविधित्सा च यस्य स्यात्स सुखी नरः ॥२॥
सर्वत्र लाभालाभमानापमानादौ साम्यमवैषम्यं सर्वसाम्यम् । अनायासः धनाद्यर्थं श्रमाभावः । निर्वेदो वैराग्यम् । अविधित्सा कर्मणि इच्छाभावः । विधित्सेति पाठे श्रवणादीच्छा । लाभादौ वैषम्ये रागादिस्ततः प्रवृत्तिस्तत आयासस्ततः सत्यत्याग इत्येतानि त्यक्त्वैव सुखी स्यान्न त्वत्यक्त्वा । देहनिर्वाहस्त्वारब्धकर्मोपनतैरेवान्नादिभिर्भविष्यति । तस्मादुपरम एव श्रेयानित्यर्थः ॥२॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये
।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं मतम् ॥३॥
पदानि पदनीयानि आश्रयणीयानि प्रशान्तये मोक्षाय । एष इति विधेयापेक्षे लिङ्गैकत्वे एष स्वर्गादिस्तत्साधनत्वात् ॥३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥४॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः
।
केनचिद्धनशेषेण क्रीतवान् दम्यगोयुगम् ॥५॥
भग्नेहः भग्नाशः व्यर्थचेष्टो वा । दम्यौ दमनयोग्यौ गावौ वत्सतरौ ताभ्यां सहितं युगं शकटादिधुरि योजितं तिर्यक्काष्ठं यस्यां तयोर्गावौ युज्येते ॥५॥
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ
।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥६॥
सुसम्बद्धौ युगान्तयोः सम्यग्योजितौ दमनाय । असम्बद्धाविति पाठे दमयित्रा असंयतौ ॥६॥
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः
।
उत्थायोक्षिप्य तौ दम्यौ प्रससार महाजवः ॥७॥
स्कन्धदेशं संप्राप्तयोः सतोरिति सम्बन्धः । उत्क्षिप्य तुलाभाजनद्वयवदुपरि भूमेर्नीत्वा ॥७॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
।
म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥८॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम्
।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥९॥
अविहितं दैवेनानुपस्थापितम् । ईहितुम् एष्टुम् । ईहितमिति पाठे आप्तुमित्यध्याहारः । श्रद्धया फलप्राप्तिनिश्चयेन ईहां चेष्टाम् ॥९॥
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः
।
इमं पश्यत संगत्या मम दैवमुपप्लवम् ॥१०॥
कृतस्य पूर्वं नानार्थैरिति पाठे । अर्थैर्नानाकृतस्य पृथक्कृतस्य । युक्तस्य अवहितचित्तस्य अनुतिष्ठतोऽर्थप्राप्त्युपायान् । सङ्गत्या दम्योष्ट्रसम्बन्धेन दैवं देवेन ईश्वरेण निर्मितम् ॥१०॥
उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः
।
उत्क्षिप्य काकतालीयमुत्पथेनैव धावतः ॥११॥
उपप्लवमेवाह- उद्यम्येति । उद्यम्योद्यम्य उष्ट्रगतिवेगादुत्प्लुत्योत्प्लुत्य विषमेण कृच्छ्रेण दम्यौ गच्छतः । काकतालीयं दैवकृतं सङ्गमम् उत्क्षिप्य उत्थाप्य । धावत उष्ट्रस्येत्यग्रिमेण सम्बन्धः । उन्माथेनेव जम्बूकमित्यपि पाठः । तालः करतलयोः शब्दजनकः संयोगस्तस्मिन् क्रियमाणे उत्पतन् काको दैवात्तत्र तालाभ्यामाक्रान्ताऽभूत् । तदेतत् काकतालीयमिति इत्युच्यते । काकस्पर्शसमकालं तालफलस्य तालवृक्षस्य वा पतनं तदित्यन्ये मेषयोर्युध्यतोः परस्परशिरःसंघट्ट उन्माथस्तेन दैवान्मध्ये प्रविष्टो जंम्बूकोतिपीडनान्ममार तदपि काकतालीयोत्थानमेव तथेदमित्यर्थः ॥११॥
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
।
शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् ॥१२॥
मणी वेति । वाशब्द इवार्थे हठेनैव मूढनिर्बन्धेनैव पौरुषमस्ति न तु तद्विद्वद्दृष्ट्येत्यर्थः । नैवेति पदविभागो वा ॥१२॥
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित्
।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥१३॥
उपपद्येत यदि लोकदृष्टान्तेन पौरुषास्तित्वं युज्येत तर्हि फलव्यभिचारात्तदपि दैवायत्तमेवोपपद्यते न स्वातंत्र्येणेत्यर्थः ॥१३॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखमिच्छता
।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥१४॥
निर्वेदमिति पाठे क्लीबत्वमार्षम् । वैराग्यं गन्तव्यम् अनुवर्तितव्यं निराशः निरस्ताशः अर्थश्च तत्साधनं चेति समाहारस्तस्मिन् ॥१४॥
अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता
।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥१५॥
यः कामानाप्नुयात्सर्वान् यश्चैतान्केवलांस्त्यजेत्
।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥१६॥
नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन
।
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥१७॥
विधित्सानां धनाद्यर्थं प्रवृत्तीनां गतपूर्वः पूर्वं गतः प्राप्तो गतपूर्वः ॥१७॥
निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक
।
असकृच्चासि निकृतो न च निर्विद्यसे ततः ॥१८॥
हे कामुक कामादिधर्मवत् हे मनः मानसेत्यपि पाठः निर्विद्य वैराग्यं प्राप्य शाम्य शमं गच्छ, निकृतः वञ्चितः प्रवृत्तिनैष्फल्यात् ॥१८॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया
।
मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥१९॥
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः
।
कदाचिन्मोक्ष्यसे मूढ धनेहां धनकामुक ॥२०॥
मोक्ष्यसे त्यक्ष्यसे ॥२०॥
अहो न मम बालिश्यं योऽहं क्रीडनकस्तव
।
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात् ॥२१॥
क्रीडनकः क्रीडामृगः जातु कदाचित् । प्रेष्यतां दास्यं कामाभावे कोऽपि कस्यचिदपि न प्रेष्यः स्यादित्यर्थः ॥२१॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्
।
त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धोऽस्मि जागृमि ॥२२॥
अन्तं नाप्नुवन् अतो हेतोस्त्यक्त्वा ॥२२॥
नूनं ते हृदयं काम वज्रसारमयं दृढम्
।
यदनर्थशताविष्टं शतधा न विदीर्यते ॥२३॥
जानामि काम त्वां चैव यच्च किंचित्प्रियं तव
।
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम् ॥२४॥
प्रियं जायादि ॥२४॥
काम जानामि ते मूलं संकल्पात्किल जायसे
।
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ॥२५॥
नभविष्यसि विनशिष्यसि ॥२५॥
ईहा धनस्य न सुखं लब्ध्वा चिन्ता च भूयसी
।
लब्धनाशे यथा मृत्युर्लब्धं भवति वा न वा ॥२६॥
ईहा लिप्सा चेष्टा वा तदा धनस्य धनायेत्यर्थः लब्ध्वा चिन्ता नाशभयात् यथा मृत्युस्तथा दुःखकृत् श्रमेऽपि फलं सन्दिग्धम् ॥२६॥
परित्यागे न लभते ततो दुःखतरं नु किम्
।
न च तुष्यति लब्धेन भूय एव च मार्गति ॥२७॥
परित्यागे देहस्य परस्वत्वापादनेऽपि न लभते । मार्गति मृगयते परेभ्यो यो न लभत इति पाठे परेभ्यः सेव्यमानेभ्योऽपि ॥२७॥
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्
।
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज ॥२८॥
अनुतर्षुलस्तृष्णावृद्धिकृत् मद्विलापनं मन्नाशः एतत् तृष्णावृद्ध्याख्यं प्रतिबुद्धोऽस्मि अतो मां संत्यज हे कामेति शेषः ॥२८॥
य इमं मामकं देहं भूतग्रामः समाश्रितः
।
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥२९॥
भूतग्रामो यातु स्वकारणं प्रति पञ्चत्वमस्त्वित्यर्थः ॥२९॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु
।
तस्मादुत्सृज्य कामान्वै सत्त्वमेवाश्रयाम्यहम् ॥३०॥
युष्मासु अनात्मसु अहंकारादिषु राजसतामसेषु सत्त्वं सत्त्वगुणं वनमेवेति पाठे वनं ब्रह्म पारिव्रज्यं वा ॥३०॥
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः
।
योगे बुद्धिं, श्रुते सत्त्वं, मनो ब्रह्मणि धारयन् ॥३१॥
देहे तत्रापि मनसि हृत्पुण्डरीकस्थे पश्यन् हेतौ शतृप्रत्ययः । एकात्मदर्शनायेत्यर्थः । योगे विषये बुद्धिं करिष्यामीति निश्चयं कुर्वन् श्रुते श्रवणादौ सत्त्वम् एकाग्रचित्तं धारयन् मनश्च ब्रह्मणि लवणोदकन्यायेन धारयन् विहरिष्यामीत्यग्रिमेण सम्बन्धः ॥३१॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः
।
यया मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥३२॥
अनासक्तो निरामय इति रागद्वेषराहित्यमुक्तम् ॥३२॥
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते
।
तृष्णाशोकश्रमाणां हि त्वं कामप्रभवः सदा ॥३३॥
अन्या योगे बुद्धिमित्युक्तगतेरन्या ॥३३॥
धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम्
।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम् ॥३४॥
अवज्ञानसहस्रैस्तु दोषाः कष्टतरा धने
।
धने सुखकला या तु साऽपि दुःखैर्विधीयते ॥३५॥
अधने हात च्छेदः सन्धिरार्षः ॥३५॥
धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः
।
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥३६॥
धनमस्यास्तीति ॥३६॥
अर्थलोलुपता दुःखमिति बुद्धं चिरान्मया
।
यद्यदालम्बसे काम तत्तदेवानुरुध्यसे ॥३७॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषो पूरणोऽनलः
।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥३८॥
अनलोऽग्निरिवेत्यर्थः ॥३८॥
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि
।
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥३९॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया
।
निर्वृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥४०॥
अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान्
।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥४१॥
सहामि इतः पूर्वं सोढवानस्मि ॥४१॥
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः
।
न त्वं मया पुनः काम वत्स्यसे न च रंस्यसे ॥४२॥
मनोगतीः मनसो वृत्तीः एतेन समाधिमनुष्ठास्ये इत्युक्तं भवति । तत्रैव सर्वकामाभावात् ॥४२॥
क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः
।
द्वेष्ययुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥४३॥
क्षिपमाणानां धिक्कुर्वतां शब्दादीन् ॥४३॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन्
।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥४४॥
सकामं लब्धमनोरथं हे कामेति शेषः ॥४४॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्
।
सर्वभूतदयां चैव विद्धि मां समुपागतम् ॥४५॥
निर्वृत्तिं सुखम् । तृप्तिं पूर्णकामताम् ॥४५॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च
।
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ॥४६॥
प्रतिष्ठन्तं मोक्षाय गन्तुम् ॥४६॥
प्रहाय कामं लोभं च सुखं प्राप्तोऽस्मि साम्प्रतम्
।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥४७॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥४८॥
कामानुबन्धं नुदते यत्किंचित्पुरुषो रजः
।
कामक्राधोद्भवं दुःखमह्रीररतिरव च ॥४९॥
रजः प्रवर्तको गुणः तच्च कामेनानुबध्नातीति कामानुबन्धं दुःखादिकं च कामाद्युद्भवम् । अतः सर्वानर्थमूलं रजस्त्याज्यमित्यर्थः ॥४९॥
एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम्
।
शाम्यामि परिनिर्वामि सुखं मामेति केवलम् ॥५०॥
शाम्यामि कर्मभ्य उपरतिं गच्छामि परिनिर्वामि निर्दुःखो भवामि सुखं स्वरूपसुखं केवलं निर्विषयम् ॥५०॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥५१॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्
।
प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी ॥५२॥
आत्मना स्थूलदेहेन सह गणनायां सप्तमः कामः । तथाहि । अन्नमयप्राणमयमनोमयविज्ञानमयाश्चत्वारः कोशाः प्रवृत्तिमत्त्वाद्रजः प्रधानाः । आनन्दमय आवरणरूपत्वात्तमःप्रधानः पञ्चमः । ततः शुद्धसत्त्वप्राधान्यात् सबीजसमाधिः आनन्दाख्यः षष्ठः । तस्यापि मूलमस्मीति प्रत्ययमात्रशरीरो महत्तत्त्वाख्यः सर्वानर्थबीजभूतश्चरमः कामः सप्तमः । तं हत्वा ब्रह्मैव पुरं ब्रह्मपुरं प्रविष्टः स्यां यतस्तदवध्यम् कुतः । 'नास्य जरयैतज्जीर्यते न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरम्' इति श्रुतेः ॥५२॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः
।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥५३॥
कामान्प्रथमाध्यायोक्तरीत्या जाग्रत्स्वप्नसंप्रज्ञातावस्थागतान् विषयान् ॥५३॥
दम्यनाशकृते मङ्किरमृतत्वं किलागमत्
।
अच्छिनत्काममूलं स तेन प्राप महत्सुखम् ॥५४॥
काममूलम् अविद्याम् ॥५४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि मङ्किगीतायां सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७॥
युधिष्ठिर उवाच।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्
।
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥१॥
केनेत्याक्षेपे केन वृत्तेन वीतशोको भूत्वा महीं चरेत् । न तादृशं वृत्तमस्तीत्यर्थः । यतः सर्पसारङ्गवृत्त्या गृहाहारसम्पादनेऽपि प्रतिपक्षबाहुल्यं दृश्यते । द्विषन्ति हि भिक्षुका भिक्षुकान्तरं स्वाध्यासितस्थानागतमत एकाकित्वैकाग्र्ययोश्चासम्भवः । अन्नचिन्तया धनाशावियोगस्यापि दुष्करत्वादिति भावः । अतः किं तादृशमुपायान्तरं हिंसाशून्यमुत्तमगतिप्रदमस्तीति प्रश्नार्थः ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥२॥
उत्तरमाह- अत्रेति । आजगरस्य अजगरवृत्त्या जीवतः ॥२॥
चरन्तं ब्राह्मणं कञ्चित्कल्पचित्तमनामयम्
।
पप्रच्छ राजा प्रह्लादो बुद्धिमान् बुद्धिसम्मतम् ॥३॥
कल्पचित्तं दृढचित्तम् । अनामयं रागद्वेषाननुविद्धम् ॥३॥
प्रह्लाद उवाच ।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः
।
सुवाक् प्रगल्भो मेधावी प्राज्ञश्चरसि बालवत् ॥४॥
स्वस्थः विषयैरनाकृष्टः । शुद्धो दम्भादिहीनः । मृदुर्दयावान् । दान्तो जितेन्द्रियः । निर्विधित्सो निरारम्भः । अनसूयकः सर्वत्रादोषदर्शी । सुवाक् सत्यवाक् । प्रगल्भः प्रतिभानवान् । मेधावी ऊहापोह कुशलः । प्राज्ञः ज्ञाततत्त्वः ॥४॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि
।
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥५॥
मन्यसे इष्टत्वेनानिष्टत्वेन वा । अवमन्यसे इति पाठे वीतदर्पोऽसीत्यर्थः ॥५॥
स्रोतसा ह्रियमाणासु प्रजासु विमना इव
।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥६॥
स्रोतसा कामादिवेगेन । विमनाः निर्मनस्कः । स्थाणुरिव कूटस्थो निर्व्यापारः । अविमना इति पाठे तु अव्याकुलचित्तः ॥६॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे
।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥७॥
कौटस्थ्यमेवाह- नेति । इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि क्षुन्निर्वाहमात्रार्थी अश्नासि । साक्षिवत् मुक्तः कर्तृत्वादिना ॥७॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने
।
क्षिप्रमाचक्ष्व मे ब्रह्मन् श्रेयो यदिह मन्यसे ॥८॥
प्रज्ञा तत्त्वदर्शनं, श्रुतं तन्मूलभूतं शास्त्रं वृत्तिस्तदर्थानुष्ठानम् । श्रेयो ममेति शेषः ॥८॥
भीष्म उवाच।
अनुयुक्तः स मेधावी लोकधर्मविधानवित्
।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥९॥
अनुयुक्तः पृष्टः लोकस्य धर्मो जन्मजरादिस्तस्य विधानं कारणमविद्याकामकर्मादि तदभिज्ञः लोकधर्मविधानवित् ॥९॥
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः
।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥१०॥
भूतानामुत्पत्त्यादिकम् अनिमित्ततः करणहीनादेकादद्वितीयादिति पश्य आलोचय श्रुतियुक्तिभ्यां श्रुतिस्तावत् । 'सदेव सोम्वेदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेय' इति । सजातीयविजातीयस्वगतभेदशून्यादेकरसाद्वस्तुनो जगदुत्पत्तिमाह । युक्तिरपि शून्याज्जगदुत्पत्त्ययोगात् । अचेतनानां च प्रधानपरमाण्वादीनामधिष्ठातारमन्तरेण सङ्घातकर्तृत्वायोगात् । विकरणस्येश्वरस्याधिष्ठातृत्वायोगात्संसारस्य स्वाभाविकत्वे मुक्त्ययोगात् स्वप्नमायेन्द्रजालवदविद्याकल्पितत्वमवश्यं वाच्यम् । अविद्यानाशस्य च सर्वतन्त्रसिद्धत्वात् अविद्या मिथ्या । अनादिभावत्वे सति अनित्यत्वाद्व्यतिरेकेणाकाशवदित्यविद्यामिथ्यात्वसिद्धेरेकाद्वितीयादेव जगदुत्पत्तिं साधयति । ततश्च 'यन्मदन्यन्नास्ति कस्मान्नु बिभेमि' इति श्रुतेरात्मज्ञस्य मम द्वितीयाभावान्न हर्षव्यथे भवतः ॥१०॥
स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः
।
स्वभावनिरताः सर्वाः परितुष्येन्न केनचित् ॥११॥
एवमेकाद्वितीयाद्वस्तुन उत्पत्तिमुक्त्वा तत्रैव स्थितिलयावप्याह- स्वेति । स्वभावात् स्वस्य भावः स्वभावः स्वरूपसत्ता तत एव वर्तमानाः प्रवृत्तयोऽपि संदृश्याः सम्यग्द्रष्टव्याः । स्वभावे एव निरताः सर्वाः प्रजास्तासामेतासां स्वभावादन्यत्परायणं नास्तीत्यर्थः । तस्मादेवं जानन् केनचिद्ब्रह्मलोकैश्वर्यलाभेनापि न तुष्येतुच्छमेवैतद्दृश्यमिति विजानीयादित्यर्थः ॥११॥
पश्य प्रह्लाद संयोगान् विप्रोगपरायणान्
।
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥१२॥
एवं तत्त्वदृष्ट्या स्वास्थ्यमुपपाद्य बाह्यदृष्ट्याऽपि लोकस्यानित्यत्वात्तदुपपादयति- पश्येति । तस्मादहं मनो न क्कचिद्विषये विदधे धारयामि । तद्विनाशे शोकोत्पत्तिं जानन् । यद्वा । अश्रौतयोरारम्भसङ्घातवादयोरपि जगदनित्यत्वमस्तीति स्वास्थ्यमेवोचितमित्याह- पश्येति ॥१२॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः
।
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥१३॥
एवमादीन्यश्रौतानि मतानि दूषयति- अन्तवन्तीति । भूतानि परमते नित्यसिद्धानि परमाणुप्रधानादीनाति पक्षनिर्देशः जरायुजादिशरीराणि दृष्टान्तो वा । अन्तवत्त्वं साध्यं गुणयुक्तत्वं हेतुः । यत्संहतं घटादि तदनित्यं परमाण्वादयश्च गुणगुणिभावेन प्रधानं च गुणत्रयात्मत्वेन संहता इति ध्रुवमनित्याः । तस्मात्पूर्वोक्तमुत्पत्तिनिधनहेतुभूतं वस्तु जानतः किं कार्यं कर्तव्यमवशिष्यते न किमपीत्यर्थः । तथा च श्रुतिः- 'एतद्ब्रह्म वै तद्विद्वांसः पूर्वे महाशाला महाश्रोत्रिया अग्निहोत्रं न जुहवाञ्चक्रिरे' इति ॥१३॥
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये
।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥१४॥
पामरदृष्ट्यापि जगतो विनाशित्वमाह- जलजानामित्यादिपञ्चभिः ॥१४॥
जङ्गमस्थावराणां च भूतानामसुराधिप
।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥१५॥
पार्थिवानां पृथिवीस्थानाम् ॥१५॥
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम्
।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥१६॥
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च
।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥१७॥
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना
।
सर्वसामान्यगो विद्वान् कृतकृत्यः सुखं स्वपे ॥१८॥
सर्वसामान्यगः यथा घटत्वादि सामान्यं पटादिभ्यो व्यावृत्तम् । पृथिवीत्वसामान्यं तूभयसमम् । तदुपादानत्वात् । एवं सर्वस्य सत्सदिति सदभेदेन प्रतीयमानस्योपादानं सत्तासामान्यं सर्वसामान्यं न तु तार्किकाभिमतम् । तस्य सत्तासमवायादिभ्यो व्यावृतत्वेन सर्वसामान्यत्वाभावात् । तच्च शुद्धं ब्रह्म तद्गतः सर्वसामान्यगः सर्वं सामान्यतो विद्वानित्यपपाठः ॥१८॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया
।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥१९॥
आजगरीं वृत्तिं प्रपञ्चयति- सुमहान्तमित्यादिना । सुमहान्तं रसाधिक्यात् ॥१९॥
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु
।
पुनरल्पं पुनःस्तोकं पुनर्नैवोपपद्यते ॥२०॥
आशयन्ति भोजयन्ति अल्पं रसाल्पत्वात् ॥२०॥
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे
।
भक्षसे शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥२१॥
कणम् अतिसूक्ष्मं धान्यांशं पिण्याकं तिलखलिम् ॥२१॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये
।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥२२॥
धारयामि च चीराणि शाणक्षौमाजिनानि च
।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥२३॥
क्षौमाणि क्षुमा अतसी तत्सूत्रमयानि ॥२३॥
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया
।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥२४॥
धर्म्यं धर्मादनपेतं यथेष्टाचरणे तत्त्वविदामपि श्वसूकरादितुल्यतापत्तेः ॥२४॥
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम्
।
अनभिमतमसेवितं विमूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥२५॥
अचलं दृढम् अनिधनं मृत्युविरोधि शुचिम् । आर्षो विभक्त्यलुक् । विदुषां मते ब्रह्मणि प्रविष्टं तत्प्रापकमित्यर्थः । अनभिमतत्वादेवासेवितं मूढैः । आजगरम् अजगरो ह्ययत्नेनैव जीवति तस्येदम् ॥२५॥
अचलितमतिरच्युतः स्वधर्मात्परिमितसंसरणः परावरज्ञः
।
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥२६॥
कषायः क्रोधाद्यावेशेन स्तिमितचित्तता रागद्वेषादिर्वा ॥२६॥
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम्
।
हृदयसुखमसेवितं कदर्यैर्व्रतामिदमाजगरं शुचिश्चरामि ॥२७॥
अनियतम् अक्लृप्तं फलादि यत्र विधिरदृष्टं तस्य परिणामः परिपाकस्तेनैव देशकालव्यवस्थया प्रापितं कदयैर्विषयलुब्धैः ॥२७॥
इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम्
।
निपुणमनुनिशम्य तत्त्वबुद्ध्याव्रतमिदमाजगरं शुचिश्चरामि ॥२८॥
धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया निशम्य आलोच्य ॥२८॥
बहुविधमनुदृश्य चार्थहेतोः कृपणामिहार्यमनार्यमाश्रयन्तम्
।
उपशमरुचिरात्मवान् प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥२९॥
अर्थहेतोः अनार्यं नीचम् अर्थं स्वामिनम् आश्रयति यः कृपणो दीनजनस्तमनुदृश्य उपशमरुचिः आत्मवान् जितचित्तः ॥२९॥
सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च
।
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥३०॥
विधिनियतं दैवाधीनम् ॥३०॥
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः
।
उपगतफलभोगिनो निशम्य व्रतमिदमाजगरं शुचिश्चरामि ॥३१॥
धृतिर्धैर्यं मतिरालोचनं बुद्धिर्निश्चयः उपगतं समीपागतं फलं प्रियं येषां तान् । भोगिनः सर्पान् अजगरान् निशम्य दृष्ट्वा फलभोगिन इति शाकपार्थिवादिवन्मध्यमपदलोपः ॥३१॥
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्वशौचयुक्तः
।
अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥३२॥
प्रकृत्या दमादियुक्तः सिद्धत्वात् न तु साधकवद्धठेन अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥३२॥
अपगतमसुखार्थमीनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थम्
।
तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥३३॥
ईहनार्थैः इच्छाविषयै रूपादिभिः । एषणाविषयैर्वा पुत्र वित्तादिभिर्हेतुभिः । असुखार्थं परिणामे दुःखार्थम् अपगतम् आत्मनः पराङ्मुखं तृषितमनियतं च मनोऽवेक्ष्य । उपगतबुद्धिर्लब्धालोकः आत्मसंस्थम् आत्मनि संस्था समाप्तिर्यस्य तत्तथा नियन्तुं व्रतं चरामि । अभिहतमसुखैरिहार्थनाशैरित्याद्यः पाठः ॥३३॥
हृदयमनुरुध्य वाङ्मनो वा प्रियसुखदुर्लभतामनित्यतां च
।
तदुभयमुपलक्षयन्निवाह व्रतमिदमाजगरं शुचिश्चरामि ॥३४॥
हृदयं तात्स्थ्याद्बुद्धिर्मनश्च ताभ्यां तद्धर्माः कर्तृत्वभोक्तृत्वकामसङ्कल्पादयो लक्ष्यन्ते । ताननुरुद्ध्य उपेक्ष्य । पाठान्तरे न अनुरुध्येति सम्बन्धात्स एवार्थः । तत् तत्र बुद्धौ सुदुर्लभतां सुखानित्यतां चोभयम् उपलक्षयन्निति योजना ॥३४॥
बहुकथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम्
।
इदमिदमिति तत्र तत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥३५॥
इदमाजगरं व्रतं सर्ववादिवल्लभमित्याह- बह्वीति । गहनम् आत्मतत्त्वं तर्कागोचरमपि । तत्र तत्र शास्त्रे हन्तेत्यालोचने । इदमिदमिति स्वमतैः परमतैश्च तर्कयद्भिः उन्नयद्भिः । तथाहि शून्यं वा निर्विषयज्ञानधारा वा जडो वा बुद्ध्यादिविशेषगुणहीनस्वरूपप्रतिष्ठं चिन्मात्रं वा । अनृतजडदुःखादिव्यावृत्तमेकरसं सच्चिदानन्दानन्तस्वरूपं वेति वादिनां विकल्पा आत्मनि दृश्यन्ते । तथाऽपि सर्वेषां स्वस्वाभिमतात्मतत्त्वदर्शनायाऽऽजगरं व्रतमेवोपेयमिति भावः ॥३५॥
तदिदमनुनिशम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः
।
अनवसितमनन्तदोषपारं नृषु विहरामि विनीतदोषतृष्णः ॥३६॥
तदिदमिति । इदमिति प्रत्यक्षादिप्रमाणप्रमितं जगत् । अबुधैः पृथक् आत्माऽतिरिक्तत्वेनाभिपन्नं गृहीतं सत् विप्रपातं विशिष्टः प्रपातो भृगुस्तद्वन्नाशकमिति । अनुनिशम्य शास्त्रयुक्तिभ्यामन्वालोच्य । नृषु विहरामि । किं तर्हि जगतस्तत्त्वं त्वया निश्चितमित्यत आह - अनवसितं नास्ति कालतो गुणतो देशतश्चावसितमवसानं परिच्छेदो यस्य तत्तथा । यतः अनन्तदोषपारम् । अन्तो नाशः । दोषः विषमसृष्टिहेतुत्वेन नैर्घृण्यादिः पारः देशपरिच्छेदश्च नास्ति यस्य तत्तथा ॥३६॥
भीष्म उवाच।
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः
।
अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥३७॥
य इमं विहारम् इमाम् अजगरव्रतरूपां क्रीडाम् अनुचरेत् स सुखी विहरेदिति सम्बन्धः ॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अजगरप्रह्लादसंवादे एकोनाशीत्यधिकशततमोऽध्यायः ॥१७९॥
युधिष्ठिर उवाच।
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह
।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥१॥
बान्धवा इति । आजगरव्रतरूपां स्वास्थ्यलक्षणां प्रतिष्ठां किं बान्धवशब्दोपलक्षिता जातिरेव समर्पयति पक्षिणामाकाशगमनवत् । किं कर्म मणिमन्त्रौषधिसाधनादि । किं वित्तं वित्तसाध्यं यज्ञादि । उत प्रज्ञैवेति प्रश्नः ॥१॥
भीष्म उवाच।
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः
।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥२॥
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये
।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥४॥
प्रज्ञाहीनः स्वल्पेनापि निमित्तेन नश्यति प्रज्ञावांस्तु न कदाचिदित्याह- अत्रेति ॥४॥
वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम्
।
रथेन पातयामास श्रीमान् दृप्तस्तपस्विनम् ॥५॥
रथेन रथघातेन ॥५॥
आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत्
।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥६॥
आत्मानं धैर्यं त्यक्त्वा । 'आत्मा बुद्धौ धृतौ देहे' इति कोशः । जीवितार्थो जीवितप्रयोजनम् ॥६॥
तथा मुमूर्षुमासीनमकूजन्तमचेतसम्
।
इन्द्रः शृगालरूपेण बभाषे लुब्धमानसम् ॥७॥
अकूजन्तं मूर्च्छया निःशब्दं प्रोत्कूजन्तमिति पाठे प्रकर्षेण ऊच्छ्वसन्तम् ॥७॥
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः
।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥८॥
सर्वः देवादिरपि अभिनन्दति विप्रत्वमभिलक्ष्य नन्दति ॥८॥
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप
।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥९॥
श्रोत्रियोऽधीतवेदः । एतत् मनुष्यत्वादित्रयं दोषात् मौढ्यात् ॥९॥
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः
।
सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥१०॥
साभिमाना मयेदं धनं लब्धमित्यभिमान एव धनलाभो न तु वस्तुतः कस्यापि धनेन सम्बन्धोऽस्ति ’मा गृधः कस्यस्विद्धनम्' इति श्रुतेः । गृधः गर्धं लोभं मा कार्षीः । यत्सन्तोषणीयं रूपम् । त्वं स्वस्य अभि मन्यसे अवमन्यसे मरिष्यामीति निर्बन्धनेन नाशयसे इति वा । यदि वा एनमभिमंस्ये कनीयोऽन्नं करिष्य इत्यभिपूर्वस्य मन्यतेर्हिंसार्थत्वदर्शनात् । यन्नाभिमन्यस इति पाठे स्पष्टोऽर्थः ॥१०॥
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
।
अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥११॥
पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै
।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥१२॥
अपाणित्वाद्वयं ब्रह्मन् कण्टकं नोद्धरामहे
।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥१३॥
न कषाम न नाशयाम ॥१३॥
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली
।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥१४॥
निकषन्ति कण्डूयनेन ॥१४॥
वर्षाहिमातपानां च परित्राणानि कुर्वते
।
चैलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥१५॥
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च
।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥१६॥
अधिष्ठाय अध्यास्य गां पृथिवीं बलीवर्दादि वा आत्मनि आत्मभोगनिमित्तम् ॥१६॥
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः
।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥१७॥
अल्पप्राणाः अल्पबलाः ॥१७॥
दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः
।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥१८॥
एतावतापि लाभेन तोष्टुमर्हसि काश्यप
।
किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥१९॥
इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै
।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥२०॥
अदन्ति दशन्ति ॥२०॥
अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम्
।
नातः पापीयसीं योनिं पतेयमपरामिति ॥२१॥
अकार्यमिति । तिरश्चामपि देहत्यागः पापाय किमुत विदुषां समर्थानां नृणामिति भावः ॥२१॥
मध्ये वै पापयोनीनां शार्गालीं यामहं गतः
।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥२२॥
मध्ये स्थिता नातिनीचेत्यर्थः ॥२२॥
जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः
।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥२३॥
एके देवाद्याः अन्ये पश्वाद्याः एकान्तम् अत्यन्तं सुखं कस्यापि नास्ति । तृष्णाया निरवधित्वात् ॥२३॥
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्
।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥२४॥
तदेवाह- मनुष्या इत्यादिना ॥२४॥
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्
।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥२५॥
त्वमाढ्यो भूत्वाऽपि ब्राह्मणत्वान्न राजा भवेः । नापि दैवतं यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् । परिच्छिद्यैव कामान्वै इति पाठे राजा नैव भवेरिति शेषः ॥२५॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति
।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥२६॥
अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि
।
सुखदुःखे तथा चोभे तत्र का परिवेदना ॥२७॥
अस्तीति । शोकादिकं त्वय्येवास्ति अतः स्वगतेनैव हर्षेण शोकं मार्जयितुं शक्तस्य ते वृथैवेयं परिदेवनेत्यर्थः ॥२७॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्
।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥२८॥
हर्षोद्दीपनप्रकारमाह- परीति । कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव शरीरपञ्जरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण सम्बन्धः ॥२८॥
न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित्
।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥२९॥
भयाभावोऽपि किं द्वैतादर्शनाद्वा द्वैताभावाद्वेत्याशङ्क्य तत्र द्वैताभावे हेतुं दृष्टान्तमुखेनाह - नेति । यथा द्वितीयस्य शिरसस्तृतीयस्य पाणेर्वा स्वरूपेणाभावाज्जातु कदाचिच्छेदनं तज्जं दुःखं नास्ति तथा यद्द्वैतं कालत्रयेऽपि नास्ति ततो भयमपि नास्तीत्यर्थः । तथा च । 'अतोऽन्यदार्तं नेह नानास्ति किञ्चन यन्मदन्यन्नास्ति कस्मान्नु बिभेमि' इत्यादिद्वैताभावप्रतिपादिका श्रुतिरबाधिता भवति । दुःखप्रतीतिस्तु स्वप्नवदप्युपपद्यत इति न कश्चिद्दोषः ॥२९॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते
।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥३०॥
ननु प्रत्यक्षेण शीतोष्णादिभयं स्वप्नवदबाधितं दृश्यते तत्कथं भयं नास्तीति लोकदृष्ट्याऽप्याशङ्क्याह- नेति । स्पर्शसुखाभिज्ञस्यैवानुभूते विषये कामो जायते । बुद्ध्यादिनिरोधेन रसज्ञानाभावान्न क्वाचिदपि विषये कामो जायतेऽतो बुद्ध्यादिकृतं शीतोष्णाद्यपि तन्निरोधेन नास्त्येवेत्यर्थः ॥३०॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्
।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥३१॥
अरसज्ञस्य कामो न जायत इत्यत्र दृष्टान्तमाह - नेति । वारुण्या मद्यस्य । लट्वाख्यपक्षिमांसस्य च कर्मणि षष्ठ्यौ । त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् । भक्ष्यो रस्यो विषयस्ताभ्यामन्यो न विद्यते । तथापि त्वं तद्द्वयं न स्मरसि ॥३१॥
यानि चान्यानि भूतेषु भक्ष्यजातानि कस्यचित्
।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥३२॥
कस्यचिद्राजादेः । येषां यानि अभुक्तपूर्वाणि ते त्वया ॥३२॥
अप्राशनमसंस्पर्शमसन्दर्शनमेव च
।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥३३॥
उपसंहरति- अप्राशनमिति । प्राशनादिवर्जननियम एव पुरुषस्य श्रेयः ॥३३॥
पाणिमन्तो बलवन्तो धनवन्तो न संशयः
।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥३४॥
दैवाधीनत्वाच्च सुखादेर्न त्वया शोकः कार्य इत्याह - पाणिमन्त इत्यादिना । दासत्वं वधबन्धादिकं हीनवृत्तिः सत्यपि सामर्थ्ये तदत्यादं चाण्डालादिदेहं निन्द्यतरमनिष्टमपि दैवबलात्कारादेव प्राणिनामपरिहार्यमिति श्लोकपञ्चकस्य भावः ॥३४॥
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः
।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥३५॥
अपरे बाहुबलिनः कृतविद्या मनस्विनः
।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥३६॥
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्
।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥३७॥
न पुल्कसो न चाण्डाल आत्मानं त्यक्तुमिच्छति
।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥३८॥
दृष्ट्वा कुणीन्पक्षहतान् मनुष्यानामयाविनः
।
सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ॥३९॥
तव त्वितरापेक्षया देवमनुकूलमस्तीत्याह - दृष्ट्वेति । कुणीन् हस्तविकलान् पक्षहतान् । अर्धाङ्गवातादिना नष्टान् । आमयाविनो रोगाक्रान्तान् । अधिकदुःखान् अन्यान् दृष्ट्वा स्वयमात्मानं सुखिनं मन्येतेत्यर्थः ॥३९॥
यदि ब्राह्मण देहस्ते निरातङ्को निरामयः
।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥४०॥
न केनचित्प्रवादेन सत्येनैवापहारिणा
।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥४१॥
प्रवादेन कलङ्केन अपहारिणा जातिभ्रंशकरेण ॥४१॥
यदि ब्रह्मन् शृणोष्येतच्छ्रद्दधासि च मे वचः
।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥४२॥
मुख्यं विवेकं चित्तशुद्धिं वा ॥४२॥
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय
।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥४३॥
ये केचन स्वध्ययनाः प्राप्ता यजनयाजम्
।
कथं ते चानुशोचेयुार्ध्यायुर्वाऽप्यशोभनम्
।
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ॥४४॥
उत जाताः सुनक्षत्रे सुतिथौ सुमुहूर्तजाः
।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥४५॥
विहाराय यथोचितेन यज्ञादिना विहर्तुं सुनक्षत्रे पुष्यादौ । सार्धश्लोकः ॥४५॥
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः
।
सम्पतन्त्यासुरी योनिं यज्ञप्रसववर्जिताः ॥४६॥
आसुरेषु मूलाश्लेषादिषु ॥४६॥
अहमासं पण्डितको हैतुको वेदनिन्दकः
।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥४७॥
पण्डितकः कुत्सितः पण्डितः । यतो हैतुकः । अनारब्धद्रव्यत्वादित्यादिभिर्हेतुभिराकाशादेरपि नित्यत्वसाधनपरः । वेदनिन्दकः 'अतोऽन्यदार्तम्' इति तदनित्यत्वप्रतिपादकस्य वेदस्याप्रामाण्यकर्ता । ईक्षा प्रत्यक्षं तामनुप्रवृत्ता ईक्षा अन्वीक्षा धूमादिदर्शनेन वह्न्याद्यनुमानं तत्प्रधानाम् आन्वीक्षिकीं तर्कविद्यां कणभक्षाक्षचरणादिप्रणीतं शास्त्रम् । निरर्थिकां पुरुषार्थचतुष्टयशून्यां श्रुत्येकगम्यस्य वस्तुतत्त्वस्य निर्णयानुपयोगिनीम् ॥४७॥
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत्
।
आक्रोष्टा चाभिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥४८॥
प्रवदिता प्रकर्षेण वदिता श्रुतेरनुमानाविरोधेनैव प्रामाण्यं न स्वत इति वदिता । ननु नास्तिकान्प्रत्येतद्वक्तुं युक्तं युक्तिबलेनैव वेदाप्राण्यवादिनां तेषां निरसनीयत्वादिति नायं दोष इत्यत आह- संसत्सु समीचीनेषु साधुष्वपि हेतुमदेव वक्ता न श्रुतिमत् । आक्रोष्टा परुषवाक् । अभिवक्ता अभिक्रम्य वक्ता । ब्रह्मवाक्येषु वेदवाक्येषु विचार्यमाणेषु ॥४८॥
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः
।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥४९॥
नास्तिकः वेदप्रामाण्यनिन्दकः सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् । स्वभाववादेन चाभित आकृष्यमाणोऽनवस्थित इत्यर्थः । कुतर्कमनादृत्य वेदमार्गे एव त्वया स्थातव्यमिति भावः ॥४९॥
अपि जातु तथा तस्मादहोरात्रशतैरपि
।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥५०॥
मम तु एतदत्यन्तं प्रार्थ्यमित्याह - अपीति । तस्मात् हीनयोनिदात्पापान्मुक्त इति शेषः ॥५०॥
सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः
।
ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥५१॥
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह
।
अहो बतासि कुशलो बुद्धिमांश्चेति विस्मितः ॥५२॥
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा
।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥५३॥
समवैक्षतेति । दिव्यज्ञानवतां काश्यपादीनामपि देहाभिमानावेशादीदृशी बुद्धिर्भवति किमुत प्राकृतानामिति देहावेशो वर्ज्य इति भावः । यथोक्तम् - देहावेशात्प्रमाद्यतीति ॥५३॥
ततः सम्पूजयामास काश्यपो हरिवाहनम्
।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥५४॥
हरिवाहनं इन्द्रम् ॥५४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सृगालकाश्यपसंवादे अशीत्यधिकशततमोऽध्यायः ॥१८०॥
युधिष्ठिर उवाच।
कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्
।
प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ॥१॥
एवमष्टभिरध्यायैः क्रमादाशां जित्वा पूर्वस्मिन्नेव वयसि निष्परिग्रहो निरीहो हिंसाशून्य आजगरीं वृत्तिमास्थितः प्रज्ञावान् सुकृती ब्रह्मविद्याधिकारी निरूपितः तत्र प्रसङ्गात्तत्र तत्र संक्षेपेणात्मतत्त्वं च सूचितम् । यथा आजगरेऽनवसितमनन्तदोषपारमित्यनेन आकाशस्येव नित्यत्वाद्विभुत्वाच्चात्मनः कालतो देशतश्च परिच्छेदाभावः परेषां सम्मतः । अस्माकं त्वात्मनि त्रिविधभेदरूपो वस्तुपरिच्छेदोऽपि नास्ति । यथा परेषामात्मान्तरस्य पृथिव्यादेरात्मगतबुद्ध्यादिगुणानां च पृथक्सत्त्वेन आत्मनि सजातीयविजातीयस्वगतभेदरूपो वस्तुपरिच्छेदोऽस्ति न तथाऽस्माकमित्यखण्डैकरसमेकाद्वितीयं कूटस्थं वस्तु निर्दिष्टम् । तथा सृगालीये –
'न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित्
।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम्॥'
इति। आत्मातिरिक्तस्य द्वितीयशिरआदिवदत्यन्तासत्त्वमुक्त्वा तदेव दृढीकृतम् । तथा -
'शकुनानामिवाकाशे मत्स्यानामिव चोदके
।
पदं यथा न दृश्येत तथा ज्ञानविदां गतिः॥'
इति । 'ब्रह्मविद्ब्रह्मैव भवति' इति च प्रतिपादितम् । ततश्च विकारिकारणाभावाज्जगज्जन्माद्यसम्भवं मन्वानः पृच्छति कुत इति । तत्र कुत इति कालादृष्टेश्वरेच्छादिनिमित्तप्रश्नः कमभ्येतीति उपादानप्रश्नः तत्रैव कार्यलयनियमात् ॥१॥
ससागरः सगगन सशैलः सबलाहकः
।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥२॥
केनेत्यवान्तरकारणप्रश्नः ॥२॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
।
शौचशौचं कथं तेषां धर्माधर्मविधिः कथम् ॥३॥
कथमिति सृष्टिप्रकारप्रश्नः विभक्तयो विभागाः ॥३॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥४॥
जीवः कीदृश इति जीवतत्त्वप्रश्नः अमृताः मुक्ताः क्व अधिष्ठाने लीयन्त इति मुक्तिप्राप्यवस्तुप्रश्नः अस्माल्लोकात् इमं लोकं मुक्त्वा अमुं लोकं सर्वं च पूर्वं पृष्टं नो अस्मभ्यं भवान् कथयतु ॥४॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
भृगुणाऽभिहितं शास्त्रं भरद्वाजाय पृच्छते ॥५॥
कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम्
।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥६॥
ससागरः सगगनः सशैलः सबलाहकः
।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥७॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
।
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ॥८॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
।
परलोकमिमं चापि सर्वं शंसितुमर्हसि ॥९॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
।
ब्रह्मर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥१०॥
भृगुरुवाच ।
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः
।
अनादिनिधनो देवस्तथाऽभेद्योऽजरामरः ॥११॥
पूर्वोक्तब्रह्माद्वैतसिद्धये कृत्स्नस्य जगतः ब्रह्मोपादानकत्वं प्रतिपादयिष्यन् 'असतोऽधिमनोऽसृजत । मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत । तद्वा इदं मनस्येवं परमं प्रतिष्ठितं यदिदं किञ्च' इति श्रुतिमनुसरन्नुत्तरमाह - मानस इति सत्त्वासत्त्वाभ्यां निर्वक्तुमशक्यादज्ञानान्मन उत्पन्नं तच्च चित्प्रतिबिम्बविशिष्टं मानसो नाम जगतो मूलकारणं सर्वश्रुतिस्मृतिप्रसिद्धम् अनादिनिधनः आदिनिधनं जन्मलयस्थानं तद्धीनः तत्कारणस्य असतो ज्ञानस्यानिर्वचनीयस्य स्वरूपेणासत्त्वात् कूटस्थस्य च शुद्धब्रह्मणस्तं प्रत्यनुपादानत्वात् । अभेद्यः भेत्तुमनर्हः एकत्वात् । अजरामर इति 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' इति श्रुत्युक्तानां गुणानां सङ्ग्रहः ॥११॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः
।
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥१२॥
अक्षयोऽव्यय इति लक्षणया वृद्धिजन्महीनत्वमुक्तम् । अत एव शाश्वतः सदैकरूपः अव्यक्त इति संज्ञामात्रम् । योगिनां प्रत्यक्षत्वात् । मूढान्प्रत्यप्रकाशत्वाद्वाऽव्यक्तः । सृष्टानि जन्मवन्ति भूतानि आकाशादीनि जायन्ते त्रियन्ति व्ययवन्ति च यत्रैव भवन्ति । सृष्टानीति विशेषणादसृष्टाश्चेतना न जायन्त इति दर्शितम् ॥१२॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः
।
महान्ससर्जाहंकारं स चापि भगवानथ ॥१३॥
'स दहरोऽस्मिन्नन्तराकाशः आकाशो ह वै नामरूपयोर्निर्वहिता-' इत्यादिश्रुतिषु आकाश इति विख्यातः सन् महान्तं समष्टिजीवं हैरण्यगर्भं बुद्धिं वाऽसृजदिति योजना महानपि अहङ्कारं हैरण्यगर्भं मनः । स चाहङ्कारो भगवान् आकाशं शब्दतन्मात्राख्यम् असृजत् ॥१३॥
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः
।
आकाशादभवद्वारि सलिलादग्निमारुतौ
।
अग्निमारुतसंयोगात् ततः समभवन्मही ॥१४॥
'आकाशादभवद्वारि' इत्यादिपाठक्रमो न विवक्षितः किन्तु 'आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी-' इति श्रौत एव ज्ञेयः । तत्र वाय्वादिशब्दैः स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं च सूक्ष्ममपञ्चीकृतं भूतजातमुच्यते ॥१४॥
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा
।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥१५॥
ततस्तेजोमयं लिङ्गशरीरं दिव्यं परलोकगमनार्हं स्थूलभूतानि च पञ्चीकृतानि तत्कर्दममयं ब्रह्माण्डापरनामधेयं पद्मं चासृजत् । ब्रह्मा विराट् वेदमयो वेदपूर्णो निधिरिव ज्ञानैश्वर्यादीनाम् ॥१५॥
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
।
ब्रह्मा वै स महातेजा य एते पञ्च धातवः ॥१६॥
'ख्यातः सोहमित्यग्रे व्याहरत्ततोऽहंनामाभवत्' इत्यादिश्रुतिप्रसिद्धः । सर्वभूतानि स्थूलवियदादीनि तदात्मा तच्छरीरः स चासौ भूतकृच्चतुर्विधभूतग्रामस्रष्टा चेति समासः । ये एते पञ्च आकाशादयो धातवो धारणकर्माणः स एव ब्रह्मा ॥१६॥
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी
।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥१७॥
'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृत्ताश्च वेदाः वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा'
इति भगवतो वैश्वरूप्यप्रतिपादिकां श्रुतिमुपबृंहयति - शैला इत्यादिपञ्चभिः॥१७॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः शिराः
।
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥१८॥
अग्नीषोमावेव चन्द्रार्कौ ॥१८॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः
।
दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ॥१९॥
स एष भगवान्विष्णुरनन्त इति विश्रुतः
।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयो कृतात्मभिः ॥२०॥
सर्वभूतानामात्मभूतोऽहङ्कारस्तत्स्थः ॥२०॥
अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥२१॥
भूतभवाय भूतोत्पत्तये स्रष्टाहंकारस्येति सम्बन्धः । यतो विश्वं समभवत् यच्च त्वयाऽहं पृष्टस्तत्तुभ्यमुक्तमिति शेषः ॥२१॥
भरद्वाज उवाच ।
गगनस्य दिशां चैव भूतलस्यानिलस्य वा
।
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः ॥२२॥
कुतःसृष्टमिदं विश्वमित्यस्य प्रश्नस्योत्तरं ब्रह्मैव ईशसूत्रविराड्रूपेण सन्निविष्टमस्तीत्युक्तम् । तत्किम् एकदेशेन उत कार्त्स्न्येन । नाद्यः । ब्रह्मणः सांशतापत्तेर्निष्कलत्वश्रुतिव्याकोपः । नान्त्यः। कार्यस्य परिच्छिन्नत्वेन व्याप्यत्वात् ब्रह्मणोऽपि परिच्छेदापत्तिस्ततश्चानन्त्यश्रुतिव्याकोप इति शङ्कते - गगनस्येति ॥२२॥
भृगुरुवाच
।
अनन्तमेतदाकाशं सिद्धदैवतसेवितम्
।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥२३॥
कार्यस्यानन्त्यं कारणानन्त्यायोपपादयन्नुक्तां शङ्कां पारहरति- अनन्तमेतदिति । आश्रयाश्चतुर्दश भुवनानि ॥२३॥
उर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः
।
तत्र देवाः स्वयं दीप्ता भास्वराभाग्निवर्चसः ॥२४॥
गतेः सूर्यरश्मिगतेरपि ऊर्ध्वमधस्ताच्च चन्द्रादित्यौ न दृश्येते मध्यमपरिमाणयोस्तयोरनन्ताकाशव्याप्तियोगात् यत्र तौ न दृश्येते तत्र सन्धिरार्षः ॥२४॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
।
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ॥२५॥
तेऽपि सूर्यादिगतेरूर्ध्वस्थाम् अनन्तमेवाकाशं पश्यन्ति न तु परिच्छिन्नमिति मे मद्वचनाद्विद्धि ॥२५॥
उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः
।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥२६॥
एवं तत्तदुपर्यपीत्याह- उपरिष्टेति । आर्षो वर्णलोपः प्रज्वलद्भिर्लोकैरिति शेषः ॥२६॥
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्
।
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥२७॥
तिर्यक्प्रमाणतोऽप्यानन्त्यमाह- पृथिव्यन्त इति ॥२७॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः
।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥२८॥
एवमन्तं भगवतः प्रमाणं सलिलस्य च
।
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥२९॥
एवमन्तं पुनः पुनर्जलं पुनराकाशं पुनर्जलमित्येवंरूपमेव सलिलस्य सलिलात्मकस्य भगवतोऽन्तं पश्यामः न तु जलाकाशमालाया इत्यर्थः । तोयेभ्य इति षष्ठ्यर्थे चतुर्थी ॥२९॥
अग्निमारुततोयानां वर्णाः क्षितितलस्य च
।
आकाशादवगृह्यन्ते भिद्यन्ते तत्त्वदर्शनात् ॥३०॥
अग्नीति । वर्णो रूपं तच्च स्पर्शस्याप्युपलक्षणं यथा रूपस्पर्शरहितं नभोद्रव्यं देशतः कालतश्चानन्तं तद्वदग्न्यादयोऽपि । तथा च लक्षणभेदाभावादाकाशानतिरिक्ता अपि ते केवलमतत्त्वदर्शनादेवाकाशात्पृथगवगगृह्यन्ते द्वितीयचन्द्रवत् । एवमाकाशादयोऽपि पूर्वस्मात्पूर्वस्मात्स्वकारणादभिन्नाः सन्तो मानसमात्रं भवन्तीत्यर्थः ॥३०॥
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च
।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा ॥३१॥
कथं तर्हि बौद्धज्यौतिषिकपौराणिकास्त्रैलोक्यादेः प्रमाणं यथा विहितं पञ्चाशत्कोटियोजनविस्तारायामादिरूपमुपपादयन्तीति शङ्कते- पठन्तीति ॥३१॥
अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्
।
सिद्धानां देवतानां च यदा परिमिता गतिः ॥३२॥
दूषयति- अदृश्यायेति । षष्ठ्यर्थे चतुर्थी । ब्रह्म परिमाणहीनम् अदृश्यत्वादगम्यत्वाच्च आकाशादिवदित्यनुमानेन कारणानन्त्यात्कार्यानन्त्यसिद्धिः । सिद्धानामिति । गतिर्गमनमार्ग आकाशः सोऽपि चेत्परिमितः स्यात्तर्हि श्रूयमाणं परमात्मनो मानसाख्यस्य आनन्त्यं गौणमौपचारिकं स्यात्तच्च न युक्तमनन्तं ब्रह्मेति वेदपीडाप्रसङ्गादिति सार्धः श्लोकः ॥३२॥
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्
।
नामधेयानुरूपस्य मानसस्य महात्मनः ॥३३॥
यदा तु दिव्यं यद्रूपं ह्रसते वर्धते पुनः
।
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ॥३४॥
दिव्यं द्योतमाने यत् रूपं विश्वरूपं तदपि ह्रसते सुप्तिप्रलययोर्लीयते वर्धते च जाग्रत्सर्गयोर्यदि तर्हि 'आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा' इति न्यायेन सर्गकालेऽप्यसतो जगतः स्वरूपम् । तद्विधोऽपि ब्रह्मभावं गतोऽपि कोऽन्यो वेदितुं शक्तो न कश्चित् । न हि मरुमरीचितो यस्य रसस्पर्शौ कश्चिद्वेदितुमर्हतीति भावः । तत्र सुप्तिबोधयोर्जगल्लयोदयौ कौषीतकिनः समामनन्ति- ‘स यदा स्वपिति तदैनं वावसर्वैर्नामभिः सहाप्येति । चक्षुः सर्वैः रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैर्ध्यानैः सहाप्येति । अथ यदा प्रबुध्यते । एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' इति । तथा च 'नासतो विद्यते भावो नाभावो विद्यते सतः' इति भगवदुक्तदिशा जगतोऽसत्त्वाद्दुर्ज्ञेयत्वं सिद्धम् ॥३४॥
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः
।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥३५॥
पुष्करतः स्थूलसूक्ष्मकार्यरूपात् । ब्रह्मा चतुर्मुखः ॥३५॥
भरद्वाज उवाच ।
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम्
।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥३६॥
चतुर्मुखस्यैव महत्तत्त्वात्मतां मन्वानः शङ्कते - पुष्करादिति ॥३६॥
भृगुरुवाच ।
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥३७॥
परिहरति- मानसस्येति । यथा बीजादङ्कुरतरुजातावपि तरुस्थपक्वफलवदङ्कुरतर्वन्तरोत्पादे न समर्थौ । फलं त्वनेकबीजगर्भं तरुबीजादप्यधिकशक्तिमत् । एवं मानसाख्यादीशाज्जातावपि सूत्रविराजौ न सूत्रविराडन्तरं स्रष्टुं शक्नुतः । चतुर्मुखे तु कृत्स्ना मानसस्य शक्तिरभिव्यक्ताऽतः स च सूत्रविराडात्मकात्पद्माज्ज्यायान् । तथापि तदभिव्यक्त्यभिप्रायेण पुष्करतो ब्रह्माऽभवत् । वृक्षादिव फलमित्यर्थः ॥३७॥
कर्णिकातस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
।
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ॥३८॥
गगनं हार्दाकाशाख्यं ब्रह्म पद्मस्य मध्ये तस्यापि मध्ये उच्छ्रितो मेरुस्तस्य मध्ये अधिष्ठितः कर्णिकामिति पदयोजना । एतेन 'दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इत्यादिना 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' इत्यन्तायाः श्रुतेरर्थः सङ्ग्रिहीतः ॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि भृगुभरद्वाजसंवादे द्व्यशीत्यधिकशततमोऽध्यायः॥१८२॥
भरद्वाज उवाच ।
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः ॥१॥
ननु चतुर्मुखेन मनसा सृष्टाः पञ्च धातव आकाशादयः स्वाप्नाकाशादिवदान्तराः सन्तः कथं बाह्यलोकानामावरका इत्युपपद्यते इत्याह- त एते इति । यान् ब्रह्माऽसृजत्ते एते इति कथमित्यग्रिमेण सम्बन्धः । एते के ये महाभूतसंज्ञाः यैश्च लोका आवृता इति योजना ॥१॥
यदाऽसृजत्सहस्राणि भूतानां स महामतिः
।
पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥२॥
तथा ब्रह्मणा सृष्टानां जरायुजादीनां चैवं प्रत्येकं मानसानि पञ्चभूतानि सन्ति । स्वप्ने तद्दर्शनात् । ततश्च कथं ब्रह्मसृष्टानामेव पञ्चानां भूतानां महाभूतत्वं नास्मदादिसृष्टानां भूतत्वं यतः सर्वेषां मानसत्वाविशेषात् प्रातिभासिकत्वेन क्षुद्रभूतत्वम् ईशसृष्टानां तु महाभूतत्वं तथा च प्रातिभासिकव्यावहारिकयोर्बाध्याबाध्ययोः प्रपञ्चयोर्भेद एष्टव्य इति आक्षेप्तुरभिप्रायः ॥२॥
भृगुरुवाच ।
अमितानां महाशब्दो यान्ति भूतानि सम्भवम्
।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥३॥
अमितत्वमेव महच्छब्दार्थो न त्वबाध्यत्वमित्याह- अमितानामिति । अमितेषु अमितत्वादित्यर्थः । यतः सम्भवं यान्ति ततो हेतोर्भूतानीत्यर्थः । ततश्चानन्तत्वोत्पन्नत्वयोरुभयत्राविशेषात् न व्यावहारिकप्रातिभासिकयोर्महाभूतसङ्घयोर्भेद इत्यर्थः ॥३॥
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः
।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥४॥
कार्यमात्रे व्याप्तिं प्रदर्शयन्नमितत्वमेवाह- चेष्टेति । खं सुषिरम् अत्र शरीरे द्रवो लोहितादिसङ्घातः कठिनं मांसास्थ्यादि ॥४॥
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्
।
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥५॥
श्रोत्रं खं घ्राणं पृथिवी रसो रसनेन्द्रियं जलं स्पर्शः स्पर्शनेन्द्रियं त्वक् वायुः दृष्टिश्चक्षुरिन्द्रियं तेजः श्रोत्रादीनां खादिगुणान् शब्दादीन् प्रतिग्राहकत्वात् खाद्यात्मकत्वं श्रोत्रादीनां खाद्यात्मत्वोपपादनं दृष्टान्तसिद्ध्यर्थम् । तथा चायं प्रयोगः । मेयमातारौ समानजातीयौ ग्राह्यग्राहकत्वात् शब्दश्रोत्रादिवदिति । तथा च प्रमातुश्चेतनाभिन्नत्वेन प्रमेयस्यापि तथात्वमिति अद्वैतसिद्धिः ॥५॥
भरद्वाज उवाच ।
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः
।
स्थावराणां न दृश्यन्ते शरीरे पञ्चधातवः ॥६॥
ननु वृक्षाणां प्रमेयत्वेऽपि न चेतनाभिन्नत्वं दृश्यतेऽस्मदादिवत्तेषां गत्याद्यभावेनानिन्द्रियत्वात्ततश्चाभौतिकत्वमिति न ब्रह्मप्रभवत्वमपीत्यद्वैतसिद्धिरित्यभिप्रेत्य वृक्षाणां भौतिकत्वं तावन्निरस्यति- पञ्चभिरित्यादिना ॥६॥
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः
।
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥७॥
ऊष्माद्यभावादग्न्याद्यभावमाह- अनुष्मणामिति ॥७॥
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
।
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥८॥
अद्रवत्वादनग्नित्वादभूमित्वादवायुतः
।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥९॥
अप्रमेयत्वात् अप्रतीयमानत्वात् ॥९॥
भृगुरुवाच ।
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥१०॥
वृक्षाणामभौतिकत्वानिन्द्रियत्वादिकं परिहरंश्चेतनत्वमुपपादयति - घनानामित्यादिभिर्नवभिः ॥१०॥
उष्मतो म्लायते वर्णं त्वक् फलं पुष्पमेव च
।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥११॥
शीर्यत इत्यनेन वज्रमणेरपि मत्कुणशोणितस्पर्शात् शीर्यमाणस्य चेतनत्वं व्याख्यातम् । एवमेकदेशे कम्पादिदर्शनाद्गोरिव भूमेरपि तत् द्रष्टव्यम् ॥११॥
वाय्वग्न्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते
।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥१२॥
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति
।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥१३॥
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि
।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥१४॥
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्
।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥१५॥
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
।
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥१६॥
नालेन नलिकया एतेन क्षीरादिपायिनः पारदादेरपि चेतनत्वं व्याख्यातम् ॥१६॥
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्
।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥१७॥
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥१८॥
तेन वृक्षेण जरयति जरयतः ॥१८॥
जङ्गमानां च सर्वेषां शरीरे पञ्चधातवः
।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥१९॥
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम्
।
इत्येतदिह संघातं शरीरे पृथिवीमयम् ॥२०॥
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च
।
अग्निर्जस्यते यश्च पञ्चाग्नेयाः शरीरिणः ॥२१॥
शरीरिणः अन्तर्गतोऽग्निस्तेजः क्रोधचक्षुरूष्मजाठररूप इति पञ्चाग्नेयाः ॥२१॥
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च
।
आकाशात्प्राणिनामेते शरीरे पञ्चधातवः ॥२२॥
श्रोत्रमिन्द्रियं घ्राणं नासारन्ध्रे कोष्ठम् अन्नादिस्थानम् ॥२२॥
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥२३॥
प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा
।
गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः ॥२४॥
प्राणात् प्राणम् आश्रित्य प्रणीयते गमनादि कार्यते व्यायच्छते बलसाध्यमुद्यमं करोति ॥२४॥
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते
।
इत्येते वायवः पञ्च चेश्यन्तीह देहिनम् ॥२५॥
प्रतिभेदात् उरःकण्ठशिरःस्थानभेदात् ॥२५॥
भूमेर्गन्धगुणान्वेत्ति रसं चाभ्यः शरीरवान्
।
ज्योतिषा चक्षुषा रूपं स्पर्शं वेत्ति च वाहिना ॥२६॥
भूमेः भूम्या घ्राणरूपया अद्भ्य इति रसनेन वाहिना वहनशीलेन वायुना चकारेण आकाशेन श्रोत्ररूपेण शब्दं गुणं वेत्तीत्यपि द्रष्टव्यम् ॥२६॥
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः
।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान् ॥२७॥
अत्र गन्धाधिकरणे गन्धे वाऽधिकरणस्य तन्मात्रत्वात् । विस्तरेण अभिहितान् वृद्धैः गुणान् भेदान् ॥२७॥
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च
।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥२८॥
इष्टः कस्तूरिकादौ, अनिष्टः शवादौ, मधुरौ मधुपुष्पादौ कटुः मरीच्यादौ, निर्हारी सर्वगन्धाभिभावको हिंग्वादौ, संहतश्चित्रगन्धोऽनेकद्रव्यकल्कगतः, स्निग्धः सद्यस्तप्तघृतादौ, रूक्षः सर्षपतैलादौ, विशदः शाल्यनादौ ॥२८॥
एवं नवविधो ज्ञेयः पार्थिवे गन्धविस्तरः
।
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ॥२९॥
पार्थिवः पृथिव्याश्रितो मुख्यो गुणः, ज्योतिः पृथिव्यादिरूपं वायुना त्वगिन्द्रियेण ॥२९॥
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः
।
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥३०॥
गुणाः अप्रधानभूताः एवं जलादावप्येकैको मुख्यः इतरेऽप्रधाना इति द्रष्टव्यम् ॥३०॥
रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः
।
मधुरो लवणास्तिक्तः कषायोऽम्लः कटुस्तथा ॥३१॥
कषायः बिभीतकफलादौ ॥३१॥
एष षड्विधविस्तारो रसो वारिमयः स्मृतः
।
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते ॥३२॥
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्
।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥३३॥
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा
।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः ॥३४॥
कृष्णकाचकज्जलादेः नीलारुणः मयूरपिच्छादेः कठिनादयः स्पर्शभेदा अपि चक्षुषापि निर्णेतुं शक्या इति रूपमध्ये पठिताः । तथाहि लोष्ठपाषाणसङ्घट्टे तन्नाशानाशाभ्यां बालस्तयोर्मृदुत्वकठिनत्वे निश्चिनोति एवमन्यत्रापि ज्ञेयम् ॥३४॥
एवं षोडशविस्तारो ज्योतीरूपगुणः स्मृतः
।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत ॥३५॥
ज्योतिरात्मको रूपगुणः द्वौ गुणौ यस्मिन्निति द्विगुणः ॥३५॥
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
।
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥३६॥
उष्णशीतौ आतपतुहिनयोः । सुखदुःखे ते एव कालभेदेन स्निग्धः पुत्रादेः विशदः उत्तमवस्त्रादेः ॥३६॥
तथा खरो मृदु रूक्षो लघुर्गुरुतरोऽपि च
।
एवं द्वादशधा स्पर्शो वायव्यो गुण उच्यते ॥३७॥
खरमृद्पाषाणतूलादेः रूक्षः कण्टकादेः लघुत्वगुरुत्वे तर्कमते पतनानुमेये अपि पौराणिकमते त्वग्राह्ये एव । तथाहि तमस्यपि परीक्षकाः पाणिना उत्तोल्यैव पलिकसपादपलिकयोरायतानायतयोरपि प्रमाणं निश्चिन्वन्ति । गुरुतर इति तरप्प्रत्ययेन गुरुरपि आक्षिप्यते । तेन द्वादशविधः । एवमेकादशविध इत्यपि पठन्ति ॥३७॥
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥३८॥
षड्जऋषभगान्धारौ मध्यमो धैवतस्तथा
।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥३९॥
एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः
।
ऐश्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥४०॥
ऐश्वर्येण व्यापकत्वेन स्थितोऽपि पटहादिषु अभिव्यज्यते इति शेषः ॥४०॥
मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च
।
यः कश्चिच्छ्रूयते शब्दः प्राणिनोऽप्राणिनोऽपि वा
।
एतेषामेव सर्वेषां विषये सम्प्रकीर्तितः ॥४१॥
एतेषां षड्जादीनाम् ॥४१॥
एवं बहुविधाकारः शब्द आकाशसम्भवः
।
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥४२॥
एवमिति बहुविधः षड्जादिभेदेन तारमन्द्रादिभेदेन वायुगुणैः खरमृदुस्पर्शैः । अयमर्थः - विवक्षुप्रयत्नाभिहतः कोष्ठ्योऽग्निस्तत्रत्यं वायुं प्रेरयति स च यत्नतारतम्येन हृदयकण्ठशिरोदेशं प्राप्य मन्द्रं मध्यमं तारं वा ध्वनिमुत्पाद्य हृदयादिदेशाज्जिह्वामूलादीनि स्थानानि प्राप्य नित्यान् विभून् वर्णान् मन्द्रत्वादिभिर्ध्वनिधर्मैरनुरञ्जितानकारादीनभिव्यज्य वेगवत्त्वस्वाभाव्यान्मुखाद्बहिर्निर्गतो जनकर्णविवरमनुप्रविशति तेन च संस्कृतेन तत्रत्यश्रोत्रेण तं शब्दमनुभवति स च संस्कारो मुखजस्य वायोर्बाह्यवायुनाऽनुकुल्याद्दूरतो वा प्रातिकूल्यात्समीप एव वा भित्त्यादिना प्रतिघातान्नैव वा गिरिगुहादिगतवायुना प्रतिस्रोतः प्रवर्तनेन द्विर्वा भवति तदनुसारेण शब्दं दूरतोऽप्यनुभवति । समीपत एव वा नैव वा द्विर्वा शब्दप्रतिशब्दरूपेणानुभवति । एवं वाय्वभिघाततारतम्याद्भेर्यारदिशब्दोऽपि मन्द्रादिभेदेनानुभूयते तदिदमुक्तम् । अव्याहतैरप्रतिहतैर्वायुर्गुणैः स्पर्शैश्चेतयते शब्दं जानाति न वेत्ति वा शब्दं विषमस्थितैर्भित्त्यादिना प्रतिवातेन वाऽभिभवात् । तं च एभिर्वायुगुणैः सह सन्तं चेतयते इति अध्याहृत्य सम्बन्धनीयम् । विषमागतैरिति पाठेऽपि स एवार्थः । विषमा गतीरिति गौडपाठस्तु प्रामादिकः, तदेवं शब्दाभिव्यक्तिप्रज्ञप्तयोर्भिन्नकालत्वानुभवान्मध्ये वीचीतरङ्गन्यायेन शब्दसन्ततिरुत्पद्यते । तत्रान्त्यशब्द एवं गृह्यते इति क्षणिकवादिबन्धवो वदन्ति भेरीशब्दो मया श्रुतः स एवायं प्रपाठक इत्यभेदप्रत्यभिज्ञाबाधकप्रत्ययं विनाऽपि भ्रान्त इति वदन्ति तद्विद्वांस एवालोचयन्तु । ते शब्दाद्युत्पादका धातवो देहारम्भकास्त्वगादि गोलकाः धातुभिः प्राणेन्द्रियैः आप्याप्यन्ते आदित आरभ्य संवर्ध्यन्ते अन्नसुखस्पर्शाद्यर्पणेन श्लोकद्वयमेकं वाक्यम् ॥४२॥
अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः
।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥४३॥
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु
।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ॥४४॥
तदेवाह- आप इति । एतेऽबादयः शरीरस्य मूलं कथं प्राणान्व्याप्य प्राप्य शुक्रशोणितसंयोगे हि प्राणो लब्धवृत्तिश्चेत् शरीरं निष्पद्यते । अन्यथा योनिनिषिक्तमपि रेतो व्यर्थं भवति ॥४४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि भृगुभारद्वाजसंवादे चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥
युधिष्ठिर उवाच।
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि पितामह ॥१॥
पूर्वं मानसिको धर्मो देवादीनां योनिरित्युक्तम् । तत्र किं स्वरूपोऽसौ धर्मः कथं च देवादिहेतुत्वं तस्येति पृच्छति- अध्यात्ममिति । आत्मानं चित्तमधिकृत्य प्रवृत्तो योगधर्मोऽध्यात्मम् । यदिदं पुरुषस्य कर्तव्यत्वेन चिन्त्यते शास्त्रे विचार्यते तदध्यात्मम् । किंलक्षणं किंप्रकारकं चेति । यद्यथाशब्दाभ्यां प्रश्नद्वयं कृतम् ॥१॥
कुतः सृष्टमिदं विश्वं ब्रह्मन् स्थावरजङ्गमम्
।
प्रलये कथमभ्येति तन्मे वक्तुमिहार्हसि ॥२॥
तथा ब्रह्मैव प्रजानां योनिरिति प्रसिद्धं त्वया तु मानसो धर्मो योनिरित्युक्तं तत्कथमित्याशयवानाह- कुत इति ॥२॥
भीष्म उवाच।
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
।
तद्व्याख्यास्यामि ते तात श्रेयस्करतमं सुखम् ॥३॥
श्रेयस्करं धनादि श्रेयस्करतमो धर्मः श्रेयस्करतमो ध्यानयोगः सुखं स्वरूपसुखाविर्भावहेतुत्वात् ॥३॥
सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम्
।
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
।
फललाभश्च तस्य स्यात् सर्वभूतहितं च तत् ॥४॥
सृष्टीति । सृष्टिप्रलयव्याख्याऽपि अध्यात्मव्याख्यायामेवान्तर्भूता । तथाहि यदि ज्ञेय आत्मा प्रतीचोऽन्यः स्यात्तर्हि तस्य उपासनाशेषत्वात् तस्मिन् श्रुतं जगज्जन्मादिहेतुत्वं पर्णमयीफलवदर्थवादः स्यात् । द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति घण्टघोषः योषिदग्नित्ववदारोपितैरपि नीलग्रीवत्वपीताम्बरत्वसत्यकामत्वसत्यसङ्कल्पत्वजगज्जन्मादिहेतुत्वादिगुणैरुपास्ति स्वरूपसिद्धेः संतु वा तत्रानारोपिता एव गुणाः तथापि तस्य सर्वगुणावशिष्टस्य ज्ञेयत्वेन घटादिवज्जडत्वापत्तिरर्दुर्वारा । ननु चिन्मय एवास्य विग्रहश्चिन्मया एव गुणा इति न तेषां जडत्वमिति चेत् अत्र पृच्छामः- चिन्मयत्वं चिद्विकारत्वं चिद्रूपत्वं वा । नाद्यः । 'वाचारम्भणं विकारो नामधेयम्' इति विकारस्यानृतत्वश्रवणेन तेषां तुच्छत्वापत्तेः । नान्त्यः । स्वात्मनि वृत्तिविरोधात् । न हि चिदेव चिदन्तरग्राह्येति संभवति ग्राह्यचितः अचित्त्वापत्तेः । तस्मात् ज्ञेय आत्मा प्रतीचोऽनन्य एव । तथा च सृष्ट्यादेस्तदुपादानकत्वोक्तिस्तदद्वयत्वप्रतिपत्त्यर्थेति । अध्यात्मव्याख्यायामेव सृष्टिप्रलयव्युत्पादनं संगतमिति तत्प्रसंगे प्रश्नोत्तरयोः सृष्ट्याद्युपन्यासो युक्तिमत्तर इति सिद्धम् । अत्र मानमाह - आचार्यैः परिदर्शितमिति । आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वमित्यादि वेदवाक्यैरित्यर्थः । प्रीतीं दृष्टसुखं सौख्यं सुखात्मकं भावं सत्तां प्रकृतिप्रत्ययाभ्यां सुखात्मकसन्मात्रमित्यर्थावगमात् सुखस्य भाव इति विग्रहे षष्ठी तु राहोः शिर इतिवदौपचारिकी व्यक्तमाकरे । तथा च श्रुतयः - 'यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान्सह । निष्क्रियं निष्कलं शान्तम्' इत्याद्याः । तस्य आत्मविदः फलं सर्वकामावाप्तिस्तल्लाभः स्यात् हितं च तज्ज्ञानम् ॥४॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥५॥
अध्यारोपापवादन्यायेन ज्ञेयस्य ब्रह्मणस्तटस्थलक्षणं तावदाह- पृथिवीति । भूतानां जरायुजादीनां प्रभवाप्ययौ उत्पत्तिलयस्थानभूतानि ॥५॥
यतः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
।
महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ॥६॥
यतः आनन्दात्मनः । 'आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्ति' इति श्रुतेः । सृष्टानि तत्रैव लयं यान्ति । यत इति । यच्छब्दार्थमाह- महाभूतानि पृथिव्यादीनि भूतेभ्यः जरायुजादिभ्यः उत्पद्यन्ते - सागरस्योर्मयो यथेति । अत्र जरायुजादिभ्यः खाद्युत्पत्तिलयौ वदता तेषामानन्दरूपत्वमुक्तम् । खादीनां च स्वप्नाकाशादिवत्कल्पनामात्रत्वं चोक्तम् ॥६॥
प्रसार्य च यथाऽङ्गानि कूर्मः संहरते पुनः
।
तद्वद्भूतानि भूतात्मा सृष्टानि हरते पुनः ॥७॥
प्रसार्येति । भूतानि खादीनि । भूतात्मा जीवः यतः भूतान्येव देहाद्याकारेण परिणतानि आत्मत्वेन मन्यमानः। 'अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यते' इति श्रुतिप्रसिद्धेश्च । एतेन कूर्मादंगानीत्र वियदादीनि प्रतीचोऽनन्यानीत्युक्तम् ॥७॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
।
अकरोत्तेषु वैषम्यं तत्तु जीवो न पश्यति ॥८॥
ननु कथं भौतिकेभ्यो भूतोत्पत्तिः न हि पुत्रात्पितोत्पद्यत इति चेत् । अत्र ब्रूमः। बीजाद्वटो वटात् बीजानि बीजेभ्यो वटा इतिवद्भविष्यतीति । ननु तत्र प्रतिबीजं सूक्ष्मरूपेण वटोऽस्ति अंकुरोन्मुखतिन्तिणीबीजोदरे कृत्स्न तिन्तिणीसन्निवेशदर्शनात् । तर्हि प्रत्यगभेदेन गृहीते देहे सूक्ष्मरूपेण महाभूतानि सन्तीति तुल्यमित्याभिप्रेत्याह - महाभूतानीति । भूतकृत् ईश्वरः । तेषु वैषम्यं वैलक्षण्यं पार्थक्येनावास्थितत्वं यत् तत्तु जीवो सर्वभूतेषु शरीरेषु पञ्चमहाभूतानि अकरोदेव । कृतेषु च देहाद्यात्माभिमानी न पश्यति । देहे कः पार्थिवोंऽशः कः आप्य इति न जानाति । अयं भावः - जीवत्वाभिमानत्यागे खलु स्वस्य सर्वकारणत्वं ग्राह्यम्। तदभावात्तु स्वप्ने गृह्यमाणमपि तन्न श्रद्धत्ते । ततश्च न बाह्यान्तरसृष्टयोः सत्यत्त्वमिथ्यात्वे निश्चिनोति । ततो भेददृष्टेरबाधाद्बाध्यत इति ॥८॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
।
वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ॥९॥
जीवस्य जगदुपादानत्वप्रथनाय तस्यात्मभूते देहे खाद्यंशान् विभजते - शब्द इत्यादिना । खानि च्छिद्राणि आकाश एव योनिः कारणं तज्जम् ॥९॥
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते
।
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥१०॥
पाकः अन्नादिपक्तिसद्धेतुः ॥१०॥
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः
।
महाभूतानि पञ्चैव षष्ठं च मन उच्यते ॥११॥
पञ्चैव देहस्थानीति शेषः ॥११॥
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
।
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥१२॥
इन्द्रियाणि भूतेष्वन्तर्भूतानि मन इति कर्ता जीव उच्यते । अस्य विज्ञानानि च वृत्तिरूपाणि । एतदुभयात्मिका बुद्धिः सप्तमी क्षेत्रज्ञः साक्षी ॥१२॥
चक्षुरालोचनायैव संशयं कुरुते मनः
।
बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत् स्थितः ॥१३॥
चक्षुरिति पञ्चानामुपलक्षणम्। आलोचनाय विषयग्रहणाय अध्यवसानाय निश्चयाय क्षेत्रज्ञः साक्षिवत् उदासीनबोधरूपत्वात् साक्षित्वस्यापि साक्ष्योपाधिकत्वान्नात्मधर्मत्वमितिवत्करणेन दर्शितम् ॥१३॥
उर्ध्वं पादतलाभ्यां यदर्वाक्चोर्ध्वं च पश्यति
।
एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् ॥१४॥
ऊध्वमिति । पादतलद्वयमारभ्य ऊर्ध्वस्थितं शरीरम् उपर्यधश्च यत्साक्षि चैतन्यं पश्यति । एतेन इदं बहिर्दृश्यमानम् अन्तरं व्योमोदरं कृत्स्नं व्याप्तम् ॥१४॥
पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्नशः
।
तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः ॥१५॥
एवं युद्ध्यादिसाक्षिणो ब्रह्मभावमुक्त्वाऽस्य बुद्ध्याद्युपछितस्य पूर्वं महाभूतस्रष्टृत्वमुक्तं तद्युक्त्या श्रुत्या चालोचनीयमित्याह - पुरुषैरिति । कृत्स्नशः कास्न्यैन वेदितव्यानि परीक्षणीयानि इंद्रियाणीति मनोबुद्ध्योरप्युपलक्षणम् । तथाहि । किमिन्द्रियाणि प्राक् सन्तमेव घटादिकं गोचरयन्त्युत दृष्टिसमसमयमात्रसिद्धम् । आद्येऽपि किं सत्त्वं सत्तासामान्यसमवायो वा अर्थक्रियाकारिता वा । नाद्यः। सत्तायां सत्तासामान्यान्तराभ्युपगमेऽनवस्थापातात् अनभ्युपगमे तस्या अप्यसत्त्वापत्तेश्च । न द्वितीयः। रज्ज्वां कल्पितस्यापि सर्पस्य भयकम्पादिजनकत्वलक्षणार्थक्रियाकारित्वदर्शनात् । न च तत्र पुष्कलार्थक्रियाकारित्वं दृष्टं प्रसर्पणाद्यदर्शनादिति शंक्यम्। तार्क्ष्योऽहमिति स्वंस्मिस्तार्क्ष्यत्वकल्पनायाः सत्यविषनिवर्तकत्वदर्शनात्। तथा चैत्रोऽयमिति प्रतिमायां कल्पितचैत्रत्वस्य प्रतिमापीडनाचैत्रपीडाकरत्वदर्शनाच्च । ननु तत्र तार्क्ष्यात्स्वस्य भेदे गृह्यमाणे एव शास्त्रप्राप्तस्य ध्यानादेः सत्यविषनिवर्तकत्वं युक्तम् । गारुडशास्त्रप्रमाणात् देहेन्द्रियादीनां तु आत्मन्यभेदेन दृश्यमानानां कथं कल्पितत्वमिति चेत् श्लाघनीयप्रज्ञो देवानां प्रियः । भेदग्रहे सत्यपि यत्र कल्पनायाः पुष्कलार्थक्रियाकारित्वं दृष्टं किमुताभेदग्रहे। बाधोत्तरकालीनार्थक्रियाकारित्वाभावस्य रज्जुसर्पादौ देहेन्द्रियादौ च तुल्यवद्दर्शनात् तस्मात् परिशेषात् रज्जूरगवद्दृष्टिसमसमयसिद्धं घटादिकं इन्द्रियाणि गोचरयन्तीति सिद्धम्। इन्द्रियाण्यपि मनसोऽनवहिततायां सन्निहितमपि रूपादिकं न गोचरयन्तीति मनोमात्राण्येव । स्वप्ने तेषां तन्मात्रत्वानुभवात् । मनोऽपि प्रमात्रा प्रयुक्तं सन्नावहितं भवतीति प्रमात्रात्मकमेव । प्रमातृत्वं चात्मनि बुद्धिव्यतिरेकेण सुषुप्त्यादौ न दृष्टमिति बुद्धेरेव धर्मः । बुद्धिश्च त्रिगुणात्मकस्याज्ञानस्य कार्यमतस्त्रिगुणात्मकानेव भावान् विषयीकरोति । तदिदमुक्तम् इन्द्रियाणि तम आदिकमेव तेऽपि इन्द्रियग्राह्या भावा अपि तदाश्रिता इन्द्रियाश्रिता इन्द्रियजाः परंपरया तमाद्याश्रिता एवेति ॥१५॥
एतां बुद्ध्वा नरा बुद्ध्या भूतानामागतिं गतिम्
।
समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥१६॥
एतदेव प्रपञ्चयिष्यन् प्ररोचनाय तज्ज्ञानफलमाह - एतामिति । एतां त्रिगुणात्मिकां मूलप्रकृतिं बुद्धिं वा भूतानां खादीनां जरायुजादीनां च आगतिम् उद्गमनस्थानम् । गतिं लयस्थानं चेति बुद्ध्या विचारेण अवेक्ष्य । शनैः वैराग्यविवेकवृद्धिक्रमेण उत्तमं शमं सुखं प्रत्यगानन्दं लभते । कण्ठगतविस्मृतचामीकरवन्नित्यप्राप्तमिव तत्त्वमस्यादिवाक्याल्लभते ॥१६॥
गुणैर्नेनीयते बुद्धिर्बुद्धेरेवेन्द्रियाण्यपि
।
मनःषष्ठानि सर्वाणि तदभावे कुतो गुणाः ॥१७॥
भूतानां गत्यागती एवाह - गुणैरिति । तम आदिभिर्गुणैः बुद्धिर्नेनीयते पुनः पुनरतिशयेन विषयात्मतां नीयते । अतो बुद्धिरेव मनःषष्ठानीन्द्रियाणि भूतानि च द्विविधानि सैव । तदभावे बुद्धेरभावे गुणाः कुतः स्वरूपेण तेषां बाधान्न क्वापि सन्तीत्यर्थः । एतेन सांख्याभिमतं तेषामबाध्यत्वं नित्यानुमेयत्वं च निरस्तम् । अयमर्थः - रज्ज्वज्ञाने सति तत्कार्यं सर्पस्तज्जं भयादिकं च दृश्यते । परीक्षादशायां तु सर्पाभावे सति रज्जौ न तन्मूलमज्ञानमुपलभ्यते नापि तज्जं भयादिकम् । एवं बुद्ध्यभावे बुद्धेः कार्यं कारणं च नश्यतीति गुणशब्देन सत्त्वादयो मन इन्द्रियविषयादयश्च गृह्यन्ते ॥१७॥
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
।
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ॥१८॥
इतीति । यत एवं तस्मात् तन्मयं बुद्धिमयं प्रलीयते बुद्धौ लीनायामुद्भवति बुद्ध्युद्भवे तस्मात्तथा बुद्धिमयत्वेन निर्दिश्यते वेदे 'मनसा ह्येव पश्यति मनसा शृणोति' इति । 'प्राणेभ्यो देवा देवभ्यो लोकाः' इति च । बुद्धिमनसोरभेदात् बुद्धिरेव श्रवणादिसाधनं श्रोत्रादिरूपेण प्राणेभ्यश्चक्षुरादिभ्य इन्द्रियेभ्यः देवास्तदनुग्राहका आदित्यादयः लोकाभूतभौतिका इति श्रुत्यर्थः ॥१८॥
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते
।
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥१९॥
एतदेवाह द्वाभ्यां - येनेति । सा बुद्धिर्येन द्वारेण पश्यति तच्चक्षुरित्यर्थः । जिह्वया त्वचेति इत्थं भावे तृतीया । जिह्वारूपया बुद्ध्या - बुद्धिः कर्त्री रसं जानाति ॥१९॥
त्वचा स्पर्शयते स्पर्शं बुद्धिर्विक्रियते सकृत्
।
येन प्रार्थयते किञ्चित्तदा भवति तन्मनः ॥२०॥
तत्र हेतुः विक्रियते बुद्धिरेव चिदाभासविशिष्टा जीवापरसंज्ञाकर्तृत्वं करणत्वं चापद्यते तथा च श्रूयते - 'स प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्य कर्मनामान्येव' इति । सकृदिति यौगपद्यमुच्यते कर्त्रादिभावस्य । ततश्चाकाशाद्वायुः वायोरग्निरिति क्रमो न विवक्षितः । किं तु ज्ञातृज्ञानज्ञेयानां सहैवोत्पत्तिरित्यर्थः ॥२०॥
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा
।
इन्द्रियाणीति यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥२१॥
अधितिष्ठति रूपादीनि बुद्धिः प्रकाशयत्येतैरित्यधिष्ठानानि करणानि बुद्धेः कर्त्र्याः अदृश्यश्चिदात्माऽधितिष्ठति स्वरूपसत्तामात्रेण इन्द्रियाणि व्यापारयति अयस्कान्त इव लोहम् ॥२१॥
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते
।
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥२२॥
एतदेवाह- पुरुषे इति । त्रिषु भावेषु सत्त्वरजस्तमोमयेषु सुखदुःखमोहात्मकेषु तानेव क्रमेणाह - कदाचिदिति ॥२२॥
न सुखेन न दुःखेन कदाचिदपि वर्तते
।
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥२३॥
एवं त्रिषु भावेष्ववस्थिता बुद्धिर्मनसि वर्तते मनोद्वारा इन्द्रियविषयेष्वपि इति द्रष्टव्यम् ॥२३॥
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते
।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥२४॥
सेयमिति । सेयं सर्वात्मिकाऽपि बुद्धिः भावान् सुखदुःखमोहान् तदात्मिकाऽपि सती अतिक्रम्य वर्तते । तत्र योग्यो दृष्टान्तः । सरितां भर्ता पूरयिता ऊर्मिमान् सागरः महावेलामिवेति । अयमर्थः - यथा समुद्रप्रभवानां नदीनां समुद्रं प्राप्तानां वीचयः समुद्रोर्मिभिस्तिरोधीयन्ते । एवं बुद्धिप्रभवाणां देहेन्द्रियविषयाणां योगेन बुद्धौ लीयमानानां संस्काराः बुद्धेर्ब्रह्माकारतया तिरोधीयन्ते इति बुद्धेर्गुणातीतत्वमुच्यते । यथा घटप्रकाशे चक्षुरालोकसहकारेण समर्थम् । दीपप्रकाशे तु तन्निरपेक्षम् । विषयस्येव प्रकाशात्मकत्वात् एवं धीवृत्तिश्चिदाभाससहकारेणैव घटादीन्प्रकाशयति । यथोक्तम् -
'बुद्धितत्स्थचिदाभासावुभौ व्याप्नु(व)तो घटम्
।
तत्राज्ञानं धिया नश्येच्चैतन्येन घटः स्फुरेत्॥'
इति। आत्मनि तु धीवृत्तिरेवापेक्षिता विषयस्य प्रकाशात्मत्वात् । प्रकाशमाने त्वानन्दे धीवृत्तिः कृतकरजोवत् सजातीयवृत्यन्तरं विनाशयन्ती स्वयमपि विलीयते । तदा च संस्कारात्मना सती सा सत्त्वादिकार्याणि सुखदुःखमोहाख्यानि अतिक्रम्य गता भवति सुषुप्तौ तु मोहस्याविनाशात्सुप्तिसमाध्योर्भेद इति ॥२४॥
अतिभावगता बुद्धिर्भावे मनसि वर्तते
।
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते ॥२५॥
ननु आत्माकारवृत्तिमत्या बुद्धेर्गुणातीतत्वोपगमे ज्ञानसमकालमेव देहपातः स्यात् । नष्टायास्तस्याः मूलकारणस्याज्ञानस्य नाशेन पुनरुत्पादायोगादित्याशङ्क्याह - अतिभावेति । सुखादिभावान् अतिक्रान्तापि बुद्धिर्भावे मनसि निर्वृत्तिकतया सत्तामात्रे मनसि वर्तते ज्ञानकाले सूक्ष्मरूपेणास्तीत्यर्थः । तु पश्चादभ्युत्थानकाले प्रवर्तमानं रजः तद्भावं बुद्धिभावम् अनुवर्तते घृतकाठिन्यवद्विलीनापि बुद्धिः रजोगुणेन शीतेन घृतमिव पुनर्घनीक्रियत इत्यर्थः । अयं भावः - सत्यप्यज्ञाननाशे क्षालितलशुनभाण्डगन्धवल्लेशतोऽनुवर्तमानाऽविद्या प्रारब्धकर्मपराधीना न पुनःपुनर्देहादीनुत्थापयति । प्रारब्धकर्मोपरमे तु निरन्वयनाशान्निष्प्रत्यूहं कैवल्यमिति ॥२५॥
इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा
।
ततः सत्त्वं तमोभावः प्रीतियोगात्प्रवर्तते ॥२६॥
सा बुद्धिर्यदा रजसा लब्धात्मिका भवति तदा हि प्रसिद्धमिन्द्रियाणि प्रवर्तयति । ततश्च विषयसम्बन्धात् सत्त्वं सत्त्वात्मिका बुद्धिः विषययाथात्म्यज्ञानं प्रवर्तते । तथा तमोभावः तमसा विषयाज्ञानेन जनितो भावः विषयविपर्यासरूपः शुक्तिरजतादिः प्रीतियोगात्पुरुषगतरागादिदोषात्प्रवर्तते । प्रमारूपं विपर्ययरूपं वा ज्ञानं विषयेन्द्रियसम्बन्धाज्जायत इत्यर्थः ॥२६॥
प्रीतिः सत्त्वं रजः शोकस्तमो मोहस्तु ते त्रयः
।
ये ये च भावा लोकेऽस्मिन् सर्वेष्वेतेषु वै त्रिषु ॥२७॥
ततश्च प्रीत्यादयः सत्त्वाद्यात्मानः प्रवर्तन्ते भावाः शमदमकामक्रोधभयविषादादयः ॥२७॥
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत
।
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥२८॥
बुद्धिव्याख्यानं सप्रयोजनमुपसंहरति - इतीति ॥२८॥
सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा
।
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते ॥२९॥
प्रीतिः सत्त्वमित्युक्तमर्थं प्रपञ्चयति - सत्त्वं रज इत्यादिना ॥२९॥
सात्त्विकी राजसी चैव तामसी चेति भारत
।
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
।
तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ ॥३०॥
त्रैविध्यमेवाह - सात्त्विकीति सार्धेन । तमोगुणे प्रादुर्भूते सति संयुक्तौ पूर्वोक्तौ सुखदुःखस्पर्शौ न भवतः किं तु मोह एवेत्यर्थः ॥३०॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
।
वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा ॥३१॥
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः
।
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत् ॥३२॥
संरभ्य भीत्या दुःखानुसंधानात् दुःखमेव वर्द्धिष्यत इति भीत्या दुःखं न चिन्तयेन्न गणयेदित्यर्थः ॥३२॥
अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत्
।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥३३॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
।
कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः ॥३४॥
इष्टवस्तुश्रवणदर्शनप्राप्त्युपभोगजानि सुखानि प्रहर्षप्रीत्यानन्दसुखाख्यानि प्रियमोदप्रमोदानन्दापरपर्यायाणि प्रशान्तचित्तता निर्विकल्पसुखता पुच्छब्रह्माख्या कथञ्चिदिति दौर्लभ्यमुक्तम् ॥३४॥
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा
।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ॥३५॥
हेत्वहेतुभिर्हेतुभिरहेतुभिश्च आहाराद्यपूर्तौ सत्यामतुष्टिः क्षुद्बाधाद्यनिवृत्तिहेतुभिः सर्वसंपत्तिमतस्तु याऽतुष्टिः सा निर्हेतुका केवलमोहकार्यमित्यर्थः ॥३५॥
अवमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
।
कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः ॥३६॥
स्वप्नो निद्रा तत्सहिता तन्द्रिता तन्द्रायुक्तत्त्वम् । कथञ्चित् अभाग्यातिशयात् ॥३६॥
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
।
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥३७॥
दूरगं दुर्लभेऽपि वस्तुन्यासक्तम् । बहुधागामि अनेकेषु विषयेषु युगपन्निपतितुं शीलम् । प्रार्थना देहीति दैन्यभाषणम् । सुनियतं निरुद्धवृत्तिकम् ॥३७॥
सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः
।
सृजते तु गुणानेक एको न सृजते गुणान् ॥३८॥
वृत्तिनिरोधफलं सत्त्वपुरुषान्यताख्यातिमाह - सत्त्वेत्ति । सत्त्वं बुद्धिसत्त्वं क्षेत्रज्ञः साक्षी तयोः अन्तरं भेदम् । तप्तायःपिण्डवदितरेतराविवेकात्प्रागगृहीतम् । एकः सत्त्वं गुणान् अहङ्कारादीन् ॥३८॥
मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सदा
।
अन्योन्यमेतौ स्यातां च सम्प्रयोगस्तथा तयोः ॥३९॥
एतौ मशकोदुम्बरौ तयोः सत्त्वक्षेत्रज्ञयोः ॥३९॥
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा
।
यथा मत्स्यौ जलं चैव सम्प्रयुक्तौ तथैव तौ ॥४०॥
प्रकृत्या स्वभावेन ॥४०॥
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः
।
परिद्रष्टा गुणानां तु संसृष्टान्मन्यते तथा ॥४१॥
ननु मशकोदुम्बरवज्जलमत्स्यवद्वा तयोः संयोगश्चेदुभयोरपि विभुत्वादपरिहार्यः संयोगः स्यादित्याशङ्क्याह - नेति । न विदुरिति गुणानां जडत्वमुक्तम् । वेत्तीति क्षेत्रज्ञस्य चिदात्मत्वमुक्तम् । अतश्चिज्जडयोवोस्तवः सम्बन्धो नोपपद्यते । दृष्टान्ते तु जडयोरेव मीनादिशरीरयोर्जलादिना जडेनैव सम्बन्धः । एतदेवाह - परिद्रष्टेति । पुरुषो गुणानां देहाहङ्कारादीनां द्रष्टाऽपि सन् तान् संसृष्टान् स्वतादात्म्यापन्नान्मन्यते न हि द्रष्टृदृश्ययोः पुङ्गुणयोरभेदः संभवति प्रतीयते चाभेदः अहं गौरोऽहं काणोऽहं सुखी अहं कर्तेति । तस्मात् मरुमहाहृदयोरिवानयोराध्यासिकः सम्बन्ध इत्यर्थः । संस्रष्टेति पाठे समित्येकीभावे इति यास्कवचनात् आत्मनि एकीभावेन तादात्म्येन गुणानां स्रष्टा कल्पकः संस्रष्टा चिदात्मा विद्यया मन्यतेऽभिमानं करोति ॥४१॥
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
।
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥४२॥
ननु चिदात्मा गुणसंगी चेत् घटपिहितप्रदीपवन्न किञ्चित्प्रकाशयेदित्याशङ्क्याह- इन्द्रियैरिति । प्रदीपार्थम् अर्थप्रकाशनं घटच्छिद्रैरिव घटपिहितो दीप इत्यर्थः । इन्द्रियैर्मनसा सह षड्भिः ॥४२॥
सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति
।
सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ॥४३॥
संप्रयोगः सम्बन्धः ध्रुवः अनादिः ॥४३॥
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन
।
सत्त्वं मनः संसृजते न गुणान्वै कदाचन ॥४४॥
सत्त्वक्षेत्रज्ञयोः संप्रयोगोऽनिर्वचनीय इत्याह - आश्रय इति । आत्मन असंगत्वान्निर्गुणत्वाच्च जतुकाष्ठवद्रूपरूपिवद्वा न तयोराश्रिताश्रयभावोऽस्तीत्यर्थः । क्षेत्रज्ञस्य कश्चन आश्रयो नास्ति स्वमहिमप्रतिष्ठत्वात् । गुणः सत्त्वस्य चेतनेति प्राचीनपाठे तु सत्त्वस्याश्रयः प्रकृतिः शाखाया इव तरुः स नास्ति प्रकृतेस्तुच्छत्वात् । 'तुच्छ्येनाभ्वपिहितं यदासीत् अनृतेन हि प्रत्यूढाः' इत्यादिश्रुतिभ्यस्तस्यास्तुच्छत्वावगतेः कथं तर्हि सत्त्वस्यात्मलाभ इत्यत आह - चेतनासत्त्वस्य गुण इति । शुक्तीदन्ता यथा तत्राध्यस्तरजतस्य विशेषणं भवति तद्वच्चेतना स्वस्मिन्नध्यस्तस्य सत्त्वस्य विशेषणं भवति तमिमं सत्त्वे चेतनानुवेधमालक्ष्य आत्मा जडश्चेतना तद्गुणः सा च क्षणावस्थायिनीति बुद्धबन्धवः प्रलपन्ति । उक्तेर्थे हेतुमाह - सत्त्वमिति । संसृजते निर्दिशति प्रकाशयतीत्यर्थः वै प्रसिद्धम् । मन आदिकमेव सत्त्वस्य कार्यं प्रथते न तन्मूलभूता गुणा अतस्तेषां स कार्याणां मृषात्वमित्यर्थः । न हि निपुणैरपि परीक्ष्यमाणं रज्जूरगोपादानमज्ञानं दृष्टिपथमवतरतीति भावः ॥४४॥
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति
।
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥४५॥
अध्यासनिवृत्त्युपायमाह- रश्मीनिति । वृत्तिबहुत्वापेक्षया बहुवचनम् । तेषां तस्य सत्त्वस्य रश्मीमिव इन्द्रियाणि ॥४५॥
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः
।
सर्वभूतात्मभूस्तस्मात् स गच्छेदुत्तमां गतिम् ॥४६॥
प्राकृतं स्वाभाविकं कर्म त्यक्त्वा संन्यस्येत्यर्थः । आत्मरतिः अनन्यनिष्ठः मुनिः ध्यानशीलः सर्वेषां भूतानामात्मैव भवतीति सर्वभूतात्मभूः । 'य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति' । 'आत्मा ह्येषां संभवति' इत्यादि श्रुतिभ्यः आत्मनः सार्वात्म्यावगतेः तस्मात्संन्यासादेः ॥४६॥
यथा वारिचरः पक्षी सलिलेन न लिप्यते
।
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥४७॥
एवंविदः कर्मालेपं दृष्टान्तमाह- यथेति । वारिचरः हंसः तथा च श्रुतिः 'तं विदित्वा न कर्मणा लिप्यते पापकेन' इति ॥४७॥
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः
।
अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः ॥४८॥
एवंस्वभावम् अलेपस्वभावम् । एतत् आत्मस्वरूपं स्वबुद्ध्या निश्चित्येति शेषः ॥४८॥
स्वभावयुक्त्या युक्तस्तु स नित्यं सृजते गुणान्
।
उर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥४९॥
एवंविदो जीवन्मुक्तिमाह - स्वेति । स्वभावे स्वरूपे युक्तिर्योगस्तया देहेन्द्रियादितादात्म्याध्यासकृतां पररूपतां परित्यज्य स्वरूपावस्थित्या युक्तश्च स विद्वान् नित्यं गुणान् भूतभौतिकान् योगैश्वर्यबलेन सृजते । यस्यानुवित्तः प्रतिबुद्ध आत्मा इत्युपक्रम्य 'स विश्वकृत्स हि विश्वस्य कर्ता' इति श्रुतेः । ऊर्णनाभिदृष्टान्तोऽभिन्ननिमित्तत्वोपपादनाय दर्शितः ॥४९॥
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
।
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ॥५०॥
एवं जीवन्मुक्तः प्रारब्धकर्मावष्टब्धदेहः प्राक्संस्कारवशात्प्रत्युपस्थितैर्गुणैर्दृष्टिसमसमयां सृष्टिं पश्यन् योगैश्वर्येणाणिमादिना वा निर्विकल्पध्यानेन वा वर्तयतीत्युक्तम् । प्रारब्धकर्मसमाप्तौ तु किं गुणाः घटवन्निवर्तन्त उत्त रज्जूरगवद्बाध्यन्ते इति मीमांसते - प्रध्वस्ता इति द्वाभ्याम् । तत्र कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति योगाः । प्रधानं त्रिगुणात्मकं विदेहं कैवल्यभाजं प्रतिनष्टं ध्वस्तमपि अनष्टम् अध्वस्तं यतोऽन्यसाधारणम् । निरन्वयनाशे इदानीन्तनानां संसारोपलम्भो न स्यात् । न च कश्चिन्मुक्त एव नास्तीति वक्तुं शक्यम् । इदानीन्तनानामपि मुक्तावनाश्वासप्रसंगादित्याहुस्तदनुवदति - प्रध्वस्ता न निवर्तन्त इति । प्रध्वस्ता अपि गुणाः न निवर्तन्ते इति तदेतद्दूषयति - निवृत्तिः प्रत्यक्षेण नोपलभ्यत इति । अयं भावः - सतः पदार्थस्यादर्शनं सान्निध्याभावाद्वा दृष्टिलोपाद्वा लोकेऽवगतम् । तत्र नाद्यः । प्रधानस्य विभुत्वात् । नान्त्यः । पुरुषस्यालुप्तदृष्टित्वात् । तथा च 'ज्ञानादेव तु कैवल्यम्' इति ज्ञाननिवर्त्यत्वश्रुत्यन्यथानुपपत्त्या रज्जूरगवत्प्रधानस्य बुद्धाबुद्धदृष्टिभेदेन नष्टत्वानष्टत्वे बोद्ध्ये न तु घटवत्सत्यत्वपक्षे तद्युज्यते प्रत्यक्षविरोधादिति भावः । परोक्षं तदनुमानेन सिद्ध्यति । अनुभवानारूढं तत् प्रधानस्य सत्यस्यापि दृष्टिभेदेन नाशानाशवचनं किं तु केवलानुमानेन बन्धमोक्षव्यवस्थान्यथानुपपत्त्या प्रधानस्य प्रत्यक्षादिप्रमाणसिद्धप्रपञ्चकारणस्य नित्यानुमेयस्य सर्वप्रमाणविरोधापातान्मिथ्यात्वमपि नाध्यवसातुं शक्यमतोऽगत्या कृतार्थं प्रति नष्टमनष्टं तदित्युपेयमिति । यद्वा प्रत्यक्षं श्रुतिः प्रामाण्यं प्रति निरपेक्षत्वात् । अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् । तथा च 'नेह नानास्ति किञ्चन' इति प्रपञ्चस्य बाधः प्रत्यक्षसिद्धः । नष्टमप्यनष्टमिति ध्वंसपक्षः स्मृतिसिद्धः - 'तेन विरोधे त्वनपेक्षं स्यात्' इति न्यायेन ध्वंसस्मृतिरप्रमाणमिति भावः ॥५०॥
एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे
।
उभयं सम्प्रधार्यैतद्व्यवस्येत यथामति ॥५१॥
एवमेके नानाजीववादिनो व्यवहारानुरोधात् व्यवस्यन्ति निश्चिन्वन्ति । अपरे एकजीववादिनो निवृत्तिरेव स्वाज्ञानकृतः प्रपञ्चस्तन्नाशे कारस्यैन निवर्तते । न हि चैत्रेण स्वप्ने दृष्टो गजश्चैत्रप्रबोधेन बाधितोऽपि मैत्रदृष्ट्या रज्जूरगवदस्तीति शक्यं वक्तुम् । किंतु निरन्वयनाश एव तस्येत्यपि केचिद्व्यवस्यन्ति । एवमेतदुभयं दर्शितम् । तन्मध्येऽन्यतरन्मतं संप्रधार्य सम्यक् शास्त्रान्निश्चित्य यथामति व्यवस्येत ध्यानेन साक्षात्कुर्यात् ॥५१॥
इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्
।
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥५२॥
हृदयग्रन्थिम् अन्योन्याध्यासम् । तप्तायःपिण्डवत् बुद्धिक्षेत्रज्ञयोः एकलोलीभावम् । तथाहि क्षेत्रज्ञे बुद्धिधर्माः दुःखादयः बुद्धौ च क्षेत्रज्ञधर्माः सत्त्वचित्तत्वादयो दृश्यन्ते । बुद्धिकृतो यो भेदस्तन्मयं तत्प्रधानं तं विमुच्य सत्त्वपुरुषयोः पृथक्त्वज्ञानेन त्यक्त्वा । तथा च श्रुतिः - 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः' इति ॥५२॥
मलिनाः प्राप्नुयुः सिद्धिं यथा पूर्णां नदीं नराः
।
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा ॥५३॥
नदीमिव इदं ज्ञानमवगाह्य मलिनाः शुद्धिं प्राप्नुयुः । इति विद्धि । यथोक्तं - 'न हि ज्ञानेन सदृशं पतवित्रमिह विद्यते' इति ॥५३॥
महानद्या हि पारज्ञस्तप्यते न तदन्यथा
।
न तु तुप्यति तत्त्वज्ञः फले ज्ञाते तरत्युत ॥५४॥
महेति । न हि परदर्शनमात्रात्कृतकृत्यता किं तु नौकादिना पारप्राप्त्यैव फलमात्मनि तु ज्ञानमात्रादेव न पुनरनुष्ठानान्तरापेक्षेति भावः ॥५४॥
एवं ये विदुराध्यात्मं केवलं ज्ञानमुत्तमम् ॥५५॥
उपसंहरति - एवमित्यर्धेन अध्यात्मम् आत्मनि हृदयाकाशे । केवलं निर्विषयम् । कैवल्यमिति पाठे स्वार्थे ष्यञ् ते ज्ञानं लभन्त इति शेषः ॥५५॥
एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
।
अवेक्ष्य च शनैर्बुद्ध्या लभते शमनं ततः ॥५६॥
एतामिति । स्त्रीत्वं विधेयलिङ्गापेक्षया । इदमेव ज्ञानम् । सर्वप्रत्यग्भूतं भूतानां लयोदयस्थानम् इति शास्त्रतो बुद्ध्या ध्यानेन सूक्ष्मया बुद्ध्या चावेक्ष्य । शं सुखम् अनन्ततः अनन्तम् । शममन्त इति पाठः स्पष्टार्थः ॥५६॥
त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति
।
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥५७॥
शमं को लभत इत्यत आह - त्रिवर्ग इति । विदितः क्षयिष्णुत्वेन ज्ञातः । प्रेक्ष्य यत्कृतकं तदनित्यं कार्यत्वात् । घटवदित्यनुमानोपगृहीतया । 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इति श्रुत्या धर्मफलस्य प्रत्यक्षेणैवार्थकामसुखयोश्चानित्यत्वं निश्चित्य विमुञ्चति । तं त्यजति । संन्यस्यतीत्यर्थः । अन्विष्य श्रवणमननाभ्यां निश्चित्य युक्तो ध्यानशीलः । निरुत्सुकः आत्मदर्शनेनैव सर्वकामावाप्तेरन्यत्रास्थाशून्यः ॥५७॥
न चात्मा शक्यते द्रष्टुमिन्द्रियैश्च विभागशः
।
तत्र तत्र विसृष्टैश्च दुर्वार्यैश्चाकृतात्मभिः ॥५८॥
न चेति । तत्र तत्र रूपादौ । अकृत्स्नो हि सः इति श्रुतेः । इन्द्रियैर्वस्तुत आत्मैव गृह्यते परं तु पृथक्त्वेन दर्पणेनेव मुखम् । अतः अभेदस्य भेदग्रहेण तिरोधानादकृतार्थता नाशहेतुता च तेषामिति तानि निरोद्धव्यान्येवेति भावः ॥५८॥
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥५९॥
इतोऽपेक्षयाऽधिकं ज्ञातव्यं नास्तीत्याह - एतदिति ॥५९॥
न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत्
।
न हि गतिरधिकास्ति कस्यचित् सति हि गुणे प्रवदन्त्यतुल्यताम् ॥६०॥
ज्ञानफलं दृष्टादृष्टभयनिवृत्तिकमाह - न भवतीति द्वाभ्याम् । भयं संसारदुःखं यतः यस्माद्धेतोः रज्जूरगादिवत् द्वैतादविदुषां महद्भयं तत एव बाधितात् विदुषां भयं न भवति । हि यस्मात् । अज्ञानसंसर्गावेव बन्धमोक्षौ अतः सर्वेषां गतिः मुक्तिः स्वरूपात्मिका तुल्यैव । हि यतः गुणे आधेये अपनेये वा सति गुणानाम् आधानापकर्षतारतम्यादतुल्यतां प्रवदन्ति न तु निर्गुणे इत्यर्थः ॥६०॥
यः करोत्यनभिसन्धिपूर्वकं तच्च निर्गुदति यत्पुराकृतम्
।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः ॥६१॥
य इति । निष्कामं कर्म प्राचीनदोषापहमिति पूर्वार्धार्थः । तदुभयं प्राचीनमैहिकं च कर्म तस्य विदुषः कुर्वतोऽपि नाप्रियं बन्धं जनयति । 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवेहास्य सर्वे पाप्मानः प्रदूयन्ते । तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते' इति तयोर्दाहाश्लेषश्रवणात्कुतः प्रियमिति । मोक्षं प्रति तु कर्मणः कारणत्वं दूरनिरस्तभिति भावः । 'नास्त्यकृतः कृतेन' इति श्रुतेः । अकृतः मोक्षः कृतेन कर्मणा ॥६१॥
लोकमातुरमसूयते जनस्तस्य तज्जनयतीह सर्वतः ॥६२॥
अज्ञानफलं दृष्टादृष्टमुभयमित्याह अर्धेन - लोकमिति । आतुरं कामक्रोधादिव्यसनैर्जर्जरीकृतं लोकं जनः परीक्षकोऽसूयते धिक्करोति तस्य कर्मणि षष्टी । तम् आतुरं तत् निन्द्यं कर्म सर्वतः सर्वासु योनिषु इहलोके जनयति जन्म ददाति । आतुरो जीवन्निनन्द्यते मृतश्च तिर्यक्षु जायत इत्यर्थः ॥६२॥
लोक आतुरजनान्निरावशंस्तत्तदेव बहु पश्य शोचतः
।
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सताम् ॥६३॥
तस्माल्लोकतत्त्वमालोच्य यद्धितं तत्कर्तव्यमित्याह - लोक इति । लोके निराविशन् सम्यगभिनिवेशं कुर्वन् । आतुरान् पश्य कीदृशान् तत्तदेव नष्टं नष्टं पुत्रदारादिकं शोचतः हा कष्टमितीष्टं शोचमानान् । तथा तत्रैव पुत्रादिनाशविषये कुशलान् सारासारविवेकनिपुणान् अशोचतः शोकहीनान् पश्य । उभयं क्रममुक्तिं सद्योमुक्तिं च सताम् उपासकानां ज्ञानिनां च पदं पदनीयम् ॥६३॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अध्यात्मकथने चतुर्नवत्यधिकशततमोऽध्यायः॥१९४॥
युधिष्ठिर उवाच।
कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च
।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥१॥
आख्यायिकामुखेन जापकस्य वश्या यमादयो भवन्ति स च स्वं परं च तारयति तेन च सत्यादिकं रक्षणीयं दम्भादिकं च त्याज्यमिति निरूपयति अध्यायद्वयेन - कालेत्यादिना । आयुःपरिच्छेदिका देवता कालः । प्राणवियोजिका मृत्युः पुण्यापुण्यफलदायिका यमः तत् तम् ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
इक्ष्वाकोः सूर्यपुत्रस्य तद्वृत्तं ब्राह्मणस्य च ॥२॥
सूर्यपुत्रस्य यमस्य ॥२॥
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे
।
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ॥३॥
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः
।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥४॥
जापकः मन्त्राध्ययनपरः षडङ्गानि शिक्षादीनि हृदयादीनि वा वेत्तीति षडङ्गवित् ॥४॥
तस्यापरोक्षं विज्ञानं षडङ्गेषु बभूव ह
।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥५॥
अपरोक्षं तत्त्वदर्शनात्मकम् ॥५॥
सोद्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन्
।
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥६॥
सोद्यं वादोऽर्थज्ञानं भासनोपसंभाषेतिसूत्रे वदेर्ज्ञानार्थत्वानुवादात् तेन सह सोद्यं वदः सुपि क्यप् चेति क्यप् यजादित्वात्संप्रसारणम् । ब्राह्मं ब्राह्मणयोग्यम् । तपः स्वधर्मानुष्ठानम् । सोऽन्त्यमिति पाठेन्त्यम् उत्तमम् ॥६॥
स देव्या दर्शितः साक्षात् प्रीताऽस्मीति तदा किल
।
जष्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत् ॥७॥
देव्या सावित्र्या दर्शितः दर्शनदानेनानुगृहीतः ॥७॥
तस्यानुकम्पया देवी प्रीता समभवत्तदा
।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥८॥
समाप्तजप्यस्तूत्त्थाय शिरसा पादयोस्तदा
।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥९॥
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम
।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः ॥१०॥
सावित्र्युवाच ।
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥११॥
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्
।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥१२॥
मनसश्च समाधिर्मे वर्धेताहरहः शुभे
।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥१३॥
समाधिः नियमः ॥१३॥
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः ॥१४॥
निरयं स्वर्गं क्षयिणं याता यास्यसि याताः गताः ॥१४॥
यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्
।
साधये भविता चैतद्यत्त्वयाऽहमिहार्थिता ॥१५॥
अनिमित्तम् अजन्यं यत् जप्ये मे रमतां मन इति ॥१५॥
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति
।
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ॥१६॥
जप जपं कुरु तेन कालादीनां तव भयं नास्तीत्यर्थः ॥१६॥
भविता च विवादोऽत्र तव तेषां च धर्मतः
।
भीष्म उवाच।
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ॥१७॥
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा
।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः ॥१८॥
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः
।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥१९॥
दर्शयामास द्विजाय आत्मानं दर्शितवान् ॥१९॥
धर्म उवाच ।
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः
।
जप्यस्यास्य फलं यत्तत्सम्प्राप्तं तच्च मे शृणु ॥२०॥
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः
।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि ॥२१॥
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्
।
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि ॥२२॥
ब्राह्मण उवाच।
किं नु लोकैर्हि मे धर्म गच्छ त्वं च यथासुखम्
।
बहुदुःखसुखं देहं नोत्सृजेयमहं विभो ॥२३॥
किंत्विति । त्यक्त्वाऽऽत्मनः शरीरमित्यनुषज्यते । अवते शब्दं करोतीत्युत् उङ्शब्दे जापकोऽहं बहुना दुःखेन मिश्रं सुखं यत्र तं देहं देहान्तरं न सृजेयं किं तु अनेनैव देहेन मुक्तः स्यामित्यर्थः । तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित इति श्रौतनिर्वचनात् उत् सर्वपापहीनोऽहं देहं न सृजेयमिति वा । कैवल्याधिकारित्वान्ममेति भावः ॥२३॥
धर्म उवाच ।
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव
।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ ॥२४॥
ब्राह्मण उवाच।
न रोचये स्वर्गवासं विना देहमहं विभो
।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना ॥२५॥
अदेहम् अशरीरमात्मानं विना तं परित्यज्य अनात्मसुखे मम रुचिः श्रद्धा वा नास्तीत्यहमिदं शरीरं न त्यक्ष्यामीत्यर्थः ॥२५॥
धर्म उवाच ।
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥२६॥
कृत्वाऽलं मा कुर्वित्यर्थः । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वेति कृञः क्त्वा ॥२६॥
ब्राह्मण उवाच।
रमे जपन् महाभाग किं नु लोकैः सनातनैः
।
सशरीरेण गन्तव्यं मया स्वर्गं न वा विभो ॥२७॥
नवेति । देहेनापि सह स्वर्गतिरल्पैव जपफलादिति भावः ॥२७॥
धर्म उवाच ।
यदि त्वं नेच्छसे त्यक्तुं शरीरं पश्य वै द्विज
।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥२८॥
भीष्म उवाच।
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो
।
ब्राह्मणं तं महाभागमुपगम्येदमब्रुवन् ॥२९॥
यम उवाच ।
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च
।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥३०॥
काल उवाच ।
यथावदस्य जप्यस्य फलं प्राप्तमनुत्तमम्
।
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥३१॥
मृत्युरुवाच ।
मृत्यु मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम्
।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै ॥३२॥
ब्राह्मण उवाच।
स्वागतं सूर्यपुत्राय कालाय च महात्मने
।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥३३॥
भीष्म उवाच।
अयं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे
।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥३४॥
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः
।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥३५॥
सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च
।
कुशलप्रशनमकरोत्सर्वेषां राजसत्तमः ॥३६॥
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च
।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥३७॥
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि
।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम् ॥३८॥
राजोवाच ।
राजाऽहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः
।
ददानि वसु किंचित्ते प्रथितं तद्वदस्व मे ॥३९॥
जापकस्यामुष्मिकमुखे निःस्पृहत्वं प्रदर्श्य ऐहिकसुखेऽपि निःस्पृहत्वमाख्यायिकयैव ज्ञापयति -राजाऽहमिति । प्रथितं स्वर्णरत्नादि वदस्व आज्ञापय यजनयाजने अध्ययनाध्यापने दानप्रतिग्रहौ चेति षट्कर्माणि । तेषां मध्ये प्रतिग्रहस्यान्तर्भावादित्याशयः ॥३९॥
ब्राह्मण उवाच।
द्विविधा ब्राह्मणा राजन् धर्मश्च द्विविधः स्मृतः
।
प्रवृत्ताश्च निवृत्ताश्च निवृत्तोऽहं प्रतिग्रहात् ॥४०॥
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
।
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते
।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥४१॥
राजोवाच ।
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्
।
प्रयच्छ युद्धमित्येवंवादिनः स्मो द्विजोत्तम ॥४२॥
ब्राह्मण उवाच।
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप
।
अन्योन्यस्यान्तरं नास्ति यदिष्टं तत् समाचर ॥४३॥
राजोवाच ।
स्वशक्त्याहं ददानीति त्वया पूर्वमुदाहृतम्
।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥४४॥
ब्राह्मण उवाच।
युद्धं मम सदा वाणी याचतीति विकत्थसे
।
न च युद्धं मया साधु किमर्थं याचसे पुनः ॥४५॥
राजोवाच ।
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥४६॥
ब्राह्मण उवाच।
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
।
ब्रूहि दास्यामि राजेन्द्र विभवे सति मा चिरम् ॥४७॥
राजोवाच ।
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया
।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान् यदि ॥४८॥
ब्राह्मण उवाच।
परमं गृह्यतां तस्य फलं यज्जपितं मया
।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि ॥४९॥
अथवा सर्वमेवेह मामकं जापकं फलम्
।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥५०॥
राजोवाच ।
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया
।
स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद ॥५१॥
कृतम् अलं सर्वेण जपफलेन ॥५१॥
ब्राह्मण उवाच।
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया
।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥५२॥
यज्जपितं जप्यं तस्येति शेषः ॥५२॥
राजोवाच ।
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति
।
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम्
।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥५३॥
ब्राह्मण उवाच।
नाददेऽपरवक्तव्यं दत्तं चास्य फलं मया
।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि ॥५४॥
अपरवक्तव्यं वाक्यान्तरं नाददे नाङ्गीकुर्वे ॥५४॥
नाभिसन्धिर्मया जप्ये कृतपूर्वः कदाचन
।
जष्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम् ॥५५॥
अभिसन्धिः कामः निष्कामस्य जपस्यानन्तं फलमिति भावः ॥५५॥
ददस्वेति त्वया चोक्तं ददानीति मया तथा
।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥५६॥
दूषयिष्यामि अन्यथा करिष्यामि ॥५६॥
अथैवं वदतो मेऽद्य वचनं न करिष्यसि
।
महानधर्मो भविता तव राजन्मृषा कृतः ॥५७॥
न युक्तं तु मृषा वाणी त्वया वक्तुमरिन्दम्
।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते ॥५८॥
संश्रुतं च मया पूर्वं ददानीत्यविचारितम्
।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥५९॥
इहागम्य हि मां राजन् जाप्यं फलमयाचथाः
।
तन्मे निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ॥६०॥
मे मया निसृष्टं दत्तम् ॥६०॥
नायं लोकोऽस्ति न परो न च पूर्वान् स तारयेत्
।
कुत एव जनिष्यांस्तु मृषावादपरायणः ॥६१॥
न यज्ञफलदानानि नियमास्तारयन्ति हि
।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥६२॥
तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः
।
शतैः शतसहस्रैश्च तैः सत्यान्न विशिष्यते ॥६३॥
न विशिष्यते न विशेषः क्रियते ॥६३॥
सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः
।
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥६४॥
एकः अतुल्यः अक्षरः अविनाशी ॥६४॥
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
।
सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥६५॥
सत्यं वेदास्तथाङ्गानि सत्यं विद्यास्तथा विधिः
।
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥६६॥
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च
।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥६७॥
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः
।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥६८॥
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम्
।
समकक्षां तुलयतो यतः सत्यं ततोऽधिकम् ॥६९॥
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते
।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥७०॥
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः
।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥७१॥
देहीति उक्त्वेति शेषः ॥७१॥
यदि जप्यफलं दत्तं मया नैषिष्यसे नृप
।
धर्मेभ्यः सम्परिभ्रष्टो लोकाननुचरिष्यसि ॥७२॥
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति
।
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ॥७३॥
राजोवाच ।
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥७४॥
ब्राह्मण उवाच।
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम्
।
इहाऽऽगम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥७५॥
न च्छन्दयामि प्रतिगृह्णीष्वेति न प्रार्थितवानस्मि ॥७५॥
धर्म उवाच ।
अविवादोऽस्तु युवयोर्वित्त मां धर्ममागतम्
।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥७६॥
अविवाद इति । राहूपरागादौ प्रतिग्रहमनिच्छति ब्राह्मणे यत्प्रकारान्तरेण दानं तद्दातुः फलावहं प्रतिग्रहीतुश्च न दोषकरमिति भावः । तथा च स्मृतिः -
’मनसा पात्रमुद्दिश्य जलमध्ये जलं क्षिपेत्
।
दाता तत्फलमाप्नोति प्रतिग्राही न दोषभाक्॥’
इति ॥७६॥
स्वर्ग उवाच ।
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्
।
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥७७॥
स्वर्गमिति । पुण्यस्य दानेन पुण्यं वर्धते न तु धनमिव दानेन हीयत इत्यर्थः ॥७७॥
राजोवाच ।
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्गं यथागतम्
।
विप्रो यदीच्छते गन्तुं चीर्णं गृह्णातु मे फलम् ॥७८॥
ब्राह्मण उवाच।
बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः
।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन् ॥७९॥
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम्
।
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥८०॥
राजोवाच ।
यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम्
।
आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ॥८१॥
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
।
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥८२॥
मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि
।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥८३॥
भीष्म उवाच।
ततो विकृतवेषौ द्वौ पुरुषौ समुपस्थितौ
।
गृहीत्वाऽन्योन्यमावेष्ट्य कुचैलावूचतुर्वचः ॥८४॥
द्वौ पुरुषौ कामक्रोधौ ॥८४॥
न मे धारयसीत्येको धारयामीति चापरः
।
इहास्ति नौ विवादोऽयमयं राजानुशासकः ॥८५॥
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्
।
अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ॥८६॥
तावुभौ सुभृशं तप्तौ राजानमिदमूचतुः
।
परीक्ष्य त्वं यथा स्यावो नावामिह विगर्हितौ ॥८७॥
विरूप उवाच ।
धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
।
ददतश्च न गृह्णाति विकृतो मे महीपते ॥८८॥
प्रार्थना हि राज्ञोऽननुरूपेति तस्य कामो विकृतसंज्ञः । शान्तिस्वभावस्यापि जापकस्य याचित्वाऽपि दीयमानं न गृह्णातीति राजानं प्रति यः क्रोधः स विरूपसंज्ञः । गोः फलं वाचं धेनुमुपासीतेति श्रुतेर्धेनुसरूपाया वाचः जपस्य फलमित्यर्थः ॥८८॥
विकृत उवाच ।
न मे धारयते किञ्चिद्विरूपोऽयं नराधिप
।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप ॥८९॥
राजोवाच ।
विरूप किं धारयते भवानस्य ब्रवीतु मे
।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः ॥९०॥
विरूप उवाच ।
शृणुष्वावहितो राजन् यथैतद्धारयाम्यहम्
।
विकृतस्यास्य राजर्षे निखिलेन नराधिप ॥९१॥
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ
।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥९२॥
धेनुर्वाक् विप्राय परमेश्वराय धर्मप्राप्त्यर्थं न तु स्वार्थम् ॥९२॥
तस्याश्चायं मया राजन् फलमभ्येत्य याचितः
।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥९३॥
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये
।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने ॥९४॥
ततो मे मया पशुद्वयदानेन मया जपयज्ञफलं प्राप्तम् इदानीमस्मात्तदहं नेच्छामीत्यर्थः ॥९४॥
ते चोञ्च्छवृत्तये राजन्मया समपवर्जिते
।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥९५॥
इहाद्यैव गृहीत्वा तु प्रयच्छेद्विगुणं फलम्
।
एवं स्यात्पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ॥९६॥
इहेति । प्रतिगृह्यापि पुनः प्रतिदानं करिष्यामीत्यर्थः ॥९६॥
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप
।
कुरु धर्ममधर्मं वा विनये नौ समादध ॥९७॥
यदि नेच्छति मे दानं यथा दत्तमनेन वै
।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ ॥९८॥
राजोवाच ।
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै
।
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व मा चिरम् ॥९९॥
विकृत उवाच ।
धारयामीत्यनेनोक्तं ददानीति तथा मया
।
नायं मे धारयत्यद्य गच्छतां यन वाञ्छति ॥१००॥
धारयामीति । अप्रतिग्रहेणैवाहमेतमनृणं करोमीत्यर्थ ॥१००॥
राजोवाच ।
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे
।
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥१०१॥
विकृत उवाच ।
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः
।
काममत्रापराधो मे दण्डमाज्ञापय प्रभो ॥१०२॥
विरूप उवाच ।
दीयमानं यदि मया नेषिष्यसि कथञ्चन
।
नियंस्यति त्वां नृपतिरयं धर्मानुशासकः ॥१०३॥
विकृत उवाच ।
स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्
।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥१०४॥
ब्राह्मण उवाच।
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः
।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥१०५॥
राजोवाच ।
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा
।
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥१०६॥
यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्
।
कथं न लिप्येयमहं पापेन महताऽद्य वै ॥१०७॥
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः
।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥१०८॥
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः
।
विप्रधर्मश्च गहनो मामनात्मानमाविशत् ॥१०९॥
ब्राह्मण उवाच।
गृहाण धारयेऽहं च याचितं संश्रुतं मया
।
न चेद्ग्रहीष्यसे राजन् शपिष्ये त्वां न संशयः ॥११०॥
राजोवाच ।
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥१११॥
एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः
।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥११२॥
निक्षेपार्थं प्रतिगृह्य प्रदानार्थम् ॥११२॥
ब्राह्मण उवाच।
संहितां जपता यावान् गुणः कश्चित्कृतो मया
।
तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ॥११३॥
राजोवाच ।
जलमेतन्निपतितं मम पाणौ द्विजोत्तम
।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥११४॥
समं दानस्य प्रतिदानेन तुल्यमस्तु सहैवेति तवैव तुभ्यं मया प्रतिदत्तमित्यर्थः ॥११४॥
विरूप उवाच ।
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्
।
सहेति च यदुक्तं ते समा लोकास्तवास्य च ॥११५॥
कामक्रोधाविति । अत्र प्रतिग्रहीतुरनधिकारित्वाद्दातुर्दानसममेव पुण्यम् । अन्यथा पुण्यप्रदानेन बहुगुणा पुण्यवृद्धिरेव स्यादिति भावः । कारितः प्रवर्तितः त्वंपदार्थः राजाऽत्र संबोध्यः ॥११५॥
नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता
।
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥११६॥
नायमिति । आख्यायिकातात्पर्यमाह - त्वकृते राज्ञो बोधार्थम् ॥११६॥
सर्वमन्योन्यनिष्कर्षे निघृष्टं पश्यतस्तव
।
गच्छ लोकान् जितान् स्वेन कर्मणा यत्र वाञ्च्छसि ॥११७॥
निघृष्टं परीक्षितम् ॥११७॥
भीष्म उवाच।
जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता
।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥११८॥
जापकानामिति । गतिर्मुक्तिः स्थानं ब्रह्मलोकः लोकाः सूर्यादिस्थानानि एते यथा जितास्तथा कीर्तयिष्ये इति शेषः ॥११८॥
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा ॥११९॥
तेषु स्थानमाह - प्रयातीति । विरक्तस्य फलमुक्त्वा रागिणां लोकानाह - अथवेति । अग्निम् अग्मिलोकम् एवमुत्तरत्र ॥११९॥
स तैजसेन भावेन यदि तत्र रमत्युत
।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः ॥१२०॥
तैजसेन तेजोमयेन स्वप्नरूपेण ॥१२०॥
एवं सोमे तथा वायौ भूम्याकाशशरीरगः
।
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥१२१॥
भूमिशरीरे घनेऽपि गच्छति तथा आकाशशरीरे निरालम्बेऽपि गच्छति तेषां सूर्यादिलोकपालानां गुणान् प्रकाशकत्वादीन् ॥१२१॥
अथ तत्र विरागी स गच्छति त्वथ संशयम्
।
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥१२२॥
अथेति । तत्राग्न्यादौ तमेवं परमेष्ठिनमेव परमुत्कृष्टम् अव्ययं मोक्षं क्रमतः इच्छन् ॥१२२॥
अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान्
।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः ॥१२३॥
अमृतात् परमेष्ठिभावात् आपेक्षिकामृतात् अमृतं कैवल्याख्यं मुख्यामृतम् । शान्तीभूतः निष्कामः । निरात्मवान् आत्मा बुद्धिस्तद्वान् अहंकारस्तद्वर्जितः । अत एव ब्रह्मभूतः निर्द्वन्द्वः सुखदुःखाद्यतीतः । निरामयः द्वैतदर्शनहीनः ॥१२३॥
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्
।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥१२४॥
ब्रह्मैव स्थानं ब्रह्मस्थानम् अनावर्तम् आवृत्तिशून्यम् ॥१२४॥
चतुर्भिर्लक्षणीनं तथा षड्भिः सषोडशैः
।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते ॥१२५॥
जापकानां पार्यन्तिकफलमाह - चतुर्भिरिति । चतुर्भिः प्रत्यक्षागमानुमानचेतोभिः लक्षणैः लक्ष्यतेऽनेनेति व्युत्पत्त्या ज्ञापकैर्हीनं रूपगुणसम्बन्धजडत्वादिभिः पूर्वोक्तैर्विरहितम् अत एव षड्भिरूर्मिभिः अशनापिपासाभ्यां प्राणधर्माभ्या शोकमोहाभ्यां चित्तधर्माभ्यां जरामृत्युभ्यां देहधर्माभ्यां च हीनं च तदन्यत्वात् अत एव प्राणाद्यात्मकषोडशकगणेनैव तेऽशनादयः सहितास्तैः प्राणाद्याश्च प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोकेषु नाम चेति श्रुत्युक्ताः । आकाशं कारणं ब्रह्मातिक्रम्य पुरुषमनुपाधिचिन्मात्रं प्रतिपद्यत इति सम्बन्धः ॥१२५॥
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति
।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥१२६॥
नेच्छति । पुरुषप्राप्तिमिति शेषः । सर्वं सर्वात्मकं तत् आकाशाख्यं कारणम् अधितिष्ठति तदभिमानी भवति यच्चेत्यनेन 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादिश्रुतेरर्थः सत्यकामः सत्यसंकल्पश्च विद्वानिति दर्शितम् ॥१२६॥
अथवा चेक्षते लोकान्सर्वान्निरयसंज्ञितान्
।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम् ॥१२७॥
अथवेति । परवैराग्यवतः सर्वलोकत्यागोऽपि भवतीत्याह - तत्र निर्गुणे ॥१२७॥
एवमेषा महाराज जापकस्य गतिर्यथा
।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥१२८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि जापकोपाख्याने नवनवत्यधिकशततमोऽध्यायः ॥१९९॥
मनुरुवाच ।
यदा तैः पञ्चभिः पञ्च युक्तानि मनसा सह
।
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम् ॥१॥
धर्मादुत्कृष्यते श्रेय इत्युक्तं व्याकुर्वन्नुक्तमर्थमुपसंहरति यदा तैः पञ्चभिः पञ्चेत्यादिनाऽध्यायेन । पञ्चभिः शब्दादिभिः स्वविषयैः सह पञ्चेन्द्रियाणि मनसा कारणेनापि सह युक्तानि निगृहीतानि । मनसेत्यत्रैव बुद्धेरपि ग्रहणम् । श्रुतिश्च-
'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह
।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्
।
'
इति। आत्मानात्मनोरत्यन्तविविक्तत्वं मणिसूत्रदृष्टान्तेनोक्तम् ॥१॥
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः
।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥२॥
ऐकात्म्यसिद्ध्यर्थमनेनैव दृष्टान्तेन सर्वत्रात्मव्याप्तिमाह - तदेवेति ॥२॥
तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु
।
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥३॥
प्रसक्तात्मा आसक्तचित्तः आसंगहेतुमाह - स्वकर्मभिरिति ॥३॥
येन येन शरीरेण यद्यत्कर्म करोत्ययम्
।
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥४॥
येन येन पित्र्येण दैवेन गान्धर्वेण प्राजापत्येन वा प्राप्येण हेतुभूतेन यस्य यस्य देहस्य प्राप्त्यर्थमित्यर्थः । यद्यत्कर्म यज्ञादिकम् ॥४॥
यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी
।
तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी ॥५॥
कर्मभेदाद्देहविशेषयोगे दृष्टान्तमाह- यथेति। अन्तरात्मा अनुदर्शी साक्षी यस्याः सा तथा साक्षिप्रकाश्यापि प्राक्कर्मानुसारिण्येव बुद्धिर्भवतीत्यर्थः ॥५॥
ज्ञानपूर्वा भवेल्लिप्सा लिप्सापूर्वाऽभिसंधिता
।
अभिसधिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥६॥
ज्ञानपूर्वा बुद्धिपूर्वा लिप्सा रागः ततोऽभिसन्धिता अभिसन्धिमत्त्वम् अभिसन्धिरिति यावत् स च इदं साधयेयमिति यत्नः ततः कर्मस्पन्दः ततः फलावाप्तिः ॥६॥
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा
।
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥७॥
फलमिति । अनेन क्रमेण तत्तद्देहप्राप्त्यादिरूपं फलं कर्मात्मकं कर्मप्रभवम् । कर्म तु ज्ञेयात्मकम् अहमर्थोद्भवम् अहमर्थोऽपि ज्ञानात्मा जीवरूपः सोऽपि सदसदात्मा चिज्जडरूपः ॥७॥
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा
।
क्षयान्ते यत्फलं विद्याज्ञानं ज्ञेयप्रतिष्ठितम् ॥८॥
ज्ञानानां चिज्जडग्रन्थीनां फलानां देहानां ज्ञेयानां बुद्धीनां कर्मणां सञ्चितानां च क्षयान्ते यत्फलमिव फलम् आत्मतत्त्वप्रकाशः विद्यया ब्रह्माकारचरमान्तःकरणवृत्त्या ज्ञानं साक्षात्कारो यस्य तद्विद्याज्ञानम् । दिव्यज्ञानमिति पाठे दिवि हार्दाकाशाख्ये कारणे ब्रह्मणि भवं दिव्यं ज्ञेयवस्तुनि प्रतिष्ठितं ज्ञानम् ॥८॥
महद्धि परमं भूतं यत्प्रपश्यन्ति योगिनः
।
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः ॥९॥
ज्ञेयस्वरूपमाह - महदिति । महत् त्रिविधपरिच्छेदशून्यम् अत एव परमं मा बुद्धिः सा परा दूरे भूता यस्मात्तत् । भूतं नित्यसिद्धम् आत्मस्थं बुद्धिस्थं गुणेषु विषयेषु बुद्धिर्येषाम् ॥९॥
पृथिवीरूपतो रूपमपामिह महत्तरम्
।
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥१०॥
महत्त्वं व्याचष्टे - पृथिवीति त्रिभिः ॥१०॥
पवनाच्च महद्व्योम तस्मात्परतरं मनः
।
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥११॥
कालः अव्यक्ताख्यं जगत्कारणम् ॥११॥
कालात्स भगवान् विष्णुर्यस्य सर्वमिदं जगत्
।
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥१२॥
विष्णुः शुद्धं ब्रह्म ॥१२॥
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः
।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥१३॥
महत्त्वहेतुकं परमत्वं व्याचष्टे - अनादित्वादिति द्वाभ्याम् । अव्ययः अपक्षयशून्यः । अन्तवत् ज्ञातृज्ञेयविभागवत् । यत्रान्यत्पश्यत्यन्यच्छृणोति तदल्पम् । अथ यदल्पं तन्मर्त्यं तद्दुःखमिति तस्य दुःखत्वश्रुतेः ॥१३॥
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्
।
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥१४॥
धामेव धाम आश्रयः प्राप्यं गत्वा ज्ञात्वा कालविषयादनित्याद्दुःखात्मकात् ॥१४॥
गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम्
।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते ॥१५॥
गुणेष्विति । एते मुक्ताः शुद्धचिदात्मानः गुणेषु मानमेयव्यवहारेषु प्रकाशन्ते ज्ञानरूपेण मेयेषु वा सत्त्वेन घटः सन् पटः सन्नित्येवंरूपेण सुखात्मना वा । अत एवोक्तम् -
'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्
।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततोद्वयम्॥'
इति । ततः गुणेभ्यः परमुत्कृष्टं ब्रह्म निर्गुणत्वादेव निवृत्तिलक्षणः । शमदमोपरमादिरूपो धर्मो निर्विकल्पकः । स च ज्ञातः सन् आनन्त्याय मोक्षाय ॥१५॥
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः
।
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः ॥१६॥
ऋच इत्यध्ययनादिधर्मा लक्ष्यन्ते । शरीराणि लिङ्गशरीराणि व्यपाश्रिताः तत्संस्कारकत्वेन तद्गताः । न तु अनाधेयातिशये चिदात्मनि गताः । अत एव यत्नसाध्याः विनाशिनश्च ॥१६॥
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम्
।
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ॥१७॥
ब्रह्मणि तद्विपर्ययमाह - न चेति । शरीरमाश्रित्य सम्भव आविर्भावो यस्य तत्तादृशमपि यत्नसाध्यं न भवति धर्मवद्यतोऽनादिमध्यम् । नैकधेतिवत्समासः । ब्रह्मभावस्य साध्यत्वे निश्चितमनित्यत्वं स्यादित्यर्थः । यद्वा शरीरं लिङ्गम् आश्रयते पुण्यापुण्यरूपेणेति शरीराश्रयं शरीरात्सम्भवति तादृशं च धर्मस्वरूपं ब्रह्म तु अशरीरम् उदासीनं चेत्यर्थः ॥१७॥
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते
।
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः ॥१८॥
ऋचामिति । ब्रह्मभावस्यादिमत्वे ध्रुवं विनाश इति भावः ॥१८॥
अनादित्वादनन्तत्वात्तदन्तमथाव्ययम्
।
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम् ॥१९॥
अनादित्वादजन्यत्वात् अनन्तत्वाद्ध्वंसशून्यत्वात् अत एव अनन्तं व्यापकम् अव्ययं च व्योमवत् । द्वन्द्वानि मानापमानादीनि ॥१९॥
अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः
।
न तेन मार्त्याः पश्यन्ति येन गच्छन्ति तत्पदम् ॥२०॥
ननु अयत्नसाध्यं नित्यं चात्मसुखं चेत्किमिति तत्र सर्वे न रज्यन्त इत्याशङ्क्याह - अदृष्टत इति । अदृष्टं भाग्यं तदालम्ब्य अनुपायात् उपायाभावात् अत्रादृष्टत इति चतुर्विधाध्यात्मिकतुष्ट्युपलक्षणम् । तथा कर्मणो विषयभोगाख्यस्य प्रतिसन्धिः प्रतीपः सन्धिर्वियोगः विषयेभ्य उपरम इति यावत् । तेन पञ्चविधा बाह्या तुष्टिरुक्ता । तेन तुष्टिद्वयेन हेतुना उपायेष्वप्रवर्तमानाः पुरुषा येनोपायेन तत्पदं गच्छन्ति तन्न पश्यन्ति । तुष्टयस्तूक्ताः सांख्यसप्तत्याम् -
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः
।
बाह्या विषयोपरमात्पञ्च च तुष्टयोऽभिहिताः ॥
इति । अस्यार्थः- शास्त्रात् प्रकृतिपुरुषयोर्विवेको ज्ञातस्तत्साक्षात्कारस्तु वृत्तिरूपः प्रकृतेः परिणामः स च स्वयमेव परिणामक्रमेण भविष्यति किं ध्यानायासेनेति प्रकृत्याख्या तुष्टिरम्भ इत्युच्यते । एतावतापि न कृतकृत्यता सर्वस्याप्यनायासेन विवेकख्यात्यापत्तेरनर्थकः प्रव्रज्याविधिः स्यादतस्तन्मात्रेण कृतकृत्यता किं ध्यानेनेत्युपादानाख्या तुष्टिः सलिलमित्युच्यते । प्रब्रज्यापि कालविशेषापेक्षैव कैवल्यहेतुरित्यलमुत्तप्ततयेति तूष्णीमवस्थानं कालाख्यतुष्टिरोध इत्युच्यते । कालोऽपि पूर्वपुण्यबशादेव विवेकसाक्षात्कारं मदालसापत्यानां बालानामिव जनयिष्यतीति किं ध्यानायासेनेति तुष्टिर्भाग्याख्या वृष्टिशब्देनोच्यते । सैवेह मुख्यत्वाददृष्टत इत्यनेन गृहीता अनयैव तत्पूर्वासां तुष्टीनामाक्षेपतो लाभादिति । विषयाः पञ्च तेषु वैराग्याण्यपि पञ्च । तत्र धनार्जने दुःखं दृष्ट्वा या उपरतिः सा पारम् । राजचोरादिना धननाशे दुःखं दृष्ट्वा या सा सुपारम् । भोगेनापि धननाशं दृष्ट्वा यद्दुःखं तज्जा उपरतिः सा पारापारम् । भोगेऽपि क्षयित्वादिदोषदर्शनाद्या उपरतिः सानुत्तमाम्भः । 'नानुपहत्य भूतानि भोगः सम्भवति' इति न्यायेन भोगे हिंसादोषदर्शनाद्या उपरतिः सा उत्तमाम्भः । एवं विषयोपरमात्पञ्च तुष्टयोऽत्र कर्मप्रतिसन्धिशब्देनोच्यन्ते । एवं नव तुष्टयः तन्मात्रेण कृतकृत्यतां मन्वानस्य उपायेष्वप्रवृत्तेरात्मदर्शनं न भवतीत्यर्थः ॥२०॥
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात्
।
मनसा चान्यदाकाङ्क्षन् परं न प्रतिपद्यते ॥२१॥
कदाचित्तुष्टिनवकं जित्वा ध्यानेन प्रवृत्तोऽपि ध्यानजसिद्धिविपर्ययादप्यात्मतत्त्वं न पश्यतीत्याह - विषयेषु चेति । तत्र प्राणिनां स्वाभाविको विषयेषु सङ्गः । विषयाश्च हार्दाकाशाख्यब्रह्मलोकगताः शाश्वताः मधुमत्यां योगभूमौ स्थितस्य योगिनः सङ्कल्पमात्रोपनताः । त इमे सत्याः कामा अनृतापिधाना देहेनोपाधिना आच्छादिताः । 'सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादिश्रुतिभ्यः । अतो हेतोरविरक्तो योगी मनसाऽन्यद्योगैश्वर्यसुखम् इच्छन् सकलकामनिर्धूननप्राप्यं परं ब्रह्म न प्रतिपद्यते न साक्षात्करोति । अत्र अन्यदित्यनेन सिद्धिविपर्ययो दर्शितः । तत्र सिद्धयः सांख्यसप्तत्युक्ताः -
'ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः
।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वौकुशस्त्रिविधः॥'
इति । अस्यार्थः - ऊहः वितर्कः । श्रुतस्यार्थस्य युक्त्या चिन्तनं मननमित्यर्थः । शब्दः शब्दजं ज्ञानं मोक्षशास्त्रस्य उपक्रमोपसंहारपर्यालोचनया तात्पर्यज्ञानम् । अध्ययनम् उपनिषद्ग्रन्थस्यावाप्तिः । आध्यात्मिकाधिभौतिकाधिदैविकभेदेन त्रिविधं दुःखं अतस्तद्विघाता अपि त्रयः । ताश्च मुख्याः सिद्धयः । तथा सुहृत्प्राप्तिः परविद्याप्रदसदाचार्यलाभः । दानं चित्तशुद्धिजन्या विवेकप्राप्तिः । दैप् शोधने इत्यस्य रूपम् । एता अष्टौ सिद्धयः । तत्र ऊहशब्दाध्ययनसुहृत्प्राप्तयः तारं सुतारं तारातारं रम्यकं चेति क्रमेण गीयन्ते । दानाद्याः चतस्रस्तु सदामुदितं प्रमोदो मुदितं मोदमाना इति च गीयन्ते । एतास्तु प्रज्ञाप्रासादसोपानभूता अपि कुयोगिनं प्राप्य विपर्यस्तफलाः स्युः तदिदमुक्तम्- 'सिद्धेः पूर्वोंकुशस्त्रिविधः सिद्धेर्मोक्षकरिण्या अङ्कुश इव निवारकस्त्रिविध एको विद्यादिः पञ्चविधो विपर्ययः । द्वितीयोऽशक्तिः सा च एकादशेन्द्रियवधाः सहबुद्धिवधैरशक्तिरुद्दिष्टेत्युक्ता वधिरत्वादय एकादशेन्द्रियवधाः । तुष्टीनां पूर्वोक्तानां सिद्धानां चानुपदोक्तानां विपर्ययात्सप्तदश बुद्धिवधाः । तत्र गोबलीवर्दन्यायेन तुष्टीः पृथक्कृत्य विपर्यया शक्तितुष्टयस्त्रिविधोङ्कुशो मनसा चान्यदाकाङ्क्षन्नित्यनेन सूचितः ॥२१॥
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः
।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥२२॥
अत्राप्यन्याकाङ्क्षायां हेतुमाह - गुणानिति । गुणान् विषयान् यत् यस्मात् तत्तस्मात् परं निर्विषयं गुणार्थिनः पुरुषाः ॥२२॥
गुणैर्यस्त्ववरैर्युक्तः कथं विद्यात्परान्गुणान्
।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम् ॥२३॥
अतिमौढ्याद्बाह्यगुणासक्तास्तु परान्योगिगम्यान्विषयान्नाप्नुवन्तीत्याह - गुणैरिति । उभयेषां तुल्यत्वेऽपि आन्तरैर्गुणैर्ब्रह्मणः स्वरूपभूतैः सत्यकामत्वादिभिः परम् उपलक्ष्यते धूमेनेवाग्निं शाखाग्रेणेव वा चन्द्रकलामित्याह - अनुमानादिति ॥२३॥
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः
।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥२४॥
अत्र स्वानुभवं प्रमाणयति - सूक्ष्मेणेति । सूक्ष्मेण ध्याननिशितेन 'दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' इति श्रुतेः । शब्दश्रोत्रगन्धघ्राणादिषु प्रकाश्यप्रकाशकयोराकाशभूम्यादिरूपैकोपादानकत्वनियमादुपादानोपादेययोश्चाभेदाद्धटादिरूपं मन एव चक्षुरादिरूपेण मनसा यथा गृह्यते एवं द्रष्टृदृश्ये अपि दर्शनमात्रोपादाने दर्शनादभिन्ने इत्यर्थः ॥२४॥
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा
।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते ॥२५॥
ईदृगभेदग्रहे हेतुमनुभवमेवाह - ज्ञानेनेति । ज्ञानं ब्रह्मात्माकारा धीवृत्तिस्तया बुद्धिं देहाद्यात्मभ्रमकलुषितां निर्मलीकृत्य सर्वसंशयहीनां कृत्वा । तथा च श्रुतिः 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति । तथा बुद्ध्या मनोऽपि सङ्कल्पात्मकं सङ्कल्प्य सङ्कल्परूपेण स्वप्नादौ स्थितमिति निश्चित्य तथा जाग्रत्कालेऽपि मनसा इन्द्रियग्रामं शब्दादिसहितं मनोमात्रमिति निश्चित्य विलोमक्रमेणाक्षरं क्षरतीतिव्युत्पत्त्या द्रष्टृदृश्ये परिणामितया विकारौ तद्भिन्नं चिन्मात्रं दर्शनं प्रतिपद्यते ॥२५॥
बुद्धिप्रहीणो मनसा समृद्धो निराशिषं निर्गुणमभ्युपैति
।
परं त्यजन्तीह विलोड्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥२६॥
बुद्ध्या चरमवृत्त्या ध्यानपरिपाकोत्थया प्रहीणः निर्वृत्तिकः मनसा विचारात्मकेन समृद्धः पूर्वमिति शेषः । श्रवणमननवानित्यर्थः । निराशिषम् आशीरप्राप्तप्रार्थना तद्रहितं स्वेनैव रूपेण परमानन्दत्वात् । निर्गुणम् आत्मानमुपैति प्राप्नोति । विलोड्यमानाः आशीर्भिराकुलीक्रियमाणाः । यथा वायुः काष्ठान्तर्गतं वह्निं नोद्दीपयति किं तु त्यजति एवमेतेऽपि अन्तस्थमात्मानं त्यजन्तीत्यर्थः ॥२६॥
गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम्
।
अनेनैव विधिना सम्प्रवृत्तो गुणापाये ब्रह्मशरीरमेति ॥२७॥
उक्तमेवार्थं स्पष्टयति - गुणेति । विषयाणामादाने आभिमुख्येन खण्डने आत्मनि प्रविलापने कृते सति मनः बुद्धिपराय बुद्ध्यपेक्षया यत्परं ब्रह्म तस्मै तत्प्राप्तये भवति । तेषां गुणानां विप्रयोगे पृथक्त्वेन ग्रहणे सति मनः सदा सर्वस्मिन्नपि युगे बुद्ध्यवराय बुद्ध्यपेक्षया यदवरं बुद्धिकल्पितं ब्रह्मलोकान्तमैश्वर्यम् अवीच्यन्तमनैश्वर्यं च तत्प्राप्तये भवति । अनेन प्रकारेण विधिना 'बन्धाय विषयासक्तं मुक्त्यै निर्विषयं मन' इत्यादिवचनेन गुणापाये संप्रवृत्तः ब्रह्मशरीरं ब्रह्मस्वरूपं प्राप्नोति । शारीरमिति पाठे शारीरो जीवस्तयोर्ब्रह्मशारीरयोरभेदे सामानाधिकरण्यम् ॥२७॥
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले
।
तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्ततेऽकामरूपः ॥२८॥
ननु लोके चतुर्धा भेदो दृश्यते यथा सुवर्णं कुण्डलम्' इति तयोरुपादानोपादेयभावेन । यथा वा -'शुक्लः पटः' इति तयोर्गुणगुणिभावेन । यथा वा 'शुक्ती रजतम्’ इत्यधिष्ठानाध्यस्तभावेन । यथा वा 'सिंहो देवदत्तः' इति ताद्गतगुणयोगेन । नाद्यः ब्रह्मणा विकारित्वापत्त्या कूटस्थत्वनाशापत्तेः । न द्वितीयः । आश्रयनाशं विना गुणनाशासंभवान्मुक्तौ जीवत्वनाशे ब्रह्मणोऽपि नाशापत्तेः । न तृतीयः । मिथ्याभूतस्य जीवस्य मुक्त्यन्वयायोगात् । परिशेषादन्त्य एव पक्षः शिष्यते । तत्रापि यथाऽनन्तं वै मनोऽनन्ता विश्वेदेवा इति बहुत्वसाम्यान्मनसि विश्वेदेवसंपत्तिस्तथा देहादिबृंहकत्वयोगाज्जीवेऽपि ब्रह्मशब्दः । यद्वा योषा वा गौतमाग्निरित्यत्र स्त्रीरूपं प्रतीकमविद्यमानवत्कृत्वा तत्राग्नेरुपासनम् । एवं जीवमविद्यमानवत्कृत्वा तत्र ब्रह्मोपास्यम् । यद्वा यथा मनो ब्रह्मेत्युपासीतेति मन एव ब्रह्मभावारोपेणोपास्यम् एवं जीवेऽपि ब्रह्मभावमारोप्यामृतत्वकामस्यात्मोपासनं विधीयते 'आत्मेत्येवोपासीत’ इत्यादिश्रुतिषु इत्याशङ्क्याह - अव्यक्तात्मेति । अव्यक्तेतिवाङ्मनसागोचरत्वोक्त्या मन आदिवत्प्रतीकत्वादिकं निरस्यते । आत्मेतिव्यापकप्रत्यक्चैतन्यरूपत्वोक्त्या कीटभृङ्गवद्यत्नान्तरस्यालभ्यत्वमुच्यते पुरुष इति । पुरि शेते इति व्युत्पत्त्या गौणात्मत्वं निरस्यते व्यक्तकर्मेति । देहाद्युपाधियोगात्कर्मसमवायीव दृश्यते अत एव श्रूयते -'आराममस्य पश्यन्ति न तं पश्यति कश्चन' इति । अन्तकाले सुप्तिप्रलयमोक्षाणामन्यतमकाले वाऽव्यक्त एवातोऽस्य व्यक्तत्वमन्तरालेऽवगतं मृषैव । ततश्चाव्यक्तस्यात्मनोऽव्यक्तेन ब्रह्मणा सह लक्षणभेदाभावाद्भेदो न घटत इति बिम्बप्रतिबिम्बन्यायेनौपाधिक एव तयोर्भेदः स चोपाधिभूताया अविद्याया निवृत्तौ निरवशेषेण लीयत इति युक्तमुक्तं ब्रह्म शारीरमेतीति । नन्वेवंविधे आत्मनि कुतो दुःखित्वप्रतीतिरित्याशङ्क्याह - तैरेवेति । तैः प्रसिद्धेः अकामरूप इति च्छेदः । जलसूर्यन्यायेन मृषैवात्मनि दुःखित्वादिभ्रम इत्याह - ग्लायद्भिर्वा । वाशब्द उपमार्थे ग्लायन्निव आवर्तते लोकद्वये सञ्चरति घटाकाशवत् । आर्षो विभक्तिव्यत्ययः । तथाच सूत्रं - अत एव चोपमा सूर्यं प्रतिकृत्तिकादिवदिति । सूर्यप्रतिकृतिः प्रतिबिम्बसूर्यः आदिपदाद्धटाकाशः तथा चात्मनि भेदं गतिं च वारयन्ति श्रुतयः 'ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा । घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः' इत्यादयः ॥२८॥
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात्
।
नासामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥२९॥
सर्वैरिति । अयं चिदाभासः देहं लिङ्गशरीरं प्राप्तः पञ्चभूतानि स्थूलदेहाकारेण परिणतानि तदाश्रयश्च स्यात् अस्ति परमेण बिम्बभूतेन अन्तर्यामिणा हीनः सन्न गच्छति । गतिरुपलक्षणं किमपि कर्तुं न शक्नोतीत्यर्थः । कुतः असामर्थ्यात् । कुत्र कर्मणे कर्मकर्तुमित्यर्थः । ह इति श्रौतीं प्रसिद्धिम् एष ह्येव साधु कर्म कारयतीत्यादिकां द्योतयति । अयं भावः - जलसूर्यघटाकाशयोश्चाञ्चल्यगमने इवात्मनि दुःखित्वादिकं भासमानमपि परमार्थतो नास्ति । नाप्यस्य तत्परिहारे सामर्थ्यमस्ति उपाधिपक्षपातित्वात् उपाधेश्च प्राक्कर्मानुरोधीश्वरेच्छया चेष्टाश्रयत्वात् । अतोऽन्तर्यामित्वं चेश्वरस्य युक्तमिति ॥२९॥
पृथ्व्यां नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि
।
परं नयन्तीह विलोड्यमानं यथा प्लवं वायुरिवार्णवस्थम् ॥३०॥
ननूपाध्यन्तर्यामिणोरनादित्वान्नित्ययोः प्रवर्त्यप्रवर्तकयोः सतोः कथञ्चिदाभासस्य दुःखान्मुक्तिः स्यादित्याशङ्क्याह - पृथ्व्येति । यथाऽन्यैरदृष्टोऽपि पृथिव्या अन्तोऽस्ति । अविभुद्रव्यत्वात् । एवं दुःखसन्ततेरप्यन्तोऽस्ति जन्यत्वात् । यथा वा वायुरर्णवस्थं तृणादिकं यथाप्लवं यथाप्रवाहं वायुनेव लोड्यमानम् इतस्ततश्चाल्यमानं वायुरेव परं पारं नयति । एवं कर्म वायुभिरुह्यमानं संसारसमुद्रस्थं जीव-पोतं कर्माण्येव चित्तशुद्ध्यादिजननद्वारा परं पारं नयन्तीत्यर्थः। यथोक्तम् - 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति । संसिद्धिं ज्ञानयोग्यताम् ॥३०॥
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः
।
तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥३१॥
यथा सूर्यरश्मीनामुदयास्तमयौ एवं चैतन्यभासामपि स्त इत्याह - दिवाकर इति । गुणं रश्मिमण्डलेन जगद्व्यापित्वम् एवं जीवः सत्यां चित्तशुद्धौ ज्ञानोदये सति रात्रिंदिववत्संसारलयोदयौ पश्यतीत्यर्थः । निर्गतः विशेषवान् सुखित्वादिधर्मवान् अहङ्कारो यस्मात्स निर्विशेषवान् ॥३१॥
अनागतं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम्
।
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत्परममृतत्वमश्नुते ॥३२॥
प्रकरणार्थमुपसंहरति - अनागतमिति । अनादौ संसारे सर्वमपि सुखं पुरुषस्य क्वचिज्जन्मनि प्राप्तमेवास्ति । इदं त्वमृतत्वम् अनागतम् । आगतस्य निवृत्त्ययोगात् । स्वयंभुवम् अजन्यम् । जन्यस्यावश्यंविनाशित्वात् । प्रभवत्यस्मान्निधीयते लीयतेऽस्मिन् कार्यजातमिति प्रभवनिधानम् । एवमपि अव्ययं प्रधानवन्न परिणामि नित्यम् । परिणामिनो नाशावश्यंभावेन नित्यत्वायोगात् । सनातनं यदमृतम् । आदिमध्यान्तशून्यं मोक्षस्वरूपम् । अनादिमध्यामृतमित्यपि पाठः । अव्ययं नाशहीनं यतः ध्रुवम् अविचाल्यम् ईदृशं प्रत्यगभिन्नं वस्तु निचाय्य ज्ञात्वा । तत् वेदप्रसिद्धं परम् अगौणम् अमृतत्वं मोक्षम् अश्नुते प्राप्नोति । अपामसोमममृता अभूम इति । कर्मप्राप्यमप्यमृतत्वं श्रूयते । तच्च गौणं कर्मजस्य नित्यत्वायोगात् । 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्याचितो लोकः क्षीयत' इति श्रुतेश्च । यथाहुः आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति । मुख्यममृतत्वम् प्राप्तस्तु न पुनरावर्तते संसारमण्डले । तस्मात्सनातनादिविशेषणविशिष्टं नित्यं सुखं मोक्षाख्यं स्वतःसिद्धमप्यज्ञानादप्राप्तमिव कण्ठगतविस्मृतचामीकरवत्प्राप्तव्यमज्ञानापगममात्रेणेति सिद्धम् ॥३२॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि मनुबृहस्पतिसंवादे षडधिकद्विशततमोऽध्यायः ॥२०६॥
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥१॥
पूर्वाध्यायान्ते निचाय्य तत्परममृतत्वमश्नुते इति ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वमुक्तम् । तत्र निर्गुणदर्शनं सगुणज्ञानपूर्वकमिति मत्वा सान्निहितं श्रीकृष्णं प्रागेव महर्षीणां मुखात्परमात्माऽयमिति जानन् राजा मतिसंवादाय कृष्णतत्त्वं पृच्छति - पितामहेत्यादिना । ननु इह पुण्डरीकाक्षपदेन विग्रहमुपलक्ष्य तत्राच्युतत्वादिविशेषणमसंगतम् । नहि कृष्णशरीरं परादृष्टैरेवोत्पन्नमिति पक्षेऽपि परादृष्टानां जन्मविनाशवत्वात्तत्कृतविग्रहस्यापि तद्वत्त्वं प्रत्याख्यातुं शक्यं विग्रहाविवक्षायां त्वस्माकमप्यच्युतत्वादिकं समानमिति किं पुण्डरीकाक्षेति विशेषणेनेति चेत् । अत्र ब्रूमः । भुबीजांकुरतरुफलोपमानि पञ्च परमेश्वररूपाणि शुद्धशबलसूत्रविराड्विष्णुसंज्ञानि यथा पृथिव्यामोषधयः सम्भवन्तीति श्रौतदृष्टान्तानुगुण्येन भूतुल्यायां चिति तदनतिरिक्ता बीजादितुल्या माया शबलादयः सन्ति । तत्र वृक्षारूढमपि फलनमेकबीजगर्भत्वाद्बीजाङ्कुरतरुभ्यो महत्तरम् । एवं विश्वाख्यविग्रहवद्ब्रह्मापि अनेकशबलादिगर्भत्वात् ईशसूत्रविराड्भ्यो महत्तरम् । अत एव च्छान्दोग्ये - 'आदित्यरूपं पुरुषं हिरण्यश्मश्रुर्हिरण्यकेशः' इति विग्रहधर्मैर्विशेषयित्वा तस्यर्क्चसाम च गेष्णाविति तदङ्गुलिपर्वत्वेन ऋक्सामशब्दाभिहितः कृत्स्नः प्रपञ्चो निरूपितः । न च तस्या मूर्तेरनित्यत्वं शङ्क्यम् ।
'देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा
।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते' ॥
इति जीवादृष्टानुरोधेन नित्याया अपि तस्या आविर्भावतिरोभावावेव उत्पत्तिलयशब्देन व्यवह्रीयेते इत्येतस्यार्थस्य प्रतिपादकेनागमेन विरोधात् । अत्र यद्वक्तव्यं तत्प्रागेवोक्तम् । तस्मात्पुण्डरीकाक्षेऽप्यच्युतत्वादिकं विशेषणं युज्यत एव । तत्राच्युतं क्षयहीनम् । कर्तारम् अर्थात् कार्यमात्रस्य । अकृतम् उत्पत्तिहीनम् । विष्णुं व्यापकं बीजफलन्यायेन कारणस्यापि कारणत्वात् । अत एव भूतानां वियदादीनां प्रभवाप्ययं योनिम् ॥१॥
नारायणं हृषीकेशं गोविन्दमपराजितम्
।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥२॥
अपराजितं देहादिधर्मैर्जरादिभिरिति शेषः ॥२॥
भीष्म उवाच।
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥३॥
जल्पतः जल्पात् वचनात् ॥३॥
असितो देवलस्तात वाल्मीकिश्च महातपाः
।
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत् ॥४॥
महत् माहात्म्यम् ॥४॥
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥५॥
भगवान् 'ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः।' वैराग्यस्य च धर्मस्य षण्णां भग इतीङ्गना' इत्युक्तरूपषड्गुणवान् । ईश्वरोऽन्तर्यामी । प्रभुः राजवद्बहिःस्थित्वा नियन्ता । विभुर्व्यापकः ॥५॥
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनि
।
माहात्मनि महाबाहो शृणु तानि युधिष्ठिर ॥६॥
किं त्विति । यानि कर्माणीत्युत्तरेण सम्बन्धः । अनन्तमपि हरेर्माहात्म्यं लेशतो वक्ष्ये इति भावः ॥६॥
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
।
कर्माणि त्विह गोविन्दे कीर्तयिष्यामि तान्यहम् ॥७॥
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
।
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत् ॥८॥
भूतात्मेत्यादिना क्रमेण पदत्रयोक्तानां जीवेशशुद्धानां वाय्वादिमहाभूतकल्पकत्वं सामानाधिकरण्यादभेदश्चोक्तः ॥८॥
स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
।
अप्स्वेव भवनं चक्रे महात्मा पुरुषोत्तमः ॥९॥
तत्र तत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतमीक्षणादिप्रवेशान्तामैशीं सृष्टिमाह - स इति । चात् खादीन् अप्सु आपः पुरुषवचसः इति श्रुतेरब्बहुलेषु देहेषु ॥९॥
सर्वतेजोमयस्तस्मिन् शयानः पुरुषोत्तमः
।
सोऽग्रजं सर्वभूतानां संकर्षणमकल्पयत् ॥१०॥
जाग्रदादिविमोक्षान्तां जैवीं सृष्टिमाह - सर्वेत्यादिना । तेजोमयः वासनामयः जाग्रद्वासनामये स्वप्नद्रष्टरि तैजसपदप्रयोगात् तस्मिन्नस्मये देहे सङ्कर्षणम् अहङ्कारम् ॥१०॥
आश्रयं सर्वभूतानां मनसेतीह शुश्रुम
।
स धारयति भूतानि उभे भूतभविष्यती ॥११॥
मनसा सह अकल्पयदिति पूर्वेण सम्बन्धः । सः समनस्कोऽहंकारः सोऽहमित्यग्रे व्याहरत्तत्तोऽहं नामाऽभवदित्यहङ्कारसृष्टिमुक्त्वा सोऽबिभेत् स नारमतेति तदनुवादेन भयारत्यादेर्मनोधर्मस्य श्रवणात्तत्सृष्टेस्तत्र विवक्षणात् । 'सैषा ब्रह्मणोऽतिसृष्टिर्यन्मर्त्यः सन्नमृतानसृजत' इति श्रुतिसाम्यादपि जीवसृष्टिप्रकरणमिदमित्यवसीयते ॥११॥
ततस्तस्मिन् महाबाहौ प्रादुर्भूते महात्मनि
।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥१२॥
नाभ्यां पद्ममिति । स्वप्नवद्बहिरिव भासमानमपि अन्तरेव ब्रह्माण्डमस्ति मानसत्वात्तस्येति दर्शितम् । नाभ्यामुपरि तिष्ठति ’विश्वस्यायतनं महत्' इति श्रुतेः ॥१२॥
स तत्र भगवान्देवः पुष्करे भ्राजयन् दिशः
।
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥१३॥
पुष्करे नाभिकमले 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरपुण्डरीके वेश्म' इत्यादिश्रुतेरान्तरमेव पुष्करमिह प्रतिपत्तव्यं न बाह्यम् । ब्रह्मपुरे ब्रह्मोपलब्धिस्थाने शरीरे दहरं सूक्ष्मं सः समनस्कोऽहङ्कारः पुष्करे स्थित्वा ब्रह्मा सर्वभूतस्रष्टा समभवदिति सम्बन्धः । हृदयपुण्डरीकादौ निरुद्धं मन एव सर्वेश्वर इत्यसकृदावेदितम् ॥१३॥
तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि
।
तमसा पूर्वजो जज्ञे मधुर्नाम महासुरः ॥१४॥
तस्मिन्निति । एवं हृत्पुण्डरीके ब्रह्मण आविर्भावे सति तमोगुणकार्यभूतो मधुर्नाम लयापरनामा योगविघ्नः दैनन्दिनलयाभ्यासात्पूर्वजोऽनादिर्ब्रह्मग्रासाय आविर्भवति ॥१४॥
तमुग्रमुग्रकर्माणमुग्रं कर्म समास्थितम्
।
ब्रह्मणोपचितिं कुर्वन् जघान पुरुषोत्तमः ॥१५॥
तमिति । अपचितिम् उन्नतिं पुरुषोत्तमश्चिदात्मा । योगे उपस्थितं लयं बोधेनैव शमयेदित्यर्थः । एतच्च विक्षेपादेरप्युपलक्षणम् । यदाहुः संप्रदायविदः - 'लये सम्बोधयोच्चत्तं विक्षिप्तं शमयेत्पुनः' इत्यादि ॥१५॥
तस्य तात वधात्सर्वे देव-दानव-मानवाः
।
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम् ॥१६॥
तस्येत्यादिना आन्तरसृष्टिप्रपञ्चो यावदध्यायसमाप्ति । सात्परमात्मा तद्वतां सात्वतां योगिनामित्यर्थः ॥१६॥
ब्रह्मानुससृजे पुत्रान् मानसान् दक्षसप्तमान्
।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥१७॥
ब्रह्मेति । मानसत्वं योगिसृष्टेर्मूढसृष्टेश्च यद्यपि तुल्यं तथाऽपि योगिनां जितमनस्कत्वात्सृष्टिर्न दुःखदा मूढानां अतथात्वाद्दुःखदा ज्ञानाज्ञानकृतावेव हि मोक्षबन्धाविति प्रसिद्धम् । ’अत्र द्वयाहप्राजापत्या देवाश्चासुराश्च तत्र कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त' इति श्रुत्यनुसारेण शमादयो देवाः शास्त्रबलेन निष्पाद्यतया यत्नसाध्यत्वात् कनिष्ठाः । कामादयोऽसुराः स्वाभाविकत्वाज्ज्येष्ठाः । तेषाम् आत्मानं मोचयितुं मोहपाशैर्बद्धुं च मिथः स्पर्धमानानां यदा विष्ण्वाख्यं सत्त्वं वर्धते तदा देवानां जयोऽसुराणां पराजयश्चात्मविमोकहेतुर्भवतीत्याख्यायिकातात्पर्यम् । पदार्थः स्पष्टः ॥१७॥
मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः
।
मानसं जनयामास तैजसं ब्रह्मवित्तमम् ॥१८॥
अङ्गुष्ठात्ससृजे ब्रह्मा मरीचेरपि पूर्वजम्
।
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥१९॥
तस्य पूर्वमजायन्त दश तिस्रश्च भारत
।
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः ॥२०॥
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
।
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥२१॥
उत्पाद्य तु महाभागस्तासामवरजा दश
।
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥२२॥
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
।
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥२३॥
अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः
।
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥२४॥
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान् द्विजान्
।
गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन् ॥२५॥
इतराः कश्यपस्त्रियः व्यजायन्त व्यजनयन्त ॥२५॥
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्
।
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥२६॥
तस्य विक्रमणाच्चापि देवानां श्रीर्व्यवर्धत
।
दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥२७॥
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः
।
दितिस्तु सर्वानसुरान्महासत्त्वानजीजनत् ॥२८॥
अहोरात्रं च कालं च यथर्तु मधुसूदनः
।
पूर्वाह्णं चापराह्नं च सर्वमेवानुकल्पयत् ॥२९॥
प्रध्याय सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
।
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ॥३०॥
प्रध्याय आलोच्य सः मधुसूदनः पृथिवीमिति पृथिवीस्थसर्वभूतोपलक्षणम् ॥३०॥
ततः कृष्णो महाभागः पुनरेव युधिष्ठिर
।
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत्प्रभुः ॥३१॥
शतमनन्तम् ॥३१॥
बाहुभ्यां क्षत्रियशतं वैश्यामानामूरुतः शतम्
।
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥३२॥
स एवं चतुरो वर्णान् समुत्पाद्य महातपाः
।
अध्यक्षं सर्वभूतानां धातारमकरोत्स्वयम् ॥३३॥
धातारं समष्ट्यहङ्कारम् ॥३३॥
वेदविद्याविधातारं ब्रह्माणममितद्युतिम्
।
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत् ॥३४॥
तत एव चतुर्मुखादयो जाता इत्याह - वेदेत्यादिना ॥३४॥
शासितारं च पापानां पितॄणां समवर्तिनम्
।
असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम् ॥३५॥
समवर्तिनं यमं 'समवर्ती परेतराट्’ इत्यमरः ॥३५॥
यादसामसृजन्नाथं वरुणं च जलेश्वरम्
।
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः ॥३६॥
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
।
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥३७॥
न चैषां मैथुनो धर्मो बभूव भरतर्षभ
।
संकल्पादेव चैतेषामपत्यमुपपद्यते ॥३८॥
ततस्त्रेतायुगे काले संस्पर्शाज्जायते प्रजा
।
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥३९॥
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
।
तथा कलियुगे राजन् द्वन्द्वमापेदिरे जनाः ॥४०॥
एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते
।
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु ॥४१॥
निरयमेव ईक्षन्ते तान् ॥४१॥
दक्षिणापथजन्मानः सर्वे नरवरान्ध्रकाः
।
गुहाः पुलिन्दाः शबराश्चूचुका मद्रकैः सह ॥४२॥
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
।
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ॥४३॥
एते पापकृतस्तात चरन्ति पृथिवीमिमाम्
।
श्वापाकबलगृध्राणां सधर्माणो नराधिप ॥४४॥
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
।
त्रेताप्रभृति वर्धन्ते ते जना भरतर्षभ ॥४५॥
ततस्तस्मिन्महाघोरे सन्ध्याकाल उपस्थिते
।
राजानः समसज्जन्त समासाद्येतरेतरम् ॥४६॥
एवमेष कुरुश्रेष्ठ प्रादुर्भूतो महात्मना
।
देवं देवर्षिराचष्ट नारदः सर्वलोकदृक् ॥४७॥
एवमिति । प्रादुर्भूतो नित्यसिद्ध एव सन् न त्वभूत्वा भूतः अत एव भूतोत्पत्तिरित्यध्यायनाम सङ्गच्छते । महात्मना श्रीकृष्णेन हेतुना ॥४७॥
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
।
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥४८॥
एवमेष महाबाहुः केशवः सत्यविक्रमः
।
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥४९॥
विग्रहविशिष्टस्य कृष्णस्य प्रतिपादितं जगद्धेतुत्वमुपसंहरति - एवमेष इति । केवलमानुषो न अपि तु परमात्मैव अत एव अचिन्त्यः ॥४९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सर्वभूतोत्पत्तिकथने सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥
युधिष्ठिर उवाच।
योगं मे परमं तात मोक्षस्य वद भारत
।
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ॥१॥
एवमध्यायत्रयेण ईश्वरप्रणिधानमुक्तम् । येन शीघ्रतरं योगः सिद्ध्यति योगान्तरायाश्च व्याधिदुःखादयो नश्यन्ति । अथेदानीं प्रधानभूतं योगमेव जिज्ञासुः पृच्छति - योगं मे इति । परमं सबीजयोगात्परमं निर्बीजयोगं मोक्षस्य हेतुं मोक्षं मे इति पाठे उपायोपेयविषयौ द्वौ प्रश्नौ तं सयोगं मोक्षम् ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥२॥
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्
।
तेजोराशिं महात्मानं सत्यसन्धं जितेन्द्रियम् ॥३॥
कश्चिदिति श्लोकाभ्यां क्रमेण गुरुशिष्ययोर्गुणा दर्शिताः ॥३॥
शिष्यः परममेधावी श्रेयोऽर्थी सुसमाहितः
।
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥४॥
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम
।
संशयो मे महान्कश्चित् तन्मे व्याख्यातुमर्हसि
।
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ॥५॥
त्वं च अहं च कुतः उपादानात्कुतो वा निमित्तात् उत्पन्नौ स्वस्तद्ब्रूहि । यत्परं श्रेष्ठम् उपादानं निमित्तं च न तु मातृपितृवत् पुण्यापुण्यवच्चान्तरालिकम् ॥५॥
कथं च सर्वभूतेषु समेषु द्विजसत्तम
।
सम्यग्वृत्तानि वर्तन्ते विपराताः क्षयोदयाः ॥६॥
भूतेषु पञ्चसु उपादानकारणेषु समेषु सत्सु विपरीता विषमाः कथं क्षयोदया निवर्तन्ते नितरां वर्तन्ते । वेदेषु यद्वाक्यं वर्णधर्मव्यवस्थापरं 'ब्राह्मणो बृहस्पतिसवेन यजेत राजा राजसूयेन यजेत वैश्यो वैश्यस्तोमेन यजेत तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः' इत्यादि लौकिकम् । स्मृतिवाक्यं तादृशं व्यापकं सर्ववर्णाश्रमसाधारणं 'न हिंस्यात्सर्वभूतानि' इत्यादि । इदमपि कथं हेतुसाम्येऽपि कार्यवैषम्ये किं बीजं तद्ब्रूहीत्यर्थः । श्लोकद्वयमेकं वाक्यम् ॥६॥
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्
।
एतद्विद्वन् यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥७॥
गुरुरुवाच ।
शृणु शिष्य महाप्राज्ञ ब्रह्म गुह्यमिदं परम्
।
अध्यात्मं सर्वविद्यानामागमानां च यद्वसु ॥८॥
ब्रह्मगुह्यं वेदगोप्यं वसु धनं तद्वत् रक्षणीयम् उपकारकं वा ॥८॥
वासुदेवः परमिदं विश्वस्य ब्रह्मणो मुखम्
।
सत्यं ज्ञानमथो यज्ञस्तितिक्षा दम आर्जवम् ॥९॥
ब्रह्मणो मुखं वेदादिः प्रणवः । उपायोपेययोरभेदात्प्रणवादीनां वासुदेवत्वम् ॥९॥
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः
।
स्वर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥१०॥
उपेयस्वरूपमाह - पुरुषमिति ॥१०॥
तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे
।
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा ॥११॥
एतदेवायं कृष्ण इत्याह - तदिति । वार्ष्णेयं वृष्णिषु कृतावतारम् । इतिहासं तत्स्वरूपप्रकाशनपरं ग्रन्थम् ॥११॥
वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः
।
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥१२॥
अर्हस्त्वमसि कल्याणं वार्ष्णेयं शृणु यत्परम्
।
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ॥१३॥
वार्ष्णेयं कृष्णाख्यानं यत्परं कालचक्रं न त्वर्वाचीनं संवत्सराख्यम् । तत्केशवं वदन्तीत्युत्तरेणान्वयः । भावाभावौ सृष्टिप्रलयौ स्वलक्षणं स्वरूपज्ञापकौ यस्य - 'अध्यारोपापवादाभ्यां निष्प्रपञ्चं निरूप्यते' इतिन्यायेनैव ज्ञातुं शक्यं न तु शृङ्गग्राहिकया गवाश्ववदित्यर्थः ॥१३॥
त्रैलोक्यं सर्वभूतेशे चक्रवत्परिवर्तते
।
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्
।
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम् ॥१४॥
सर्वभूतेशे यस्मिन् त्रैलोक्यं चक्रवत् चक्रारूढपिपीलिकावत् परवशत्वेन परिवर्तते केशैरिव चिद्रश्मिभिर्वाति सर्वं व्याप्नोतीति केशवस्तं पुरुषर्षभं पुरुषा अन्नमयादयः पञ्च तेषाम् ऋषभं श्रेष्ठमुत्तमं षष्ठमित्यर्थः ॥१४॥
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान्
।
नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ॥१५॥
पितॄनिति । अव्ययः अपरिणामी ॥१५॥
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्
।
प्रलयं प्रकृतिं प्राप्य युगादौ सृजते पुनः ॥१६॥
तथैवेति । वेदकर्तृत्वं ब्रह्मणो महतो भूतस्य निःश्वसितमेतद्यदृग्वेद इत्यादिश्रुतिसिद्धम् । वाचा विरूपनित्ययेति वेदनित्यत्ववचनं तु वर्णपदाद्यानुपूर्व्यविभ्रंशमात्रपरम् । प्रलीयतेऽस्मिन्महदादिकार्यं स प्रलयस्तम् । प्रकरोतीति प्रकृतिः तां लयोत्पत्तिस्थानं मायाशबलमपि ससृजे इत्यर्थः तथा च श्रुतिः- 'नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्' इति । सदसद्रजःशब्दितानां प्रधानशून्यपरमाणुनामानुमानिकानामिव श्रौतस्य परव्योम्नोऽपि मायाशबलापरनाम्नः सृष्टेः प्रागभावं वदन्ती तस्यापि जन्यत्वं दर्शयति मायायास्तुच्छत्वात् । ब्रह्मणश्चासंगत्वान्न तयोरेकीभावलक्षणं तात्त्विकं शाबल्यं संभवति 'तुच्छ्येनाभ्वपिहितं यदासीत्' ' असङ्गो ह्ययं पुरुषः' इतिश्रुतिभ्याम् । तस्मात्सृष्टेः प्राङ्मायाशबलं ब्रह्मासीदित्युक्तिर्मायायां स्थित्वैव युक्ता न तु वस्तुवृत्त्या । यथोक्तम् 'अस्याविद्येत्यविद्यायामेवासित्वाप्रकल्प्यते' इति । अतो युक्तमुक्तं प्रकृतिं सृजते इति । रज्जूरगवत् प्रतीतिसमकालाया एव तत्सृष्टेरुपगमादिति दिक् ॥१६॥
यथार्तावृतुलिङ्गानि नानारूपाणि पर्यये
।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥१७॥
यथेति । प्रत्यब्दं यथा वसन्ते आम्रवृक्षा ग्रीष्मे मल्लिका वर्षासु कदम्बा नियमेन पुष्पिता भवन्ति । एवं ब्रह्महरविष्ण्वादिषु प्रतिकल्पं सृष्टिप्रलयस्थितिकर्तृत्वं तदा तदा आविर्भवति ॥१७॥
अथ यद्यद्यदा भाति कालयोगाद्युगादिषु
।
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥१८॥
एतदेव व्याचष्टे - अथेति । तत्तत्तस्मिंस्तस्मिन् विषये । लोकयात्रा व्यवहारस्तस्य विधानं प्रमाणेन प्रमेयख्यापनं तज्जं तेन सोपाधिकमेव ज्ञानमुत्पद्यते न निरुपाधिकमित्युक्तं भवति ॥१८॥
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान् महर्षयः
।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥१९॥
युगान्ते युगादौ अन्तर्हितान् पूर्वयुगे येऽभूवन् तान् अनुज्ञाताः उपदिष्टाः स्वयंभुवा ब्रह्मणा ॥१९॥
वेदविद्वेद भगवान् वेदाङ्गानि बृहस्पतिः
।
भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम् ॥२०॥
वेदवित् भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिर्वेदेति सम्बन्धः ॥२०॥
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम्
।
देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥२१॥
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः
।
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यताम् ॥२२॥
न्यायतन्त्राणि तार्किकवैशेषिककापिलपातञ्जलादीनि हेतुर्युक्तिः आगमो वेदः सदाचारः प्रत्यक्षं तैः प्रमाणैः कृत्वा एतैर्मुनिभिर्यद्ब्रह्म उक्तं तत् उपास्वताम् अमुख्यत्वात् तदुपास्यमेव न वेदान्तविज्ञेयमित्यर्थः । तथा चोपास्यस्याब्रह्मत्वं श्रुतिराह - 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति ॥२२॥
अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः
।
एकस्तद्वेद भगवान् धाता नारायणः प्रभुः ॥२३॥
अनाद्यं नास्ति आद्यं कारणं यस्य तत् । यद्वा आदौ विदितमाद्यं तदन्यदनाद्यं सर्गादौ अविदितमित्यर्थः । कथं तर्हि देवा न विदुरित्यत आह - एक इत्यादि ॥२३॥
नारायणादृषिगणास्तथा मुख्याः सुरासुराः
।
राजर्षयः पुराणाश्च परमं दुःखभेषजम् ॥२४॥
पुरुषाधिष्ठितान् भावान् प्रकृतिः सूयते यदा
।
हेतुयुक्तमतः पूर्वं जगत्सम्परिवर्तते ॥२५॥
ब्रह्मज्ञानस्य आत्यन्तिकदुःखनिवर्तकत्वमुक्त्वाध्यारोपापवादन्यायेन ब्रह्म निरूपयति - पुरुषेति । पुरुषेण अधिष्ठितान् आलोचितान् 'सोऽकामयत बहु स्यां प्रजा येय' इति श्रुतेः । तेन सांख्याभिमतं प्रकृतेः स्वातन्त्र्यं निरस्तम् । अचेतने चेतनानधिष्ठिते शकटादौ प्रवृत्त्यदर्शनाच्च युक्तं तत् सूयते प्रसवोन्मुखीजायते । भावान्महदादीन् हेतुः धर्माधर्मौ ताभ्यां युक्तम् । अत एव सर्गादावपि तारतम्यं युक्तम् । अत ईशात् हेतुयुक्तमिति सांख्यमतं प्रकृतेर्धमर्माद्यप्रवर्त्यत्वं निरस्तम् । तेषां हि जलवत्स्वतः प्रवर्तमानायाः प्रकृतेः पापं सुखपरिणामं प्रतिबध्नाति पुण्यं च दुःखपरिणामम् । तत्रान्यतरेणान्यतरस्य स्वोदये प्रतिबन्धशक्तिरपनीयत इति ॥२५॥
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः
।
प्रकृतिः सूयते तद्वदानन्त्यान्नापचीयते ॥२६॥
दीपादिति । हेतुयुक्तमित्यत्रापि वर्तते । तैलवर्त्यादिहेतौ सति यथा दीपादनेके दीपाः प्रभवन्तीत्येवमदृष्टोपग्रहात् प्रकृतिर्महदादिकार्यं सूयते । दीपवदानन्त्याच्च नापचीयते ईशादृष्टाभ्यां प्रकृतिः प्रवर्त्यत इति श्लोकद्वयतात्पर्यम् ॥२६॥
अव्यक्तात्कर्मजा बुद्धिरहंकारं प्रसूयते
।
आकाशं चाप्यहंकाराद्वायुराकाशसम्भवः ॥२७॥
सृष्टिक्रममाह - अव्यक्तादिति । कर्मजेति ईशादपि कर्मप्राबल्यं दृश्यते तस्य कर्मापेक्षयैव सदसत्फलदत्वात् । बुद्धिर्महत्तत्त्वं तथा च सर्गादौ कर्मैव प्रकृतिं प्रवर्तयतीत्यर्थः । आकाशादिपदैः शब्दतन्मात्रादीनि ज्ञेयानि ॥२७॥
वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता
।
मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम् ॥२८॥
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि
।
विषयाः पञ्च चैकं च विकारे षोडशं मनः ॥२९॥
अतः पुरुषाधिष्ठितप्रकृत्याद्यष्टकात् विषया इति शब्दाद्याश्रयाः स्थूलाकाशादयः । वाय्वाकाशयोरपि स्पर्शशब्दलिङ्गानुमेयतया विषयत्वम् ॥२९॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यथ
।
पादौ पायुरूपस्थश्च हस्तौ वाक्कर्मणी अपि ॥३०॥
वाक्कर्मणी इत्यत्र वागिन्द्रियं कर्मशब्देन सर्वेषामिन्द्रियाणां कर्माणि वचनादानगतिविसर्गानन्दाख्यानि ज्ञेयानि ॥३०॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च
।
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥३१॥
शब्द इति । शब्दादयः चित्तमिति विज्ञेयम् । चित्तमात्रोपादाना इत्यर्थः । यदाहुः - भगवन्तोऽक्षपादाचार्याः - 'दोषनिमित्तं रूपादयोविषयाः सङ्कल्पकृताः' इति । प्रमेयस्य चित्तमात्रत्वमुक्त्त्वा प्रमाणस्यापि तदाह - तेष्विति । तेषु शब्दादिष्वपि सर्वेषु गतं श्रोत्रादिरूपेणोपगतं मन एव ॥३१॥
रसज्ञाने तु जिह्वेयं व्याहृते वाक् तथोच्यते
।
इन्द्रियैर्विविधैर्युक्तं सर्वं व्यक्तं मनस्तथा ॥३२॥
एतदेव स्पष्टयति - रसेति । रसज्ञाने मन एव इयं जिह्वेत्यर्थः - 'मनसा ह्येव पश्यति मनसा शृणोति' इत्यादिश्रुतेः । व्याहृते शब्दप्रयोगे इदम् । द्वयं ज्ञानकर्मेन्द्रियपञ्चकद्वयस्योपलक्षणमित्याह - इन्द्रियैरिति । सर्वम् आन्तरं बुद्धिसुखदुःखादि बाह्यं वियच्छब्दादि तथाऽव्यक्तं महदादि घटान्तं मन एव । तथा च श्रुतिः - 'असतोऽधिमनोऽसृज्यत मनः प्रजापतिमसृजत प्रजापतिः प्रजा असृजत तद्वा इदं मनस्येव परमं प्रतिष्ठितं यदिदं किंच' इति ॥३२॥
विद्यात्तु षोडशैतानि दैवतानि विभागशः
।
देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥३३॥
षोडश दशेन्द्रियाणि मनः पञ्चभूतानि । ज्ञानकर्तारं विज्ञानात्मानम् उपासीनम् अर्थात्परात्मानं तस्यापि संहतत्वेन असंहतपुरुषशेषत्वात् ॥३३॥
तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः
।
श्रोतं नभोगुणं चैव चक्षुरग्नेर्गुणस्तथा
।
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥३४॥
रसात्मकत्वात्सोमो जलं तस्य गुणः कार्यं जिह्वा गन्धो गन्धग्राहकं घ्राणं ग्राह्यग्राहकयोरभेदात्स्पर्शं स्पर्शनेन्द्रियं जिह्वादीनां जलादिकार्यत्वं तद्गतरसादिग्राहकत्वाद्ग्राह्यग्राहकयोः समानजातीयत्वनियमोऽनेन सूचितः ॥३४॥
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा
।
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान् ॥३५॥
सत्त्वगुणं सत्त्वकार्यम् अव्यक्तजं प्रधानकार्यं सर्वेषां भूतानामात्मभूत ईश्वरस्तत्स्थम् उपाधित्वेन तत्र स्थितं सर्वान्तरङ्गं सत्त्वं जानीयात् सत्त्वविशिष्टस्य ज्ञेयत्वेऽपि चिद्विवेके परिशेषादचितः सत्त्वस्यैव ज्ञेयत्वमस्तीति सत्त्वमेव बुद्ध्येतेत्युक्तम् ॥३५॥
एते भावा जगत्सर्वं वहन्ति सचराचरम्
।
श्रिता विरजसं देवं यमाहुः प्रकृतेः परम् ॥३६॥
एते सत्त्वादय ईशादयो वा विरजसं सर्वप्रवृत्तिशून्यं कूटस्थम् ॥३६॥
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम्
।
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥३७॥
नव ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी देहप्राणौ च द्वाराणि विषयप्रापकाणि यस्मिन् तन्नवद्वारम् । भावैः शब्दादिभिः ॥३७॥
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान्
।
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥३८॥
अजरामर इति देहधर्मा स्पर्शः उक्तः । व्यक्तं मूर्तम् अव्यक्तम् अमूर्तं तदुभयात्मना उपदिश्यते वेदे । 'द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च' इत्यादिना यः स व्यक्ताव्यक्तोपदेशः कार्यकारणात्मा तद्वान् तदधिष्ठानभूतो नेतिनेतीत्यागमविषयः । एवंविधोऽपि व्यापकः कारणात्मा । सगुणो यः सर्वज्ञ इत्यादिश्रुतेः सार्वज्ञ्यादिगुणयुक्तः सूक्ष्मः दुर्लक्ष्यः सर्वाणि भूतानि गुणाश्च सत्त्वादयस्तेषामाश्रयोऽधिष्ठानम् ॥३८॥
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्
।
ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु ॥३९॥
यथेति । उपाधिवशान्महत्त्वमल्पत्वं वा प्राप्तोऽपि दीपवत्सर्वजन्तुषु स एवेत्यर्थः ॥३९॥
श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति
।
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥४०॥
येन श्रोत्रं वेद्यं स्वविषयं शब्दं वेदयते स एव शृणोति । एवं पश्यतीत्यादिष्वपि योज्यं येन श्रोत्रं शृणोति हि येन चक्षुश्च पश्यतीत्यादिश्रुतिभ्यः । अयं देहस्तु तस्य शब्दादिवेदनस्य कारणं निमित्तं न तु वेत्ता किं तु स एव कर्ता ॥४०॥
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते
।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥४१॥
एवंविधस्यापि देहे कुतोऽनुपलम्भ इत्याशङ्क्योपायाभावादित्याह - अग्निरिति । दारुभेदे कृतेऽपि न दृश्यते अयोगे योगाभावे सति नैवानुदृश्यते ॥४१॥
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते
।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥४२॥
व्यतिरेकमुक्त्वा अन्वयमाह - दारु दारुणि योगेनैव नान्येनोपायेन ॥४२॥
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः
।
संततत्वाद् यथा यान्ति तथा देहाः शरीरिणाम् ॥४३॥
योगाभावे देहसम्बन्धो न विच्छिद्यत इत्याह - नदीष्विति ॥४३॥
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः
।
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते ॥४४॥
देहान्तरप्रवेशोऽपि न शालाचैत्रवत् किं तु स्वप्नवदित्याह - स्वप्नेति । तथैव मरणान्ते देहमुत्सृज्य देहान्तरं प्राप्नोतीत्युपलभ्यते शास्त्रदृष्ट्या योगेन वा ज्ञायते ॥४४॥
कर्मणा बाध्यते रूपं कर्मणा चोपलभ्यते
।
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥४५॥
केन हेतुना देहान्तरं यातीति तत्राह - कर्मणेति । रूपं प्राचीनं शरीरं बाध्यते । न तु विवर्तते भ्रान्तिगृहीतस्य घटवन्निवृत्ययोगात् ॥४५॥
स तु देहाद्यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते
।
तथाऽन्यं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥४६॥
एतदेव विशदयितुं प्रतिजानीते - स त्विति ॥४६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वार्ष्णेयाध्यात्मकथने दशाधिकद्विशततमोऽध्यायः ॥२१०॥
भीष्म उवाच।
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते
।
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते ॥१॥
अस्मिन्नध्याये क्लेशोदयलयहेतू हानाय उपादानाय च प्रदर्श्येते - प्रवृत्तीत्यादिना। तेषां कर्मनिष्ठानां यथा धर्मः समुपलभ्यते तथा विज्ञाननिष्ठानां विज्ञानादन्यन्न रोचते॥१॥
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः
।
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम् ॥२॥
वेदोक्तेषु अग्निहोत्रादिषु शमादिषु च यथाधिकारं व्यवस्थिताः निष्ठावन्तः प्रयोजनं स्वर्गमोक्षौ तयोर्मध्ये संस्तुतं प्रशस्ततरं मोक्षमार्गं निवृत्तिरूपं महत्त्वादिच्छन्ति बुद्धिमत्तरा इति शेषः॥२॥
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्
।
इयं सा बुद्धिरभ्येत्य यया याति परां गतिम् ॥३॥
ननु जरामर्यमग्निहोत्रं भस्मान्तं शरीरमित्यादयो यावज्जीवं कर्मानुष्ठापका विधय उपरुध्येरन्निवृत्तिमागारे इत्याशंक्याह - सद्भिरिति। ‘एतद्ध स्म वै तत्पूर्वे विद्वांसो महाशाला महाश्रोत्रिया अग्निहोत्रं न जुहुवांचक्रिरे’ इत्यादिश्रुतेरेतत्कर्मत्यागात्मकं वृत्तं न निन्द्यम्।
‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
।
योगारूढस्य तस्यैव शमः कारणमुच्यत॥’
इति। भगवतैव प्रवृत्तिनिवृत्तिमार्गयोरधिकारभेदेन व्यवस्थापितत्वात्। इयं निवृत्त्यात्मिका परां गतिं मोक्षम्॥३॥
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान्
।
क्रोधलोभादिभिर्भावैर्युक्तो राजसतामसैः ॥४॥
एतदभावेऽनिष्टमाह - शरीरेति। शरीरवान् शरीराभिमानवान्॥४॥
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्
।
कर्मणा विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥५॥
देहयापनं देहसम्बन्धविच्छेदमशरीरताख्यं मोक्षम्। तत्रोपायमाह - कर्मणेति। विवरं आत्मविविदिषारूपं द्वारम् शुमान् स्वर्गादीन् कर्मफलभूतान्नाप्नुयात् न स्वीकुर्यात्। फलत्यागपूर्वकं चित्तशुद्ध्यर्थं कर्माण्येवाचरेदित्यर्थः॥५॥
लोहयुक्तं यथा हेम विपक्वं न विराजते
।
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते ॥६॥
चित्तशुद्ध्यभावे दोषमाह - लोहति। विपक्वं पाकहीनं भावे निष्ठा। अविपक्वकषाये पुंसि आख्या उपदेशो यस्य अजितरागादिदोषे उक्तमित्यर्थः॥६॥
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लवन्
।
धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति ॥७॥
कषायाणामपाके दोषमाह - यश्चेति। अनुप्लवन् अनुसरन् आक्रम्य उपमृद्य उत्क्रम्येति पाठः स्वच्छः॥७॥
शब्दादीन्विषयांस्तस्मान्न संरागादयं व्रजेत्
।
क्रोधो हर्षो विषादश्च जायन्तेह परस्परात् ॥८॥
संरागः रागाधिक्यं व्रजने दोषमाह - क्रोध इति। क्रोधो राजसः, हर्षः सात्त्विकः, विषादस्तामसः॥८॥
पञ्चभूतात्मके देहे सत्त्वे राजसतामसे
।
कमभिष्टुवते चायं कं वाऽऽक्रोशति किं वदन् ॥९॥
अभिष्टुवते अभिष्टौति चितः अविकारित्वाद्विकारिणश्च चेतसो जडत्वात् स्तुत्याक्रोशौ निरास्पदावित्यर्थः॥९॥
स्पर्श-रूप-रसाद्येषु सङ्गं गच्छन्ति बालिशाः
।
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम् ॥१०॥
विज्ञानात् विपर्ययबुद्धेः आत्मानं देहं पार्थिवं पृथ्वीविकारं गुणम्॥१०॥
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते
।
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति ॥११॥
देहस्य पार्थिवत्वे युक्तिमाह द्वाभ्याम् - मृन्मयमिति। शरणं गृहं मृद्विकारान्मृद्विकारमन्नादिकं प्राप्य न नश्यति जीवतीत्यर्थः॥११॥
मधु, तैलं, पयः, सर्पिर्मांसानि, लवणं, गुडः
।
धान्यानि, फलमूलानि मृद्विकाराः सहाम्भसा ॥१२॥
मृद्विकारानाह - मध्विति॥१२॥
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्
।
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम् ॥१३॥
कान्तारमातिष्ठन्संन्यासी औत्सुक्यं मिष्टान्नादौ रागं न समनुव्रजेत् आहारम् अन्नम्। यापनं देहनिर्वाहकम्॥१३॥
तद्वत्ससारकान्तारमातिष्ठन् श्रमतत्परः
।
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥१४॥
संन्यासिवद्गृहिणाऽपि विरक्तेन स्थेयमित्याह - तद्वदिति। संसारो गृहं यात्रार्थं वेदान्तश्रवणादिनिर्वाहार्थम्, न तु इन्द्रियप्रीत्यर्थम्॥१४॥
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च
।
क्षान्त्या, धृत्या च बुद्ध्या च मनसा तपसैव च ॥१५॥
एवं द्वयोरपि मिष्टान्नादौ वैराग्यमुपपाद्याश्रमद्वयसाधारणान् मोक्षधर्मानाह- सत्येति। सत्यं यथार्थभाषणं शौचं मृज्जलाभ्यां बाह्यं भावशुद्धिरान्तरमिति द्विविधम् आर्जवम् अकौटिल्यम्। त्यागो वैराग्यं वर्चः अध्ययनादिजं तेजस्तेन तत्कारणं लक्ष्यं विक्रमो मनोजये शौर्यम्। बुद्ध्या श्रवणजन्यया धृत्या क्लेशकालेऽपि चित्तविधारकयत्नेन मनसा क्रियमाणेन तपसा साध्वसाधुनोरालोचनेन भावान्समीक्ष्येत्युत्तरेणान्वयः॥१५॥
भावान्सर्वानुपावृत्तान् समीक्ष्य विषयात्मकान्
।
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥१६॥
संभवेत यथाक्रममिति पाठे यथाक्रमं संसारी चेत्कामादिना मुमुक्षुश्चेच्छमादिना संभवेत संयुज्येतेत्यर्थः। अदीनात्मा उदाराचत्तः॥१६॥
सत्त्वेन रजसा चैव तमसा चैव मोहिताः
।
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥१७॥
विपक्षे दंडमाह- सत्त्वेनेति॥१७॥
तस्मात्सम्यक् परीक्षेत दोषानज्ञानसम्भवान्
।
अज्ञानप्रभवं दुःखमहंकारं परित्यजेत् ॥१८॥
अज्ञानात्प्रभवः उत्पत्तिर्यस्य तम्॥१८॥
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः
।
त्रेलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम् ॥१९॥
महेति। ईश्वरादिकं सर्वमहङ्कारकल्पितमित्यर्थः॥१९॥
यथेह नियतः कालो दर्शयत्यार्तवान् गुणान्
।
तद्वद्भूतेष्वहंकारं विद्यात्कर्मप्रवर्तकम् ॥२०॥
नन्वेतदहंकारकल्पितं चेत्खप्नवन्नित्यमभिनवसंस्थानं स्यादित्याशंक्य पूर्वसंस्कारानुरोधात् समानरूपमेव कल्प्यते इति सदृष्टान्तमाह - यथेति। भूतेति भूतेन्द्रियादीनामुपलक्षणम्॥२०॥
सम्मोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम्
।
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ॥२१॥
त्रिगुणात्मकस्याहङ्कारस्य गुणकार्याणि विभजते - संमोहकमिति। कृष्णम् अन्धकारवदप्रकाशात्मकं प्रीतिदुःखे क्रमात्सात्त्विकराजसे॥२१॥
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्
।
प्रसादो हर्षजा प्रीतिरसंदहो धृतिः स्मृतिः
।
एतान् सत्त्वगुणान् विद्यादिमान् राजसतामसान् ॥२२॥
तान् कार्यभूतान् विशेषगुणान्॥२२॥
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः
।
विषादशोकावरतिर्मानदर्पावनार्यता ॥२३॥
कामादयो राजसाः विषादादयस्तामसाः॥२३॥
दोषाणामेवमादीनां परोक्ष्य गुरुलाघवम्
।
विमृशेदात्मसंस्थानमेकैकमनुसन्ततम् ॥२४॥
अस्य विभागस्य प्रयोजनमाह - दोषाणामिति। आत्मनि संस्थानं स्थितिम् एकैकं प्रत्येकम् अनुलक्षीकृत्य विमृशेत्को दोषः कियान् क्षीणः कियान् शिष्ट इति नित्यमालोचयेदित्यर्थः॥२४॥
युधिष्ठिर उवाच।
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
।
के पुनः पुनरायान्ति के मोहादफला इव ॥२५॥
त्यक्ताः पूर्वैर्मुमुक्षुभिरिति शेषः। के पुनरिति। अपरिहार्या इत्यर्थः पञ्चात्र प्रश्नाः अफला आगता अपि निष्फला इत्यर्थः॥२५॥
केषां बलाबलं बुद्ध्या हेतुभिर्विमशेद्बुधः
।
एष मे संशयस्तात तन्मे ब्रूहि पितामह ॥२६॥
भीष्म उवाच।
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते
।
विनाशयति सम्भूतमयस्मयमयो यथा
।
तथा कृतात्मा सहजैर्दोषैर्नश्यति तामसैः ॥२७॥
दोषैरिति सार्धश्लोक एकं वाक्यम्। मूलात् मूलम् अज्ञानं तदारभ्य अवच्छिनैर्लूनैः मूलच्छेदेनैव दोषांश्छिन्द्यात्ततश्च ते पश्चाच्छिन्नमूलतरुविलासितवत्। कञ्चित्कालमनुवर्तमाना अप्यफला एवेत्यर्थः। मूलच्छेदे उपायं सदृष्टान्तमाह - विनाशयतीति। संभूतमुत्पन्नमयस्मयं लोहनिगडम्। अयः वाऽस्य धारामयम्। एवं कृतात्मा ध्यानसंस्कृता बुद्धिः। तामसैः विपर्यासरूपैरविद्यादिदोषैः सहजैरनादिभिः सह नश्यति तान्नाशयित्वा स्वयमपि कतकरजोवत् शाम्यति। अत्र वास्य धारानिगडं छित्त्वा स्वयमपि नश्यतीति विवक्षया दृष्टान्तदार्ष्टान्तिकयोः साम्यम्॥२७॥
राजसं तामसं चैव शुद्धात्मकमकल्मषम्
।
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम् ॥२८॥
चतुर्थप्रश्नोत्तरमुक्त्वा तृतीयप्रश्नोत्तरं पादत्रयेणाह - राजसमिति। शुद्धात्मकं सत्त्वम्। तच्चाकल्मषं काममोहराहित्यात् गुणत्रयं देहिनां देहप्राप्तौ बीजम् आत्मवतो जितचित्तस्य तु सत्त्वं समं ब्रह्म तत्प्रापकम्। ‘निर्दोषं हि समं ब्रह्म’ इति समशब्दस्य ब्रह्मणि प्रयोगात्॥२८॥
तस्मादात्मवता वर्ज्यं रजश्च तम एव च
।
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ॥२९॥
प्रथमप्रश्नोत्तरमाह- तस्मादिति। सत्त्वं बुद्धिः॥२९॥
अथवा मन्त्रवद्ब्रूयुरात्मादानाय दुष्कृतम्
।
स वै हेतुरनादाने शुद्धधर्मानुपालने ॥३०॥
अथवेति। आत्मादानाय बुद्धिवशीकाराय विहितं मन्त्रवत् मन्त्रयुक्तं यज्ञादिकं कर्म केचिद्दुष्कृतामति ब्रूयुः सांख्याः पशुबीजादिहिंसामिश्रत्वात्। तस्माज्जपादिरेव हिंसाहीनो धीशुद्ध्युपायः श्रेयानिति भावः। अत्रायं सांख्यवृद्धानामभिप्रायः। ‘न हिंस्यात्सर्वभूतानि’ इति निषेधः पुरुषार्थो न तु क्रत्वर्थः। येनास्याग्नीषोमीयं पशुमालभेतेत्यनेन समानविषयत्वं स्यात्। यथा आहवनीये जुहोतीति होमार्थस्याहवनीयस्य पदे जुहोतीति होमार्थेनैव पदेनापवादस्तद्वत्। न च पुरुषार्थस्य सतः क्रत्वर्थत्वमपि निषेधस्य वक्तुं युक्तं कर्त्रधिकरणविरोधात्। तत्र हि पुरुषार्थे नानृतं वदेदिति निषेधे सत्यपि दर्शपूर्णमासप्रकरणे पुनः क्रत्वर्थतया नानृतं वदेदित्यनृतवदनं निषिध्यते क्रतुमध्ये कारणविशेषात्पुरुषार्थनिषेधोल्लंघने तु क्रतुवैकल्यं माभूदिति। तस्माद्भिन्नविषयत्वाद्धिंसाविधितन्निषेधशास्त्रयोः परिहृत्यापवादमुत्सर्गाः प्रवर्तन्त इत्यस्य न्यायस्याप्रवृत्तिः। अधिकारिभेदापि तत्र तदप्रवृत्तिः। गृहासक्तो हि हिंसाशास्त्रेऽधिक्रियते न तु विरक्तः तस्य यदहरेव विरजेत्तदहरेव प्रव्रजेत् इति प्रव्रज्याविधानात्। न च गृहाश्रमोऽपि नित्यः तस्य रागतः प्राप्तत्वात् ब्रह्मचर्यादेव प्रव्रजेदिति विधिविरोधाच्च। तस्माद्यथा श्येनेनाभिचरन्यजेतेतिशास्त्राच्छत्रुमारणकामस्य श्येनो विधीयमानो हिंसात्मकफलद्वारा न हिंस्यादिति शास्त्रं निरुन्धे। तद्वत्स्वर्गपश्वादिकामस्य गृहमेधिनो ज्योतिष्टोमेन स्वर्गकामो यजेत, चित्रया यजेत पशुकामः इत्यादिविधिः पशुबीजादिहिंसात्मकसाधनद्वारा न हिंस्यादिति शास्त्रं निरुणद्धि ततश्च पुरुषः प्रत्यवैति। यथोक्तम् - दृष्टवदानुश्रविविकः स ह्यविशुद्धिक्षयातिशययुक्त इति। यथा दृष्टः सुखोपायो दोषादियुक्तः, एवं वैदिकोऽपीति सांख्यकारिकार्थः। स्वमतमाह - स वै इति। सैवेति पाठेऽपि सैष दाशरथीतिवत्सन्धिः। स मन्त्रवान् यज्ञादिधर्म अनादाने वैराग्ये हेतुर्निमित्तं भवति चित्तशुद्धिद्वारा नित्यानित्यवस्तुविवेकादिप्रनाड्या भवति। तथा शुद्धधर्मः शमादिस्तस्यापि रक्षणे स एव यज्ञादिधर्मो भवति। अयमर्थः - ‘विविदिषन्ति यज्ञेन’ इत्यादिश्रुतेरश्वेन जिगमिषतीत्यादौ गतावश्वस्येव विद्यायां यज्ञादीनां हिंसायुक्तधर्माणां साधनत्वं गम्यते। तथा शान्तो दान्त इत्यादिना निवृत्तिरूपस्यापि अहिंसादेर्धर्मस्य विद्यासाधनत्वं गम्यते। यथा द्वावश्वौ रथे नियुक्तावविरुद्धदिक्क्रियौ सन्तावेवेष्टं देशं रथिनं नयतो न तु तयोरन्यतरस्येषदपि विरुद्धदिक्क्रियत्वे एवं यज्ञ ईषदप्यहिंसाशास्त्रविरोधी चेत्तेन सहैकार्थ्यं न भजेदिति यज्ञादिव्यतिरिक्तहिंसाया एवाहिंसाशास्त्रेणानर्थहेतुता बोध्यते इति। तथा च सूत्रम्- सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति। यस्तु काम्यो यज्ञस्तस्यास्त्वंशतो दोषहेतुत्वं न नः किंचिच्छिन्नम्। स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्श इति सांख्याचार्यवचनमपि तद्विषयमेव पुण्ये कर्मणि स्वल्पो हिंसाजन्योऽधर्मसङ्करः स्वल्पेनापि प्रायश्चित्तेन परिहर्तुं शक्योऽपरिहारे वा फलकाले सोढुं शक्यः सुखसमुद्रमग्नो हि दुःखकणिकां सोढुमर्हतीति सर्वमनवद्यम्॥३०॥
रजसाऽधर्मयुक्तानि कार्याण्यपि समाप्नुते
।
अर्थयुक्तानि चात्यर्थं कामान् सर्वांश्च सेवते ॥३१॥
वैदिकेऽपि कर्मणि राजसं तामसं कामक्रोधादिहेतुकं त्याज्यं सात्त्विकं सेव्यमित्याह श्लोकत्रयेण - रजसेति। अधर्मेति च्छेदः। लौकिकं तु राजसं तामसं च कर्म सुतरां त्याज्यमिति भावः॥३१॥
तमसा लोभयुक्तानि क्रोधजानि च सेवते
।
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥३२॥
सत्त्वस्थः सात्त्विकान् भावान् शुद्धान्पश्यति संश्रितः
।
स देही विमलः श्रीमान् श्रद्धाविद्यासमन्वितः ॥३३॥
सात्त्विकं तु मुमुक्षुणां पथ्यमित्यर्थः॥३३॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वार्ष्णेयाध्यात्मकथने द्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥
भीष्म उवाच।
न स वेद परं ब्रह्म यो न वेद चतुष्टयम्
।
व्यक्ताव्यक्तं च यत्तत्त्वं सम्प्रोक्तं परमर्षिणा ॥१॥
उक्तं वक्ष्यमाणं च साधनजातं समुच्चिनोति - न स इति। धर्ममिति पाठे ‘अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्’ इति याज्ञवल्क्योक्तलक्षणं धर्मम्। चतुष्टयं पूर्वोक्तं दृष्टान्तभूतं स्वप्नसुषुप्त्याख्यं द्वयं दार्ष्टान्तिकं च सगुणनिर्गुणब्रह्मभावाख्यं द्वयमिति चतुष्टयम्। व्यक्तं दृश्यम् अव्यक्तं चिदात्मा यत्तत्त्वमनारोपितं रूपं यस्य तत् परमर्षिणा नारायणेन॥१॥
व्यक्तं मृत्युमुखं विद्यादव्यक्तमृतं पदम्
।
प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥२॥
व्यक्ताव्यक्तयोस्तत्त्वं स्वरूपतः फलतश्चाह द्वाभ्याम् - व्यक्तमिति। ऋषिर्वेदः स एव नारायणवाक्यत्वान्नारायणः॥२॥
तत्रैवावस्थितं सर्वं त्रैलोक्यां सचराचरम्
।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥३॥
ब्रह्माण्डाधिपत्यान्तं सर्वे कर्म फलान्तर्भूतमित्यर्थः। निवृत्तिर्देहेन्द्रियाद्यहङ्कारान्तानां बाधस्तल्लक्षणो धर्मस्तु ब्रह्मैव॥३॥
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्
।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥४॥
प्रजापतिः स्रष्टा रजोमयत्वात्॥४॥
तां गतिं परमामेति निवृत्तिपरमो मुनिः
।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥५॥
तां एषोऽस्य परम आनन्द एषाऽस्य परमा संपदिति श्रुतिप्रसिद्धां कैवल्यावस्थां शुभाशुभे मुक्तिसंसारौ निश्चयेन द्रष्टुमिच्छन् ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल्। ज्ञानतत्त्वं चिदात्मतत्त्वं तद्विचारपरो नित्यं स्यात्॥५॥
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ
।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥६॥
तत् तत्र तत्त्वविचारे कर्तव्ये एवं वक्ष्यमाणं प्रकारं जानीयात्। अव्यक्तं प्रधानं पुरुषः क्षेत्रज्ञो जीवः महत्तरम् ईश्वरः। प्रधानं क्षेत्रज्ञपतिर्गुणेश इति श्रुतिप्रसिद्धं त्रयम्॥६॥
तं विशेषमवेक्षेत विशेषेण विचक्षणः
।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥७॥
तेषु यन्महत्तरं तं विशेषं क्लेशादिभिरपरामृष्टतया विशिष्टं परमात्मानम् अवेक्षेत साक्षात् कुर्यात्। विशेषेण बाध्यत्वाबाध्यत्वलक्षणेन वैपरीत्येन विशेषमेवाह - अनादीति। उभौ प्रधानक्षेत्रज्ञौ अनादी अनन्तौ अलिङ्गौ मानान्तराविषयौ॥७॥
उभौ नित्यावविचलौ महद्भ्यश्च महत्तरौ
।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥८॥
नित्यौ मूढस्यापरिहार्यौ एवमादिपुंप्रकृत्योः साधर्म्यं विशेषणं व्यावर्तकं वैधर्म्यं तु एवं विद्यात्॥८॥
प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणधर्मया
।
विपरीतमतो विद्यात् क्षेत्रज्ञस्य स्वलक्षणम् ॥९॥
एवं कथं तदाह - प्रकृत्येति। अप्रसवधर्मा निर्गुणश्च पुरुष इति विपरीतम्॥९॥
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्
।
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहतौ ॥१०॥
विकाराणां महदादीनां द्रष्टारं न तु दृश्यम्। एवं प्रधानक्षेत्रज्ञयोः साधर्म्यवैधर्म्ये उक्त्वा क्षेत्रज्ञेश्वरयोरपि साधर्म्यमाह - अग्राह्याविति। अग्राह्यौ यतः पुरुषौ चिद्रूपौ अलिङ्गौ लिङ्ग्यते ज्ञाप्यतेऽनेनेति गुणादिकं प्रतिसम्बन्धि लिङ्गं तद्राहित्यादसंहतौ अत्यन्तावविक्तौ॥१०॥
संयोगलक्षणोत्पत्तिः कर्मणा गृह्यते यथा
।
करणैः कर्मनिवृत्तिः कर्ता यद्यद्विचेष्टते
।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति ॥११॥
नन्वलिङ्गयोर्जीवेशयोर्लिङ्गभेदप्रयुक्तो भेदः कुतः स्यादित्याशंक्यौपाधिकस्तयोर्भेदो न स्वत इत्याशयेनाह - संयोगेति। संयोगो दृग्दृश्यसम्बन्धः लक्षणं ज्ञापकम् उत्पत्तिराविर्भावहेतुश्च यस्य स संयोगलक्षणोत्पत्तिः। कर्तेति कर्तुर्बुद्धौ चित्प्रतिबिम्बत्वं लक्षणमुक्तम्। ननु बुद्धिरेव चिच्छायापन्ना कर्त्री किं तदुभयेतरेण कर्त्रेत्याशङ्क्याह - कर्मनिवृत्तिरिति। कर्मणां शास्त्रीयाणां लौकिकानां च निवृत्तिर्निष्पत्तिर्यस्मात्। अयमर्थः - कर्ता शास्त्रार्थवत्त्वादितिन्यायेन विधिनिषेधशास्त्राक्षिप्तः कश्चिन्नियोज्यस्तावदस्ति। स च न बुद्धिः तस्याः काष्ठलोष्ठसमत्वेनानियोज्यत्वात्। नापि पुरुषः अकर्तृत्वात्। अतः शास्त्राद्यर्थवत्त्वाय तदुभयसंयोगजः कर्ताऽवश्यं प्रधानेश्वरव्यतिरिक्तलक्षणोऽभ्युपेय इति। सः कर्ता यद्यद्यथा यथा करणैरिन्द्रियादिभिः साधनैर्विचेष्टते कर्म कुरुते तथा तथा तत्तद्योनिप्रदेन कर्मणा सहितो गृह्यते अतः समानेऽपि दृग्दृश्यसंयोगे दृश्योपाधिस्वरूपभेदात् कर्तृभेद इत्यर्थः। एवं च कर्ता व्यवहारतस्तृतीयोऽपि परमार्थतो दृक्कोटिरेव न तु दृश्यकोटिरिति दृष्टान्तमुखेनाहार्धेन - कीर्त्यत इति। यथा स्वस्य कौन्तेयत्वमजानानः कर्णः 'कः कौन्तेय' इति पृच्छति स एव सूर्येण प्रबोधितोऽहं कौन्तेय इति वक्ति एवमज्ञः किं ब्रह्मेति पृच्छति ज्ञस्त्वहं ब्रह्मेति जानाति एवमेकस्मिन्नपि वस्तुन्युपाधिभेदाज्ज्ञानाज्ञानकृतभेदाद्विभिन्नौ शब्दप्रत्ययौ भवतः। संज्ञा प्रत्ययः एवं दृश्येप्येषोऽसाविति सामीप्यासामीप्यकृतौ शब्दप्रत्ययावेकत्रापि भिन्नौ भवत एवं जीवेशाविति॥११॥
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः
।
संवृतोऽयं तथा देही सत्त्व-राजस-तामसैः ॥१२॥
ननु विनिगमकाभावाद्दृश्यकोटिरेव कर्ता कथं नेत्याशङ्क्याह - उष्णीषवानिति। वस्त्रैः वस्त्रवदाच्छादकैस्त्रिभिः स्थूलसूक्ष्मकारणदेहैः यथा उष्णीषी उष्णीषादन्य एवं देही गुणेभ्योऽन्य इत्यर्थः। न हि प्रतिबिम्बमुखं दर्पणे दृश्यमानमपि दर्पणकोटिगतं तथा जीवोऽपीति भावः॥१२॥
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम्
।
यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ॥१३॥
चतुष्टयं द्वे पुंप्रधानयोः साधर्म्यवैधर्म्ये द्वे जीवेश्वरयोश्च साधर्म्यवैधर्म्ये इति। एतैः पूर्वोक्तैः अनाद्यन्तत्वेन चिज्जडत्वेन असंहृतत्वेन कर्तृत्वेन चेति चतुर्भिर्हेतुभिः आवृतमपि मया सम्यग्व्याख्यातमित्यर्थः। यथासंज्ञः उक्तविधं ज्ञानमनतिक्रान्तः अन्तकाले सिद्धान्तसमये॥१३॥
श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः
।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥१४॥
एतच्चतुष्टयं ज्ञात्वा यत्कर्तव्यं तदाह - श्रियमिति। दिव्यां दिवि हार्दाकाशे ब्रह्मणि भवां वर्ष्मवान् देहवान् शारीरैः शरीरनिर्वर्त्यैः नियमैः शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानाख्यैः। निष्कल्मषं निष्कामं तपः योगम्॥१४॥
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता
।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥१५॥
तपसा योगेन तद्बलेनेत्यर्थः। अन्तर्भूतेन आन्तरेण न तु समित्कुशाज्यपयआदिबाह्यद्रव्यसाध्येन भास्वता चैतन्यप्रकाशवता दिवि हार्दाकाशे सूर्यादिकं तपसा योगेन भासते। ’यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते। उभावग्निश्च वायुश्च सूर्याचन्द्रमसौ’ इत्यादिश्श्रुतेः। सर्वस्य तदन्तर्गतत्वावगमात्। अत एव योगिनां व्यवहितादिसाक्षात्कार उपपद्यते॥१५॥
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः
।
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ॥१६॥
प्रकाशो विकसनं फलमित्यर्थः तपसो योगस्य संशब्दितं ‘योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्’ इति सर्वत्र ख्यातं ज्ञानहेतुत्वेन तस्य स्वलक्षणम् असाधारणं रूपम्। रजस्तमोघ्नं प्रवृत्त्यावरणयोर्नाशकम् । कर्म वैराग्यपूर्वकं वेदान्तश्रवणम्॥१६॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
।
वाङ्मनोनियमः सम्यङ्मानसं तप उच्यते ॥१७॥
तपोविशेषावाह - ब्रह्मेति॥१७॥
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते
।
आहारनियमेनास्य पाप्मा शाम्यति राजसः ॥१८॥
वैमनस्यं च विषये यान्त्यस्य करणानि च
।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥१९॥
वैमनस्यं वैराग्यं विषये शब्दादौ कारणानि इन्द्रियाणि अस्य शिष्टान्नभुजः तन्मात्रम् आहारमात्रं न तु धनादिकं शिष्टेभ्योऽप्यादद्यात्॥१९॥
अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः
।
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते ॥२०॥
एवंविधसाधनसंपत्त्यभावेऽपि मोक्षे उपायान्तरमस्तीत्याह- अन्तेति। तत् ज्ञानम् अन्तकाले बलोत्कर्षात्कुर्यात् यज्ज्ञानं योगयुक्तेन मनसा शनैः उपपद्यते इत्यन्वयः। अयमाशयः - आदिपर्वणि विष्ण्वनुग्रहाद्देवा अमृतं लेभिरे राहुस्तु च्छलेनामृतार्थी देवपंक्तिस्थो देहभेदेन सहैव तल्लेभे इत्युपाख्यातम्। तत्राख्यायिकानां स्वार्थे तात्पर्याभावात्ततः कश्चिद्विधेयोऽर्थ उन्नेयः। स च यथोक्तसाधनानुष्ठानात् सात्त्विका मुक्तिभाजः स्युः। असात्त्विकोऽपि मोक्षक्षेत्रे मरणकाले मुक्तिमाप्नोति इति। तथा आश्वमेधिके संवर्तमरुत्तीये काश्यां वसतः संवर्तस्य शवदर्शनेन शिवदर्शनसिद्धिः सूचिता। तेन काश्यां मृतस्य शिवत्वेन तत्प्रतिमावत्तच्छरीरस्य लिङ्गत्वं सूच्यते। तथा इहापि बलोत्कर्षात् अन्तकाले ज्ञानं कुर्यादित्युच्यते तेन सर्वेणेतेन वाक्यसंदर्भेण अत्र हि जन्तोः प्राणेयुत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति तस्मादविमुक्तमेव निषेवेताविमुक्तं न विमुञ्चेदित्यस्याः श्रुतेरर्थः काश्यां म्रियमाणस्य रुद्रमुखात्तारकोपदेशप्राप्त्या मुक्तिप्राप्तिरिति समस्तपुराणोपबृंहितः सूचित इति - गम्यते। बलोत्कर्षादतियत्नेन काश्यां वासात्। अन्तकाले ज्ञानं कुर्यादीशोपदेशात्संपादयेत्॥२०॥
रजोवर्ज्योऽप्ययं देही देहवाञ्छब्दवच्चरेत्
।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ॥२१॥
एवं मोक्षे साधनान्तरमुक्त्वा आपेक्षिकत्वमप्याह - रज इति। अयं देही रजोवर्ज्यः बाह्येन्द्रियप्रवृत्तिशून्यः समाधौ संत्यक्तस्थूलदेहोऽपि देही पुरुषः देहवान् भूत्वा शब्दवत् शब्दादिमत् कार्यं सूक्ष्मशरीरं चरेत् अनुचरेत्। यस्तु कार्यैरव्याहतमतिः स वैराग्यात् सूक्ष्मभोगेष्वपि निस्पृहः प्रकृतौ लीयते न तु प्रकृतेः परं पुरुषं प्राप्नोति। अयं भावः - स्थूलसूक्ष्मकारणशरीरैर्मुक्तो योगी सद्यो मोक्षमश्नुते। स्थूलमात्रविहीनो विदेहः। स्थूलसूक्ष्माभ्यां विहीनः प्रकृतिलयः। एतौ हि सुषुप्तिस्थवत् उत्तरकक्ष्यां प्रविविक्षन्तौ मध्ये लयेनाभिभूतौ निर्विकल्पं पदमनुभवत इव। अत एव तयोरसंप्रज्ञातः संसारहेतुः। तथा च सूत्रितम् - भवप्रत्ययो विदेहप्रकृतिलयानाम् इति॥२१॥
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते
।
हेतुयुक्तः सदा सर्गो भूतानां प्रलयस्तथा ॥२२॥
आदेहात् देहपातावधि अप्रमादात् अनवधानत्वाद्यभावात्। देहानां स्थूलसूक्ष्मकारणानाम् अन्तात् बाधात्। विशेषेण सद्य एव मुच्यते। पूर्वौ तु क्रममुक्तिभाजावित्याह - हेत्विति। हेतुर्मूलाज्ञानं तदनाशाद्द्विदेहादीनां अन्येषां च भूतानां कर्माविनाशस्ततः सर्गप्रलयौ जन्ममरणे स्त इत्यर्थः॥२२॥
परप्रत्ययसर्गे तु नियतिर्नानुवर्तते
।
भावान्तप्रभवप्रज्ञा आसते ये विपर्ययम् ॥२३॥
परप्रत्ययसर्गे शुद्धब्रह्मसाक्षात्कारोदये नियतिर्धर्माधर्मौ नानुवर्तते। शुद्धब्रह्मविदस्तदधिगम उत्तर पूर्वाघयोरश्लेषविनाशाविति न्यायेन पूर्वपापस्य नाश उत्तरस्यासंश्लेषश्च भवती त्यागाभिजन्मकारणाभावान्मुक्तिरित्यर्थः। परप्रत्ययाभावे संसारानर्थयोग इत्याह - भावेति। ये विपर्ययं अनात्मसु प्रकृत्यादिदेहान्तेषु अन्यतमस्मिन् तत्समुदाये वा आत्मबुद्धिं कृत्वा आसते भावानां महदादीनां अन्तप्रभवयोर्नाशोदययोरेव प्रज्ञा बुद्धिर्येषां ते तथा भवन्ति। विपर्यस्तमतीनां मोक्षकथापि नास्तीत्यर्थः॥२३॥
धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तचेतसः
।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते ॥२४॥
धृत्या आसनाद्यप्रच्युत्या देहान् धारयन्तो योगिनः। बुद्ध्या संक्षिप्तं विषयेभ्यः प्रत्याहृतं चेतो यैस्ते। स्थानेभ्यः अक्ष्यादिभ्य इन्द्रियगोलकेभ्यो ध्वंसमानाः च्युताः त्यक्तान्नमयकोशाः। सूक्ष्मत्वात् अन्नमयापेक्षया। न तु वस्तुतः तान् प्राणेन्द्रियादीन् उपासते आत्मत्वेन चिन्तयन्ति । यथोक्तं पुराणान्तरे।
‘दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः
।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः
।
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः
।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः
।
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते॥’
इति। ब्रह्मलोके एते सर्वे तिष्ठन्तीत्यर्थः॥२४॥
यथागमं च गत्वा वै बुद्ध्या तत्रैव बुद्ध्यते
।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयम् ॥२५॥
यस्मादेवं तस्मात् यथागमम् -
'इन्द्रियेभ्यः परा ह्यर्था अर्थभ्यश्च परं मनः
।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः
।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः
।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः
।
’
इतीमं वेदमनतिक्रम्य ततस्ततः परं परं स्थानं गत्वा तत्र परस्यां काष्ठायां विषये स्वयमेव बुद्ध्या धीवृत्त्या बुद्ध्यते जानाति परां काष्ठां देहान्तम् अव्यक्तादपि परम्। एवेनाव्यक्तात्पुरुषः पर इति श्रौतमव्यक्तपदं देहपरं न तु सांख्याभिमताव्यक्तपरमिति व्याख्यातम्। आनुमानिकाधिकरणे चैतत्स्पष्टम्। तं देहान्तं कश्चिदेव भावितात्मा योगशोधितमतिरन्वास्तेऽमुं शास्त्राचार्योपदेशमनुप्राप्यास्ते निराश्रयं स्वमहिमप्रतिष्ठं पराकाष्ठारूपत्वात्॥२५॥
युक्तं धारणया सम्यक् सतः केचिदुपासते
।
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् ॥२६॥
युक्तमिति। धारणया धारणाविषयेण मूर्तब्रह्मणा कृष्णादिना युक्तं तादात्म्यसम्बन्धेन सेव्यसेवकभावेन वा युक्तं निबद्धम् आत्मानं कश्चिदुपास्ते। सत इति कर्मणि षष्ठी। अविद्याशबलं केचिदुपासते। अपरे परं शबलादुत्कृष्टं निर्गुणं ब्रह्म अभ्यस्यन्ति पुनः पुनरनुभवविषयतामापादयन्ति। विद्युत्संशब्दितं सकृद्विभातो ह्येष ब्रह्मलोक इति श्रुतेः विद्युद्वत्सकृद्विभातत्वेन विद्युत्संशब्दितं केनेषितमित्युपनिषत्प्रसिद्धमिदं विशेषणम्। अक्षरम् अपरिणामि। ननु देहान्तपदेनैवैतदुक्तम्। सत्यम्। तत्र ज्ञेयत्वेनोक्तम् इह तूपास्यत्वेनोच्यते कः पुनरेतावता भेदः। शृणु। आद्ये श्रवणादिप्रणाल्याऽध्यस्तानात्मनिरसनेनात्मतत्त्वावाप्तिः सर्पबाधेनेव रज्ज्ववगतिः, द्वितीये तु मूलप्रमाणाभावेऽपि तव पाणौ पञ्चरत्नानीति वदतो वाक्यं कदाचित्संवाद्यते तद्वत्त्वं ब्रह्मासीति गुरुवाक्ये विश्वासमात्रात्प्रवृत्त आत्मनो ब्रह्मभावं चिन्तयंस्तमनुभवति। सेयं संवादिभ्रमवदुपास्तिर्ब्रह्मसाक्षात्कारफलेति॥२६॥
अन्तकाले ह्युपासन्ते तपसा दग्धकिल्बिषाः
।
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ॥२७॥
अन्तेति। तपसा अविमुक्तोपासनेन अन्तकाले उपासन्ते ब्रह्म प्राप्नुवन्ति अस गतावित्यस्य रूपम्। एते पञ्च यथायोगं परमां निर्विशेषां गतिं क्रमेण सद्यो वा गच्छन्ति॥२७॥
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा
।
देहान्तं परमं विद्याद्विमुक्तमपरिग्रहम् ॥२८॥
सूक्ष्ममिति। विशेषणं व्यावर्तकम् उपाधिभूतं तेषां सोपाधिकब्रह्मणाम् अवेक्षेत हेलनया हेयत्वेन पश्येत् यथोक्तं कल्पतरौ --
‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः
।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः
।
स्थिरीकृते मनस्येषां सगुणब्रह्मचिन्तनात्
।
तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्
।
’
इति। देहान्तम् अव्यक्तलयाधिष्ठानम्। देहं त्वितिपाठे अव्यक्तमेव। परमं चरमं विशेषणम्। न ततः परमन्यद्ध्येयमस्तीत्यर्थः। विमुक्तमपरिग्रहमित्यादिपादोनश्लोक एकं वाक्यम्। विमुक्तं स्थूलदेहाध्यासहीनम्। अपरिग्रहं संन्यासिनम्॥२८॥
अन्तरिक्षादन्यतरं धारणासक्तमानसम्
।
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः॥२९॥
धारणासक्तमानसं योगिनम् अन्तरिक्षात् अन्तरिक्षं हार्दाकाशस्तमारभ्य अन्यतरम् ईशं सूत्रात्मानं वा विद्यादित्यर्थः। मर्त्येति। यत्किंचित् श्रौतोपास्तियुक्ताः मर्त्यदेहाद्विमुच्यन्ते॥२९॥
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्
।
एवमेकायनं धर्ममाहुर्वेदविदो जनाः ॥३०॥
ततः आरोहक्रमेण परां गतिं यान्ति एकायनम् एकं ब्रह्मैवायनं प्राप्तिस्थानं यस्मिन्॥३०॥
यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम्
।
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम्
।
यान्ति तेऽपि पराँल्लोकान् विमुच्यन्ते यथाबलम् ॥३१॥
कषायेति। रागादिहीनमचलं येषां शास्त्रीयं परोक्षमपि ज्ञानमुत्पद्यते तेऽपि यथाबलं यथावैराग्यं मुच्यन्ते॥३१॥
भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम्
।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥३२॥
भगवन्तं सर्वैश्वर्यवन्तम्॥३२॥
ज्ञात्वाऽऽत्मस्थं हरिं चैव न निवर्तन्ति तेऽव्ययाः
।
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥३३॥
आत्मस्थं कोशपञ्चकान्तर्गतम्॥३३॥
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च
।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥३४॥
संक्षेपेण ज्ञेयं हेयं चाह - एतावदिति। अस्ति च नास्ति चेत्यनेन रज्जूरगादिवज्जगद्भ्रान्ताभ्रान्तयोरस्ति च नास्ति चेत्यनिर्वचनीयमित्युक्तं जगन्मिथ्यात्वं ज्ञेयं तृष्णा च त्याज्येत्यर्थः॥३४॥
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे
।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥३५॥
बिसं मृणालम्॥३५॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः
।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते ॥३६॥
विकारं प्रकृतिं चैव पुरुषं च सनातनम्
।
यो यथावद्विजानाति स वितृष्णो विमुच्यते ॥३७॥
तृष्णात्यागोपायमाह- विकारमिति। कार्यं कारणं शुद्धं च जानन् वितृष्णो भूत्वा विमुच्यते॥३७॥
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्
।
भूतानामनुकम्पार्थं जगाद जगतो गतिः ॥३८॥
प्रकाशं स्पष्टम्। अमृतं मोक्षसाधनम्॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वार्ष्णेयाध्यात्मकथने सप्तदशाधिकद्विशततमोध्यायः ॥२१७॥
युधिष्ठिर उवाच।
केन वृत्तेन वृत्तज्ञ जनको मिथिलाधिपः
।
जगाम मोक्षं मोक्षज्ञो भोगानुत्सृज्य मानुषान् ॥१॥
पूर्वं संक्षेपेण पुंप्रकृत्योर्वैधर्म्यमुक्तं तद्विवरणाय पञ्चशिखवाक्यमध्यायद्वयमारभते। तत्र तृष्णात्यागो मुख्यं मुक्तिसाधनं स च राज्ञां दुःशक इति मन्वानः मिथिलायां प्रदग्धायां न मे किञ्चन दह्यतीति पूर्वोक्तं स्वमतविरुद्धं जनकवचनं स्मरंस्तद्वृत्तं पृच्छति - केनेति॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम् ॥२॥
महत्सुखं मोक्षम्॥२॥
जनको जनदेवस्तु मिथिलायां जनाधिपः
।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥३॥
जनको जनकवंश्यः नाम्ना जनदेवः। ऊर्ध्वं देहादित्यूर्ध्वदेहमशरीरं ब्रह्म तत्प्राप्तिकराणाम् और्ध्वदेहिकानां विचिन्तने युक्तोऽवहित आसीत्॥३॥
तस्य स्म शतमाचार्या वसन्ति सततं गृहे
।
दर्शयन्तः पृथग्धर्मान्नानाश्रमनिवासिनः ॥४॥
धर्मान् उपासनामार्गान् पाठान्तरे पाषण्डाः लोकायतादयः तेषां वादिनः प्रतिभटत्वेन जेतारः पाषण्डवासिन इति पाठे पाषण्डान् वासयन्ति आच्छादयन्ति तिरस्कुर्वन्ति ते तथा॥४॥
स तेषां प्रेत्य भावे च प्रेत्य जातौ विनिश्चये
।
आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति ॥५॥
तत्र केचित्पाषण्डा देहनाशादात्मनाशमिच्छन्ति। अन्ये पुनर्देहस्यैव नाशं नेच्छन्ति । तत्राद्ये जगद्वैचित्र्यानुपपत्तिमन्त्ये प्रत्यक्षविरोधं चोद्भावयतां तेषां प्रेत्यभावे अस्माद्देहादुत्क्रम्य भावे सत्तायां प्रेत्य जातौ जन्मान्तरलाभे च विषये विनिश्चये स भूयिष्ठं न तुष्यति। यतः आगमस्थः तत्र तार्किकाणां विभूनामात्मनां पूर्वदेहेन्द्रियवियोगो मरणम् अपूर्वदेहेन्द्रियसम्बन्धो जन्मेति विनिश्चयः। सांख्यानां तु आत्मनां करणानां च विभूनामेव सताम् अरण्यामग्नेरिव तत्र तत्र वृत्तिलाभो जन्मवृत्तिविलयो मृत्युरिति विनिश्चयः। तथा कर्ता भोक्ता विभुरात्मेति पूर्वेषामात्मत्तत्त्वं परेषां तु भोक्तैव न कर्तेति। तत्रापाषण्डत्वात्किश्चित्तुष्यन्नपि भूयिष्ठं न तुष्यति आगमविरोधात्। आगमो हि स्वप्नवत्पूर्वदेहनाशोत्तरदेहप्राप्ती वदति। आत्मानं चाकर्तारमभोक्तारमेकं च। न तेषामितिपाठे आत्मतत्त्वेनेति तृतीया॥५॥
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः
।
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥६॥
कापिलेयः कपिलायाः पुत्रः परिधावन् एकत्र वासमकुर्वन्॥६॥
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये
।
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥७॥
सुपर्यवसितार्थः सम्यक् निश्चितप्रयोजनः॥७॥
ऋषीणामाहुरेकं तं यं कामानावृतं नृषु
।
शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम् ॥८॥
कामैरनावृतम् कामादवसितमिति पाठे यदृच्छया स्थितम्। नृषु सुखम् अन्विच्छन्तम्। स्थापयितुमिति शेषः॥८॥
यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्
।
स मन्ये तेन रूपेण विस्मापयति हि स्वयम् ॥९॥
सः कपिलः तेन पञ्चशिखसंज्ञेन तत्प्रशिष्यत्वात्तत्तुल्यत्वम्॥९॥
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्
।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥१०॥
पञ्च स्रोतांसि विषयकेदारप्रणालिका यस्य तस्मिन् मनसि मानसं सत्रमित्यर्थः॥१०॥
यत्र चासीनमागम्य कापिलं मण्डलं महत्
।
पञ्चस्रोतसि निष्णातः पञ्चरात्रिविशारदः ॥११॥
यत्र यत्समीपे कापिलं कपिलमतानुसारि। मण्डलं मुनिसमूहं प्रति परमार्थं यः न्यवेदयदित्युत्तरेण संबन्धः पञ्चस्रोतसि मनसि निष्णातः ऊहापोहकौशलवान् पञ्चरात्रो नाम विष्णुत्वप्रापकः क्रतुः। ‘पुरुषो ह वै नारायणोऽकामयतात्यतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति। स एतं पञ्चरात्रं पुरुषमेधं यज्ञक्रतुमपश्यत्’ इति शतपथोक्तस्तत्र विशारदः अनुष्ठिताखिलकर्मेत्यर्थः॥११॥
पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः
।
पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥१२॥
पञ्च अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयान् कोशान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्चज्ञः अत एव पञ्चकृत् पञ्चतद्विषयाप्युपासनानि ‘भृगुर्वै वारुणिः’ इत्यस्यामुपनिषदि ‘स तपस्तप्त्वाऽन्नं ब्रह्मेति व्यजानात्’ इत्यादिविहितानि करोति स पञ्चकृत् पञ्च ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ इति श्रुताः शान्त्यादयो गुणाः यस्मिन् स पञ्चगुणः। ततश्च ‘ब्रह्मविद्ब्रह्मैव भवति’ इति श्रुतेः पञ्चभ्योऽतिरिच्यमानत्वात् शिखेवेति पञ्चशिखं पुच्छं ब्रह्म तज्ज्ञत्वान्मुनिरपि पञ्चशिखः। ननु पञ्चकृत् कथं षष्ठज्ञः स्यादिति चेत् शृणु। यथाऽन्नमयं विकारमुपासीनस्तत्प्रकृतिमन्नं विराडाख्यमेति। एवं माययाऽविकृतमानन्दमानन्दमयाख्यमुपास्याविकृतमानन्दं तत्प्रकृतिमेतीति न षष्ठोपास्तिः पृथग्वक्तव्या षष्ठज्ञानाय तस्य पञ्चमोपास्तिफलत्वात्, तदेतदाह - पुरुषेति। पुरुषा अन्नमयादयः पञ्च अवसन्नतया बाधिततया तिष्ठन्तीत्यस्मिन्निति पुरुषावस्थम्। अत एव शिरआद्यवयवरहितत्वादव्यक्तम् अबाध्यत्वाच्च परमार्थम् अबोधयत्॥१२॥
इष्टसत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः
।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः ॥१३॥
तस्यापि गुरुमाह - अष्टेत्यादिना। इष्टसत्रेण आत्मयज्ञेन हेतौ तृतीया अध्ययनेन वसतीतिवत्। सम्यक् पृष्टः प्रश्नो यस्य संपृष्टः। आत्मज्ञानार्थं कृतप्रश्न इत्यर्थः। व्यक्तिं बाध्यत्वाबाध्यत्वेन स्पष्टतां देवदर्शनः दिव्यदृष्टिरित्यर्थः॥१३॥
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते
।
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥१४॥
सांख्यसंमतं गुणपुरुषान्तरज्ञानात्कैवल्यं प्रधानं चोपादानमिति पक्षं निरस्यति - यत्तदिति। अक्षरमेव जगदुपादानतया नानारूपं न तु क्षरं प्रधानम्। अव्ययं ब्रह्मैव प्रतिपेदे ज्ञातवान् न तु गुणपुरुषान्तरम्॥१४॥
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः
।
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥१५॥
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ
।
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥१६॥
एतन्मे भगवानाह कापिलेयस्य सम्भवम्
।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तम् ॥१७॥
भगवान्मार्कण्डेयः सनत्कुमारो वा ॥१७॥
सामान्यं जनकं ज्ञात्वा धर्मज्ञो ज्ञानमुत्तमम्
।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥१८॥
सामान्यं सर्वेष्वाचार्येषु समबुद्धिम्॥१८॥
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात्
।
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्॥१९॥
अभिसंरक्तो भक्तः॥१९॥
तस्मै परमकल्याय प्रणताय च धर्मतः
।
अब्रवीत्परमं मोक्षं यत्तत्सांख्येऽभिधीयते॥२०॥
कल्याय समर्थाय सांख्ये उपनिषत्काण्डे विधीयते अपूर्वतया ज्ञाप्यते न तु युक्त्या उन्नीयते॥२०॥
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्
।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥२१॥
जातिर्जन्म कर्म यागादि सर्वं ब्रह्मलोकान्तं तेषु निर्वेदो दुःखरूपत्वाद्दोषयुक्तत्वात्क्षयिष्णुत्वाच्च॥२१॥
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः
।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥२२॥
तं मोहमब्रवीदिति पूर्वेणान्वयः। तं कं यस्य मोहस्यार्थं कर्म तत्फलं च कांक्षते अनाश्वासिकम् अविश्वसनीयं शुक्तिरजताद्यसद्विषयप्रदर्शकत्वात्। विनाशि चञ्चलं ध्वंसिनमनियतकालं च अध्रुवं सत्त्वेनासत्त्वेन वा न निश्चितम्॥२२॥
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके
।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥२३॥
तमिममतस्मिंस्तद्बुद्धिलक्षणं मोहं विवरीतुं लोकायतानां मतमुपन्यस्यति - दृश्यमाने इत्यादिना। ते हि पार्थिवाप्यतैजसवायवीयाः परमाणवः स्वरस्नेहोष्णेरणस्वभावाः स्वयमेय देहाद्याकारेण संहन्यमाना मदशक्तिवच्चैतन्यं जनयन्ति देहे एव न तु घटादौ। स्वभावादिति सन्तमात्मानं नास्तीत्याहुः। असन्तं च देहं सन्तमाहुस्तदेतदाह - विनाशे देहरूपात्मध्वंसे प्रत्यक्षे सति देहात्परम् आत्मतत्त्वम् आगमप्रमाणादपि अस्तीति ब्रुवन्। लोकविरुद्धागमप्रामाण्यवादी पराजित एवेत्यर्थः॥२३॥
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः
।
आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ॥२४॥
ननु देहस्यैवात्मत्वे ‘स्वर्गकामो यजेत’ इत्यादयः परलोकफलाश्चोदना उपरुद्ध्येरन्नित्याशङ्क्याह - अनात्मेति द्वाभ्याम्। आत्मनो मृत्युः अनात्मा स्वरूपाभाव एव। क्लेशो दुःखं जरा वयोहानिः आमयो रोगश्च आत्मनो मृत्युरेव अंशेन स्वरूपनाशः। गृहस्येव दुर्बलं दुर्बलमंगं पूर्वपूर्वतरं नश्यति सोंऽशेन गृहनाश एवमिन्द्रियादिनाशेनाप्यंशत आत्मैव नश्यतीत्यर्थः। एवं सति य आत्मानं मोहात् । परं देहादन्यं मन्यते तत् मतम् असम्यक्॥२४॥
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते
।
अजरोऽयममृत्युश्च राजाऽसौ मन्यते यथा ॥२५॥
स्वर्गकामचोदना तु यथा राज्ञोऽजरत्वामरत्वाद्याशीरुपचार एवं दृष्टसुखे एव स्वर्गोपचारः। तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः। तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इत्यादिवत्प्रत्यक्षविरुद्धा श्रुतिर्नस्वार्थे प्रमाणमित्याह - अथेति। तथा अग्निहोत्रादेर्वैयर्थ्यमुदाहरन्ति --
‘अग्निहोत्रं त्रयीधर्मस्त्रिदण्डं भस्मगुण्ठनम्
।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः’
।
इति॥२५॥
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे
।
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥२६॥
एवं प्रत्यक्षाविरोधात् श्रुतिप्रामाण्यं दूषयित्वा व्याप्त्यग्रहादनुमानस्यापि तद्दूषयति- अस्ति नास्तीति। यथा चन्द्रतारके गत्यभावोऽस्ति नास्तीति संशयेऽस्ति गत्यनुपलब्धेरिति प्राप्ते नास्ति देशान्तरप्राप्तेरित्यनुमानेन यत् गत्यादिसाधनं तदपि असति लक्षणे ज्ञापके हेतौ शतशः सहचरितयोरपि व्यभिचारदर्शनादसति किं लिङ्गमधिष्ठाय आलम्ब्य लोकयात्राया वह्न्यादिव्यवहारस्य विनिश्चयं ब्रूयान्न किमपीत्यर्थः॥२६॥
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि
।
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न किञ्चन ॥२७॥
कृतान्तैतिह्ययोः अनुमानागमयोः भिन्नः बाधितः न किञ्चन प्रमाणमित्यर्थः॥२७॥
यत्र यत्रानुमानेऽस्मिन् कृतं भावयतोऽपि च
।
नान्यो जीवः शरीरस्य नास्तिकानां मते स्थितः ॥२८॥
फलितमाह - यत्रेति। यत्र कुत्राप्यनुमाने ईशादृष्टनित्यात्मान्यतमसाधके साध्यसिद्धिं भावयतः कृतम् अलं भावनयाऽलमित्यर्थः। उक्ताविधयाऽनुमानस्याप्रमाणत्वात् शरीरस्य शरीरात्॥२८॥
रेतो वटकणीकायां घृतपाकाधिवासनम्
।
जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥२९॥
अनुमानस्य प्रामाण्योपगमे तु तत एव देहादनन्यात्मासद्धिरित्याह - रेत इति। यथा समानेऽपि भूतचतुष्टयसंयोगे वटकणिकायां वटपत्रपुष्पफलमूलत्वगादिरूपरसादयोऽन्तर्हिताः। एवं तत्तद्रेतसि समानेप्युपष्टंभकभागे मनोबुद्ध्यहङ्कारचित्तशरीराकारगुणादयोऽन्तर्हिताः सन्त आविर्भवन्ति। यथा वा एकस्मादेव धेनूपभुक्तात्तृणोदकात् पयःसर्पिषी पृथक्स्वभावे यथा वा बहुद्रव्यकल्काद्द्वित्रिरात्रमधिवासितान्मदशक्तिरुत्पद्यत एवं रेतस उपलभ्योपलब्धांशौ वा भूतसंयोगाद्वा चैतन्यं जन्यते । जातिर्जन्माग्न्यादेः। यथा वा काष्ठद्वयसंश्लेषात्तत्प्रकाशकोऽग्निर्जायत एवं भूतयोगादपि तत्प्रकाशकं चैतन्यमुत्पद्यते इति जडद्वयादजडोत्पत्तौ दृष्टान्तान्तरं पराभिमतम्। स्मृतिरिति । यथा तर्कमते जडयोरप्यात्ममनसोर्योगादजडं स्मृत्यादिरूपं ज्ञानं जायते तद्वदत्रापि भविष्यति। एवमुत्पन्नं चैतन्यं अयस्कान्तमणीर्लोहमिव इन्द्रियसंघातं चालयिष्यति। कार्यवैचित्र्यमपि पार्थिवांशगतजातिभेदादेव भविष्यति। सूर्यकान्तयोगादेव सूर्यरश्मयोऽग्निं सुवते न पृथ्व्यन्तरयोगात्तद्वत्तत्। एवं भोक्तृत्वं वह्नेर्जलशोषकत्ववत्संघातस्यैव युज्यते इति युक्तं शरीरादन्यो जीवो नास्तीति॥२९॥
प्रेतीभूतेऽत्ययश्चैव देवताधुपयाचनम्
।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥३०॥
एतद्दूषयति - प्रेतीति। प्रेतीभूते देहे चैतन्यात्ययो देहातिरिक्तात्माऽस्तित्वे प्रमाणमित्यध्याहृत्य योज्यम्। यदि देहश्चेतनः स्यात्तर्हि मृतेऽपि देहे चैतन्यमुपलभ्येतातो न देहधर्मः चैतन्यमित्यर्थः। प्रेत्य भूतात्यय इति पाठे मृत्वा भूतनाशः यस्मिन्सति देहो न नश्यति असति च नश्यति स देहादन्य इत्यर्थः। तथा शीतज्वरनिवृत्त्यर्थं मन्त्रप्रतिपाद्या देवता लोकायतिकेन प्रार्थ्यते सा चेद्भूतमयी स्यात्तर्हि घटादिवद्दृश्येत। सूक्ष्मशरीरस्य लोकान्तरसञ्चारक्षमस्यास्वीकारात्। आदिपदात् भूतावेशोऽपि ग्राह्यः। यस्मिन् शरीरे भूतान्तरमाविशति तदा तद्देहपीडया मुख्यो देहपतिर्न बाध्यते। किं तु आविष्ट एव तदानीं तस्यैव देहाभिमानात्। तदपगमे तु मुख्य एव बाध्यतेऽतो न देह आत्मा दृष्टविरोधादित्यर्थः। मृते कर्मनिवृत्तिः। कृतनाशः चात् उत्पत्तौ अकृताभ्यागमश्च दोष इत्यर्थः॥३०॥
नन्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः
।
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते ॥३१॥
एवं स्वमते साधकान्युक्त्वा परोक्तान्हेतूनाभासयति- नन्वेत इति। मूर्तिसंस्थिता जडमेवाग्न्यादिकमिति सर्वे पूर्वोक्ता हेतवो जडाज्जडसिद्धावेव पर्यवस्यन्ति न त्वजडसिद्धौ हि यस्मान्मूर्तादमूर्तस्य ज्ञानस्योत्पत्तौ पृथिव्यादिचतुष्टयादाकाशोऽप्युत्पद्येतेत्यर्थः। सामान्यं सादृश्यं कार्यस्य कारणेन सहावगतं मृद्धटादौ न तु मूर्तामूर्तयोरत्यन्तविलक्षणयोस्तदुपपद्यते। यदपि तर्कमतं जडयोरात्ममनसोर्योगादजडं ज्ञानमुत्पद्यते। तदपि दृश्याद्द्रष्टृजन्मासंभवात्प्रत्याख्येयमेव॥३१॥
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवे
।
कारणं लोभमोहौ तु दोषाणां तु निषेवणम् ॥३२॥
एवं लोकायतमतं निरस्य सौगतमतं निरसितुमुपन्यस्यति - अविद्येत्यादिभिस्त्रिभिः। ते हि लोकायताभिमतात्संघाताद्बाह्यादन्यम् आध्यात्मिकं संघातं रूपविज्ञानवेदनासंज्ञासंस्काराख्यपञ्चस्कंधात्मकमैहिकामुष्मिकव्यवहारास्पदमभ्युपगच्छन्ति। अतो न तेषां प्रेतीभूतात्ययादयो दोषाः सन्ति। यद्यप्येतेषामपीतवत् स्थिरो भोक्ता प्रशासिता वा चेतनः संहन्ता नास्ति तथापि १अविद्या २ संस्कारो ३ विज्ञानं ४ नाम ५ रूपम् ६ षडायतनम् ७ स्पर्शो ८ वेदना ९ तृष्णा १० उपादानम् ११ भवो १२ जातिः १३ जरा १४ मरणम् १५ शोकः १६ परिदेवना १७ दुःखम् १८ दुर्मनरता इत्यष्टादश। क्वचित्संक्षेपेण क्वचिद्विस्तरेण चोक्ताः सर्वेषां सौगतानामप्रत्याख्येयाः पूर्वपूर्वे उत्तरेषां निमित्तभूताः घटीयन्त्रवदावर्तमानाः संघातं स्वाश्रयतयाऽऽक्षिपन्ति। षडायतनं शरीरं चेत्यस्य स्कन्धपञ्चकस्य तदुपादानस्य षष्ठस्य चित्तस्य च आश्रयभूतत्वात्। एवं च संघातोत्पत्तेर्लोकयात्रायाश्च निर्वाहे सति न स्थिर आत्माऽभ्युपेय इति वदन्ति। तत्राविद्या स्वशब्दोपात्ता कर्म चेष्टा लोभमोहशब्दैः संस्कारोपादानतृष्णादुर्मनस्ताः इतरे दोषपदेन संगृहीताः। केचित्सौगता अविद्यादिकं पुनर्भवे देहान्तरप्राप्तौ कारणमाहुरिति योजना॥३२॥
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम्
।
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः ॥३३॥
एतदेव स्पष्टयति- अविद्यामिति। अविद्यां क्षेत्रं पूर्वकृतं कर्मबीजं तृष्णा स्नेहाश्रयजलरूपा। एषः एवंप्रकारकस्तेषामविद्यादीनां पुनर्भवः पुनरुत्पत्तिप्रकारः॥३३॥
तस्मिन् गूढे च दग्धे च भिन्ने मरणधर्मिणि
।
अन्योऽस्माज्जायते देहस्तमाहुः सत्त्वसंक्षयम् ॥३४॥
तस्मिन् अविद्यादिकलापे गूढे सुप्तिप्रलययोः संस्कारात्मना स्थिते निमित्तभूते सति एकस्मिन्मरणधर्मिणि देहे भिन्ने विनष्टेऽपि अन्योऽस्मात्तत एवाविद्यादेर्देहोऽन्यो जायते। तस्मिन् ज्ञानेन दग्धे च सति देहनाशात् सत्त्वसंक्षयं मोक्षमाहुः। सत्त्वस्य धीधातोः संक्षयः सम्यगैश्वर्यं निर्विषयप्रवाहित्वं कैवल्यमित्याहुः॥३४॥
यदा स्वरूपतश्चान्यो जातितः शुभतोऽर्थतः
।
कथमस्मिन्स इत्येवं सर्वं वा स्यादसंहितम् ॥३५॥
एतद्दूषयति- यदेति। स्वरूपतोऽन्यत्वं मुक्तावपि क्षणिकानां विज्ञानादीनां यदा च जातितः आलयविज्ञानं बाह्यविज्ञानमिति तेषामन्यत्वं यदा च शुभतः शुभाशुभतः पुण्यपापतः अर्थतः बन्धमोक्षतः विज्ञानानां पृथक्त्वं तदा बाह्ये कथं सोयमित्यभेदप्रत्यभिज्ञानम्। प्राग्दृष्टस्य घटस्येव वार्तमानिकादन्यत्वात्। एवम् असंहितम् अनभिसंहितं भोगमोक्षादि कथं वा स्यात्। अन्यो मुमुक्षुरन्यः साधनाविष्टोऽन्यो मुक्त इत्यापत्तेः॥३५॥
एवं सति च का प्रीतिर्दान-विद्या-तपो-बलैः
।
यदस्याचरितं कर्म सर्वमन्यत्प्रपद्यते ॥३६॥
एवं च सति दानाद्यप्यनर्थकं फलभोगकाले दातुरभावादित्याह- एवमिति। अन्येन विज्ञानेनाचरितम् अन्यद्विज्ञानान्तरं प्रति प्रवर्तते फलं दातुं गच्छति॥३६॥
अपि ह्ययमिहैवान्यैः प्राक्कृतैर्दुःखितो भवेत्
।
सुखितो दुःखितो वाऽपि दृश्यादृश्यविनिर्णयः ॥३७॥
इष्टापत्तिमाशङ्क्याह- अपीति। अन्यत्वाविशेषाच्चैत्रपुण्यैरपि मैत्रः सुखी भवेोदत्यर्थः दृश्यः स्पष्टः॥३७॥
तथाहि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत्
।
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपपद्यते ॥३८॥
तथाहीति। चैत्रज्ञानात् मैत्रज्ञानं पृथक् विसदृशं येन वैजात्येन एतत्पूर्वश्लोकोक्तं दूषणं नोपपद्यतेऽतश्चैत्रज्ञानधारैव सजातीया विवक्षितेति चेत्तर्हि उत्पद्यमानस्य सदृशज्ञानस्य किम् उपादानम्? न तावत् पूर्वज्ञानं तस्य क्षणिकत्वेनोत्तरोत्पादे व्यापारायोगात् तन्नाशश्चेत् मुसलैर्हतात् शरीरादपि अन्यत् शरीरं पुनर्भवेत्॥३८॥
ऋतुसंवत्सरौ तिष्यः शीतोष्णेऽथ प्रियाप्रिये
।
यथाऽतीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः ॥३९॥
किं च ऋत्वादिवज्जातोऽपि मोक्षः पुनः पुनरागत्य निवर्तेत ज्ञानधाराया आनन्त्यादित्याह- ऋत्विति। तिष्यः कलिरिति युगानामुपलक्षणम्। बहुदोषग्रस्तत्वात्क्षणिकविज्ञानवादोऽनुपपन्न इत्यर्थः॥३९॥
जरयाभिपरीतस्य मृत्युना च विनाशिना
।
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥४०॥
अस्तु तर्हि विज्ञानामाश्रयः स्थिरः कश्चिदात्मेति तर्कमतमाशङ्क्याह - जरयेति। उपयन्नपयन् धर्मो विकरोति हि धर्मिणमिति न्यायेनानित्यधर्माश्रयस्य धर्मिणोऽध्रुवमपक्षयादिना नाश इत्यर्थः॥४०॥
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च
।
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ॥४१॥
अनित्यधर्माश्रयोऽघ्याकाशादिवन्न नश्यतीत्याशङ्क्य इन्द्रियवन्नश्यत्येवेत्याह- इन्द्रियाणीति। मनसो नाशः सांख्यसंमतः प्रोक्तः ॥४१॥
लोकयात्राविघातश्च दानधर्मफलागमे
।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥४२॥
अस्तु तर्हि बुद्ध्यादिगुणानामनाश्रयः शुद्धस्तर्हि अकर्तुरभोक्तुश्च तस्य दानादिफलाप्राप्तौ दानादिवैयर्थ्यं ततश्च सर्वस्यापि आत्मसुखार्थस्य लोकवेदव्यवहारस्योच्छेद इत्यर्थः॥४२॥
इति सम्यङ्मनस्यते बहवः सन्ति हेतवः
।
एतदस्तीदमस्तीति न किञ्चित्प्रतिदृश्यते ॥४३॥
इतीति। मनःप्रभवेष्वनेकेषु तर्केषु युक्त्याऽन्यतरोऽपि निर्धारयितुं न शक्यत इति भावः॥४३॥
तेषां विमृशतामेव तत्तत्समभिधावताम्
।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥४४॥
विमृशतां विचारयताम्॥४४॥
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः
।
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥४५॥
निर्णायकं मानमाह - एवमिति॥४५॥
अर्थांस्तथाऽत्यन्तसुखावहांश्च लिप्सन्त एते बहवो विशुष्काः
।
महत्तरं दुःखमनुप्रपन्ना हित्वाऽऽमिषं मृत्युवशं प्रयान्ति ॥४६॥
वेदोदितज्ञानेऽग्रे विवक्षिते श्रोतुरधिकारसंपत्तिं विघत्ते- अर्थानित्यादिना॥४६॥
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धभिर्भिन्नपरिग्रहैश्च
।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥४७॥
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति
।
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनोऽप्यस्य न शर्म विद्यते ॥४८॥
रतिः शरीरे॥४८॥
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम्
।
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥४९॥
अनुपधि भ्रमप्रिलम्भादिरहितं वेदमूलकत्वात्। अच्छलं वैदिककर्मकाण्डवन्न मायामूलकम् अनुयोक्तुं पूर्वपक्षं कर्तुम्॥४९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चशिखवाक्ये पाषण्डखण्डनं नाम अष्टादशाधिकद्विशततमोऽध्यायः ॥२१८॥
भीष्म उवाच।
जनको जनदेवस्तु ज्ञापितः परमर्षिणा
।
पुनरेवानुपप्रच्छ साम्पराये भवाभुवौ ॥१॥
जनक इति। ज्ञपितः निशामितः निशामने मित्त्वात् ह्रस्वत्वम्। एतदस्तीदमस्तीति न किञ्चित्प्रतिदृश्यत इत्यनेकमतोपन्यासपूर्वकं जगतोऽनिर्वचनीयत्वं श्रावितः सांपराये मरणे भवाभवौ संसारमोक्षौ॥१॥
जनक उवाच ।
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित्
।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥२॥
ननु यदि सत्त्वासत्त्वाभ्यामनिर्वचनीयः संसारस्तर्हि रज्जूरगवन्निस्तत्त्वस्त्य तस्य विनाशाय यत्नो निष्फलो नित्यनष्टत्वात्तस्येति शङ्कते भगवन्निति। प्रेत्य प्रमातृत्वादेरुद्गत्य संज्ञाविशेषविज्ञानं सुप्तिमूर्च्छावत्। अत्यन्तविस्मृतिरूपे मोक्षेऽपि नास्ति चेत् ज्ञानाज्ञानकृतो न कश्चिद्विशेषोऽस्ति॥२॥
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम
।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥३॥
ततश्च यत्ननैष्फल्यमित्याशङ्क्याह - सर्वमिति। उच्छेदनिष्ठमात्मनाशपर्यवसायि सर्वं यमनियमादि॥३॥
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु
।
कस्मै क्रियेत कल्प्येत निश्चयः कोऽत्र तत्त्वतः ॥४॥
असंसर्ग इति। यदि मोक्षे भूतेषु दिव्याङ्गनादिषु संसर्गो नास्ति सन्नपि संसर्गः स्वर्गवद्विनाशिष्वेव चेत्स्यात्तर्हि अतिशयाभावात् कस्मै फलाय कोऽत्र तत्त्वतो निश्चयः क्रियेत। क्रियमाणो वा कथं कल्पेत घटेत तस्मादविनाशि स्वर्गसुखमेव मोक्षः स च निर्वचनीय एवेत्याशयः॥४॥
भीष्म उवाच।
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्
।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥५॥
कविः क्रान्तदर्शी॥५॥
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते
।
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्
।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥६॥
‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति’ इति देहाद्युत्थितस्य उपाधिविशिष्टस्वरूपस्य नाशाद्विशेषविज्ञानाभावे याज्ञवल्क्येनोक्ते मैत्रेयी आत्मोच्छेदबुद्ध्या अत्रैव मा भगवानमूमुहदिति तमुपालब्धवती ‘न वा अरे मोहं प्रब्रवीमि’ इत्यादिना पुनर्याज्ञवल्क्येन बोधिता। तद्वदिहापि व्याकुलं राजानम् आश्वासयत्यर्धेन - उच्छेदेति। उच्छेदनिष्ठा नाशे पर्यवसानं न, नापि भावनिष्ठा विशेषे पर्यवसानमस्ति किं तु अविद्यया आत्मन्यारोपितं बुद्धीन्द्रियादिकं रज्जूरगवत् केवलमपोह्यते तावतैवानर्थनिवृत्तिः स्वरूपानन्दस्य च कण्ठगतविस्मृतचामीकरवत्प्राप्तिरिति कृतकृत्यताऽस्ति अतस्तदर्थो यत्नो न निष्फल इति भावः तथा च श्रुतिः - 'अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति’ इति। मात्रा प्रमात्रा अनर्थश्च प्रमातृता प्रमुखं कर्तृत्वभोक्तृत्वमिति तदसंसर्गो मोक्ष इति प्रतिपादयति आत्मनि देहाद्यध्यारोपमेवाह - अयमित्यादिना। समाहारः संघातः अस्मिन् त्रिकेऽन्यतरनाशेऽपि संघातनाश इत्यन्योन्यमपाश्रित्येत्यस्यार्थः॥६॥
धातवः पञ्चभूतेषु खं वायुर्योतिषो धरा
।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥७॥
शरीरादीनामनात्मत्वं वक्तुं तत्प्रकृतीराह - धातव इति। धीयते निलीगते कार्यमेष्विति धातव उपादानानि। ज्योतिषो धरेत्यनयोर्मध्ये जलमित्यपि ज्ञेयम्। पञ्चधा तोयमिति पाठान्तरं सुगमम्। स्वभावेनेति सांख्यमताभिप्रायेण तेषां हीश्वरकालयोरभावात् जीवानां चोदासीनत्वात् अदृष्टस्य च कार्यत्वेन कारणाप्रवर्तकत्वात् स्वभावत एव गुणानां प्रवृत्तिरिति मतम्॥७॥
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः
।
एष पञ्चसमाहारः शरीरमपि नैकधा ॥८॥
प्रवृत्तानि भूतानि शरीराकारेण परिणमन्ते इत्याह - आकाश इति। यानि खानि स आकाशः, यः प्राणः स वायुः, य ऊष्मा सोऽग्निः, यल्लोहितादि स्नेहवत्तदापः, यत्कठिनमस्थ्यादि तत्पृथिवीत्यर्थः। नैकधेति जरायुजादिभेदेन॥८॥
ज्ञानमूष्मा च वायुश्च त्रिविधः कार्यसंग्रहः
।
इन्द्रियाणीन्द्रियाथाश्च स्वभावश्चेतना मनः
।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥९॥
शरीरोत्पत्तिमुक्त्वा इन्द्रियोत्पत्तिमाह - ज्ञानेति । शरीरे बुद्धिर्जाठरः प्राणश्च सर्वकर्मसंग्राहको गणः कुतः यतोऽत्र इन्द्रियाद्यष्टकं निःसृतम्। अर्थाः शब्दादयः स्वभावोऽर्थप्रकाशकत्वं चेतना घटायाकारा वृत्तिः मनः सङ्कल्पादिरूपं एतत् ज्ञानकार्यं वायुकार्यं तु प्राणापानौ तौ च व्यानादीनामप्युपलक्षणं विकारोऽशितपीतादिपाचनेनेन्द्रियादीनामाप्यायनादिर्जाठरकार्यम्॥९॥
श्रवणं, स्पर्शनं, जिह्वा, दृष्टिर्नासा तथैव च
।
इन्द्रियाणीति पञ्चैते चित्तपूर्वं गता गुणाः ॥१०॥
श्रवणं श्रोत्रम्, स्पर्शनं त्वगिन्द्रियम्, नासा घ्राणम्, चित्तं पूर्वकारणम्, यस्यार्थगणस्य तं चित्तपूर्वं चित्तमात्रोपादानकं गताः प्राप्ताः गुणाः गुणकार्यभूताः॥१०॥
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा
।
सुखदुःखेति यामाहुरदुःखामसुखेति च ॥११॥
विज्ञानसंयुक्ता चित्प्रतिबिम्बगर्भा चेतना वृत्तिः विषयस्योपादेयत्वहेयत्वोपेक्षणीयत्वैस्त्रिविधा॥११॥
शब्दः, स्पर्शं, च रूपं, च रसो, गन्धश्च मूर्तयः
।
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥१२॥
मूर्तयः रूपाश्रयद्रव्याणि वाय्वाकाशयोरमूर्तत्वश्रुतेर्बाह्येन्द्रियाग्राह्यत्वात् पञ्च शब्दाद्याः मूर्तिभिः सह षट् गुणाः विषयाः। ज्ञानं प्रमा तस्य सिद्धये विषयकरणयोगाद्धि तज्जायते॥१२॥
तेषु कर्मविसर्गश्च सर्वतत्त्वार्थनिश्चयः
।
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥१३॥
किं च तेषु श्रोत्रादिषु कर्म स्वर्गसाधनं विसर्गः संन्यासो ब्रह्मलोकदः संन्यासाद्ब्रह्मणः स्थानमिति स्मृतेः। सर्वतत्त्वार्थनिश्चयो मोक्षहेतुः तं तत्त्वनिश्चयं परमं श्रेष्ठं शुक्रं मोक्षबीजं बुद्धिरिति अव्ययं मोक्षदत्वादव्ययमिति चाहुः। महद्ब्रह्म तत्प्रदत्वात्॥१३॥
इमं गुणसमाहारमात्मभावेन पश्यतः
।
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥१४॥
इममिति। अस्मिन्संघाते अनात्मनि आत्मबुद्धिरनर्थहेतुरित्यर्थः॥१४॥
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि
।
वर्तते किमधिष्ठानात्प्रसक्ता दुःखसंततिः ॥१५॥
एवमध्यारोपमुक्त्वाऽपवादमाह - अनात्मेत्यादिना। इति यद्दृष्टं तदनात्मेति सम्बन्धः। स्वात्मनि वृत्तिविरोधादिदंतया यद्दृष्टम् अहंकारादि तत् आत्मा नेत्यर्थः। न हि दृश्यं द्रष्टुरात्मेति युक्तम्। तेन कारणेन अहमिति ममेति च न वर्तते। यद्यत्राभेदेन प्रतीयेत तन्मिथ्या यथा शुक्तिरजतम् अहंकारदेहेन्द्रियादिकं चात्मन्यभेदेन प्रतीयतेऽयमहमस्मि काणोऽहं गौरोऽहमिति अतो मिथ्या ततस्तत्सम्बन्धि ममकारास्पदं पुत्रादिकमपि मिथ्या। अतोऽहमिति ममेति च न वर्तते इति युक्तमुक्तम्। अनात्मेति ह्यनिष्टं च नाहं न च ममेत्यपीति पाठे इति हि इदमित्येवमाकारा प्रतीतिरैतिह्यम्। स्वार्थे ञ्यः। तत्र निष्ठा परिसमाप्तिर्यस्य तद्विषय इत्यर्थः। स सर्वोऽप्यनात्माऽतोऽहमिति न वर्तते ममेत्यपि न वर्तते इति योजना। पाठान्तरं त्वनाकरम्। एवं सति या प्रसक्ता प्रतीयमाना दुःखसन्ततिः सा किमधिष्ठाना आत्मनोऽसङ्गत्वात्। अहंकारस्य च मिथ्यात्वात् रज्जूरगभीषणत्ववन्निरधिष्ठानैव ‘यादृशो यक्षस्तादृशो बलिः’ इति न्यायेनाहंकारवन्मिथ्यैवेत्यर्थः॥१५॥
अत्र सम्यग्वधो नाम त्यागशास्त्रमनुत्तमम्
।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥१६॥
अत्रेति। हन्तिर्गुणनार्थे ज्योतिःशास्त्रे प्रसिद्धः सम्यग्वधो गुणनं पुनः पुनरभ्यस्यन्ते तत्त्वान्यस्मिन्निति सम्यग्वधो नाम सांख्यशास्त्रं सम्यङ्मन इति पाठे सम्यक् संदेहनिर्मुक्तं मनो येनेति तदेव। त्यागप्रधानं शास्त्रं त्यागशास्त्रम्॥१६॥
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम्
।
नित्यं मिथ्याविनीतानां क्लेशो दुःखवहो मतः ॥१७॥
तदेवाह- त्याग इति। युक्तानां मुत्त्यर्थं नित्योद्युक्तानां पुंसां सर्वकर्मत्याग एव नित्यं मतः कर्मणामिति धनादेरप्युपलक्षणम्। ये तु मिथ्याविनीतास्त्यागं विना शान्त्यादिपरास्तेषां क्लेशोऽविद्यादिरूपो मतः॥१७॥
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि
।
सुखत्यागे तपोयोगं सर्वत्यागे समापना ॥१८॥
सर्वशास्त्रतात्पर्यं त्यागे एवेत्याह - द्रव्येति। द्रव्यादित्यागनिमित्तं यज्ञकर्मादीन्युपदिशन्तीति शेषः। सर्वत्यागनिमित्तं योगम् उपदिशन्ति यतः सा त्यागस्य समापना समाप्तिः। परा काष्ठेत्यर्थः॥१८॥
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः
।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत् ॥१९॥
तस्येति। अयं वक्ष्यमाणो योगः अद्वैधः प्रकारभेदशून्यः। तथा च त्यागस्यैव प्राधान्यं भाल्लविशाखिनः समामनन्ति -
‘त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्
।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्
।
’
इति अन्यथा त्यागाभावे॥१९॥
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि
।
बलषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु ॥२०॥
त्याज्यं गणमाह – पञ्चेति। चेतसि बुद्धौ सन्तीति बुद्धित्यागे सर्वाणि त्यक्तानि स्युरिति भावः। बलं प्राणशक्तिः॥२०॥
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्
।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम् ॥२१॥
शेफः शिश्नम्। पायुर्गुदम्॥२१॥
वाक्च शब्दविशेषार्थमिति पञ्चान्वितं विदुः
।
एवमेकादशैतानि बुद्ध्याऽऽशु विसृजेन्मनः ॥२२॥
पञ्चान्वितं मन इति बुद्ध्वा बुद्ध्वा विसृजेत् मनस्त्यजेत्। मनस्त्यागे सविषयाणां कर्मेन्द्रियाणां त्यागो बुद्धित्यागे समनस्कानां ज्ञानेन्द्रियाणां च त्यागः सिद्ध इति प्रघट्टकार्थः॥२२॥
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे
।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥२३॥
एतमेव स्पष्टयति - कर्णावित्यादिना। कर्णौ श्रोत्रं करणं शब्दो विषयः चित्तं कर्ता श्रवणं क्रिया॥२३॥
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये
।
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥२४॥
पञ्च त्रिकाः सर्वाण्यपि विषयकरणद्वन्द्वानि समनस्कानीति त्रिका इत्युक्तम्। एते गुणास्तत्तदुपलब्धये शब्दादिज्ञानाभिव्यक्तये भवन्ति। येन अनुभवाभिव्यञ्जनेन निमित्तेनायं त्रिविधो भावः करणकर्मकर्तृरूपः पर्यायात् पृथगर्थतयास्ति॥२४॥
सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः
।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः ॥२५॥
त्रैविध्यमेवाह - सात्त्विक इति। वेदनाः अनुभवाः सर्वान्प्रहर्षादीन् साधयन्तीति सर्वसाधनाः॥२५॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्त्विको गुणः ॥२६॥
इष्टश्रवणदर्शनप्राप्तिपरिष्वङ्गजानि सुखानि प्रहर्षप्रीत्याऽऽनन्दसुखशब्दितानि संशान्तचित्तता अभुक्ते भुक्ते वानुत्सुकता अकुतश्चिद्वैराग्यात् स्वत एव कुतश्चिदिति इष्टलाभात् चिन्तितो विचारितः चित्तत इति पाठे चित्तजः॥२६॥
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा
।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥२७॥
अक्षमेति च्छेदः हेत्विति पूर्ववत्॥२७॥
अविवेकस्तथा मोहः प्रमोदः स्वप्नतन्द्रिता
।
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥२८॥
कथंचिदिति हेत्वहेतुभिरित्यर्थः॥२८॥
अत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
।
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥२९॥
अपेक्षेतेत्युक्ते उत्तरयोर्हेयत्वमुक्तम्॥२९॥
यत्त्वसन्तोषसंयुक्तमप्रीतिकरमात्मनः
।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत् ॥३०॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्
।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥३१॥
श्रोतं व्योमाश्रितं भूतं शब्दः श्रोतं समाश्रितः
।
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥३२॥
एवं शब्दादीनां श्रोत्रादीनां च त्रिगुणात्मकचित्तमात्रत्वमुक्तं चित्तत्यागेनैव गुणकरणविषयाणां त्यागो भवतीति ज्ञानाय इदानीं वियदादिभ्योऽनन्यत्वं शब्दश्रोत्रादीनामुच्यते। तत्प्रविलापनेनैव वियदादिप्रविलापनं भवत्वित्येतदर्थं श्रोत्रमिति द्वाभ्यामाकाशाश्रितं श्रोत्रम् आकाशाख्यं भूतमेव कर्णशष्कुल्यवच्छेदेन नभस एव श्रोत्रत्वात्। एवं श्रोत्राश्रितः शब्दोऽपि परंपरया भूतमेव। एवं सति शब्दविज्ञाने उभयं व्योमश्रोत्रे विज्ञानस्य विषयौ न। न हि शब्दं जानता श्रोत्राकाशावपि ज्ञायेते तर्ह्यज्ञातावेव तौ भवेतां किं नश्छिन्नमित्याशङ्क्याह- इतरस्य विज्ञानादन्यस्याज्ञानस्य वा विषयौ श्रोत्राकाशो न भवतः शब्दस्य तदुभयानन्यत्वात्। न हि घटरूपादिवदाश्रयान्निष्कुष्टयोः शब्दश्रोत्रयोराकाशगुणकार्ययोर्ग्रहणं प्रविलापनं वा कर्तुं शक्यम्। तस्मात् श्रोत्रादिप्रविलापनेनैव तदनन्यस्य शब्दाकाशादेरपि प्रविलापनं युक्तम्। श्रोत्रादीनां च चित्तादनन्यत्वात् तानि शब्दाकाशादीन्यपि स्मरणात्मकं चित्तमेव चित्तमपि मनसोऽध्यवसायात्मकादनन्यदिति धीमात्रं सर्वं मनसि लीने लीनं भवतीत्यर्थः॥३२॥
एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी
।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥३३॥
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति
।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥३४॥
सर्वेषां मनोमात्रत्वे युक्तिमाह - स्वकर्मेति। एतेषु दशसु विषयेन्द्रियपञ्चकद्वये एकादशं चित्तमनुगतं तिष्ठतीति विद्धि घटशरावादिष्विव मृत्स्ना। अत्र हेतुः - स्वकर्मयुगपद्भाव इति। पञ्चम्यर्थे प्रथमा स्वेषाम् इन्द्रियविषयाणां कर्माणि श्रवणस्पर्शनदर्शनादीनि तेषां यौगपद्यात् सुप्तोत्थितमात्रस्य पुंसो लब्धात्मकं मनो युगपदुपस्थितान् शब्दादीननुभवति तच्च तेषां मनआत्मकत्वाभावेन संगच्छते उपादानं हि स्वकार्यैर्युगपत्संगतं भवति अनुपदानं तु क्रमेणेति स्पष्टम्। ये तु युगपज्ज्ञानानुपलब्धिर्मनसो लिङ्गमिति ज्ञानाद्यौगपद्यमेवानुपादानस्य मनसः साधकं लिङ्गमाहुस्तेषां गङ्गाह्रदनिमग्नस्य युगपत्सर्वाङ्गीणशैत्यानुभवेन हेतोर्बाध इत्यास्तां तावत्। चित्तस्यापि व्यापिका बुद्धिर्दादशमी द्वादशी, आर्षो मट्प्रत्ययः॥३४॥
तेषामयुगपद्भाव उच्छेदो नास्ति तामसे
।
आस्थितो युगपद्भावो व्यवहारः स लौकिकः ॥३५॥
तेषां द्वादशानामात्मन्यारोपितानाम् अयुगपद्भावः द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थमिति योगप्रसिद्धम्। चित्तस्य सर्वार्थत्वमिह बुद्ध्यादियुगपद्भाव इत्युच्यते। तदन्यो विशेषविज्ञानराहित्यलक्षणो ज्ञातृज्ञेयज्ञानयौगपद्याभावः तामसः निद्रारूपतमोमयः सुषुप्तिकालीनस्तस्मिन् सत्यपि आत्मन उच्छेदो नास्ति। उत्थितस्य ‘सुखमहमस्वाप्सम्’ इत्यादिपरामर्शात्। ‘सता सोम्य तदा संपन्नो भवति’ इति सुषुप्तौ ब्रह्मसंपत्तिश्रवणात्। स एव तु कर्मानुस्मृतिशब्दविधिभ्य इति न्यायाच्च अयुगपद्भाव एव आत्मनो वास्तवं तत्त्वं युगपद्भावस्तु स्वप्नवदज्ञानकृत इत्याह - आस्थित इति। लौकिको न तु पारमार्थिकः॥३५॥
इन्द्रियाण्यपि सूक्ष्माणि दृष्ट्वा पूर्वश्रुतागमात्
।
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥३६॥
व्यावहारिकं युगपद्भावमुक्त्वा प्रातिभासिकं स्वाप्नकालिकं तमाहेन्द्रियाणीति। पूर्वं श्रुतं श्रवणक्रिया सा च स्पर्शनादीनामप्युपलक्षणम्। तया शब्दादीनाम् आगमः प्राप्तिः पूर्वानुभववासनात इत्यर्थः। सूक्ष्माणि इन्द्रियाण्येकादश दृष्ट्वा चिन्तयन् विषयसंगं भावयन्। ना पुरुषः स्वप्नदर्शी त्रिभिर्गुणैः सत्त्वादिभिर्युक्तः अनुपर्येतिः जाग्रदवस्थामनुसञ्चरति स्वप्ने। काये इत्युत्तरादपकृष्यते। स्वे शरीरे यथाकामं परिवर्तत इति श्रुतेः॥३६॥
यत्तमोपहतं चित्तमाशु संहारमध्रुवम्
।
करोत्युपरमं काये तदाहुस्तामसं बुधाः ॥३७॥
तमोपहतं तमोगुणेनाभिभूतं चित्तं प्रवृत्तिप्रकाशात्मकम् आशु संहारं शीघ्रं संहृत्य अध्रुवं मोक्षवदानन्त्यहीनमुपरमं पूर्वोक्तयुगपद्भावस्योच्छेदं करोति तत्सुखं तामसम् अज्ञानप्रधानं शरीर एव सुषुप्तावनुभूयते॥३७॥
यद्यदागमसंयुक्तं न कृच्छ्रमनुपश्यति
।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥३८॥
सुषुप्तिसादृश्यं कैवल्यस्याह- यद्यदिति। यत् सुखम् आगमसंयुक्तम्। आनन्दो ब्रह्मेति वेदबोधितं यत् यस्मिन् कृच्छ्रं द्वैतदुःखं नानुपश्यति। न किञ्चिदनुशाम्यतीति पाठान्तरे यत्र न किञ्चित्सुखं दुःखं वा ज्ञाता ज्ञेयं वाऽस्ति किं तु दग्धेन्धनानलवत् आचार्योपदेशमनुशाम्यत्येव। तत्र तस्मिन्नपि सुखे अव्यक्तम् अनृतं तम उपादत्त इव। वस्तुतस्तु तमो नास्ति तथापि द्वैतदर्शनाभावसाम्येन आवृतमव्यक्तं च ज्ञात्रादिविभागाभावात्॥३८॥
एवमेष प्रसंख्यातः स्वकर्मप्रत्ययो गुणः
।
कथञ्चिद्वर्तते सम्यक्केषांचिद्वा निवर्तते ॥३९॥
एवं सुषुप्तिवत् मोक्षेऽपि एषोऽहङ्कारादिघटान्तो दृश्यमानो गुणो भोग्यवर्गः स्वकर्मप्रत्ययः कर्महेतुकाविर्भावः प्रसंख्यातः प्रत्याख्यातः केषाञ्चिदविद्यावतां वज्रपञ्जरवद्वर्तते। केषांचिद्विद्यावतां कालत्रयेऽपि न ह्यस्ति॥३९॥
एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः
।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥४०॥
एतत् एतं समाहारं संधातं क्षेत्रमाहुः। एतदिति विधेयापेक्षं क्लीबत्वम्। मनसि संघातबीजभूते यो भावो या सत्ता स क्षेत्रज्ञः। शुक्तिरजतवदध्यस्तस्य मनसः सत्तास्फूर्तिप्रदः॥४०॥
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्
।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥४१॥
एवमिति। सर्वेषु भूतेषु चतुर्विधेषु हेतुतः अनाद्यविद्याकामकर्मवशतः स्वभावात् सत्यानृतयोरात्माऽनात्मनोर्मिथुनीकरणात्। व्यवहारे वर्तमानेषु सत्सु क उच्छेदः उच्छेदवान्। को वा शाश्वतः स्यात्। ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति न्यायेनासतः संघातस्य स्वरूपाभावादेव नोच्छेद्रसङ्गः। अत एव शाश्वतत्वं चास्य नेत्यर्थः। यद्वा शाश्वत आत्मा वा कथम् उच्छेदवान् भवेदिति या पूर्वं त्वया आत्मोच्छेदशंका कृता सा निरालम्बनेत्यर्थः। एतेन पुंप्रकृत्योरत्यन्तं वैधर्म्यमुपपादितम्॥४१॥
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च
।
नदाश्च तानि यच्छन्ति तादृशः सत्त्वसंक्षयः ॥४२॥
यथेति। नद्यो नदाश्च व्यक्तीः रूपाणि नाम च जहति त्यजन्ति। नदाश्च ताः नदीः नियच्छन्ति स्ववशे कुर्वन्ति यथा क्षुद्रनदी महानद्यां नामरूपे जहाति महानदी च समुद्रे लीयते तद्वत्सत्त्वस्य महदादिघटान्तात्मना स्थितस्य उत्पत्तिविपरीतक्रमेण संक्षयः स्थूलं सूक्ष्मे लीयते सूक्ष्मं कारणे तच्च शुद्धे इत्यर्थः॥४२॥
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत्
।
जीवे च प्रतुसंयुक्ते गृह्यमाणे च सर्वतः ॥४३॥
प्रतिसंयुक्ते उपाधिमिश्रे जीवे सर्वतः सर्वात्मना दर्पणस्थमुखवत् गृह्यमाणे सति प्रेत्यभावे उपाध्यपाये संज्ञा अयमहं देवदत्तोऽस्मीति तद्ग्रहणं कुतः स्यान्न कुतश्चित् नापि ग्रहणाभावान्मुखस्येवात्मन उच्छेदोऽप्यस्तीति नोक्तशङ्कावकाश इत्यर्थः॥४३॥
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः
।
न लिप्यते कर्मफलैरनिष्टैः पत्रं विसस्येव जलेन सिक्तम् ॥४४॥
विद्याफलमाह - इमामिति। वेदशास्त्रतः अन्विच्छति शमादिपरो भवति। बिसस्य मृणालस्य॥४४॥
दृढैर्हि पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च
।
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदग्र्यां गतिमेत्यलिङ्गः ॥४५॥
पाशैः स्नेहकर्मनिमित्तैः तेषां ग्रहणं प्रजेत्यादिना। अलिङ्गः पञ्चप्राणमनोबुद्धिदशेन्द्रियात्मकलिङ्गहीनः॥४५॥
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादभीतः
।
क्षीणे च पुण्ये विगते च पापे ततो निमित्ते च फले विनष्टे
।
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यसक्ताः ॥४६॥
श्रुतिप्रमाणं तत्त्वमसीतिवाक्यम् आगमोक्तं मङ्गलं साधनं शमादि। निमित्ते मोहोत्थे फले सुखदुःखात्मके महति बुद्धितत्त्वेऽस्मितामात्रे पश्यन्ति। तत्रैव हि सांख्यानां गुणपुरुषान्तरज्ञानम् अस्माकं च प्रतीचो ब्रह्मभावागमः प्रसिद्धः असक्ता विरक्ताः आकाशं हार्दाकाशाख्यं सगुणं ब्रह्मास्थाय आश्रित्य अलिङ्गं निर्गुणं पश्यन्तीति योजना॥४६॥
यथोर्णनाभिः परिवर्तमानस्तंन्तुक्षये तिष्ठति पात्यमानः
।
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ठ इवाद्रिमृच्छन् ॥४७॥
यथेति। ऊर्णनाभिर्लूताकीटः तन्तुक्षये तन्तुमये गृहे यथा तिष्ठति। तथैव पात्यमानोऽविद्यावशो जीवः कर्मतन्तुगृहे तिष्ठति तथा चोर्णनाभिस्तन्तुक्षयं प्रजहाति एवं विमुक्तोऽपि हाने फलमाह - दुःखं विध्वंसत इति दृष्टान्तो लोष्ठ इति पांसुपिण्डः अद्रिं पाषाणम् ऋच्छन् वेगेन प्राप्नुवन्॥४७॥
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाऽप्युरगो यथा च
।
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥४८॥
रुरुर्मृगभेदः॥४८॥
द्रुमं यथा वाऽप्युदके पतन्तमुत्सृज्य पक्षी निपतत्यसक्तः
।
तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्द्ध्यां गतिमेत्यलिङ्गः ॥४९॥
परार्ध्यां श्रेष्ठाम्॥४९॥
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाऽभिवीक्ष्य
।
न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ॥५०॥
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिप इति युधिष्ठिरप्रश्नबीजमुपन्यस्यति - अपि चेति॥५०॥
इदममृतपदं निशम्य राजा स्वयमिह पञ्चशिखेन भाष्यमाणम्
।
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥५१॥
इमं हि यः पठति मोक्षनिश्चयं महीपते सततमवेक्षते तथा
।
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥५२॥
अवेक्षते अर्थतः पर्यालोचयति कापलं कपिलप्रशिष्यं पञ्चशिखम्॥५२॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चशिखवाक्यं नाम एकोनविंशाधिकद्विशततमोऽध्यायः ॥२१९॥
युधिष्ठिर उवाच।
यदिदं कर्म लोकेऽस्मिन् शुभं वा यदि वा शुभम्
।
पुरुषं योजयत्येव फलयोगेन भारता ॥१॥
यदिति । इदं सदोपवासी स्यादित्यादिना विहितं कर्म ॥१॥
कर्ताऽस्ति तस्य पुरुष उताहो नेति संशयः
।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥२॥
तस्य कर्ता अस्तिर्भवत्यर्थे पुरुषस्तस्य कर्ता भवति न वेति प्रश्नार्थः । कर्तेति काणादाः । अकर्तेति कापिलाः । आद्ये मोक्षानुपपत्तिः । स्वाभाविकस्य कर्तृत्वस्य वह्नौष्ण्यवदाश्रयनाशमन्तरेणाविनाशात् । अन्त्ये शास्त्रानर्थक्यापत्तिः जडस्याप्रेर्यत्वाच्चेतनस्याकर्तृत्वाच्च संशयः ॥२॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥३॥
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्
।
अस्तब्धमनहङ्कारं सत्त्वस्थं समये रतम् ॥४॥
तत्त्वविदां लक्षणमेव ज्ञानसाधनमिति प्रह्रादं विशिनष्टि - असक्तमित्यादिना । असक्तं फलेच्छारहितम् अस्तब्धम् अनलसम् । अनहङ्कारं वीतगर्वं सत्त्वस्थं सात्विकम् अत एव समये स्वोचिते शमादौ धर्मे रतम् ॥४॥
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवासिनम्
।
चराचराणां भूतानां विदितप्रभवाप्ययम् ॥५॥
विदितः प्रभवश्चासौ अव्ययश्चेत्यपरिणाम्युपादानभूतः परमात्मा येन तम् ॥५॥
अक्रुध्यन्तमहष्यन्तमप्रियेषु प्रियेषु च
।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम् ॥६॥
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चितम्
।
परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् ॥७॥
आत्मनि प्रतीचि श्रेयसि आनन्दरूपे ज्ञाने चिन्मात्रे धीरं कुतर्कानभिभूतम् । अत एव निश्चितनिश्चयम् । परः हिरण्यगर्भः अवरो नीचो यस्मात् ईश्वरात् तज्ज्ञम् अत एव सर्वज्ञम् 'आत्मनो वा अरे दर्शनेनेदं सर्वं विदितम्' इत्यात्मज्ञानात्सार्वज्ञ्यश्रुतेः । समं निर्विशेषं तद्दर्शनवन्तम् ॥७॥
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम्
।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥८॥
बुभुत्समानः संबोद्धुमिच्छन् ॥८॥
यैः कश्चित्सम्मतो लोके गुणैः स्यात्पुरुषो नृषु
।
भवत्यनपगान् सर्वांस्तान्गुणान् लक्षयामहे ॥९॥
भवति त्वयि अनपगान् स्थिरान् ॥९॥
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह
।
आत्मानं मन्यमानः सन् श्रेयेः किमिह मन्यसे ॥१०॥
बालजनैः सभा रागद्वेषादिराहित्यात् मन्यमानः जानन् आत्मज्ञानार्थं किं श्रेयः प्रशस्ततरं साधनम् ॥१०॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः
।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि ॥११॥
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया
।
प्रह्लाद सुस्थरूपोऽसि पश्यन् व्यसनमात्मनः ॥१२॥
इति संचोदितस्तेन धीरो निश्चितनिश्चयः
।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥१३॥
प्रह्लाद उवाच ।
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुद्ध्यते
।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥१४॥
अत्र सांख्यमतमादाय कर्तृत्वं निराकरोति- प्रवृत्तिमित्यादिना । प्रवर्तते इति प्रवृत्तिः निवर्तत इति निवृत्तिः पुरुषस्य भोगापवर्गौ साधयितुमनुलोमप्रतिलोमपरिणामवती मूलप्रकृतिः तां कर्तृकरणक्रियारूपाम् आत्मनोऽन्यां यो न बुद्ध्यते तस्यात्मनि बुद्धिधर्मान् कर्तृत्वादीनारोपयतः स्तंभो भवेत् न तु आत्मानम् अनुपश्यतः । तथा च श्रुतिः- 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति ॥१४॥
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च
।
सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते ॥१५॥
रथादिवदचेतना प्रकृतिरधिष्ठातारं विना कथं प्रवर्तेतेत्याशङ्क्याह - स्वभावादिति । यथा वत्सोत्पत्तेः प्रागेव तद्वृद्धिनिनित्तं क्षीरं रुधिरपूर्णेऽपि गवामूधसि प्रवर्तते न च तदा वात्सल्यादिकं तत्प्रवर्तकमस्ति वत्सस्यैवाजातत्वात् । जाते तु वत्से वात्सल्यं त्वरयतां नाम प्रवृत्तिस्तु क्षीरे स्वाभाविक्येव । तद्वत्सर्वे भावाभावाः स्वभावादेव प्रकृतित एव संप्रवर्तन्ते नास्ति प्रवर्तकापेक्षेत्यर्थः । नन्वेवं जितं सांख्यैरित्याशङ्क्याह - भावाः महदाद्याः अभावास्तेषां प्रलयाश्च पुरुषार्थो न विद्यत इति । पुरुषार्थो भोगापवर्गात्मकः स आत्मनि नास्ति । न हि प्रकृतिः कर्त्री पुरुषो भोक्तेति वदामः । येन सिद्धान्ताद्भ्रश्येम । शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति न्यायं न च पश्यामः । किंतु या कर्त्री सैव भोक्त्री आत्मनि तु भोक्तृत्वं जलचाञ्चल्यवद्भ्रान्तिरिति वदामः ॥१५॥
पुरुषार्थस्य चाभावे नास्ति कश्चिच्च कारकः
।
स्वयं न कुर्वतस्तस्य जातु मानो भवेदिह ॥१६॥
नन्वयस्कान्तमणिवत् पुरुषस्य उदासीनस्यापि सत्तामात्रेण प्रवर्तकत्वमस्त्वित्याशङ्क्याह - पुरुषार्थस्येति । भोगापवर्गयोरभावे कारकः कारयिता कथं स्यात् । सत्तामात्रेण कारयितृत्वमपि विक्रियमाणसत्त्वाधीनं विक्रिया च न रज्जूरगायमानायाः प्रकृतेर्वास्तवी संभवतीति न कारकत्वम् आत्मनः । ततश्च न कुर्वतः अकुर्वतस्तस्य इह देहादौ स्वयं मानः अहमित्यभिमानो भवेत् अविद्ययेति शेषः ॥१६॥
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा
।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः ॥१७॥
कस्तावता दोष इत्यत आह- य इति ॥१७॥
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्
।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत् ॥१८॥
आत्मनः कर्तृत्वे दृष्टविरोधमाह- यदीत्यादिना ॥१८॥
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च
।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥१९॥
नन्वदृष्टानुकूल्याभावादारम्भविघात इत्यत आह- अनिष्टस्येति । हितार्थं यतमानानां स्वतन्त्राणामप्यनिष्टा दृष्टोत्पत्तिरप्ययुक्तैवेति भोक्तृत्वसमनियतस्य कर्तृत्वस्याभावे भोक्तृत्वस्याप्यभाव इत्यर्थः ॥१९॥
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च
।
अप्रयत्नेन पश्यामः केषाञ्चित्तत्स्वभावतः ॥२०॥
ईशः कालश्चेति स्वभावस्वैव नामान्तरमित्यभिप्रेत्याह - अनिष्टस्येति । यथाऽनिष्टनिष्पत्तिरिष्टतिरोधानं चायत्नत एव स्वभावादापतति एवमन्यदपीत्यर्थः न हि स्वभावजमदृष्टं स्वभावप्रवर्तकं भवति कार्यस्य कारणाप्रवर्तकत्वादिति भावः ॥२०॥
प्रतिरूपतराः केचिद्दृश्यन्ते बुद्धिमत्तराः
।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥२१॥
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा
।
शुभाशुभास्तदा तत्र कस्य किं मानकारणम् ॥२२॥
प्रकृतेः स्वातन्त्र्यमुपसंहरति द्वाभ्याम् - स्वभावेति । गुणाः सुखदुःखादयः मानकारणम् अहं सुखी कर्ता भोक्ता चेत्यभिमानहेतुर्न किमपीत्यर्थः ॥२२॥
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः
।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा ॥२३॥
आत्मप्रतिष्ठा मोक्षः प्रज्ञा आत्मज्ञानम् । तदपि स्वभावादेव बन्धस्यैवासत्त्वात्तत्प्रतियोगिनी मुक्तिरपि अज्ञानादेवेत्यर्थः । तथा च श्रुतिः 'न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता' इति ॥२३॥
कर्मजं त्विह मन्यन्ते फलयोगं शुभाशुभम्
।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥२४॥
ननु पर्जन्यवदीशकालस्थानीया प्रकृतिः साधारणं कारणं कर्म तु बीजवदसाधारणमिति शङ्कते- कर्मजमिति । एतन्निरासं प्रतिजानीते- कर्मणामिति । विषयं विशेषकार्यम् ॥२४॥
यथा वेदयते कश्चिदोदनं वायसो ह्यदन्
।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥२५॥
तदेवाह- यथेति । काकोऽन्नमिव कर्माणि स्वभावं प्रकाशयन्ति न तु वर्तयन्तीत्यर्थः । लक्षणं ज्ञापकानि असाधारणो धर्म इति यावत् । अयं भावः - तन्तव एव पटस्य कारणं तद्नतशौक्ल्यादिकं तु पटगतवैचित्र्यस्य, एवं स्वभाव एव जन्यमात्रहेतुस्तद्गतं धर्मादिकं तद्वैचित्र्येऽसाधारणो हेतुः । एतदेवोक्तं योगैः - निमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवदिति । धर्मादिर्गुणानां न प्रवर्तकः किं तु तेन गुणप्रवाहस्याधर्मस्रोतः खिलीकुर्वता धर्मस्रोतस आवरणं दूरीक्रियते इति सूत्रार्थः । एतदेव कर्मणां स्वभावज्ञापकत्वमिति ॥२५॥
विकारानेव यो वेद न वेद प्रकृतिं पराम्
।
तस्य स्तम्भौ भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥२६॥
फलितमाह- विकारानिति । विकारान् धर्मान् । परां प्रकृतिम् अर्वाचीनत्रिगुणमयप्रकृत्यपेक्षया श्रेष्ठां प्रकृतिमुपादानं ब्रह्म यो न वेद तस्य कर्मप्रधानस्य भेददर्शिनः स्तंभो भवति । न तु अनुपश्यतः परां प्रकृतिम् ॥२६॥
स्वभावभाविनो भावान् सर्वानेवेह निश्चयात्
।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥२७॥
ब्रह्मविदः कुतः स्तंभो नास्तीत्याशङ्क्य प्रकृतिरेव कर्त्री न त्वात्मेति बोधादित्याह- स्वभावेति । कर्तृत्वाभिमानो हि दर्पादेः कारणं तदभावाद्दर्पाद्यभाव इत्यर्थः ॥२७॥
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्
।
तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत् ॥२८॥
यस्मात् वेद जानामि सर्वमन्तवदिति तस्मान्न शोचामीत्यर्थः ॥२८॥
निर्ममो निरहंकारो निराशीर्मुक्तबन्धनः
।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥२९॥
शोकाभावे हेतुमाह- निर्मम इति । मुक्तबन्धनः निर्वासनः स्वस्थः स्वरूपप्रतिष्ठः अव्यपेतः देहाद्यनभिमानेन स्वरूपादप्रच्युतः भूतानां प्रभवाप्ययौ परं ब्रह्म ॥२९॥
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः
।
नायासो विद्यते शक्र पश्यतो लोकमव्ययम् ॥३०॥
लोकम् आत्मानम् । अव्ययं निरपायम् ॥३०॥
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे
।
द्वेष्टारं च न पश्यामि यो मामद्य ममायते ॥३१॥
प्रकृतौ विश्वकर्त्र्याम् । विकारे धर्माधर्मफलयोः सुखदुःखयाः मम द्वेष्टारमहं न पश्यामि यश्च ममायते ममेव आचरति पुत्रमित्रादिरात्मीयस्तं च न पश्यामि ॥३१॥
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये
।
न हि ज्ञेये न विज्ञाने न ज्ञाने कर्म विद्यते ॥३२॥
ऊर्ध्वं स्वर्गम् अवाक् पातालं तिर्यक् मर्त्यलोकं न कामये क्वचित्काले तत्र हेतुर्नहीति । ज्ञेये विज्ञाने कर्म पाठान्तरे शर्म वा न विद्यते इति न हि किंतु ज्ञाने एव न विद्यते इति योजना । विज्ञाने बुद्धौ ज्ञाने चिदात्मनि आत्मनो धर्माधर्मतत्फलाश्रयत्वाभावादहं न किमपि कामये इत्यर्थः ॥३२॥
शक्र उवाच
।
येनैषा लभ्यते प्रज्ञा येनु शान्तिरवाप्यते
।
प्रब्रूहि तमुपायं मे सम्यक् प्रह्लाद पृच्छतः ॥३३॥
प्रज्ञा ज्ञानम् शान्तिस्तत्फलम् ॥३३॥
प्रह्लाद उवाच ।
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया
।
वृद्धशुश्रषया शक्र पुरुषो लभते महत् ॥३४॥
प्रसादेन बुद्धेर्नैर्मल्येन आत्मवत्तया जितेन्द्रियतया महत् मोक्षम् ॥३४॥
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः
।
स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यसि ॥३५॥
अनात्मनः कर्तृत्वमुपपाद्योपसंहरति - स्वभावादेवेति । विद्या मुक्तिश्च मायिक्येवेत्यर्थः । यथोक्तं श्रीमद्भागवते-
'विद्याऽविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्
।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते
।
’
इति । मम मायाविनः ॥३५॥
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्
।
प्रीतिमांश्च तदा राजस्तद्वाक्यं प्रत्यपूजयत् ॥३६॥
स तदाऽभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः
।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥३७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शक्रप्रह्लादसंवादो नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥
भीष्म उवाच।
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत्
।
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥१॥
पुनरिति । प्रव्याहाराय प्रकृष्टोक्तये ॥१॥
शक्र उवाच
।
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः
।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥२॥
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले
।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥३॥
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्
।
विनिपातमिमं बाह्यं शोचस्याहो न शोचसि ॥४॥
बलिरुवाच
।
अनित्यमुपलक्ष्येह कालपर्यायधर्मतः
।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥५॥
अन्वन्त इमे देहा भूतानां च सुराधिप
।
तेन शक न शोचामि नापराधादिदं मम ॥६॥
इदं खरत्वं न ममापराधादपि तु कालपर्ययादित्यर्थः ॥६॥
जीवितं च शरीरं च जात्यैव सह जायते
।
उमे सह विवर्धते उभे सह विनश्यतः ॥७॥
जीवितं जीवत्यनेनेति लिङ्गं शरीरं स्थूलम् । जात्या स्वभावेन देहाः स्थूलसूक्ष्मभेदेन द्विविधाः तृणजलायुकान्यायेन मरणेऽपि लिङ्गस्य स्थूलदेहान्तरसंगतेरपरिहृतत्वात् स्थूलवल्लिङ्गमप्यन्नेनाप्याय्यते 'अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ इति श्रुतेः । विनश्यतः मोक्षे । अयमर्थः- स्थूलसूक्ष्मदेहधर्मैः गर्दभत्वाशनायादिमत्त्वप्रभृतिभिर्दृश्यैर्द्रष्टाऽहं ततो विविक्तमात्मानं जानन्न व्याकुली भवामीत्यर्थः ॥७॥
न हीदृशमहं भावमवशः प्राप्य केवलम्
।
यदेवमभिजानामि का व्यथा मे विजानतः ॥८॥
एतदेवाह- न हीति । ईदृशं भावं गार्दभं देहं प्राप्याहं विवशो देहधर्मैः पराभूतो न ह्यस्मीति योजना । एवम् आत्मनोऽसङ्गत्वम् ॥८॥
भूतानां निधनं निष्ठा स्रोतसामिव सागरः
।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृक् ॥९॥
भूतानां स्थूलसूक्ष्माणां निधनं मरणं निष्ठा परा गतिः न त्वात्मनः न मुह्यन्तीति सम्बन्धः॥९॥
य त्वेवं नाभिजानन्ति रजोमोहपरायणाः
।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥१०॥
मूढो नश्यति अमूढस्तरतीत्याह द्वाभ्याम् - ये त्वित्ति ॥१०॥
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्बिषम्
।
विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति ॥११॥
सत्त्वस्थः बुद्धिमान् संप्रसीदति मोहजं कालुष्यं त्यजति ॥११॥
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः
।
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः ॥१२॥
ततः सत्त्वान्निवर्तन्ते रजस्तमोभ्यामभिभूयन्त इत्यर्थः । अर्थैः कामादिभिः ॥१२॥
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा
।
सुखदुःखफले चैव न द्वेष्मि न च कामये ॥१३॥
स्वस्य तद्वैलक्षण्यमाह- अर्थेति ॥१३॥
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन
।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥१४॥
अत्र युक्तिमाह- हतमिति । हतं निर्जीवं देहं हन्ति न तु जीवम् । एतेन देहस्यात्मत्वं निरस्तम् । यो हन्ति देहादन्योऽहं हन्तेत्यभिमानी कर्ता सोऽपि हत एव दृश्यत्वाद्देहवदात्मत्वेन प्रतीयमानोऽपि जड एव । उभौ यो हन्ति बुद्ध्यात्मवादी यो हतो देहात्मवादी ॥१४॥
हत्वा जित्वा च मघवन् यः कश्चित्पुरुषायते
।
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत् ॥१५॥
हन्तीति हत्वा जयतीति जित्वा उभयत्राप्यन्येभ्योऽपि दृश्यन्त इति क्वनिप् तुगागमः । आद्येऽनुनासिकलोपोऽधिकः । हन्ता जेता च पुरुषाधमः धीतादात्म्यापन्नः कर्तृत्वाभिमानी पुरुषाभासः न तु मुख्यः पुरुषः स हि अकर्तैव । यो हि कर्ता धीधातुः स एव करोति तत् हननादिकम् ॥१५॥
को हि लोकस्य कुरुते विनाशप्रभवावुभौ
।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥१६॥
जगत्कर्तृत्वमपि पुरुषे नास्तीत्याह- को हीति । तल्लोकयूथम् । तेन जनिमता मनसा कृतम् । तस्य मनसोऽपि कर्ता परः ॥१६॥
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः
।
एतद्योनीनि भूतानि तत्र का परिदेवना ॥१७॥
तमेवाह- पृथिवीति । मनोऽपि पाञ्चभौतिकमित्यर्थः । भूतानि स्थूलसूक्ष्मशरीराणि ॥१७॥
महाविद्योऽल्पविद्यश्च बलवान् दुर्बलश्च यः
।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥१८॥
महाविद्य इति । विद्यावत्त्वबलवत्त्वादयो मनोदेहयोर्भौतिकयोर्विकारदधिक्षीरादिवत्कालैकनिर्वर्त्या न त्वात्मसंबन्धिन इति जानतो मम न व्यथास्तीति श्लोकद्वयार्थः ॥१८॥
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा
।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥१९॥
तस्मिन् धीदेहविकारे पूर्वोक्ते ॥१९॥
दग्धमेवानुदहति हतमेवानुहन्यते
।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥२०॥
दग्धं कालात्मना ईश्वरेण अनुदहति वह्न्यादिः 'मया हतांस्त्वं जहि मा व्यथिष्ठाः' इत्यादिस्मृतेः । एवमग्रेऽपि ॥२०॥
नास्य द्वीपः कुतः पारो नावारः सम्प्रदृश्यते
।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥२१॥
अस्य कालस्य विधेर्विधातुः दिव्यस्य पुण्यपापेतरस्य ॥२१॥
यदि मे पश्यतः कालो भूतानि न विनाशयेत्
।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥२२॥
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे
।
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे ॥२३॥
इच्छन्नहं विकुर्यां हि रूपाणि बहुधाऽऽत्मनः
।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥२४॥
ईक्ष्य दृष्ट्वा ॥२४॥
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति
।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम् ॥२५॥
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर
।
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥२६॥
धर्मवृद्धिह्रासवत्त्वम् ॥२६॥
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मयं गमः
।
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥२७॥
प्रभव ऐश्वर्यं प्रभावस्तदाविष्करणं नात्मसंस्थः न आत्माधीनः ॥२७॥
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा
।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥२८॥
कौमारं बालस्येवाज्ञं तव चित्तम् ॥२८॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥२९॥
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः
।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥३०॥
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते
।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥३१॥
शास्तुः ईश्वरस्य ॥३१॥
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्
।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३२॥
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते
।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३३॥
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते
।
अलक्षणा विरूपा च सुभगा दृश्यते परा ॥३४॥
नैतदस्मत्कृतं शक्र नैतच्छक त्वया कृतम्
।
यत्त्वमेवंगतो वज्रिन् यच्चाप्येवंगता वयम् ॥३५॥
न कर्म भविताऽप्येतत्कृतं मम शतक्रतो
।
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत् ॥३६॥
नर्द्धिः ऋद्ध्यभावः नैकधेतिवत्समासः। पर्यायः कालक्रमः तेन कृतम् । कर्माण्यपि कालमनुरुद्ध्यैव फलन्ति । बीजानीव पर्जन्यं न तु स्वत इत्यर्थः ॥३६॥
पश्यामि त्वां विराजन्तं देवराजमवस्थितम्
।
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि ॥३७॥
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत्
।
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥३८॥
एवं मम गर्दभत्वादिकं नैव स्यादिति शेषः । न चेदित्यादि तत्रोपपत्तिः ॥३८॥
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः
।
कालः स्थापयते सर्वं कालः पचति वै तथा ॥३९॥
मां चेदभ्यागतः कालो दानवेश्वरपूजितम्
।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥४०॥
द्वादशानां तु भवतामादित्यानां महात्मनाम्
।
तेजांस्येकेन सर्वेषां देवराज धृतानि मे ॥४१॥
द्वादशानाम् 'अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा' इत्युक्तरूपाणाम् ॥४१॥
अहमेवोद्वहाम्यापो विसृजामि च वासव
।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥४२॥
उद्वहामि मेघो भूत्वा सूर्यो भूत्वा शोषयामीति वाऽर्थः आपः अपः ॥४२॥
संरक्षामि विलुम्पामि ददाम्यहमथाददे
।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥४३॥
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप
।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥४४॥
कालसैन्यं मासार्धमासादि ॥४४॥
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते
।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥४५॥
नाहमिति जीवस्य न त्वमिति तटस्थेश्वरस्य नान्येति प्रकृतेश्च कर्तृत्वं निषिद्धं पर्यायेण कालक्रमेण भुज्यन्ते पाल्यन्ते संह्रियन्ते वा ॥४५॥
मासमासार्धवेश्मानमहोरात्राभिसंवृतम्
।
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः ॥४६॥
कोऽसौ कालस्तमाह- मासेति । मासाद्युपलक्षितस्तार्किकाभिमतद्रव्यविशेषः कालस्तस्य वेश्मेवाधिष्ठानं मायाशबलं ब्रह्मेत्यर्थः । अहःसंज्ञैः रात्रिसंज्ञैश्च ऋतुभिः संवृतं 'नवैतान्यहानि भवन्ति नव वै प्राणाः नव सुवर्गा लोकाः नवस्वेव तत्सुवर्गेषु लोकेषु प्रतितिष्ठन्तो यन्ति प्रतितिष्ठन्ति ह वै य एता रात्री रूपं यन्ति' इत्यर्थवादिकफलवता कर्मकाण्डेन गूहितमित्यर्थः । उक्तं च भगवता- यामिमां पुष्पितां वाचमित्यादिना । एवमपि ऋतुद्वारम् ऋतवो वसन्ताद्याः । 'ब्राह्मणोऽग्निमादधीत वसन्ते वसन्ते ज्योतिषा यजेत' इति वसन्तादिकालविहिताधानज्योतिष्टोमादिकं कर्मैव द्वारं प्राप्तिसाधनं यस्य तदृतुद्वारम् । वायुः सूत्रात्मा 'वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम तत्सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि' इति श्रुतिप्रसिद्धः । मुखविव प्रथमप्राप्यं यस्य तद्वायुमुखम् । वर्षमुखमिति पाठे वर्षतीति वर्षो धर्ममेघाख्यं ध्यानं तदेव मुखं यस्य निर्विषयध्यानैकगम्यं कालमाहुरिति प्रसिद्धेन विशेषेण क्रियया सम्बन्धः । 'तं मामायुरमृतमित्युपास्व' इति श्रुतेरायुर्ब्रह्म तत्प्रतिपादको वेद उपनिषत्तद्विदः ॥४६॥
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया
।
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥४७॥
आहुरिति । इदं सर्वं कालाख्यं ब्रह्मेत्याहुः 'इदं सर्वं यदयमात्मा ब्रह्मैवेदं सर्वम्' इति आगमबलेन तत् ब्रह्म चिन्त्यं ध्येयमिति केचिज्जैमिन्यादय आहुर्मनीषया बुद्ध्यैव न तु शास्त्रबलेन । अस्त्विदं सर्वं ब्रह्म न तु प्रत्यगभिन्नत्वेन तदुपास्यं किं तु वस्तुतत्त्वमेव तत्तथा ज्ञेयमित्यर्थः । 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति श्रुत्याऽसकृदुपास्यस्य ब्रह्मभावनिषेधात् । ननु ज्ञेयत्वमपि ब्रह्मणो निषिद्धं 'यन्मनसा न मनुते' इत्यादि श्रुत्येत्यत आह- अस्या इति । अस्याश्चिन्तायाः पञ्चैव चिन्त्यान् विषयान् अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयान् कोशान् पञ्चधा प्रत्येकं पञ्चप्रकारान् पक्षद्वयशिरोमध्यदेशपुच्छाख्यपञ्चावयवविशिष्टान् पर्येष्यामि श्रुताववगच्छामि । तथा हि श्रूयन्ते - 'स वा एष पुरुषोऽन्नरसमयः, तस्येदमेव शिरः, अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठा' इति प्रतिपुरुषं शिर आदयः पञ्चावयवाः । तदयमर्थः - यत् ज्ञेयं यच्चोपास्यं न तद्ब्रह्म अनात्मत्वात् आत्मा हि ब्रह्म कथं तर्हीदं सर्वं यदयमात्मेति बाधायां सामानाधिकरण्यमिदमिति ब्रूमः । यद्रजतमभात्सा शुक्तिरितिवत् । अपि चाहुर्बुद्धाः -
'योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव
।
ब्रह्मास्मीति धिया शेषाऽहंबुद्धिर्विनिवर्त्यते॥'
इति। अशेषाहंबुद्धिः समष्ट्यहङ्कारः पूर्वोक्तरीत्या यथा स्फटिके लौहित्यपद्मरागत्वेन्द्रनीलत्वान्यध्यस्यन् उत्तरोत्तररूपबोधे पूर्वपूर्वरूपमेव तात्त्विकं मन्यते । एवं शुद्धचैतन्ये ईशसूत्रविराजोऽध्यस्तास्तत्र देहपरिच्छेदाभिमाननिवृत्तौ विराडस्मीत्यध्यासोऽवशिष्यते । तन्निवृत्तौ सूत्रात्माऽस्मीति तस्यापि निवृत्तौ ईशोऽस्मीति तस्यापि निवृत्तौ वाङ्मनसातीतं किञ्चित्सन्मात्रं सुषुप्तिसदृशं शिष्यते इति ॥४७॥
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा
।
अनादिनिधनं चाहुरक्षरं क्षरमेव च ॥४८॥
तदेतदाह - गंभीरमिति । गंभीरं तर्कागम्यं गहनं शास्त्रतोऽधिगतमपि दुष्प्रवेशं ब्रह्म त्रिविधपरिच्छेदशून्यं महत्तोयार्णवं पारावारशून्यार्णवतुल्यम् । 'सलिल एको द्रष्टाऽद्वैतो भवति' इति श्रुत्या तादृशसलिलेनोपमितमेकरसमित्यर्थः । क्षरं शुक्तिरिव रजतरूपेण स्वतो जन्मनाशशून्यमपि जगद्रूपेण क्षरम् । अक्षरं जीवरूपेण निर्विशेषमेव वस्तु अविद्यया सर्वविशेषयुक्तं भवतीत्यर्थः ॥४८॥
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम्
।
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः ॥४९॥
एतदेवाह - सत्त्वेष्विति । यथा दर्पणेषु मुखं प्रविश्य स्वरूपस्य अगमकमपि गमकं भवति एवं सत्त्वेषु बुद्धिसत्त्वेषु चित्प्रतिबिम्बरूपेणाविश्य लिङ्गं निरुपाधिचैतन्यस्य ज्ञापिका भवति । जीवस्यैवानुपाधिकं रूपं ब्रह्मेत्यर्थः । अत एव ध्रुवम् उपाधिधर्मास्पर्शिनम् ॥४९॥
भूतानां तु विपर्यासं कुरुते भगवानिति
।
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रभवेत्पुनः ॥५०॥
भूतानामिति । चित्ताद्याकारपरिणतपञ्चमहाभूतसम्बन्धिनं विपर्यासं सच्चिदानन्दानन्तविपरीतम् अनृतजडदुःखपरिच्छिन्नाख्यं दुर्भगत्वं भगवानपि अविद्यया आत्मनि मन्यते न ह्येतावदविद्याप्रकाशितं दुःखित्वादिरूपमात्मनो गम्यं नित्यज्ञातत्वात्तस्य । किं तु यस्मात्प्रतीचो रूपात्पुनरन्यो ब्रह्मा रुद्रो विष्णुर्वा न प्रभवेत्तदेवात्मनो रूपम् । अत एव चानन्याधिपतिरिति न्यायात् ॥५०॥
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति
।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ॥५१॥
गतिमिति । अगत्वा अप्राप्य नित्यप्राप्तत्वादिति भावः । अहेयत्वमविकारित्वं चोत्तरार्धार्थः ॥५१॥
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
।
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ॥५२॥
इन्द्रियाणीति चित्तवृत्तिमात्रोपलक्षणम् । पञ्चधा पञ्चभिः प्रमाणविपर्ययविकल्पनिद्रास्मृत्याख्यैः प्रकारैः । एनम् इन्द्रियाद्यगम्यम् । केचिदौपनिषदाः । अग्निम् 'अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे' 'अहं वैश्वानरो भूत्वा' इत्यादिश्रुतिस्मृतिप्रसिद्धं जाठरे आरोप्योपास्यम् आहुः । अपरे कर्मपरायणाः प्रजापतिं संवत्सरः प्रजापतिरिति श्रुतं कालाभिमानिनं सूत्रात्मानं सर्वकर्मसंतर्पणीयं प्रतिनियतकालसर्वफलप्रदातारम् ऋतुमासाद्यभिमानिदेवतात्मानमाहुः । एकं सन्तम् अनेकधा आहुः । तथा च श्रुतिः- ’सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति' इत्याद्या 'तद्यदिदमाहुरमुं यजामुं यजेत्येतस्यैव सा विसृष्टिः' इत्याद्या च । श्लोकत्रयम् ॥५२॥
ऋतून् मासार्धमासांश्च दिवसांश्च क्षणांस्तथा
।
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ॥५३॥
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा
।
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥५४॥
बहूनीन्द्रसहस्राणि समतीतानि वासव
।
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥५५॥
त्वामप्यतिबलं शक्र देवराज बलोत्कटम्
।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥५६॥
य इदं सर्वमादत्ते तस्माच्छक स्थिरो भव
।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥५७॥
योमतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्
।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥५८॥
स्थिता हीन्द्र सहस्रेषु त्वद्विशिष्टतमेष्वियम्
।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥५९॥
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि
।
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति ॥६०॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि बलिवासवसंवादे चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥२२४॥
युधिष्ठिर उवाच।
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
।
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः ॥१॥
मग्नस्येति मग्नस्य व्यसने कृच्छ्र इत्यादिनाऽध्यायेन विपदि धैर्यमेव श्रेय इति पुनर्बलिवासवसंवादाख्यायिकामुखेन प्रदर्श्यते ॥१॥
त्वं हि नः परमो वक्ता लोकेऽस्मिन् भरतर्षभ
।
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि ॥२॥
भीष्म उवाच।
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा
।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ॥३॥
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
।
विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् ॥४॥
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्
।
यच्च प्राज्ञो नरस्तात सात्त्विकीं वृत्तिमास्थितः ॥५॥
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु
।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥६॥
बलिवासवसंवादं पुनरेव युधिष्ठिर
।
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ॥७॥
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ
।
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते ॥८॥
समृद्धमात्रे त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि
।
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ॥९॥
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः
।
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
।
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ ॥१०॥
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे
।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥११॥
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥१२॥
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥१३॥
दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया
।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥१४॥
शत्रुभिर्वशमानीतो हीनस्थानादनुत्तमात्
।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥१५॥
श्रैष्ठ्यं प्राप्य स्वजातीनां महाभोगाननुत्तमान्
।
हतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥१६॥
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥१७॥
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥१८॥
नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्
।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥१९॥
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
।
श्रुत्वा सुखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥२०॥
बलिरुवाच ।
निगृहीते मयि भृशं शक्र किं कत्थितेन ते
।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरन्दर ॥२१॥
अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः
।
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति ॥२२॥
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्
।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥२३॥
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
।
एकः प्राप्नोति विजयमेकश्चैव पराजयम् ॥२४॥
मा च तेऽभूत्स्वभावोऽयमिति ते देवपुङ्गव
।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥२५॥
नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया
।
यत्त्वमेवंगतो वज्रिन्यद्वाऽप्येवंगता वयम् ॥२६॥
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम्
।
माऽवमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥२७॥
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥२८॥
कालः काले नयति मां त्वां च कालो नयत्ययम्
।
तेनाहं त्वं यथा नाद्यं त्वं चापि न यथा वयम् ॥२९॥
न मातृपितृशुश्रूषा न च दैवतपूजनम्
।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥३०॥
न विद्या न तपो दानं न मित्राणि न बान्धवाः
।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥३१॥
नागामिनमनर्थं हि प्रतिघातशतैरपि
।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥३२॥
पर्यायैर्हन्यमानानां परित्राता न विद्यते
।
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यसे ॥३३॥
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन
।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः ॥३४॥
कालेनाहं त्वामजयं कालेनाहं जितस्त्वया
।
गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥३५॥
इन्द्र प्राकृतया बुद्ध्या प्रलयं नावबुद्ध्यसे
।
केचित्त्वां बहु मन्यन्ते श्रेष्ठ्यं प्राप्तं स्वकर्मणा ॥३६॥
कथमस्मद्विधो नाम जानन् लोकप्रवृत्तयः
।
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथ विभ्रमेत् ॥३७॥
नित्यं कालपरीतस्य मम वा मद्विधस्य वा
।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥३८॥
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
।
ते सर्वे शक यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥३९॥
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
।
काले परिणते कालः कालयिष्यति मामिव ॥४०॥
बहूनीन्द्रसहस्राणि दैवतानां युगे युगे
।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥४१॥
इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे
।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥४२॥
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित्
।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥४३॥
अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम्
।
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर ॥४४॥
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि
।
नेयं तव न चास्माकं न चान्येषां स्थिरा सदा ॥४५॥
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता
।
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ॥४६॥
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति
।
राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे ॥४७॥
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरन्दर
।
सवृक्षौषधिरत्नेयं सहसत्त्ववनाकरा ॥४८॥
तानिदानीं च पश्यामि यैर्भुक्तेयं पुरा मही
।
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा ॥४९॥
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः
।
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ॥५०॥
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान् वृषः
।
सत्येषुर्ऋषभो बाहुः कपिलाश्वो विरूपकः ॥५१॥
बाणः कार्तस्वरो वह्निविश्वदंष्ट्रोऽथ नैर्ऋतिः
।
संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः ॥५२॥
विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः
।
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ॥५३॥
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह
।
एते चान्ये च बहव पूर्वे पूर्वतराश्च ये ॥५४॥
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम
।
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ॥५५॥
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः
।
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ॥५६॥
सर्वे धर्मपराश्चासन् सर्वे सततसत्रिणः
।
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ॥५७॥
सर्वे संहननोपेताः सर्वे परिघबाहवः
।
सर्वे मायाशतधराः सर्वे ते कामरूपिणः ॥५८॥
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः
।
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ॥५९॥
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः
।
सर्वे सम्मतमैश्वर्यमीश्वराः प्रतिपेदिरे ॥६०॥
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्
।
सर्वे यथार्हदातारः सर्वे विगतमत्सराः ॥६१॥
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे
।
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः ॥६२॥
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः
।
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्षसे पुनः ॥६३॥
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः
।
मुञ्चेञ्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् ॥६४॥
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि
।
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ॥६५॥
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय
।
मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः ॥६६॥
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति
।
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह ॥६७॥
संयते मयि नूनं त्वमात्मानं बहू मन्यसे
।
कालः प्रथममायान्मां पश्चात्त्वामनुधावति ॥६८॥
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि
।
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे ॥६९॥
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव
।
यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति ॥७०॥
यथा मे सर्वगात्राणि न सुस्थानि महौजसः
।
अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि ॥७१॥
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्
।
किं हि कृत्वा त्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः ॥७२॥
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्
।
नाशं विनाशमैश्वर्यं सुखं दुःखं भवाभवौ ॥७३॥
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्
।
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ॥७४॥
किं कत्थसे मां किं च त्वं कालेन निरपत्रप
।
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ॥७५॥
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्
।
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह ॥७६॥
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते
।
त्वमेव शक्र जानासि देवासुरसमागमे ॥७७॥
समेता विबुधा भग्नास्तरसा समरे मया
।
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ॥७८॥
सटङ्कशिखरा भग्नाः समरे मूर्ध्नि ते मया
।
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः ॥७९॥
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना
।
न त विक्रमकालोऽयं क्षमाकालोऽयमागतः ॥८०॥
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया
।
तं मां परिणते काले परीतं कालवह्निना ॥८१॥
नियतं कालपाशेन बद्धं शक्र विकत्थसे
।
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ॥८२॥
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा
।
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ॥८३॥
वधबन्धप्रमोक्षं च सर्वं कालेन लभ्यते
।
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ॥८४॥
सोऽयं पचति कालो मां वृक्षे फलमिवागतम्
।
यान्येव पुरुषः कुर्वन् सुखैः कालेन युज्यते ॥८५॥
पुनस्तान्येव कुर्वाणो दुःखै कालेन युज्यते
।
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ॥८६॥
तेन शक्र न शोचामि नास्ति शोके सहायता
।
यदा हि शोचतः शोको व्यसनं नापकर्षति ॥८७॥
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि
।
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः ॥८८॥
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः
।
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ॥८९॥
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः
।
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ॥९०॥
ध्रुवं न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम
।
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् ॥९१॥
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्
।
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ॥९२॥
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे
।
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ॥९३॥
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्
।
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ॥९४॥
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते
।
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ॥९५॥
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्
।
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ॥९६॥
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः
।
अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः ॥९७॥
सम्पीडयति यः कालो वृद्धिं वार्धुषिको यथा
।
इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् ॥९८॥
कालो हरति सम्प्राप्तो नदीवेग इव दुमम्
।
इदानीं तावदेवासौ मया दृष्टः कथं मृतः ॥९९॥
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्
।
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ॥१००॥
जीवितं जीवलोकस्य कालेनागम्य नीयते
।
उच्छ्राया विनिपातान्ता भावोऽभावः स एव च ॥१०१॥
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः
।
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ॥१०२॥
अहमासं पुरा चेति मनसापि न बुद्ध्यते
।
कालेनाक्रम्य लोकेऽस्मिन् पच्यमाने बलीयसा ॥१०३॥
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते
।
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ॥१०४॥
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति
।
भवांस्तु भावतत्त्वज्ञो विद्वान् ज्ञानतपोऽन्वितः ॥१०५॥
कालं पश्यति सुव्यक्तं पाणावामलकं यथा
।
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ॥१०६॥
विवेचने कृतात्मासि स्पृहणीयो विजानताम्
।
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ॥१०७॥
विहरन्सर्वतो मुक्तो न क्वचित्परिषज्जते
।
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम् ॥१०८॥
निष्प्रीतिं नष्टसन्तापमात्मानं त्वमुपाससे
।
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ॥१०९॥
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः
।
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने ॥११०॥
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि
।
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ॥१११॥
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर
।
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ॥११२॥
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु
।
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ॥११३॥
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः
।
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा तदा ॥११४॥
संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः
।
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति ॥११५॥
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते
।
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय
।
सुखी भव निराबाधः स्वस्थचेता निरामयः ॥११६॥
तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः
।
विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥११७॥
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम्
।
हिमापहो हव्यमुवाह चाध्वरे तथाऽमृतं चार्पितमीश्वरोऽपि हि ॥११८॥
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः
।
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥११९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि बलिवासवसंवादे सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥२२७॥
युधिष्ठिर उवाच।
पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः
।
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह ॥१॥
पूर्वरूपाणीति ॥१॥
भीष्म उवाच।
मन एव मनुष्यस्य पूर्वरूपाणि शंसति
।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
श्रिया शक्रस्य संवादं तं निबोध युधिष्ठिर ॥३॥
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ
।
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥४॥
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः
।
विचचार यथाकामं त्रिषु लोकेषु नारदः ॥५॥
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि
।
ध्रुवद्वारभवां गङ्गां जगामावततार च ॥६॥
सहस्रनयनश्चापि वज्री शम्बरपाकहा
।
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥७॥
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः
।
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥८॥
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः
।
चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा ॥९॥
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ
।
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् ॥१०॥
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः
।
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ॥११॥
आकाशे ददृशे ज्योतिरुद्यतार्चिः समप्रभम्
।
तयोः समीयं तं प्राप्तं प्रत्यदृश्यत भारत ॥१२॥
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम्
।
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥१३॥
तत्राभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्
।
बृहतीमंशुमत्प्रख्यांबृहद्भानोरिवार्चिषम् ॥१४॥
नक्षत्रकल्पाभरणां तां मौक्तिकसमस्रजम्
।
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम् ॥१५॥
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा
।
अभ्यागच्छत्त्रिलोकेशं देवर्षिं चापि नारदम् ॥१६॥
नारदानुगतः साक्षान्मघवांस्तामुपागमत्
।
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥१७॥
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्
।
देवराजः श्रियं राजन् वाक्यं चेदमुवाच ह ॥१८॥
शक्र उवाच ।
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि
।
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥१९॥
श्रीरुवाच ।
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
।
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥२०॥
साऽहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते
।
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥२१॥
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन
।
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥२२॥
अहं धृतिरहं सिद्धिरहं त्विद्भूतिरेव च
।
अहं स्वाहा स्वधा चैव सन्नतिर्नियतिः स्मृतिः ॥२३॥
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
।
निवासे धर्मशीलानां विषयेषु पुरेषु च ॥२४॥
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि
।
निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥२५॥
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
।
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥२६॥
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना
।
विपरीतांस्तु तान् बुद्ध्वा त्वयि वासमरोचयम् ॥२७॥
शक्र उवाच ।
कथं वृत्तेषु दैत्येषु त्वमवात्सीर्वरानने
।
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥२८॥
श्रीरुवाच
।
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च
।
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ॥२९॥
दानाध्ययनयज्ञेज्यापितृदैवतपूजनम्
।
गुरूणामतिथीनां च तेषां सत्यमवर्तत ॥३०॥
सुसम्मृष्टगुहाश्चासन् जितस्त्रीका हुताग्नयः
।
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः ॥३१॥
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः
।
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥३२॥
अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन
।
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः ॥३३॥
दातारः संगृहीतार आर्याः करुणवेदिनः
।
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः॥३४॥
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः
।
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः ॥३५॥
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः
।
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ॥३६॥
नैनानभ्युदियात्सूर्यो न चाप्यासन् प्रगेशयाः
।
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥३७॥
कल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मवादिनः
।
मङ्गल्यान्यपि चापश्यन् ब्राह्मणांश्चाप्यपूजयन् ॥३८॥
सदा हि वदतां धर्मं सदा चाप्रतिगृह्णताम्
।
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥३९॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
।
दयां च संविभागं च नित्यमेवान्वमोदताम् ॥४०॥
त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधितं कृशम्
।
हतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥४१॥
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम्
।
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥४२॥
पितॄन्देवातिथींश्चैव यथावत्तेऽभ्यपूजयन्
।
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः ॥४३॥
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम्
।
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति ॥४४॥
नैवाकाशे न पशुषु वियोनौ च न पर्वसु
।
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन ॥४५॥
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा
।
उत्साहोऽथानहंकारः परमं सौहृदं क्षमा ॥४६॥
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा
।
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥४७॥
निद्रा तन्द्रीरसम्प्रीतिरसूयाथानवेक्षिता
।
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान् ॥४८॥
साऽहमेवंगुणेष्वेव दानवेष्ववसं पुरा
।
प्रजासर्गमुपादाय नैकं युगविपर्ययम् ॥४९॥
ततः कालविपर्यासे तेषां गुणविपर्ययात्
।
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम् ॥५०॥
सभासदां च वृद्धानां सतां कथयतां कथाः
।
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः ॥५१॥
युवानश्च समासीना वृद्धानपि गतान्सतः
।
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥५२॥
वर्तयत्येव पितरि पुत्रः प्रभवते तथा
।
अभृत्य भृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः ॥५३॥
तथा धर्मादपेतेन कर्मणा गर्हितेन ये
।
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा ॥५४॥
उच्चैश्चाभ्यवदन् रात्रौ नीचैस्तत्राग्निरज्वलत्
।
पुत्राः पितॄनत्यचरन्नार्यश्चात्यचरन् पतीन् ॥५५॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
।
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥५६॥
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते
।
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन् गुरून् ॥५७॥
न शौचमनुरुद्ध्यन्त तेषां सूदजनास्तथा
।
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम् ॥५८॥
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम्
।
अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन् घृतम् ॥५९॥
कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभाजनम्
।
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥६०॥
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते
।
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ॥६१॥
बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन्
।
तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः ॥६२॥
पायसं कृसरं मांसमपूपानथ शष्कुलीः
।
अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् ॥६३॥
उत्सूर्यशायिनश्चासन् सर्वे चासन् प्रगेनिशाः
।
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ॥६४॥
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह
।
आश्रमस्थान् विधर्मस्थाः प्राद्विषन्त परस्परम् ॥६५॥
संकराश्चाभ्यवर्तन्त न च शौचमवर्तत
।
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये ॥६६॥
निरन्तरविशेषास्ते बहुमानावमानयोः
।
हारमाभरणं वेषं गतं स्थितमवेक्षितम् ॥६७॥
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्
।
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः ॥६८॥
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्
।
प्रभवद्भिः पुरा दायानहेभ्यः प्रतियादितान् ॥६९॥
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि
।
मित्रेणाभ्यर्थितं मित्रमर्थसंशयिते क्वचित् ॥७०॥
बालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु
।
परस्वादानरुचयो विपणव्यवहारिणः ॥७१॥
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः
।
अधीयन्तेऽव्रताः केचिद्वृथा व्रतमथापरे ॥७२॥
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः
।
पिता चैव जनित्री च श्रान्तौ वृत्तसोत्सवाविव ॥७३॥
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्
।
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः ॥७४॥
कृप्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत
।
प्राः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः ॥७५॥
शिष्यानप्रहितास्तेषामकुर्वन् गुरवः स्वयम्
।
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत ॥७६॥
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति
।
प्रयत्नेनापि चारक्षच्चितं पुत्रस्य वै पिता ॥७७॥
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत्
।
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् ॥७८॥
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि
।
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः ॥७९॥
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः
।
तेष्वेवमादीनाचारानाचरत्सु विपर्यये ॥८०॥
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः
।
तन्मां स्वयमनुप्राप्तामभिनन्द शचीपते ॥८१॥
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः
।
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः ॥८२॥
सप्त देव्यो जयाष्टम्यो वासमेष्यन्ति तेऽष्टधा
।
आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा ॥८३॥
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन
।
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः ॥८४॥
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु
।
इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः ॥८५॥
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः
।
ततोऽनलसखो वायुः प्रववौ देववर्त्मसु ॥८६॥
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः
।
शुचौ वाऽभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः ॥८७॥
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः ॥८८॥
ततो दिवं प्राप्य सहस्रलोचनः स्त्रियोपपन्नः सुहृदा महर्षिणा
।
रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ ॥८९॥
अथेङ्गितं वज्रधरस्य नारदः श्रियश्च देव्या मनसा विचारयन्
।
श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्षिभिः ॥९०॥
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयम्भुवः
।
अनाहता दुन्दुभयोऽथ नेदिरे तथा प्रसन्नाव दिशश्चकाशिरे ॥९१॥
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन
।
अनेकरत्नाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये ॥९२॥
क्रियाभिरामा मनुजा मनस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः
।
नरामराः किन्नरयक्षराक्षसाः समृद्धिमन्तः सुमनस्विनोऽभवन् ॥९३॥
न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि
।
रसप्रदाः कामदुघाश्च धेवनो न दारुणा वाग्विचचार कस्यचित् ॥९४॥
इमां सपर्यां सह सर्वकामदैः श्रियश्च शक्रप्रमुखैश्च दैवतैः
।
पठन्ति ये विप्रसदःसमागताः समृद्धकामाः श्रियमाप्नुवन्ति ते ॥९५॥
त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम्
।
तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥९६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि श्रीवासवसंवादो नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥२२८॥
व्यास उवाच ।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्
।
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम् ॥१॥
ननु प्राक्सिद्धमज्ञातसत्ताकं जगत् समनस्केन्द्रियसन्निकर्षात् गृह्यते ह्यस्तन एवायं घट इति प्रत्यभिज्ञायते च तत्कथं मनोमात्रमित्याशङ्क्याह - ब्रह्मेति ।
'मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः
।
प्रज्ञासंविच्चितिश्चैव स्मृतिश्च परिपठ्यते
।
पर्यायवाचकाः शब्दा मनसः परिकीर्तिताः
।
'
इति स्मृतेर्ब्रह्म महत्तत्त्वं सूक्ष्मबुद्धिः तच्च तेजोमयं सूक्ष्मवासनामयं स एतास्तेजोमात्राः समभ्याददान इत्यादौ वासनासु तेजःशब्दप्रयोगात् तदेव शुक्रं बीजं विद्धीति शेषः । यस्य बीजस्य एकस्य द्रव्यान्तरवर्जितस्य भूतस्य जनिमतः । पञ्चम्यर्थे षष्ठी । यस्मादिदं जगत् भूतम् उद्भूतं स्थावरं स्थास्नु नित्यं चेतनं जङ्गमं विनाशि अनित्यम् अचेतनं स्वप्ने इव वासनामयं जगत् मनस्येव स्थितं पूर्वपूर्वसंस्कारवशात् इदमिति ज्ञायते । तदिदमिति प्रत्यभिज्ञायते चेत्यर्थः ॥१॥
अहर्मुखे विवुद्धः सन् सृजतेऽविद्यया जगत्
।
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः ॥२॥
अहरिति । अविद्ययेति महत्तत्त्वस्यापि कारणमुक्तम् । सृष्टिक्रममाह - अग्रे इति । अग्रे सर्गादौ महत् महत्तत्त्वं भूतम् उद्भूतं तदेव आशु शीघ्रं व्यक्तात्मकं वियदादिरूपं सत् मन इत्युच्यते । आशु इति सांख्याभिमतः सृष्टिक्रमो निरस्तः युगपत्सृष्टिरेव हि शास्त्रतत्त्वमिति दृष्टिसृष्टिवादिनां घण्टाघोषः ॥२॥
अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान्
।
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥३॥
अभिभूयेति सार्धश्लोकः । मनः कर्तृ अर्चिष्मत् प्रकाशकं चिदात्मानम् अभिभूय आवृत्य मानसान् सप्त व्यसृजत् । अर्चिष्मानिति पाठे तु ईश्वरः मानसान् पूर्वसर्गान्तेऽभिभूय उत्तरसर्गादौ व्यसृजदिति ज्ञेयम् । मनः प्रथमं सिसृक्षया बहुस्यां प्रजायेयेतिश्रुतिसिद्धया प्रार्थनारूपयाऽनेन मनसोः रूपान्तरेणेति द्वितीय त्वमुक्तम् । विकुरुते विविधाकारां कुरुते । आकाशादयः पञ्चेति सप्त मानसाः ॥३॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
।
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥४॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः
।
बलवान् जायते वायुस्तस्य स्पर्शो गुणो मतः ॥५॥
वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम्
।
रोचिष्णु जायते शुक्रं तद्रूपगुणमुच्यते ॥६॥
ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः
।
अद्भ्यो गन्धवहा भूमिः सर्वेषां सृष्टिरुच्यते ॥७॥
गुणाः सर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्
।
तेषां यावद्यथा यच्च तत्तत्तावद्गुणं स्मृतम् ॥८॥
गुणा इति । आकाशादयः पञ्च क्रमेण एकद्वित्रिचतुःपञ्चगुणयुक्ता इत्यर्थः तेषां भूतानां मध्ये यद्भूतं यावत्कालपर्यन्तं यथा येन प्रकारेण वर्तते तद्भूतम् । एकस्तच्छब्दस्तावच्छब्दार्थः । तावत्कालपर्यन्तं तावद्गुणं स्मृतम् । अत्र पूर्वार्द्धोक्ता व्यवस्था सूक्ष्मभूतेष्वेव ज्ञेया। स्थूलेषु तु पञ्चीकरणादूर्ध्वं सर्वाण्यपि पञ्चगुणानि त्रिवृत्करणपक्षे च आकाशवायू क्रमेणैकद्विगुणकौ इतराणि पञ्चगुणान्येवेत्याशयः । तत्र पञ्चीकरणं तु आकाशादीन्प्रत्येकं द्वेधा विभज्य एकस्मिन् भागे स्वेतरभूतचतुष्टयस्य अर्धीकृतस्य चतुरश्चतुर्थांशान् प्रक्षिप्य एकैकं स्थूलभूतं भवति । तथा त्रिवृत्करणम् । तेजोवन्नानि प्रत्येकं द्वेधा विभज्य एकस्मिन्नर्धे स्वेतरयोरर्धार्थं प्रक्षिपेदिति । एवं सङ्कीर्णेष्वपि आकाशादिसंज्ञाः स्वभागाधिक्यादिति ज्ञेयम् ॥८॥
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात्
।
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम् ॥९॥
ननु पञ्चीकरणपक्षे कथमाकाशे गन्धाद्यनुपलंभः । कथं वा त्रिवृत्करणपक्षे वायौ गन्धोपलंभ इत्याशङ्क्याद्ये स्थूलाकाशस्याप्रत्यक्षत्वेन तद्गतगन्धादीनामप्यप्रत्यक्षत्वमित्यभिसंधाय द्वितीयं प्रत्याह-उपलभ्येति । अप्स्विति दृष्टान्तार्थम् । यथाप्सु एलालवङ्गादिगन्ध उपलभ्यते एवं वायावपि आगन्तुकद्रव्यसम्पर्कज एव गन्धानुभवो न त्वाजानसिद्धद्रव्यसंपर्कज इत्यर्थः । अनैपुणादिति मूर्खाणामेवायं पूर्वपक्षो न विदुषां काणादादीनां ते हि युक्तिबलेनैव वायौ गन्धाभावं निश्चिन्वन्तीति दर्शितम् ॥९॥
एते सप्तविधात्मानो नानावीर्याः पृथक् पृथक्
।
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥१०॥
सप्त मनः सिसृक्षाशब्दितौ महदहङ्कारौ सूक्ष्माकाशादयश्च असमागम्य अमिलित्वा ॥१०॥
ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः
।
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥११॥
महात्मानो व्यापकाः समेत्य त्रिदण्डविष्टम्भवदन्योन्यबलमाश्रित्येकीभूयेत्यर्थः । पूरिति शरीरस्य नाम तत्र वसतीति पुरुष इत्यवयवार्थः ॥११॥
शरीरं श्रयणाद्भवति मूर्तिमत् षोडशात्मकम्
।
तमाविशन्ति भूतानि महान्ति सह कर्मणा ॥१२॥
षोडश पञ्च स्थूलभूतानि समनस्कान्येकादशेन्द्रियाणि च तदात्मकं शरीरं षोडशानां सृष्टिस्तु व्यक्तात्मकं मन इति मनःसृष्ट्यैवोक्तेति न तेषां पृथक्सिद्धिस्तार्किकाभिमता मन्तव्या । न षोडशात्मकं पुरुषं तदिति पाठे स्थूलशरीरापेक्षया क्लीबत्वम् । भूतानि सूक्ष्माणि महान्ति महत्तत्वानि भुक्तावशिष्टकर्मसहितानीति । बहुत्वं प्रतिपुरुषं महदादीनां भिन्नत्वप्रतिपादनार्थम् । तेन तत्तत्पुरुषीया सूक्ष्मबुद्धिरेव कर्माश्रयस्तदुपलक्षितोऽहङ्कारश्चेति ज्ञेयम् ॥१२॥
सर्वभूतान्युपादाय तपसश्चरणाय हि
।
आदिकर्ता स भूतानां तमेवाहुः प्रजापतिम् ॥१३॥
एवं स्थूले शरीरे लिङ्गशरीरस्य प्रवेशमुक्त्वा तत्र चैतन्यप्रवेशमाह - सर्वेति । आदिकर्ता सर्वभूतानि स्वोपाधिमायैकदेशभूतानि उपादाय तमाविशतीति विपरिणामेनानुषज्यते । एतेन 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेरर्थो दर्शितः । तपसः ज्ञानमयस्यालोचनस्य चरणाय । तथा च श्रुतिः परमेश्वरस्य तत्तदुपाध्यनुसरणं स्वस्वरूपज्ञानार्थमेवेत्याह - 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय' इति तमेव उपाधिं प्रविश्य जीवभावमापन्नं प्रजापतिं ब्रह्मेत्याहुः तत्त्वमसीत्यादयः श्रुतयः ॥१३॥
स वै सृजति भूतानि स्थावराणि चराणि च
।
ततः स सृजति ब्रह्मा देवर्षिपितृमानवान् ॥१४॥
तत्र हेतुमाह - स वै इति । सः शरीरान्तस्थः वै एव ततः शरीरप्रवेशानन्तरम् । एतेन 'तदनुप्रविश्य सच्च त्यच्चाभवदित्यादि सत्यं चानृतं च सत्यमभवत्' इत्यन्तायाः श्रुतेरर्थो दर्शितः सत् पृथिव्यप्तेजांसि त्यत् वाय्वाकाशौ सत्यानृते घटरज्जूरगादि, सत्यं ब्रह्मैवाभवदिति श्रुतिपदानामर्थः । एवमैश्वरीं भूतमयीं जैवीं च धीमयीमिति द्विविधां सृष्टिमभिप्रेत्योक्तमभियुक्तैः । 'अन्या मांसमयी योषिदन्या काचिन्मनोमयी' इति 'घटौ मृन्मयधीमयौ' इति च । तथा सृष्टिद्वयवत् प्रलयद्वयमपि विदुषो विदेहकैवल्यकाले श्रूयते - 'गताः कलाः पञ्चदश प्रतिष्ठा । इति एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं यन्तीति च कलाः प्राणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीन्द्रियमित्याद्याः तत्रैशीं व्यावहारिकीं दृष्टिसृष्टिमभिप्रेत्य प्रतिष्ठासु वाय्वादिषु तत्तदुपादानेषु प्राणादीनां प्रलयः पुरुषान्तरप्रतीत्या उक्तः । विद्वत्प्रतीत्या तु जैवीं प्रातिभासिकीं सृष्टिसृष्टिमभिप्रेत्य पुरुष एव कलाप्रलय उक्तः तस्माद्युक्तमुक्तं सष्टिद्वयम् ॥१४॥
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन्
।
नरकिन्नररक्षांसि वयःपशुमृगोरगान्
।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥१५॥
वयः पक्षी अव्ययम् आकाशादिव्ययं घटादि अपक्षयधर्मि ॥१५॥
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
।
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः ॥१६॥
तेषां नरकिन्नरादीनां प्राक्सृष्ट्याम् ऐश्यां जैव्यां वा यथा ह्योहिंस्रस्याद्यापि हिंस्रतैव दृश्यते । एवं पूर्वकल्पे हिंस्रस्य पुनः कल्पान्तरेऽपि हिंस्रत्वमेवानुवर्तते 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः' इति श्रुतिरपि पूर्वकल्पसरूपामेवैश्वरीमपि सृष्टिमाह । न्यायोऽपि समाननामरूपत्वाच्च वृत्तावप्यविरोध इति । प्रतिकल्पमिन्द्रादीनां नामानि रूपाणि कर्माणि च समानान्येव । अतस्तद्वाचिनां वैदिकशब्दानां व्रीह्यादिशब्दवज्जातिवाचित्वेनानाधुनिकत्वेन वेदस्य नित्यत्वं न विरुद्ध्यते इति सूत्रार्थः । प्रतिकल्पं सृष्टिवैरूप्ये तु कृतहानाकृताभ्यागमौ प्रसज्येतामित्येवकारार्थः ॥१६॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥१७॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु
।
विनियोगं च भूतानां धातैव विदधात्युत ॥१८॥
महाभूतेष्विति । धाता जगदिन्द्रजालविस्तारयिता नानात्वं शुक्तिरजतवत्प्रतिपुरुषं भिन्नत्वं महाभुतेषु वियदादिषु इन्द्रियार्थेषु रूपादिषु मूर्तिषु द्रव्याकृतिषु भूतानां जीवानां विनियोगं भोक्तृभोग्यभावेन सम्बन्धं सर्वदृष्टान्तार्थमिदम् । यथा सुखाद्यनुभवः प्रतिपुरुषं नाना एवमनुभवविषयोऽपि महाभूतादिर्नानेत्यर्थः ॥१८॥
केचित्पुरुषकारं तु प्राहुः कर्मसु मानवाः
।
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥१९॥
धातैवेत्येवकारव्यावर्त्यान् परपक्षानुपन्यस्यति केचिदिति। कर्मस्वेव पुरुषस्य सामर्थ्यमस्तीति कर्मेव प्रधानमिति मीमांसकाः । दैवम् आदित्याद्या ग्रहा एव सदसत्फदातार इति दैवज्ञाः । स्वभाव एवेति स्वभाववादिनोः बाह्याः ॥१९॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
।
त्रय एतेऽपृथग्भूता न विवेकं तु केचन ॥२०॥
एतेषां समुच्चयमतमाह- पौरुषमिति । अपृथग्भूता इति च्छेदः । दैवं कर्म च स्वभावानुगृहीतं फलाय वर्ततेऽतस्त्रय एते समुदिता न तु तेषां विवेकं पृथग्भावम् एकैकस्य प्राधान्यम् इच्छन्ति केचन ॥२०॥
एतमेव च नैवं च न चोभे नानुभे न च
।
कर्मस्था विषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥२१॥
आर्हतमतमाह- एतमिति श्लोकपादत्रयेण । एतं विषयं भूतादीनां नानात्वे किं कारणमिति चिन्ताया विषयमेवमिति विशिष्य न ब्रूयुः । न निर्वक्तुं शक्यमित्यर्थः । एवं न चेत्यपि न ब्रूयुः अनिर्वाच्यत्वमपि नेत्यर्थः । नन्वेकैकश्येन कर्मदैवयोः कारणत्वं सुवचं दुर्वचं वास्तु । समुच्चितयोस्तु सुवचमित्याशङ्क्याह- उभे च न ब्रूयुरिति । अस्तु तर्हि तयोरपि दुर्वचमित्याशङ्क्याह - अनुभे च न ब्रूयुरिति । उभयव्यतिरिक्तमपि कारणं नेत्यर्थः । कर्मस्था इत्यार्हतानां यौगिकं नाम। ते हि कर्माष्टकवशादेव जीवानां बन्धस्तप्तशिलारोहणादिना निर्जराख्येन धर्मेणैव च मोक्ष इति वदन्ति । सिद्धान्तमाह- सत्त्वस्थाः समदर्शिन इति । अयमर्थः- श्रुतौ किं कारणं ब्रह्मेत्युपक्रम्य कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यमिति काल इति दैवज्ञानां, स्वभाव इति परिणामवादिनां सांख्यानां नियतिरिति कर्मवादिनां मीमांसकानां यदृच्छेत्यनियमवादिनामार्हतानां भूतानीति लोकायतानां, पुरुष इति तटस्थेश्वरवादिनां च जगत्कारणविषये मतान्युपन्यस्य 'ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्यनुभवबलेन सिद्धान्तः कृतः । देवः प्रकाशमानो य आत्मा प्रत्यग्वस्तु तद्गतां शक्तिमेव कारणमाहुः स्वगुणैः सत्त्वरजस्तमोभिर्युक्तामपि परीक्षादशायां नितरां गूढाम् । तस्याः कार्यमात्मनो जगद्धानं प्रत्यक्षं सा तु न प्रत्यक्षा रज्जूरगहेत्वज्ञानवदिति श्रुत्यर्थस्तदेतदाह सत्त्वस्थाः रजस्तमोरहितेऽन्तःकरणे सत्त्वे संप्रज्ञातावस्थायां तिष्ठन्ति ते सत्त्वस्था योगिनः समं ब्रह्मैव कारणत्वेन द्रष्टुं शीलं येषां ते समदर्शिनः ब्रह्मैव कारणमिति पश्यन्तीत्यर्थः ॥२१॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः
।
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥२२॥
ब्रह्मप्राप्तेः साधनं फलं चाह- सार्धद्वाभ्यां तप इति । तपो योगः निःश्रेयसं मोक्षहेतुः शमो मनोनिग्रहः दमो बाह्येन्द्रियनिग्रहः तेन तपसा तथा च श्रुतिर्योगिनां सर्वसकामावाप्तिं दर्शयति विशुद्धसत्त्वः कामयते यांश्च कामांस्तं तं लोकं जयते तांश्च कामान् इति । जयते प्राप्नोति । कामान् विषयान् ॥२२॥
तपसा तदवाप्नोति यद्भूतं सृजते जगत्
।
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥२३॥
तपसेति । तत् ब्रह्मदर्शनं ब्रह्मभावः सर्वेश्वरत्वं च योगस्यैव फलमित्यर्थः ॥२३॥
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्
।
अनादिनिधना विद्या वागुत्सृष्टा स्वयम्भुवा ॥२४॥
अध्यैषन्त प्राग्जन्मन्यधीतान् योगबलेनैव स्मृतवन्तः अनादीति श्लोकस्य उत्तरार्धम् आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः' इति ज्ञेयं क्वचित्तददर्शनेऽपि शारीरकसूत्रभाष्यादौ पुस्तकान्तरेषु च दर्शनात् । स्वयंभुवा 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुतेः परमेश्वराल्लब्धवेदेन उत्सृष्टा शिष्यप्रशिष्यसंप्रदायक्रमेण प्रवर्तितः ॥२४॥
ऋषीणा नामधेयानि याश्च वेदेषु सृष्टयः
।
नानारूपं च भूतानां कर्मणां च प्रवर्तनम् ॥२५॥
वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः
।
नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः ॥२६॥
वेदशब्देभ्य एवेति । लोके हि दृष्टादृष्टद्वारकं शब्दानामर्थकारणत्वं क्लृप्तम् । यथा विष्ण्वादिमूतिं सिसृक्षतः शिल्पिनस्तदाकृतिप्रतिपादकागमस्मरणं मूलम् । यथा वा तक्षकदष्टं वटं जीवयितुमिच्छतो विषघ्नमन्त्रोच्चारणम् इन्द्रजालपुरं सिसृक्षता वा शाबरमन्त्रोच्चारणम् । एवमिहापि सभूरिति व्याहरन् स भूमिमसृजतेति श्रुत्या दृष्टद्वारैवार्थोत्पत्तिं प्रतिशब्दस्य हेतुत्वमुक्तम् । तथा 'एत इति वै प्रजापतिर्देवानसृजत असृजमिति मनुष्यान् इदं व इति पितॄन् तिरः पवित्रमिति ग्रहान्, आशव इति स्तोत्रं विश्वानीति शस्त्रम्, अभिसौभगायेत्यन्याः प्रजाः' इति श्रुतेस्तत्तत्पदोच्चारणत एव देवादिसृष्टिर्गम्यते । न तु तत्तदर्थस्मारकत्वरूपदृष्टद्वारेति सर्वथापि वेदशब्दादेव सृष्टिरित्यर्थः । शर्वर्यन्ते सर्गादावित्यर्थः ॥२६॥
शर्वर्यन्ते सुजातानामान्येभ्यो विदधात्यजः
।
नामभेदतपःकर्मयज्ञाख्या लोकसिद्धयः ॥२७॥
नामेति । आत्मसिद्धिः आत्मनो मुक्तिर्दशभिः क्रमैः साधनैर्नामादिभिः सहिता वेदेषु प्रोच्यते तत्र नाम वा ऋग्वेद इत्यादिश्रुतेर्नामेति वेदाध्ययनं भेदः अर्धो वा एष आत्मनो यत्पत्नीतिश्रुतेः पूर्वं कृत्स्नस्य सतो दारकरणेनार्धत्वसंपादनम् । गार्हस्थ्यमिति यावत् । तपः कृच्छ्रचान्द्रायणादि वानप्रस्थाश्रम इत्यर्थः, कर्म संध्योपासनादि सर्वाश्रमसाधारणम् यज्ञो ज्योतिष्टोमादिः । आख्या कीर्तिकरं तटाकारामादि आपूर्ताख्यम्, आलोक आलोचनं मानसो ध्यानादिधर्मः सच त्रिविधः । यज्ञाङ्गेष्यश्वादिषु- उषा वा अश्वस्य मेध्यस्य शिर इत्यादिशास्त्रविहिता विराडादिसृष्टिरेका । अध्यात्मं जाठरादिप्रतीकेषु वैश्वानराख्यकारणब्रह्मदृष्टिरपरा विधा । दहराद्यहंग्रहोपास्त्या शुद्धस्वरूपावगतिस्तृतीया । ततश्च सिद्धिः कैवल्याख्या जीवत एव मुक्तिरिति दशभिः क्रमैः क्रम्यते उल्लङ्घ्यते संसारदुःखमेभिस्तैः ॥२७॥
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः
।
यदुक्तं वेदवादेषु गहनं वेददर्शिभिः
।
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥२८॥
इतोऽप्यन्तरङ्गं मोक्षसाधनमाह- यदुक्तमिति । गहनं दुरवगाहं ब्रह्म वेदवादेषु वेदोक्तकर्मसु प्रस्तावादिदेवतात्वेन उक्तम् । तदन्तेषु वेदवादान्तेषु उपनिषत्सु च यथायुक्तं विस्पष्टतरम् उक्तं तद्ब्रह्म क्रमयोगेन पूर्वोक्तेन नामादिदशकेन लक्ष्यते तत्त्वमस्यादिवाक्येभ्यस्तत्त्वंपदवाच्यार्थयोर्विशेषणांशभूतमायान्तःकरणांशप्रहाण्या 'सोऽयं देवदत्तः' इत्यत्र तदेतद्देशकालरूपविशेषणांशप्रहाण्या अखण्डं देवदत्तस्वरूपमिव प्रत्यगभिन्नं ब्रह्म लक्ष्यते न तु शब्देन शृङ्गग्राहिकया अयं गौरयं महिष इतिवदावेद्यते 'यतो वाचो निवर्तन्त' इति श्रुतेर्ब्रह्मणोऽपदार्थत्वादवाक्यार्थत्वाच्च ॥२८॥
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तोऽपि देहिनः
।
तमात्मसिद्धिर्विज्ञानाज्जहाति पुरुषो बलात् ॥२९॥
तत्र ब्रह्मणो लक्ष्यं स्वरूपं दर्शयति - कर्मज इति । देहिनः देहाभिमानिनो जीवस्य पृथग्भावः पृथक्त्त्वं द्वैतदर्शनमिति यावत् । तत्कर्मजं कर्मोपरमे सुप्तौ समाधौ च नास्तीत्यर्थः द्वन्द्वैः सुखदुःखशीतोष्णमानापमानादिभिर्युक्तम् । तं च पृथक्मावम् आत्मसिद्धिः आत्ममोक्षरूपः पुरुषः । एतेन मुक्तमोक्षयोरभेदवचनेनानागन्तुकं स्वस्वरूपमात्रं मुक्तिरित्युक्तम् । विज्ञानात् सम्यग्वाक्यजाज्ज्ञानात् जहाति ज्ञातृज्ञानज्ञेयभावं रूपभेदं त्यजतीत्यर्थः ॥२९॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥३०॥
भेदत्यागोपायमाह- द्वे इति । शब्दब्रह्म प्रणवः निष्णातः प्रणवोपास्तिकुशलः परं मात्रात्रयातीतं तुरीयम् ॥३०॥
आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः
।
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥३१॥
प्रणवोपास्तिमेव इतरनिन्दापूर्वकं स्तौति- आलंभेति । आलंभः पशुहिंसा हविर्व्रीह्यादिकं परिचारस्त्रैवर्णिकसेवा तपो ब्रह्मोपासनम् ॥३१॥
त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे
।
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥३२॥
विधिरप्रवृत्तप्रवर्तनम् । तच्च त्रेतायामेव न तु कृते स्वत एव तत्र तत्सिद्धेः अत्र धर्ममनुतिष्ठन् पुरुषः कृतं धर्मानुष्ठानमारभमाणस्त्रेता आरब्धुमिच्छन् द्वापरः तद्विमुखः कलिरिति पूर्वोदाहृतश्रुत्यर्थो न विस्मर्तव्यः ॥३२॥
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च
।
काम्या इष्टीः पृथग् दृष्ट्वा तपोभिस्तप एव च ॥३३॥
त्रेतायुगे इत्येतं श्लोकं व्याचष्टे- अपृथगित्यादिना । पृथक् धर्मः पृथक्त्त्वं भेदस्तद्वन्तः पृथक्धर्मिणोऽद्वैतानिष्ठा मर्त्यास्तप एव योगमेव कृतयुगेऽनुतिष्ठन्तीति शेषः ऋगादीनि काम्या इष्टीश्च सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इति शास्त्रोक्ताः पृथक्तपोभिरालोचनैः दृष्ट्वा तत्फलम् अनात्मभूतस्वर्गादिरूपं दृष्ट्वा तत्परित्यज्य योगपरा एव बभूवुरित्यर्थः ॥३३॥
त्रेतायां तु समस्ता समस्ता ये प्रादुरासन्महाबलाः
।
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥३४॥
त्रेतायां धर्मे नृणां स्वतः प्रवृत्त्यभावात्तत्र संयन्तारो धर्मशास्तारो वेदाश्च संहता यज्ञाद्यनुष्ठापनाय सन्नद्धा आसन्निति सार्धश्लोकार्थः ॥३४॥
त्रेतायां संहता वेदा यज्ञा वर्णाश्रमास्तथा
।
संरोधादायुषस्त्वेते भ्रश्यन्ते द्वापरे युगे ॥३५॥
संरोधादिति सार्धः । स्पष्टार्थः ॥३५॥
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः
।
उत्सीदन्ते सयज्ञाश्च केवला धर्मपीडिताः ॥३६॥
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते
।
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥३७॥
कृतादिशब्दानां कालवाचित्वं सिद्धवत्कृत्याह - कृते इति । कृतयुगे यश्चतुष्पाद्धर्म उक्तः स इदानीमपि ब्राह्मणेषु दृश्यतेऽतस्ते एवः कृतयुगरूपा इति भावः । आत्मवत्सु जितचित्तेषु तपोवत्सु योगनिष्ठेषु श्रुतवत्सु वेदान्तश्रवणादिमत्सु ॥३७॥
सधर्मव्रतसंयोगं यथाधर्मं युगे युगे
।
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम् ॥३८॥
त्रेतायुगव्यवहारमाह - सधर्मेति । यथाधर्मम् आचाराद्यनतिक्रम्य स्वधर्मस्थाः अग्निहोत्रादिपराः ये वेदान् वदन्तिः ते वेदवादाः वैदिकाः यथागमं वेदोक्तप्रमाणेन धर्मो यज्ञादिस्तत्सहितं व्रतमेकादश्युपवासादि संयोगस्तीर्थक्षेत्रप्राप्त्यादि तत्सर्वं तैर्विक्रियते कामपूर्वकं क्रियते वैदिका अपि स्वर्गकामा एव यक्ष्यन्ते । द्वापरे पुत्रादिकामा एव कलौ शत्रुमरणादिकामा एवेति युगे युगे इत्यस्यार्थः ॥३८॥
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
।
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे ॥३९॥
तिष्ठन्तीति स्थानि स्थावराणि जङ्गमानि च स्थानि च जङ्गमस्थानि भूयांसि वृद्धिमत्तराणि तथा युगे युगे धर्मा अधर्माश्च वर्धन्ते ह्रसन्ति च ॥३९॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
।
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु ॥४०॥
ऋतुलिङ्गानि शीतोष्णादीनि तथा ब्रह्महरादिष्वपि सृष्टिसंहारसामर्थ्यानि वर्धन्ते ह्रसन्ति चेत्यर्थः ॥४०॥
विहितं कालनानात्वमनादिनिधनं तथा
।
कीर्तितं तत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः ॥४१॥
कालनानात्वं चतुर्युगात्मकस्य पुरुषस्य नानात्वं धर्मादिबुद्धिभेदेन पृथक्त्वम् । तच्चानादिनिधनं सत् प्रजाः सूते वर्धयति अत्ति च संहरति च ॥४१॥
दधाति भवति स्थानं भूतानां समयो मतम्
।
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः ॥४२॥
दधातीति । यानि भूतानि चतुर्विधानि स्वभावेनैव द्वन्द्वयुक्तानि सुखदुःखादिमन्ति वर्तन्ते तेषां भूतानां समयः कालः । स्थानम् अधिष्ठानं मतम् । स एव च तानि भूतानि दधाति धारयति पोषयति च तथा स एव भूतानि भवति स्वयमेव भूतात्मेत्यर्थः ॥४२॥
सर्गकालक्रिया वेदाः कर्ता कार्यं क्रियाफलम्
।
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥४३॥
सर्गेति । समय एव सर्गादिकं दधाति भवतीति चानुषज्यते न केवलं भूतात्मैव कालः । अपि तु सर्गाद्यात्मापीत्यर्थः । सर्गः सृष्टिः कालो दर्शादिः क्रिया यज्ञश्राद्धादिः वेदास्तत्प्रकाशकाः कर्ता तदनुष्ठाता कार्यं देहादिपरिस्पन्दः क्रियाफलं स्वर्गः सर्वमेतत्कालात्मा पुरुष एवेत्यर्थः । तथा च श्रुतिः - 'पुरुष एवेदं सर्वम्' इति ॥४३॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकानुप्रश्ने द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥
अथ चेद्रोचयेदेतदुह्येत स्रोतसा यथा
।
उन्मज्जंश्च निमज्जंश्च ज्ञानवान् प्लववान्भवेत् ॥१॥
अथ अतीतानन्तराध्यायद्वयोक्तसाधनसंपत्तेरनन्तरम् एतद्वक्ष्यमाणं शान्त्याख्यं कैवल्यं चेद्रोचयेत्तर्हि ज्ञानवान् भवेत् । एवं मुमुक्षावान् ज्ञानं साधयेदिति वदता बन्धस्याज्ञानकार्यत्वेन मिथ्यात्वं दर्शितम् । यतो ज्ञानमज्ञानस्यैव निवर्तकं तन्निवृत्तौ तत्कृतस्य बन्धस्य निवृत्तिः संभाव्यते न तु बन्धसत्यत्वपक्षे । तथा च श्रुतिः - ’तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्' इति । आत्मजिज्ञासासिद्ध्याक्षिप्तमावरणमनुवाद्य तस्य मिथ्यात्वं प्रसिद्धिविधयैवाह - 'एतं ब्रह्मलोकं न विदन्त्यनृतेन हि प्रत्यूढाः' इति । तथा 'असंगो ह्ययं पुरुषः इति च । तथा चासंगस्यापि संगित्वभानं मिथ्यैव सत् ज्ञाननिवर्त्यं भविष्यतीति युक्तमुक्तं चेदेतद्रोचयेत्तर्हि ज्ञानवान् भवेदिति । ज्ञानप्लवहीनं संसारस्रोतसा उह्यमान ऊर्ध्वाधोगतिर्गच्छतीत्यर्थः । एतेनाथातो ब्रह्मजिज्ञासेति सूत्रपदानामर्थः साधनसंपत्त्यनन्तरं बन्धस्य मिथ्यात्वात्तन्निवृत्त्यर्थं ब्रह्म जिज्ञास्यमित्येवंरूपो दर्शितः ॥१॥
प्रज्ञया निश्चिता धीरास्तारयन्त्यबुधान्प्लवैः
।
नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन ॥२॥
प्रज्ञया ध्यानजसाक्षात्कारेण ॥२॥
छिन्नदोषो मुनिर्योगान्मुक्तो युञ्जीत द्वादश
।
देशकर्मानुरागार्थानुपायापायनिश्चयः ॥३॥
छिन्नदोषः रागादिहीनः अत एव योगात् स्त्र्यादिसंगात् द्वादशदेशादीन् योगसहायान् वक्ष्यमाणान् युञ्जीत समादध्यात् । अनुसरेदित्यर्थः । तत्र देशयोगः - ’समे शुचौ शर्करवह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुःपीडने गुहा निवाताश्रयणेन योजयेत्' इति श्रुत्युक्तः । कर्मयोगः -
'युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥'
इति गीतोक्तः । अनुरागः सच्छिष्यः अर्थो द्रव्यम् एधोदकाद्याहरणायासादिचिन्तानिरासार्थौ एतयोर्योगौ उपाय आसनादियोगः ’त्रिरुन्नतं स्थाप्य समं शरीरम्' इत्यादिश्रुतिप्रसिद्धः । अपायो रागाद्यपचयः । निश्चयः गुरुवेदवाक्यादौ फलावश्यंभावबुद्धिः । निश्चय इति सुपां सुलगिति भिसः स्वादेशः । उपायापायनिश्चयैः चक्षुरादिभिश्च सहितान् देशादीन् द्वादश युञ्जीतेति पूर्वेण सम्बन्धः चक्षुः चक्षुरादीनि आहारः आहारशुद्धौ सत्त्वशुद्धिरिति श्रुतिप्रसिद्धः संहारः स्वाभाविकविषयप्रवृत्तिसंकोचः मनः संकल्पविकल्पात्मकं दर्शनं जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । एतानि द्वादश मुमुक्षुरनुसरेदित्यर्थः सार्धः ॥३॥
चक्षुराहारसंहारैर्मनसा दर्शनेन च
।
यच्छेद्वाङ्मानसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ॥४॥
एवं द्वादशविशेषणविशिष्टस्याधिकारिणो यत्कर्तव्यं तदाह - यच्छेदिति । वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत । मनोऽपि विषयविकल्पाभिमुखम् अध्यवसायस्वभावया बुद्ध्या नियच्छेत् । बुद्धिमात्रेणावतिष्ठेतेत्यर्थः । इदमेव उत्तमं ज्ञानम् इन्द्रियमनोऽतिरिक्तकर्त्रात्मविषयं तेन ज्ञानेन सूक्ष्मतमया बुद्ध्या आत्मानं बुद्धिविविक्तं यच्छेत् बुद्धिमपि आत्मनि प्रविलापयेदित्यर्थः । कः यः शान्तिं कैवल्यम् आत्मन इच्छेत् । एतेन 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मानि महति तद्यच्छेच्छान्त आत्मनि' इत्यस्याः श्रुतेरर्थो दर्शितः । अत्र श्रुत्युक्ताया महदाख्यसमष्टिबुद्धेरपि बुद्धिशब्देनैव संग्रहः अन्यत्समानम् । योगफलमाह - एतेषामिति । वागादीनामनुद्रष्टा शान्तात्मा येन ज्ञातः स पुरुषः साधुरसाधुर्वा मुच्यत एवेति सार्धश्लोकद्वयार्थः ॥४॥
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तितात्मनः
।
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ॥५॥
यदि वा सर्ववेदज्ञो यदि वाप्यनृचो द्विजः
।
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ॥६॥
यदि वा पुरुषव्याघ्रो यदि वा क्लेशधारितः
।
तरत्येवं महादुर्गं जरामरणसागरम् ॥७॥
एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः
।
अपि जिज्ञासमानोऽपि शब्दब्रह्मातिवर्तते ॥८॥
एवं पूर्वश्लोकोक्तप्रकारेण एवमन्ततः शान्तात्मप्राप्त्यवधियोगं जिज्ञासमानोऽपि किमुतानुतिष्ठन् शब्दब्रह्मकर्मकाण्डमतिक्रम्य प्रवर्तते । परोक्षज्ञानवानपि स्वकर्मत्यागजं दोषं न प्राप्नोतीत्यर्थः ॥८॥
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः
।
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः ॥९॥
अक्षरं ब्रह्म प्राप्तुकामस्य रथरूपकेण योगमुपायमुपदिशंस्तदङ्गानि बाह्यान्याह- धर्मोपस्थ इत्यादिना । धर्मो यज्ञादिः तदेव उपस्थं ज्ञानसारथेरुपवेशनस्थानं यस्य । ह्रीरकार्यानिवृत्तिः सैव वरूथं रथगुप्तिर्यस्य उपायापायौ प्रागुक्तौ कूबरौ धूर्दण्डौ यस्य ॥९॥
चेतनाबन्धुरश्चारुश्चारग्रहनेमिनान्
।
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥१०॥
चेतनासावधानता सैव बन्धुरः फलकद्वयसंश्लेषः । आचारः शीलं तस्य ग्रहोऽङ्गीकारः । दर्शनादिचतुष्टयं वाहनम् अश्वादिरूपम् ॥१०॥
प्रज्ञानाभिः सर्वतन्त्रप्रदोतो ज्ञानसारथिः
।
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ॥११॥
प्रज्ञा शमादिप्रावण्यं नाभिर्मध्यमभागः रथिन उपवेशनस्थानं तन्त्रं शास्त्रं ज्ञानं तदर्थनिश्चयः ॥११॥
त्यागसूक्ष्मानुगः क्षेम्यः शौचगो ध्यानगोचरः
।
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ॥१२॥
सूक्ष्मानुगः चेटः संनिपत्योपकारी शौचमार्गेणैव गच्छतीति शौचगः । ध्यानं ध्येयैकतानता सैव गोचरः प्राप्योऽर्थो यस्य जीवयुक्तः जीवेन मुमुक्षुणा युक्तो योजितः ब्रह्मैव लोकस्तत्समीपे ॥१२॥
अथ सन्त्वरमाणस्य रथमेवं युयुक्षतः
।
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥१३॥
रथं यागं विधिम् अन्तरङ्गसाधनम् ॥१३॥
सप्त या धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते
।
पृष्ठतः पार्वतश्चान्यास्तावत्यस्ताः प्रधारणाः ॥१४॥
सप्तेति । देशबन्धश्चित्तस्य धारणेति सूत्रितम् । एकस्मिन्विषये चित्तस्य स्थापनं धारणा सा च विषयभेदादनेकधेति सप्त धारणा इत्युक्तम् । वाग्यत इति यमनियमादीनामुपलक्षणम् । पृष्ठतः विप्रकृष्टतराः चन्द्रसूर्यध्रुवमण्डलादिधारणाः । पार्श्वतः किञ्चित्सन्निकृष्टा नासाग्रभ्रूमध्यकण्ठकूपादिधारणाः अन्याः सन्ति । तथापि ताः प्रधारणाः प्रशिष्यप्रपौत्रादिशब्दवदत्र प्रशब्दार्थः । ताः व्यवहिता इति । अत्यन्तमव्यवहिताः सप्तैव धारणा इत्यर्थः । अत्र पुराणान्तरे -
'दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः
।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः
।
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः
।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः
।
'
इति भूतेष्वभिमानाख्याहङ्कारेऽव्यक्ते चेति सप्तकापेक्षया इन्द्रियबुद्धिधारणे अधिके उक्ते ते अपि अहङ्कारधारणायामन्तर्भवतः ॥१४॥
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः
।
ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः
।
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते ॥१५॥
क्रमश इति । पयः पयसः जलस्य षष्ठ्यर्थे प्रथमा । बुद्धितः बुद्ध्या तत्र तत्र विषये स्थिरया तत्तदैश्वर्यं प्रतिपद्यते । अत्र पृथ्व्यादिधारणानां स्थानबीजदेवता योगियाज्ञवल्क्योक्ता ज्ञेयाः । यथा-
'पादादि जानुपर्यन्तं पृथिवीस्थानमुच्यते
।
आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम्
।
आपायोर्हृदयान्तं यद्वह्निस्थानं तदुच्यते
।
हृन्मध्यात्तु भ्रुवोर्मध्यं यावद्वायुकुलं भवेत्
।
आभ्रूमध्यात्तु मूर्धान्तमाकाशमिति चोच्यते
।
पृथिव्यां वायुमास्थाय लकारेण समन्वितम्
।
ध्यायंश्चतुर्मुखाकारं ब्रह्माणं सृष्टिकारणम्
।
धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात्
।
वारुणे वायुमारोप्य वकारेण समन्वितम्
।
स्मरन्नारायणं देवं चतुर्बाहुं शुचिस्मितम्
।
शुद्धस्फटिकसंकाशं पीतवाससमच्युतम्
।
धारयेत्पञ्चघटिकाः सर्वरोगैः प्रमुच्यते
।
वह्न्यावनिलमारोप्य रेफाक्षरसमन्वितम्
।
त्र्यक्षं वरप्रदं रुद्रं तरुणादित्यसंनिभम्
।
भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन्
।
धारयेद्धटिकाः पञ्च वह्निनाऽसौ न दह्यते
।
मारुतं मरुतां स्थाने वर्णदेवसमन्वितम्
।
धारयेत्पञ्चघटिका वायुवद्व्योमगो भवेत्
।
'
वर्णो यकारः देव ईश्वरः रूपं रुद्रवत् । 'आकाशे वायुमारोप्य हकारोपरि शङ्करम् । बिन्दुरूपं महादेवं व्योमाकारं सदाशिवं चित्तेन चिन्तयेत्स्वस्थं मुहूर्तमपि धारयेत्' । अत्र लकारादिबीजस्थानेषु अकारोकारमकारार्धमात्रा बिन्दून्न्यसेत् अव्यक्तधारणायां षष्ठ्यां नादं तदन्ते शुद्धं ब्रह्मैव शिष्यते । तथा च तत्रैवोपसंहृतम् -
'त्वं तस्मात्प्रणवेनैव प्राणायामैस्त्रिभिस्त्रिभिः
।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे
।
विशुद्धचेतसा पश्य नादान्ते परमेश्वरम्
।
'
इति । अहङ्कारधारणास्वरूपं तु स्थूलदेहासङ्गेनाहमेवेदं सर्वोऽस्मीत्यभिमानः । अस्यैव तत्त्वमस्यादिवाक्यजां विद्यां विना प्रलयः अव्यक्तधारणा ॥१५॥
विक्रमाश्चापि यस्यैते तथा युक्तेषु योगतः
।
तथा योगस्य युक्तस्य सिद्धिमात्मनि पश्यतः ॥१६॥
विक्रमा इति । योगत उपायतः युक्तेषु योगे प्रवृत्तेषु योगिनः एते वक्ष्यमाणा विक्रमा अनुभवक्रमाः यथा येन प्रकारेण भवन्ति तथा वक्ष्यामीति शेषः । आत्मनि देहाभ्यन्तरे पश्यतो ध्यायतः पुरुषस्य युक्तस्य योगस्य सिद्धिं सम्यक्प्रयुक्तयोगसंबन्धिनी सिद्धिं भूजयादिकां वक्ष्यामीति शेषः ॥१६॥
निर्मुच्यमानः सूक्ष्मत्वाद्रूपाणीमानि पश्यतः
।
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ॥१७॥
तत्र विक्रमानाह- निर्मुच्यमान इत्यादिना । पश्यतः प्रत्यगात्मन इमानि वक्ष्यमाणानि रूपाणि । निर्मुच्यमानः गुरूक्तयुक्त्या स्थूलदेहाध्यासं त्यजन् सूक्ष्मत्वात्पश्यतीति शेषः । न त्वविमुच्यमानः स्थूलदृष्टिः शैशिरो धूमः अवश्यायो नीहाराख्यः नभः संश्रयते इत्यनेन तस्य भुवनकोशे व्याप्तिर्दर्शिता । अत्रायं प्रयोगः- शमादिसंपन्नो विविक्ते देशे स्थिरसुखमासनमध्यासीनः प्राणायामपुरःसरं गुरूक्तयुक्त्या स्थूलदेहासङ्गेन पादादिजानुपर्यन्ते भूस्थाने चित्तं धारयतः स्थाननिरोधानपूर्वकं नीहारमात्रमवभासते यथा रज्जूरगे चक्षुर्धारयत उरगतिरोधानेन रज्जुमात्रम् । तदा लुप्ताधरभागो जानूपरिष्टात्तन एव देहो नीहारमग्नोऽसंदिग्धाविपर्यस्ततया भाति सोऽयं भूमिजयः । अस्मिन् सिद्धे जान्वादिपाय्वन्ते जलस्थाने चित्तं धारयतः धूमः स्थानं च तिरोधीयते । पायूर्ध्वभागमात्रं च कल्पान्तार्णवमग्नं पूर्ववद्भाति । तदिदं द्वयं जले भूमिसंहारो जलजयश्चेत्युच्यते । एवमुत्तरत्रापि भूतसंहारजयौ ज्ञेयौ ॥१७॥
तथा देहाद्विमुक्तस्य पूर्वं रूपं भवत्युत
।
अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् ॥१८॥
जलरूपमिवाकाशे तथैवात्मनि पश्यति
।
अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते ॥१९॥
आत्मनि देहाभ्यन्तरे वह्निरूपं प्रकाशते लोहितान्धकारमग्नो भवतीत्यर्थः ॥१९॥
तस्मिन्नुपरतेऽजोऽस्य पीतशस्त्रः प्रकाशते
।
उर्णारूपसवर्णस्य तस्य रूपं प्रकाशते ॥२०॥
तस्मिन्निति । अस्य योगिनः अजति गच्छति क्षिपति वा वृक्षानित्यजो वायुः पीतशस्त्रः पीतशस्त्रवत् पीतानि गिलितानि शस्त्रवद्विच्छेदकत्वात् वृक्षागारपर्वतादीनि शस्त्राणि येन तद्वत् । गिलिताखिलभूजलतेजोरूपः केवले नभसि सन्ततं दोधूयमानः प्रकाशते इत्यर्थः । तदेवोक्तं प्राक् । वायुर्दोधूयते महान् । तदा निराश्रयम् ऊर्णातन्तोर्यद्रूपम् अतिलघु तेन सवर्णस्य समानरूपस्य ऊर्णातन्तुवन्निरालम्बनेऽन्तरिक्षे स्थितस्य वायुवशस्येत्यर्थः । तस्य योगिनोऽपि रूपं हृन्मध्यादारभ्य उपरितनं प्रकाशते न त्वन्यत्किञ्चिद्वाय्वाकाशव्यतिरिक्तम् ॥२०॥
अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्युत
।
अशुक्लं चेतसः सौक्ष्यमप्युक्तं ब्राह्मणस्य वै ॥२१॥
अथ तेजः- संहारवायुजयानन्तरं वायव्यं वायुसंबन्धि सूक्ष्मं रूपादिहीनं स्वरूपं कर्तृ श्वेतां प्रवृत्त्यावरणरूपरजस्तमोमलशून्यत्वात्प्रकाशमयत्वाच्च स्वच्छाम् । गतिः गम्यते तत्त्वं प्राप्यते अनयेति भ्रूमध्यादिमूर्धान्तम् आकाशस्थानं गतिः । तां गत्वा तत्र विलयं प्राप्य अशुक्लं नीलरूपं सुषिरमाकाशमात्रं स्थानलयपूर्वकं पूर्ववत्प्रकाशते इति पूर्वेणान्वयः । तदिदमशुक्लं चेतसः सौक्ष्म्यं सौख्यमिति पाठे प्रसादकरं ब्राह्मणस्य ब्रह्मबुभूषोरुक्तं शास्त्रे । अपिः पादपूरणार्थः । अव्यक्तमिति पाठे लोकाप्रसिद्धं योगैकगम्यं सेयं व्योमसंवित् वायुलय आकाशजयश्चेत्युच्यते । अयमेव तान्त्रिकाणां भूतशुद्धिप्रकारः संप्रदायापरिज्ञानाद्यथावदिदानींतनैर्नानुष्ठीयते ॥२१॥
एतेष्वपि हि जातेषु फलजातानि मे शृणु
।
जातस्य पार्थिवैश्वर्यैः सृष्टिरत्र विधीयते ॥२२॥
'पृथ्व्याप्यतेजोऽनिलखे समुत्थिते पंचात्मके योगगुणे प्रवृत्ते
।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् '
।
इति श्रुत्युक्तं पञ्चभूतजयफलं पृथिवीवायुराकाश आपो ज्योतींषीति श्रुत्यन्तरोक्तक्रमेणोपबृंहयति- एतेष्वित्यादिना । जातस्य सिद्धस्य ॥२२॥
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजते प्रजाः
।
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥२३॥
पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः
।
आकाशभूतश्चाकाशे सवर्णत्वात्प्रकाशते ॥२४॥
आकाशभूतत्वे हेतुः- सवर्णत्वादिति । 'आकाशवत्सर्वगतश्च नित्यः' इतिश्रुतेराकाशेन समानरूपत्वात् । वर्णतः आकृतितः गुह्यतेऽपिधीयते अरूपत्वादेवान्तर्धानशाक्तिमपि प्राप्नोतीत्यर्थः । जलजयफलमाह- कामादिति । इच्छया आशयान् वा जलस्य वापीकूपतटाकादीन् पिबति अगस्त्यवत् ॥२४॥
वर्णतो गुह्यते चापि कामात्पिबति चाशयान्
।
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा
।
अहङ्कारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः ॥२५॥
न चेति । आकाशजये आकृतेरेव आकाशभूततया पिधानम् । अत्र तु सत्यामप्याकृतौ अदृश्यत्वमुच्यते । उक्तक्रमेण भूजयं विना वा पूर्वोक्ताहङ्कारधारणयाऽहङ्कारे विजितेनान्तरीयकत्वेनैवाकाशादयो जिताः स्युरित्यर्थः ॥२५॥
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ
।
निर्दोषप्रतिभा ह्येनं कृत्स्ना समभिवर्तते ॥२६॥
षण्णामिति । पञ्चभूतानि अहङ्कारश्च तेषाम् आत्मभूतायां बुद्धौ । एतेनाहङ्काराद्बुद्धेरव्यतिरेक उक्तः । तेन सप्तैव धारणाः प्रभवति ऐश्वर्यवान् भवति । निर्दोषप्रतिभा संशयविपर्ययशून्यं ज्ञानम् । सर्वेश्वरः सर्वज्ञश्च भवतीत्यर्थः ॥२६॥
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते
।
यतो निःसरते लोको भवति व्यक्तसंज्ञकः ॥२७॥
व्यक्तं बुद्ध्यादिरूपम् आत्मानम् अव्यक्तम् अव्यक्तत्वेन जीवं जगत्कारणं ब्रह्मभावेन जानातीत्यर्थः ॥२७॥
तत्राव्यक्तमयीं विद्यां शृणु त्वं विस्तरेण मे
।
तथा व्यक्तमयं चैव सांख्ये पूर्वं निबोध मे ॥२८॥
अव्यक्तमयीम् अव्यक्तप्रधानाम् । मे मत्तः पूर्वम् अव्यक्तबोधात्प्राक् व्यक्तं निबोध ॥२८॥
पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम्
।
योगे सांख्येऽपि च तथा विशेषं तत्र मे शृणु ॥२९॥
पञ्चेति-
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त
।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः
।
'
इति सांख्योक्तानि तत्त्वानि योगे पातञ्जलीये सांख्ये वेदान्तविचारे च तुल्यानि विशेषं शास्त्रभेदप्रयोजकम् ॥२९॥
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्
।
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥३०॥
तत्र व्यक्तलक्षणमाह- प्रोक्तमिति । तच्च महदादिविकारान्तं त्रयोविंशकम् ॥३०॥
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्
।
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥३१॥
विपरीतं जन्मवृद्ध्यादिहीनम् । अव्यक्तं चतुर्विंशम् । एतेभ्योऽन्यमेकमेव जीवात्मानं प्रतिशरीरं भिन्नमिति सांख्या मन्यन्ते ततो विशेषमाह - द्वाविति । द्वौ जीवेश्वरौ वेदेषु कर्मकाण्डेषु यजमानः यष्टव्यश्च । तेन यष्टव्यदेवतायाश्चेतनत्वमनिच्छन्तो मीमांसकाः परास्ताः । सिद्धान्तेषु वेदान्तेषु उदाहृतौ जीवब्रह्मरूपौ ॥३१॥
चतुर्लक्षण त्वाद्यं चतुर्वर्गं प्रचक्षते
।
व्यक्तमव्यक्तजं चैव तथा बुद्धमचेतनम्
।
सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् ॥३२॥
'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति श्रुत्यनुसारेण जीवेश्वरविभागमाह - चतुरिति । चतुर्लक्षणं जन्मादिविकारवत् । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चभूतानि तज्जं तदुपाधिकं चतुर्वर्गार्थिनं व्यक्तं जीवम् अव्यक्तजं मायोपाधिमीश्वरम् । तथेति । तदुभयमपि बुद्धमचेतनं च चिदचिदात्मकमित्यर्थः । अथ जलचन्द्रन्यायेन प्रतिबिम्बो जीवो बिम्बचैतन्यमीश्वर इति । द्वा सुपर्णा सयुजा सखायेत्यादिश्रुतिसंमतं जीवेश्वरविभागमाह - सत्त्वमिति । सत्त्वं बुद्धिः क्षेत्रज्ञश्चिदात्मा 'तदेतत्सत्त्वं येन स्वप्नं पश्यत्यथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ' इति पैङ्गिरहस्यब्राह्मणे व्याख्यानात् । यद्यपि तृतीयया कारणत्वेन निर्दिष्टस्याचेतनस्य सत्त्वस्य भोक्तृत्वं न घटते नाप्युपद्रष्टुः क्षेत्रज्ञस्य निर्विकारस्य तथापि तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वस्य भोक्तृत्वश्रुत्यन्यथानुपपत्त्या चैतन्यानुविद्धत्वं वक्तव्यम्-
'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्
।
उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा
।
'
इति श्रुत्यन्तराच्च । एतद्द्वयं जीवेश्वरविभागे प्रकारद्वयमपि दर्शितं श्रुत्या ॥३२॥
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः
।
विषयात्प्रतिसंहारः सांख्यानां विद्धि लक्षणम् ॥३३॥
अनयोः पक्षयोः क्रमेण मूढामूढदृष्टिभेदेन व्यवस्थामाह- द्वाविति । विषयात् घटादिविषयमारभ्य प्रतिसंहारः उत्पत्तिक्रमवैपरीत्येन संप्रविलापनं कर्तव्यमिति सांख्यानाम् औपनिषदानां लक्ष्यतेऽनेनेति लक्षणं शास्त्रम् । अयमर्थः- मूढानां तात्विक एव जीवेश्वरादिभेदः, बुद्धानां तु बिम्बप्रतिबिम्बभावेनेति प्रतिबिम्बोपाधेः सत्त्वस्य प्रविलये चिन्मात्रमेव शिष्यते इति ॥३३॥
निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः
।
नैव क्रुद्ध्यति न द्वेष्टि नानृता भाषते गिरः ॥३४॥
एवं ज्ञाततत्त्वस्य जीवन्मुक्तस्य लक्षणान्याह- निर्मम इत्यादिना ॥३४॥
आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम्
।
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥३५॥
ध्याति ध्यायति वाग्दण्डः पारुष्यं कर्म तादृशमेव हिंस्रम् । तथा मनोऽपि परानिष्टार्थि तेषाम् ॥३५॥
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते
।
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥३६॥
ब्रह्माणं चतुर्मुखम् ॥३६॥
अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः
।
नास्येन्द्रियमनेकाग्रं नाविक्षिप्तमनोरथः ॥३७॥
कृती कार्यवान् निराकृतिः तुच्छवेषः न विक्षिप्तः संपादितः मनोरथो यस्य स तथा भवति । सत्यसङ्कल्प इत्यर्थः ॥३७॥
सर्वभूतसदृड्मैत्रः समलोष्टाश्मकाञ्चनः
।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥३८॥
अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः
।
अहिंस्रः सर्वभूतानामीदृक् सांख्यो विमुच्यते ॥३९॥
यथा योगद्विमुच्यन्ते कारणैर्यैर्निबोध तत्
।
योगैश्वर्यमतिक्रान्तो यो निष्क्रामति मुच्यते ॥४०॥
योगमते विशेषं वक्तुं प्रतिजानीते - यथेति । योगैश्वर्यमणिमादिपरमार्थभूतं सदतिक्रान्तस्तदुल्लंघ्य गतः परवैराग्यबलेन न तु तत्त्वज्ञानबलेनानृतं सत् सांख्य इव शुक्तिरजतवद्बाधितवान् निष्क्रामति वृत्तिसारूप्यादपसरति न तु वृत्तिमूलमज्ञानमुच्छिनत्ति । अयमर्थः- अस्माकं मिथ्याज्ञानोद्भवो देहेन्द्रियादिः प्रपञ्चो विद्ययाऽज्ञानबाधे सति बाध्यते रज्जूरगादिवत् । योगानां तु सत्यात्प्रधानत उत्पन्नः प्रपञ्चः सत्यस्तदाकाराश्चित्तस्य वृत्तयोऽपि सत्याः वृत्तिसारूप्यं च चैतन्यस्य सत्यमेव तत्र वृत्तनां निरोधे चितस्तदाकारतापि निवर्तते । तथा च सूत्रितम् - योगश्चित्तवृत्तिनिरोधः, तदा द्रष्टुः स्वरूपेऽवस्थानं वृत्तिसारूप्यमितरत्रेति । सोऽयं सांख्ययोगयोर्विशेषो यथाप्रतिज्ञमुपपादितः ॥४०॥
इत्येषा भावजा बुद्धिः कथिता ते न संशयः
।
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति ॥४१॥
उपसंहरति- इतीति । भावो वक्तृविवक्षा तद्विशेषजा बुद्धिः । फलतस्तु न तयोर्भेदोऽस्तीति भावः । यथोक्तं भगवता-
'यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते
।
एकं सांख्यं च योगं च यः पश्यति स पश्यति
।
'
इति ब्रह्माणं परं ब्रह्म पुंस्त्वमार्षम् ॥४१॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकानुप्रश्ने षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६॥
भीष्म उवाच।
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम्
।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥१॥
एवं ज्ञानपदार्थव्याख्यानप्रसंगादात्मनोऽनाधेयातिशयत्वमुक्तम्। तच्च न कर्त्रात्मपक्षे उच्छेदपक्षे वा युज्यते। अतः परिशेषात् असंगात्मवादिनोः सांख्ययोगयोरेव व्यवतिष्ठत इति तयोरेव विभागार्थमध्यायद्वयमारभ्यते - इत्युक्त इत्यादि ॥१॥
शुक उवाच ।
प्रज्ञावान् श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः
।
अनागतामनैतिचं कथं ब्रह्माधिगच्छति ॥२॥
अनागतं प्रत्यक्षानुमानाभ्यामज्ञातम् अनैतिह्यं यूपाहवनीयादिवदलौकिकमपि इदमित्थमिति वेदेनापि न निर्देश्यम् ॥२॥
तवयस ब्रह्मचर्येण सर्वत्यागेन मेधया
।
सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे ॥३॥
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते
।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि ॥४॥
यथा यत्प्रकारकमैकाग्र्यम् ॥४॥
व्यास उवाच ।
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्
।
नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन ॥५॥
विद्यादिपदैः क्रमेणाश्रमचतुष्टयधर्मा उक्ताः ॥५॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः
।
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥६॥
स्वयंभुव ईश्वरस्य महाभूतानि पूर्वसृष्टिः तानि च प्राणभृद्ग्रामे जीवसंघे शरीरिषु शरीराभिमानिषु मूढजीवेषु भूयिष्ठं निविष्टानि तैरात्मत्वेन गृहीतानीत्यर्थः । पृथक् सृष्टिरिति पाठे भौतिकसृष्टेः पृथगेव भूतसृष्टिस्ततः प्राचीनत्वादिति स एवार्थः ॥६॥
भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते
।
प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् ॥७॥
खेषु नासादिरन्धेषु ॥७॥
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति
।
कर्णयोः प्रदिशः श्रोत्रं जिह्वायां वाक् सरस्वती ॥८॥
योगमते आत्मा भोक्तैव न तु कर्ता सांख्यमते तु न भोक्ता नापि कर्तेति तन्त्राद्यं दूषयति उत्तरस्यैव सिद्धान्तत्वं ज्ञापयितुम् क्रान्ते इति । क्रान्ते पादेन्द्रियबले पाणीन्द्रिये च विष्णुशक्रौ तत्प्रयोक्तारौ तिष्ठतः भटा इव राजकीयरथशकटादौ । तत्र यथा भटगतं जयपराजयादि रथगतं ह्रासवृद्ध्यादि च राजा आत्मन्यभिमानादध्यारोपयति । तद्वच्चिदात्मा देवतेन्द्रियगतं भोक्तृत्वखञ्जत्वादिकमविद्यया स्वस्मिन्नारोपयति अहं भोगी अहं खञ्ज इति। यथा च पराजयो न भृत्ये तदभिमानाभावात् । एवं भोगोऽपि विष्ण्वादौ नास्ति । आत्मनि स्वविद्ययैव तद्भावनमिति सिद्धमात्मनोऽङ्कर्तृत्वमभोक्तृत्वं च। नन्वात्मैव कर्ता भोक्ता चास्तु किमन्तर्गडुभिर्विष्ण्वादिभिरिति चेन्न । अनिर्मोक्षापत्तेः । स्वाभाविकस्य कर्तृत्वादेर्वह्न्यौष्ण्यवदाश्रयनाशमन्तरेण नाशायोगाच्च कर्णौ स्थानं श्रोत्रमिन्द्रियं दिशो देवताः जिह्वा स्थानं वागिन्द्रियं सरस्वती देवता । एतच्चान्येषामपि स्थानादीनामुपलक्षणम् ॥८॥
कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
।
दर्शनीयेन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥९॥
दर्शयन्ति तानि दर्शनीयानि कर्तरि कृत्यः तानि च तानीन्द्रियाणि चेति समासः । विभक्तिलोप आर्षः । आहारः शब्दादिग्रहः ॥९॥
शब्दः स्पर्शस्तथा रूपं, रसो, गन्धश्च पञ्चमः
।
इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥१०॥
इन्द्रियेभ्य एव इन्द्रियार्थान्कूर्माङ्गवत् पृथग्भूतान् विद्यात् ॥१०॥
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः
।
पनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥११॥
मनः कर्तृ यन्ता सारथिः भूतात्मा बुद्ध्युपाधिर्जीवः ॥११॥
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः
।
नियमे च विसर्गे च भूतात्मा मानसस्तथा ॥१२॥
एषां शब्दादीनाम् ईश्वरम् उत्पत्तिस्थितिलयहेतुः नियमे संहारे विसर्गे सृष्टौ ॥१२॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः
।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥१३॥
इन्द्रियार्था घटादयः स्वभावः शीतोष्णादिधर्मः चेतना धीवृत्तिः देहेषु हृदयगुहायामेव वर्तन्ते स्वप्न इव कर्मोदये तत एवाविर्भवन्तीत्यर्थः ॥१३॥
आश्रयो नास्ति सत्त्वस्य गुणाः शब्दो न चेतना
।
सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥१४॥
ननु देहस्यापीन्द्रियार्थत्वाद्देहान्तर्गतबुद्धौ स्थितिः स्वस्कन्धारोहणन्यायमनुसरतीत्याह- आश्रय इति । सत्त्वस्य बुद्धेराश्रयो यः प्रागुक्तो देहः सोऽपि नास्ति । स्वाप्नदेहवत्तस्यापि प्रतिभानमात्रत्वात् । कस्तर्हि सत्त्वस्याश्रयः किं च तस्य रूपमत आह- गुणा इति । त्रिगुणात्मिका मूलप्रकृतिरेव स्वविकारस्य वाचारम्भणं विकारो नामधेयमिति श्रुतेः । शब्दमात्रस्वरूपस्य सत्त्वस्याश्रय इत्यर्थः । न तु चेतना सत्त्वस्याश्रयः स्वरूपं वा । असंगत्वादविकारत्वाच्च । ननु गुणा बुद्धेरेव धर्माः सन्तु तथा च सात्त्विकोऽयं राजसोऽयमिति तेषां तदुपाधिके पुरुषे व्यपदेशो युज्यत इत्याशङ्क्याह - सत्त्वं हीति । तेजः वासना सत्त्वं सृजति न तु गुणान् अनादिवासना हि सत्त्वस्य कारणं सा च त्रिगुणात्मिकेति न सत्त्वकार्यत्वं गुणानां घटते सात्त्विकोऽयमित्यादिव्यपदेशस्तु परंपरयाऽपि युज्यते इति भावः ॥१४॥
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः
।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥१५॥
सप्तदशं चिदात्मानम् । षोडशभिः पञ्चेन्द्रियाणि पञ्चेन्द्रियार्थाः स्वभावादयश्च षट् तैः मनीषी मनोनिग्रहशीलः आत्मनि बुद्धौ ॥१५॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः
।
मनसा तु प्रदीपेन महानात्मा प्रकाशते ॥१६॥
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्
।
अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम् ॥१७॥
अशरीरं स्थूलसूक्ष्मकारणशरीररहितम् ॥१७॥
अव्यक्तं सर्वदेहेषु मर्त्येषु परमाश्रितम्
।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥१८॥
मर्त्येषु मरणधर्मवत्सु अनुपश्यति गुरुवेदवाक्यमनु ब्रह्मभूयसे निर्विशेषब्रह्मभावाय ॥१८॥
विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि
।
शुचि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१९॥
अभिजनः शिष्यकुलादिः समं ब्रह्मैव पश्यन्ति ते समदर्शिनः ॥१९॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च
।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥२०॥
एतदेव प्रसिद्धिविधया आह- स हीति । ध्रुवेषु स्थावरेषु ॥२०॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥२१॥
योगफलमाह- सर्वभूतेष्विति । संप्रज्ञाते सोपाधिकावस्थायां सर्वभूतेष्वात्मानमनुस्यूतं पश्यति अहमेवेदं सर्वोऽस्मीत्यनुभवतीत्यर्थः । आत्मनि निष्कले असंप्रज्ञातावस्थायां सर्वभूतान्यात्मन्येव विलीनानि पश्यति 'तत्केन कं पश्येत्’ इति श्रुतेः । तथा च द्विविधो ब्रह्मभाव उक्तो भवति स चोक्तः -
'सोपाधिर्निरुपाधिश्च द्वेधा ब्रह्मविदुच्यते
।
सोपाधिकः स्यात्सर्वात्मा निरुपाख्योऽनुपाधिकः॥'
इति॥२१॥
यावानात्मनि वेदात्मा तावानात्मा परात्मनि
।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥२२॥
वेदस्य आत्मा शब्दः स आत्मनि स्वस्वरूपे यावान् देशतः कालतश्च यावत्प्रमाणोऽस्ति तावान् आत्मा जीवः, सर्वोऽपि वाचो विषय आत्मेत्यर्थः । स च परात्मनि अधिष्ठाने स्वस्वरूपे । तथा च श्रुतिः - 'यावद्ब्रह्म विष्ठितं तावती वागिति' । विष्ठितं विविधाकारेण स्थितम् ॥२२॥
सर्वभूतात्मभूतस्य विभोर्भूतहितस्य च
।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२३॥
सर्वेषां भूतानाम् आत्मभूतस्य प्रत्यग्रूपस्य विभोः आकाशतुल्यस्य परिच्छेदाभिमानिनामेव देवयानः पितृयाणोऽन्यो वा मार्गेऽस्ति । अतस्तस्य मार्गेऽन्वेषणीये देवा अपि मुह्यन्ति देवापीत्यपेरार्षः सन्धिः । व्यवहितक्रियया सम्बन्धश्च अपदस्य मार्गरहितस्य पदैषिणः ब्रह्मबुभूषोः । तथा च श्रुतिः- 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते । ब्रह्मैव सन् ब्रह्माप्येति' इति । अत्रैव स्वात्मन्येव समवनीयन्ते एकीभावेन लीयन्ते 'अस्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' इति श्रुत्यन्तराच्च विदुष्येव प्राणमनःप्रभृतीनां कलानां प्रत्ययोऽध्यवसेयः ॥२३॥
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके
।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥२४॥
एतेदेव दृष्टान्तेन स्पष्टयति- शकुंतानामिति । ज्ञानविदां ब्रह्मविदाम् ॥२४॥
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि
।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन ॥२५॥
काल उक्तरूपो जीवः पचति जरयति पच्यते जीर्यते यस्मिन् तं परमात्मानम् ॥२५॥
न तदूर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः
।
न मध्ये प्रतिगृह्णीते नैव किंचित्कुतश्चन ॥२६॥
तत् मुक्तस्वरूपं प्रतिगृह्णीते विषयी करोति । एतेन देशविशेषप्राप्तिर्मुक्तिरिति पक्षः परास्तः ॥२६॥
सर्वेऽन्तःस्था इमे लोका बाह्ममेषां न किंचन
।
यद्यजस्रं समागच्छेद्यथा बाणो गुणच्युतः ॥२७॥
अन्तस्थाः मुक्तस्वरूपान्तर्गताः । एषां लोकानां मध्ये बाह्यं किंचित्स्थानं नास्ति यद्गतिप्राप्यं स्यात् ॥२७॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः
।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥२८॥
अन्तं सन्निधिम् । अनन्तत्वात्तस्य ॥२८॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्
।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥२९॥
कारणस्य ज्ञेयं स्वरूपमाह - तस्मादिति सार्धाभ्याम् ॥२९॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्
।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥३०॥
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः
।
क्षरः सर्वेषु भूतेष दिव्यं तमृतमक्षरम् ॥३१॥
कालः पचतीत्यादिभिः षड्भिः श्लोकैः ब्रह्मणः प्रत्यगात्मत्वात् अविषयत्वात् सर्वलोकाश्रयत्वात् अनन्तत्वात्सूक्ष्मत्वात् विभुत्वाच्च ब्रह्मविदां देशान्तरप्राप्तिर्नास्तीत्युक्त्वा प्रकारान्तरेणाप्येतदाह - अक्षरमिति । अक्षरम् अविनाशि चैतन्यम् । क्षरं विनाशि जडम् । सर्वेषु भूतेषु स्थावरजङ्गमशरीरेषु क्षरः क्षरत्वम् ॥३१॥
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी
।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥३२॥
नव महदहंकारपञ्चतन्मात्राणि अविद्या कर्म चेति कामस्याहङ्कारधर्मस्य तद्ग्रहेणैव ग्रह इति नवैव गतिद्वाराणि यस्मिंस्तन्नवद्वारं पुरं गत्वा प्राप्य ईशोऽपि हंसो हन्ति गच्छतीति हंसो गतिमान् भवति 'स ईक्षांचक्रे कस्मिंस्त्वहमुत्क्रान्ते उत्क्रांतो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति परस्मिन्प्राणोपाधिकस्यैव गमनस्य श्रवणात् नियतः अचञ्चलः वशी उपाधिदोषानभिभूतः ईशो नियन्ता ॥३२॥
हानिभङ्गविकल्पानां नवानां संचयेन च
।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥३३॥
परं गत्वा हंसो भवतीत्येतद्विवृणोति - हानीति । अजस्य परमेश्वरस्य शरीराणां शरीरान्तर्गतानां नवानां पूर्वोक्तमहदादीनां सम्बन्धिनो ये हान्यादयस्तेषां सञ्चयेन संग्रहेण हंसत्वमाहुः पारदर्शिनस्तत्त्वविदः । हानिर्गतिः । ओहाङ् गतावित्यस्य रूपम् । भंगो दुःखित्वादिकम् । विकल्पो मनुष्योऽयं पशुरयं वृक्षोऽयमिति विविधकल्पना च हंसत्वमित्युपलक्षणं भङ्गादेरपि ॥३३॥
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम्
।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥३४॥
एवमात्मनः क्षराक्षरयोरुत्पत्तिमक्षरस्य क्षरद्वारकं गत्यादिकं चेत्युक्त्वा तत्त्वमसिवाक्यार्थप्रतिपादनपुरःसरं विदुष उपाध्यभावाद्गत्यभावमाह - हंसेति । हंसपदेनोक्तं यदक्षरं जीवाख्यं तत् कूटस्थमेवाक्षरं न त्वन्यत् कूटस्थमक्षरम् अन्यत् हंसाख्यमक्षरमिति भेदोऽस्ति 'अयमात्मा' 'अहं ब्रह्मास्मि' इत्यादि श्रुतिशतेभ्यः । तत्तस्माद्धेतोः विद्वान् हंसः अक्षरं कूटस्थमात्मानं प्राप्य प्राणम् उत्कान्त्यादिसाधने उपाधिं जन्म च जहाति जन्महेतोरविद्याया नाशात् ॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकानुप्रश्ने ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२३९॥
व्यास उवाच ।
पृच्छतस्तव सत्पुत्र यथावदिह सत्त्वतः
।
सांख्यज्ञानेन संयुक्तं यदेतत्कीर्तितं मया ॥१॥
एवं सांख्यतत्त्वमुक्त्वा योगिनां यत्कृत्यं तद्वक्तुं प्रतिजानीते- पृच्छत इति ॥१॥
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु
।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥२॥
ननु ज्ञानादेव तु कैवल्यं 'नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः सांख्यादन्यो मोक्षमार्गो नास्ति । तत्किं स्वातन्त्र्येण योगकृत्यनिरूपणेनेत्याशङ्क्य योगमते ज्ञानशब्दार्थमाह - एकत्वमिति । घटादिवृत्तिद्वारम् इन्द्रियाणि दुःखादिवृत्तिद्वारं मनः । तेषामेकत्वं बुद्धिमात्रेणावस्थानं बुद्धिवृत्तिनिरोध इति यावत् । एतदेव ज्ञानम् अनुत्तमं श्रेष्ठमित्यर्थः । नान्यदहं ब्रह्मास्मीति धीवृत्तिरूपं तथा च श्रुतिः -
'तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम्
।
एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तः॥'
इति ॥२॥
आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम्
।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥३॥
बोद्धव्यं गुरुमुखादवगन्तव्यम्, आचार्यवान् पुरुषो वेदेति श्रुतेः । तेन सुषुप्तौ घटदुःखादिवृत्त्यभावेन ज्ञानत्वं प्रसक्तं तन्निरस्तम् । आनन्दभुक् चेतोमुखः प्राज्ञ इति श्रुतेस्तत्रापि निद्रारूपाया धीवृत्तेः सत्त्वात् प्राज्ञः सुषुप्तः उपशान्तो जितचित्तः दान्तो जितबाह्येन्द्रियः अध्यात्मशीली ध्याननिष्ठः आत्मारामः आत्मान रतिमान् बुद्धः ज्ञातशास्त्रतत्त्वः शुचिकर्मा यमनियमादिमान् ॥३॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा
।
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥४॥
समुच्छिद्य बोद्धव्यमिति पूर्वेणान्वयः ॥४॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥५॥
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥६॥
सत्त्वेन बुद्ध्या संसेवनं परिशीलनम् अर्थानां तेन धृत्या धैर्येण शिश्नोदरं व्यभिचारादिभ्यः । पाणिपादं कण्टकादिभ्यः ॥६॥
चक्षुःश्रोत्रे च मनसा मनोवाचं च कर्मणा
।
अप्रमादाद्भयं जह्याद्दम्भं प्राज्ञोपसेवनात् ॥७॥
चक्षुःश्रोत्रे साभिलाषपरस्त्रीदर्शनादिभ्यः मनोवाचं दुर्ध्यानादिभ्यः कर्मणा यज्ञादिना । एतदेवाह- अप्रमादादिति । दम्भं लोभमूलम् ॥७॥
एवमेतान् योगदोषान् जयेन्नित्यमतन्द्रितः
।
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ॥८॥
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम्
।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः ॥९॥
उशतीं कामप्रधानां विटगोष्ठीरित्यर्थः । मनोनुदां मनोभङ्गकारिणीम् । ननु ब्रह्मज्ञानादेव मुक्तिः प्रसिद्धा न तु धीनिरोधमात्रादित्याशङ्क्य ब्रह्मशब्दार्थमाह- ब्रह्मेति । शुक्रं बीजभूतं प्रधानं तेजोमयं प्रकाशात्मकसत्त्वगुणप्रधानं महत्तत्त्वाख्यं तदेव ब्रह्म न ततोऽन्यत् यस्य शुक्रस्य रसः सारः ॥९॥
एतस्य भूतं भव्यस्य दृष्टं स्थावरजङ्गमम्
।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥१०॥
भव्यस्य जन्मवतः एतस्य दृष्टम् ईक्षणम् एतेन 'सदेव सोम्येदमग्र आसीत् तदैक्षत बहुःस्यां प्रजायेय' इति । 'ऐतदात्म्यमिदं सर्वम्' इत्यस्याः श्रुतेरर्थः- प्रधानम् एकमेव सत् सत्त्वोद्रेकादीक्षणकर्तृत्वेन महत्तत्त्वात्मकं भूत्वा ईक्षणद्वारा सर्वात्मकत्त्वं गतमिति दर्शितः । अस्य ध्यानेनाध्ययनादिना च सत्त्वोत्कर्षे सति पापनाशः सर्वकामावाप्तिस्तत्त्वज्ञानं च जायत इत्याह द्वाभ्यां - ध्यानमित्यादि ॥१०॥
शौचमाचारसंशुद्धिरिन्द्रियाणां च निग्रहः
।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥११॥
सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते
।
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् ॥१२॥
समः रागद्वेषशून्यः लब्धालब्धेनेति । यदृच्छालाभसंतुष्ट इत्यर्थः ॥१२॥
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः
।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१३॥
तेजस्वी सत्त्ववान् ब्रह्मणो महत्तत्त्वस्य पदं लयस्थानं प्रकृतिं निनीषेत् वशीकर्तुमिच्छेत् ॥१३॥
मनसश्चेन्द्रियाणां च कृत्वैकाम्यं समाहितः
।
पूर्वरात्रापरार्धं च धारयेन्मन आत्मनि ॥१४॥
ऐकाग्र्यं विषयेभ्यो निरोधं कृत्वा आत्मनि बुद्धौ मनो धारयेत् संकल्पात्मकं मनो निरुन्ध्यादित्यर्थः ॥१४॥
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्
।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥१५॥
इन्द्रियाणामनिरोधे दोषमाह- जन्तोरिति । प्रज्ञा शास्त्रजा बुद्धिः स्रवते विषयप्रावण्यात्क्षीयते दृतेश्चर्मकोशस्य ॥१५॥
मनस्तु पूर्वमादद्यात् कुमीनमिव मत्स्यहा
।
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥१६॥
मन इति । इन्द्रियाणां निग्रहो मनोनिग्रहपूर्वक एवेत्यर्थः । कुमीनं जालदंशक्षमं मीनम् ॥१६॥
तत एतानि संयम्य मनसि स्थापयेद्यतिः
।
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥१७॥
तत इति । संकल्पत्याग एव मनस आत्मनि बुद्धौ धारणं नाम ॥१७॥
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्यतिः
।
यदैतान्यवतिष्ठन्ति मनःषष्ठान्यथात्मनि ॥१८॥
संधाय ध्येयवस्तुनः अभिसंधानं कृत्वा न तु सुप्ताविव तमोग्रस्तत्वेन मनसि स्थापयेत् आत्मनि बुद्धौ ॥१८॥
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
।
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ॥१९॥
प्रसीदन्ति संकल्पजं कालुष्यं त्यजन्ति । तत्र हेतुः संस्थाय नाशं प्राप्य वह्नौष्ण्यवत्स्वरूपनाशानुविनाश्येव इन्द्रियाणां कालुष्यमित्यर्थः । ब्रह्म महत्तत्त्वं प्रकाशते निर्विषयवेदनमस्मीत्येतावत्प्रत्ययमात्रं स एव ब्रह्मप्रकाशो योगानां सत्त्वपुरुषान्यताख्यातिः शुद्धत्वंपदार्थसाक्षात्कारः ॥१९॥
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि
।
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते ॥२०॥
आत्मा शुद्धत्वंपदार्थः आत्मनि सूक्ष्मबुद्धौ अस्मितामात्रायां सर्वोऽहङ्कारादिर्विकारस्तत्र महत्यात्मनि स च महानात्मा कारणत्वेन व्यापकत्वादेव सर्वत्रेत्यर्थः ॥२०॥
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥२१॥
एवं परिमितं कालमाचरन्संशितव्रतः
।
आसीनो हि रहस्येको गच्छेदक्षरसात्मताम् ॥२२॥
परिमितं षण्मासमात्रम् । तथा च श्रुतिः – ’षड्भिर्मासैस्तु युक्तस्य नित्ययुक्तस्य योगिनः । आनन्दः परमो गुह्यः सम्यग्योगः प्रवर्तते' इति । संशितव्रतः सम्यक् तीक्ष्णनियमः रागादिच्छेदकत्वमिह शितत्वम् अक्षरम् अस्मितानिर्मुक्तं शुद्धात्मस्वरूपं तेन साम्यतां समतां लक्षणभेदाभावं स्वार्थे ष्यञ् ॥२२॥
प्रमोहो भ्रम आवर्तो प्राणं श्रवणदर्शने
।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥२३॥
योगविघ्नानाह - प्रमोह इति । प्रमोहो लयः भ्रमो विक्षेपः आवर्त उभयास्पर्शी कषायः । घ्राणेति दिव्यगन्धादिग्रहणं च मारुताकृतिरिति शीघ्रगतिः अदर्शनसिद्धिराकाशगमनं चेत्युक्तम् ॥२३॥
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः
।
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत् ॥२४॥
प्रतिभां सकलशास्त्रार्थभानम् उपसर्गाः दिव्याङ्गनासंगादयः तांश्च उपसंगृह्य योगबलेन लब्ध्वा अनादृत्य च आत्मनि बुद्धावेव निवर्तयेत् संहरेत् बुद्धिकल्पितत्वात्तेषां तत्रैव संहारस्य युक्तत्वात् ॥२४॥
कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः
।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत् ॥२५॥
त्रैकाल्ये प्रातः पूर्वरात्रे अपररात्रे च चैत्ये बद्धमूलतरौ वृक्षाग्रेषु वृक्षपुरतः ॥२५॥
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव
।
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥२६॥
कोष्ठे हृदयपुण्डरीके एकाग्रं यथा स्यात्तथा नित्यं वस्तु भाण्डं धनाद्युपकरणं तन्मनाः भाण्डमिव नित्यमना नित्यं चिन्तयेत् ॥२६॥
येनोपायेन शक्येत संनियन्तुं चलं मनः
।
तं च युक्तो निषेवेत न चैव विचलेत्ततः ॥२७॥
येनोपायेन पूर्वोक्तेन व्यक्तालम्बनेन अव्यक्तालम्बनेन वा ॥२७॥
शून्या गिरिगुहाश्चैव देवतायतनानि च
।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥२८॥
नाभिष्वजेत्परं वाचा कर्मणा मनसाऽपि वा
।
उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥२९॥
नाभिष्वजेत् न परिगृह्णीयात् परिग्रहो हि दुःखायेत्युक्तेः ॥२९॥
यश्चैनमभिनन्देत यश्चैनमपवादयेत्
।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥३०॥
अपवादयेत् निन्देत् स्वार्थे णिच् ॥३०॥
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत्
।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥३१॥
मातरिश्वनः वायोः सधर्मा तुल्यधर्मा असङ्गोऽनिकेतश्च ॥३१॥
एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः
।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥३२॥
शब्दब्रह्म प्रणवः अतिवर्तते स्वार्थापरोक्षीकरणेन अत्यन्तं प्रकाशते ॥३२॥
वेदनार्ताः प्रज्ञा दृष्ट्वा समलोष्ठाश्मकाञ्चनः
।
एतस्मिन्विरतो मार्गे विरमेन्न च मोहितः ॥३३॥
प्रजाः काञ्चनलाभार्थे वेदनार्ताः दृष्ट्वा एतस्मिन् वित्तार्जनादिमार्गे विरतो विरक्तः विरमेत् वित्तार्जनादिभ्यः न च मोहितो भवेत् ॥३३॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी
।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥३४॥
श्रद्धावानेवात्राधिकारीत्याह - अपीति । वर्णावकृष्टः शूद्रः एतेन तत्त्वमस्यादिवाक्यार्थविचारात्मके सांख्ये त्रैवर्णिका एवाधिकारिणः मनोनिरोधाख्ये योगमार्गे तु स्त्रीशूद्रादयोऽप्याधिकारिण इति गम्यते ॥३४॥
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभेत निश्चलैः
।
अणोरणीयो महतो महत्तरं तदाऽऽत्मना पश्यति मुक्तमात्मवान् ॥३५॥
योगविद्यामुपसंहरति अजमिति । इन्द्रियैर्मनोबुद्धियुक्तैर्निश्चलैः सद्भिरुपलक्षितं यत् नामरूपातीतं स्वरूपं तदेव अजं जन्महीनं यतः पुराणं पुराऽपि नवम् अत एव अजरं सर्वभावविकारहीनम् अतः सनातनं नित्यमेकरूपं वस्तु उपलभेत तद्वस्तु अणोरप्यणीयः दुर्लक्ष्यमित्यर्थः । महतोऽपि महत्तरम् अनन्तमित्यर्थः । तत् आत्मना बुद्ध्या मुक्तम् आत्मवान् जितचित्तः पश्यति एतेन -
'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सहः
।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥
तां योगमिति मन्यते स्थिरामिन्द्रियधारणाम् अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ॥'
इति श्रुतेरर्थो दर्शितः ॥३५॥
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसाऽनुदृश्य च
।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां प्रयान्ति चाभूतगतिं मनीषिणः ॥३६॥
सांख्यविद्यामुपसंहरति - इदमिति । अनुदृश्य गुरुवचनमनुशब्दतोऽर्थतश्च ज्ञात्वा अवेक्ष्य स्वयं च युक्त्या परीक्ष्य इमां शास्त्रप्रसिद्धां परमेष्ठिसाम्यतां चतुर्मुखसमतां प्रयान्ति आभूतगतिं भूतसंप्लवपर्यन्तं ब्रह्मलोके ब्रह्मणा सह समानभोगभाजो भूत्वा ब्रह्मणा सह मुच्यन्ते । मनीषिणः शुद्धचित्ताः निर्विचिकित्सपरोक्षज्ञानस्यैव एतत्फलम् । अपरोक्षज्ञानिनामक्षरसाम्यतायाः प्रागुक्तत्त्वात् एतेन-
'वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः
।
ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे
।
'
इति। इति श्रुतेरर्थो दर्शितः परान्तकाले ब्रह्मणो मोक्षकाले तन्मुक्त्यैव मुच्यन्ते ॥३६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकानुप्रश्ने चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४०॥
शुक उवाच ।
वर्तमानस्थैवात्र वानप्रस्थाश्रमे यथा
।
योक्तव्योऽऽत्मा कथं शक्त्या वेद्यं वै कांक्षता परम् ॥१॥
पूर्वत्र साद्यस्कांश्च यजेद्यज्ञानिति श्लोकद्वयेन वानप्रस्थस्यापि वैश्वानरात्मोपासनमुक्तं तत्कर्मव्यग्रस्य दुःशकमिति मन्वानः पृच्छति- वर्तमान इति । यथा यथावत् आत्मा कथं याक्तव्यः सन्धिरार्षः । परं वेद्यं ब्रह्म ॥१॥
व्यास उवाच ।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्
।
यत्कार्यं परमार्थं तु तदिहैकमनाः शृणु ॥२॥
उत्तरमाहार्धेन- प्राप्येति । एताभ्यामाश्रमाभ्यां ब्रह्मचर्यगार्हस्थ्याभ्यां संस्कारं चित्तशुद्धिं प्राप्यात्मा योक्तव्य इति पूर्वेणान्वयः । चित्तशुद्धौ सत्यां वानप्रस्थाद्याश्रमेऽपि योगमभ्यस्येदित्यर्थः । ऋजुमार्गमाह- यदितिसार्धेन ॥२॥
कषायं पाचयित्वाशु श्रेणिस्थानेषु च त्रिषु
।
प्रव्रजेच्च परं स्थानं पारिव्राजमनुत्तमम् ॥३॥
कषायं चित्तदोषं पाचयित्वा विश्लथं कृत्वा स्थानेषु आश्रमेषु अनुत्तमम् इदं मतं श्रेष्ठमित्यर्थः ॥३॥
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा
।
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान् ॥४॥
एवं वक्ष्यमाणरीत्या धर्मं योगम् ॥४॥
एकश्चरति यः पश्यन् न जहाति न हीयते
।
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत् ॥५॥
पश्यन् आत्मदृक् न जहाति कञ्चित्पदार्थं सर्वव्यापित्वात् । न हीयते मोक्षसुखात् ॥५॥
अश्वस्तनविधाता स्यान्मुनिर्भावसमाहितः
।
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥६॥
भावसमाहितः चित्तसमाधानवान् ॥६॥
कपालं वृक्षमूलानि कुचैलमसहायता
।
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥७॥
कपालं पानपात्रं विवर्णं काषायवस्त्रं कुचैलमित्युच्यते । उपेक्षा प्रीतिद्वेषराहित्यम् ॥७॥
यस्मिन्वाचः प्राविशन्ति कूपे त्रस्ता द्विपा इव
।
न वक्तारं पुनर्यान्ति कैवल्याश्रमे वसेत् ॥८॥
यस्मिन्निति । आनुश्यमानो नाक्रोशेदित्यर्थः ॥८॥
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्
।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥९॥
एतदेवाह- नैवेति ॥९॥
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्
।
तूष्णीमासीत निन्दायां कुर्वन् भैषज्यमात्मनः ॥१०॥
भैषज्यं भवरोगचिकित्साम् ॥१०॥
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा
।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥११॥
येन संप्रज्ञातेऽहमेवेदं सर्वोऽस्मीति पश्यता । येन रूपादीनगृह्णता च जनपूर्णमपि स्थानं शून्यमिव भवति ब्राह्मणं ब्रह्मिष्ठम् ॥११॥
येन केनचिदाच्छन्नो येन केनचिदाशितः
।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥१२॥
अहेरिव गणाद्भीतः सौहित्यानरकादिव
।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥१३॥
अहेः सर्पात् गणात् जनसमूहात् सौहित्यात् मृष्टान्नजनिततृप्तेः ॥१३॥
न क्रुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः
।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥१४॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
।
कालमेघ प्रतीक्षते निदेशं भृतको यथा ॥१५॥
निदेशम् आज्ञाम् ॥१५॥
अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत्
।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥१६॥
अभ्याहतं दोषाक्रान्तम् । निरमित्रस्य अजातशत्रोः ॥१६॥
अभयं सर्वभूतेभ्यो भूतानामभयं ततः
।
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥१७॥
सर्वभूतेभ्यो यस्येति शेषः ॥१७॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम्
।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥१८॥
निर्भयत्वमुक्त्वा कृत्स्नानन्दप्राप्तिमप्याह - यथेति । नागपदे हस्तिपदे परगामिनां नृपश्वादीनां पदानि अपिधीयन्ते तिरोधीयन्ते । तथा इन्द्रादीनां पदजातानि स्थानानि कौञ्जरे कुं पृथिवीं शरीररूपां जरयतीति कुञ्जरः । समाधिस्थो योगी तस्य स्थाने कौञ्जरे पदे । 'यथा कृताय विजितायाधरेऽयाः संयन्त्येवमेवैनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद' इति श्रुतेः । कृतायश्चतुरङ्कपाशः तत्र त्रिद्व्येकांकानामिव योगे कृत्स्नकर्मफलानामन्तर्भाव इति श्रुत्यर्थः ॥१८॥
एवं सर्वमहिंसायां धर्मार्थमपि धीयते
।
अमृतः स नित्यं वसति योऽहिंसां न प्रपद्यते ॥१९॥
दार्ष्टान्तिकं विवृणोति- एवमिति । एवं दृश्यमानप्रकारं धर्मार्थम् । अहिंसायां सर्वभूताभयदानरूपे संन्यासयोगे ॥१९॥
अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः
।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥२०॥
एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः
।
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥२१॥
प्रज्ञानम् आत्मानुभवस्तेन तृप्तस्य मृत्युरूपो भावस्तस्यातिगोऽतिक्रम्य गन्ता न भवति किं तु स एव मृत्युमतिक्रामतीत्यर्थः । 'स यथाऽश्मानमाखणमृत्वा लोष्ठो विध्वंसेतैवं हैव ते विष्वञ्चो विनेशुः' इति श्रुतेः । श्रुत्वा प्राप्य ते कामादयोऽसुरा मृत्युरूपा इति श्रुत्यर्थः । आखणः खननायोग्यः स्वार्थे तद्धितः । णत्वमार्षम् ॥२१॥
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्
।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥२२॥
सङ्गेभ्यः स्थूलसूक्ष्मकारणशरीरेष्वहमित्यभिमानेभ्यः । आकाशवन्निर्विषयत्वात् । शून्यवत् अस्वं निर्दृश्यम् । अत एव एकचरं ज्ञातृज्ञेयशून्यज्ञानमात्रम् ॥२२॥
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च
।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥२३॥
यस्य कृतकृत्यस्य जीवन्मुक्तस्य जीवितं धर्मार्थं धर्ममेघाख्यनिर्विकल्पसमाधिजपुण्योत्पत्त्यर्थम् । तथा च श्रुतिः- 'क्षणमेकं क्रतुशतस्य चतुःसप्तत्या यत्फलं तदवाप्नोति' इति । धर्ममेघस्य फलमाह- सोऽपि धर्मो हर्यर्थं हरन्ति ते हरयस्तत्समीपवर्तिनस्तेषामर्थम् । योगिनो हि पुण्यं तद्भक्ता हरन्ति । ’तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति श्रुतेः । 'अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः' इत्यन्यनिष्ठं योगाङ्गफलं स्मर्यते च । रत्यर्थमिति पाठे परेषां सुखार्थम् अहोरात्राः समाधयो व्युत्थानानि च पुण्यार्थं लोकशिक्षार्थम् ॥२३॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
।
निर्मुक्तं बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः ॥२४॥
निरिति । स्तुतिनमस्कारजन्यसुखासङ्गिनमित्यर्थः । बन्धनैः वासनाभिः ॥२४॥
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ते
।
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥२५॥
सर्वाणीति । कर्ममात्रं हिंसाकरमतस्त्याज्यमित्यर्थः ॥२५॥
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह
।
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्त्यमाप्नोत्यभयं प्रजाभ्यः ॥२६॥
अधितिष्ठति अधिकत्वेन वर्तते तीक्ष्णां तनुं हिंसामयं धर्मं सोऽनन्त्यं स आनन्त्यं मोक्षम् । यतः प्रजाभ्यः प्रजानामभयम् ॥२६॥
उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा
।
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमिदं प्रपेदे ॥२७॥
आनन्त्यावाप्त्युपायभूतां त्रींश्चैवाग्नीन्यजेदिति पूर्वाध्याये सूत्रितां वैश्वानरविद्यामनुवर्तयति - उत्तान इत्यादिना । वानप्रस्थ इव उत्ताने व्यात्ते आस्ये मुखे प्राणाय स्वाहेत्यादिमन्त्रैः पञ्च षट् वा आहुतीर्न जुहोति किं तर्हि प्राणानेव इन्द्रियमनआदीन् आत्मयाजी आत्मनि जुहोति प्रविलापयतीत्युत्तरेण सम्वन्धः । तत्प्रकारमाह- लोकस्येति । लोकस्य चराचरस्य जन्तोर्नाभिः जगतस्त्रैलोक्यात्मनो वैश्वानरस्य प्रतिष्ठा स्थानम् । 'अधोनिष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाति विश्वस्यायतनं महत्' इति श्रुतेः । निष्ट्याः हृदयकपाटात् विश्वस्य वैश्वानरस्य । प्रकारान्तरेणायतनान्तरमाह- तस्यां गमङ्गानीति । तस्य लोकस्याङ्गं मुर्धादिचुबुकान्तम् अङ्गानि वैश्वानरावयवाः मूर्धानमुपादिशन्नुवाचैष वा प्रतिष्ठा वैश्वानर इत्यादिना चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानर इत्यन्तेन ग्रन्थेन श्रुत्या दर्शिताः । नाभ्यादिनिष्ट्यन्ते देशे वा चुबुकादिमूर्धान्तदेशे वा त्रैलोक्यात्मानं वैश्वानरमुपासीतेति पक्षद्वयमुपन्यस्तम् । एतच्च कृताकृतं वैकल्पिकं न तु समुच्चितम् । तात्पर्यमाह- वैश्वानरः सर्वमिदमिति । प्रपेदे प्रतिपत्तव्यमित्यर्थः ॥२७॥
प्रादेशमाने हृदि निःसृतं यत्तस्मिन्प्राणानात्मयाजी जुहोति
।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदेवकेषु ॥२८॥
’यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति' इत्यस्याः श्रुतेरर्थमाह- प्रादेशेति । हृदि नाभ्यादिहृदयपर्यन्ते देशे प्रादेशसंमिते निःसृतमाविर्भूतमिति श्रौतस्य प्रादेशमात्रपदस्यार्थः । तस्मिंश्चिन्मात्रे प्राणोपलक्षितं कृत्स्नं प्रपञ्चम् आत्मयाजी योगी जुहोति प्रविलापयति यस्तस्याग्निहोत्रं प्राणाग्निहोत्रमात्मसंस्थं देहस्थितं हृदयं गार्हपत्य इत्यादिना उक्तप्रकारं सर्वेषु लोकेषु हुतं भवति । तस्य सर्वात्मकत्वात्तेन यदवदानं गृहीतं तेनावदानेने सर्वं ब्रह्माण्डं तृप्यतीत्यर्थः । तद्यद्भक्तं प्रथममागच्छेदित्यादिना ग्रंथेन श्रुतौ चैतदुपपादितम् ॥२८॥
देवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यां परमात्मतां च
।
ते सर्वलोकेषु महीयमाना देवाः समर्त्याः सुकृतं वदन्ति ॥२९॥
एवं प्रणवमात्रासु प्रथममकारार्थं वैश्वानरमुपासीना ये ते देवं त्रिधातुं द्योतमानं सूक्ष्मतेजोबन्नात्मकं सूत्रात्मानमुकारार्थं विद्युः तथा त्रिवृतं त्रिभिर्गुणैर्वृतं सुपर्णम् ईश्वरं मायोपाधिं मकारार्थमग्र्यां सूक्ष्मतमां परमो निरुपाधिरात्मा प्रत्यक्स्वरूपं तद्भावं च विद्युः । अत एव तेषां सुकृतं देवादयो वदन्ति प्रशंसन्ति । व्रजन्तीति पाठे सुकृतं ब्रह्मानन्दम् । 'यद्वै तत्सुकृतं रसौ वै सः' इति श्रुतेः ॥२९॥
वेदांश्च वेद्यं तु विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च
।
सर्वं शरीरात्मनि यः प्रवेद तस्यैव देवाः स्पृहयन्ति नित्यम् ॥३०॥
विद्याफलमाह - वेदानिति । वेद्यं वियदादि विधिं कर्मकाण्डम्, निरुक्तं शब्दैकगम्यं परलोकादि परमार्थतां सत्यस्वभावतां चात्मनः एतत्सर्वं शरीरात्मनि प्रत्यग्रूपे एवास्तीति यो वेद तस्य तमेव सर्वेश्वरं देवाः सेवितुं स्पृहयन्ति ॥३०॥
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये
।
पतत्रिणं पक्षिणमन्तरिक्ष यो वेद भोग्यात्मनि रश्मिदीप्तः ॥३१॥
अस्य सुपर्णत्वं व्याचष्टे- भूमाविति । अप्रमेयं प्रत्यगात्मत्वात् । हिरण्मयं चिन्मयम् अण्डजं ब्रह्माण्डान्तराविर्भूतम् । अण्डमध्ये पिण्डस्य मध्ये हृदंबुजे भोग्यात्मनि शरीरे अन्तरिक्षे हार्दाकाशे मायायाम् । एवं च देहपुण्डरीकं मायाख्यमुपाधित्रयमाधारत्वेनाधेयाद्ब्रह्मणः पृथगुक्तं भवति । 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्' इति श्रुतेः । रश्मिभिरिव प्रसृमरैश्चक्षुःश्रोत्रादिभिर्दीप्तो जीवभावं गमितः । पतत्रिणं बहुपतत्रस्थानीयाभिरंगदेवताभिर्युक्तम् । 'यस्याग्निरास्यं खं मूर्धा द्यौर्नाभिश्चरणौ क्षितिः' इत्यादिभिर्युक्तम् । पक्षिणमिवासंगं मोदप्रमोदाख्यवृत्तिविशेषरूपपक्षद्वयवन्तं वा जीवप्रत्यग्भूतं ब्रह्म हिरण्मयः शकुनिर्ब्रह्मनामेति श्रुत्तम् । तत्त्वतो यो वेद तं देवा वदन्तीति पूर्वेणान्वयः ॥३१॥
आवर्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व
।
यस्येदमास्योपरि याति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥३२॥
विवर्तनमायुःक्षपणम् । षट् ऋतवो नाभयो यस्य द्वादश मासा अरा यस्मिन् शोभनानि दर्शसंक्रमादीनि पर्वाणि यत्र । आस्योपरि भक्ष्यमिव विश्वं याति गुहायां बुद्धौ ॥३२॥
यः सम्प्रसादो जगतः शरीरं सर्वान्स लोकानधिगच्छतीह
।
तस्मिन्हि तं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥३३॥
संप्रसीदत्यस्मिन्निति संप्रसादः सुषुप्तं तदेव जगतः शरीरं मूलकारणत्वात् । यथोक्तं 'सुषुप्ताख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोः' इति । सर्वान् लोकांश्च स्थूलसूक्ष्मान् अधिगच्छति व्याप्नोति कारणत्वादेव तस्मिन् संप्रसादाभिन्ने स्थूलसूक्ष्मदेहद्वये सजीवो देवान् प्राणादींस्तर्पयति ते च देवा अस्य आस्यं मुखं प्रप्य एनं तर्पयन्तीत्यर्थः । तथा च श्रुतिः- 'स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन' इति ॥३३॥
तेजोमयो नित्यमयः पुराणो लोकाननन्तानभयानुपैति
।
भूतानि यस्मान्न वसन्ते कदाचित्स भूतानां न त्रसते कदाचित् ॥३४॥
यः पूर्वोक्तामग्र्यां परमात्मतामप्राप्य त्रिधातुके सोपाधिके एव रूपे तिष्ठति तस्य गतिमाह - तेजोमय इति । तेषु ब्रह्मलोकेषु पराः परावतो वसन्तीति श्रुताविवेहापि लोकानिति बहुत्वं कार्यब्रह्मलोकगतप्रदेशभेदापेक्षया तेन कार्यब्रह्मलोकं गच्छतीत्यर्थः । अत एव कठवल्लीषु निर्गुणविद्याप्रकरणेऽपि गतिराम्नायते 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नम्मृतत्वमेति विष्वङ्ङन्य उत्क्रमणे भवन्ति' इति तत्राप्ययमेव श्रुतेराशयो न तु परब्रह्मविदामर्चिरादिगतिरस्तीति । तत्र गत्याम्नानमिति व्यक्तमाकरे ॥३४॥
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत्
।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽन्नमर्च्छति ॥३५॥
परमात्मतां प्राप्तस्य तु नेहामुत्र वा भोगोऽस्ति तद्धेतोर्मूलाज्ञानस्य नाशादित्याह- अगर्हणीय इति । विनीतमोहो नष्टाज्ञानः अत एव व्यापनीतं नष्टं कल्मषं स्थूलसूक्ष्मदेहद्वयं यस्य अन्नमदनीयं भोग्यं लोकम् अर्च्छति गच्छति 'न तस्य प्राणा उत्क्रामन्ति' इति तस्य गत्यभावश्रुतेः ॥३५॥
अरोषमोहः समलोष्टकाञ्चनः प्रहीणकोशो गतसन्धिविग्रहः
।
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥३६॥
अस्य जीवन्मुक्तावस्थामाह- अरोषेति । न स्तः प्रियाप्रिये यस्य सोऽप्रियाप्रियः उदासीनवन्न तु प्रीत्यप्रीतियुक्तं चरन् भुञ्जानो भोगान् ॥३६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकानुप्रश्ने पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४५॥
भीष्म उवाच।
इत्युक्तः स तदा तेन तुलाधारेण धीमता
।
प्रोवाच वचनं धीमान् जाजलिर्जपतां वरः ॥१॥
इतीति ॥१॥
जाजलिरुवाच ।
विक्रीणतः सर्वरसान् सर्वगन्धांश्च वाणिज
।
वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥२॥
वाणिज वणिक्पुत्रेति साधिक्षेपमाह अपण्यविक्रेतृत्वाद्दोषवानपीत्यर्थः ॥२॥
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम्
।
एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥३॥
अध्यगाः अधिगतवानसि ॥३॥
भीष्म उवाच।
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना
।
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ॥४॥
तुलाधार उवाच ।
वेदाहं जाजले धर्मं सरहस्यं सनातनम्
।
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥५॥
धर्मरहस्यमेवाह - सर्वभूतहितमिति ॥५॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥६॥
अल्पद्रोहेण आपदि वा 'नानुपहत्य भूतानि भोगः संभवतीति' न्यायेनाद्रोहेण वृत्त्यसंभवाद्वा ॥६॥
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्
।
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥७॥
अलक्तं लाक्षारससारं पद्मक तुङ्ग च काष्ठविशेषौ कस्तूर्यादीन् गन्धान् ॥७॥
रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम्
।
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥८॥
रसान् लवणादीन् क्रीत्वैव न तु स्वयमुत्पाद्य ॥८॥
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः
।
कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥९॥
ननु 'लाक्षालवणमांसानि पतनीयानि विक्रये' इति लाक्षादिविक्रये दोषस्मृतेस्तद्वतः कथं धार्मिकत्वमित्याशङ्क्याह - सर्वेषामिति । अयमर्थः - लोके हि उपकारिणं प्रत्युपकुर्वन्ति अद्रोहिणे न द्रुह्यन्ति चेत्युत्सर्गः । तत्सामान्यादैहिकौ उपकारापकारौ जन्मान्तरेऽपि सुखदुःखप्रदानाय प्रभवतो न त्वाकस्मिकं कस्यचित्सुखं दुःखं वाऽस्ति जन्मान्तरीयं कारणं विनेत्यनुमीयतेऽतः स्वभाववादस्तावदयुक्त एव श्रुत्यादीनां धर्मे प्रामाण्यमपि वक्ष्यमाणरीत्या युज्यत एवेति ॥९॥
नानुरुद्ध्ये निरुध्ये वा न द्वेष्मि न च कामये
।
समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम्
।
तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥१०॥
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये
।
आकाशस्येव विप्रेन्द्र पश्यल्लोकस्य चित्रताम् ॥११॥
आकाशस्य अभ्रपटलस्य चित्रतां विविधाकारत्वम् ॥११॥
इति मां त्वं विजानीहि सर्वलोकस्य जाजले
।
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥१२॥
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा
।
देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥१३॥
अपिहितद्वारा आच्छादितेन्द्रियगोलकाः ॥१३॥
यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति
।
तथार्थकामभोगेषु ममापि विगता स्पृहा ॥१४॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥१५॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्
।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१६॥
न भूतो न भविष्योऽस्ति न च धर्मोऽस्ति कश्चन
।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥१७॥
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव
।
वाक्क्राद्दण्डपरुषात्स प्राप्नोति महद्भयम् ॥१८॥
विपक्षे दौषमाह- यस्मादिति ॥१८॥
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्
।
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् ॥१९॥
'मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः' इति मन्त्रलिङ्गात्कुलाचारस्य प्रामाण्यं गम्यते तदप्यस्मास्वस्तीत्याह - यथावदिति । अहिंस्राणामिति हिंसामयः कुलाचारोऽप्यप्रमाणमित्युक्तम् । मन्त्रार्थस्तु - पित्र्यात् पित्रादिसंसेवितात् मानवात् मनुर्मन्त्रस्तत्प्रकाशितात् वेदाविरुद्धादित्यर्थः । पथो मार्गात् नः अस्मान् दूरं मा नष्ट नयत परावतः बह्वायुष्मतोऽस्मानिति ॥१९॥
प्रणष्टः शाश्वतो धर्मस्त्वनाचारेण मोहितः
।
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते ॥२०॥
शिष्टाचारं प्रमाणयति- प्रनष्ट इति द्वाभ्याम् । शाश्वतः शश्वद्भवः परंपरया वेदमूलकत्वादनादिर्धर्मः शिष्टाचारः स प्रनष्टः यतः सदाचारेण क्वचिदंशे विरुद्धेन मोहितः मोहं प्रापितः यथा 'अवर्त्या शुन आन्त्राणि पेचे' 'यःपूजयितुं पितृदेवमनुष्यान्पेच आन्त्राणि शुनः' इति श्रुतिस्मृतिभ्यां वामदेवस्य श्रेष्ठतमस्यापि बीभत्स आचार आपदि श्वमांसभक्षणरूपः प्रदर्शितः । पुराणे वा ऋषभादीनां महायोगिनामाचारं दृष्ट्वा आर्हतादयो मोहिताः पाषण्डमार्गमनुगता इत्युक्तम् । तेन मोहरूपेण कारणेन वैद्यो विद्यावान् । तपस्वी जितेन्द्रियः बलवान् जितकामक्रोधः सोऽपि विमुह्यते विमुच्यत इति पाठे तेन सदाचारेणेत्यर्थः । अयं भावः-
'सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पंडितः
।
अर्धनाशे समुत्यन्ने सर्वं त्यजति दुर्मतिः
।
इति न्यायेन मूढाः शिष्टाचारमंशे विगीतं दृष्ट्वा कृत्स्नमपि त्यजन्ति स्वभाववादं चानुरुद्ध्यन्ते । बुद्धास्तु श्रुत्यन्तरविरुद्धं विरुद्धांशमात्रं त्यक्त्वा तेनैव सदाचारेण मुच्यन्त इति ॥२०॥
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्मवाप्नुयात्
।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥२१॥
एतदेवाह - आचारादिति । धर्मं मोक्षोपयोगिनमधिकारम् । उपसंहरति - एवमिति । साधुभिश्चीर्णं धर्मं यश्चरेत्स धर्ममाप्नुयादित्यन्वयः ॥२१॥
नद्यां चेह यथा काष्ठमुह्यसानं यदृच्छया
।
यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित् ॥२२॥
नद्यामिति । नदीप्रवाहेण काष्ठानामिव कर्मप्रवाहेण पितृपुत्रादीनां संयोगवियोगावित्याशयः ॥२२॥
तत्रापराणि दारूणि संसृज्यन्ते परस्परम्
।
तृणकाष्ठकरीषाणि कदाचिन्न समीक्षया ॥२३॥
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन
।
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥२४॥
लोकस्य कर्माधीनत्वात् सुखार्थी न कञ्चिदुद्वेजयेदित्याह - यस्मादिति । एतत्फलमाह- अभयमिति ॥२४॥
यस्मादुद्विजते विद्वन् सर्वलोको वृकादिव
।
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥२५॥
विपक्षे दोषमाह- यस्मादिति । वृकः हिंस्रपशुः दृष्टान्ते वडवाग्निः ॥२५॥
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः
।
सहायवान् द्रव्यवान्यः सुभगोऽथ परस्तथा ॥२६॥
अयम् अभयदानलक्षणं यतस्ततः सर्वोपायसाध्यः सहायादिसाध्यो वन्दीमोचनादिरूपः सुभगः ऐश्वर्यहेतुः परः परलोकहेतुश्च ॥२६॥
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत
।
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥२७॥
ततोऽभयदानात् तान् सहायादियुक्तान् प्रवदन्ति प्रकृष्टान्वदन्ति ते च यदि अल्पहृल्लेखाः अल्पं बाह्यसुखं हृदि लेखेन प्रतिष्ठितं येषां ते बहिर्मुखाः कीर्त्यर्थमभयदानं कुर्युः ये पटवः कुशलाः कृत्स्नब्रह्म तन्मूलक एव तदर्थमेवाभयदानमिति निर्णयो येषाम् अभयदानं सर्वेषां संमतमित्यर्थः ॥२७॥
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा
।
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥२८॥
तपआदिभिर्यद्यत्फलमश्नुते तत् अभयदानस्य अभयदानेन प्राप्नोप्ति ॥२८॥
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्
।
स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ॥२९॥
एतदेव प्रशंसति - लोके इत्यादिना ॥२९॥
न भूतानामहिंसाया ज्यायान् धर्मोऽस्ति कश्चन
।
यस्मान्नोद्विजते भूतं जातु किंचित् कथंचन
।
सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने ॥३०॥
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव
।
न स धर्ममवाप्नोति इहलोके परत्र च ॥३१॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥३२॥
अभयदानस्य पार्यन्तिकं फलमाह - सर्वेति । सर्वेषां भूतानाम् आत्मभूतस्य प्रत्यगात्मनः 'आत्मा ह्येषां स भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिश्रुतिप्रसिद्धा निर्विकल्पकावस्था उक्ता सर्वभूतानि पश्यत इति 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्' इति श्रुतिप्रसिद्धसार्वज्ञ्यफला सविकल्पावस्था उक्ता अत एवास्य विभुत्वेन गगनस्येव गत्यभावाद्देवा अपि सन्धिरार्षः । मार्गे मुह्यन्ति पदं ब्रह्मलोकादि तद्रहितस्य पदैषिणो देवाः ॥३२॥
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्
।
ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले ॥३३॥
अभयदानश्रैष्ठ्यमुपसंहरति- दानमिति ॥३३॥
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः
।
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥३४॥
अस्यैव स्तुत्यर्थं काम्यं कर्म क्षयिष्णुत्वेन निन्दति - स एवेति । सुभगः स्वर्गी व्यापत्तिं नाशं कर्मणां कर्मफलानां स्वर्गादीनाम् ॥३४॥
अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले
।
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥३५॥
अकारणः कारणम् अनुष्ठानप्रयोजकं फलं तद्धीनः । सूक्ष्मः अभयदानात्मकः । भूतं ब्रह्म भव्यं स्वर्गादि उभयार्थमेव धर्माणां शमादीनां यज्ञादीनां च प्रवचनमध्ययनं वेदे कृतम् अतः स्थूलधर्माद्यज्ञादेरन्यः सूक्ष्मधर्मोऽस्तीति भावः ॥३५॥
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः
।
उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥३६॥
कुतः सूक्ष्मधर्मो दुर्ज्ञेयः यतो बहुनिह्ववः ’सप्तदश प्राजापत्यान् पशूनालभते सप्तदशः प्रजापतिः प्रजापतेराप्त्या' इत्यादिविधयः श्रेयःसाधनत्वेन हिंसामुपदिशन्तोऽहिंसाशास्त्रमुपमृद्गन्तीत्यर्थः । तर्हि तदप्रमाणमेवेत्याशङ्क्याह - उपलभ्येति । 'उक्षाणं वा वेहंत वाक्षदन्ते’ ’महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति श्रुतिस्मृतिविहितो मधुपर्के गवालंभ एक आचारः 'मा गामनागामदितिं वधिष्ठ' इति मन्त्रलिङ्गावगतो गवोत्सर्गविधिस्तद्विरुद्धोऽन्य आचारः । तत्राऽनागामिति विशेषणात् क्रत्वर्थहिंसाविधेरहिंसाविधिर्ज्यायानिति गम्यते । अनागस्त्वस्य प्राजापत्यपशुष्वपि तुल्यत्वादित्यास्तां तावत् ॥३६॥
ये च च्छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान्
।
वहन्ति महतो भारान् बध्नन्ति दमयन्ति च ॥३७॥
यदुक्तम् - लक्तपद्मकादीन्यपण्यानि विक्रीणासीति तत्राह- ये चेति । नस्तकान् नासागर्भान् वहन्ति वाहयन्ति ॥३७॥
हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे
।
मानुषा मानुषानेव दासभावेन भुञ्जते ॥३८॥
वधबन्धनिरोधेन कारयन्ति दिवानिशम्
।
आत्मनश्चापि जानाति यद्दुःखं वधबन्धने ॥३९॥
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्
।
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ॥४०॥
तानि जीवानि विक्रीय का मृतेषु विचारणा
।
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् ॥४१॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति
।
का तैले का घृते ब्रह्मन् मधुन्यप्यौषधेषु वा ॥४२॥
अदंशमशके देशे सुखसंवर्धितान्पशून्
।
तांश्च मातुः प्रियान् जानन्नाक्रम्य बहुधा नराः ॥४३॥
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान्
।
वाहसम्पीडिता धुर्याः सीदन्त्यविधिना परे ॥४४॥
अविधिना क्रत्वर्थापि हिंसा दोषावहा किमुताऽक्रत्वर्थेत्यर्थः ॥४४॥
न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा
।
कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ॥४५॥
एतदेवाह- न मन्ये इति ॥४५॥
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्
।
तथैवानडुहो युक्तान्समवेक्षस्व जाजले ॥४६॥
भूमिशयान्सर्पादीन् अयोमुखं काष्ठं लाङ्गलम् ॥४६॥
अघ्न्या इति गवां नाम क एता हन्तुमर्हति
।
महच्चकाराकुशलं वृषं गां वाऽऽलभेत्तु यः ॥४७॥
आप्यायध्वमघ्न्यादेव भागमिति श्रुतिप्रसिद्धमघ्न्या इति गवां नाम न हन्तुं शक्या अघ्न्या इति योगात् गवामवध्यत्वं श्रौतमित्यर्थः । चकार कृतवान् आलभेत् हिंस्यात् पृषध्रो गां लभन्निवेति पाठे गां गोजातीयां पृषध्रो बाणः लमन्स्पृशन्निव व्याघ्रभ्रान्त्या निसृष्टो बाणो गवि पतितो न तु गवि विसृष्ट इत्यर्थः ॥४७॥
ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन्
।
गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् ॥४८॥
अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते व्यथाम्
।
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् ॥४९॥
शतमिति । यथा इन्द्रस्य ब्रह्महत्यानार्यादिषु रजआदिरूपेण क्षिप्ता एवं नहुषकृता गोवृषहत्या सर्वभूतेष्वेकाधिकशतरोगरूपेण क्षिप्तेत्यर्थः ॥४९॥
ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले
।
भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः ॥५०॥
भ्रूणहमिति ।
'ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्
।
एकत्र मंत्रास्तिष्ठन्ति हविरेकत्र तिष्ठति॥'
इति। स्मृतेर्गवां ब्राह्मणेन सह समानवंशत्वात् गोघ्नोऽपि भ्रूणहैवेत्यर्थः ॥५०॥
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः
।
ऋषयो यतयः शान्तास्तपसा प्रत्यवेदयन् ॥५१॥
एवमुक्त्वापि तपसा ध्यानेन तं प्रत्यवेदयन् प्रतीपम् अवेदयन् हन्तारमपि धीपूर्वम् अहन्तारं नहुषं ध्यानबलेन ज्ञात्वा तथैव लोकेऽपि प्रमादात्कृतोऽपि गोवधो व्याधिरूपेण सर्वलोकापकारायाभूत् किमुत बुद्धिपूर्वं कृत इति ज्ञापितवन्त इत्यर्थः ॥५१॥
ईदृशानशिवान्घोरानाचारानिह जाजले
।
केवलाचरितत्वात्तु निपुणो नावबुद्ध्यसे ॥५२॥
केवलेति । मधुपर्कादौ गवाद्यालम्भः पूर्वैः कृत इत्यन्धपंरपरामात्रात्करोषि न तु तत्त्वबुद्ध्या ॥५२॥
कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत्
।
यो ह्यन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ॥५३॥
कारणात् हेतुतः येन भूतानामभयं स धर्म इति जानीयान्न गतानुगतिकः स्यादित्यर्थः ॥५३॥
समौ तावपि मे स्यातां न हि मेऽस्ति प्रियाप्रियम्
।
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥५४॥
प्रियाप्रियं हर्षविषादौ तौ हि हिंसायां प्रवर्तयतः तथा चापस्तंबः - 'हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति । धर्मातिक्रमान्नश्यति इति क्रुद्धो हन्यात्पितॄनपि' इति तस्मात्सर्वभूताभयप्रदानमेव महान् धर्म इत्याशयः ॥५४॥
उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते
।
सततं धर्मशीलैश्च निपुणेनोपलक्षितः ॥५५॥
सेव्यते धर्मः निपुणेन चक्षुषा उपलक्षितश्च ॥५५॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि तुलाधारजाजालिसंवादे द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥२६२॥
जाजलिरुवाच ।
अयं प्रवर्तितो धर्मस्तुलां धारयता त्वया
।
स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ॥१॥
ये च च्छिन्दन्ति वृषणानित्यादिना कृषिं दूषयता त्वया लोकद्वयं नाशितमित्याह- अयमिति ॥१॥
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि
।
पशुभिश्चौषधीभिश्च मा जीवन्ति वाणिज ॥२॥
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि
।
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम् ॥३॥
नास्तिक्यं हिंसात्मकत्वेन यज्ञनिन्दा ॥३॥
तुलाधार उवाच ।
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः
।
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥४॥
वृत्तिम् अहिंस्रां जीविकां वक्ष्यामि वच्मि । अस्मद्वृत्त्या वानप्रस्थवृत्त्या वन्येन वा जीविकायाः संभवात् किं हिंसात्मकया कृष्येति भावः । न च कृषिद्रोहेमात्रान्नास्तिक्यं यज्ञनिन्दा वा कृता भवतीत्याह - नास्मीति । तथापि यज्ञवित् 'यज्ञो वै विष्णुः' इति श्रुतेर्यो यज्ञभोक्तारं परमात्मानं वेद स दुर्लभः ॥४॥
नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः
।
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमिहास्थिताः ॥५॥
ब्राह्मणानां ब्रह्मविदां यज्ञः ब्रह्माग्नौ जीवहविषस्त्यागस्तस्मै योगायेत्यर्थः । स्वयज्ञं योगं क्षत्रयज्ञं हिंसामयं ज्योतिष्टोमादिम् ॥५॥
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः सम्प्रवर्तितम्
।
वेदवादानविज्ञाय सत्याभासमिवानृतम् ॥६॥
क्षत्रयज्ञं विशिनष्टि - लुब्धैरिति । हे ब्रह्मन् आस्तिकैः वेदप्रामाण्यवादिभिः वेदवादान् अर्थवादान् तेषां स्तुतिमात्रे तात्पर्यमित्यविज्ञाय सत्यवदाभासमानं स्वरूपतः अनृतम् आविद्यकब्राह्मण्याद्यध्यासमूलत्वात् लुब्धैः संप्रवर्तितम् । तथा च श्रुतिः - 'नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति' इति । अज्ञानेन आवृताः जल्प्या अर्थवादगिरा असुतृपः प्राणपोषकाः उक्थशासः कर्मानुशासनपराः ॥६॥
इदं देयमिदं देयमिति चायं प्रशस्यते
।
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ॥७॥
इदमिति । 'यज्ञ आयुष्मान् सदक्षिणाभिरायुष्मान् । प्राचीदिग्घोतुर्क्षिणाध्वर्योः' इत्यादिश्रुतिस्मृतिविहिता दक्षिणा देया । 'षट् देया द्वादश देयाः' इति तादृशश्च दक्षिणावानयं यज्ञः प्रशस्यते । अन्यथा अतो यज्ञादेव स्तैन्यं लुब्धस्य यजमानस्य सामर्थ्ये सति यथोक्तदाक्षिणामददतः प्रकर्षेण भवति । विकर्माणि तस्य कर्माणि विपरीतान्यश्रेयस्कराणि च भवन्ति । यथोक्तम् -
'प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते
।
स नाप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः॥'
इति । ’नास्ति यज्ञसमो रिपुः' इति च ॥७॥
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः
।
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा ॥८॥
एवं क्षत्रयज्ञं निन्दित्वा ब्राह्मणयज्ञस्वरूपमाह - यदेवेति । सुकृतं सुकृतार्जितं हव्यम् । तदेव त्रिविधमाह- नम इति । नमस्कारात्मकेन हविषेति सामानाधिकरण्यम् । 'यो नमसा स्वध्वरः' इति 'यज्ञो वै नम इति हि ब्राह्मणं भवति' इति श्रुतिस्मृतिभ्यां नमस्कारस्यैव यज्ञत्वावगतेः । तथा स्वाध्यायैर्हविषेति सम्बन्धः । 'वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चिन्तयेमाजनाँ अति' इति वेदस्यापि यज्ञत्वश्रुतेः । अर्वता अश्वेन ब्रह्मणा वेदेन वाऽग्ने त्वां चिन्तयेम जानीम । तथा चाश्वमेधतुल्यत्वं ब्रह्मयज्ञस्योक्तम् । आश्वलायनगृह्येऽपि 'आ ते अग्न ऋचा हविर्हृदा तष्टम्भरामसि । ते ते भवं तूक्षण ऋषभासो वशा उत' इत्येत एव उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति । तथा औषधैर्व्रीहियवादिभिः 'पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेतां तस्मादापुः पुरोडाशसत्रं लोक्यम्' इति च तयोर्हविष्ट्वावगमात् पुरुषाश्वगोऽजानां पशूनाममेध्यत्वश्रुतेश्च त एत उत्क्रान्तमेधा अमेध्याः पशव इति । तथा चैतैस्त्रिभिर्हविर्भिर्देवतापूजा यज्ञाख्या कर्तव्येति शास्त्रे वेदे निदर्शनं प्रत्यायकं वचनमस्ति तदप्युदाहृतमेव ॥८॥
पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम्
।
इष्टापूर्तादसाधूनां विगुणा जायते प्रजा ॥९॥
ननु 'इष्टान् भोगाह्नि वो देवा दास्यन्ते 'यज्ञभाविताः' इति भगवता यज्ञानां धनपुत्रादिप्राप्त्यर्थत्वोक्तेः किं तैर्मोक्षानुपयोगिभिरित्याशङ्क्याह- इष्टेति । इष्टम् इष्टिपशुसोमादि आपूर्तं तटाकारामादि असाधूनां कामनावतां यज्ञात्तादृगेव लुब्धमपत्यं भवति समेभ्यो रागद्वेषशून्येभ्य इष्टादिकर्तृभ्योऽनीप्सितापि तादृशी प्रजा जायत इत्यर्थः ॥९॥
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः
।
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः
।
यज्ञात्प्रजा प्रभवति नभसोंऽम्भ इवामलम् ॥१०॥
अन्त्यमर्धं व्याचष्टे - यजमाना इति । ऋत्विजो यजमानाश्च यथा आत्मानं सकाममकामं वा पश्यन्ति तथा उभयेषामपि प्रजा भवति । तथाहि - क्रत्वङ्गोपासनस्य ऋत्विक्कर्तृकस्यापि फलम् उभयगामि दृष्टम् । आत्मने वा यजमानाय वा यं कामं कामयते तमागायानीति ॥१०॥
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति
।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥११॥
यज्ञस्य प्रजाहेतुत्वे मनुवाक्यं प्रमाणयति - अग्नाविति ॥११॥
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे
।
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् ॥१२॥
तस्मात् यज्ञात् सुनिष्ठिता यज्ञमात्रनिष्ठा न तु कामपराः । पूर्वे विनाऽविफलाभिसन्धिं सर्वान्कामान्नान्तरीयकतया लेभिरे । 'यथोक्तमापस्तंबेन- 'तद्यथाम्रे फलार्थं निर्मिते च्छाया गन्ध इत्यनुत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते' इति । एतदेवाह- अकृष्टेति । यथा च कर्षणाभावान्न गवां भुवो भूमिशयानां वा हिंसा भवति अभवन्फलपुष्पवत्य इति शेषः । आशीर्भिर्जगतः शुभानुध्यानेन ॥१२॥
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन
।
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन ॥१३॥
न ते इति । यज्ञानां स्वाभाविकत्वादात्मनश्चानाधेयातिशयत्वान्न कर्मणः फलं कर्तरि पश्यन्ति । शंकमाना यज्ञे फलमस्ति न वेति संदिहानाः ॥१३॥
जायन्ते साधवो धूर्ता लुब्धा वित्तप्रयोजनाः
।
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा ॥१४॥
असाधवः धूर्ताः दाम्भिकाः । स स्मेत्यादिसार्धः । अप्रमाणेन कुतर्केण प्रमाणं वेदम् अशुभं कुर्यात् सः पापकृतां लोकान् गच्छेत् स्मेत्यन्वयः । स च सदैवाकृतप्रज्ञो भवति न कदाचिदपि मुच्यत इत्यर्थः ॥१४॥
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः
।
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥१५॥
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम्
।
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः ॥१६॥
एवं श्लोकत्रयेण फलाभिसन्धिशून्यं कर्म प्रशस्य दाम्भिककुतार्किकौ च निन्दितौ । इदानीं विद्वदभिसन्धिमाह - कर्तव्यमिति । कर्मेत्युत्तरश्लोकादपकृष्यते । कर्म कर्तव्यं नित्यमित्येव कर्तव्यम् । कुतो नित्यं यतः वै इति निश्चितं ब्राह्मणो वेदनिष्ठः भयं वोत्ति । कर्माकरणे इति शेषः । ब्राह्मणशब्दार्थमाह - ब्रह्मेति । लोके ऋत्विग्घविर्मन्त्राग्न्यादिरूपेण ब्रह्मैव वर्तते इति यो वेत्ति कर्तव्यतां कर्तुमर्हताम् आत्मनि च यो वर्णाध्यासपूर्वकं कर्तृत्वं च पुनर्नैव वेत्ति स ब्राह्मण इत्यर्थः । कर्तृत्वाभिमानं फलाभिलाषं च त्यक्त्वा कर्माङ्गेषु ब्रह्मदृष्टिं कुर्वाणा अशनपानादाविव स्वरसेनैव कर्माणि कुर्वन्तीत्यर्थः ॥१६॥
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम
।
सर्वभूतोपघातश्च फलभावे च संयमः ॥१७॥
यदुक्तमतः स्तैन्यं प्रभवतीति विगुणात्कर्मणो दोषोऽस्तीति तत्राह - विगुणमिति । एवंविदो ब्राह्मणस्य विगुणमपि कर्म ज्यायः । तथा चानुशुश्रुम वेदे - 'यदु चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्तीति' । अन्त्येष्ट्यभावेऽपि विदुषोऽर्चिरादिगतिरस्त्येव किमुत तत्राङ्गवैगुण्ये इति श्रुत्यर्थः । किं चैवंविदः कर्मणि सर्वैर्भूतैः श्वसूकरादिभिरमेध्यपशुभिरुपघातोऽपि ज्यायान् आत्मानुसन्धानहेतुत्वात् न तु मूढस्य साङ्गमपि कर्म ज्याय इति भावः । तथा फलभावे उपघातफलस्य इदं मे कर्मानेनोपघातेन नष्टमिति बुद्धिस्तत्सत्त्वे संयमः प्रायश्चित्तमुक्तं नान्यथा । चकारो हेत्वर्थः । तथा चाम्नातमैतरेयके - 'तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वाऽश्वो वा प्रतिपद्येत का तत्र प्रायश्चित्तिरिति नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हि ता भवन्तीति तच्चेन्मनसि कुर्वीत गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन् रजसो भानुमन्विहीत्याहवनीयात्सा तत्र प्रायश्चित्तिः' इति । अनः शकटम् एनत् एतत् अस्य यजमानस्य आत्मनि स्वरूपे हि यस्मात् ता तानि अनआदीनि सुपां सुलुगिति सुपो डादेशः ॥१७॥
सत्ययज्ञा दमयज्ञा अर्थलुब्धार्थतृप्तयः
।
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥१८॥
एवं विदुषः कर्मयज्ञं प्रशस्य यज्ञान्तरमप्याह - शिष्टाचारप्रदर्शनमुखेन- सत्येति । अर्थलुब्धाः परमपुरुषार्थे लोभवन्तः अर्थेषु धनेषु विषयेषु तृप्तिर्येषां ते वैराग्यतृप्ता इत्यर्थः । परमपुरुषार्थेनैव तृप्ता इति वा । उत्पन्नत्यागिनः श्वस्तनसंग्रहमकुर्वन्तः अमत्सरा इति च्छेदः ॥१८॥
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः
।
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि ॥१९॥
स्वयज्ञो योगः ब्राह्मं वेदं प्रणवम् ॥१९॥
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम्
।
तुष्यन्ति तृप्यतो देवास्तृप्तातृप्तस्य जाजले ॥२०॥
कथं तोषयन्तीत्यत आह- अखिलमिति । सर्वं ब्रह्म प्रणवः कार्यकारणोभयरूपत्वात् । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः' इति श्रुतेः । तत् अखिलं दैवतं सर्वदेवतात्मकं वाच्यवाचकयोरभेदात् । ओङ्कारः सर्वदैवत्य इत्यनुक्रमाणिकायां कात्यायनवचनाच्च । तच्च ब्रह्मणि ब्रह्मविदि स्थितम् अतस्तृप्यतोऽश्नतो ब्रह्मविदस्तृप्तस्य च सप्तम्यर्थे षष्ठी ब्रह्मविदि तृप्ते सति देवा विराडवयवभूता आदित्यादयस्तुष्यन्ति । तथा चोक्तं छान्दोग्ये - 'प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति' इत्यादि भुञ्जानोऽपि विद्वान्विश्वं तर्पयति किमुतायजमान इत्याशयः ॥२०॥
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन
।
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ॥२१॥
किंचन रसान्तरं नाभिनन्दति दृष्ट्वा न तुष्यति ॥२१॥
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा
।
आस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते ॥२२॥
ईदृक्प्रज्ञालाभे हेतुमाह- धर्मेति । धर्माधारा धर्मैकाश्रयाः धर्मसुखाः धर्मेणैव सुखं येषां कृत्स्नं कार्याकार्यं व्यवसितं निश्चितं यैः ईदृशा वयं स्मः । नः अम्माकं तत्त्वतः स्वरूपात् बुद्धौ चिदाभासात्मकात् सूत्रात्मकप्राणसंज्ञात् भूयः बहुतरं विश्वव्यापकत्वात् प्राण एव सर्वापेक्षया भूयान् ततोऽपि बहुतरः । प्राणाद्युत्पत्तिस्थानं भूतात्माऽस्तीति प्राज्ञः कर्मभिः शुद्धान्तःकरण ईक्षते आलोचयति ॥२२॥
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः
।
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम् ॥२३॥
तितीर्षवो यत्र गत्वा न शोचन्ति तत् ब्रह्मणः स्थानं सात्त्विकाः प्राप्नुवन्तीति द्वयोः सम्बन्धः । ज्ञानं शास्त्रजं विज्ञानमनुभवस्तद्वन्तः ॥२३॥
यत्र गत्वा न शोचन्ति न च च्यवन्ति व्यथन्ति च
।
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः ॥२४॥
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः
।
सतां वर्त्मानुवर्तन्ते यजन्ते चाविहिंसया ॥२५॥
नैवेति । ते तितीर्षवः तस्य नाम महद्यशः इति श्रुतेर्यशो ब्रह्म धनैर्धनसाध्यैः कर्मभिः सतां वर्त्म योगमनुवर्तन्ते यजन्ते चाविहिंसया ॥२५॥
वनस्पतीनोषधीयश्च फलं मूलं च ते विदुः
।
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः ॥२६॥
विदुः हविष्ट्वेन एतान् निर्धनान् ऋत्विजो न याजयन्ति यतः फलार्थिनो धनार्थिनः ॥२६॥
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः
।
परिनिष्ठतकर्माणः प्रजानुग्रहकाम्यया ॥२७॥
कथं तर्हि ते यज्ञं संपादयन्तीत्यत आह - स्वमेवेति । स्वम् आत्मानमेव अर्थं यज्ञोपकरणसामग्रीं संकल्पसमकालोत्थां कुर्वाणा मानसिकं यज्ञं चक्रुः । तथा चोपबृंहितं त्रिताख्यायिकया प्रागेव मन्त्रालिङ्गं च 'त्रितः कूपेऽवहितो देवान्हवत ऊतये' इति । ऊतये यज्ञसन्तत्यविच्छेदाय परिनिष्ठितं समापितं कर्म यैस्ते तथाभूता अपि लोकानुग्रहार्थं मानसैर्यज्ञैर्यजन्ते इत्यर्थः ॥२७॥
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान्
।
प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै
।
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥२८॥
यस्मादेवंविधान् लुब्धा ऋत्विजो न याजयन्ति ते च तान्नेच्छन्ति तस्मात्तानेवाशुभान् मोक्षेच्छारहितांस्ते लुब्धा ऋत्विजो याजयन्तीत्याह - तस्मादिति । इतरे तु साधवः स्वधर्माचरणेन परान् उपकुर्वन्ति न तु धर्मफलं कामयन्ते समबुद्धित्वादित्याह - प्रापयेयुरिति । इतीति । इति हेतोः सदसद्वृत्त्योर्विभिन्नत्वादहं सद्वृत्तमेवानुसरामीत्यर्थः ॥२८॥
यानि यज्ञेष्विहेज्यन्ति सदा प्राज्ञा द्विजर्षभाः
।
तेन ते देवयानेन पथा यान्ति महामुने ॥२९॥
यानीति । यानि मार्गदैवतानि धूमरात्र्यादीनि पुनरावृत्तिप्रदमार्गप्रदर्शकानि अर्चिरहरादीनि अपुनरावृत्तिप्रदमार्गप्रदर्शकानि वा । प्राज्ञाः कर्मठा उपासका वा इज्यन्ति यजन्ते तेन यजनेन 'तं यथायथोपासते तथेतः प्रेत्य भवन्ति' इतिश्रुतेस्ते यजमानाः यथाभावनं तेन तेन देवयानेन पथा मार्गेण अत्र पितृयाणोऽपि देवयानपदेनोच्यते ते पितृलोकं देवलोकं वा यान्ति । 'कर्मणा पितृलोको विद्यया देवलोकः' इति श्रुतेः ॥२९॥
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणः
।
उभौ तौ देवयानेन गच्छतो जाजले यथा ॥३०॥
तस्य देवयानेन गतस्यापि एकस्य कर्मठस्यावृत्तिरस्ति अथैतमेवाध्वानं पुनर्निवर्तन्त इति धूमादिमार्गेण गतानामावृत्तिश्रुतेः । मनीषिणः मनोरोधशीलस्योपासकस्य नास्त्यावृत्तिः । न च पुनरावर्तन्त इत्यर्चिरादिमार्गगतानामनावृत्तिश्रुतेः। उभौ कर्मठोपासकौ देवैः धूमाग्न्यादिभिरातिवाहिकैः सह यान्त्यस्मिन्निति देवयानस्तेन दिव्येन मार्गेण यद्यप्युभावपि गच्छतस्तथाऽपि संकल्पभेदात्तयोरावृत्त्यनावृत्ती भवत इति महद्वैलक्षण्यमित्याशयः ॥३०॥
सव्यं चैषामनडुहो युज्यन्ति च वहन्ति च
।
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः ॥३१॥
विदुषां सत्यसंकत्पानामैश्वर्यमाह- स्वयमिति । अनडुह इत्युपलक्षणम् । सर्वमेषां सौभर्यादीनामिव संकल्पेनैव सिद्ध्यतीत्यर्थः । उस्रा धेनवः ॥३१॥
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः
।
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति ॥३२॥
तेषां क्रतवोऽपि मानसिका एवेत्याहार्धेन - स्वयमिति । सिद्धसंकल्पत्वाद्यूपदक्षिणादीन्मनसैव सृजन्तीत्यर्थः । ततश्च किमित्यत आह - य इति । भावितात्मा योगाभ्यासशोधितचित्तः स मधुपर्के गाम् आलब्धुं हिंसितुमर्हति । 'न कर्मणा लिप्यते पापकेन' इति विदुषि दोषालेपश्रुतेः ॥३२॥
ओषधीभिस्तथा ब्रह्मन्यजेरंस्तेन तादृशाः
।
इति त्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते ॥३३॥
इतरस्तु पशुबीजादिवधात्प्रत्यवैत्येवेत्याह - न तादृशा इति । मूढाः न गवौषधादिभिर्यष्टुमर्हा इत्यर्थः । इतीति । यस्मात्त्यागिनामीदृङ्माहात्म्यं तस्माद्धेतोरित्यर्थः ॥३३॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥३४॥
संक्षेपेण त्यागिनो लक्षणमाह - निराशिषमिति ॥३४॥
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च
।
काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले
।
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥३५॥
कां गतिं याति 'तस्मादाहुरयजमानमददानमासुरो ते' इति श्रुतः । स आसुरः कामपि गतिं देवमार्गं पितृमार्गं वा न यातीत्यर्थः । कथं तर्हि गतिं यान्तीत्यत आहार्धेन - इदमिति । इदं निराशिषमिति श्लोकोक्तलक्षणं दैवतं दैवतमिव सेवनीयं कृत्वा यथा यथावत् यज्ञं परमात्मानम् । 'यज्ञो वै विष्णुः' इति श्रुतः । अवाप्नुयात् ॥३५॥
जाजलिरुवाच ।
न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि ते वाणिज कष्टमेतत्
।
पूर्वे पूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति ॥३६॥
मुनीनां स्वयं यूपानुपादाय 'यजन्ते स्वाप्तदाक्षिणैः' इत्युक्तरूपाणामात्मयाजिनाम् एतत्तत्त्वं रहस्यं न स्म शृणुमो न श्रुतवन्तो वयं यतः कष्टं गहनम् अतस्त्वां पृच्छामि अस्य योगधर्मस्य नावेक्षमाणाः न आलोचनं कृतवन्तः अवेक्षमाणा अपि अतः परमपि तं धर्मं न स्थापयन्ति लोके न प्रवर्तयन्ति रहस्यत्वादेव ॥३६॥
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम्
।
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम्
।
शंस ते तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥३७॥
यस्मिन्निति विभक्तिप्रतिरूपकमव्ययं यद्यर्थे एव एवं यद्येवं त्वदुक्तप्रकारेण आत्मतीर्थे आत्मैव तीर्थं यज्ञभूमिस्तत्र पशवः पशुप्रायाः मन्दमतयो मखं मानसिकं क्रतुं न प्राप्नुयुः । तत्प्राप्तर्बहुपुण्यसाध्यत्वात् । अथ तर्हि प्राप्नुयात् प्राप्नुयुः वचनव्यत्यय आर्षः । तत् कर्म ते तव वाक्यमिति शेषः ॥३७॥
तुलाधार उवाच ।
उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित्
।
आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः
।
बालैः शृङ्गेण पादेन सम्भरत्येव गौर्मखम् ॥३८॥
उतेति । एक उतशब्दोऽधिकविवक्षायाम् अन्योऽप्यर्थे । किञ्च येषां दाम्भिकानां यज्ञा अपि श्रद्धादिराहित्यात् अयज्ञा भवन्ति । ते क्वचित् अन्तर्बहिर्वा मखं नार्हन्ति । श्रद्दधानानां तु एकया गवैव बाह्यक्रतुसिद्धिरित्याह- आज्येनेति । दर्शपूर्णमासयोः श्रूयते - 'सर्वस्मै वा एतद्यज्ञाय गृह्यन्ते यद्ध्रुवायामाज्यम् । ऐन्द्रं पयोऽमावास्यायाम् ऐन्द्रं दध्यमावास्यायाम्’ । आधानप्रकारेण च 'द्वादशगृहीतेन स्रुचं पूरयित्वा सप्तवत्या पूर्णाहुतिं जुहोति' इति । आज्येनेति शेषः । ’सप्त ते अग्ने सामधः' इत्यृचा । विशेषत इति श्रौतमखो दर्शितः । तत्राशक्तानां तु बालैः गोपुच्छे पितृतर्पणादिना शृङ्गेण गोशृङ्गेणाभिषेकादिना पादेनेति पादरजसेत्यर्थः । एतेषां गोस्पर्शनादीनां च सद्यः पापनाशकत्वं परलोकप्रदत्वं च स्मृत्युक्तं दर्शितम् ॥३८॥
पत्नी चानेन विधिना प्रकरोति नियोजयन्
।
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥३९॥
ननु पत्न्यभावे विशेषवान् श्रौतो मखः कथं स्यादित्यत आह - पत्नीमिति । अनेन पशुहिंसारहितेन आज्यादिसाध्यक्रतुविधिना आज्यादिद्रव्यं देवतार्थे विनियोजयन् हेतौ शतृप्रत्ययः । विनियोगहेतोः पत्नीं च मानसीमेव करोति श्रद्धामिति शेषः । तस्मादपत्नीकोऽग्निहोत्रमाहरेत्तस्मादपत्नीकस्याधानं कुर्वन्तीत्युक्त्वा श्रद्धा पत्नी सत्यं यजमान इति बह्वृचब्राह्मणे अपत्नीकस्याग्निहोत्राधानादौ श्रद्धायाः पत्नीत्वदर्शनात् । इष्टं भावे क्तः । यागमेव दैवतवदत्यन्तं सेवनीयं कृत्वा यथा यथावत् यज्ञं विष्णुं प्राप्नुयात् ॥३९॥
पुरोडाशो हि सर्वेषां पशूनां मध्य उच्यते
।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ॥४०॥
तत्र यागविशेषं नियमयति - पुरोडाशो हीति । हिशब्देन त एत उत्क्रान्तमेधा अमेध्याः पशव इति पशूनाममेध्यत्वं तस्मादाहुः पुरोडाशसत्रं लोक्यमिति पुरोडाशसत्रप्राशस्त्यं च श्रुतिप्रसिद्धं द्योत्यते मेधो यज्ञस्तदर्हो मेध्यः । 'सर्वेषां वा एष पशूनां मेधेन यजते यः पुरोडाशेन यजते' इति श्रुतेः । मूले पशूनामिति न निर्द्धारणे षष्ठी । पशूनाममेध्यत्वात् पुरोडाशस्य चापशुत्वात् तेन पशुसम्बन्धी यो मेधस्तदर्हः पुरोडाश इति श्रुत्यनुसारेण स्मृत्यर्थो वर्णनीयः । एवं श्रद्धावतामविदुषां यज्ञमुक्त्वा विदुषां यज्ञमाह - सर्वा इति ॥४०॥
जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव
।
एतानीदृशकान्धर्मानाचरन्निह जाजले
।
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान् ॥४१॥
तीर्थं यज्ञभूमिः यत्रैवात्मसमाधानं तत्रैव सर्वाणि तीर्थानि सन्तीत्यर्थः । तीर्थमिति यज्ञाद्युपलक्षणम् ईदृशकान् अहिंस्रान् । कारणैः अर्थित्वसमर्थत्वविद्वत्त्वतारतम्यैः ॥४१॥
भीष्म उवाच।
एतानीदृशकान् धर्मांस्तुलाधारः प्रशंसति
।
उपपत्त्याभिसम्पन्नान्नित्यं सद्भिर्निषेवितान् ॥४२॥
उपपत्त्या युक्त्या ॥४२॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि तुलाधारजाजलिसंवादे त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥२६३॥
युधिष्ठिर उवाच।
कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा
।
सर्वथा कार्यदुर्गेऽस्मिन् भवान्नः परमो गुरुः ॥१॥
एवमहिंसाधर्मस्यावश्यानुष्ठेयत्वमुक्त्वा कदाचित्परनिर्बन्धाद्धिंसामुपस्थितां कालविलम्बादिना परिहरेदिति प्रश्नपूर्वकमाख्यायिकामुखेनाह - कथं कार्यमित्यादिना । कार्यदुर्गे गुर्वादिवचनावश्यकर्तव्ये हिंसामयत्वेन दुष्करे च सतीत्यर्थः ॥१॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ॥२॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
।
चिरकारी हि मेधावी नापराध्यति कर्मसु ॥३॥
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः
।
चिरेण सर्वकार्याणि विमृश्यार्थान्प्रपद्यते ॥४॥
चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन्
।
चिरं कार्याभिपत्तिं च चिरकारी तथोच्यते ॥५॥
चिरकारिनाम निर्वक्ति - चिरामिति । कार्याभिपत्तिः कार्याधिगमः तथा तेन हेतुना चिरकारीत्युच्यते ॥५॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते
।
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥६॥
गृह्यते उपादीयते लोकेऽनेनेति ग्रहणं नामधेयम् । अलस इति ग्रहणम् अलसग्रहणं प्राप्तः लाघवं नीचता जनेनोच्यत इति सम्बन्धः ॥६॥
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्
।
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥७॥
पित्रा गौतमेन इमां जननामहल्याम् ॥७॥
इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः
।
अविमृश्य महाभागो वनमेव जगाम सः ॥८॥
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः
।
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥९॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्
।
कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत् ॥१०॥
धर्मच्छले धर्मसंकटे ॥१०॥
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्
।
अस्वतन्त्रं च पुत्रत्वं किं तु मां नानुपीडयेत् ॥११॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्
।
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥१२॥
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्
।
युक्तक्षमावुभावेतौ नातिवर्तेत मां कथम् ॥१३॥
युक्तम् उचितम् । क्षमं सुखानुष्ठेयम् । इह तु द्वावपि धर्मौ परस्परविरुद्धौ मम युक्तक्षमौ कथमहमेतौ नातिवर्तेत माम् अतिशयेन नातिवर्ते किमेत्तिङव्ययघादिति तिङन्तात्तमप आम् ॥१३॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति
।
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥१४॥
गोत्रस्य नाम्नः ॥१४॥
सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः
।
विज्ञानं मे कथं न स्याद्द्वौ बुद्ध्ये चात्मसम्भवम् ॥१५॥
बुद्ध्ये जानामि संभवम् उत्पत्तिहेतुम् ॥१५॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि
।
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥१६॥
जातकर्मणि 'अश्मा भव परशुर्भव' इति प्राह अश्मेवाच्छेद्यो भव परशुरिव मदीयेषु शत्रुषु च्छेदको भवेति मन्त्रपदार्थः । उपकर्म औपनयनात्प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपतीति गृह्यविहितसर्वसंस्कारबहिर्भूतत्वादिदमुपकर्म तथा 'आत्मा वै पुत्रनामासि' इति प्राह पितुः पालयितुः एवं पितुराशिषमात्मभावं च दधतो गौरवं निश्चितमित्यर्थः ॥१६॥
गुरुरग्र्यः परो धर्मः पोषणाध्यापनान्वितः
।
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥१७॥
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता
।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥१८॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन
।
पातकान्यपि पूयन्ते पितुः शासनकारिणः ॥१९॥
भोग्ये भोज्ये प्रवचने सर्वं लोकनिदर्शने
।
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ॥२०॥
भोग्ये वस्त्रादौ भोज्येऽन्नादौ प्रवचने वेदाध्ययने लोकनिदर्शने लौकिकशिक्षायां भर्त्रेति गर्भाधानादिसर्वसंस्कारोपलक्षणम् ॥२०॥
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः
।
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ॥२१॥
आशिषस्ता भजन्त्येनं परुषं प्राह यत्पिता
।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति ॥२२॥
मुच्यते बन्धनात्पुष्पं फलं वृक्षात्प्रमुच्यते
।
क्लिश्यन्नपि सुतं स्नेहैः पिता पुत्रं न मुञ्चति ॥२३॥
एतद्विचिन्तितं तावत् पुत्रस्य पितृगौरवम्
।
पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥२४॥
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः
।
यस्य मे जननी हेतुः पावकस्य यथाऽरणिः ॥२५॥
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः
।
मातृलोभे सनाथत्वमनाथत्वं विपर्यये ॥२६॥
निवृत्तिः सुखं तत्कर्त्री ॥२६॥
न च शोचति नाप्येनं स्थाविर्यमपकर्षति
।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते ॥२७॥
हे अम्ब इत्युक्त्वा ॥२७॥
पुत्रपौत्रोपपन्नोऽपि जननीं यः समाश्रितः
।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥२८॥
द्विहायनवत् द्विवर्षवान् भवेत् ॥२८॥
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा
।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥२९॥
तदा स वृद्धो भवति तदा भवति दुःखितः
।
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥३०॥
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः
।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया ॥३१॥
कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता
।
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥३२॥
वीरसूः वीरपुत्रसूः ॥३२॥
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्
।
चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ॥३३॥
मातैव शुश्रूः ताम् अनन्तरमव्यवहितम् आत्मनो देहं सः चेतनावान् न हन्यात् स कः यस्य शिरः सुषिरं मेदो मज्जादिना रिक्तं शुष्कालावुवत् पथि पतितं तद्विपरीतमसुषिरं स्यात् ॥३३॥
दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल
।
तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥३४॥
प्राण उपस्थेन्द्रियं तत्संश्लेषे मैथुने इत्यर्थः । अभिसंधिः 'पुत्रो मे गौरो जायेत वेदमब्रुवीत सर्वमायुर' इत्यादिश्रुत्या प्रदर्शितोऽभिलाषः कृतो दंपतीभ्यामेव । तमभिलाषं माता पिता वा उभौ वा कुरुतस्तत्र भूतार्थो याथार्थ्यं मातर्येव तत्कर्तृत्वं स्थितं निष्ठितं पितरि तु सोऽभिलाषः पाक्षिको भवतीत्यर्थः ॥३४॥
माता जानाति यद्गोत्रं माता जानाति यस्य सः
।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥३५॥
भरणमात्रेण गर्भधारणमात्रेण सम्बन्धेन मातापुत्रे प्रीतिमाह्लादं स्नेहमासक्तिं च करोति । अतः प्रत्युपकाराय तस्यामपि प्रीतिस्नेहौ पुत्रेण कार्यावित्यर्थः । वस्तुतस्तु पितुरेव प्रजाः । यथोक्तं प्रागेव 'माता भस्त्रा पितुः पुत्रो येन जातः स एव सः' इति । भस्त्रा चर्मकोशः पितुराज्ञाऽनुल्लंघनीयेति भावः ॥३५॥
पाणिबन्धं स्वयं कृत्वा सह धर्ममुपेत्य च
।
यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याच्यताम् ॥३६॥
ननु 'न चैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा' इति श्रुतेः पितृत्वे एव संशयात्कथं तदाज्ञाऽनुल्लङ्घनीयेत्यत आह- पाणीति । 'धर्मे चार्थे च कामे च नातिचरामि' इति प्रतिज्ञापूर्वकं स्वयं पाणिग्रहं कृत्वा यदि पुरुषाः स्त्रियः परदारान् प्रतियास्यन्ति तर्हि ते याच्यतां प्रार्थनीयतां पूज्यतामिति यावत् । नार्हन्ति धर्मत्यागात् । अयमाशयः - य एवंविधः पिता सोऽज्ञातत्वादशिष्टत्वाच्च नानुरोध्यः मम तु पिता सतीपतिरनुरोध्य एवेति ॥३६॥
भरणाद्धि स्त्रियो भर्ता पात्या चैव स्त्रियः पतिः
।
गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥३७॥
किं तर्हि पित्राज्ञया माता हन्तव्येत्याशङ्क्याह - भरणादिति । पत्युर्भावः कर्म वा पात्यं पालयितृत्वं तस्मात् तथा च भार्यां पत्नीं च प्राणैर्वियोजयितुमिच्छतोऽस्य भर्तृत्वादिगुणशून्यस्योन्मत्तस्येव वचनान्मातरं न हिंसिष्ये इत्याशयः ॥३७॥
एवं स्त्री नापराध्नोति नर एवापराध्यति
।
व्युच्चरंश्च महादोषं नर एवापराध्यति ॥३८॥
ननु व्यभिचारिणी स्त्री हन्तव्यैवान्यथा कुलसंकरापत्तेरित्याशङ्क्याह - एवमिति । एवमपीत्यर्थः । व्युच्चरन् आचरन् महादोषं पारदार्यम् । यदि प्रार्थयितैव न स्यात्तर्हि नायं दोषः प्रसज्ज्येतातः प्रथमप्रवृत्ते पुंस्येवायं दोष इत्यर्थः ॥३८॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्
।
तस्यात्मना तु सदृशमात्मानं परमं ददौ ॥३९॥
ननु स्त्रिया अपि तदनुमोदनादपराधोऽस्त्येवेत्याशङ्क्याह - स्त्रिया हीति । तस्य आत्मना शरीरेण सदृशम् इन्द्रमालक्ष्येति शेषः । आत्मानं शरीरं परमं श्रेष्ठं ददौ । स्वपतिवेषेणागताय परस्मै पतिबुद्ध्या शरीरं प्रयच्छन्त्या मम मातुर्न व्यभिचारदोषोऽस्ति । गर्भानुत्पत्तेः कुलसंकराभावाच्च नेयं वध्येत्यर्थः ॥३९॥
नापराधोऽस्ति नारीणां नर एवापराध्यति
।
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥४०॥
उपसंहरति- नापराध इति । किं च सर्वेषु कार्येषु अपराध्यत्वात् अनुरोध्यत्वात् अल्पबलत्वेन सर्वथा पुरुषाधीनत्वात् । तथा च बलात्कारकृते व्यभिचारादौ स्त्रियो नापराध्यन्तीत्यर्थः ॥४०॥
यश्च नोक्तोऽथ निर्देशस्त्रिया मैथुनतृप्तये
।
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥४१॥
यश्च नेति । चनशब्दोऽप्यर्थे योऽपि मैथुनजन्यतृप्तये निर्देशो वचनम् उक्तम् इन्द्रं प्रतीति शेषः । एवं ह्युपाख्यायते त्वष्टुः पुत्रस्त्रिशिरा इन्द्रेण हतस्तद्धत्यायास्तृतीयांशः स्त्रीषु रजोरूपेण स्थापितो द्वौ वृक्षभूम्योर्निर्यासोषररूपौ स्थापितौ तदा स्त्रीभिर्वरः प्रार्थितः । काममाविजनितोः संभवामेति । अस्माकं जननपर्यन्तं पुरुषसंगोऽस्त्विति । सोऽयं निर्देशः स्त्रिया उक्तः तस्य तं स्मारयतः स्वहत्यांशनिधानेन तत्स्मरणप्रयोजकस्येन्द्रस्यैव व्यक्तमधर्मो न तु मम मातुः अत्र संशयो नास्ति । तस्मादिन्द्रस्यापराधान्मम मातुर्वधो न न्याय्य इति भावः ॥४१॥
एवं नारीं मातरं च गौरवे चाधिके स्थिताम्
।
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥४२॥
यावत्कृत्स्नां नारीम् अवध्यां जानीयुस्तत्रापि मातरं तत्रापि गौरवे पातिव्रत्यधर्मे स्थितम् । पशवोऽपि पशुप्राया अपि किमुत मादृशा इत्यर्थः ॥४२॥
देवतानां समावायमेकस्थं पितरं विदुः
।
मर्त्यानां देवातनां च स्नेहादभ्येति मातरम् ॥४३॥
समावायः समूहः । पितुस्तोषणेन स्वर्गप्राप्तिरित्यर्थः । मर्त्यानां देवतानां च समावायं मातरं स्नेहादभ्येतीति योजना । माता त्वदृष्टद्वारा लोकद्वयप्रदा इहलोकपालयित्री चेति भावः ॥४३॥
एवं विमृशतस्तस्य चिरकारितया बहु
।
दीर्घः कालो व्यतिक्रान्तस्ततोऽस्याभ्यागमत्पिता ॥४४॥
सान्त्वितः विश्रान्तिं प्रापितः प्रतिपादितः प्रापितः ॥४४॥
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः
।
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥४५॥
तेन तावता कालेन संस्था व्यतिक्रमं मरणानौचित्यम् ॥४५॥
सोऽब्रवीद्भृशसन्तप्तो दुःखेनाश्रूणि वर्तयन्
।
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥४६॥
श्रुतम् अध्ययनम् । धैर्यं क्रोधादिजये स्थैर्यम् । तयोः प्रसादेन ॥४६॥
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः
।
अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः ॥४७॥
स मया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः
।
अर्घ्यं पाद्यं यथान्यायं मया च प्रतिपादितः ॥४८॥
परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च
।
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः ॥४९॥
परवान् त्वयाऽहं नाथवानस्मीत्युक्तः । तेन सान्त्वनादिना तृप्तः सन् प्रणयिष्यति मयि प्रणयं करिष्यति । अत्रास्मिन्नर्थे चिन्तिते सति अकुशले इन्द्रलौल्येन स्त्रीदूषणे जाते विषये स्त्रिया अहल्याया व्यतिक्रमो नास्ति ॥४९॥
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः
।
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥५०॥
अध्वग इति स्वर्गमार्गेण गच्छता इन्द्रेणाहल्यां दृष्ट्वा मोहं प्राप्तेनैतत्कृतमिति सूचितम् । धर्मस्य योगधर्मसम्बन्धि प्रमादोऽनवधानता । इन्द्रस्यानपराधत्वं द्वेषराहित्यान्मुनिनेहोक्तं न तु व्यवहारतः ॥५०॥
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः
।
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥५१॥
तेन प्रमादेन हेतुना ऊर्ध्वरेतसः मुनयः ॥५१॥
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च वासिताम्
।
भर्तव्यत्वेन भार्यां च को न मां तारयिष्यति ॥५२॥
अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः
।
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥५३॥
अन्तरेण प्रमादेन ॥५३॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
।
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥५४॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया
।
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥५५॥
सहजं चिरकारित्वमतिप्रज्ञतया तव
।
सफलं तत्तथा तेऽस्तु भवाद्य चिरकारिकः ॥५६॥
चिरमाशंसितो मात्रा चिरं गर्भेण धारितः
।
सफलं चिरकारित्वं कुरु त्वं चिरकारिक ॥५७॥
चिरायते च संतापाच्चिरं स्वपिति वारितः
।
आवयोश्चिरसंतापादवेक्ष्य चिरकारिक ॥५८॥
एवं स दुःखितो राजन्महर्षिगौतमस्तदा
।
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥५९॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः
।
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥६०॥
गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि
।
पत्नीं चैव निराकारां परामभ्यागमन्मुदम् ॥६१॥
निराकारां लज्जया पाषाणभूताम् । पुराणान्तरे गौतमशापेनैव पाषाणभूतामिति स्मर्यते ॥६१॥
न हि सा तेन सम्भेदं पत्नी नीता महात्मना
।
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥६२॥
हन्या इति समादेशः शस्त्रपाणै सुते स्थिते
।
विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु ॥६३॥
बुद्धिशासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्
।
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥६४॥
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि
।
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥६५॥
एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः
।
अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् ॥६६॥
चिरकारिक भद्रं ते चिरकारी चिरं भव
।
चिराय यदि ते सौम्य चिरमस्मि न दुःखितः ॥६७॥
गाथाश्चाप्यब्रवीद्विद्वान् गौतमो मुनिसत्तमः
।
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः ॥६८॥
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्
।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥६९॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि
।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥७०॥
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च
।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥७१॥
एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत
।
कर्मणा तेन कौरव्य चिरकारितया तथा ॥७२॥
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः
।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥७३॥
चिरं धारयते रोष चिरं कर्म नियच्छति
।
पश्चात्तापकरं कर्म न किंचिदुपपद्यते ॥७४॥
चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्
।
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम् ॥७५॥
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च
।
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥७६॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्
।
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते ॥७७॥
उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः
।
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥७८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चिरकारिकोपाख्याने षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥२६६॥
युधिष्ठिर उवाच।
अविरोधेन भूतानां योगः षाड्गुण्यकारकः
।
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥१॥
वृत्तमनूद्य पृच्छति - अविरोधेनेति । राज्ञामप्यहिंसाप्रधानः षाड्गुण्यकारकः षट् गुणा ऐश्वर्यादयो यैर्भगवच्छब्दभाग्भवति । उत्पत्त्यादयः प्रकृतिगुणा तेषां समूहः षाड्गुण्यं तस्य कारको हेतुर्योग उक्त इति शेषः ।
'ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः
।
वैराग्यस्य च धर्मस्य षण्णां भग इतीङ्गना
।
उत्पत्तिं च विनाशं च भूतानामागतिं गतिम्
।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति'
॥१॥
गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः
।
अदूरसम्प्रस्थितयोः किंस्विच्छ्रेयः पितामह ॥२॥
उभयभाक्त्वमेव विब्रुणोति - गार्हस्थ्यस्येति । गार्हस्थ्ये पञ्चसूना अनिवार्याः । योगे तु हिंसा सर्वात्मना त्याज्या । अदूरे समीपे एककार्यार्थत्वेन संप्रस्थितयोः प्रवृत्तयोः ।
'न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः
।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते
।
प्राणायामैर्दहेदेनो धारणाभिश्च किल्विषान्
।
प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान्गुणान्
।
'
इति स्मृतिभ्यां गुणान् जीवत्वादीन् अतस्तुल्यार्थयोरेतयोर्मध्ये किंस्विच्छ्रेयः॥२॥
भीष्म उवाच।
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ
।
उभौ महाफलौ तौ तु सद्भिराचरितावुभौ ॥३॥
उभौ गार्हस्थ्ययोगधर्मौ ॥३॥
अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः
।
शृणुष्वैकमनाः पार्थ च्छिन्नधर्मार्थसंशयम् ॥४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥५॥
अत्रेति । अक्षराधिक्यमार्षम् ॥५॥
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्
।
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥६॥
'तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्ते' इति श्रुतिमनुपश्यंस्त्वष्टुस्त्वष्ट्रे गृहागताय मधुपर्के गामालेभे वेहतं वंध्यां गां क्षदन्ते हिंसन्ति ॥६॥
तां नियुक्तामदीनात्मा सत्त्वस्थः संयमे रतः
।
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा ॥७॥
नियुक्तां हन्तुं पुरस्कृतां दृष्ट्वा वेदा इत्यब्रवीदिति द्वयोः सम्बन्धः । दृष्ट्वेत्यस्याध्याहारश्च ॥७॥
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्
।
सतीमशिथिला सत्यां वेदा३ इत्यब्रवीत् सकृत् ॥८॥
वेदा इति गर्हायां प्लुतिः ॥८॥
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्
।
हंहो वेदा३ यदि मता धर्माः केनापरे मताः ॥९॥
प्रविश्य त्योगबलेनेत्यर्थः । यतिं कपिलमुनिं हं हो इति विस्मये वेदा यदि मताः गर्हितत्वेन संमताः अत्रापि गर्हार्थायाः प्लुतेरनुवादः । अपरे हिंसाशून्या धर्माः केन मताः प्रामाण्यमप्रामाण्यं वा कर्मज्ञानकाण्डयोस्तुल्यमतो नान्यतरन्निन्देत्प्रशंसेद्वेति भावः ॥९॥
तपस्विनो धृतिमन्तः श्रुतिविज्ञानचक्षुषः
।
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥१०॥
तपस्विनः आर्षं मन्यन्ते किं विदितात्मनः नित्यज्ञानवतः परमेश्वरस्य व्याहृतम् ’अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः' इति श्रुतेर्निःश्वासवदयत्नोच्चारितं च वेदम् अतोऽत्रैकमप्यक्षरमप्रमाणीकर्तुमशक्यमित्यर्थः ॥१०॥
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
।
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वतः ॥११॥
ननु 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते' इति श्रुत्या सतां मुक्तिम् असतां बन्धं च दातुं विवक्षाभेदेन ज्ञानकर्मकाण्डे प्रवृत्ते इत्याशङ्क्याह - तस्येति । तस्य ईश्वरस्य गततृष्णस्य फलाशाहीनस्य विज्वरस्य द्वेषहीनस्य निराशिषः नीरागस्य निरारम्भस्य अवाप्तसकलकामत्वात् न वैषम्यविवक्षया वेदवचनं संभवतीत्यर्थः ॥११॥
कपिल उवाच ।
नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित्
।
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥१२॥
नाहमिति । विवक्ष्यामि विषमान् वक्ष्यामि ॥१२॥
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति
।
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥१३॥
एकार्थत्वमाह - गच्छत्येवेति । परित्यागी संन्यासी गच्छत्येव परं पदमिति शेषः ॥१३॥
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः
।
एषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम् ॥१४॥
देवयानाः देवम् आत्मानं यान्त्येभिरिति तथाभूताश्चत्वार आश्रमाः । एषां ज्यायस्त्वकनीयस्त्वरूपं बलाबलं फलेषु निमित्तेषूक्तं यथोक्तम् -
'संन्यासी मोक्षमाप्नोति ब्रह्मलोकं वनी तथा
।
स्वर्लोकमृषिलोकं च गृहस्थब्रह्मचारिणौ
।
'
इति॥१४॥
एवं विदित्वा सर्वार्थानारभेतेति वैदिकम्
।
नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥१५॥
आरभेत सर्वार्थान् स्वर्गादिप्रदान् यज्ञादीन् इति वैदिकं मतं यथोक्तमापस्तंबेन त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयः कपालपत्नीसंबद्धानि उच्चैर्नीचः कार्यमिति तैर्विरुद्ध आचारोऽप्रमाण्यमिति मन्यन्ते । अथापि प्रजापतेर्वचनम् -
'त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम्॥ य एतानि कुर्वते तैरित्सहस्मो रजोभूता ध्वंसतेऽन्यत्प्रशंसन्॥'
इति श्रुतिश्च भस्मान्तं शरीरमिति आमरणमग्निसाध्यकर्मानुष्ठानं कर्तव्यमिति दर्शयति । तथाऽन्यत्र प्रकरणान्तरे नारभेत कर्माणीति शेषः । तथा च वार्तिककारोदाहृतं भाल्लविशाखावचनम् -
'त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्
।
त्यजतैव हि विज्ञेयं त्यक्तुः प्रत्यक्परं पदम्॥'
इति। नैष्ठिकीत्यनेनैतस्याः सिद्धान्तत्वं दर्शितम् ॥१५॥
अनारम्भे ह्यदोषः स्यादाराम्भे दोष उत्तमः
।
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥१६॥
तदेवाहार्धेन - अनारम्भे इति । अत्र शङ्कतेऽर्धेन- एवमिति । कर्मतत्त्यागविध्योर्बलाबलं दुर्ज्ञेयम् । उभयत्र निन्दास्तुत्योस्तुल्यत्वादिति भावः ॥१६॥
यद्यत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम्
।
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥१७॥
एतद्दूषयति - यद्यत्रेति । अहिंसायाः परम् अहिंसातोऽन्यत् यत्किञ्चित् हिंसाशास्त्रम् आगमशास्त्रेभ्यः ऋते यदि प्रत्यक्षं दृष्टफलं मतं युक्त्या यदि वा तत् पश्यसि अनुभवेन तर्हि ब्रूहि । अयं भावः - योगफलं प्रत्यक्षं यथोक्तमापस्तम्बेन- अथापि संकल्पसिद्धयो भवन्ति यथावर्षं प्रजादानं दूरे दर्शनं मनोजवता यच्चान्यदेवं युक्तं तस्मात् श्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टानाश्रमानेतानेके ब्रुवत इति। अनुमानगम्यं च तथाहि नीहारेण प्रावृता अनृतेन हि प्रत्यूढा इत्यादिश्रुतिभ्यो रज्जूरगस्येव बन्धस्य मिथ्याज्ञानकार्यत्वं सिद्धम् । ततो ज्ञानमात्रापनोद्यत्वं युक्तम् । न हि रज्जूरगभीतस्य भयनिवृत्तिर्गङ्गास्नानसहस्रेणापि भवत्यधिष्ठानसाक्षात्कारजनिततद्बाधमन्तरेण । स्मृतिश्च -
'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः
।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥'
इति। तथा च यथा प्रत्यक्षानुमानागमगम्यं तत्त्वज्ञानफलं कर्मफलं तु श्रुत्यैकगम्यं न तत्र प्रत्यक्षानुमाने संक्रमत इति कर्मतत्त्यागविध्योर्बलाबलं सुज्ञेयमेव । यत्तु आपस्तंबेनोक्तम् - तत्र ये पुण्यकृतस्तेषां प्रकृतयः पराज्वलन्त्य उपलभ्यन्त इति तारारूपिणां कर्मकृतामपि प्रत्यक्षं ज्योतिर्मयत्वमिति तदपि श्रौतमेव न हि सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणीति श्रुतिमन्तरेण तेषां चेतनत्वमध्यवसातुं शक्यम् अचेतनत्वं तु जैमिनिसंमतमित्यास्तां तावत् । यत्तु तेनैव स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्तवन्तं लोकं जयति । सङ्कल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणामिति ज्ञानफलस्य प्रत्यक्षत्वमभ्युपेत्यापि तत्साधकाश्रमस्य ज्यैष्ठ्यं निषिद्धम् । यच्च गौतमेन - ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येति भस्मान्तं शरीरं कुटुम्बे शुचौ देशे स्वाध्यायमधीयान इति प्रत्यक्षश्रुतिमूलकतया गार्हस्थ्यस्य ज्यैष्ठ्यमुक्तम् । तत्सर्वं 'न हि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुम्' इति न्यायेन ज्ञानानधिकारिणामाश्रमधर्मेषु श्रद्धोत्पादनार्थमिति द्रष्टव्यमिति ॥१७॥
स्यूमरश्मिरुवाच ।
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः
।
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥१८॥
अत्र प्रत्यवतिष्ठते - स्वर्गेति । यागविधौ उद्देश्यस्य स्वर्गस्य स्वरूपाविवक्षायां कृत्स्नं शास्त्रमनर्थकं स्यादित्यर्थः । प्रतायते प्रतन्यते ॥१८॥
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये
।
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः ॥१९॥
ननु स्वर्गो नास्तीति न ब्रूमः किं तु हिंसायुक्तं तत्साधनं निन्दाम इत्याशङ्क्य प्राणविद्यायां ’स होवाच किं मेऽन्नं भविष्यतीति यत्किचिदिदमाश्वभ्य आशकुनिभ्य' इति श्रुतिं प्रत्यक्षं च सर्वस्यान्नत्वे प्रमाणयति- अजश्चेति सार्धेन । मेषो मुण्डशिराः ग्राम्या ओषधयो यवाद्याः यस्य यदन्नं तद्भक्षणे तस्य दोषो नास्तीति भावः ॥१९॥
तथैवान्नं ह्यहरहः सायंप्रातर्निरूप्यते
।
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥२०॥
यदैवं तदा श्रौते कर्मणि हिंसादोषः कैमुतिकन्यायनिरस्त इत्याशयेनाह - पशव इति ॥२०॥
एतानि सह यज्ञेन प्रजापतिकल्पयत्
।
तेन प्रजापतिर्देवान् यज्ञेनायजत प्रभुः ॥२१॥
तदन्योन्यवराः सर्वे प्राणिनः सप्त सप्तधा
।
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् ॥२२॥
अन्योन्यवराः परस्परापेक्षया श्रेष्ठाः सप्तधा सप्तधेति धाञ आवृत्तिः ते च -
'गौरजो मनुजोऽश्वश्च मेषाश्वतरगर्दभाः
।
ग्राम्याः सप्त समाख्याताः पशवः साधुवेदिभिः
।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा
।
ऋक्षाश्च वानराश्चैव सप्तारण्याः प्रकीर्तिताः
।
'
इति । उत्तममिति संज्ञा संजाता यस्य 'पुरुषो वाव सुकृतम्' इति श्रुतेरुत्तमसंज्ञितं पुरुषाख्यमपि यज्ञेषूपाकृतं विनियुक्तं 'पुरुषं वै देवाः पशुमालभन्ते' इति वेदाः प्राहुस्तच्च शिष्टैरादृतम् । 'पुरुषो ह वै नारायणोऽकामयतात्यतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति । स एतं पुरुषमेधं पञ्चरात्रं यज्ञक्रतुमपश्यत्' इति श्रुतेः पूर्वैर्ब्रह्मादिभिः पूर्वतरैर्नारायणादिभिः यत्र सर्वोत्कृष्टः पुरुषोऽपि श्रुतित आचाराच्च हिंस्यते तत्र का कथा इतरेषामिति भावः सार्धः ॥२२॥
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा
।
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥२३॥
स्वां शक्तिं विद्वान् मयेदम् अजस्याश्वस्य पुरुषस्य वा आलंभनं कर्तुं शक्यमिति जानन् कः पुमान् आत्मनः जीवान्न विचिन्वीत न विवेचयेत् आलंभार्थमिति शेषः । किं तु सर्वोऽप्यास्तिकः स्वस्य शक्यं क्रतुं कुर्यादेवेत्यर्थः ॥२३॥
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह
।
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्ततो मखात् ॥२४॥
न चात्र हिंसादोषोऽस्ति प्रत्युत स्वर्गार्थिना पश्वादीनां 'न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगोभिः' इति मन्त्रवर्णादयमुपकार एवेत्याह - पशवश्चेति । मखात् मखं विना स्वर्गस्ततो विस्तृतो नास्ति जपादिजः स्वर्गः स्वल्प इति भावः । न रिष्यसि न हिंस्यसे देवाँ इत् देवानेव ॥२४॥
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि
।
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥२५॥
ऋचो यजूंषि सामानि यजमानश्च षोडश
।
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ॥२६॥
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः
।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा ॥२७॥
यज्ञो मूलम् । लोकस्थितेरिति शेषः । श्रुतिर्यज्ञाद्भवति पर्जन्य इत्यादिर्भगवद्वचनरूपा । वेदस्यापीश्वरकर्तृकत्वाभ्युपगमेन भगवद्गीतानामुपनिषदामपि समानकर्तृकत्वेन श्रुतित्वौचित्यात् । शकृता गोमयेन आमिक्षया दधिमिश्रेण पयसा त्वचा आनडुहे चर्मणि निर्वापादेर्विधानात् शेषं व्याख्यातम् ॥२७॥
वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम्
।
एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ॥२८॥
यज्ञं वहन्ति सम्भूय सहर्त्विग्भिः सदक्षिणैः
।
संहृत्यैतानि सर्वाणि यज्ञं निवर्तयन्त्युत ॥२९॥
संहृत्य गुणोपसंहारन्यायेनैकीकृत्य आरभेतैव यज्ञमिति भावः ॥२९॥
यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः
।
एवं पूर्वतराः सर्वे प्रवृत्ताश्चैव मानवाः ॥३०॥
न हिनस्ति नारभते नाभिद्रुह्यति किंचन
।
यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया ॥३१॥
हिंसारंभयोरुपपादितमदोषत्वमुपसंहरति - नेति । फलार्थिनामेव हिंसारंभौ दोषावहौ न त्वफलार्थिनां ममेदमावश्यकमिति बुद्ध्या यज्ञमनुतिष्ठतामित्यर्थः ॥३१॥
यज्ञाङ्गान्यपि चैतानि यज्ञोक्तान्यनुपूर्वशः
।
विधिना विधियुक्तानि धारयन्ति परस्परम् ॥३२॥
यज्ञाङ्गानि ओषध्यादीनि यज्ञोक्तानि यूपदार्वादिवत्समासः विधियुक्तानि अलौकिकानि यूपाहवनीयादीनि विधिना उच्छ्रयणप्रणयनादिरूपेण धारयन्ति स्वस्वकार्ये परस्परमुपकुर्वन्तीत्यर्थः ॥३२॥
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः
।
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥३३॥
ब्राह्मणस्य क्रियायां प्रवर्तकस्य वाक्यस्य ॥३३॥
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च
।
अनुयज्ञं जगत्सर्वं यज्ञश्चानुजगत्सदा ॥३४॥
ब्राह्मणप्रभवः वेदविप्रोद्भवः नपुंसकमनपुंसकेनेत्येकशेषपूर्वकोऽयं समासः ॥३४॥
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट्
।
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥३५॥
ब्रह्मणो वेदस्य तस्मात् प्रणवपूर्विका यज्ञादिक्रिया कर्तव्येत्यर्थः ॥३५॥
न तस्य त्रिषु लोकेषु परलोकभयं विदुः
।
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥३६॥
ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः
।
यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः ॥३७॥
स्तोभाः सामपूरकाक्षराणि हाऽऽयि हाऽऽवु इत्यादीनि ॥३७॥
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज
।
यच्चेतरैर्महायज्ञैर्वेद तद्भगवान् पुनः ॥३८॥
मानुषाद्दैव्यमुपैमीति मन्त्रवर्णादाधानकृदिहैव देवभावं प्राप्नोति सोमं सुनोति भवति द्युमाँअहेति मन्त्रवर्णात् सोमं सुन्वन्तः स्वर्गाधिपत्यं प्राप्नुवन्तीत्येवमादि तद्भगवान् ज्ञानैश्वर्यसंपन्नतमः भवानेव वेद ॥३८॥
तस्माद्ब्रह्मन्यजेच्चैव याजयेच्चाविचारयन्
।
यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ॥३९॥
स्वर्गविधिना स्वर्गप्रदज्योतिष्टोमादिना यतः प्रेत्य महत्स्वर्गफलं भवति ॥३९॥
नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः
।
वेदवादविदश्चैव प्रमाणमुभयं तदा ॥४०॥
वेदवादविदः यो वेदगतानर्थवादान्वेद तस्योभयं फलसमर्पकमर्थवादद्वयं प्रमाणं स्तुत्यर्थत्वेनेत्यर्थः । यथा 'यस्य पर्णमयीजुहूर्भवति न स पापं श्लोकं शृणोति' इति फलं क्रत्वङ्गजुहूसम्बन्धादविवक्षितस्वार्थं किं तु लक्षणया स्तुतिमात्रपरम् । एवं सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीत्यात्मज्ञानफलमपि ज्ञेयम् । ननु लोकवेदसाधारणस्य कर्त्रात्मनो जुहूवदव्यभिचरितक्रतुसम्बन्धाभावात् कथं तज्ज्ञानफलस्य जुहूफलवदर्थवादत्वम् उच्यते देहातिरिक्त आत्मा वेदैकगम्यो यूपाहवनीयादिवदलौकिकोऽस्ति । तस्य च क्रतुसम्बन्धो न व्यभिचरति आमुष्मिकव्यवहारमात्रस्य तत्सापेक्षत्वात् । ऐहिकव्यवहारे च तदनपेक्षणाद्देहात्मवादेऽपि तदुपपत्तेः । यद्यपि 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यादिविशेषणमात्रस्य पत्न्यादिवल्लोकवेदसाधारणत्वेऽपि फलभोक्तुर्न तथात्वमस्ति । तस्माज्जुहूवत्स्वर्गकामस्यापि अव्यभिचरितक्रतुसम्बन्धात् साप्तदश्यादिवदनारभ्याधीतमपि तज्ज्ञानं क्रतुप्रवेशं लभते तत्फलस्य चार्थवादत्वमिति युक्तमुत्पश्यामः । तथा च सूत्रम् - 'शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः' इति । यत्तु विद्याफलं प्रत्यक्षमिति तत्राप्युक्तमापस्तम्बेन - बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धं बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेतेति बुद्धे आत्मनि ज्ञाते क्षेमप्रापणमानन्दप्राप्तिर्नास्ति ज्ञातात्मतत्त्वस्यापि दुःखोपलंभात् अयुक्तं च तत् रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति कर्ममार्गादन्यज्ज्ञानं प्रशंसतो निन्दाश्रवणात् । तस्माज्जुह्वात्मज्ञानफलयोः समानमर्थवादत्वमिति पूर्वः पक्षः ॥४०॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि गोकपिलीये अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥२६८॥
कपिल उवाच ।
एतावदनुपश्यन्ति यतयो यान्ति मार्गगाः
।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥१॥
अत्रोत्तरमाह - एतावदिति । यतयो यमनियमादिमन्तो यान्ति प्रकरणादात्मानं प्राप्नुवन्ति । ते मार्गगाः प्रागेव शुद्धात्मप्राप्तेर्मार्गे सविशेषावस्थायां स्थिता एतावद्दृश्यत्वेन परिच्छिन्नं ब्रह्माण्डं पार्यन्तिकं कर्मफलम् अनुपश्यन्ति गुरुशास्त्रोपदेशमनु साक्षात्कुर्वन्ति तथा च श्रुतिः - 'ब्रह्मविदाप्नोति परम्' इति महत्फलम् उपक्षिप्य 'यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्कामान् सह' इति शरीरगुहास्थं सत्यादिलक्षणं ब्रह्म यो वेद सः परमे व्योमन्नव्याकृतावस्थां गतः सर्वकामभाग्भवतीति च दर्शयति । ननु फलश्रुतेरर्थवादत्वमुक्तमित्याशङ्क्याह - नैषामिति । एषां यतीनां सर्वेषु लोकेषु भोग्यपदार्थेषु कश्चिद्व्यतिक्रमः मिथ्यासंकल्पत्वं नास्ति । 'संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' । 'संकल्पादेव तु तच्छ्रुतेः' इति श्रुतिन्यायाभ्याम् । तथाहि । छान्दोग्ये- 'सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्' इति प्रजापतिना आत्मज्ञानफलमुपन्यस्तं तदेवोद्दिश्य इन्द्रविरोचनौ प्रजापतौ ब्रह्मचर्यमूषतुः । 'तं वा एतं देवा आत्मानमुपासते । तस्मात्तेषां सर्वे च लोकाः सर्वे च कामा आप्ताः' इति परकृतिसरूपार्थवादेन सिद्धवन्निर्दिष्टम् । एतस्याविवक्षायां कृत्स्नं कर्मफलमप्यविवक्षितं स्यात् । न्यायसाम्यात् । प्राकरणिकफलत्वाच्च । ननूक्तं देहादन्यस्य कर्त्रात्मनो जुह्वा इव नित्यः क्रतुसम्बन्ध इति । सत्यम् । तथापि अन्यत्र धर्मादन्यत्राधर्मात् 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति विदितवेदान्तवेद्यस्य धर्माद्यतीतस्याशनायादिरहितस्य आत्मनो ज्ञानं न कर्माङ्गत्वं प्रतिपद्यते । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति तदधिगमे द्वैतोपमर्दश्रवणात् । तस्मात् नात्मज्ञानफलस्यार्थवादत्वं पर्णमयीदृष्टान्तेन युज्यते । तथा च सूत्रम् - 'अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्' इति ॥१॥
निर्द्वन्द्वां निर्नमस्कारा निराशीर्बधना बुधाः
।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥२॥
यत्तु बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेतेत्यार्षं वचनमुदाहृतं तत्राह - निर्द्वन्द्वा इति । निर्द्वन्द्वाः शीतोष्णादिजहर्षविषादशून्याः अत एव निर्नमस्काराः न कञ्चिन्नमस्कुर्वन्ति । यतः निराशीर्बन्धनाः प्रार्थनापाशशून्याः यतः पापेभ्यो वासनाहेतुभ्यो विमुक्ताः शुचयः स्वभावशुद्धाः अमला आगन्तुकदोषशून्याः यत एवंविधा भरतसंवर्तादयो बहव उपलभ्यन्तेऽतः आपस्तम्बोक्तिर्ज्ञानानधिकारिणां कर्मणि श्रद्धोत्पादनार्था । अन्यथा पूर्वोदाहृतेन तदीयेन ज्ञानफलाभ्युपगमवचनेन विरोधः स्यात् । एतेन गौतमोक्तिरपि ऐकाश्रम्यपरा व्याख्याता वेदितव्या ॥२॥
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः
।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥३॥
विशोका नष्टरजसस्तेषां लोकाः सनातनाः
।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥४॥
लोकाः लोक्यन्त इति लोकाः काम्यमाना विषयाः सनातनाः नित्यसिद्धाः 'त एते सत्याः कामा अनृतापिधानाः' इति श्रुतेः । अनृतं देहादितादात्म्याध्यासः गार्हस्थ्ये असत्यस्वर्गादिप्रदकर्माधिकारनिमित्ते किमपि प्रयोजनं नास्ति न हि प्राप्तसाम्राज्यो भिक्षामन्विच्छति ॥४॥
स्यूमरश्मिरुवाच ।
यद्येषा परमा काष्ठा यद्येषा परमा गतिः
।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥५॥
ननु तथापि कैकेयजनकादीनां गार्हस्थ्य एव विद्वत्त्वदर्शनात्कर्मसमुच्चितैव विद्या फलाय भवतीत्यभिप्रेत्याह - यदीति । यदि एषा निर्द्वन्द्वादिविषेशणवृत्तैव ज्ञाननिष्ठा तर्हि सा गार्हस्थ्यमन्तरेण न भवति । प्रवर्तते एनां निष्ठां दातुं समर्थो भवति ॥५॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
।
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः ॥६॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः
।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किचिदेजते ॥७॥
एजते एजृ कंपने । यत्किंचित्सुखार्थी चेष्टते तस्य धर्मफलस्य सुखस्य मूलं गार्हस्थ्यमेव ॥७॥
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो जनाः
।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥८॥
जनाः येन प्रजनादिना प्रजोत्पादनादिना अभिनिर्वृत्ताः सर्वतः सुखिनो भवन्ति तत्प्रजनं प्रजनादि अन्यत्राश्रमान्तरे नास्ति ॥८॥
यास्तु स्युर्बर्हिरोषध्यो बहिरन्यास्तथाद्रिजाः
।
ओषधिभ्यो बहिर्यस्मात्प्राणात्कश्चिन्न दृश्यते ॥९॥
यास्त्वित्ति । बर्हींषि तृणानि ओषध्यो धान्यानि बहिरन्या ओषध्योऽद्रिजाः सोमपूतिकाद्या यास्तासामपि मूलं वृष्ट्यादिगार्हस्थ्यमेवेति व्यवहितातीतेन सम्बन्धः । तथा ह्याह -
'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते
।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
।
'
इति । ओषधिभ्यः प्राणादिति समानाधिकरणे पञ्चम्यौ । औषध्यात्मकात् प्राणाद्बहिर्न कश्चिद्दृश्यते । अतो विश्वोत्पत्त्यादिहेतुर्गार्हस्थ्यमेवेति भावः ॥९॥
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति
।
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ॥१०॥
तथाऽपि मोक्षसाधनत्वं गार्हस्थ्यस्य नास्तीत्याशङ्क्याह - कस्येति ॥१०॥
निरासैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः
।
शमस्योपरमो दृष्टः प्रव्रज्यायामपण्डितैः ॥११॥
निरासैः अप्रतिष्ठैः काणत्वादिदोषाद्गार्हस्थ्यं कर्तुमशक्तैरित्यर्थः । अत एव स्वकर्मभिः काणत्वादिप्रदैः प्राक्कृतैस्तप्यमानैः ॥११॥
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा
।
ब्राह्मणो नाम भगवान् जन्मप्रभृति पूज्यते ॥१२॥
ब्राह्मणः वेदवित् ॥१२॥
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु
।
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ॥१३॥
अविश्रम्भेषु मानान्तरागम्येषु स्वर्गादिषु विश्रम्भेषु ऐहिकेषु वृष्ट्यादिषु साध्येषु मन्त्रा एव साधयितुं प्रवर्तन्ते ॥१३॥
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने
।
दाने गवां पशूनां वा पिण्डानामप्सु मज्जने ॥१४॥
दाह इति । मृतस्य दाहादिकं पितरो मन्त्राश्चानुमन्यन्त इति द्वयोः सम्बन्धः । तत्र 'मैनमग्ने विदह' इति दाहं प्रकाशयति मन्त्रः । 'संगच्छस्व पितृभिः संयमेनेष्टापूर्तेन परमे व्योमन् । हित्वा यावद्यं पुनरस्तमेहि संगच्छस्व तन्वा सुवर्चाः' इति मन्त्रेऽवद्यं जीर्णदेहं हित्वाय हित्वा आर्षः क्त्वो यक् । पितृभिर्यमेन इष्टादिफलेन च स्वर्गे संगतिं संप्राप्य पुनरस्तं गृहं पौत्ररूपेण प्रपौत्ररूपेण वा एहि तन्वा देहेन संगच्छेति पुनर्देहप्राप्तिः प्रकाश्यते । तदिदं पुनः संश्रयणं देहस्येति शेषः । तस्मिन्निमित्ते दाह इति सम्बन्धः । देहे पुनः संश्रिते सति मृतस्य तृप्तये पात्रभोजने पीयत इति पात्रं जलं भोजनं च ते उभे तर्पणनित्यश्राद्धादिरूपेण देये । तथा गवां वैतरण्यादीनां दानं पशूनां वा गोवृषादीनामुत्सर्गः । पिण्डानां वाऽप्सु मज्जनं क्रियते । एतत्सर्वं मन्त्रमूलं न ह्यशरीरस्य मुक्तस्योपकाराय भवतीति न तादृशोऽशरीरतालक्षणो मोक्षोऽस्ति ॥१४॥
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा
।
मृतस्याप्यनुमन्यन्ते मन्त्रान् मन्त्राश्च कारणम् ॥१५॥
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्
।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥१६॥
अत्रैव हेत्वन्तरमाह - ऋणवन्त इति । तथा च श्रुतिः - ’जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति ॥१६॥
श्रिया विहीनैरलसैः पण्डितैः सम्प्रवर्तितम्
।
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥१७॥
वेदवादानां 'प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्' इति सन्तत्यविच्छेदस्यैवामृतत्वं वदतां न परिज्ञानं यस्मिंस्तत् सत्याभासमनृतमशरीरतालक्षणं मोक्षस्वरूपं दर्शितम् ॥१७॥
न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः
।
उर्ध्वं यज्ञैः पशुभिः सार्धमेति संतर्पितस्तर्पयते च कामैः ॥१८॥
प्रतिपादितमर्थमुपसंहरति - न वा इति द्वाभ्याम् ॥१८॥
न वेदानां परिभवान्न शाठ्येन न मायया
।
महत्प्राप्नोति पुरुषो ब्रह्मणि ब्रह्म विन्दति ॥१९॥
परिभवात् वेदोक्तकर्मानादरात् ब्रह्मणि वैदिककर्मणि । ब्रह्म 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' इत्यष्टगुणयुक्तं प्राप्नोति । तथा च सूत्रम् - ब्राह्मेण जैमिनिरुपन्यासादिभ्य इति । ब्राह्मेण अपहतपाप्मत्वादिगुणाष्टकवता रूपेण मुक्तः संपद्यते । कुतः उपन्यासादिभ्यः उपन्यासोऽज्ञातज्ञापनम् उद्देशः सिद्धवद्व्यपदेशश्चादिपदार्थः । ते च प्राग्व्याख्याताः । तथा चाग्निहोत्रादिकर्मसमुच्चितादुपासनारूपात् ज्ञानान्मोक्षः स च गार्हस्थ्ये एव सिध्यतीति निष्कृष्टोऽर्थः । जैमिनिमते सृष्टिप्रलययोरभावात् । इमं मानवमावर्तं नावर्तन्त इति देवयानेन पथा गतानामनावृत्तिश्रुतेश्च सगुणभाव एव नित्यः' वस्तुतस्तु इममिति विशेषणात् मानवान्तरे त एव बीजभूता आवर्तन्त इति गम्यते । तथा च पुनरस्तमेहीति प्रागुक्तं मन्त्रलिङ्गं संगच्छते । आपस्तम्बवचनं च - आभूतसंप्लवात्ते स्वर्गजितः पुनः सर्गे बीजार्था भवन्तीति ॥१९॥
कपिल उवाच ।
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमतः
।
चातुर्मास्यानि चैवासंस्तेषु धर्मः सनातनः ॥२०॥
तत्र यदुक्तं कर्मभिरेव चेष्टादिकं करोति तदङ्गीकरोति । दर्शं चेति । चित्तशुद्ध्यर्थिना एतान्येव कर्माण्यनुष्ठेयानि न पुनर्हिस्राणि पशुबन्धादीनीति भावः ॥२०॥
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः
।
ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥२१॥
यत्पुनः संन्यासोऽलसैः कल्पित इति तत्राह - अनारंभा इति । ये कर्माणि नारभन्ते संन्यस्यन्ति त एव सुतरां धैर्यवन्तः । वैराग्यबलेन जितकामत्वात् । अत एव शुचयो रागादिमलरहिता ब्रह्मेति संज्ञां प्राप्ताः । ब्रह्मज्ञा इत्यर्थः 'ब्रह्मविद्ब्रह्मैव भवति' इति श्रुतेः । यत्तु ऋणत्रयवान्न मुच्यत इति तत्राह - ब्रह्मणैव साक्षात्कृतेन ते संन्यासिनो देवान् देवऋषिपितॄन् अमृतानि हविःस्वाध्यायप्रजाख्यानि इच्छन्ति तादृशांस्तर्पयन्ति । क्षणमेकं क्रतुशतस्य चतुःसप्तत्या यत्फलं तदवाप्नोतीत्यल्पकालकृतस्यापि ध्यानस्य महाफलत्वात् ॥२१॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२२॥
यदुक्तमूर्ध्वं यज्ञैः पशुभिः सार्धमेतीति तन्न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्त इति श्रुत्युक्तेन ब्रह्मविदां गत्यभावेन विरुद्धमित्याशयवानाह - सर्वेति । न हि सार्वात्म्यं सार्वज्ञ्यं च प्राप्तस्य गतिर्भोगो वा युज्यतेऽतस्तस्य मार्गे देवा अपि मुह्यन्ति । अपदस्य पद्यते गम्यते वस्तुस्वरूपमेभिरिति पदानि गुणास्तद्रहितस्य पदैषिणः गुणकामा देवाः एतेन मुक्तस्य सोपाधिकावस्थायां सार्वात्म्यं वास्तवं तु चिन्मात्रत्वमिति दर्शितम् । तथा च सूत्रम् - एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण इति । सगुणैकान्तवादी जैमिनिः, निर्गुणैकान्तवादी औडुलोमिः, अवस्थाभेदेन उभयमुपगच्छतो बादरायणस्य त्वविरोध इति भावः । तदिदं द्वयं सर्वभूतात्मभूतस्येत्यपदस्येति विशेषणाभ्यां दर्शितम् ॥२२॥
चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति वाचा
।
बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत ॥२३॥
ननु कथमात्मनो द्वैरूप्यं कथं वा तत्र देवानामपि मोह इत्याशङ्क्याह - चतुर्द्वारमिति । एवं सर्वात्मानम् अपदं पुरुषं शरीरान्तःस्थं वाचा गुरूपदेशेन चतुर्धा विराट्सूत्रान्तर्यामिशुद्धरूपेण । उपयाति अवगच्छति । अतः सोपाधिकाऽनुपाधिकरूपेणात्मनो द्वैविध्यं युक्तम् । ननु सर्वेषामात्मत्वात्सर्वदैवायमवगत एवास्तीत्याशङ्क्याह - चतुर्द्वारं चत्वारि बाह्वादीनि द्वाराणीव पिधायकानि यस्य तं चत्वारि देहेन्द्रियमनोबुद्ध्याख्यानि मुखानीव भोगसाधनानि यस्य तम् । आत्मापि कर्मादिभिरावृतत्वाद्भोक्तृत्वादिरूपेण अन्यथा ग्रहणादावृत एवेत्यर्थः । बाहुभ्यामिति कर्मोपलक्षणम् । भोगप्रदेन कर्मणेत्यर्थः । हेत्वर्थे पञ्चम्यः । वाच इति कर्मकाण्डतन्त्रान्तरीयसिद्धान्तानां ग्रहणम् । उदरोपस्थयोरपि विपरीतप्रवृत्तिहेतुतया आत्मावरकत्वम् । एतैश्चतुर्भिर्निमित्तैस्तेषां देवानामपि द्वारं पिधानमस्ति द्वृ स्थगने अस्माद्भावे घञ् अतो द्वारपालो बाह्वादीनां पालको विनियन्ता बुभूषेत् भवितुमिच्छेत् ॥२३॥
नक्षैर्दीव्येन्नाददीतान्यवित्तं न वाऽयोनीयस्य शृतं प्रगृह्णात्
।
क्रुद्धो न चैव प्रहरेत धीमांस्तथाऽस्य तत्पाणिपादं सुगुप्तम् ॥२४॥
नियमनप्रकारमाह - नाक्षैरित्यादिना । अयोनीयस्य नास्ति योनीयं योनिसम्बन्धो यस्य स तथा तस्य श्रुतं हविर्न प्रगृह्णात् न प्रतिगृह्णीयात् पञ्चमलकारोऽयम् । लिङर्थे लेट् योनिसम्बन्धायोग्यं न तु याजयेदित्यर्थः । तथा च स्मृतिः - 'यथा कन्या तथा हविः' इति ॥२४॥
नाक्रोशमृच्छेन्न वृथा वदेच्च न पैशुनं जनवादं च कुर्यात्
।
सत्यव्रतो मितभाषोऽप्रमत्तस्तथाऽस्य वाग्द्वारमथो सुगुप्तम् ॥२५॥
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात्
।
यात्रार्थमाहारमिहाददीत तथाऽस्य स्याज्जाठरी द्वारगुप्तिः ॥२६॥
न वीरपत्नी विहरेत नारीं न चापि नारीमनृतावाह्वयीत
।
भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत ॥२७॥
नेति । हे वीर युधिष्ठीर पत्नीं यज्ञसम्बन्धवतीं नारीं न विहरेत न विभजेत तदुपरि स्त्र्यन्तरकरणेन धर्मार्थकामेषु तां विभागवतीं न कुर्यात् तथोक्तमापस्तंबेन - धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतान्यतराभावे कार्या प्रागग्न्याधेयादाधाने सति हि कर्मभिः सम्बध्यत इति । भार्याव्रतं परस्त्रीवर्जनम् ॥२७॥
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः
।
उपस्थमुदरं बाहू वाक्चतुर्थी भवेद्द्विजः ॥२८॥
मोधान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत
।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥२९॥
मोघानि निष्फलानि सर्वाणि तपआदीनि ॥२९॥
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्
।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥३०॥
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः
।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥३१॥
अननुध्यायन् सुखं दुःखं वा ॥३१॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥३२॥
प्रकृतिर्ब्रह्म विकृतिर्द्वैतम् ॥३२॥
अभयं सर्वभूतेभ्यः सर्वेषाममयं यतः
।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥३३॥
नान्तरेणानुजानन्ति दानयज्ञक्रियाफलम्
।
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम् ॥३४॥
ईदृशं ब्राह्मण्यमज्ञात्वा मूढाः कर्मसु सज्जन्ते योगं चावमन्यन्ते इत्याह - नेतिचतुर्भिः । दानादिक्रियायाः फलं चत्तशुद्धिस्तामन्तरेण विना न अनुजानन्ति गुर्वादिभिरुक्तं नानुबुद्ध्यन्ते । ब्राह्मण्यमिति शेषः । अन्यत् स्वर्गादि ॥३४॥
स्वकर्मभिः संश्रितानां तपो घोरत्वमागतम्
।
तं सदाचारमाश्रित्य पुराणं शाश्वतं ध्रुवम् ॥३५॥
यमाश्रित्य संश्रितानामश्रमाणां स्वकर्मभिः सहितं तपः वेदान्तश्रवणाद्यात्मकमात्मालोचनं घोरत्वं संसारमूलाज्ञानदाहकत्वम् आगतं भवति तं सदाचारं चरितुमशक्नुवन्त एतानि विगुणानि अनैकान्तिकानि व्यभिचारीणि पश्यन्तीति त्रयाणां सम्बन्धः । पुराणम् अनादिं शाश्वतं मुमुक्षुणां नित्यानुष्ठेयं ध्रुवम् अव्यभिचारिफलम् ॥३५॥
अशक्नुवन्तश्चरितुं किंचिद्धर्मेषु सूत्रितम्
।
निरापद्धर्म आचारो ह्यप्रमादो पराभवः ॥३६॥
अप्रमादः सावधानता अपराभवः कामाद्यनाक्रान्तता ॥३६॥
फलनवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च
।
विगुणानि च पश्यन्ति तथाऽनैकान्तिकानि च ॥३७॥
फलवन्ति प्रत्यक्षफलानि कर्माणि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध्याख्यानि । व्युष्टिः पारमैश्वर्यम् । तद्वन्ति । ध्रुवाणि अविनाशीन्यपि । विगुणानि यज्ञादिकर्मत्यागान्निष्फलानि । अनैकान्तिकानि चेति पश्यन्ति ॥३७॥
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः
।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥३८॥
गुणाः गुणकार्याणि यज्ञादीनि । यज्ञादीनामन्तवत्फलत्वं जानन् ज्ञाननिष्ठामेव श्रयस्वेति भावः ॥३८॥
स्यूमरश्मिरुवाच ।
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा
।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥३९॥
एवं श्रद्धोपपत्तिभ्यां कर्मतत्त्यागदिशोराकृष्यमाणतयाऽन्यतरस्य श्रेयस्त्वे संदिहानः स्यूमरश्मिः पृच्छति - यथा चेति । 'कुरु कर्म त्यज' इति चेति परस्परविरुद्धं पक्षद्वयमुपदिशतो वेदस्य प्रामाण्यं यथा निर्वहेत् । यथा च त्यागश्चादत्यागः । एतौ पक्षौ व्यक्तौ 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्' इति श्रुतिभ्यां विस्पष्टमुक्तौ । भगवन् सर्वैश्वर्यज्ञानादिसंपन्न तत् तयोस्तत्त्वं मे मह्यं ब्रवीहि ॥३९॥
कपिल उवाच ।
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः
।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥४०॥
अत्रानुभवमेव प्रमाणयन्नुत्तरमाह - प्रत्यक्षमिति । सतः पन्था ब्रह्मप्राप्तिमार्गो योगस्तत्र स्थिताः सन्तो भवन्त इह जीवत्येव देहे प्रत्यक्षं पश्यन्तु परीक्षयन्तु । विधौ लेट् । किं तत्परीक्षणीयं प्रत्यक्षं घटं प्रत्यक्षीकरोमि घटं प्रत्यक्षेण पश्यामीति विषयकरणयोरपि प्रत्यक्षशब्दप्रयोगादिति तत्राह - प्रत्यक्षमिति । यद्भवन्तः कर्मठा उपासते प्रार्थयन्ते । तत्प्रत्यक्षं सुखाद्यनुभवरूपम् अत्रास्मिंल्लोके किं किंस्वरूपमस्तीति ॥४०॥
स्यूमरश्मिरुवाच ।
स्यूमरश्मिरहं ब्रह्मन् जिज्ञासार्थमिहागतः
।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ॥४१॥
तत्र सुखाद्यनुभवं परीक्षितुमशक्तः प्रतिवादित्वं परित्यज्य शिष्यत्वेन कपिलमनुसरन् स्यूमरश्मिरुवाच - स्यूमेति । इहागतो गवि प्रविष्टः । विवक्षया स्वपक्षनिर्वाहेच्छया वहतेरिदं रूपम् । न प्रातिभट्येनेत्यर्थः ॥४१॥
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे
।
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः
।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ॥४२॥
संशयं किंविषयात्मकं प्रत्यक्षं ज्योतिष्टोमादिप्राप्यम् । उत इन्द्रियमनोबुद्ध्याख्यकरणात्मकम् । आद्ये एकस्यां युवत्यां कामुकसपत्न्यो रागद्वेषदर्शनेन विषयस्य सुखरूपत्वानियमेन काम्यत्वायोगात् । अन्त्ये सुखकरणत्वादेव तेषां सुखत्वाभावेनाकाम्यत्वात् । अथ स्वरूपसुखाभिव्यक्तये करणपाटवमेव काम्यं तदा विरक्तानां विनाऽपि विषयं सुखसिद्धेः स्वर्गकामादिपदवैयर्थ्यम् । पराभिमतचित्तसंस्कारपक्षानतिरेकादिति अन्यतरानिर्णयात्संशयस्य घोरत्वं विशेषं जिज्ञासुः कपिलोक्तिमनुवदति - प्रत्यक्षमिति । विषयः प्रत्यक्षं बुद्धिः प्रत्यक्षतरम् । प्रत्यक्षतमं तु किं बुद्धिविशिष्टश्चिदाभासः उत बुद्धिनिष्कृष्टोऽन्यः कश्चिदात्मेति । यं भवन्त उपासते तं मे ब्रुवन्त्विति विपरिणामेनानुषञ्जनीयम् ॥४२॥
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम्
।
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः ॥४३॥
स्वमतमाह- अन्यत्रेति । तर्कैकप्रधानानि वेदविरोधीनि लोकायतार्हतसौगतकापालिकादिशास्त्राणि तेभ्योऽन्यत्र तानि वर्जयित्वा आगमस्यार्थं यथा यथावत् अगमम् अधिगतवानस्मि । तत्र आगमः किं पाशुपतपाञ्चरात्रादिरित्येतां शङ्कां निरस्यति - आगम इति । तर्कशास्त्राणि वेदार्थनिर्णायकानि पूर्वोत्तरमीमांसे सांख्यपातञ्जले च यत्र वेदस्य स्वतःप्रामाण्यमास्थीयते नानुमानान्तरसंवादसापेक्षम् ॥४३॥
यथाश्रममुपासीत आगमस्तत्र सिध्यति
।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥४४॥
तान्येतानि यथाश्रममाश्रमधर्ममनतिक्रम्योपासीत । तत्राप्यागमो मीमांसाद्वयोपगृहीतः सिद्ध्यति सांख्यपातञ्जले त्वंशतो वेदविरोधान्न सिद्ध्यतः । तथा हि सांख्यैरहिंसैव प्रशस्यते पातञ्जलैश्च चितनिरोध एव । तावुभौ यागाद्यनुष्ठानप्रतिबन्धकावतो न सिद्ध्यतः । ननु
'पृथ्व्याप्यतेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृते
।
न तत्र रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीराम्
।
'
इति । पञ्चभूतजयाद्योगिनामप्यजरत्वामरत्वादिसिद्धिः प्रत्यक्षागममूला दृश्यते । सत्यम् । प्रतिक्षणपरिणामिनो जन्मवतः शरीरस्याजरत्वामरत्वे प्रत्यक्षानुमानविरुद्धे । अतो या अत्यक्षस्य रूपमिव रूपं यस्या इति प्रत्यक्षा विरुद्धा चादनुमानाविरुद्धा च आगमनिश्चया दृश्यति दृश्यते गत्यागतिदिव्यभोगप्राप्त्यादिरूपा सैव सिद्धिरिति ॥४४॥
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना
।
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति
।
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥४५॥
एवमुपन्यस्तं स्वमतं परमतजिज्ञासया निन्दति - नौर्नावीति । यथा नावि निबद्धा नौः स्रोतसा ह्रीयमाणा न तारयत्येवमन्धपरंपरया कर्मनौकां सनिबन्धनां पूर्वपूर्वकर्मवासनाबन्धवतीमाश्रिता वयं जन्मजरामृत्युप्रवाहं न तर्तुं क्षमा इत्यर्थः । फलितमाह - एतदिति । एतत् प्रत्यक्षतमम् उपपन्नः उपसन्नः शिष्योऽस्मि अधिकार्यस्मीति वा । अधीहि अध्यापय ॥४५॥
नैव त्यागी न संतुष्टो नाशोको न निरामयः
।
नानिर्विधित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥४६॥
ननु 'तरति शोकमात्मवित्' इति त्वयाऽप्यधीतमस्त्येव । निर्द्वन्द्वा निर्नमस्कारा इत्यादिना मयाप्युक्तं च किमतः परमध्यापयितव्यमित्याशङ्क्य तत्र प्रत्यक्षविरोधमुपन्यस्यति - नैवेति । ना पुरुषः निर्विधित्सश्चिकीर्षाशून्यः आवृत्तः संगविमुखः अपवृत्तो निष्कर्मा ॥४६॥
भवन्तोऽपि च हृषयन्ति शोचन्ति च यथा वयम्
।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥४७॥
एवं चतुर्णां वर्णानमाश्रमाणां प्रवृत्तिषु
।
एकमालम्बमानानां निर्णये किं निरामयम् ॥४८॥
एकं सर्वेषामीप्सितं सुखमालम्बमानानां सुखार्थिनां वर्णादीनां निर्णये सिद्धान्ते किं सुखं निरामयमपचयहीनं तदधीहीति पूर्वेण सम्बन्धः ॥४८॥
कपिल उवाच ।
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु
।
यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥४९॥
अत्रोत्तरमाह - यद्यदिति । वैदिकमवैदिकं यद्यच्छास्त्रं यस्य यस्य मोक्षशास्त्रस्यार्थम् आचरते सम्यगनुतिष्ठति । भावकर्मणोरिति कर्मणि तङ् । तत्तदर्थम् अर्थात्प्रयोजनादनपेतं सफलम् । एतत्प्रसिद्धमेवेत्याह - यस्येति । अयं भावः - सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्यय इति न्यायेन सर्वेषां घटस्वरूपे तत्साक्षात्कारसाधने चक्षुरुन्मीलनादौ च न विगानम् एवमात्मनि वादिविप्रतिपत्त्याऽनेकेषु विकल्पेषु शून्यं क्षणिकविज्ञानं कर्ता भोक्तेत्यादिषु सत्स्वपि मोक्षे तत्स्वरूपं निरस्ताशेषविषयदर्शनं तत्साधनं च शमदमोपरमतितिक्षाश्रद्धासमाधानात्मकमविगीतम् । एवं व्यावहारिकप्रक्रियायां विगानेऽपि फलसाधनयोरविगानात् । यत्र यत्र मते स्थित्वाऽस्य शमाद्यनुष्ठानं सम्पद्यते तेन तत्र तत्र निरामयं सर्वदोषशून्यं स्वरूपं लभ्यते । एतेनान्यत्र तर्कशास्त्रेभ्य इति पूर्ववाद्युक्तं शास्त्रान्तरविगानमुपादेयांशस्याविज्ञानादेवेत्युक्तम् उक्तं च व्यावहारिकप्रक्रियाणां सर्वासामविगीतत्वमनवस्थितत्वं च -
'यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि
।
सा सैव प्रक्रिया ज्ञेया साध्वी सा चानवस्थिता
।
'
इति ॥४९॥
ज्ञानं प्लावयते सर्वं यो ज्ञानं ह्यनुवर्तते
।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥५०॥
ज्ञानमिति । यथोक्तसाधनानुष्ठानादुत्पन्नं ज्ञानं सर्वं संसारं नाशयति । कस्य यो ज्ञानं ह्यनुवर्तते तस्य ज्ञानं विना यां वैदिक्यपि वृत्तिः सा प्रजा नाशयति । जन्ममरणप्रवाहपातनेन क्लेशयति ॥५०॥
भवन्तो ज्ञानिनो व्यक्तं सर्वतश्च निरामयाः
।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदुपपद्यते ॥५१॥
एकम् एव द्वैतदर्शनहीनः आत्मा यत्र भवति । तदैकात्म्यं नाम ज्ञानं भवतां ज्ञानिनां मध्ये कश्चिदुपपद्यते उपसन्नो भूत्वा प्राप्नोति नैवेत्यर्थः । शमाद्यभावात् ॥५१॥
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः
।
कामद्वेषाभिभूतत्वादहङ्कारवशं गताः ॥५२॥
अतः सर्वे यूयं भ्रान्ता इत्याह - शास्त्रं हीत्यादिना ॥५२॥
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः
।
ब्रह्मस्तेना निरारम्भा दम्भमोहवशानुगाः ॥५३॥
ब्रह्म त्रिविधपरिच्छेदशून्यं वस्तु तस्य स्तेनाः अपलापकर्तारः निरारंभाः शमाद्यारंभशून्याः ॥५३॥
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते
।
तेषां तमःशरीराणां तम एव परायणम् ॥५४॥
नैर्गुण्यं फलाभावं गुणान् ज्ञानैश्वर्यादीन् न अनुयुञ्जते आत्मसंवेद्यतामापाद्य परेषु न योजयन्ति पाषाणवत्स्वयं मज्जन्तो नान्यमुद्धर्तुं शक्नुवन्तीत्यर्थः ॥५४॥
यो यथा प्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः
।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः
।
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः ॥५५॥
एवं ध्यात्वाऽनुपश्यन्तः सन्त्यजेयुः शुभाशुभम्
।
परां गतिमभीप्सन्तो यतयः संयमे रताः ॥५६॥
संयमे धारणाध्यानसमाध्यात्मके समये इति पाठे सिद्धान्ते ॥५६॥
स्यूमरश्मिरुवाच ।
सर्वमेतन्मया ब्रह्मन् शास्त्रतः परिकीर्तितम्
।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥५७॥
एतत्कर्मणां प्राशस्त्यं संन्यासस्याप्राशस्त्यं च प्रवृत्तयः वाचां विलासाः ॥५७॥
यः कश्चिन्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः
।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥५८॥
न प्रवृत्तिर्ॠते शास्त्रात्काचिदस्तीति निश्चयः
।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः॥५९॥
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः
।
शास्त्रदोषान्न पश्यन्ति शोचन्ति च यथा वयम्
।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥६०॥
व्यक्तं प्रत्यक्षसिद्धं तदेव मन्यन्त इति दृष्टमात्रपराः अत एव शास्त्रादपेतम् इहलोकमेव पश्यन्ति । शास्त्रदोषान् शास्त्रोक्तान् कृतहानाकृताभ्यागमादिदोषान् अन्याय्यमवैदिकं च मतमाश्रित्य यथा लोकायताः शोचन्ति तथा वयमपि शोचाम इत्यर्थः । अत्र हेतुमाह - इन्द्रियार्था इति । शीतोष्णादीनां स्पर्शः सर्वेषां सुखादिप्रदः पशुपामरपण्डितानां तुल्यरूप इत्यर्थः ॥६०॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु
।
एकमालम्बमानानां निर्णये सर्वतोदिशम् ॥६१॥
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना
।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥६२॥
एवमिति द्वयोः सम्बन्धः एकसुखार्थिनां वर्णादीनां मध्ये वयं त्वया आत्मना चित्तेन आवर्जिताः शान्तिं नीताः । सन्धिरार्षः । कीदृशेन त्वया निर्णये सिद्धान्ते सर्वतोदिशं सर्वतःप्रकारं सर्वशास्त्रसिद्धान्तत्वेन आनन्त्यं वदमानेन यद्यदाचरते शास्त्रमित्यत्र प्राग्व्याख्यातरीत्या प्रकाशयता भासनोपसंभाषेति वदेर्भासनार्थे तङ् । शक्तेन ऊहापोहकुशलेन । कीदृशा वयम् । अविज्ञानेन आत्माननुभवेन हता प्रज्ञा स्वरूपनिष्ठा येषाम् । अत एव हीने विषये एव प्रज्ञा धीर्येषाम् । एतयोरावरणविक्षेपयोः कारणमाह - तमोवृता इति ॥६२॥
शक्यं त्वेकेन युक्तोन कृतकृत्येन सर्वशः
।
पिण्डमानं व्यपाश्रित्य चरितुं विजितात्मना ॥६३॥
यद्यपि त्वया इयं निष्ठा उक्ता तथापि दुष्करेत्याह - शक्यं त्विति द्वयेन । येन सर्वशः सर्वतोदिशं चरितुं शक्यन्ते । तेन मोक्षोऽस्तीति प्रभाषितुं युक्तमिति अध्याहृत्य व्यवहितेन योज्यम् । संन्यासं विना मोक्षो दुष्प्राप इत्यर्थः ॥६३॥
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम्
।
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा ॥६४॥
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्
।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥६५॥
अत्रानुपपत्तिमाह सार्धद्वयेन - इदं त्विति । कर्मकाण्डस्य वैयर्थ्यं प्रतिपत्तॄणां नास्तिक्यं चास्मिन्मते स्यादित्यर्थः ॥६५॥
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित्
।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥६६॥
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया
।
एतस्यानन्त्यमिच्छामि भगवन् श्रोतुमञ्जसा ॥६७॥
एतस्य कर्मकाण्डस्य आनन्त्यम् आनन्त्यहेतुत्वम् अयं भावः - कर्मज्ञानकाण्डयोः पार्थगर्थ्ये वेदस्यैकस्मिन्नर्थे पर्यवसानाभावाद्वाक्यभेदः स्यात् स च संभवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यत इति न्यायेनायुक्तः अतः कर्मकाण्डस्यैव ज्ञानकाण्डशेषत्वं वाच्यं वैपरीत्यस्य प्रागेव निरस्तत्वादिति ॥६७॥
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः
।
यथा वे विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥६८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि गोकपिलीये एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥२६९॥
कपिल उवाच ।
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः
।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥१॥
कर्मणां ज्ञानाङ्गत्वं विवक्षुस्तद्वैयर्थ्यशङ्कां तावत्परिहरत्यर्धेन - वेदा इति । शब्दब्रह्मकर्मोपास्तिकाण्डः परं ब्रह्म प्रत्यगात्मा ॥१॥
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
।
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ॥२॥
तत्र गर्भाधानमारभ्य कर्मकाण्डो ज्ञानशेषत्वं भजत इत्याह - शरीरमिति । वेदे उपनिषत्काण्डे यत् तनुं शरीरं कुरुते गर्भाधानविधिना उत्पादयति
'विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु
।
आसिंचतु प्रजापतिर्धाता गर्भं दधातु ते॥'
इत्यादिमन्त्रैः तत् शरीरमेव कुरुते संस्कुरुते । विष्ण्वादिदेवतास्मरणपूर्वकमाहिते गर्भे विष्ण्वादिवज्ज्ञानैश्वर्यसंपन्न एव जीव आविर्भवति । शरीरसंस्कारेण शरीराभिमानिनः स्वास्थ्यदर्शनात् ॥२॥
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः
।
आनन्त्यमत्र बुद्ध्येदं कर्मणां तद्ब्रवीमि ते ॥३॥
अत्रैव वैदिकप्रसिद्धिमाह- कृतेति । कृतं श्रौतस्मार्तसंस्कारैः पित्रा संस्कृतं शुद्धं चाध्ययनादिना शरीरं यस्य स ब्राह्मणः पात्रं ब्रह्मविद्याया योग्यं भवति तत्र श्रौतः संस्कारो जातेष्ट्यादिः । 'यस्मिन् जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति' इति श्रुत्युक्तफलकः । स्मृत्यन्तरे - 'यस्यैते अष्टाचत्वारिंशत्संस्काराः स ब्रह्मणः सायुज्यं सरूपतां सलोकतां जयति' इति 'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं कुरुते तनुः' इति च एतेन ज्ञानशेषत्वं कर्मकाण्डस्योक्तं भवति । कर्मणां फलम् आनन्त्यं मोक्षोपयोगि चित्तशुद्धिरूपम् । अत्र अस्मिन्नेव लोके प्रत्यक्षं बुद्ध्या जानीहि । न हि चित्तशुद्धिः स्वसाक्षिकी स्वर्गवद्वेदैकगम्या पर्वतवह्निवदनुमेया वेति वक्तुं शक्यम् ॥३॥
अनागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्
।
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ॥४॥
तदेतदाह- अनागममनैतिह्यमिति । येन क्रमेण कर्मणामानन्त्यहेतुत्वं स्यात्तमाह - धर्म इति । निराशिषः निष्कामाः ॥४॥
उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः
।
धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥५॥
उत्पन्नत्यागिनः धनसंग्रहशून्याः कृपासूयाभ्यां रागद्वेषौ लक्ष्यौ तद्वर्जिताः तीर्थेषु सत्पात्रेषु ॥५॥
अनाश्रिताः पापकर्म कदाचित्कर्मयोगिनः
।
मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥६॥
तल्लक्षणम् - अनाश्रिता इति । अग्निहोत्रादिमन्तः सर्वदा पापकर्मानाश्रितास्ते तीर्थभूता इत्यर्थः । एवं धर्ममनुतिष्ठन्त ईदृशा भवन्तीत्याह - मन इत्यादिद्वाभ्याम् । विशुद्धं निर्विषयं ज्ञानं ब्रह्म तत्र निश्चयो येषाम् ॥६॥
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः
।
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥७॥
ज्ञाने ज्ञानोपाये श्रवणमनननिदिध्यासनाख्ये निष्ठा येषां ते त्रिशुक्लाः जन्म कर्म विद्या चेति त्रीणि शुक्लानि शुद्धानि येषां ते ॥७॥
आसन् गृहस्था भूयिष्ठा अव्युत्क्रान्ताः स्वकर्मसु
।
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥८॥
अव्युत्क्रान्ताः आदरवन्तः राजानो जनकादयः ब्राह्मणाः याज्ञवल्क्यादयः ॥८॥
समा ह्यार्जवसम्पन्नाः संतुष्टा ज्ञाननिश्चयाः
।
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥९॥
प्रत्यक्षः धर्मो धर्मफलं सत्यसंकल्पत्वादिकं येषां ते परं सोपाधिकं ब्रह्म अवरं नीचं यस्मात् तस्मिन्निरुपाधिके ब्रह्मणि ॥९॥
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः
।
चरन्ति धर्मं कृच्छेऽपि दुर्गे चैवापि संहताः ॥१०॥
संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत्
।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथंचन ॥११॥
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः
।
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥१२॥
मात्रां मीयन्ते विषया अनयेति मात्रा बुद्धिस्तां नानुरुध्यन्ते । अपि तु शास्त्रमेवानुरुद्ध्यन्ते धर्मे च्छलं वञ्चनाम् ॥१२॥
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह
।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन ॥१३॥
छलाभावमेवाह- य एवेति ॥१३॥
तस्मिन्विधौ स्थितानां हि प्रायश्चित्तं न विद्यते
।
दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः ॥१४॥
दुर्बलात्मनः अशक्तस्य ॥१४॥
एवं बहुविधा विप्राः पुराणा यज्ञवाहनाः
।
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥१५॥
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः
।
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ॥१६॥
तेषां यज्ञादिकं सर्वम् आनन्त्यमासीदिति तृतीयेनान्वयः ॥१६॥
आगमाश्च यथाकाले संकल्पाश्च यथाक्रमम्
।
अपेतकामक्रोधानां दुश्चराचारकर्मणाम् ॥१७॥
स्वकर्मभिः संशितानां प्रकृत्या शंसितात्मनाम्
।
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम् ॥१८॥
शंसितानां प्रख्यातानाम् ॥१८॥
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः
।
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् ॥१९॥
आनन्त्यं ब्रह्म शाश्वती श्रुतिर्गीता 'ब्रह्मार्पणं ब्रह्म हविः' इत्यादिः ॥१९॥
स्वकर्मभिः सम्भृतानां तपो घोरत्वमागतम्
।
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥२०॥
संभृतानां पूर्णानां घोरत्वम् अविद्यानिवर्तनक्षमत्वम् । तमिति सार्धश्लोकद्वयमेकं वाक्यं पाठक्रममननुरुध्य अर्थक्रमेण व्याख्येयम् । यः सदाचारः सताम् आपद्धर्माचारादन्य आचारः स सदाचार इति सदाचारलक्षणम् । स च अप्रमादः सावधानता अपराभवः कामक्रोधादिभिरनभिभूतता यत्र च पुरा व्यतिक्रमः अपूज्यपूजनं पूज्यानामपूजनं चेत्यादिर्नासीत् । तं सदाचारम् एकम् आश्रमं सन्तं चतुर्धा व्यस्तं ब्राह्मणा आहुः । कैर्व्यस्त धर्मेषु सूक्ष्मतां सूक्ष्मं धर्मम् आचरितुमशक्नुवद्भिः । तथाहि मानसिकं व्यभिचारं वारयितुमक्षैर्मब्रह्मचारिभिर्गार्हस्थ्यमाश्रितं तत्र कृतैर्यज्ञादिभिः कषायेषु ईषत् पक्वेषु वैराग्यबहुलं वानप्रस्थ्यमास्थितं तेष्वेव सम्यक् पक्वेषु पारिव्राज्यमित्यारोहक्रमेण चातुराश्रम्यं स्थितमित्यर्थः । शेषं व्याख्यातम् ॥२०॥
अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूक्ष्मताम्
।
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः ॥२१॥
सर्ववर्णेषु जातेषु नासीत्कश्चिद्व्यतिक्रमः
।
व्यस्तमेकं चतुर्धा हि ब्राह्मणा आश्रमं विदुः ॥२२॥
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्
।
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ॥२३॥
तमिति सार्थः श्लोकः । तं सदाचार सन्तो गृहेभ्यो निष्क्रम्यैव संन्यासं कृत्वैव विधिवत्प्राप्य परमां गतिं गच्छन्ति । विधिवदित्यादि सर्वत्र योज्यम् । चतुर्ष्वप्याश्रमेषु उक्तरूपसदाचारवतां मोक्षोऽस्तीत्यर्थः ॥२३॥
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः
।
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ॥२४॥
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः
।
आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ॥२५॥
सन्तोषाद्वैराग्यात् आनन्त्यं ब्रह्मभावं प्राप्ताः अगस्त्यवसिष्ठादयः ॥२५॥
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः
।
न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः ॥२६॥
तादृशा आधिकारिका यद्यागच्छन्ति संसारं तथापि पापैर्योनिप्रवेशजैर्दुःखैर्न लिप्यन्ते । गृहाद्गृहान्तरप्रवेशवदैच्छिकस्तेषां देहान्तरप्रवेशः । यथाऽऽम्नातमनुक्रमणिकायां मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुंभे रेतोऽपतततोऽगस्त्यवसिष्ठावजायेतामिति । वसतीवर्यः सोमाभिषवार्था आपस्तत्सम्बन्धिनि वासतीवरे तेषां शुद्धब्रह्मविदामपि हिरण्यगर्भस्येव यावदधिकारसमाप्ति न विदेहकैवल्यमस्ति यावदधिकारमवस्थितिराधिकारिकाणामिति न्यायात् । ननु
'कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम्
।
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारग:
।
'
इत्येकं कर्मानेकजन्मारम्भकं दृष्टम् । तत्र प्रथमेऽस्मिन्नेव जन्मनि तत्त्वज्ञानोदयेपि प्रारब्धकर्मणां भोगादेव क्षय इति न्यायेनः प्रारब्धकर्मबलादन्यानि षट् जन्मान्यनिवार्याण्येवेत्याशङ्क्याह - कर्मयोनित इति । अत्रेदं विचार्यते- किं सप्तजन्मानि तेषु च गर्भवासादीनि दुःखानि अशनपानादिजन्यानि सखानि च किमेकमेव स्वामिदर्शनाख्यं कर्मप्रापयति उत्त कर्मान्तरसमवेतम् । आद्ये इष्टसाधनबुद्ध्याऽनुष्ठितस्य तस्य गर्भवासाद्यनिष्टप्रापकत्वे शास्त्रस्यानर्थकरत्वं स्यात् । अन्त्ये तत्त्वज्ञानेन कर्मान्तरनाशे सति जन्मायोगाद्दर्शनशास्त्रानर्थक्यं स्यात् तस्मात् 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' इति शास्त्रादविच्छिन्ने जन्ममरणप्रवाहे सप्तसु जन्मसु विप्रत्वादियोगो दर्शनफलं न तु सप्तजन्मान्यपि तस्माद्युक्तमुक्तं प्रारब्धकर्मोपस्थापितयोनिप्रवेशनिमित्ततः पापकृत्यैः पापफलैर्दुःखैस्ते न लिप्यन्त इति ॥२६॥
एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः
।
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ॥२७॥
ब्राह्मणो ब्रह्मवित्त्वेन यथार्थनामा अन्यो ब्राह्मणको ब्राह्मणप्रतिकृतिः । दारुगजवन्नाममात्रधारीत्यर्थः ॥२७॥
कर्मैवं पुरुषस्याह शुभं वा यदि वाऽशुभम्
।
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ॥२८॥
एवं ब्राह्मण इति ब्राह्मणक इति च कर्म सदसद्रूपं पुरुषस्य नाम आह । एवं निष्कामकर्मप्रनाड्या आनन्त्येन त्वंपदार्थसाक्षात्कारजेन श्रुतेन तत्त्वमसिवाक्यार्थज्ञानेन ॥२८॥
सर्वमानन्त्यमासीद्वै एवं नः शाश्वती श्रुतिः
।
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ॥२९॥
सर्वं कृत्स्नम् आनन्त्यं प्राक् श्रुतात् ईश्वरो मदन्यः कश्चिदस्तीति शङ्कया समाधौ परिदृश्यमानमप्यानन्त्यमसर्वमभूत् श्रुतानन्तरं तु सर्वमित्यर्थः आसीदित्यनेन सर्वानन्त्यस्याकृत्रिमत्वमुक्तं शाश्वती श्रुतिः क्षेत्रज्ञं चापि मां विद्धीति तत्त्वमसीति च जीवस्य सिद्धवत् ब्रह्मभावकीर्तनात् निर्णिक्तानां विशुद्धानां शुभात्मनां मोक्षबुद्धीनाम् ॥२९॥
चतुर्थोपनिषद्धर्मः साधारण इति स्मृतिः
।
संसिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः ॥३०॥
चतुर्थः जाग्रत्स्वप्नसुषुप्त्यभिमानिविश्वतैजसप्राज्ञान् अपेक्ष्य चतुर्थो निर्विशेषः परमात्मा तद्विषयिणी या उपनिषद्विद्या तदर्थो धर्मः शमदमोपरमतितिक्षाश्रद्धासमाध्यात्मकः साधारणो वर्णाश्रमाणामिति शेषः संसिद्धैः शुद्धचित्तैः । नियतात्मभिर्निरुद्धचित्तैः । नित्यं तुरीयं ब्रह्म साध्यते प्राप्यते ज्ञानं शास्त्रीयं श्रवणमपि निर्विक्षेपं संन्यांसे एव भवतीत्यर्थः ॥३०॥
संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते
।
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः ॥३१॥
अपवर्गप्रदा मतिर्विद्या ब्रह्मसाक्षात्काररूपा वृत्तिर्यस्मिन्निति नित्यः आवश्यकः एष नित्यो महिमा ब्राह्मणस्येतिश्रुतेः । सनातनः संप्रदायागतः ॥३१॥
साधारणः केवलो वा यथाबलमुपासते
।
गच्छतां गच्छतां क्षेमं दुर्बलोऽत्रावसीदति
।
ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥३२॥
साधारण आश्रमान्तरधर्मसंमिश्रः यथाबलं यथा वैराग्यं गच्छतां गच्छतामिति पुरुषमात्रस्य वणिग्व्याधादेरपि क्षेमं क्षेमहेतुः दुर्बलो रोगी ज्ञानफलमुपसंहरति - ब्रह्मण इत्यर्धेन ॥३२॥
स्यूमरश्मिरुवाच ।
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये
।
मात्राभिरुपलब्धाभिर्ये वा त्यागं समाश्रिताः ॥३३॥
मात्राभिर्धनैः त्यागे संन्यासं गार्हस्थ्ये संन्यासे वा यथोक्ताचारवतां यद्यपि निवृत्तिधर्मस्तुल्यस्तथापि प्रेत्यभावे मरणे कः स्वर्गजित्तमः ॥३३॥
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः
।
एतदाचक्ष्व मे ब्रह्मन् यथातत्त्वेन पृच्छतः ॥३४॥
कपिल उवाच ।
परिग्रहाः शुभाः सर्वे गुणतामभ्युपागताः
।
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥३५॥
परीति । द्वयोर्मोक्षे समानेऽपि त्यागी दृष्टसुखं बहु प्राप्नोतीयर्थः ॥३५॥
स्यूमरश्मिरुवाच ।
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः
।
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥३६॥
ऐक्यं मोक्षैकफलत्वम् ॥३६॥
एकत्वेन पृथक्त्वेन विशेषो नात्र दृश्यते
।
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥३७॥
एकत्वेन ज्ञानकर्मणोः समप्राधान्येन पृथक्त्त्वेन प्रधानगुणभावेन ॥३७॥
कपिल उवाच ।
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः
।
कषाये कर्मभिः पक्वे रसज्ञाने च तिष्ठति ॥३८॥
शरीरपक्तिः स्थूलसूक्ष्मशरीरशुद्धिः कर्माणि कर्मप्रयोज्या साध्यसाधनयोरभेदोपचारः ज्ञानं तुशब्दः पूर्ववैलक्षण्यसूचनार्थः मोक्षसाधनमित्यर्थः । तत्र क्रममाह - कषाये इति । चित्तदोषे कर्मभिः पाचिते सति रसः प्रीतिर्ब्रह्मानन्दस्तस्य ज्ञाने शास्त्रजे तिष्ठति सति ॥३८॥
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्
।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥३९॥
आनृशंस्यादयः प्रवर्तन्ते तैश्च परं ब्रह्म प्राप्नोति । आनृशंस्यं भूतदया क्षमा अभिभवेऽप्यविक्षिप्तचित्तता शान्तिर्मनोजयः सत्यं यथार्थभाषणम् आर्जवम् अवक्रत्वम् शमः कर्मभ्य उपरतिः ॥३९॥
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम्
।
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम् ॥४०॥
कर्मनिश्चयं कर्मफलनिश्चयं कषायपक्तिम् अनुवैराग्याद्युत्पत्तिमनुसञ्जातां बुद्ध्येत ॥४०॥
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः
।
गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् ॥४१॥
यामिति परमगतेर्लक्षणम् ॥४१॥
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्
।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः ॥४२॥
यत्र ते वेदाः वेदितव्यं कर्मब्रह्मस्वरूपं यथा स्थितिं कर्मणामनुष्ठानं ब्रह्मणश्च ज्ञानं प्राप्य अनहङ्कारेणावस्थानं च दृश्यते स एव वेदवित् अन्यस्तु वातरेचको भस्त्रापरनामा चर्मकोशः वातवेटक इति गौडाः पठन्ति । व्याचक्षते च वातवशात् वेटकः भाषकः वेट परिभाषणे इति धातुः ॥४२॥
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्
।
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥४३॥
मानं मेयं मातृस्थितिं च वेदादिपदोपात्तां क्रमेण व्युत्पादयति । सर्वमित्यादिनाऽध्यायशेषेण । अस्ति वर्तमानं नास्ति अतीतानागतं तस्य सर्वस्य निष्ठा स्वरूपम् ॥४३॥
एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च
।
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः ॥४४॥
मानमुक्त्त्वा मेयमाह - एषैवेति । सर्वत्र सर्वेषु शास्त्रेषु एषा एकैव निष्ठा काऽसौ एतत् जगत् अस्ति च प्रतीतिकाले नास्ति च बाधकाले । ननु घटादिरपि स्थितिकालेऽस्ति प्राक्प्रध्वंसाभावकाले नास्तीत्याशङ्कानिरासाय चकारद्वयेन समानकालिकमस्तित्वनास्तित्वधर्मद्वयं समुच्चिनोति । तेन बुद्धानां प्रतीयमानमपि मायापुरवन्नास्त्येव अबुद्धानां च तत्त्वतोऽत्यन्तासदपि वज्रपञ्जरवद्दृढतरमस्त्येव । एतदेव विवृणोति - एतदिति । विजानतः तत्त्वज्ञस्य एतत् परिदृश्यमानं वियदादि अन्तं च मध्यं च अनुबाद्यापेक्षं क्लीबत्वम् अन्तश्च मध्यश्च अन्तो निर्विशेषं लयस्थानम् । मध्यः सविशेषं लयस्थानम् । सत् सूत्राख्यं वस्तुतस्त्वसदिति । एतदुक्तं भवति - एतद्वैराजं रूपं शुद्धात् ब्रह्मणोऽनन्यदेव रजतमिव शुक्तेः । एतन्मायाशबलादप्यनन्यत् कुण्डलमिव कनकात् । एतत् सूक्ष्मादप्यनन्यत् उपनेत्रदृशः स्थूलाक्षरमिव सूक्ष्मात् तेनैतदसत् अज्ञानमात्रमनिर्वचनीयमिति । नन्वेक एव मायावी सर्वलयस्थानमस्तु किमिति ततोऽन्यन्निर्मायं कल्प्यते इति चेत् श्रुतिप्रामाण्यादिति ब्रूमः । तथाहि श्रुतिः - 'स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनम्' इति अप्समुद्रदृष्टान्तेन कार्यलयाधिष्ठानं मायाविनमुक्त्वा स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयत इति लवणोदकदृष्टान्तेन कार्यकारणोभयलयाधिष्ठानं चिन्मात्रं दर्शयति । यथा उदके प्रास्तः सैन्धवखिल्यस्तत्र स्वोपादानभूतमुदकं विलीयते न तु करकावत्स्वरूपमात्रेण परिमाणानतिरेकादेवं कार्यकारणे शुद्धे ब्रह्मणि लीयेते इति श्रुत्यर्थः ॥४४॥
समाप्तं त्याग इत्येव सर्ववेदेषु निष्ठितम्
।
संतोष इत्यनुगतमपवर्गे प्रतिष्ठितम् ॥४५॥
एवंविदः समाधिव्युत्थानयोः स्थितिमाह - समाप्तमिति । त्याग इत्येव क्षेत्रारामगृहपशुपत्नीपुत्रशरीरेन्द्रियप्राणमनोबुद्ध्यहङ्कारान्तानां त्यागे निर्विकल्पसमाधौ सत्येव सम्यगाप्तं भवति एतदेव सर्ववेदार्थः । यथोक्तं वासिष्ठे - 'निर्विकल्पसमाधिर्हि सिद्धान्तः सर्ववाङ्मयः' इति । अपि संराधने प्रत्यक्षानुमानाभ्यामिति सूत्रं च संराधने समाधौ प्रत्यक्षं श्रुतिप्रामाण्यं प्रत्यनपेक्षत्वात् अनुमानं श्रुतिः मूलसापेक्षत्वात् । दृश्यते त्वग्र्यया बुद्ध्या योगिनस्तं प्रपश्यन्तीति श्रुतिस्मृतिभ्यां समाधावात्मनः सम्यग्दर्शनं भवतीति सूत्रार्थः । व्युत्थानावस्थामाह - संतोष इति । श्रुतौ हि 'ते ये शतं मानुषा आनन्दशः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य' इत्यादिनोत्तरोत्तरं शतगुणेषु मानुषानन्दादिब्रह्मानन्दशन्तेष्वानन्देषु श्रोत्रियत्वाकामहतत्वयोरनुगमो दृष्टः । तत्र श्रोत्रियत्वं सर्वत्र समानम् अकामहतत्वोत्कर्षादेव चानन्दोत्कर्षः तस्यैव सन्तोषशब्दितस्य सर्वानन्देष्वनुगतस्य परा काष्ठा व्युत्थिते ब्रह्मविदि ज्ञेयेत्यर्थः ॥४५॥
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यामा स्थावरं जङ्गमं च
।
सर्वं सुखं यच्छिवमुत्तरं च ब्रह्माव्यक्तं प्रभवश्चाव्ययं च ॥४६॥
अपवर्गस्वरूपमाह - ऋतमिति । ऋतमबाधितं सत्यं सच्च त्यच्चेति सत्यं मूर्तामूर्तप्रपञ्चात्मकं तदधिष्ठानत्वात् । यतः सर्वस्यात्माऽतो विदितं यतः स्थावरं जङ्गमं च तत्तद्देहतादात्म्यापन्नमतो वेदितव्यं सर्वमविकलं सुखं दुःखासंभिन्नं सुखमित्यर्थः । उत्तरं सर्वोत्कृष्टं शिवं शान्तमद्वैतं तुरीयमित्यर्थः । 'शिवमद्वैतं चतुर्थं मन्यन्ते' इति श्रुतेः । ब्रह्म त्रिविधपरिच्छेदशून्यम् अव्यक्तस्य प्रभव आविर्भावो यस्मात्तत् ईशस्याप्यधिष्ठानम् । अव्ययम् अपरिणामित्वान्नित्यं चात् असंगम् ॥४६॥
तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम्
।
एतैः सर्वैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥४७॥
प्रकरणार्थमुपसंहरति - तेज इति । तेजः इन्द्रियजये सामर्थ्यं क्षमा अपकारिष्वपि क्रोधानुत्पत्तिः । शान्तिर्निष्कामत्वेन सर्वस्मात्कर्तव्यादुपरमः । एतत्रयम् अनामयं शुभं निर्दुःखस्य सुखस्य प्राप्तौ हेतुः । तथेति प्राप्यप्रापकस्वरूपविभागार्थः । तथाविधं नास्ति विधो विधानं कर्तव्यता यत्र तत् अविधम् अकृत्रिमं व्योम जगत्कारणं व्योमवदसङ्गं वा सनातनं नित्यैकरूपं ध्रुवमविनाशि एतैः तेजआदिभिस्त्रिभिः कारणैर्यत् गम्यतेऽधिगम्यतेऽज्ञानापनोदे सति । कैः बुद्धिनेत्रैः पुरुषैः तस्मै ब्रह्मणे नम इति विद्याया वीर्यवत्त्वाय प्रचयगमनाय च नमस्करोति भगवान्कपिलः । ब्राह्मणाय ब्रह्मविदभिन्नाय ॥४७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि गोकपिलीये सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥
भीष्म उवाच।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
।
नारदस्य च संवादं देवलस्यासितस्य च ॥१॥
अत्रैव निनीषेद्ब्रह्मणः पदमित्यत्रोक्ते ब्रह्मणः पदे विषये एव ॥१॥
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम्
।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥२॥
नारद उवाच।
कुतः सृष्टमिदं विश्वं ब्रह्मन् स्थावरजङ्गमम्
।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥३॥
कुत इत्यवान्तरकारणप्रश्नः । कमभ्येतीति पार्यन्तिकोपादानकारणप्रश्नः ॥३॥
असित उवाच ।
येभ्यः सृजति भूतानि काले भावप्रचोदितः
।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥४॥
आद्यस्योत्तरमाह - येभ्य इति । भूतानि जरायुजादीनि काले कर्मोद्भवसमये भावो भावना निखिलप्राणिधीवासना तया प्रचोदितः प्रेरितः परमात्मा महाभूतानि खादीनि ॥४॥
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः
।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥५॥
कः सृजति कश्चास्य प्रवर्तको भाव इत्यत आह - तेभ्य इति । कालश्चतुर्युगात्मा । अधर्मे रतोऽधर्मं तित्यक्षुर्धर्मारम्भी धर्मे रत इति चतुर्विधः कलिद्वापरत्रेताकृतयुगसंज्ञो जीवः आत्मा बुद्धिस्तया प्रचोदितः । एतेभ्यः कालबुद्धिमहाभूतेभ्यः परं चेतनमीशम् अचेतनं प्रधानं वाऽन्यदस्तीति यो ब्रूयात्सोऽसदलीकं ब्रूयात् । नान्योऽतोऽस्ति द्रष्टेति द्रष्ट्रन्तरनिषेधश्रुतेः । 'तुच्छ्येनाभ्वपिहितं यदासीत् तमसस्तन्महिनाऽजायतैकम्' इति तुच्छाज्ञानमाहात्म्याद्बुद्ध्यादिरूपेण ब्रह्मैवाजायतेति श्रुतेर्दृश्यमानकार्यमेवास्ति न तु परीक्षायां तिरोधीयमानं कारणमस्ति रज्जूरगोपादानाज्ञानवदतोऽन्येषां नित्यानुमेयत्वेनाभिमतं प्रधानं तटस्थेश्वरश्च तदुभयं दृश्यात् द्रष्टुश्चान्यदचेतनं चेतनं वा नास्तीति स्पष्टम् ॥५॥
विद्धि नारद पञ्चैताशाश्वतानचलान् ध्रुवान्
।
महतस्तेजसो राशीन् कालषष्ठान् स्वभावतः ॥६॥
एतान् खादीन् अचलान् परिणामशून्यान् ध्रुवान् आद्यन्तशून्यान् स्वप्नघट इवाजातत्वादेव त्वनाद्यन्तवत्त्वदृष्टिर्भूतेषु भ्रान्तिरेवेत्यर्थः । जात एव न जायते मायामात्रमिदं द्वैतमिति श्रुत्या च यो लोकदृष्ट्या जातो घटादिः स एव परमार्थतो न जायते स्वप्नघटवत् इत्याद्यश्रुतेरर्थः । द्वितीयायास्तु स्पष्ट एवार्थः । महतो महत्तत्त्वाख्यस्य बुद्धिसूक्ष्मस्य तेजसः । सत्त्वप्राधान्येन प्रकाशमयस्य राशीनिव राशीन् कार्याण विद्धि । काल उक्तरूपो जीवः स एव षष्ठो येषां तान् स्वभावत इति पूर्वकल्पादिप्राधान्येन ॥६॥
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ
।
नासीद्धि परमं तेभ्यो भूतेभ्यो मुक्तसंशयम् ॥७॥
तानेवाह- आप इति । महत्तत्त्वस्यापि भौतिकत्वात्सात्मकेभ्यो भूतेभ्यः परमम् उत्कृष्टं किमपि तत्त्वं नासीत् । उपपत्त्या श्रौतयुक्त्या लौकिकानुमानेन वा कश्चित्तदस्तीति यदि ब्रूयात्तर्हि अन्ते असत् अज्ञानमेव ब्रूयात् तथाहि दुःखस्य मूलं शरीरं तस्यापि कारणं कर्म कर्मण्यपि प्रवर्तको रागादिर्दोषः स चाज्ञानादेव भवतीति श्रौती उपपत्तिस्तामसूत्रयद्भगवानक्षपादः- दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावदपवर्ग इति । तस्मान्मूलकारणमज्ञानमेव । ननु संसारकारणमज्ञानमस्तु तस्य वियदादिप्रपञ्चकारणत्वे किं मानमिति चेत् । अत्र पृच्छामः - किं तदज्ञानं यत्संसारकारणमुच्यते, न तावज्ज्ञानाभावमात्रं तस्य सुषुप्तावपि सत्त्वेन दोषाद्यजनकत्वात् । अभावाद्भावोत्पत्यसम्भवाच्च । नापि संशयज्ञानम् । अनवधारणात्मकस्य तस्य प्रवृत्याद्यनुपयोगित्वात् । तस्मादतस्मिंस्तद्बुद्धिरूपविपरीतज्ञानं तत्रानात्मनि देहादावात्मबुद्धिरूपं संसारकारणमिति वाच्यम् । न च सिंहो माणवक इत्यादौ माणवके सिंहत्वबुद्धिरस्ति प्रयोक्तृप्रतिपतृभ्यां सिंहमाणवकर्योर्भेदस्य प्रतिपन्नत्वात् । आस्मिंस्तच्छब्दप्रयोगमात्रं तत्तु माणवके सिंहगतक्रौर्यादिसम्बन्धप्रत्यायकं गौणमिति प्रसिद्धं देहादिस्तु शुक्तिरजतवदात्मनि तादात्म्येनाध्यस्त इति कृशोऽहं गौरोऽहमिति तत्र देहधर्मस्य गौरत्वादेः प्रत्ययो न गौणः सिंहमाणवकयोरिव देहात्मनोर्भेदस्य लोकाप्रसिद्धत्वात् । ननु माऽस्तु तयोर्भेदप्रसिद्धिः । तथापि स्फटिकलौहित्यन्यायेन धर्ममात्राध्यासेनैव कृशोऽहमित्यादिव्यवहारोपपत्तावात्मनि किं देहाद्यध्यासकल्पनयेति चेत् । किमहमर्थमेवात्मानं ब्रूषे उत ततोऽन्यम् । आद्ये इष्टापत्तेः । न हि जडयोर्देहाहमोरन्यधर्मस्थान्यत्राध्यासे किञ्चिदस्माकं हीयते । अहमर्थस्य चैतन्याश्रयत्वेनाजडत्वं त्वाकर एव दृश्यत्वादिना हेतुनाऽनात्मत्वादेव निरस्तम् । अन्त्ये-
'निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा
।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते॥'
इति वृद्धवचनात् शुक्तिरजतवदनिर्वचनीय एव तयोरज्ञानकृतः सम्बन्ध इत्यज्ञानमेवान्ते शरणीकरणीयम् । तथा च स्वप्नवदज्ञानेनैव सर्वव्यवहारोपपत्तौ वियदादीनां पृथक्सत्त्वकल्पनं गरीयस्तरमित्युपेक्षणीयम् तस्माद्युक्तमुक्तम् असद्ब्रूयादसंशयमिति । आसिद्धेः परममिति पाठे तु यावन्मोक्षं भूतेभ्यः परमम् अधिकं नोपपत्त्या न वा युक्त्या कश्चिद्ब्रूयाद्यदि ब्रूयात्तर्ह्यसदज्ञानमेव ब्रूयात् । मोक्षे तु न वा भूतानि नाप्यज्ञानमिति भावः । असिद्धिः परमेतेभ्य इति पाठेऽपि एतेभ्यः परमस्तीति यत्तत्रासिद्धिः प्रमाणाभावः यतः नोपपत्या न वा युक्त्या न ब्रूयात् किं त्वसदेव ब्रूयादिति योज्यम् सार्धः ॥७॥
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम्
।
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः ॥८॥
एतान् षट् अभिनिर्वृत्तान् सर्वत्र कार्येऽनुगतान्वेत्थ जानीषे । यस्य च एते राशयः कार्याणि तदसच्छब्दवाच्यमज्ञानं च वेत्थ । अहमज्ञ इत्यनुभवो नीहारेण प्रावृता जल्प्या चेति श्रुतिश्चाज्ञानसद्भावे प्रमाणमस्तीति भावः ॥८॥
पञ्चैव तानि कालश्च भावाभावौ च केवलौ
।
अष्टौ भूतानि भूतानां शाश्वतानि भवात्ययौ ॥९॥
भावो भावनं पूर्वसंस्कारः अभावोऽज्ञानम् । भावान्तरमभावो हि कयाचित्तु व्यपेक्षयेति न्यायेन तदपि भावरूपमेव न तु सप्तमपदार्थरूपमित्युक्तं प्रागेव । कालो जीवः पञ्चभूतानि चेत्यष्टौ भूतानि अनादीनि शाश्वतानि अखण्डदण्डायमानानि भूतानां स्थावरजङ्गमानां भवात्ययौ उत्पत्तिलयस्थानानि ॥९॥
अभावं यान्ति तेष्वेव तेभ्यश्च प्रभवन्त्यपि
।
विनष्टोऽप्यनु तान्येव जन्तुर्भवति पञ्चधा ॥१०॥
एतदेव व्याचष्टे - अभावमिति । ननु स्थावरजङ्गमदेहावयवानां भूम्यादीनां स्वस्वकारणे लयो युज्यते । जीवस्य तु लयस्थानं नास्ति नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तरनिषेधादत आह - विनष्ट इति । तान्येव भूतानि नष्टान्यनुलक्षीकृत्य जन्तुरपि पञ्चधा भूत्वा नष्टोऽपि भवति । 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ इति जलचन्द्रन्यायेनोपाधिभूतभूतनाशेन तन्नाशस्यापि श्रवणात् ॥१०॥
तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम्
।
सूर्याच्चक्षुरसुयोरद्भ्यस्तु खलु शोणितम् ॥११॥
पञ्चधात्वमेव विवृणोति- तस्येत्यादिना ॥११॥
चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च पञ्चमी
।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥१२॥
इन्द्रियार्थानां शब्दादीनां ज्ञानानि ज्ञानकरणानि ॥१२॥
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा
।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ॥१३॥
पञ्च इन्द्रियाणि पञ्चसु रूपादिषु पञ्चधा दर्शनादिक्रियारूपेण वर्तमानानेतान् गुणानेव उपपत्या युक्त्या विद्धि । अयमर्थः- प्रकाश्यप्रकाशयोर्गन्धघ्राणयोः पार्थिवत्वमेव एकजातीयत्वावगमाद्विषयपञ्चकप्रकाशं मनः पञ्चभूतात्मकं तत्प्रवर्तको विज्ञानमयोऽपि तादृश एव तस्यैव पूर्वापरीभावो दर्शनादिक्रिया । अतः द्रष्टृदर्शनदृश्यानां त्रयाणामपि गुणात्मत्वमुपपन्नमिति ॥१३॥
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः
।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥१४॥
रूपमिति । तद्गुणाः उपलब्धुर्विज्ञानमयस्य गुणाः पञ्चधा भूतेन तेनैवोपलब्ध्वा उपलभ्यन्ते । इन्द्रियैः करणैः ॥१४॥
रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान्
।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥१५॥
उपलब्धुः स्वरूपमाह - रूपमिति सार्धत्रयेण । मनःसहितानीन्द्रियाणीति ज्ञेयम् । क्षेत्रज्ञो विज्ञानात्मा क्षेत्रं च ज्ञश्च तयोः समाहारः । अथवा क्षेत्रयुक्तो ज्ञः क्षेत्रज्ञः बुद्धिविशिष्टश्चेतन इत्यर्थः ॥१५॥
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः
।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥१६॥
क्षेत्रात् क्षेत्रज्ञं विविनक्ति - चित्तमिति ॥१६॥
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान् पृथक्
।
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति
।
इन्द्रियैरुपलब्धार्थान् बुद्धिमांस्तु व्यवस्यति ॥१७॥
चित्तादीनन्तःकरणवृत्तिभेदान्व्याचष्टे - पूर्वमिति । चेतयते जानाति सामान्यत इदमिति । ज्ञानमनवधृतविशेषं चित्तमिति पृथगिति कोटिद्वयमुपन्यस्य यद्विचारात्मकं ज्ञानमिदं वा इदं वेति तन्मनो व्यवस्यति निश्चिनोति यया सा वृत्तिर्बुद्धिः । य इन्द्रियैरर्थान्व्यवस्यति स उपलब्धा बुद्धिमान् बुद्ध्युपहितः ॥१७॥
चित्तमिन्द्रियसंघातं मनो बुद्धिस्तथाष्टमी
।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥१८॥
इन्द्रियङ्घातं श्रोत्रादिपञ्चकं एतेन बुद्धेरिन्द्रियत्वादुपलब्धा ततोऽपि निष्कृष्टोऽनुपाधिचिन्मात्रस्वरूपः क्षेत्रज्ञो दर्शितो भवति ॥१८॥
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम्
।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥१९॥
मेहनं शिश्नं मुखं वागिन्द्रियम् अदनसाधनं च ॥१९॥
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते
।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥२०॥
एतेषां विषयानाह - जल्पनेति ॥२०॥
पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी
।
विसर्गे च पुरीषस्य विसर्गे चापि कामिके ॥२१॥
पायुपस्थमिति पूर्वार्धस्योत्तरार्धं व्याख्यानम् ॥२१॥
बलं षष्ठं षडेतानि वाचा सम्यग्यथा मम
।
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया ॥२२॥
बलमिति । पञ्चवृत्तिः प्राणः यथा मम तथा सर्वेषाम् एतानि षट् इति मया वाचा उक्तानीति शेषः । चेष्टा कर्म यथागमं संशब्दिता मया इति पाठे स्पष्टोऽर्थः । तेन सामान्या करणवृत्तिः प्राणाद्याः वायवः पञ्चेति साङ्ख्यानां सम्मतः प्राणस्येन्द्रियानतिरेकपक्षः परास्तः । निर्विशेषं न सामान्यमिति न्यायेन सुषुप्तौ सर्वेन्द्रियोपरमे प्राणानुपलम्भापत्तेः तुल्यन्यायेन तथा मनसोऽप्यनिन्द्रियत्वापत्तेः ॥२२॥
इन्द्रियाणां स्वकर्मेभ्यः श्रमादुपरमो यदा
।
भवतीन्द्रियसन्त्यागादथ स्वपिति वै नरः ॥२३॥
एवं जाग्रदवस्था परीक्षिता । सुषुप्तिस्वप्नयोः स्वरूपमाह - इन्द्रियाणामिति । इन्द्रियाण्यष्टौ चित्तमनोबुद्धिसहितानि प्राणव्यतिरिक्तानि पञ्च कर्मेन्द्रियाणि च । तेषां सन्त्यागात्त्यक्तवास्यस्तक्षेव स्वरूपमात्रेण तदा क्षेत्रज्ञआस्त इत्यर्थः । नर इति मूलाज्ञाननाशाभावाज्जीवत्वं दर्शितम् ॥२३॥
इन्द्रियाणां व्युपरमे मनो व्युपरतं यदि
।
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम् ॥२४॥
अव्युपरतमिति च्छेदः ॥२४॥
सात्त्विकाश्चैव ये भावास्तथा तामसराजसाः
।
कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ॥२५॥
ननु स्वप्ने विषयाणामभावात्कथं तद्भानमत आह - सात्त्विका इति । ये भावा भाव्यन्ते चिन्त्यत इति भावा वासनामया विषया ये जाग्रत्प्रसिद्धास्तानेव सात्त्विकादीन्कर्मयुक्तान् भोगप्रदकर्मयुक्तान् प्रशंसन्ति स्वप्नेऽपीति शेषः । जाग्रद्वासना एव कर्मोद्भवे स्वप्नेऽपि भान्तीत्यर्थः ॥२५॥
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परागतिः
।
सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः ॥२६॥
एतदेवाह - आनन्द इति । आनन्दः सुखं कर्मणां सिद्धिरैश्वर्यं प्रतिपत्तिर्ज्ञानं परा गतिः परं वैराग्यं धर्मो वा धर्मो ज्ञानं विराग ऐश्वर्यं सात्त्विकमेतद्रूपमिति सप्तत्युक्तेः । सात्त्विकस्य पुरुषस्य स्मृतिर्निमित्तानि हेतुभूतानानन्दादीन् भावान् वासनाः संश्रयते । सात्त्विकः पुमान् जाग्रद्वासनाहेतुकानानन्दादीन् स्वप्ने स्मरतीति भावः ॥२६॥
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः
।
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं तयोः ॥२७॥
सात्त्विकस्येत्युपलक्षणत्वेन व्याचष्टे - जन्तुष्विति । सात्त्विकेषु राजसेषु तामसेषु वा जन्तुषु एकतमेषु येषु केषुचित् ये भावाः या वासनाः विधिं कर्मगतिमास्थितास्तानेव भावान्स्मृतिः संश्रयत इति पूर्वेण सम्बन्धः । सात्त्विकादिसंस्कारेष्वन्यतमः प्राक्कर्मोपोद्बलितः स्वप्ने तादृशान् भावान्स्मारयतीत्यर्थः । स्मृतिरूपमपि तज्ज्ञानं भोगप्रदकर्मवशादेव प्रत्यक्षवदवभातीति भावः । जाग्रत्स्वप्नयोरुपपादनफलं दर्शयति - भावयोरिति । द्वित्वं जात्यभिप्रायम् जाग्रद्भावजातीयस्य स्वाप्नभावजातीयस्य च गमनमपसरणं जागरीयभावस्य स्वप्ने स्वाप्नस्य जागरे च द्वयस्यापि सुषुप्तौ प्रत्यक्षं दृष्टम् । तदेव नित्यमपुनरावृत्तिस्वभावम् । ईप्सितं नित्या सुषुप्तिरेव मुक्तिः सैवापेक्षितव्या । उच्छेदशीलयोर्भावयोरात्यन्तिकोच्छेदस्यापि सम्भवादित्यर्थः ॥२७॥
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः
।
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥२८॥
वह्न्यौष्ण्यवदात्मनि तयोरनुच्छेदमाशङ्क्याह - इन्द्रियाणीति । पूर्वोक्तानि चतुर्दशेन्द्रियाणि त्रयः सात्त्विकादयो भावाः । एते सप्तदश गुणा भोक्तुरष्टादशस्यात्मनो भोग्या अतो भोक्तृभोग्ययोः स्वस्वामिभावसम्बन्धो वह्न्यौष्ण्यवत्तादात्म्याभावादुच्छेद्यो भवतीत्यर्थः । शरीरे सप्तदशात्मिकायामविद्यायां प्रविष्टो योऽष्टादशः स शाश्वतो भोक्तेत्यर्थ ॥२८॥
अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम्
।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥२९॥
ननु भोक्तुर्विक्रियावतः कथं शाश्वतत्वमित्याश्ङ्क्याह - अथवेति । अविद्यया सहितास्ते अष्टादश गुणा भोग्या एव भोक्तुरपि अविद्यया संहतत्वात्पारार्थ्यमस्ति । अतः सोऽपि भोग्यवर्गेऽन्तर्भूतेत्यर्थः । शरीरिणां चिदात्मनां यस्यानुभवस्यार्थं भोक्ता भोग्यमिच्छति स सर्वशेषी परमप्रेमास्पदं तस्यैवैतेऽष्टादश भोग्याः। बहुत्वं भोक्तभेदकृतानुभवभेदाभिप्रायं शरीरिणामिति कर्मणि षष्ठी । भोक्त्रादयोऽनुभवाश्रिताः अस्यानुभवस्य सत्त्वे प्रमाणमाह - तद्वियोगे हीति । यतोऽनुभवाभावे साविद्यास्ते न सन्ति । प्रमात्रादिभावाभावसाधकस्यानुभवस्याभावे प्रमात्रादय एव न सिद्ध्यन्त्यतः स प्रसिद्धतर इत्यर्थः। यथोक्तं वार्तिके - प्रमाणमप्रमाणं च प्रमाभावस्तथैव च । दाश्रिताः प्रवर्तन्ते तदा सम्भावना कुतः । इति अप्रमाणं मातृमेयात्मकम् ॥२९॥
अथवा सन्निपातोऽयं शरीरं पाञ्चभौतिकम्
।
एकश्च दश चाष्टौ च गुणाः सह शरीरिणा ॥३०॥
नन्वनुभवोऽपि न प्रमोदास्पदं दुःखानुभवस्यापि प्रार्थ्यत्वापत्तेरित्यत आह- अथवेति । सन्निपातः एकीभावः शरीरं स्थूलसूक्ष्मभेदेन द्विविधम् । एकोऽनुभवः शरीरिणा भोक्त्रा सह दश चाष्टौ चेत्यष्टादश पूर्वोक्ता गुणाः ऊष्मणा जाठराग्निना सह विंशो विंशतेर्गणः । अयं कृत्स्नोऽपि पाञ्चभौतिकः सङ्घातः अत्रानुभवस्य धीवृत्तिरूपत्वं वृत्तिवृत्तिमतोर्भेदं च विवक्षित्वा सङ्घातमध्ये पाठः । तेन वृत्तिरूपोऽनुभवः क्षेत्रज्ञ इति शङ्कां परास्य यो मातृमानमेयप्रमाणानां तदाभासानां तदभावानां च प्रकाशको योऽखण्डसंविद्रूपोऽनुभवः स क्षेत्रज्ञ इति स्थितम् ॥३०॥
उष्मणा सह विंशो वा संघातः पाञ्चभौतिकः
।
महान्संधारयत्येतच्छरीरं वायुना सह
।
तस्य प्रभावयुक्तस्य निमित्तं देहभेदने ॥३१॥
अस्यैव देहे प्रवेशादिकमाह- महानित्यादिना । महान् एकविंशतितमः उक्तविधोऽनुभवः वायुना प्राणेन उपकरणेन सह शरीरं विंशात्मकं क्षेत्रं धारयति । ननु तत्प्राणे प्रपन्न उदतिष्ठदिति प्राणस्यैव मुख्यं शरीरधारकत्वमुच्यत इत्याशङ्क्याह - तस्येति । तस्य महतो निमित्तम् उपकरणं देहभेदने देहनाशे यथा घटनाशे मुद्गरो निमित्तमात्रं भेत्ता तु पुरुष एवं महानेव धारयिता देहस्य वायुस्तु निमित्तमात्रम् । निमित्तमात्रपरतया च श्रुतिरप्युपपन्नैवेति न कश्चिद्दोषः । तथा च श्रुत्यन्तरम् -
'न प्राणेन नापानेन मर्त्यो जीवति कश्चन
।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ
।
'
इति। प्रभावयुक्तस्येत्यनेन -
'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः
।
स वेत्ति वेद्यं न तु तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्
।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' ॥
इत्यादिश्रुत्यर्थो दर्शितः ॥३१॥
यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा
।
पुण्यपापविनाशान्ते पुण्यपापसमीरितः
।
देहं विशति कालेन ततोऽयं कर्मसम्भवम् ॥३२॥
एवं प्रविष्टस्य देहनाशोत्पत्ती अनुनाशोत्पत्ती अपि स्त इत्याह - यथैवेति सार्धेन । यथैव किञ्चित् घटादिकमुत्पद्यते नश्यति च तथैवायं प्रारब्धपुण्यपापविनाशान्ते पञ्चत्वं गच्छति सञ्चितपुण्यपापाभ्यां समीरितः कालेन देहं देहान्तरं विशति ॥३२॥
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः
।
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥३३॥
कृताश्रयः अविद्याकामकर्मभिर्निष्पादितदेहान्तरः। वाशब्द इवार्थे ॥३३॥
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः
।
कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धदर्शिनः ॥३४॥
तत्र देहसम्बन्धकृते मरणादौ सति सम्बन्धदर्शिनः आत्मनोऽनात्मना देहपुत्रादिना सम्बन्धं वस्तुतोऽविद्यमानमपि भ्रान्त्या पश्यन्तः ॥३४॥
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते
।
भवत्येको ह्ययं नित्यं शरीरसुखदुःखभाक् ॥३५॥
पुत्रादिसम्बन्धं तावन्निषेधति - न हीति ॥३५॥
नैव संजायते जन्तुर्न च जातु विपद्यते
।
याति देहमयं मुक्त्वा कदाचित्परमां गतिम् ॥३६॥
देहादिसम्बन्धं निषेधति - नैवति । कदाचित् विद्यया कर्मदाहे सति परमां गतिं मोक्षं याति ॥३६॥
पुण्यपापमयं देहं क्षपयन् कर्मसंक्षयात्
।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥३७॥
तथापि प्रारब्धकर्मणामवश्यभोक्तव्यत्वमाह - पुण्येति ॥३७॥
पुण्यपापक्षयार्थं हि सांख्यज्ञानं विधीयते
।
तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् ॥३८॥
सञ्चितकर्मणां ज्ञानेनैव दाह इत्याह - पुण्येति । तत्क्षये पुण्यपापक्षये सति । अस्य जीवस्य ब्रह्मभावे 'ब्रह्मविद्ब्रह्मैव भवति' इति श्रुतिसिद्धे ब्रह्मविद्यया व्यक्तीभूते सति परां गतिं कैवल्यं पश्यन्ति पण्डिताः शास्त्रदृष्ट्या न त्वन्यस्य कैवल्यमन्येन द्रष्टुं शक्यत इति ॥३८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारदासितसंवादे पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५॥
युधिष्ठिर उवाच।
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत
।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥१॥
उक्तः संन्यासो देवतांशभूतैः सार्वभौमैर्भगवद्भक्तैरपि प्रार्थ्यत इत्येतद्दयितुं युधिष्ठिरप्रश्नमाह - धन्या इति ॥१॥
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम
।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥२॥
देवैर्धर्मादिभिर्बीजप्रदैः जातिं जन्म प्राप्यापि । यत् यस्मात् अस्माभिरपि दुःखं प्राप्तम् । अतः शरीराणां धारणं दुःखमित्युत्तरेणान्वयः ॥२॥
कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम्
।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥३॥
यत एतद्दुःखम् अतः दुःखसंज्ञकं दुःखनाशकं संन्यासं कदा करिष्यामः । मारणतोषणनिशामनेषु ज्ञेति सूत्रे जानातेर्मारणार्थत्वानुवादात्पशुं संज्ञपयतीति ब्राह्मणदर्शनाच्च संज्ञपयतेर्ण्वुलि णेरनिटीति णिलोपे निमित्तापाये नैमित्तिकस्याप्यपाय इति न्यायेन पुङ्निवृत्तिः ॥३॥
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः
।
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह ॥४॥
सप्तदशभिः पञ्च प्राणा द्वे मनोबुद्धी दश ज्ञानकर्मेन्द्रियाणि तैः हेतुभूतैर्मुक्तिविरोधितया संसारवर्धकैः पञ्चभिः 'कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्' इति प्रागुक्तैर्योगदोषैः इन्द्रियार्थैः शब्दादिभिः गुणैः सत्त्वादिभिः अष्टाभिः पञ्च स्थूलभूतानि अविद्याहङ्कारकर्माणि चेति अष्टत्रिंशता गणेन विमुक्ताः ॥४॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः
।
कदा वयं गमिष्यामो राज्यं हित्वा परंतप ॥५॥
पुनर्भावं जन्म गमिष्यामः पारिव्राज्यं करिष्यामः ॥५॥
भीष्म उवाच।
नास्त्यनन्तं महाराज सर्वं संख्यानगोचरः
।
पुनर्भावोऽपि विख्यातो नास्ति किंचिदिहाचलम् ॥६॥
एवं दुःखातुरं राजानं दुःखस्यान्तवत्तां बोधयन्नाश्वासयति - नास्तीति । अनन्तं नास्ति दुःखमिति शेषः । अस्त्येव दुःखान्ताख्यो मोक्ष इत्यर्थः यतः सर्वं सङ्ख्यानं परिच्छेदस्तस्य विषयः । ननु प्रलयेऽपि सर्वस्यान्तोऽस्ति न तावता संसारनिवृत्तिरस्त्यत आह - पुनर्भावः भावो भवनं पुनर्जन्म सोऽपि विख्यातः अन्तवत्वेन । 'न स पुनरावर्तते' इति श्रुत्या सर्ववादिसम्प्रतिपत्त्या च प्रसिद्धोऽन्तः । ननु तथापि ऐश्वर्यलुब्धैरस्माभिः स कथं प्राप्तुं शक्य इत्यत आह - नास्ति किञ्चिदिहाचलमिति । 'अतोऽन्यदार्तम्' इति श्रुतेरैश्वर्यस्याप्यन्तो भविष्यतीत्यर्थः ॥६॥
न चापि मन्यसे राजन्नैष दोषः प्रसङ्गतः
।
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ ॥७॥
एषः ऐश्वर्यं दोष इति मन्यसे तदपि नेति न च तत्र हेतुः प्रसङ्गतः ऐश्वर्यस्यापि सङ्गहेतुत्वेन मोक्षप्रतिबन्धकत्वात्तथापि धर्मज्ञा यूयमुद्योगात् शमाद्यभ्यासादेव कालेन कियतापि गमिष्यथ प्राप्स्यथ मोक्षमिति शेषः । 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' इति गीतावचनात् ॥७॥
नेशेऽयं सततं देही नृपते पुण्यपापयोः
।
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥८॥
किञ्च अयं जीवः पुण्यपापयोः सुखदुःखयोर्नेशे न ईष्टे तत एव सुखदुःखोत्थेनैव तमसा रागद्वेषात्मकेनाज्ञानेन रुध्यते । दैवप्रापिताभ्यां सुखदुःखाभ्यामनुद्विग्नो मोक्षार्थमुद्योगं कुर्यादेवेत्यर्थः ॥८॥
यथाऽञ्जनमयो वायुः पुनर्मानःशिलं रजः
।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥९॥
सुखदुःखयोरुच्छेद्यत्वं दर्शयितुमात्मधर्मत्वं दृष्टान्तपूर्वकं व्युदस्यति - यथेति द्वाभ्याम् । अञ्जनमयः कज्जलप्रचुरः मनःशिलाया इदं मानःशिलं रक्तपीतं रजः यथा स्वयमरूपोऽपि वायुरञ्जनादिसम्बन्धात्तद्वर्णवानिव भूत्वा स्वयोनिं दिक्शब्दितमाकाशं च तद्वर्णवन्तमिव करोति । एवं तमसावृतोऽविद्योपाधिः समष्टिजीवः स्वयं विवर्णो रागादिराहित्याद्दोषास्पृगपि देहद्वयसम्बन्धात्तद्धर्मैर्गौरत्वकाणत्वसुखित्वादिभिस्तद्वानिव भूत्वा स्वयोनिमन्तर्यामिणमवर्णं त्रिगुणातीतमप्याश्रित्य व्याप्य तद्वन्तमिव कृत्वा देहेषु भ्रमति बिम्बप्रतिबिम्बयोरनन्यत्वात्प्रतिविम्बगतं कम्पादिकं वस्तुतो बिम्ब एवावभासते । एवं जीवगतोऽपि संसारो ब्रह्मण्येवास्ति तयोरभेदात् । अतो दुःखादेरात्मधर्मत्वाभावात्सुखेनोच्छेद्यत्वं स्यादित्यर्थः ॥९॥
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः
।
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥१०॥
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः
।
व्यपोहति तदा ब्रह्म प्रकाशति सनातनम् ॥११॥
ननु देहात्मयोगोऽनादित्वाद्दुरुच्छेद्य इत्याशङ्क्याह - ज्ञानेनति । तमः अतस्मिंस्तद्बुद्धिरूपो विपर्ययः । स च आत्मसङ्गेऽपि दुःखित्वादिभ्रमोऽज्ञानजा ज्ञानेन नश्यति यदा तदा प्रकाशते ब्रह्म सनातनं सदैकरूपम् । अनादिरपि देहात्मयोगो भ्रान्त्यात्मकस्तत्त्वज्ञानेनोच्छेत्तुं शक्य इत्यर्थः ॥११॥
अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः
।
त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥१२॥
तच्च सनातनं ब्रह्म अयत्नसाध्यं कर्मप्राप्यं न । अनित्यत्वापत्तेः कर्मजं ह्युत्पाद्यमाप्यं संस्कार्यं विकार्यं वा स्यात् । न हि संयवनेन पिण्ड इवोपास्त्या ब्रह्मोत्पाद्यम् अनित्यत्वापत्तेः नापि ग्रामवद्गमनेन प्राप्यम् आत्मवात् । अन्यत्वे घटवज्जडत्वापतेः । नापि व्रीहिवदवघातेन उपास्त्या दोषापनयेन संस्कार्यम् असङ्गत्वात्सङ्गित्वे वह्न्यौष्ण्यवत्तदनिवृत्त्यत्वापत्तेः । नापि विकार्यम् । क्षीरादिवद्विकारयुक्तस्यानित्यत्वापत्तेः । अतो ज्ञानेनाज्ञानापनोदे सति कण्ठगतविस्मृतचामीकरवत्सिद्धमपि साध्यमिवोच्यते । तस्माद्युक्तमुक्तमयत्नसाध्यमिति - ये इति । अत्र विद्वदनुभव एव प्रमाणमिति भावः । न शाम्यन्ति ब्रह्मोपासनान्नोपरमन्ते । उद्योगिनोऽवश्यं ब्रह्मप्राप्तिरतस्त्वया उद्योगवता भवितव्यमिति भावः ॥१२॥
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप
।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥१३॥
निर्जितेनासहायेन हृतराज्येन भारत
।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥१४॥
केवलां सङ्गहीनाम् ॥१४॥
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्
।
काचित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥१५॥
वृत्र उवाच ।
सत्येन तपसा चैव विदित्वासंशयं ह्यहम्
।
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥१६॥
सत्येन अबाधितार्थेन वेदवाक्येन तपसा मननध्यानात्मकेनात्मालोचनेन च आगतिं संसारं गतिं मोक्षम् असंशयं विदित्वा न शोचामि न हृष्यामि तथा च मत्वा धीरो हर्षशोकौ जहाति इति श्रुतिः ॥१६॥
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः
।
परितुष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥१७॥
कालेति । युगचतुष्टययोग्याः पुण्यपापाख्या धर्मा लक्ष्यन्ते केचिन्नरके कानिचिद्भूतानि दिव्यानि स्वर्गार्हाणि ॥१७॥
क्षपयित्वा तु तं कालं गणितं कालचोदिताः
।
सावशेषेण कालेन सम्भवन्ति पुनः पुनः ॥१८॥
क्षपयित्वा भोगेन स्वर्गे नरके वा तं कालं नीत्वा पुण्यापुण्ये समाष्य । ताभ्यामेव नृतिर्यगादियोनिप्रापकाभ्यां चोदिताः सन्तः पुनः पुनर्भवन्ति । कालचोदिता इत्यस्य व्याख्यानं सावशेषेण कालेनेति ॥१८॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च
।
निर्गच्छन्त्यवशा जीवाः कामबन्धनबन्धनाः ॥१९॥
कामबन्धनबन्धनाः कामपाशबद्धाः ॥१९॥
एवं संसरमाणानि जीवान्यहमदृष्टवान्
।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥२०॥
जीवानि जीववन्ति भूतानि अदृष्टवान् न दृष्टम् अदृष्टं व्यवहितमतीतमनागतादि च तत् वाऽतिगच्छति प्राप्नोतीति जानातीत्यदृष्टवान् अतीन्द्रियज्ञानी अहं वेद्मीति शेषः संसरतो जीवान् । शास्त्रनिदर्शनं शास्त्रप्रत्ययं च जानामीत्यर्थः ॥२०॥
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च
।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव ह ॥२१॥
एतदेवाह- तिर्यगिति । चरित्वा तादृशं कर्म कृत्वा सुखादिकं प्रपद्यते इति सार्धेन सम्बन्धः । कृतान्तविधिसंयुक्तः यमयातनान्ते ॥२१॥
कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते
।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥२२॥
गतमिति । 'यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्विवर्तन्ते' इति श्रुतेः सम्पातत्यनेनेति सम्पातः कर्म यावत्तावत्कालं स्थित्वा पुनरत्र यथागतमायान्तीति सर्वदेति जन्ममरणप्रवाहस्यानन्त्यमुक्तम् ॥२२॥
कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम्
।
तं भाषमाणं भगवानुशना प्रत्यभाषत
।
धीमान् दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ॥२३॥
एतच्चाज्ञं प्रत्येवेति वक्तुमध्वनो विशेषणम् - कालेति । कर्ममानेन मितम् । तेन नैष्कर्म्यं श्रयतो नायमध्वास्तीति दर्शितम् । एवं सृष्टिस्थित्योः परायणं परमात्मानं भाषमाणं कथयन्तं तं वृत्रं प्रति भगवानुशना शुक्राचार्योऽसुरयोनिजा तस्यापीदृशं ज्ञानमित्याश्चर्यं मत्वा तद्बुद्धिपरीक्षार्थं प्रत्यभाषत दुष्टप्रलापानसुरभावविनाशकाननर्थकान्वादानसुरो भूत्वा कथं भाषस इति ॥२३॥
वृत्र उवाच ।
प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम्
।
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥२४॥
गन्धानादाय भूतानां रसांश्च विविधानपि
।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥२५॥
गन्धाद्यादानं तदाश्रयोपमर्देन । अवर्धं हिंसितवान् ॥२५॥
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा
।
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥२६॥
वैहायसचरो विमानेन गच्छन् ॥२६॥
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः
।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥२७॥
युयुत्सुना महेन्द्रेण पुंसा सार्धं महात्मना
।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥२८॥
युयुत्सुना योद्धुमिच्छुना ततस्तत्र युद्धकाले मे मया भगवान्सर्वैश्वर्यसम्पन्नो दृष्ट इन्द्रसाहाय्यार्थमागतः सन्नवलोकितः हरिः पापहर्ता नारायणः नारस्य जीवसङ्घस्य अयनं लयस्थानं पुंस्त्वं लोकात् प्रभुरन्तर्यामी ॥२८॥
वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः
।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥२९॥
वैकुण्ठः विकुण्ठाया अपत्यं 'विकुण्ठनामासुरीन्द्रतुल्यं पुत्रमिच्छन्ती महत्तपस्तेपे तस्याः स्वयमेवेन्द्रः पुत्रो जज्ञे' इत्यनुक्रमणिकावाक्यात् । विकुण्ठनं भूतानां मेलनं करोतीति विकुण्ठः स्वार्थे तद्धितः । तथा च नामनिर्वचनाध्याये वक्ष्यति
'संश्लेषिता मया भूमिरद्भिर्व्याप्ता च वायुना
।
वायुना चैव तेजश्च वैकुण्ठत्वं ततो मम
।
'
इति विद्यासागरीये ॥ पुरुषः पूर्णः । यतोऽनन्तस्त्रिविधपरिच्छेदशून्यः । शुक्लः शुद्धः विष्णुर्व्यापनशीलः सनातनः कूटस्थः मुञ्जकेशो मुञ्जवत् पीतकेशः हरिश्मश्रुः पिङ्गलश्मश्रुः हिरण्यश्मश्रुर्हिरण्यकेश इति श्रुतेः सर्वभूतानि विराट् तस्य पिता मायावी तस्यापि पिता शुद्धं ब्रह्म ॥२९॥
नूनं तु तस्य तपसः सावशेषमिहास्ति वै
।
यदहं प्रष्टुमिच्छामि भगवन्कर्मणः फलम् ॥३०॥
तस्य प्रासङ्गिकस्य विष्णुदर्शनात्मकस्य तपस इन्द्रविजयत्रैलोक्याधिपत्यहेतोः सावशेषं कर्मगतिजिज्ञासोत्पादकं शेषं किञ्चिदस्तीत्याह - नूनमिति ॥३०॥
ऐश्वर्यं वै महद्ब्रह्म वर्णे कस्मिन्प्रतिष्ठितम्
।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥३१॥
महदैश्वर्यं ब्रह्मवर्णे ब्राह्मणादिधर्मे उत्तममैश्वर्यं ब्राह्ममैश्वर्यं निवर्तते च कथम् । अयमर्थः- सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीत्यात्मसाक्षात्कारफलमैश्वर्यमन्तवच्चेत् कर्मफलाविशेषः 'न च पुनरावर्तते' इति श्रुतिव्याकोपश्च । अनन्तं चेत् अस्थूलमनणु इत्यादि निर्विशेषब्रह्मप्रतिपादकश्रुतिविरोधः । निर्विशेषयोर्ब्रह्मणोः समसत्ताकत्वायोगादिति ॥३१॥
कस्माद्भूतानि जीवन्ति प्रवर्तन्ते तथा पुनः
।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥३२॥
प्रवर्तन्ते चेष्टां कुर्वन्ति कोऽन्तर्यामीत्यर्थः । शाश्वतो ब्रह्म भूत्वेति शेषः । किं फलं शाश्वतप्रापकं ज्ञानं यज्ञादिफलम् ॥३२॥
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा
।
तदवाप्तुं फलं विप्र तन्मे व्याख्यातुमर्हसि ॥३३॥
कर्मणा यज्ञादिना ज्ञानेन उपास्त्या फलं विद्याख्यम् ॥३३॥
इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह
।
मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः ॥३४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वृत्रगीतासु एकोनाशीत्यधिकद्विशततमोऽध्यायः ॥२७९॥
उशनोवाच ।
नमस्तस्मै भगवते देवाय प्रभविष्णवे
।
यस्य पृथ्वीतलं तात साकाशं बाहुग्रोचरः ॥१॥
दुर्वहं प्रश्नभारं निर्वोढुं हरिं शरणीकरोति- नम इति । तलम् अधोभागः। साकाशम् आकाशसहितं सर्वम् उपारतनं बाहुगोचरो मध्यस्थमित्यर्थः ॥१॥
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम
।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥२॥
अनन्तं स्थानं मोक्षः ॥२॥
तयोः संवदतोरेवमाजगाम महामुनिः
।
सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥३॥
विष्ण्वनुग्रहमाह - तयोरिति ॥३॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा
।
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥४॥
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत्
।
ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ॥५॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्
।
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥६॥
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्
।
विष्णौ जगत् स्थितं सर्वमिति विद्धि परंतप ॥७॥
माहात्म्यं महांश्चासौ आत्मा च तस्य भावः । विष्णोर्जगज्जन्मादिकर्तृत्वं प्रत्यगभिन्नित्वं च शृणु उत्तमं तच्छ्रवणस्य मोक्षदत्वात् । तदेवाह- विष्णौ जगत् कनके कुण्डलमिव स्थितं विद्धि चेतनाचेतनं सर्वं विष्णुरेवेत्यर्थः ॥७॥
सृजत्येष महाबाहो भूतग्रामं चराचरम्
।
एष चाक्षिपते काले काले विसृजते पुनः ॥८॥
एतदेव व्युत्पादयति- सृजतीति ॥८॥
अस्मिन् गच्छन्ति विलयमस्माच्च प्रभवन्त्युत
।
नैष ज्ञानवता शक्यस्तपसा नैव चेज्यया
।
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥९॥
निमित्तत्वमुक्त्वा उपादानत्वमाहार्धेन - अस्मिन्निति । कार्यं यत्र लीयते यतश्चोद्भवति तदुपादानमित्यर्थः एवमभिन्ननिमित्तोपादानत्वलक्षणं जगत्कारणत्वं विष्णोरुक्तं तस्य दुज्ञेयत्वमाह - नेति । संयमेन योगेन ॥९॥
बाह्ये चाभ्यन्तरे चैव कर्मणोर्मनसि स्थितः
।
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥१०॥
संयमेनैवेत्येवशब्देन यज्ञादीनामात्मप्राप्तावसाधनत्वं माभूदित्याह - बाह्येति । यः पुमान्बाह्ये यज्ञादौ 'विविदिषन्ति यज्ञेन' इत्यादिश्रुतेर्विविदिषाहेतौ । आभ्यन्तरे ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति' इति श्रुतेर्दर्शनहेतुत्वेनान्तरङ्गे समाधौ । मनसि सङ्कल्पे च 'इदं मेऽनेनाङ्गं सङ्क्रियते' इति स्मृतेरात्मविविदिषाचित्तसंस्कारान्यतराभिसन्धौ च बुद्ध्या निश्चयेन स्थितो निष्ठावान् तानि बाह्ययज्ञादीनि निर्मलीकुरुते तैश्चित्तं शोधयतीत्यर्थः । सोऽमुत्र देहाभिमानत्यागलभ्ये आत्मलोके गत्वा आनन्त्यं मोक्षमश्नुते ॥१०॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्
।
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह ॥११॥
निर्मलीकरणे दृष्टान्तान्तरमाह - यथेति । हिरण्यकर्ता स्वर्णकारः ॥११॥
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽनेन कर्मणा
।
यत्नेन महता चैवाप्येकजातौ विशुद्ध्यते ॥१२॥
जातिशतैर्जन्मशतैः । अनेन यज्ञादिना शमादिना अतियत्नेन त्वेकजातौ एकजन्मन्यपि ॥१२॥
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः
।
बहुयत्नेन महता दोषनिर्हरणं तथा ॥१३॥
दृष्टान्तान्तरमाह- लीलयेति ॥१३॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्
।
न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥१४॥
ननु कर्मसु क्रियमाणेष्वपि चित्तशुद्धिर्न दृश्यतेऽतस्तत्करणं व्यर्थमित्याशङ्क्य दृष्टान्तपूर्वकमावृत्त्या फलं सिध्यतीत्याह त्रिभिः- यथा चेति ॥१४॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः
।
विमुञ्चति स्वकं गन्धं माल्यगन्धे च तिष्ठति ॥१५॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु
।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह ॥१६॥
युक्तो योजितः गुणैः सत्त्वाद्यैः प्रसङ्गिषु स्त्र्यादिसंगिषु दोषः अभ्यासजेन बाह्याभ्यन्तरसाधनानां पुनः पुनरावृत्त्युत्थेन ॥१६॥
कर्मणा स्वनुरक्तानि विरक्तानि च दानव
।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥१७॥
रक्तानि जीवजातानीति शेषः । कर्मविशेषान् रागविरागहेतून् ॥१७॥
यथावत्सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो
।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥१८॥
यथा वा कर्मणि प्रवर्तन्तेऽविद्यादशायां यस्मिन्निमित्ते तिष्ठन्ति कर्मभ्यो निवर्तन्ते विद्यायां सत्याम् । आनुपूर्व्येति च्छेदः पूर्वरूपमार्षम् ॥१८॥
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः
।
देवः सृजति भूतानि स्थावराणि चराणि च ॥१९॥
एवं साधनाभिमुखीकृतस्य ज्ञेयमाह - अनादीति । अनादिनिधनः नित्यः । द्योतत इति दवाश्चन्मात्रः। ननु नित्यज्ञानं नास्त्येव घटज्ञानं जातं पटज्ञानं नष्टमित्यनुभवादित्याशङ्क्याह - श्रीमानिति । श्रीयते आश्रीयते इति श्रीरुपाधिस्तद्वान् । घटाकाशवदौपाधिकावुत्पत्तिलयौ न तु स्वत इत्यर्थः हरिः संहर्ता नारायणः सर्वाश्रयः प्रभुः सर्वनियन्ता ॥१९॥
स वै सर्वेषु भूतेषु क्षरश्चाक्षर एव च
।
एकादशविकारात्मा जगत्पिबति रश्मिभिः ॥२०॥
अस्यैव सार्वात्म्यं वक्तुं नवविधसर्गोपादानत्वमाह- स वा इति । सर्वेषु भूतेषु शरीरिषु क्षरः सङ्घातः अक्षरो जीव एकादश इन्द्रियाणि पिबति गृह्णाति रश्मिभिरिन्द्रियैः अत्र क्षर इति महतः सर्गः प्रथम उक्तः भूतेष्विति भूतसर्गो द्वितीय उक्तः । एकादशेति वैकारिकस्तृतीय ऐन्द्रियकः सर्ग उक्तः त एते त्रयः प्राकृताः सर्गाः । यथोक्तं वैष्णवे -
'प्रथमो महतः सर्गो विज्ञेयो ब्राह्मणस्तु यः
।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः
।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः
।
इत्येष प्राकृतः सर्गः स स्मृतो बुद्धिपूर्वकः॥'
इति ॥२०॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमित्युत
।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥२१॥
ऐकात्म्यसिद्धये नारायणावयवत्वेन कृत्स्नं जगन्निरूपयति- पादावित्यादिना । दिवं स्वर्लोकम् ॥२१॥
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्
।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रतिष्ठितः ॥२२॥
तेजोमयश्चाक्षुषः मनश्चन्द्रमसीत्यादौ आधाराधेयभावो गङ्गायां जलमितिवदभेदविवक्षया ज्ञेयः बुद्धिर्महत्तत्वं ज्ञानगता वृत्तिरूपज्ञानाकारा रसस्त्वप्सु प्रतिष्ठितः आपो रसनेत्यर्थः ॥२२॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम
।
नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥२३॥
अनन्तराः सन्निहिताः नेत्राभ्यां नेत्ररश्मिभिर्निर्वृत्तमिति शेषः । पादयोः पादावेव भूः ॥२३॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्
।
सोऽश्रमाणां फलं तात कर्मणस्तत्फलं विदुः ॥२४॥
रज इति । एते गुणा वक्ष्यमाणविधया षट्प्रकारा नारायणाख्यचैतन्यानुविद्धतया तदात्मनः षड्विधजीवसंज्ञा भवन्ति । आश्रमाणामिति सन्धिरार्षः । कर्मणो जपादेः फलं तत्प्राप्तिरेव सर्वस्य सुकृतस्य फलं सप्तस्वर्गात्मकं सुखमित्यर्थः ॥२४॥
अकर्मणः फलं चैव स एव परमव्ययः
।
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती ॥२५॥
अकर्मणः नैष्कर्म्यस्य संन्यासस्य फलं मोक्षः छन्दांसि मन्त्रादयः अक्षरं प्रणवः ॥२५॥
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः
।
स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः ॥२६॥
बहवो वर्णा आश्रमाश्च आश्रयो यस्य परमो धर्म आत्मदर्शनम् । यथोक्तं याज्ञवल्क्येन-
'इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम्
।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्
।
'
इति । तपः कृच्छ्रचान्द्रायणादि । तत्फलमप्ययमेवेत्यर्थः । सत् कार्यम् असत् कारणम् ॥२६॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक् क्रतुश्च सः
।
पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः
।
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा ॥२७॥
श्रुतिर्मन्त्राः शास्रं शास्तीति शास्त्रं प्रवर्तनावाक्यं ब्राह्मणम् । ग्रहा ऐन्द्रवाय्वाद्याः सोमपात्राणि षोडश ऋत्विजः- ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोता एते सर्ववेदीयाः । होता मैत्रावरुणोऽच्छावाको ग्रावस्तोता एते ऋग्वेदिनः । अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता एते याजुषाः । उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्य एते सामगाः ॥२७॥
ते पृथग्दर्शनस्तस्य संविदन्ति तथैकताम्
।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥२८॥
ते ऋत्विजः पृथग्दर्शना अपि इन्द्रान्महेन्द्रोन्योऽग्नेर्वैश्वानरोऽन्य इति शास्त्रेण पृथक्पितामहादीन्कर्मपृथक्त्ववशात्पश्यन्तोऽपि तस्यैकतां तथा कारणत्वेन संविदन्ति । तथा च कात्यायनः 'कर्मपृथक्त्वाद्धि पृथगभिधानाः स्तुतयो भवन्त्येकैव वा महात्मा देवता' इति । श्रुतिरपि 'तद्यदिदमाहुरमुं यजामुं यजेत्येतस्यैव सा विसृष्टिः' इति ॥२८॥
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्
।
जन्तुः पश्यति विज्ञानात्ततो ब्रह्म प्रकाशते ॥२९॥
नानेति । अयमिति बुद्धिस्थ आम्नायः परामृश्यते । स च 'एकं सन्तं बहुधा कल्पयन्ति । यो देवानां नामधा एक एव' इत्यादिः । अनुभवेनैवैतज्जनो जानातीत्याह- जन्तुरिति । विज्ञानात् वृत्त्या सोपाधिकावस्थायां सार्वात्म्यं पश्यति । वृत्तिविलये तु ब्रह्म अद्वैतम् ॥२९॥
संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये
।
प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य ॥३०॥
ब्रह्मप्राप्तेरतिदौर्लभ्यमाह - संहारेति । संहरत्यस्मिन् विक्षिपत्यस्मिन्निति व्युत्पत्त्या संहारविक्षेपशब्दाभ्यां जगल्लयोदयकालः कल्पसंज्ञक उच्यते । तस्य सहस्रकोटीः 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । तावत्कालपर्यन्तं केचिज्जीवास्तिष्ठन्ति स्थावरा भूत्वा आसते प्रचरन्ति जङ्गमा भवन्ति चान्ये । तत्राप्येकैकस्य कल्पस्यातिप्रमाणत्वं भङ्ग्यन्तरेणाह- प्रजाविसर्गस्येति । पारिमाण्यं स्वार्थे तद्धितः । बहूनीत्यसङ्ख्येयत्वमुक्तम् ॥३०॥
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयाऽवगाढाः
।
आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः ॥३१॥
वापीत्येतद्व्याचष्टे- वाप्य इति द्वाभ्याम् । योजनविस्तृताः । पञ्चशता इति वाक्यशेषाद्विस्तारयोजनसङ्ख्या ज्ञेया आयामतो दैर्घ्यर्तः योजनतः पञ्चशता इति सम्बन्धः । शता इति लिङ्गव्यत्यय आर्षः । पञ्चशतं योजनानीत्यर्थः । अवगाढाः नास्ति अवगाढोऽवगाहो यासां ताः दुरवगाहा इत्यर्थः । भागुरिमतेनावेत्युपसर्गस्याकारलोपं कृत्वा नञ्समासः । अत एव प्रत्येकशः प्रवृद्धाः ॥३१॥
वाप्या जलं क्षिप्यति वालकोट्या त्वन्हा सकृच्चाप्यथ न द्वितीयम्
।
तासां क्षये विद्धि परं विसर्गं संहारमेकं च तथा प्रजानाम् ॥३२॥
वाप्या इति । अयमर्थः - यदि वालेकोट्या केशाग्रेण एकैकस्मिन्दिवसे एक एक एव बिन्दुरुध्रियेत न द्वितीयः । तेन क्रमेण एकैकवाप्या उच्छोषणेन बहुसहस्त्रवाप्युच्छेदः स्यात्तर्हि संसारस्यापि विना ज्ञानमुच्छेदः स्यात् । एकस्य मुक्त्या एकस्य विसर्गस्य नाशेऽप्यनन्ता जीवाः सन्तीति सर्वथाऽपि संसारस्यानुच्छेद एव । तथोक्तं भगवता - ‘नान्तो न चादिर्न च सम्प्रतिष्ठा' इति ॥३२॥
षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम्
।
राक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् ॥३३॥
एवं मुक्तिदौर्लभ्याय संसारस्यानन्त्यमुक्तम् । इदानीं रजःसत्त्वं तमश्चैव विद्धि नारायणात्मकमिति पूर्वोक्तं गुणत्रयं रञ्जकत्वस्वच्छत्वमलिनत्वसाम्याद्रक्तश्वेतकृष्णशब्दैर्विवक्षित्वा तेषां भागभेदेन षट् रूपाणि प्रकल्प्यन्ते तथाहि । त्रिदण्डविष्टं भवद्गुणत्रयमन्योन्यव्यतिरेकेण न तिष्ठति । तत्र यदा तमस आधिक्यं सत्त्वरजसोर्न्यूनत्वसमत्वे तदा कृष्णो वर्णः । अन्त्ययोर्वैपरीत्ये धूम्रः । तथा रजस आधिक्ये सत्त्वतमसोर्न्यूनत्वसमत्वे नीलवर्णः । अन्त्ययोर्वैपरीत्ये मध्यं मध्यमो वर्णः । तच्च रक्तं लोकानां सह्यतरम् । लोकानां प्रवृत्तिकुशलानाममूढानां साहसिकानाम् । सत्त्वस्याधिक्ये रजस्तमसोर्न्यूनत्वसमत्वे हारिद्रः पीतवर्णस्तच्च सुखकरम् । अन्त्ययोर्वैपरीत्ये शुक्लं तच्चात्यन्तसुखकरम् । ततः कृष्णो मुख्यसर्गः स्थावरश्चतुर्थः धूम्रस्तैर्यग्योन्यः पञ्चमः पीतो देवसर्गः षष्ठः नीलो मानुषसर्गः सप्तमः मध्यमोऽनुग्रहसर्गोऽष्टमः । शुक्लः कौमारसर्गो नवमः । यथोक्तं वैष्णवे-
'मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
।
तिर्यक्स्रोतस्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते
।
तदूर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः
।
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
।
मध्यमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः
।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
।
प्राकृता वैकृताश्चैव कौमारो नवमः स्मृतः
।
'
अत्रानुग्रहशब्देन 'द्वया ह प्राजापत्या देवाश्चासुराश्च' इति श्रुतिप्रसिद्धाः शमकामादिचेतोवृत्त्यनुग्राहिका देवता उच्यन्ते । स चानुग्रहो जातिभेदाद्भिन्नः । यथोक्तं वायुपुराणे-
'अष्टमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः
।
विपर्ययेण वा शक्त्या सिद्ध्या तुष्ट्या तथैव च
।
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिः
।
सिद्ध्यात्मना मनुष्येषु तुष्ट्या देवेषु कृत्स्नशः
।
'
इति ॥३३॥
परं तु शुक्लं विमलं विशोकं गतक्लमं सिद्ध्यति दानवेन्द्र
।
गत्वा तु योनिप्रभवाणि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥३४॥
परन्त्विति । एतेषु सर्गेषु शुक्लं कौमारसर्गः । रागद्वेषराहित्यात् । विमलं निष्पापम् अत एव विशोकं विशोकत्वमपि कुतः यतो गतक्लमं प्रवृत्त्याख्यश्रमहीनम् । सिद्ध्यति मोक्षं साधयति एतच्चास्यन्तदुर्लभमित्याह- गत्वेति । योनिप्रभवाणि जन्मानि न त्वयोनिजानि धृष्टद्युम्नादिवत् । तेषां ह्यधिकारिकाणां नेतरवद्योनिजं जन्म गत्वा प्राप्य यथोक्तम्-
'मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये
।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः
।
'
इति ॥३४॥
गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चापि
।
गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र ॥३५॥
यां सिद्धिं जीव उपैति तां व्याचष्टे- गतिमिति । शुभं दर्शनं सच्छास्त्रं गत्वा प्राप्य देव इन्द्रो यां गतिं दर्शनमात्मानुभवात्मिकामाह उक्तवान् सैव शुक्लवर्णभृतां सिद्धिरित्यर्थः । तथा च श्रुतिः - 'स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते' इति । ततमं ततममित्येकस्य तकारस्य छान्दसो लोपः । इदं ब्रह्म अदर्शम् अपश्यम् । एतेनेदमिह वाक्यं प्रमाणत्वेन दर्शितम् । इदमेवान्यत्रापि तुल्यमित्याह - गतिरिति । वर्णः सत्त्वादितारतम्यम् । वर्णोऽपि कालकृतः कालः प्रागुक्तश्चतुर्युगात्मा जीवो धर्मे रतो धर्ममालम्बमानोऽधर्माद्व्यावृत्तोऽधर्मे रत इति क्रमेण कृतत्रेताद्वापरकलिसंज्ञः तथा च जीवस्य प्राग्भवीयसंस्कारवशाद्यादृशः सत्त्वाद्याविर्भावस्तादृशी गतिरित्यर्थः ॥३५॥
शतं सहस्राणि चतुर्दशेह परागतिर्जीवगणस्य दैत्य
।
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥३६॥
शतमिति सेयं जीवगुणस्य गतिः परा पार्यन्तिकी दशानामिन्द्रियाणामन्तःकरणचतुष्टयस्य च करणगणस्य भेदाच्चतुर्दशसंख्याका सती तावन्ति शतानि सहस्राणि शतसहस्राणि लक्षाणि वा विषयभेदाद्भवति । तथाहि विषयभेदाद्वृत्तिभेदं श्रुतिराह - 'अयं वै हरयोऽयं वै दश च शतानि च सहस्राणि च प्रयुतानि च' इत्यादि । आरोहणम् उपर्युपरिसोपानारोहक्रमेण ऊर्ध्वगतिः । तैरेव चतुर्दशभिः सत्त्वतारतम्यप्रधानैः कृतं तत्कृतं स्थानं च तेषु तेषु पदेषु स्थैर्यम् । तथा निःसरणं तेभ्यः पदेभ्यश्च्युतिः तेषां जीवानां तत्कृतैव । तस्मादेते चतुर्दश सात्त्विकमार्गप्रवणाः कार्या इत्यर्थः ॥३६॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा स सज्जते नरके पच्यमानः
।
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति ॥३७॥
अन्यथा दोषमाह - कृष्णस्येति । कृष्णस्य स्थावरत्वप्रापकस्य वर्णस्य निकृष्टा नीचा गतिः । यतः स भावी स्थावरो नरके नरकप्रदे कर्मणि सज्जते । अतो नरके पच्यमान एवास्ते । तत्रैव तस्य स्थानं स्थितिः दुर्गतिभिः तैरेव चतुर्दशभिर्दुर्मार्गप्रवृत्तैर्भवति। स्थानावधिमाह - सुबहूनिति । प्रजाविसर्गान् कल्पान् ॥३७॥
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात्
।
स चैव तस्मिन्निवसत्यनीशो युगक्षये तपसा संवृतात्मा ॥३८॥
सुबहूनित्यस्य व्याख्या शतं सहस्राणि लक्षमित्यर्थः । हरितं धूम्रं तिर्यग्योनित्वम् । अनीशो दीनः शीतवाताद्यर्दितः सर्वतो मृत्युभयदर्शी च । युगक्षये पापभोगक्षये इदं हि वर्णद्वयं केवला भोगभूमिरेव । अतोऽत्र भोगेन क्षपितकलुषस्य दैवात्प्राचीनपुण्योदये सति जीवस्तपसा विवेकेन संवृतात्मा व्याप्तचित्तो भूत्वा ॥३८॥
स वै यदा सत्त्वगुणेन युक्तस्तमो व्यपोहन्घटते स्वबुद्ध्या
।
स लोहितं वर्णमुपैति नीलान्मनुष्यलोके परिवर्तते च ॥३९॥
सत्त्वगुणेन युक्तः सन्बुद्ध्या तमोगुणप्रवृत्तिं दूरीकुर्वन्घटते यतते श्रेयसे । तदा सर्वोत्कर्षे सति लोहितमष्टममनुग्रहसर्गमुपैति । शमकामाद्यभिमानिदेवताभावं प्राप्नोतीत्यर्थः । सत्त्वापकर्षे तु नीलात् नीलत्वं प्राप्य मनुष्यलोके परिवर्तते गतागतं करोति । चकारो वाशब्दस्यार्थे ॥३९॥
स तत्र संहारविसर्गमेकं स्वधर्मजैर्बन्धनैः क्लिश्यमानः
।
ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते ॥४०॥
सः नीलत्वं प्राप्तः तत्र मानुषलोके संहारविसर्गं कल्पं बन्धनैर्विधिनिषेधनिगडैः क्लिश्यमानस्तपोवृद्धिं कुर्वाणो हारिद्रं षष्ठं सर्गं देवताभावमुपैति । तत्रापि संहारविक्षेपशते कल्पशते जाते सति व्यतीते व्यतिगच्छति । कर्मव्यतिहारे तङ् । गतिकान्त्यर्थस्य वीधातोरन्तः प्रश्चिष्टस्य ईधातोर्व्यतिपूर्वस्येदं रूपम् । तथा च देवो भूत्वा मनुष्यत्वमुपैति मानुषश्च भूत्वा देवत्वमुपैतीत्यर्थः ॥४०॥
हारिद्रवर्णस्तु प्रजाविसर्गात्सहस्रशस्तिष्ठति संचरन्वै
।
अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि ॥४१॥
एतदेवाह - हारिद्रेत्यादिना । देवः सहस्रशः कल्पान् सञ्चरन्नप्यविप्रमुक्तो विषयवियोगहीनो निरये च संवर्तकृतानि कल्पे कल्पे कृतानि फलानि भुञ्जानो गतीः सञ्चरंस्तिष्ठतीति पूर्वेणान्वयः । गतिसङ्ख्या दशपञ्च चत्वारि चेत्येकोनविंशतिसहस्राणि । अयमर्थः - एकोनविंशतिमुखः प्रविविक्तभुगिति श्रुतेः स्वप्नोपमे स्वर्गेऽपि दशेन्द्रियाणि पञ्च प्राणा मन आदिचतुष्टयं चेत्येकोनविंशतिर्जाग्रद्वासनामयानि भोगसाधनानि वर्तन्ते । तान्येव पूर्ववत्तावन्ति शत सहस्राणि च भवन्ति । अत्र दिव्योऽपि भोगो रागहेतुत्वात्पुण्यक्षेपकत्वादानत्यत्वाच्च निरय एवेति स्वर्गोऽपि निरयभोग उक्तः । ततश्च एनं नरं निरयात् भोगप्रदकर्मणः सकाशात्तु विमुक्तं विद्धि । स्वर्गेऽपि क्षयवानित्यर्थः । अन्येष्वपि सम्भवेषु स्थावरतैर्यग्योन्यादिषु मानुषवज्यैषु तस्मात्तिर्यक्सर्गवद्देवसर्गोऽपि भोगभूमित्वाद्धेय एवेति भावः॥४१॥
गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव
।
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु ॥४२॥
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति
।
संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठत्यमृतत्वमेति ॥४३॥
व्यतीते इत्यस्यार्थं स्पष्टयति - स इति । देवा मानुषत्वं मानुषाश्च देवत्वं भजन्त इत्यर्थः । अमृतत्वम् अष्टौ पूर्वोक्तानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणचित्तमनोबुद्ध्याख्यानि ज्ञानेन्द्रियाणि दृष्टिसृष्टिमाश्रित्य तान्येव स्वस्वविषयलयोदयकारणानीति विषयभेदात्तान्येव शतानि सहस्त्राणि वा लयोदयान्मर्त्येषु यस्तिष्ठति स उपैतीत्यन्वयः ॥४३॥
सोऽस्मादथ भ्रश्यति कालयोगात्कृष्णे तले तिष्ठति सर्वकृष्टे
।
यथा त्वयं सिद्ध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर ॥४४॥
सोऽस्मात् सङ्कल्पकृताल्लयोदयप्रवाहात् । कालः कलिरूपस्तद्योगाच्च प्रभ्रश्य कृष्णे तले तलवदधोगते सर्वकृष्टे सर्वेभ्यो नीचे स्थावरे तिष्ठति । अयमारोहावरोहप्रवाहपतितः सिद्ध्यति मुच्यते ॥४४॥
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः
।
संश्रित्य संधावति शुक्लमेतमष्टावरानर्च्यतमान्स लोकान् ॥४५॥
मुक्त्युपायमेवाह- दैवानीति । स मुमुक्षुः सप्त व्यूहशतानि दैवानि संश्रित्य रक्तादिक्रमेण अन्ते शुक्ल एव सन्नवराঁल्लोकान्संधावतीति सम्बन्धः । एकस्यानेकधाभावो व्यूहः । बुद्धेः श्रोत्रत्वक्क्षुर्जिह्वाघ्राणमनोबुद्धिरूपेण सप्तधा भूतायास्तत्तदिन्द्रियवृत्तिभेदात् । व्यूहानां शतानि सहस्राणि वा पूर्ववद्भवन्ति । तत्र दैवानि सात्त्विकानि शमदमादीन्येव संश्रित्य प्रथमं रक्तः शमाद्यभिमानिदेवतारूपः । अत्यन्तं शमादिमान्भवति । ततो हारिद्रो दैवस्ततः शुक्लः कौमारो बालवद्रागद्वेषशून्यो भवति । ततः अष्टावरान् । अष्टौ पुर्यः अवरा अनुत्कृष्टाः पश्चाद्भूता वायेषु तान्सगुणात्मरूपान् लोकान् अर्च्यतमान् धूम्रादिमार्गं प्राप्य चन्द्रलोकादर्च्यादर्च्यतरोऽर्चिरादिमार्गप्राप्यो ब्रह्मलोकस्ततोऽप्यर्च्यतमान् । ज्ञानैकप्राप्यलोकान् योगफलभूतान् । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकाम इत्यादिश्रुतिप्रसिद्धं तृतीयमैश्वर्यं प्राप्नोतीत्यर्थः ॥४५॥
अष्टौ च षष्टिं च शतानि चैव मनोनिरुद्धानि महाद्युतीनाम्
।
शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥४६॥
अष्टावरानित्येतद्व्याचष्टे - अष्टाविति । शतशब्दार्थः प्राग्वत् अयमर्थ - सप्ताङ्ग एकोनविंशतिमुख इति जाग्रत्स्वप्नयोस्तुल्यवच्छ्रवणात् सप्त जाग्रदवस्थापञ्चभूतात्मकः स्थूलदेहशब्दादिपञ्चकं च अस्य द्रष्टुः अङ्गमिवाङ्गं स्वरूपभूतमपि अविद्यादर्पणेन मुखवत्पराक्त्वं प्रापितस्य सतः प्राप्तये एकोनविंशतिः । दशेन्द्रियाणि प्राणपञ्चकं मनोबुद्ध्यहङ्कारचित्तचतुष्टयं चेति मुखानीव प्राप्तिद्वाराणि अविद्याकामकर्मात्मकस्त्रिंशकः सङ्घातः जाग्रद्वत्स्वप्नेऽपि तुल्य इति यान्यष्टावुक्तानि तान्येव षष्टिशतानीति योजना । यदा त्वविद्यादित्रयं त्रिंशकात्पृथग्गण्यते तदाऽपि सर्वेषामावृत्त्या षट्षष्टिः । सुषुप्तौ च आनन्दभुक्चेतोमुख इति श्रुतेर्भोग्य आनन्दः भोगसाधनं चेति द्वयं चेत्षट्षष्टिः तदात्वृजुतर एवार्थः । एतानि महाद्युतीनां पूर्णप्रकाशानामात्मविदां मनोविरुद्धानि मनसैव विशेषेण रुद्धानि मूढदृष्ट्या पृथग्भूतान्यपि विदुषां मनोमात्राण्येवेत्यर्थः । सेयं शुक्लस्य वर्णस्य गतिः सङ्क्षेपेण । त्रीणि जाग्रस्वप्नसुषुप्त्याख्यानि रुद्धानि चेत् 'शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः' इति श्रुतिप्रसिद्धस्य तुर्यस्य प्राप्तिः । एवशब्देन त्रयरोधात्मिकैव तुर्यप्राप्तिः तुर्यस्य प्रत्यक्त्वेनाप्राप्यत्वात् ॥४६॥
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः
।
षष्ठस्य वर्णस्य परा गतिर्या सिद्धावसिद्धस्य गतक्लमस्य ॥४७॥
एवंविदो जीवन्मुक्तस्यापि प्रारब्धकर्मभोगस्यापरिहार्यत्वमाह - संहारेति । एकं संहारविक्षेपशतम् अनिष्टं वसतीति एकं भोगायारब्धं जन्म दृष्टिसृष्ट्यभिप्रायेण लयोदयशतात्मकम् इह देहे वसतीत्यध्याहृत्य योज्यम्। अस्यैव योगिनः क्रममुक्तिमाह - चत्वारीति । अनीशः योगैश्वर्योपस्थापितान् दिव्यान्भोगांस्त्यक्तुमसमर्थो योगी अन्यानि चत्वारि महर्जनस्तपःसत्यलोकाख्यानि योगबलतारतम्येन ऐश्वर्यतारतम्यवन्ति क्रममुक्तिस्थानानि वसति अधिवसति । वासे निमित्तमाह - षष्ठस्येति । या गतिः सत्त्वशुद्ध्यात्मिका तस्याः सिद्धावपि असिद्धस्य शुद्धब्रह्मसाक्षात्कारेण जीवन्मुक्ततामप्राप्तस्य । गतक्लमस्य नष्टरागादिदोषस्य । योगसिद्धोऽपि ब्रह्मात्मैक्यज्ञात्क्रममुक्तिभाग्भवतीत्यर्थः ॥४७॥
सप्तोत्तरं तत्र वसत्यनीशः संहारविक्षेपशतं सशेषम्
।
तस्मादुपावृत्त्य मनुष्यलोके ततो महान्मानुषतामुपैति ॥४८॥
योगभ्रष्टगतिमाह - सप्तेति । अनीशः सम्यग्योगमनुष्ठातुमशक्तः तत्र परोक्षत्वेन निर्दिष्टे स्वर्गलोके सप्त पूर्वोक्तानि श्रोत्रादिपञ्चकं मनोबुद्धी च तानि उत्तराणि सत्त्वोत्कर्षवलेन उत्कृष्टानि यस्मिन् । तादृशं संहारविक्षेपशतं सशेषं कर्मशेषसहितम् । ध्येयब्रह्मसाक्षात्कारे हि 'तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति निःशेषपापदाहश्रुतेस्ततः प्रागारब्धयोगस्य योगिनः कर्मशेषमस्तीति युक्तं शुद्धकर्मा सन् योगी प्राग्योगसिद्धेर्मृतश्चेत् भुवो लोकं स्वर्लोकं च गच्छतीत्यर्थः । ततश्च मानुषं जन्म प्राप्य महान् कुलशीलविद्यादिना पूज्यो भवति ॥४८॥
तस्मादुपावृत्य ततः क्रमेण सोऽग्रेण संतिष्ठति भूतसर्गम्
।
स सप्तकृत्वश्च परैति लोकान् संहारविक्षेपकृतप्रभावः ॥४९॥
तस्मान्मानुषाद्भावादुपावृत्त्य निष्कम्य अग्रे उत्तरमुत्तरं भूतसर्गं प्रति गन्तुं सन्तिष्ठति प्रस्थानं करोति । पूर्वाभ्यासवशादुत्तरोत्तरां योगभूमिकामारोहतीत्यर्थः । स एवं प्रतिष्ठमानः सप्तकृत्वः सप्तवारं लोकान्परैति पर्यटति संहारविक्षेपयोः समाधिव्युत्थानाभ्यां कृतः संवादितः प्रभाव ऐश्वर्यं येन सः । अयमर्थः - प्रथमां भूमिमारूढो योगी मृतः स्वर्गं प्राप्य ततश्च्युतः सार्वभौमो राजा भवति । एवं सोऽयं भूलोकजयः । एवमुत्तरोत्तरयोगकलावृद्ध्या उत्तरमुत्तरं लोकं जयति । अन्ते ब्रह्मलोकं सप्तमं प्राप्यापि पुनरावर्तते यदि ध्येयवस्तुन्यहंग्रहं न कुर्वीत । तं कुर्वंस्तु ब्रह्मणा सहैव मुच्यते । तत्र प्रमाणानि–
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः
।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्
।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥
इति गीता ।
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन
इति च
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे
।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥
इति च ॥४९॥
सप्तैव संहारमुपप्लवानि सम्भाव्य संतिष्ठति जीवलोके
।
ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च
।
शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥५०॥
सप्तेति । एवशब्दो भिन्नक्रमः संहारमिति णमुलन्तं सप्त भूरादिसत्यलोकान्ताँल्लोकान्मनोबुद्धिसहितानि ज्ञानेन्द्रियाणि वा संहृत्यैव बोधेन बाधित्वा जीवलोके सन्तिष्ठति सम्यक् मोहशोकाभावादास्ते । संहारे बीजम् उपप्लवानि सम्भाव्य तैषां बुद्ध्यादीनां भूरादीनां वा दुःखरूपत्वं निश्चित्य ततो देहान्ते अव्ययमपरिणामि स्थानम् । अत एवानन्तं त्रिविधपरिच्छेदशून्यं शुद्धं ब्रह्म एति प्राप्नोति । तत्तु स्थानं केचिद्देवस्य महादेवस्य सम्बन्धि कैलासमिति वदन्ति शाम्भवाः । विष्णोर्वैकुण्ठमिति वैष्णवाः । ब्रह्मणो ब्रह्मलोक इति हैरण्यगर्भाः। शेषस्य अनन्तस्येति तद्भक्ताः । नरस्य जीवस्यैव तत्परं स्थानामिति साङ्ख्याः । देवस्य द्योतमानस्य चिन्मात्रस्य विष्णोर्व्यापकस्य परब्रह्मणः तुर्यमूर्तिस्वरूपस्य परमस्येति 'तद्विष्णोः परमं पदम्' इति श्रुतिप्रसिद्धम् इत्यौपनिषदाः ॥५०॥
संहारकाले परिदग्धकाया ब्रह्माणमायान्ति सदा प्रजा हि
।
चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोकादपराः स्म तेऽपि ॥५१॥
एवं शब्दजान्विकल्पान्मोक्षे उपन्यस्य सर्ववादिसम्मतं वस्तुवृत्तमाह - संहारेति । परितः सर्वात्मना दग्धा बोधेन भस्मीकृताः कायाः स्थूलसूक्ष्मकारणदेहा याभिस्ताः ब्रह्माणं ब्रह्म पुंस्त्वमार्षम् । देवगणा इन्द्रियाणि । ये ब्रह्मस्वरूपाल्लोकादपरा अर्वाचीनाः प्रकृत्योदयस्तेऽपि परिदग्धकायाः संहारकाले मोक्षे ब्रह्म प्राप्नुवन्ति ॥५१॥
प्रजाविसर्गं तु सशेषकाले स्थानानि स्वान्येव सरन्ति जीवाः
।
निःशेषतस्तत्पदं यान्ति चान्ते सर्वे देवा ये सदृशा मनुष्याः ॥५२॥
एवमात्मबोधजमात्यन्तिकं प्रलयमुक्त्वाऽवान्तरप्रलयमाह- प्रजेति । प्रलयकाले आसन्नतरे ये देवत्वं प्राप्ता अभुक्तकृत्स्नकर्मफलास्ते पूर्वकल्पार्जितानि स्वानि स्थानानि कल्पान्तरेऽपि सरन्ति लभन्ते । सर्वेषां कल्पानां पूर्वपूर्वकल्पसादृश्यात् । 'सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्' इति श्रुतेश्च । ये तु अन्ते कल्पान्ते निःशेषतः निःशेषितकालास्ते स्वर्गनाशे इतरवन्मनुष्यत्वमेव यान्तीत्यर्थः । प्रलयशतेनापि कृतं कर्म न नश्यति तत्त्वज्ञानमन्तरेणेति भावः ॥५२॥
ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति यथाऽऽनुपूर्व्या
।
जीवाः परे तद्बलतुल्यरूपाः स्वं स्वं विधिं यान्ति विपर्ययेण ॥५३॥
विधिम् अदृष्टं पुण्यपापं तत्फलं यान्ति प्राप्नुवन्ति एकस्मिन्नपि कल्पे असकृदारोहावरोहौ वर्तेतेऽतः संसारभीरुणा तत्त्वज्ञानमेवाश्रयणीयमिति भावः ॥५३॥
स यावदेवास्ति सशेषभुक्ते प्रजाश्च देव्यौ च तथैव शुक्ले
।
तावत्तदङ्गेषु विशुद्धभावः संमम्य पञ्चेन्द्रियरूपमेतत् ॥५४॥
एवं सपरिकरां ब्रह्मविद्यामुक्त्वा तद्वतो दृष्टिमाह - स इति । स ब्रह्मवित् यावत्सशेषभुक् शेषं प्रारब्धकर्म तत् अपरित्यज्य भुङ्क्ते इति सशेषभुक् अस्ति तावत्तदङ्गेषु तत्स्वरूपे एव प्रजाः सर्वाः ते शुक्ले देव्यौ परापरविद्ये च वर्तेते इति शेषः । ब्रह्मविदो विशुद्धकैवल्यावधि कृत्स्नं जगदस्ति अनन्तरं नास्तीत्यर्थः । अत्र किं मानमत आह विशुद्धभावः योगसंशोधितचित्तो भूत्वा संयम्य धारणाध्यानसमाध्यात्मकं संयममनुष्ठाय एतत्परिदृश्यमानं वियदादि पञ्चेन्द्रियरूपमित्येव विद्धीति शेषः । तथाहि प्राणेभ्यो देवा देवेभ्यो लोका इतीन्द्रियेभ्यः साक्षात्परम्परया च देवानां लोकानां च सृष्टिः श्रूयते । स्वप्नमायेन्द्रजालवदुपपद्यते चैतत् जगतः। प्रतिभासमात्रत्वमित्युपपादितमधस्तात् ॥५४॥
शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन्
।
ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै ॥५५॥
उपसंहरति - शुद्धामिति । शुद्धां निरवद्यां परमां गतिं शुद्धचिन्मात्रभावं शुद्धेन मनसा विचिन्वन् श्रवणमननध्यानाभ्यासैर्ज्ञातुमिच्छन् परैति द्वैतजालं परावृत्य एति प्राप्नोति ततो ब्रह्मसाक्षात्कारानन्तरम् अव्ययं स्थानं मोक्षम् उपैति । ग्रामवत्प्राप्यत्वमस्त्वित्यत आह - ब्रह्म न हि त्रिविधपरिच्छेदशून्यस्य गगनस्येव प्राप्यत्वं सम्भवति । अथापि दुष्प्राप्यम् अविद्यादिना व्यवधानात् शाश्वतं नित्यं प्राप्तमपि अभ्येति कण्ठगतचामीकरवदित्यर्थः तथाच श्रुतयः- ’ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति ब्रह्मैव सन्ब्रह्माप्येति’ 'तत्त्वमस्ययमात्मा ब्रह्म' इत्यादयः सिद्धवद्ब्रह्मभावं जविस्योपदिशन्ति ॥५५॥
इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते ॥५६॥
हे अहीनसत्त्व ॥५६॥
वृत्र उवाच ।
एवं गते मे न विषादोऽस्ति कश्चित् सम्यक्च पश्यामि वचस्तथैतत्
।
श्रुत्वा तु ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥५७॥
एवम् उक्तप्रकारेण गते जगतो मनोमात्रत्वे स्थिते सति वचः वचोऽर्थं ब्रह्माद्वैतं विकल्मषो निरवद्यः विपाप्मा शोकमोहहीनः ॥५७॥
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम्
।
विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः
।
स वै महात्मा पुरुषोत्तमो वै तस्मिन् जगत्सर्वमिदं प्रतिष्ठितम् ॥५८॥
श्रुतं विष्णुमाहात्म्यमनुसन्धत्ते प्रवृत्तमिति सार्धेन ॥५८॥
भीष्म उवाच।
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्
।
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान् ॥५९॥
एवमिति । इन्द्रेण सह युध्यन् अन्तकाले प्रवृत्तमेतदित्यादिसार्धश्लोकेन विष्णुमनुसन्धाय आत्मानं ब्रह्मणि योजयित्वा ॥५९॥
युधिष्ठिर उवाच।
अयं स भगवान्देवः पितामह जनार्दनः
।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥६०॥
अयं स इति पुरोवर्तिनं कृष्णमङ्गुल्या निर्दिशति श्रीकृष्ण एव सर्वशास्त्रप्रतिपाद्य इत्यर्थः ॥६०॥
भीष्म उवाच।
मूलस्थायी महादेवो भगवान् स्वेन तेजसा
।
तत्स्थः सृजति तान्भावान्नानारूपान्महामनाः ॥६१॥
राजवन्मूर्तिमांस्तटस्थ ईश्वर इति युधिष्ठिरस्य भ्रमो मा भूदिति भीष्म उवाच - मूलेति । मूलम् अधिष्ठानं तद्वन्निर्विकारेण रूपेण तिष्ठतीति मूलस्थायी । योऽधिष्ठानचिद्रूपः स महादेवो महान् चिदात्मा मायानिष्कृष्टो भूस्थानीयः - प्रथमः । स एव मायाशबलो भगवान्षड्विधैश्वर्यवान्कारणात्मा भवति । बीजस्थानीयश्चिदचिदुभयात्मा - द्वितीयः । सोऽपि स्वेन स्वकीयेन तेजसा उपलक्षितः तैजसाख्यकार्यब्रह्मतां प्राप्तः तृतीयः- वृक्षस्थानीयो भवति । तत्स्थस्तस्मिन्ब्रह्माण्डरूपे कार्ये तिष्ठन्नयं श्रीकृष्णोऽनेकबीजगर्भफलस्थानीयश्चतुर्थः । तान् भावान् कार्यकारणरूपान् वृक्षबीजाभावान् सृजति । महामनाः महत्परिच्छेदाभिमानशून्यं सत्यसङ्कल्पादिगुणकं मनो यस्य स तथा ॥६१॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम्
।
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान् ॥६२॥
अस्य रूपमाह- तुरीयेति । तस्य मूलस्थायिनश्चिन्मात्रस्य तुरीयार्धेन अष्टामांशेन निष्पन्नम् इमं मूर्तिमन्तं केशवं विद्धि अच्युतमिति मूर्तिमत एव यावदविद्यं नित्यत्वमुक्तम् । तथाहि मूलस्थायि पूर्णचैतन्यं भगवति मायांशस्य समप्राधान्यादर्धम् । तैजसे त्वाविद्यके समष्टिकार्ये बीजांशस्यार्धस्यैव सत्त्वात्तुरीयांशश्चैतन्यस्यास्ति । व्यष्टिकार्ये तु परिच्छिने देहाद्यभेदाभिमानात् अष्टमांशश्चैतन्यस्यास्ति । तदिदमुक्तं तुरीयार्धेन - तस्येमं विद्धीति । नन्वेवमस्मदादितुल्य एवायमिति तमुद्दिश्य अयं स भगवानिति युधिष्ठिरोक्तिरयुक्ता । उपाध्यंशाविवक्षायां त्वस्माकमपि तथात्वमस्तीत्याशङ्क्याह - तुरीयार्धेनेति । पूर्वोक्तरीत्या कृष्णे पक्वफलाभे ईशादिस्रष्टृत्वं युक्तम् । अपक्वफलाभेष्वस्मासु त्वनीशत्वं स्फुटमिति न तेन सहास्माकं साम्यप्रसङ्गः ॥६२॥
अर्वाक् स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते
।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः
।
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥६३॥
एतदेव कार्यकारणयोर्लयप्रतिपादनेन द्रढयति - अर्वागिति सार्धेन । अर्वाक् स्थितः स्थायी समष्टिकार्यात्मा तृतीयोऽस्मदादिशरीरापेक्षया नित्योऽपि कल्पान्ते परिवर्तते नश्यतीत्यर्थः । यस्तु भगवान् द्वितीयोऽतिबलोऽनेकब्रह्माण्डलयोदयबीजभूतः प्रभुरन्तर्यामी सोऽपि अप्सु आप इवापस्तासु । 'सलिल एको द्रष्टाऽद्वैतो भवति' इति श्रुत्या परावरवर्जितसलिलाभत्वेन निरूपिते अखण्डैकरसे ब्रह्मणि शेते लीयते । ईश्वरस्यास्य नित्यत्वं व्यवहारापेक्षयैवोच्यते न तु परमार्थत इति न तल्लयोक्तिरसङ्गता । तानिति अनुवाद्यमप्शब्दमपेक्ष्य बहुत्वं विधेयलोकापेक्षं पुंस्त्वं च । तम् अखण्डैकरसं लोकम् आत्मानं शाश्वतं नित्यप्राप्तमेव विधाता चतुर्मुखः प्रसन्नात्मा शुद्धचित्तः सन् अविद्यापनयमात्रेण चरति गच्छति प्राप्नोति । ब्रह्मादीनां चेतनानामपि तदेव लयस्थानमित्यर्थः ॥६३॥
सर्वाण्यशून्यानि करोत्यनन्तः सनातनः संचरते च लोकान्
।
स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥६४॥
सोऽयम् अनन्तः परमात्मा सर्वाणि कारणानि च अशून्यानि स्वसत्तास्फूर्तिप्रदानेन पूर्णानि करोति । सनातनः सर्वदैकरूपोऽपि मायिक उपाधिविशिष्टेन रूपेण श्रीकृष्णात्मना लोकान्सञ्चारते । स चैवम्भूतोऽप्यस्मदादिवदुपाधिधर्मेण न निरुध्यतेऽतोऽनिरुद्धोऽहङ्कारः सन् जगत्सृजते महात्मा सर्वाधारत्वयोग्यः तथा च श्रुतिः- ’अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः' इति स्रष्टुर्मायासन्निरुद्धादन्यत्वमाह - तत्स्थ्यं बीजे तरुरिव फले बीजानीव परमात्मनि कृष्णे सर्वं जगदस्ति । तथा च श्रुतिः - 'हिरण्यश्मश्रुर्हिरण्यकेशः' इति । विग्रहधर्मवन्तमीश्वरमुपदिश्य इयमेवर्गग्निः सामेत्यृक्सामात्मना निरूपितं प्रपञ्चं तस्यर्क्च साम गेष्णाविति तदङ्गुलिपर्वत्वेन निर्दिशति अतस्तत्स्थं जगत् गङ्गातरङ्गन्यायेन युक्तम् ॥६४॥
युधिष्ठिर उवाच।
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः
।
शुभा तस्मात्स सुखितो न शोचति पितामह ॥६५॥
एवं ब्रह्मविद्यां श्रुत्वा तत्र स्वस्याधिकारोऽस्ति नास्ति वेति सन्दिहानः पृच्छति - वृत्रेणेति । त्मनः आत्मनः तस्मात् आत्मगतिदर्शनात् ॥६५॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ
।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥६६॥
शुक्लाभिजातीयः शुक्लवंश्यः साध्यः साध्यसंज्ञको देव इति नावर्तते ॥६६॥
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव
।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥६७॥
हारिद्रवर्णे सत्त्वाधिक्ये तमःसाम्ये रजसोल्पतत्वे च षष्ठे देवतासर्गे उक्ते । तथा रक्ते रजस आधिक्ये सत्त्वस्य साम्ये तमसो न्यूनत्वे च मध्यमेऽनुग्रहसर्गे च वर्तमानः । तमोरजसोः साम्यात्कदाचिदावरणस्य प्रवृत्तेर्वा उद्रेकः स्यात्तेन ततस्तिर्यगादि सम्भाव्यते ॥६७॥
वयं तु भृशमापन्ना रक्ता दुःखसुखे सुखे
।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥६८॥
वयं तु हारिद्राच्च्युता केवलरजःप्रधाने रक्ते वर्तमानां नीलां मानुषीं वा कृष्णां ततोऽप्यधमां तिर्यग्गतिं वा । कृष्णया सहितामधमां कृष्णाधमाम् ॥६८॥
भीष्म उवाच।
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः
।
विहृत्य देवलोकेषु पुनर्मानुषमेष्यथ ॥६९॥
एवं भीतं युधिष्ठिरमाश्वासयति - शुद्धेति । हे पाण्डवाः यूयं सम्पन्नाः स्थ ॥६९॥
प्रजाविसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा
।
सुखेन संयास्यथ सिद्धसंख्यां मा वो भयं भूद्विमलाः स्थ सर्वे ॥७०॥
सिद्धसङ्ख्यां सिद्धेषु गणनाम् ॥७०॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वृत्रगीतासु अशीत्यधिकद्विशततमोऽध्यायः ॥२८०॥
जनमेजय उवाच।
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे
।
विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ॥१॥
प्राचेतसस्येति । वृत्रगीतोपसंहारे - 'अयं स भगवान्देवः पितामह जनार्दनः। सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा' इति श्रीकृष्णस्य प्रकरणप्रतिपाद्यत्वोक्त्या निर्विशेषब्रह्मावाप्तिद्वारत्वमुक्तम्। तत्प्रसक्तानुप्रसक्तत्वेन वृत्रवधं ज्वरोत्पतिं चोक्त्वा पुनरपि तस्यैव मूर्तिमतः परमेश्वरस्य परमकारुणिकत्वं दर्शयितुं द्विषन्तमपि भगवान्दंडपूर्वकमनुगृह्णातीति दक्षाख्यायिकामुखेनोक्तम्। तत्र कैमुतिकन्यायेन भक्तेष्वनुग्रहः सिध्यतीति भक्त्या भगवत्तोषणार्थं नाम्नामष्टसहस्रं च वक्तुमयमध्याय आरभ्यते । मोक्षधर्मेषु पाठाच्चास्य स्तवस्य साक्षात्तत्त्वज्ञानहेतुतया शमदमादिवन्मोक्षोपयोगित्वम् । इतरेषां तु यज्ञादिवच्चित्तशुद्ध्युत्पादनद्वारा तद्धेतुत्वमिति अयमेव उपदेशः सम्यग्विभज्यते । तत्र प्राचेतसस्य दक्षस्येत्यादिर्नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजमित्यन्तः स्पष्टार्थो ग्रंथः । तस्य तात्पर्यं परमेश्वरद्रोहिणा कृतं कर्म अनर्थावहं तदनुग्रहमन्तरेण दुश्चिकित्स्यं चेति स एव प्रार्थ्य इति ॥१॥
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः
।
प्रसादात्तस्य दक्षेण स यज्ञः सन्धितः कथम्
।
एतद्वेदितुमिच्छेयं तन्मे ब्रूहि यथातथम् ॥२॥
वैशम्पायन उवाच।
पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत्
।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥३॥
गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते
।
ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥४॥
पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः
।
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥५॥
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
।
हाहाहूहूश्च गन्धर्वौ तुम्बुरुर्नारदस्तथा ॥६॥
विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा
।
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः ॥७॥
इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः
।
उष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा ॥८॥
ऋषयः पितरश्चैव आगता ब्रह्मणा सह
।
एते चान्ये च बहवो भूतग्रामाश्चतुर्विधाः ॥९॥
जरायुजाण्डजाश्चैव सहसा स्वेदजोद्भिजैः
।
आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः ॥१०॥
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः
।
तान्दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत् ॥११॥
नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते
।
वधबन्धं प्रपन्ना वै किन्नु कालस्य पर्ययः ॥१२॥
किन्नु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम्
।
उपस्थितं महाघोरं न बुध्यन्ति महाध्वरे ॥१३॥
इत्युक्त्वा स महायोगी पश्यति ध्यानचक्षुषा
।
स पश्यति महादेवं देवीं च वरदां शुभाम् ॥१४॥
नारदं च महात्मानं तस्या देव्याः समीपतः
।
संतोषं परमं लेभे इति निश्चित्य योगवित् ॥१५॥
एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः
।
तस्माद्देशादपक्रम्य दधीचिर्वाक्यमब्रवीत् ॥१६॥
अपूज्यपूजनाच्चैव पूज्यानां चाप्यपूजनात्
।
नृघातकसमं पापं शश्वत्प्राप्नोति मानवः ॥१७॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन
।
देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम् ॥१८॥
आगतं पशुभर्तारं स्रष्टारं जगतः पतिम्
।
अध्वरे ह्यग्रभोक्तारं सर्वेषां पश्यत प्रभुम् ॥१९॥
दक्ष उवाच ।
सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः
।
एकादशस्थानगता नाहं वेद्मि महेश्वरम् ॥२०॥
दधीचिरुवाच ।
सर्वेषामेव मन्त्रोऽयं येनासौ न निमन्त्रितः
।
यथाऽहं शंकरादूर्ध्वं नान्यं पश्यामि दैवतम्
।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥२१॥
दक्ष उवाच ।
एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम्
।
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभुर्विभुश्चाहवनीय एषः ॥२२॥
देव्युवाच ।
किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्य
।
लभेत भागं भगवानचिन्त्यो ह्यर्धं तथा भागमथो तृतीयम् ॥२३॥
एवं ब्रुवाणां भगवान्स पत्नीं प्रहृष्टरूपः क्षुभितामुवाच
।
न वेत्सि मां देवि कृशोदराङ्गि किं नाम युक्तं वचनं मखेशे ॥२४॥
अहं विजानामि विशालनेत्रे ध्यानेन हीना न विदन्त्यसन्तः
।
तवाद्य मोहेन च सेन्द्रदेवा लोकास्त्रयः सर्वत एव मूढाः ॥२५॥
मामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपगान्ति
।
मां ब्राह्मणा ब्रह्मविदो यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम् ॥२६॥
देव्युवाच ।
सुप्राकृतोऽपि पुरुषः सर्वस्त्रीजनसंसदि
।
स्तौति गर्वायते चापि स्वमात्मानं न संशयः ॥२७॥
भगवानुवाच ।
नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे
।
यं वक्ष्यामि वरारोहे यागार्थे वरवर्णिनि ॥२८॥
इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम्
।
सोऽसृजद्भगवान्वक्त्राद्भूतं घोरं प्रहर्षणम् ॥२९॥
तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः
।
ततो वक्त्राद्विमुक्तेन सिंहेनैकेन लीलया ॥३०॥
देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः
।
मन्युना च महाभीमा महाकाली महेश्वरी ॥३१॥
आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा
।
देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः ॥३२॥
आत्मनः सदृशः शौर्याद्बलरूपसमन्वितः
।
स एव भगवान् क्रोधः प्रतिरूपसमन्वितः ॥३३॥
अनन्तबलवीर्यश्च अनन्तबलपौरुषः
।
वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥३४॥
सोऽसृजद्रोमकूपेभ्यो रौम्यान्नाम गणेश्वरान्
।
रुद्रतुल्या गणा रौद्रा रुद्रवीर्यपराक्रमाः ॥३५॥
ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया
।
भीमरूपा महाकायाः शतशोऽथ सहस्रशः ॥३६॥
ततः कलकिलाशब्दैराकाशं पूरयन्निव
।
तेन शब्देन महता त्रस्तास्तत्र दिवौकसः ॥३७॥
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा
।
मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः ॥३८॥
अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः
।
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः ॥३९॥
ऋषयो न प्रकाशन्ते न देवा न च मानुषाः
।
एवं तु तिमिरीभूतं निर्दहन्त्यपमानिताः ॥४०॥
प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च
।
प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे ॥४१॥
आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः
।
चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च ॥४२॥
विशीर्यमाणा दृश्यन्ते तारा इव नभस्तले
।
दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ॥४३॥
क्षीरनद्योऽथ दृश्यन्ते घृतपायसकर्दमाः
।
दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः ॥४४॥
षड्रसा निवहन्त्येता गुडकुल्या मनोरमाः
।
उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥४५॥
पानकानि च दिव्यानि लेह्यचोष्याणि यानि च
।
भुञ्जते विविधैर्वक्त्रैर्विलुम्पन्त्याक्षिपन्ति च ॥४६॥
रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः
।
क्षोभयन्सुरसैन्यानि भीषयन्तः समन्ततः ॥४७॥
क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः
।
रुद्रकोधात्प्रयत्नेन सर्वदेवैः सुरक्षितम् ॥४८॥
तं यज्ञमदहच्छीघ्रं रुद्रकर्मा सभन्ततः
।
चकार भैरवं नादं सर्वभूतभवंकरम् ॥४९॥
छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च
।
ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः ॥५०॥
ऊचुः प्राज्जलयः सर्वे कथ्यतां को भवानिति
।
वीरभद्र उवाच ।
नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः ॥५१॥
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः
।
द्रष्टुं वा नैव विप्रेन्द्रान्नैव कौतूहलेन वा ॥५२॥
तव यज्ञविघातार्थं सम्प्राप्तं विद्धि मामिह
।
वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः ॥५३॥
भद्रकालीति विख्याता देव्याः कोपाद्विनिःसृता
।
प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ ॥५४॥
शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम्
।
वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः ॥५५॥
वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः
।
तोषयामास स्तोत्रेण प्रणिपत्य महेश्वरम् ॥५६॥
प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम्
।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥५७॥
दक्षप्रजापतेर्यज्ञे द्रव्यैस्तैः सुसमाहितैः
।
आहूता देवताः सर्वा ऋषयश्च तपोधनाः ॥५८॥
देवो नाहूयते तत्र विश्वकर्मा महेश्वरः
।
तत्र क्रुद्धा महादेवी गणांस्तत्र व्यसर्जयत् ॥५९॥
प्रदीप्तयज्ञवाटे तु विद्रुतेषु द्विजातिषु
।
तारागणमनुप्राप्ते रौद्रे दीप्ते महात्मनि ॥६०॥
शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः
।
निखातोत्पाटितैर्यूपैरपविद्धैरितस्ततः ॥६१॥
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृद्धिभिः
।
पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ॥६२॥
यक्षगन्धर्वसंघैश्च पिशाचोरगराक्षसैः
।
प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः ॥६३॥
विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित्
।
सहसा देवदेवेशो ह्यग्निकुण्डात्समुत्थितः ॥६४॥
बिभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः
।
स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥६५॥
श्राविते च मखाध्याये देवानां गुरुणा ततः
।
तुमवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः ॥६६॥
भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः
।
यदि प्रसन्नो भगवान्यदि चाहं भवत्प्रियः ॥६७॥
यदि वाऽहमनुग्राह्यो यदि वा वरदो मम
।
यद्दग्धं भक्षितं पीतशितं यच्च नाशितम् ॥६८॥
चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम्
।
दीर्घकालेन महता प्रयत्नेन सुसंचितम्
।
तन्न मिथ्याभवेन्मह्यं वरमेतमहं वृणे ॥६९॥
तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः
।
धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः ॥७०॥
जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम्
।
नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥७१॥
युधिष्ठिर उवाच।
यैर्नामधेयैः स्तुतवान्दक्षो देवं प्रजापतिः
।
वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ ॥७२॥
यैर्नामधेयैरिति। उत्तरार्धे तानीति शेषः ॥७२॥
भीष्म उवाच।
श्रूयतां देवदेवस्य नामान्यद्भुतकर्मणः
।
गूढव्रतस्य गुह्यानि प्रकाशानि च भारत ॥७३॥
नन्विह नाम्नामष्टसहस्रेणेत्यष्टाधिकं सहस्रं नाम्नां वक्तव्यत्वेन प्रतिज्ञातम् । तत्र नामपाठे किश्चिदधिकानि षट्शतनामान्युपलभ्यन्ते न च स्तुतिपदेभ्यो विपरिणामेन नामान्युन्नेतुं शक्यन्ते । अन्यशब्दस्यान्यार्थत्वकल्पने प्रमाणाभावात् । न च तावतापि संख्यापूर्तिः संभवति । तस्माद्गलित इह नामसमाम्नाय इत्यव्याख्येयमेतत्सहस्रनामस्तोत्रं नापि पठनीयं न्यूनत्वेन वाग्वज्रत्वात् । वाग्वज्रो हि मन्त्रोऽध्येतारं नाशयति । तथा चोक्तं शिक्षायां - 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजामानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ' इति । इन्द्रं हन्तुकामेन त्वष्ट्रा पुत्रार्थिना 'स्वाहेन्द्रशत्रुर्वर्धस्व' इति मन्त्रेण होमं कुर्वता इन्द्रपदं स्वेष्टसिद्धयेऽन्तोदात्तं प्रयोज्यं तच्च न प्रयुक्तं प्रत्युत आद्युदात्तमेव तत्पठितमिति इन्द्र एव तत्पुत्रस्य नाशको जात इत्युपाख्यायते त्वष्टा हतपुत्र इत्यनुवाके - तस्मादस्य स्तवस्य मोक्षमन्त्रत्वात् वर्णतश्चात्यन्तं हीनत्वान्नेष्टार्थप्रदत्वं युज्यतेऽपि तु पाठकानर्थकरत्वमेवेति चेत् उच्यते । इदमिह जाबालाः समामनन्ति - 'अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्त्वं ब्रूहीति स होवाच याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतस्य नामधेयान्येतैर्ह वा अमृतो भवति' इति। अत्र नामजपस्यामृतसाधनत्वं गम्यते । तेषां च नाम्नां न्यूनाधिकभावेनानेकासु शाखासु पठितानां गुणोपसंहारन्यायेनैकत्रोपसंहारेण भवितव्यम्। तच्चास्मदादीनामशक्यमिति भगवान्बादरायणस्तैत्तिरीयकवाजसनेयकादिप्रसिद्धशाखास्वविद्यमानानां नाम्नामुपसंहारमिह कृतवान् । यथा हि आपस्तम्बादिः कल्पकारः स्वपरशाखास्थान्यङ्गान्युपदिश्य आग्नेयमष्टाकपालमिति यथा समाम्नातमिति मध्ये प्रधानं सिद्धवन्निर्दिश्य पुनरुपदिष्टात्त्वन्यान्यङ्गान्युपदिशति तद्वदिहापि । नमस्ते देवदेवेशेत्यादिना कानिचिन्नामान्युपदिश्य 'त्रिसौपर्णं तथा ब्रह्मयजुषां शतरुद्रियम्' इति त्रिसुपर्णशतरुद्रिये नाममालायां सिद्धवन्निर्दिश्य शेषमपि नामधेयगणं पठति। तथा च यथाप्रतिज्ञातमष्टोत्तरसहस्रनाम्नां संख्या पूर्यते नान्यथा । तदिदमभिप्रेत्योक्तम् - गुह्यानीति । गुह्यानि अश्रद्धाद्युपहतेषु अप्रकाश्यानि ॥७३॥
नमस्ते देवदेवेश देवारिबलसूदन
।
देवेन्द्रबलविष्टम्भ देवदानवपूजित ॥७४॥
आदिपुरुषाय नमः । नमस्ते देवेति । ब्रह्मविद्याधिकारादध्यात्मपरतयैवैतानि व्याख्येयानि । तथाहि - हे देव जगन्निर्माणक्रीडापर ते तुभ्यं नमः ते इति युष्मदर्थस्य दृश्यस्य प्रमेयस्य निर्देशः । देवेश देवा इन्द्रियाणि ईशो बुद्धिः 'पूर्बुद्धिः ख्यातिरीश्वरः' इति स्मृतेः एतदुभयात्मक एतेन प्रमाणप्रमात्रो निर्देशः कृतः । एवं नामत्रयेण ज्ञेयज्ञानज्ञात्रात्मकत्वं देवस्योक्तम्। तत्प्राप्त्युपायं त्रयेणाह - देवारीति । देवाः शमाद्या इन्द्रियवृत्तयस्तेषामरयोऽसुराः कामादयस्तेषां बलस्य सूदन तथा च शमकामादिषु देवासुरशब्दयोः प्रयोगो दृष्टः 'द्वया ह प्राजापत्या देवाश्चासुराश्च' इति देवानामिन्द्रियाणाम् इन्द्रो बुद्धिस्तस्या बलं विषयप्रावण्यं तद्विशेषेण स्तभ्नातीति देवेन्द्रबलविष्टंभ अत एव देवैरिन्द्राद्यैर्दानवैर्बाणाद्यैश्च पूजित आदरनैरन्तर्यसत्कारसेवित। एवं च कामादिजयो धीनिरोधस्तत्रादरादिश्च मेयाद्यात्मकस्य वस्तुनः प्रापक इत्युक्तं भवति॥७४॥
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय
।
सर्वतःपाणिपादान्त सर्वतोऽक्षिशिरोमुख ॥७५॥
योगे प्रथमं प्राप्यायाः साम्बमूर्तेः स्वरूपमाह चतुर्भिः । सहस्रमक्षाणि युगपत् सर्वविषयप्रकाशकानीन्द्रियाणि यस्य सर्वज्ञेत्यर्थः । अत एव विरूपाणि अस्मदादीन्द्रियेभ्यो विलक्षणानि व्यवहितादिग्राहकाणीन्द्रियाणि यस्य । त्र्यक्ष त्रीणि सोमसूर्याग्न्याख्यानि अक्षाणि यस्य, यक्षाधिपः कुबेरः स प्रियो यस्य । अथामूर्तज्ञेयं स्वरूपमाह - सर्वत इति चतुर्भिः । भगवद्गीतास्वपि ‘ज्ञेयं यत्तत्प्रवक्ष्यामि’ इति प्रतिज्ञाय ’सर्वतः पाणिपादं तत्' इत्यादिना इदमेव स्वरूपमुक्तम् । सर्वतः पाणयः पादाः अन्तः सन्निधिश्च यस्य स सर्वतःपाणिपादान्तः एवमुत्तरत्र । तथा च श्रुतिः –
'विश्वतश्वक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्
।
संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः॥'
इति ॥ धमति वशीकरोति । सर्वेषु संबोधनपदेषु नमस्ते इत्यनुषञ्जनीयम् । लोके सर्वमावृत्य तिष्ठसीत्यत्र विपरिणामेन लोके सर्वमावृत्य तिष्ठन्निति सम्बोधनमूहनीयम्। सार्थः श्लोकः ८ ॥७५॥
सर्वतःश्रुतिमँल्लोके सर्वमावृत्य तिष्ठसि
।
शङ्खकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥७६॥
शंकुकर्णादयः सप्त ईश्वरगणाः सर्वाभिन्नत्वादीशस्य तदात्मत्वमुच्यते ७ शतोदरेत्यर्धो वैश्वरूप्यप्रथनार्थः ३ ॥७६॥
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते
।
शतोदर शतावर्त शतजिह्व नमोऽस्तु ते ॥७७॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः
।
ब्रह्माणं त्वां शतक्रतुमूर्ध्वं खमिव मेनिरे ॥७८॥
अस्यैव त्रैवर्णिकोपास्यत्वे श्रुतिं पठति गायन्तीति गायत्रिणस्त्रिसंध्यं गायत्रीजपपराः त्वामेव गायंति गायत्रीप्रतिपाद्यस्त्वमेवासीत्यर्थः । अर्किणः अर्कोपासनपराः त्वाम् अर्कं सवितारं मण्डलाधिष्ठातारमर्चन्ति उपतिष्ठन्ते संध्यासु ब्रह्माणं ब्रह्मविदं चतुर्मुखम्। शतक्रतुं देवेन्द्रम् ऊर्ध्वं सर्वोपाधिभ्य उद्गतम् खमिव आकाशवत्सर्वगतश्च नित्यः असंगश्च तादृशं मेनिरे मुनयः अत्रापि गायत्रिगेय अर्क अर्क्यर्च्य ब्रह्मन् शतक्रतो ऊर्ध्व खतुल्यत्वेन मत इति नामान्युन्नेयानि ७ ॥७८॥
मूर्तौ हि ते महामूर्ते समुद्राम्बरसन्निभ
।
सर्वा वै देवता ह्यस्मिन्गावो गोष्ठ इवासते ॥७९॥
मूर्तौ अष्टरूपायां भूम्यम्बुवह्निवाय्वाकाशसूर्यचन्द्रयजमानात्मिकायां सर्वदेवतामूर्ते इत्यूह्यं नाम ॥७९॥
भवच्छरीरे पश्यामि सोममग्निं जलेश्वरम्
।
आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् ॥८०॥
हे भवन् हे सोमशरीरेत्यादीनि अष्टौ नामान्यूह्यानि ८ ॥८०॥
भगवान्कारणं कार्य क्रिया करणमेव च
।
असतश्च सतश्चैव तथैव प्रभवाप्ययौ ॥८१॥
भगवन्नित्यादीनि पूर्वार्धे पञ्च सदसत्प्रभवाप्ययेत्युत्तरार्धे एकम् ६ ॥८१॥
नमो भवाय शर्वाय रुद्राय वरदाय च
।
पशूनां पतये नित्यं नमोऽस्त्वन्धकघातिने ॥८२॥
भवत्यस्मादिति भवः शृणाति हिनस्तीति शर्वः रु पापं द्रावयतीति रुद्रः पशूनां ब्रह्मादिस्थावरान्तानां जीवानाम् ६ ॥८२॥
त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने
।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥८३॥
नानारूपत्वेन स्तौति - त्रिजटायेत्यादिना । त्रिशूलवरेण पणितुं व्यवहर्तुं शीलमस्य तस्मै त्रिशूलवरपाणिने त्रीणि शास्त्राचार्यध्यानानि अम्बकानि नेत्राणीव गमकानि बोधकानि यस्य स त्र्यम्बकः । त्रीणि सोमसूर्याख्यानि नेत्राणि यस्य ६ ॥८३॥
नमश्चण्डाय कुण्डाय अण्डायाण्डधराय च
।
दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः ॥८४॥
चंडः सर्वसूदनक्षमः कुण्डः अमत्रवत्स्वस्मिन्सर्वं धारयितुं क्षमः । अण्डं ब्रह्माण्डं दण्डिने दंडधराय शासित्रे इत्यर्थः । समश्चासौ कर्णश्चेति समकर्णः ऋजुर्वक्रश्च दण्डी चासौ मुण्डः चेति दण्डिमुण्डः परिव्राजकः ७ ॥८४॥
नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च
।
विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥८५॥
ऊर्ध्वाः उच्चा दंष्ट्राः केशाश्च यस्य । शुक्लाय शुद्धाय असंगिने तथापि अवतताय अवसन्नेन बाध्यन रूपेण जगदात्मना तताय विस्तृताय अत एव विलोहिताय रजोगुणिने धूम्राय तमोगुणिने नीलग्रीवाय जगद्रक्षणार्थं कण्ठे विषधारित्वेन सात्त्विकाय ६ ॥८५॥
नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च
।
सूर्याय सूर्यमालाय सूर्यध्वजपताकिने ॥८६॥
नास्ति प्रतिरूपः सदृशो यस्य विविधानि रूपाणि यस्य शिवाय परमकल्याणाय तुर्यब्रह्मणे । सूर्याय सूर्यमंडलरूपाय सूर्यमालाय तस्मिन्मालते शोभते सूर्यमंडलान्तर्वर्तिने परमेश्वराय सूर्यवत्प्रख्याः ध्वजाः पताकाश्च यस्य ६ ॥८६॥
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने
।
शत्रुं दमाय दण्डाय पर्णचीरपटाय च ॥८७॥
प्रमथाः शिवगणाः वृषस्येव स्कन्धो यस्य पर्णानि भूर्जत्वचः चीराणि वल्कलानि पटा यस्य शबररूपिणस्तापसस्य वा ६ ॥८७॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च
।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥८८॥
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः
।
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥८९॥
नमो होत्रेऽथ मन्त्राय शुक्लध्वजपताकिने
।
नमो नाभाय नाभ्याय नमः कटकटाय च ॥९०॥
नाभाय नाभौ जगदस्यास्तीति नाभः मत्वर्थीयोऽच् यस्येति चेतीकारलोपः नाभ्याय नाभिमर्हतीति नाभ्यः नाभिनभं चेति यत्प्रत्यये नभादेशः नाभिस्थानीयाय अस्य अरनेमिस्थाने कारणकार्यप्रपञ्चौ । तथा च श्रुतिः - 'तद्यथारेषु नेमिरर्पितो नाभावरा अर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्।' प्राणे ब्रह्मणि सर्वं कार्यं कारणं च कटानामावरकाणामपि कटाय आवरकाय नामद्वयेनान्तर्बहिर्व्याप्तिर्दर्शिता १ ॥९०॥
नमोऽस्तु कृशनासाय कृशाङ्गाय कृशाय च
।
संहृष्टाय विहृष्टाय नमः किलकिलाय च ॥९१॥
किलकिलाय शब्दविशेषरूपाय ६ ॥९१॥
नमोऽस्तु शयमानाय शयितायोत्थिताय च
।
स्थिताय धावमानाय मुण्डाय जटिलाय च ॥९२॥
सर्वक्रियाकर्तृत्वेन स्तौति – नमोऽस्त्वित्यादिना ७ ॥९२॥
नमो नर्तनशीलाय मुखवादित्रवादिने
।
नाद्योपहारलुब्धाय गीतवादित्रशालिने ॥९३॥
नद्यां भवानि नाद्यानि कमलानि तान्येवोपहारस्तत्र लुब्धाय । 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोः' इत्येतदनेन सूचितम् ४ ॥९३॥
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च
।
कालनाथाय कल्याय क्षयायोपक्षयाय च ॥९४॥
ज्येष्ठो वयसाऽधिकः श्रेष्ठो गुणाधिकः । बलो बलाभिमानिनी देवता इन्द्रः तस्य प्रमथनं पराजयस्तत्कर्त्रे । कालस्यापि नाथाय नियन्त्रे । कल्याय समर्थाय क्षयाय महाप्रलयाय उपक्षयाय अवान्तरप्रलयाय ७ ॥९४॥
भीमदुन्दुभिहासाय भीमव्रतधराय च
।
उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ॥९५॥
भीमं व्रतम् अनशनादि तस्य धराय धर्त्रे ४ ॥९५॥
नमः कपालहस्ताय चितिभस्मप्रियाय च
।
विभीषणाय भीष्माय भीमव्रतधराय च ॥९६॥
विभीषणाय निर्भयाय भीष्माय भयंकराय हे भीम व्रतैः शमादिभिः धरणम् आकल्पान्तं यस्य तस्मै व्रतधराय ६ ॥९६॥
नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे
।
पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च ॥९७॥
पक्वं यज्ञे आमम् अपक्वं श्मशाने उभयविधमांसलुब्धाय ५ ॥९७॥
नमो वृषाय वृष्याय गोवृषाय वृषाय च
।
कटंकटाय दण्डाय नमः पचपचाय च ॥९८॥
वृषाय वृष्टिकर्त्रे वृष्याय वृषो धर्मस्तत्र हिताय धर्मवृद्धिकर्त्रे गोवृषाय नन्दिरूपाय वृषाय धर्माय कटंकटाय कटीगतौ नित्यवीप्सयोरिति द्वित्वम् । मुमागम आर्षः । वाय्वादिरूपेण नित्यं गमनशीलायेत्यर्थः । कालाय वा दण्डाय नियन्त्रे । पचपचाय नित्यं भूतानां पाककर्त्रे कटिपच्योः पचाद्यच् ७ ॥९८॥
नमः सर्ववरिष्ठाय वराय वरदाय च
।
वरमाल्यगन्धवस्त्राय वरातिवरदे नमः ॥९९॥
गौर्वरः अतिवरो धेनुः ईप्सितमात्रदानं वरः । ततोऽप्यधिकदानमतिवरः । वरदे वरदाय क्विबन्तस्यातो धातोरित्यालोपे रूपम् ५ ॥९९॥
नमो रक्तविरक्ताय भावनायाक्षमालिने
।
सम्भिन्नाय विभिन्नाय छायायातपनाय च ॥१००॥
अघोरघोररूपाय घोरघोरतराय च
।
नमः शिवाय शान्ताय नमः शान्ततमाय च ॥१०१॥
रक्तो रागवान् विरक्तस्तदन्यस्तदुभयात्मकाय भावनाय ध्यात्रे सम्भिन्नाय कारणरूपेण सर्वतोऽनुस्यूताय विभिन्नाय कार्यरूपेण व्यावृत्ताय छायाय छायावते गृहतर्वादिरूपाय छायाशब्दादर्श आद्यच् । आतपनः आतपः ७ ॥१००॥ ५ ॥१०१॥
एकपाद्बहुनेत्राय एकशीर्ष्णे नमोऽस्तु ते
।
रुद्राय क्षुद्रलुब्धाय संविभागप्रियाय च ॥१०२॥
एकपात् एकपदे ६ ॥१०२॥
पञ्चालाय सिताङ्गाय नमः शमशमाय च
।
नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने ॥१०३॥
पञ्चालाय विश्वकर्मणे स्वर्णकारलोहकारतक्षादिकर्मकर्त्रे इत्यर्थः। शमशमाय नित्यं शाम्यतीति पचपचवत् चण्डिका शत्रुभयङ्करी घण्टा यस्य तस्मै चण्डिकघण्टाय घण्टाय घण्टानादरूपाय अघण्टघण्टिने नादहेत्वभावेऽपि नादवते । अनाहतध्वनिरूपायेत्यर्थः ६ ॥१०३॥
सहस्राध्मातघण्टाय घण्टामालाप्रियाय च
।
प्राणघण्टाय गन्धाय नमः कलकलाय च ॥१०४॥
पुंसां सहस्रैर्युगपत् आध्माता एकाऽपि सती प्रतिबिम्बार्कवत् प्रत्येकं परिसमाप्ता घण्टाऽस्य योगबलवतः स तथा । तादृशघण्टामालाप्रियाय प्राणः पञ्चवृत्तिर्वायुः स एव घण्टावत् शब्दहेतुर्यस्य तस्मै प्राणघटाय गन्धः प्रसिद्धः कलकलः ऊष्मा कोलाहलो वा ५ ॥१०४॥
हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च
।
नमः शमशमे नित्यं गिरिवृक्षालयाय च ॥१०५॥
हूंकारः क्रोधवर्णस्तस्य परोऽन्तः शमः हूंकारो याज्ञिकप्रसिद्धः। 'हूम् इति हिंकृत्य भूर्भुवःस्वरोमिति जपत्येषोभिहिङ्कारः' इति आश्वलायनायुक्तोऽभिहिङ्कारस्तस्य पारः भूरादिलोकेभ्यः परं शान्तं ब्रह्म। हूंहकार आकाशः ऊकारः पष्ठी शिवमूर्तिः सूर्यस्ताभ्यां नामरूपात्मकः प्रपञ्चो लक्ष्यते । मकारस्तस्य कारणमीश्वरस्तस्य पारस्तुरीयं शान्तं ब्रह्म तदिदमुक्तं हूंहूंहूंकारपारायेति । हूंहूंकारप्रियायेति । क्रोधवर्जहूंकारद्वयाप्रियाय शमशम शान्तो भव शान्तो भवेत्याचष्टे शमशमेति शाम्यशाम्येत्यपेक्षिते भौवादिकत्वमार्षम् । शमशमतीति शमशम् । तस्मै शमशमे आचारक्विबन्तात्कर्तरि क्विप् ४ ॥१०५॥
गर्भमांससृगालाय तारकाय तराय च
।
नमो यज्ञाय यजिने हुताय प्रहुताय च ॥१०६॥
गर्भमांसं हृदयजिह्वावक्ष आद्यवदानगतं मांसं तत्र सृगालवल्लुब्धाय । यद्वा गर्भमांसं वपा तस्यां लुब्धाय । अमृताहुतिर्वपाहुतिरिति ब्राह्मणात् । तारकाय यज्ञभोक्तृत्वेन पापमोचकाय तराय तरत्यनेनेतिव्युत्पत्त्या। यज्ञोपकारणाय यजिने यजमानाय हुताय ब्राह्मणमुखेन तृप्ताय प्रहुताय अभिमुखेन तृप्ताय ७ ॥१०६॥
यज्ञवाहाय दान्ताय तप्यायातपनाय च
।
नमस्तटाय तट्याय तटानां पतये नमः ॥१०७॥
यज्ञवाहाय ऋत्विगादिरूपेण यज्ञनिर्वोढ्रे दान्ताय जितेन्द्रियाय तप्याय सत्त्वमयाय आतपनाय रजोमयाय तप्यं सत्त्वं तापकं रज इति सांख्यप्रसिद्धेः । तट्याय तटार्हनद्यादिरूपाय तटानां तटवतीनां नदीनां पतये समुद्राय ७ ॥१०७॥
अन्नदायान्नपतये नमस्त्वन्नभुजे तथा
।
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥१०८॥
सहस्रोद्यतशूलाय सहस्रनयनाय च
।
नमो बालार्कवर्णाय बालरूपधराय च ॥१०९॥
अन्नादाय २००॥४॥१०८॥४॥१०९॥
बालानुचरगोप्ताय बालक्रीडनकाय च
।
नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च ॥११०॥
बालाश्च ते अनुचराश्च तान् गोपायतीति बालानुचरगोप्तः तस्मै । गुपेरौणादिकस्तन् । एतेन चाग्निपानादिश्रीकृष्णलीला सूचिता ६ ॥११०॥
तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः
।
नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥१११॥
त्रीणि कर्माणि यजनाध्ययनदानानि ४ ॥१११॥
वर्णाश्रमाणां विधिवत्पृथक्कर्मनिवर्तिने
।
नमो घुष्याय घोषाय नमः कलकलाय च ॥११२॥
कलकलः कोलाहलः ४ ॥११२॥
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च
।
प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च ॥११३॥
प्राणभग्नाय जितश्वासाय वाऽहिताग्न्यादिष्विति विशेष्यस्यैव पूर्वनिपातः । दण्ड आयुधम् ६ ॥११३॥
धर्मकामार्थमोक्षाणां कथनीयकथाय च
।
सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने ॥११४॥
सांख्याय कपिलाय निरीश्वरवादिने सांख्यमुख्याय सेश्वरपातञ्जलाय सांख्यं वेदान्तविचारः । योगो निदिध्यासनम् अनुग्रहद्वारा एतयोः प्रवर्तकाय ४ ॥११४॥
नमो रथ्यविरथ्याय चतुष्पथरथाय च
।
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥११५॥
रथः तदभावो विरथः तदुभयार्हाय रथ्यविरथ्याय चतुर्षु जलाग्निवाय्वाकाशेषु पन्था यस्य रथस्य तद्वते रतायेति पाठे प्रसिद्धोऽर्थः ४ ॥११५॥
ईशान वज्रसंघात हरिकेश नमोऽस्तु ते
।
त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥११६॥
ईशान हे ईशितः । वज्रसङ्घातवत्कठिनशरीर हरिकेश पिङ्गकेश त्र्यम्बका त्रिनेत्रा चासौ अम्बिका च तस्या नाथ ह्रस्वत्वमार्षम् । व्यक्तकार्यरूप अव्यक्तकारणरूप ६ ॥११६॥
काम कामद कामघ्न तृप्तातृप्तविचारिणे
।
सर्व सर्वद सर्वघ्न सन्ध्याराग नमोऽस्तु ते ॥११७॥
कामेति द्वौ ८ ॥११७॥
महामेघचयप्रख्य महाकाल नमोऽस्तु ते
।
स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे ॥११८॥
हे स्थूल हे जीर्णाङ्ग जटिलवदाचरति जटिल् तस्मै जटिले ६ ॥११८॥
दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे
।
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥११९॥
दीप्तौ यौ सूर्याग्नी तद्वद्दीप्यमान जटावते ४ ॥११९॥
उन्मादनशतावर्त गङ्गातोयार्द्रमूर्धज
।
चन्द्रावर्त युगावर्त मेघावर्त नमोऽस्तु ते ॥१२०॥
हे उन्मादन व्यामोहक शतम् आवर्ता यस्मिन्गङ्गातोये तेनार्द्रमूर्धज चन्द्रम् आवर्तयति पुनःपुनरिति चन्द्रावर्तेत्यर्धः ५ ॥१२०॥
त्वमन्नमत्ता भोक्ता च अन्नदोऽन्नभुगेव च
।
अन्नस्रष्टा च पक्ता च पक्वभुक्पवनोऽनलः ॥१२१॥
त्वमिति । अन्नभुक् अन्नपालकः ९ ॥१२१॥
जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः
।
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥१२२॥
जरेति । जरायुजाण्डजा इति नामद्वयम् । सन्धिरार्षः । हे देव हे देवेश भूतग्रामश्चतुर्विध इत्येकं नाम ॥७॥१२२॥
चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च
।
त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर ॥१२३॥
चरेति । ब्रह्मेति ब्रह्मविदां वरेति च नामद्वयम् ॥४॥१२३॥
मनसः परमा योनिः खं वायुर्योतिषां निधिः
।
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥१२४॥
मनस इति ६ ॥१२४॥
हायिहायिहुवाहायिहावुहायि तथाऽसकृत्
।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥१२५॥
हायि हायीति सामगीतिपुराणार्थाः स्तोभाः। ते प्रत्येकं चतुरक्षरास्त्रयः । सुरश्रेष्ठेत्येकं ब्रह्मवादिगेयेति पञ्चममुन्नेयम् ५ ॥१२५॥
यजुर्मयो ऋङ्मयश्च त्वमाहुतिमयस्तथा
।
पठ्यसे स्तुतिभिश्चैव वेदोपनिषदां गणैः ॥१२६॥
यजुरिति। वेदोपनिषद्गणस्तुतिपठनीयेति चतुर्थम् ४॥३००॥ ॥१२६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये
।
त्वमेव मेघसंघाश्च विद्युत्स्तनितगर्जितः ॥१२७॥
संवत्सरस्त्वमृतवो मासो मासार्धमेव च
।
युगं निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः ॥१२८॥
वर्णावराः संकरजाः विद्युत् स्तनितं सवृष्टिको मेघशब्दः गर्जितं निर्वृष्टिकः सः नव नामानि ९ ॥१२७॥ १० ॥१२८॥
वृक्षाणां ककुदोऽसि त्वं गिरीणां शिखराणि च
।
व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥१२९॥
क्षीरोदो हृदधीनां च यन्त्राणां धनुरेव च
।
वज्रः प्रहरणानां च व्रतानां सत्यमेव च ॥१३०॥
वृक्षाणामिति । ककुदो मुख्याः न्यग्रोधाश्वत्थादयः पततां पक्षिणां द्वाभ्यामुपासनार्थं विभूतय उक्ताः ५ ॥१२९॥४॥१३०॥
त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे
।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥१३१॥
त्वमिति द्वौ झर्झरो वाद्यविशेषस्तद्वान् मतो ज्ञातः शास्त्रकृद्भिरिति शेषः २४ ॥१३१॥
त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा
।
छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः ॥१३२॥
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च
।
गङ्गा समुद्राः सरितः पल्वलानि सरांसि च ॥१३३॥
दशलक्षणसंयुक्तो धर्म इत्येकम् । लक्षणानि च - 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' इति 'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति च योगोक्तानि । क्षमासत्यादीनि मनूक्तानि वा ८ ॥१३३॥
लता वल्यस्तृणौषध्यः पशवो मृगपक्षिणः
।
द्रव्यकर्मसमारम्भः कालः पुष्पफलप्रदः ॥१३४॥
तृणौषध्य इति द्वे । मृगपक्षिण इति द्वे । द्रव्यकर्मणां समारंभ इत्येकं कालः पुष्पफलप्रद इत्येकम् ९ ॥१३४॥
आदिश्चान्तश्च देवानां गायत्र्योङ्कार एव च
।
हरितो रोहितो नीलः कृष्णो रक्तस्तथारुणः
।
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ॥१३५॥
अवर्णश्च सुवर्णश्च वर्णकारो घनोपमः
।
सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥१३६॥
आदिश्चेत्यर्धः ४ हरितादिर्दशविधो वर्णः १० ॥१३५॥६॥१३६॥
त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः
।
उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥१३७॥
त्वमिति उपप्लव उपरागः ९ ॥१३७॥
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः
।
त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् ॥१३८॥
होत्रमित्यर्धं हूयतेऽस्मिन्निति होत्रं वह्निः होता यजमानः प्रभुर्हुतस्य फलद ईश्वरः ५· त्रिसौपर्णं त्रिसौपर्णे विदितं नामजातं शतरुद्रसम्बन्धि नामजातं यस्मिंस्तत् शतरुद्रियम् । तच्च ब्रह्म वेदरूपं तेन द्रोणपर्वस्थशतरुद्रियस्य शिवो महेश्वरः शंभुरिति नामाष्टोत्तरशतादेश्च व्यावृत्तिः । वेदान्तरेऽपि शतं रुद्रनामानि संभाव्यन्ते तद्व्यावृत्तये - यजुषामिति । यजुषां शतरुद्रियमित्येतावत्युक्ते द्रोणपर्वस्थस्यापि शतरुद्रियस्य मूलमूलिभावेन यजुः संबन्धित्वसंभवाद्ब्रह्मेत्युक्तम् । तस्य तथात्वेऽपि साक्षाद्वेदत्वाभावात् । ततश्च हुतं चैव तथा प्रभुरित्यन्तानि अष्टाशीत्यधिकशतत्रयं नाम्नां भवति । तथा पवित्रं च पवित्राणामित्यादीनि निमेषोन्मेषकर्मेत्यन्तानि अष्टादशाधिकशतद्वयम् । तेन षडधिकषट्शतानि नाम्नामिहाम्नातानि । अष्टाधिकसहस्रस्य शेषं द्व्यधिकं नाम्नां शतचतुष्टयं त्रिसुपर्णशतरुद्रियाभ्यां पूरणीयम् । तथाहि । त्रिसुपर्णत्रये चतुर्दश मन्त्राः १४ सर्वशाखागतानां नाम्नामुपसंहार्यत्वात् । खिलसहितेषु नमकानुवाकेषु प्रथमे षोडशमन्त्रा एकादश नामानि चेति सप्तविंशतिः २७ द्वितीयेऽष्टाचत्वारिंशत् ४८ तृतीयचतुर्थयोः षट्सप्ततिः ७६ ततस्त्रिके द्विनवतिः ९२ ततो द्विके त्र्यशीति ८३ रितिनामान्येवान्त्ययोः चतुर्विंशतिः २४ मंत्राः । शेषं खिले १७ सप्तदश मंत्राः न ब्रह्मा न च गोविंद इत्यादयो मूलश्लोकाश्चैकविंशतिः २१ सर्वेषां संकलने ह्यधिकं शतचतुष्टयम् एतत्पूर्वोक्तषडधिकषट्शतयुतमष्टाधिकं सहस्रं भवति । तथा चामृतत्वकामस्यायं नामसमाम्नायस्त्रिसुपर्णत्रयशतरुद्रियाभ्यां समुच्चित एव श्रेयस्करो न त्वन्यथा । न्यूनत्वेन वाग्वज्रत्वापत्तेरिति शिवम् ॥१३८॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
।
गिरिको हिंडुको वृक्षो जीवः पुद्गल एव च ॥१३९॥
पवित्रमिति । गिरिं गिरिवदचेतनं देहं कायति शब्दयतीति गिरिकः आतोऽनुपसर्गे क इति कः । अचेतनमपि देहादि चेतनं करोतीत्यर्थः। अचेतयदचितो देवो अर्य इति मन्त्रलिंगं च । हिंडुकः हिंडते गत्यागतं कुरुते इति हिंडुकः । हिडिगतावित्यस्माद्बाहुलकादुकञ् चिदाभास इत्यर्थः । वृक्षः वृश्च्यते छेद्यत इति वृक्षः । उपाधिविशिष्टेन रूपेण नाशवान् । जीवः शुद्धस्वरूपेण जीवत्येव न नश्यतीत्यर्थः । तथा च श्रुतिः - ‘विज्ञानघन एवैतेभ्यः भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इति 'अविनाशी वा अरेऽयमात्मा' इति च पुद्गलः पूयते गलति चेति पुद्गलो देहः ७ ॥१३९॥
प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा
।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥१४०॥
अप्रमदः प्रमदया स्त्रिया हीनः ऊर्ध्वरेता इत्यर्थः १० ॥१४०॥
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च
।
लोहितान्तर्गता दृष्टिर्महावक्त्रो महोदरः ॥१४१॥
लोहिता अन्तर्गता च दृष्टिरस्य पुंवद्भावाभाव आर्षः ७ ॥१४१॥
सूचीरोमा हरिश्मश्रुर्ध्वकेशश्चलाचलः
।
गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः ॥१४२॥
चलाचलः अत्यन्तं चलः 'तद्धावतोऽन्यानत्येति' इति श्रुतेः ६ ॥१४२॥
मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः
।
अकालश्चातिकालश्च दुष्कालः काल एव च ॥१४३॥
मत्स्य इव मत्स्यो जीवः संसारनदीजले चरतीति जाल्यो वासनाजालबद्धः वस्तुतस्तु अकलो दुर्धरः कलनं धरणं कलः केलिरेव कलो यस्य लीलयाऽस्य बद्धत्त्वं नान्यवशतयेत्यर्थः १० ॥१४३॥
मृत्युः क्षुरश्च कृत्यश्च पक्षो पक्षक्षयंकरः
।
मेघकालो महादंष्ट्रः संवर्तकबलाहकः ॥१४४॥
क्षुरः छेदनसाधनं कृत्यः छेत्तुं योग्यः कृती छेदने इत्यस्य रूपम् । पक्षो मित्रम्। अपक्षः अमित्रं तस्य क्षयंकरः । संवर्तकबलाहकः कल्पान्तमेघः ८ ॥१४४॥
घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली
।
ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक् ॥१४५॥
चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः
।
चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च यः ॥१४६॥
घण्टति द्योतते इति घंटः प्रकाशवान् अघण्टो मायावृतत्वेन प्रच्छन्नप्रकाशः घटयति कर्मफलैर्योजयति नरानिति घटी घंटी घंटावान् चरुचेली चरन्ति ते चरवः स्थावरजंगमा जीवास्तैः सारिभिरिव चेलति क्रीडत इति चरुचेली । मिली मिलनं संश्लेषणं मिलः । घञर्थे भावे कः । तदस्यास्तीति मिली। कारणतया सर्वकार्येष्वनुस्यूत इत्यर्थः । द्विर्वचनं नित्यव्याप्तिप्रदर्शनार्थम् । यद्वा मिली इति द्विवचनान्तेन मिलिमिलि इति मन्त्रपदं साभ्यासमुद्धृतं भवति । गौडास्तु रुद्रचीलिचिलीमिली इति पठन्ति । अस्मिन्पक्षे घण्टी प्रणवः । रुद्रेति संबुद्धिः । मिलीवच्चीलिचिलिशब्दावपि द्वित्वपरौ ज्ञेयौ । ब्रह्म प्रणवः । अग्नीनां कायिकं काये भवं कायिकं जाया । 'स इममेवात्मानं द्वेधापातयत्ततः पतिश्च पत्नी चाभवताम् ' इति श्रुतेः । वह्निजाया स्वाहेत्यर्थः । तेन – ओंरुद्रचीलिचीलिचिलिचिलिमिलिमिलि । ओंस्वाहा' इति अष्टादशार्णो मन्त्र उद्धृतो भवति । दंडी मुंड इति परमहंसः त्रिदंडधृगिति । त्रिदंडी उक्तः १३ ॥१४५॥ ॥५॥१४६॥
सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः
।
रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः ॥१४७॥
गिरिकं काषायं तत्प्रियमस्य ७ ॥१४७॥
शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः
।
भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ॥१४८॥
शिल्पिकः अल्पशिल्पी ६॥१४८॥
स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः
।
गूढवतो गुह्यतपास्तारकस्तारकामयः ॥१४९॥
नमस्कारस्यैव रूपान्तरं - नमो नम इति शिष्टप्रयोज्यम् तारकः प्रणवः तारकामयः प्रचुरनक्षत्र आकाशरूपः ९ ॥१४९॥
धाता विधाता संधाता विधाता धारणोऽधरः
।
ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम् ॥१५०॥
धाता आदिकर्ता विष्णुः । विधाता भौतिकस्रष्टा चतुर्मुखः। संधाता एकीकृत्य स्थापकः । संहर्ता महेश्वरः । विधाता विधिरदृष्टं कर्मेत्यर्थः । धारणः सर्वाधिष्ठानभूतकारणात्मा। अधरः नास्ति धरो धर्ता यस्येति सर्वबाधावधिभूतः शुद्धात्मा। ब्रह्मा ब्रह्मवित्। तपआदिचतुष्टयं ब्रह्मविद्यासाधनम् ११ ॥१५०॥
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः
।
भूर्भुवः स्वरितश्चैव ध्रुवो दान्तो महेश्वरः ॥१५१॥
भूतानां जरायुजादीनामात्मा । भूतकृत् वियदाद्युत्पादकः भूतो नित्यसिद्धः भूतम् अतीतं भव्यं भवतीति कर्तरि कृत्यः । वर्तमानं भविष्यं च तयोर्भव उत्पत्तिर्यस्मान्मायाशबलात्तस्याप्युद्भव उत्पत्तिस्थानं भूर्भुवः स्वरिति नामत्रयम् । इतो ध्रुवश्चेत्येकं नाम । इतो दृश्यमानाद्वियदादेरपि ध्रुवः शाश्वत इत्यर्थः । दान्तो जितेन्द्रियः । अत एव महेश्वरः इतरेभ्यो ब्रह्मादिभ्य ईश्वरेभ्योऽपि महान् १० ॥१५१॥
दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः
।
चन्द्रावर्तयुगावर्तः संवर्तः सम्प्रवर्तकः ॥१५२॥
अदान्तनाशन इति च्छेदः चन्द्रमावर्तयति मासः युगमावर्तयति कल्पः स एव संवर्तः संप्रवर्तकः सृष्टिहेतुः ९ ॥१५२॥
कामो बिन्दुरणुः स्थूलः कर्णिकारस्रजप्रियः
।
नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः ॥१५३॥
कामः स्त्र्यभिलाषः बिंदु: रेतोंऽशः पुत्रबीजभूतः स्रजः इति समासान्तष्टच् आर्षः नन्दीति दैर्घ्यमार्षम् अमुख इति च्छेदः १० ॥१५३॥
चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा
।
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥१५४॥
शकुनिः पक्षिबदसङ्गः ७ ॥१५४॥
अधर्महा महापार्श्वश्चण्डधारो गणाधिपः
।
गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥१५५॥
गोनर्दः कृष्णावतारे गोपबाललीलायां गौरिव नर्दति शब्दं करोतीति तथा गोप्रतारः गवां प्रकर्षेण तारको विषजलात् शिलावृष्टितश्च गोवर्धनोद्धरणेन आपत्तारकः गोवृषाणामीश्वरो नन्दी वाहनं यस्य ७ ॥१५५॥
त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च
।
श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥१५६॥
गोमार्गः गवामिन्द्रियाणां मार्ग इव गत्याश्रयः इन्द्रियचालक इत्यर्थः । अमार्गः इंद्रियाद्यग्राह्य इत्यर्थः । श्रेष्ठः प्रशस्यतमः स्थिरश्चलहीनः । स्थाणुस्त्रैलोक्यधारणस्तंभः निष्कंपः कंपः कंपवान् ९ ॥१५६॥
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः
।
दुर्धर्षो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः ॥१५७॥
दुर्वारणः मृत्युरूपेण आगतः सन्दुःखेनापि वारयितुमशक्यः । अमृतरूपेणानुगृह्णाति चेद्दुर्विषहो दुष्टस्यापि विषस्य हन्ता संग्रामे दुःसहः दुरतिक्रमश्च दुर्धर्षः भीषयितुमप्यशक्यः दुर्विषः दुःखेन वेष्टुं व्याप्तुं प्रवेष्टुमशः विष्लृक्यव्याप्तावित्यस्य कप्रत्यये रूपम् । जयो जयस्वरूपी नरो धर्मराजाख्यो वा ९ ॥१५७॥
शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिकृत्
।
आधयो व्याधयश्चैव व्याधहा व्याधिरेव च ॥१५८॥
शशः शीघ्रगः शशांकश्चन्द्रः शमनो यमः ८ ॥१५८॥
मम यज्ञमृगव्याधो व्याधीनामागमो गमः
।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥१५९॥
यज्ञमृगस्य व्याध इव हन्ता व्याधीनाम् आगमः व्याधीनां गमश्च ६ ॥१५९॥
दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः
।
विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः ॥१६०॥
त्रीणि वेदाख्यानि अम्बकानि चक्षूंषि यस्य विषरूपम् अग्निं पिबतीति विषाग्निपाः । विषाग्रापादिति पाठे विषमेव अग्रपादस्त्रैलोक्याक्रमणार्हो यस्यास्ति स तथा ८ ॥१६०॥
अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः
।
विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा
।
मधुश्च्युतानामग्रपास्त्वं त्वमेव तुषिताद्यपाः ॥१६१॥
विषाग्नेः सकाशात् पातीति विषाग्निपाः सर्वत्र पिबतीत्येव वा मधुश्च्युतानां स्वर्गादिसुखात् भ्रष्टानाम् अग्रे पूर्वं पातीति प्रथमरक्षकः । आपन्नत्रातेत्यर्थः । तुषितानां देवानामाद्यः ब्रह्मा तं पातीति तुषिताद्यपाः १०॥१६१॥
हिरण्यरेताः पुरुषस्त्वमेव त्वं स्त्री पुमांस्त्वं च नपुंसकं च
।
बालो युवा स्थविरो जीर्णदंष्ट्रस्त्वं नागेन्द्र शक्रस्त्वं विश्वकृद्विश्वकर्ता ॥१६२॥
हिरण्यरेताः वह्निः विश्वकृत् विश्वकर्ता १३ ॥१६२॥
विश्वकृद्विश्वकृतां वरेण्यस्त्वं विश्वबाहो विश्वरूपस्तेजस्वी विश्वतोमुखः
।
चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ॥१६३॥
विश्वं कृन्तति छिनत्तीति विश्वकृत् विश्वसंहर्तेत्यर्थः । विश्वकृतां विश्वसृजां प्रजापतीनां वरेण्यः वरणीयः । विश्वं वहति पालनपोषणेन स्वस्मिन्धारयतीति विश्ववाहः । चन्द्रेत्यर्धः स्तुतिरेव ७ ॥१६३॥
महोदधिः सरस्वती वाग्बलमनलोऽनिलः अहोरात्रं निमेषोन्मेषकर्म ॥१६४॥
सरस्वती नदी वाग्वर्णरूपा बलं वैराग्यं निमेषोन्मेषादिकं कर्म यस्य सः निमेषोन्मेषकर्म यं विना निमेषादिकमपि कर्तुं न कश्चिच्छक्नोतीत्यर्थः । तथा च श्रुतिः - 'न हि त्वदारे निमिषश्च नेशे' इति । त्वत् त्वत्तः आरे दूरात् त्वां विनेत्यर्थः । निमिषश्च निमेषोऽपि न ईशे न ईशितवान् । पूर्वेषां ब्रह्मादीनामपि पक्ष्मपातोऽपि त्वत्प्रेरणं विना नासीत्किमुत इदानींतनानामल्पसाराणामिति श्रुतिपदार्थः । ८ ॥१६४॥
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते
।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥१६५॥
'न ब्रह्मा न च गोविन्दः' इत्यादय एकविंशतिश्लोका जपहोमादौ एकैकनामगणनया पर्यवस्यन्तीति प्रागुक्तम् ॥१६५॥
या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम्
।
त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम् ॥१६६॥
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते
।
भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥१६७॥
यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशः
।
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥१६८॥
पुंसां सहस्राण्यावृत्याज्ञानेनाभिभूय एकः ज्ञेयज्ञानज्ञातृभावशून्यः समुद्राणां कामानामन्ते नाशे सति तिष्ठति प्रकाशते। कामं समुद्रमाविश इति मन्त्रलिङ्गात्समुद्रशब्दः कामवचनः ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः
।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुते
।
इति कामान्ते ब्रह्मभावश्रुतेश्च ॥१६८॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः
।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१६९॥
ईदृग्रूपसत्वे विद्वदनुभवं प्रमाणयति - यं विनिद्रा इति । विनिद्रत्वे हेतुः - जितश्वासा इति । सनिद्रो हि श्वसित्येव एवमपि हठेन निरुद्धे वायौ सुषुप्तिसदृशी मूर्च्छा भवति । तां वारयितुं - सत्त्वस्था इति । तत्राप्यज्ञानमस्त्येवेति नासौ समाधिः । किं तु सत्त्वोत्कर्षस्य परस्यां काष्ठायां जायमानाहं ब्रह्मास्मीति वाक्यजा वृत्तिः कतकरजोवत्प्रपञ्चं प्रविलाप्य स्वयमपि संस्कारात्मना तिष्ठन्तीति सत्त्वशब्दवाच्या तस्यां तिष्ठन्तीति सत्त्वस्थाः । संयतेन्द्रिया इति जाग्रद्व्यावृत्तिः । ज्योतिः चितिं तन्मात्रं युञ्जानाः योगिनः ॥१६९॥
जटिले दण्डिने नित्यं लम्बोदरशरीरिणे
।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥१७०॥
अस्मिन्योगे प्रथममालम्बनीयं मूर्तिमद्रूपमुपदिशति जटिले जटिलवदाचरन् जटिल् तस्मै । आचारक्विबन्ताद्धातोः कर्तरि क्विप् । लम्बोदरं यच्छरीरं तद्वते कमण्डलुर्जलपात्रं तदेव निषङ्गः बाणाधारो यस्य कमण्डलुजलेनैव यक्षराक्षसादीन् नाशयते इत्यर्थः । ब्रह्मा चतुर्मुखस्तदात्मने ॥१७०॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु
।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥१७१॥
इत ऊर्ध्वं वैराजीं धारणामाह - यस्येति ॥१७१॥
सम्भक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते
।
यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥१७२॥
अस्याप्युपसंहारमाह - संभक्ष्येति । जलमिव जलं निर्विशेषं ब्रह्म तत्र यो मायावी शेते लीनो भवति । कथं सर्वभूतानि आकाशादीनि संभक्ष्य स्वात्मनि प्रविलाप्य स्वयमपि लीयत इत्यर्थः ॥१७२॥
प्रविश्य वदनं राहोर्यः सोमं पिबते निशि
।
ग्रसत्यर्कं च स्वर्भानुर्भूत्वा मां सोऽभिरक्षतु ॥१७३॥
इमं राजयोगमनुष्ठातुमसमर्थस्य हठयोगमाह - प्रविश्येति । मुखस्य ऊर्ध्वफलके यच्छिद्रं तत्र च मांसखण्डो लम्बते तत् घण्टिकेति लम्बिकेति च अन्यत्र उच्यते । सा इह चन्द्रसूर्यदैवत्ययोरिडापिङ्गलयोर्नाड्योः संहारकत्वात् राहोर्वदनमित्युच्यते। तत्र हि जिह्वाग्रे व्यावृत्य धारिते सति वायुर्निरुद्धो भवति । सेयं खेचरीनाम मुद्रा हटयोगिनां प्रसिद्धा । सोमं तत्रत्यम् अमृतं पिबते निशि रात्रौ ज्ञानज्ञेयज्ञातृविभागाभावलक्षणायां सत्यां निशासद्भावे एतमेव हेतुमाह यतः स्वर्भानुः राहुरुक्तरूपः अर्कं चाच्चन्द्रम्। इडापिंगले ग्रसति तन्मार्गनिरोधेन द्रष्टृदृश्यविभागं गिलति यः स मां परमेश्वरोऽभितो रक्षतु । अत्र ग्रन्थान्तरवाक्यानि सांख्ययोगे –
'इडायां पिंगलायां च चरतश्चन्द्रभास्करौ
।
इडायां चन्द्रमा ज्ञेयः पिंगलायां रविः स्मृतः
।
'
इति शिवयोगे । अथ ते षोडशाधारान्प्रवक्ष्यामि विशेषतः' इत्युपक्रम्य ।
'नवमं घण्टिकाधारं जिह्वा तत्र दापयेत्
।
सुधाकलां स्रवत्येषा सा तु संतृप्तिकारिणी
।
या लम्बिका चालनदोहनाभ्यां दीर्घा कृता सा विपरीतमार्गात्
।
यस्तालुमूलान्तरगर्भदेशे प्रवेशयेत्सोन्मनतां प्रयाति॥’
ईश्वरप्रोक्ते –
'लम्बिकोर्ध्वस्थिते गर्ते रसनां विपरीतगाम्
।
संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः
।
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः
।
निरन्तरकृताभ्यासात्पापं प्रत्यहं पिबेत्
।
तेन निग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी
।
'
इति । इयमेव भ्रूमध्यदृष्टिरित्याह दत्तात्रेयः –
'अंतः कपालविवरे जिह्वां व्यावृत्य धारयेत्
।
भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी
।
'
इति॥१७३॥
ये चानुपतिता गर्भा यथा भागानुपासते
।
नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते ॥१७४॥
द्विविधेऽपि योगे त्रिविधविघ्नविघातकं मन्त्रजातं पठति - ये चेति । गर्भा इव अत्यन्तं शिशवः अनुचतुर्मुखसृष्टिमनुपतिताः निर्गतास्त्वत्त इति शेषः । यथा यथावद्भागान् यज्ञे उपासते देवाः पितरश्च तेभ्यो नमः ते च स्वाहास्वधाशब्दाभ्यां दत्तेन हव्यकव्येन मुदं हर्षं प्राप्नुवन्तु॥१७४॥
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्
।
रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु माम् ॥१७५॥
अधिदैवात् शान्तिं प्रार्थ्याध्यात्मभूतात्प्रार्थयते द्वाभ्यां - येङ्गुष्ठेति। अंगुष्ठमात्राः जीवाः ॥१७५॥
येन रोदन्ति देहस्था देहिनो रोदयन्ति च
।
हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥१७६॥
प्राणान्प्रणमति - ये इति। देहिनो जीवान् यतो रोदयन्त्यतो रुद्राख्या एते प्राणाः श्रुताः ॥१७६॥
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च
।
वृक्षालेषु गोष्ठेषु कान्तारे गहनेषु च ॥१७७॥
आधिभौतिकेभ्यः सुखं प्रार्थयते - ये नदीष्वित्यादिना ॥१७७॥
चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च
।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥१७८॥
येषु पञ्चसु भूतेषु दिशासु विदिशासु च
।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥१७९॥
रसातलगता ये च ये च तस्मै परं गताः
।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योऽस्तु नित्यशः ॥१८०॥
तस्मै तत्पदार्थाय ईश्वरार्थमित्यर्थः । परम् उत्कृष्टं वैराग्यादिकं गताः प्राप्ताः । 'तदिति वा एतस्य महतो भूतस्य नाम भवति' इति श्रुत्या ईश्वरस्य तच्छब्दाभिधेयत्वमुक्तम् ॥१८०॥
येषां न विद्यते संख्या प्रमाणं रूपमेव च
।
असंख्येयगुणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः ॥१८१॥
येषामिति सार्वात्म्यमेव भंग्यन्तरेण ईश्वरस्योक्तम् ॥१८१॥
सर्वभूतकरो यस्मात्सर्वभूतपतिर्हरः
।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥१८२॥
स्वयज्ञे ईश्वरस्यानिमन्त्रणे युक्तिमाह - सर्वेति । उपादानत्वात् अन्तर्यामित्वादन्तरात्मत्वाच्च न व्यवहितस्य पृथग्भूतस्येतरस्येव तव निमन्त्रणं युक्तमित्यर्थः ॥१८२॥
त्वमेव हीज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः
।
त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥१८३॥
अथवा मायया देव सूक्ष्मया तव मोहितः
।
एतस्मात्कारणाद्वापि तेन त्वं न निमिन्त्रितः ॥१८४॥
ननु उपादानत्वादिना रूपेण मां जानन्कथं निन्दितवानसीत्याशंक्याह - अथवेति ॥१८४॥
प्रसीद मम भद्रं ते भव भावगतस्य मे
।
त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि ॥१८५॥
भावगतस्य सृष्टावधिकृतत्वेन राजसभावगतस्य । सत्त्वैकग्राह्यं त्वामजानत इत्यर्थः । हृदयं चित्तं चिन्तनं निश्चयः संकल्पश्च त्वद्गोचर एव ममास्तीत्यर्थः ॥१८५॥
स्तुत्वैवं स महादेवं विरराम प्रजापतिः
।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥१८६॥
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत
।
बहुनात्र किमुक्तेन मत्समीपे भविष्यसि ॥१८७॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च
।
प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥१८८॥
अथैनमब्रवीद्वाक्यं लोकस्याधिपतिर्भवः
।
आश्वासनकरं वाक्यं वाक्यविद्वाक्यसम्मतम् ॥१८९॥
वाक्यं वचनं वाक्यं वक्तुमुचितं वाक्यविदां वाक्यानि तेषु संमतं युक्तिमत्तमम् ॥१८९॥
दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति
।
अहं यज्ञहरस्तुभ्यं दृष्टमेतत्पुरातनम् ॥१९०॥
तुभ्यं तव दृष्टं पूर्वकल्पे अतः सर्वेषां कल्पानां समानरूपत्वात् अस्मिन्नपि कल्पे तवेह यज्ञहर्ताऽहं जातः अतो मन्युर्दैन्यं न कार्यम् । अप्रतिकार्यत्वाद्भाविन इत्यर्थः । पुरातनं पुराणम् ॥१९०॥
भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत
।
प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु ॥१९१॥
वेदात्षडङ्गादुद्धृत्य सांख्ययोगाच्च युक्तितः
।
तपः सुतप्तं विपुलं दुश्चरं देवदानवैः ॥१९२॥
एतत्स्तोत्रजपाङ्गभूतं व्रतद्वयं विधित्सुस्तत्स्तुतये वैदिकं धर्ममनुवदति - वेदादिति ॥१९२॥
अपूर्वं सर्वतोभद्रं सर्वतोमुखमव्ययम्
।
अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम् ॥१९३॥
वेदोक्तं तपो देवादिभिश्चीर्णं तदपेक्षया मया वक्ष्यमाणं व्रतं श्रेष्ठमित्याह - अपूर्वमिति । अपूर्वं वेदषडङ्गसांख्ययोगतर्कैरनधिगतम् । किं तर्हि कैवल्याद्युपनिषत्सु अत्याश्रमस्थपदेन प्रकाशितम् । सर्वतोभद्रं फलकाले साधनकाले च श्रेयोरूपम् सर्वतोमुखं सर्वेषु वर्णेष्वाश्रमेषु च अभिमुखम् । सर्वेषामिहाधिकारोऽस्तीत्यर्थः । अव्ययं मोक्षहेतुत्वात् । अब्दैः भूयसा कालेन अब्दसाध्यैः सहस्रसंवत्सरसत्रान्तैः कर्मभिर्वा दशाहैः संयुक्तम् । दश पञ्च यमाः पञ्च नियमाश्च त एवाहानि यज्ञक्रतवो येषाम् । अहःशब्दस्य क्रतुवाचित्वं न वैतान्यहानि भवन्तीत्यादौ प्रसिद्धम् । भूयसा कालेन पुण्येन वा यमनियमवद्भिर्लब्धमित्यर्थः । दर्शाहेति पाठे तद्दत्तयागपूज्यैर्लब्धमित्यर्थः गौडास्तु दशार्धेति पठन्ति तदाब्दैः प्राप्तं दशार्धैः पञ्चभिः सद्योजातमित्यादिभिर्मन्त्रैः संयुक्तम् आग्नेयं भस्म सद्योजातादिपञ्चमन्त्रैः परिगृह्य त्र्यम्बकमिति जलेन मिश्रयित्वेदित्यादिश्रुतेः अस्मिन्पक्षेऽन्याश्रममिति पाशुपतव्रतस्यैव विशेषणम्। गूढम् अत्याश्रमस्थ इति पदमात्रेण सूचितम् अप्रकाशम् । अत एवाप्राज्ञैः कर्मठैर्निन्दितम् ॥१९३॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम्
।
गतान्तरध्यवसितमत्याश्रममिदं व्रतम् ॥१९४॥
वर्णेति । सूतसंहितायामत्याश्रमस्थ इत्यत्रत्यमाश्रमपदं वर्णोपलक्षणीकृत्य वर्णाश्रमधर्मानतिक्रान्तमतिवर्णाश्रमं व्रतं तद्वानतिवर्णाश्रमीति तेन पदेन ब्रह्मविदं विवक्षित्वा –
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः
।
अतिवर्णाश्रमी तेऽपि क्रमाच्छ्रेष्ठा विचक्षण॥
इत्युपक्रम्य भूयसा ग्रन्थेन तल्लक्षणान्युक्त्वा
यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात्
।
सवर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः॥
तथा
न विधिर्न निषेधश्च न वर्ज्यावर्ज्यकल्पना
।
आत्मविज्ञानिनामस्ति तथा चान्यज्जनार्दन॥
इति तस्य यथेष्टाचरणमप्यनुज्ञातम् । तदिदमभिप्रेत्य क्वचिद्ग्रन्थे वर्णादिधर्मैर्विपरीतमुक्तम् । एतेन स्वस्यैतदसंमतमिति सूचितम् । तथा च सूत्रम् - सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् (ब्र ० सू० ३-४-२८) इति । छांदोग्ये – ’उषस्तिर्ह चाक्रायण इभ्यप्रामे प्रद्राणक उवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे तं होवाच नेतोऽन्ये विद्यन्ते यद्ययेम इमे उपनिहता इत्येतेषां मे देहीति होवाच तानस्मै प्रददौ हंतानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच न स्विदेतेप्युच्छिष्टा इति न वा अजीविष्यमिमा न खादन्निति कामो म उदपानम्' इति ब्रह्मचिद उषस्तस्य इभ्योच्छिष्टपक्वमाषभक्षणं तद्दत्तजलत्यागश्च प्राणात्ययकाले एव विदुषां निषिद्धाल्चरणं कामकारनिषेधं च दर्शयतः । अत एवोक्तम् –
तथा चरेत वै योगी सतां धर्ममदूषयन्
।
जना यथाऽवमन्येरन्गच्छेयुर्नैव संगतम्॥
इति ।
साक्षात्कृतात्मतत्त्वस्य यथेष्टाचरणं यदि
।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥
इति च । क्वचिद्विपरीतमपि वस्तुतः सममेव विदुषः कर्तृत्वाभिमानाभावेन तत्र विधिनिषेधयोरप्रवृत्तेः गतान्तैः ज्ञातसिद्धान्तैः अध्यवसितं निश्चितम् । अत्याश्रमं परमहंसपारिव्राज्यम् । यद्यपि आश्रमलिंगधारणं ब्राह्मणस्यैव तथापि तद्धर्माः शमादयः सर्ववर्णसाधारणः अत एव गृहस्थादीनामप्यत्याश्रमित्वमुक्तं ब्रह्मचारीत्युदाहृतसूतसंहिताश्लोके । तत् विशिनष्टि - इदं व्रतम् इदं वक्ष्यमाणं व्रतमस्त्यस्मिन्निति इदंव्रतमिति समस्तं पदम् ॥१९४॥
मया पाशुपतं दक्ष शुभमुत्पादितं पुरा
।
तस्य चीर्णस्य तत्सम्यक्फलं भवति पुष्कलम्
।
तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः ॥१९५॥
किं - तद्व्रतमित्यत आह - मयेति । मया वेदकर्त्रा उत्पादितं प्रकटीकृतम् । एतच्च श्रूयतेऽथर्वशिर उपनिषदि । व्रतमेतत्पाशुपतम् - 'अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूंषि भस्मानि अग्निः-' इत्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत् । तस्माद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति । पशवो जीवाः पाशः अविद्या । यद्यपि संन्यासो भस्मोद्धूलनं च द्वयमपि विद्यार्थमुक्तं तथापि संन्यासस्य तीव्रतरवैराग्याधिकारिकत्वेन दुःशकत्वाद्भस्मधारणस्यैव मुख्यं विद्याङ्गत्वं ध्येयम् ॥१९५॥
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः
।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥१९६॥
दक्षप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति वा
।
नाशुभं प्राप्नुयात्किंचिद्दीर्घमायुरवाप्नुयात् ॥१९७॥
यथा सर्वेषु देवेषु वरिष्ठे भगवाञ्छिवः
।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसम्मितः ॥१९८॥
ब्रह्मसंमितो वेदेन तुलितः अस्मिन्स्तवेऽर्धं वेदभागोऽर्धं पौराणांश इति ॥१९८॥
यशोराज्यसुखैश्वर्यकामार्थधनकांक्षिभिः
।
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥१९९॥
विद्याकामैः ब्रह्मसाक्षात्कारार्थिभिः ॥१९९॥
व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः
।
राजकार्याभियुक्तो वा मुच्यते महतो भयात् ॥२००॥
अनेनैव तु देहेन गणानां समतां व्रजेत्
।
तेजसा यशसा चैव युक्तो भवति निर्मलः ॥२०१॥
न राक्षसाः पिशाचा वा न भूता न विनायकाः
।
विघ्नं कुर्युर्गुहे तस्य यत्रायं पठ्यते स्तवः ॥२०२॥
शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी
।
पितृपक्षे मार्तृपक्षे पूज्या भवति देववत् ॥२०३॥
शृणुयाद्यः स्तवं कृत्स्नं कीर्तयेद्वा समाहितः
।
तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्यभीक्ष्णशः ॥२०४॥
मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम्
।
सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥२०५॥
देवस्य च गुहस्यापि देव्या नन्दीश्वरस्य च
।
बलिं सुविहितं कृत्वा दमेन नियमेन च ॥२०६॥
नामजपे विशेषविधिमाह – देवस्येति । गुहस्य कार्तिकेयस्य अत्रायं प्रयोगः - शुचिः कृतनित्यक्रियः कालाग्निरुद्रोपनिषदुक्तप्रकारेण भस्म धृत्वा रुद्राक्षांश्च धृत्वा मुक्तसंगो भूतशुद्ध्यादिपूर्वं पूर्वोक्ताष्टादशाक्षरमंत्रेण त्रिभिश्चतुश्चतुश्चतुर्भिरन्त्ये त्रिभिश्च वर्णैः पञ्चाङ्गद्वयं कृत्वा पञ्चाक्षरोक्तविधिना वा न्यासध्यानपूजादिकं कृत्वा गुहादिभ्योऽङ्गदेवताभ्यः पूजापूर्वकं बलिं दत्वा यथाशक्ति अर्थानुसंधानपूर्वकं स्तवमावर्त्य उत्तरपूजां कृत्वा हृदि देवं विसर्जयेदिति ॥२०६॥
ततस्तु युक्तो गृह्णयान्नामान्याशु यथाक्रमम्
।
ईप्सितान् लभते सोऽर्थान् भोगान्कामांश्च मानवः ॥२०७॥
मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते
।
इत्याह भगवान्व्यासः पराशरसुतः प्रभुः ॥२०८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दक्षप्रोक्तशिवसहस्रनामस्तवे चतुरशीत्यधिकद्विशततमोऽध्यायः ॥२८४॥
युधिष्ठिर उवाच।
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते
।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥१॥
एवं स्तवपाठादिना विशुद्धचेतसो यज्ज्ञेयं तत् पृच्छति - अध्यात्ममिति । पुरुषस्य आत्मनि स्वरूपे वर्तत इत्यध्यात्मम् । दृश्यादृश्यविवेकार्थं शास्त्रं चाध्यात्मं तत् किं कुतश्चोत्पद्यत इति प्रश्नः ॥१॥
भीष्म उवाच।
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि
।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥२॥
सर्वज्ञानामिति । पूर्वमसकृदुक्तमप्यध्यात्ममिह संक्षिप्य वक्ति उपसंहारार्थम् । तेन उपक्रमोपसंहारयोरैकरूप्येण अभ्यासेन च शास्त्रस्याध्यात्मपरत्वे निश्चिते मध्ये यद्वर्णाश्रमधर्मजपादिकमुक्तं तत् प्रकरणात्तदङ्गभावं भजत इति ज्ञाप्यते । तत्र यदध्यात्ममित्यस्योत्तरं पृथिवीत्यादि । ततश्चेत्यस्य उत्तरं पुरुषे तिष्ठती बुद्धिरित्यादि अनयोः पुंबुद्ध्योर्विवेकार्थं शास्त्रमध्यात्मम् । सर्वं ज्ञायतेऽनेनेति सर्वज्ञानं तदेव परं सर्वश्रेष्ठम् । बुद्ध्या बुद्धिमत्तया व्याख्यां विस्पष्टं कथनम् ॥२॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥३॥
भूतानां जरायुजादीनाम् ॥३॥
स तेषां गुणसंघातः शरीरं भरतर्षभ
।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥४॥
शरीरं स्थूलं सूक्ष्मं च तेषां भूतानां गुणसङ्घातः कार्यसमूहः । गुणा बुद्ध्यादयो भौतिकाः । परमकारणे आत्मनि प्रलीयन्ते ॥४॥
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः
।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥५॥
ततः आत्मनः सकाशाद्भूतानि जीवाः यान्ति लीयन्ते। यथा सौषुप्तादात्मनोऽहमर्थस्य जीवस्योद्भवस्तत्रैव च लयः । एवमहमर्थेषु भूतेषु महाभूतानामपि लयोदयौ भवत इत्यर्थः ॥५॥
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा
।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥६॥
भूतानि खादीनि भूतानां जीवानाम् अल्पीयांसि कूर्माणां स्वाङ्गानीवानायासेनैव दृष्टिमात्रेणाविर्भावयितुं तिरोभावयितुं च शक्यानि ॥६॥
आकाशात्खलु यो घोषः संघातस्तु महीगुणः
।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥७॥
शरीरस्य भूतकार्यत्वमुक्तं तत्र तत्तद्भूतांशान् विविनक्ति - आकाशादिति । घोषः शब्दः । यः शरीरे प्रसिद्धः सङ्घातः कठिनांशः रसो लोहितादिद्रवांशः रूपं गौरादि ऊष्मा च ॥७॥
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥८॥
एतन्मयं भूतमयं तस्मादुद्दिश्यते तस्माद्भूतकर्तुर्ब्रह्मणः सकाशात् उद्दिश्यते जायत इति शब्दमात्रेणोच्यते न तु वस्तुतस्तत्र लीयते उत्पद्यते वा रज्ज्वामुरग इव ॥८॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥९॥
भूतकृत् अहङ्कारः भूतेषु देहेषु भूतानि खादीनि यथा कल्पयामास यास्मिंश्च भूते देहान्तस्थे यत्कार्यमनुपश्यति तत् शृणु इति शेषः ॥९॥
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम्
।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥१०॥
तदेवाह त्रिभिः - शब्देति ॥१०॥
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरुच्यते
।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥११॥
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः
।
इति सर्वगुणा राजन् व्याख्याताः पाञ्चभौतिकाः ॥१२॥
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत
।
मनःषष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥१३॥
सत्त्वमिति । एतेषु शब्दादिषु पञ्चदशसु सात्त्विकादिकं कालोऽतीतत्वादिधर्मः प्रागुक्तरीत्या चतुर्युगात्मा चिदाभासरूपो जीवो वा कर्मबुद्धिः स्वविषयस्वरूपनिश्चयः । यद्वा कर्म व्यापारः शब्दस्य अर्थप्रत्यायनं श्रोत्रस्य शब्दप्रत्यायनमित्यादिः । बुद्धिः प्रतीतिगोचरस्येदमित्थमेवेत्यवधारणम् । मन इदमित्थं न वेति संशयः । कर्मसहितां बुद्धिं पञ्चमीमपेक्ष्य मनःषष्ठम् ईश्वरो नायावी ॥१३॥
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यसि
।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥१४॥
अस्मिन्पादतलादिमूर्धान्ते शरीरे तत्स्था बुद्धिरेव शब्दादिमनोन्तैकविंशतितत्त्वरूपेत्याह -यदूर्ध्वमिति ॥१४॥
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥१५॥
बुद्धेरेव सप्तरूपत्वमाह - इन्द्रियाणीति । पुनःशब्दो दृश्यात्सप्तकादष्टमस्य दृशेरत्यन्तवैलक्षण्यद्योतनार्थः ॥१५॥
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः
।
तमः सत्त्वं रजश्चैव तेऽपि भावास्तदाश्रयाः ॥१६॥
भागशः कार्यविभागेन तेऽपि भावाः सात्त्विकादयोऽर्थाः तदाश्रया इन्द्रियकर्त्राश्रयाः तत एवोत्थिता इत्यर्थः ॥१६॥
चक्षुरालोचनायैव संशयं कुरुते मनः
।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥१७॥
विभागमेवाह - चक्षुरिति । चक्षुः इन्द्रियमात्रं साक्षी इन्द्रियाद्यव्यवधानेन द्रष्टा चिन्मात्र उदासीनः ॥१७॥
तमः सत्त्वं रजति कालः कर्म च भारत
।
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च
।
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गणाः ॥१८॥
गुणैः तम आदिपञ्चभिः नेनीयते पुनः पुनरतिशयेन वा विषयान् प्रति नीयते बुद्धिरेवेन्द्रियाणि चकारात् तमआदि पञ्च बुद्धिरेव अत्र हेतुः - बुद्ध्यभावे कुतो गुणा इति ॥१८॥
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते
।
जिघ्रती भवति घ्राणं रसती रसना रसान् ॥१९॥
एतदेव व्याचष्टे - येनेति द्वाभ्याम् ॥१९॥
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्
।
यदा प्रार्थयते किंचित्तदा भवति सा मनः ॥२०॥
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा
।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥२१॥
एतानि मनः - षष्ठानि बुद्ध्या कल्पितानीति शेषः अवयवदोषेऽवयवीवेन्द्रियेषु दुष्टेषु बुद्धिर्दुष्यति ॥२१॥
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते
।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥२२॥
पुरुषे साक्षिणि तिष्ठती आध्यासिकसम्बन्धेन वर्तमाना त्रिषु सात्त्विकादिषु सुखदुःखमोहात्मकेषु भावेषु विषयितया बुद्धिर्वर्तते ॥२२॥
न सुखेन न दुःखेन कदाचिदपि वर्तते
।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥२३॥
एवं दृग्दृश्ययोः पुंबुध्योरत्यन्तभेदेऽप्याध्यासिकसंबन्धादैक्यं मन्वानास्तार्किकाः पुमांसमेव सुखादिमन्तमाहुः न सुखेनेति मोहावस्थोक्ता ॥२३॥
सरितां सागरो भर्ता यथा वेलामिवोर्मिवान्
।
इति भावगता बुद्धिर्भावे मनसि वर्तते ॥२४॥
प्रवर्तमानं तु रजस्तद्भावेनानुवर्तते
।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥२५॥
कथञ्चिदुपपद्यन्ते पुरुषे सात्त्विका गुणाः
।
परिदाहस्तथा शोकः सन्तापोऽपूर्तिरक्षमा ॥२६॥
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः
।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥२७॥
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता
।
कथञ्चिदुपवर्तन्ते विविधास्तामसा गुणाः ॥२८॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
।
वर्तते सात्त्विको भाव इत्युपेक्षेत तत्तथा ॥२९॥
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः
।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥३०॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्
।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥३१॥
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह
।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥३२॥
सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः
।
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥३३॥
एवं सर्वेषां भावानां धीमात्रत्वमुक्त्वा सत्त्वक्षेत्रज्ञयोर्भेदं व्याचष्टे - सत्त्वेत्यादिना ॥३३॥
पृथग्भूतौ प्रकृत्या तु सम्प्रयुक्तौ च सर्वदा
।
यथा मत्स्योऽद्भिरन्यः स्यात्सम्प्रयुक्तो भवेत्तथा ॥३४॥
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः
।
परिद्रष्टा गुणनां तु संस्रष्टा मन्यते यथा॥३५॥
संस्रष्टा संसर्गे कृतवान् आत्मनो गुणानां च गुणगुणिभावेन संसर्गोऽस्तीति मूढो यथा मन्यते तथाऽयं गुणानां परिद्रष्टा तादात्म्येनात्मनि गुणान्पश्यतीत्यर्थः ॥३५॥
आश्रयो नास्ति सत्त्वस्य गुणसर्गेण चेतना
।
सत्त्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥३६॥
ननु किमाश्रितास्तर्हि गुणाः प्रवर्तन्त इत्यत आह – आश्रय इति । सत्त्वस्य बुद्धिसत्त्वस्याश्रय उपादानं नास्ति। उपादानत्वेन क्लृप्तस्याज्ञानस्य स्वरूपतस्तुच्छत्वात् । गुणानां सत्त्वादीनां सर्गेण कार्येण महदादिना लिङ्गेन अन्ये कारणभूता गुणाः सृजन्तीत्यनुमीयते । कदाचिदपि गुणान् कश्चिदपि न वेद । यथा रज्जूरगोपादानमज्ञानं कार्यद्वारैवानुमीयते न त्वपरोक्षीक्रियते तद्वत् । ननु गुणानां तुच्छत्त्वे तत्कार्यं न दृश्येत स्वपुष्पसौरभवदत आह - चेतना सत्त्वमस्येति । अस्य गुणसर्गस्य सत्त्वं चेतना अधिष्ठानसत्तैवाध्यस्तसत्तेत्यर्थः । तथा च नात्यन्ततुच्छत्वं गुणानामनिर्वचनीयस्य तद्रूपस्याभ्युपगमात्। अतो नोक्तदोष इत्यर्थः ॥३६॥
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति
।
सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ॥३७॥
ध्रुवोऽनादिः ॥३७॥
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा
।
निश्चक्षुर्भिरजानाद्भिरिन्द्रियाणि प्रदीपवत् ॥३८॥
प्रदीपार्थं प्रदीपप्रयोजनम् आवरणभंगं निश्चक्षुर्भिः अचेतनैः अत एवाजानद्भिः इन्द्रियाणि प्रदीपवत्सहकारीणि बुद्धिरिन्द्रियवत्कारणं चिदात्मा तु प्रमातृवत्तृतीयः । एतेन बुद्ध्यतिरिक्तश्चेतनः सिद्ध इति भावः ॥३८॥
एवंस्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः
।
अशोचन्नप्रहष्यंश्च स वै विगतमत्सरः ॥३९॥
दीपचक्षुर्भ्यां धीमान् रज्जूरगमिव इन्द्रियबुद्धिभ्यां चितिर्घटमवभासयतीत्याह - एवमिति ॥३९॥
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान्
।
उर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥४०॥
ऊर्णनाभिदृष्टान्तोऽध्यारोपप्रसंगे परिणामवादमाश्रित्य ध्येयः ॥४०॥
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते
।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥४१॥
वस्तुतत्त्वमाह - प्रध्वस्ता इति । यथा प्रध्वस्तो घटो विहीनेन कपालाद्यात्मना रूपेण वर्तते नैवं गुणा विवर्तन्ते । यतो घटकपालवन्निवृत्तानां गुणानां प्रवृत्तिः सूक्ष्मावयवद्वारा नोपलभ्यतेऽतो रज्जूरगवदुच्छिद्यत एवेत्यर्थः । ये तु निवृत्तिं मन्यन्ते तेषां प्रवृत्त्यनुपलम्भो दोषो दुष्परिहर इति भावः ॥४१॥
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥४२॥
हृदयग्रन्थिं चिदचितोरात्ममनसोस्तादात्म्यं बुद्धिश्च चिन्ता च तदुभयप्रधानं बुद्धिचिन्तामयम् ॥४२॥
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः
।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥४३॥
पृथ्वीं महतीम् इमां संसाररूपां नदीमनुप्रच्युताः पतिताः । गाधं तलम् अविद्वांसः अजानन्तः एवमयं जीवो बुद्धियोगमनुप्रच्युतस्ताम्येत् ॥४३॥
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः
।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥४४॥
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत्
।
न हि गतिरधिकाऽस्ति कस्यचित्सकृदुपदर्शयतीह तुल्यताम् ॥४५॥
यथा विद्वदविदुषोरन्तरमेवं विदुषां मिथोऽन्तरं नास्तीत्याह - न हीति। तत्र हेतुः सकृदिति । सकृद्विभातो ह्येष ब्रह्मलोक इति श्रुतिः प्रत्ययावृत्तिकृतं तारतम्यं मोक्षे नास्तीति दर्शयतीत्यर्थः ॥४५॥
यत्करोति बहुदोषमेकतस्तच्च दूषयति यत्पुरा कृतम्
।
नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत्करोति च ॥४६॥
एवंविदः फलमाह - यदिति । यदयं ज्ञानी बहुदोषं कर्म करोति । यच्चानेन पुरा ज्ञानात्पूर्वकाले कृतं तच्च एकतः एकेन ज्ञानेनैव दूषयति नाशयति । 'तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते । तद्यथैषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति श्रुतिभ्यां तत्त्वविदः क्रियमाणकर्माश्लेषपूर्वकर्मदाहयोरवगमात् दृष्टमपि फलमाह यच्चाज्ञानदशायामयमप्रियमनिष्टं परकृतं दूषयति । यच्च रागादिदोषात्स्वयं करोति तदुभयम् अप्रियदूषणकारणात्मकं न करोति । द्वैतदर्शनाभावात् । स्वयमदुष्टः परदोषमपि न पश्यतीत्यर्थः॥४६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पाञ्चभौतिके पञ्चाशीत्यधिकद्विशततमोऽध्यायः ॥२८५॥
युधिष्ठिर उवाच।
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
।
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥१॥
भीष्म उवाच।
गुरुपूजा च सततं वृद्धानां पर्युपासनम्
।
श्रवणं चैव शास्त्राणां कूटस्थं श्रेय उच्यते ॥२॥
एवमुपदेशप्रधानां ब्रह्मविद्यां श्रुत्वा तामेवोपपत्तिप्राधान्येन जिज्ञासमानः पृच्छति - अतत्त्वज्ञस्य शास्त्राणामिति । तस्य शास्त्रं तार्किकपाशुपतपाञ्चरात्रसांख्यपातञ्जजलादि उपपत्तिप्रधानम् उपदेशप्रधानं च । तत्र वैदिके शास्त्रे पूर्वोत्तरमीमांसे उपदेशप्रधाने वैशेषिकतार्किकपाशुपतपाञ्चरात्रसांख्यपातञ्जलादीनि उपपत्तिप्रधानानि अवैदिकेऽपि लौकायतं शास्त्रमुपपत्तिप्रधानम् । आर्हतसौगते शाक्यबुद्धमुनिप्रणीतागमप्रधाने तत्रापि सौगते चत्वारो भेदाः सौत्रन्तिकवैभाषिकयोगाचारमाध्यभिकाः सर्वाण्येतानि विभिन्नप्रस्थानानि मोक्षार्थं च प्रवृतानि मोक्षश्च 'नान्यः पन्था विद्यतेऽयनाय' इति एकमार्गः श्रूयते । सर्वेषु च शास्त्रेषु स्वमते एव मोक्षोऽस्ति न परमते इति साटोपं प्रतिपाद्यते विनिगमनाविरहाच्च नैतेषामन्यतमस्य श्रैष्ठ्यमध्यवसातुं शक्यम्। नाप्येषामैकमत्यं वक्तुं शक्यं विभिन्नप्रस्थानतायाः स्पष्टत्वात् । ऐकशास्त्र्यापत्तेश्च । अतः शास्त्राणां तत्त्वानवधारणात्संशयः किमुपादेयमिति । ननु 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः' इति श्रुतेः आत्मानुभव एव संशयोच्छेदं करिष्यति किमुत्तप्ततयेत्याशंक्याह - अकृतव्यवसायस्येति । व्यवसायः आत्मदर्शनार्थं शमदमाद्यनुष्ठानं तदकुर्वतः किं हितं स्यात्तद्ब्रूहि यद्यपि सर्वे ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्यय इति न्यायेनाशरीरतालक्षणे माक्षे तत्साधने शमादौ सर्वेषां शास्त्राणामैकमत्यमस्ति। तथा हि। शून्यदेहात्मवादिनौ माध्यमिकलोकायतिकौ संघातस्य तुच्छत्वं तस्यैव कर्तृत्वादिधर्माश्रयत्वं च प्रथयितुमेव सदात्मानमपलपतः एवं तार्किकादयोऽप्यहमर्थस्यैव कर्तृत्वादिकं प्रथयितुं चिदात्मानमपलपन्ति । अतो न तेषामात्मापलापे तात्पर्यं किंतु संघातादेस्तुच्छत्वादौ तथा सांख्या अपि आत्मनोऽसङ्गत्वमेव प्रथयितुं प्रधानादिकं कल्पयन्ति न तु तेषामात्मनः कर्तृत्वे प्रधानादिसत्यत्वे आत्मभेदे वा तात्पर्यमस्ति । एवं तन्त्रान्तरतात्पर्यमप्यूह्यं सर्वथाऽपि देहनाशो वा दुःखनाशो वा निर्विषयज्ञानधारा वा चितितन्मात्रं वा परमानन्दो वा मोक्ष इति शब्दजविकल्पमात्रं सुषुप्तवद्द्वैतदर्शनाभावः सर्वेषां मोक्षे तुल्यः शमादीनां साधनत्वं च व्यावहारिकप्रक्रियाणामात्मतत्त्वप्रतिपादनप्रकारभेदानां च तेषां परस्परविरोधानैकशास्त्र्यं विधिमुखेनैव अखण्डसच्चिदानन्दैकरसं ब्रह्म वेदान्ताः विस्पष्टं प्रतिपादयन्तीति तेषामेव श्रैष्ठ्यं च स्पष्टम् । तथापि सर्वशास्त्राविरोधेनैवोत्तरमाह - गुरुपूजेति । गुरुपूजात्र ईश्वरे चैतःप्रणिधानम् । तस्यैव परमगुरुत्वात् । स पूर्वेषां गुरुः कालेनानवच्छेदादिति तस्य पातञ्जले परमगुरुत्वोक्तेः । वृद्धानामाचार्याणां तथा च –
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ
।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥
इति श्रुत्यर्थो दर्शितः । शास्त्राणामविशेषात्सर्वेषां सर्वत्र मोक्षस्य प्रतिपादनात् श्रवणं गुरुमुखेन ग्रहणम्। एतच्च मनननिदिध्यासनयोरप्युपलक्षणम् । गुरुदेवपूजाश्रवणादिप्रपंचकूटस्थम् अविकारि आत्यन्तिकमैकान्तिकं च यत् श्रेयः तद्रूपं तत्साधनत्वादुच्यते ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गालवस्य च संवादं देवर्षेर्नारदस्य च ॥३॥
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः
।
श्रेयस्कामो यतात्मानं नारदं गालवोऽब्रवीत् ॥४॥
वीतेति । जितेन्द्रियः श्रेयस्काम इति शिष्यलक्षणं शेषं गुरुलक्षणम् ॥४॥
यैः कश्चित्सम्मतो लोके गुणैश्च पुरुषो मुने
।
भवत्यनपगान्सर्वांस्तान्गुणान् लक्षयामहे ॥५॥
भवति त्वयि अनपगान स्थिरान् ॥५॥
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति
।
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥६॥
लोकतत्त्वम् आत्मयाथात्म्यम् ॥६॥
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याणामविशेषतः
।
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥७॥
अज्ञानमेवाह - ज्ञाने हीति । कार्याणां ततच्छास्त्रोदितकर्तव्यानां चैत्यवन्दनतप्तशिलारोहणकृछ्रचान्द्रायणाग्निहोत्रादीनाम् अविशेषतः इदं श्रेय इदं नेति विशेषावधारणहेत्वभावेन साम्यात् एवं समैव प्रवृत्तिः स्यात् ततश्च परस्परविरुद्धधर्मद्वयाचरणादुभयभ्रष्टः स्यादित्यर्थः । अतस्तेषां कार्याणां मध्ये यत् अस्माकं कार्यं कर्तुमुचितं तन्न व्यवस्यामो न निश्चिनुमः सर्वत्र श्रेयोबुद्धिसाम्यात् अतो भवान् विशेषदर्शी तद्वक्तुमर्हति ॥७॥
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः
।
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः ॥८॥
एतदेवाह - भगवन्निति । नास्ति श्रमोऽनुष्ठानजो यस्मिनित्यभ्रमं ज्ञानं तस्येमे साधका आश्रमाः शास्त्राणि पृथगाचारं पूर्वोक्तं दर्शयितुं शीलं येषां ते पृथगाचारदर्शिनः तैराश्रमैः सर्वे नराः प्रबोधिताः ॥८॥
तांस्तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
।
स्वशास्त्रैः परितुष्टाश्च श्रेयो नोपलभामहे ॥९॥
तान्प्रबोधितान् विविधेन मार्गेण प्रस्थितान्शास्त्राभिनन्दिनः स्वे स्वे शास्त्रे अभिनन्दितुं शीलं येषां तान् दृष्ट्वा यथा वयं स्वशास्त्रैः परितुष्टास्तथा तानपि दृष्ट्वा संदिहानाः सन्तः श्रेयः प्रशस्ततरं नोपलभामहे न निश्चेतुं समर्थाः स्मः ॥९॥
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा
।
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥१०॥
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति मे
।
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ॥११॥
कलिलं नानाशंकाकुलम् अधीहि अध्यापय ॥११॥
नारद उवाच।
आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्
।
तान्सर्वाननुपश्य त्वं समाश्रित्येति गालव ॥१२॥
आश्रमाः शास्त्राणि चत्वारि तत्र धर्मो नास्त्येवेत्येकं शास्त्रम् । अवैदिकः शाक्यादिकल्पितचैत्यवन्दनादिरेव धर्मो नान्य इत्यपरम् । वेदोक्त एव धर्मो नान्य इति तृतीयम्। धर्माधर्मातीतं वस्तुमात्रमस्तीति चतुर्थम् । यथासंकल्पिताः संकल्पितं संकल्पम् अनतिक्रान्ताः यो येन श्रेयस्त्वेन भावितस्तस्य तदेव श्रेय इत्यर्थः । तथा च श्रुतिः - 'तं यथा यथोपासते तथेतः प्रेत्य भवति' इति संकल्पानुसारेण फलं दर्शयति तान्समाश्रित्य अनुपश्य गुरुभ्योऽधिगम्य सम्यगालोचय एतान्बुद्ध्या आलोचयन् स्वयमेवैतेषु प्रशस्तं यत्तत् ज्ञास्यसीति भावः॥१२॥
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः
।
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् ॥१३॥
गुणोद्देशम् आत्मज्ञानगुणभूतानां धर्माणामुद्देशं संकीर्तनम् । पृथक् विरुद्धेन प्रकारेण प्रस्थितम् । यथा परेषां तप्तशिलारोहणादिर्धर्मः स एवास्माकमधर्मः यथा वाऽस्माकमग्नीषोमीयपश्वालम्भो धर्मः स एव परेषामधर्म इत्यर्थः ॥१३॥
न यान्ति चैव ते सम्यगभिप्रेतमसंशयम्
।
अन्ये पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ॥१४॥
नेति । ते आश्रमाः स्थूलदृष्ट्या निरीक्ष्यमाणाः सम्यगभिप्रेतं धर्ममात्मतत्त्वं वा न यान्ति न प्रापयन्ति तेषामेव परां गतिमन्ये सूक्ष्मदृशः सम्यक् ऋजु यथा स्यात्तथाऽपश्यन् उक्तरीत्या फलसाधनयोः सर्वत्राविगानात् ॥१४॥
यत्तु निःश्रेयसं सम्यक् तच्चैवासंशयात्मकम्
।
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ॥१५॥
एतदेवाह - यत्त्विति । मित्राणां सर्वभूताभयप्रदानामनुग्रहम् अमित्राणां हिंस्राणां च निग्रहं श्रेय आहुरित्यग्रिमेणान्वयः । हिंस्रनिग्रहस्य श्रेयस्त्वोक्त्या हिंस्रसत्त्वस्यातिनिन्द्यत्वमुक्तम् ॥१५॥
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः
।
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥१६॥
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्
।
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ॥१७॥
वाक् चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्
।
दैवतेभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि ॥१८॥
सर्ततन्त्रसाधारणधर्मप्रसंगाद्वैदिकं धर्ममाह – दैवतेभ्य इत्यर्धेन ॥१८॥
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्
।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ॥१९॥
सत्यस्य अबाधितात्मतत्त्वस्य वचनं श्रवणादिकम् ॥१९॥
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम्
।
अहंकारस्य च त्यागः प्रमादस्य च निग्रहः ॥२०॥
सत्यं सत्यप्रापकम् ॥२०॥
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते
।
धर्मेण वेदाध्ययनं वेदान्तानां तथैव च ॥२१॥
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्
।
शब्द-रूप-रस-स्पर्शान्सह गन्धेन केवलान् ॥२२॥
जिज्ञासा अनुभवेच्छा ॥२२॥
नात्यर्थमुपसेवेत श्रेयसोऽर्थी कथञ्चन ॥२३॥
नक्तंचर्यां दिवास्वप्नमालस्यं पैशुनं मदम्
।
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् ॥२४॥
अतियोगम् आहारादीनाम् । यथोक्तम् –
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः
।
न चातिस्वप्रशीलस्य जाग्रतो नैव चार्जुन॥
इति ॥२४॥
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
।
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ॥२५॥
आत्मेति । विप्रकर्षमुत्कर्षम् । नीचादुत्कर्षे नेच्छेदपि तूच्चादेवेति भावः ॥२५॥
निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविता नराः
।
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥२६॥
आत्मनो गुणाः क्षय ऐश्वर्यं तदुभयात् । गुणक्षयादिति समाहारः । क्षिपन्ति निन्दन्ति ॥२६॥
अनूच्यमानास्तु पुनस्ते मन्यन्तु महाजनात्
।
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥२७॥
अनूच्यमानाः शिक्ष्यमाणाः ॥२७॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
।
विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः ॥२८॥
विपश्चिद्गुणाः 'अद्वेष्टा सर्वभूतानामित्यादयः' महद्यशो ब्रह्म 'न तस्येशे कश्चन तस्य नाम महद्यशः' इति श्रुतिप्रसिद्धेः ॥२८॥
अब्रुवन्वाऽतिसुरभिर्गन्धः सुमनसां शुचिः
।
तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥२९॥
एवमादीनि चान्यानि परित्यक्तानि मेधया
।
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥३०॥
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
।
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥३१॥
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति
।
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥३२॥
असत् सारवर्जितं यथा स्यात्तथा प्रोक्तः ॥३२॥
मूढानामवलिप्तानामसारं भाषितं बहु
।
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान् ॥३३॥
मूढानामिति । यथा सूर्यः सूर्यकान्तयोगात्स्वस्याग्निरूपं दर्शयति । एवं क्षुद्रोऽपि कुशब्दयोगात्क्षुद्रमन्तरात्मानं दर्शयतीत्यर्थः ॥३३॥
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्
।
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे ॥३४॥
मृगयन्ते श्रेयोर्थिनः । पृथग्विधां नानाशास्त्रभेदभिन्नाम् ॥३४॥
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः
।
ज्ञानवानपि मेधावी जडवत्समुपाविशेत् ॥३५॥
ततो वा संपरीक्षेत धर्मनित्येषु साधुषु
।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥३६॥
वासं परीक्षेत वस्तुमिच्छेत् ॥३६॥
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
।
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन ॥३७॥
व्यतिकरः संकरः ॥३७॥
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः
।
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥३८॥
आप्नुयात्संगमात्रेणैवेत्यर्थः ॥३८॥
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा
।
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः ॥३९॥
अत्र दृष्टान्तमाह - अपामिति । अवादीनां संगमात्रं यथा शीतोष्णसुखदुःखदं तथा सदसत्संग एव पुण्यपापद इत्यर्थः ॥३९॥
अपश्यन्तोऽनुविषयं भुञ्जते विघसाशिनः
।
भुजानाश्चात्मविषयान्विषयान्विद्धि कर्मणाम् ॥४०॥
विषयं विषयमनुवर्तत इत्यनुविषयो रसः । तमपश्यन्तः इदं मधुरमिदं तिक्तमित्यनालोचयन्तः। केवलं गर्तपूरणमात्रार्थं भुञ्जते विघसो देवतादिशेषं तदशनशीलाः शिष्टाः । ये तु आत्मविषयान्बुद्धेर्विशेषतो बन्धकान् रसविशेषान्परीक्षापूर्वकं भुञ्जते तान्कर्मणां विषयान्कर्मपाशगोचरान्विद्धि । इन्द्रियपोषकाणां कदाचिदपि न संसारोपरमसंभावनाऽस्तीत्यर्थः ॥४०॥
यत्रागमयमानानामसत्कारेण पृच्छताम्
।
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ॥४१॥
गुरुशिष्यधर्मानाह - यत्रेत्यादिना । आगमं प्रमाणजं ज्ञानमात्मन इच्छतामागमयमानानाम् । क्यजन्तस्य रूपम् ॥४१॥
शिष्योपाध्यायिकावृत्तिर्यत्र स्यात्सुसमाहिता
।
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ॥४२॥
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्
।
आत्मपूजाभिकामो वै को वसेत्तत्र पण्डितः ॥४३॥
आकाशस्था निरालंबनाः अविद्यमानान् दोषान्ब्रूयुरित्यर्थः ॥४३॥
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
।
प्रदीप्तमिव चैलान्तं कस्तं देशं न सन्त्यजेत् ॥४४॥
संलोडिताः आकुलीकृताः ॥४४॥
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः
।
भवेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥४५॥
भवेत्तत्र सन्निहितः ॥४५॥
धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः
।
न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥४६॥
काम्यनिषिद्धे निन्दति - धर्ममिति द्वाभ्याम् ॥४६॥
कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः
।
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥४७॥
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत्
।
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥४८॥
अनुशयी पूर्वकर्मवासनावान् खट्वारूढस्तीव्रदुःखप्रस्तः ॥४८॥
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः
।
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥४९॥
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः
।
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥५०॥
स्वाहा स्वधा वषट्कारा यत्र सम्यगनुष्ठिताः
।
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥५१॥
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्
।
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥५२॥
उपसृष्टं सविषम् ॥५२॥
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः
।
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥५३॥
आत्मवान् जितचित्तः ॥५३॥
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु
।
चरेत्तत्र वसेच्चेव पुण्यशीलेषु साधुषु ॥५४॥
उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु
।
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥५५॥
ये दान्तेषु उपसृष्टाः सक्रोधास्तेषु ये च साधुषु दुराचारास्तेषु ॥५५॥
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत्
।
अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥५६॥
कामान् विषयाभिलाषान् कामेशः सर्वसंपत्तिमान् ॥५६॥
यथा शीला हि राजानः सर्वान्विषयवासिनः
।
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते ॥५७॥
विषयवासिनः स्वदेशस्थान् प्रत्युपस्थिते प्रतीपत्वेनोपस्थिते हीयमाने सतीत्यर्थः ॥५७॥
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्
।
न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः ॥५८॥
प्रधानेन प्राधान्येन संख्यातुं कीर्तयितुम् ॥५८॥
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः
।
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥५९॥
एवम् अनया दिशा वृतिं जीविकामुद्दिश्य तपसा स्वधर्मेण प्राणिहिते आत्मा चित्तं यस्य । पाठान्तरे प्रणिहितः समाहितः आत्मा चित्तं यस्य बहुलं श्रेयो मोक्षाख्यम् ॥५९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि श्रेयोवाचिको नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥२८७॥
युधिष्ठिर उवाच।
कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः
।
नित्यं कैश्च गुणैर्युक्तः संगपाशाद्विमुच्यते ॥१॥
सर्वतन्त्रसाधारणानहिंसाप्रधानान्मोक्षधर्मान् श्रुत्वा राज्ञां तदनुष्ठानं दुःशकमिति मन्वानः पृच्छति - कथमिति ॥१॥
भीष्म उवाच।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥२॥
सर्वस्यासारतां भावयन्नेव संगपाशाद्विमुच्यत इति वक्तुमाख्यायिकामुखेनाह - अत्रेति ॥२॥
सगर उवाच ।
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते
।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥३॥
भीष्म उवाच।
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः
।
विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥४॥
संपदम् उपदेशयोग्यताश्रियम् ॥४॥
सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति
।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥५॥
सक्तबुद्धिरशान्तात्मा न शक्यं तच्चिकित्सितुम्
।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥६॥
सक्तेति । सक्ता विषयनिमग्ना सा चासौ बुद्धिश्च । अशान्तश्चासौ आत्मा च तृष्णाकुलं मनः तत् द्वयं चिकित्सितुमशक्यम् । न स शक्यश्चिकित्सितुमिति पाठान्तरे स्पष्टोऽर्थः सितो बद्धः ॥६॥
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम
।
सकर्णकेन शिरसा शक्याः श्रोतुं विजानता ॥७॥
सकर्णकेन शिरसेत्येताभ्यां पदाभ्यां सावधानेन जीवतेत्यर्थो लक्ष्यते ॥७॥
सम्भाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च
।
समर्थान् जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥८॥
निवेश्य दारैः संयोज्य ॥८॥
भार्यां पुत्रवती वृद्धां लालितां पुत्रवत्सलाम्
।
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च ॥९॥
परार्थम् अन्तिमं पुरुषार्थं मोक्षम् । प्रजहि त्यज ॥९॥
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्
।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥१०॥
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्
।
उपपत्त्योपलब्धेषु लोकेषु च समो भव ॥११॥
कृतकौतूहलः छिन्नौत्सुक्यः कृ हिंसायां भ्वादिस्तस्य निष्ठायां कृतमिति रूपम् । उपपत्या यदृच्छया उपलब्धेषु लोकेषु विषयेषु समो रागद्वेषहीनः ॥११॥
एष तावत्समासेन तव संकीर्तितो मया
।
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु ॥१२॥
एष भोगपूर्वकस्त्यागः मोक्षार्थो मोक्षप्रयोजनः ॥१२॥
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः
।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥१३॥
मुक्ताश्छिन्नस्नेहपाशाः सक्तभावाः विषयासक्तचित्ताः ॥१३॥
आहारसंचयाश्चैव तथा कीटपिपीलिकाः
।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥१४॥
उक्तेऽर्थे दृष्टान्तमाह - आहारेति। आहारं संचिन्वन्ति संगृह्णन्ति तादृशाः कीटादयो नश्यन्ति न त्वसंग्रहिण इत्यर्थः ॥१४॥
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना
।
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥१५॥
ननु –
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः
।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥
इति स्मृतेः संग्रहं विना कथं मात्रादिजीवनं स्यादित्याशंक्याह - स्वजने इति त्रिभिः । यथा उत्पत्त्यादिकं तत्तत्कर्माधीनमेवं भोजनादिकमपीति मात्रादिविषये चिन्ता न कार्येत्यर्थः ॥१५॥
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते
।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥१६॥
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्
।
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥१७॥
मात्रा पित्रा कृतेन स्वकृतेन वा संग्रहम् अधिगच्छन्तीति योजना ॥१७॥
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्
।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥१८॥
धात्रा प्राक्कर्मफलविभाजकेन ॥१८॥
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा
।
को हेतुः स्वजनं पोष्टुं रक्षितुं वाऽदृढात्मनः ॥१९॥
स्वस्याकिंचित्करत्वादपि मात्रादिपोषणे चिन्ता न कार्येत्याह - स्वयमित्यादिना । अदृढेति च्छेदः ॥१९॥
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः
।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥२०॥
जीवन्तमपि चैवैनं भरणे रक्षणे तथा
।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥२१॥
जीवन्तमिति । भरणे अन्ने रक्षणे गृहादौ असमाप्तेप्यन्नादो वैनं भर्तारं जीवन्तमपि परित्यज्य स्वकर्मणैव यथा भार्यादिर्म्रियते पश्चात्तदुभयनाशादूर्ध्वमपि तथैव मरिष्यत्येवेत्यर्थः ॥२१॥
यदा मृतं च स्वजनं न ज्ञास्यसि कदाचन
।
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥२२॥
यदेति । मृतं देशान्तरस्थं वा स्वजनं सुखितं दुःखितं वा न ज्ञास्यसि नाप्युपकरिष्यसि यथा एवम् आत्मना इदं बोद्धव्यं मामपि मृतं देशान्तरगतं पुत्रदयो न ज्ञास्यन्ति नोपकरिष्यन्तीति ॥२२॥
मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः
।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥२३॥
अत्यल्पमिदमुक्तं त्वयि मृते वा जीवति वा जनः पुत्रादिः स्वकृतं जरारोगादिकं भोक्ष्यति त्वं च न तद्दूरीकर्तुं शक्नोषि एवमन्येऽपि तवेति बुद्ध्वा ॥२३॥
एवं विजानन् लोकेऽस्मिन् कः कस्येत्यभिनिश्चितः
।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥२४॥
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः
।
क्रोधो लोभस्तथा मोहः सत्त्वन्मुक्त एव सः ॥२५॥
यस्य दोहनः येन पुंसा सत्ववान् सत्त्वाधिकः ॥२५॥
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः
।
न प्रमाद्यति सम्मोहात्सततं मुक्त एव सः ॥२६॥
द्यूते इत्यादयः सामीप्ये सप्तम्यः न प्रमाद्यति आत्मानं विस्मृत्य तत्राभिनिविष्टो न भवति ॥२६॥
दिवसे दिवसे नाम रात्रौ रात्रौ पुमान्सदा
।
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥२७॥
कियत्प्रत्यहं भोक्तव्यं कियत्प्रतिरात्रं भोक्तव्यमिति यो भोगात् खिन्नः ॥२७॥
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः
।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥२८॥
आत्मेति । आत्मभावं चित्तस्य स्वभावं स्त्रीषु विषयभूतायुं मुक्तं स्त्र्यभिलाषाद्व्यावृत्तम् । सक्तमिति पाठे सक्तं संगस्तं भावे निष्ठा आत्मनो भवनं भावो जन्म स्त्रीसङ्गं जन्महेतुत्वेन यः पश्यतीत्यर्थः । युक्तः सावधानः ॥२८॥
सम्भवं च विनाशं च भूताना चेष्टितं तथा
।
यस्तत्त्वतो विजानाति लोकेऽस्मिन् मुक्त एव सः ॥२९॥
संभवमिति । जन्ममरणजीवनक्लेशज्ञो मुच्यते इत्यर्थः ॥२९॥
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु
।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते ॥३०॥
वाहः धान्यपूर्णशकटं सहस्रेषु कोटिष्विति समानाधिकरणं प्रस्थं पुरुषाहारपरिमितं धान्यम् । यद्वा । पञ्चकृष्णलको माषस्ते षोडशपलं, तानि सार्धत्रयोदश प्रस्थः, प्रस्थशतमाढकस्ते शतद्वयं द्रोणः, कुंभस्ते दश ते दश वाह इति। यात्रार्थं देहव्यवहारार्थम् अधिकसंग्रहो व्यर्थ इति यः पश्यति ॥३०॥
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्
।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥३१॥
अवृत्तिजीविकाया अभावः ॥३१॥
यः पश्यति स संतुष्टो न पश्यंश्च विहन्यते
।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन् मुक्त एव सः ॥३२॥
नपश्यन्नित्येकं पदं मृत्युनाभ्याहतं लोकमित्यनुकृष्यते ॥३२॥
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति
।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥३३॥
अग्नीषोमाविति । अग्निर्जाठरो भोक्ता सोमोऽन्नं भोज्यम् । अहं तु ततोऽन्य इति योऽनुपश्यति स भावैः सुखदुःखादिभिरद्भुतैर्मायिकैर्न संस्पृश्यते सङ्गवान्न भवति ॥३३॥
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः
।
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥३४॥
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च
।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥३५॥
क्षौमम् अतसीसूत्रमयम् । कुशचीरं तृणवस्त्रम् । कौशेयं कोशजम् आविकं कम्बलम् ॥३५॥
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति
।
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन् मुक्त एव सः ॥३६॥
तथा च साम्येनेत्यर्थः ॥३६॥
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ
।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥३७॥
रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा
।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते ॥३८॥
वलीपलितसंयोगे कार्श्यं वैवर्ण्यमेव च
।
कुब्जभावं च जरया यः पश्यति स मुच्यते ॥३९॥
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा
।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥४०॥
प्राणमन्दत्वं दौर्बल्यम् ॥४०॥
गतानृषींस्तथा देवानसुरांश्च तथागतान्
।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥४१॥
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः
।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥४२॥
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा
।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥४३॥
अपत्यानां च वैगुण्यं जनं विगुणमेव च
।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥४४॥
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः
।
असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥४५॥
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्
।
गार्हस्थ्ये यदि वा मोक्षे कृता बुद्धिरविक्लवा ॥४६॥
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः
।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥४७॥
मोक्षजैः ज्ञानजैरद्वेष्टृत्वादिभिः ॥४७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सगरारिष्टनेमिसंवादे अष्टाशीत्यधिकद्विशततमोऽध्यायः ॥२८८॥
पराशर उवाच ।
पिता सखायो गुरवस्त्रियश्च न निर्गुणानां हि भवन्ति लोके
।
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च भवन्ति राजन् ॥१॥
कानि धर्मकार्याणीत्यपेक्षायामाह - पितेति । निर्गुणानां भक्त्यादिहीनानाम् । पित्रादयो यथोक्तं सेवाफलं दातुं न प्रभवन्ति । ये तु भक्तास्ते पित्रादिसेवाफलं प्राप्नुवन्त्येवेत्यर्थः ॥१॥
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति
।
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥२॥
लाभं लाभहेतुं जिता इन्द्रियार्था यैस्ते शब्दादिविषयजयिनः ॥२॥
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते
।
प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् ॥३॥
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं पारिबर्हैश्च हीनम्
।
अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥४॥
पारिवर्हैः रथाश्वकवचादिभिः अनुद्यन्तम् आयुधमप्रेरयन्तम् उदयहीनं वा ॥४॥
पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम्
।
अतिक्रमेत्तं नृपतिः संग्रामे क्षत्रियात्मजम् ॥५॥
अतिक्रमेत् जयेत् ॥५॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः
।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः ॥६॥
पापात्पापसमाचारन्निहीनाच्च नराधिप
।
पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥७॥
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम्
।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति ॥८॥
दिष्टान्तो मृत्युः ॥८॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्
।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा ॥९॥
स्निग्धैर्मात्रादिभिः क्रियमाणानि अभ्यङ्गादीनि नायुरिति परप्राणैः प्राणान्न पोषयेत् ॥९॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्
।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥१०॥
गृहस्थानामिति । विनाशं बन्धक्षयम् । यद्वा विः पक्षी परमात्मा 'पुरः स पक्षी भूत्वा हिरण्मयः शकुनिर्ब्रह्मनाम' 'द्वा सुपर्णा' इत्यादिश्रुतिषु परमात्मनि पक्षिवाचिशब्दप्रयोगदर्शनात् । तेन इत्थंभावे तृतीया परमात्मभावेन शं परमानन्दमभिकांक्षतामित्यर्थः । पुलिनेषु पुलिनवत्सु तीर्थेषु निधनं मरणं श्रेयः क्रियावतां तीर्थवास्युचितकर्मवताम् । तथा च स्मृतिः -
यस्य हस्तौ चपादौ च मनश्चैव सुसंयतम्
।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥
इति पुलिनेष्वपि समुद्रगामिन्य एव नद्यः प्रशस्ताः । तथा च श्रुतिः -
'इदं तेऽन्याभिरसमानमद्भिर्याः काश्च सिन्धुं प्रवहन्ति नद्यः
।
सर्पो जीर्णामिव त्वचं जहाति पापं च सशिरस्कोऽभ्युपेत्य
।
’
इति । योऽप्सु नावं प्रतिष्ठितां वेद प्रत्यवतिष्ठति इति च नावं तारकाख्यां प्रणवरूपां ब्रह्मविद्याम् । यद्यप्येवं सर्वासामपां ब्रह्मविद्याप्रदत्वं प्राप्तम् । तथापि यथा - 'पुरोडाशं चतुर्धा करोति आग्नेयं चतुर्धा करोति' इतिवत्सामान्यशास्त्रं विशेषेणावरुध्यते । 'एवमत्र हि जन्तोः प्राणेषूष्कममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति' इति विशेषश्रुतेरविमुक्तान्तर्गतास्वेवाप्सु तन्नियम्यते । अत्रापि अप्सु इति श्रौतसप्तमी पुलिनेष्विति पदेन सामीप्ये व्याख्याता । तेन अपां समीपेऽपि मरणं युक्तम् ॥१०॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति
।
तथा ह्यकारणाद्भवति कारणैरुपपादितम् ॥११॥
तच्च न हठेन संपादनीयमित्याह - आयुषीति । तथाहि तेन हि यदृच्छामरणप्रकारेण यदकारणाद्भवति अज्ञानमात्रापनयेन स्वतःसिद्धं मोक्षरूपं तत् कारणैस्तीर्थमरणैर्हठादुपपादितं भवति । यथोक्तं वासिष्ठे खिलग्रन्थे -
'मोक्षक्षेत्रे विमूढान्तःकरणा येऽथवा मृताः
।
क्षेत्रमाहात्म्यतस्तेऽपि सन्ति क्षेत्रफलान्विताः
।
'
इति । विमूढान्तःकरणाः इदं मुफिक्षेत्रमित्यप्यजानन्तः क्षेत्रफलं मोक्षस्तदन्विताः मुक्ता इत्यर्थः । अत्र हि जन्तोरित्युदाहृतश्रुत्या यद्यप्यत्राप्यज्ञानापनयोऽस्त्येव । तथापि स एवात्र शमादिकं विना मरणेन हठात्साध्यत इति मोक्षस्यापि हठसाध्यत्वमुपचारादुक्तं भवति ॥११॥
तथा शरीरं भवति देहाद्येनोपपादितम्
।
अध्वानं गतकशायं प्राप्तश्चायं गृहाद्गृहम् ॥१२॥
तीर्थेऽपि हठान्मरणं निन्दति - तथेति । देहात् ल्यब्लोपे पञ्चमी । देहं प्राप्य येन पुंसा पञ्चत्वमित्यनुकृष्यते । उपपादितं हठेन जलप्रवेशादिना संपादितम् । तस्य तथा शरीरं पूर्वदेहप्रकारमेव शरीरं भवति देहत्यागी यातनाशरीरं प्राप्नोतीत्यर्थः । सोऽयम् अध्वानं मोक्षमार्गं गतोऽपि कुत्सितत्वादध्वानं गतकः । यतोऽयं मोक्षक्षेत्रेऽपि गृहाद्गृहं देहाद्देहं प्राप्तः ॥१२॥
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते
।
तद्देहं देहिनां युक्तं पञ्चभूतेषु वर्तते ॥१३॥
तत्किमस्य मोक्षो नास्त्येवेत्याशङ्क्याह - द्वितीयमिति । तत्र गृहाद्गृहान्तरं प्राप्तो द्वितीयं कारणं काश्यां मृतस्यापि यातनादेहप्राप्तौ एकं कारणं हठमरणमभूत् । ततोऽपि देहान्तरप्राप्तौ द्वितीयं कारणं नास्ति । तस्य यातनादेहस्य भोगदेहत्वेन कर्मदेहत्वाभावाद्देहान्तरोत्पादकत्वं नास्तीत्यर्थः । तद्देहं क्लीबत्वमार्षम् । देहिनां सोऽपि यातनादेहो मोक्षभूतेषु मोक्षयोग्येषु रुद्रपिशाचेषु युक्तम् आत्महत्यापापनिर्हरणाय यातनार्थं योजितं वर्तते ॥१३॥
शिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्
।
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥१४॥
यातनादेहस्य स्वरूपमेतद्देहतुल्यमित्याह - शिरेति । गुणानां विषयाणां वासनामयानाम् ॥१४॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः
।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥१५॥
त्वगन्तं त्वगेव अन्ते समीपे यस्य त्वगस्थिमात्र मेदोमांसवर्जितमित्यर्थः । गुणैः सौन्दर्यादिभिः मर्त्यतां वायवीयमपि पूर्ववासनावशान्मनुष्यतामिव गतम् ॥१५॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
।
भूतैः प्रकृतिमापन्नस्ततो भूमौ निमज्जति ॥१६॥
अत एव तन्नाशोऽपि मर्त्यशरीरनाशवदेवेत्याह - शरीरिणेति । कञ्चुकिना कञ्चुकमिव मुक्तेन परित्यक्तम् । भूतैः अपञ्चीकृतैः । प्रकृतिं स्वं स्वं कारणम् । यद्वा भूतैर्यातनादेहारंभकैः प्रकृतिम् आत्मानं प्राप्तैः 'एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं यन्ति' इति श्रुतेः । ततो भूमौ निमज्जति लोकदृष्ट्या तथा च 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते' इति प्राणानां प्रत्यगात्मनि विद्वद्दृष्ट्या लयं प्रदर्श्य स उच्छ्रयत्याध्मातो मृतः शेत इति लोकदृष्ट्या शरीरस्य भूमौ लयोऽपि श्रुत्या प्रदर्शितः इदमपि रुद्रपिशाचानामेव दृष्ट्या न त्वस्मद्दृष्ट्या तेष्वेव तस्य वर्तनादिति ध्येयम् ॥१६॥
भावितं कर्मयोगेन जायते तत्र तत्र ह
।
इदं शरीरं वैदेह म्रियते यत्र यत्र ह
।
तत्स्वभावो परो दृष्टो विसर्गः कर्मणस्तथा ॥१७॥
ननु पाद्मे माघमाहात्म्ये वाराणस्यां मृतस्यापि ब्राह्मणस्य दशजन्मानि स्मर्यन्ते तत्कथं द्वितीयं कारणं तत्रेति जन्मान्तरप्रापकं कारणान्तरं तस्य नास्तीत्युक्तमित्याशङ्क्याहार्धेन- भावितमिति । तत्पिशाचशरीरं कर्मयोगेन आत्महत्याया इव ब्रह्महत्यादीनामनेकजन्मप्रापकाणामनेकेषां कर्मणां काश्यां कृतानां संभवात्तत्तत्कर्मवासनया तत्र तत्र यातनाशरीरे जायते । न चैवं देशान्तरमरणादविशेष इत्याशङ्क्याह - इदमिति । इदं यातनाशरीरादन्यत् यत्र यत्र विषये निमग्नं सत् म्रियते तत्तत्स्वभावस्तत्तद्रूपोऽपरो विसर्गो जन्मकर्मणः फलभूतो दृष्टः । यातनाशरीरविसर्गस्तु त्यक्तशरीरसजातीयो न भवतीत्यर्थः विमर्द इति पाठेऽपि स एवार्थः ॥१७॥
न जायते तु नृपते कंचित्कालमयं पुनः
।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥१८॥
यातनादेहस्य तु ततो वैलक्षण्यमाह - न जायत इति । भूतात्मा रुद्रपिशाचः न जायते स्वेन रूपेण नाविर्भवति यावत्पापक्षयम् ॥१८॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप
।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥१९॥
आयतनम् अधिष्ठानं प्राप्य उपाधिजनितकालुष्यत्यागेनावगम्य आयतनस्वरूपमाह - मनस इति । निःसंकल्पमेव मेोक्षलक्षणमित्यर्थः । तस्मान्निःसङ्कल्पस्तटस्थास्तिष्ठेदेतन्मोक्षलक्षणमिति मैत्रायणीयश्रुतेः ॥१९॥
विविधानां च भूतानां जङ्गमाः परमा नृपा
।
जङ्गमानामपि तथा द्विपदाः परमा मताः ॥२०॥
एवं जन्तुतारतम्यवर्जितां देशविशेषायत्तां गतिमुक्त्वा कालायत्तां गतिं वक्तुं जन्तुतारतम्यं तावदाह- विविधानामिति ॥२०॥
द्विपदानामपि तथा द्विजा वै परमाः समृताः
।
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः
।
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥२१॥
आत्मसंबुद्धाः योगिनः अमानिनः योगैश्वर्यकृतदर्पहीनाः ॥२१॥
जातमन्वेति मरणं नृणामिति विनिश्चयः
।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥२२॥
दर्पत्यागमूलं विवेकमाह- जातमिति ॥२२॥
आपन्ने तूत्तरां काष्ठांसूर्ये यो निधनं व्रजेत्
।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥२३॥
पुण्यकृत् ब्रह्मलोकं गन्तुमधिकारीत्यर्थः ॥२३॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
।
मृत्युनाऽऽत्मकृते नेह कर्म कृत्वाऽऽत्मशक्तिभिः ॥२४॥
तत्र मुख्यं साधनं जनं क्लेशेन अयोजयित्वेति अत्रापि यादृच्छिकमेव मरणं श्रेय इत्याह- मृत्युनेति । आत्मकृतेन कालजेन ॥२४॥
विषमुद्बबन्धनं दाहो दस्युहस्तात्तथा वधः
।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥२५॥
विषमिति । योगी अत्यन्तव्याधिपीडाग्रस्तोऽपि दुर्मरणं नेच्छेदित्यर्थः ॥२५॥
न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसन्धिजैः
।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥२६॥
ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप
।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥२७॥
उत्तरायणे मृतानां पुण्यकृतां गतिमाह - ऊर्ध्वमिति । सूर्यमण्डलं भित्त्वेत्यर्थः 'सूर्यद्वारेण ते विरजाः प्रयान्ति' इति श्रुतेः । मध्यतो मनुष्यलोके प्रासङ्गिकोऽयमर्धश्लोकः ॥२७॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन्
।
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥२८॥
देशकालनिरपेक्षा गतिस्तु केवलमज्ञानाख्यशत्रोरपगममात्रादेवेत्याह - एक इति द्वाभ्याम् ॥२८॥
प्रबाधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्य प्रभवेत यस्य
।
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥२९॥
यस्य प्रबाधनार्थं श्रतिधर्मयुक्तं यथा स्यात्तथावृद्धानुपास्य प्रभवेत । सः अज्ञानशत्रुः प्रज्ञाशरेणोन्मथितः परैति नश्यति हे राजपुत्र ॥२९॥
अधीत्य वेदं तपसा ब्रह्मचारी यज्ञान् शक्त्या सन्निगृह्येह पञ्च
।
वनं गच्छेत्पुरुषो धर्मकामः श्रेयःस्थित्वा स्थापयित्वा स्ववंशम् ॥३०॥
आश्रमत्रयधर्मः प्रज्ञाप्राप्तावुपाय इत्याह - अधीत्येति । श्रेयः स्थित्वा श्रेयोऽत्यर्थं तिष्ठति सन्नद्धो भवतीति श्रेयः स्थित्वा मोक्षकामः आतो मनिन्क्कनिब्वनिपश्चेति क्वनिबन्तोऽयं शब्दः ॥३०॥
उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः
।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥३१॥
अध्ययनादियोग्यां नृयोनिं प्रशंसति - उपभोगैरिति चतुर्भिः ॥३१॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥३२॥
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो
।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥३३॥
यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः
।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥३४॥
यो धर्मावमन्ता स कामात्मा भवेत् स च कामेन वञ्च्यते ॥३४॥
यस्तु प्रीतिपुरोगेन चक्षुषा तात पश्यति
।
दीपोपमानि भूतानि यावदर्थान्न पश्यति ॥३५॥
प्रीतिपुराणेन प्रीत्या चिरन्तनेन । पुरोगेणेति पाठः स्वच्छः । दीपोपमानि स्नेहेन संवर्धनीयानि यावदर्थान् सर्वान्विषयान् दयावान् भूतानि पश्यति विरक्तोऽर्थान्न पश्यति यः स महीयते इत्युत्तरेण सम्बन्धः ॥३५॥
सान्त्वेनान्नप्रदानेन प्रियवादेन चाप्युत
।
समदुःखसुखो भूत्वा स परत्र महीयते ॥३६॥
दानं त्यागः शोभना मूर्तिरद्भ्यो भूतप्लाव्यं तपसा वै शरीरम्
।
सरस्वती नैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥३७॥
गृहेषु येषामसवः पतन्ति तेषामथानिर्हरणं प्रशस्तम्
।
यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः ॥३८॥
पुनरावृत्तिमतीं गतिमाह- दानमित्यादिना । शोभना मूर्तिः शान्ता आकृतिः हे भूप अद्भ्यः अद्भिः तपसा च शरीरं प्लाव्यं शोधनोऽयं तत्र आपः त्यक्त्वा इत्यत आह- सरस्वतीति । अन्ये कुरुक्षेत्राद्याः ॥३७॥ उक्त एवार्थे प्रकारान्तरमाह - गृहेष्विति ॥३८॥
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः
।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति ॥३९॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप
।
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥४०॥
भीष्म उवाच।
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना
।
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥४१॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पराशरगीतायां सप्तनवत्यधिकद्विशततमोऽध्यायः ॥२९७॥
भीष्म उवाच।
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः
।
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥१॥
उक्तमर्थं सङ्क्षेपेण वक्तुमारभते - पुनरेवेत्याध्यायम् ॥१॥
जनक उवाच ।
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति
।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते ॥२॥
श्रेयः श्रेयःसाधनम् ॥२॥
पराशर उवाच ।
असङ्ग श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा
।
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥३॥
ज्ञानमेव परा गतिः हे ज्ञान हे चिन्मात्रस्वरूप प्रत्यक्चितिरेव परा गतिरित्यर्थः ।वापः दानं क्षेत्रे सत्पात्रे बीजमिति पाठे बीजमिव न्युप्तमिति स एवार्थः ॥३॥
छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते
।
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते ॥४॥
किं कृतं न विनश्यतीत्यस्यैवोत्तरं प्रायेणाध्यायशेषः । अधर्मेति च्छेदः अभयङ्कृतम् अभयकरं दानं दत्वा संन्यासं कृत्वेत्यर्थः । सिद्धिं मोक्षम् अनिवर्तनं स्थानम् । इदं चतुर्थप्रश्नस्योत्तरम् ॥४॥
यो ददाति सहस्राणि गवामश्वशतानि च
।
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते ॥५॥
अभयं सर्वभूतेभ्यो यो ददाति तमभितः सदाऽभयं वर्तते ॥५॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्
।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥६॥
बुद्धिमान् आसङ्गशून्यः दुर्बुद्धिर्मनसा विषयसङ्गवान् ॥६॥
नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत्
।
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत् ॥७॥
श्लिष्यते आलिङ्गति तङार्षः पर्णवत् पर्णमिव ॥७॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति
।
कर्ता खलु यथाकालं ततः समभिपद्यते ॥८॥
कारणा फलदानात्मिका क्रिया तन्निर्वृत्त्यपेक्षी समभिपद्यते फलं प्राप्नोति ततोऽधर्मात् । कर्ता कर्तृत्वाभिमानी ॥८॥
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः
।
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुद्ध्यते
।
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम् ॥९॥
न भिद्यन्ते कर्मफलैर्न क्लिश्यन्ति तेषां कर्माश्लेषात् कस्तर्हि भिद्यतेऽत आह - बुद्धीति । न बुध्यते दुश्चेष्टितमिति शेषः ॥९॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा
।
विषये वर्तमानोऽपि न स पापेन युज्यते ॥१०॥
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति
।
पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः ॥११॥
यथा नद्यां बद्धः सेतुर्नैव सीदति स्रोतः पुष्टिं करोति । एवम् असक्तः धर्म एव सेतुर्यस्य सः । मर्यादायां बद्धो नैव सीदति । सञ्चयस्तपोवृद्धिश्च स्फीता भवतीत्यर्थः ॥११॥
यथा भानुगतं तेजो मणिः शुद्धः समाधिना
।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥१२॥
समाधिना नियमेन दृष्टान्ते दार्ष्टान्तिके तु समाधिना ध्यानेन यथा मणिः सौरं तेज आदत्ते एवं जीवो ब्रह्मभावमादत्ते मणिद्वारा वह्नेरिव योगद्वारा ब्रह्मभावाभिव्यक्तिर्भवतीत्यर्थः ॥१२॥
यथा तिलानामिह पुष्पसंश्रयात्पृथक्पृथग्याति गुणोऽतिसौम्यताम्
।
तथा नराणां तु विभावितात्मनां यथाऽऽश्रयं सत्त्वगुणः प्रवर्तते ॥१३॥
सौम्यतां रम्यतां यथाश्रयं पुनःपुनर्वासनाभ्यासाद्बहुलं तदभावेऽल्पः सत्त्वगुणः प्रवर्तते ॥१३॥
जहाति दारांश्च जहाति सम्पदः पदं च यानं विविधाश्च सत्क्रियाः
।
त्रिविष्टपे जातमतिर्यदा नरस्तदाऽस्य बुद्धिर्विषयेषु भिद्यते ॥१४॥
भिद्यते शब्दादिभ्यो व्यावृत्ता भवति ॥१४॥
प्रसक्तबुद्धिर्विषयेषु यो नरो न बुध्यते ह्यात्महितं कथंचन
।
स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषो विकृष्यते ॥१५॥
आभिषेण बडिशगर्भितेन झषो मत्स्यः ॥१५॥
संघातवन्मर्त्यलोकः परस्परमपाश्रितः
।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥१६॥
संघातवद्देहेन्द्रियादिसमुदायवत् मर्त्यलोकः स्त्रीपुत्रपश्वादिसमुदायः अपाश्रितः उपकारकः ॥१६॥
न धर्मकालः पुरुषस्य निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते
।
सदा हि धर्मस्य क्रियैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते ॥१७॥
नेति । सदा मृत्युः सन्निहितोऽस्तीति सदैव धर्मः कार्य इत्यर्थः ॥१७॥
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति
।
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥१८॥
धर्मेण चित्तशुद्धौ सत्यां योगाभ्यासः कार्य इत्याह - यथेति । अगोचरेऽपि मार्गे गुरूक्तयुक्त्याऽभ्यासादेव गच्छतीत्यर्थः ॥१८॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्
।
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥१९॥
योगाभावेऽनिष्टमाह - मरणमिति । जन्मनि जन्मनिमित्तं मोक्षधर्मेषु मोक्षधर्मान् अजानन् ॥१९॥
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च
।
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः
।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥२०॥
ज्ञानमार्गे प्रवृत्तस्य तूभयत्रापि सुखमित्याहार्धेन - बुद्धीति । विस्तराः वैतानिकाग्निमिहोत्रादीनि संक्षेपास्त्यागादयः परार्थम् अनात्मभूतफलार्थम् ॥२०॥
यथा मृणालानुगतमाशु मुञ्चति कर्दमम्
।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते ॥२१॥
मृणालेति लुप्तविभक्तिकं बिसतन्तुः कर्दममिवात्मोपाधिभूतं मनस्त्यजतीत्यर्थः ॥२१॥
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति
।
युक्तो यदा स भवति तदा तं पश्यते परम् ॥२२॥
मनःकृतः संसारो मनसैव नश्यतीत्याह - मन इति । त्मानम् आत्मानं सन्धिरार्षः प्रणयते योगोन्मुखं करोति स योगी एनं मनोरूपमात्मानमभियुञ्जति परस्यां काष्ठायां युनक्ति प्रविलापयति युक्तः योगसिद्धः तं परं सर्वोपाधिहीनम् आत्मानम् ॥२२॥
परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते
।
इन्द्रियार्थेषु संयुक्तः स्वकार्यात्परिमुच्यते ॥२३॥
परार्थे इन्द्रियतृप्त्यर्थे एतदेव स्वं कार्यमिति यो मन्यते मूढः सः स्वकार्यात् योगात् ॥२३॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्
।
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥२४॥
योगाच्च्युतस्य गतिमाह - अध इति । स्वर्गे परां गतिम् इन्द्रलोकम् ॥२४॥
मृण्मये भाजने पक्वे यथा वै नश्यति द्रवः
।
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥२५॥
योगस्थस्य गतिमाह - मृन्मये इति । द्रवः द्रवद्रव्यं जलादि न श्यतिन क्षीयते न क्षरतीत्यर्थः । श्यतीति शो तनूकरणे इत्यस्य रूपम् । शरीरं बुद्धिर्लिङ्गं वा तप्तम् आलोचितम् । विषयं ब्रह्मलोकान्तम् । अश्नुते व्याप्नोति न तु त्यजतीत्यर्थः ॥२५॥
विषयानुश्नुते यस्तु न स भोक्ष्यत्यसंशयम्
।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥२६॥
शरीरपदेन लिङ्गस्यैव भोक्तृत्वं सूचितं तद्व्याचष्टे - विषयानिति । यो विषयान् अश्नुते आलोक इव व्याप्नोति प्रकाशयति साक्षी नासौ भोक्तेत्यर्थः यस्तु आत्मा बुद्धिप्रधानश्चिदाभासो जीवो भोक्ता भोगांस्त्यजेद्वैराग्यावेशात् । स एव भोक्तुं व्यवस्यति अध्यवसायं करोति । तथा च श्रुतिर्द्विविधमात्मानं दर्शयति -
'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते
।
तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति
।
'
इति। भोक्तुं विनश्यतीति पाठे भोगार्थं जन्मान्तरलाभायैव म्रियत इत्यर्थः ॥२६॥
नीहारेण हि संवीतः शिश्नोदरपरायणः
।
जात्यन्ध इव पन्थानमावृतात्मा न बुद्ध्यते ॥२७॥
नन्वभोक्तात्मा कुतो नोपलभ्यते इत्यत आह - नीहारेणेति । आवृतात्मा जीवः न बुद्ध्यते अनावृतं स्वस्वरूपमित्यर्थः । तथा च श्रुतिरभोक्तारमीशमावृतं दर्शयति -
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव
।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति॥’
इति ॥२७॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्
।
तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ॥२८॥
यथार्थं मूलधनानुसारेण यथा धनलाभः एवं कर्मविज्ञानानुसारेण गतिरित्यर्थः ॥२८॥
अहोरात्रमये लोके जरारूपेण संसरन्
।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥२९॥
तस्मादात्ममोक्षाय यतेतेत्याशयेनाह - अहोरात्रेति । अहोरात्रमये कालप्रधाने ॥२९॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते
।
नाकृत्वा लभते कश्चित्किंचिदत्र प्रियाप्रियम् ॥३०॥
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च
।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥३१॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति
।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥३२॥
ज्ञाततत्त्वस्य जन्मान्तरं नास्तीत्याह दृष्टान्तेनैव - न हीति । अन्यत् जलात्परम् ॥३२॥
यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना
।
तथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति ॥३३॥
भावेन धीवराभिप्रायेण । धीवरस्तन्तुना नावमिव मनः अभियोगेन भावनाभिनिवेशेन शरीरं प्रचिकीर्षति अन्तर्भावितण्यर्थोऽयम् । कारयितुमिच्छतीत्यर्थः ॥३३॥
यथा समुद्रमभितः संश्रिताः सरितो पराः
।
तथाऽद्या प्रकृतिर्योगादभिसंश्रियते सदा ॥३४॥
अभियोगबलादेव नदी समुद्रदृष्टान्तेन मनसो मूलप्रकृतौ लयमाह - यथेति । योगात् अभियोगात् अभिसंश्रियते मनसेति शेषः ॥३४॥
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः
।
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥३५॥
योगाभावे दोषमाह - स्नेहेति । प्रकृतिस्थाः अज्ञानवशाः ॥३५॥
शरीरगृहसंज्ञस्य शौचतीर्थस्य देहिनः
।
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥३६॥
शरीरगृहस्य संज्ञैव संज्ञा यस्य देहगतं नामरूपम् आत्मधर्मत्वेन मन्यमानस्य देहिनो देहाभिमानवतः शौचम् आन्तरं भावशुद्धिः बाह्यं च प्रसिद्धम् । बुद्धिरात्मज्ञानं देवताद्युपासनं वा ॥३६॥
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः
।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥३७॥
विस्तरा इति श्लोको व्याख्यातः ॥३७॥
संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः
।
भार्या पुत्रश्च दासश्च स्वमर्थमुपभुञ्जते ॥३८॥
योगविघ्नभूता कुटुम्बचिन्ता न कार्येत्याह - सङ्कल्पज इत्यादिना ॥३८॥
न माता न पिता किंचित्कस्यचित्प्रतिपद्यते
।
दानपथ्यौदनो जन्तुः स्वकर्मफलमश्नुते ॥३९॥
दानमेव पथि स्वर्गमार्गे हितम् ओदनस्थानीयं पाथेयं यस्य सः दानपथ्यौदनः ॥३९॥
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा
।
अष्टापदपदस्थाने दक्षमुद्रेव लक्ष्यते ॥४०॥
अष्टापदपदं सुवर्णकार्षापणस्तस्य स्थाने हे दक्ष यथा मुद्रा रेखाविशेषास्तद्वन्मात्रादय इत्यर्थः । स्वर्णवत् स्वादृष्टमेव स्वाभ्युदयहेतुः रेखावत् बान्धवादयो नाममात्रं खर्परे रेखेव निर्दैवे मात्रादयो निष्फला इत्यर्थः । दक्षसूत्रेण लक्ष्यत इति पाठे सूत्रेण सूचकेन मुद्रयेति यावत् । यथा मुद्रया कार्षापणविशेषो लक्ष्यते एवं मात्रादिना जातिविशेष इत्यर्थः ॥४०॥
सर्वाणि कर्माणि पुरा कृतानि शुभाशुभान्यात्मनो यान्ति जन्तोः
।
उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा ॥४१॥
यान्ति फलं दातुमिति शेषः ॥४१॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति
।
न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥४२॥
व्यवसायम् उद्योगम् ॥४२॥
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्
।
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥४३॥
अद्वैधमनसम् एकाग्रचित्तम् ॥४३॥
आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया
।
समारभेदनिन्द्यात्मा न सोऽर्थः परिषीदति ॥४४॥
विस्मयात् स्मयो गर्वस्तदभावात् ॥४४॥
सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्
।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥४५॥
गर्भात् गर्भप्रवेशमारभ्य यत् यस्मात्तदुभयं शुभाशुभम् । अपरिहारवान् परिहर्तुमशक्यः कालेन प्राप्तेन विच्छेदिना जीवननाशकेन सहायेन मृत्युः कर्मान्तिकं दिष्टान्तं विनाशाख्यं प्रापयेत् दारोः काष्ठस्य चूर्णम् अश्मसारविहितं, क्रकचकृतं समा शीतोष्णसाम्यवती गतिर्यस्य स समगतिर्वायुः । दारुचूर्णमिव मृत्युर्नरं कालेनान्तं नयतीत्यर्थः । तस्माद्यदृच्छयागतैरन्नादिभिः प्राणान्धारयित्वा मोक्षार्थं यतनीयमिति सिद्धम् ॥४५॥
स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसंचयम्
।
नरो हि सर्वो लभते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा ॥४६॥
स्वरूपतां स्वस्य रूपं हिरण्यं पशवो विवाहा इति श्रुतं रूपमिव रूपं यस्य स्वकुलानुसारि विवाहादिकं तदेव तत्ता ताम् आत्मकृतं विस्तरं पुत्रसन्तत्यादिपौष्कल्यं कुलान्वयं सत्कुले जन्म यथाकृतं कृतमनतिक्रम्य यस्मात्सर्वं प्राक्कर्मवशादेव लभ्यतेऽतस्तदर्थं यत्रमकुर्वन्नात्मलाभान्न परं विद्यत इति वचनादात्मतत्त्वसाक्षात्कारार्थं यतेतैवेति भावः ॥४६॥
भीष्म उवाच।
इत्युक्तो जनको राजन् याथातथ्यं मनीषिणा
।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥४७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पराशरगीतायां अष्टनवत्यधिकद्विशततमोऽध्यायः ॥२९८॥
युधिष्ठिर उवाच।
सत्यं दमं क्षमा प्रज्ञा प्रशंसन्ति पितामह
।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥१॥
अन्नाद्यर्थं यत्नमकुर्वता यत्कर्तव्यं तन्निरूपयितुं हंसगीता आरभ्यते - सत्यं दद्मं क्षमां प्रज्ञामित्यादिना ॥१॥
भीष्म उवाच।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥२॥
हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः
।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥३॥
साध्या ऊचुः
।
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुंक्ष्महे
।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥४॥
श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दश्चरते ते पतत्रिन्
।
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥५॥
हे द्विज पक्षिन् ॥५॥
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम्
।
यत्कृत्वा वै पुरुषः सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥६॥
हंस उवाच ।
इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः
।
ग्रन्थीन्विमुच्य हृदयस्य सर्वान् प्रियाप्रिये स्वं वशमानयीत ॥७॥
भो अमृताशा अमृतभुजो देवाः तपः स्वधर्माचरणं, दमो बाह्येन्द्रियनियमः, सत्यं यथार्थभाषणम्, आत्माभिगुप्तिश्चित्तजयः ग्रन्थीन् रागादीन् स्वं वशं स्वाधीनताम् प्रियाप्रिययोर्हर्षविषादौ न कर्तव्यावित्यर्थः ॥७॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत
।
ययाऽस्य वाचा पर उद्विजेत न तां वदेदुषतीं पापलोक्याम् ॥८॥
अरुन्तुदो मर्मच्छित् नृशंसवादी निष्ठुरवादी च न स्यात् हीनतः नीचात् परं शास्त्ररहस्यं च नाददीत । उषतीम् अकल्याणीं दाहकरीं पापलोक्यां नरकप्रदाम् ॥८॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि
।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥९॥
परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः
।
संरोष्यमाणः प्रतिहष्यते यः स आदत्ते सुकृतं वै परस्य ॥१०॥
क्षेपायमाणमभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम्
।
अदृष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥११॥
क्षेपायमाणम् अधिक्षेपकारिणम् अभिषङ्गव्यलीकम् अभिनिवेशवशादप्रियम् ॥११॥
आक्रुश्यमानो न वदामि किंचित् क्षमाम्यहं ताड्यमानश्च नित्यम्
।
श्रेष्ठं ह्येतद्यत्क्षममाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥१२॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥१३॥
उपनिषद्रहस्यं वेदाधिगमस्य फलं सत्यवचनमित्यर्थः । तस्यापि फलं दमः ॥१३॥
वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम्
।
एतान्वेगान्यो विषहेदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥१४॥
विधित्सा विशिष्टा पिपासा धेट् पानेऽस्य रूपम् । तृष्णावेगमित्यर्थः । ब्राह्मणं ब्रह्मिष्ठं मुनिं ध्यायिनम् ॥१४॥
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः
।
अमानुषान्मानुषो वै विशिष्टस्तथाऽज्ञानाज्ज्ञानविद्वै विशिष्टः ॥१५॥
अज्ञानात् ज्ञानहीनान्मूढात् ज्ञानवित् ब्रह्मवित् लब्धज्ञानो वा ॥१५॥
आक्रुश्यमानो नाक्रुश्येन्मन्युरेनं तितिक्षतः
।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥१६॥
यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात्
।
पापं च यो नेच्छति तस्य हन्तुस्तस्येह देवाः स्पृहयन्ति नित्यम् ॥१७॥
अत्युक्तः अत्यन्तं निन्दितः स्तुतो वा रूक्षं प्रियं वा न प्राहेति योज्यम् । तस्य स्पृहयन्ति तं लिप्सन्ते इत्यर्थः ॥१७॥
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च
।
विमानितो हतोत्क्रुष्ट एवं सिद्धिं गमिष्यति ॥१८॥
सदाऽहमार्यान्निभृतोऽप्युपासे न मे विधित्सोत्सहते न रोषः
।
न वाप्यहं लिप्समानः परैमि न चैव किञ्चिद्विषयेण यामि ॥१९॥
निभृतोऽपि पूर्णोऽपि विधित्सा तृष्णा उत्सहते उल्लसति परैमि धर्मादपगच्छामि विषयेण विषयलाभार्थम् । नयामि देवतादिकं प्रार्थयामि ॥१९॥
नाहं शप्तः प्रतिशपामि कंचिद्दमं द्वारं ह्यमृतस्येह वेद्मि
।
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥२०॥
ब्रह्म महत् ॥२०॥
निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः
।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिद्ध्यति ॥२१॥
यः सर्वेषां भवति ह्यर्चनीय उत्सेधनस्तम्भ इवाभिजातः
।
यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान्गच्छति संयतात्मा ॥२२॥
उत्सेधनः उत्तम्भनकरः ब्रह्माण्डमण्डपस्तम्भभूत इत्यर्थः ॥२२॥
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्
।
यथैषां वक्तमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥२३॥
नैर्गुण्यं दोषम् अनुयुञ्जकाः स्पर्धावन्तः ॥२३॥
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा
।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥२४॥
इदं सर्वम् एतस्य सर्वस्य फलम् ॥२४॥
आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः
।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥२५॥
अबुधान् आक्रोष्टॄन् शुनकानिव न बोधयेत् । न वर्धयेत् न हिंसयेत् ॥२५॥
अमृतस्येव संतृप्यदेवमानस्य पण्डितः
।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥२६॥
यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति
।
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥२७॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः
।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥२८॥
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामतिसेवमानः
।
स्वाध्यायनित्योऽस्पृहयन्परेषामेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥२९॥
अस्पृहयन्परेषाम् आशां जितवान् ॥२९॥
सर्वांश्चैनाननुचरन्वत्सवच्चतुरः स्तनान्
।
न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥३०॥
वत्सश्चतुरः स्तनानिव एनान्सत्यादीननुपदोक्तान्नव अनुचरेत् । सत्यं दमं क्षमां प्रज्ञामित्युपक्रान्तान्वा चतुःसंख्यान् आचक्षे कथयामि पारावारस्य समुद्रस्य ॥३०॥
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्
।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥३१॥
यादृशैः सन्निवसति यादृशांश्चोपसेवते
।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥३२॥
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव
।
वासो यथा रंगवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥३३॥
यादृशैरिति श्लोकं व्याचष्टे - यदीति ॥३३॥
सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम्
।
नेन्दुः समः स्यादसमो हि वायुरुच्चावचं विषयं यः स वेद ॥३४॥
मानुषं विषयं भोगं द्रष्टुमपि नेच्छन्ति । विनाशित्वात्तस्येत्यर्थः । तदेवाह - इन्दुरमृतमयोऽपि न समः किंतूपचयापचयधर्मा तथा वायुरप्यसम एव मन्दमध्यमतीव्रभेदात् । एवं सर्वं विषयमुच्चावचमुपचयापचयवन्तं यो वेद स एव वेद नान्य इत्यर्थः ॥३४॥
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे
।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥३५॥
अदुष्टं रागद्वेषशून्यं यथा स्यात्तथा अन्तरपूरुषे अन्तर्यामिणि वर्तमाने सति । तेनैवान्तर्यामिणा ज्ञातेन देवाः प्रीयन्ते । कीदृशेन अधिकारावस्थायां सतां मार्गस्थितेन । योऽन्तर्यामी स एव जीव इत्यर्थः । तथा च श्रुतयः- ’अयमात्मा ब्रह्म’ 'अहं ब्रह्मास्मि' 'तत्त्वमसि' इत्याद्या जीवब्रह्मणोरभेदप्रतिपादिकाः ॥३५॥
शिश्नोदरे ये निरताः सदैव स्तेना नरा वाक्परुषाश्च नित्यम्
।
अपेतदोषानपि तान्विदित्वा दूराद्देवाः सम्परिवर्जयन्ति ॥३६॥
अपेतदोषान् प्रायश्चित्तेनेति शेषः ॥३६॥
न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा
।
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते ॥३७॥
हीनसत्त्वेन नीचबुद्धिना सम्भजन्ते सुखं विभज्य सेवन्ते ॥३७॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम्
।
धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥३८॥
अव्याहृतं मौनं श्रेयः प्रथममिति शेषः । यत्सत्यं वदेत्तत् द्वितीयं श्रेय इति व्याहृतं सद्भिरिति शेषः । मौनादपि श्रेष्ठमित्यर्थः । एवमग्रेऽपि योज्यम् ॥३८॥
साध्या ऊचुः
।
केनायमावृतो लोकः केन वा न प्रकाशते
।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥३९॥
एवं चेत्सर्वे कुतः श्रेय एव नाचरन्तीत्याशयेन पृच्छन्ति - केनेति ॥३९॥
हंस उवाच ।
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते
।
लोभात्त्यजति मित्राणि संगात्स्वर्गं न गच्छति ॥४०॥
साध्या ऊचुः ।
कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते
।
कः स्विदेको बलवान्दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥४१॥
नष्टाज्ञानस्य लक्षणं प्रकारचतुष्टयेन प्रश्नपूर्वकमाह - कः स्विदिति ॥४१॥
हंस उवाच ।
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते
।
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥४२॥
साध्या ऊचुः।
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते
।
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥४३॥
देवत्वं देवत्वहेतुः एवमग्रेऽपि ॥४३॥
हंस उवाच ।
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते
।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥४४॥
भीष्म उवाच।
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः
।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥४५॥
क्षेत्रं स्थूलसूक्ष्मभेदेन द्विविधम् । तत्कर्मणां वयोवस्थाद्यभ्यासोपजीविनां योनिः कारणं सद्भावः सत्तामात्रं यत् तत् सत्यम् अबाधितम् । तेन क्षेत्रस्य बाधितत्त्वमुक्तं भवति । विशेषविधिनिषेधयोः शेषनिषेधाभ्यनुज्ञाफलकत्वनियमात् ॥४५॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हंसगीतासमाप्तौ नवनवत्यधिकद्विशततमोऽध्यायः ॥२९९॥
युधिष्ठिर उवाच।
सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि
।
तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम ॥१॥
एवं पराशरहंसगीताभ्यामधिकारिविशेषणान्युक्त्वाऽन्ते सांख्यमतमनुरुध्य सद्भावः सत्यमुच्यत इति सत्तामात्रमबाध्यं जिज्ञास्यमुपक्षिप्तम् इतरस्य बाध्यत्वं सूचितं तच्च प्रकृतिपरमार्थतावादिनां योगानां मते विरुद्धमिति मत्वा सन्दिहानः सांख्ययोगयोर्विशेषं पृच्छति - सांख्य इति ॥१॥
भीष्म उवाच।
सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः
।
वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै ॥२॥
अत्र सांख्यं नाम ऐकात्म्यज्ञानम् इदं सर्वं यदयमात्मेति श्रुतिप्रासद्धं न तु कापिलं षष्टितन्त्राख्यं 'संहृत्य सर्वं निजदेहसंस्थं कृत्वाऽप्सु शेते जगदन्तरात्मा' इत्युपसंहारात् । षष्टितन्त्रे तु प्रधाने एव सर्वलयो न त्वन्तरात्मनीति प्रसिद्धम् । योगमते तु नानात्मवादो जीवेश्वरयोर्भेदश्च । अत्रैवानीश्वरः कथं मुच्येदित्यादि । गुरुं तटस्थम् ईश्वरं विना मोक्षदौर्लभ्यसूचनात् । कारणं हेतुः युक्तिरिति यावत् । स्वपक्षोद्भावनाय स्वपक्षोत्कर्षाय ॥२॥
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन
।
वदन्ति कारणैः श्रेष्ठ्यं योगाः सम्यङ्मनीषिणः ॥३॥
युक्तिमेवाह - अनीश्वर इति ।
एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते
।
एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः
।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
इति श्रुतिस्मृतिभ्यां क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वाद्घटयवदिति युक्त्यनुगृहीताभ्याम् अस्ति तटस्थ ईश्वरः । तदभावे हि स्वतन्त्रश्चेतनोऽनिष्टजनके कर्मणि न प्रवर्तेत । प्रवर्तते चेद्विद्वानप्यतोऽस्ति कश्चिच्चेतनोऽधिष्ठाता न च कर्मणः प्रेरकत्वं सम्भवति । तस्य प्रकृतिकार्यस्य प्रवर्तकत्वायोगात् । तथा च पातञ्जलं सूत्रम् - 'निमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवत्' इति । निमित्तं पुण्यपापात्मकं कर्म प्रकृतीनां गुणानां प्रयोजकं न भवति किं तर्हि जलवत्स्वयं प्रवर्तमानायां प्रकृतौ कैदारिकवदावरणभङ्गायैव कर्माण्युपयुज्यन्ते । यथा दुरदृष्टप्रतिबद्धा गुणाः प्रातिकूल्येन परिणमन्ते सददृष्टेन तु तद्विपरीतं क्रियत इति सूत्रार्थः । तस्मादयस्कान्तमणिवदुदासीनोऽपीश्वरः स्वसत्तामात्रेण प्रधानं प्रवर्तयन् भक्ताननुगृह्णाति अतो मोक्षप्रदाता ईश्वरोऽवश्यमस्तीति ज्ञेयमिति योगानां युक्तिः ॥३॥
वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः
।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥४॥
सांख्यानां युक्तिमाह - वदन्तीति द्वाभ्याम् । सर्वा गतीर्विज्ञाय साक्षात्कृत्य सांख्यमते हि यथा स्फटिकः स्वतःशुद्धो जपाकुसुमसान्निध्याद्रक्तः स एव स्फटिकांशे धीप्रमोषे पद्मरागः सोऽपि चन्द्रिकायामिन्द्रनील इत्यध्यासपरम्परा । तथा चिदात्मा स्वतः शुद्धो मायायोगादीश्वरोऽविद्यया ब्रह्मधीप्रमोषे सूत्रात्मा अविद्याप्राबल्ये विराट् । अतिप्राबल्ये विश्वो व्यष्टिदेहमात्राभिमानी । तत्र यथा घटान्तर्गता दीपप्रभा घटमात्रं भासयति घटच्छिद्राद्बहिर्गता कश्चिद्भवनगतं विषयं सर्वात्मना घटाद्बहिर्गता कृत्स्नं भवनोदरं व्याप्नोति तथा प्रत्यक्चितिर्देहावृता देहमात्रं मासयति देहेन्द्रियादिद्वारा देहाद्बहिर्गता सती ब्रह्माण्डान्तर्गतं कञ्चिच्छब्दादिकं विषयं गुरूक्तयुक्त्या प्रत्यक्प्रवणस्य सर्वात्मना देहाध्यासनिवृत्तौ कृत्स्नं त्रिभुवनोदरं व्याप्नोति । तदानीमयं सर्वात्मको विराडस्मीत्यभिमन्यते । ततोऽविद्यायास्तानवे सूत्रात्मास्मीति । तस्या वशे ईशोऽस्मीति । मायायाश्च विशुद्धचिन्मात्रात्मना दीप्यत इत्ययमनुभवक्रमः । तत्र विश्वस्य विराट्सूत्रेशशुद्धप्रापिकाः क्रमेण चतस्रो गतयस्ताः सर्वाः साक्षात्कृताश्चेत् सुव्यक्तं सुतरां व्यक्तं देहाद्देहचतुष्टयादूर्ध्वं ब्रह्मवित् मुच्येत् । ब्रह्मण्यज्ञानबलक्रमेणेशादिविश्वान्ताध्यासस्तत्तानवक्रमेण नश्यति च पूर्वं पूर्वं रूपमुपतिष्ठति । सर्वात्मना त्वध्यासनिवृत्तौ स्फटिकवदनुपाधिप्रत्यक्त्वं प्रकाशत इत्यनुभवबलादेव सिद्ध्यति किं तटस्थेश्वरेणान्तर्गडुनेति सांख्या मन्यन्ते ॥४॥
उर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा
।
एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥५॥
स्वपक्षे कारणं ग्राह्यं समये वचनं हितम्
।
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसम्मतैः ॥६॥
स्वपक्ष इति । एवं पक्षद्वयेऽपि युक्तौ सत्यां यः स्वस्य संमतः पक्षस्तद्विषयैव युक्तिर्ग्राह्या । वचनमपीशमते प्रागुदाहृतमेव । समये स्वस्वपक्षे सांख्यमतेऽपि 'अयमात्मा ब्रह्म' सोऽयमात्मा चतुष्टयादित्युपक्रम्य विश्वतैजसप्राज्ञान् जाग्रत्स्वप्नसुषुप्ताभिमानिनः क्रमेण निर्दिश्य 'शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः' इति शुद्धात्मनो ज्ञेयत्वपरम् । तत्रैव प्राज्ञं प्रकृत्य एष सर्वेश्वर इत्याद्याम्नानान्न प्रतीचोऽन्य ईशोऽस्तीति गम्यते । तत्रापि स्वपक्षानुसारि यद्वचनं तदेव हितम् ॥६॥
प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः
।
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥७॥
किं तच्छिष्टसंमतमित्याकांक्षायां द्वयमपि हेतुविशेषयोः समबलत्वात्सममेवेत्याह - प्रत्यक्षेति । कण्ठकूपे क्षुत्पिपासानिवृत्तिरित्यादिकं तत्र तत्र धारणाफलं योगपक्षे प्रत्यक्षमेव प्रामाण्यहेतुः । सांख्यपक्षे तु पूर्वोदाहृतं शास्त्रमेवास्ति । अतः श्रुतिप्रत्यक्षयोस्तुल्यबलत्वाद्द्वयमपि शिष्टसंमतमेवेत्यर्थः ॥७॥
उभे चैते मते ज्ञाते नृपते शिष्टसम्मते
।
अनुष्ठिते यथाशास्त्रं नेयतां परमां गतिम् ॥८॥
फलस्याविसंवादादपि द्वयोः साम्यमाह - उभे चैते इति ॥८॥
तुल्यं शौचं तपोयुक्तं दया भूतेषु चानघ
।
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ॥९॥
फलैक्ये हेतुं साधनैक्यमाह - तुल्यमिति । व्रतानाम् अहिंसासत्यास्तेयादीनां नः ह्येकरूपे साधने गतिद्वयं संभवति । नापि द्वयोर्गत्योः परमत्वं संभवति अत उभयप्राप्या एकैव गतिः । यथोक्तं भगवता -
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते
।
इति । क्व तर्हि तयोर्विसंवाद इत्यत आह - दर्शनं न समं तयोरिति । दर्शनं शास्त्रम् । अयमर्थः - महदादि सकारणं जगत् रज्ज्वां सर्प इवात्मन्यध्यस्तं तत्सम्यगवेक्षणलक्षणेनाधिष्ठानज्ञानेन बाधितं चेत्संसारस्य सबीजस्योच्छेदो भवतीति सांख्याः । योगास्तु हेयं दुःखमनागतमिति हेयं वस्तूपन्यस्य द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति तन्निमित्तमुक्तम् । तथा च महदादिदृश्याकारवृत्तिनिरोधेन द्रष्टृदृश्ययोर्वियोगे सति द्रष्टृर्वृत्तिसारूप्याभावात्स्वरूपेऽवस्थितिः कैवल्यं भवति । यथोक्तम् - ’योगश्चित्तवृत्तिनिरोधः’ 'तदा द्रष्टुः स्वरूपेऽवस्थानम्' 'वृत्तिसारूप्यमितरत्र' इति । एवं च हेतुनाशे कार्यनाशाज्जगतो मिथ्यात्वनिरूपणं व्यर्थमिति मन्यन्ते इति यथोक्तं वासिष्ठे -
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव
।
योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥
असाध्यः कस्यचिद्योगः कस्यचित्तत्वनिश्चयः
।
प्रकारौ द्वौ ततो देवो जगाद परमः शिवः॥
इति ॥९॥
युधिष्ठिर उवाच।
यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा
।
न तुल्यं दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥१०॥
भीष्म उवाच।
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्
।
योगाच्छित्त्वा ततो दोषान् पञ्चैतान्प्राप्नुवन्ति तत् ॥११॥
उत्तरमाह - रागमिति । अयं भावः - ज्ञानपक्षे वस्तुतत्त्वदर्शनेन सकृदपि बाधितस्य द्वैतसत्यत्वसंस्कारस्य पुनरुदयो न भवति प्रतिबिम्बादिवत्तन्मिथ्यात्वनिश्चयात् । तथा च रागाद्यनुदयान्न कर्म नापि देहो नापि तज्जं दुःखं च भवति । संसारकारणाभावात्सुखेन मुच्यते च यथोक्तम् - 'दुःखजन्मवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति । योगपक्षे तु निरोधसंस्कारबलेनैव दृश्यसंस्कारोपमर्दः कार्यः ततश्च रागाद्युच्छेदक्रमेण मुच्यते तदभावे त्वसकृन्निरोधाभ्यासेऽपि रागाद्याक्रान्ततया योगाद्भ्रश्यतीति योगमार्गे मोक्षे विघ्नसंभावनास्तीति नासौ मुख्य इति ॥११॥
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्
।
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥१२॥
एतदेव महामत्स्यायनेकदृष्टान्तैरुपपादयति - यथा चेत्यादिना । अनिमिषा मत्स्याः योगशब्दोऽत्र प्रायेण मत्वर्थीयोच्प्रत्ययान्तो योगिपरः प्रकरणाज्ज्ञेयः ॥१२॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः
।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥१३॥
वागुरां पाशवतीं स्नायुरज्जुम् ॥१३॥
लोभजानि तथा राजन् बन्धनानि बलान्विताः
।
छित्त्वा योगाः परं मार्गं गच्छन्ति विमलं शिवम् ॥१४॥
अबलाश्च मृगा राजन्वागुरासु तथा परे
।
विनश्यन्ति न सन्देहस्तद्वद्योगबलादृते ॥१५॥
बलहीनाश्च कौन्तेय यथा जालं गता झषाः
।
वधं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः ॥१६॥
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दम
।
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥१७॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप
।
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥१८॥
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः
।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ॥१९॥
योगोऽबलः योगी निर्बलः ॥१९॥
स एव च यदा राजन्वह्निर्जातबलः पुनः
।
समीरणगतः क्षिप्रं दहेत्कृत्स्नां महीमपि ॥२०॥
फलसाधनयोरैक्ये किमर्थोऽयं शास्त्रभेद इति शङ्कते - यदीति ॥२०॥
तद्वज्जातबलो योगी दीप्ततेजा महाबलः
।
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥२१॥
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः
।
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥२२॥
तदेव च महास्रोतो विष्टम्भयति वारणः
।
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥२३॥
व्यूहते विक्षिपति तुच्छीकरोतीत्यर्थः ॥२३॥
विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः
।
प्रजापतीनृषीन्देवान् महाभूतानि चेश्वराः ॥२४॥
अवशाः स्वतन्त्राः ॥२४॥
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः
।
ईशते नृपते सर्वे योगस्यामिततेजसः ॥२५॥
स्वातन्त्र्यमेवाह - न यम इति ॥२५॥
आत्मनां च सहस्राणि बहूनि भरतर्षभ
।
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥२६॥
प्रत्यक्षहेतवो योगा इति स्वोक्तिं व्याचष्टे - आत्मनामिति । आत्मनां देहानां स एकधा भवति त्रिधा भवति इत्यादिकायव्यूहस्य वेदेऽपि श्रवणात् । सौभर्यादिवद्युगपदनेकदेहधारणं योगिनां दृष्टमित्यर्थः ॥२६॥
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत्
।
संक्षिपेच्च पुनस्तात सूर्यस्तेजो गुणानिव ॥२७॥
कश्चित्कश्चिदुग्रमिति मूलपाठः ॥२७॥
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव
।
विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् ॥२८॥
उपपादितमर्थं निगमयति - बलस्थस्येति । बन्धनेशस्य बन्धनं छेत्तुं समर्थस्य ॥२८॥
बलानि योगप्राप्तानि मयैतानि विशाम्पते
।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥२९॥
मया उक्तानीति शेषः ॥२९॥
आत्मनश्च समाधाने धारणां प्रति वा विभो
।
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥३०॥
समाधिसिद्ध्यर्थं धारणां नाभ्याद्यन्यतमे देशे चित्तस्य स्थिरीकरणं तां प्रति तद्विषये निदर्शनानि दृष्टान्तान् ॥३०॥
अप्रमत्तो तथा धन्वी लक्ष्यं हन्ति समाहितः
।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥३१॥
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्
।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥३२॥
पात्रे शिरसि धृते ॥३२॥
युक्तस्तथायमात्मानं योगः पार्थिव निश्चलम्
।
करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥३३॥
यथा च नावं कौन्तेय कर्णधारः समाहितः
।
महार्णवगतां शीघ्रं नयेत् पार्थिवसत्तम ॥३४॥
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित्
।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥३५॥
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः
।
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥३६॥
तथैव नृपते योगी धारणासु समाहितः
।
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥३७॥
दार्ष्टान्तिकमाह - तथैवेति ॥३७॥
अवेक्ष्यात्मनि चात्मानं योगी तिष्ठति योऽचलः
।
पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम् ॥३८॥
आत्मनि आत्मानं प्रवेश्य वृत्तिसारूप्यं त्यक्त्त्वेत्यर्थः । पुनीतानां 'न हि ज्ञानेन सदृशं पवित्रमिह विद्यते’ इति स्मृतेर्ज्ञानेन पवित्राणां सांख्यानामित्यर्थः ॥३८॥
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः
।
दर्शने श्रवणे चापि घ्राणे चामितविक्रम ॥३९॥
नाभ्यां मणिपूरे कण्ठे विशुद्धौ शीर्षे सहस्रारे हृदि अनाहते एतच्च आज्ञादिचक्राणामुपलक्षणम् एते आन्तरा धारणाविषयाः वक्षःप्रभृतयो देहावयवा बाह्याः एते तालुनि रससंविदित्यादियोगशास्त्रप्रसिद्धताल्वादीनामुपलक्षणम् । दर्शने बाह्यतरे सूर्यरश्म्यादौ श्रवणे अनाहतध्वनौ घ्राणे नासाग्रे दृष्टिधारणम् । अत्र योगानुष्ठानप्रयोगो वेदस्तुतिटीकायां चतुर्दशे श्लोकेऽस्माभिः प्रदर्शितोऽनुसंधेयः ॥३९॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः
।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशाम्पते ॥४०॥
अहिंसादय एव जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतमित्युच्यन्ते तत्र 'पाठीनरोहितावाद्यौ प्रशस्तौ हव्यकव्ययोः' इति स्मृतेः । पाठीनादीनेव भक्षयिष्ये न मत्स्यान् । 'मत्स्यांश्च कामतो जग्ध्वा पुनः संस्कारमर्हति' इति मत्स्यभक्षणे प्रायश्चित्तगौरवस्मृतेः । सोऽयं हिंसायां जात्यवच्छेदः पाठीनादीनप्यतीर्थेष्वेव हिंसिष्ये न तीर्थे इति देशावच्छेदः । अतीर्थेऽपि दर्शादिव्यतिरिक्त एव काले हिंसिष्ये नान्यदेति कालावच्छेदः । तत्रापि श्राद्धार्थमेव हिंसिष्ये नात्मार्थमिति समयावच्छेदः । एतैरनवच्छिन्नाः सर्वात्मनाऽपि हिंसात्यागात् अनापद्यापदि वा तत्त्यागः सोऽयं महाव्रतमित्युच्यते एवं सत्ये अस्तेये ब्रह्मचर्ये अपरिग्रहे च महाव्रतमुदाहर्तव्यम् ॥४०॥
स शीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम्
।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥४१॥
यदीच्छतीति । योगिनः स्वेच्छया ब्रह्मलोकादौ गमनं विदेहेकैवल्यं देहधारणं चेति दर्शितम् ॥४१॥
युधिष्ठिर उवाच।
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत
।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हसि ॥४२॥
भीष्म उवाच।
कणानां भक्षणे युक्तः पिण्याकस्य च भारत
।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥४३॥
भुञ्जानो यावकं रूक्षं दीर्घकालमरिन्दम
।
एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात् ॥४४॥
यावकं जलोष्मपक्वं यवान्नं यवपिष्टमयं वा भक्ष्यम् ॥४४॥
पक्षान्मासानृतूंश्चैतान्संवत्सरानहस्तथा
।
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥४५॥
पयोमिश्राः क्षीरमिश्राः ॥४५॥
अखण्डमपि वा मांसं सततं मनुजेश्वर
।
उपोष्य सम्यक् शुद्धात्मा योगी बलमवाप्नुयात् ॥४६॥
अखण्डं सर्वकालं मांसम् उपोष्य त्यक्त्वा मांसमित्यन्येषामप्युलक्षणम् । यथोक्तं हठयोगे -
'मांसं दधि कुलित्थं च लशुनं शाकमेव च
।
कट्वम्लतिक्तपिण्याकहिंगुसौवीरसर्षपाः
।
तैलं च वर्ज्यान्येतानि यत्नतो योगिना सदा
।
पुनरुष्णीकृतं द्रव्यमहितं चेति केचन॥
इति ॥४६॥
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च
।
भयं शोकं तथा श्वासं पौरुषान्विषयांस्तथा ॥४७॥
पौरुषान्पुरुषप्रियाञ्शब्दान् ॥४७॥
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव
।
स्पर्शं निद्रां तथा तन्द्रीं दुर्जयां नृपसत्तम ॥४८॥
अरतिः स्त्रीसङ्गाभावजमस्वास्थ्यं स्पर्शः स्त्र्यादिसंयोगजं सुखम् ॥४८॥
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना
।
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥४९॥
दीपयन्ति प्रकाशयन्ति । आत्मानं त्वंपदार्थम् आत्मना बुद्ध्या ’दृश्यते त्वग्र्यया बुद्ध्या' इति श्रुतेः । ध्यानं ध्येयाकारप्रत्ययप्रवाहः तत्र प्रत्ययैकतानता ध्यानमिति सूत्रम् । अध्ययनं प्रणवजपः । यथोक्तम् -
'जपाच्छान्तः पुनर्ध्यायेद्ध्यानाच्छान्तः पुनर्जपेत्
।
जपध्यानपरिश्रान्त आत्मानं च विचारयेत्॥'
इति ॥४९॥
दुर्गस्त्वेष महापन्था ब्राह्मणानां विपश्चिताम्
।
यः कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥५०॥
यः कश्चिदित्यनेनात्राधिकारिदौर्लभ्यमुक्तम् ॥५०॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम्
।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥५१॥
अभक्षमटवीप्रायं दावदग्धमहीरुहम्
।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥५२॥
योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः
।
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥५३॥
सुस्थेयं क्षुरधारासु निशितासु महीपते
।
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥५४॥
सुस्थेयं सुखेन स्थातुं शक्यम् ॥५४॥
विपन्ना धारणास्तात नयन्ति न शुभां गतिम्
।
नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥५५॥
न शुभां रोगाद्याघातवतीम् ॥५५॥
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि
।
मरणं जन्मदुःखं च सुखं च स विमुञ्चति ॥५६॥
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम्
।
परं योगस्य यत्कृत्यं निश्चितं तद्द्विजातिषु ॥५७॥
योगेषु योगशास्त्रेषु कृत्यं कर्तुं योग्यं फलमिति यावत् ॥५७॥
परं हि तद्ब्रह्ममयं महात्मन् ब्रह्माणमीशं वरदं च विष्णुम्
।
भवं च धर्मं च षडाननं च यद्ब्रह्मपुत्रांश्च महानुभावान् ॥५८॥
ब्रह्म ब्रह्मविष्ण्वादि स्रष्टृ तुर्यमूर्तिरूपं तत्प्रधानं परं कैवल्यात्मकं योगफलं तथा ब्रह्मविष्ण्वादिभावोऽपि योगफलमित्यर्थः । महानुभावान् ऋषभकपिलादीन् ॥५८॥
तमश्च कष्टं सुमहद्रजश्च सत्त्वं विशुद्धं प्रकृतिं परां च
।
सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥५९॥
तमोरजसी लयविक्षेपौ योगविघ्नौ सत्त्वं च धर्मज्ञानैश्वर्योपगं मा भूदिति विशुद्धमित्युक्तम् । आत्मत्तत्त्वप्रकाशकत्वं विशुद्धता, विशेत योगीति अपकृष्यते परां प्रकृतिं प्रकृतिलयत्वं च विशते वरुणस्य पत्नीं सिद्धिं जलजयं तेजश्च विशते इत्यनेन तेजोजयं सुमहच्च धैर्यमिति पृथ्वीजयं च प्राप्नोतीत्यर्थः ॥५९॥
ताराधिपं खे विमलं सतारं विश्वांश्च देवानुरगान् पितॄश्च
।
शैलांश्च कृत्स्नानुदधींश्च घोरान् नदीश्च सर्वाः सवनान्घनांश्च ॥६०॥
ताराधिपादीनां मध्ये यद्भावं वांच्छति तद्भावम् इच्छया प्राप्नोतीत्यर्थः । यथोक्तं निरुक्ते - 'अथागमो यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्यमनुभवतीति' ॥६०॥
नागान्नगान् यक्षगणान् दिशश्च गन्धर्वसंघान्पुरुषान् स्त्रियश्च
।
परस्परं प्राप्य महान्महात्मा विशेत योगी न चिराद्विमुक्तः ॥६१॥
कथा च येयं नृपते प्रसक्ता देवे महावीर्यमतौ शुभेयम्
।
योगी स सर्वानभिभूय मर्त्यान्नारायणात्मा कुरुते महात्मा ॥६२॥
ननु यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्यच्चरन्त्येवमेवैतस्मादात्मनः सर्व एत आत्मानो व्युच्चरन्ति इति पुरुषादेव ब्रह्मादीनां सृष्टिः श्रूयते तत्कथं ब्रह्मादीन्प्राक् सिद्धान्योगी विशत इत्युच्यते इत्याशङ्क्याह - कथा चेति । देवे परमात्मनि विषये येयं कथा जगत्कर्तृत्वादिनिरूपणात्मिका आत्मन आकाशः संभूतः इत्यादिश्रुतितः प्रसक्ता । सेयं शुभैव नास्मन्मतविरुद्धेत्यर्थः यतः योगी नारायणात्मा नारायणे तुर्यमूर्तौ ईश्वरे अयमहं नारायणइत्यहंग्रहेण प्रणिहित आत्मा येन स तथा । तं यथायथोपासते तथेतः प्रेत्य भवति इति श्रुतेर्नारायणभावं प्राप्तो महात्मा व्यापकचित्तः सर्वानभिभूय सर्वाधिको भूत्वा मर्त्यान्पाञ्चभौतिकान् जरायुजादीन् कुरुते संकल्पमात्रेण सृजति । अतो यागिनां संप्रज्ञाते भूतस्त्रष्टृत्वं व्युत्थाने भौतिकजन्तुस्त्रष्टृत्वं चास्तीति न कयाचित् श्रुत्या योगशास्त्रं विरुध्यते । वेदान्तिभिरप्यस्य योगैश्वर्यस्य हर्तुमशक्यत्वात् । शास्त्रान्त्यपादेऽभ्युपगतत्वाच्चेति न किञ्चिदवद्यम् ॥६२॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि योगविधौ त्रिशततमोऽध्यायः ॥३००॥
युधिष्ठिर उवाच।
सम्यक् त्वयाऽयं नृपते वर्णितः शिष्टसम्मतः
।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा॥१॥
सूचीकटाहन्यायेन योगमुक्त्वा सांख्यं वक्तुमारभते - सम्यगिति ॥१॥
सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते
।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते॥२॥
भीष्म उवाच।
शृणु मे त्वमिदं सूक्ष्मं सांख्यानां विदितात्मनाम्
।
विहितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः॥३॥
मे मत्तः इदं वक्ष्यमाणं तत्त्वमिति शेषः । यतिभिः ऋषभादिभिः विहितं प्रकाशितम् ॥३॥
यस्मिन्न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ
।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला॥४॥
तदेव स्तौति - यस्मिन्निति । 'प्राणा वै सत्यं तेषामेष सत्यम्' इति श्रुत्या प्राणोपलक्षितस्य कृत्स्नस्य प्रपञ्चस्य यावद्व्यवहारमबाध्यत्वलक्षणं सत्त्वमन्यत् सर्वथैवाबाध्यत्वं सत्त्वं प्रत्यगात्मन इति दर्शितम् । तत्राद्यमादाय कृत्स्नोऽपि कर्मोपास्त्यादिव्यवहारः सिद्ध्यति । अन्त्यमादाय नेह नानाऽस्ति किञ्चनेत्यादिर्जगतो बाधादिकं संगच्छते । मतान्तरे तु सर्वस्य भेदस्य पारमार्थिकत्वात् 'इंदं सर्वं यदयमात्मा' 'नेह नानास्ति' इत्याद्या अध्यारोपापवादन्यायेनात्मैक्यप्रतिपादनपराः श्रुतय उपरुध्यन्त इति तेषां जगत्सत्यत्वविभ्रमो दृश्यते । केषाञ्चिदात्मन्यप्यसत्त्वभ्रमोऽस्ति न त्वस्माकं क्वचिदप्यंशे विभ्रमोऽस्तीत्यर्थः । गुणाः कर्मज्ञानकाण्डयोर्दृष्टिभेदेनाविरोधादयः । दोषाश्च बह्वात्मवादे एकस्मिन्शरीरे सर्वात्मसान्निध्याविशेषादेकस्य भोगेन सर्वेषां भोगापत्तिरित्यादयस्तेषां हानिः ॥४॥
ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप
।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा॥५॥
ज्ञानेनेति । तत्त्वदर्शनोन्मुखं चेतस्तत्त्वस्य तमःपिहिततयाऽनधिगमात्तत्र शुक्तौ रजतादिवन्मानुषत्वासुरत्वादिभावं पश्यति । तत्र उत्तरोत्तरज्ञानेन पूर्वपूर्वभ्रमान् परिसंख्याय बाधित्वा प्राप्नुवन्ति । शुभं मोक्षमिति त्रयोदशेन सम्बन्धः । सदोषान् आगमापायितया मिथ्यात्वदोषयुक्तान् । यथोक्तम् - ’आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’ इति । 'नासतो विद्यते भावः' इति च । ज्ञात्वा परिसंख्यायेति सर्वत्र योज्यम् । तत्र यथा यथा तत्त्वावरकस्य तमसः सम्यगवेक्षणेनापगमस्तथा उत्तरोत्तरमुत्कृष्टविषयोपस्थितिर्यावत् ब्राह्मणो विषयान्पश्यति प्राग्वत् ॥५॥
राक्षसान्विषयान्ज्ञात्वा यक्षाणां विषयांस्तथा
।
विषयानौरगान्ज्ञात्वा गान्धर्वविषयांस्तथा॥६॥
पितॄणां विषयान्ज्ञात्वा तिर्यक्षु चरतां नृप
।
सुपर्णविषयान्ज्ञात्वा मरुतां विषयांस्तथा॥७॥
राजर्षिविषयान्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा
।
आसुरान्विषयान्ज्ञात्वा वैश्वदेवांस्तथैव च॥८॥
देवर्षिविषयान्ज्ञात्वा योगानामपि चेश्वरान्
।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा॥९॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः
।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर॥१०॥
प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम्
।
तिर्यक्षु पततां दुःखं पततां नरके च यत्॥११॥
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत
।
वेदवादेऽपि ये दोषा गुणा ये चापि वैदिकाः॥१२॥
अत्र गुणा अप्यागमापायितया दोषा एवेति तेऽपि हानार्थमेव ज्ञातव्याः ॥१२॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप
।
सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप॥१३॥
सांख्यज्ञानेऽपि दोषाः विद्वत्त्वाभिमानादयः गुणाः अद्वेष्टृत्वादयः ॥१३॥
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा
।
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा॥१४॥
सत्त्वमिति ।
'आनन्दः प्रीतिरुद्वेगः प्राकाश्यं पुण्यशीलता
।
संतोषः श्रद्दधानत्वमार्जवं त्यागशीलता ॥
ऐश्वर्यं चेति सत्त्वस्य गुणा दश निसर्गजाः
।
आस्तिकत्वमकार्पण्यं सुखदुःखोपसेवनम्
।
भेदः पुरुषता चैव कामक्रोधौ मदस्तथा
।
दर्पद्वेषातिवादाश्च नवैते राजसा गुणाः ॥
तमो मोहो महामोहस्तामिस्रश्चान्धपञ्चमः
।
निद्रा प्रमाद आलस्यमित्यष्टौ तमसो गुणाः॥'
इति। बुद्धिं सप्तगुणां महदहङ्कारपञ्चतन्मात्ररूपाम् ॥१४॥
षड्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा
।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा॥१५॥
मनःश्रोत्रादिपञ्चकेन सह षड्रूपं, नभः वियदादिपञ्चकरूपं, बुद्धिः संशयनिश्चयगर्वस्मरणरूपा, तमः अप्रतिपत्तिविप्रतिपत्तिविपरीतप्रतिपत्तिरूपम् ॥१५॥
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः
।
मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणे तथा॥१६॥
रजः प्रवृत्तित्रुःखरूपं सत्त्वं प्रकाशरूपं बुद्ध्यादीनां पुनर्ग्रहणं प्रातिलोम्येन सत्त्वे तत्प्रविलापनार्थम् । एते पञ्चपञ्चाशत् । एतेषां मध्ये तत्त्वेन याथात्म्येन मार्गम् आत्मप्रापकं सत्त्वादिप्रधानं विज्ञाय हानार्थं तत्प्रतिबन्धकं च रजस्तमःप्रधानं गुणजातं विज्ञाय प्रलये प्राकृतलये तथा प्रेक्षणे आत्मतत्त्वालोचने च ॥१६॥
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभाः
।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्॥१७॥
ज्ञानविज्ञानसंपन्नाः एतान्सर्वान् ग्रन्थतोऽनुभवतश्च ज्ञात्वा कारणैर्मोक्षोपयोगिभिः सात्विकैर्भावैर्भावितात्मानो वासितचित्ताः मोक्षं प्राप्नुवन्ति सूक्ष्माः रविरश्मयो वायवो वा ॥१७॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च
।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च॥१८॥
अत्र 'प्राणेभ्यो देवा देवेभ्यो लोकाः' इति श्रुत्यनुसारादिन्द्रियेभ्यो देवतासृष्टिं देवताभ्यो लोकसृष्टिं चाभ्युपेत्य ब्रह्मणि सर्वलयमाह - रूपेणेति । रूपेण रूपवता द्रव्येण दृष्टिं चक्षुरिन्द्रियं संयुक्तं कुण्डलेन कनकमिव । चक्षुर्व्यतिरिक्तो रूपद्रव्यदेवतादिर्विषयो नास्तीत्यर्थः । एवमग्रेऽपि यावन्मोक्षं ज्ञेयम् ॥१८॥
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्
।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम्॥१९॥
वायुं त्वगिन्द्रियदेवतां नभसि स्वकारणे संश्रितम् । एतच्च सर्वदेवतोपलक्षणम् । मोहं वैचित्यं तमसि तमोगुणे लोभं रजःकार्यमर्थेषु तमसोऽर्थानां च वियोगे मोहलोभौ न भवत इति दृष्टान्तमात्रमिदम् ॥१९॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्
।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः॥२०॥
क्रान्ते पादविक्षेपे बले हस्तेन्द्रिये कोष्ठे उदरे देवीं पृथ्वीम् ॥२०॥
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्
।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्॥२१॥
महति महत्तत्त्वकार्येऽहङ्कारे महत् बुद्धौ महत्तत्त्वे ॥२१॥
बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम्
।
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि॥२२॥
आत्मनि जीवे त्वंपदार्थे ॥२२॥
सक्तमात्मानमीशे च देवे नारायणे तथा
।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्॥२३॥
ईशे मायाविनि देवे नारायणे चेति तस्यैव विशेषणे । तत्पदार्थे मोक्षे कैवल्ये निर्विकल्पे वस्तुनि तच्च न क्वचित्सक्तम् । स्वे महिम्नि प्रतिष्ठित इति श्रुतेः ॥२३॥
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः
।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते॥२४॥
ननु रूपादीनां मोक्षमात्रत्वोक्तिरागममात्रं न त्वत्र काचिदुपपत्तिरस्तीत्याशङ्क्याह - ज्ञात्वेति । सत्त्वगुणं देहबुद्धिसत्त्वमयं स्वाप्नं शरीरं षोडशभिर्गुणैः कार्यैः 'प्राणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यतपोमन्त्राः कर्म लोकेषु नाम च' इति श्रुत्युक्तैः प्राणादिनामान्तैर्वृतं ज्ञात्वा स्वभावं प्राक्कर्म च तदुत्पत्तिकारणं चेतनां धीवृत्तिं च तदवभासिकां देहसमाश्रिते लिङ्गदेहाश्रिते ज्ञात्वा च मध्यस्थम् उदासीनम् एकम् आत्मानं यस्मिन्पापं न विद्यत इति असङ्गं जानीयात् । यथैकेन कर्मणा स्वाप्नप्रपञ्चविभ्रमे आत्मनः असङ्गत्वं स्थूलशरीरजदुःखाननुवृत्तेर्दृश्यते एवं जाग्रद्भ्रमेऽपि विषयैषिणां विषयवासनावतां द्वितीयं कर्म कारणं विज्ञाय इन्द्रियादीनात्माश्रितान् आत्मन्यविद्यया अध्यारोपितान् जानीयादित्यध्याहृत्य योज्यम् । अयमर्थः- यथा स्वप्ने एकस्यैवात्मनो वासनावशात्सर्वजगदात्मकत्वम् आत्मनश्चासङ्गत्वं दृश्यते, एवं जाग्रद्भ्रमेऽपि ज्ञेयमिति सार्धश्लोकद्वयार्थः ॥२४॥
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते
।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्॥२५॥
इन्द्रियाणिन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्
।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्॥२६॥
एतस्माद्वासनामयादवस्थात्रयसञ्चरादात्मनो मोक्षस्य दुर्लभत्वं वक्ष्यमाणैः कारणैर्विज्ञाय कश्चिन्मोक्षबुद्धिं समाश्रितो भवतीति चतुर्दशेनान्वयः ॥२६॥
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
।
अधश्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः॥२७॥
यः प्राणादीन्पञ्चैकीकृत्याधो नयति सोऽधोनिलः षष्ठः एवं प्रवह ऊर्ध्वनेता सप्तमः ॥२७॥
सप्त वातांस्तथा ज्ञात्वा सप्तधा पिहितान्पुनः
।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान्॥२८॥
त एते सप्त वायवः प्रत्येकं सप्तधा विहिताः । अयं भावः - यथैकस्मिन्वटेऽनेकानि बीजानि तेषु च बीजेषु प्रतिबीजमनन्तानि बीजानि तद्वदेकस्मिन्देहे सप्त प्राणाः प्रतिप्राणं सप्त सप्त प्राणा एवमुत्तरोत्तरमिति जगदानन्त्यमुक्तम् । तस्मात्संसारबीजस्याज्ञानस्य तत्त्वज्ञानेनोच्छेदे यतितव्यमिति भावः ॥२८॥
सप्तर्षींश्च बहून्ज्ञात्वा राजर्षींश्च परंतप
।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान्॥२९॥
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप
।
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव॥३०॥
ननु सन्त्यनेके प्राजापत्यादिदेहा एव सुखमयाः किं मोक्षेणेत्याशङ्क्य तेषामप्यैश्वर्यस्यान्तवत्वान्नेत्याह - ऐश्वर्यादिति ॥३०॥
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्
।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये॥३१॥
योनीषु च विचित्रासु संसारानशुभांस्तथा
।
जठरे चाशुभे वासं शोणितोदकभाजने॥३२॥
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे॥३३॥
शिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ
।
विज्ञाय हितमात्मानं योगांश्च विविधान्नृप॥३४॥
तामसानां च जन्तूनां रमणीयावृतात्मनाम्
।
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ॥३५॥
गर्हितं महतामर्थे सांख्यानां विदितात्मनाम्
।
उपप्लवांस्तथा घोरान् शशिनस्तेजसस्तथा॥३६॥
उपप्लवान् उपरागान् तेजसः सूर्यस्य ॥३६॥
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप॥३७॥
द्वन्द्वानां दम्पतीनाम् ॥३७॥
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्
।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्॥३८॥
रागे मोहे च सम्प्राप्ते क्वचित्सत्त्वं समाश्रितम्
।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः॥३९॥
क्वचित्पुंसि ॥३९॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्
।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः॥४०॥
बहुमानम् अत्यादरं मध्यस्थताम् औदासीन्यम् ॥४०॥
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान्॥४१॥
दौरात्म्यं बन्धहेतुताम् ॥४१॥
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्॥४२॥
कुलेषु गृहेषु ॥४२॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्
।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्॥४३॥
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर
।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः॥४४॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्
।
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्॥४५॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा
।
क्षयं संवत्सराणां च मासानां च क्षयं तथा॥४६॥
संवत्सरक्षयो बृहस्पतेर्मध्यमराशिभोगयोरन्तराले सूर्यस्य द्विरेकराशिसंक्रमे भवति । मासक्षयो दर्शयोरन्तराले सूर्यसंक्रान्तिद्वयम् ॥४६॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्
।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा॥४७॥
पक्षक्षयः सार्धचतुर्दशदिनमध्ये पर्वद्वयं तदा त्रयोदशभिर्दिनैः पक्षो भवति दिवसक्षयः सूर्योदययोरन्तराले तिथित्रयस्पर्शः । कालाभिमानिदेवतानामपि क्षयोदयौ दृश्येते किमुत काल्यमानानामस्मदादीनामिति भावः ॥४७॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः
।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च॥४८॥
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः
।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा॥४९॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः
।
जरामृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह॥५०॥
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः
।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः॥५१॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्
।
स्वदेहादुत्थितान् गन्धांस्तथा विज्ञाय चाशुभान्॥५२॥
बाह्यदोषानुक्त्वा देहजान्दोषानाह - स्वदेहादिति । उत्थितान्दोषानित्यनुषङ्गः ॥५२॥
युधिष्ठिर उवाच।
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम्
।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः॥५३॥
भीष्म उवाच।
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः
।
मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन॥५४॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते॥५५॥
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्
।
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्॥५६॥
सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा
।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप॥५७॥
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि
।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः॥५८॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम्
।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्॥५९॥
नलसारं नलतृणवदन्तः सारहीनम् ॥५९॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्
।
नाशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम्॥६०॥
नाशप्रायं नाशबहुलम् ॥६०॥
रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम्
।
सांख्या राजन्महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम्॥६१॥
ज्ञानयोगेन सांख्येन व्यापिना महता नृप
।
राजसानशुभान् गन्धांस्तामसांश्च तथाविधान्॥६२॥
पुण्यांश्च सात्त्विकान् गन्धान् सर्शजान्देहसंश्रितान्
।
छित्त्वाऽशु ज्ञानशस्त्रेण तपोदण्डेन भारत॥६३॥
शुभाशुभांश्च गन्धान् तपोदण्डेन ज्ञानशस्त्रेण धीकुठारेण च्छित्त्वा यतयः सागरं तरन्तीति दशमेन सम्बन्धः ॥६३॥
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम्
।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम्॥६४॥
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत
।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिन्दम॥६५॥
कर्मागाधं सत्यतीरं स्थितव्रतमरिन्दम
।
हिंसाशीघ्रमहावेगं नानारससमाकरम्॥६६॥
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्
।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्॥६७॥
अस्थिसंघातसंघट्टां श्लेष्मफेनमरिन्दम
।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम्॥६८॥
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्
।
रोदनाश्रुमलक्षारं संगत्यागपरायणम्॥६९॥
पुत्रदारजलौकौघं मित्रबान्धवपत्तनम्
।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्॥७०॥
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम्
।
मोक्षदुर्लाभविषयं वडवामुखसागरम्॥७१॥
तरन्ति यतयः सिद्धा ज्ञानयानेन भारत
।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः॥७२॥
तीर्त्वा चेति । जन्म ईदृशेनालोचनेन जन्मयुक्तं स्थूलं शरीरं तीर्त्वा विस्मृत्य विमलं नभः प्रविशन्ति । देहाध्यासापाये व्योमसंविदुदेतीत्यर्थः ॥७२॥
तत्र तान्सुकृतीन्सांख्यान् सूर्यो वहति रश्मिभिः
।
पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप॥७३॥
तत्रेति । तस्मिन् हार्दे व्योम्नि पद्मतन्तुवत् । यथा कमलनालेनान्तःसुषिरेण जलं मुखेनाकृष्यमाणमन्तः प्रविशति तद्वत् । आत्मनि प्रणिधीयमानमनोद्वारा सूर्योऽन्तराविश्य तत्रैव हृदयाकाशे सांख्यान् प्रति स्वनाडीभिः सम्बन्धाच्चतुर्दशभुवनगतान्विषयान् वहति प्रापयति । प्रवहन्विषयानित्यनेन विषयैः सह सूर्यस्य नित्यसम्बन्धो दर्शितः । व्योमसंविदुदये सांख्यस्य सार्वज्ञ्यं सार्वात्म्यं सर्वभोगभाक्त्वं चोदेतीत्यर्थः । एतेन प्रत्यगात्मस्था एव विषया मुकुरमुखवदज्ञानवशात्पराक्त्वेन भान्तीत्यात्माद्वैतमुपपादितम् । हार्दनाडीनां सूर्यरश्मिभिः सम्बन्धस्तेषां च ब्रह्माण्डेन सम्बन्धश्छान्दोग्यादावुक्तः प्रागेवोदाहृतः ॥७३॥
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत
।
वीतरागान्यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान्॥७४॥
तत्रेति । तत्र हार्दाकाशे तांस्तेजोबन्नात्मकान् विषयान्प्रवहसंज्ञको वायुः प्रतिगृह्णाति स्वात्मसात्करोति । तथा च श्रुतिः - ‘वायुर्ह्येवैतान्सर्वान्संवृङ्क्ते’ इति । किं कृत्वा वीतरागान् यतीन् अपेक्ष्येति शेषः । संप्रज्ञातसुखास्वादसक्ते सांख्ये वायुर्विषयान्न संहरति अन्यथा तु संहरतीत्यर्थः । अत एव समाधिं प्रकृत्योक्तं गौडपादीये - 'नास्वादयेत्सुखं तत्र' इति ॥७४॥
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत
।
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान्
।
स तान्वहति कौन्तेय नभसः परमां गतिम्॥७५॥
सूक्ष्म इति । सूक्ष्मस्त्वगिन्द्रियाग्राह्यस्पर्शः । ननु सूर्यरश्मिसम्बन्धेऽपि ब्रह्माण्डं न हार्दाकाशे प्रवेष्टुमर्हति । अत्रत्यानां घटादीनां सूर्यास्तोत्तरं लोकान्तरसम्बन्धादर्शनादित्याशङ्क्याह - सप्तानामिति । तान्पिण्डब्रह्माण्डरूपान् विषयान् । यथाऽयं प्रवहो वायुः देहेन सम्बन्धात्स्वयं लोकान्प्रतिगच्छति पिण्डं च तत्तल्लोकान्प्रतिवहति एवं नभसः परमां गतिं हार्दाकाशं गच्छति ब्रह्माण्डं च तं प्रतिवहति । तथा च ब्रह्माण्डं वातरज्जुभिः सूर्यमण्डले निबद्धमतो हार्दनभसि सूर्यप्रवेशेन ब्रह्माण्डस्यापि प्रवेशो युज्यते । अत्रत्यघटादीनां तु रात्रावपि सूर्यरश्मिसम्बन्धविघटनं नास्तीति न तैः सह देशान्तरगमनप्रसक्तिरस्ति । अतो युक्तमुक्तं तत्र तान् सुकृतीनित्यादि ॥७५॥
नभो वहति लोकेश रजसः परमां गतिम्
।
रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम्॥७६॥
नभ इति । तमसः सूक्ष्मतमः परिणामो व्योमसंवित् । नभ आख्या रजसः परमां गतिमहङ्कारं नयति । सत्त्वस्य परमां गतिं महत्तत्त्वमस्मितामात्रं शुद्धत्वंपदार्थम् । तस्यापि परमा गतिः प्रभुस्तत्पदार्थस्तस्यापि निरुपाधिचिन्मात्रमित्यर्थः ॥७६॥
सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम्
।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना॥७७॥
परमात्मानमासाद्य तद्भूतायतनाऽमलाः
।
अमृतत्त्वाय कल्पन्ते न निवर्तन्ति वा विभो॥७८॥
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्
।
सत्यार्जवरतानां वै सर्वभूतदयावताम्॥७९॥
योगवत्सांख्येऽपि शौचादिकं तुल्यमित्युक्तं तदत्रोपसंहरति - निर्द्वन्द्वानामिति । सेयमात्मनिष्ठा योगैर्विषयेभ्यश्चित्तवृत्तेर्निरोध इत्युच्यते । सांख्यैस्तु तत्तद्विषयसहितानां वृत्तीनां लवदणोदकन्यायेन प्रविलापनमित्युच्यते । एवमयं भाषाभेद एव । शमादिसाधनं कैवल्यं च फलं पक्षद्वयेऽपि समानमिति प्रागुक्तं न प्रस्मर्तव्यम् ॥७९॥
युधिष्ठिर उवाच।
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः
।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ॥८०॥
भगवन्तं षड्गुणैश्वर्यसंपन्नं परमात्मानमेव परं मोक्षाख्यं स्थानं प्राप्य आजन्ममरणं सर्वज्ञत्वाज्जन्ममरणादिकं तत्र स्मरन्ति न वा मोक्षे विशेषविज्ञानमस्ति न वेति प्रश्नः 'कस्मिन्नु भगवो विज्ञाते सर्वामिदं विज्ञातं भवति । य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति' इति मोक्षे सार्वज्ञ्यसार्वात्म्ययोः श्रवणात् 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति विशेषविज्ञानाभावश्रुतेश्च संशयः ॥८०॥
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि
।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव॥८१॥
मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन्
।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे॥८२॥
एष द्विविधोऽपि मोक्षे महान्दोषः स्फुरति सिद्धिगतान्मोक्षप्रतिपादकान् । ऋषीन्मन्त्रान् प्राप्य स्फुरति । परस्परविरुद्धस्यैकत्र पक्षद्वयस्यासंभवात् । अन्यतराङ्गीकारेऽवश्यकर्तव्येऽन्यतरश्रुतेर्बाधो भवतीत्यर्थः । यदीति । तत्रैव मोक्षेऽपि विज्ञाने विशेषदर्शने सति कर्मैव श्रेष्ठं किं संन्यासाद्यायासेनेत्यर्थः ॥८२॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप
।
मग्नस्य हि परं ज्ञानं किं न दुःखतरं भवेत्॥८३॥
तदभावे तु महान्दोषः सुषुप्ताविव विगलितज्ञानस्यापि ज्ञानमस्तीत्युच्यते चेत् । इतो दुःखतरम् अयुक्ततरं न किञ्चिदित्यर्थः ॥८३॥
भीष्म उवाच।
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः
।
बुधानामपि सम्मोहः प्रश्नेऽस्मिन्भरतर्षभ॥८४॥
बुधानां मैत्रेयीप्रभृतीनामप्यत्र संमोहो दृश्यते । तथाहि । मैत्रेयी मुक्तौ द्वैतदर्शने कर्मफलसाम्यं द्वैतादर्शनेन मूढतमत्वं च पश्यन्ती अन्यतरस्य श्रेयस्त्वमप्रतिपद्यमाना याज्ञवल्क्यमवोचत् - अत्रैव मा भगवानमूमुहदिति । मा माम् ॥८४॥
अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम्
।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्॥८५॥
इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप
।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः॥८६॥
अत्र समाधानमाह - इन्द्रियाणीति । देहिनां प्राणिनां स्वदेहे स्वस्वरूपेऽधिष्ठाने स्थितानि इन्द्रियाण्येव मनःषष्ठानि बुध्यन्ते विशेषतः पश्यन्ति यतस्तानि आत्मनो विशेषविज्ञाने कारणानि हेतुभूतानि । कथम् । सूक्ष्मश्चिदात्मा तैः कर्तृकारणरूपैः पश्यति । बाह्यमाभ्यन्तरं वा विषयं प्रकाशयति । अयं भावः - प्रत्यक्षं हि बाह्यमर्थं चक्षुषैव पश्यति तदभावे न पश्यति । न च तावता आत्मनः प्रकाशनशक्तिर्हीयते तेन विनाऽपि स्वप्ने तद्दर्शनात् । एवं सुप्तिसमाध्योर्मनसा विनाऽपि नास्यात्मनो ज्ञशक्तिवियोगः । उपकरणस्य स्वातन्त्र्याविघातकत्वात् । तथा च करणाभावकृतमेवास्य विशेषविज्ञानराहित्यम् । न त्वज्ञत्वकृतमिति कैवल्येऽपि नात्मनः सार्वज्ञ्यहानिः । तथा च श्रुतिः - ’यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति यद्वै तं न शृणोत्यशृण्वन्वै तन्न शृणोति' इत्यादिका सुप्त्यादावप्यात्मनो द्रष्टृत्वादिकं दर्शयति ॥८६॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु
।
विनश्यन्ति न सन्देहः फेना इव महार्णवे॥८७॥
आत्मनो ज्ञशक्त्यवियोगं दर्शयितुम् इन्द्रियाणां जडत्वमाह - आत्मनेति । वस्तुत इन्द्रियाणि स्वरूपेणैव न सन्ति अध्यस्तत्वात् परमते स्थित्वा तत्सत्त्वमुपेत्यापि तानि काष्ठवदचेतनान्येवातो विनश्यन्ति । तत्र फेनदृष्टान्तो यथायोग्यं योजनीयः । यथा फेनो जलेन विना स्वयं निरात्मैव सात्मत्वेन दृष्टोऽपि तेन विना न तिष्ठतीति ॥८७॥
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन
।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः॥८८॥
इन्द्रियाणां जडत्वमुक्त्वाऽऽत्मनः स्वयंज्योतिष्ट्वमाह - इन्द्रियैरिति । देहाभिमानिनः सेन्द्रियस्य स्वप्ने प्रलीनस्यापि यः सूक्ष्मः अन्तरात्मा स सर्वत्र विषये चरति । जाग्रतीव स्वप्नेऽपि सर्वं विषयं भासयतीत्यर्थः ॥८८॥
स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो
।
बुध्यमानो यथापूर्वमखिलेनेह भारत॥८९॥
एतदेवाह - स इति । यथापूर्वं जाग्रद्वदित्यर्थः ॥८९॥
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि
।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव॥९०॥
इन्द्रियाणां सात्मत्वमात्मचैतन्यानुवेधादेवेत्यन्वयव्यतिरेकाभ्यामाह - इन्द्रियाणीति । इह स्वप्ने अनीशत्वान्नास्ति ईशः प्रवर्तको येषां तानि तथात्वात् ॥९०॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः
।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः॥९१॥
व्यतिरेकमुक्त्वाऽन्वयमाह - इन्द्रियाणां त्विति । स्वस्थाने स्थितानां गतयः गतीः सर्वा इन्द्रियवृत्तयश्चिद्व्याप्ता एव उद्यन्तीत्यर्थः ॥९१॥
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः
।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत॥९२॥
सर्वत्र चिद्व्याप्तिं दर्शयति - सत्त्वस्येति । सत्त्वादीनां गुणान् व्याप्य आत्मा चरतीति पूर्वेणान्वयः । सत्त्वस्य गुणान् धर्मादीन् रजसः प्रवृत्त्यादीन् तमसः अप्रवृत्त्यादीन् बुद्धेरध्यवसायादीन् ॥९२॥
गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः
।
गुणान्वायोश्च धर्मात्मन्स्नेहजांश्च गुणान्पुनः॥९३॥
मनसः सङ्कल्पादीन् नभआदीनां श्रोत्रादीन् स्नेहजान्स्नेहो जलं जायते तस्मात्तेजसस्तज्जान् ॥९३॥
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि
।
सर्वाण्येव गुणैर्व्याप्य क्षेत्रज्ञेषु युधिष्ठिर॥९४॥
सर्वाण्येवेति । सर्वाणि उक्तान्यनुक्तानि च क्षेत्रज्ञेषु सान्निहितानि सत्त्वादीनि गुणैर्मायिकैश्चित्तसत्त्वानन्दत्वाद्यैर्व्याप्य आत्मा ब्रह्म क्षेत्रज्ञं जीवं व्याति व्याप्नोति कर्मणी च तमेव क्षेत्रज्ञं व्याप्नुत इति सम्बन्धः ॥९४॥
आत्मा च व्याति क्षेत्रज्ञं कर्मणी च शुभाशुभे
।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो॥९५॥
इन्द्रियाणि मनःषष्ठानि एतच्च क्षेत्रज्ञस्य कर्मसम्बन्धे कारणमुपन्यस्तम् ॥९५॥
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्
।
परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम्॥९६॥
मुक्तिकारणं चाह - प्रकृतिमिति । चादिन्द्रियाणि । इन्द्रियाणि कार्योपाधिं प्रकृतिं कारणोपाधिं चातीत्य क्षेत्रज्ञः अव्ययं वृद्धिह्रासशून्यं कूटस्थमात्मानं गच्छति तमेव विशिनष्टि - परमिति ॥९६॥
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम्
।
परमात्मानमगुणं न निवर्तति भारत॥९७॥
तत्प्राप्तिफलमाह - विमुक्त इति ॥९७॥
शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत
।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः॥९८॥
ननु परमात्मानं प्राप्तस्यानिवृत्तौ पुनर्देहस्योत्थानं न स्यादित्याशङ्क्याह - शिष्टमिति । निवृत्तेऽपि कारणे चक्रभ्रमिन्यायेन शिष्टं मनआदिप्रतियोगिन आगच्छन्ति गच्छन्ति । यथाकालं समाधिव्युत्थानकालभेदेन गुरोः संदेशकारिणः प्रारब्धकर्मानुसारिणीश्वरप्रेरणा तां कर्तुं शीलं येषां ते ॥९८॥
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना
।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा॥९९॥
एवं जीवन्मुक्तिसद्भावमुक्त्वा विदेहकैवल्यमाह - शक्यमिति । अल्पेन वर्तमानदेहपातावधिना शान्तिं विदेहेमुक्तिम् ॥९९॥
सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम्
।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते॥१००॥
अत्र ते संशयो माभूज्ज्ञानं सांख्यं परं मतम्
।
अक्षरं ध्रुवमेवोक्तं पूर्णं ब्रह्म सनातनम्॥१०१॥
परं योगापेक्षया श्रेष्ठम् । एवं सांख्येन योगेन वा शोधितस्य त्वंपदार्थस्य ब्रह्माद्वैतसिद्धये तत्पदार्थाभेदं वक्तुं तत्पदार्थस्वरूपमाह - अक्षरमित्यादिना । अक्षरं व्यापकम् अश्नोतेः सरन् ध्रुवम् अचञ्चलम् । अत एव पूर्णं ब्रह्म सर्वोत्कृष्टम् । सनातनं सदैकरूपम् ॥१०१॥
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम्
।
कूटस्थं चैव नित्यं च यद्वदन्ति मनीषिणः॥१०२॥
निर्द्वन्द्वं द्वैतवर्जितं कर्तृ जगज्जन्मादिहेतुः शाश्वतम् अखण्डदण्डायमानं कूटस्थं निर्विकारम् ॥१०२॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः॥१०३॥
सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः
।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम्॥१०४॥
ब्रह्मण्यं ब्रह्मजातिहितम् ॥१०४॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः
।
सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः॥१०५॥
प्रार्थयन्तः गुणेषु विषयेषु बुद्धिर्येषां ते । तं वदन्ति मायिकैर्गुणैः स्तुवन्ति सांख्या योगाश्च स्तुवन्ति जगत्कर्तृत्वेन आदिगुरुत्वेन चेति शेषः ॥१०५॥
अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः
।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ॥१०६॥
सांख्यज्ञानं शुद्धचिन्मात्रं तस्य स्वरूपमित्यर्थः । तत्सत्त्वे मानमाह - अभिज्ञानानीति । घटादीनां ज्ञानानि तान्येव तस्यामूर्तेर्ब्रह्मणो मतं ज्ञानं मन ज्ञानेऽस्माद्भावे निष्ठा । निर्विषयघटादिज्ञानमेव परं ब्रह्मेत्यर्थः । यथोक्तं वार्तिके -
'परागर्थप्रमेयेषु या फलत्वेन संमता
।
संवित्सैवेह मेयार्थो वेदान्तोक्तिप्रमाणतः॥'
इति ॥१०६॥
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते
।
जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते॥१०७॥
यदुक्तविधं ब्रह्म तत्सच्चिदानन्दरूपं तत्र स्थावरेषु सदंशमात्राभिव्यक्तिः जङ्गमेषु सच्चिदंशयोर्विद्वत्सु सच्चिदानन्दांशानां त्रयाणामप्यभिव्यक्तिरिति तेषामुत्तरमुत्तरं श्रेष्ठमित्याह द्वाभ्याम् - द्विविधानीति । अगमं स्थावरम् ॥१०७॥
ज्ञानं महद्यद्धि महत्सु राजन्वेदेषु सांख्येषु तथैव योगे
।
यच्चापि दृष्टं विविधं पुराणे सांख्यागतं तन्निखिलं नरेन्द्र॥१०८॥
महत्सु ब्रह्मवित्सु यन्महज्ज्ञानं तत्सांख्यागतं सांख्येऽन्तर्गतम् । एतेन सांख्यविज्ञानात्सर्वविज्ञानमुक्तम् । तथा च स्थावराज्जङ्गमं श्रेष्ठं जङ्गमेष्वपि विद्वान् श्रेष्ठतर इति भावः ॥१०८॥
यच्चेतिहासेषु महत्सुदृष्टं यच्चार्थशास्त्रे नृपशिष्टजुष्टे
।
ज्ञानं च लोके यदिहास्ति किंचित् सांख्यागतं तच्च महन्महात्मन्॥१०९॥
शमश्च दृष्टः परमं बलं च ज्ञानं च सूक्ष्मं च यथावदुक्तम्
।
तपांसि सूक्ष्माणि सुखानि चैव सांख्ये यथावद्विहितानि राजन्॥११०॥
शमादिकं सर्वं सांख्ये सांख्यविज्ञाननिमित्तं विहितमित्यर्थः ॥११०॥
विपर्यये तस्य हि पार्थ देवान् गच्छन्ति सांख्याः सततं सुखेन
।
तांश्चानुसञ्चार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः॥१११॥
विपर्यये किञ्चित्साधनवैकल्यात् ज्ञानानुत्पत्तौ । यतेषु यत्नशीलेषु तांश्चानुसञ्चार्य तेषामाधिपत्यं कृत्वा ॥१११॥
हित्वा च देहं प्रविशन्ति देवं दिवौकसौ द्यामिव पार्थ सांख्या:
।
अतोऽधिकं तेऽभिरता महार्हे सांख्ये द्विजाः पार्थिवशिष्टजुष्टे॥११२॥
महार्हे अतिपूज्येऽधिकमभिरतास्ते देवं तत्पदार्थं प्रविशन्ति क्रमेणेति शेषः ॥११२॥
तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गतिः पापकृताधिवासः
।
न वा प्रधाना अपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः॥११३॥
कीदृशी गतिः या पापकृतानाम् अधिवासः एतत्परोक्षज्ञानफलमुक्तम् ॥११३॥
सांख्यं विशालं परमं पुराणं महार्णवं विमलमुदारकान्तम्
।
कृत्स्नं च सांख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम्॥११४॥
अपरोक्षज्ञानफलमाह - सांख्यमिति । कृत्स्नं सांख्यं यो धारयते साक्षात्कृत्यास्ते स नारायणः परं ब्रह्मैव तथा च श्रुतिः - 'ब्रह्मविद्ब्रह्मैव भवति' इति ॥११४॥
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम्
।
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः॥११५॥
हे नर मया एतत् देवस्यात्मनस्तत्त्वमुक्तम् । तच्च नारायणो विश्वमिति सर्वं खल्विदं ब्रह्मेति श्रुतेरित्यर्थः । तत्र हेतुः - स इति । एतेन तज्जलानिति श्रुतेरर्थ उक्तः ॥११५॥
संहृत्य सर्वं निजदेहसंस्थं कृत्वाप्सु शेते जगदन्तरात्मा॥११६॥
सांख्यसर्वस्वमाहार्धेन - संहृत्येति । सर्वं कार्यजातं वियदादिकं संहृत्य प्रविलाप्य कुत्र निजदेहे कारणात्मनि संस्था समाप्तिर्यस्य स तथा कृत्वा स्वयमपि कारणात्माऽप्सु निर्विशेषचिन्मात्रे शेते लीनो भवति जगदन्तरात्मा नारायणः सर्वप्रत्यग्भूतः एतेन योऽयं मायावी जगज्जन्मादिहेतुः स सर्वेषां प्रत्यग्भूत ईश्वरः चिन्मात्रे लीयत इति निर्विशेषब्रह्माद्वैतमुक्तं भवति ॥११६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सांख्यकथने एकाधिकत्रिशततमोऽध्यायः ॥३०१॥
युधिष्ठिर उवाच।
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः
।
किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः॥१॥
त्वंपदार्थशोधकौ सांख्ययोगावुक्त्वा तस्य पारमार्थिकं तत्पदार्थतत्त्वं वक्तुम् अक्षरं ध्रुवमेवोक्तमित्यादिनाऽन्ते तत्पदार्थस्वरूपमुपक्षिप्तं तद्विवरणायारभते - किं तदक्षरमित्यादि । व्यक्तिं विवेकं तत्त्वेन याथात्म्येन उपलब्धुं पृच्छामीति द्वयोः सम्बन्धः ॥१॥
अक्षरक्षरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन्
।
उपलब्धं महाबाहो तत्त्वेन कुरुनन्दन॥२॥
त्वं हि ज्ञानानिधिविप्रैरुच्यसे वेदपारगैः
।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः॥३॥
शेषमल्पं दिनानां ते दक्षिणायनभास्करे
।
आवृते भगवत्यर्के गन्तासि परमां गतिम्॥४॥
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्
।
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे॥५॥
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह
।
न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम्॥६॥
भीष्म उवाच।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
।
वसिष्ठस्य च संवादं करालजनकस्य च॥७॥
करालनामा जनकः करालजनकस्तस्य ॥७॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्
।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्॥८॥
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्
।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः॥९॥
कुशलम् ऊहापोहसमर्थं गतिरनुभवस्तेन निश्चयोऽस्यास्तीति तथा । अध्यात्मे परोक्षापरोक्षोभयविधज्ञानवन्तमित्यर्थः । मैत्रावरुणिं मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुंभे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावजायेतामिति बह्वृचानां ह्यनुक्रमणिकायां तस्य मैत्रावरुणित्वमुक्तम् ॥९॥
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम्
।
पप्रच्छर्षिवरं राजा करालजनकः पुरा॥१०॥
प्रश्रितं विनीतं मधुरम् अर्थतः अनुल्बणं कुतर्कहीनम् ॥१०॥
भगन् श्रोतुमिच्छामि परं ब्रह्म सनातनम्
।
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः॥११॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्
।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम्॥१२॥
यच्चेति । यत्राक्षरे क्षरते लवणोदकवल्लीयते । एतेन क्षराक्षरशब्दप्रवृत्तिनिमित्ते दर्शिते । शिवम् आनन्दरूपं क्षेम्यं संसारमोचकम् । यतः अनामयं निर्द्वन्द्वम् ॥१२॥
वसिष्ठ उवाच ।
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्
।
यन्न क्षरति पूर्वेण यावत्कालेन वाऽप्यथ॥१३॥
यावत्कालेन कृत्स्नेनापि कालेन ॥१३॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम्
।
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते॥१४॥
'चतुर्युगसहस्रं तद्ब्रह्मणो दिनमुच्यते
।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥'
इति ॥१४॥
रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुद्ध्यते
।
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्॥१५॥
यस्यान्ते यस्येति तद्धितप्रकृतेर्ग्रहणं ब्रह्मणोऽन्ते इत्यर्थः । प्रतिबुध्यते शम्भुरिति सम्बन्धः । अग्रजं हिरण्यगर्भम् -
'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥'
इति श्रुतेः ॥१५॥
मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः
।
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्॥१६॥
अणिमाद्या यन्त्र स्वयंभुवः नित्यं स्वतःसिद्धाः न तु हिरण्यगर्भादिष्विव तपसा आविर्भूताः । तत ईशानं सर्वनियन्तृज्योतिश्चिद्रूपमव्ययमपारणामि ॥१६॥
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्
।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥१७॥
अमूर्तमेवाक्षरस्य ज्ञेयं रूपमाह - सर्वत इति ॥१७॥
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः
।
महानिति च योगेषु विरिञ्चिरिति चाप्यजः॥१८॥
हिरण्यगर्भ इति योऽक्षर इति स्मृतः स एष हिरण्यगर्भः सूत्रात्मा भगवान्सर्वैश्वर्यसम्पन्नः । बुद्धिः समदृष्टिबुद्धिरिति वेदान्तिनः योगे तु एष एव महानिति प्रथमं कार्यम् ॥१८॥
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः
।
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः॥१९॥
वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना
।
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः॥२०॥
नैकात्मकं बहुरूपं त्रैलोक्यं कृतं वृतं च तदेव विश्वरूपो विराट् विश्वं रूपमस्य । तथा च श्रुतिः -
'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृत्ताश्च वेदाः
।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा॥'
इति ॥२०॥
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना
।
अहङ्कारं महातेजाः प्रजापतिमहंकृतम्॥२१॥
एष सूत्रात्मा अहङ्कारमुपाधिम् अहङ्कृतं तदभिमानिनं विराजम् ॥२१॥
अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम्
।
महान्तं चाप्यहङ्कारमविद्यासर्गमेव च॥२२॥
अस्य द्वैविध्यमाह - अव्यक्तादिति । महान्तं समष्टिं चात् व्यष्ट्यहङ्कारमविद्यासर्गम् ॥२२॥
अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः
।
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः॥२३॥
विद्याविद्ययोर्लक्षणमाह - अविधिरिति । अत्र अक्षरात्कारणात् हिरण्यगर्भसृष्टिः प्रथमा । विराट्सृष्टिर्द्वितीया एकतः एतेषां त्रयाणामन्यतमे एकस्मिन्विषये यो विधिः । आप्नोतेरादिमत्वात् । 'आप्नोति ह वा इदं सर्वमादिमांश्च भवति य एवं वेद' इति । तत्तदुपास्तिविधानं साऽविद्या । यो विधिः 'तत्त्वमस्यहं ब्रह्मास्मि' 'अयमात्मा ब्रह्म' इति । सिद्धवत्कथनं सा विद्या । अयमर्थः - यथा रज्जुं सर्पत्वेन पश्यन्तं भीतं नरं प्रति कश्चिद्रज्जुरियं न सर्प इति सिद्धवद्रज्जुभावमुपदिशति । तेन च साक्षात्कृतेन सद्यो भयनिवृत्तिर्जायते सोऽयमविधिर्विद्या । अतिविक्षेपादाप्तवाक्ये श्रद्धाहीनं प्रति इमं सर्पं रज्जुत्वेन भावयतस्तव रज्जुरेव भविष्यति स च कर्मश्रद्धाजडो विधौ विश्वस्य भावनाबलेन तस्य रज्जुत्वं पश्यति सर्पदष्ट इव गरुडभावनेनात्मनो निर्विषत्वं तद्वत्सोऽयं विधिरविद्येति । तद्वदत्रापि ध्येयम् ॥२३॥
भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव
।
अहङ्कारेषु सर्वेषु चतुर्थं विद्धि वैकृतम्॥२४॥
उपहितयोर्महदहङ्कारयोः सूत्रविराडपरपर्याययोः सृष्टिमुक्त्वा तदुपाध्योः सृष्टिमाह - भूतेति । भूतानि पञ्चतन्मात्राख्यानि सूक्ष्मपञ्चभूतानि अपञ्चीकृतानि सर्वेषु सात्त्विकराजसतामसेषु वैकृतं विकृतमेव वैकृतम् ॥२४॥
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा
।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च॥२५॥
तमेवाह - वायुरिति । तत्र वाय्वादीनि पञ्चीकृतानि स्थूलानि भूतानि शब्दादिसहितानि तामसाहङ्काराच्चतुर्थः सर्गः ॥२५॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम्
।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत्॥२६॥
युगपदित्याकाशाद्वायुः वायोरग्निरित्यादिः श्रौतक्रमोऽनादरणीय इत्युक्तं दृष्टिसृष्ट्यभिप्रायेण भौतिकं स्थूलभूतजम् ॥२६॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्
।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च॥२७॥
तमेवाह - श्रोत्रमिति ॥२७॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
।
सम्भूतानीह युगपन्मनसा सह पार्थिवम्॥२८॥
अत्र तामसानि भूतानि सात्त्विकानि मनःश्रोत्रादीनि राजसानि वागादीनि जाड्यप्रकाशप्रवृत्तिधर्मत्वादेतेषामयं विभागो बोध्यः ॥२८॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते
।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः॥२९॥
एषा मूलप्रकृतिः चतुर्विंशा चतुर्विंशतितमी । चतुर्विंशीत्यृजुः पाठः । सर्वाकृतिषु सर्वासु विकृतिषु यां प्रकृतिं पुरुषात्पृथग्भूतां ज्ञात्वा ॥२९॥
एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु
।
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे॥३०॥
एतत् विकृत्यात्मकं देहं पिण्डब्रह्माण्डात्मकशरीरं क्लीबत्वमार्षम् ॥३०॥
सयक्षभूतगन्धर्वे सकिन्नरमहोरगे
।
सचारणपिशाचे वै सदेवर्षिनिशाचरे॥३१॥
सदंशकीटमशके सपूतिकृमिमूषिके
।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे॥३२॥
हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह
।
यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम्॥३३॥
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः
।
स्थानं देहवतामासीदित्येवमनुशुश्रुम॥३४॥
जलेति नान्यत्रेति च पञ्चमहाभूतान्तर्वर्त्येव देहवान् जीवस्तान्यतीतस्तु ब्रह्मैवेति भावः ॥३४॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञितम्
।
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः॥३५॥
एतावतः एतावत्पर्यन्तम् अक्षरावधि यद्व्यक्तं तत्क्षरते । भूतात्मा चतुर्विंशकः संघातः ॥३५॥
एतदक्षरमित्युक्तं क्षरतीदं यथा जगत्
।
जगन्मोहात्मकं प्राहुरव्यक्ताद्व्यक्तसंज्ञकम्॥३६॥
एतदिति । प्रत्यगात्मानं त्वंपदार्थमभिनीय दर्शयति - इदमिति । पराग्भूतं जगत् जगच्छब्दार्थमाह - जगदिति । एतेनाव्यक्तस्यापि क्षरत्वमुक्तम् ॥३६॥
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम्
।
कथितं ते महाराज यन्मां त्वं परिपृच्छसि॥३७॥
अत्र युक्तिमाह - महानिति । यतो महान्सूक्ष्मा बुद्धिः साऽपि नित्यं क्षरत्यतस्तत्कारणमव्यक्तमपि क्षरत्येवेत्यर्थः । तथा च प्रयोगः । महान्क्षरोपादानकः क्षरात्मत्वात् घटवदिति । न चात्मधर्माणां दुःखादीनां क्षरत्वेऽपि क्षरोपादानकत्वं नास्ति आत्मनोऽनित्यत्वादिति वाच्यम् । दुःखादेरात्मधर्मत्वस्यैवासिद्धेः । तदभ्युपगमे वा वह्नौष्ण्यवन्निवृत्त्यसंभवेन यावद्दुःखनिवृत्तिलक्षणस्य मोक्षस्यासिद्धेरित्यास्तां तावत् ॥३७॥
पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञितः
।
तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः॥३८॥
पञ्चविंशतिमः तकारलोपः आर्षः । विष्णुः शुद्धचिन्मात्रं स निर्गुणत्वान्निस्तत्वः कथं तर्हि पञ्चविंशतितत्त्वेषु तस्य गणनेत्यत आह - तत्त्वेति । तत्त्वाधिष्ठानत्वादेवास्य तत्त्वसंज्ञा न तु कार्यत्वात्कारणत्वाद्वाऽस्य तत्त्वान्तर्गतत्वमस्ति । एतेन ब्रह्मणो जगदुपादानत्वमपि तदुपादानाज्ञानाश्रयत्वादेवेति व्याख्यातम् । अन्यथा तस्यापि पूर्वोक्तानुमानेन क्षरत्वापत्तिः । यथोक्तं संप्रदायविद्भिः -
'अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम्
।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते॥'
इति ॥३८॥
यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति
।
चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः॥३९॥
निस्तत्त्वत्वादेवाधिष्ठातृत्वमपि नास्तीत्याह - यदिति । यत् यस्माद्धेतोः मर्त्यं क्षरणधर्मि प्रधानं कर्तृ व्यक्तं कार्यमसृजत् । तत्तस्माद्धेतोस्तन्मूर्तिमत् जगत्तेनैव प्रवर्त्यत इत्यर्थः । कोऽसावधिष्ठाता यश्चतुर्विंशतितमः अव्यक्तः । ननु कथमचेतनस्याधिष्ठातृत्वं संहतत्वादेवेति गृहाण । हि यतः पुरुषोऽमूर्तोऽसंहतः अतो नासावधिष्ठातेत्यर्थः ॥३९॥
स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान्
।
केवलश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान्॥४०॥
ननु संहतमप्यव्यक्तं काष्ठलोष्टसमत्वान्नाधिष्ठातृ भवेदत आह - स एवेति । चतुर्विंशतितम एव आतिष्ठतेऽधितिष्ठति । यतः आत्मवान् चिच्छायावान् सन्धिरार्षः । केवलोऽनुपाधिरपि चेतनः सर्गप्रलयधर्मिण्या प्रकृत्या मूर्तिमान् भवति स्वतस्तु अमूर्तिमानेव ॥४०॥
सर्गप्रलयधर्मिण्या स सर्गप्रलयात्मकः
।
गोचरे वर्तते नित्यं निर्गुणं गुणसंज्ञितम्॥४१॥
तथैव च निर्गुणमगोचरमपि गोचरे वर्तते दर्पणेनेव मुखं यदाहुः - न तावदयमेकांतेनाविषयः अस्मत्प्रत्ययविषयत्वादिति ॥४१॥
एवमेष महानात्मा सर्गप्रलयकोविदः
।
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान्॥४२॥
तत्पदार्थनिरूपणमुपसंहरति - एवमिति । त्वंपदार्थं निरूपयति - विकुर्वाणे इति । प्रकृतिमान् अविद्यावान् अबुद्धिमान् मूढः अभिमन्यते अहमिति आत्मानं मन्यते ॥४२॥
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु
।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात्॥४३॥
लीयते योनिभिः सह तादात्म्यं प्राप्नोति ॥४३॥
सहवासविनाशित्वान्नान्योऽहमिति मन्यते
।
योऽहं सोऽहमिति ह्युक्त्वा गुणानेवानुवर्तते॥४४॥
तत्र हेतुमाह - सहेति । सहवासेन विनष्टुम् अदर्शनं गन्तुं शीलमस्य तस्य भावस्तत्त्वं तस्मात् नान्योऽहं संघातादिति मन्यते । योऽहं सोऽहम् अमुष्य पुत्रोऽहम् अमुकजातीयोऽहमिति गुणान्ब्राह्मण्यादीनेव ॥४४॥
तमसा तामसान्भावान्विविधान्प्रतिपद्यते
।
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात्॥४५॥
तामसान् क्रोधादीन् राजसान् प्रवृत्त्यादीन् सात्त्विकान् प्रकाशादीन् ॥४५॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु
।
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै॥४६॥
शुक्लेति । क्रमेण स्वच्छत्वाद्रञ्जकत्वात् मलिनत्वाच्च सत्त्वादीनि शुक्ललोहितकृष्णानि तान्येव जलतेजोन्नानि एतानि दृश्यानि । 'वाचारम्भणं विकारो नामधेयं त्रीण रूपाणीत्येव सत्यम्' इति श्रुतेः प्राकृतानि प्रकृतिस्तेजोबन्नानि तत्सम्बधीनि ॥४६॥
तामसा निरयं यान्ति राजसा मानुषानथ
।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः॥४७॥
तेजोबन्नोपाधिकेषु जीवेषु ये तामसा इति व्याख्येयम् ॥४७॥
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात्
।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः॥४८॥
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः
।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते॥४९॥
एवमिति । यद्वा । योऽयं पञ्चविंशतितमस्तमेव अव्यक्तविषयं मायागोचरं सन्तं क्षरं विनाशिनं विकारिणं वा जातो देवदत्तो मृतो देवदत्तः सुखी दुःखी पुण्यवान् पापी चेत्यज्ञानादाहुः । कथं तर्हि तदुपलब्धिरत आह - ज्ञानादेव प्रवर्तते प्रकाशते । एतेन तत्पदार्थ एवाज्ञानाज्जीवत्वमापन्नो ज्ञानान्मुच्यत इति वदता तत्त्वमसीत्यादिवाक्यर्थो जीवब्रह्माभेदः साधितो भवति ॥४९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादे द्व्यधिकत्रिशततमोऽध्यायः ॥३०२॥
वसिष्ठ उवाच ।
एवमप्रतिबुद्धत्वादवुद्धमनुवर्तते
।
देहाद्देहसहस्राणि तथा समभिपद्यते॥१॥
प्रकृतिसंयोगात्पुरुषस्तामेवानुवर्तत इत्युक्तं तत्प्रपञ्चयत्यध्यायद्वयेन - एवमप्रतिबुद्धत्वादित्यादिना । अबुद्धम् अबोधम् अज्ञानं भावे निष्टान्तेन नञ्समासः ॥१॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि
।
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात्॥२॥
गुणक्षयात् गुणसामर्थ्यात् क्षि क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपं एतच्च तामसा निरयं यान्तीति श्लोकेन प्रागेवोक्तम् ॥२॥
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च
।
मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते॥३॥
आनन्त्यम् अनन्तम् ॥३॥
कोशकारो यथाऽऽत्मानं कीट: समवरुन्धति
।
सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः॥४॥
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु
।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे॥५॥
निर्द्वन्द्वः सुखदुःखादिहीनः ॥५॥
जलोदरे तृषारोगे ज्वरगण्डे विषूचके
।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि॥६॥
सिध्मा कासश्वासः ॥६॥
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु
।
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते॥७॥
एष जीवोऽभिमन्यते अहमेव दुःखी रोगी चेति ॥७॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि
।
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि॥८॥
शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा
।
मण्डूकशायी च तथा वीरासनगतस्तथा॥९॥
मण्डूकवत्पाणिपादं सञ्कोच्य न्युब्जः शेते इति मण्डूकशायी ॥९॥
चीरधारणमाकाशे शयनं स्थानमेव च
।
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा॥१०॥
आकाशे निरावरणे देशे ॥१०॥
भस्मप्रस्तरशायी च भूमिशय्या तलेषु च
।
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च॥११॥
विविधासु च शय्यासु फलगृद्व्यान्वितस्तथा
।
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च॥१२॥
फलगृद्ध्या फलाशा मुञ्जमेखलेति कौपीनवत्त्वं लक्ष्यते ॥१२॥
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः
।
सिंहचर्मपरीधानः पट्टवासास्तथैव च॥१३॥
बालेत्याविककम्बलो लक्ष्यते ॥१३॥
फलकं परिधानश्च तथा कण्टकवस्त्रधृक्
।
कीटकावसनश्चैव चीरवासास्तथैव च॥१४॥
फलकं भूर्जत्वगादि चिपिटकाष्ठं वा कौपीनरूपं कण्टकवस्त्रं शाल्मल्यादितूलजम् । कटकेति पाठे तृणमयः कटः कीटकावसनः पट्टसूत्रजवस्त्रः ॥१४॥
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्
।
भोजनानि विचित्राणि रत्नानि विविधानि च॥१५॥
एकरात्रान्तराशित्वमेककालिकभोजनम्
।
चतुर्थाष्टमकालश्च षष्ठकालिक एव च॥१६॥
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः
।
सप्तरात्रदशाहारो द्वादशाहिकभोजनः॥१७॥
दशाहारो दशाहाहारः एको हाकारो लुप्तः । दशाहेनाहारो यस्येत्यर्थः ॥१७॥
मासोपवासी मूलाशी फलाहारस्तथैव च
।
वायुभक्षोम्बुपिण्याकदधिगोमयभोजनः॥१८॥
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च
।
शैवालभोजनश्चैव तथा चाऽऽमेन वर्तयन्॥१९॥
आचामेन भक्तमण्डेन । 'मासराऽऽचामनिस्रावा मण्डे भक्तसमुद्भवे' इत्यमरः ॥१९॥
वर्तयन् शीर्णपर्णैश्च प्रकीर्णफलभोजनः
।
विविधानि च कृच्छ्राणि सेवते सिद्धिकांक्षया॥२०॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च
।
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि॥२१॥
उपाश्रमानप्यपरान्पाषण्डान्विविधानपि
।
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च॥२२॥
उपाश्रमान् पाशुपतपाञ्चरात्राद्युक्तदीक्षायोगान् ॥२२॥
पुलिनानि विविक्तानि विविक्तानि वनानि च
।
देवस्थानानि पुण्यानि विविक्तानि सरांसि च॥२३॥
विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः
।
विविक्तानि च जप्यानि व्रतानि विविधानि च॥२४॥
गृहेषु ये निभाः नितरां भान्ति ते दिव्यगृहोपमा इत्यर्थः ॥२४॥
नियमान्विविधांश्चापि विविधानि तपांसि च
।
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा॥२५॥
वणिक्पथं द्विजं क्षत्रं वैश्यशूद्रांस्तथैव च
।
दानं च विविधाकारं दीनान्धकृपणादिषु॥२६॥
अभिमन्यत्यसम्बोधात्तथैव त्रिविधान् गुणान्
।
सत्त्वं रजस्तमश्चैव धर्मार्थै काम एव च॥२७॥
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत
।
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः॥२८॥
प्रकृत्या उपकरणभूतया ॥२८॥
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्
।
यजनाध्ययने चैव यच्चान्यदपि किञ्चन॥२९॥
जन्ममृत्युविवादे च तथा विशसनेऽपि च
।
शुभाशुभमयं सर्वमेतदाहुः क्रियापथम्॥३०॥
विशसने संग्रामे ॥३०॥
प्रकृतिः कुरुते देवी भवं प्रलयमेव च
।
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते॥३१॥
भवं सृष्टिम् अभ्येत्य ग्रसित्वा ॥३१॥
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति
।
एवमेषोऽसकृत्पूर्वं क्रीडार्थमभिमन्यते॥३२॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्
।
एवमेतां विकुर्वाणः सर्गप्रलयधर्मिणीम्॥३३॥
आत्मरूपगुणान् आत्मनि कल्पितान् रूपं वयोवर्णाकृत्यादि गुणान् सत्त्वादीन् ॥३३॥
क्रियां क्रियापथे रक्तस्त्रिगुणां त्रिगुणाधिपः
।
क्रियां क्रियापथोपेतस्तथा तदिति मन्यते॥३४॥
क्रियापथे कर्ममार्गे क्रियां तथा तदिति मन्यते इदं कर्म एवंगणम् एवंफलमित्यावश्यकत्वेन मानयति ॥३४॥
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो
।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा॥३५॥
एवं द्वन्द्वान्यथैतानि समावर्तन्ति नित्यशः
।
ममैवैतानि जायन्ते धावन्ते तानि मामिति॥३६॥
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप
।
मन्यतेऽयं ह्यबुद्धत्वात्तथैव सुकृतान्यपि॥३७॥
भोक्तव्यानि मयैतानि देवलोकगतेन वै
।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्॥३८॥
सुखमेव तु कर्तव्यं सकृत्कृत्वा सुखं मम
।
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति॥३९॥
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्
।
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम्॥४०॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः
।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः॥४१॥
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति
।
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः॥४२॥
निरात्मा निःस्वरूपः चिदाभासविशिष्टो देहेन्द्रियादिसंघातः दृश्यत्वेन शुक्तिरजतादिवन्मिथ्यात्वात् आत्मगुणैः चेतनत्वसत्यत्वसुखत्वैः यथोक्तम् - आनन्दो विषयानुभवो नित्यत्वं चेति सति धर्माः अपृथक्त्वेऽपि च तेषां चैतन्यात्पृथगिवावभासन्त इति ॥४२॥
तेन देवमनुष्येषु निरये चोपपद्यते
।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते॥४३॥
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु
।
य एवं कुरुते कर्म शुभाशुभफलात्मकम्॥४४॥
स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान्
।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्
।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा॥४५॥
प्रकृतिरिति । यद्यपि स्त्रीपुंसाभ्यामपत्यमिव पुंप्रकृतिभ्यामेव सर्वं कार्यं क्रियते नान्यतरेण तथापि विवक्षितविवेके प्रकृतावेव कर्तृत्वं पर्यवस्यति । तस्याः सविकारत्वान्नतु पुंसि निर्विकारत्वादित्यर्थः ॥४५॥
तिर्यग्योनिमनुष्यत्वं देवलोके तथैव च
।
त्रीणि स्थानानि चैतानि जानीयात्प्रकृतानि ह॥४६॥
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे
।
तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते॥४७॥
अलिङ्गां नित्यानुमेयां न तु वह्निवत् कदाचित्प्रत्यक्षाम् । कथं तर्हि सा मन्यते दृष्टैर्लिङ्गैर्महदादिकार्यैस्तत्कारणभूतां ताम् अनुमिमीमहे पौरुषं लिङ्गं पुरुषस्यानुमापकं देहाद्यनुमतं चैतन्यं चिदाभासलिङ्गेन चितिरनुमीयते इत्यर्थः । इति मन्यते निरीश्वरः सांख्यो न तु तत्तथेति भावः । 'यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः' इति चितोऽव्यवहितापरोक्षत्वश्रुतिविरोधात् ॥४७॥
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्
।
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि मन्यते॥४८॥
स इति । अव्रणं प्राकृतं लिङ्गं निर्विकारं प्रकृतेरिदं लिङ्गं गमकं दृश्यायाः प्रकृतेः साधक इत्यर्थः । स लिङ्गान्तरं पुर्यष्टकं गर्भं प्राप्य क्षरणधर्मित्वाद्व्रणो लिङ्गं तस्य द्वाराणि श्रोत्रादीनि ॥४८॥
श्रोत्रादीनि तु सर्वाणि पञ्चकर्मेन्द्रियाण्यथ
।
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह॥४९॥
अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह
।
निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्वणः॥५०॥
निर्व्रणोऽपि व्रणवानस्मीति मन्यते ॥५०॥
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः
।
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः॥५१॥
अलिङ्गः लिङ्गादन्योऽपि लिङ्गं पुर्यष्टकं कालं मृत्युम् । मरणधर्माऽस्मीति मन्यते इत्यर्थः । सत्त्वं बुद्धिम् असत्त्वमवस्तु देहादिकम् आत्मनस्तत्त्वम् अनारोपितं रूपम् ॥५१॥
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः
।
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः॥५२॥
मृत्युं हन्तारं चरं चरत्वं सर्गं पुत्रादिम् आत्मसम्बन्धिनं मन्यते ॥५२॥
अतपास्तप आत्मानमगतिर्गतिमात्मनः
।
अभवो भवमात्मानमभयो भयमात्मनः॥५३॥
तपः तपस्विनं गतिम् उत्क्रान्तिगत्या गतिं भवं भववन्तं संसारिणम् ॥५३॥
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते॥५४॥
अबुद्धिः विपर्यस्तबुद्धिः ॥५४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादे त्र्यधिकत्रिशततमोऽध्यायः ॥३०३॥
जनक उवाच ।
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते
।
स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते॥१॥
तत्क्षयान्मोक्ष उच्यते इति प्रकृतिवियोगान्मोक्ष उक्तस्तं प्रकृतेः पुरुषतुल्यत्वेन निवृत्तिर्न संभवतीति आक्षिपति - अक्षरक्षरयोरिति ॥१॥
ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत
।
ऋते स्त्रियं न पुरुषो रूपं निवर्तयेत्तथा॥२॥
रूपम् आकृतिम् ॥२॥
अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात्
।
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु॥३॥
रत्यर्थमभिसम्बन्धादन्योन्यगुणसंश्रयात्
।
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम्॥४॥
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा
।
अस्थि स्नायुश्च मज्जा च जानीम: पितृतो गुणाः॥५॥
ये गुणा इति । द्रोणस्य मातुरभावेऽपि धृष्टद्युम्नस्य मातापित्रोर्द्वयोरप्यभावेऽपि त्वगस्थ्यादिदर्शनेन व्याप्तिव्यभिचारो न शङ्क्यः 'यज्ञाद्भवति पर्जन्यः' इति स्मृतेर्दम्पतीसाध्यस्य यज्ञस्य पर्जन्यादिद्वारा प्रजाहेतुत्वेन तत्राप्युभयसम्बन्धानपायात् । साधारणव्यवहारापेक्षया वा इयमुक्तिः ॥५॥
त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुम
।
एवमेतद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते॥६॥
प्रमाणं यत्स्ववेदोक्तं शास्त्रोक्तं यच्च पठ्यते
।
वेदशास्त्रद्वयं चैव प्रमाणं तत्सनातनम्॥७॥
यत् वेदे शास्त्रे च प्रमाणत्वेन पठ्यते तद्वेदशास्त्रं प्रमाणमित्यर्थः । तस्माद्यद्वेदेषूक्तं तद्विद्वांस उपजीवन्तीति । तस्माद्ब्राह्मणो नावैदिकमभिधीयेत इति मैत्रायणीये वेदस्य प्रामाण्यं तदन्यस्याप्रामाण्यं श्रूयते । तस्माच्छास्त्रं प्रमाणं त इति च । ननु वेदशास्त्रस्य प्रामाण्यं स्वोक्त्यैव चेत् शाक्यग्रंथानामपि तथैव प्रामाण्यं स्यादित्याशङ्क्याह - सनातनमिति । वेदस्य हि दृष्टकर्तृस्मरणाभावात् अपौरुषेयतया नित्यत्वेनाप्रामाण्यशंकानास्पदत्वमस्ति न तु संभवद्भमविप्रलंभानां शाक्यादिपुरुषाणां वाक्यस्येति भावः ॥७॥
अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात्
।
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ॥८॥
एवं शास्त्रस्य प्रामाण्यमुक्त्वा तदर्थं विध्याद्यधिकारिणं भट्टाभिमतं चिदचिदात्मकं कर्तारमाह - अन्योन्येति । पुंसा प्रकृतेर्जाड्यं रुद्धं दुःखं चाश्रितम् । तया चास्य आनन्दादिकं रुद्धं चैतन्यादिकं चाश्रितम् । फलितमाह - एवमिति । चिदाचिद्ग्रन्थेर्दृढत्वान्न मोक्षसंभावनाऽप्यस्तीति भावः ॥८॥
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते
।
अथवाऽनन्तरकृतं किञ्चिदेव निदर्शनम्
।
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा॥९॥
अनन्तरकृतं साक्षात्कृतम् । निदर्शनं मोक्षे दृष्टान्तम् । प्रत्यक्षः प्रत्यक्षदर्शी ॥९॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्
।
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम्॥१०॥
अनामयं निर्दुःखं यस्मात् अदेहम् 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतेः । अनीश्वरम् ईशादपि परमित्यर्थः ॥१०॥
वसिष्ठ उवाच ।
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्
।
एवमेतद्यथा चैतन्निगृह्णाति तथा भवान्॥११॥
वेदप्रामाण्यमभ्युपेत्यापि वेदार्थं चिदचितोस्त्रैकालिकं सम्बन्धं न जानासीत्याह - यदेतदित्यादिना ॥११॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः
।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर॥१२॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा॥१३॥
धारणं वृथेति । श्रुतिश्चात्र भवति - 'यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोऽस्ति । यदी शृঁणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थाम्' इति । षच सेवायां सेवाविदं सखायम् अन्तरात्मानं तित्याज त्यक्तवान् भागः फलांशोऽक्षरग्रहणजः यदीं यदेतत् अलकम् अलीकं वृथेत्यर्थः । सुकृतस्य ब्रह्मणः पन्थां पन्थानम् ॥१३॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा॥१४॥
भारमिति । श्रुतिश्च -
'स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्
।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा॥'
इति ॥१४॥
ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति
।
यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति॥१५॥
न यः संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्
।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्॥१६॥
संसत्पु विद्वत्सभासु ॥१६॥
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
।
सोपहासात्मतामेति यस्माच्चैवात्मवानपि॥१७॥
छिद्रात्मा ज्ञानरिक्तचित्तभाण्डः । सोपहासेति पादपूरणार्थः सन्धिः ॥१७॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते
।
याथातथ्ये सांख्येषु योगेषु च महात्मसु॥१८॥
महात्मसु आत्मवित्सु ॥१८॥
यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते
।
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्॥१९॥
यदेवेति । फलतः साधनतश्च सांख्ययोगयोरैक्ये सति व्यवहारोपपादने निस्तात्पर्ये तयोर्विरोधो दृश्यमानोऽप्यकिंचित्कर इति भावः ॥१९॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जा च स्नायु च
।
अथ चैन्द्रियकं तात तद्भवानिदमाह माम्॥२०॥
'अस्थि स्नायुश्च मज्जा च जानीमः पितृतो गुणाः
।
त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुम
।
'
इति । स्त्रीपुंसाभ्यामिव पुंप्रकृतिभ्यां शरीरं निर्वर्त्यत इत्युक्तं तदनुवदन्दृष्टान्तासिद्धिमाह - त्वगित्यादिना । ऐद्रियकम् इन्द्रियसमुदायश्चाधिकः ॥२०॥
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा
।
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च॥२१॥
सेन्द्रियकं धातुसप्तकं बीजाद्बीजान्तरमिव जायते । न ह्येकं कार्यं बीजद्वयोत्पत्तिकमिति दृष्टमस्तीत्याशयवानाह - द्रव्यादिति ॥२१॥
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः
।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः॥२२॥
दार्ष्टान्तिके पुंप्रकृत्योर्विषमस्वभावत्वात्सम्बन्धासंभवमाह - निरिन्द्रियस्येति । न तावत्पुंप्रकृत्योर्विषयविषयिभावलक्षणः सम्बन्धः । पुंसो निरिन्द्रियत्वात् प्रकृतेस्तुच्छत्वात् । नापि बीजाङ्कुरवज्जन्यजनकभावः केवलत्वेन पुंसो बीजशक्तिशून्यत्वात् प्रकृतेरकार्यत्वाच्च नापि कुलालघटवत् पुंसोऽद्वितीयत्वेन उपादानान्तराभावात् । तत्कल्पनेऽनवस्थापत्तेश्च नापि अयस्कान्तमणिलोहवत्तयोः सम्बन्धः उभयोरप्यमूर्तत्वात् मूर्तिमतोर्हि द्वयोरुभयकर्मजोऽन्यतरकर्मजो वा सम्बन्धो युज्यते न त्वमूर्तयोः । नास्ति देही प्रतिसम्बन्धी यस्येति न देही च समासद्वयेनार्थद्वयमुन्नेयम् । नापि पराभिमतः समवायस्तादात्म्यं वा निर्गुणे गुणसम्बन्धासंभवात् । न ह्यस्पर्शे नभसि शीतोष्णादिस्पर्शवत्त्वं वक्तुं शक्यमेवं निरिन्द्रयस्येत्यादि हेतुपञ्चकं पुंप्रकृत्योः सम्बन्धासंभवार्थमुक्तम् । वार्तिके तु -
'निःसंगस्य ससंगेन कूटस्थस्य विकारिणा
।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते
।
'
इत्येवोक्तम् । तत्रासंगत्वकूटस्थत्वे प्रसाध्ये निरिन्द्रियत्वादि हेतुचतुष्टयं तु बहुवादिसंमतमिति युक्ततरम् ॥२२॥
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च
।
एवं गुणा: प्रकृतितो जायन्ते निविशन्ति च॥२३॥
कथं तर्हि एषा सृष्टिरत आह - गुणा इति । गुणाः खादयः गुणेषु त्रिगुणात्मिकायां मायायाम् ॥२३॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै॥२४॥
कथमसहायायास्तस्या जगज्जनकत्वमित्याशङ्क्य दृष्टान्तेन साधयति - त्वगिति । यथा द्रोणशरीरे मातरं विनाऽपि एकेनैव शुक्रेण मेद आदिवत्त्वगादिकमपि जातम् । एवं एकयैव दर्पणवत्परप्रतिबिम्बग्रहणशीलया कृत्स्नो जगज्जीवात्मा प्रपञ्चो जायते इति श्लोकद्वयार्थः ॥२४॥
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्
।
न वापुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते॥२५॥
पुमान् अविद्यायामन्तःकरणे वा चित्प्रतिबिम्बो जीवः । अपुमान्वियदादिः त्रैलिङ्ग्यं त्रीणि आत्मनो लिङ्गानि गमकानि प्रमातृप्रमाणप्रमेयानि एतैर्हि लिङ्गैरेतेषां साधकश्चिदात्मा गम्यते । स्वार्थे ष्यञ् । पुमानपुमानिति आभासोपाध्योः पृथग्ग्रहणम् । त्रैलिङ्ग्ये तु तयोर्वैशिष्ट्यं विवक्षितम् । तथाहि अन्तःकरणविशिष्टम् आभासचैतन्यं प्रमाता अन्तःकरणवृत्तिविशिष्टं प्रमाणं घटाद्यवच्छिन्नं प्रमेयम् इति प्रसिद्धम् । ननु प्रमातुं योग्यतया घट एव प्रमेयं न तु घटावच्छिन्नमाभासचैतन्यं घटज्ञानाख्यम् । सत्यम् । प्रमाकरणप्रमाणस्य हि फलं प्रमेयम् । तच्चोक्तविधा प्रमैव । तत्सम्बन्धात्तु घटादिरपि प्रमेयम् । अतो मुख्यं प्रमेयं चैतन्यमेव । अज्ञानेन तस्यैवावृतत्वात् । जडे घटादौ आवरणकृत्याभावाच्च । घटाद्यनुभवस्यैव हि पुरुषार्थत्वमतस्तस्यैवावृतत्वमनावृतत्वं वा वाच्यं न घटादेरित्यास्तां तावत् । लिङ्गानां प्रमात्रादीनां प्राकृतत्वेऽपि लिङ्गी न प्राकृत इत्याह - न वेति । लिङ्गी पुमानिति अपुमानिति वा नाभिधीयत इति योजना । जीवजगतोरन्य इत्यर्थः ॥२५॥
अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः
।
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा॥२६॥
ननु सम्बन्धाभावे प्रकृतिपुरुषयोः कथं लिङ्गलिङ्गिभाव इत्याशङ्क्याह - अलिङ्गादिति । ल्यब्लोपे पञ्चमी । अलिङ्गं पुरुषं प्राप्य सा प्रकृतिरात्मजैर्लिङ्गैर्महदादिभिः कार्यैर्गमकैरुपालभ्यति उपलभ्यते अमूर्तयः ऋतवो यथा फलादिव तद्वच्चैतन्यप्रकाशितैर्महदादिभिस्तत्कारणभूता प्रकृतिरनुमीयते । आलोकप्रकाशितैः पुष्पादिभिरृतव इवेत्यर्थः । अलिङ्गेति पाठे स्पष्टोऽर्थः ॥२६॥
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते
।
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः॥२७॥
यथा प्रकृतितत्कार्ययोर्लिङ्गिलिङ्गभाव एवमात्मानात्मनोरपीत्याह - एवमिति । दृश्यप्रकाशनेन दृगात्मापि सूर्यवद्वृश्यादन्योऽनुमेय इत्यर्थः । अलिङ्गं शुद्धचिन्मात्रं लिङ्गीत्यर्थः । तदेव पञ्चविंशतितमः तकारलोप आर्षः । लिङ्गेषु नियतात्मक इति लिङ्गलिङ्गिनोर्व्याप्तिर्दर्शिता । ननु शब्दान्तरेण जडाजडयोरयं विषयविषयिभावसम्बन्ध एवोक्तः । न यो हि विषयी स विषयस्य शुभाशुभत्वाभ्यां हर्षविषादादिविकारवान् भवति न तु लिङ्गी । न ह्यालोकः प्रकाश्याभ्यां मेध्यामेध्यवस्तुभ्यां विक्रियत इति तयोर्महान् भेद इति भावः ॥२७॥
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः
।
केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते॥२८॥
अनादीत्यनेन अलिङ्गस्य प्रकाशस्य तार्किकाद्यभिमतमनित्यत्वं निरस्तम् । घटज्ञानं जातं पटज्ञानं नष्टमित्यनुभवस्य वृत्तिविषयत्वात् । अत एव मनोवृत्तिषु ह्रीर्धीर्भीरित्येतत्सर्वं मन एवेति धीशब्दितं वृत्तिज्ञानमपि पठ्यते । कालापरिच्छेदमुक्त्वा देशापरिच्छेदमाहानन्त इति । प्रकाशत्वादेव सर्वदर्शी निरामय इति स्वगतपरिच्छेदं गुणगुणिभावादिरूपं व्यावर्तयति । कथं तर्ह्यस्य गुणसम्बन्ध इत्यत आह - केवलमिति । वास्तवस्याभिमाननिमित्तस्याभावेऽपि शुक्तिरजते ममेदं रजतमित्यभिमानवत् गुणेषु देहाद्याकारेषु अहमिदं देहादीत्यभिमानित्वादयं गुणः देहादिसंघात एवात्मेत्युच्यते । एतेने लिङ्गलिङ्गिनोः सम्बन्धः केवलमाध्यासिक इति सिद्धम् ॥२८॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः
।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः॥२९॥
ननु निर्गुणमपि गुणादिकं गुणवता द्रव्येण सह सम्बध्यते एवं निर्गुणोऽप्यात्मा गुणवत्या प्रकृत्या संबध्यतामित्यत आह - गुणा इति । गुणाः संयोगादयः सम्बन्धा गुणवत एव सन्ति न त्वगुणस्य गुणिना सह संभवन्तीत्यर्थः । नन्वस्ति तादृशः समवायाख्यः सम्बन्ध इति चेत् । किम् आत्मनि प्रकृतेः समवाय उत विपरीतम् । नाद्यः । अनिर्मोक्षापत्तेः । न ह्याश्रयनाशमन्तरेणाश्रितनाशोऽस्ति । नान्त्यः । रूपादीनामाश्रयतः पृथगदर्शनेन प्रकृतिनाशे आत्मनोऽपि नाशापत्तेः । अथ कारणनाशेऽपि यथा कञ्चित्कालं कार्यमस्ति । यथा वा प्रलये सर्वव्यक्तिनाशेऽपि जातिरस्ति । एवं प्रकृतिनाशेऽप्यात्मा न नश्यतीति विवक्षेत कार्यकारणयोर्जातिव्यक्त्योर्वा वह्नौष्ण्यवद्वास्तवतादात्म्याभ्युपगमे ईदृग्विवक्षाया एवासिद्धेः । यया त्वनुपपत्त्या एवं विवक्ष्यते सैव तत्तादात्म्यस्य भ्रमत्वमाक्षिपतीति काणक्रमेलकस्त्वं न पश्यसीत्याश्चर्यम् । तादात्म्यस्य भ्रमत्वे तु उभयमप्युपपन्नम् । अविद्यानाशेऽपि तत्कार्यस्य देहादेः कञ्चित्कालमनुवृत्तिः संभवतीति जीवन्मुक्तिसिद्धिः । विदेहमुक्तौ च सदात्ममात्रावशेष इति । तस्माद्युक्तमुक्तं गुणा गुणवतः सन्तीति । तेन रज्जुः सर्पदण्डधाराऽभूच्छिद्राद्यात्मनेव सद्वस्तु घटपटनूतनपुराणातीतानागतश्वेतपीतशीतोष्णाद्यात्मना भाति । न तु क्वचित्किञ्चित्समवायसम्बन्धेनोत्पद्यते । समवायस्यैवानवस्थादोषेणाकरे निरस्तत्वादिति सिद्धम् । अत्र विद्वदनुभवं प्रमाणयति - तस्मादिति ॥२९॥
यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते
।
तदा स गुणहान्यै तं परमेवानुपश्यति॥३०॥
यदा त्वेष इति । अभिमन्यते हिनस्ति कामादीन् जयतीत्यर्थः । यदि वा एनमभिमंस्ये कनीयोन्नंकरिष्य इत्यभिपूर्वस्य मन्यतेर्हिंसार्थत्वदर्शनात् । यदाऽन्विष्येति गौडपाठे अन्विष्य श्रवणमननाभ्यामालोच्य अभिमन्यते जानातीत्यर्थः । गुणहान्या देहाद्यात्मत्वभ्रमत्यागेन ॥३०॥
यत्तद्बुद्धेः परं प्राहुः सांख्यायोगाश्च सर्वशः
।
बुद्ध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्॥३१॥
किं तत्परमित्यत आह - यत्तदिति । सर्वशः सर्वेऽपि तान्त्रिकाः । अबुद्धस्य जडस्याहङ्कारादेः परित्यागाद्बुध्यमानं न त्वहंतया इदंतया वा ॥३१॥
अप्रबुद्धमथाव्यक्तमगुणं प्राहुरीश्वरम्
।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च॥३२॥
अत एवाप्रबुद्धम् अज्ञातम् अगुणं गुणेभ्योऽन्यं निर्गुणं गुणसम्बन्धशून्यम् । ईश्वरम् अन्तर्यामिणम् । अधिष्ठातारं सर्वकार्यनिर्मातारम् ॥३२॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः
।
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः॥३३॥
गुणानां महदादीनां प्रकृतिं गुणांश्चापेक्ष्य पञ्चविंशकमित्यर्थः ॥३३॥
यदा प्रबुद्धा ह्यव्यक्तमवस्थाजन्मभीरवः
।
बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा॥३४॥
प्रबुद्धाः ज्ञानवन्तः अवस्थाः बाल्याद्या जाग्रदाद्याश्च बुद्ध्यमानं कर्तरि शानच् प्रमातारमेव प्रबुद्ध्यन्ति । प्रबोधेनैव च तं समं ब्रह्म गमयन्ति । प्रत्यगात्मैवाज्ञातो जीवो ज्ञोता ब्रह्मत्येर्थः । यथोक्तम् - 'अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः' इतिः । शममिति पाठेऽपि शमप्राप्यं ब्रह्मैव शमशब्दार्थः ॥३४॥
एतन्निदर्शनं सम्यगसम्यगनिदर्शनम्
।
बुध्यमाना प्रबुद्धानां पृथपृथगरिन्दम्॥३५॥
एतदिति । एतज्जीवेश्वरभेददर्शनं बुद्ध्यमानेन सम्यगिति पृथक् उक्तमित्युत्तरादपकृष्यते एतन्निदर्शनम् असम्यक् अनिर्दशनम् अशास्त्रम् । अनुदर्शनमिति पाठे अमुख्यं दर्शनम् इति पृथक् अप्रबुद्धेनोक्तमिति योजना ॥३५॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्
।
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते॥३६॥
एतत् क्षराक्षरनिदर्शनं जडाजडवस्तुतत्त्वप्रतिपादनपरं शास्त्रं परस्परेण स्वमतं सम्यक्परमसम्यगित्युक्तम् इति वादिनां विभ्रममुक्त्वा स्वसंमतं तत्त्वमाह - एकत्वमिति । एकत्वे हि विनाशहेतोर्द्वितीयस्याभावादक्षरत्वमविनाशित्वं युक्तम् । नानात्वं तु क्षरमेव । तथा च प्रयोगः - प्रधानाद्यनित्यं व्यावृत्तत्वात् घटादिवदिति ॥३६॥
पञ्चविंशतिनिष्ठोऽयं यदा सम्यक् प्रवर्तते
।
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्॥३७॥
एतच्चानुभववेद्यमित्याह - पञ्चविंशतीति । यदायं चिदाभाससहितेषु पञ्चविंशतितत्त्वेषु रज्जूरगकल्पेषु निष्ठां सम्यगवेक्षणं कर्तुं प्रवर्तते तदा तेषां बाधेन षड्विंशमात्मानं साक्षात्करोति । तदैव चैकत्वमेव शास्त्रं नानात्वमशास्त्रमिति निश्चिनोतीत्यर्थः तथाचात्मदर्शनफलं भिद्यन्ते सर्वसंशया इति श्रूयते ॥३७॥
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम्
।
पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः॥३८॥
ननु परे स्वशास्त्रमर्यादया योगेन आत्मानं जानन्तोऽपि कुत एवं न निश्चिन्वन्तीत्याशङ्क्याह - तत्त्वेति । तत्त्वं जन्यं निस्तत्त्वं तदन्यदजन्यम् । तनु विस्तारेऽस्मात्कृत्यार्थे तवैकेन्केन्यत्वन इति छान्दसस्त्वन् । निदर्शनम् अनुभवः येऽपि कर्तारमात्मानमाहुस्तेऽपि समाधौ बुद्ध्याद्यभावे आत्मनि कर्तृत्वं न पश्यन्तीति तत्र कर्तृत्वादिकं बुद्ध्यादियोगश्च दृश्यमानोऽपि कादाचित्कत्वाद्रज्जूरगवदसन्नेव । न हि धर्मान्निकृष्टो धर्मी क्वचित्केनचिदुपलब्धोऽस्ति । नहि दाहप्रकाशाभ्यां वियुक्तोऽपि वह्निर्गोचरीभवति । तस्मात्तेऽनुभवविरुद्धं वदन्तीति भ्रान्ता एवेति भावः । तत्त्वनिस्तत्त्वशब्दौ व्याचष्टे - पञ्चविंशतीति ॥३८॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्
।
सर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम्॥३९॥
पश्चविंशस्य पञ्चविंशात् परं निदर्शनम् अनुभूयमानान्निष्कृष्टम् अनुभवं निस्तत्त्वमाहुः तमेव विशिनष्टि सर्गस्य पञ्चविंशत्यात्मकस्य वर्गस्येति पाठेऽप्ययमेवार्थः । वर्गप्रतिवर्गमित्यध्याहृत्य योज्यम् । वर्ग्यमिति पाठे वर्गं वर्गमर्हतीति वर्ग्यम् आचारम् । आसमन्ताच्चार उपलब्धिः दृश्यस्य प्रतिविषयनियताया उपलब्धिः स षड्विंश इत्यर्थः तत्र वर्गाः पञ्च । यथा पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चभूतानि पञ्च शब्दाद्या विषयाः मनोबुद्ध्यहङ्कारप्रकृतिचिदाभासा इति पञ्च प्रत्यञ्चः तत्त्वं तस्य भावस्तत्त्वं यथार्थं सत्यमिति यावत् सत्यादपि सत्यमित्यर्थः । तथा च श्रुतिः - ’प्राणा वै सत्यं तेषामेष सत्यं सत्यस्य सत्यमनु यत्र युज्यते।' इत्यादि प्राणशब्दितस्य कृत्स्नप्रपञ्चस्य व्यवहारतः सत्यस्य पारमार्थिकं सत्यं ब्रह्म प्रतिभासतः सत्यस्य रजतस्य शुक्तिरिवेतिप्रतिपादयति । यतस्तत्त्वादपि तत्त्वम् अत एव सनातनं सर्वदैकरूपं न तु कदाचित्सत्यं कदाचिदसत्यमित्यर्थः ॥३९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादेपञ्चाधिकत्रिशततमोऽध्यायः ॥३०५॥
जनक उवाच ।
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम
।
पश्याम्येतद्धि संदिग्धमेतयोर्वे निदर्शनम्॥१॥
यदुक्तमेकत्वमक्षरं नानात्वं क्षरमिति तत्रैकत्वे बन्धमोक्षव्यवस्थानुपपत्तिः । नानात्वे त्वात्मनाशप्रसंग इति एतयोः पक्षयोर्निदर्शनं तत्त्वावधारणं संदिग्धम् ॥१॥
तथा बुद्धप्रबुद्धाभ्यां बुद्ध्यमानस्य चानघ
।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः॥२॥
यदुक्तं पञ्चविंशतिनिष्ठानुभवबलेनैव तत्त्वं निश्चिनोतीति तत्राह - तथेति । अबुद्धेति च्छेदः । बुध्यमानस्यात्मवस्तुनस्तत्त्वं न पश्यामीत्यत्र न संशय इति योजना । अनुभवस्य दुःसाध्यत्वान्न संदेहनिवर्तकत्वमतो युक्त्यैव तत्त्वं त्वया उपपादनीयमिति भावः ॥२॥
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम्
।
तदप्यस्थिरबुद्धित्वात्प्रणष्टमिव मेऽनघ॥३॥
यच्च अक्षरत्वकारणम् एकत्वं क्षरत्वकारणं च नानात्वमुक्तं तदपि अस्थिरबुद्धित्वाद्विकल्पग्रस्तत्वात् । तत्रैकत्वं त्रिविधभेदशून्यत्वं चेत् हेतोः खरूपासिद्धिः । न हि क्वचिदीदृशमेकत्वं प्रसिद्धमस्ति एकव्यक्तिमात्रत्वं चेत् । आकाशस्याप्यक्षरत्वापत्तिस्तथा च सांख्यशास्त्रविरोधः । नानात्वमपि संहतत्वं चेत् । प्रधानपरमाण्वादीनामपि क्षरत्वापत्तिः । भिन्नत्वमात्रं चेत्सांख्यात्मनामपि क्षरत्वापत्तिरिति तथा चात्र न मम तत्त्वावधारणे सामर्थ्यमस्तीति भावः ॥३॥
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्
।
बुद्धं चाप्रतिबुद्धं च बुध्यमानं च तत्त्वतः॥४॥
तत्तस्माद्धेतोः बुद्धं ज्ञम् अप्रतिबुद्धं प्रधानादि बुध्यमानं चिदचिदात्मानं जीवम् ॥४॥
विद्याविद्ये च भगवान्नक्षरं क्षरमेव च
।
साङ्ख्यं योगं च कार्स्न्येन पृथक्चैवापृथक्च ह॥५॥
विद्या ज्ञाधिगमः अविद्या ज्ञावरणम् अक्षरं नित्यं क्षरमनित्यं सांख्यं वस्तुतत्त्वविवेकः । योगश्चित्तवृत्तिनिरोधः पृथक् भेदः अपृथगभेदः भेदाभेदश्च नानात्वैकत्वदर्शनमित्यनेन प्रथममुक्तः ॥५॥
वसिष्ठ उवाच ।
हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि
।
योगकृत्यं महाराज पृथगेव शृणुष्व मे॥६॥
हन्तेत्यालोचने प्रधानभूतयोः सांख्ययोगयोरेव निरूपणप्रसंगात् प्रश्नान्तराणामप्युत्तरं निरूपितं भवतीत्याशयेनाह - योगेति ॥६॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम्
।
तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः॥७॥
योगानां योगिनां योगे योगशास्त्रे कृत्यं कर्तव्यमावश्यकम् । ध्यानमेव परं बलम् अविद्याजये सामर्थ्यम् । ध्यानमपि द्विविधं भावनाप्रणिधानभेदेन द्विप्रकारम् । विविधमिति पाठेऽप्ययमेवार्थः ॥७॥
एकाग्रता च मनसः प्राणायामस्तथैव च
।
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा॥८॥
तत्र ध्यानस्य साधारणं लक्षणं मनस एकाग्रतेति । तथा प्राणायामोऽपि योगिनां योगकृत्यं बलम् । तस्य द्वैविध्यमाह - सगुणः सगर्भः निर्गुणो निर्गर्भः तयोर्मनसः सम्बन्धी प्रथमः मानस इति स्पष्टार्थः पाठः । तत्र भावना वस्तुतत्त्वनिरपेक्षा यथा योषितमग्निं ध्यायीतेत्यनग्नौ योषायामग्निदृष्टिकरणं यथा वाऽसतोऽपि कामिन्यादेर्विषयस्य भावनं तत्फलं चानित्यम् । यथोक्तम् -
'भावनाजं फलं यच्च यच्च स्यात्कर्मणः फलम्
।
न तत्स्थास्न्विति मन्तव्यं पण्यस्त्रीसंगतं यथा॥'
इति ॥ एवं साम्बपीताम्बरादिमूर्तिभावनयाऽपि कीटभृङ्गन्यायेन प्राप्यं तत्सारूप्यमप्यस्थायीति ज्ञेयम् । प्रणिधानं तु वस्तुतत्त्वसापेक्षम् । यथा चक्षुषा रत्नगतसूक्ष्मविशेषे स्वेनागृहीते परेणोपदिष्टे सति तद्ग्रहणाय तस्यैव चक्षुषः प्रणिधानं तत्रैव विषयेऽत्यादरेण नियोजनं क्रियते । तथा मनसा गृह्यमाणे प्रतीचि श्रुत्या निर्विशेषचिन्मात्रोऽसीत्युपदिष्टे सति तङ्ग्रहणाय तस्यैव मनसो गुरुक्तत्युक्त्या प्रणिधाने प्रवर्तते तद्बलाच्च तावुभौ वस्तुत्तत्त्वमवगच्छतः । तत्रापि भावनायां फलभेदो दक्षेण सूचितः -
'चतुर्णां सन्निधानेन यत्फलं तदशाश्वतम्
।
द्वयोस्तु सन्निधानेन शाश्वतं प्राप्यते फलम्॥'
इति ॥ चतुर्णाम् आत्ममनःशरीरविषयाणाम् । द्वयोरात्ममनसोः देहसंगेन सांवादीन् भावयन् पुनरावर्तते देहासंगेन भावयंस्तु ध्येयसारूप्यं प्राप्य क्रमेण कैवल्यं प्राप्नोति उभयथाऽपि भावनाफलस्यास्थायित्वमुक्तमिति नोदाहृतं वार्तिकं विरुध्यते । प्राणायामोऽपि वायुसंहितायामुक्तः -
'जपध्यानं विनाऽगर्भः सगर्भस्तत्समन्वयात्
।
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः
।
'
जपो मनसा प्रसख्यानं नन्दिपुराणे -
'जाप्येन तु जपं कुर्यादविलम्बितमद्रुतम्
।
मनसैव प्रसंख्यानं प्राणायामविधौ सदा' ॥
जाप्येन प्रणवगायत्र्यादिना मन्त्रेण मानसो जप इति सगुणस्यैव प्राणायामस्य मानस इति विशेषणं युज्यते न त्वगुणस्य । विस्तरस्तु योगचिन्तामणिप्रभृतिषु संग्रहग्रन्थेषु द्रष्टव्यः ॥८॥
मूत्रोत्सर्गपुरीषे च भोजने च नराधिप
।
त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः॥९॥
शेषं कालम् । अत्यन्तसंयोगे द्वितीया । मूत्रादिव्यतिरिक्ते सर्वस्मिन्काले योगमनुतिष्ठेदित्यर्थः ॥९॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा शुचिः
।
दशद्वादशभिर्वापि चतुर्विंशात् परं ततः॥१०॥
तत्र योगाङ्गेषु प्राणायाम उक्तस्तेनैव ततः प्राचीनानि यमनियमासनान्याक्षिप्तानि । अथ प्रत्याहारमाह - इन्द्रियाणीति । इन्द्रियार्थेभ्यः शब्दादिभ्यः मनसा निवर्त्येति मुख्यं प्रत्याहारं 'त्रिरुन्नतं प्राप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निरुध्य' इति श्रुत्युक्तमुक्त्वा हठसाध्यं प्रत्याहारादिकमाह - दशेति । दशयुक्ताभिर्द्वादशभिर्द्वाविंशतिसंख्याभिः संचोदनाभिश्चित्ताश्वस्य प्रतोदस्थानीयाभिः प्रेरणाभिर्मतिमानात्मानं जीवं चतुर्विंशादज्ञानात् प्रकृतिसंज्ञात्परं पञ्चविंशं प्रतिगन्तुं चोदयेत्प्रेरयेत् । तत्राष्टादशसु स्थानेषु वायोः प्रत्याहरणं याज्ञवल्क्येनोक्तम् -
'अष्टादशसु यद्वायोर्मर्मस्थानेषु धारणम्
।
स्थानात्स्थानात्समाकृष्य प्रत्याहारो निगद्यते' ॥
इत्युपक्रम्य मर्मस्थानानि तेषामन्तरं चोक्त्वाह -
'संपूर्य कुंभवद्वायुमंगुष्ठान्मूर्ध्नि मध्यतः
।
धारयत्यनिलं बुद्ध्या प्राणायामः प्रचोदितः ॥
व्योमरन्ध्रात्समाकृष्य ललाटे धारयेत्पुनः
।
ललाटाद्वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ॥
भ्रूमध्याद्वायुमाकृष्य नेत्रस्थाने निरोधयेत्
।
नेत्राद्वायुं समाकृष्य नासामूले निरोधयेत् ॥
नासामूलात्तु जिह्वाया मूले प्राणं निरोधयेत्
।
जिह्वामूलात्कंठकूपे ततो वायुं निरोधयेत् ॥
कंठकूपात्तु हृन्मध्ये हृन्मध्यान्नाभिमध्यमे
।
नाभिमध्यात्पुनर्मेढ्रे मेढ्राद्वह्न्यालये ततः ॥
देहमध्याद्गुदे गार्गि गुदाद्वै ऊरुमूलके
।
ऊरुमध्यात्तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत् ॥
चितिमूले ततस्तस्माज्जंघयोर्मध्यमे तथा
।
जंघां ततः समाकृष्य वायुं गुल्फे निरोधयेत् ॥
गुल्फादंगुष्ठयोर्गार्गि पादयोस्तं निरोधयेत्
।
स्थानात्स्थानं समाकृष्य यस्त्वेवं धारयेद्धिया ॥
सर्वपापविशुद्धात्मा जीवेदाचंद्रतारकम्
।
एतत्तु योगसिद्ध्यर्थमगस्त्येनापि कार्तितम् ॥
प्रत्याहारेषु सर्वेषु प्रशस्तमिति योगिभिः
।
'
इति । एवमष्टादशप्रत्याहारचोदनाः धारणाध्यानसमाधिसंज्ञास्तिस्त्रः ततः सत्त्वपुरुषान्यताख्यातिसंज्ञा द्वाविंशी चोदना । ततोऽपि संप्रेरितो जीवो नदीसमुद्रन्यायेन निर्विशेषचिन्मात्रतां प्रतिपद्यते सार्धः ॥१०॥
सञ्चोदनाभिर्मतिमानात्मानं चोदयेदथ
।
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः॥११॥
तं योगिनं तिष्ठन्तं जीवन्मुक्तम् अजरं जराहीनं मनीषिभिर्योगिभिर्यत् यस्मात्तच्छब्देनोक्तम् - 'तदिति वा एतस्य महतो भूतस्य नाम भवति' इति श्रुतेर्ब्रह्मत्वेन निर्दिष्टमतस्तद्भावापत्तये आत्मानं प्रत्यञ्चं नरः चतुर्विंशात्पत्रं प्रति गन्तुं चोदयेदिति पूर्वेण सम्बन्धः ॥११॥
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम
।
व्रतं ह्यहीनमनसो नान्यथेति विनिश्चयः॥१२॥
तैर्द्वाविंशत्या प्रेरणैः अहीनं कामादिभिरनास्कन्दितं मनो यस्य तस्यैव व्रतं योगाख्यं योग्यमिति शेषः ॥१२॥
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः
।
पूर्वरात्रे पररात्रे धारयीत मनोऽऽत्मनि॥१३॥
संगेभ्यः अहङ्कर्तृत्वाद्यभिमानेभ्यः स्त्र्यादिभ्यो वा ॥१३॥
स्थिरीकृत्येन्द्रियग्राम मनसा मिथिलेश्वर
।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः॥१४॥
पाषाणस्थाणुगिरिदृष्टान्ता निश्चलत्वोत्कर्षार्थाः ॥१४॥
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः
।
बुद्ध्या विधिविधानज्ञास्तदा युक्तं प्रचक्षते॥१५॥
विधेः शास्त्रस्य विधानं तात्पर्यं तज्जानन्तो विधिविधानज्ञाः बुद्ध्या स्वानुभवेनैव तदा आत्मप्राप्त्यवस्थायां युक्तं योगिनं प्रचक्षते न शृणोतीत्यादिना तदनुभवं वर्णयन्तीत्यर्थः ॥१५॥
न शृणोति न चाघ्राति न रंस्यति न पश्यति
।
न च स्पर्शं विजानाति न संकल्पयते मनः॥१६॥
न चाभिमन्यते किंचिन्न न बुध्यति काष्ठवत्
।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः॥१७॥
प्रकृतिं स्वस्य शुद्धं स्वरूपम् ॥१७॥
निर्वाते हि यथा दीप्यन्दीपस्तद्वत्प्रकाशते
।
निर्लिङ्गोऽविचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात्॥१८॥
निर्लिङ्गो बुद्ध्यादिहीनः । अविचलो व्यापकत्वात् ऊर्ध्वं तिर्यगधो वा गतिं न प्राप्नुयात् तथा च श्रुतिः - 'न तस्य प्राणा उक्त्रामन्त्यत्रैव समवनीयन्ते' इति ॥१८॥
तदा तमनुपश्येत यस्मिन्दृष्टे न कथ्यते
।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥१९॥
तदेति । अन्तरात्मा अन्तर्यामी ईश्वरो हृदयस्थः अहमेव ब्रह्मेति यदा कथ्यतेऽनुभवबलात्तदैवात्मानमनुपश्यतेति ज्ञेयम् । नान्यथा त्वंपदार्थमात्रसाक्षात्कारेणात्मदर्शी भवतीत्यर्थः । न कथ्यत इति पाठे ज्ञो ज्ञेय इति यदा न कथ्यते सर्ववृत्तिनिरोधादात्मनश्च प्रत्यक्त्वेनाज्ञेयत्वात्तदात्मज्ञ इत्युच्यत इत्यर्थः । तथा च श्रुतिः - ’यदि मन्यसे सुवेदेति दहमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्' इति । सुवेद सम्यग्जानामि दहमल्पम् ।
'यस्यामतं तस्य मतं मतं यस्य न वेद सः
।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥
इति च ॥१९॥
विधूम इव सप्तार्चिरादित्य इव रश्मिमान्
।
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि॥२०॥
विधूम इत्यादिना शुद्धप्रकाशात्मत्वमुक्तम् ॥२०॥
ये पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः
।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम्॥२१॥
ब्रह्मयोनिस्था ब्रह्मावगमहेतुशास्त्रनिष्ठाः ॥२१॥
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्
।
तत्तत्त्वं सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते॥२२॥
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्
।
महतस्तमसस्तात पारे तिष्ठन्न तामसः॥२३॥
न दृश्यते चेत्कुतस्तदुपलब्धिरित्यत आह - बुद्धीति । बुद्धिद्रव्येण धीधनेन पुंसा अतामसः ईश्वरात्परः ॥२३॥
स तमोनुद इत्युक्तः सर्वज्ञैर्वेदपारगैः
।
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः॥२४॥
स ज्ञातः संस्तमोनुदः संसारच्छित् निर्लिङ्गः सूत्रात्मनोऽप्यन्यः । अलिङ्गेति च्छेदः । नास्ति लिङ्गं गमकं यस्य वाङ्मनसातीतत्वात् । निरुपाधिब्रह्मसंज्ञित इत्यर्थः ॥२४॥
योग एष हि योगानां किमन्यद्योगलक्षणम्
।
एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम्॥२५॥
योगमुपसंहरति - योग एष इति । पश्यं द्रष्टारं प्रपश्यन्ति योगा इति शेषः ॥२५॥
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया
।
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानदर्शनम्॥२६॥
परिसंख्यानं परिवर्जनं रज्जूरगवत् । उत्तरोत्तरस्य कार्यस्य पूर्वस्मिन् पूर्वस्मिन्प्रविलापनं तेन दर्शनं साक्षात्कारो यस्मिंस्तत्तथा ॥२६॥
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः
।
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम॥२७॥
एतदेवाहा - व्यक्तमिति षड्भिः । परां प्रथमां न तु अविकृतिम् ॥२७॥
अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम्
।
पञ्चभूतान्यहङ्कारादाहुः सांख्यात्मदर्शिनः॥२८॥
पञ्चभूतानि सूक्ष्माणि पञ्चतन्मात्राख्यानि ॥२८॥
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश
।
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च॥२९॥
एता अव्यक्ताद्याः प्रकृतयो विकृतयश्च षोडशविकारा एव न प्रकृतयः ते च एकादशेन्द्रियाणि स्थूलभूतानि च एतेषु पञ्च वियदादयो विशेषसंज्ञाः । शेषा एकादश तानीन्द्रियाणि तेषां विशेषणं पञ्चेति पञ्चयन्ति व्यक्तीकुर्वन्ति स्वं स्वं विषयं शब्दवचनादिकमिति पञ्चानि तानीन्द्रियाणि चेति कर्मधारयः ॥२९॥
एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः
।
सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः॥३०॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते
।
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना॥३१॥
एतेषां प्रविलापनमाह - यस्मादिति । अन्तरात्मना सृज्यन्ते न तु निरीश्वरसांख्याभिमतया प्रकृत्या ॥३१॥
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः
।
गुणा गुणेषु सततं सागरस्योर्मयो यथा॥३२॥
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम
।
एकत्वं प्रलये चास्य बहुत्वं च यदाऽसृजत्॥३३॥
प्रकृतेरिति कर्मणि षष्ठी । एवं प्रकृत्यादिकमुत्पद्यते प्रलीयते चेत्यर्थः । तथा च प्रकृतेरप्युत्पत्तिप्रलयौ वक्ष्यति - 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम्' इति । 'अव्यक्तं पुरुषे ब्रह्मन्निष्कले संप्रलीयते' इति च ॥ एवं सांख्यमुक्त्वा नानात्वैकत्वे विभजते - एकत्वमिति । प्रतिलोमक्रमेण प्रकृतेरपि पुरुषे प्रलये सति मोक्षे असंप्रज्ञाते च एकत्वम् अस्य पुरुषस्य भवति सृष्टिकाले तु नानात्वमित्यर्थः ॥३३॥
एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः
।
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम्॥३४॥
नन्वेवं सृष्टिकाले नानात्वप्रापकशक्तिमतः कथमेकत्वमत आह - अधिष्ठातारमिति । अव्यक्तमव्याकृतमविद्या मायेति पर्यायाः । अव्यक्तमेव पुरुषं नानात्वं नयति । तथा च श्रुतिः - 'मायया ह्यन्यदिव' इति । 'इन्द्रो मायाभिः पुरुरूप ईयते' इति च । न हि तुच्छया मायया पुंसः सद्वितीयत्वमस्ति रज्ज्वा इव कल्पितभुजङ्गेन । 'तुच्छ्येनाभ्वपिहितं यदासीत्तमसस्तन्महिना जायतैकम्' इति श्रुतेः । आभु ब्रह्म तमसः अज्ञानस्य महिना माहात्म्येन एकमपि अजायत प्रपञ्चात्मना आविर्बभूवेत्यर्थः । अस्य व्यक्तस्यापि एतत् एकत्वं नानात्वं च सुप्तिप्रलययोरेकत्वं सृष्टिकाले नानात्वं चेति निदर्शनं दृष्टान्तः पृथिव्यादिष्वप्येवमेव द्रष्टव्यम् ॥३४॥
एकत्वं च बहुत्वं च प्रकृतेरर्थतत्त्ववान्
।
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्॥३५॥
अर्थतत्त्ववान् अर्थतत्त्वं सम्यगधिगतवान्यः सजानीयादिति शेषः । नन्वेवमव्यक्तस्याधिष्ठातृत्वे जितं निरीश्वरसांख्यैरित्याशङ्क्याह - एकत्वमिति । प्रलये मोक्षे अयस्कान्तवत्स्वरूपसत्तामात्रेणायं प्रकृतिं प्रवर्तयन् तां बहुधा प्रकरोति अतश्चिदात्मैव मुख्योऽधिष्ठाता प्रकृतेस्तु गौणमधिष्ठातृत्वं स्वकार्यविषयमिति भावः सार्धः ॥३५॥
बहुधाऽऽत्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्
।
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति॥३६॥
एतदेवाह - तच्चेति । तत्प्रकृतिविकृत्यात्मकम् ॥३६॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः
।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्॥३७॥
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते
।
अव्यक्तिके प्रविशते पुरुषश्चेति कथ्यते॥३८॥
पुंसो नामानि निर्वक्ति - अव्यक्तिके अधिष्ठानादिति आविद्यके क्षेत्र पुर्यष्टके अत्रोक्तं कतके -
'सूर्यकान्तमुपारुह्य सूर्य एव तृणं दहेत्
।
न त्वश्मा पार्थिवस्तं च न्यायं चित्तमसोर्दिशेत्॥'
इति ॥ यथा स्वरूपसत्तामात्रेण तृणं प्रकाशयतः सूर्यस्य सूर्यकान्तद्वारा तृणदग्द्धृत्वं तृणे प्रवेशश्च न तु व्यापाराविष्टस्य एवं पुंसोऽप्यव्यक्तद्वारा सर्वकार्याधिष्ठातृत्वं तत्तप्रकाशत्वं च न तु कुलालवदधिष्ठातृत्वम् । नापि बुद्धिवदिन्द्रियव्यापाराधीनप्रकाशकत्वं नापि कुण्डबदरन्यायेन प्रविष्टत्वं किंतु वह्निकाष्ठन्यायेनाभिव्यक्तत्वमात्रमिति भावः ॥३८॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते
।
क्षेत्रमव्यक्तमित्युक्तं ज्ञातारं पञ्चविंशकम्॥३९॥
नामनिरुक्तेः फलं पुंप्रकृत्योर्विवेकमाह - अन्यदेवेति । एवमधिष्ठातुरन्यदधिष्ठेयं प्रवेष्टुरन्यत्प्रवेशायतनमित्यपि द्रष्टव्यम् ॥३९॥
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते
।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः॥४०॥
ज्ञानं प्रमाणजन्या वृत्तिः । ज्ञेयं प्रमारूपं फलम् । फलकरणयोश्छिदापरश्वोर्भेदस्य स्पष्टत्वात् । ज्ञानज्ञेयपदे व्याचष्टे - ज्ञानमिति ॥४०॥
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरः
।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम्॥४१॥
अधिष्ठातारमव्यक्तमित्यत्रोक्तमव्यक्तपदं व्याचष्टे - अव्यक्तमिति । सत्त्वं बुद्धिः क्षेत्रसत्त्वेश्वरशब्दाः पर्याया इत्यर्थः । ततश्च किमत आह - अनीश्वरमिति । ईश्वरादिपदोपात्ताद्दृश्यादन्यत् । तच्छब्दः परोक्षवाची । नास्ति तत्त्वं परोक्षत्वं यस्य तदतत्त्वं नित्यापरोक्षं द्रष्टुः स्वरूपं तदेव पञ्चविंशतेः पूरणं तत्त्वम् अनारोपितं रूपम् । अन्यत् सर्वमीश्वरादिकं दृश्यमारोपितमित्यर्थः । अतोऽन्यदार्तम् इति श्रुतेः ॥४१॥
सांख्यदर्शनमेतावत्परिसंख्यानुदर्शनम्
।
सांख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते॥४२॥
उपसंहरति - सांख्येति । सांख्याः परिसंख्यानुदर्शनं प्रकुर्वते प्रकृतिं मायां च प्रचक्षते जगत्कारणत्वेन वदन्तीति सम्बन्धः । परिसंख्या स्थूलसूक्ष्मक्रमेण चिदात्मनि प्रपञ्चप्रविलापनं तामनुदर्शनं साक्षात्कारं संपादयन्तीत्यर्थः ॥४२॥
तत्त्वानि च चतुर्विंशत्परिसंख्याय तत्त्वतः
।
सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः॥४३॥
प्रविलाप्यान्याह - तत्त्वानीति । प्रकृत्या सह चतुर्विंशत् चतुर्विंशतिस्तत्त्वानि परिसंख्यायेति योजना । निस्तत्त्वः निर्गतं तत्त्वं परोक्षत्वं यस्मात् यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुतेर्नित्यापरोक्ष इत्यर्थः ॥४३॥
पञ्चविंशोऽप्रकृत्यात्मा बुध्यमान इति स्मृतः
।
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः॥४४॥
अप्रकृत्यात्मा प्रकृतितो निष्कृष्टः बुद्ध्यमानः कर्तरि शानच् जीव एव प्रकृतित्यागात्केवलो भवति एतेन अबुद्धं प्रकृतिः बुध्यमानो जीवः प्रबुद्धः केवल इति प्रश्नत्रयस्योत्तरं संक्षिप्योक्तम् ॥४४॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः
।
एवमेतद्विजानन्तः साम्यतां प्रति यान्त्युत॥४५॥
समं ब्रह्म तस्य भावः साम्यं तस्यापि भावः साम्यता सा च ब्रह्मैव 'ब्रह्मविद्ब्रह्मैव भवति' इति श्रुतेः ॥४५॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा
।
गुणतत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत्॥४६॥
प्रकृतेर्ब्रह्मणो ब्रह्मदर्शनमेव सम्यग्दर्शनम् । नाम न त्वब्रह्मदर्शनं रज्जूरगदर्शनवद्भ्रान्तत्वात्तस्य न हि रज्जुं भुजङ्गत्वेन पश्यन्सम्यग्दर्शी भवति किंतु रज्जुत्वेनैव पश्यन् । एवं ब्रह्मण्यध्यस्तमहङ्कारादिकं पश्यन्न सम्यग्दर्शी अधिष्ठानं तु पश्यन् सम्यग्दर्शीत्यर्थः तथाशब्दः पादपूरणार्थः । यद्वा यथैतत्तथा श्रूयते इत्यध्याहृत्य श्रुत्यन्तरप्रदर्शनार्थः यथा दाशतय्यायाम्नायते -
परा पूर्वेषां संख्या वृणक्ति वितर्तुराणो अपरेभिरेति
।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति' ॥
अस्यार्थः - पूर्वेषाम् । देवानां स्वाभाविकानां कामक्रोधादीनां सख्या । सख्यानि सुपां सुलुगिति सुपो डा - परावृणक्ति । परिवर्जयति व्यवहिताश्च इति च्छन्दसि व्यवहितक्रिययाऽप्युपसर्गसम्बन्धस्मृतेः - वितर्तुराणः । अतिशयेन कालं तरतीति तर्तुराणः यङ्लुगन्तात्तरतेस्ताच्छीलिकश्चानश्, उदोष्ठ्यपूर्वस्येत्यस्मादुदित्यनुवर्तमाने बहुलं छन्दसीत्युत्वं रपरत्वम् । अभ्यासगुणे रेफलोपाभावादिः छान्दसः अभ्यस्तानामादिरित्याद्युदात्तत्वे गतिकारकोपपदात्कृदिति प्रकृतिस्वरः । अपरेभिः । शास्त्रीयैः शमदमादिभिः सख्यानि एति प्राप्नोति मुक्तिकामः कामादीन् जित्वा शमादीनाश्रयेदित्यर्थः - अनानुभूतिः । अननुभवान् अनन्वित्यस्य मध्यममिति प्रातिशाख्यसूत्राद्दीर्घमध्यत्वम् । रज्जूरगज्ञानतुल्यानि भ्रान्तिज्ञानानि अवधून्वानः कल्पितं देहादितादात्म्यं प्रविलापयन् पूर्वीरनादिं शरदः कालं तर्तरीति । बलेन तरतीति अस्यामृचि प्रपञ्चदर्शनमानुभूतिशब्देनोक्तम् अत आत्मदर्शनमेव सम्यग्दर्शनमितरदर्शनं भ्रान्तिदर्शनमिति सिद्धम् । सम्यग्दर्शनविषयस्य प्रत्यगात्मरूपस्याधिष्ठानस्य शून्यतां वारयन् सम्यग्दर्शनस्य नष्टवनितासाक्षात्कारतुल्यतां निरस्यति - गुणतत्त्वादिति । निर्गुणेभ्यः पुरुषेभ्योऽन्यानि यथा एतानि महदादीनि गुणतत्त्वात् गुणानां तत्त्वं ताद्भाव्यं गुणत्वादृश्यत्वादिति यावत् । यथैतानि व्यावहारिकप्रमारूपत्वेनाभ्रान्तानि प्रत्यक्षाणि एवं निर्गुणानां पुंसामपि अभ्रान्तं प्रत्यक्षं भवेदित्यर्थः । निर्गुणेभ्य इति बहुत्वं भूतपूर्वगत्या प्रमातृभेदाभिप्रायं तस्माद्यथावस्त्वेवात्मज्ञानं न भावनादिजन्यं नष्टवनिताज्ञानवदिति सिद्धम् ॥४६॥
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः
।
विद्यतेऽक्षरभावत्वादपरं परमव्ययम्॥४७॥
आत्मज्ञानफलमाह - न त्विति । विगतदेहानां मुक्तानां पुनरावृत्तिर्न विद्यते सदेहानां तु अपरं सत्यकामत्वसत्यसङ्कल्पत्वाद्यैश्वर्यपरं च समाधिकाले निरुपाधिसुखम् अव्ययं विद्यते । तत्र हेतुः - अक्षरभावत्वादिति । साम्यतापदव्याख्यातरीत्या भावशब्देन भावप्रत्ययेन चाक्षरमात्रं ग्राह्यम् । यतो ब्रह्मविदक्षरमेव भवति अतः अक्षरधर्माणाम् 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम्' इत्यादिश्रुतिप्रसिद्धानां प्रशासितृत्वास्थूलत्वादीनां तत्र सम्बन्धो युज्यत एवेत्यर्थः । तथा च प्रागेवोदाहृतं
'सोपाधिर्निरुपाधिश्च द्वेधा ब्रह्मविदुच्यते
।
सोपाधिकः स्यात्सर्वात्मा निरुपाख्योऽनुपाधिकः
।
जक्षत्क्रीडन्रतिं प्राप्त इति सोपाधिकस्य तु ॥
छांदोग्ये सर्वकामाप्तिः सार्वात्म्यात्स्पष्टमीरिता
।
अहमन्नं तथान्नादः श्लोककार्यप्यहो अहम् ॥
इति तत्त्वविदः सामगाने सर्वात्मता श्रुता
।
अत्रापि चक्रदृष्टान्तात्सोपाधिस्तत्त्वविच्छ्रुतः ॥
अपूर्वानपराद्युक्त्या श्रोष्येते निरुपाधिकः॥'
इति॥४७॥
पश्येरन्नैकमतयो न सम्यक्तेषु दर्शनम्
।
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिन्दम॥४८॥
के पुनरावर्तन्त इत्यत आह - पश्येरन्निति । नैकमतयो नानात्वदर्शिनो ये तेषु सम्यग्दर्शनं नास्ति व्यक्तं शरीरम् ॥४८॥
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात्
।
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः॥४९॥
'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इत्येकविज्ञानात्सर्वविज्ञानं श्रुतं तत्समर्थयते - सर्वमिति । एतद्वाक्यजातं सर्वमर्थतो विजानन्तो ध्यानबलेन सर्वापरोक्ष्यव्यक्त्या देहस्य वशे न भविष्यन्तीति योज्यम् ॥४९॥
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः
।
य एनमभिजानन्ति न भयं तेषु विद्यते॥५०॥
सर्वमिति । पञ्चविंशस्य विज्ञानात्सर्वज्ञो भवतीति श्लोकद्वयतात्पर्यं भयं संसारदुःखम् ॥५०॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादे षडधिकत्रिशततमोऽध्यायः ॥३०६॥
वसिष्ठ उवाच ।
सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम
।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः॥१॥
नानात्वैकत्वविज्ञानमित्यादिना कृतानां द्वादशानां प्रश्नानां मध्ये सांख्यं योगो नानात्वैकत्वविज्ञानं चेति त्रयं व्याख्यातम् । अबुद्धादित्रयमग्रिमाध्याये व्याकरिष्यते । विद्यादिषट्कमिह व्याख्यायते - सांख्यदर्शनमिति । योगादिसहितमिति शेषः ॥१॥
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै
।
सर्गप्रलयनिर्मुक्तां विद्यां वै पञ्चविंशकः॥२॥
तत्त्वदर्शनं विद्या तत्त्वावरकं भावरूपमज्ञानादिकमविद्या न तु विद्याया अभावमात्रमित्याशयेनाह - अविद्यामिति । अभावात्सर्गाद्यसंभवात् भावरूपैवाविद्याऽव्यक्ताख्येत्यर्थः । विद्यामाह - सर्गेति । विद्यां पञ्चविंशक इत्याहुरिति योजना ॥२॥
परस्परस्य विद्यां वै त्वं नबोधानुपूर्वशः
।
यथोक्तमृषिभिस्तात सांख्यस्याभिनिदर्शनम्॥३॥
अस्या विद्यायाः परमत्वं वक्तुमवान्तरविद्याभेदमाह - परस्परस्येति ॥३॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्॥४॥
कर्मेन्द्रियाणां व्यापारमुत्सृज्य केवलं बुद्धीन्द्रियाण्येवाहमिति चिन्तनं बुद्धीन्द्रियविद्येत्यर्थः । एवमुत्तरत्र विशेषाः स्थूलभूतानि देहारंभकाणि । तत्र पादादिजानुपर्यन्तं पृथिवीस्थानं जान्वादिपायुपर्यन्तमपां स्थानमित्यादिना प्राग्व्युत्पादितरीत्या उत्तरोत्तरस्य भूतस्य पूर्वपूर्वस्मिन्प्रविलापनेन तत्तन्मात्रात्मनाऽवस्थानेन पञ्चभूतविद्याः पृथक्फला अनुसन्धेयाः ॥४॥
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः
।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते॥५॥
विशेषाणां च मनसि प्रविलापनेन मनोमात्रेणावस्थानं मनोविद्या । मनोऽपि विषयविकल्पाभिमुखं वासनामात्रेषु शब्दादिषु प्रविलाप्य तन्मात्रेणावस्थानं सूक्ष्मभूतविद्या । एवमुत्तरत्र ज्ञेयम् । अत्र विशेषमनसोः सूक्ष्मभूताहङ्कारयोरन्तर्भावं विवक्षित्वा वायुपुराणे एतासां विद्यानां फलान्युक्तानि -
'दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः
।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः
।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते॥'
इति ॥५॥
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः
।
अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर॥६॥
बुद्धिर्महत्तत्वम् ॥६॥
विद्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरी
।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः॥७॥
तत्त्वानां महदादीनाम् ॥७॥
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्
।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव॥८॥
सर्वस्य ज्ञानस्य ज्ञेयं सर्वमव्यक्तमित्युक्तम् अव्यक्तज्ञानादेव सर्वज्ञो भवतीत्यर्थः । वेदान्तेष्वपि सार्वज्ञ्यं कारणज्ञानस्य मुख्यं फलम् । शुद्धज्ञानस्य तु नान्तरीयकमिति भावः ॥८॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः
।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः॥९॥
ज्ञानं धीवृत्तिः । ज्ञेयस्तदभिव्यंग्यो बोधः यो विज्ञाता प्रमाता स एव पञ्चविंशको बोध इत्यर्थः ॥९॥
विद्या विद्यार्थतत्त्वेन मयोक्ता ते विशेषतः
।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे॥१०॥
विद्यासहिताऽविद्या अर्थतत्त्वेन याथार्थ्येन 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’ ’द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च' 'उत्तमः पुरुषस्त्वन्यः' इति श्रुतिस्मृत्युक्तं पुंत्रैविध्यमुपेत्य क्षराक्षरयोस्तावद्विभागमाहाक्षरं चेति । अमृतो जीवः अक्षरम् इति श्रुतिपदयोरर्थः सन्धिश्छान्दसः ॥१०॥
उभावेवाक्षरावुक्तावुभावेतावनक्षरौ
।
कारणं तु प्रवक्ष्यामि याथातथ्यं तु ज्ञानतः॥११॥
उभौ प्रकृतिजीवौ अक्षरौ अनादित्वात् पुरुषोत्तमाख्यात् हरादनन्यत्वाच्च त्रयस्यापि ब्रह्ममात्रत्वाच्च । तथा च श्रुतिः -
'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्'
इति । उभौ अनक्षरौ अक्षरभिन्नौ क्षरावित्यर्थः 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इति भूतशब्दितस्य क्षरस्य तदनुसारिणो विज्ञानघनस्य च नाशश्रुतेर्भूतानि नष्टानि अनु विज्ञानघनोऽपि नश्यतीति श्रुत्यर्थः । उभयोरप्यक्षरत्वे हेतुमाह सार्धत्रिभिः - कारणं त्विति ॥११॥
अनादिनिधनावेतावुभावेवेश्वरौ मतौ
।
तत्त्वसंज्ञावुभावेतौ प्रोच्येत ज्ञानचिन्तकैः॥१२॥
अनादित्वादनिधनौ अनादिभावस्यानित्यत्वायोगात् । ईश्वरौ मिश्रौ सन्तौ अखण्डदण्डायमानस्य प्रपञ्चस्योपादानभूतौ कथमनित्यौ स्यातां न कथञ्चिदित्यर्थः । ज्ञानचिन्तकैर्ब्रह्मदर्शिभिः ॥१२॥
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम्
।
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः॥१३॥
ननु क्षरायाः प्रकृतेरक्षरत्वं क्षरं प्रधानं क्षरः सर्वाणि भूतानीति श्रुतिस्मृतिप्रसिद्धिविरुद्धमित्याशङ्क्याह - सर्गेति । तस्याः क्षरत्वे संसारस्यान्तवत्त्वं स्यात् । तच्च 'नान्तो न चादिर्न च संप्रतिष्ठा' इति तदानन्त्यस्मृतिविरुद्धम् । क्षरत्वश्रुत्यादिकं तु प्रतिक्षणपरिणामित्वमात्रान्न तु प्रवाहोच्छेदादिति भावः । प्रवाहानुच्छेदमाहार्धेन - तदेतदिति ॥१३॥
गुणानां महदादीनामुत्पत्तिश्च परस्परम्
।
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्॥१४॥
जीवस्याप्यक्षरत्वमाह - गुणानामिति । पञ्चविंशकं चिदाभासमपि गुणानां क्षेत्रमुत्पत्तिस्थानमाहुः । कुतः परस्परमधिष्ठानात् । चिच्छायामनवाप्य न केवला प्रकृतिर्वा प्रकृतिरूपमुपाधिमनवाप्य केवलः पुरुषो वा महदादीन् स्रष्टुमुत्सहते किं तु परस्परानुग्रहेणैवेत्यर्थः । अतः पञ्चविंशस्यापि क्षेत्रत्वात्प्रकृतिवदक्षरत्वमिति भावः ॥१४॥
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्
।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते॥१५॥
उभयोः क्षरत्वमाह - यदा त्वित्यादिना । गुणजालं प्रकृत्यादि अव्यक्तात्मनि अहमनुभवागोचरे शुद्धे ब्रह्मणि संक्षिपेत् प्रविलापयेत् योगी - तदेति । उपाधिनाशमनु आभासोऽपि नश्यतीति द्वयोरपि क्षरत्वम् ॥१५॥
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्
।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते॥१६॥
ननु पञ्चविंशस्य लये नैरात्म्यं स्यादित्याशङ्क्याह - गुणा इति । यथा महदादीनां प्रकृतौ लये यथैका प्रकृतिः प्रलये शिष्यते । एवं क्षेत्रज्ञः पञ्चविंशोऽपि तत्क्षेत्रे स्वोत्पत्तिस्थाने षड्विंशे संप्रलीयते । अत आभासस्य लयेऽपि मुख्यो न नश्यतीति न नैरात्म्यवादप्रसंगः यदा तदेति च उभयत्राध्याहारः । तत्रैका प्रकृतिरित्यस्यानुकर्षश्चोत्तरार्धे ॥१६॥
तदा क्षरत्वं प्रकृतिर्गच्छते गुणसंश्रिता
।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात्॥१७॥
तदेति । यदा त्वसंप्रज्ञाते पुरुषो निर्गुणं प्राप्नोति हे वैदेह वै इति पृथक्पदं वा तदा प्रकृतिरपि क्षरत्वं विनाशित्वं गच्छते आर्षस्तङ् । गुणसंश्रिता महदादिभिः संहिता । तत्र क्षरत्वे हेतुः देहगुणेष्वप्रतिवर्तनादिति देहाश्रितेषु श्रोत्रादिषु प्रतिविषयं वर्तनं तदभावात् ॥१७॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये
।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम॥१८॥
अयमेव न्यायः क्षेत्रज्ञेऽपीत्याह - एवमिति । क्षरत्वं गच्छते इत्यनुषङ्गः । कार्येणाहङ्कारेणास्तित्वं गम्यते । यथा नद्याः पूरेण उपरिदेशे वृष्टिमत्त्वं पूराभावे तदभाव एवं गुणानामप्रवृत्तेरप्रकाशाच्च प्रकृतिक्षेत्रज्ञौ नश्येते । तत्रापि क्षेत्रज्ञे विशेषमाह - प्रकृत्येति । गुणगुणिनौ क्षेत्रक्षेत्रज्ञावनित्यौ । क्षेत्रज्ञस्य तु क्षेत्रान्निष्कृष्टो निर्गुणो ज्ञानांशः स नित्यः इत्यर्थः । अनुशुश्रुम 'साक्षी चेता केवलो निर्गुणश्च' इति श्रुतवन्तो वयम् ॥१८॥
क्षरो भवत्येष यदा तदा गुणवतीमथ
।
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथाऽऽत्मनः॥१९॥
एष क्षेत्रज्ञः साक्षित्वत्यागेन क्षरो यदाऽसंप्रज्ञातो भवति तदेति शेषं स्पष्टम् ॥१९॥
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्
।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्॥२०॥
प्रकृतेः परिवर्जनात् प्रविलापनान्न तु शास्त्रजज्ञानमात्रात् । बुध्यति अपरोक्षीकरोति ॥२०॥
तदैष तत्त्वतामेति न चापि मिश्रतां व्रजेत्
।
प्रकृत्या चैव राजेन्द्र मिश्रो ह्यन्यश्च दृश्यते॥२१॥
'पृथक्चैवापृथक्च ह' इत्यस्योत्तरमाह- तदैष इति । तत्त्वताम् आरोपशून्यताम् । चिदचिद्ग्रन्थिरपृथक्त्वं तस्य भेदः पृथक्त्त्वमित्यर्थः ॥२१॥
यदा तु गुणजालं तत्प्राकृतं वै जुगुप्सते
।
पश्यते च परं पश्यन् तदा पश्यन्न संत्यजेत्॥२२॥
इदं ज्ञानेन पश्यतीत्याह - यदेति । जुगुप्सते निन्दति पश्यं द्रष्टारं पश्यन्नसन्त्यजन्न विस्मरेत् । तत्त्वपक्षपातो हि धियां स्वभावः इति न्यायेन सकृज्जातमपि प्रमाणज्ञानं न नश्यति । अनादिकालीनमपि भ्रान्तिज्ञानं न पुनरुन्मिषतीति भावः । यदाहुर्बाह्या अपि -
'निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः
।
न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः
।
'
इति । अपरिणामिनो नित्यसिद्धस्य वस्तुनः सम्यक् ज्ञातस्य पुनर्बाधो नास्ति अयत्नवत्त्वेऽपि तद्विषयकप्रत्ययानावृत्तावपि तत्र हेतुर्बुद्धेरितीति बाह्यश्लोकार्थः ॥२२॥
किं मया कृतमेतावद्योऽहं कालमिमं जनम्
।
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह॥२३॥
इमं प्राकृतं जनं देहं जालं हि जालमिव ॥२३॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम्
।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम्॥२४॥
उदकज्ञानात् इदं मम जीवनमिति ज्ञानात् । ह्रदाध्रदं मत्स्य इव देहाद्देहमप्यनुवर्तितवान् ॥२४॥
मत्स्योऽन्यत्वं यथाऽज्ञानादुदकान्नाभिमन्यते
।
आत्मानं तद्वदज्ञानादन्यत्वं नैव वेद्म्यहम्॥२५॥
मत्स्य उदकादिवाहं पुत्रादिभ्योऽन्यमात्मानं न वेद्मीति नशब्दानुकर्षेण योज्यम् ॥२५॥
ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः
।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्॥२६॥
मग्नं विपद्ग्रस्तम् ॥२६॥
अयमत्र भवेद्बन्धुरनेन सह मे क्षमम्
।
साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम्॥२७॥
बन्धुः सखा एकत्वम् अविसंवादम् । तस्यैव व्याख्या - यादृश इति ॥२७॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै
।
अयं हि विमलो व्यक्तमहमीदृशकस्तथा॥२८॥
विमलो निष्कपटः ॥२८॥
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान्
।
ससङ्गयाऽहं नि:सङ्गः स्थितः कालमिमं त्वहम्॥२९॥
अज्ञया जडया प्रकृत्या. ससङ्गनिःसङ्गयोर्मोहमन्तरेण सम्बन्धायोगादित्यर्थः ॥२९॥
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान्
।
उच्चमध्यमनीचानां तामहं कथमावसे॥३०॥
उच्चादीनां देवमनुष्यतिरश्चां सम्बन्धिनीं ताम् अनेकविकारवीमित्यर्थः । एतेन विकारित्वाविकारित्वे अपि सम्बन्धासम्भवाय दर्शिते । तथोदाहृतं प्रागेव -
'निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा
।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते॥'
इति ॥३०॥
समानयानया चेह सह वासमहं कथम्
।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे॥३१॥
समानया संयुतया एषेदानीमिति पादपूरणार्थः सन्धिः । स्थिरः सांख्ये योगे वा निष्ठायुक्तः सन् भवे प्राप्नुयाम् आत्मानं जानीयामित्यर्थः । भू प्राप्तावित्यस्य रूपम् ॥३१॥
सहवासं न यास्यामि कालमेतद्धि वञ्चनात्
।
वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया॥३२॥
वञ्चनात् विपर्ययज्ञानजात् अनया मूलाविद्यया विकारया विकारवत्या ॥३२॥
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम
।
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः॥३३॥
पराङ्मुखं बहिर्मुखं विषयम् उपस्थितः भोक्तुमुद्युक्तः ॥३३॥
ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्
।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः॥३४॥
ततः पराङ्मुखोपस्थानात् बाह्यार्थप्रावण्यात् मूर्तिषु देहेषु अमूर्तस्यापि मूर्तात्मत्वे हेतुर्ममत्वमित्यर्थः ॥३४॥
प्राक्कृतेन ममत्वेन तासु तास्विह योनिषु
।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च॥३५॥
योनिषु निपातित इति शेषः । एतदेव प्रधर्षणं नाम - निर्ममस्येति । किं कृतं न किमपि ज्ञानस्यासाधनादित्यर्थः ॥३५॥
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा
।
न ममात्रानया कार्यमहङ्कारकृतात्मया॥३६॥
अहङ्कारेण कृतो हिंसित आत्मा यया सा तया आत्मयेति समासान्तो डच् ॥३६॥
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्
।
इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः॥३७॥
बहुधाऽनेकदेहाकारम् ॥३७॥
ममत्वमनया नित्यमहङ्कारकृतात्मकम्
।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्॥३८॥
ममत्वमिति । अपेत्य अपसृत्य प्रत्यक्प्रावण्येन इमां प्रकृतिं त्यक्त्वेत्यर्थः । निरामयं निर्द्वन्द्वं परमात्मानम् ॥३८॥
अनेन साम्यं यास्यामि नानयाऽहमचेतया
।
क्षेमं मम सहानेन नैकत्वमनया सह॥३९॥
अनेन निरामयेण साम्यम् ऐक्यम् अचेतया जडया अनेन सहैकत्वं क्षेमम् । न त्वनया सहैकत्वम् ॥३९॥
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान्
।
अक्षरत्वं नियच्छेत त्यक्त्वाऽक्षरमनामयम्॥४०॥
परमस्य षड्विंशस्य संबोधात् । क्षरं त्यक्त्वा अक्षरत्वं नियच्छेत अक्षर एव भवेत् । ब्रह्मभावं न जह्यादित्यर्थः । कः यः पञ्चविंशः निरामयम् अनुबुद्धवान् ॥४०॥
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
।
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल॥४१॥
प्रथमम् अव्यक्तस्याप्यादिम् । तादृक् निर्गुणः प्रथमश्च भवति । निर्गुणत्वादेव व्यावर्तकधर्माभावात् ब्रह्मैव भवतीत्यर्थः ॥४१॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम्
।
मयेह ज्ञानसंपन्नं यथाश्रुति निदर्शनात्॥४२॥
निदर्शनम् अनुभवः यथाश्रुति श्रुतिमनतिक्रम्य निदर्शनादनुभवात् ॥४२॥
निःसंदिग्धं च सूक्ष्मं च विबुद्ध विमलं यथा
।
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम्॥४३॥
विबुद्धं विशिष्टं ज्ञानं विमलं निर्दोषम् ॥४३॥
सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्
।
यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत्॥४४॥
सांख्येति । शमादिभिर्द्वैतादर्शनं मोक्षदमित्यस्यार्थस्योभयत्र साम्यात् साधनानुभवफलैः सांख्ययोगयोरैक्यमित्यर्थः ॥४४॥
प्रबोधनकरं ज्ञानं सांख्यानामवनीपते
।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया॥४५॥
किमंशेन तर्हि तयोर्भेद इत्याशङ्क्याह - प्रबोधनेत्यादिना । अत्रायमर्थः - सांख्ये हि लवणोदकन्यायेन कार्यस्य कारणे प्रविलापनमिति क्रमेण अध्यायादौ निरूपितविद्याष्टकेन निर्विशेषप्रत्यङ्मात्रेणावस्थानं युक्तिपूर्वकमुपपादितम् ॥४५॥
बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः
।
अस्मिंश्च शास्त्रे योगानां पुनर्वेदे पुरःसरः॥४६॥
तदेतद्धीमतां शिष्याणामाशु सिद्धिदं बृहच्च शास्त्रं विदुषो विद्वांसः प्राहुः योगानां पुनरस्मिन्सांख्यशास्त्रे वेदे च पुरःसरः अत्यन्तम् आदरोऽस्ति । तथाहि शास्त्रे अपि संराधने प्रत्यक्षानुमानाभ्यामिति शास्त्रे योगस्यादरो दृश्यते संराधनं भक्तिध्यानपूर्वकमात्मनि मनःप्रणिधानं तस्मिन् क्रियमाणे आत्मनः सम्यग्दर्शनं भवति तत्र प्रमाणं प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात् । 'अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इत्यादिका । अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात्, योगिनस्तं प्रपश्यन्तीत्यादिका । एताभ्यां प्रमाभ्यामित्यर्थः । तथा वेदेऽपि -
'विद्यामेतां योगविधिं च कृत्स्नं'
'यदा पंचावतिष्ठन्ते ज्ञानानि मनसा सह
।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्'
।
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्
।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ
।
'
इति । अज्ञातो योगः संसारः ज्ञातो मोक्ष इति योगस्यादरो दृश्यते । तथा च सांख्यस्य शिष्यानुग्राहकत्वाद्योगस्य च वेदशास्त्रादृतत्वाद्द्वयमप्यपरित्याज्यामिति । ननु कथं तर्हि द्वाविमौ मार्गावित्युद्घोषः । प्रधानोपसर्जनभावेनेत्यवेहि । तथाहि द्विविधो मोक्षाधिकारी कृतोपास्तिरकृतोपास्तिश्च । तत्राद्यो वाक्यार्थविचारात्प्रागेवानुष्ठितयोग इति न तं प्रति ध्यानापेक्षा । विविक्तस्य त्वंपदार्थस्य प्रागेव दृष्टत्वात् । तस्य तत्पदार्थाभेदमात्रं वाक्यात्प्रतिपत्तव्यं तं प्रति योग उपसर्जनः सांख्यं प्रधानं चरमत्वात् । यस्त्वकृतोपास्तिरौत्सुक्यात् श्रवणादावेव प्रवर्तते तस्य वेदान्तैः परोक्षं ज्ञानं जायते तदर्थस्य निदिध्यासनादापरोक्ष्यं तं प्रति सांख्यमुपसर्जनं योगः प्रधानं, तदिदं मतद्वयं गृहीत्वा औपनिषदस्य पुरुषस्य क्वचिद्वेदैकगम्यत्वं क्वचिच्चित्तैकगम्यत्वमुच्यते । 'नावेदविन्मनुते तं बृहन्तम्' इति । 'दृश्यते त्वग्र्यया बुद्ध्या' इति च । सूत्रमपि 'सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतः' इति ध्यानस्य पाक्षिकत्वं दर्शयत्यधिकारिभेदेन तद्वतः श्रवणमननवतः । तृतीयं निदिध्यासनं पक्षेण शुद्धचेतसामनपेक्षिततया विकल्पेन सहकार्यन्तरं विधीयते आत्मदर्शनार्थमिति सूत्रपदानामर्थः ॥४६॥
पञ्चविंशात्परं तत्त्वं पठ्यते न नराधिप
।
सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम्॥४७॥
किमंशे तर्हि सांख्या योगं नाद्रियन्त इत्यत आह - पञ्चविंशादिति । तेषां पञ्चविंशे असंगात्मनि कर्तृत्वानुपगमाज्जडे च प्रकृत्यादौ कर्तृत्वासंभवाच्चिज्जडग्रन्थ्यात्मनः कर्त्रात्मापलापेन सर्वविधिप्रतिषेधमोक्षपरं शास्त्रमनर्थकमिति भावः । सांख्यानां तु षड्विंशस्याभ्युपगमात् । पञ्चविंशस्य कर्तृत्वान्नोक्तदोषस्तत्त्वमसीत्यादिजीवब्रह्माभेदवादानां सामञ्जस्यमित्याशयेनाह - सांख्यानामिति ॥४७॥
बुद्धमप्रतिबुद्धत्वाद्बुध्यमानं च तत्त्वतः
।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्॥४८॥
का तर्हि योगमते उक्तदोषगतिरित्याशङ्क्य यथाकथञ्चित्समाधत्ते - बुद्धमिति । यदेव नित्यप्रबुद्धं चिदात्मस्वरूपं तदेव वृत्तिसारूप्यदशायां तत्त्वतः केवलेन रूपेण अप्रतिबुद्धत्वात् बुद्ध्यमानं बुभुत्साविषयो भवति । न हि स्त्रीवेषच्छन्नो नटो बुद्धोऽपि न बुभुत्सितो भवतीति युज्यते । न च तावता तस्य द्वैरूप्यं भवति । यदपगमाय तत्त्वमसीत्यादयो भेदवादा अपेक्ष्यन्ते इत्याशयः । अत एव कर्त्रात्मापलापिनां योगानां द्वावेव पदार्थावित्याह - बुध्यमानं दृश्यं प्रधानं वुद्धं बोधश्चिदात्मा ॥४८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादे सप्ताधिकत्रिशततमोऽध्यायः ॥३०७॥
वसिष्ठ उवाच ।
अथ बुद्धमथाबुद्धमिमं गुणविधिं शृणु
।
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते॥१॥
भोक्ता भोग्यं प्रेरितारं च मत्वेति श्रुत्यनुसारात्पदार्थत्रयमुपेत्य बुद्धाबुद्धविभागमाह - अथ बुद्धमित्यादिना । बुद्धं बोधः परमात्मा । अबुद्धं तदन्यो जीवः अबुद्धस्य विशेषणं गुणविधिं गुणानां सत्त्वादीनामेव विधिं विधानं प्रभावमिमं शृणु दृश्यते हीदं गुणसामर्थ्यं ब्राह्मणोऽपि स्वप्ने राजाहमिति मन्यते न च ब्राह्मण्यमनुसंधत्ते इति । आत्मानं बहुधा विश्वतैजसप्राज्ञविराट्सूत्रान्तर्यामिरूपेण कृत्वा । माययेति शेषः । तान्येव च रूपाणि प्रविचक्षते तात्त्विकत्वेन पश्यति । नटस्तु स्त्रीवेषकालेऽप्यात्मनः पुंस्त्वमनुसंधत्ते इति परागर्थभ्रमे तदुदाहरणं न प्रत्यक्तत्त्वभ्रमे । तस्मात् प्रधानादन्यौ बुद्धाबुद्धौ पृथगभ्युपेयौ । तथा चाबुद्धाधिकारिकं शास्त्रं न वैयर्थ्यमश्नुते ॥१॥
एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते
।
गुणान्धारयते ह्येष सृजत्याक्षिपते तदा॥२॥
नन्वेवं जितं भेदवादिना नेत्याह - एतदिति । बुध्यमानो जीवः । एतत् बुद्धं ब्रह्म न बुध्यते । यत एवम् अहं कर्ताऽहं भोक्तेति प्रकारेण विकुर्वाणो भवति । कुत एतद्विकुर्वाणत्वमत आह - गुणानिति । यतो गुणान्धारयतेऽतः सर्गादिकर्तृत्वेन विक्रियत इत्यर्थः ॥२॥
अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप
।
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि॥३॥
एतद्विवृणोति - अजस्रमिति । बुध्यमानपदं निर्वक्ति - अव्यक्तेति । अव्यक्तं सकार्यमज्ञानं घटोऽयं मामहं न जानामीति घटादीनां स्वाश्रिताज्ञानस्य च बोधाज्जीवं बुध्यमानपदेन वदन्ति ॥३॥
न त्वेव बुध्यते व्यक्तं सगुणं तात निर्गुणम्
।
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्ध्यकम्॥४॥
नन्विदं बुध्यमानत्वं सत्त्वस्यैव धर्म इत्याशङ्क्याह - न त्विति । अव्यक्तं कर्तृ सगुणं रूपादिमत् निर्गुणं प्रधानपुरुषौ वा न बुध्यते अचेतनत्वादव्यक्तस्य । अत एव तत् अप्रतिबुद्धकं जडमित्याहुः ॥४॥
बुध्यते यदि वा व्यक्तमेतद्वै पञ्चविंशकम्
।
बुध्यमानो भवत्येव सङ्गात्मक इति श्रुतिः
।
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्॥५॥
'तुष्यतु दुर्जनः' इति न्यायेनाभ्युपेत्याप्याह - बुध्यत इति । अव्यक्तं कर्तृ यदि जानाति तर्हि पञ्चविंशकं चिदाभासमेव उपाधिविशिष्टमयमहमस्मीति जानीयान्न तु षड्विंशमसंगम् । यत्स्वयं बुध्यमानः पञ्चविंशः ससंगात्मकश्चिदचिद्ग्रन्थिरूपोऽहङ्कारः पुण्यपापसुखदुःखादिसंगी । तथा च श्रुतिः - ’पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति । अनेन संगात्मकत्वेन हेतुना अव्यक्तमस्फुटमच्युतमविकारिणमपि सन्तमेतं पुरुषमप्रतिबुद्धो मूढ इति वदन्ति । सन्धिरार्षः ॥५॥
अव्यक्तबोधनाच्चापि बुध्यमानं वदन्त्युत
।
पञ्चविंशं महात्मानं न चासावपि बुध्यते॥६॥
बुध्यमानं जीवं पञ्चविंशं चिदाभासं न तु निष्कृष्टचैतन्यरूपं मुख्यं न चासावपि बुध्यते चिदाभासोऽपि दृश्यत्वान्नान्यं द्रष्टुमीष्टे न हि घटो घटं बुध्यते । यदा त्वाभासेऽपि न ज्ञातृत्वं संभवति तदा नतरां तदुपाधिभूते सत्त्वे इत्यर्थः ॥६॥
षड्विशं विमलं बुद्धमप्रमेयं सनातनम्
।
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते॥७॥
कस्तर्हि बुध्यते इत्यत आह - षड्विंशमिति । निरुपाधिचैतन्यमेव सर्वप्रकाशकमित्यर्थः ॥७॥
दृश्यादृश्ये ह्यनुगतं स्वभावेन महाद्युते
।
अव्यक्तमत्र तद्ब्रह्म बुध्यते तात केवलम्॥८॥
षड्विंशस्य सत्त्वे मानमाह - दृश्येति । कार्ये कारणे च स्वभावेन स्वसत्तयाऽनुगतं शुक्तीदमंश इव स्वाध्यस्तं रजतं सर्वस्मिन्दृश्ये सत्सदित्यनुगमो यदनुवेधाद्दृश्यते तत्सन्मात्रं केवलं वस्तु षड्विंशशब्दितमित्यर्थः । अनुभवमप्यत्राह - अव्यक्तमिति । अव्यक्तम् अस्फुटमपि अत्र जीवत्येव देहे तत् केवलं निर्गुणं ब्रह्म बुध्यते ज्ञायते विद्वद्भिरिति शेषः ॥८॥
केवलं पञ्चविंशं च चतुर्विंशं न पश्यति
।
बुध्यमानो यदाऽऽत्मानमन्योऽहमिति मन्यते॥९॥
कुतस्तर्हि सर्वत्रानुगतोऽपि केवलोऽस्मदादिभिर्नानुभूयत इत्यत आह - केवलमिति । बुध्यमानो जीवो यदात्मानमहमन्योऽमुष्य पुत्रो ब्राह्मणोऽधीतीत्यादिरूपं मन्यते तदा केवलं षड्विंशं पञ्चविंशं च सर्वत्रैकरूपं जीवं चतुर्विंशम् अव्यक्तं च न पश्यति कार्यापहृतदृष्टित्वात् ॥९॥
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः
।
बुध्यते च परां बुद्धिं विमलाममलां यदा॥१०॥
कथं तर्हि केवलज्ञः स्यादत आह - तदेति । अव्यक्ते अव्याकृते लोचनं दृष्टिरस्य अव्याकृतोपास्त्या प्रकृतिमान् प्रकृतिजयी यदा भवति तदा विमलां शुद्धब्रह्मविषयिणीं बुद्धिं विद्याम् अमलां निर्द्वैतां परां सर्वोत्कृष्टां बुध्यते अवगच्छति ॥१०॥
षड्विंशो राजशार्दूल तथा बुद्धत्वमाव्रजेत्
।
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै॥११॥
तदैव परविद्योदयकाले षड्विंशबोधः प्रकृतित्यागश्च भवति इत्याह - षड्विंश इति ॥११॥
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम्
।
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात्॥१२॥
असौ जीवः अव्यक्तस्य स्वस्मात्पृथक्त्वेन दर्शनात् केवलधर्मा केवल एव भवति । यो निर्गुणः सन्प्रकृतिं वेद स केवल इति योज्यम् ॥१२॥
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्
।
एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्॥१३॥
आत्मानं केवलं विमुक्त उपाधित्रयान्मुक्तः तत्त्वम् अनारोपितरूपं निस्तत्त्वं पारोक्ष्यरहितं नित्यापरोक्षमित्यर्थः ॥१३॥
तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद
।
पञ्चविंशति तत्त्वानि प्रवदन्ति मनीषिणः॥१४॥
तत्त्वं दृश्यं शरीरादि तदाश्रयादस्यापि दृश्यत्वं वस्तुतस्तु न च दृश्यत्वमस्ति दृङ्मात्रत्वात् ॥१४॥
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्
।
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम्॥१५॥
एष षड्विंशः तत्त्ववान् पारोक्ष्यवान् कार्यभूतं महदादि तत्त्वमस्यास्तीति तत्त्ववान् न च यतो निस्तत्त्वः कार्यकारणवर्जितः बुद्धलक्षणं तत्त्वमहं ब्रह्मास्मीति वृत्तिमपि एष मुञ्चति ॥१५॥
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः
।
केवलेन बलेनैव समतां यात्यसंशयम्॥१६॥
एतदेवाह - षड्विंश इति । ननु षड्विंशोऽहमिति यया वृत्त्या षड्विंशा गृह्यते तस्यानाशकस्य वृत्त्यन्तरस्याभावाद्भावे वाऽनवस्थापातात् कथं निरुपाधिकस्य साक्षात्कारो वृत्तिरूपस्यैवोपाधेर्विद्यमानत्वादित्याशङ्क्याह - केवलेनेति । बलेन स्वसामर्थेन तद्वृत्तिरूपं ग्रहणं समतां याति यथा कतकरजो रजोन्तरं शमयत्स्वयमपि शाम्यति तथा चरमा ब्रह्माकारा वृत्तिर्वृत्त्यन्तरं स्वात्मानं च शमयतीत्यर्थः ॥१६॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान्
।
एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात्॥१७॥
षड्विंशेनेति । येन केवलप्रकाशात्मना पञ्चविंशादीन् बुध्यते तमजानन्न बुद्धिमान् यतो भवति एत्तत्तस्याज्ञानमेव नानात्वं ब्रह्माज्ञानमूलक एव प्रपञ्च इत्यर्थः ॥१७॥
चेतनेन समेतस्य पञ्चविंशतिकस्य ह
।
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते॥१८॥
षड्विंशानुभवस्वरूपमाह - चेतनेनेति । पञ्चविंशस्य अहंप्रत्ययगम्यस्य चेतनायुक्तस्य जडस्य तदा एकत्वं भवति यदा बुद्ध्याप्यहमित्यात्मानं न बुध्यते । धीनिरोधे सति गाढसुषुप्तिवत् षड्विंशानुभव इत्यर्थः ॥१८॥
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल
।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप॥१९॥
एतत्फलमाह - बुध्यमान इति । अहमिति गृह्यमाणः सङ्गधर्मा सुखादिसङ्गी जीवः अप्रबुद्धेन वाङ्मनसातीततया अगोचरीकृतेन षड्विंशेन यदा समतामभेदं याति तदा निःसङ्गात्मा पुण्यापुण्यादिस्पर्शशून्यो भवति ॥१९॥
निःसङ्गात्मानमासाद्य षड्विंशकमजं विभुम्
।
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुद्ध्यते॥२०॥
निःसङ्गात्मनः षड्विंशस्य सङ्गात्सङ्गिनोऽपि जीवस्य निःसङ्गता भवति सा च अव्यक्तत्यागेनैवेत्यर्थः । एतदव्यक्तं दृष्टमात्रैव प्रकृतिर्लीयत इत्यर्थः यथोक्तं [सांख्य-] सप्तत्यां- 'प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्तीति पुनर्न दर्शनमुपैति पुरुषस्य' इति ॥२०॥
चतुर्विंशमसारं च षड्विंशस्य प्रबोधनात्
।
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ॥२१॥
असारं रज्जूरगवन्निःस्वरूपं भवति । 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः' इति श्रुत्यनुसारेण अप्रतिबुद्धः क्षरः बुध्यमानः अक्षरः बुद्ध ईशः एते यथाश्रुति प्रोक्ताः ॥२१॥
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुति निदर्शनात्
।
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदर्शनात्॥२२॥
नानात्वेति । यथोदुम्बरेण सह मशकस्य यथा वा जलेन सह मत्स्यस्य नानात्वैकत्वे एवं चतुर्विंशत्या तत्त्वैः सह पञ्चविंशस्येत्यर्थः । एतद्योगसंमतं नानात्वैकत्वमुक्तम् ॥२२॥
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः
।
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते॥२३॥
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः
।
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसंहितम्॥२४॥
अव्यक्तज्ञानसंहितम् अव्यक्तविषयं पुरुषात्पृथक्त्वेन ज्ञानं पुरुषमात्रावशेषमेकत्वं मोक्षोऽन्यन्नानात्वामित्यर्थः ॥२४॥
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते
।
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात्॥२५॥
सांख्यमतमाह - पञ्चविंशतिकस्येति । अव्यक्तादज्ञानात्तद्विषयान्महदादेश्च मोक्षयितव्यः ॥२५॥
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः
।
परश्च परधर्मा च भवत्येष समेत्य वै॥२६॥
एवमज्ञानबाधे सत्येव विमुच्येत नान्यथेत्यर्थः । परोऽन्यश्चिदात्मा परधर्मा क्षेत्रधर्मा समेत्य क्षेत्रेणैकीभूय ॥२६॥
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्
।
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ॥२७॥
परधर्मत्वमेव प्रपञ्चयति - विशुद्धेत्यादिना ॥२७॥
वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथा
।
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत्॥२८॥
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान्
।
विमलात्मा च भवति समेत्य विमलात्मना॥२९॥
केवलात्मा तथा चैव केवलेन समेत्य वै
।
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते॥३०॥
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम्
।
अमत्सरत्वं परिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम्॥३१॥
न वेदनिष्ठस्य जनस्य राजन् प्रदेयमेतत्परमं त्वया भवेत्
।
विधित्समानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम्॥३२॥
न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न जिह्मबुद्धये
।
न पण्डितज्ञानपरोपतापिने देयं तु देयं च निबोध यादृशे॥३३॥
वेदनिष्ठस्य निदाघवत्कर्मश्रद्धाजडस्य । नावेदनिष्ठस्येति पाठः स्वच्छः । विधित्समानाय विशेषेण तृष्णावते धेट्पाने इत्यस्य रूपम् ॥३३॥
श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम्
।
विशुद्धयोगाय बुधाय नित्यं क्रियावते च क्षमिणे हिताय॥३४॥
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय
।
विजानते चैव न चाहितक्षमे दमे च शक्ताय शमे च देयम्॥३५॥
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः
।
न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात्॥३६॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय
।
जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र॥३७॥
कराल मा ते भयमस्तु किञ्चिदेतच्छ्रुतं ब्रह्म परं त्वयाऽद्य
।
यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम्॥३८॥
अगाधजन्मामरणं च राजन् निरामयं वीतभयं शिवं च
।
समीक्ष्य मोहं त्यज वाऽद्य सर्वज्ञानस्य तत्त्वार्थमिदं विदित्वा॥३९॥
अगाधमप्रतिष्ठितं जन्म येन तत् । जन्मनिवर्तकमित्यर्थः नास्ति मरणं येन तत् अमरणम् ॥३९॥
वाप्तमेतद्धि मया सनातनाद्धिरण्यगर्भाद्गदतो नराधिप
।
प्रसाद्य यत्नेन तमुग्रचेतसं सनातनं ब्रह्म यथाऽद्य वै त्वया॥४०॥
पृष्टस्त्वया चास्मि यथा नरेन्द्र यथा मयेदं त्वयि चोक्तमद्य
।
तथावाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम्॥४१॥
भीष्म उवाच।
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः
।
पञ्चविंशो महाराज परमर्षिनिदर्शनात्॥४२॥
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनरिति उपक्रान्तमुपपाद्योपसंहरति - एतदुक्तमिति ॥४२॥
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च
।
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम्॥४३॥
एतन्निःश्रेयसकरं ज्ञानं ते परमं मया
।
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप॥४४॥
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना
।
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम्॥४५॥
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम्
।
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम्॥४६॥
येन क्षराक्षरे वित्ते भयं तस्य न विद्यते
।
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव॥४७॥
वित्ते विज्ञाते ॥४७॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत्
।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते॥४८॥
उपाद्रवत् क्लेशवानभूत् अश्नुते च प्रेत्येत्युभयान्वयि ॥४८॥
देवलोकं तथा तिर्यड्मनुष्यमपि चाश्नुते
।
यदि शुध्यति कालेन तस्मादज्ञानसागरात्॥४९॥
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते
।
अहन्यहनि मज्जन्ति यत्र भूतानि भारत॥५०॥
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्
।
तस्मात् त्वं विरजाश्चैव वितमस्कश्च पार्थिव॥५१॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि वसिष्ठकरालजनकसंवादसमाप्तौ अष्टाधिकत्रिशततमोऽध्यायः ॥३०८॥
याज्ञवक्ल्य उवाच ।
सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे
।
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम॥१॥
सांख्यज्ञानमिति ॥१॥
नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्
।
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ॥२॥
एकैव चर्या शमाद्यनुष्ठानं ययोस्तौ अनिधनौ मृत्युनाशकौ ॥२॥
पृथक् पृथक् प्रपश्यन्ति येऽप्यबुद्धिरता नराः
।
वयं तु राजन् पश्याम एकमेव तु निश्चयात्॥३॥
पृथगिति । उभाविति द्वितीयान्तमनुकृष्यते ॥३॥
यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते
।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्॥४॥
रुद्रप्रधानानपरान्विद्धि योगानरिन्दम्
।
तेनैव चाथ देहेन विचरन्ति दिशो दश॥५॥
उत्क्रमणकाले देहिनं रोदयन्तीति रुद्राः प्राणा इन्द्रियाणि च तान्येव प्रधानभूतान्यालम्बनानि येषु तान् । तथा च सूत्रम् - 'प्रच्छर्दनविधारणाभ्यां वा प्राणस्य विषयवती चाप्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी' । प्रच्छर्दनं रचेकः । विधारणं पूरकपूर्वकः कुंभकः । तथा नासिकाग्रे धारयतो गन्धसंवित् जिह्वाग्रे रससंवित् । तालुनि रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् जिह्वामूले शब्दसंवित् । तत्र वायुधारणायाः फलं विचरन्ति दिशो दशेत्युक्तं खेचरत्वं प्राप्नुवन्तीत्यर्थः ॥५॥
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह
।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ॥६॥
अष्टगुणेन पुर्यष्टकमयेन सूक्ष्मशरीरेण संन्यस्य संन्यासं च देहस्य सुखं यथेच्छं कुरु । एतद्यदृष्टं फलं मोक्षान्तेषु योगधर्मेषु श्रद्धोत्पादनार्थमुक्तं न तु योगिनामवश्यादरणीयम् ॥६॥
वेदेषु चाष्टगुणिनं योगमाहुर्मनीषिणः
।
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम॥७॥
वेदेष्विति । अष्टगुणिनम् अणिमाद्यष्टगुणवन्तं नित्ययोगे मत्वर्थीयः । अष्टगुणम् अष्टाङ्गम् । प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः षडङ्गा इति मैत्रायणीयोपनिषदि षडेवाङ्गान्युक्तानि । तथापि यमनियमाभ्यां श्रुत्यन्तरोक्ताभ्यां सहाष्टसंख्या बोध्या । अत्र सूक्ष्ममित्युक्तेः पूर्वस्य स्थूलत्वं मन्दाधिकारित्वं चोक्तम् । तर्को योगसिद्धिषूपस्थितासु दोषोन्नयनम् ॥७॥
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्
।
सगुणं निर्गुणं चैव यथा शास्त्रनिदर्शनम्॥८॥
द्विगुणं द्विप्रकारम् । तदेवाह सगुणं सबीजं निर्गुण निर्बीजम् ॥८॥
धारणं चैव मनसः प्राणायामश्च पार्थिव
।
एकाग्रता च मनसः प्राणायामस्तथैव च॥९॥
सगुणमाह - धारणमिति । प्राणायामः प्राणनिग्रहपूर्वकं मनसः षोडशस्वाधारेषु धारणम् । ते च शिवयोगे प्रोक्ताः - ’अथ ते षोडशाधारान्कथयामि विशेषतः' इत्यादिना पादाङ्गुष्ठपार्ष्णिमूलप्रभृतयो नेत्राधारं षोडशं त्वित्यन्ताः । यद्वा याज्ञवल्क्योक्ताः प्रागुदाहृता अष्टादशस्थानात्स्थानं समाकृष्येत्यादिना दर्शिता ग्राह्याः । अथवा याज्ञवल्क्योक्ता एव पञ्चभूतधारणा ज्ञेयाः ।
पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते
।
आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ॥
आपायोर्हृदयान्तं यद्वह्निस्थानं तदुच्यते
।
हृन्मध्यात्तु भ्रुवोर्मध्ये यावद्वायुकुलं भवेत् ॥
आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते
।
पृथिव्यां धारयेद्गार्गि ब्रह्माणं परमेष्ठिनम् ॥
विष्णुमप्स्वनले रुद्रमीश्वरं वायुमण्डले
।
सदाशिवं तथा व्योम्नि धारयेत्सुसमाहितः ॥
पृथिव्यां वायुमास्थाप्य लकारेण समन्वितम्
।
ध्यायंश्चतुर्मुखाकारं ब्रह्माणं सृष्टिकारणम् ॥
धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात्
।
वारुणे वायुमारोप्य वकारेण समन्वितम् ॥
स्मरन्नारायणं देवं चतुर्बाहुं शुचिस्मितम्
।
शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् ॥
धारयेत्पञ्चघटिकाः सर्वरोगैः प्रमुच्यते
।
वह्नावनिलमारोप्य रेफाक्षरसमन्वितम् ॥
त्र्यक्षं वरप्रदं रुद्रं तरुणादित्यसन्निभम्
।
भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् ॥
धारयेद्धटिकाः पञ्च वह्निनाऽसौ न दह्यते
।
मारुतं मरुतां स्थाने वर्णदेवसमन्विते ॥
धारयेत्पञ्च घटिका वायुवद्व्योमगो भवेत्
।
आकाशे वायुमारोप्य हकारोपरि शंकरम् ॥
बिन्दुरूपं महादेवं सर्वलोकैककारणम्
।
चित्तेन चिन्तयेत्खस्थं मुहूर्तमपि धारयेत्
।
स एव युक्त इत्युक्तस्तांत्रिकेष्वपि शिक्षितैः ॥
इति। निगुर्णमाह- एकाग्रतेति । एकमेव ध्यातृध्येयध्यानविभागशून्यं वस्तु अग्रे यस्य तदेकाग्रं निर्वृत्तिकं तस्य भावस्तत्ता मनसो बुद्धेः प्राणा इन्द्रियाणि समनस्कानि तेषामायामो निग्रहः प्राणायामः । तथा च श्रुतिः -
'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह
।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्॥'
इति ॥९॥
प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः
।
यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम
।
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत्॥१०॥
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
।
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः॥११॥
सगुणनिर्गुणयोरङ्गाङ्गिभावमाहार्धेन प्राणायामो हीति । निर्गुणं निर्वृत्तिकं धारयेत्स्थिरं कुर्यात्। यदीति । अदृश्यति अदृश्यमाने मोचनस्थाने यदि वायुं मुञ्चन्भवति तर्हि वाताधिक्यं भवत्येव । अयमर्थः - पूरकादीनां मूलाधारादीनां च देवतादिकं ध्यायन् यो वायुधारणां करोति स सिध्यति ध्यानवर्जितं त्वभ्यस्यन्नवश्यं बाध्यत इति । यथोक्तं पवनयोगसंग्रहे -
'प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत्
।
अयुक्ताभ्यासयोगेन महारोगसमुद्भवः
।
'
इति । युक्तेन देवताध्यानयुक्तेन । देवताश्च याज्ञवल्क्योक्ताः –
'नीलोत्पलदलश्यामं नाभिमध्ये व्यवस्थितम्
।
चतुर्भुजं महात्मानं पूरकेण विचिन्तयेत् ॥
कुंभकेन हृदि स्थानं ध्यायेत्तु कमलासनम्
।
ब्रह्माणं रक्तगौराङ्गं चतुर्वक्त्रं पितामहम् ॥
रेचकेनेश्वरं विद्याल्ललाटस्थं महेश्वरम्
।
शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ॥
इत्यादिना निशाया इति । द्वादश पूर्वोक्ताः द्वाविंशतिचोदना एवात्र संक्षेपेण द्वादशग्रंथान्तरे गणिताः यथोक्तं शिवयोगे -
'मूलाधारे त्रिधावर्तं ब्रह्मचक्रं भगोपमम्
।
तत्कंदेऽग्निनिभे ध्यायेदधःशक्तिमभीष्टदाम् ॥१॥
स्वाधिष्ठानं ततश्चक्रं तत्र चातुर्दलाम्बुजम्
।
तदेवोड्डीयनं ध्यायेत्पश्चिमाभिमुखं शिवम् ॥२॥
पञ्चावर्तं नाभिचक्रे मेघाकारं तडिन्निभम्
।
तत्र कुंडलिनीं ध्यायेदधःशक्तिं सुसिद्धिदाम् ॥३॥
अधोमुखाष्टपत्राब्जयुक्तं हृच्चक्रमिष्टदम्
।
तन्मध्यकर्णिकां ध्यायेज्ज्योतिर्लिंगाकृतिं त्विमाम् ॥४॥
पञ्चमं कण्ठचक्रं तु तत्राङ्गुलचतुष्टयम्
।
इडापिंगलयोर्ध्यायेत्सुषुम्नां मध्यसंस्थिताम् ॥५॥
षष्ठं च घंटिकालिंगमूलं तद्राजदन्तकम्
।
ध्यायेत्तु दशमं द्वारं तत्र शून्यं सुसिद्धये ॥६॥
भूचक्रं सप्तमं त्वेकनालकंदं स्ववाक्प्रदम्
।
ध्यायेद्दिव्यशिखाकारं यन्मध्ये ज्ञानलोचनम् ॥७॥
ब्रह्मरन्ध्रेऽष्टमं चक्रं निर्वाणाख्यं सुसूक्ष्मदम्
।
तत्र जालन्धरं ध्यायेत्सूक्ष्मं मोक्षप्रदं ततः ॥८॥
आकाशबीजं नवमं प्रशस्तं त्रिकूटकं पूर्णगिरेश्च पृष्ठे
।
तत्रोर्ध्वशक्तिं शुभदां सुशून्यां ध्यायेच्च साष्टारसरोजमध्ये ॥९॥'
आकाशबीजं हकारस्तत्स्मरणपूर्वकं शिरस उपरि भूताकाशमात्रं ध्यायेत् । एता नव चोदना वायुनिग्रहगर्भिताः ततः शून्यात्परं समष्टिकार्ये मनो धारयेत् । ततः कारणे ततो निष्कले इति तिस्र एवं द्वादश चोदनाः पूर्वरात्रे आवर्त्य एकां निद्रां गृहीत्वा पश्चात्पुनर्द्वादश एता एवाभ्यसेदित्यर्थः ॥११॥
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना
।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः॥१२॥
एवं वायुधारणाद्युपायेन दुर्दान्तं मनो निगृह्य उपशान्तेन दान्तेन तत्त्वप्रतिपत्तियोग्येन एकान्तशीलिना एकाकिना संन्यासिनेत्यर्थः आत्मन्येव न तु स्त्र्यादौ आरमणं यस्य तेन आत्मारामेण बुद्धेन शास्त्रतत्त्वविदा आत्मा योक्तव्यः सन्धिरार्षः ॥१२॥
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा
।
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च॥१३॥
कथं योक्तव्य इत्यत आह - पञ्चानामिति । दोषान् अप्राप्तः स्पृहारूपान् प्राप्तमपि शब्दादिकं च आक्षिप्य निरस्य । एतेन प्रत्याहार उक्तः ॥१३॥
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल
।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह॥१४॥
प्रतिभां विक्षेपम् अपवर्गं लयम् । प्रतिसंहारे युक्तिमाह - इन्द्रियेति ॥१४॥
मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप
।
अहंकार तथा बुद्धौ बुद्धिं च प्रकृतावपि॥१५॥
बुद्धौ महत्तत्त्वे ॥१५॥
एवं हि परिसंख्याय ततो ध्यायन्ति केवलम्
।
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्॥१६॥
परिसंख्याय प्रविलाप्य अलम् अत्यर्थे नित्यं न त्वाकाशादिद्व्यावहारिकनित्यम् ॥१६॥
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्
।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्॥१७॥
तस्थुषं तस्थिवांसं स्थाणुं कूटस्थमित्यर्थः । नित्यमभेद्यम् अज्ञानदशायां जीवेश्वरभावेन मायया भिद्यमानमप्याकाशवदभेद्यम् । अव्ययम् अनश्वरं यतः अव्ययं ह्रासशून्यम् ॥१७॥
युक्तस्य तु महाराज लक्षणान्युपधारय
।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्॥१८॥
युक्तस्य समाधिस्थस्य सुखं स्वपेदिति स्वसंवेद्यं लक्षणम् ॥१८॥
निर्वाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः
।
निश्चलोऽर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः॥१९॥
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः
।
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्॥२०॥
पाषाण इवेति परसंवेद्यम् ॥२०॥
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः
।
क्रियमाणैर्न कम्पेत मुक्तस्यैतन्निदर्शनम्॥२१॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः
।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः॥२२॥
युक्तत्य लक्षणान्युक्त्वा युञ्जानस्याह - तैलेति । उत्तरम् उत्कृष्टतरम् एकाग्रमनसः लक्षणमिति शेषः ॥२२॥
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्
।
तथैवोत्तरमागम्य एकाग्रमनसस्तथा॥२३॥
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च
।
एवं युक्तस्य तु मुनेर्लक्षणान्युपलक्षयेत्॥२४॥
स्थिरत्वात् बहिर्मुखत्वनिवृतेः निश्चलत्वात् अन्तरप्रकम्प्यत्वात् ॥२४॥
स्वयुक्तः पश्यते ब्रह्म यत्तत्परममव्ययम्
।
महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम्॥२५॥
महतः महत्तत्त्वस्य मध्ये स्थितं त्वंपदार्थं तमसो मध्ये स्थितं तत्पदार्थं ज्वलनसन्निभं चिन्मात्रं तदुभयनिष्कृष्टम् ॥२५॥
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्
।
कालेन महता राजन्श्रुतिरेषा सनातनी॥२६॥
एतेन दर्शनेन केवलं मोक्षं देहत्यागात्प्राक्किञ्चिदज्ञानानुवृत्तिरस्तीति भावः ॥२६॥
एतद्धि योगं योगानां किमन्यद्योगलक्षणम्
।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः॥२७॥
योगं क्लीबत्वमार्षं वयं कृतकृत्या इति मन्यन्ते मनीषिणः अनुभवसिद्धं योगात्कैवल्यमित्यर्थः । तथा च श्रुतिः -
'उर्ध्वमूलमवाक्शाखं वृक्षं यो वेद प्रंसति
।
न स जातु जनः श्रद्दध्यान्मृत्युर्मा मारयादिति॥’
॥२७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकधिकत्रिशततमोऽध्यायः ॥३१६॥
याज्ञवल्क्य उवाच ।
अव्यक्तस्थं परं यत् तत् पृष्टस्तेऽहं नराधिप
।
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप॥१॥
अचलत्वेन प्रकृतेरन्यत्वं ब्रह्मणः प्रतिपादयितुमारभते - अव्यक्तस्थमिति । अत्र अव्यक्तमव्याकृतं मायाशबलं हार्दाकाश इति पर्यायास्त्रिगुणात्मकस्य कारणस्य ब्रह्मणो वाचकाः । चक्रे नाभिरिव श्रितेतिप्रयोगदर्शनात्तत्र विशिष्टे निष्कृष्टं चक्रनाभिन्यायेन श्रितं वस्तु अव्यक्तस्थम् । किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किमिति पृष्टस्ते त्वयाऽहम् ॥१॥
यथाऽऽर्षेणेह विधिना चरताऽवनतेन ह
।
मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप॥२॥
निष्कलब्रह्मविद्याया दौर्लभ्यं गोप्यत्वं देवताप्रसादप्राप्यत्वं च दर्शयितुमाख्यायिकामाह - यथार्षेणेत्यादिना । आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्त इति श्रुतेरादित्यप्रसादात् पञ्चदशशाखा द्रष्टुर्मम वचनमत्यन्तं पथ्यं ममापि गहनं च निष्कलब्रह्मकथनमभूदित्याख्यायिकातात्पर्यम् ॥२॥
महता तपसा देवस्तपिष्णुः सेवितो मया
।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ॥३॥
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्
।
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः॥४॥
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः
।
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्॥५॥
ततो मां भगवानाह वितरिष्यामि ते द्विज
।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति॥६॥
ततो मामाह भगवानास्यं स्वं विवृतं कुरु
।
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती॥७॥
मेऽऽस्यं मम आस्यं सन्धिराषः ॥७॥
ततो विदह्यमानोऽहं प्रविष्टोंऽभस्तदानघ
।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः॥८॥
ततो विदह्यमानं मामुवाच भगवान् रविः
।
मुहूर्तं सह्यतां दाहस्तत: शीतीभविष्यति॥९॥
शीती भविष्यति त्वद्देह इति शेषः ॥९॥
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः
।
प्रतिष्ठास्यति ते वेदः सखिलः सोत्तरो द्विज॥१०॥
खिलं परशाखीयं स्वशाखायामपेक्षावशात् पठ्यते तत् खिलमित्युच्यते यथा बह्वृचानां हिरण्यवर्णां हरिणीमिति श्रीसूक्तं सखिलं तत्सहितम् । सोत्तरं सोपनिषत्कम् ॥१०॥
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ
।
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति॥११॥
अपुनर्भावे मोक्षे ॥११॥
प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम्
।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत॥१२॥
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ
।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्॥१३॥
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता
।
ओङ्कारमादितः कृत्वा मम देवी सरस्वती॥१४॥
ततोऽहमर्थ्यं विधिवत्सरस्वत्यै न्यवेदयम्
।
तपतां च वरिष्ठाय निषण्णस्तत्परायणः॥१५॥
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्
।
चक्रे सपरिशेषं च हर्षेण परमेण ह॥१६॥
चक्रे कर्मकर्तरि प्रयोगः । स्वयमेवाविरभूदित्यर्थः ॥१६॥
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम्
।
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः॥१७॥
मातुलस्य वैशम्पायनस्य ॥१७॥
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः
।
व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः॥१८॥
मिषतो देवलस्यापि ततोऽर्धं कृतवानहम्
।
स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह॥१९॥
मिषत इति । देवलस्य मातुलपक्षीयस्य मिषतः पश्यतः पुरस्तात् । अर्थे अर्थनिमित्तं मातुलादिभिः सह विमर्दे सति समं विभज्य ग्राह्यमिति निर्बन्धे सति देवलसंमत्याऽहं दक्षिणाया अर्धं कृतवान् स्वीकृतवानित्यर्थः । दक्षिणायार्थे इति सन्धिरार्षः ॥१९॥
सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै
।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः॥२०॥
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ
।
तथैव रोमहर्षेण पुराणमवधारितम्॥२१॥
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्
।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप॥२२॥
कर्तुं शतपथं चेदमपूर्वं च कृतं मया
।
यथाभिलषितं मार्गं तथा तच्चोपपादितम्॥२३॥
कर्तुं प्रकटीकर्तुम् ॥२३॥
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम्
।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः॥२४॥
शाखाः पञ्चदशेमास्तु विद्या भास्करदेशिताः
।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्॥२५॥
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्
।
चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत॥२६॥
ब्रह्मण्यं ब्राह्मणजातेर्हितम् ॥२६॥
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः
।
चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव॥२७॥
प्रष्टरि सत्यत्यन्ताभिनिवेशेन विचारे प्रवर्तते इति दर्शयति - विश्वावसुरित्यादिना ॥२७॥
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा
।
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च॥२८॥
पञ्चविंशतिममिति । श्रवणमनु ईक्षा युक्त्या आलोचनमन्वीक्षा मननं तत्प्रधानामान्वीक्षिकीम् । चतुर्विंशत्प्रश्नाः श्रुत्यवष्टंभेन पञ्चविंशो युक्त्यवष्टंभेनेत्यर्थः । अत्र कृत्स्नं शास्त्रं मायाशबलपरं निष्कलो नास्त्येवेति पूर्वः पक्षः । स एवास्ति मायैव नास्तीति सिद्धान्त इत्याशयेन विश्वाविश्वमित्यादिकः संदर्भः प्रवर्तते । अत्र यद्यप्येक एव प्रश्न एक एव सिद्धान्तस्तथापि विषयवाक्यानां प्रकारभेदात्प्रतिप्रकारं स्वपक्षस्थापनं परपक्षदूषणं चेति द्वौ द्वौ प्रश्नौ ज्ञेयौ । उत्तराणि च स्वपक्षसाधकानि परपक्षदूषणानीति द्विप्रकाराणि चतुर्विंशतिरिति ज्ञेयम् । विश्वाविश्वमिति । ’आत्मेत्येवोपासीत’ 'इदं सर्वं यदयमात्मा' 'य एवं वेदाहं ब्रह्मास्मीति' 'स इदं सर्वं भवति' इत्यव्याकृताख्यस्य कारणब्रह्मण आत्मत्वेनोपासनं विधाय तस्य प्रतिपत्तव्यं रूपमुपासनफलं च सार्वात्म्यमेवोक्तम् । अतः सविशेषाद्वैतमेव तत्त्वं न हि सर्वस्मादन्यदसर्वं वस्त्वस्तीति वक्तुं शक्यम् । वदतो व्याघातापत्तेरित्यर्थः । ननु 'सत्यं ज्ञानमनन्तं ब्रह्म' 'यो वेद निहितं गुहायां परमे व्योमन्' इति परमव्योमशब्दिते मायाशबले सत्यादिशब्दितस्य निष्कलस्य कुण्डबदरन्यायेन सत्त्वमुक्तं कथं शुद्धं नास्तीत्युच्यते इत्यत आह - तथाऽश्वाश्वमिति । यथाऽश्वातोऽन्योऽश्वो रेतःसिगस्त्येवं मायायां स्वप्रतिबिम्बस्यार्पयिता द्वितीयोऽस्तीति यद्युच्येत - तदपि न । 'को ह्येवान्यात्कः प्राप्यात् यदेष आकाश आनन्दो न स्यात्' इत्याकाशानन्दयोः सामानाधिकरण्यात् 'सैषानन्दस्य मीमासा भवति' इत्यादिना कृत्स्नाया उपनिषद आनन्दमात्रे पर्यवसानं चानन्दानन्दिनोरभेदाद्वा शुक्लः पट इति न्यायेन वा ज्ञेयम् । 'आनन्दं ब्रह्मणो विद्वान्' इति सम्बन्धदर्शनात् । अत आनन्दादिगुणविशिष्टमेकमेव जगत्कारणं न तु ततो निष्कृष्टं कुण्डबदरवदन्यद्ब्रह्म निष्कलमस्तीति भावः । तथा च सर्वत्रैवं योज्यम् । विश्वैव वर्तते न त्वविश्वस्तथाश्वैवास्ति न त्वश्व इति । ननु माण्डूक्ये एष सर्वेश्वर इत्यादिना तृतीयमानन्दमयं निरूप्य नान्तःप्रज्ञमित्यादिना 'शिवमद्वैतं चतुर्थं मन्यन्ते' इति पृथक् तयोर्भेदेनोपपादनं दृष्टम् । न एष सर्वेश्वर इत्यादेरुत्तरान्वयित्वात् । तथा च विश्वतैजसप्राज्ञभेदेन त्रिविधं जीवमुक्त्वा चतुर्थं ब्रह्मोपदिष्टम् एष सर्वेश्वर इत्यादिना स विज्ञेय इत्यन्तेन ग्रन्थेन । तथा च यथा वृक्षात्मनैकत्वं पत्रपुष्पफलाद्यात्मना च नानात्वमिति विशिष्टमेकमेव ब्रह्म । तथा च श्रुतिः - ’आपो वा इद सर्वं विश्वा भूतानि' इत्युपक्रम्य 'भूर्भुवःसुवराप ओम्' इति अबाख्यस्य जगत्कारणस्य ओमर्थत्वमाह । न ततोऽन्यद्दर्शयतीत्याह - मित्रं वरुणं चेति । वरुणशब्देनापः मित्रशब्देन सूर्यः ताभ्यां सगुणानर्गुणे उच्येते । तथा च वरुण एवास्ति न तु मित्र इति ॥२८॥
ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा
।
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च॥२९॥
ननु घटादालोक इव ज्ञेयान्मायाशबलात् प्रकाशरूपं ज्ञानमन्यत् न तु तयोर्गुणगुणिभावो युज्यते इत्याशङ्क्याह - ज्ञानं ज्ञेयमिति । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति पूर्वप्रक्रान्तं ब्रह्म भृगुणा वरुणोऽधीहि भगवो ब्रह्मेति पृष्टो 'यतो वा इमानि भूतानि जायन्ते' इत्यादिना ब्रह्मलक्षणमुक्त्वाऽऽह तद्विजिज्ञासस्व तद्ब्रह्मेति इति तस्यैव ज्ञेयत्वमुक्तम् । अतो ज्ञानवदेव ब्रह्म । प्रकाशमात्रस्य जगज्जन्मादिहेतुत्वायोगात् । तस्माज्ज्ञेयान्निष्कृष्टं निष्कलं ज्ञानं नास्ति किं तु ज्ञेयमेवास्ति । ननु एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इति श्रुतेः प्रकाशस्य पृथक्त्वे तस्योपाधिमालिन्याज्जीवेष्वल्पत्वमुपाधेः स्वच्छत्वाच्चेश्वरे पूर्णत्वमित्यज्ञो जीवो ज्ञ ईश्वर इति तयोर्विभागो युज्यते । अन्यथा जीवेशयोस्तुल्यज्ञानता स्यात् । मृद्धटयोरिव तुल्यगन्धतेत्याशङ्क्याह - अज्ञो ज्ञ इति । अज्ञत्वज्ञत्वे तयोः स्वाभाविके एव न त्वौपाधिके प्रमाणाभावात् । तस्मान्न केवलः प्रकाशः पृथगस्ति । ननु 'तदैक्षत बहु स्यां प्रजायेय' इति कल्पादौ ईश्वरो जीवादृष्टानुरोधात्स्रष्टव्यं सर्वमीक्षते अत एव सर्वज्ञः शुद्धस्तु 'यत्र नान्यत्पश्यति नान्यच्छृणोति स भूमा यो वै भूमा तत्सुखम् अथ यत्रान्यत्पश्यति तदल्पम् अथ यदल्पं तन्मर्त्यम्' इति च तयोर्भेदः श्रुत इत्याह - कस्तपा इति । य एको भूमानन्दः स एव तपाः आलोचनकर्ता आकाशाख्यः । तथा च श्रुतिः - ’यद्वाव कं तदेव खं यदेव खं तदेव कम्' इति कखयोरभेदमुक्त्वोपसंहरति - प्राणं च हास्मै तदाकाशं चोचुरिति । तत्र प्राणस्य विजानाम्यहं प्राणो ब्रह्मेति वदता उपकोसलेन प्रागेव ज्ञातत्वादाकाशाख्यकारणब्रह्ममात्रपरोऽयं वाक्यसंदर्भ इत्यवसीयते । ननु सगुणब्रह्मपरैवोपकोसलविद्या तत्र तद्युक्तमेव । निर्गुणविद्याधिकारे तु अतपाः निर्गुणः । सूर्यादः सूते विश्वमिति सूर्यो मायावी तमत्तीति सूर्यादः स एव सूर्योऽपि मायावेशादिति तापनीये श्रूयते ईश्वरप्रासस्तुरीय इति मायया ह्यन्यदिवेति चेति । तस्मादस्तीश्वरात्पृथङ्निष्कल इत्याशङ्क्याह - अतपाः सूर्यादः सूर्य इति चेति । एकस्मिन्निर्गुणे सगुणादत्वं सगुणस्रष्टृत्वं च न युज्यते विरोधात् न हि काष्ठादस्य वह्नेः काष्ठोपादानत्वं घटते । कूर्माङ्गवन्निर्गुणात्सगुणस्याविर्भावतिरोभावावेव भवत इति चेत्तस्यैव तर्हि सगुणत्वापत्तेः । श्रुतिस्तु सुषुप्तिसमाधिकालिकसुखप्रशंसामात्रपरेति द्रष्टव्यम् । ननु यत्र त्वस्य सर्वमात्मैवाभूतत्केन के पश्येदिति विद्यावस्थायां द्वैतदर्शनं निषेधति । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायां द्वैतदर्शनमिति वदन्ती कथमुपचारान्नेया तस्मादस्ति सगुणात्सद्वयादद्वयमन्यत् । रज्जूरगवत्तु तत्रेश्वरस्योदयलयाविति नोक्तदोष इत्याशङ्क्याह - विद्याविद्ये इति । उपासनैव विद्या तदभावोऽविद्या । तत्रापि देहमिव कृत्स्नं ब्रह्माण्डस्वरूपादनन्यत्वेन पश्यतीति नोक्तश्रुतिविरोध इति भावः ॥२९॥
वेद्यावेद्यं तथा राजन्नचलं चलमेव च
।
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम्॥३०॥
ननु ज्ञातृज्ञानज्ञेयात्मकत्रिपुटीभानमविद्या तदद्मानं विद्येति हि उदाहृतश्रुत्योरर्थो न त्वदुक्त इत्याशङ्क्याह - वेद्यावेद्यमिति । वेद्यविषया हि विद्या नावेद्यविषया भवितुमर्हति । न च त्रिपुठ्यभाने वेद्यविषयत्वमस्ति विद्यायाः वदतो व्याघातात् । वेद्यं च ब्रह्मैव । 'आत्मा द्रष्टव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इत्यादिश्रुतिभ्यः । यच्चावेद्यं तदब्रह्म अतः एव छान्दोग्ये सत्यकामः सत्यसङ्कल्प आत्मा वेद्यत्वेन श्रूयते ’य आत्माऽपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यो यस्तमात्मानमनुविद्य विजानाति स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति' अप्रियवेत्तेव भवति विनाशमेवापीतो भवतीति मूर्च्छामरणदृष्टान्तेन सुषुप्तं च निन्दितम् । त्रिपुट्या अभावान्निर्विकल्पकज्ञानान्मुक्तिरिति चेत्सर्वेऽपि सुषुप्तौ तादृशाः सन्तीति व्यर्थं साधनम् । सुषुप्तिसमाध्योर्भेदापादनं परिभाषामात्रम् । अनुभूयमानस्य त्रिपुट्यभावस्योभयत्र तुल्यत्वादतो वेद्यमेव ब्रह्म न त्ववेद्यम् । ननु वेद्यं चेद्ब्रह्मैव न भवति घटादिवदनात्मवत्त्वाज्जडत्वाच्च । आत्मा हि ब्रह्म ज्ञानमात्ररूपश्च 'अयमात्मा ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतिशतेभ्यः । अतः खाभाविकानां देहादिधर्माणां स्थूलत्वादीनां योगजधर्माणामणुत्वादीनां च व्यभिचारिणां व्युदासेन 'अस्थूलमनणु' इत्यादि वाक्येभ्यः सर्वदृश्यधर्मशून्यमक्षरं प्रत्यक्त्वं प्रतिपत्तव्यमित्याशङ्क्याह - अचलं चलमिति । द्विविधं हि ब्रह्मणि धर्मजातं श्रूयतेऽचलं चलं च । तत्रापहतपाप्मत्वादिसत्यसङ्कल्पत्वान्तमचलम् । अणुत्वस्थूलत्वादिकं यत्प्रसादाद्योगिनामपि वर्तते तदस्यानित्यमिति । न हि सत्यसङ्कल्पोऽप्यणुः स्यामिति ध्यायन् स्थूलत्वेन रोद्धुं शक्यो नापि स्थूलः स्यामिति ध्यायन्नणुत्वेन न हि युगपत्तद्द्वयं संभवति परस्परविरोधात् । तस्माद्यथा उच्छ्रायपरिणाहादयो वृक्षधर्मा एवं सुरभित्वमधुरत्वकषायत्वादयः परंपरया वृक्षगता आप पुष्पफलशलाटूनामेव धर्मा न तु वृक्षस्य । अव्याप्यवृत्तित्वात्तेषां तथा सत्यसंकल्पादयोऽचला ब्रह्मधर्माः । स्थूलत्वाणुत्वादयस्तु तेन समरसीभूतस्य शक्त्यंशजातस्य अतस्तन्निषेधो ब्रह्मणि युज्यत एव वृक्षे सौरभादेरिव स्वाश्रयतादात्म्येन तत्र तत्प्रसक्तेरित्यर्थः । किं च आत्मैव चेद्ब्रह्म तर्हि शास्त्रस्य वैयर्थ्यं नित्यापरोक्षत्वात्तस्य तद्गुणानामपि ज्ञानैश्वर्यादीनां सर्वदैव भानापत्तेश्च । न हि मणिबुद्ध्याऽपि स्पृष्टः स्फुलिङ्गो न दहतीत्यस्ति अतो देहबुद्ध्या गृहीतोऽपि स्वाभाविकं धर्मं प्रकाशयेदेव । तस्मादयमात्मा ब्रह्मेति ममात्मा भद्रसेन इतिवदुपासनार्थमौपचारिकोऽभेद इत्याशयेनाह - अपूर्वमिति । उपास्तेः प्रागविज्ञातम् उपास्त्या तु कीटभृङ्गन्यायेन प्राप्तुं शक्यमित्यर्थः । ननु उपास्त्या साध्यस्य मोक्षस्य कथं नित्यता स्यात् । नित्यश्च मोक्षः । क्रियासाध्यस्यानित्यत्यं च सर्वसिद्धमित्याशङ्क्याह - अक्षयं क्षय्यमिति । क्षययोग्यमपि न च पुनरावर्तत इति शास्त्रबलादक्षयमेव । न हि शास्त्रीयेऽर्थे युक्तिः सङ्क्रमते येन क्रियासाध्यत्वादनित्यत्वं मोक्षस्यानुमीयेत । न हि भस्मीभूतेभ्यः सोमाज्यपयःप्रभृतिभ्यः स्वर्गोत्पत्तौ शास्त्रादृते किञ्चिन्मानमस्ति । तस्मादेतत्प्रश्नजातं श्रुत्युपष्टव्धमनुत्तमं युक्तिमत्तरम् । न ह्यात्यन्तिकं कैवल्यं पाषाणकल्पं नैरात्म्यवादादनतिरिच्यमानं पुरुषार्थो भवत्यपि त्वात्यन्तिकं सत्यसङ्कल्पत्वादिकमेव । लोकेऽपि न हि काश्चत्सुषुप्तिं पुरुषार्थत्वेनोपैत्यपि तु स्त्र्यादिभोगमेव । तत्सामान्याद्वेदेऽपि पुरुषार्थभूतस्यार्थस्य निर्णयः कर्तव्यः । तस्मादव्यक्तमेव मुख्यं ब्रह्म न तु ततोऽन्यान्निष्कलं नाम शून्यकल्पं किञ्चिदस्तीति सिद्धम् ॥३०॥
अथोक्तश्च महाराज राजा गन्धर्वसत्तमः
।
पृष्टवाननुपूर्वेण प्रश्नमर्थविदुत्तमम्॥३१॥
अथान्वीक्षिक्या सहितायाश्चतुर्विंशतिप्रश्न्याः श्रवणानन्तरम् ॥३१॥
मुहूर्तमुष्यतां तावद्यावदेवं विचिन्तये
।
बाढमित्येव कृत्वा च तूष्णीं गन्धर्व आस्थितः॥३२॥
ततोऽनुचिन्तयमहं भूयो देवी सरस्वतीम्
।
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम्॥३३॥
घृतमिवेति प्रश्नानां श्रुतिसारत्वेन गहनत्वमुक्तम् ॥३३॥
तत्रोपनिषदं चैव परिशेषं च पार्थिव
।
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्॥३४॥
परिशेषं श्रुतेर्वाक्यशेषभूतं तर्कम् । मथ्नामि श्रुतिम् उपक्रमोपसंहारैकरूप्यादिना तात्पर्यं लिङ्गषट्केन परिभावयामि । युक्तिमपि साधकबाधकतर्कबलेनालोडयामि । परामान्वीक्षिकीं श्रुतिदर्शितां युक्तिम् ॥३४॥
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी
।
उदीरिता मया तुभ्यं पञ्चविंशादधिष्ठिता॥३५॥
चतुर्थी त्रयीं वार्तां दण्डनीतिं चापेक्ष्य । सांपरायिकी मोक्षाय हिता । हे राजशार्दूल हे जनक । उदीरिता तुभ्यम् । सा विश्वावसुनिकटेऽप्युक्तेत्यर्थः । गतग्रन्थेन पञ्चविंशात्पञ्चविंशः शारीरस्तमधिकृत्य स्थिता ॥३५॥
अथोक्तस्तु मया राजन् राजा विश्वावसुस्तदा
।
श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह॥३६॥
उक्तप्रश्नानामुत्तराणि वक्तुमुपोद्घातयति - अथेति ॥३६॥
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि
।
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम्॥३७॥
विश्वेति । अव्यक्तमिति च्छेदः । भूतभव्यरूपं यद्भयं संसारस्तत्करोतीति भूतभव्यभयङ्करम् ॥३७॥
त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा
।
अश्वश्चाश्वा च मिथुनमेवमेवानुदृश्यते॥३८॥
अविश्वो निष्कलस्तथेति गौडपाठः प्रामाणिकः 'आत्मेत्येवोपासीत' इत्यत्रोक्तस्य उपास्यस्यात्मनः 'तदेतत्प्रेयःपुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' इति सर्वान्तरत्वमयमिति प्रत्यगनन्यत्वं चोक्तम् । तदन्यस्य च विश्वस्य स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं ते रोत्स्यतीति शोकहेतुत्वमुक्तम् । अतः पौर्वापर्यपर्यालोचनाद्दुःखदा विश्वा । तदन्योऽविश्वो निष्कल आत्मेति सिद्धम् । 'इदं सर्वं यदयमात्मा' इति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः स पुमानितिवत् । आत्मविदः सार्वात्म्योक्तिरपि बाधकालीनानुभवानुसन्धानमात्रमिति ज्ञेयम् । यदुक्तं यदेष आकाश आनन्दो न स्यादित्याकाशानन्दयोः सामानाधिकरण्यात् गुणगुणिभावेनाभेद इति तत्राह - अश्वश्चेति । मिथुनम् अश्वा अश्वश्चेति द्वयमित्यर्थः ॥३८॥
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम्
।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा॥३९॥
अव्यक्तं स्त्रीरूपां प्रकृतिम् । पुरुषं पुंरूपं रेतःसिचं यस्य प्रतिबिम्बं प्राप्य प्रकृतिः सर्वं करोति स बिम्बभूतोऽन्यो निष्कल इत्यर्थः । श्रुत्यर्थस्तु - आकाशे इति सप्तमी, तेन यदि कारणे आनन्दो न स्यात्तर्हि कार्ये सुतरां न स्यादित्याधाराधेयभावश्च कारणानन्दयोः सर्वत्र श्रूयत इति न गुणगुणिभावेन तयोः सम्बन्धः । 'आनन्दं ब्रह्मणो विद्वान्' इति षष्ठ्यपि राहोः शिर इतिवदौपचारिकी वा बोध्या ब्रह्मण इति पदं ब्रह्मवित्परं वा कर्तव्यम् । यत्तूक्तम् आपो वा इदं सर्वमित्यादिश्रुतेर्वरुण एवास्ति न मित्रः । माण्डूक्योक्तं सर्वेश्वरत्वादिकमपि तुरीयान्वय्येवेति तत्राह - तथैवेति । उदाहृता श्रुतिः कारणमात्रपरा न तु शुद्धं निषेधतीति । न तथा माण्डूक्यश्रुतं सर्वेश्वरत्वादिकं तृतीयमानन्दमयं प्रकृत्य श्रूयमाणं चतुर्थनिष्कलपरतया नेतुं शक्यमतोऽस्ति वरुणादन्यो मित्र इत्यर्थः ॥३९॥
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च
।
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते॥४०॥
यत्तूक्तं प्रकाशमात्रस्य जगज्जन्मादिहेतुत्वं न संभवतीति ज्ञानवदेव ब्रह्मेति तत्राह - ज्ञानं तु प्रकृतिमिति । यत्तादृशं जगज्जन्माद्युपयोगि ज्ञानं तन्मायावृत्तिरूपत्वात्प्रकृतिरेव । सत्त्वधर्मो हि ज्ञानमिति सांख्यप्रसिद्धिः । यत्तु तेन ज्ञानेन प्रमाणवृत्तिरूपेण जन्यते तत्प्रमाणफलभूतं प्रमारूपं ज्ञानं वेदान्तेषु ज्ञेयमित्युच्यते । यथोक्तम् -
'परागर्थप्रमेयेषु या फलत्वेन संमता
।
संवित्सैवेह मेयोर्थो वेदान्तोक्तिप्रमाणतः
।
'
इति । तच्च ज्ञेयस्वरूपं ज्ञानं निष्कलं सत्यं ज्ञानमित्यादिश्रुतिविषय इत्यर्थः । यत्तु ज्ञत्वाज्ञत्वे ईशजीवयोः स्वाभाविके तन्निरस्यति - अज्ञेति । ज्ञाज्ञौ निष्कलमेव ब्रह्मेत्यर्थः । 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति ब्रह्मण्यौपाधिको जीवेशभावौ श्रूयेते तेनोपाध्यपगमे तावुभावपि निष्कलमेव ब्रह्मेति भावः ॥४०॥
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते
।
तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः॥४१॥
यत्तु आनन्दाकाशयोरभेदबोधकं वाक्यमुदाहृतं यद्वाव कं तदेव खमिति तत्प्रकरणिनः सगुणस्य स्तुतिमात्रमित्याशयेनाह - क इति । कः आनन्दः तपाः अव्यक्तं तौ च क्रमेण पुंप्रकृती इत्यर्थः । यत्तूक्तम् अतपाः सूर्यादः सूर्य इति कूर्माङ्गवन्निर्गुणात्सगुणस्याविर्भावतिरोभावाविति चेन्निर्गुणस्यापि सगुणत्वापत्तिरिति तत्राह - अतपा निष्कल इति । निष्कलस्य रज्जूरगवत्सगुणलयोदयाधिष्ठानत्वमतो न निष्कलत्वव्याघात इत्यर्थः ॥४१॥
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते
।
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु॥४२॥
ननु निष्कलस्य वेद्यत्वं न युज्यते । त्रिपुट्या अभानादित्युक्तमत आह - तथैवेति । यदज्ञानं पुरुषार्थप्रतिबन्धकं तदवेद्यम् ।
'यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवः
।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति॥'
इति ॥ श्रुत्या आत्मज्ञानस्य तथात्वादात्मैव वेद्यः प्रधानं तु परिशेषादवेद्यमेव तद्वेदनं च मनोनाशादेवेति । न तत्र त्रिपुटीभानप्रसक्तिरस्ति । तथा च श्रुतिः -
’तावन्मनो निरोद्धव्यं हृदि यावत् क्षयं गतम्
।
एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥’
इति । अन्यथा घटादिवदनात्मत्वं जडत्वं स्थौल्यादिमत्त्वं च ब्रह्मणः स्यात् तथा च - 'अयमात्मा ब्रह्म विज्ञानमानन्दं ब्रह्म अस्थूलमनणु' इत्यादिश्रुतिविरोधः । न ह्यसति बाधके तासामौपचारिकत्वं वक्तुं युक्तम् । यद्वा अयमात्मेत्युपास्त्यर्थं गौणं सामानाधिकरण्यम् । छान्दोग्ये सगुणस्यैव वेद्यत्वलक्षणोपास्त्यत्वश्रवणात् । विदेरुपास्त्यर्थत्वस्यापि यो वायुं दिशां वत्सं वेदेत्यादौ सर्वत्र प्रसिद्धेश्चेत्याशङ्क्याह - तथैवेति । यत् आवृतं तद्वेद्यम् । आवरणं च सत्येन मलेन दर्पणादेर्दृष्टम् असत्येनोरगेण रज्ज्वादेश्च पक्षद्वयेपि प्रत्यगात्मैव वेद्यो नत्वनात्मा तटस्थ ईश्वरो जडत्वापत्तेरिति नात्मब्रह्मणोरभेदो गौणः अथागौणोऽप्यभेद उपास्तिसाध्य इत्यपि न छान्दोग्ये एव सोऽन्वेष्टव्य इत्यात्मन्यन्वेषणविध्याक्षिप्तस्यावरणस्यानुवादेन एतं ब्रह्मलोकं न विन्दत्यनृतेन हि प्रत्यूढा इत्यनृतत्वविधानात् ब्रह्माभिन्नं लोकं ब्रह्मलोकमात्मानम् अतोऽनृताज्ञानमात्रापनोदेन ब्रह्म वेद्यमेव न तूपास्यम् । अव्यक्तं त्ववेद्यं तुच्छत्वात् ॥४२॥
चलां तु प्रकृतिं प्राहुः कारणं क्षयसर्गयोः
।
आक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः॥४३॥
यत्तूक्तं वृक्षदृष्टान्तेन ज्ञानैश्वर्यादीनां सत्त्वं स्थूलत्वादीनां निषेधश्च विशिष्टे ब्रह्मणि युज्यत इति तत्राह- चलामिति । चला प्रकृतिरचलः पुरुष इति तयोः परिणामित्वकूटस्थत्वादिकृतविशेषात्पारमार्थिकतादात्म्यायोगेन ब्रह्मणि प्राकृतानां ज्ञानैश्वर्यस्थौल्यादीनामाध्यासिकतादात्म्येन प्रसक्तानां मुख्यवृत्त्यैव निषेधो युज्यत इति भावः । प्रकृतिर्विक्रियमाणा जगल्लयोदयकर्त्री पुरुषस्त्वविक्रियमाण एव तत्कर्तेति श्लोकार्थः ॥४३॥
तथैव वेद्यमव्यक्तमवेद्यः पुरुषस्तथा
।
अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि॥४४॥
यद्यपि शास्त्रतोऽवेद्यमव्यक्तं वेद्यः पुरुष इत्युक्तम् । तथापि वस्तुस्वभावतो वेद्यमव्यक्तं दृश्यत्वात् । अवेद्यः पुरुषोऽदृश्यत्वादिति तत्त्वमाह - तथैवेति । यत्तु आत्मा चेद्ब्रह्म तर्हि तस्य नित्यापरोक्षतया तज्ज्ञानफलं सार्वज्ञ्यं सर्वस्यैव स्यादिति तत्राह - अज्ञाविति । यथा प्रकृतिर्जडत्वात्स्वात्मानं न जानात्येवं निष्कलात्मापि स्वात्मनि वृत्तिविरोधात्स्वात्मानं न जानात्यत उभावप्यज्ञौ । आत्मनो निल्यापरोक्षत्ववादास्तूदासीनबोधरूपतया न तु वृत्तिविषयतया । यौ हि सोपाधी जीवेशौ ज्ञातृज्ञेयौ तावधिकृत्य जीवस्यात्मज्ञानं तज्ज्ञानात्सार्वज्ञ्यमिति चोच्यते निष्कलज्ञानस्य तु सार्वज्ञ्यफलकत्वं 'यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्कामान्सह' इति श्रूयमाणं नान्तरीयकमिति ज्ञेयम् । ईशज्ञानस्य चन्द्रशाखान्यायेन तत्रोपलक्षणत्वात् तस्मादुपलक्षणस्य ईश्वरस्याज्ञानादज्ञातं ब्रह्मेति नापूर्वत्वव्याहतिस्तज्ज्ञानस्येति भावः । ध्रुवौ अनादी अक्षयौ परिणामिनित्यत्वाद्व्यवहारापेक्षया प्रकृतिरपि नित्या पुरुषस्त्वसाध्यत्वादेव नित्य इति ॥४४॥
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः॥४५॥
यत्तु साध्योऽपि मोक्षः शास्त्रबलान्नित्यो भवतीति तत्राह - अजौ नित्याविति । द्वित्वमविवक्षितम् 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इति श्रुत्या यत्कृतकं तदनित्यमिति तर्कोपगृहीतया कर्मफलं निन्दित्वा तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति विधीयमानमात्मज्ञानमुपासनारूपं चेत्तस्य कर्मान्तःपातित्वाद्व्यर्थैव कर्मनिन्दा । अकर्मरूपस्यान्यस्य तत उत्कृष्टविधेयस्याभावात् । यद्येतदपि वाक्यमुपासनापरमित्याग्रहस्तदाऽथ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मैतदमृतमभयमेतद्ब्रह्मेति वाक्यमात्मविद्यापरं द्रष्टव्यम् । संप्रसादः सुषुप्ताभिमानी प्राज्ञः यं प्रकृत्य माण्डूक्ये 'एष सर्वेश्वरः' इत्यादि श्रूयते स परं ज्योतिःशब्दितं निष्कलम् उत्तमं पुरुषं ज्ञात्वा स्वेन ऐश्वरेण रूपेण संयुज्यते एतदेव परं ज्योतिरमृतादिरूपमिति श्रुत्यर्थः । तेन यदकर्मफलं तदजं तदेव च नित्यमित्यर्थः ॥४५॥
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्
।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य च विद्यते॥४६॥
एवं चतुर्विंशत्या प्रश्नैः श्रुतिबलेन प्रत्युत्थितस्य श्रुतिबलेनैवोत्तरं दत्तम् । इदानीमान्वीक्षिक्या केवलतर्कबलेन प्रत्यवस्थितस्य तर्कबलेनैवोत्तरं वक्तुमुपक्रमते - अक्षयत्वादिति सार्धेन । यत्तु नित्यः स्वर्ग उपास्तिसाध्यः पुरुषार्थो न कैवल्यं पाषाणकल्पं नैरात्म्यवादानतिरेकादिति तत्राह यतः प्रजननेऽक्षयत्वादजमत्राव्ययमाहुरिति योजना । प्रकृष्टं जननमस्येति प्रजननं तस्मिन्ननित्यस्वर्गे । ल्यब्लोपे पञ्चमी । अक्षयत्वं परोक्तं श्रुत्वा अक्षपादादय आचार्याः अत्र व्यवहारे यदजमाकाशादि तदेवाव्ययमित्याहुः । जायमानस्य घटादेर्व्ययो हि प्रत्यक्षस्तद्वत्पराभिमतस्य मोक्षस्यापीत्यर्थः । न ह्यागमशतेनापि वस्तुस्वभावोऽन्यथयितुं शक्यते इति भावः । पूर्षु अष्टसु वसतीति पुरुषस्तमक्षयं प्राहुः । न तु पुरामक्षयत्वं युक्तम् । तथा च कैवल्यमेव मुक्तिर्न त्वैश्वर्यं तारतम्यग्रस्तत्वेन कार्यत्वेन परतन्त्रत्वेन च तस्यापि दुःखरूपत्वादिति भावः ॥४६॥
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः
।
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी॥४७॥
नन्वस्मदीया मोक्षिणोऽप्राकृतेषु लोकेषु स्थिताः प्रतिपदमभिनवं देहेन्द्रियादिकमुपादाय भगवदाराधनं वा स्त्र्यादिभोगं वा कुर्वन्त्यतो न तेषां प्रकृतिलयेऽपि प्रलयो नापि जराद्याघातोऽतस्तेषां प्रवाहनित्यमैश्वर्यम् । तथा च श्रीधरस्वामिभिर्वेदस्तुतिटीकायामुदाहृतमुपनिषद्वाक्यं 'यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च मुक्ता अपि लीलया विग्रहं कृत्वा यं भजन्ते' इति तद्भाष्यं चोदाहृतमित्याशङ्क्याह -गुणक्षयत्वादिति । गुणानां संशयवत्त्वादित्यर्थः । अप्राकृतेषु लोकेषु सत्त्वादयो गुणाः । सन्ति न वा । अन्त्ये नामान्तरेण कैवल्यमेव तत् । आद्ये प्रलयकाले गुणसाम्यावस्थायां गुणकार्यत्वात्तेषामपि क्षयोऽवश्यंभावी । अथ तेषामनादित्वान्न क्षय इति तत्राह - प्रकृतिः कर्तृत्वादिति । काकाक्षिवदयं हेतुरुभयत्रापि सम्बध्यते । प्रकरोतीति प्रकृतिरिति व्युत्पत्तेस्तेषामकार्यत्वे प्राकृतत्वमेव न स्यात् । न चेष्टापत्तिः । ब्रह्मव्यतिरिक्ताप्राकृतवस्त्वन्तरकल्पने प्रमाणाभावात् । अतोऽन्यदार्तमिति श्रुत्या तन्नित्यत्वकल्पनाबाधाच्चेत्यर्थः । यत्वैश्वर्यं प्रवाहनित्यमिति तत्राह - कर्तृत्वादक्षयमिति । स हीदमन्नं पुनः पुनर्जनयतीति श्रुत्या भावनाज्ञानकर्मभिः पुनः पुनर्जायमानस्य भोग्यस्याक्षयत्वमुक्तम् । न च भोगभूमौ तानि सन्ति । तस्मादप्राकृतेषु लोके भोग्यस्याक्षयत्वं न युज्यते । कर्मभूमौ साधितस्य तस्य क्षयावश्यंभावात् । भोगभूमौ चानुष्ठानाभावादिति सिद्धम् । श्रीधरस्वामिभिरुदाहृतयोः श्रुतितद्भाष्ययोस्तु योगसिद्धजीवन्मुक्ताभिप्रायेणाप्युपपत्तिरिति नाप्राकृतलोककल्पनं युक्तमिति । उपसंहरति - एषेति । उक्तेति शेषः ॥४७॥
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः॥४८॥
विद्योपेतम् आन्वीक्षिक्या विद्यया सहितं धनम् 'ऋचः सामानि यजूषि सा हि श्रीरमृता सताम्' इति श्रुतेः श्रीशब्दिता वेदविद्या धनम् । तां सोपपत्तिकां संपाद्य श्रवणमनने कृत्वेति भावः । कर्मणा गुरूपसदनादिना यत्नेन सर्वे वेदाः नित्यकर्मणि एकान्तदर्शना विज्ञेया इत्यर्थः ॥४८॥
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः
।
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम॥४९॥
एते वियदाद्याः यस्मिन्नधिष्ठाने जायन्ते लीयन्ते च तं वेदार्थं वेदप्रतिपाद्यं वेद्यम् आत्मानं ये न जानन्ति ते यतश्च्युता भवन्ति तन्नित्यमिति पूर्वानुषङ्गः ॥४९॥
साङ्गोपाङ्गानपि यदि यश्च वेदानधीयते
।
वेदवेद्यं न जानीते वेदभारवहो हि सः॥५०॥
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम
।
विष्ठां तत्रानुपश्येत न मण्डं न च वै घृतम्॥५१॥
विष्ठां विष्ठासमं मण्डं पश्येत न तु घृतं मण्डं वा शुद्धम् ॥५१॥
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति
।
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः॥५२॥
अवेद्यं प्रकृतिः वेद्यं ब्रह्म यो वेदविन्न विन्दति न लभते नापरोक्षीकरोति ॥५२॥
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना
।
तथास्य जन्मनिधने न भवेतां पुनः पुनः॥५३॥
यथा येन दर्शनेन ॥५३॥
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्
।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः॥५४॥
त्रयीं कर्मकाण्डोक्तं धर्मं क्षयं क्षयवन्तं परित्यज्य अक्षयं धर्मं योगम् ॥५४॥
यदानुपश्यतेऽत्यन्तमहन्यहनि काश्यप
।
तदा स केवलीभूतः षड्विंशमनुपश्यति॥५५॥
पश्यते दृश्यते कर्मणि तङ् । आत्मेति शेषः । शुद्धस्त्वंपदार्थो यदा प्रत्यहं दृश्यते तदा वाक्यजज्ञानेन केवलीभूतस्त्यक्ताविद्यः । षड्विंशं तत्पदार्थम् ॥५५॥
अन्यश्च शाश्वतोऽव्यक्तस्तथान्यः पञ्चविंशकः
।
तस्य द्वावनुपश्येतां तमेकमिति साधवः॥५६॥
तत्त्वमसीति वाक्यार्थमेवाह - शाश्वत ईश्वरः पञ्चविंशको जीवः तस्य तेऽनेन मूढेन द्वावनुदृश्येताम् अत्रापि कर्माण तङ् । संभावनायां लोट् । पृथगिव संभाव्येते इत्यर्थः । तमिति विधेयापेक्षया एकत्वं तावुभावपि एकमभिन्नं वस्त्विति साधवो वदान्तनिष्ठाः सांख्याः पश्यन्ति ॥५६॥
तेनैतं नाभिनन्दन्ति पञ्चविंशकमच्युतम्
।
जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः॥५७॥
त इति - ते सांख्या योगाश्च एतज्जीवेशाभेददर्शनम् । नाभिनन्दतीति नापि त्वभिनन्दन्त्येव तत्र सांख्याः स्पष्टमेवाभेदमाहुः - योगा अपि मोक्षे पञ्चविंशं सर्वक्लेशशून्यं निर्विशेषचिन्मात्रमुपगच्छन्तस्तादृशं चेश्वरं मन्वानास्तयोश्च निर्विशेषयोर्विशेषकृतस्य भेदस्यायोगात् फलतोऽभेदमेवेच्छन्तीति भावः । भयोद्वेगा इति पाठे भयादुद्वेगो येषां ते तथा । अस्मिन्पक्षे सांख्यमते एवायमभेद इत्यर्थः ॥५७॥
विश्वावसुरुवाच ।
पञ्चविशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम
।
तथा तन्न तथा चेति तद्भवान्वक्तुमर्हति॥५८॥
पञ्चविंशं पञ्चविंशस्य तत्त्वं यत् अच्युतत्वं त्वया उक्तं तत्तथा उत न तथा । अयं भावः - यदि जीवत्वं सत्यं तर्हि तस्य ईश्वरत्वं दुर्वचम् । न ह्यागमोऽपि घटं पटयितुमीष्टेऽतस्तत्त्वमसीत्यभेदो गौणः स्यात् । यद्यसत्यं तदा ब्रह्मकाण्डस्याप्रामाण्यं बन्धमोक्षाद्यव्यवस्था चेति ॥५८॥
जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम्
।
पराशरस्य विप्रर्वार्षगण्यस्य धीमतः॥५९॥
यद्यप्येतद्बहुभ्यः श्रुतं तथापि त्वय्येव मम विश्वासोऽस्तीत्याह - जैगीषव्यस्येत्यादिना ॥५९॥
भृगोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च
।
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः॥६०॥
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः
।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः॥६१॥
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्
।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः॥६२॥
दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः
।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत॥६३॥
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण
।
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्॥६४॥
प्रबर्हः श्रेष्ठः प्रगल्भो वक्ता ॥६४॥
न तवाविदितं किञ्चिद्भवान् श्रुतिनिधिः स्मृतः
।
कथ्यते देवलोके च पितृलोके च ब्राह्मण॥६५॥
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः
।
पतिश्च तपतां शश्वदादित्यस्तव भाषिता॥६६॥
सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च
।
तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः॥६७॥
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम्
।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा॥६८॥
मण्डमयं घृतमतिस्वादु इति हि प्रसिद्धम् ॥६८॥
याज्ञवल्क्य उवाच ।
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम
।
जिज्ञाससे च मां राजंस्तन्निबोध यथाश्रुतम्॥६९॥
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः
।
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्॥७०॥
जीवत्तत्त्वं वक्तुमुपक्रमते - अबुध्यमानामिति । जडा प्रकृतिः पुंसा प्रकाश्यते न तु पुमान्प्रकृत्या तेन जीवस्य बुद्ध्याद्यगोचरत्वेन निष्कलत्वमुक्तम् ॥७०॥
अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत्
।
सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्॥७१॥
अनेन पञ्चविंशेन प्रतिबोधेन बोधप्राताबम्बात्मना तत् तां प्रकृतिं प्रधानं प्रधीयतेऽस्मिंश्चितिच्छायेति योगात् प्रधानसंज्ञं प्रवदन्ति । एतेन चितिच्छायापन्ना बुद्धिरेवाहंप्रत्ययविषय इत्युक्तम् । यथाश्रुतिनिदर्शनात्।
'एक एव तु भूतात्मा भूते भूते व्यवस्थितः
।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥'
इति। जलचन्द्रदृष्टान्तादित्यर्थः ॥७१॥
पश्यंस्तथैव चापश्यन्पश्यत्यन्य: सदाऽनघ
।
षड्विंशं पञ्चविंशं च चतुर्विंशं च पश्यति॥७२॥
पश्यन्निति । चिदाभासादन्यः साक्षी पश्यन् जाग्रदादौ पुंप्रकृत्योर्विवेकख्यातिकाले वा पश्यन्सविकारं चतुर्विंशं पञ्चविशं च पश्यति अपश्यन् सुषुप्त्यादौ निर्विकल्पकसमाधौ च षड्विंशं पश्यति एतेन यः साक्षी स एव साक्ष्येण संबद्धश्चेत् पञ्चविंशो भवति साक्ष्यण वियुक्तः षड्विंश इत्युक्तम् ॥७२॥
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति
।
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम॥७३॥
षड्विंशस्यावृत्तत्वं वदन् चतुर्विंशस्यात्मत्वं लोकायतसौगतसंमतं निरस्यति पञ्चविंश इति ॥७३॥
न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः
।
मत्स्यश्चोदकमन्वेति प्रवर्तेत प्रवर्तनात्॥७४॥
न ग्राह्य आत्मभावेनेति शेषः ॥७४॥
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते
।
स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः॥७५॥
स निमज्जति कालस्य यदैकत्वं न बुध्यते
।
उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः॥७६॥
कालस्य कालेन एकत्वं षड्विंशादभेदम् । मज्जनोन्मज्जने संसारमोक्षौ । समत्वेन ज्ञातेन ब्रह्मभावेन ॥७६॥
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः
।
तदा स केवलीभूतः षड्विंशमनुपश्यति॥७७॥
तमेव कालमाह - यदेति । अहं चिदात्मा एषोऽहमर्थादिरनात्मा ॥७७॥
अन्यश्च राजन्यवरस्तथान्यः पञ्चविंशकः
।
तत्स्थानाच्चानुपश्यन्ति एक एवेति साधवः॥७८॥
प्रागुक्तं जीवेशयोरभेदं परामृशति - अन्य इति । वरः षड्विंशः तत्स्थानादिति भावप्रधानो निर्देशः । वरस्यावराधिष्ठानत्वादित्यर्थः । अवरस्य रज्जूरगवद्बाधे सति वर एक एवेति साधवोऽनुभवन्तीति भावः ॥७८॥
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्
।
जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप
।
षड्विंशमनुपश्यन्तः शुचयस्तत्परायणाः॥७९॥
तेनेति सार्धश्लोको व्याख्यातः ॥७९॥
यदा स केवलीभूतः षड्विंशमनुपश्यति
।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति॥८०॥
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
।
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्॥८१॥
अप्रतिबुद्धः प्रधानं बुध्यमानो जीवः बुद्धो ब्रह्म ॥८१॥
पश्यापश्यं यो न पश्येत्क्षेम्यं तत्त्वं च काश्यप
।
केवलाकेवलं चाद्यं पञ्चविशं परं च यत्॥८२॥
धीफलमाह - पश्यति । पश्यं द्रष्टारम्, अपश्यं दृश्यं क्षेम्यं क्षेमाय साधुतत्त्वं दृग्दृश्ययोरन्यत्वं च निर्विकल्पकतया यो न पश्येत् । स एव केवलं साक्ष्येणापि निर्मुक्तम् अकेवलं साक्षिरूपं पञ्चविंशं चिदाभासरूपम् आद्यं जगत्कारणम् । परं महदादिकार्यम् । अनेन 'य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति' इति श्रुतौ ब्रह्मपदेन निर्विशेषं सर्वपदेन केवलादिकं च ग्राह्यमिति दर्शितम् ॥८२॥
विश्वावसुरुवाच ।
तथ्यं शुभं चैतदुक्तं त्वया विभो सम्यक् क्षेम्यं दैवताद्यं यथावत्
।
स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं मनस्ते॥८३॥
क्षेम्यं मोक्षाय हितं दैवताद्यं ब्रह्म ॥८३॥
याज्ञवल्क्य उवाच ।
एवमुक्त्वा संप्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन
।
दृष्टश्च तुष्ट्या परयाऽभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा॥८४॥
ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र
।
तत्रैव तद्दर्शनं दर्शयन्वै सम्यक् क्षेम्यं ये पथं संश्रिता वै॥८५॥
दर्शनं शास्त्रम् । दर्शयन् अदर्शयन् पथं पन्थानम् ॥८५॥
सांख्याः सर्वे सांख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च
।
ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम्॥८६॥
ज्ञानदृष्टं प्रत्यक्षफलमित्यर्थः ॥८६॥
ज्ञानान्मोक्षो जायते राजसिंह नास्त्यज्ञानादेवमाहुर्नरेन्द्र
।
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः॥८७॥
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम्
।
श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम्॥८८॥
श्रद्धिनं श्रद्धावन्तम् । आदन्तादपि मत्वर्थीय इनिः ॥८८॥
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म
।
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम्॥८९॥
ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः संप्रसूताः
।
नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः॥९०॥
अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते तथा यान्त्यभावम्
।
तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम्॥९१॥
तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते
।
तत्स्थो ब्रह्मा तस्थिचांश्चापरोयस्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र॥९२॥
सर्वत्रस्थं सर्ववर्णगतम् । तत्स्थो ज्ञाननिष्ठो यः स एव ब्रह्मा ब्राह्मणः । अपरः क्षत्रियादिरपि तस्थिवान् तस्थौ ज्ञाने इति शेषः । तस्मै तदर्थं मोक्षं नित्यं नित्यसिद्धम् ॥९२॥
यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व
।
राजन्गच्छस्वैतदर्थस्य पारं सम्यक् प्रोक्तं स्वस्ति ते त्वस्तु नित्यम्॥९३॥
भीष्म उवाच।
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता
।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा॥९४॥
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम्
।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्॥९५॥
गोकोटिं स्पर्शयामास हिरण्यं तु तथैव च
।
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा॥९६॥
स्पर्शयामास ददौ ॥९६॥
विदेहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै
।
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः॥९७॥
उपासन् उपासीनः ॥९७॥
सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः
।
धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन्॥९८॥
प्राकृतम् आविद्यकम् ॥९८॥
अनन्त इति कृत्वा स नित्यं केवलमेव च
।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च॥९९॥
अनन्तः त्रिविधपरिच्छेदशून्योऽहमिति मनसि निश्चयं कृत्वा नित्यं सर्वदा यतो धर्मादिकं प्राकृतं मिथ्याऽतः केवलमेवाचिन्तयदिति सार्धः श्लोकः ॥९९॥
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्
।
व्यक्ताव्यक्तस्य कर्मेदमिति नित्यं नराधिप॥१००॥
इदं धर्मादि व्यक्तं बुद्ध्यादि अव्यक्तम् अज्ञानम् ॥१००॥
पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः
।
इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम्॥१०१॥
तस्थौ स्थाणुवदचलमस्तीत्यर्थः ॥१०१॥
नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव
।
दीयते यच्च लभते दत्तं यच्चानुमन्यते॥१०२॥
दीयमानं गवादिकं सर्वमात्मैवेत्यर्थः ॥१०२॥
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह
।
ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै॥१०३॥
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत्
।
एवं मन्यस्व सततमन्यथा मा विचिन्तय॥१०४॥
एवमुक्तप्रकारेण मन्यस्व जानीहि ॥१०४॥
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
।
तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता॥१०५॥
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन
।
लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते॥१०६॥
अव्यक्तादीनां मध्ये यद्यदुपास्ते तत्तत्तादात्म्यं प्राप्नोतीत्याह - लभत इत्यादिना । व्यक्तं स्पष्टम् आपरोक्ष्येणेत्यर्थः ॥१०६॥
तथैव महतः स्थानमाहङ्कारिकमेव च
।
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात्॥१०७॥
शेषं स्पष्टार्थम् ॥१०७॥
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः
।
जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत्॥१०८॥
एतन्मयाऽऽप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात्
।
ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः॥१०९॥
दुर्गं जन्म निधनं चापि राजन् न भौतिकं ज्ञानविदो वदन्ति
।
यज्ञैस्तपोभिर्नियमैर्वतैश्च दिवं समासाद्य पतन्ति भूमौ॥११०॥
तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम्
।
क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञमुपास्य वै तत्त्वमृषिर्भविष्यसि॥१११॥
यदुपनिषदमुपाकरोत्तथासौ जनकनृपस्य पुरा हि याज्ञवल्क्यः
।
यदुपगणितशाश्वताव्ययं तच्छुभममृतत्वमशोकमर्च्छति॥११२॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादसमाप्तौ
युधिष्ठिर उवाच।
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
।
कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे॥१॥
इदानीं गार्हस्थ्येऽपि निवृत्तिनिष्ठा मुक्तिबीजभूता सम्भवतीति दर्शयितुं सुलभाजनकसंवाद आरभ्यते - अपरित्यज्येति । बुद्ध्याः बुद्धेः विनीयते लीयतेऽस्मिन्निति विनयो लयस्थानं मोक्षतत्त्वम् ॥१॥
संन्यस्यते यथाऽऽत्मायं व्यक्तस्यात्मा यथा च यत्
।
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह॥२॥
आत्मा लिङ्गदेहः व्यक्तस्य स्थूलदेहस्य आत्मा स्वरूपं देहद्वयं यथा त्यज्यते यच्च मोक्षस्य परं तत्त्वं तद्वदित्यर्थः ॥२॥
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
जनकस्य च संवादं सुलभायाश्च भारत॥३॥
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा
।
मैथिलो जनको नाम धर्मध्वज इति श्रुतः॥४॥
संन्यासफलं सम्यग्दर्शनं तदस्यास्तीति संन्यासफलिकः ॥४॥
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः
।
इन्द्रियाणि समाधाय शशास वसुधामिमाम्॥५॥
स्वे शास्त्रे दण्डनीतौ ॥५॥
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्
।
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर॥६॥
तस्य साधुवृत्ततां श्रुत्वा तां स्पृहयन्तीति सम्बन्धः ॥६॥
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता
।
महीमनुचचारैका सुलभा नाम भिक्षुकी॥७॥
धर्मयुगे सत्ययुगे अनुष्ठिता कर्तरि क्तः । भिक्षुकीत्यनेन स्त्रीणामपि प्राग्विवाहाद्वैधव्यादूर्ध्वं वा संन्यासेऽधिकारोऽस्तीति दर्शितम् । तेन भिक्षाचर्यं मोक्षशास्त्रश्रवणम् एकान्ते आत्मध्यानं च ताभिरपि कर्तव्यम् । त्रिदण्डादिकं च धार्यम् ॥७॥
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः
।
तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः॥८॥
मोक्षे मोक्षशास्त्रे निष्णात इति शेषः ॥८॥
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया
।
दर्शने जातसंकल्पा जनकस्य बभूव ह॥९॥
नेति न वेति ॥९॥
तत्र सा विप्रहायाथ पूर्वरूपं हि योगतः
।
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्॥१०॥
चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी
।
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा॥११॥
लघु शीघ्रम् अस्त्रागत्या गच्छतीति सा ॥११॥
सा प्राप्य मिथिलां रम्यां प्रभूतजनसंकुलाम्
।
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम्॥१२॥
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तदा
।
केयं कस्य कुतो वेति बभूवागतविस्मयः॥१३॥
सौकुमार्यं सौन्दर्यम् ॥१३॥
ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्
।
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्॥१४॥
अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम्
।
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी॥१५॥
भाष्यविदां सूत्रार्थज्ञानां मध्ये ॥१५॥
सुलभा त्वस्य धर्मेषु मुत्तो नेति ससंशया
।
सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपतेः॥१६॥
अस्य एनं जनकं धर्मेषु मोक्षधर्मेषु विषयेषु । अन्याननादृत्य चोदयामास पृष्टवती अयं मुक्तो नेति न वेति ससंशया । सत्त्वमिति । स्वस्य योगैश्वर्यख्यापनार्थं जनकस्य सत्त्वं बुद्धिं सत्त्वेन स्वया बुद्ध्या प्रविवेश ॥१६॥
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयम्य रश्मिभिः
।
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह॥१७॥
स्वबुद्धेर्बहिरस्वातन्त्र्यात् परबुद्धेश्चाप्रत्यक्षत्वात्कथं प्रविवेशेत्याशङ्क्याह - नेत्राभ्यामिति । बुद्धिसत्त्वं हि 'अन्नमयं हि सोम्य मनः' इति श्रुतेर्भौतिकं द्रव्यं रविप्रभावत्सूक्ष्मं तत् यदा चक्षुरादिच्छिद्रेभ्यो बहिर्निर्गत्य घटादिकं प्रकाशयति । घटच्छिद्रनिर्गतप्रदीपप्रभावत् । तदा चक्षुरिन्द्रयमित्युच्यते । तत्रैकस्मिन्देशे युगपत्प्रदीपयोरिव बुद्ध्योरंशवः संसृज्यन्ते । तत्र यक्षराक्षसादयो वीराः स्वीयेन बुद्ध्यस्त्रेण संसृष्टां परबुद्धिमभिभूय तदीयैर्देहादिभिर्व्यवहरन्तीति प्रसिद्धं लोके यदि तु द्वावपि योगिवीरौ बुद्ध्यस्त्रप्रयोगसंहाराभिज्ञौ तदास्त्रद्वयवत् धीद्वयं मिथो नाभिभूयते तत एकस्मिन्देहे द्वयोः विवादो भवति । सञ्चोदयिष्यन्ती प्रष्टुमिच्छन्ती । योगबन्धैः योगबलेन चित्तबन्धैर्बबन्ध वशीचकार ॥१७॥
जनकोऽप्युत्स्मयन् राजा भावमस्या विशेषयन्
।
प्रतिजग्राह भावेन भावमस्या नृपोत्तम॥१८॥
उत्स्मयन् स्वस्य अजेयत्वाभिमाने गर्वं कुर्वन् । अस्याः सुलभायाः भावम् आशयम् एनं मूकं करिष्यामीत्येवंरूपम् । विशेषयन् अभिभवन् भावेन भावं जग्राह ॥१८॥
तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्
।
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके॥१९॥
तया सह समत्वेन एकस्मिन्देहे उवास । अधिष्ठाने देहे - छत्रेति । उभावपि स्थूलदेहोपस्कारं त्यक्तवन्तावित्यर्थः ॥१९॥
जनक उवाच ।
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि
।
कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः॥२०॥
एतदाख्यानतात्पर्यं तु एकस्मिन् गेहे इव लिङ्गदेहेऽपि द्वयोर्जीवयोरवस्थानं भवति तेन स्थूलसूक्ष्मदेहौ गृहवज्जीवस्यानात्मानावित्युक्तम् । एवं सति स्वस्यानभिभूतत्वं दर्शयन् जनक उवाच - भगवत्या इति ॥२०॥
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते
।
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे॥२१॥
परकीयं श्रुतादिकमज्ञातमतः पृष्टेन तद्वेदनीयमित्यर्थः ॥२१॥
छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः
।
स त्वां संमन्तुमिच्छामि मानार्हा हि मतासि मे॥२२॥
राजाऽप्यहं राज्यान्मुक्तोऽस्मीत्याह - छत्रादिष्विति । सम्मन्तुं सम्यक् ज्ञातुम् ॥२२॥
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा
।
यस्य नान्यः प्रवक्ताऽस्ति मोक्षं तमपि मे शृणु॥२३॥
मोक्षं मोक्षहेतुम् ॥२३॥
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः
।
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः॥२४॥
सांख्यज्ञाने च योगे च महीपालविधौ तथा
।
त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः॥२५॥
सांख्ययोगविधिशब्दैः क्रमेण ज्ञानोपास्तिकर्मकाण्डार्था ज्ञेयाः । अयमेव त्रिविधो मोक्षधर्मस्तत्र विषये गताध्वा ज्ञानमार्गः ॥२५॥
स यथाशास्त्रदृष्टेन मार्गेणेह परिभ्रमन्
।
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः॥२६॥
मयि मम समीपे ॥२६॥
तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः
।
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः॥२७॥
सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्
।
मुक्तरागश्चराम्येकः पदे परमके स्थितः॥२८॥
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः
।
ज्ञानादेव च वैराग्यं जायते येन मुच्यते॥२९॥
वैराग्यमिति द्वाभ्यां वैराग्यज्ञानयत्नानां वासिष्ठादौ वासनाक्षयविज्ञानमनोनाशशब्दितानां त्रिदण्डविष्टम्भवदन्योन्याश्रयेण सिद्धिरुक्ता । यथा-
'तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च
।
मिथःकारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥
यावद्विलीनं न मनो न तावद्वासनाक्षयः
।
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥
यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः
।
यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ॥
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः
।
यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः ॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम्
।
तत्र सिद्धिं प्रयच्छन्ति मन्त्राः सङ्कीर्तिता इव॥'
इति । यथा षडङ्गमन्त्राणामेकैकमन्त्रान्वृत्त्या न सिद्धिः किं तु सहितानामावृत्त्या तद्वदित्यर्थः । मोक्षस्य तत्साधनस्य ज्ञानस्य विधिरुपायः ॥२९॥
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्
।
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा॥३०॥
यत्नं योगाभ्यासं मनोनाशहेतुम् । महत् आत्मज्ञानम् । तेन च परं वैराग्यमिति सा एषा त्रयाणां सिद्धिनिष्पत्तिर्महतां द्वन्द्वानां सुखदुःखादीनां मोक्षायेति जीवन्मुक्तिसुखाय वयोतिगेति मृत्युजयाय भवतीत्युक्तम् ॥३०॥
सेयं परमिका बुद्धेः प्राप्ता निर्द्वन्द्वता मया
।
इहैव गतमोहेन चरता मुक्तसङ्गिना॥३१॥
यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा
।
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्॥३२॥
ननु राज्यं कुर्वतस्तव कथं मुक्तसङ्गिता सम्भावितेत्यत आह - यथेत्यादिना । सबीजत्वादङ्कुरं जनयतीत्यध्याहृत्य योज्यम् । तद्वत् कर्म बीजस्थानीयम् ॥३२॥
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा
।
प्राप्याप्यंकुरहेतुत्वमबीजत्वान्न जायते॥३३॥
तद्वद्भगवताऽनेन शिखा प्रोक्तेन भिक्षुणा
।
ज्ञानं कृतमबीजं मे विषयेषु न जायते॥३४॥
ज्ञानं बुद्धिः अबीजं वासनाबीजशून्यम् । न जायते न प्रवर्तते शिखापदयुक्तं प्रोक्तं नाम यस्य तेन पञ्चशिखेनेत्यर्थः ॥३४॥
नाभिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे
।
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः॥३५॥
अनर्थे शत्रुवधादौ । परिग्रहे स्त्र्यादिसंग्रहे । एतेषु रागरोषयोर्विषयेषु स्त्रीशत्रुप्रभृतिषु व्यर्थत्वात्तेषां मिथ्यात्वेन निःस्वरूपत्वादित्यर्थः ॥३५॥
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्
।
सव्यं वास्यापि यस्तक्षेत्समावेतावुभौ मम॥३६॥
वास्येति वास्यसंज्ञकेन शस्त्रेण विभक्तिलोप आर्षः । अल्पं वास्यं वासी तयेति वा ॥३६॥
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः
।
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः॥३७॥
उपपादितामात्मनो मुक्तसङ्गितामुपसंहरति - सुखीति ॥३७॥
मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः
।
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्॥३८॥
त्रिविधा ज्ञानोपास्तिकर्मात्मिका एका अन्या ज्ञानोपास्त्यात्मिका । कर्मणां मानसानामपि तेन सांख्ययोगात्मिकेत्यर्थः ॥३८॥
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः
।
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः॥३९॥
ज्ञाननिष्ठां कर्मोपसर्जनां कर्मनिष्ठां ज्ञानोपसर्जनाम् ॥३९॥
प्रहायोभयमप्येव ज्ञानं कर्म च केवलम्
।
तृतीयेयं समाख्याता निष्ठा तेन महात्मना॥४०॥
एवं चत्वारः परपक्षा उपन्यस्ताः स्वमतमाह - प्रहायेति । उभयं समुच्चयविकल्पाख्यं पूर्वश्लोकद्वयोक्तं त्यक्त्त्वेत्यर्थः । ज्ञानस्य केवलत्वं कर्मकृतोपकारनैरपेक्ष्यम् । कर्मणः केवलत्वं प्रयोजनाभावेऽप्यत्यागः । सेयं तृतीया निष्ठा ज्ञानकर्मणोः समुच्चयपक्षाद्विकल्पपक्षाच्चान्या । तेन पञ्चशिखेन समाख्याता ॥४०॥
यमे च नियमे चैव कामे द्वेषे परिग्रहे
।
माने दंभे तथा स्नेहे सदृशास्ते कुटुम्बिभिः॥४१॥
इमामेव निष्ठां स्तौति - यमे चेति । ते त्रिदण्डिनः यमादौ सति गृहस्थः संन्यासितुल्यः कामादौ सति संन्यास्यपि गृहस्थतुल्य इत्यर्थः ॥४१॥
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन कस्यचित्
।
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे॥४२॥
त्रिदण्डेति । यदि ज्ञानेनैव मोक्ष इति सिद्धं तर्हि त्रिदण्डपरिग्रहवच्छत्रपरिग्रहोऽपि न बाधकः । ज्ञानेन सङ्गाभावस्योभयत्रापि तुल्यत्वादित्यर्थः ॥४२॥
येन येन हि यस्यार्थः कारणेनेह कर्मणि
।
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे॥४३॥
येनेति । आलम्बते प्रयोजनवत्तया आसक्तो भवति । कुत्र कर्मणि द्रव्ये पश्वादौ स्वं धनम् अर्थाः स्त्र्यादयस्तेषां परिग्रहे किमर्थं येन येन कारणेन अन्नादिना यस्यार्थः प्रयोजनं क्षुन्निवृत्त्यादि तदर्थमित्यर्थः । तथा चार्थस्याल्पत्वबहुत्वे बन्धमोक्षहेतू न भवतः किन्तु तत्रासक्त्यनासक्ती एवेति भावः ॥४३॥
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे
।
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते॥४४॥
आधिपत्ये तुल्ये त्रिदण्डाद्यर्थे आसक्तिर्बाधिकेत्याह - दोषेति ॥४४॥
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके
।
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना॥४५॥
आसङ्गमेव विवृणोति - आधिपत्य इति । शिष्यादिष्विति शेषः ॥४५॥
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्
।
मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिताः॥४६॥
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम्
।
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः॥४७॥
त्रिविष्टब्धं त्रिदण्डकम् । लिङ्गानि आश्रमपरिचायकानि ॥४७॥
यदि सत्यपि लिङ्गेऽस्मिन् ज्ञानमेवात्र कारणम्
।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्॥४८॥
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः
।
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते॥४९॥
अथवेति । दुःखाभावार्थं त्रिदण्डं चेत् कर्तव्यं तर्हि राज्यमपि तदर्थं कुतो न कर्तव्यमित्यर्थः । अत एवोक्तं भगवता -
'दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्
।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥'
इति ॥४९॥
आकिञ्चन्ये न मोक्षोऽस्ति किञ्चन्ये नास्ति बन्धनम्
।
किञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥५०॥
फलितमाह- आकिञ्चन्ये इति ॥५०॥
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे
।
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्॥५१॥
एषु सत्स्वपि अबन्धे पदे स्थितं मां विद्धि ॥५१॥
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः
।
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया॥५२॥
राज्यैश्वर्यमयः राज्याद्यासक्त्या तत्प्रधानः । स्त्रीमयो जाल्म इतिवत् । स्नेहायतनैर्धनदारादिभिर्बध्नातीति तथा । एतेन सङ्गी बध्यते त्यागी मुच्यते इत्युक्तम् ॥५२॥
सोऽहमेवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि
।
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम॥५३॥
त्वयि योगप्रभाववत्यां जातास्थो जातादरः अथापि अयथार्थं योगाननुरूपं वर्णं त्रिगुणजं रूपम् ॥५३॥
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः
।
तवैतानि समस्तानि नियमश्चेति संशयः॥५४॥
सौकुमार्यादिकं योगश्चैकस्यां त्वयि परस्परविरुद्धं कथं स्यादिति संशयः । त्वं योगसिद्धा ब्राह्मणी वा आजानसिद्धा यक्षराक्षसादियोनिजा वेति भावः ॥५४॥
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्
।
मुक्तोऽयं स्यान्नवेति स्याद्धर्षितो मत्परिग्रहः॥५५॥
लिङ्गस्य त्रिदण्डधारणस्य अननुरूपं शरीरशोषणाद्यभावात् । धर्षितः रूपादिनाभिभूतः । परिग्रहः स भाविकृतवेषत्वं पराभिभवश्च न मुक्तलक्षणमिति भावः ॥५५॥
न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके
।
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना॥५६॥
नन्दिन्या दिलीप इवानुग्रहार्थमेवं धर्षितोऽसीत्याशङ्क्याह - न चेति । परानुग्रहनिग्रहकामे युक्ते योगिनि संन्यासफलं नास्तीत्यर्थः । मच्छरीरसंगाच्च त्वया इदमाश्रमलिङ्गमपि न रक्ष्यते । अनेन लिङ्गेनापि मुक्तस्य आरूढपतितस्य गोपना नास्ति । विमुक्तस्येति पाठे ज्ञाततत्त्वस्यापि गोपना व्यभिचाराद्यकृत्यादात्मरक्षा कर्तव्येत्यस्त्येवेत्यर्थः ॥५६॥
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः
।
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्॥५७॥
मत्पक्षेति । मच्छरीरप्रवेशात् । नन्वहं स्वासने एवास्मीत्याशङ्क्याह - आश्रयन्त्या इति । स्वभावेन स्वेन चित्तेन मम परिग्रहं शरीरम् आश्रयन्त्याः । अतस्त्वयि व्यभिचारदोष इति भावः ॥५७॥
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेऽपि वा
।
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम॥५८॥
जारिण्योऽपि सङ्केतेनैव परपुरं गृहं वा प्रविशन्ति तत्रापि तवास्मान्धर्षयन्त्या अपराध इत्याह - कस्य वेति । सन्निकर्षात् संकेतात् ॥५८॥
वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियस्त्वहम्
।
नावयोरेकयोगोऽस्मि मा कृथा वर्णसंकरम्॥५९॥
इष्टापत्तिमाशङ्क्याह- वर्णेति ॥५९॥
वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे
।
अयं चापि सुष्टस्ते द्वितीयोऽऽश्रमसंकरः॥६०॥
आश्रमसङ्करः संन्यासाद्गार्हस्थ्यं प्रति पुनरागमनम् ॥६०॥
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम्
।
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः॥६१॥
संन्यासिवेषेण गार्हस्थ्यार्थमेवाहमागताऽस्मीति चेद्गोत्राद्यनिर्णयात् प्रागेतन्नोचितमित्याह - सगोत्रामिति ॥६१॥
अथ जीवति ते भर्ता प्रोषितोऽप्यथवा क्वचित्
।
अगम्या परभार्येति चतुर्थो धर्मसंकरः॥६२॥
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि
।
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः॥६३॥
अविज्ञानेन ज्ञानाभावेन मिथ्याज्ञानेन विपर्ययेण ॥६३॥
अथवापि स्वतंत्राऽसि स्वदोषेणेह कर्हिचित्
।
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्॥६४॥
’न स्त्री स्वातंत्र्यमर्हति’ इति शास्त्रोल्लंघनरूपेण स्वदोषेण । तर्हि शास्त्रातिक्रमणात्तव श्रुतं व्यर्थम् ॥६४॥
इदमन्यत्तृतीयं ते भावस्पर्शविघातकम्
।
दुष्टाया लक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम्॥६५॥
भावयोश्चित्तयोः स्पर्शः ऐक्यं प्रीतिरिति यावत् ॥६५॥
न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः
।
येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि॥६६॥
दोषलिङ्गमेवाह - न मयीति ॥६६॥
तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रति मुञ्चसि
।
मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च॥६७॥
अर्हतः पूज्यान् उद्दिश्य ॥६७॥
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता
।
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम्॥६८॥
अमर्षः परोत्कर्षासहिष्णुत्वं तज्जेन । योगान्परबुद्धिभिः स्वबुद्धेः सम्बन्धान् ॥६८॥
इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः
।
अलाभश्चापि रक्तस्य सोऽपि दोषो विषोपमः॥६९॥
विषामृतशब्दौ व्याचष्टे - इच्छतोरिति । रक्तायास्तव रक्तस्य पुंसोऽलाभात् । तादृशयोर्योगो विषामृतमित्यर्थः ॥६९॥
मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय
।
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम
।
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम्॥७०॥
स्वशास्त्रं संन्यासिशास्त्रम् ॥७०॥
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः
।
तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितम्॥७१॥
सत्रप्रतिच्छन्ना वेषान्तरेण गुप्ता ॥७१॥
न राजानं मृषा गच्छेन्न द्विजातिं कञ्चन
।
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषा गताः॥७२॥
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्
।
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्॥७३॥
अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता
।
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्॥७४॥
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः
।
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः॥७५॥
भीष्म उवाच।
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः
।
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत॥७६॥
प्रत्यादिष्टा तिरस्कृता ॥७६॥
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना
।
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्॥७७॥
सुलभोवाच ।
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः
।
अपेतमुपपन्नार्थमष्टादशगुणान्वितम्॥७८॥
नवभिर्वाग्दूषणैर्गुर्वक्षरसंयुक्तत्वादिभिर्वक्ष्यमाणैः बुद्धिदूषणैश्च नवभिः कामादिभिर्वक्ष्यमाणैरेव । अष्टादशगुणाः नवैव वाग्दूषणादिविपर्यासेन मधुराक्षरत्वादयो गुणाः । नव दोषा अपि गुणत्वेन यत्रोच्यन्ते ते दोषगुणाश्च नव इत्येवमष्टादशगुणान्वितं वाक्यमित्युत्तरेणान्वयः ॥७८॥
सौक्षम्यं सांख्यक्रमौ चोभौ निर्णयः सप्रयोजनः
।
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप॥७९॥
सौक्ष्म्यं संशयस्य विषयीभूतं पदादिसंदिग्धार्थत्वमित्यर्थः । सांख्यं पूर्वपक्षे सिद्धान्ते च गुणदोषसंख्यानं क्रमः संख्यातानां गुणदोषाणां बलाबलविचारणम् । विनिर्णयः सिद्धान्तः प्रयोजनम् अनुष्ठानम् एतानि पञ्च समुच्चितानि वाक्यं शब्दाख्यं प्रमाणामित्यर्थः ॥७९॥
एषामेकैकेशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम्
।
शृणु संसार्यमाणानां पदार्थपदवाक्यतः॥८०॥
स्वलक्षणं व्यावर्तकं धर्मवचनं तच्च विषयभेदाच्चतुर्धा - पदतो वाक्यतः पदार्थतो वाक्यार्थत इति । एतेषामुदाहरणान्यनुपदमेव वक्ष्यन्ते ॥८०॥
ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते
।
यत्राधिवासिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते॥८१॥
ज्ञानमिति । यत्र विषयवाक्ये ज्ञेयेषु वाक्यप्रमेयतया उपस्थितेषु भिन्नेषु अनेकेषु अर्थेषु सत्सु यदा ज्ञानं बुद्धिर्भेदेन निर्णयमप्राप्नुवती अधिवासिनी अनेककोटिस्पर्शिनी वर्तते तत् सौक्ष्म्यं वाक्यस्य दुर्ज्ञेयत्वमित्युच्यते ॥८१॥
दोषाणां च गुणानां च प्रमाणं प्रविभागतः
।
कञ्चिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम्॥८२॥
क्वचित्पूर्वपक्षे सिद्धान्ते वा संमतं कञ्चिदनियतमर्थम् ॥८२॥
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्
।
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः॥८३॥
इदमिति । संख्यातानां गुणानां दोषाणां च मध्ये इदं पूर्वं वक्तव्यं इदं पश्चाद्विवक्षितमिति बलाबलविचारः क्रमः ॥८३॥
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः
।
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः॥८४॥
वाक्यान्ते वाक्यार्थविचारान्ते प्रोच्यते प्रकर्षेण युक्तिमत्तया उच्यते स निर्णयः ॥८४॥
इच्छाद्वेषाभवैर्दुःखैः प्रकर्षो यत्र जायते
।
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते॥८५॥
प्रयोजनं लक्षयति - इच्छेति । तत्र इच्छाप्रभवं दुःखं यत्र विषये जायते इदमवश्यं कर्तव्यमित्यौत्सुक्यं द्वेषभवं दुःखम् इदमवश्यं त्याज्यमित्यसह्यत्वम् । तत्र या प्रवृत्तिरूपा निवृत्तिरूपा वा वृत्तिः सा प्रयोजनं नाम ॥८५॥
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप
।
एकार्थसमवेतानि वाक्यं मम निशामय॥८६॥
एकार्थसमवेतानि एकस्मिन्नर्थे पर्यवसितानि वाक्यमिति पञ्चाङ्गं वाक्यं मम वचनान्निश्चिनु सौक्ष्म्यादीनामुदाहरणानि तु तत्र पदतः सौक्ष्म्यादेरुदाहरणम् - ’वायव्यं श्वेतमालभेत भूतिकामः' इति विधायाम्नायते 'वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इति किं वायुर्वा इत्यादीनि पदानि 'समिधो यजति तनूनपातं जयति' इत्यादिपदकदम्बवत् कञ्चिदर्थं विधाय प्रधानवाक्येन एकवाक्यतां प्रतिपद्यन्ते उत संभूय प्राशस्त्यमात्रं श्वेतालम्भस्यार्थं लक्षयन्ति । एतत्सौक्ष्म्यम् अविशिष्टस्तु वाक्यार्थ इति न्यायेन तेषां प्रतीयमानस्यार्थस्य अपलपितुमशक्यत्वात्समिदादिवाक्यवत्स्वार्थे पर्यवसानं प्राप्यैव महावाक्येनैकवाक्यतां लभन्ते इति पूर्वपक्षे गुणः । सिद्धान्ते दोषः । तथा सर्वस्याम्नायस्य प्रयोजनवदर्थपर्यवसायित्वात् वायोः शीघ्रगामित्वादिप्रतिपादने शास्त्रस्य प्रवृत्तिनिवृत्तिकरत्वायोगात् आनर्थक्यलक्षणाप्रामाण्याद्वरं विधेयार्थप्राशस्त्यसमर्पणेनार्थवत्त्वमिति सिद्धान्ते गुणाः पूर्वपक्षे दोषाश्च । एतत्सांख्यं अत्रैव क्रमाख्यं पूर्वोत्तरपक्षयोर्बलाबलमुन्नेयम् । पूर्वपक्षे आनर्थक्यात् दुर्बलत्वं सिद्धान्तेऽर्थवत्त्वात्प्राबल्यमिति इत एब निर्णयः । अर्थवादानां प्रयाजादिवाक्यानामिव प्रधानविधिना वाक्यैकवाक्यता नास्ति अपि तु पदैकवाक्यतैवेति । तस्माद्वायुर्वा इत्यादिकमेव पदम् अविधायकम् । अतः प्रशीघ्रगामिदेवताकं कर्म शीघ्रफलदमिति स्तुतिः सिद्धान्ते फलम् । पूर्वपक्षे तु यतो वायुः क्षेपिष्ठाऽतिशयेन क्षिप्रगामिनी देवतेति स्वयमपि धावनं कर्तव्यमिति । इदं पदैकत्वानेकत्वे सौक्ष्म्यादिकं वाक्यैकत्वानेकत्वे तु 'वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवत्यष्टाक्षरा गायत्री' इत्यादौ संशयः । किं द्वादशकपाले एव अष्टाकपालत्वादिर्वैकल्पिको गुणविधिरुत तस्यैवावयवद्वारा स्तुतिरिति । तत्र उत्पत्तिशिष्टद्वादशत्वावरुद्धे उत्पन्नशिष्टानाम् अष्टत्वादीनां निवेशायोगात् । ’संभवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते' इति न्यायेन 'पुत्रे जाते' इत्युपक्रम्य यस्मिन् जात एतामिष्टिं निर्वपतीत्युपसंहारेण उपक्रमोपसंहारयोरैकरूप्यान्नात्र वाक्यभेदे दोषापत्त्या गुणविधानं कर्तुं शक्यमिति । अत्रापि पूर्ववत्सौक्ष्म्यादिकं द्रष्टव्यम् । तथा पदार्थे सौक्ष्म्यादि ।
'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः
।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तम्'
इत्यत्राव्यक्तपदेन सांख्याभिमतं प्रधानं ग्राह्यं रूढेरिति पूर्वः पक्षः ।
'आत्मानं रथिनं विद्धि शरीरं रथमेव तु
।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्'
।
इति रथरूपककल्पनायां ये श्रूयन्ते इन्द्रियादयस्त एव क्रमव्युत्क्रमाभ्यां प्रत्यभिज्ञायन्तेऽतः परिशेषादव्यक्तशब्देन सूक्ष्मं शरीरमिति सिद्धान्तः । तथा वाक्यार्थेऽपि सौक्ष्म्यादिकम् इन्द्रेण प्रतर्दनं प्रत्युच्यते प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्वेति किमिह वक्ता इन्द्र एवोपास्यः उत मुख्यः प्राणः श्रौतार्थलाभात् । उत प्रज्ञात्मेतिविशेषणाज्जीवः उत तद्यथा पुरेषु निभिरर्पितो नाभावरा अर्पिता एवमस्मिन्प्राणे सर्वं समर्पितामिति सर्वलयाधिष्ठानत्वोक्तेर्ब्रह्म वा । तत्र अन्यतमपरत्वमिति पूर्वः पक्षः । वाक्यभेदस्यायुक्तत्वेन एकस्मिन्नर्थे वाक्यपर्यवसानावश्यकत्वाद्धिततमं ब्रूहीति प्रक्रमात् ब्रह्मेतरस्य हिततमत्वायोगात् । वक्त्रात्मोपदेशस्य वामदेववदहं मनुरभवं सूर्यश्चेति प्रत्यक्तत्त्वानुसन्धानपरत्वे ब्रह्मपरत्वोपपत्तेः । प्राणादिधर्मवैशिष्ट्येनापि ब्रह्मोपास्तिसंभवादुदाहृतोपसंहाराच्च ब्रह्मपरत्वमिति सिद्धान्त इति दिक् ॥८६॥
उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम्
।
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः॥८७॥
एवं सौक्ष्म्याद्यङ्गपञ्चकं सलक्षणम् अङ्गि च वाक्यं सलक्षणमुक्त्वा वाक्यगुणानाह - उपेतार्थमिति त्रिभिः । अत्रालङ्कारिकैः श्लेषादयः शब्दगुणाश्चतुर्विंशतिः प्रतिपादिताः । तेऽत्र शब्दान्तरैः सङ्क्षेपेण च अन्तर्भावेण च पञ्चदश प्रोक्ताः । तत्र केन शब्देन को गुण उच्यते कस्मिंश्च कोऽन्तर्भवति । तत्संक्षेपेण प्रकाश्यते । तत्र श्लेषादयस्तावद्भोजेन प्रोक्ताः -
(१) श्लेषः (२) प्रसादः (३) समता (४) माधुर्यं (५) सुकुमारता
।
(६) अर्थव्यक्तिस्तथा (७) कान्ति (८) रुदारत्व (९) मुदात्तता ॥ (१०) ओज (११) स्तथान्यदौर्जित्यं (१२) प्रेयान (१३) थ सुशब्दता
।
(१४) तद्वत्समाधिः (१५) सौक्ष्म्यं (१६) च गाम्भीर्य (१७) मथ विस्तरः ॥ (१८) संक्षेपः (१९) संमितत्वं च (२०) भाविकत्वं (२१) गतिस्तथा
।
(२२) रीति (२३) रुक्ति (२४) स्तथा प्रौढिः इति
।
'श्लेषः साम्यं कान्तिरोज और्जित्यौदार्यरीतयः
।
गतिश्चान्तर्भवन्त्यष्टौ श्लक्ष्णे बन्धगुणावने
।
'
उपेतार्थ अर्थव्यक्तिः संपूर्णवाक्यत्वरूपा १ अभिन्नार्थम् अनानार्थम् । प्रसिद्धार्थपदत्वं प्रसादाख्यम् २ न्यायवृत्तं श्लाघ्यैर्विशेषणैर्योग उदात्तताख्यः ३ न चाधिकं संक्षिप्तम् । ४ नाश्लक्ष्णं श्लेषाद्यष्टगुणयुक्तम् ५ न संग्दिधं विविक्तपदतारूपमाधुर्यवत् ६ एते षट् वाक्यगुणाः ॥८७॥
न गुर्वक्षरसंयुक्तं पराङ्मुखसुखं न च
।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्॥८८॥
अतः परं नव पदद्दोषास्तेऽपि विपर्ययेण वाक्यगुणा एवेति नञ्सम्बन्धाद्बोध्याः । न गुर्वक्षरसंयुक्तम् । अनिष्ठुराक्षरप्रायं सुकुमाराख्यम् । निष्ठुराक्षरं तु 'शुष्को वृक्षस्तिष्ठत्यग्रे' एवमादि १ पराङ्मुखानां सुखकरं ग्राम्यम् । अश्लीलामङ्गलघृणावदर्थं ग्राम्यम् इदं च न तथा । अन्तर्मुखग्राह्यं सूक्ष्मार्थमित्यर्थः । यथोक्तम् -
'अंतः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते
।
'
उदाहृतं च -
'केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि
।
धावतः सृजति संहृशास्तयः स्तौतिरत्र विपरीतकारकः
।
'
इति । २ अनृतं पुराणाद्यमूलकं मेघसंदेशादिवत् । ततोऽन्यत् श्रुत्यादिमूलकतया प्रौढोक्तिरूपम् । ३ त्रिवर्गेण विरुद्धम् । असावनुपनीतोऽपि वेदानधिजगे गुरोरिति धर्मशास्त्रविरुद्धम् ।
'कामोपभोगसाकल्यफलो राज्ञां महीजयः
।
'
इत्यर्थशास्त्रविरुद्धम् ।
'तवोत्तरोष्ठे बिम्बोष्ठि दशनांको विराजते
।
'
इति कामशास्त्रविरुद्धं च । तदन्यत् । श्रेयस्करं प्रेयःसंज्ञं ३ असंस्कृतं देश्यम् तद्यथा -
'गल्लौ लावण्यतल्लौ ते लडहौ मडहौ भुजौ
।
नेत्रे सेवाट्टकं दोट्टमोट्टायितसखे सखि
।
'
तदन्यत् । उक्तिसंज्ञं विशिष्टभणितिरूपम् ॥८८॥
न न्यूनं कष्टशब्दं वा विक्रमाभिहितं न च
।
न शेषमनुकल्पेन निष्कारणमहेतुकम्॥८९॥
न्यूनम् असमर्थम् । ’असंगतं पदं यत्तदसमर्थमिति स्मृतम्।' इदं तदन्यत् समर्थं विस्तररूपम् । ६ कष्टशब्दं छन्दोव्याकरणदोषयुक्तं तदन्यत् । सुशब्दतारूपम् । ७ विक्रमाभिहितम् उदारत्वम् । नृत्यद्भिरिव पदैर्वाक्यरचनं गुणः । न चेति चकारात्पूर्वनकारानुवृत्तिः । नकारद्वयेनौदार्याधिक्यं सूचितम् । तदन्यत् । क्लिष्टं यथोक्तम् ।
'दूरं यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्सताम्
।
'
उदाहृतं च - 'विजितात्मभवद्वेषी' इत्यादि । विना गरुत्मता जित इन्द्रस्तस्यात्मभवोऽर्जुनस्तस्य द्वेषी कर्ण इत्यर्थः । ८ न शेषं शेषः पदान्तराध्याहारः । अनुकल्पो लक्षणा तया युक्तत्वम् । निष्कारणं निष्प्रयोजनम् अहेतुकं युक्तिशून्यम् । अध्याहारलक्षणाफलयुक्त्यपेक्षमित्यर्थः । यथा इषेत्वेतिवाक्यं छिनद्मीत्यध्याहारसापेक्षम् । मित्रं प्रति विषं भुङ्क्ष्वेति वचनं शत्रुगृहे भोजननिषेधलक्षणार्थम् । एतच्च ।
'समाधिः सोऽन्यधर्माणां यदन्यत्र प्रकल्पनम्
।
'
इत्यालङ्कारिकाणां गुणः । तथापि वेदार्थमर्यादाविदां मतेऽयं दोषः । प्रयोजनहीनं राजाऽसौ गच्छतीत्यादि, निर्युक्तिकम्
'गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः'
इति । एतैर्दोषैर्हीनं भाविकत्वादिगुणान्तरयुक्तम् । त एते नव शब्दानां गुणा नव दोषाश्च तन्त्रेणैव नञ्वद्भिः पदैर्दर्शिताः । यद्यपि उपेतार्थमिति श्लोकेऽपि नञ्वन्ति पदानि वर्तन्ते तथापि तल्लक्ष्याणां दोषाणामेष्वेवान्तर्भावान्न तत्रापि तद्द्व्यर्थत्वं कल्पितम् । तथा निष्ठुराक्षरत्वादीनां रोषाणामपि गुणत्वं केनचिन्निमित्तेनोच्यते । यथा -
'यच्छ्रुतेर्विरसं कष्टं तस्य दुर्वचकादिषु
।
गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः
।
'
इति ।
'भ्रष्ट्रास्त्वाष्ट्रारिराष्ट्रेन भ्राष्ट्रेनादंष्ट्रिणो जनाः
।
धार्तराष्ट्राः सुराष्ट्रेण महाराष्ट्रे च नोष्ट्रिणः' ॥
इत्यादि ग्रन्थान्तरे द्रष्टव्यं मोक्षकथाव्यवधायकत्वाच्च नैतत्प्रपञ्चितम् । तदेतदभिप्रेत्योक्तं नव वाग्दोषा अष्टादश वाचो गुणा इति ॥८९॥
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्यकात्तथा
।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन॥९०॥
नव बुद्धिदोषानाह - कामादिति । अनार्यकात् दर्पात् ह्रीतः त्रपातः अनुक्रोशतः कृपातः ॥९०॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप
।
सममेति विवक्षायां तदा सोऽर्थः प्रकाशते॥९१॥
वाक्यगुणानुक्त्वा वक्तृगुणानाह - वक्तेति । अविकलम् अव्यग्रं यथा स्यात्तथा विवक्षायां तत्त्वनिर्णयार्थायां कथायां समं सिद्धान्ताविरोधेन यदा एति प्रविशति तदा सः विवक्षितार्थः प्रकाशते । न तु उभयोरप्युत्पथगामित्वे ॥९१॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्य वै
।
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति॥९२॥
तयोरेव स्वस्वपक्षाग्रहेऽर्थनिर्णयो न भवतीत्याह - वक्तव्ये इति । स्वार्थं स्वेन परिगृहीतमर्थं परार्थम् उत्कृष्टमर्थम् । यदारोहति हृद्यारूढं भवति ॥९२॥
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः
।
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्॥९३॥
विशंका भ्रमविप्रलम्भकत्वादिबुद्धिरूपा ॥९३॥
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते
।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप॥९४॥
तदर्थवदिदं वाक्यं राजन्नेकमनाः श्रुणु
।
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः॥९५॥
जडाद्देहेन्द्रियादेर्वामदेववदात्मानं पृथक्पश्यन्ती सुलभा प्राणिनां चिदचित्संघातात्मनां जीवानां सम्बन्धी केवलश्चिदंश आकाशवत्त्वयि मयि च एको वाङ्मनसातीतश्चेति न प्रष्टव्य एवम् अचिदंशोऽपि काष्ठलोष्ठसमः स्वदेहवत् सुतरां न प्रष्टव्य हत्याह - यथेत्यादिना ॥९५॥
संश्लिष्टानि तथा राजन्प्राणिनामिह संभवः
।
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च॥९६॥
पृथगात्मान आत्मानं संश्लिष्टा जतुकाष्ठवत्
।
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः॥९७॥
आत्मानं शब्दाद्यात्मकवियदादिसंघातं पृथगात्मानः नानारूपाः सन्तः जतुकाष्ठं बालक्रीडनकम् । यथा पृथगात्मनी जतुकाष्ठे संश्रयतो न च ताभ्यामन्यत्तस्य रूपं गृह्यते तद्वदिहापीत्यर्थः । एषां व्यस्तानां संहतानां वा चोदना कोऽसीति वदेत्येवंरूपा प्रेरणा नास्त्यचेतनत्वादित्याह - न चेति ॥९७॥
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे
।
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते॥९८॥
व्यस्तानामचेतनत्वं परस्य स्वस्य चाज्ञानादित्याह - एकैकस्येति । आत्मनि वर्तते चक्षुर्वत्स्वरूपं न जानातीत्यर्थः ॥९८॥
तथैव व्यभिचारेण न वर्तन्ते परस्परम्
।
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांसवः ॥९९॥
अज्ञाने हेतुमाह - तथेति । संघातादन्यस्तत्प्रकाशको दृष्टो घटादिव सूर्यः । न चैते संघातात् पृथग्दृश्यन्तेऽतोऽप्रकाशात्मत्वादात्मानं परस्परमन्यं च न प्रकाशयन्तीत्यर्थः । संभूयाप्येते न जानन्तीत्याह - प्रश्लिष्टमिति । प्रश्लिष्टं यथा स्यात्तथा संश्लेषं प्राप्यापीत्यर्थः ॥९९॥
बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु
।
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ॥१००॥
ननु चक्षुरादयोऽपि देहाश्रिताः सन्तो घटादीन्सूर्यादिवत्प्रकाशयन्त्येवेत्याह - बाह्यानिति । यथा चक्षुः स्वापेक्षया बाह्यमालोकं घटप्रकाशार्थमपेक्षते नैवं सूर्य इति तस्यैव प्रकाशकत्वं न बाह्यापेक्षस्य चक्षुष इत्यर्थः । बाह्यानेवाह - रूपमिति । यथा रूपम् आलोकश्च तद्वच्चक्षुरपि सहकार्येव न तु प्रकाशकमिति भावः ॥१००॥
यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः
।
ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः ॥१०१॥
ननु बाह्येत्यप्रयोजकं यथा सूर्यश्चक्षुरपेक्षोऽपि नाप्रकाशक एवं चक्षुः सूर्यापेक्षमपीत्याशङ्क्याह - ज्ञानेति । ज्ञानं प्रकाशो ज्ञेयं रूपादि तयोरन्तराले चक्षुरपेक्षयाऽपरो मनो नाम गुणोऽस्ति ॥१०१॥
विचारयति येनायं निश्चये साध्वसाधुनि
।
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः
।
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति॥१०२॥
तत्सत्त्वे मानमाह - विचारयतीति । निश्चयनिमित्तं चक्षुर्निमीलनेऽपि येन करणेनायं भोक्ता साध्वसाधुनी विचारयति तन्मनः बाह्यानपेक्षप्रकाशकत्वमेव स्वप्रकाशत्वं तच्च दृष्टान्ते सूर्ये एवास्ति न चक्षुषि तस्य सूर्यापेक्षत्वात् नापि मनसि तस्यापि घटादौ चक्षुराद्यपेक्षत्वात् । अतः सुस्थितमिदं स्वप्रकाशत्वलक्षणम् । अस्य लक्षणस्य बुद्ध्यादिष्वपि सद्भावं वारयितुं तेषामपि बाह्यापेक्षत्वमाह - द्वादशस्त्वित्यादिना ॥१०२॥
अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः
।
महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते॥१०३॥
संशयपूर्वेषु बुद्धिः स्वकार्ये निश्चये कर्तव्ये स्वस्माद्बाह्यं संशयात्मकं मनोऽपेक्षते इत्यर्थः । व्यवस्यति निश्चिनोति भूतेन्द्रियमनांस्यपेक्ष्य बुद्धेर्द्वादशत्वम् । बुद्धिद्रव्यस्योपादानं सत्त्वम् । तस्य रजस्तमोभ्यामत्यन्ताभिभवे मध्यत्वं किञ्जिदभिभवे महत्त्वम् । तस्याल्पत्वादिकं देहात्मकर्त्रात्मासंगचिदात्मादिनिश्चयद्वाराऽनुमीयते ज्ञायते । अक्षरार्थः स्पष्टः ॥१०३॥
अहं कर्तेति चाप्यन्यो गुणस्तत्र चतुर्दशः
।
ममायमिति येनायं मन्यते न ममेति च॥१०४॥
अहं कर्तेति । येन सत्त्वेन अहं कर्ता ममायं निश्चय इति मन्यते स तत्र सत्त्वे चतुर्दशो गुणः । सत्त्वमपेक्ष्य बुद्धिनिश्चयप्रकाशकेऽहमर्थेऽपि बाह्यानपेक्षप्रकाशकत्वलक्षणं स्वप्रकाशत्वं नास्तीत्यर्थः ॥१०४॥
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः
।
पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते॥१०५॥
कलाः प्राणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम् अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकेषु नाम चेति श्रुत्युक्ताः षोडश । तासां समूहस्य सामग्र्यं वासनात्मकं जगदहङ्कर्तर्यस्ति । यथोक्तं वासिष्ठे -
'यत्राऽहं त्वं जगत्तत्र पूर्वमागत्य तिष्ठति
।
त्रसरेणूदेरपीन्द्रो ह्यपश्यद्भुवनत्रयम्
।
'
इति । वासनाप्यहङ्कारद्वारा स्वकार्यं जगत्प्रकाशयतीति न स्वप्रकाश्येत्यर्थः ॥१०५॥
गुणस्त्वेवापरस्तत्र संघात इव षोडशः
।
प्रकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ॥१०६॥
गुण इति । तत्र वासनायां तदुपादानभूतो गुणः । त्रिगुणात्मत्वात्संघात इव जगदङ्कुरबीजभूतोऽविद्यासंज्ञको गुणः षोडशोऽस्ति 'सुषुप्ताख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोः' इति स्मृतेः सौषुप्ताज्ञानस्य संहतत्वेनाभासमानत्वात् संघातेऽपि लौकिकानुभवापेक्षा । संहतत्वविवक्षया इव शब्दः ।
'तत्राकस्मात्परित्यक्तपूर्वापरविचारणम्
।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता'
इति ।
वासिष्ठोक्तोक्तलक्षणवासनाद्वारा सौषुप्ताविद्यापि अहमर्थं जनयतीति न तस्यामपि बाह्यानपेक्षप्रकाशकत्वमस्तीति नासावपि स्वप्रकाशा । तथा यस्मिन्षोडशे सौषुप्ताज्ञाने प्रकृतिः मायाव्यक्तिस्तत्प्रकाश इत्येतौ द्वौ गुणौ आश्रितौ कल्पितरजते इव शुक्ती इदमंशः । मायाशबले ब्रह्मण्येव सौषुप्ताज्ञानमध्यस्तमित्यर्थः । अत एव सौषुप्तं प्रकृत्य तदीयपारमार्थिकरूपापेक्षया एष सर्वेश्वर एष सर्वज्ञ इत्यादि माण्डूक्ये तस्येश्वरत्वं समाम्नातं विवक्षामेदाज्जीवमप्येनं वदन्ति । यदाहुर्बाह्या अपि जीवस्य देहाभिमानलये सार्वज्ञ्यमस्तीति।
'मणिहुतवहतारासोमसूर्यादयोऽपि क्षितिविषयमिहाल्पं बाह्यमुद्योतयन्ति
।
सहजलयसमुत्थं द्योतयेज्ज्योतिरन्तस्त्रिभुवनमपि सूक्ष्मस्थूलभेदं क्रमेण' इति
।
एतयोश्च प्रकृतिव्यक्त्योर्गुणत्वं दृश्यत्वादेव तथाहि । दर्पणेन मुखमिव प्रकृत्या चिदात्मा दृश्यते चन्द्रेण राहुरिव चिदात्मना प्रकृतिः प्रकाश्यते । अतो यद्यस्य साधकं तत्तत आन्तरमित्यनुगमात् । एतयोः परस्परापेक्षया बाह्यत्वात् । स्वस्वकार्यप्रकाशे परस्परापेक्षत्वाच्च न द्वयोरपि बाह्यानपेक्षप्रकाशकत्वलक्षणं स्वप्रकाशकत्वमस्तीति प्रकृतेर्निष्कृष्टश्चेतनः स्वप्रकाश इति भावः ॥१०६॥
सुखासुखे जरामृत्यू लाभालाभौ प्रियाप्रिये
।
इति चैकोनविंशोऽयं द्वन्द्वयोग इति स्मृतः॥१०७॥
तत्र प्रकृतिकार्यमाह - सुखेति ॥१०७॥
ऊर्ध्वं चैकोनविंशत्या कालो नामापरो गुणः
।
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्॥१०८॥
व्यक्तिकार्यमाह - ऊर्ध्वमिति । कालः अविद्याख्यः षोडशो गुणयुक्तः । तदुपाधिर्जीवः कालसंज्ञः तस्य सदसद्वासनामयत्वात् कृतत्रेतादिकालरूपत्वं प्रागुक्तं न प्रस्मर्तव्यम् । विंशत्या संख्यातम् ॥१०८॥
विंशश्चैष संघातो महाभूतानि पञ्च च
।
सदसद्भावयोगौ तु गुणावन्यौ प्रकाशकौ॥१०९॥
महाभूतानि देहारंभकांशव्यतिरिक्तानि । सद्भावयोगः इह घटोऽस्तीत्यादिर्व्यपदेशः । असद्भावयोगः इह घटो नास्तीत्यादिर्व्यपदेशः । यद्वा प्रमाभ्रमविषयौ सदसद्भावयोगौ ज्ञेयौ ॥१०९॥
इत्येवं विंशकश्चैव गुणाः सप्त च ये स्मृताः
।
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे॥११०॥
विधिः वासनाबीजभूतौ धर्माधर्मौ । शुक्रं वासनोद्बोधकः संस्कारः बलं वासनाविषयप्राप्त्यनुकूलो यत्नः संघातधर्मत्वेन एतेषां पृथग्ग्रहणम् ॥११०॥
विंशतिर्दश चैवं हि गुणाः संख्यानतः स्मृताः
।
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्॥१११॥
विंशतिर्दश चेति त्रिंशत्संघातः शरीरम् ॥१११॥
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति
।
व्यक्तं चासां तथा चान्यः स्थूलदर्शी प्रपश्यति॥११२॥
अस्य त्रिंशकस्योत्पत्तौ मतान्तराण्याह - अव्यक्तमिति । अव्यक्तं प्रधानम् । प्रकृतिमुपादानं कलानां त्रिंशत्संख्यानाम् । कश्चिन्निरीश्वरसांख्यः । व्यक्तं परमाणवः चकारात् अव्यक्तं कालादृष्टेश्वरादि स्थूलदर्शी कणादादिः ॥११२॥
अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम्
।
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः॥११३॥
अव्यक्तं कापिलाः । व्यक्तं चतुर्विधाः परमाणव एवेति चार्वाकाः द्वयीं काणादाः चतुष्टयीं व्यवहारे स्वयमभ्युपगतां जीवेशौ स्वस्योपाधियुतौ पश्यन्ति वृत्त्या विषयीकुर्वन्ति । इदं सर्वमप्यस्माकमध्यात्मविदामविरुद्धम् । व्यावहारिकेष्वर्थेष्वतात्विकेषु नातीवाभिनिवेष्टव्यमित्याशयः ॥११३॥
येयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता
।
अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः॥११४॥
क्व तर्ह्यभिनिवेष्टव्यमत आह - येयमिति । इयमिति प्रत्यक्त्वेनाभिनीय दर्शयति प्रकृतिरधिष्ठानमात्रत्वेनोपादानम् । अव्यक्ता त्रिंशकवत् वृत्त्या न गृहीता । अदृष्टो द्रष्टेत्यादिश्रुतेर्वाङ्मनसातीतत्वात् कलाभिरुक्ताभिरेव त्रिंशत्संख्याभिः । इत्थंभावे तृतीया । मायया कलात्मना व्यक्ततां दृश्यतां गतेत्यर्थः । या च निष्कला बाह्यानपेक्षप्रकाशकतया सूर्यवत् त्रिंशकादन्या स्वयंज्योतिः सैव त्वं चाहं चान्ये च स्मः । सर्वेषां प्रत्यग्भूत आत्मेत्यर्थः। घटमणिकमल्लिकाद्याकाशानामिवोपाधिप्रतिसन्धानमन्तरेण भेदस्याविभाव्यमानत्वात्सर्वेषामस्माकं तन्मात्रत्वमिति भावः । नन्वस्यापि मुकुरमुखवद्बाह्यापेक्षप्रकाशत्वमुक्तम् । न प्रतिबिम्बस्यैव स प्रकाशो न त्वस्येति दिक् ॥११४॥
बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः
।
यासामेव निपातेन कललं नाम जायते॥११५॥
एवं चिदंशाभिप्रायेण कासीत्यादिप्रश्नानुपपत्तिमुक्त्वा जडांशाभिप्रायेणापि तामाह - बिन्द्विति। बिन्दुन्यासो रेतःसेकः ततः शुक्रशोणितसंयोगाद्भवन्ति ताः । निपातेन मिश्रणेन कललं परस्पराविविक्तम् ॥११५॥
कललाद्बुद्बुदोत्पत्तिः पेशी च बुद्बुदात् स्मृता
।
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः॥११६॥
संपूर्णे नवमे मासि जन्तोर्जातस्य मैथिल
।
जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः॥११७॥
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि
।
कौमारं रूपमापन्नं रूपतो नोपलभ्यते॥११८॥
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात्
।
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते॥११९॥
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे
।
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते॥१२०॥
कलानां परिणामवतीनां पृथगर्थानां रूपादिप्रकाशार्थानां प्रतिभेदो रूपभेदः ॥१२०॥
न चैषामत्ययो राजन् लक्ष्यते प्रभवो न च
।
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः॥१२१॥
सौक्ष्म्यादित्येव विवृणोति - न चेति ॥१२१॥
तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः
।
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः॥१२२॥
एवं परिणामभेदात् द्रव्यभेदमुपेत्य प्रश्नोत्तरक्षणयोर्देहभेदात्काऽसि कस्यासीति प्रश्नस्यानुपपत्तिमुक्त्वा देहस्यानित्यत्वादपि तदयोगमाह - तस्येति ॥१२२॥
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः
।
सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह॥१२३॥
यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः
।
जायन्त्येवं समुदयात्कलानामिव जन्तवः॥१२४॥
आदित्यात् सूर्यकान्तेन । मणेर्लोहसंबन्धात् । वीरुद्भ्यो मन्थनादिना कलानां समुदयात् इवशब्दोऽनर्थकः पादपूरणार्थः ॥१२४॥
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि
।
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि॥१२५॥
आत्मनीति सार्धश्लोकः । आत्मनि देहे आत्मानं देहम् । आत्मानं निष्कलं देहात्मवन्निष्कलात्मानमपि यद्यसंदिग्धं पश्यसि तर्हि ब्रह्मिष्ठस्त्वम् । ’ऐकात्म्यवित्त्वात् अन्यस्मिन्नपि देहे निष्कलमेव कुतो न पश्यसीत्यर्थः'। 'देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । ज्ञानं यस्य भवेदत्र स नेच्छन्नपि मुच्यते' इति देहज्ञानदृष्टान्तः शुद्धज्ञानेऽस्ति तमज्ञात्वा केचिदिह मध्यममर्धं न पठन्ति ॥१२५॥
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि
।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि॥१२६॥
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल
।
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम्॥१२७॥
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे
।
कृतवान् यो महीपालः किं तस्मिन्मुक्तलक्षणम्॥१२८॥
कृतवान् उचितक्रियावान् । भावे निष्ठा ॥१२८॥
त्रिवर्गं सप्तधा व्यक्तं यो न वेदेह कर्मसु
।
सङ्गवान् यस्त्रिवर्गेण किं तस्मिन्मुक्तलक्षणम्॥१२९॥
धर्मोऽर्थः काम इत्यसङ्कीर्णास्त्रयः । धर्मार्थयोर्धर्मकामयोः कामार्थयोश्चेति संकीर्णा द्विकास्त्रयः धर्मार्थकामानां त्रिसंकीर्णस्त्रिक एक इति सप्तधा । त्रिवर्गासक्तो न मुच्यत इत्यर्थः ॥१२९॥
प्रिये वाऽप्यप्रिये वापि दुर्बले बलवत्यपि
।
यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम्॥१३०॥
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप
।
सुहृद्धिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम्॥१३१॥
अविरक्तस्य अपथ्यशीलस्य ॥१३१॥
तानि तानि तु सञ्चिन्त्य सङ्गस्थानान्यरिन्दम
।
आत्मनाऽऽत्मनि सम्पश्येत्किमन्यन्मुक्तलक्षणम्॥१३२॥
तानीति । संगस्थानानि स्त्र्यादीनि आत्मन्येव संपश्येत् न तु बहिः आत्मक्रीड आत्मरतिश्च यः स एव मुक्त इत्यर्थः ॥१३२॥
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित्
।
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु॥१३३॥
चतुर्ष्वङ्गेषु शयनोपभोगभोजनाच्छादनेषु प्रवृत्तानि संगस्थानानि पृथिव्यादीनि ॥१३३॥
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह
।
एक एव स वै राजा पुरमध्यावसत्युत॥१३४॥
यदुक्तं प्रवेशस्ते कृतः केन मम राज्ये पुरेऽपि वेति तत्र तव पुरादिना सम्बन्ध एव नास्तीत्याह - य इमामिति । पृथ्वीपतिः पुरेऽस्तीति पृथ्वी व्यर्था पुरेशो गृहेऽस्तीति पुरं व्यर्थं गृहेशोऽपि मञ्चेऽस्तीति गृहं व्यर्थं मञ्चस्योऽष्येकदेशेऽस्तीति तदीयप्रदेशान्तरं व्यर्थम् । अल्पेनैव निर्वाहसिद्धेरधिके ममता मोहमात्रम् । यथोक्तम् -
'गोशतादपि गोक्षीरं प्रस्थं धान्यशतादपि
।
प्रासादादपि खट्वार्धं शेषाः परविभूतयः॥'
इति ॥१३४॥
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति
।
गृहे शयनमप्येकं निशायां यत्र लीयते॥१३५॥
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति
।
तदनेन प्रसङ्गेन फलेनैवेह युज्यते॥१३६॥
एवमेवोपभोगेषु भोजनाच्छादनेषु च
।
गुणेषु परिमेयेषु निग्रहानुग्रहं प्रति॥१३७॥
परतन्त्रः सदा राजा स्वल्पेष्वपि प्रसज्जते
।
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता॥१३८॥
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता
।
मन्त्रे चामात्यसमितौ कुतस्तस्य स्वतन्त्रता॥१३९॥
यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता
।
अवशः कार्य ते तत्र तस्मिंस्तस्मिन्क्षणे स्थितः॥१४०॥
स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः
।
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः॥१४१॥
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेत्यपि
।
ब्रवीहि शृणु चापीति विवश: कार्यते परैः॥१४२॥
अभिगम्याभिगम्यैवं याचन्ते सततं नराः
।
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान्॥१४३॥
दाने कोषक्षयोऽप्यस्य वैरं चास्याप्रयच्छतः
।
क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः॥१४४॥
प्राज्ञान् शूरांस्तथैवाढ्यानेकस्थानपि शङ्कते
।
भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते॥१४५॥
तथा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया
।
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम्॥१४६॥
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही
।
निग्रहानुग्रहान्कुर्वंस्तुल्यो जनक राजभिः॥१४७॥
एवं राज्ये दुःखान्युक्त्वा यत्तत्र सुखं तत्सर्वेषामप्यस्तीत्याह स्वे स्वे इति ॥१४७॥
पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयाः
।
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः॥१४८॥
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः
।
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते॥१४९॥
राज्याभिमाने तापोऽधिक इत्याह - हत इति ॥१४९॥
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषभयोद्भवैः
।
शिरोरोगादिभी रोगैस्तथैवाभिनियन्तृभिः॥१५०॥
अमुक्तः नित्यसंबद्धः ॥१५०॥
द्वन्द्वैस्तैस्तैस्त्वपहतः सर्वतः परिशङ्कितः
।
बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः॥१५१॥
तदल्पसुखमत्यर्थं बहुदुःखमसारवत्
।
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम्॥१५२॥
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्
।
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे॥१५३॥
क इति । प्राप्य कोऽभिपद्येत न कोऽपीत्यर्थः । अत उपशममेव लभेत् प्राप्नुयात् ॥१५३॥
बलं कोशममात्यांश्च कस्यैतानि न वा नृप
।
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः॥१५४॥
त्रिदण्डविष्टंभो यथाऽन्योन्याश्रयेण तिष्ठति एवं मित्रादयः सप्त नात्र तेषां प्रधानगुणभावोऽस्तीत्यर्थः ॥१५४॥
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्ड्यस्येव तिष्ठतः
।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः॥१५५॥
तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते
।
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते॥१५६॥
तत्र उदया वृद्धिक्षयस्थानाख्या नीतिशास्त्रोक्ताः ॥१५६॥
सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम
।
संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्
।
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत्॥१५७॥
संभूयेति । तथाऽचेतनः कोशः स्वपुष्ट्यै मित्रादीन् भुङ्क्ते एवं मित्रादयोऽपि कोशमिति जडयोरेवोपकार्योपकारकभावो न तु जडाजडयोः ॥१५७॥
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः
।
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्॥१५८॥
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्
।
योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः॥१५९॥
असतीति च्छेदः परं मोक्षसुखम् ॥१५९॥
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न युज्यते
।
साऽहमेतानि कर्माणि राजदुःखानि मैथिल॥१६०॥
समर्था शतशो वक्तुमथवापि सहस्रशः
।
स्वदेहेनाभिषङ्गो मे कुतः परपरिग्रहे॥१६१॥
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि
।
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः॥१६२॥
ईदृशं सत्त्वसम्बन्धेन संकरकर्तृत्वम् ॥१६२॥
सोपाय: सोपनिषदः सोपासङ्गः सनिश्चयः
।
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः॥१६३॥
उपायो निदिध्यासनम् उपनिषत् श्रवणमनने उपासंगो ध्यानाङ्गानि यमादीनि निश्चयस्तद्धेतुर्ब्रह्मात्मैकत्वानुभवः । पाशानाक्रम्य कामादीन् जित्वा ॥१६३॥
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप
।
श्रुतं ते न श्रुतं मन्ये मृषा वापि श्रुतं श्रुतम्॥१६४॥
श्रुतं शास्त्रं ते त्वया न श्रुतं न ज्ञातं मृषा दम्भेन ॥१६४॥
अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया
।
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे॥१६५॥
श्रुतसंकाशं शास्त्राभासरूपं श्रुतशास्त्रं त्वया श्रुतम् आकर्णितं संज्ञासु 'वाचारम्भणं विकारो नामधेयम्’ इक्ति श्रुतेर्नाममात्रासु संपत्सु ॥१६५॥
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा
।
सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया॥१६६॥
किं तवापकृतं यत्र यदि मुक्तोऽसि सर्वशः
।
नियमो ह्येषु वर्णेषु यतीनां शून्यवासिता॥१६७॥
शून्यमावेशयन्त्या च मया किं कस्य दूषितम्
।
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां च चानघ॥१६८॥
शून्यं बोधशून्यं तव बुद्धिसत्त्वमिति भावः । शून्यागारे वासश्च संन्यासिनां धर्म इति न मम कश्चिद्दोषोऽस्ति ॥१६८॥
न गात्रावयवैरन्यैः स्पृशामि त्वां नराधिप
।
कुले महति जातेन ह्रीमता दीर्घदर्शिना॥१६९॥
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम्
।
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः
।
त्वं चाथ गुरुरप्येषामेव मन्योन्यगौरवम् ॥१७०॥
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता
।
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि॥१७१॥
यथा पुष्करपर्णस्थं जलं तत्पर्णमस्पृशत्
।
तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल॥१७२॥
यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कञ्चन
।
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा॥१७३॥
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम्
।
उभयोरन्तराले वै वर्तसे मोक्षवार्तिकः॥१७४॥
मोक्षावार्तिकः वार्तामात्राभिज्ञो न तु मुक्तः ॥१७४॥
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः
।
भावाभावसमायोगे जायते वर्णसंकरः॥१७५॥
मुक्तत्वे हि मा कृथा वर्णसंकरमित्युक्तिरयुक्तेत्याह - न हीति । एकत्वं चिदात्मनः । पृथक्त्वं पुंप्रकृत्योः भाव आत्मा अभावस्तुच्छरूपत्वात्प्रकृतिः । अनयोः समायोगे वर्णसंकरो न ह्यस्ति ॥१७५॥
वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्विनः
।
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते॥१७६॥
कथं तर्हि वर्णसंकरो निन्द्यत इत्याशङ्क्य वर्णाश्रमाभिमानवशादित्याह - वर्णाश्रमा इति । अपृथक्त्विनः पृथक्त्वं पुंप्रकृत्योर्विवेकस्तदस्यास्तीति पृथक्त्वी तदन्यस्य । अत एव पृथक्त्वेन नानात्वेन वर्णाश्रमाः यस्य भान्ति । दृष्टा अर्था येन सः । जगतः पृथक्त्वं मन्वानस्यैतद्दृष्ट्या व्यभिचारात् वर्णसंकर इत्यर्थः । यदा त्वेवं जानाति अन्यत् शरीरम् अन्यत् आत्मा न भवति इति तदा ज्ञात्वा एतदेवापरोक्षीकृत्य स्थिताया मम अन्यत् सत्त्वम् अन्यत्र त्वयि न वर्तत इत्यर्थः ॥१७६॥
पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका
।
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः॥१७७॥
पाणिकुण्डादयः एकदेशस्था अपि परस्परं न संकीर्यन्ते कृसरान्नवदेकलोलीभावं न गच्छन्ति एवमाश्रमाणां वर्णानां च आत्मनः सकाशात्ते तव ब्रह्मिष्ठस्य पृथक्त्वात्कथं वर्णसंकर इति श्लोकत्रयार्थः ॥१७७॥
न तु कुण्डे पयोभावः पयश्चापि न मक्षिका
।
स्वयमेवाप्नुवन्त्येते भावा न तु पराश्रयम्॥१७८॥
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च
।
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः॥१७९॥
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा
।
तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता॥१८०॥
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
।
कुले तस्य समुत्पन्नां सुलभा नाम विद्धि माम्॥१८१॥
द्रोणश्च शतशृङ्गश्च चक्रद्वारश्च पर्वतः
।
मम सत्रेषु पूर्वेषां चिता मघवता सह॥१८२॥
द्रोणादयः पर्वताः मम पूर्वेषां सत्रेषु मघवता सह चिताः चयने इष्टकास्थाने निवेशिता इत्यर्थः ॥१८२॥
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे
।
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्॥१८३॥
तस्मिन्विख्यातप्रभावे कुले विनीता गुरुभिः शिक्षिता मद्विधे भर्तर्यसति अप्राप्ते सति नैष्ठिकं ब्रह्मचर्यमेवाश्रित्य संन्यासं कृतवत्यस्मीत्यर्थः ॥१८३॥
नास्मि सत्रप्रतिच्छन्ना न परस्वापहारिणी
।
न धर्मसंकरकरी स्वधर्मेऽसि धृतव्रता॥१८४॥
सत्रप्रतिच्छन्ना कपटसंन्यासिनी ॥१८४॥
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी
।
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप॥१८५॥
मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी
।
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता॥१८६॥
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः
।
मुक्तो व्यायच्छते यश्च शान्तौ यश्च न शाम्यति॥१८७॥
स्वपक्षपरपक्षयोर्मध्ये वर्गस्था स्वपक्षे पक्षपातेन स्थिता सती नाहं ब्रवीमि अपि तु त्वद्धितार्थं ब्रवीमीति भावः । ननु ज्ञाततत्त्वस्य मे किं त्वदीयैर्वाक्यैरित्याशङ्क्याह - मुक्त इति नकारो भिन्नक्रमः । यो न व्यायच्छते मल्लवत् स्वजयार्थं व्यायामं वादश्रमं न करोति यश्च शान्तां ब्रह्मणि शाम्यति स मुक्तः । अतस्तव तत्त्वज्ञस्यापि आदरेण मद्वाक्यश्रवणं युक्तमिति भावः ॥१८७॥
यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत्
।
तथाहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्॥१८८॥
स्वस्य ग्रामैकरात्रवासित्वं द्योतयति - यथेति ॥१८८॥
साऽहं मानप्रदानेन वागातिथ्येन चार्चिता
।
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल॥१८९॥
भीष्म उवाच।
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च
।
श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम्॥१९०॥
हेतुमन्ति युक्तिमन्ति । अर्थवन्ति प्रयोजनवन्ति नाधिजगौ नाधिगतवान् । उत्तरं वक्तुं न समर्थो बभूवेत्यर्थः एतेन गार्हस्थ्ये मुक्तिर्दुर्लभाऽतः संन्यास एव श्रेयानिति सुलभामतमेव सिद्धान्त इति दर्शितम् ॥१९०॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सुलभाजनकसंवादे विंशत्यधिकत्रिशततमोऽध्यायः ॥३२०॥
युधिष्ठिर उवाच।
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा
।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥१॥
संन्यासस्य श्रैष्ठ्यमुक्त्वा तद्धर्मान् शुकचरितेनैव दर्शयति प्रश्नोत्तरमुखेन - कथमित्यादिना । निर्वेदं वैराग्यं संन्यासे मुख्यं विशेषणं 'यदहरेव विरजेतदहरेव प्रव्रजेत्' इति श्रुतेः ॥१॥
अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम्
।
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः॥२॥
अव्यक्तं कारणं व्यक्तं कार्यं तत्त्वं तयोरनारोपितरूपं ब्रह्म तेषां निश्चयम् अजस्य नारायणस्य कृतिर्लीला आकृतिरिति च्छेदे सगुणं रूपम् अत्र प्रथमस्य प्रश्नस्योत्तरं शुकोत्पत्तिरितरयोरुत्तरं शेषग्रन्थ इति विभागः ॥२॥
भीष्म उवाच।
प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम्
।
अध्याप्य कृस्त्नं स्वाध्यायमन्वशाद्वै पिता सुतम्॥३॥
स्वाध्यायं पितृपितामहपरंपरया परिगृहीतं वेदभागम् अध्याप्य शब्दतोऽर्थतश्च ग्राहयित्वा तत्रानधिगतान् शाखान्तरीयानर्थानन्वशात् अनुशासितवान् । न च अध्याप्येति शब्दत एव स्वाध्यायग्रहणमुच्यते । न त्वर्थतोऽपि चैत्रोयमधीत इत्यक्षरोच्चारणमात्रेऽधीतिशब्दप्रयोगादिति वाच्यम् । अध्ययनविधेर्वाक्योपक्रमेणोक्तार्थस्य दर्शितत्वात् तथा हि –
‘यस्तित्याज सखिविदं सखायं न तस्य वाच्यपि भागो अस्ति
।
'यदींशृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थाम्॥'
इति तस्मात्स्वाध्यायोऽध्येतव्य इति सुकृतमार्गाज्ञाने वेदस्य श्रवणग्रहणे निष्फले इत्युक्त्वा विधीयमानस्यार्थज्ञानपर्यन्तताऽवसीयते । अयं मन्त्रः प्रागेव व्याख्यातः । काव्यमधीते। पाणिनीयमधीते काणादमधीते इत्यर्थग्रहणेऽप्यधीतिप्रयोगदर्शनात् मैत्रोऽयमधीत इत्यक्षरमात्रोच्चारणे स गौण इति मन्तव्यम् । अन्यथाऽध्याप्यान्वशादिति क्रममात्रं विधीयेत तच्च व्यर्थम्। आकांक्षितसमर्पणे तु वाक्यस्यार्थवत्त्वमिति दिक् ॥३॥
व्यास उवाच ।
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ च हिमातपौ
।
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः॥४॥
सत्यमार्जवमक्रोधमनसूयां दमं तपः
।
अहिंसां चानृशंस्यं च विधिवत्परिपालय॥५॥
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्
।
देवतातिथिशेषेण मात्रां प्राणस्य संलिह॥६॥
संलिह स्पृश । स्वाद्वस्वादुविवेकं मा कार्षीरित्यर्थः ॥६॥
फेनमात्रोपमो देहे जीवे शकुनिवत्स्थिते
।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक॥७॥
स्वपिषि पुरुषार्थसाधने न प्रवर्तसे ॥७॥
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
।
अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे॥८॥
शत्रुषु कामादिषु अन्तरं छिद्रम् ॥८॥
अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि
।
जीविते लिख्यमाने च किमुत्थाय न धावसि॥९॥
न धावसि देवं गुरुं वा शरणं न यासि ॥९॥
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः॥१०॥
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः
।
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते॥११॥
अपथा अपथेन ॥११॥
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः
।
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च॥१२॥
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम्
।
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै॥१३॥
आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः
।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः॥१४॥
आद्यकालिकया वर्तमानमात्रदर्शिन्या ॥१४॥
धर्मं निःश्रेणिमास्थाय किञ्चित्किञ्चत्समारुह
।
कोषकारवदात्मानं वेष्टयन्नानुबुध्यसे॥१५॥
नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम्
।
वामतः कुरु विस्रब्यो नरं वेणुमिवोद्धृतम्॥१६॥
कूलपातं महानदीपूरम् ॥१६॥
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजला नदीम्
।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर॥१७॥
धृतिः प्राणादिवेगधारणं योग इत्यर्थः ॥१७॥
मृत्युनाऽभ्याहते लोके जरया परिपीडिते
।
अमोघासु पतन्तीषु धर्मपोतेन संतर॥१८॥
अमोघा आयुर्हरणेन सफलासु रात्रिषु धर्मपोतेन धर्मनौकया ॥१८॥
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा
।
निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाशितः॥१९॥
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्
।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥२०॥
सञ्चिन्वानकं धनादिसञ्चयपरम् ॥२०॥
क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान्
।
अन्धकारे प्रवेष्टव्यं दीपो यत्नेन धार्यताम्॥२१॥
अन्धकारे संसारे दीपो ज्ञानम् ॥२१॥
सम्पतन्देहजालानि कदाचिदिह मानुषे
।
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय॥२२॥
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते
।
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्॥२३॥
ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न रतिपरेण हेलितव्यम्
।
स्वाध्याये तपसि दमे च नित्ययुक्तः क्षेमार्थी कुशलपर: सदा यतस्व॥२४॥
अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा
।
संत्वास्यः समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम्॥२५॥
संवास्यः छेत्तुं योग्यः । सन्धास्य इति पाठे उच्छेत्तुं योग्यः। सन्ध्यांस इति पाठे सन्ध्याद्वयमंसस्थानीयं यस्य । शुक्लकृष्णौ पक्षौ ॥२५॥
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहान्ववेक्षमाणम्
।
चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशाम्य॥२६॥
चक्षुर्ज्ञानं परप्रणेतृनेयम् । अन्धवत् यदि न भवसीत्यर्थः । परं परलोकम् आत्मानं वा ॥२६॥
ये चात्र प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगाः
।
क्लिश्यन्तः परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मकारणाभिः॥२७॥
परिगतं प्राप्तं वेदनाशरीरं यमलोके यातनाशरीरं यैस्ते तथाभूता भवन्तीति शेषः । अधर्मकारणाभिः अधर्मक्रियाभिः ॥२७॥
राजा सदा धर्मपर: शुभाशुभस्य गोप्ता समीक्ष्य सुकृतिनां दधाति लोकान्
।
बहुविधमपि चरति प्रविशति सुखमनुपगतं निरवद्यम्॥२८॥
एतत् भयं श्रुत्वा भीतं राजानमाश्वासयति - राजेति । शुभाशुभस्य उत्तमाधमवर्णजातस्य सुकृते प्रवर्तकत्वात् । सुकृतिनां लोकान् दधातिः धारयते प्राप्नोतीत्यर्थः । अनुपगतं नानायोनिसहस्रेष्वप्राप्तं मोक्षं स्वर्गे मोक्षं च साधुर्नृपः प्राप्नोतीत्यर्थः ॥२८॥
श्वानो भीषणकाया अयोमुखानि वयांसि बलगृध्र(कुरर)पक्षिणां च संघाः
।
नरकदने रुधिरपा गुरुवचननुदमुपरतं विशन्त्यसन्त॥२९॥
गुरुद्रोहिणां दुर्गतिमाह - श्वान इति । नराणां कदनं यत्र तस्मिन्नरके । रुधिरपाः कीटाः । गुरूणां मातृपितृप्रभृतीनां वचनं नुदति दूरीकरोति तं गुरुवचननुदम् उपरतं मृतम् ॥२९॥
मर्यादा नियताः स्वयम्भुवा य इहेमा: प्रभिनत्ति दश गुणा मनोऽनुगत्वात्
।
निवसति भृशमसुखं पितृविषयविपिनमवगाह्य स पापः॥३०॥
नियताः विहिताः स्वयंभुवा वेदेन 'ब्रह्म स्वयंभु' इति श्रुतेः । दशगुणाः दशविधाः शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि पञ्च विधिरूपाः । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाख्या निषेधरूपाश्च पञ्च । पितृविषये यमलोके विपिनमसिपत्रवनं तदेवावगाह्य तत्रैव निवसति ॥३०॥
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्य: सततनिकृतिवञ्चनाभिरति: स्यात्
।
उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा॥३१॥
निकृतिर्नीचकर्म वञ्चना चौर्यादि उपनिधिभिश्छलेन ॥३१॥
उष्णां वैतरणीं महानदीमवगाढोऽसि पत्रवनभिन्नगात्रः
।
परशुवनशयो निपतितो वसति च महानिरये भृशार्तः॥३२॥
महापदानि कत्थसे न चाप्यवेक्षसे परम्
।
चिरस्य मृत्युकारिकामनागतां न बुध्यसे॥३३॥
नरकादुद्विजेदित्युक्त्वा स्वर्गेऽपि न रज्येतेत्याह - महापदानीत्यादिना । ब्रह्मादीनां स्थानानि दृष्ट्वा कत्थसे धन्योऽहमिति श्लाघसे परं तु ब्रह्म नावेक्षसे मृत्युकारिकां जराम् ॥३३॥
प्रयायतां किमास्यते समुत्थितं महद्भयम्
।
अतिप्रमाथि दारुणं सुखस्य संविधीयताम्॥३४॥
प्रयायतां प्रचल्यतां मोक्षमार्गेण प्रस्थातव्यम् । सुखस्य प्रमाथि संविधीयतां प्रयत्यताम् ॥३४॥
पुरा मृत: प्रणीयते यमस्य राजशासनात्
।
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु॥३५॥
अन्तकाय अयतिसुखाय दारुणैः कृच्छ्रादितपोभिः ॥३५॥
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित्
।
तवेह जीवितं यमो न चास्ति तस्य वारकः॥३६॥
यावत् जीवितहरणं न जायते ततः प्रागेव सांपरायिकं परलोकहितं कुरुष्वेत्युत्तरेण सम्बन्धः ॥३६॥
पुराऽभिवाति मारुतो यमस्य यः पुरःसरः
।
पुरैक एव नीयसे कुरुष्व सांपरायिकम्॥३७॥
पुरा स हि क्व एव ते प्रवाति मारुतोऽन्तकः
।
पुरा च विभ्रमन्ति ते दिशो महाभयागमे॥३८॥
श्रुतिश्च सन्निरुध्यते पुरा त्वेह पुत्रक
।
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु॥३९॥
शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते
।
स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम्॥४०॥
पुरा जरा कलेवरं विजर्जरी करोति ते
।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्॥४१॥
पुरा शरीरमन्तको भिनत्ति रोगसारथिः
।
प्रसह्य जीवितक्षये तपो महत्समाचर॥४२॥
पुरा वृका भयंकरा मनुष्यदेहगोचराः
।
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने॥४३॥
वृकाः कामादयः ॥४३॥
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै
।
पुरा हिरण्यमयान्नगान्निरीक्षसेऽद्रिमूर्धनि॥४४॥
हिरण्मयवृक्षदर्शनं मरणचिह्नम् ॥४४॥
पुरा कुसङ्गत्तानि ते सुहृन्मुखाश्च शत्रवः
।
विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम्॥४५॥
ते त्वां तव मतिं वा ॥४५॥
धनस्य यस्य राजतो भयं न चास्ति चोरतः
।
मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम्॥४६॥
तद्धनं विद्याम् ॥४६॥
न तत्र संवियुज्यते स्वकर्मभिः परस्परम्
।
यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते॥४७॥
यौतकं विवाहाप्तं धनं दायादाग्राह्यं पाथेयमित्यर्थः ॥४७॥
परत्र येन जीव्यते तदेव पुत्र दीयताम्
।
धनं यदक्षरं ध्रुवं समर्जयस्व तत्स्वयम्॥४८॥
न यावदेव पच्यते महाजनस्य यावकम्
।
अपक्व एव यावके पुरा प्रलीयसे त्वरम्॥४९॥
यावके घृतखंडमिश्रे यवपिष्टविकारे त्वरं त्वरायुक्तं यथा स्यात्तथा प्रलीयसे म्रियसे । भोगान्भुक्त्वा मोक्षे यत्नं करिष्यामीति न मतव्यम् । अप्राप्त एव भोगे मृत्युभयमस्तीति भावः ॥४९॥
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः
।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्॥५०॥
यदेव कर्म केवलं पुरा कृतं शुभाशुभम्
।
तदेव पुत्र सार्थिकं भवत्यमुत्र गच्छतः॥५१॥
सार्थिकं देहेन्द्रियादिसार्थवाहकम् ॥५१॥
हिरण्यरत्नसञ्चयाः शुभाशुभेन संञ्चिताः
।
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः॥५२॥
परत्रगामिकस्य ते कृताकृतस्य कर्मणः
।
न साक्षि आत्मना समो नृणामिहास्ति कश्चन॥५३॥
परत्र गामिकस्य गमनशीलस्य । साक्षि आत्मनेति 'इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च' इति प्रकृतिभावे ह्रस्वः। साक्षितात्मनेति पाठः प्रामादिकः । मामन्यो न जानातीति मत्वा पापं न कर्तव्यमिति भावः ॥५३॥
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः
।
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः॥५४॥
ननु कर्त्रात्मनोऽतिरिक्तस्य साक्षिणः सत्त्वे मानं किमत आह - मनुष्येति । अमुत्र साक्षिणि गच्छतो लीयमानस्य कर्तुर्मनुष्यदेहस्य शून्यमिव शून्यकम् अभावो भवति । परदृष्ट्या सन्नपि योगिदृष्ट्या मनुष्यदेहो नष्टो भवतीत्यर्थः । अत्र विद्वदनुभवं प्रमाणयति - प्रविश्येति । हार्दाकाशमिति शेषः ॥५४॥
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः
।
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः॥५५॥
साक्ष्यन्तराण्याह - इहेति ॥५५॥
अहर्निशेषु सर्वतः स्पृशत्सु सर्वचारिषु
।
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय॥५६॥
अनेकपारिपन्थिके विरूपरौद्रमक्षिके
।
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति॥५७॥
तत्र परलोकमार्गे । विरूपाः रौद्राश्व माक्षिकाः दंशा यस्मिन् । अनेके परिपन्थिनः शत्रवो लोहतुण्डाः पक्षिवृकादयो यस्मिन् ॥५७॥
न तत्र संविभज्यते स्वकर्मणा परस्परम्
।
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम्॥५८॥
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह
।
तथाऽऽप्नुवन्ति कर्मजं विमानकामगामिनः॥५९॥
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः
।
तदाऽऽप्नुवन्ति मानवास्तथा विशुद्धयोनयः॥६०॥
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः
।
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः॥६१॥
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहाम ते
।
अबुद्धिमोहनं पुनः प्रभुर्निनाय पावकः॥६२॥
अबुद्धीन् मोहयतीति तथा । पावकः पुनाति पवित्रीकरोतीतिव्युत्पत्त्या धर्मः । क्लीबपाठे पावकं सत्कर्म यावकमिति पाठेऽपि यावकमिव पाथेयरूपो धर्म एव ॥६२॥
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः
।
कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते॥६३॥
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम्
।
यथा गृहीतमुत्थितस्त्वरस्व धर्मपालने॥६४॥
प्रमादगः प्रमादगृहवासी अन्तकः । चमूं चमति भक्षयतीति चमूरिन्द्रियसेना ताम् अमुखाम् अन्तकत्वादिदोषेण स्वस्वविषयभोगहीनां यावत् करोति ततः पुरैव गृहीतं देहम् अनतिक्रम्येति यथा गृहीतं देहमात्रेणेत्यर्थः ॥६४॥
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि
।
तथा गतिं गमिष्यतः किमात्मना परेण वा॥६५॥
यथेति । पुरः पश्चाच्च सर्वम् आत्ममात्रं यथा भवति तथा गतिम् आत्मज्ञानरूपाम् । आत्मना देहेन । परेण तत्सम्बन्धि पुत्रादिना ॥६५॥
यदेकपातिना सतां भवत्यमुत्र गच्छताम्
।
भयेषु साम्परायिकं निधत्स्व केवलं निधिम्॥६६॥
भयेषु उपस्थितेषु एकपातिना एकाकिना यत् साम्परायिकं परलोके हितं तमेव धर्मं ज्ञानं वा निधिमिव निगूह्य निधत्स्व केवलं शुद्धं निष्कामं निर्गुणम् ॥६६॥
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान्
।
न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्॥६७॥
कुलम् अग्रं प्राक्कूलेषु दर्भेषूपविश्येति लिङ्गात् । बालवृद्धैर्वयस्यैः सहितं यथा स्यात्तथेत्यर्थः ॥६७॥
इदं निदर्शनं मया तवेह पुत्र सांप्रतम्
।
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्॥६८॥
दधाति यः स्वकर्मणा ददाति यस्य कस्यचित्
।
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते॥६९॥
यः स्वकर्मणा दधाति आत्मानं देहं पुष्णाति यस्य कस्यचित् फलस्य कृते ददाति च । अबुद्धिरज्ञानं मोहो विपरीतज्ञानम् । तदुभयजैर्गुणैर्दुःखादिभिः मुच्यत इति पाठे आत्मानं चित्तं दधाति एकस्मिंस्तत्त्वे धारयति । यस्येति । यत्किंचिद्ददाति सर्वं त्यजतीत्यर्थः ॥६९॥
श्रुतं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः
।
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम्॥७०॥
श्रुतं तत्त्वमस्यादिवाक्यजं ज्ञानं कर्तृ । समस्तं ब्रह्मांडम् अश्रुते व्याप्नोति । य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति' इति ब्रह्मविदः सार्वात्म्यश्रुतेः । तदेतत्सार्वात्म्यं सार्वज्ञ्यं च अर्थस्य मोक्षाख्यपरमपुरुषार्थस्य दर्शनं नान्यत् । कृतज्ञं कृतज्ञे उपदिष्टम् अर्थसंहितं पुरुषार्थसंगतं भवति न तु कृतघ्नादौ सार्वज्ञ्यसार्वात्म्यदा इयं विद्या उत्तमायैव दातव्येत्यर्थः ॥७०॥
विबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः॥७१॥
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि
।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे॥७२॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाऽकृतम्॥७३॥
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः
।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा॥७४॥
नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान्
।
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः॥७५॥
एवमभ्याहते लोके कालेनोपनिपीडिते
।
सुमहद्धैर्यमालंब्य धर्मं सर्वात्मना कुरु॥७६॥
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः
।
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते॥७७॥
न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि
।
धर्मं हि यो वर्धयते स पण्डितो य एव धर्माच्च्यवते स मुह्यति॥७८॥
देहभेदेऽपि मरणं नास्तीति जानताम् । अनुपालिते शिष्टैरादृते पथि वर्तमानानाम् ॥७८॥
प्रयुक्तयोः कर्मपथि स्वकर्मणो: फलं प्रयोक्ता लभते यथाकृतम्
।
निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः॥७९॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्
।
तथाऽऽत्मानं समादध्याद्भ्रश्यते न पुनर्यथा॥८०॥
यस्य नोक्रामति मति: स्वर्गमार्गानुसारिणी
।
तमाहुः पुण्यकर्माणमशोच्यं पुत्रबान्धवैः॥८१॥
नोत्क्रामति धर्ममिति शेषः ॥८१॥
यस्य नोपहता वुद्धिर्निश्चये ह्यवलम्बते
।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम्॥८२॥
नोपहतेति नैकधेतिवत्समासः ॥८२॥
तपोवनेषु ये जातास्तत्रैव निधनं गताः
।
तेषामल्पतरो धर्मः कामभोगानजानताम्॥८३॥
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत्
।
न तेन किञ्चिन्न प्राप्तं तन्मे बहु मतं फलम्॥८४॥
मातापितृसहस्राणि पुत्रदारशतानि च
।
अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥८५॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्
।
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम॥८६॥
न तेषां भवता कार्यं न कार्यं तव तैरपि
।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति॥८७॥
इह लोके हि धनिनां स्वजन: स्वजनायते
।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति॥८८॥
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः
।
तत: क्लेशमवाप्नोति परत्रेह तथैव च॥८९॥
पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा
।
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम्॥९०॥
तदेतत्संप्रदृश्यैव कर्मभूमिं प्रपश्यतः
।
शुभान्याचरितव्यानि परलोकमभीप्सता॥९१॥
मासर्तुसंज्ञापरिवर्तकेण सूर्याग्निना रात्रिदिवेन्धनेन
।
स्वकर्मनिष्ठा फलसाक्षिकेण भूतानि कालः पचति प्रसह्य॥९२॥
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपुं न बाधते
।
श्रुतेन किं येन न धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो वशी॥९३॥
भीष्म उवाच।
इदं द्वैपायनवचो हितमुक्तं निशम्य तु
।
शुको गतः परित्यज्य पितरं मोक्षदैशिकम्॥९४॥
मोक्षदैशिकं मोक्षोपदेष्टारम् ॥९४॥
पावकस्य धर्मस्य अध्ययनं यावकेतिपाठेऽपि स एवार्थः यद्वा पावकाध्ययनं चित्तशोधकाध्ययनं नाम॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पावकाध्ययनं नाम एकविंशत्यधिकत्रिशततमोऽध्यायः ॥३२१॥
भीष्म उवाच।
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
।
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा॥१॥
एतच्छ्रुत्वा गुरोर्वाक्यमित्यादेर्व्यासः पुत्रमवारयदित्यन्तस्य तात्पर्यं विद्याप्रचारः कर्तव्यो विदुषाऽपि वेदाध्ययनं न त्याज्यं स्वाध्यायानध्यायपरिपालनं च कर्तव्यमिति ॥१॥
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्
।
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्॥२॥
तदात्वायतिसंहितं तदात्वे तत्काले आयतौ उत्तरकाले च संहितं सम्यक् हितम् ॥२॥
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः
।
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः॥३॥
शैलादस्मान्महीं गन्तुं कांक्षितं नो महामुने
।
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो॥४॥
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्॥५॥
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
।
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्॥६॥
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
।
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च॥७॥
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
।
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा॥८॥
चातुर्होत्रं चतुर्होतृसंज्ञका मंत्राः। चित्तिःस्रुक् चित्तमाज्यमित्यादयोऽध्यात्माधियज्ञयोरभेददर्शनार्थाः । तत्पूर्वकं प्रवृत्तं कर्म चातुर्होत्रम् अग्निहोत्रादिकं सोमान्तम् अकल्पयन् प्रवर्तितवन्तः॥८॥
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
।
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः॥९॥
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
।
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्॥१०॥
तं ददर्शाश्रमपदे नारदः सुमहातपाः
।
अथैनमब्रवीत्काले मधुराक्षरया गिरा॥११॥
भो भो ब्रह्मर्षिवासिष्ठ ब्रह्मघोषो न वर्तते
।
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव॥१२॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते
।
रजसा तमसा चैव सोमः सोपप्लवो यथा॥१३॥
सोपप्लवो राहुग्रस्तः ॥१३॥
न भ्राजते यथापूर्वं निषादानामिवालयः
।
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः॥१४॥
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
।
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा॥१५॥
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
।
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण॥१६॥
एतन्मनोऽनुकूलं मे भवानर्हति भाषितुम्
।
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली॥१७॥
त्रिषु लोकेषु यद्भूतं सर्वं तव मते स्थितम्
।
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते॥१८॥
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
।
विमुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः॥१९॥
नातिहृष्टमिदं मन इति विदुषामपि शिष्यादिसंयोगवियोगजं सुखं दुःखमपरिहार्यमिति भावः ॥१९॥
नारद उवाच।
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
।
मलं पृथिव्या वाहीका: स्त्रीणां कौतूहलं मलम्॥२०॥
अनाम्नायः अनावृत्तिः स एव मलो दूषणं येषु ॥२०॥
अधीय तान्भवान्वेदान्सार्धं पुत्रेण धीमता
।
विधुन्वन्ब्रह्मघोषेण रक्षाभयकृतं तमः॥२१॥
भीष्म उवाच।
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
।
तथेत्युवाच संहृष्टो वेदाभ्यासदृढव्रतः॥२२॥
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
।
स्वरेणोच्चैः स शैक्ष्येण लोकानापूरयन्निव॥२३॥
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः
।
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः॥२४॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
।
शुको वारितमात्रस्तु कौतूहलसमन्वितः॥२५॥
ततोऽनध्याय इत्यादिग्रन्थो योगिनां स्वेच्छया कृत्स्ने ब्रह्माण्डे संचारयोग्यता इच्छया देहत्यागश्च यया भवति तादृशीं विद्यां वक्तुं प्रवर्तते ॥२५॥
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्
।
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्॥२६॥
कुत इति । वायोर्मूलकारणप्रश्नः विचेष्टितमिति वायुकर्मप्रश्नः ॥२६॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः
।
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्॥२७॥
दिव्यं ते चक्षुरुत्पन्नं स्वयं ते निर्मलं मनः
।
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः॥२८॥
प्रश्नमभिनन्दन्नस्यार्थस्य जिज्ञासाऽतिदुर्लभेति सूचयति - दिव्यमिति । योगसंस्कृतं चक्षुर्व्यवहितार्थग्राहित्वात् मनश्च निर्मलमतीतादिग्राहि सत्वे सर्वज्ञत्वादिहेतौ बुद्धिसत्त्वे ॥२८॥
आदर्शे स्वामिव च्छायां पश्यस्यात्मानमात्मना
।
व्यवस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय॥२९॥
आत्मनि बुद्धौ वेदान् वेदार्थान् व्यस्य ऊहापोहाभ्यां परिभाव्य बुद्ध्या निश्चयेन समनुचिन्तय वायुः कुतोऽभूदित्यादिकं विचारय ॥२९॥
देवयानचरो विष्णोः पितृयाणश्च तामसः
।
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः॥३०॥
देवयानेति । यो विष्णोर्व्यापकस्य परमात्मनः सम्बन्धी देवयानोऽर्चिरादिमार्गस्तत्र चरतीति तेन मार्गेण सात्त्विकान् उपासकान् विष्णुर्लोकम् अपुनरावृत्तिपदं प्रापयतीत्यर्थः । पितृयानश्च धूमादिपितृयानमार्गप्रदश्चायमेव स तु तामसः पुनरावृत्तिप्रदत्वात् ॥३०॥
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
।
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः॥३१॥
पृथिव्यामिति । पृथिव्यां पिण्डे अन्तरिक्षे ब्रह्माण्डे संवान्ति संगच्छन्ति । वायुमार्गः वायुसंचारस्थानानि तत्र देहे । तावत् वायुस्थानवर्णबीजानि नकुलीशयोगपारायणे प्रोक्तानि –
'प्राणो घ्राणाग्रहृन्नाभिपादाङ्गुष्ठान्तसंस्थितिः
।
नीलः सोंकाररेफादिबीजेन विनियोजितः ॥'
ओंयमित्यर्थः।
'कृष्णोऽपानः कृकाटिस्थः पृष्ठपृष्ठान्तपार्ष्णिग
।
सतारकनकारान्तबीजेन विनियोजितः॥'
ओंपमित्यर्थः।
‘शक्रचापनिभो व्यानस्त्वगिन्द्रियनिकेतनः
।
तारकोपेतया तान्तबीजतेजोविराजितः॥'
ओंलमित्यर्थः ।
'मूर्धस्थो मध्यताल्वग्रकण्ठहृत्पत्तलाश्रयः
।
उदानो ह्यरुणच्छायस्तारकाक्रान्तयान्तयुक् ॥'
ओंरमित्यर्थः ।
‘श्वेतः समानो हृन्नाभिसर्वसन्धिनिकेतनः
।
प्रणवाक्रान्तलान्तेन बीजेनात्यन्तमुज्ज्वल:॥'
इति ॥ ओंवमित्यर्थः । षष्ठसप्तममार्गौ तु जीवन्मुक्तिविदेहमुक्तिप्रदौ वक्ष्यति ॥३१॥
तत्र देवगणाः साध्या महाभूता महाबलाः
।
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः॥३२॥
देवगणाः अध्यात्मम् इन्द्रियाणि तेषां पुत्रः समानः इन्द्रियाणां सामान्या श्रुतिरेव समानादयः तदुक्तं सांख्यसप्तत्याम् - 'सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च’ इति । एवमधिदैवमपि साध्यानां देवानां सामान्यं रूपं समानादय इत्यर्थः । पिण्डब्रह्माण्डयोरभेदात्॥३२॥
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः
।
अपानश्च ततो ज्ञेयः प्राणश्चापि ततोऽपरः॥३३॥
उदान इति । एतेषामुत्तरोत्तरस्य पूर्वपूर्वकार्यत्वात् उत्तरोत्तरं स्थूलत्वं ज्ञेयम् ॥३३॥
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः
।
पृथक्कर्माणि तेषां ते प्रवक्ष्यामि यथातथम्॥३४॥
अनपत्य इति प्राणस्य कार्यान्तरं नास्ति सर्वापेक्षया स्थूलत्वं च दर्शितम् ॥३४॥
प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्
।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते॥३५॥
पिण्डे प्राणकार्यं प्राणशब्दप्रवृत्तिनिमित्तं चाह - प्राणिनामिति ॥३५॥
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः
।
प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः॥३६॥
अस्यैवाधिदैवकर्मनामनी आह - प्रेरयतीति सार्धेन । धूमोष्मजान्मेघान् स्नेहं स्नेहत्वम् अथवा स्नेहगुणयुक्तजलवृष्टिकालं प्राप्य अम्बरे प्रेरयतीति योजना । स एव वायुर्धूमज्योतिः स्नेहक्रमेण विद्युत्वं प्राप्य महाद्युतिश्च भवति विद्युद्भ्य इति पञ्चमी ल्यब्लोपे । प्रथमः विष्णुदेवसमानादिक्रमेण सप्तमोऽपि संहारक्रमेण प्रथम इत्यर्थः । अयं भावः - पूर्वोदाहृतघ्राणान्तहृन्नाभिपादांगुष्ठानां मध्येऽन्यतमे स्थाने प्राणं निरोध्य नीलवर्णं प्राणम् ओंयमिति बीजशरीरं संचिन्तयन् योगी कियता कालेन सिद्धिं प्राप्तो जीवतैव शरीरेण प्रवहमार्गेण संचरति । देहान्ते च प्रवहेण तादात्म्यं प्राप्नोति । एवं सर्वत्र प्रयोगो ज्ञेय इति ॥३६॥
अम्बरे स्नेहमभ्येत्य विद्युद्भ्यश्च महाद्युतिः
।
आवहो नाम संवाति द्वितीयः श्वसनो नदन्॥३७॥
आध्यात्मिकस्यापानस्याधिदैवकर्मनामनी आह - आवह इति । 'भचक्रम् आसमन्ताद्वहतीत्यावहः ॥३७॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
।
अन्तर्देहेषु चादानं ये वदन्ति मनीषिणः॥३८॥
आदत्तेऽन्नमनेनोद्दीपकेन जठराग्निरित्यादानोऽपानः अपानस्य जाठरोद्दीपकत्वमाह याज्ञवल्क्यः ।
'स्वयं त्वपानं संप्राप्य तेनैव सह मारुतः
।
प्रवाति ज्वलनं तत्र प्राणो मध्यगतं पुनः॥ वायुना वाजितो वह्निरपानेन शनैः शनैः
।
तदा ज्वलति विप्रेन्द्रे सकले देहमध्यमे॥’
प्राणः अपानं प्राप्य प्रवर्त्य ज्वलनं प्रवाति प्रवर्तयति । अपानेन वायुना वाजित: वीजितः वो विधूनने जुकू इति जुगन्ताद्बाधातोर्निष्ठायां रूपम् । हे विप्रेन्द्रे गार्गि इति याज्ञवल्क्यश्लोकार्थः । आदान इत्यपानस्य नामान्तरं योगिप्रसिद्धमित्यर्थः । अन्तर्देहेष्वित्यर्धे उदानमिति पाठे उत्तरान्वयि ॥३८॥
यश्चतुर्थ्य: समुद्रेभ्यो वायर्धारयते जलम्
।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः॥३९॥
उद्धृत्यादानसाम्यादुद्वहादानयोरैक्यम् ॥३९॥
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति
।
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः॥४०॥
पर्जन्याय वृष्ट्यभिमानिदेवतायै बंहिष्ठः अतिशयेन बहूः ॥४०॥
स मूह्यमाना बहुधा येन नीताः पृथग्घनाः
।
वर्षमोक्षकृतारंभास्ते भवन्ति घनाघनाः॥४१॥
वर्षमोक्षाय कृतः आरंभो यैस्ते रिच्यमानो मेघः पूर्णापूर्णत्वाद्घनाघन उच्यत इत्यर्थः ॥४१॥
संहता येन चाविद्धा भवन्ति नदतां नदाः
।
रक्षणार्थाय संभूता मेघत्वमुपयान्ति च॥४२॥
संहताः संधीभूता अपि येन हेतुना ते पृथक् आविद्धाः प्रक्षिप्ता भवन्ति । अतस्तेषां वाद्यमानवेणुवन्नदतां शब्दं कुर्वतां नदा इति नाम भवति । रक्षणार्थाय गोस्तनवत् सेचनात् रिक्ता अपि मेघत्वं यान्ति । मिह सेचन इति धातुः न तु नीरसफलवन्नश्यन्तीत्यर्थः॥४२॥
योऽसौ वहति भूतानां विमानानि विहायसा
।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः॥४३॥
योऽसाविति । वर्धन इति पाठेऽपि स एवार्थः वृधु हिंसायामितिधातो रूपम् ॥४३॥
येन वेगवता रुग्णा रूक्षेण रुवता नगान्
।
वायुना सहिता मेघास्ते भवन्ति बलाहकाः॥४४॥
मर्दनमेवाह - येनेति । बलेन परोपमर्देन अंहन्ति गच्छन्ति ते बलाहकाः पृषोदरादित्वान्नकारलोपः । अहि गतौ इति धातुः ॥४४॥
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान्
।
पञ्चमः स महावेगो विवहो नाम मारुतः॥४५॥
दारुणेति । दारुणा लोकनाशसूचका धूमकेतुसंवर्तमेघादय उत्पातास्तेषां सञ्चारो येन स्तनयित्नुः स गर्जितो मेघस्तद्वान् विषमवहनाद्विवहः ॥४५॥
यस्मिन्पारिप्लवा दिव्या वहन्त्यापो विहायसा
।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति॥४६॥
परितः उपर्येव यस्य वेगात्पतन्ति न त्वधः पतन्तीति परिप्लवाः । स्वार्थे तद्धितः यः तोयं विष्टभ्य आकाशे एवावस्थाप्य ॥४६॥
दुरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
।
योनिरंशुसहस्रस्य येन भाति वसुन्धरा॥४७॥
दूरादिति । येन प्रतिहतः सूर्यः सहस्ररश्मिरप्येकरश्मिरिव भातीत्यर्थः ॥४७॥
यस्मादाप्यायते सोमः क्षीणः संपूर्णमण्डलः
।
षष्ठः परिवहो नाम स वायुर्जयतां वरः॥४८॥
एवं पिण्डब्रह्माण्डान्तर्गतान् आधिकारिकान् पञ्चवायूनुक्त्वा षष्ठं तदन्तर्गतमपि तदस्पर्शिनं वायुमाह - यस्मादिति । यस्मात् सहस्रारस्थितात् चिच्चन्द्राख्यात् अयं सोमो ब्रह्माण्डान्तर्गत ओषधीशो ब्रह्माण्डाप्यायनकृत् पिण्डान्तर्गतं मनश्च पिण्डाप्यायनकृत् एतद्द्वयं यं प्राप्य आप्यायते वर्धते स परिवहः सर्वतो वहनाद्व्यापकः कारणात्मा षष्ठो वायुरित्यर्थः ॥४८॥
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति
।
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ॥४९॥
अनुकाले कल्पान्ते निरस्यति संहरति मृत्युर्वैवस्वतावपि यदनुरोधिनौ तयोरपि प्रेरक इत्यर्थः । एतेन मृत्युग्रस्तानां ब्रह्मादीनां तदधीनत्वं कैमुतिकन्यायसिद्धम् ॥४९॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मनित्यया
।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते॥५०॥
भो अध्यात्मचिन्तका इति पूजायां बहुत्वेन पुत्रसंबोधनम्। शान्तया बाह्याभ्यन्तरविषयेभ्य उपरतया बुद्ध्या सम्यगहं ब्रह्मास्मीति वाक्यार्थानुसन्धानपूर्वकमन्वीक्षतां श्रवणमननमनुध्यानेन पश्यतां ध्यानाभ्यासो निरन्तरं ध्यानमेव अभिरामं येषां तेषां योऽमृतत्वाय मोक्षाय कल्पते ॥५०॥
यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे
।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः॥५१॥
दिशोन्तं प्रतिपेदिरे ब्रह्माण्डं निर्भिद्य गता इत्यर्थः ॥५१॥
येन सृष्टः पराभूतो यात्येव न निवर्तते
।
परावहो नाम परो वायुः स दुरतिक्रमः॥५२॥
सप्तममाह - येनेति । सृष्टः उपसृष्टः एक एवायं निर्बीजसमाधिगम्यः यावदारब्धकर्मभोगं यस्मिन् लीनोऽपि योगी संस्कारशेषसत्त्वात्पुनरावर्तते । प्रारब्धभोगान्ते देहनाशे तु नावर्तते इति एतयोर्भेदः । अतो दक्षपुत्राणामपि आरब्धकर्मभोगान्तेऽनावृत्तिरेव ज्ञेया ॥५२॥
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः
।
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः॥५३॥
अदितेः खण्डनशून्याया अदीनायाः परमचितेः पुत्रा इव पुत्रा रूपभेदाः ॥५३॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
।
कम्पितः सहसा तेन वायुनाऽतिप्रवायता॥५४॥
विष्णोर्निश्वासवातोऽयं यदा वेगसमीरितः
।
सहसोदीर्यते तात जगत्प्रव्यथते तदा॥५५॥
पर्वतकम्पने 'हेतुमाह - विष्णोरिति । यतोऽयं वेदो विष्णोर्निःश्वासवातः 'महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः' इत्यादिश्रुतेः स यदा वेगेन समीरितः सहसाऽकस्मात् उदीर्यते उच्चैः पठ्यते तदा जगद्व्यथते मूलपुरुषनिःश्वासः सहसोच्चैरुत्थितः कदाचित्सर्वं संहरेदिति हेतोरिति भावः ॥५५॥
तस्माद्ब्रह्मविदो वेदान्नाधीयन्तेऽतिवायति
।
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्॥५६॥
आख्यायिकाया विधित्सितमाह - तस्मादिति । वायुर्वेदरूपो वेगेनोच्चार्यमाणः एवं बाह्यवायुकृतभयजनको भवति । तेन च तद्ब्रह्म जगद्रूपं वेदरूपं वा पीडतं भवति अतो महावायौ वायति वाति सति नाध्येतव्यमित्यर्थः ॥५६॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
।
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा॥५७॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकोतपत्तिर्नाम अष्टाविंशत्यधिकत्रिशततमोऽध्यायः ॥३२८॥
नारद उवाच।
सुखदुःखविपर्यासो यदा समनुपद्यते
।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्॥१॥
सुखेति । विपर्यासः सुखे दुःखधी दुःखे सुखधीः ॥१॥
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति
।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्॥२॥
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः
।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः॥३॥
व्यथितस्य विधित्साभिस्ताम्यतो जीवितैषिणः
।
अवशस्य विनाशाय शरीरमपकृष्यते॥४॥
विधित्साभिः पिपासाभिस्तृष्णाभिः ॥४॥
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव
।
आयुरादाय मर्त्यानां राज्यहानि पुनः पुनः॥५॥
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः
।
जातान्मर्त्याञ्जरयति निमेषान्नावतिष्ठते॥६॥
व्यत्ययः पौर्वापर्यम् ॥६॥
सुखदुःखानि भूतानामजरो जरयत्यसौ
।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च॥७॥
अदृष्टपूर्वानादाय भावानपरिशङ्कितान्
।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः॥८॥
योऽयमिच्छेद्यथाकामं कामानां तदवाप्नुयात्
।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्॥९॥
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः
।
दृश्यन्ते निष्फलाः संतः प्रहीणाः सर्वकर्मभिः॥१०॥
अपरे बालिशा: सन्तो निर्गुणाः पुरुषाधमाः
।
आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः॥११॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते॥१२॥
अचेष्टमानमासीनं श्री: कञ्चिदुपतिष्ठते
।
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति॥१३॥
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः
।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति॥१४॥
तस्य योनौ प्रयुक्तस्य गर्भो भवति वा न वा
।
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते॥१५॥
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम्
।
सिद्धौ प्रयतमानानां न चाण्डमुपजायते॥१६॥
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव
।
आयुष्माञ्जायते पुत्रः कथं प्रेत्य इवाभवत्॥१७॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः
।
दश मासान्परिधृता जायन्ते कुलपांसनाः॥१८॥
अपरे धनधान्यानि भोगांश्च पितृसञ्जितान्
।
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः॥१९॥
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे
।
उपद्रव इवाविष्टो योनिगर्भः प्रपद्यते॥२०॥
शीघ्रं परशरीराणि च्छिन्नबीजं शरीरिणम्
।
प्राणिनं प्राणसंरोधे मांसश्लेष्मविचेष्टितम्॥२१॥
शीघ्रमिति । परशरीराणि शरीरान्तराणि प्राप्नुवन्तीति शेषः । छिन्नं बीजं स्वर्गनरकाङ्कुरबीजं स्थूलशरीरं यस्य तं शरीरिणं कदा प्राणसंरोधे सति कीदृशं शरीरिणं मांसशोणितादियुक्तेन बीभत्सेन देहेन चेष्टितं चेष्टा यस्य तं मरणेऽपि सद्यः शरीरान्तरमायातीति देहबन्धविच्छेदो न कदाचिदस्तीत्यर्थः ॥२१॥
निर्दग्धं परदेहेऽपि परदेहं चलाचलम्
।
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम्॥२२॥
परदेहे देहान्तरे निर्दग्धं विनश्यन्तं जीवम् अभिलक्ष्य परं देहं देहान्तरं चलाचलं परिणामितयातिचपलम् । आहितम् उपस्थापितं भवति । कर्मणेति शेषः ॥२२॥
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्
।
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि॥२३॥
देहधारणमत्याश्चर्यमित्याह - संगत्येति ॥२३॥
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः
।
तस्मिन्नेवोदरे गर्भ: किं नान्नमिव जीर्यते॥२४॥
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः
।
धारणे वा विसर्गे वा न कर्ता विद्यतेऽवशः॥२५॥
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथा परे
।
आगमेन तथाऽन्येषां विनाश उपपद्यते॥२६॥
एतस्माद्योनिसम्बन्धाद्यो बीजं परिमुच्यते
।
प्रजां च लभते काञ्चित्पुनर्द्वन्द्वेषु सज्जति॥२७॥
स तस्य सहजातस्य सप्तमीं नवमीं दशाम्
।
प्राप्नुवन्ति ततः पञ्च न भवन्ति गतायुषः॥२८॥
स तस्येति । सह जातत्य अनादिप्रवाहसंबद्धस्य देहस्य गर्भवासो जन्म बाल्यं कौमारं पौगण्डं यौवनं स्थाविर्यं जरा प्राणरोधो नाशश्चेति दश शरीरस्य दशास्तासु सप्तमी स्थाविर्यम् । तत्र कुटुम्बभरणादिचिन्तया व्याकुलत्वं नवमी तु प्राणरोधः ताम् उभययीं पञ्चभूतान्येव प्राप्नुवन्ति न त्वात्मा ततः नवमीं प्राप्य न भवन्ति दशमीम् अभावदशां च प्राप्नुवन्तीत्यर्थः । गतायुषः सतः तस्येति सम्बन्धः ॥२८॥
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः
।
व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव॥२९॥
योगाः सामर्थ्यानि ॥२९॥
व्याधिभिर्मथ्यमानानां त्यजतां विपुलं धनम्
।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः॥३०॥
ते चातिनिपुणा वैद्याः कुशलाः संभृतौषधाः
।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः॥३१॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च
।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः॥३२॥
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः
।
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते॥३३॥
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः
।
आक्रम्याददते रोगाः पशून्पशुगणा इव॥३४॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्
।
स्रोतसा सहसाऽऽक्षिप्तं ह्रियमाणं बलीयसा॥३५॥
अनाक्रन्दं वेदनया मूढम् ॥३५॥
न धनेन न राज्येन नोग्रेण तपसा तथा
।
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः॥३६॥
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिनः
।
नाप्रियं प्रति पश्येयुरुत्थानस्य फले सति॥३७॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते
।
यतते च यथाशक्ति न च तद्वर्तते तथा॥३८॥
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च
।
अप्रमत्ताः शठाः शूरा विक्रान्ताः पर्युपासते॥३९॥
क्लेशाः परिनिवर्तन्ते केषाञ्चिदसमीक्षिताः
।
स्वं स्वं च पुनरन्येषां न किञ्चिदधिगम्यते॥४०॥
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु
।
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः॥४१॥
सर्वेषामृद्धिकामानामन्ये रथपुरःसुराः
।
मनुष्याश्च गतस्त्रीकाः शतशो विविधाः स्त्रियः॥४२॥
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः
।
इदमन्यत्पदं पश्य माऽत्र मोहं करिष्यसि॥४३॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज
।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥४४॥
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम
।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः॥४५॥
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्
।
सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत॥४६॥
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्च्छ्रमः
।
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम्॥४७॥
ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः
।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम्॥४८॥
कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम्
।
नावर्तेयं यथा भूयो योनिसंकरसागरे॥४९॥
असंश्लिष्टः सर्वोपाधिनिर्मुक्तः ॥४९॥
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
।
सर्वसङ्गान्परित्यज्य निश्चितो मनसा गतिम्॥५०॥
तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति
।
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः॥५१॥
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः
।
अवबन्धो हि बुद्धस्य कर्मभिर्नोपपद्यते॥५२॥
अवबन्धः नीचो देहबन्धः ॥५२॥
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम्
।
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्॥५३॥
दिवाकरमित्यर्कमण्डलान्तर्वर्ती भर्गपदवाच्यः संसारबीजभर्जनकर्ता सर्वेषां प्राणिनां बुद्धेः प्रवर्तको गायत्रीप्रतिपाद्यो ग्राह्यो न त्वर्चिरादिमार्गपर्वभूतो मण्डलाभिमान्यादित्यः । कुत एतत्कार्यब्रह्मलोकं प्रति तद्गमनस्यादर्शनात् ।
'शुकस्तु मारुतादूर्ध्वं गतिं कृत्वाऽन्तरिक्षगाम्
।
दर्शयित्वा प्रभावं स्वं ब्रह्मभूतोऽभवत्तदा॥'
इति वाक्यशेषे शुद्धब्रह्मभावदर्शनाच्च । सूर्यमण्डलपर्यन्तं गमनं तु स्वस्य योगप्रभावदर्शनमात्रमिति त्वत्रैव स्पष्टमस्ति ॥५३॥
न ह्येष क्षयतां याति सोमः सुरगणैर्यथा
।
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति॥५४॥
आवृत्तिमार्गं निन्दति - न हीति । सोमः धूमादिमार्गेण सोमलोकं गतः ॥५४॥
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते
।
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः॥५५॥
तल्लोकाधिपतेर्वृद्धिह्रासवत्त्वात्तत्र गता अपि तादृशा एव भवन्तीत्याह- क्षीयते हीति ॥५५॥
रविस्तु सन्तापयते लोकान् रश्मिभिरुल्बणैः
।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः॥५६॥
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्
।
अत्र वत्स्यामि दुर्धर्षो निःशङ्केनान्तरात्मना॥५७॥
अत्र वत्स्यामीति लिङ्गान्नात्र मार्गपर्वभूत आदित्यो गृह्यते । सूर्यद्वारेण ते विरजाः प्रयान्तीति तस्य द्वारत्वमात्रश्रवणात् ॥५७॥
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम्
।
ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम्॥५८॥
सौरम् आदित्यान्तर्यामि । 'य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद' इत्यादिश्रुतेस्ततोऽन्यत् ॥५८॥
आपृच्छामि नगान्नागान्गिरिमुर्वीं दिशो दिवम्
।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान्॥५९॥
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः
।
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः॥६०॥
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम्
।
तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति॥६१॥
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम्
।
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम्॥६२॥
श्रुत्वा चर्षिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम्
।
भो भो पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थे॥६३॥
निरपेक्षः शुको भूत्वा नि:स्नेहो मुक्तसंशयः
।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे॥६४॥
पितरं संपरित्यज्य जगाम मुनिसत्तमः
।
कैलासपृष्ठं विपुलं सिद्धसंघनिषेवितम्॥६५॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शुकाभिगमने एकत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३१॥
भीष्म उवाच।
एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः
।
तं मुनिं दर्शयामास नारदं विश्वरूपधृक्॥१॥
एवमिति । विश्वानि सर्वाणि रूपाणि धारयतीति विश्वरूपधृक् ॥१॥
किञ्चिच्चन्द्राद्विशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान्
।
कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः॥२॥
एतदेव स्पष्टयति - किञ्चिदित्यादिना ॥२॥
शुकपत्रनिभः किञ्चित् किञ्चित्स्फटिकसन्निभः
।
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्॥३॥
प्रवालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित्
।
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित्॥४॥
जातरूपस्वर्णयोरवान्तरवैजात्यकृतो भेदो ज्ञेयः ॥४॥
नीलवैदूर्यसदृश इन्द्रनीलनिभः क्वचित्
।
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्॥५॥
एतान्बहुविधान्वर्णान् रूपैर्बिभ्रत्सनातनः
।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्॥६॥
सहस्रनयन इत्यादिना विश्वं वेदा यज्ञाश्च मम तनुरिति दर्शितम् ॥६॥
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्
।
ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम्॥७॥
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदान् गिरन्बहून्
।
आरण्यकं जगौ देवो हरिर्नारायणो वशी॥८॥
वेदिं कमण्डलुं शुभ्रान्मणीनुपानहौ कुशान्
।
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्॥९॥
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा
।
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः॥१०॥
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम्
।
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः॥११॥
श्रीभगवानुवाच ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
।
इमं देशमनुप्राप्ता मम दर्शनलालसाः॥१२॥
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन
।
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम॥१३॥
ददृशिरे ददृशुः पदव्यत्यय आर्षः ॥१३॥
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज
।
तास्त्वं भजस्व सततं साधयस्व यथागतम्॥१४॥
वृणीष्व च वरं विप्र मत्तस्त्वं यदिहेच्छसि
।
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः॥१५॥
नारद उवाच।
अद्य मे तपसो देव यमस्य नियमस्य च
।
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया॥१६॥
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः
।
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः॥१७॥
भीष्म उवाच।
एवं संदर्शयित्वा तु नारदं परमेष्ठिनम्
।
उवाच वचनं भूयो गच्छ नारद मा चिरम्॥१८॥
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः
।
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति॥१९॥
सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन्
।
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्॥२०॥
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च
।
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः॥२१॥
मां प्रवेक्ष्यन्तीत्युक्तं तत्र प्रवेशार्हम् आत्मस्वरूपमाह - न दृश्य इत्यादिना । न घ्रेयः चात् रसनीयत्वादिवर्जितः यतो गन्धादिना विवर्जितः ॥२१॥
सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै
।
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते॥२२॥
रूपाद्यभावमुक्त्वा सत्त्वाद्यभावमाह - सत्त्वमिति । कार्यकारणातीतमित्यर्थः ॥२२॥
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
।
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा॥२३॥
अस्योपाधिधर्मास्पर्शित्वमाह - भूतेति । अजो नित्य इति जन्मादिसर्वभावविकारनिषेधः । शाश्वत इति प्रकृतिवत्परिणामराहित्यम् । यतो निर्गुणः । चलं गुणवृत्तमिति न्यायेन साम्यदशायामपि गुणानां परिणामरूपत्वापरित्यागात् गुणा अपि गुणवन्तो न भवन्त्यनवस्थापातादत आह - निष्कल इति । एकगुणशरीरे गुणान्तरस्यापि उपसर्जनत्वेन प्रवेशसत्त्वान्न गुणानां निष्कलत्वलक्षणं निरवयवत्वमस्तीति ततोऽप्यन्यद्ब्रह्मेत्यर्थः ॥२३॥
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः
।
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते॥२४॥
द्विर्द्वादशेभ्यश्चतुर्विंशतिभ्यः ज्ञानदृश्यः सूक्ष्मबुद्धिग्राह्यः दृश्यते त्वग्र्यया बुद्ध्येति श्रुतेः ॥२४॥
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः
।
स वासुदेवो विज्ञेयः परमात्मा सनातनः॥२५॥
प्रवेशार्हं रूपमुपपाद्योपसंहरति - यमिति । तं प्रविष्टो यः स न लिप्यत इत्यर्थः ॥२५॥
पश्य देवस्य माहात्म्यं महिमानं च नारद
।
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन॥२६॥
सत्त्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते
।
यत्ते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च॥२७॥
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते
।
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः॥२८॥
गुणाधिकः गुणेभ्योऽतिरिक्तः ॥२८॥
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते
।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते॥२९॥
निर्गुणत्वं वक्तुमव्यक्तस्य कार्यस्य प्रलयमाह - जगदित्यादिना ॥२९॥
खे वायुः प्रलयं याति मनस्याकाशमेव च
।
मनो हि परमं भूतं तदव्यक्ते प्रलीयते॥३०॥
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते
।
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात्॥३१॥
अव्यक्तमिति । अव्यक्तस्यापि लयं वदता सांख्यमतमपास्तम् ॥३१॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
।
ऋते तमेकं पुरुषं वासुदेवं सनातनम्॥३२॥
एतदेव व्यतिरेकमुखेन द्रढयति नित्यमिति । नित्यम् अविनाशिभूतं नित्यसिद्धं परस्मादन्यन्नास्तीत्यर्थः ॥३२॥
सर्वभूतात्मभूतो हि वासुदेवो महाबलः
।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥३३॥
एवं तत्पदार्थस्वरूपमुक्त्वा त्वंपदार्थस्वरूपमाह - सर्वेति । सर्वेषां भूतानामात्मभूतः प्रत्यग्रूपो वासुदेवः एतदेव कथमित्यत आह - पृथिवीत्यादिना ॥३३॥
ते समेता महात्मानः शरीरमिति संज्ञितम्
।
तदा विशति यो ब्रह्मन्नदृश्यो लघुविक्रमः॥३४॥
स एष इह प्रविष्ट आनरवाग्रेभ्य इति श्रुतेरर्थं संगृह्णाति - तदिति । आविशतीति प्रवेशोक्त्या पाञ्चरात्राभिमतो जीवोत्पत्तिपक्षोऽपास्तः लघुविक्रमः शीघ्रकारी एतेन दृष्टिसृष्टिरुक्ता ॥३४॥
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः
।
न विना धातुसंघातं शरीरं भवति क्वचित्॥३५॥
घटाकाशवदुपाध्युत्पत्त्या उत्पन्न इति एव शब्दोऽनवधारणे प्रवेशाभावे चेष्टानुपपत्तिमाह - न विनेति ॥३५॥
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत
।
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः॥३६॥
स इति । योऽयं प्रविष्टः स जीवः संकर्षणाख्यो विश्वविधारको भगवतो व्यूहः ॥३६॥
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा
।
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षयम्॥३७॥
स जीव एव सनत्कुमारत्वं जीवन्मुक्तत्वं स्वेन ध्यानार्चनादिकर्मणा लभते । एवमविद्योपाधिकं जीवमुपपाद्य तस्मादेव जीवात् प्रद्युम्नाख्यं मन उत्पद्यते इत्याह - यस्मिन्नित्याद्यर्धद्वयेन । प्रद्युम्नसंज्ञके मनसि सर्वेषां भूतानां लयोदयौ उक्तौ अतो मानस्येव इयं सृष्टिरिति भावः ॥३७॥
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते
।
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च॥३८॥
तस्मात्प्रसूत इति । तच्छब्देन संकर्षणः परामृश्यते ॥३८॥
तस्मात्सर्वं संभवति जगत्स्थावरजङ्गमम्
।
सोऽनिरुद्धः स ईशानो व्यक्तः स सर्वकर्मसु॥३९॥
तस्मात्सर्वमिति तच्छब्देन प्रद्युम्नः स एव चानिरुद्धाख्योऽहङ्कारः ॥३९॥
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः
।
ज्ञेयः स एव राजेन्द्र जीव: संकर्षणः प्रभुः॥४०॥
एवं त्वंपदार्थं प्रद्युम्नादिजनकं जीवमुक्त्वाऽस्य पूर्वोक्तेन तत्पदार्थेनाभेदमाह - यो वासुदेव इति ॥४०॥
संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते
।
प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारः स ईश्वरः॥४१॥
मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम्
।
अक्षरं च क्षरं चैव सच्चासच्चैव नारद॥४२॥
परमकारणत्वं स्वस्यैवाह - मत्त इति । अक्षरं जीवः क्षरं प्रकृतिमहदहङ्कारादि सत्कारणम् ॥४२॥
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम
।
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः॥४३॥
मां प्रविश्येत्युक्तः प्रवेशो नदीसमुद्रदृष्टान्तेन मा भूदिति स्वस्य उपाधिशबलत्वं निराचष्टे अहं हीति । पुरुषश्चिन्मात्रः निष्क्रियः कूटस्थः ज्ञेय एव न तु प्राप्यः सर्वभूतप्रत्यगात्मत्वात् ॥४३॥
निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः
।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते॥४४॥
निर्गुणत्वात्सुषुप्ताविव वासनाशेषवती प्राप्तिः निष्कलत्वान्न संयोगरूपा अत एव निर्द्वन्द्वः । महाकाशघटाकाशयोरिवोपाध्यपगममात्रकृतत्वादभेदस्य । अत एवोपाध्यभावाद्वासनादिरूपः परिग्रहोऽपि नास्ति । ननु विश्वरूपस्य तव कथं निष्कलत्वमत आह - एतदिति । अयं रूपवानिति यत् एतत् त्वया न ज्ञातव्यम् ॥४४॥
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः
।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद॥४५॥
यतोऽहं मुहूर्तान्नश्येयम् अदृश्यो भवेयम् इच्छन्निति मदीक्षामात्रं सृष्टिसंहारावित्यर्थः । देवतादिवददर्शनेऽपि विश्वरूपत्वं नापैतीत्याशङ्क्याह - मायेति । निष्कलस्य मम वैश्वरूप्यमेव मायेत्यर्थः ॥४५॥
सर्वभूतगुणैर्युक्तं नैव त्वं ज्ञातुमर्हसि
।
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्॥४६॥
सर्वभूतगुणैः स्वरूपादिभिरेवं प्रकारेण युक्तं मां ज्ञातुं नार्हसि निर्गुणत्वान्ममेत्यर्थः ॥४६॥
अहं हि जीवसंज्ञातो मयि जीवः समाहितः
।
नैवं ते बुद्धिरत्राभूदॄष्टो जीवो मयेति वै॥४७॥
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः
।
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्॥४८॥
संज्ञातः जीवत्वेन सम्यक् ज्ञातः पाठान्तरे जीवस्योपकरणभूतः संघातः जडवर्गोऽप्यहमेव जीवलयाधिष्ठानत्वाज्जीवोऽप्यहमेवेति भावः । यतः जडाजडवर्गात्माऽहमेव ततो हेतोश्चक्षुषा मां दृष्ट्वा सोपाधिकः समष्टिजीव एव मया दृष्टो न त्वीश्वर इति न मन्तव्यं जीवादिरूपेण ममैवावस्थानादित्याह - नैवमिति । स्पष्टार्थो अध्याय शेषः ॥४८॥
सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन्
।
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने॥४९॥
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रोऽनिरुक्तगः
।
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः॥५०॥
ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः
।
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्॥५१॥
द्वादशैव तथाऽऽदित्यान् वामपार्श्वे समास्थितान्
।
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्॥५२॥
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
।
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषींस्तथा॥५३॥
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः
।
तपांसि नियमांश्चैव यमानपि पृथग्विधान्॥५४॥
तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्
।
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्॥५५॥
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्
।
ध्रुवं च ज्योतिषां श्रेष्ठ पश्य नारद खेचरम्॥५६॥
अंभोधरान्समुद्रांश्च सरांसि सरितस्तथा
।
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम॥५७॥
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्
।
देवकार्यादपि मुने पितृकार्यं विशिष्यते॥५८॥
देवानां च पितॄणां च पिता ह्येकोऽहमादितः
।
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे॥५९॥
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम्
।
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम्॥६०॥
ततस्तस्मिन्वरान्प्रीतो दत्त्वानसम्यनुत्तमान्
।
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च॥६१॥
अहंकारकृतं चैव नाम पर्यायवाचकम्
।
त्वया कृतां च मर्यादा नातिक्रंस्यति कश्चन॥६२॥
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि
।
सुरासुरगणानां च ऋषीणां च तपोधन॥६३॥
पितॄणां च महाभाग सततं संशितव्रत
।
विविधानां च भूतानां त्वमुपास्यो भविष्यसि॥६४॥
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा
।
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा॥६५॥
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे
।
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्॥६६॥
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता
।
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः॥६७॥
विद्यासहायवन्तं च आदित्यस्थं समाहितम्
।
कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः॥६८॥
हिरण्यगर्भो भगवानेष च्छन्दसि सुष्टुतः
।
सोऽहं योगरतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः॥६९॥
एषोऽहं व्यक्तिमागत्य तिष्ठामि दिवि शाश्वतः
।
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः॥७०॥
कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च
।
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः॥७१॥
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया
।
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजज्छेषमव्ययम्॥७२॥
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्
।
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः॥७३॥
अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः
।
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च॥७४॥
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः
।
यथा सूर्यस्य गगनादुदयास्तमने इह॥७५॥
नष्टे पुनर्बलात्काल आनयत्यमितद्युतिः
।
तथा बलादहं पृथ्वीं सर्वभूतहिताय वै॥७६॥
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
।
आनयिष्यामि स्वस्थानं वाराहं रूपमास्थितः॥७७॥
हिरण्याक्षं वधिष्यामि दैतेयं बलगर्वितम्
।
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः॥७८॥
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्
।
विरोचनस्य बलवान्बलिः पुत्रो महासुरः॥७९॥
अवध्यः सर्वलोकानां सदेवासुररक्षसाम्
।
भविष्यति स शक्रं वा स्वराज्याच्च्यावयिष्यति॥८०॥
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ
।
अदित्यां द्वादशादित्यः संभविष्यामि कश्यपात्॥८१॥
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे
।
देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद॥८२॥
बलिं चैव करिष्यामि पातालतलवासिनम्
।
दानवं च बलिश्रेष्ठमवध्यं सर्वदैवतैः॥८३॥
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः
।
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्॥८४॥
संध्यांशे समनुप्राप्ते त्रेताया द्वापरस्य च
।
अहं दाशरथी रामो भविष्यामि जगत्पतिः॥८५॥
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा
।
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी॥८६॥
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः
।
महाबला महावीर्याः शक्रतुल्यपराक्रमाः॥८७॥
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज
।
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्॥८८॥
हरिष्ये रावणं रौद्रं सगणं लोककण्टकम्
।
द्वापरस्य कलेश्चैव सन्धौ पार्यवसानिके॥८९॥
प्रादुर्भाव: कंसहेतोर्मथुरायां भविष्यति
।
तत्राहं दानवान्हत्वा सुबहून् देवकण्टकान्॥९०॥
कुशस्थलीं करिष्यामि निवेशं द्वारकां पुरीम्
।
वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम्॥९१॥
हनिष्ये नरकं भौमं मुरं पीठं च दानवम्
।
प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम्॥९२॥
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमम्
।
महेश्वरमहासेनौ बाणप्रियहितैषिणौ॥९३॥
पराजेष्याम्यथोद्युक्तौ देवौ लोकनमस्कृतौ
।
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम्॥९४॥
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः
।
यः कालयवनः ख्यातो गर्गतेजोऽभिसंवृतः॥९५॥
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम
।
जरासन्धश्च बलवान्सर्वराजविरोधनः॥९६॥
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे
।
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति॥९७॥
शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै
।
समागतेषु बलिषु पृथिव्यां सर्वराजसु॥९८॥
वासविः सुसहायो वै मम त्वेको भविष्यति
।
युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह॥९९॥
एवं लोका वदिष्यन्ति नरनारायणावृषी
।
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ॥१००॥
कृत्वा भारावतरणं वसुधाया यथेप्सितम्
।
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम॥१०१॥
करिष्ये प्रलयं घोरमात्मज्ञानाभिसंहितः
।
कर्माण्यपरिमेयाणि चतुर्मूर्तिधरो ह्यहम्॥१०२॥
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान्
।
हंस: कूर्मश्च मत्स्यश्च प्रादुर्भावाद्द्विजोत्तम॥१०३॥
वराहो नरसिंहश्च वामनो राम एव च
।
रामो दाशरथिश्चैव सात्वतः कल्किरेव च॥१०४॥
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः
।
सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे॥१०५॥
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्
।
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः॥१०६॥
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः
।
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्॥१०७॥
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना
।
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया॥१०८॥
पुराणं च भविष्यं च सरहस्यं च सत्तम
।
भीष्म उवाच।
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः॥१०९॥
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः
।
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्॥११०॥
नरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत्
।
इदं महोपनिषदं चतुर्वेदसमन्वितम्॥१११॥
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्
।
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः॥११२॥
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम्
।
युधिष्ठिर उवाच।
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः॥११३॥
किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात्
।
पितामहोऽपि भगवांस्तस्माद्देवादनन्तरः॥११४॥
कथं स न विजानीयात्प्रभावममितौजसः
।
भीष्म उवाच।
महाकल्पसहस्राणि महाकल्पशतानि च॥११५॥
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह
।
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः॥११६॥
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप
।
परमात्मानमीशानमात्मनः प्रभवं तथा॥११७॥
ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः
।
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम्॥११८॥
तेषां सकाशात्सूर्यस्तु श्रुत्वा वै भावितात्मनाम्
।
आत्मानुगामिनां राजन् श्रावयामास वै ततः॥११९॥
षट् षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम्
।
सूर्यस्य तपतो लोकान् निर्मिता ये पुरः सराः॥१२०॥
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम्
।
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः॥१२१॥
मेरौ समागता देवाः श्राविताश्चेदमुत्तमम्
।
देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः॥१२२॥
श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः
।
मम चापि पिता तात कथयामास शान्तनुः॥१२३॥
ततो मयाऽपि श्रुत्वा च कीर्तितं तव भारत
।
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्॥१२४॥
सर्वे ते परमात्मानं पूजयन्ते समन्ततः
।
इदमाख्यानमार्षेयं पारंपर्यागतं नृप॥१२५॥
नावासुदेवाभक्ताय त्वया देयं कथञ्चन
।
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै॥१२६॥
यानि श्रुतानि सर्वाणि तेषां सारोऽयमुद्धृतः
।
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम्॥१२७॥
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्
।
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः॥१२८॥
एकान्तभावोपगत एकान्तेषु समाहितः
।
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः॥१२९॥
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः
।
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्॥१३०॥
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत्
।
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः॥१३१॥
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः
।
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः॥१३२॥
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः
।
वैशम्पायन उवाच।
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय॥१३३॥
भ्रातरश्चास्य ते सर्वे नारायणपराऽभवन्
।
जितं भगवता तेन पुरुषेणेति भारत॥१३४॥
नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन्
।
यो ह्यस्माकं गुरुश्रेष्ठः कृष्णद्वैपायनो मुनिः॥१३५॥
जगौ परमकं जप्यं नारायणमुदीरयन्
।
गत्वाऽन्तरिक्षात्सततं क्षीरोदममृताशयम्॥१३६॥
पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम्
।
भीष्म उवाच।
एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम्॥१३७॥
पारंपर्यागतं ह्येतत्पित्रा मे कथितं पुरा
।
सौतिरुवाच ।
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम्॥१३८॥
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि
।
यूयं हि तप्ततपसः सर्वे च चरितव्रताः॥१३९॥
सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः
।
शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः॥१४०॥
यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम्
।
पारंपर्यागतं ह्येतत्पित्रा मे कथितं पुरा॥१४१॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये ऊनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३३९॥
शौनक उवाच।
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः
।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा॥१॥
कथं स इति । यज्ञधारी यज्ञकृत् । एकस्यैव यज्ञभोक्तृत्वं यज्ञकर्तृत्वं च विरुद्धमित्यर्थः । तथा परस्परविरुद्धयोः प्रवृत्तिनिवृत्तिधर्मयोः एकस्य शास्त्रत्वं विरुद्धं प्रतारकत्वापत्तेरिति प्रश्नार्थः । एतेन जीवेशयोरभेदस्तत्प्रतिपत्त्यर्थो निवृत्तिधर्मश्चाक्षिप्त इति ज्ञेयम् ॥१॥
नाम्नां निर्वचनं तु स्वयमेव करिष्यतीति न व्याख्यायन्ते ॥१॥
निवृत्तं चास्थितो धर्मं क्षमी भागवतः प्रभुः
।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः॥२॥
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः॥३॥
एतं नः संशयं सौते छिन्धि गुह्यं सनातनम्
।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः॥४॥
सौतिरुवाच ।
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः
।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम॥५॥
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः
।
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत्॥६॥
देहिनां परमात्मनः अन्तरात्मनः ॥६॥
जनमेजय उवाच।
इमे सब्रह्मका लोकाः ससुरासुरमानवाः
।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः॥७॥
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्
।
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः॥८॥
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम
।
अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः॥९॥
सहस्रार्चिषं सूर्यान्तर्यामिणम् अनन्तचिद्रूपं वा ॥९॥
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्
।
किं च ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः॥१०॥
यमिति । निवृत्तिधर्मश्चेच्छ्रेयांस्तर्हि येऽस्मदपेक्षया जगत्तत्त्वमधिकं जानन्ति तेऽपि ब्रह्मरुद्रादयः सृष्टिसंहारादौ न प्रवर्तेयुरतः प्रतारणामात्रं निवृत्तिधर्म इत्यर्थः ॥१०॥
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च
।
आकाशं जगती चैव ये च शेषा दिवौकसः॥११॥
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
।
ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम्॥१२॥
स्मृतिकालपरीमाणं प्रवृत्तिं ये समास्थिताः
।
दोषः कालपरीमाणे महानेष क्रियावताम्॥१३॥
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्
।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे॥१४॥
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः॥१५॥
कथमिति । यथा देवा देवान्तराभावादितरेभ्यो भागमदत्वा स्वयं सुखमेधन्ते एवं वयमपि सुखं स्थास्याम इति प्रवृत्तिमार्गोऽप्याक्षिप्तः ॥१५॥
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
।
ये यजन्तो महायज्ञैः कस्य भागं ददन्ति वै॥१६॥
वैशम्पायन उवाच।
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर
।
नातप्ततपसा ह्येष नावेदविदुषा तथा॥१७॥
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा
।
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः॥१८॥
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः
।
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः॥१९॥
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः
।
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्॥२०॥
शौचाचारसमायुक्ताञ्जिक्रोधान् जितेन्द्रियान्
।
वेदानध्यापयामास महाभारतपञ्चमान्॥२१॥
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
।
तेषामभ्यस्यतां वेदान् कदाचित्संशयोऽभवत्॥२२॥
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः
।
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत॥२३॥
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः
।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत्॥२४॥
मया हि सुमहत्तप्तं तपः परमदारुणम्
।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः॥२५॥
मयेति । श्रुत्यनुमानाभ्यां पारोक्ष्येण गृहीतार्थो योगिनां प्रत्यक्षः । अतो योगजं प्रत्यक्षं प्रकृत्योक्तं योगभाष्ये - ’तत्परं प्रत्यक्षं तच्च श्रुतानुमानयोर्बीजम्' इति योगसिद्ध्यभावे तु आत्माऽऽगमगम्य एवायमर्थ इत्याशयः ॥२५॥
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः॥२६॥
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम्॥२७॥
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
।
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः॥२८॥
परमात्मनः प्रतिबिम्बभूता देवा बिम्बभूतं परमात्मानं येन रूपेण महीचक्रुस्तेन तेन रूपेण स्वयं पूजां यज्ञभागादिरूपां लब्धवन्तः । यथोक्तं भागवते -
"यद्यज्जनो भगवते विदधीत मानं
।
तच्चात्मनः प्रतिमुखस्य यथा मुखश्रीः
।
'
इति । अतः फलावस्थां स्वयमकुर्वन्तोऽपि देवा अस्मद्दत्तान्यज्ञभागान्भुञ्जते । अस्माकं च तेभ्योऽप्रदाने महान्दोषः -
'इष्टान्भोगाह्नि वो देवा दास्यन्ते यज्ञभाविताः
।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः' ॥
इति गीतावचनात् । अतः प्रवृत्तिमार्गोऽवश्यमनुसरणीय इत्याह - परमात्मेति यं प्राहुरित्यादिना सनः सनत्सुजातश्चेत्यतः प्राक्तनेन ग्रन्थेन ॥२८॥
महापुरुषसंज्ञां स लभते स्वेन कर्मणा
।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः॥२९॥
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्
।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते॥३०॥
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्
।
सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः॥३१॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
।
अहंकारप्रसूतानि महाभूतानि पञ्चधा॥३२॥
महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः
।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च तान् शृणु॥३३॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
।
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा॥३४॥
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः
।
वेदवेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान्॥३५॥
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
।
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्॥३६॥
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत् स्वयम्
।
एकादशैते रुद्रास्तु विकारपुरुषाः स्मृताः॥३७॥
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः
।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः॥३८॥
वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना
।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह॥३९॥
योऽसौ त्वयाभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः
।
परिपाल्यः कथं तेन साहंकारेण कर्तृणा॥४०॥
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः
।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्॥४१॥
ब्रह्मोवाच।
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः
।
ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता॥४२॥
लोकत्रयस्य कृत्स्नस्य कथं कार्यः परिग्रहः
।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे॥४३॥
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्
।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्॥४४॥
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा
।
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः॥४५॥
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्
।
स महानियमो नाम तपश्चर्यासु दारुणः॥४६॥
ऊर्ध्वा दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत्
।
एकपादाः स्थिताः सर्वे काष्ठभूताः समाहिताः॥४७॥
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम्
।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्॥४८॥
श्रीभगवानुवाच ।
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः
।
स्वागतेनार्च्य वः सर्वान् श्रावये वाक्यमुत्तमम्॥४९॥
विज्ञातं वो मया कार्यं तच्च लोकहितं महत्
।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्॥५०॥
सुतप्तं च तपो देवा ममाराधनकाम्यया
।
भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम्॥५१॥
एष ब्रह्मा लोकगुरुर्महान् लोकपितामहः
।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः॥५२॥
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः
।
तथा श्रेयोऽभिधास्यामि यथाधीकारमीश्वराः॥५३॥
वैशम्पायन उवाच।
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः
।
ततस्ते विबुधाः सर्वे ब्रह्मा च महर्षयः॥५४॥
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्
।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत्॥५५॥
देवा देवर्षयश्चैव स्वं स्वं भागमकल्पयन्
।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः॥५६॥
प्राहुरादित्यवर्णं तं पुरुषं तमसः परम्
।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्॥५७॥
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान्
।
अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः॥५८॥
येन यः कल्पितो भागः स तथा मामुपागतः
।
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्॥५९॥
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम्
।
स्वयं यज्ञैर्यजमानाः समाप्तवरदक्षिणैः॥६०॥
युगे युगे भविष्यध्वं प्रवृत्तिफलभागिनः
।
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः॥६१॥
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्
।
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ॥६२॥
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः
।
यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः॥६३॥
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः
।
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः॥६४॥
आभिराप्यायितबला लोकान्वै धारयिष्यथ
।
यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः॥६५॥
मां ततो भावयिष्यध्वमेषा वो भावना मम
।
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह॥६६॥
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ
।
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम्॥६७॥
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह
।
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः॥६८॥
मरीचिरंगिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
।
वसिष्ठ इति सप्तैते मानसा निर्मिता हि ते॥६९॥
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः
।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः॥७०॥
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः
।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः॥७१॥
सनः सनत्सुजातश्च सनकः ससनन्दनः
।
सनत्कुमारः कपिल: सप्तमश्च सनातनः॥७२॥
एवं रजःप्रधानानां प्रवृत्तिमार्गमुक्त्वा सत्त्वप्रधानानां योग्यं निवृत्तिमार्गमाह - सन इति ॥७२॥
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः
।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः॥७३॥
एते योगविदो मुख्या: सांख्यज्ञानविशारदाः
।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः॥७४॥
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान्
।
तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः॥७५॥
कुत एवं मार्गभेदोऽधिकारिभेदश्चेत्याशङ्क्याह - यतोऽहमिति । अहङ्कारो यतस्त्रिगुणः सात्त्विको राजसस्तामसश्चातः सृष्टित्रैविध्यं जातम् । येऽत्यन्तं सात्त्विकास्ते धर्मज्ञानवैराग्यैश्वर्यबलेनाहङ्ककारात्परं क्षेत्रज्ञं संहारक्रमेण प्रविशन्ति । ये राजसास्तेऽहङ्कारात्पराचीनमेव शब्दादिकं पुरुषार्थत्वेन पश्यन्तः प्रवृत्तावधिक्रियन्त इत्यर्थः ॥७५॥
सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः
।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि॥७६॥
सोऽहमिति । सोहं निवृत्तिमार्गरूपः आत्यन्तिकी निवृत्तिरात्ममात्रात्यावशेषैवेत्यात्मैव निवृत्तिरूपः पन्थाः । स क्रियावतां पुनरावृत्तिमतां दुर्लभः पुनरावृत्तिदुर्लभः मध्यमपदलोपी समासः मार्गद्वैविध्यादिकमुपसंहरति - यो यथेति ॥७६॥
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुते महत्
।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः॥७७॥
एष लोकगुरुरित्यादि स्पष्टार्थम् ॥७७॥
एष माता पिता चैव युष्माकं च पितामहः
।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः॥७८॥
अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः
।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः॥७९॥
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि
।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु मा चिरम्॥८०॥
प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा
।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः॥८१॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः
।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा॥८२॥
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः
।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति॥८३॥
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे
।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति॥८४॥
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति
।
द्विपादहीनो धर्मश्च युगे तस्मिन् भविष्यति॥८५॥
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते
।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति॥८६॥
देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम्
।
एकपादस्थिते धर्मे यत्र क्वचन गामिनि॥८७॥
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः
।
श्रीभगवानुवाच ।
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा॥८८॥
अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः
।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्॥८९॥
व्यास उवाच ।
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा
।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्॥९०॥
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः
।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्॥९१॥
तं देवो दर्शयामास कृत्वा हयशिरो महत्
।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक्॥९२॥
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्
।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया॥९३॥
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः
।
स परिष्वज्य देवेन वचनं श्रावितस्तदा॥९४॥
श्रीभगवानुवाच ।
लोककार्यगती: सर्वास्त्वं चिन्तय यथाविधि
।
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः॥९५॥
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्चसा
।
यदा च सुरकार्यं ते अविषह्यं भविष्यति॥९६॥
प्रादुर्भावं गमिष्यामि तदाऽऽत्मज्ञानदैशिकः
।
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत॥९७॥
एवमुक्त्वेत्यादि व्यासवाक्यम् ॥९७॥
तेनानुशिष्टो ब्रह्मापि स्वलोकमचिराद्गतः
।
एवमेष महाभागः पद्मनाभः सनातनः॥९८॥
प्रश्नानां क्रमेणोत्तराण्युक्त्वा उपसंहरति - एवमेष इत्यादिना ॥९८॥
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा
।
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम्
।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्॥९९॥
युगादौ प्रबुद्धो जगद्व्युत्ससर्ज॥१००॥
भक्त्यतिशयात्प्रश्नोत्तरमुक्त्वा स्मृतं परमात्मानं स्तौति - स आदिरिति । धाता दधाति धारयति पोषयति वा धेयं धारणीयं पोषणीयं च ॥१००॥
तस्मै नमध्वं देवाय निर्गुणाय महात्मने
।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्॥१०१॥
महाभूताधिपतये रुद्राणां पतये तथा
।
आदित्यपतये चैव वसूनां पतये तथा॥१०२॥
अश्विभ्यां पतये चैव मरुतां पतये तथा
।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च॥१०३॥
समुद्रवासिने नित्यं हरये मुञ्जकेशिने
।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे॥१०४॥
तपसां तेजसां चैव पतये यशसामपि
।
वचसां पतये नित्यं सरितां पतये तथा॥१०५॥
कपर्दिने वराहाय एकशृङ्गाय धीमते
।
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा॥१०६॥
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च
।
एष देवः सञ्चरति सर्वत्रगतिरव्ययः॥१०७॥
एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा
।
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा॥१०८॥
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः
।
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः
।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि॥१०९॥
वैशम्पायन उवाच।
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता
।
सर्वे शिष्या: सुतश्चास्य शुकः परमधर्मवित्॥११०॥
स चास्माकमुपाध्यायः सहास्माभिर्विशांपते
।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे॥१११॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः॥११२॥
यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत्
।
नमो भगवते कृत्वा समाहितमतिर्नरः॥११३॥
भवत्यरोगो मतिमान्बलरूपसमन्वितः
।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥११४॥
कामान्कामी लभेत्कामं दीर्घं चायुरवाप्नुयात्
।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्॥११५॥
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्
।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्॥११६॥
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम्
।
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्॥११७॥
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि
।
योऽयं कामं कामयते स तमाप्नोति च ध्रुवम्॥११८॥
इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तितम्
।
समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते॥११९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४०॥
जनमेजय उवाच।
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम्
।
नामभिर्विविधैरेषां निरुक्तं भगवन्मम॥१॥
अस्तौषीदिति । निरुक्तं निर्वचनम् ॥१॥
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः
।
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः॥२॥
वैशम्पायन उवाच।
शृणु राजन्यथाचष्ट फाल्गुनस्य हरिः प्रभुः
।
प्रसन्नात्माऽऽत्मनो नाम्नां निरुक्तं गुणकर्मजम्॥३॥
गुणकर्मजं गुणः सर्वज्ञत्वादिस्तज्जं कर्म जगत्सृष्ट्यादि तज्जम् ॥३॥
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः
।
पृष्टवान्केशवं राजन्फाल्गुनः परवीरहा॥४॥
अर्जुन उवाच ।
भगवन्भूतभव्येश सर्वभूतसृगव्यय
।
लोकधाम जगन्नाथ लोकानामभयप्रद॥५॥
यानि नामानि ते देव कीर्तितानि महर्षिभिः
।
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः॥६॥
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव
।
न ह्यन्यो वर्ण येन्नाम्नां निरुक्तं त्वामृते प्रभो॥७॥
श्रीभगवानुवाच ।
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु
।
पुराणे सोपनिषदे तथैव ज्यौतिषेऽर्जुन॥८॥
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
।
बहूनि मम नामानि कीर्तितानि महर्षिभिः॥९॥
गौणानि तत्र नामानि कर्मजानि च कानिचित्
।
निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ॥१०॥
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा
।
नमोऽतियशसे तस्मै देहिनां परमात्मने॥११॥
नारायणाय विश्वाय निर्गुणाय गुणात्मने
।
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः॥१२॥
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च
।
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर॥१३॥
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी
।
ऋतासत्याऽमराजय्यालोकानामात्मसंज्ञिता॥१४॥
अष्टादशगुणं सत्त्वम् –
'प्रीतिः प्राकाश्यमुद्रेको लघुता सुखमेव च
।
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता
।
क्षमा धृतिरहिंसा च शौचमक्रोध एव च
।
आर्जवं समता सत्यमनसूया तथैव च ॥'
इति । तत्तद्गुणोपाधिः प्रीत्यादिशब्दितो भवतीति गौणनामनिर्वचनं साष्टादशगुणमयी मह्यं मम परा प्रकृतिः स्वरूपम् । रोदसी द्यावापृथिव्यात्मिका योगेन लोकान्धारयतीति योगधारिणी ऋता कर्मफलभूता ब्रह्मलोकान्ता सत्या अबाधितचिन्मात्ररूपा ॥१४॥
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
।
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्॥१५॥
तस्मात् ऋताद्यात्मकात्परमात्मन्यध्यस्तात्सत्त्वात् तपआदिरूपोऽनिरुद्ध एव ॥१५॥
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
।
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः॥१६॥
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण
।
ततो ब्रह्मा समभवत्स तस्यैव प्रसादजः॥१७॥
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा
।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः॥१८॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ
।
तदादेशितपन्थानौ सृष्टिसंहारकारकौ॥१९॥
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ
।
कपर्दी जटिला मुण्डः श्मशानगृहसेवकः॥२०॥
उग्रव्रतचरो रुद्रो योगी परमदारुणः
।
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा॥२१॥
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
।
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे॥२२॥
संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः
।
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन॥२३॥
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम्
।
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्॥२४॥
आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः
।
मया प्रमाणं हि कृतं लोकः समनुवर्तते॥२५॥
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्
।
यस्तं वेत्ति स मां वेत्ति यो नु तं स हि मामनु॥२६॥
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम्
।
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु॥२७॥
न हि मे केनचिद्देयो वरः पाण्डवनन्दन
।
इति सञ्चिन्त्य मनसा पुराणं रुद्रमीश्वरम्॥२८॥
पुत्रार्थमाराधितवानहमात्मानमात्मना
।
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च॥२९॥
ऋते आत्मानमेवेति ततो रुद्रं भजाम्यहम्
।
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः॥३०॥
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
।
भविष्यतां वर्ततां च भूतानां चैव भारत॥३१॥
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः
।
नमस्व हव्यदं विष्णुं तथा शरणदं नमः॥३२॥
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम
।
चतुर्विधा मन जना भक्ता एव हि मे श्रुतम्॥३३॥
चतुर्विधाः आर्तो जिज्ञासुरर्थार्थी ज्ञानी चेति गीतोक्ताः॥३३॥
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः
।
अहमेव गतिस्तेषां निराशी: कर्मकारिणाम्॥३४॥
अन्या आत्मातिरिक्ता देवतास्यास्तीत्यन्यदेवतः । तथा च श्रुतिः 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम्' इति अन्योपास्तिं निन्दति । अनन्याऽऽत्मैव देवता येषाम् 'आत्मेत्येवोपासीत' इत्यादिश्रुतेः । ते ज्ञानिन इत्यर्थः ॥३४॥
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः
।
सर्वे च्यवनधर्मास्ते प्रतिबुद्धस्तु श्रेष्ठभाक्॥३५॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः
।
प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्परम्॥३६॥
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः
।
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ॥३७॥
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम्
।
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत॥३८॥
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्युदयिकोऽपि च
।
नराणामयनं ख्यातमहमेकः सनातनः॥३९॥
प्रतिज्ञातं नामनिर्वचनं करोति - नराणामित्यादिना । नरा जीवाः बिम्बे प्रतिबिम्बमिव यत्राध्यस्ताः । अतस्तेषामयनं नरायण: स्वार्थे तद्धित इत्येकोऽर्थः । दर्पणादि स्वच्छं द्रव्यं प्राप्य रविरश्मिवत् प्रतिस्रोतः प्रवृत्तैर्नयनरश्मिभिर्ग्रीवास्थमेव मुखं पूर्वप्रवृत्तपराक्संस्कारात् प्रत्यङ्मुखत्वाद्युपाधिधर्मविशिष्टं गृह्यते । अन्यथाऽत्यन्ताननुभूतपुरुषादिदर्शनं दर्पणे न स्यात् । तद्विषयकसंस्काराभावात् योऽयं दर्पणे दृष्टः स एवायमित्यबाधितप्रत्यभिज्ञाबलाच्च न दर्पणेऽभिनवमुखाध्यास इति व्युत्पादितं वेदान्तकतकेऽस्माभिः । श्रुतिश्च ईशजीवयोर्बिम्बप्रतिबिम्बभावं दर्शयति –
'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्
।
उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा
।
'
इति। तस्माद्बिम्बचैतन्येऽध्यस्तस्य जीवाख्यप्रतिबिम्बस्याविद्यादर्पणापनये तत्रैव विलय इति युक्तम् ॥३९॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
।
अयनं मम तत्पूर्वमतो नारायणो ह्यहम्॥४०॥
तस्य नारायणत्वे निर्वचनान्तरमाह - आप इति । नरो जीवस्तदविद्याकल्पितम् अम्बुप्रधानत्वादापः पुरुषवचसो भवन्तीति श्रुतेश्चाप इति शरीरमुच्यते । तदस्य पूर्वमयनं प्रवेशस्थानम् उपाधिसृष्टिसमकालं हि घटाकाशवदुपाधौ चितेः प्रवेशः उपाध्यभिमानानन्तरं च जीवत्वमिति विवेकः । अत उक्तं मम तत्पूर्वमयनमिति ॥४०॥
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः
।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्॥४१॥
वासयत्याच्छादयति विश्वं वसत्यस्मिन्विश्वमिति वा वासुः वस आच्छादने वस निवासे इत्यनयो रूपे । स चासौ देवश्चेति वासुदेव इत्यर्थः । एतेन 'ईशावास्यामिदं सर्वं कर्माध्यक्षः सर्वभूताधिवासः' इति श्रुत्योरर्थः संगृहीतः ॥४१॥
गतिश्च सर्वभूतानां प्रजनश्चापि भारत
।
व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम॥४२॥
विच्छ गतौ तुदादिः विच्छ दीप्तौ चुरादिः विषु सेचने भ्वादिः । विष्लृ व्याप्तौ जुहोत्यादिः । विश प्रवेशने तुदादिः । ष्णु प्रस्रवणेऽदादिः । एतेषामन्यतमस्य रूपं विष्णुरित्यभिप्रेत्याह - गतिरिति । विच्छन्ति गच्छन्ति लीयन्तेऽस्मिन्विच्छन्त्यस्माल्लोका इति वा वेवेष्टि व्याप्नोतीति वा विच्छयति दीप्यत इति वा ॥४२॥
अधिभूतानि चान्तेषु तदिच्छंश्चास्मि भारत
।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः॥४३॥
अधिभूतानि सर्वाणि प्राणिजातानि दिव्यादिव्यानि अन्तेषु देहावसानेषु यद् ब्रह्म इच्छन् । ऐच्छन् अडभाव आर्षः। इच्छितवन्ति तदस्मि सर्वकामप्रपूरकमिति विशेषेण स्नौति प्रस्रवति कामक्षीरमिति वा चकारात्सिंचति जीवनं प्रविशति हृदयं क्रामति कार्यमिति वा विष्णुरित्यर्थः । एतेन 'गच्छन्त्यस्मिन्नागच्छन्ति च यस्मात्प्रजाः येनावृतं खं च दिवं महीं च तस्य भासा सर्वमिदं विभाति यदिच्छन्तो ब्रह्मचर्यं चरन्ति तद्धावतोऽन्यानत्येतीति । अन्नादो वसुदानः' इत्यादिश्रुत्यर्थ उक्तः ॥४३॥
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह
।
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम्॥४४॥
दमनं दामस्तेन उत् उत्कर्षेण ऋच्छन्ति प्राप्नुवन्ति स्वर्गादिकं यस्मादिति दामोदर इत्यभिप्रेत्याह - दमादिति ॥४४॥
पृश्निरित्युच्यते चान्नं वेद आपोऽमृतं तथा
।
ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम्॥४५॥
पृच्छन्त्येनं जिज्ञासवो धर्मजातमिति पृच्छन्त्येनं क्षुधितादय इति वा पृश्निर्वेदोऽन्नादि वा गर्भो गर्भस्थानि अतः पृश्निगर्भोऽहमित्यर्थः ॥४५॥
ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम्
।
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्॥४६॥
ऋषय इति द्वौ एतन्नामजपफलमाहतुः ॥४६॥
ततः स ब्रह्मणः पुत्र आद्यो हृषिवरस्त्रितः
।
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्॥४७॥
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत
।
अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः॥४८॥
केशैः केशवत्सूक्ष्मैः सूर्यादिरश्मिभिस्तद्रूपेण वा वाति गच्छतीति केशव इत्याह – सूर्यस्येति –
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
इति भगवद्वचनार्थः केशवपदव्युत्पत्त्युक्त्या सिद्धः ॥४८॥
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः
।
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना॥४९॥
केशवशब्दजपफलमन्धस्य चक्षुःप्राप्तिरित्याह - स्वपत्न्यामित्यादिना ॥४९॥
उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया
।
बृहस्पतिरथाविन्दत्पत्नीं तस्य महात्मनः॥५०॥
ततौ वै तमृषिश्रेष्ठं मैथुनोपगतं तथा
।
उवाच गर्भ: कौन्तेय पञ्चभूतसमन्वितः॥५१॥
पूर्वागतोऽहं नरद नार्हस्यम्बां प्रबाधितुम्
।
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च॥५२॥
मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः
।
तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः॥५३॥
स शापदृषिमुख्यस्य दीर्घं तम उपेयिवान्
।
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥५४॥
वेदानवाप्य चतुरः सांगोपांगान्सनातनान्
।
प्रयोजयामास तदा नाम गुह्यमिदं मम॥५५॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः
।
स चक्षुष्मान्समभवद्गोतमश्चाभवत्पुनः॥५६॥
गोतमः गोशब्देन चक्षुरुच्यते चक्षुष्मत्तम इत्यर्थः ॥५६॥
एवं हि वरदं नाम केशवेति ममार्जुन
।
देवानामथ सर्वेषामृषीणां च महात्मनाम्॥५७॥
तापनादाप्यायनाच्च लोकं हर्षयत इति हृषी अमीषोमो जाठरान्नरूपौ तौ केशा इव केशा यस्येति हृषीकेश इत्येतमर्थं व्युत्पादयितुमग्नीषोमयोर्भोक्तृभोग्ययोरेकयोनित्वमाह - देवानामित्यादिना ॥५७॥
अग्नि: सोमेन संयुक्त एकयोनित्वमागतः
।
अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम्॥५८॥
परस्परमर्हन्तो लोकान् धारयन्त इति॥५९॥
एकयोनित्वं विना भोक्तृभोग्यभावासंभवः । अन्यथा वाय्वग्नियोन्योः स्पर्शचक्षुषोरपि भोग्यभोक्तृभावः स्यादित्याशयेनाह - परस्परमर्हन्त इति । भोक्तृभोग्यत्वमिति शेषः॥५९॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४१॥
अर्जुन उवाच ।
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ
।
एष मे संशयो जातस्तं छिन्धि मधुसूदन॥१॥
अग्नीषोमाविति ॥१॥
श्रीभगवानुवाच ।
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन
।
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम॥२॥
तेजोद्भवं सन्धिरार्षः ॥२॥
संप्रक्षालनकालेऽतिक्रान्ते चतुर्युगसहस्रान्ते अव्यक्ते सर्वभूते प्रलये सर्वभूतस्था वरजङ्गमे
।
ज्योतिर्धरणिवायुरहिते अन्धे तमसि जलैकार्णवे लोके॥३॥
संप्रक्षालनकाले प्रलयकाले चतुर्युगानां सहस्रं तदन्ते जलैकार्णवे सलिलवच्चिदेकसमुद्रे ॥३॥
आप इत्येवं ब्रह्मभूतसंज्ञकेऽद्वितीये प्रतिष्ठिते॥४॥
आप इत्येवमिति । सलिल एको द्रष्टाऽद्वैतो भवतीति श्रुतौ ब्रह्मभूतस्य अप्पर्यायसलिलशब्देनोपादानात् । एकार्णववदद्वितीये इत्यर्थः । प्रतिष्ठिते स्वमहिम्नीति शेषः ॥४॥
न वै रात्र्यां न दिवसे न सति नासति न व्यक्ते न चाप्यव्यक्ते व्यवस्थिते॥५॥
'न रात्र्याम्' 'अह्न आसीत्प्रकेतः नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत्' इत्येतावतः श्रुतिभागस्यार्थं संगृह्णाति - न वै राज्यामिति । सति प्रधाने असति शून्ये व्यक्ते परमाण्वादौ अव्यक्ते मायाशबले परव्योमाख्ये ॥५॥
एवमस्यां व्यवस्थायां नारायणगुणाश्रयादजरामरादनिन्द्रियादग्राह्यादसम्भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषाद- वैरादक्षयादमरादजरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतस्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः॥६॥
एवं निर्विशेषसन्मात्रे ब्रह्मणि व्यवस्थिते सत्यनिर्वचनीयात्तमसः सृष्टिमाह - एवमस्यामित्यादिना । नारायणगुणानामैश्वर्यादीनामाश्रयात् अजरामरत्वं भूताकाशेऽस्ति न तु तस्य श्रोत्रेन्द्रियात्मनो निरिन्द्रियत्वमस्तीत्यत उक्तमनिन्द्रियादिति । तदपि कालेऽस्तीत्यत आह- अग्राह्यादिति । कालस्यापि षडिन्द्रियवेद्यत्वमस्ति इदानीं घटं पश्यामीत्याद्यनुभवात् । विशिष्टप्रत्यक्षस्य च विशेषणप्रत्यक्षं विनाऽसंभवादित्यर्थः । अथवा तार्किकाभिमतमनःप्रत्यक्षात्मव्यावृत्त्यर्थमिदं तटस्थेश्वरे वारणार्थमाह -असंभवादिति । तस्य हि क्षित्यादिकं सकर्तृकं कार्यत्वात्संमतवदित्यनुमानतः संभवोऽस्ति । न चैतत्तथाऽस्य जडत्वाभ्युपगमात् । सत्यात् व्यवहारत इति शेषः । न तु परीक्षातः सत्यत्वमस्यास्ति । तत्र हेतुः - अहिंस्रादिति । स्वप्नव्याघ्रो हि निद्रादाषेणोपप्लुतं भीषयत्येव न तु हिनस्ति तद्वेदतत् । सत्यत्वे अहिंस्रत्वं नोपपद्येतेत्यर्थः । नन्वेवं नामान्तरेण असदेवोक्तं नेत्याह - ललामादिति । चिन्तामणिरत्नवद्भावरूपादित्यर्थः । अत एव विविधाः प्रवृत्तिविशेषा यस्मात् । भावरूपत्वेऽपि जडत्वात्तुच्छत्वाच्च वैरक्षयजरामृत्युमूर्तयोऽस्य न संभवन्ति । ईदृशमपि सर्वव्यापकं सर्वकर्तृ चेति शश्वद्भवम् अनादि पञ्चम्यर्थे प्रथमा । तमसः सकाशाच्चिदात्मा प्रादुर्भूतो व्यक्ततां गतः । अहंप्रत्ययविषयत्वं गतः हरिरव्ययः ॥६॥
निदर्शनमपि ह्यत्र भवति॥७॥
निदर्शनं श्रुतिरूपं प्रमाणम् ॥७॥
नासीदहो न रात्रिरासीन्न सदासीन्नासदासीत्तम एव पुरस्तादभवद्विश्वरूपम्
।
सा विश्वरूपस्य रजनी हि एवमस्यार्थोऽनुभाष्यः॥८॥
तदेव पठति - नासीदिति । तम एव पुरस्तादभवद्विश्वरूपमित्यस्मिन्नर्थे श्रुत्यन्तरमप्यस्ति । 'तम आसीत्तमसां गूडमग्रेऽप्रकेतं सलिलं सर्वमा इदं तुच्छ्येनाभ्वपिहितं यदासीत्तमसस्तन्महिनाऽजायतैकम्' इति एषा श्रुतिः प्राग्व्याख्याता । एवमस्यार्थोऽनुभाष्यः अग्नीषोमयोरेकयोनित्वं भाषितमेव शुद्धात्मावशेषोक्त्या पुनरप्यनुभाष्यः हरिप्रभवत्वेनेत्यर्थः ॥८॥
यो ब्राह्मणमुखे जुहोतीति कृत्वा ब्रवीमि भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति मन्त्रवादोऽपि हि भवति॥९॥
तदेवाह - तस्येदानीमित्यादिना । स पुरुषः ब्रह्मणा ब्राह्मणेन मन्त्रवादोऽपि ब्राह्मणमाहात्म्यप्रख्यापकः ॥९॥
त्वमग्ने यज्ञानां होता विश्वेषां हितो देवानां मानुषाणां च जगत इति॥१०॥
हे अग्ने त्वं देवादीनां हितोऽसि यतस्त्वं यशानां होता होतृस्वरूपो ऋत्विगसि होतृत्वेनाग्निं स्तुवन्नग्नितोऽपि होता ब्राह्मणोऽधिक इति दर्शितम् ॥१०॥
निदर्शनं एचात्र भवति विश्वेषामग्ने यज्ञानां त्वं होतेति
।
त्वं हितो देवैर्मनुष्यैर्जगत इति॥११॥
संक्षिप्य मन्त्रं व्याचष्टे - निदर्शनमिति ॥११॥
अग्निर्हि यज्ञानां होता कर्ता स चाग्निर्ब्रह्म॥१२॥
विस्तरेण व्याचष्टे - अग्निर्हीति । होता ऋत्विक् कर्ता यजमानः। उभौ होतृशब्दार्थः उभयरूपी अग्निर्ब्रह्म ब्राह्मणः ॥१२॥
न ह्यृते मन्त्राणां हवनमस्ति न विना पुरुषं तपः सम्भवति॥ हविर्मन्त्राणां संपूजा विद्यते देवमानुषऋषीणामनेन त्वं होतेति नियुक्तः॥ ये च मानुषहोत्राधिकारास्ते च ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योस्तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति
।
यज्ञास्ते देवांस्तर्पयन्ति पृथिवीं भावयन्ति शतपथेऽपि हि ब्राह्मणमुखे भवति॥१३॥
ब्राह्मणस्य वेदधारित्वेन ब्रह्मभावमुपपादयति - न हीत्यादिना ॥१३॥
अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखेनाहुतिं जुहोति॥१४॥
अग्नाविति । अग्नौ हुते सति ब्राह्मणो न तृप्यति ब्राह्मणमुखे हुतं चेदग्न्यादयो देवता ब्राह्मणशरीरं प्रविश्य धारयन्त्यतस्तत्तृप्त्या तृप्यन्तीति शतपथवाक्यार्थः ॥१४॥
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति
।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति॥१५॥
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ब्रह्मा विश्वं सृजत्पूर्वं सर्वादिर्निरवस्कृतम्
।
ब्रह्मघोषैर्दिवं गच्छन्त्यमरा ब्रह्मयोनयः॥१६॥
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धां तपांसि च
।
धारयन्ति महीं द्यां च शैक्यो वागमृतं तथा॥१७॥
शैक्य इव शैक्यः शिक्यसमुदायः । यथा शिक्यं गव्यादीन्धारयति । एवं ब्राह्मणो मत्यादीनि इत्यर्थः ॥१७॥
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः
।
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये॥१८॥
नैषामुक्षा वहति नोत वाहा न गर्गरो मथ्नति सम्प्रदाने
।
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः॥१९॥
गर्गरः दधीक्षुतैलादिनिपीडनयन्त्रम् । येषां राज्ञां कृष्यादिहीनत्वात्तादृशा राजानो नष्टाश्चोराश्च भवन्तीत्यर्थः ॥१९॥
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावाश्च ब्राह्मणाश्च॥२०॥
वाक्संयमकाले हितस्य वरप्रदस्य देवदेवस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः॥२१॥
इत्थं च सुरासुरविशिष्टा ब्राह्मणा य एव मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च॥२२॥
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप॥२३॥
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरन्दरस्य च्यवनेन स्तम्भितौ बाहू॥२४॥
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं सयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता॥२५॥
त्रिपुरवधार्थं दीक्षामुपगतस्य रुद्रस्य उशनसा जटा: शिरस उत्कृत्य प्रयुक्तास्ततः प्रादुर्भूता भुजगास्तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपगतः, पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तग्रहणान्नीलकण्ठत्वमेव च॥२६॥
अमृतोत्पादनपुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः, अथ बृहस्पतिरपां चुक्रोध यस्मान्ममोपस्पृशतः कलुषीभूता न च प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरकच्छपजन्तुभिः कलुषी भवतेति, तदा प्रभृत्यापो यादोभिः संकीर्णाः सम्प्रवृत्ताः॥२७॥
विश्वरूपो हि वै त्वाष्ट्रः पुरोहितो देवानामासीत्, स्वस्रीयोऽसुराणां स प्रत्यक्षं देवेभ्यो भागमदात्परोक्षमसुरेभ्यः॥२८॥
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त हे स्वसरयन्ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमदात् परोक्षमस्माकं ततो देवा वर्धन्ते वयं क्षीयामस्तदेनं त्वं वारयितुमर्हसि तथा यथास्मान् भजेदिति॥२९॥
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि, नार्हस्येवं कर्तुमिति स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात्॥३०॥
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान्यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम्॥३१॥
अथ विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत्तस्य व्रतभङ्गार्थमिन्द्रो बह्वीःश्रीमत्योप्सरसो नियुयोज ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत्सक्तं चैनं ज्ञात्वा अप्सरस ऊचुर्गच्छामहे वयं यथागतमिति॥३२॥
तास्त्वाष्ट्र उवाच क्व गमिष्यथास्यतां तावन्मया सह श्रेयो भविष्यन्तीति तास्तमब्रुवन्वयं देवस्त्रियोऽप्सरस इन्द्रं देवं वरदं पुरा प्रभविष्णुं वृणीमह इति॥३३॥
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ततो मन्त्रान् जजाप तैर्मन्त्रैरवर्धत त्रिशिरा एकेनास्येन सर्वलोकेषु यथावद्द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनान्नमेकेन सेन्द्रान्देवानथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे देवैः॥३४॥
ते देवाः सेन्द्रा ब्रह्माणमभिजग्मुस्त ऊचुर्विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते वयमभागाः संवृत्ता असुरपक्षो वर्धते वयं क्षीयामस्तदर्हसि नो विधातुं श्रेयोऽनन्तरमिति॥३५॥
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः स याच्यतां वरं स यथा कलेवरं जह्यात्तथा विधीयतां तस्यास्थिभिर्वज्रं क्रियतामिति॥३६॥
ततो देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे सेन्द्रा देवास्तं तथाभिगम्योचुर्भगवंस्तपः सुकुशलमभिन्नं चेति॥३७॥
तान्दधीच उवाच स्वागतं भवद्ध्य उच्यतां किं क्रियतामिति यद्वक्ष्यथ तत्करिष्यामि॥३८॥
ते तमब्रुवन् शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति॥३९॥
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार॥४०॥
तस्य परमात्मन्यपसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत्तेन वज्रेणाभेद्येनामप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान शिरसां चास्य च्छेदनमकरोत्तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान॥४१॥
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं पर्यत्यजदप्सु संभवां च शीतलां मानससरोगतां नलिनीं प्रतिपेदे तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश॥४२॥
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव देवान् रजस्तमश्चाविवेश मन्त्रा न प्रावर्तन्त महर्षीणां रक्षांसि प्रादुरभवन् ब्रह्म चोत्सादनं जगामानिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः॥४३॥
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं देवराज्येऽभिषिषिचुर्नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयांबभूव॥४४॥
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च हृष्टाश्च बभूवुः॥४५॥
अथोवाच नहुषः सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति स एवमुक्त्वा शचीसमीपमगमदुवाचैनां सुभगेऽहमिन्द्रो देवानां भजस्व मामिति तं शची प्रत्युवाच प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च नार्हसि परपत्नीधर्षणं कर्तुमिति॥४६॥
तामथोवाच नहुष ऐन्द्रं पदमध्यास्ते मयाऽहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रोपभुक्तेति सा तमुवाचास्ति मम किञ्चिद्व्रतमपर्यवसितं तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति स शच्येवमभिहितो जगाम ॥४७॥
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत्स च तामत्युद्विग्नां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाचानेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय तदा सा ते इन्द्रं दर्शयिष्यतीति साऽथ महानियमस्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयति सोपश्रुतिः शचीसमीपमगादुवाच चैनामियमस्मीति त्वयाऽऽहूतोपस्थिता किं ते प्रियं करवाणीति तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या ऋता चेति सैनां मानसं सरोऽनयत्तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत्॥४८॥
तामथ पत्नीं कृशां ग्लानां चेन्द्रो दृष्ट्वा चिन्तयाम्बभूव अहो मम दुःखमिदमुपगतं नष्टं हि मामियमन्विष्य यत्पत्न्यभ्यगमद्दुःखार्तेति तामिन्द्र उवाच कथं वर्तयसीति सा तमुवाच नहुषो मामाह्वयति पत्नीं कर्तुं कालश्चास्य मा कृत इति तामिन्द्र उवाच गच्छ नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्वेति इन्द्रस्य महान्ति वाहनानि सन्ति मन:प्रियाण्यधिरूढानि मयात्वमन्येनोपयातुमर्हसीति सैवमुक्ता हृष्टा जगामेन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः॥४९॥
अथेन्द्राणीमभ्यागतां दृष्ट्वा तामुवाच नहुषः पूर्णः स काल इति तं शच्यब्रवीच्छक्रेण यथोक्तं स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्॥५०॥
अथ मैत्रावरुणिः कुंभयोनिरगस्त्यऋषिवरो महर्षीन् धिक्क्रियमाणांस्तान्नहुषेणापश्यत् पद्भ्यां च तमस्पृशत् तत: स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीं सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत्॥५१॥
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुरूचुश्चैनं भगवन्निन्द्रं ब्रह्महत्याभिभूतं त्रातुमर्हसीति ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतां ततः स्वस्थानं प्राप्स्यतीति ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति सा पुनस्तत्सरः समभ्यगच्छदिन्द्रश्च तस्मात्सरसः प्रत्युत्थाय बृहस्पतिमभिजगाम बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् तत्र कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्र मरुत्पतिं बृहस्पति: स्वं स्थानं प्रापयामास॥५२॥
ततः स देवराट् देवैर्ऋषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ह ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजदेवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वं स्थानं प्रापितः॥५३॥
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशत्त्रीन् क्रमान् क्रमता विष्णुनाऽभ्यासादित: स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः॥५४॥
भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपानीतः॥५५॥
अदितिर्वैदेवानामन्नमपचदेतद्भुक्त्वाऽसुरान्हनिष्यन्तीति तत्र बुधो व्रतचर्यासमाप्तावागच्छददितिं चावोचद्भिक्षां देहीति तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादादथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेनादितिः शप्ता अदितेरुदरे भविष्यति व्यथा विवस्वतो द्वितीयजन्मन्यण्डसंज्ञितस्य अण्डं मातुरदित्या मारितं स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः॥५६॥
दक्षस्य या वै दुहितरः षष्टिरासंस्ताभ्यः कश्यपाय त्रयोदशप्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकं प्रीतिमानभूत्ततस्ताः शिष्टाः पल्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुर्भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीं प्रत्यधिकं भजतीति सोऽब्रवीद्यक्ष्मैनमाविश्यतेति दक्षशापात्सोमं राजानं यक्ष्मा विवेश स यक्ष्मणाऽऽविष्टो दक्षमगाद्दक्षश्चैनमब्रवीन्न समं वर्तयसीति तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमायां दिशि समुद्रे हिरण्यसरस्तीर्थं तत्र गत्वा आत्मानमभिषेचयस्वेत्यथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थं गत्वा चात्मनः सेचनमकरोत् स्नात्वा चात्मानं पाप्मनो मोक्षयामास तत्र चावभासितस्तीर्थे यदा सोमस्तदा प्रभृति च तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव॥५७॥
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुदर्शयति मेघसदृशं वर्णमगमत्तदस्य शश लक्ष्म विमलमभवत्॥५८॥
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्विभागे तपस्तेपे ततस्तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्वायमानः शरीरमस्पृशत्स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदये परितोषमगमत्तत्र किल तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां निदर्शितवन्त इति स एतान् शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति॥५९॥
नारायणो लोकहितार्थं वडवामुखो नाम पुरा महर्षिर्बभूव मेरौ तपस्तप्यतः समुद्र आहूतो नागतस्तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः स्वेदप्रस्यन्दनसदृशश्चाप्य लवणभावो जनितः॥६०॥
उक्तश्चाप्यपेयो भविष्यस्येतच्च ते तोयं वडवामुखसंज्ञितेन पेपीयमानं मधुरं भविष्यति तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं समुद्रात्पीयते॥६१॥
हिमवतो गिरेर्दुहितरमुमां कन्यां रुद्रश्चकमे भृगुरपि च महर्षिर्हिमवन्तमागत्याब्रवीत् कन्यामिमां मे देहीति तमब्रवीद्धिमवानभिलक्षितो वरो रुद्र इति तमब्रवीद्भृगुर्यस्मात्त्वयाऽहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति॥६२॥
अद्यप्रभृत्येतदवस्थितमृषिवचनं तदेवंविधं माहात्म्यं ब्राह्मणानाम्॥६३॥
ब्राह्मणमाहात्म्यकथनपरो ग्रन्थः स्पष्टार्थः ॥६३॥
क्षत्रमपि च ब्राह्मणप्रसादादेव शाश्वतीमव्ययां च पृथिवीं पत्नीमभिगम्य बुभुजे॥६४॥
क्षत्रियमाहात्म्यमप्याह - क्षत्रमिति ॥६४॥
यदेतद्ब्रह्माग्नीषोमीयं तेन जगद्धार्यते॥६५॥
उपसंहरति - यदेतदिति । यदेतद्ब्रह्म क्षत्रगतं तेजोऽग्नीषोमीयमतस्तेनैव तेजसा जगद्धार्यतेऽतो जगदप्याग्नीषोमीयमित्यर्थः ॥६५॥
सूर्याचन्द्रमसौ चक्षुः केशाश्चैवांशवः स्मृताः
।
बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक्॥६६॥
सूर्याचन्द्रमसौ अग्नीषोमौ चक्षुः परमेश्वरनेत्राभ्यामुत्पन्नत्वात् केशाः अंशवः किरणाः बोधयंश्चन्द्रः तापयन्सूर्यः ॥६६॥
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्
।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन
।
हृषीकेशोऽहमीशानो वरदो लोकभावनः॥६७॥
तौ जगत् हर्षयतः यस्मात्तस्मात्तौ हृषी हृष्यतेरिन् तस्य इगुपधात् किदिति कित्त्वम् । अलुक्समासः । हृषी अग्नीषोमौ केशौ अंशू इवांशू यस्य सः हृषीकेश इत्यर्थः ॥६७॥
इळोपहूतयोगेन हरे भागं क्रतुष्वहम्
।
वर्णश्च मे हरिः श्रेष्ठस्तस्माद्धरिरहं स्मृतः॥६८॥
हरिनाम निर्वक्ति - इलेति । इळोपहूता सह दिवेत्यादिमन्त्रेणाहूतोऽहं तद्योगात् यज्ञभागं हरे हरणं कुर्वे अतोऽहं हरिरित्यर्थः । वर्णश्च हरिर्हरिन्मणितुल्यस्तस्माद्धरिरिति ॥६८॥
धाम सारो हि भूतानामृतं चैव विचारितम्
।
ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः॥६९॥
ऋतधामशब्दं निर्वक्ति - धामेति । धामशब्दो लोकसारवाची ऋतमबाधितं धाम सत्तास्फूर्तिरूपं यस्य स ऋतधामेत्यर्थः ॥६९॥
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्
।
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः॥७०॥
नष्टां जले मग्नां गां धरणीं विन्दति लभत इति गोविन्द इत्यर्थः ॥७०॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्
।
तेनाविष्टं तु यत्किञ्चिच्छिपिविष्टेति च स्मृतः॥७१॥
हीनानि त्यक्तानि रोमाणीव रोमाणि अंशयः अवयवाः येन स शिपिर्निष्कल इत्यर्थः । तेन शिपिना रूपेण यत्किञ्चित् आविष्टं येन अतोऽयं शिपिविष्ट इत्यर्थः ॥७१॥
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्
।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्॥७२॥
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः
।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्॥७३॥
अधो नष्टं वेदहरणवेलायां पातालेऽन्तर्हितम् ॥७३॥
न हि जातो न जायेयं न जनिष्ये कदाचन
।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः॥७४॥
अजशब्दं निर्वक्ति - न हीति ॥७४॥
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन
।
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती॥७५॥
नोक्तेति । सत्यभाषित्वात् ॥७५॥
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि
।
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः॥७६॥
पृथिव्यप्तेजांसि सत् वाय्वाकाशौ त्यत्तदुभयात्मत्वाद्वा सत्यनामाहमित्यर्थः । पौष्करे मन्नाभिकमलोत्थे ॥७६॥
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्
।
जन्मनीहा भवेत्सत्त्वं पौर्विकं मे धनंजय॥७७॥
सत्त्वेन तायते पालयते वा सत्त्वं तनोति विस्तारयति वा सत्वतः सत्त्वमस्त्यस्मिन्निति सत्त्वतः सत्त्वपूर्वकमेव सर्वं कर्माचरतीति सत्त्वतः । सत्त्वत एव सात्त्वतः । तायृ सन्तानपालनयोस्तनुविस्तारे आभ्यां सत्त्वशब्दपूर्वाभ्यां डः । तप्पर्वमरुद्भ्यामित्यत्र श्रुतो मत्वर्थीयस्तप्प्रत्ययो बाहुलकात्सत्त्वशब्दादपि अन्ते तद्धितान्तानुकरणमेव प्रातिपदिकं सत् ब्रह्म तद्वन्तः सत्त्वन्तः आर्षं भत्वम् । तेषामिदं तन्त्रं सात्वतं पाञ्चरात्रादि तज्जन्यज्ञानेन दृष्टोऽहं सात्त्वतो वेत्यभिप्रेत्याह- सत्त्वादिति ॥७७॥
निराशी:कर्मसंयुक्तः सत्त्वतश्चाप्यकल्मषः
।
सात्वतज्ञानदृष्टोऽहं सत्त्वतामिति सात्त्वतः॥७८॥
निराशीःकर्म निष्कामकर्म ॥७८॥
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्
।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन॥७९॥
कृषामीति । कृष्णायसो लाङ्गलकीलरूपी ॥७९॥
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना
।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम॥८०॥
विशब्दः पक्षिवाची व्योमचारित्वसामान्याद्वायुतेजसोर्मेघरूपास्वप्सु च वर्तते । कुः पृथ्वी ठशब्द आकाशवचनः एतेषां समाहारो विकुंठम् । वर्णागमेन विकुण्ठशब्द उत्पन्नः । विकुण्ठानामयं श्लेषणकर्ता वैकुण्ठ इत्यभिसन्धायाह - मयेति । विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य सः विकुण्ठः स्वार्थे तद्धितः इति स्पष्टोऽर्थः ॥८०॥
निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते
।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा॥८१॥
पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे
।
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा॥८२॥
अध इति पृथिवी । अक्षू व्याप्तौ इत्यतोऽक् आकाशः ते उभे सञ्जयति सङ्गेन धारयतीति अधोक्षज इत्याह - पृथिवीति । अधोक् शब्दपूर्वात्सञ्जेः कः अनिदितामिति नकारलोपः ॥८२॥
निरुक्तं वेदविदुषो वेदशब्दार्थचिन्तकाः
।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः॥८३॥
निर्वचनान्तरमाह - निरुक्तमिति प्राग्वंशे यज्ञशालैकदेशे ॥८३॥
शब्द एकपदैरेष व्याहृतः परमर्षिभिः
।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्॥८४॥
एकपदैः पृथक्पदैः अतन्ति सततं गच्छन्त्यस्मिन्निति अः अत सातत्यगमनेऽस्माढ्ढः धोक्षः दुह प्रपूरणेऽस्मात् औणादिक सः गुणभष्भावौ जायतेऽस्मात् सर्वमिति जः जगल्लयस्थितिजन्मस्थानमित्यर्थः ॥८४॥
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्
।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः॥८५॥
मम वह्निस्वरूपस्यार्चिषो वर्धकमिति शेषः ॥८५॥
त्रयो हि धातवः ख्याताः कर्मजा इति मे स्मृताः
।
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते॥८६॥
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते
।
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते॥८७॥
त्रयो धातव उपाधिभूताः सन्त्यस्य सः त्रिधातुः ॥८७॥
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत
।
नैघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम्॥८८॥
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते
।
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥८९॥
न चादिं न मध्यं तथा चैव नान्तं कदाचिद्विदन्ते सुराश्चासुराश्च
।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी॥९०॥
विभुपदं व्याचष्टे - न चादिमिति ॥९०॥
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय
।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः॥९१॥
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः
।
इमां चोद्धृतवान्भूमिमेकशृङ्गस्ततो ह्ययम्॥९२॥
तथैवासं त्रिककुदो वाराहं रूपमास्थितः
।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्॥९३॥
त्रीणि ककुदानि उच्चप्रदेशाः स्कन्धपोत्रदंष्ट्रा यस्य त्रिककुदः शरीरस्येति सामानाधिकरण्यम् ॥९३॥
विरिञ्च इति यत्प्रोक्तं कापिलं ज्ञानचिन्तकैः
।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्॥९४॥
विशेषेण रिणक्ति तत्त्वानां परिसंख्यानाख्यं प्रविलयं करोति इति विरिञ्च इत्यर्थः । रेचनादिति पाठे रेचनद्वारा तत्साध्यं चेतनमेव लक्षणीयम्॥९४॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम्
।
कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः॥९५॥
कपिलं पीतम् आदित्यपुरुषं प्रकृत्य च्छान्दोग्ये आप्रणखात्सर्व एव सुवर्ण इति श्रुतेः ॥९५॥
हिरण्यगर्भो द्युतिमान्य एष च्छन्दसि स्तुतः
।
योगैः संपूज्यते नित्यं स एवाहं भुवि स्मृतः॥९६॥
छन्दसि समष्टिलिङ्गाभिमानी सूत्रात्मा भुवि चतुर्मुखः ॥९६॥
एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते
।
सहस्रशाखं यत्साम ये वै वेदविदो जनाः॥९७॥
गायन्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः
।
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत॥९८॥
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः
।
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्॥९९॥
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा
।
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः॥१००॥
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्
।
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्॥१०१॥
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्
।
वामादेशितमार्गेण मत्प्रसादान्महात्मना॥१०२॥
क्रमविभागः पदद्वयमादाय पूर्वं विसृज्य उत्तरमुत्तरेण संदध्यात् । यथा - 'अग्निमीळे ईळे पुरोहितं पुरोहितं यज्ञस्य' इत्यादि । अक्षरविभागः पदविभागः - वामेति । वामदेवादिष्टेन ध्यानमार्गेण मामाराधयता पाञ्चालेन मुनिनेति सम्बन्धः ॥१०२॥
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात्
।
बाभ्रव्यगोत्र: स बभौ प्रथम क्रमपारगः॥१०३॥
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्
।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः॥१०४॥
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्
।
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः॥१०५॥
कण्डरीक इति कुलनाम । साप्तजन्मिकं जन्मादिदुःखं स्मृत्वा तीव्रतमवैराग्याच्छीघ्रं योगिनां सम्पदम् ऐश्वर्यं गतः प्राप्त इति सार्धः ॥१०५॥
सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः
।
पुराऽहमात्मजः पार्थ प्रथितः कारणान्तरे॥१०६॥
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः
।
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्॥१०७॥
धर्मयानं समारूढौ पर्वते गन्धमादने
।
तत्कालसमये चैव दक्षयज्ञो बभूव ह॥१०८॥
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत
।
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्॥१०९॥
अपाहरत् नाशितवान् रुद्र इति शेषः ॥१०९॥
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः
।
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्॥११०॥
तत् शूलं कर्तृ ॥११०॥
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात्
।
वेगेन महता पार्थ पतन्नारायणोरसि॥१११॥
आवयोर्नरनारायणयोरन्तिकात् आगच्छत् आगतम् ॥१११॥
ततस्तत्तेजसाऽऽविष्टाः केशा नारायणस्य ह
।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्॥११२॥
तत्तेजसा शूलतेजसा ॥११२॥
तच्च शूलं विनिर्धूतं हुंकारेण महात्मना
।
जगाम शंकरकरं नारायणसमाहतम्॥११३॥
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ
।
तत एनं समुद्भूतं कण्ठे जग्राह पाणिना॥११४॥
एनं समुद्धतम् उड्डीयागतं रुद्रम् ॥११४॥
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता
।
अथ रुद्रविघातार्थमिषीकां नर उद्धरन्॥११५॥
शितिकण्ठता कृष्णवर्णस्य नारायणस्य सम्बन्धान्नीलकण्ठत्वं रुद्रो गत इत्यर्थः ॥११५॥
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्
।
क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवास्तदा॥११६॥
इषीकैव परशुतां प्राप्ता क्षिप्तः आक्षिप्तः तेन रुद्रशूलेन रुद्रेण वा ॥११६॥
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्
।
अर्जुन उवाच ।
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा॥११७॥
रुद्रस्य खण्डपरशुत्वप्रसिद्धिस्तु मदनन्यत्वादित्यर्थः ॥११७॥
को जयं प्राप्तवांस्तत्र शंसैतन्मे जनार्दन
।
श्रीभगवानुवाच ।
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः॥११८॥
उद्विग्नाः सहसा कृत्स्नाः सर्वे लोकास्तदाभवन्
।
नागृह्णात्पावकः शुभं मखेषु सुहुतं हविः॥११९॥
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्
।
देवान् रजस्तमश्चैव समाविविशतुस्तदा॥१२०॥
वसुधा संचकम्पे च नभश्च विपफाल ह
।
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः॥१२१॥
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत
।
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन॥१२२॥
ब्रह्मा वृतो देवगणैर्ऋषिभिश्च महात्मभिः
।
आजगामाशु तं देशं यत्र युद्धमवर्तत॥१२३॥
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः
।
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ॥१२४॥
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया
।
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्॥१२५॥
कूटस्थं कर्तृ निर्द्वन्द्वमकर्तेति च यं विदुः
।
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा॥१२६॥
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ
।
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ॥१२७॥
अहं प्रसादजस्तस्य कुतश्चित्कारणान्तरे
।
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः॥१२८॥
मया च सार्द्धं वरद विबुधैश्च महर्षिभिः
।
प्रसादयाशु लोकानां शान्तिर्भवतु मा चिरम्॥१२९॥
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्
।
प्रसादयामास ततो देवं नारायणं प्रभुम्
।
शरणं च जगामाद्यं वरेण्यं वरदं प्रभुम्॥१३०॥
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
।
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः॥१३१॥
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः
।
उवाच देवमीशानमीशः स जगतो हरिः॥१३२॥
नावयोरन्तरं किञ्चिन्मा तेऽभूद्बुद्धिरन्यथा
।
अद्यप्रभृति श्रीवत्सः शूलांको मे भवत्वयम्
।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि॥१३३॥
श्रीभगवानुवाच ।
एवं लक्षणमुत्पाद्य परस्परकृतं तदा
।
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी॥१३४॥
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः
।
एष ते कथितः पार्थ नारायणजयो मृधे॥१३५॥
नामानि चैव गुह्यानि निरुक्तानि च भारत
।
ऋषिभिः कथितानीह यानि संकीर्तितानि ते॥१३६॥
एवं बहुविधै रूपैश्चरामीह वसुन्धराम्
।
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्॥१३७॥
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्
।
यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते॥१३८॥
तं विद्धि रुद्र कौन्तेय देवदेवं कपर्दिनम्
।
कालः स एव कथितः क्रोधजेति मया तव॥१३९॥
निहतास्तेन वै पूर्वं हतवानसि यान् रिपून्
।
अप्रमेयप्रभावं तं देवदेवमुमापतिम्
।
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम्॥१४०॥
यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः
।
तस्य प्रभाव एवाग्रे यच्छ्रुतं ते धनञ्चय॥१४१॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४२॥
शौनक उवाच।
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः
।
जन्म धर्मगृहे चैव नरनारायणात्मकम्॥१॥
श्रुतं भगवतस्तस्येत्यादिरध्यायो हयग्रीवावतारस्य प्रयोजनं माहात्म्यं च प्रतिपादयति तस्य तात्पर्यं रजस्तमोभ्यां वेदा नष्टास्तिरोहितार्था भवन्ति । सत्त्वेन त्वर्थतः सम्यक्प्रकाशन्त इति ॥१॥
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी
।
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः॥२॥
तथा च नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ
।
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ॥३॥
हव्यकव्यभुजः मूलबिभुजादित्वात्कः अकारान्तः शब्दः उदक्पूर्वे ऐशानकोणे महोदधौ तत्समीपे इदमुत्तरान्वयि ॥३॥
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्
।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना॥४॥
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा
।
रूपं प्रभावं महतामपूर्वं धीमतां वर॥५॥
अपूर्वं प्रागदृष्टम् ॥५॥
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम्
।
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने॥६॥
अपूर्वम् अद्भुतम् ॥६॥
एतन्नः संशयं ब्रह्मन्पुराणं ज्ञानसंभवम्
।
कथयस्वोत्तममते महापुरुषनिर्मितम्॥७॥
पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम्
।
सौतिरुवाच ।
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्॥८॥
जगौ यद्भगवान् व्यासो राज्ञः पारिक्षितस्य वै
।
श्रुत्वाऽश्वशिरसो मूर्तिं देवस्य हरिमेधसः॥९॥
उत्पन्नसंशयो राजा एतदेवमचोदयत्
।
जनमेजय उवाच।
यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम्॥१०॥
दर्शितवांस्तत् अश्वशिरोरूपम् ॥१०॥
किमर्थं तत्समभवत्तन्ममाचक्ष्व सत्तम
।
वैशम्पायन उवाच।
यत्किञ्चिदिह लोके वै देहसत्त्वं विशांपते॥११॥
वेदो वेदहर्ता वेदाध्यायी वेदहरणमित्यादिकं सर्वं भगवल्लीलामात्रमिति पृष्टस्योत्तरं वक्ष्यंस्तज्जत्वेन सृष्टिमेव तावदुपक्रमते यत्किञ्चिदिति ॥११॥
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिभिः
।
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्॥१२॥
ईश्वरबुद्धिभिः ईश्वरसंकल्पमात्रैः ॥१२॥
भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च
।
भूतप्रलयमत्यन्तं शृणुष्व नृपसत्तम॥१३॥
लयमाह - भूतेति ॥१३॥
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा
।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले॥१४॥
वायौ चाकाशसंलीने आकाशे च मनोनुगे
।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते॥१५॥
व्यक्ते महत्तत्त्वे मनो लीनं तत् व्यक्तेऽपि अव्यक्ततां गुणसाम्यावस्थां गते सति ॥१५॥
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च
।
तम एवाभवत्सर्वं न प्राज्ञायत किंचन॥१६॥
पुरुषं त्वमर्थं पुंसि सर्वगते ब्रह्मणि लीने सति प्रलयावस्थायां तम एवाभवत्सर्वं विशेषविज्ञानं सर्वं लुप्तमित्यर्थः ॥१६॥
तमसो ब्रह्म संभूतं तमोमूलामृतात्मकम्
।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम्॥१७॥
तमसः सकाशात् ब्रह्म जगत्कारणं परव्योमाख्यमुत्पन्नम् । तमः कुत उत्पन्नमित्याकांक्षायामाह - तमोमूलामृतात्मकमिति । अधिष्ठानमात्रात्मकम् उरग इव रज्जुमात्रात्मकः। तन्मूलामृतं स्वाध्यस्ततमसा उपेतं सद्विश्वे भावाः सर्वं रूपं संज्ञा नाम तदन्तं प्रपञ्चात्मकमित्यर्थः । पौरुषीं वैराजीम् ॥१७॥
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते
।
तदव्यक्तभिति ज्ञेयं त्रिगुणं नृपसत्तम॥१८॥
अनिरुद्ध एव सूक्ष्मरूपोऽव्यक्तसंज्ञितो ज्ञेयः ॥१८॥
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः
।
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः॥१९॥
विद्या निर्विशेषचिन्मात्राकारा चेतोवृत्तिः । अप्सु निर्विशेषे ब्रह्मणि शयनं चक्रे विलयं जगाम ॥१९॥
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्
।
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः॥२०॥
स एव चिद्रूपो जगतः सृष्टिं चिन्तयन् । 'बहु स्यां प्रजायेय' इतीक्षणं कुर्वन् ॥२०॥
अहंकारस्ततो जातो ब्रह्मा स तु चतुर्मुखः
।
हिरण्यगर्भो भगवान्सर्वलोकपितामहः॥२१॥
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः
।
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः॥२२॥
पद्मे ब्रह्माण्डे अनिरुद्धादहंकारात् संभूत आविर्भूतो ब्रह्मा ॥२२॥
ददृशेऽद्भुतसंकाशो लोकानापोमयान्प्रभुः
।
सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजन्॥२३॥
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे
।
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ॥२४॥
पद्मस्य पत्रे अण्डैकदेशे ॥२४॥
तावपश्यत्स भगवाननादिनिधनोऽच्युतः
।
एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः॥२५॥
स तामसो मधुर्जातस्तदा नारायणाज्ञया
।
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः॥२६॥
तावभ्यधावतां श्रेष्ठौ तमोरजसान्वितौ
।
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ॥२७॥
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम्
।
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्॥२८॥
ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वा सुरोत्तमौ
।
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा॥२९॥
अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान्
।
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ॥३०॥
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत्
।
ततो वचनमीशानं प्राह वेदैर्विनाकृतः॥३१॥
ब्रह्मोवाच।
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्
।
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम्॥३२॥
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः
।
अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः॥३३॥
वेदानृते हि किं कुर्यां लोकानां सृष्टिमुत्तमाम्
।
अहो बत महद्दुःखं वेदनाशनजं मम॥३४॥
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम्
।
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्॥३५॥
वेदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे
।
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम॥३६॥
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर
।
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः॥३७॥
ब्रह्मोवाच।
ॐनमस्ते ब्रह्महृदय नमस्ते मम पूर्वज
।
लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे प्रभो॥३८॥
रजस्तमोभ्यामभिभूतैर्नष्टज्ञानैरीश्वर एव जपध्यानादिना ज्ञानलाभार्थमनुसरणीय इत्याशयेनाह - ओं नमस्ते इति ॥३८॥
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित
।
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज
।
अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः॥३९॥
तुभ्यं तव लोकधामप्रकाशकः स चासौ स्वयंभूश्च तस्य ॥३९॥
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्
।
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम्॥४०॥
त्वत्तो म इति। ननु -
'ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः
।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥'
इति स्मृत्य 'स हायमीक्षांचक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमि इति कस्माद्ध्यमेष्यत् द्वितीयाद्वै भयं भवति' इति श्रुत्या तद्भाष्येण च ब्रह्मणः स्वतःसिद्धज्ञानत्वमुक्तम्। सति च ज्ञाने जन्मान्तरं नास्तीति कथं तस्य सप्तजन्मान्युच्यन्ते । अभ्युपगमे त्वाजानसिद्धज्ञानस्य वैफल्यम्। अतो व्यर्थं मोक्षधर्मान्वाख्यानमिति चेदत्र ब्रूमः - अत्र ह्यहंकारादुत्पन्नश्चतुर्मुखः स्वस्य वैराजं रूपं सर्वनामरूपात्मकमनुसन्दधानो मन्यते यदा यदा यद्यत्प्रकाशते तत्तदैवोत्पन्नमिति तावन्ति वैराजानि जन्मानीति । स्थूलप्रपञ्चात्मकं मानसं भोगद्वारा मनस्तृप्तिकरं प्रथमं वैराजं जन्म । रूपप्रपञ्चात्मकं चाक्षुषं ततोऽपि बाह्यत्वाद्द्वितीयम् ॥४०॥
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत्
।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो॥४१॥
वचनमात्रोपस्थापितमेरुस्वर्गाद्यात्मकं ततोऽपि बाह्यत्वात्तृतीयम् । अस्य भोग्यतयाऽन्तस्योपस्थापको वेदात्मा नाम प्रपञ्चस्ततोऽपि बाह्यत्वाच्चतुर्थः ॥४१॥
नासत्यं चापि मे जन्म त्वत्तः परममुच्यते
।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्॥४२॥
नासत्यमिति । अश्विदैवत्यघ्राणजं जन्म गन्धप्रपञ्चात्मकं नामोल्लेखपूर्वकरूपस्मारकतया ततोऽपि बहिरङ्गत्वात्पञ्चमम् । अण्डं ब्रह्माण्डं तद्दर्शनसंस्कारजं वासनात्मकं स्वाप्नप्रपञ्चमयं ततोऽपि बाह्यं षष्ठम् ॥४२॥
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो
।
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित॥४३॥
ततोऽपि बाह्यं पद्यते गम्यत इति वा पदनीयं वा पाद्यं सर्वप्राणिधीवासनोद्बोधकं कारणात्मकमिदं सप्तमम्। इतोऽपि बाह्यस्त्वं शुद्धचिन्मात्रोऽष्टमः सर्वेषु कार्येष्वनुगतत्वात्पिताऽहं च त्वत्सत्तयैव कार्यसप्तकरूपेण मानसतया त्वत्पुत्रोऽस्मीत्याह - सर्गे सर्गे इति ॥४३॥
प्रथमं पुण्डरीकाक्षः प्रधानगुणकल्पितः
।
त्वमीश्वरः स्वभावश्च कर्मबन्धः स्वयंभुवः ॥४४॥
प्रधानं मुख्यो गुणः सत्त्वं तेन कल्पितः शुद्धसत्त्वमयशरीर इत्यर्थः ॥४४॥
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः
।
ते मे वेदा हताश्चक्षुरन्धो जातोऽस्मि जागृहि॥४५॥
यतो वेदचक्षुरहम् अतो वयोतिगः कालवित् अध्यायशेषः स्पष्टार्थः॥४५॥
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोऽसि मे
।
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः॥४६॥
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः
।
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः॥४७॥
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा
।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः॥४८॥
तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका
।
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः॥४९॥
कर्णावाकाशपाताले ललाटं भूतधारिणी
।
गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी॥५०॥
चक्षुषी सोमसूर्यो ते नासा संध्या पुनः स्मृता
।
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता॥५१॥
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः
।
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः॥५२॥
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा
।
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्॥५३॥
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः
।
रसां पुनः प्रविष्टश्च योगं परममास्थितः॥५४॥
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम्
।
स स्वरः सानुनादी च सर्वशः स्निग्ध एव च॥५५॥
बभूवान्तर्महीभूतः सर्वभूतगुणो हितः
।
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्॥५६॥
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ
।
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः॥५७॥
जग्राह वेदानखिलान् रसातलगतान्हरिः
।
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः॥५८॥
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ
।
वेदानामालयं चापि बभूवाश्वशिरास्ततः॥५९॥
अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ
।
पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ॥६०॥
यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च
।
तत उत्तममास्थाय वेगं बलवतां वरौ॥६१॥
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा
।
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्॥६२॥
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्
।
भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम्॥६३॥
आत्मप्रमाणरचिते अपामुपरि कल्पिते
।
शयने नागभोगाढ्ये ज्वालामालासमावृते॥६४॥
निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम्
।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्॥६५॥
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ
।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः॥६६॥
अनेन नूनं वेदानां कृतमाहरणं रसात्
।
कस्यैष को नु खल्वेष किं न स्वपिति भोगवान्॥६७॥
इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्
।
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः॥६८॥
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे
।
अथ युद्धं समभवत्तयोर्नारायणस्य वै॥६९॥
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ
।
ब्रह्मणोपचितिं कुर्वन् जघान मधुसूदनः॥७०॥
ततस्तयोर्वधेनाशु वेदापहरणेन च
।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः॥७१॥
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः
।
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्॥७२॥
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम्
।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः॥७३॥
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्
।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्॥७४॥
एवमेव महाभागो बभूवाश्वशिरा हरिः
।
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम्॥७५॥
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा
।
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन॥७६॥
आराध्य तपसोग्रेण देवं हयशिरोधरम्
।
पाञ्चालेन क्रमः प्राप्तो देवेन पथि देशिते॥७७॥
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्
।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि॥७८॥
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्
।
तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना॥७९॥
एष वेदनिधिः श्रीमानेष वै तपसो निधिः
।
एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हविर्विभुः॥८०॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः
।
तपो नारायणपरं नारायणपरा गतिः॥८१॥
नारायणपरं सत्यमृतं नारायणात्मकम्
।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः॥८२॥
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः
।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः॥८३॥
अपां चापि गुणा राजन्रसा नारायणात्मकाः
।
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम्॥८४॥
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः
।
नारायणात्मकश्चैव शब्द आकाशसंभवः॥८५॥
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्
।
नारायणपरः कालो ज्योतिषामयनं च यत्॥८६॥
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः
।
नारायणपरं सांख्यं योगो नारायणात्मकः॥८७॥
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम्
।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम्॥८८॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्
।
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम्॥८९॥
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः
।
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः॥९०॥
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः
।
ब्रह्मादीनां स लोकानामृषीणां च महात्मनाम्॥९१॥
सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम्
।
मनीषितं विजानाति केशवो न तु तस्य ते॥९२॥
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते
।
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत्॥९३॥
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः
।
सर्वभूतकृतावसो वासुदेवेति चोच्यते॥९४॥
अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवर्जिताख्यः
।
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः॥९५॥
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति
।
ज्ञानात्मका: सन्ति हि ये महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम्॥९६॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४७॥
जनमेजय उवाच।
अहो होकन्तिनः सर्वान्प्रीणाति भगवान्हरिः
।
विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम्॥१॥
यान्येतानि ब्रह्मणः सप्तजन्मान्युक्तानि मानसं चाक्षुषं वाचिकं श्रावणं नासत्यमंडजं पाद्मं चेति तान्येव परब्रह्मणः स्वरूपाणि तेषामेकोपास्तिस्तुतिद्वारा चरमस्तुतयेऽयमध्याय आरभ्यते - अहो ह्येकान्तिन इत्यादि । सर्वान्सप्तविधब्रह्मणो व्यस्तोपासकान्समस्तोपासकांश्च ॥१॥
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
।
तेषां त्वयाऽभिनिर्दिष्टा पारंपर्यागता गतिः॥२॥
दग्धेन्धनाः नष्टवासनाः पारंपर्यागता गुरुसंप्रदायागता गतिर्ज्ञानम् ॥२॥
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्
।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्॥३॥
चतुर्थ्याम् अनिरुद्धप्रद्युम्नसंकर्षणानपेक्ष्य चतुर्थ्यां वासुदेवाख्यायां हरिभक्तानां विशेषमाह - एकान्तिनस्त्विति । एकान्तिनो निष्कामभक्ताः ॥३॥
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः
।
अगत्वा गतयस्तिस्रो यद्गच्छत्यव्ययं हरिम्॥४॥
गतयः गतीः अनिरुद्धादींस्त्रीननुपास्यैव वासुदेवं गच्छतीत्यर्थः ॥४॥
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः
।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः॥५॥
जापकेभ्योऽपि भक्तानां श्रेष्ठां गतिमाह - सहेति ॥५॥
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्
।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा॥६॥
एकान्तिनां च का चर्या कदा चोत्पादिता विभो
।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे॥७॥
वैशम्पायन उवाच।
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे
।
अर्जुने विमनस्के च गीता भगवता स्वयम्॥८॥
अगतिर्गतिशून्यो ज्ञानधर्मः गतिर्गतिमान् उपासनाधर्मः ॥८॥
अगतिश्च गतिश्चैव पूर्वं ते कथिता मया
।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः॥९॥
संमितः समावेदेन पुरैवादियुगे कृतः
।
धार्यते स्वयमीशेन राजन्नारायणेन च॥१०॥
सामवेदेन संमितः सामवेदोक्तं तत्त्वमसीति वाक्यं यथाधिकारिणः सद्योज्ञानजनकम् एवं वैष्णवधर्मोऽपि शमादिमतां सद्यः कैवल्यहेतुरित्यर्थः । तथाच योगशास्त्रे तीव्रवैराग्यवतामासन्नं समाधिलाभं प्रस्तुत्य मृदुमध्यातिमात्रत्वात्ततोऽपि विशेष इति मृदुतीव्रमध्यतीव्रातिमात्रतीव्रवैराग्यवतामासन्न आसन्नतर आसन्नतमः समाधिलाभ इत्युक्त्वा ईश्वरप्रणिधानाद्वेतीश्वरप्रणिधानस्य सर्वाधिक्यमुच्यते । ईशेन महादेवेन ॥१०॥
एतदर्थं महाराज पृष्टः पार्थेन नारदः
।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः॥११॥
गुरुणा च मयाऽप्येष कथितो नृपसत्तम
।
यथा तत्कथितं तत्र नारदेन तथा शृणु॥१२॥
यदासीन्मानसं जन्म नारायणमुखोद्गतम्
।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्॥१३॥
यदासीदिति । अत्र मानसादीनां सप्तानां पूर्वपूर्वस्मिन्नुत्तरेषां सर्वेषामनुगमोऽस्ति न तूत्तरस्मिन्नुत्तरस्मिन्पूर्वपूर्वस्य । कारणं हि कार्येऽनुगतं न तु कार्यस्य कारणेऽनुगमोऽस्तीति प्रसिद्धं लोके । तत्र मानसं नाम स्थूलं समित्कुशाज्यगन्धपुष्पधूपदीपाद्युपकरणं शालग्रामब्राह्मणादिप्रतिमालम्बनं देवं पित्र्यं च धर्मं नारायणेनोपदिष्टं फेनपादयोऽनुवर्तन्ते इति श्लोकार्थः । अयं भावः - अग्न्यर्कतोयशालग्रामप्रतिमादिषु स्थूलालम्बनेष्वैकाग्र्येणादरनैरन्तर्यदीर्घकालोपोद्बलितां दृष्टिं दत्वोपासीनस्याग्न्यादीनां चेतनं रूपं दृष्टिगोचरं भवति । तत्र हि जडमध्यस्तं रज्यामिव सर्पः स यथा चिरं निरीक्ष्यमाणो लीयते रज्जुश्च प्रकाशते तद्वदिहाप्यग्न्यादीनां तीव्राभिनिवेशेन निरीक्ष्यमाणानां जाड्यं लीयते चैतन्यं च प्रकाशते । सेयं महाविदेहा नाम धारणा। यां प्रकृत्योक्तं योगसूत्रकृता - बहिरकल्पिता वृत्तिर्महाविदेहा तत्संयमात्प्रकाशावरणक्षय इति । देहविस्मरणे सति या बाह्याकारा वृत्तिः सा अकल्पिता अन्या कल्पिता अस्यां सिद्धायामेव प्रतिमादीनां जाड्यं तिरोधीयते नान्यथा । तद्वदनन्ते चैतन्ये परिच्छेदोऽप्यस्तस्तथैवेक्षणेन प्रविलापनीयस्तेन तदीयमानन्त्यं प्रकाशते । यत्कृष्णशरीरे यशोदयाऽर्जुनेन च दृष्टं तस्यापि सविशेषत्वमेव प्रविलाप्य निर्विशेषचिन्मात्रात्मना तिष्ठेदिति ॥१३॥
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत
।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे॥१४॥
वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपेदिरे
।
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः॥१५॥
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप
।
तदा पितामहेनैव सोमाद्धर्मः परिश्रुतः॥१६॥
यदासीच्चाक्षुषामिति । चाक्षुषं चक्षुर्ग्राह्यं तेजः सूर्यादिरश्मिरूपं तत्र निबिडतरशुक्लभास्वरान्धकारकल्पे प्रत्यस्तमितसमस्तविशेषरूपे दृष्टिं धारयतोऽपि पूर्ववद्देहविस्मरणे सति तत्रैव विश्वरूपं प्रकाशते । ततश्चिन्मात्रमिति द्वितीयो योगप्रकारः । एतौ द्वौ बाह्यालम्बनौ योगौ ॥१६॥
नारायणात्मको राजन्रुद्राय प्रददौ च तम्
।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप॥१७॥
बालखिल्यानृषीन्सर्वान्धर्ममेतदपाठयत्
।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया॥१८॥
आन्तरालम्बनं तृतीयमाह - तृतीयमिति । वाचिकं वाङ्निर्वर्त्यं मन्त्रार्थचिन्तनपूर्वकं जपं तत्रापि मातृकास्मरणमतीत्य मन्त्रार्थमात्रं ध्यायतस्तदाकारायां चित्तवृत्तौ पुनः पूर्ववद्वैश्वरुप्याधिगमद्वारा चिन्मात्रेणावस्थानम् ॥१८॥
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्
।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप॥१९॥
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्
।
तपसा वै सुतप्तेन दमेन नियमेन च॥२०॥
त्रिःपरिक्रान्तवान् त्रिरावर्तितवान् प्रत्यहमिति शेषः ॥२०॥
त्रिःपरिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम्
।
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते॥२१॥
ऋग्वेदपाठपठितं त्रिसौपर्णं चतुष्कपर्दा युवतिः सुपेशा इत्यादिसुपर्णलिङ्गकं मन्त्रत्रयम् ॥२१॥
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्
।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः॥२२॥
वायुना द्विपदां श्रेष्ठ कथितो जगदायुषा
।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः॥२३॥
ततो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम्
।
अन्तर्दधे ततो भूयो नारायणसमाहितः॥२४॥
यदा भूय इति । श्रवणजा अनाहतध्वनिरूपा । एतदेव नादब्रह्म हंसोपनिषत्प्रसिद्धम् ॥२४॥
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः
।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु॥२५॥
जगत्स्रष्टुमना देवो हरिनारायणः स्वयम्
।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम्॥२६॥
तदुपासनाज्जगत्सृष्ट्यादिसामर्थ्यं भवतीत्याह - अथेति ॥२६॥
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः
।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः॥२७॥
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा
।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत॥२८॥
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः
।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि॥२९॥
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे
।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्॥३०॥
आरण्यकेन सहितं नारायणमुखोद्भवम्
।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे॥३१॥
त्वं कर्ता युगधर्माणां निराशी:कर्मसंज्ञितम्
।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्॥३२॥
ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः
।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान्॥३३॥
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः॥३४॥
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्
।
पूजयामास देवेशं हरि नारायणं प्रभुम्॥३५॥
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः
।
अध्यापयामास तदा लोकानां हितकाम्यया॥३६॥
ततः स्वरोचिवः पुत्रं स्वयं शंखपदं नृप
।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः॥३७॥
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्
।
दिशां पालं सुवर्णाभमध्यापयत भारत
।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः॥३८॥
नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
।
धर्ममतं स्वयं देवो हरिर्नारायणः प्रभुः॥३९॥
नासत्ये जन्मनीति । नासत्येति पूर्वोक्तरीत्या गन्धसंवित् । सारसादिसंविदां प्रागुक्तानामुपलक्षणम् । अनाहतध्वनिश्चित्तैकाग्र्याभावेऽपि गुरूक्तयुक्त्या स्फुरति गन्धादिसंविदस्तु चित्तवैयग्र्यलक्षणेन स्फुरन्तीति पूर्वस्मात्सूक्ष्माः तत्रापि गन्धांश त्यक्त्वा संविन्मात्रे स्थेयमिति योगः ॥३९॥
तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा
।
सनत्कुमारो भगवांस्तत: प्राधीतवान्नृप॥४०॥
सनत्कुमारादपि च वीरणो वै प्रजापतिः
।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान्॥४१॥
वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ
।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे॥४२॥
कुक्षिनाम्ने स प्रददौ दिशां पालाय धर्मिणे
।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्भवः॥४३॥
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये
।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः॥४४॥
अण्डजे जन्मनि सूत्रात्मनि अत्र धारणायां सिद्धायामहं ब्रह्मास्मीति वाक्यश्रवणमात्रात्कृतकृत्यतेति न निर्विकल्पापेक्षाऽपीत्ययं सर्वापेक्षया श्रेयान् ॥४४॥
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि
।
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप॥४५॥
बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम्
।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः॥४६॥
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्
।
अन्तर्दधे ततो राजन्नेष धर्मः प्रभो हरेः॥४७॥
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप
।
तत्रैव धर्मः कथितः स्वयं नारायणेन ह॥४८॥
यदिदं सप्तममिति । अन्तर्यामिरूपं जन्म इदमेव समुपोढेष्वनीकेषु इत्यादिना उपक्रान्तं गीतायामुक्तमिति प्रत्यभिज्ञानार्थम् –
'इमं विवस्वते योगं प्रोक्तवानहमव्ययम्
।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्
।
'
इति तत्रत्यवंशकीर्तनेन द्रढयति - विवस्वान् जगृहे तत इत्यादिना ॥४८॥
पितामहाय शुद्धाय युगादौ लोकधारिणे
।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ॥४९॥
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम
।
आदित्ये सवितुर्ज्येष्ठे विवस्थाञ्जगृहे ततः॥५०॥
त्रेतायुगादौ च ततो विवस्वान्मनवे ददौ
।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ॥५१॥
इक्ष्वाकुना च कथितो व्याप्य लोकानवस्थितः
।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप॥५२॥
यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम
।
कथितो हरिगीतासु समासविधिकल्पितः॥५३॥
नारदेन सुसंप्राप्तः सरहस्यः ससंग्रहः
।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप॥५४॥
एवमेष महान्धर्म आद्यो राजन्सनातनः
।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा॥५५॥
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः॥५६॥
एकव्यूहविभागो वा क्वचिद्द्विर्व्यूहसंज्ञितः
।
त्रिर्व्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते॥५७॥
एकव्यूहेति । अत्रानिरुद्धश्चतुष्टयानुगतः प्रद्युम्नस्त्रितयानुगतः संकर्षणो द्वितयानुगतो वासुदेव एक एव । एतदेव व्युत्क्रमेणात्रोक्तम् । अधिकारतारतम्यादेषामुपासनानां व्यवस्था ॥५७॥
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा
।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः॥५८॥
जविश्च हरिरेवेति सम्बन्धः ॥५८॥
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम्
।
एष लोकविधिर्धीमानेष लोकविसर्गकृत्॥५९॥
मनश्चादहंकारोऽपि हरिरेवेत्यन्वयः । एष हरिः लोकविधिः लोकप्रवर्तकोऽन्तर्यामी ॥५९॥
अकर्ता चैव कर्ता च कार्यं कारणमेव च
।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः॥६०॥
एष एकान्तधर्मस्ते कीर्तितो नृपसत्तम
।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः॥६१॥
एकान्तधर्मः निष्कामानां भक्तानां धर्मः ॥६१॥
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप
।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन॥६२॥
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः
।
भवेत्कृतयुगप्राप्तिराशी: कर्मविवर्जिता॥६३॥
आशीःकर्म काम्यं कर्म ॥६३॥
एवं स भगवान्व्यासो गुरुर्मम विशांपते
।
कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः॥६४॥
ऋषीणां संनिधौ राजन् शृण्वतोः कृष्णभीष्मयोः
।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः॥६५॥
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्
।
यत्र चैकान्तिनो यान्ति नारायणपरायणाः॥६६॥
जनमेजय उवाच।
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्
।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः॥६७॥
योगधर्मानादरहेतुमविद्यां दर्शयति - एवमित्यादिना ॥६७॥
वैशम्पायन उवाच।
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः
।
सात्त्विकी राजसी चैव तामसी चैव भारत॥६८॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
।
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः॥६९॥
देहबन्धेषु देह एव बन्धो येषां तेषु जीवेषु पुरुषः सात्त्विकः श्रेष्ठ इति योजना ॥६९॥
अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम्
।
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः॥७०॥
सात्त्विकलक्षणमाह - अत्रापीत्यादिना ॥७०॥
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्
।
एकान्तभक्तिः सततं नारायणपरायणः॥७१॥
मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः
।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः॥७२॥
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः
।
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः॥७३॥
जायमानमिति । जन्ममरणादिदुःखभाजं पश्येत् । कृपयेति शेषः ॥७३॥
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः
।
नारायणात्मके मोक्षे ततो यान्ति परां गतिम्॥७४॥
नारायणेन दृष्टस्तु प्रतिबुद्धो भवेत्पुमान्
।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते॥७५॥
ईशकृपयैव ज्ञानं जायते न त्वात्मेच्छयेत्याह - नारायणेनेति । तस्माद्भक्तिरास्थेयेति मात्रः ॥७५॥
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते
।
तदात्मकं हि पुरुषं जायमानं विशांपते॥७६॥
भक्त्यभावे दोषमाह - राजसीति। व्यामिश्रे सदोषे ॥७६॥
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्
।
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः॥७७॥
एनं राजसं ब्रह्मा पश्यति प्रवृत्तिमार्गे नियोजयतीत्यर्थः ॥७७॥
रजसा तमसा चैव मानसं समभिप्लुतम्
।
कामं देवा ऋषयश्च सत्त्वस्था नृपसत्तम॥७८॥
हीनाः सत्त्वेन सीक्ष्मेण ततो वैकारिकाः स्मृताः
।
जनमेजय उवाच।
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्॥७९॥
वैकारिकाः सात्त्विकाहंकारजाः सूक्ष्मेणापि सत्त्वेन त्यक्ताः सन्तः कदाचिन्मुच्यन्त इत्यर्थः । अत एव इन्द्रादीनां तत्त्वज्ञानं श्रूयते छान्दोग्यादिषु। वैकारिकोऽहंकारः जीवः पुरुषोत्तमं कथं गच्छेत् । अन्यस्यान्यात्मताऽयोगान्न जीवस्य ब्रह्मभावो घटत इत्यर्थः ॥७९॥
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम्
।
वैशम्पायन उवाच।
सुसूक्ष्मं सत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः॥८०॥
अत्रानुभव एव मानमित्याह - सुसूक्ष्ममिति । सुसूक्ष्मं दुर्ग्राह्यम्। तत्त्वेन अनारोपितेन रूपेण संयुक्तम् अधिष्ठानमात्रम् अथवा ब्रह्मैव चतुर्विंशतितत्त्वरूपोपाधियुतम् । तदेव त्रिभिरक्षरैरकारोकारमकारैः संयुक्तं सम्यक्समाहितम् उपाधित्यागेन ॥८०॥
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकः
।
एवमेकं सांख्ययोगं वेदारण्यकमेव च॥८१॥
एतदेव पुरुषः पुरुषं गच्छेदित्युच्यते न तत्र प्राप्यप्राप्तृत्वलक्षणो नगरनरवद्भेदोऽस्ति किं तूपाधिवियोग एव तत्प्राप्तिरित्यर्थः । एवमेकं समुच्चितम् । सांख्यमात्मानात्मविवेकः । योगश्चित्तवृत्तिनिरोधः । वेदारण्यकं जीवब्रह्माभेदपरं तत्वमस्यादिवाक्यजं ज्ञानम् ॥८१॥
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते
।
एष एकान्तिनां धर्मो नारायणपरात्मकः॥८२॥
पाञ्चरात्रं भक्तिमार्गः परमगुरौ कृतानां वैदिकानां कर्मणामर्पणम्। एतत्सर्वमेककार्यकारित्वात्समुच्चितमेव न तु विकल्पितमित्यर्थः । उपसंहरति एष इति। नारायणपरात्मकः नारायणनिष्ठः ॥८२॥
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन् पुनराविशन्ति
।
इमे तथा ज्ञानमहाजलौघानारायणं वै पुनराविशन्ति॥८३॥
एष ते कथितो धर्मः सात्वतः कुरुनन्दन
।
कुरुरुष्वैनं यथान्यायं यदि शक्तोऽसि भारत्॥८४॥
एवं हि स महाभागो नारदो गुरवे मम
।
श्वेतानां यतिनां चाह एकान्तगतिमव्ययाम्॥८५॥
श्वेतानां गृहस्थादीनाम् । यतीनां काषायधारिणाम् ॥८५॥
व्यासश्चकथयत्प्रीत्या धर्मपुत्राय धीमते
।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः॥८६॥
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम
।
यथैव त्वं तथैवान्ये भवन्तीह विमोहिताः॥८७॥
कृष्ण एव हि लोकानां भावनो मोहनस्तथा
।
संहारकारकश्चैव कारणं च विशांपते॥८८॥
कृष्णाद्वैतं प्रतिपादितं निगमयति - कृष्ण एवेति । भावनः पालकः ॥८८॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकान्तिकभावे अष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४८॥
जनमेजय उवाच।
सांख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च
।
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह॥१॥
कृष्णाद्वैतमुक्तं तत्सांख्यादिभिः सर्वैः प्राप्यमेवेति चोक्तम् । तत्र तैः समुचितैर्विकल्पितैर्वा प्राप्यं तदिति संदिहानः पृच्छति - सांख्यमिति ॥१॥
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने
।
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्॥२॥
वैशम्पायन उवाच।
जज्ञे बहुशं परमत्युदारं यं द्वीपमध्ये सुतमात्मयोगात्
।
पराशरात्सत्यवती महर्षि तस्मै नमोऽज्ञानतमोनुदाय॥३॥
अज्ञानतमोनुदायेति च्छेदः ॥३॥
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम्
।
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेद महानिधानम्॥४॥
पितामहस्य आद्यो नारायणस्तं यं षष्ठं नारायणावतारं वदन्तीत्यर्थः । तथाहि । कार्यस्य कारणानन्यत्वाद्वा आत्मा वै पुत्र नामाऽसि इति गौणाभेदाद्वा व्यासस्य नारायणांशत्वाद्वा षष्ठे नारायणत्वम् । ऋषिर्हिरण्यगर्भस्तदीयैश्वर्ययुक्तं नारायणस्यांशजं ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणांशजम्' इति स्मृतेः। पितामहाद्यमारभ्य यं षष्ठं वदन्तीति वा यस्मात् पितामहाद्यं षष्ठं वदन्तीति वाऽध्याहृत्य योज्यम्। सर्वथाऽपि पितामहाद्यमित्येकं पदम् ॥४॥
तमादिकालेषु महाविभूतिर्नारायणो ब्रह्ममहानिधानम्
।
ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजं पुराणम्॥५॥
जनमेजय उवाच।
त्वयैव कथितं पूर्वं संभवे द्विजसत्तम
।
वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः॥६॥
नारायणः पुत्रार्थं व्यासं ससर्जेत्येतदाक्षिपति - त्वयैवेति । अत आरभ्य भक्तानां स्नेहतो मयेत्यन्तो ग्रंथः स्पष्टार्थः ॥६॥
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः
।
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे॥७॥
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः
।
कथयस्वोत्तममते जन्म नारायणोद्भवम्॥८॥
वैशम्पायन उवाच।
वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः
।
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः॥९॥
कृत्वा भारतमाख्यानं तप:श्रान्तस्य धीमतः
।
शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा॥१०॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः
।
अहं चतुर्थः शिष्यो वै शुकोव्यासात्मजस्तथा॥११॥
एभिः परिवृतो व्यास: शिष्यैः पञ्चभिरुत्तमैः
।
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा॥१२॥
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः
।
तमेकमनसं दान्तं युक्ता वयमुपास्महे॥१३॥
कथान्तरेऽथ कस्मिंश्चित्पृष्टोस्माभिर्द्विजोत्तमः
।
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा॥१४॥
स पूर्वमुक्त्वा वेदार्थान् भारतार्थांश्च तत्त्ववित्
।
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे॥१५॥
शृणुध्वमाख्यानवरमिदमार्षेयमुत्तमम्
।
आदिकालोद्भवं विप्रास्तपसाधिगतं मया॥१६॥
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे
।
नारायणो महायोगी शुभाशुभविवर्जितः॥१७॥
ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः
।
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्॥१८॥
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः
।
सृज प्रजास्त्वं विविधा ब्रह्मन् सजडपण्डिताः॥१९॥
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः
।
प्रणम्य वरदं देवमुवाच हरिमीश्वरम्॥२०॥
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते
।
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्॥२१॥
स एवमुक्तो भगवान्भूत्वाऽथान्तर्हितस्ततः
।
चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः॥२२॥
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम्
।
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा॥२३॥
स तामैश्वर्ययोगस्थां बुद्धिं गतिमतीं सतीम्
।
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः॥२४॥
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये
।
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा॥२५॥
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः
।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः॥२६॥
बाढमित्येव कृत्वासौ यथाऽऽज्ञां शिरसा हरेः
।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत॥२७॥
प्राप चैनं मुहूर्तेन संस्थानं देवसंज्ञितम्
।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्॥२८॥
अथास्य बुद्धिरभवत्पुनरन्या तदा किला
।
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना॥२९॥
दैत्यदानवगन्धर्वरक्षोगणसमाकुला
।
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी॥३०॥
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः
।
भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान्॥३१॥
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः
।
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः॥३२॥
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया
।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्॥३३॥
निग्रहेण च पापानां साधूनां प्रग्रहेण च
।
इयं तपस्विनी सत्या धारयिष्यति मेदिनी॥३४॥
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना
।
मया धृता धारयति जगद्विश्वं चराचरम्॥३५॥
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः
।
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः॥३६॥
रूपाण्यनेकान्यसृजत्प्रादुर्भावे भवाय सः
।
वाराहं नारसिंह च वामनं मानुषं तथा॥३७॥
एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः
।
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्॥३८॥
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्
।
अपान्तरतमा नाम सुतो वाक्सम्भवः प्रभुः॥३९॥
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः
।
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः॥४०॥
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर
।
तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने॥४१॥
सेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे
।
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा॥४२॥
तपसा च सुतप्तेन यमेन नियमेन च
।
मन्वन्तरेषु पुत्रत्वमेवमेव प्रवर्तकः॥४३॥
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः
।
पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः॥४४॥
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि
।
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति॥४५॥
परस्परविनाशार्थं त्वामृते द्विजसत्तम
।
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसाऽन्वितः॥४६॥
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि
।
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा
।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे॥४७॥
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति
।
महेश्वरप्रसादेन नैतद्वचनमन्यथा॥४८॥
यं मानसं वै प्रवदन्ति विप्राः पितामहस्योत्तमबुद्धियुक्तम
।
वसिष्ठमग्र्यं च तपोनिधानं यस्यातिसूर्यं व्यतिरिच्यते भाः॥४९॥
तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः
।
पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः॥५०॥
कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः॥५१॥
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः
।
ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः॥५२॥
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसाऽन्वितः
।
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्॥५३॥
अनादिनिधनं लोके चक्रहस्तं च मां मुने
।
अनुध्यानान्मम मुने नैतद्वचनमन्यथा॥५४॥
भविष्यति महासत्त्व ख्यातिश्चाप्यतुला तव
।
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान्॥५५॥
तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः
।
त्वमेव भविता वत्स मत्प्रसादान्न संशयः॥५६॥
यत्किञ्चिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम्
।
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम्॥५७॥
एवं सारस्वतमृषिमपान्तरतमं तथा
।
उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्॥५८॥
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः
।
अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः
।
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः॥५९॥
तदेतत्कथितं जन्म मा पूर्वकमात्मनः
।
नारायणप्रसादेन तथा नारायणांशजम्॥६०॥
मया हि सुमहत्तप्तं तपः परमदारुणम्
।
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना॥६१॥
एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः
।
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया॥६२॥
अत्रैव केचिदध्यायं समापयन्ति ॥६२॥
वैशम्पायन उवाच।
एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप
।
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु॥६३॥
प्रासंगिकोपसंहारपूर्वकं प्रश्नस्योत्तरं वक्तुं प्रतिजानीते - एष त इति ॥६३॥
सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा
।
ज्ञानान्येतानि राजर्षे विद्धि नामामतानि वै॥६४॥
नानामतानि भिन्नप्रस्थानानि ॥६४॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते
।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः॥६५॥
सर्वेषां प्रामाण्यसिद्धये विशिष्टकर्तृत्वेन सर्वाणि स्तौति - सांख्यस्येत्यादिना ॥६५॥
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते
।
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन॥६६॥
उमापतिर्भूतपति: श्रीकण्ठो ब्रह्मणः सुतः
।
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः॥६७॥
पाञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम्
।
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते॥६८॥
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः
।
न चैनमेवं जानन्ति तमोभूता विशाम्पते॥६९॥
आगमं वेदं ज्ञानमनुभवं चानतिक्रम्य एतेषां सर्वेषां निष्ठा परमतात्पर्यविषयीभूतोऽर्थस्तु नारायणः परमात्मैवेति दृश्यत इत्यर्थः । अत्र भिन्नप्रस्थानत्वाभिमानो मूढानामेवेत्याह - न चेति ॥६९॥
तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः
।
निष्ठां नारायणमृर्षि नान्योऽस्तीति वचो मम॥७०॥
स्वमतमाह - तमेवेति ॥७०॥
नि:संशयेषु सर्वेषु नित्यं वसति वै हरिः
।
ससंशयान्हेतुबलान्नाध्यावसति माधवः॥७१॥
निःसंशयेषु श्रुत्यनुभवबलादिति शेषः । हेतुबलात्कुतर्कबलात् ससंशयान् ॥७१॥
पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप
।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै॥७२॥
ईदृशा एव पाञ्चरात्रा अपि मुच्यन्त इत्याह - पाञ्चरात्रेति ॥७२॥
सांख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन्
।
सर्वैः समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्॥७३॥
सनातने श्रुतिप्रतिपादितत्वादाद्यन्तशून्ये उभे अपि । तेन पाञ्चरात्रस्य पुंप्रणीतत्वं वेदविरुद्धत्वं च सूचितं तथाऽपि अवान्तरतात्पर्यभेदेऽपि परमतात्पर्यं त्वेकमेवेत्याह - सर्वैरिति । ‘इदं विश्वं नारायणः' इति । 'इदं सर्वं यदयमात्मा ब्रह्मैवेदं सर्वम्' इत्यादिश्रुतेरर्थो ब्रह्माद्वैतरूपो दर्शितः ॥७३॥
शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किञ्चित्
।
तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चेति॥७४॥
शुभाशुभमिति । सर्वत्र नारायण एव प्रवर्तकोऽन्तर्यामीत्यर्थः । समीरितं वेदे विहितम् । तस्मादृषेर्नारायणात् ॥७४॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वैपायनोत्पत्तौ एकोनपञ्चाशदधिकत्रिशततमोऽध्यायः ॥३४९॥