नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच।हते दुर्योधने चैव हते सैन्ये च सर्वशः
।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने॥१॥
तथैव कौरवो राजा धर्मपुत्रो महामनाः
।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥२॥
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः
।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः॥३॥
वैशम्पायन उवाच।हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्
।
पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम्॥४॥
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्
।
अभिगम्य महाराज सञ्जयो वाक्यमब्रवीत्॥५॥
किं शोचसि महाराज नास्ति शोके सहायता
।
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते॥६॥
निर्जितेयं वसुमती शून्या सम्प्रति केवला
।
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः॥७॥
सहैव तव पुत्रेण सर्वे वै निधनं गताः
।
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा
।
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः॥८॥
वैशम्पायन उवाच।तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः
।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः॥९॥
धृतराष्ट्र उवाच।हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः
।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम्॥१०॥
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै
।
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः॥११॥
हृतराज्यो हतबन्धुर्हतपुत्रश्च वै तथा
।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्॥१२॥
न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः
।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च॥१३॥
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम
।
अलं वैरेण ते राजन्पुत्रः सङ्गृद्यतामिति॥१४॥
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः
।
न हि श्रोताऽस्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्॥१५॥
दुर्योधनस्य च तथा वृषभस्येव नर्दतः
।
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्॥१६॥
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते
।
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम्॥१७॥
यस्येदं फलमद्येह मया मूढेन भुज्यते
।
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु॥१८॥
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्
।
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे॥१९॥
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः
।
कोऽन्योऽस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि॥२०॥
तन्ममाद्यैव पश्यन्तु पाण्डवाः संशितव्रताः
।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्॥२१॥
वैशम्पायन उवाच।तस्य लालप्यमानस्य बहुशोकं वितन्वतः
।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत्॥२२॥
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः
।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम॥२३॥
सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा
।
यथा यौवनजं दर्पमास्थिते ते सुते नृप॥२४॥
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्
।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना॥२५॥
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्
।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः॥२६॥
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्
।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः॥२७॥
शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्
।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च॥२८॥
द्रोणस्य च महाराज कृपस्य च शरद्वतः
।
कृष्णस्य च महाबाहो नारदस्य च धीमतः
।
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः॥२९॥
न कृतं तेन वचनं तव पुत्रेण भारत
।
न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमभीप्सता॥३०॥
अल्पबुद्धिरहङ्कारी नित्यं युद्धमिति ब्रुवन्
।
क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्॥३१॥
श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा
।
न मुह्यन्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः॥३२॥
न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष
।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः॥३३॥
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान्
।
दुर्धरेण त्वया भारस्तुलया न समं धृतः॥३४॥
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम्
।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते॥३५॥
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम्
।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि॥३६॥
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति
।
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान्॥३७॥
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते फलम्
।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम्॥३८॥
स्वयमुत्पादयित्वाऽग्निं वस्त्रेण परिवेष्टयन्
।
दह्यमानो मनस्तापं भजते न स पण्डितः॥३९॥
त्वयैव ससुतेनायं वाक्यवायुसमीरितः
।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः॥४०॥
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः
।
तान्वै शराग्निनिर्दग्धान्न त्वं शोचितुमर्हसि॥४१॥
यच्चाश्रुपातकलिलं वदनं वहसे नृप
।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः॥४२॥
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्
।
जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना॥४३॥
वैशम्पायन उवाच।एवमाश्वासितस्तेन सञ्जयेन महात्मना
।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप॥४४॥
वैशम्पायन उवाच।ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्
।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्॥१॥
विदुर उवाच।उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना
।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः॥२॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥३॥
यदा शूरं च भीरुं च यमः कर्षति भारत
।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ॥४॥
अयुध्यमानो म्रियते युध्यमानश्च जीवति
।
कालं प्राप्य महाराज न कश्चिदतिवर्तते॥५॥
अभावादीनि भूतानि भावमध्यानि भारत
।
अभावनिधनान्येव तत्र का परिदेवना॥६॥
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः
।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥७॥
कालः कर्षति भूतानि सर्वाणि विविधान्युत
।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥८॥
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः
।
तथा कालवशं यान्ति भूतानि भरतर्षभ॥९॥
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्
।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥१०॥
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि
।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्॥११॥
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः
।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥१२॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः
।
नैते तव न तेषां त्वं तत्र का परिदेवना॥१३॥
हतो हि लभते स्वर्गं जित्वा च लभते यशः
।
उभयं नो बहुगुणं नास्ति निष्फलता रणे॥१४॥
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति
।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ॥१५॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया
।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः॥१६॥
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः
।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः॥१७॥
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्
।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते॥१८॥
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः
।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि॥१९॥
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ
।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि॥२०॥
मातापितृसहस्राणि पुत्रदारशतानि च
।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥२१॥
शोकस्थानसहस्राणि भयस्थानशतानि च
।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥२२॥
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम
।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति॥२३॥
कालः पचति भूतानि कालः संहरते प्रजाः
।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥२४॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः
।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः॥२५॥
न जानपदिकं दुःखमेकः शोचितुमर्हसि
।
अप्यभावेन युज्येत तच्चास्य न निवर्तते॥२६॥
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्
।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्॥२७॥
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते
।
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च॥२८॥
मानुषा मानसैर्दुःखैर्दह्यन्ते चाऽल्पबुद्धयः
।
नार्थो न धर्मो न सुखं यदेतदनुशोचसि॥२९॥
न च नाप्नौति कार्यार्थन्त्रिवर्गाच्चैव हीयते
।
अन्यामन्यां धनावस्थां प्राप्य वैषयिकीं नराः॥३०॥
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः
।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्॥३१॥
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति
।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्॥३२॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
।
तस्यां तस्यामवस्थायां तत्तत्फलमवाप्नुते॥३३॥
येन येन शरीरेण यद्यत्कर्म करोति यः
।
तेन तेन शरीरेण तत्फलं समुपाश्नुते॥३४॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
।
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च॥३५॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्॥३६॥
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु
।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः॥३७॥
धृतराष्ट्र उवाच।सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम
।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः॥१॥
अनिष्टानां च संसर्गादिष्टानां च विसर्जनात्
।
कथं हि मानसैर्दुःखैः प्रमुच्यन्ते तु पण्डिताः॥२॥
विदुर उवाच।यतो यतो मनो दुःखात्सुखाद्वा विप्रमुच्यते
।
ततस्ततो नियम्यैतच्छान्तिं विन्देत वै बुधः॥३॥
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ
।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते॥४॥
यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः
।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः॥५॥
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः
।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः॥६॥
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्
।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः॥७॥
गृहाणीव हि मर्त्यानामाहुर्देहानि पण्डिताः
।
कालेन विनियुज्यन्ते सत्वमेकं तु शाश्वतम्॥८॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः
।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्॥९॥
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्
।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा॥१०॥
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत
।
ततो वहति तं भारमवशः स्ववशोऽपि वा॥११॥
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते
।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा॥१२॥
छन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा
।
आर्द्रं वाप्यथवा शुष्कं पच्यमानमथापि वा॥१३॥
उत्तार्यमाणमापाकादुद्धृतं चापि भारत
।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम्॥१४॥
गर्भस्थो वा प्रसूतो वाऽप्यथवा दिवसान्तरः
।
अर्धमासगतो वापि मासमात्रगतोऽपि वा॥१५॥
संवत्सरगतो वापि द्विसंवत्सर एव वा
।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते॥१६॥
प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च
।
एवं सांसिद्धिके लोके किमर्थमनुतप्यसे॥१७॥
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन्
।
उन्मज्जेच्च निमज्जेच्च किञ्चित्सत्त्वं नराधिप॥१८॥
एवं संसारगहने उन्मज्जननिमज्जने
।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः॥१९॥
ये तु प्राज्ञाः स्थिताः सत्त्वे संसारेस्मिन् हितैषिणः
।
समागमज्ञा भूतानां ते यान्ति परमां गतिम्॥२०॥
धृतराष्ट्र उवाच।कथं संसारगहनं विज्ञेयं वदतां वर
।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः॥१॥
विदुर उवाच।जन्मप्रभृति भूतानां क्रिया सर्वोपलक्ष्यते
।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम्॥२॥
ततः स पञ्चमेऽतीते मासे वा समकल्पयत्
।
ततः सर्वाङ्गसम्पूर्णो गर्भो वै स तु जायते॥३॥
अमेध्यमध्ये वसति मांसशोणितलेपने
।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः॥४॥
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति
।
योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः॥५॥
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्
।
ग्रहास्तमनुगच्छन्ति सारमेया इवामिषम्॥६॥
ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा
।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः॥७॥
तं बद्धमिन्द्रियैः पाशैः सङ्गस्वादुभिरावृतम्
।
व्यसनान्यपि वर्तन्ते विविधानि नराधिप॥८॥
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः
।
तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा॥९॥
तथैव परिपश्यन्ति ये ध्यानपरिनिष्ठिताः
।
अयं न बुध्यते तावद्यमलोकमथागतम्॥१०॥
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति
।
वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे
।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपेक्षते॥११॥
अहो विनिकृतो लोको लोभेन च वशीकृतः
।
लोभक्रोधभयोन्मत्तो नात्मानमवबुध्यते॥१२॥
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन्
।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्॥१३॥
मूर्खानिति परानाह नात्मानं समवेक्षते
।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति॥१४॥
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः
।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः॥१५॥
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः
।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः॥१६॥
विशेषं न प्रपश्यन्ति तत्र तेषां परे जनाः
।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्॥१७॥
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले
।
कस्मादन्योन्यमिच्छन्ति प्रलब्धुमिह दुर्बुधाः
।
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम्॥१८॥
अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्
।
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्॥१९॥
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते
।
स प्रमोक्षयते सर्वान्पन्थानो मनुजेश्वर॥२०॥
धृतराष्ट्र उवाच।यदिदं धर्मगहनं बुद्ध्या समनुगम्यते
।
तद्धि विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे॥१॥
विदुर उवाच।अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे
।
यथा संसारगहनं वदन्ति परमर्षयः॥२॥
कश्चिन्महति कान्तारे वर्तमानो द्विजः किल
।
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम्॥३॥
सिंहव्याघ्रगजर्क्षौघैरतिघोरं महास्वनैः
।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा॥४॥
समन्तात्सम्परिक्षिप्तं यत् स्म दृष्ट्वा त्रसेद्यमः
।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्॥५॥
अभ्युच्छ्रयं च रोम्णां वै विक्रियाश्च परन्तप
।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः॥६॥
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति
।
स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः॥७॥
न च निर्याति वै दूरं न वा तैर्विप्रमोच्यते
।
अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम्॥८॥
बाहुभ्यां सम्परिक्षिप्तं स्त्रिया परमघोरया
।
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः॥९॥
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्
।
वनमध्ये च तत्राभूदुदपानः समावृतः॥१०॥
वल्लीभिस्तृणच्छन्नाभिर्दृढाभिरभिसंवृतः
।
पपात स द्विजस्तत्र निगूढे सलिलाशये॥११॥
विलग्नश्चाभवत्तस्मिन्लतासन्तानसङ्कुले
।
पनसस्य यथा जातं वृन्तबद्धं महाफलम्॥१२॥
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधःशिराः
।
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः॥१३॥
कूपमध्ये महानागमपश्यत महाबलम्
।
कूपवीनाहवेलायामपश्यत महागजम्॥१४॥
षड्वक्त्रं कृष्णशुक्लं च द्विषट्कपदचारिणम्
।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्॥१५॥
तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः
।
नानारूपा मधुकरा घोररूपा भयावहाः॥१६॥
आसते मधु संवृत्य पूर्वमेव निकेतजाः
।
भूयो भूयः समीहन्ते मधूनि भरतर्षभ॥१७॥
स्वादनीयानि भूतानां यैर्बालो विप्रकृष्यते
।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा॥१८॥
आलम्बमानः स पुमान्धारां पिबति सर्वदा
।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे॥१९॥
अभीप्सति तदा नित्यमतृप्तः स पुनः पुनः
।
न चास्य जीविते राजन्निर्वेदः समजायत॥२०॥
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता
।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः॥२१॥
व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया
।
कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च॥२२॥
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम्
।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्॥२३॥
एवं स वसते तत्र क्षिप्तः संसारसागरे
।
न चैव जीविताशायां निर्वेदमुपगच्छति॥२४॥
धृतराष्ट्र उवाच।अहो खलु महद्दुःखं कृच्छ्रवासश्च तस्य ह
।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर॥१॥
स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे
।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्॥२॥
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा
।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि॥३॥
विदुर उवाच।उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम्
।
सुकृतिं विन्दते येन परलोकेषु मानवः॥४॥
उच्यते यत्तु कान्तारं महासंसार एव सः
।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत्॥५॥
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः
।
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै॥६॥
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्
।
यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्॥७॥
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः
।
अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ॥८॥
कूपमध्ये च या जाता वल्ली यत्र स मानवः
।
प्रताने लम्बते लग्नो जीविताशा शरीरिणाम्॥९॥
स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति
।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः॥१०॥
मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः
।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा॥११॥
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः
।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः॥१२॥
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्
।
तांस्तु कामरसान्विन्द्याद्यत्र मज्जन्ति मानवाः॥१३॥
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः
।
येन संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः॥१४॥
धृतराष्ट्र उवाच।अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना
।
भूय एव तु मे हर्षः श्रुत्वा वागमृतं तव॥१॥
विदुर उवाच।शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्
।
यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः॥२॥
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः
।
क्वचित्क्वचिच्छ्रमाच्छ्रान्तः कुरुते वासमेव वा॥३॥
एवं संसारपर्याये गर्भवासेषु भारत
।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः॥४॥
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः
।
यत्तु संसारगहनं वनमाहुर्मनीषिणः॥५॥
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ
।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः॥६॥
शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः
।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः॥७॥
क्लिश्यमानाश्च तैर्नित्यं वार्यमाणाश्च भारत
।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः॥८॥
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप
।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी॥९॥
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि
।
मज्जमांसमहापङ्के निरालम्बे समन्ततः॥१०॥
संवत्सरर्तवो मासाश्च पक्षाहोरात्रसन्धयः
।
क्रमेणास्योपयुञ्जन्ति रूपमायुस्तथैव च॥११॥
एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः
।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा॥१२॥
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम्
।
इन्द्रियाणि हयानाहुः कर्मबुद्धिस्तु रश्मयः॥१३॥
तेषां हयानां यो वेगं धावतामनुधावति
।
स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥१४॥
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते
।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥१५॥
भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते
।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते॥१६॥
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः
।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते॥१७॥
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः
।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥१८॥
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः
।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप॥१९॥
अनुतर्षुलमेवैतद्दुःखं भवति मारिष
।
राज्यनाशं सुहृन्नाशं सुतनाशं च भारत
।
साधुः परमदुःखानां दुःखभैषज्यमाचरेत्॥२०॥
ज्ञानौषधमवाप्येह दूरपारं महौषधम्
।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः॥२१॥
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः
।
तथोन्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः॥२२॥
तस्मान्मैत्रं समास्थाय शीलमापद्य भारत
।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥२३॥
शीलरश्मिसमायुक्तः स्थितो यो मानसे रथे
।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति॥२४॥
अभयं सर्वभूतेभ्यो यो ददाति महीपते
।
स गच्छति परं स्थानं विष्णोः पदमनामयम्॥२५॥
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः
।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः॥२६॥
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम्
।
अनिष्टं सर्वभूतानां मरणं नाम भारत॥२७॥
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता
।
नानामोहसमायुक्ता बुद्धिजालेन संवृताः॥२८॥
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्र तत्र ह
।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्म शाश्वतम्॥२९॥
वैशम्पायन उवाच।विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः
।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः॥१॥
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः
।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा॥२॥
सञ्जयः सुहृदश्चान्ये द्वाःस्था ये चास्य सम्मताः
।
जलेन सुखशीतेन तालवृन्तैश्च भारत॥३॥
पस्पर्शुश्च करैर्गात्रं वीज्यमानश्च यत्नतः
।
आश्वास्य तु चिरं कालं धृतराष्ट्रं तथागतम्॥४॥
अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः
।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः॥५॥
धिगस्तु खलु मानुष्यं मानुष्येषु परिग्रहे
।
यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः॥६॥
पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामथ
।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो॥७॥
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति
।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते॥८॥
तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्
।
तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्॥९॥
तथैवाहं करिष्यामि अद्यैव द्विजसत्तम
।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्॥१०॥
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः
।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः॥११॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः
।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्॥१२॥
व्यास उवाच।धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु
।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो॥१३॥
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप
।
अनित्यतां हि मर्त्यानां विजानासि न संशयः॥१४॥
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति
।
जीविते मरणान्ते च कस्माच्छोचसि भारत॥१५॥
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः
।
पुत्रं ते कारणं कृत्वा कालयोगेन कारितः॥१६॥
अवश्यं भवितव्ये च कुरूणां वैशसे नृप
।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्॥१७॥
जानता च महाबाहो विदुरेण महात्मना
।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर॥१८॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्
।
घटतापि चिरं कालं नियन्तुमिति मे मतिः॥१९॥
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्
।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव॥२०॥
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः
।
अपश्यं तत्र च तदा समवेतान्दिवौकसः॥२१॥
नारदप्रमुखाश्चापि सर्वे देवर्षयोऽनघ
।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते॥२२॥
कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः
।
उपगम्य तदा धात्री देवानाह समागतान्॥२३॥
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा
।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्॥२४॥
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः
।
उवाच वाक्यं प्रहसन्पृथिवीं देवसंसदि॥२५॥
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै
।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति॥२६॥
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि
।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः॥२७॥
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः
।
ततस्ते भविता देवि भारस्य युधि नाशनम्॥२८॥
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने
।
स एष ते सुतो राजँल्लोकसंहारकारणात्॥२९॥
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप
।
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः॥३०॥
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः
।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा॥३१॥
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः
।
यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥३२॥
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत्
।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥३३॥
दुष्टं राजानमासाद्य गतास्ते तनया नृप
।
एतमर्थं महाबाहो नारदो वेद तत्त्ववित्॥३४॥
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते
।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्॥३५॥
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत
।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही॥३६॥
नारदेन च भद्रं ते पूर्वमेव न संशयः
।
युधिष्ठिरस्य समितौ राजसूये निवेदितम्॥३७॥
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्
।
न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर॥३८॥
नारदस्य वचः श्रुत्वा तदाऽशोचन्त पाण्डवाः
।
एवं ते सर्वमाख्यातं देवगुह्यं सनातनम्॥३९॥
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो
।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्॥४०॥
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः
।
कथितो धर्मराजस्य राजसूये कुरूत्तमे॥४१॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते
।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्॥४२॥
अनतिक्रमणीयो हि विधी राजन्कथञ्चन
।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च॥४३॥
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत
।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च॥४४॥
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः
।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्॥४५॥
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि
।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति॥४६॥
मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम्
।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत॥४७॥
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति
।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात्॥४८॥
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा
।
प्रज्ञाम्भसा महाराज निर्वापय सदा सदा॥४९॥
वैशम्पायन उवाच।तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः
।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत॥५०॥
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम
।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः॥५१॥
इदं तु वचनं श्रुत्वा तव देवनियोगजम्
।
धारयिष्याम्यहं प्राणान्घटिष्ये न तु शोचितुम्॥५२॥
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः
।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत॥५३॥
जनमेजय उवाच।गते भगवति व्यासे धृतराष्ट्रो महीपतिः
।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥१॥
तथैव कौरवो राजा धर्मपुत्रो महामनाः
।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥२॥
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः
।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः॥३॥
वैशम्पायन उवाच।हते दुर्योधने चैव हते सैन्ये च सर्वशः
।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः॥४॥
सञ्जय उवाच।आगम्य नानादेशेभ्यो नानाजनपदेश्वराः
।
पितृलोकं गता राजन्सर्वे तव सुतैः सह॥५॥
याच्यमानेन सततं तव पुत्रेण भारत
।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता॥६॥
पुत्राणामथ पौत्राणां पितॄणां च महीपते
।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय॥७॥
वैशम्पायन उवाच।तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः
।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले॥८॥
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम्
।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥९॥
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ
।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः॥१०॥
अभावादीनि भूतानि भावमध्यानि भारत
।
अभावनिधनान्येव तत्र का परिदेवना॥११॥
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः
।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥१२॥
अयुध्यमानो म्रियते युध्यमानस्तु जीवति
।
कालं प्राप्य महाराज न कश्चिदतिवर्तते॥१३॥
कालः कर्षति भूतानि सर्वाणि विविधानि च
।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥१४॥
यथा वायुस्तृणाग्राणि संवर्तयति सर्वतः
।
तथा कालवशं यान्ति भूतानि भरतर्षभ॥१५॥
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्
।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥१६॥
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि
।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः॥१७॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया
।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः॥१८॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥१९॥
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः
।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः॥२०॥
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्
।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते॥२१॥
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः
।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि॥२२॥
आत्मनात्मानमाश्वास्य मा शुचः पुरुषर्षभ
।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि॥२३॥
वैशम्पायन उवाच।विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः
।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत्॥१॥
धृतराष्ट्र उवाच।शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः
।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः॥२॥
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्
।
शोकविप्रहतज्ञानो यानमेवान्वपद्यत॥३॥
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता
।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्॥४॥
ताह समासाद्य राजानं भृशं शोकसमन्वितः
।
आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः॥५॥
ताः समाश्वासयन् क्षत्ता ताभ्यश्चार्ततरः स्वयम्
।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्॥६॥
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु
।
आकुमारं पुरं सर्वमभवच्छोककर्षितम्॥७॥
अदृष्टपूर्वा या नार्याः पुरा देवगणैरपि
।
पृथग्जनेन दृश्तन्ते तास्तदा निहतेश्वराः॥८॥
प्रकीर्य केशान् सुशुभान् भूषणान्यवमुच्य च
।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्॥९॥
श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन्
।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः॥१०॥
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः
।
शोकार्तान्यद्रवन् राजन्किशोरीणामिवाङ्गने॥११॥
पगृह्य बाहून् क्रोशन्त्यः पुत्रान् भ्रातॄन्पितानपि
।
दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम्॥१२॥
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः
।
शोकेनोपहतज्ञानाः कर्तव्यं न प्रजज्ञिरे॥१३॥
व्रीडाञ्जग्मुः पुरा याः स्म सखीनामपि योषितः
।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्॥१४॥
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयंस्तदा
।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम्॥१५॥
ताभिः परिवैतो राजा रुदतीभिः सहस्रशः
।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति॥१६॥
शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः
।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः॥१७॥
तासां विक्रोशमानानामार्तानां कुरुसंक्षये
।
प्रादुरासीन्महाञ्शब्दो व्यथयन् भुवनान्युत॥१८॥
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव
।
अभावः स्यादयं प्राप्त इति भूतानि मेनिरे॥१९॥
भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये
।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्॥२०॥
वैशम्पायन उवाच।क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्
।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च॥१॥
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्
।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्॥२॥
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्
।
गतः सानुचरो राजञ्शक्रलोकं महीपते॥३॥
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः
।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ॥४॥
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः
।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्॥५॥
अभीता युद्ध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्
।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः॥६॥
ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्
।
भास्वरं देहमास्थाय विहरन्त्यमरा इव॥७॥
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः
।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः॥८॥
एवं तां क्षत्रियस्याहुः पुराणाः परमां गतिम्
।
शस्त्रेण निधनं सङ्ख्ये तन्नः शोचितुमर्हसि॥९॥
न चापि शत्रवस्तेषामृद्ध्यन्ते राज्ञि पाण्डवाः
।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः॥१०॥
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्
।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्॥११॥
पञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः
।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः॥१२॥
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः॥१३॥
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः
।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः॥१४॥
ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः
।
अन्विष्यन्तः पदं शूराः क्षिप्रमेव यशस्विनि॥१५॥
तेषां तु कदनं कृत्वा संस्थातुं नोत्सहामहे
।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः॥१६॥
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्
।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्॥१७॥
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्
।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत॥१८॥
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्
।
गङ्गामनु महाराज तूर्णमश्वानचोदयन्॥१९॥
अपक्रम्य तु ते राजन्सर्व एव महारथाः
।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा॥२०॥
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा
।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ॥२१॥
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्
।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्॥२२॥
समेत्य वीरा राजानं तदा त्वनुदिते रवौ
।
विप्रजग्मुर्महात्मानो यथेच्छकमरिन्दमाः॥२३॥
समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः
।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम्॥२४॥
वैशम्पायन उवाच।हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः
।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्॥१॥
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतम्
।
शोचमानं महाराज भ्रातृभिः सहितस्तदा॥२॥
अन्वीयमानो वीरेण दाशार्हेण महात्मना
।
युयुधानेन च तथा तथैव च युयुत्सुना॥३॥
तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता
।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः॥४॥
स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम
।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह॥५॥
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः
।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः॥६॥
क्व नु धर्मज्ञता राज्ञः क्व नु साद्या नृशंसता
।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि॥७॥
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्
।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्॥८॥
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः
।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत॥९॥
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव
।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः॥१०॥
ततोऽभिवाद्य पितरं धर्मेणामित्रकर्षणाः
।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः॥११॥
तमात्मजान्तकरणं पिता पुत्रवधार्दितः
।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे॥१२॥
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः॥१३॥
स कोपपावकस्तस्य शोकवायुसमीरितः
।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते॥१४॥
तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः
।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्॥१५॥
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः
।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः॥१६॥
तं गृहीत्वैव पाणिभ्यां भीमसेनमयस्मयम्
।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्॥१७॥
नागायुतबलप्राणः स राजा भीममायसम्
।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्॥१८॥
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः
।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः॥१९॥
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा
।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव॥२०॥
स तु कोपं समुत्सृज्य गतमन्युर्महामनाः
।
हा हा भीमेति चुक्रोश नृपः शोकसमन्वितः॥२१॥
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्
।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥२२॥
मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः
।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो॥२३॥
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ
।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः॥२४॥
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन
।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः॥२५॥
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते
।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन॥२६॥
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी
।
भीमस्य सेयं कौरव्य तवैवोपहृता मया॥२७॥
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः
।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि॥२८॥
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्
।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन॥२९॥
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति
।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः॥३०॥
वैशम्पायन उवाच।तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः
।
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः॥१॥
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च
।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः॥२॥
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले
।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्॥३॥
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत
।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः॥४॥
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा
।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव॥५॥
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते
।
देशकालविभागं च परं श्रयेः स विन्दति॥६॥
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते
।
आपदः समनुप्राप्य स शोचत्यनये स्थितः॥७॥
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत
।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः॥८॥
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि
।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्॥९॥
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम्
।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता॥१०॥
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः
।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः॥११॥
वैशम्पायन उवाच।एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप
।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः॥१२॥
एवमेतन्महाबाहो यथा वदसि माधव
।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्॥१३॥
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः
।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम॥१४॥
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः
।
मध्यमं पाण्डवं वीरं द्रष्टुमिच्छामि माधव॥१५॥
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च
।
पाण्डुपुत्रेषु वै शर्म प्रीतिश्चाप्यवतिष्ठते॥१६॥
ततः स भीमं च धनञ्जयं च मान्द्याश्च पुत्रौ पुरुषप्रवीरौ
।
पस्पर्श गात्रैः प्ररुदन्सुगात्रानाश्वास्य कल्याणमुवाच चैनान्॥१७॥
वैशम्पायन उवाच।धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः
।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः॥१॥
ततो ज्ञात्वा हतामित्रं युधिष्ठिरमुपागमत्
।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता॥२॥
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति
।
ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत॥३॥
स गङ्गायामुपस्पृश्य पुण्यगन्धि पयः शुचिः
।
तं देशमुपसम्पेदे परमर्षिर्मनोजवः॥४॥
दिव्येन चक्षुषा पश्यन् मनसा तद्गतेन च
।
सर्वप्राणभृतां भावं स तत्र समबुध्यत॥५॥
स स्नुषामब्रवीत्काले कल्याणानि महातपाः
।
शापकालमवाक्षिप्य शमकालमुदीरयन्॥६॥
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि
।
रजो निगृह्यतां चैव शृणु चेदं वचो मम॥७॥
उक्ताऽस्यष्टादशाहानि पुत्रेण जयमिच्छताम्
।
शिवमाशास्व मे मातर्युध्यमानस्य शत्रुभिः॥८॥
सा तथा याच्यमाना त्वं काले काले जयैषिणा
।
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः॥९॥
न चाऽप्यतीतां गान्धारिवाचं ते वितथामहम्
।
स्मरामि तोषमाणायास्तथा प्रणिहिता ह्यसि॥१०॥
विग्रहे तुमुले राज्ञां गत्वा पारमसंशयम्
।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः॥११॥
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम्
।
अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः॥१२॥
स्वं च धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनि
।
कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि॥१३॥
गान्धार्युवाच।भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः
।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे॥१४॥
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया
।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया॥१५॥
दुर्योधनापराधेन शकुनेः सौबलस्य च
।
कर्णदुःशासनाभ्यां च कृतोऽयं कृरुसंक्षयः॥१६॥
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः
।
नकुलः सहदेवश्च नैव जातु युधिष्ठिरः॥१७॥
युध्यमाना हि कौरव्याः कृतमानाः परस्परम्
।
निहताः सहिताश्चान्यैस्तच्च नास्त्यप्रियं मम॥१८॥
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः
।
दुर्योधनं समाहूय गदायुद्धे महामनाः॥१९॥
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे
।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत्॥२०॥
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः
।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः॥२१॥
वैशम्पायन उवाच।तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्
।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा॥१॥
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः
।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि॥२॥
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः
।
न शक्यः केनचिद्धन्तुमतो विषममाचरम्॥३॥
अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः
।
निकृताश्च सदैव स्म तो विषममाचरम्॥४॥
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धेन वीर्यवान्
।
मां हत्वा न हरेद्राज्यमिति वै तत्कृतं मया॥५॥
राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम्
।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव॥६॥
सुयोधनमसङ्गृह्य न शक्या भूः ससागरा
।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया॥७॥
तथाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्
।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्॥८॥
तत्रैव वध्यः सोऽस्माकं दुराचारऽश्च ते सुतः
।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा॥९॥
वैरमुद्दीपितं राज्ञि पुत्रेण तव तन्महत्
।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया॥१०॥
वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे
।
राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः॥११॥
गान्धार्युवाच।न तस्यैष वधस्तात यत्प्रशंससि मे सुतम्
।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि॥१२॥
हताश्वे नकुले यत्तु वृषसेनेन भारत
।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम्॥१३॥
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्
।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर॥१४॥
भीमसेन उवाच।अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्
।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन॥१५॥
रुधिरं न व्यतिक्रामदन्तोष्ठादम्ब मा शुचः
।
वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ॥१६॥
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
।
भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मया॥१७॥
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते
।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते॥१८॥
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः
।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्॥१९॥
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम्
।
अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु
।
अधुना किं नु दोषेण परिशङ्कितुमर्हसि॥२०॥
गान्धार्युवाच।वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः
।
कस्मान्न शेषयेः कञ्चिद्येनाल्पमपराधितम्॥२१॥
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः
।
कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता॥२२॥
शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि
।
न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरेः॥२३॥
वैशम्पायन उवाच।एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत
।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिताः॥२४॥
तमभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः
।
युधिष्ठिरस्त्विदं तत्र मधुरं वाक्यमब्रवीत्॥२५॥
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः
।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्॥२६॥
न हि मे जीवितेनार्थो न राज्येन धनेन वा
।
तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः॥२७॥
तमेवंवादिनं भीतं सन्निकर्षगतं तदा
।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम्॥२८॥
तस्यावनतदेहस्य पादयोर्निपतिष्यतः
।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी॥२९॥
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा
।
ततः स कुनखीभूतो दर्शनीयनखो नृपः॥३०॥
तं दृष्ट्वा चार्जुनोऽगच्छाद्वासुदेवस्य पृष्ठतः
।
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत॥३२॥
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्
।
तया ते समनुज्ञाता मातरं वीरमातरम्॥३३॥
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः
।
चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिरभिप्लुता॥३४॥
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्
।
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा॥३५॥
अपश्यदेताञ्शस्त्रौघैर्बहुधा क्षतविक्षतान्
।
सा तानेकैकशः पुत्रान् संस्पृशन्ती पुनः पुनः॥३६॥
अन्वशोचत दुःखार्ता द्रौपदीं च हतात्मजाम्
।
रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि॥३७॥
द्रौपद्युवाच।आर्ये पुत्राः क्व ते सर्वे सौभद्रसहिता गताः
।
न त्वां तोऽस्याभिगच्छन्ति चिरं दृष्ट्वा तपस्विनीम्॥३८॥
किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम
।
तां समाश्वासयामास पृथा पृथुललोचना॥३९॥
उत्थाप्य याज्ञसेनीं तु रुदतीं शोककार्षिताम्
।
तयैव सहिता चापि पुत्रैरनुगता नृप॥४०॥
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्
।
वैसम्पायन उवाच।
तामुचावाथ गान्धारी सह वध्वा यशस्विनीम्
।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम्
।
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः॥४१॥
अवश्यभावी सम्प्राप्तं स्वभावाल्लोमहर्षणः
।
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्॥४२॥
असिद्धानुनये कृष्णे यदुवाच महामतिः
।
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः॥४३॥
मा शुचे न हि शोच्यास्ते सङ्ग्रामे निधनं गताः
।
यथैवाहं तथैव त्वं को वा माश्वासयिष्यति
।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्॥४४॥
The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in