जलप्रदानिकपर्व - १स्त्रीविलापपर्व - २श्राद्धपर्व - ३

स्त्रीविलापपर्व

षोडशोऽध्यायः

वैशम्पायन उवाच।एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम् ।
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा॥१॥

एवमिति अवकर्तनं युद्धस्थानम्॥१॥

पतिव्रता महाभागा समानव्रतचारिणी ।
उग्रेण तपसा युक्ता सततं सत्यवादिनी॥२॥

वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः ।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्॥३॥

ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके ।
रणाजिरं नृवीराणामद्भुतं रोमहर्षणम्॥४॥

अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम् ।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः॥५॥

गजाश्वरथयोधानामावृतं रुधिराविलैः ।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः॥६॥

गजाश्वनरनारीणां निःसनैरभिसंवृतम् ।
सृगालबलकाकोलकङ्ककाकनिषेवितम्॥७॥

रक्षसां पुरुषादानां मोदनं कुरराकुलम् ।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्॥८॥

ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः ।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः॥९॥

वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् ।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति॥१०॥

समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः ।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्॥११॥

क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबलवायसैः ।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः॥१२॥

रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः ।
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे॥१३॥

अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः ।
शरीरेष्वस्खलन्नन्याः न्यपन्त्यश्चापरा भुवि॥१४॥

श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना ।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्॥१५॥

दुःखोपहतचित्ताभिः समन्तादनुनादितम् ।
दृष्ट्वा योधनमत्युग्रं धर्मज्ञा सुबलात्मजा॥१६॥

ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् ।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत्॥१७॥

पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः ।
प्रकीर्णकेशाः क्रोशन्तीः कुरुरीरिव माधव॥१८॥

अमूस्त्वभिसमागम्य स्मरन्त्यो भर्तृजान् गुणान् ।
पृथगेवाभ्यधावन्त्यः पुत्रान्भ्रातॄन्पितॄन्पतीन्॥१९॥

वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् ।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्॥२०॥

शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः ।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः॥२१॥

काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः ।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम्॥२२॥

वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि ।
खड्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः॥२३॥

क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् ।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्॥२४॥

एतदेवंविधं वीर सम्पश्यायोधनं विभो ।
पश्यमना हि दह्यामि शोकेनाहं जनार्दन॥२५॥

पाञ्चालानां कुरूणां च विनाशे मधुसूदन ।
पञ्चानामपि भूतानामहं वधमचिन्तयम्॥२६॥

पञ्चानां भूतानां पृथिव्यादीनां कुरुपञ्चालवधात् कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः॥२६॥

तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षिताः ।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः॥२७॥

जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः ।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति॥२८॥

अवध्यकल्पान्निहतान्गतसत्वानचेतसः ।
गृध्रकङ्कवटश्येनश्वसृगालसमावृतान्॥२९॥

अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् ।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव॥३०॥

शयना ये पुरा सर्वे मृदूनि शयनानि च ।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते॥३१॥

शयनानि आस्तीर्येति शेषः॥३१॥

बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः ।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः॥३२॥

ये पुरा शेरते वीराः शयनेषु यशस्विनः ।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते॥३३॥

तेषामाभरणान्येते गृघ्रगोमायुवायसाः ।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः॥३४॥

बाणान्विनिशितान्पीतान्निस्त्रिंशान्विमला गदाः ।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति॥३५॥

सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः ।
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः॥३६॥

अपरे पुनरालिङ्ग्य गदाः परिघबाहवः ।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः॥३७॥

बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च ।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन॥३८॥

क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् ।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः॥३९॥

एते गोमायवो भीमा निहतानां यशस्विनाम् ।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः॥४०॥

सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः ।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः॥४१॥

तानिमाः परिदेवन्ति दुःखर्ताः परमाङ्गनाः ।
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्॥४२॥

रक्तोत्पलवनानीव विभान्ति रुचिराणि च ।
मुखानि परमस्त्रीणां परिशुष्काणि केशव॥४३॥

रुदिताद्विरता ह्येता ध्यायन्त्यः सपरिच्छदाः ।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः॥४४॥

एतान्यादित्यवर्णानि तपनीयनिभानि च ।
रोषरोदनताभ्राणि वक्त्राणि कुरुयोषिताम्॥४५॥

श्यामानां वरवर्णानां गौरीणामेकवाससाम् ।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव॥४६॥

आसामपरिपूर्णार्थं निशम्य परिदेवितम् ।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः॥४७॥

एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च ।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्॥४८॥

एताः शोचन्तीरभिलक्ष्येति शेषः॥४८॥

बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च ।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः॥४९॥

शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः ।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी॥५०॥

विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान् ।
मुह्यन्त्यनुगता नार्यो विदेहानि शिरांसि च॥५१॥

शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः ।
अपश्यन्त्यो परं तत्र नेदमस्येऽति दुःखिताः॥५२॥

बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् ।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः॥५३॥

उत्कृत्यशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः ।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः॥५४॥

विजग्धान् भक्षितान्॥५४॥

पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन ।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः॥५५॥

बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः ।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा॥५६॥

बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः ।
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः॥५७॥

भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम् ।
यूथानीव किशोरीणां सुकेशीनां जनार्दन॥५८॥

स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ।
इतो दुःखतरं किन्नु केशव प्रतिभाति मे॥५९॥

यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः ।
नूनमाचरितं पापं मया पूर्वेषु जन्मसु॥६०॥

या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च माधव ।
एवमार्ता विलपती समाभाष्य जनार्दनम् ।
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्॥६१॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि आयोधनदर्शने षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

वैशम्पायन उवाच।दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता ।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने॥१॥

दुर्योधनमिति॥१॥

सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च ।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्॥२॥

परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् ।
हाहा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया॥३॥

सुगूढजत्रुविपुलं हारनिष्कविभूषितम् ।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता॥४॥

समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो॥५॥

मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे॥६॥

इत्युक्ते जानती सर्वमहं स्वव्यसनागमम् ।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥७॥

तथा च युध्यमानस्त्वं न वै मुह्यति पुत्रक ।
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो॥८॥

इत्येवमब्रुवं पूर्वं नैवं शोचामि वै प्रभो ।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्॥९॥

अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।
शयानं वीरशयने पश्य माधव मे सुतम्॥१०॥

योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः ।
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्॥११॥

ध्रुवं दुर्योधनो वीरो गतिं न सुलभां गतः ।
तथा ह्यभिमुखः शेते शयने वीरसेविते॥१२॥

यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः ।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः॥१३॥

यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।
महीतलस्थं निहतं गृध्रास्तं पर्युपासते॥१४॥

यं पुरा व्यजनै रम्यैरुपवीजन्ति योषितः ।
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः॥१५॥

एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः॥१६॥

पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् ।
निहतं भीमसेनेन गदां सम्मृज्य भारत॥१७॥

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः॥१८॥

एष दुर्योधनः शेते महेष्वासो महाबलः ।
शार्दूल इव सिंहेन भीमसेनेन पातितः॥१९॥

विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक् ।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः॥२०॥

निःसपत्ना मही यस्य त्रयोदश समाः स्थिता ।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः॥२१॥

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम् ।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम्॥२२॥

तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम् ।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव॥२३॥

इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम ।
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः॥२४॥

प्रकीर्णकेशां सुश्रोणीं दुर्योधनशुभङ्कगाम् ।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम्॥२५॥

नूनमेषा पुरा बाला जीवमाने महाभुजे ।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी॥२६॥

कथं तु शतधा नेदं हृदयं मम दीर्यते ।
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे॥२७॥

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती॥२८॥

किन्नु शोचति भर्तारं पुत्रं चैषा मनस्विनी ।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा॥२९॥

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।
पतत्युरसि वीरस्य कुरुराजस्य माधव॥३०॥

पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम्॥३०॥

पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा ।
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी॥३१॥

यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा ।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्॥३२॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि दुर्योधनदर्शने सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

गान्धार्युवाच।पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् ।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे॥१॥

पश्येति॥१॥

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः ।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः॥२॥

प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः ।
अपन्ना यत्स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्॥३॥

कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान् ।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत॥४॥

एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा ।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता॥५॥

करसम्मितमध्यमा मुष्टिप्रमितमध्या॥५॥

दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् ।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति॥६॥

भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि ।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान्॥७॥

मध्यमानां तु नारीणां वृद्धानां चापराजित ।
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु॥८॥

रथनीडानि देहांश्च हतानां गजवाजिनाम् ।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज॥९॥

अन्यां चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठतीम्॥१०॥

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।
एताभिर्निरवद्याभिर्मया चैवाल्यमेधया॥११॥

यदिदं धर्मराजेन पातितं नो जनार्दन ।
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥१२॥

प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः ।
कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः॥१३॥

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव॥१४॥

फुल्लपद्मप्रकाशानि पुण्डरीकाक्षयोषिताम् ।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्॥१५॥

ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् ।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः॥१६॥

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः ।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्॥१७॥

शिरस्त्राणानि चैतानि पुत्राणां मे महीतले ।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव॥१८॥

एष दुःशासनः शेते शूरेणामित्रघातिना ।
पीतशोणितसर्वाङ्गो युधि भीमेन पातितः॥१९॥

गदया भीमसेनेन पश्य माधव मे सुतम् ।
द्यूतक्लेशाननुस्मृत्य द्रौपदीनोदितेन च॥२०॥

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन॥२१॥

सहैव सहदेवेन नकुलेनार्जुनेन च ।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्॥२२॥

ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ।
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय॥२३॥

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् ।
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः॥२४॥

न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्॥२५॥

तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन् ।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव॥२६॥

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।
निहतो भीमसेनेन सिंहेनेव महागजः॥२७॥

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे॥२८॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये अष्टादशोऽध्यायः॥१८॥
नवदशोऽध्यायः

गान्धार्युवाचएष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः ।
भूमौ विनिहतः शेते भीमेन शतधा कृतः॥१॥

एष माधवेति स्पष्टार्थः॥१॥

गजमध्ये हतः शेते विकर्णो मधुसूदन ।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः॥२॥

अस्य चापग्रहेणैव पाणिः कृतकिणो महान् ।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्॥३॥

अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी ।
वारयत्यनिशं बाला न च शक्नोति माधव॥४॥

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव॥५॥

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे ।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्॥६॥

एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता ।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे॥७॥

तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् ।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः॥८॥

शूरस्य हि रणे कृष्ण पश्याननमथेदृशम् ।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः॥९॥

यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते ।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्॥१०॥

चित्रसेनं हतं भूमौ शयानं मधुसूदन ।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्॥११॥

तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः ।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते॥१२॥

स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् ।
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे॥१३॥

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः ।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव॥१४॥

शरसङ्कृत्तवर्माणं वीरं विशसने हतम् ।
परिवार्यासते गृध्राः पश्य कृष्ण विविंशतिम्॥१५॥

प्रविश्य समरे शूरः पाण्डवानामनीकिनीम् ।
स वीरशयने शेते परः सत्पुरुषोचिते॥१६॥

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् ।
अतीव शुभ्रं वदनं कृष्ण पश्य विविंशतेः॥१७॥

एनं हि पर्युपासन्ते बहुधा वरयोषितः ।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः॥१८॥

हन्तारं परसैन्यानां शूरं समितिशोभनम् ।
निबर्हणममित्राणां दुःसहं विषहेत कः॥१९॥

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः ।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः॥२०॥

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता ।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः॥२१॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये एकोनविंशोऽध्यायः॥१९॥
विंशोऽध्यायः

गान्धार्युवाच।अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्॥१॥

अध्यर्धगुणं सार्धगुणम्॥१॥

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः॥२॥

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति॥३॥

एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।
आर्ता बालं पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता॥४॥

तमेषा हि समागम्य भार्या भर्तारमन्तिके ।
विराटदुहिता कृष्ण पाणिना परिमार्जति॥५॥

तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी ।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्॥६॥

कामरूपवती चैषा परिष्वजति भामिनी ।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता॥७॥

तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् ।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते॥८॥

अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते ।
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः॥९॥

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः॥१०॥

अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः ।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते॥११॥

मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ॥१२॥

व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ।
एवं विलपतीमार्तां न हि मामभिभाषसे॥१३॥

न स्मराम्यपराधं ते किं मां न प्रतिभाषसे ।
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे॥१४॥

न स्मराम्यपराधं मे किं मां न प्रतिभाषसे ।
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्॥१५॥

पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ।
तस्य शोणितदिग्धान्वै केशानुद्यम्य पाणिना॥१६॥

उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ।
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः॥१७॥

कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः ।
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्॥१८॥

द्रोणद्रौणायनी चोभौ यैरहं विधवा कृता ।
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः॥१९॥

बालं त्वां पिरवार्यैकं मम दुःखाय जघ्नुषाम् ।
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्॥२०॥

त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ।
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव॥२१॥

वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ।
न राज्यलाभो विपुलः शत्रूणां च पराभवः॥२२॥

प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण ।
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च॥२३॥

क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ।
दुर्मरं पुनरप्राप्ते काले भवति केनचित्॥२४॥

यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ।
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा॥२५॥

पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ।
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि॥२६॥

परमेण च रूपेण गिरा च स्मितपूर्वया ।
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्॥२७॥

सौभद्र विहरन् काले स्मरेथाः सुकृतानि मे ।
एतावानिह संवासो विहितस्ते मया सह॥२८॥

षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ।
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्॥२९॥

उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ।
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्॥३०॥

विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ।
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्॥३१॥

विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ।
वितुद्यमानं विहगैर्विराटमसितेक्षणाः॥३२॥

न शक्नुवन्ति विहगान्निवारयितुमातुराः ।
आसामातपतप्तानामायासेन च योषिताम्॥३३॥

श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः ।
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्॥३४॥

वपुः शस्ताकृतिः ‘वपुः क्लीबं तनौ शस्ताकृतावपि’ इति मेदिनो॥३४॥

शिशीनेतान् हतान् पश्य लक्ष्मणं सुदर्शनम् ।
आयोधनशिरोमध्ये शयानं पश्य माधव॥३५॥

॥इति श्रीमहाभारते स्त्रीपर्वणिस्त्रीविलापपर्वणि गान्धारीवाक्ये विंशतितमोऽध्यायः॥२०॥
एकविंशतितमोऽध्यायः

गान्धार्युवाच।एष वैकर्तनः शेते महेश्वासो महारथः ।
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा॥१॥

एष वैकर्तन इति आवन्त्यं भीमसेनेनेति च स्पष्टार्थौ एकविंशद्वाविंशौ॥१॥

पश्य वैकर्तनं कर्णं निहत्यातिरथान् बहून् ।
शोणितौघपरीताङ्गं शयानं पतितं भुवि॥२॥

अमर्षी दीर्घरोषश्च महेश्वासो महाबलः ।
रणे विनिहतः शेते शूरो गाण्डीवधन्वना॥३॥

यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः ।
प्रायुद्ध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम्॥४॥

शार्दूलमिव सिंहेन समरे सव्यसाचिना ।
मातङ्गमिव मत्तेन मातङ्गेन निपातितम्॥५॥

समेताः पुरुषव्याघ्र निहतं शूरमाहवे ।
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते॥६॥

उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः ।
त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत॥७॥

अनादृश्यः पुरैर्युद्धे शत्रुभिर्मघवानिव ।
युगान्ताग्निरिवार्चिष्मान् हिमवानिव निश्चलः॥८॥

स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव ।
भूमौ विनिहतः शेते वातभग्न इव द्रुमः॥९॥

पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् ।
लालप्यमानां करुणं रुदतीं पतितां भुवि॥१०॥

आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमिदं धरित्री ।
ततः शरेणापहृतं शिरस्ते धनञ्जयेनाहवशोभिना युधि॥११॥

हाहा धिगेषा पतिता विसंज्ञा समीक्ष्य जाम्बूनदबद्धकक्षम् ।
कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता॥१२॥

अल्पावशेषोऽपि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः ।
द्रष्टुं न नः प्रीतिकरः शशीव कृष्णस्य पक्षस्य चतुर्दशाहे॥१३॥

सा वर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा ।
कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता॥१४॥

॥इति श्रीमहाभारते स्तरीपर्वणि स्त्रीविलापपर्वणि कर्णदर्शनो नामैकविंशतितमोऽध्यायः॥२१॥
द्वाविंशोऽअध्यायः

गान्धार्युवाच।आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् ।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्॥१॥

आवन्त्यमिति॥१॥

तं पश्य कदनं कृत्वा शूराणां मधुसूदन ।
शयानं वीरशयने रुधिरेण समुक्षितम्॥२॥

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्॥३॥

शयानं वीरशयने शूरमाक्रन्दकारिणम् ।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥४॥

प्रातिपेयं महेष्वासं हतं भल्लेन बाह्लिकम् ।
प्रसुप्तमिव शार्दुलं पश्य कृष्ण मनस्विनम्॥५॥

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥६॥

पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता ।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः॥७॥

वार्धक्षत्रिर्जयद्रथः॥७॥

एकादश चमूर्भित्त्वा रक्ष्यमाणं महात्मना ।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥८॥

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् ।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥९॥

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत ।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥१०॥

तमेताः पर्युपासन्ते रक्ष्यमाणं महाभुजम् ।
सिन्धुसौवीरभर्तारं काम्भोजयवनस्त्रियः॥११॥

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥१२॥

दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः ।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥१३॥

सैषा मम सुता बाला विलपन्ती च दुःखिता ।
आत्मना हन्ति चात्मानमाक्रोशन्ती च पाण्डवान्॥१४॥

किन्नु दुःखतरं कृष्ण परं मम भविष्यति ।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥१५॥

हा हा धिग्धुःशलां पश्य वीतशोकभयामिव ।
शिरो भर्तुरनासाद्य धावमानामितस्ततः॥१६॥

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः ।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः॥१७॥

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥१८॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशोऽध्यायः

गान्धार्युवाच।एष शल्यो हतः शेते साक्षान्नकुलमातुलः ।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे॥१॥

एष इति॥१॥

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।
स एष निहतः शेते मद्रराजो महाबलः॥२॥

येन सङ्गृह्णता तात रथमाधिरथेर्युधि ।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः॥३॥

अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् ।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्॥४॥

अस्य चामीकराभस्य तप्तकाञ्चनसप्रभा ।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः॥५॥

युधिष्ठिरेण निहतं शल्यं समितिशोभनम् ।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः॥६॥

एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् ।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्॥७॥

शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः ।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्॥८॥

वासिताः करिष्यः गृष्टयः सकृत्प्रसूताः॥८॥

शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन ।
शयानं वीरशयने शरैर्विशकलीकृतम्॥९॥

एष शैलालयो राजा भगदत्तः प्रतापवान् ।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः॥१०॥

यस्य रुक्ममयी माला शिरस्येषा विराजते ।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्॥११॥

एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा॥१२॥

अहिना वृत्रासुरेण॥१२॥

योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम् ।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः॥१३॥

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन ।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे॥१४॥

भीष्मकृत् भयङ्करकर्मकृत्॥१४॥

पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् ।
युगान्त इव कालेन पातितं सूर्यमम्बरात्॥१५॥

एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव॥१६॥

शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम् ।
शयानं वीरशयने पश्य शूरनिषेविते॥१७॥

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा॥१८॥

अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना॥१९॥

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।
एष शान्तनवः शेते माधवाप्रतिमो युधि॥२०॥

शास्त्रमाज्ञाम्॥२०॥

धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये ।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्॥२१॥

निर्णये पारावर्येण परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन तत्वज्ञानबलेन प्राणानधारयदित्यर्थः॥२१॥

नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी ।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः॥२२॥

स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः ।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना॥२३॥

प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः ।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्॥२४॥

धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव ।
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे॥२५॥

अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा ।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्॥२६॥

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव॥२७॥

यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।
चकार स हतः शेते नैनमस्त्राण्यपालयन्॥२८॥

यं पुरोधाय कुरव आहूयन्ति स्म पाण्डवान् ।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः परिक्षतः॥२९॥

यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् ।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः॥३०॥

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा॥३१॥

वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव ।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः॥३२॥

वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ॥३३॥

द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन ।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना॥३४॥

तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्॥३५॥

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी॥३६॥

प्रेतकृत्यं च यतते कृपी कृपणमातुरा ।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी॥३७॥

अग्नीनाधाय विधिवच्चितां प्रज्वाल्य सर्वतः ।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः॥३८॥

कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः ।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव॥३९॥

शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।
इति द्रोणं समादाय शंसन्ति च रुदन्ति च॥४०॥

धक्ष्यदग्ध्वा॥४०॥

सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे ।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने॥४१॥

गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं च ते॥४२॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवचने त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशोऽध्यायः

गान्धार्युवाच।सोमदत्तसुतं पश्य युयुधानेन पातितम् ।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके॥१॥

सोमदत्तसुतमिति स्पष्टार्थश्चतुर्विंशः॥१॥

पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन ।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते॥२॥

असौ हि भूरिश्रवसो माता शोकपरिप्लुता ।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता॥३॥

दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् ।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि॥४॥

दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम् ।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि॥५॥

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु ।
न शृणोषि महाराज सारसीनामिवार्णवे॥६॥

एकवस्त्रार्धसंवीताः प्रकीर्णाः सितमूर्धजाः ।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः॥७॥

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि ।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्॥८॥

शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च ।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि॥९॥

दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः ।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि॥१०॥

अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् ।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः॥११॥

एता विलप्य करुणं भर्तृशोकेन कर्शिताः ।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव॥१२॥

बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् ।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः॥१३॥

बीभत्सुरतिनर्मलकर्मा अतिबीभत्सम् अतिगर्हितम्॥१३॥

ततः पापतरं कर्म कृतवानपि सात्यकिः ।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः॥१४॥

एको द्वाभ्यां हतः शेते त्वमधर्मेण धार्मिक ।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च॥१५॥

अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम् ।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव॥१६॥

भार्या यूपध्वजस्यैषा करसम्मितमध्यमा ।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति॥१७॥

अयं स हन्ता शूराणां मित्राणामभयप्रदः ।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः॥१८॥

अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः॥१९॥

वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा ।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः॥२०॥

किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन ।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत्॥२१॥

इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना ।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्॥२२॥

गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः ।
निहतः सहदेवेन भागिनेयेन मातुलः॥२३॥

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते ।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते॥२४॥

यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः ।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा॥२५॥

मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् ।
सभायां विपुलं राज्यं स पुनर्जीवितं जितः॥२६॥

शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते ।
कैतवं मम पुत्राणां विनाशायोपशिक्षितम्॥२७॥

एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह ।
वधाय मम पुत्राणामात्मनः सगणस्य च॥२८॥

यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो ।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः॥२९॥

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह ।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन॥३०॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये चतुर्विंशोऽध्यायः॥२४॥
पञ्चविंशोऽध्यायः

गान्धार्युवाच।काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम् ।
शयानमृषभस्कन्धं हतं पांसुषु माधव॥१॥

काम्बोजमिति काम्बाजास्तरणं कम्बलविशेषः॥१॥

अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ ।
अवेक्ष्य कृरुणं भार्या विलपत्यतिदुःखिता॥२॥

इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात्॥३॥

कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर ।
हतबन्धुरनाथा च वेपन्ती मधुरस्वरा॥४॥

आतपे क्लाम्यमानानां विविधानामिव स्रजाम् ।
क्लान्तानामपि नारीणां जहाति श्रीर्जहति तनूः॥५॥

शयानमभितः शूरं कालिङ्गं मधुसूदन ।
पश्य दीप्ताङ्गदयुगप्रतिमानद्धमहाभुजम्॥६॥

मागधानामधिपतिं जयत्सेनं जनार्दन ।
आवार्य सर्वतः पत्न्यः प्ररुदन्त्यः सुविङ्गलाः॥७॥

आसामायतनेत्राणां सुस्वराणां जनार्दन ।
मनः श्रुतिहरो नादो मनो मोहयतीव मे॥८॥

प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः ।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि॥९॥

कोसलानामधिपतिं राजपुत्रं बृहद्बलम् ।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः॥१०॥

अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् ।
उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः॥११॥

आसां सर्वानवद्यानामातपेन परिश्रमात् ।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव॥१२॥

द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः ।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः॥१३॥

रथाग्न्यगारं चापार्चीं शरशक्तिगदेन्धनम् ।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्॥१४॥

तथैव निहताः शूराः शेरते रुचिराङ्गदाः ।
द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः॥१५॥

तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः ।
भासयन्ति महीं भासा ज्वलिता इव पावकाः॥१६॥

द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् ।
महाद्विपमिवारण्ये सिंहेन महता हतम्॥१७॥

पाञ्चालराज्ञो विमलं पुण्डरीकाक्षपाण्डुरम् ।
आतपत्रं समाभाति शरदीव निशाकरः॥१८॥

एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः ।
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः॥१९॥

धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः ।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः॥२०॥

द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन ।
महेष्वासो हतः शेते नद्या हत इव द्रुमः॥२१॥

एष चेदिपतिः शूरो धृष्टकेतुर्महारथः ।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः॥२२॥

वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः ।
चेदिराजं हृषीकेश हतं सबलबान्धवम्॥२३॥

दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम् ।
आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः॥२४॥

दाशार्हपुत्रजमित्यत्र पुण्यामपि पुत्रशब्दः॥२४॥

अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् ।
द्रोणेन समरे पश्य निकृतं बहुधा शरैः॥२५॥

पितरं नूनमाजिस्थं युध्यमानं परैः सह ।
नाजहात्पितरं वीरमद्यापि मधुसूदन॥२६॥

पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय॥२६॥

एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् ।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा॥२७॥

विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव ।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव॥२८॥

काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ॥२९॥

अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्॥३०॥

दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात् ।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः॥३१॥

ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्॥३२॥

नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः॥३३॥

तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः ।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः॥३४॥

शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च ।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति॥३५॥

तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति ।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन॥३६॥

तयोर्भीष्मविदुरयोः दर्शनम् अनागतावेक्षणम्॥३६॥

वैशम्पायन उवाच।इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता ।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत॥३७॥

ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया॥३८॥

गान्धार्युवाच।पाण्डवा धार्तराष्ट्राश्च दग्धाः कृष्ण परस्परम् ।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन॥३९॥

शक्तेन बहुभृत्येन विपुले तिष्ठता बले ।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह॥४०॥

इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन ।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि॥४१॥

पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् ।
तेन त्वां दुरवापेन शपे चक्रगदाधरम्॥४२॥

यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि॥४३॥

त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः॥४४॥

अनाथवदविज्ञातो लोकेष्वनभिलक्षितः ।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि॥४५॥

तवाप्येवं हतसुता निहतज्ञातिबान्धवाः ।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः॥४६॥

तवापीति अनिरस्तः परध्वंसो याति शक्तमुपेक्षकम्। कुलध्वंसप्रसूतार्तिर्गान्धार्या इव केशवम्॥४६॥

वैशम्पयन उवाच।तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव॥४७॥

अभ्युत्स्मयन्नीषद्धसन्॥४७॥

जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः॥४८॥

चीर्णं चरसि मदनुष्ठितमेवानुतिष्ठसि स्वतपोनाशार्थमिति भावः॥४८॥

संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः॥४९॥

परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः ।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः ।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते॥५०॥

॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीशापदाने पञ्चविंशोऽध्यायः॥२५॥
॥समाप्तं स्त्रीविलापपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in