वैशम्पायन उवाच।एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्
।
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा॥१॥
एवमिति अवकर्तनं युद्धस्थानम्॥१॥
पतिव्रता महाभागा समानव्रतचारिणी
।
उग्रेण तपसा युक्ता सततं सत्यवादिनी॥२॥
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्॥३॥
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके
।
रणाजिरं नृवीराणामद्भुतं रोमहर्षणम्॥४॥
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्
।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः॥५॥
गजाश्वरथयोधानामावृतं रुधिराविलैः
।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः॥६॥
गजाश्वनरनारीणां निःसनैरभिसंवृतम्
।
सृगालबलकाकोलकङ्ककाकनिषेवितम्॥७॥
रक्षसां पुरुषादानां मोदनं कुरराकुलम्
।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्॥८॥
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः॥९॥
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति॥१०॥
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः
।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्॥११॥
क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबलवायसैः
।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः॥१२॥
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
।
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे॥१३॥
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः
।
शरीरेष्वस्खलन्नन्याः न्यपन्त्यश्चापरा भुवि॥१४॥
श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना
।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्॥१५॥
दुःखोपहतचित्ताभिः समन्तादनुनादितम्
।
दृष्ट्वा योधनमत्युग्रं धर्मज्ञा सुबलात्मजा॥१६॥
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्
।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत्॥१७॥
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
।
प्रकीर्णकेशाः क्रोशन्तीः कुरुरीरिव माधव॥१८॥
अमूस्त्वभिसमागम्य स्मरन्त्यो भर्तृजान् गुणान्
।
पृथगेवाभ्यधावन्त्यः पुत्रान्भ्रातॄन्पितॄन्पतीन्॥१९॥
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्
।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्॥२०॥
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः
।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः॥२१॥
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः
।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम्॥२२॥
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि
।
खड्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः॥२३॥
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्
।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्॥२४॥
एतदेवंविधं वीर सम्पश्यायोधनं विभो
।
पश्यमना हि दह्यामि शोकेनाहं जनार्दन॥२५॥
पाञ्चालानां कुरूणां च विनाशे मधुसूदन
।
पञ्चानामपि भूतानामहं वधमचिन्तयम्॥२६॥
पञ्चानां भूतानां पृथिव्यादीनां कुरुपञ्चालवधात् कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः॥२६॥
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षिताः
।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः॥२७॥
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति॥२८॥
अवध्यकल्पान्निहतान्गतसत्वानचेतसः
।
गृध्रकङ्कवटश्येनश्वसृगालसमावृतान्॥२९॥
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्
।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव॥३०॥
शयना ये पुरा सर्वे मृदूनि शयनानि च
।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते॥३१॥
शयनानि आस्तीर्येति शेषः॥३१॥
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः
।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः॥३२॥
ये पुरा शेरते वीराः शयनेषु यशस्विनः
।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते॥३३॥
तेषामाभरणान्येते गृघ्रगोमायुवायसाः
।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः॥३४॥
बाणान्विनिशितान्पीतान्निस्त्रिंशान्विमला गदाः
।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति॥३५॥
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः
।
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः॥३६॥
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः
।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः॥३७॥
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च
।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन॥३८॥
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः॥३९॥
एते गोमायवो भीमा निहतानां यशस्विनाम्
।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः॥४०॥
सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः
।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः॥४१॥
तानिमाः परिदेवन्ति दुःखर्ताः परमाङ्गनाः
।
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्॥४२॥
रक्तोत्पलवनानीव विभान्ति रुचिराणि च
।
मुखानि परमस्त्रीणां परिशुष्काणि केशव॥४३॥
रुदिताद्विरता ह्येता ध्यायन्त्यः सपरिच्छदाः
।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः॥४४॥
एतान्यादित्यवर्णानि तपनीयनिभानि च
।
रोषरोदनताभ्राणि वक्त्राणि कुरुयोषिताम्॥४५॥
श्यामानां वरवर्णानां गौरीणामेकवाससाम्
।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव॥४६॥
आसामपरिपूर्णार्थं निशम्य परिदेवितम्
।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः॥४७॥
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च
।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्॥४८॥
एताः शोचन्तीरभिलक्ष्येति शेषः॥४८॥
बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः॥४९॥
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः
।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी॥५०॥
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान्
।
मुह्यन्त्यनुगता नार्यो विदेहानि शिरांसि च॥५१॥
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः
।
अपश्यन्त्यो परं तत्र नेदमस्येऽति दुःखिताः॥५२॥
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्
।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः॥५३॥
उत्कृत्यशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः
।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः॥५४॥
विजग्धान् भक्षितान्॥५४॥
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन
।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः॥५५॥
बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः
।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा॥५६॥
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः
।
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः॥५७॥
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम्
।
यूथानीव किशोरीणां सुकेशीनां जनार्दन॥५८॥
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः
।
इतो दुःखतरं किन्नु केशव प्रतिभाति मे॥५९॥
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः
।
नूनमाचरितं पापं मया पूर्वेषु जन्मसु॥६०॥
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च माधव
।
एवमार्ता विलपती समाभाष्य जनार्दनम्
।
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्॥६१॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि आयोधनदर्शने षोडशोऽध्यायः॥१६॥
वैशम्पायन उवाच।दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता
।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने॥१॥
दुर्योधनमिति॥१॥
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च
।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्॥२॥
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्
।
हाहा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया॥३॥
सुगूढजत्रुविपुलं हारनिष्कविभूषितम्
।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता॥४॥
समीपस्थं हृषीकेशमिदं वचनमब्रवीत्
।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो॥५॥
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः
।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे॥६॥
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्
।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥७॥
तथा च युध्यमानस्त्वं न वै मुह्यति पुत्रक
।
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो॥८॥
इत्येवमब्रुवं पूर्वं नैवं शोचामि वै प्रभो
।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्॥९॥
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्
।
शयानं वीरशयने पश्य माधव मे सुतम्॥१०॥
योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः
।
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्॥११॥
ध्रुवं दुर्योधनो वीरो गतिं न सुलभां गतः
।
तथा ह्यभिमुखः शेते शयने वीरसेविते॥१२॥
यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः
।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः॥१३॥
यं पुरा पर्युपासीना रमयन्ति महीक्षितः
।
महीतलस्थं निहतं गृध्रास्तं पर्युपासते॥१४॥
यं पुरा व्यजनै रम्यैरुपवीजन्ति योषितः
।
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः॥१५॥
एष शेते महाबाहुर्बलवान्सत्यविक्रमः
।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः॥१६॥
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्
।
निहतं भीमसेनेन गदां सम्मृज्य भारत॥१७॥
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव
।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः॥१८॥
एष दुर्योधनः शेते महेष्वासो महाबलः
।
शार्दूल इव सिंहेन भीमसेनेन पातितः॥१९॥
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक्
।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः॥२०॥
निःसपत्ना मही यस्य त्रयोदश समाः स्थिता
।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः॥२१॥
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम्
।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम्॥२२॥
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्
।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव॥२३॥
इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम
।
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः॥२४॥
प्रकीर्णकेशां सुश्रोणीं दुर्योधनशुभङ्कगाम्
।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम्॥२५॥
नूनमेषा पुरा बाला जीवमाने महाभुजे
।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी॥२६॥
कथं तु शतधा नेदं हृदयं मम दीर्यते
।
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे॥२७॥
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता
।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती॥२८॥
किन्नु शोचति भर्तारं पुत्रं चैषा मनस्विनी
।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा॥२९॥
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा
।
पतत्युरसि वीरस्य कुरुराजस्य माधव॥३०॥
पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम्॥३०॥
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा
।
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी॥३१॥
यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा
।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्॥३२॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि दुर्योधनदर्शने सप्तदशोऽध्यायः॥१७॥
गान्धार्युवाच।पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्
।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे॥१॥
पश्येति॥१॥
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः॥२॥
प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः
।
अपन्ना यत्स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्॥३॥
कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्
।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत॥४॥
एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा
।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता॥५॥
करसम्मितमध्यमा मुष्टिप्रमितमध्या॥५॥
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्
।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति॥६॥
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि
।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान्॥७॥
मध्यमानां तु नारीणां वृद्धानां चापराजित
।
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु॥८॥
रथनीडानि देहांश्च हतानां गजवाजिनाम्
।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज॥९॥
अन्यां चापहृतं कायाच्चारुकुण्डलमुन्नसम्
।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठतीम्॥१०॥
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ
।
एताभिर्निरवद्याभिर्मया चैवाल्यमेधया॥११॥
यदिदं धर्मराजेन पातितं नो जनार्दन
।
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥१२॥
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः
।
कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः॥१३॥
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव॥१४॥
फुल्लपद्मप्रकाशानि पुण्डरीकाक्षयोषिताम्
।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्॥१५॥
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम्
।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः॥१६॥
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः
।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्॥१७॥
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले
।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव॥१८॥
एष दुःशासनः शेते शूरेणामित्रघातिना
।
पीतशोणितसर्वाङ्गो युधि भीमेन पातितः॥१९॥
गदया भीमसेनेन पश्य माधव मे सुतम्
।
द्यूतक्लेशाननुस्मृत्य द्रौपदीनोदितेन च॥२०॥
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन॥२१॥
सहैव सहदेवेन नकुलेनार्जुनेन च
।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्॥२२॥
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्
।
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय॥२३॥
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्
।
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः॥२४॥
न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्
।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्॥२५॥
तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्
।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव॥२६॥
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
।
निहतो भीमसेनेन सिंहेनेव महागजः॥२७॥
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः
।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे॥२८॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये अष्टादशोऽध्यायः॥१८॥
गान्धार्युवाचएष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः
।
भूमौ विनिहतः शेते भीमेन शतधा कृतः॥१॥
एष माधवेति स्पष्टार्थः॥१॥
गजमध्ये हतः शेते विकर्णो मधुसूदन
।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः॥२॥
अस्य चापग्रहेणैव पाणिः कृतकिणो महान्
।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्॥३॥
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी
।
वारयत्यनिशं बाला न च शक्नोति माधव॥४॥
युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ
।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव॥५॥
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे
।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्॥६॥
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता
।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे॥७॥
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्
।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः॥८॥
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्
।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः॥९॥
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते
।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्॥१०॥
चित्रसेनं हतं भूमौ शयानं मधुसूदन
।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्॥११॥
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः
।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते॥१२॥
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्
।
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे॥१३॥
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः
।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव॥१४॥
शरसङ्कृत्तवर्माणं वीरं विशसने हतम्
।
परिवार्यासते गृध्राः पश्य कृष्ण विविंशतिम्॥१५॥
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्
।
स वीरशयने शेते परः सत्पुरुषोचिते॥१६॥
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्
।
अतीव शुभ्रं वदनं कृष्ण पश्य विविंशतेः॥१७॥
एनं हि पर्युपासन्ते बहुधा वरयोषितः
।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः॥१८॥
हन्तारं परसैन्यानां शूरं समितिशोभनम्
।
निबर्हणममित्राणां दुःसहं विषहेत कः॥१९॥
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः
।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः॥२०॥
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता
।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः॥२१॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये एकोनविंशोऽध्यायः॥१९॥
गान्धार्युवाच।अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव
।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्॥१॥
अध्यर्धगुणं सार्धगुणम्॥१॥
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्
।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः॥२॥
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः
।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति॥३॥
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः
।
आर्ता बालं पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता॥४॥
तमेषा हि समागम्य भार्या भर्तारमन्तिके
।
विराटदुहिता कृष्ण पाणिना परिमार्जति॥५॥
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी
।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्॥६॥
कामरूपवती चैषा परिष्वजति भामिनी
।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता॥७॥
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्
।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते॥८॥
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते
।
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः॥९॥
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ
।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः॥१०॥
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः
।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते॥११॥
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ
।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ॥१२॥
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव
।
एवं विलपतीमार्तां न हि मामभिभाषसे॥१३॥
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे
।
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे॥१४॥
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे
।
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्॥१५॥
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि
।
तस्य शोणितदिग्धान्वै केशानुद्यम्य पाणिना॥१६॥
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति
।
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः॥१७॥
कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः
।
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्॥१८॥
द्रोणद्रौणायनी चोभौ यैरहं विधवा कृता
।
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः॥१९॥
बालं त्वां पिरवार्यैकं मम दुःखाय जघ्नुषाम्
।
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्॥२०॥
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्
।
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव॥२१॥
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः
।
न राज्यलाभो विपुलः शत्रूणां च पराभवः॥२२॥
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण
।
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च॥२३॥
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय
।
दुर्मरं पुनरप्राप्ते काले भवति केनचित्॥२४॥
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा
।
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा॥२५॥
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि
।
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि॥२६॥
परमेण च रूपेण गिरा च स्मितपूर्वया
।
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्॥२७॥
सौभद्र विहरन् काले स्मरेथाः सुकृतानि मे
।
एतावानिह संवासो विहितस्ते मया सह॥२८॥
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः
।
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्॥२९॥
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः
।
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्॥३०॥
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च
।
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्॥३१॥
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः
।
वितुद्यमानं विहगैर्विराटमसितेक्षणाः॥३२॥
न शक्नुवन्ति विहगान्निवारयितुमातुराः
।
आसामातपतप्तानामायासेन च योषिताम्॥३३॥
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः
।
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्॥३४॥
वपुः शस्ताकृतिः ‘वपुः क्लीबं तनौ शस्ताकृतावपि’ इति मेदिनो॥३४॥
शिशीनेतान् हतान् पश्य लक्ष्मणं सुदर्शनम्
।
आयोधनशिरोमध्ये शयानं पश्य माधव॥३५॥
॥इति श्रीमहाभारते स्त्रीपर्वणिस्त्रीविलापपर्वणि गान्धारीवाक्ये विंशतितमोऽध्यायः॥२०॥
गान्धार्युवाच।एष वैकर्तनः शेते महेश्वासो महारथः
।
ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा॥१॥
एष वैकर्तन इति आवन्त्यं भीमसेनेनेति च स्पष्टार्थौ एकविंशद्वाविंशौ॥१॥
पश्य वैकर्तनं कर्णं निहत्यातिरथान् बहून्
।
शोणितौघपरीताङ्गं शयानं पतितं भुवि॥२॥
अमर्षी दीर्घरोषश्च महेश्वासो महाबलः
।
रणे विनिहतः शेते शूरो गाण्डीवधन्वना॥३॥
यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः
।
प्रायुद्ध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम्॥४॥
शार्दूलमिव सिंहेन समरे सव्यसाचिना
।
मातङ्गमिव मत्तेन मातङ्गेन निपातितम्॥५॥
समेताः पुरुषव्याघ्र निहतं शूरमाहवे
।
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते॥६॥
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः
।
त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत॥७॥
अनादृश्यः पुरैर्युद्धे शत्रुभिर्मघवानिव
।
युगान्ताग्निरिवार्चिष्मान् हिमवानिव निश्चलः॥८॥
स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव
।
भूमौ विनिहतः शेते वातभग्न इव द्रुमः॥९॥
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्
।
लालप्यमानां करुणं रुदतीं पतितां भुवि॥१०॥
आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमिदं धरित्री
।
ततः शरेणापहृतं शिरस्ते धनञ्जयेनाहवशोभिना युधि॥११॥
हाहा धिगेषा पतिता विसंज्ञा समीक्ष्य जाम्बूनदबद्धकक्षम्
।
कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता॥१२॥
अल्पावशेषोऽपि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः
।
द्रष्टुं न नः प्रीतिकरः शशीव कृष्णस्य पक्षस्य चतुर्दशाहे॥१३॥
सा वर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा
।
कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता॥१४॥
॥इति श्रीमहाभारते स्तरीपर्वणि स्त्रीविलापपर्वणि कर्णदर्शनो नामैकविंशतितमोऽध्यायः॥२१॥
गान्धार्युवाच।आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्
।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्॥१॥
आवन्त्यमिति॥१॥
तं पश्य कदनं कृत्वा शूराणां मधुसूदन
।
शयानं वीरशयने रुधिरेण समुक्षितम्॥२॥
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः
।
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्॥३॥
शयानं वीरशयने शूरमाक्रन्दकारिणम्
।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥४॥
प्रातिपेयं महेष्वासं हतं भल्लेन बाह्लिकम्
।
प्रसुप्तमिव शार्दुलं पश्य कृष्ण मनस्विनम्॥५॥
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते
।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥६॥
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता
।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः॥७॥
वार्धक्षत्रिर्जयद्रथः॥७॥
एकादश चमूर्भित्त्वा रक्ष्यमाणं महात्मना
।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥८॥
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्
।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥९॥
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत
।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥१०॥
तमेताः पर्युपासन्ते रक्ष्यमाणं महाभुजम्
।
सिन्धुसौवीरभर्तारं काम्भोजयवनस्त्रियः॥११॥
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह
।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥१२॥
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः
।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥१३॥
सैषा मम सुता बाला विलपन्ती च दुःखिता
।
आत्मना हन्ति चात्मानमाक्रोशन्ती च पाण्डवान्॥१४॥
किन्नु दुःखतरं कृष्ण परं मम भविष्यति
।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥१५॥
हा हा धिग्धुःशलां पश्य वीतशोकभयामिव
।
शिरो भर्तुरनासाद्य धावमानामितस्ततः॥१६॥
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः
।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः॥१७॥
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्
।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥१८॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये द्वाविंशोऽध्यायः॥२२॥
गान्धार्युवाच।एष शल्यो हतः शेते साक्षान्नकुलमातुलः
।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे॥१॥
एष इति॥१॥
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ
।
स एष निहतः शेते मद्रराजो महाबलः॥२॥
येन सङ्गृह्णता तात रथमाधिरथेर्युधि
।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः॥३॥
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्
।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्॥४॥
अस्य चामीकराभस्य तप्तकाञ्चनसप्रभा
।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः॥५॥
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्
।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः॥६॥
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्
।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्॥७॥
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः
।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्॥८॥
वासिताः करिष्यः गृष्टयः सकृत्प्रसूताः॥८॥
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन
।
शयानं वीरशयने शरैर्विशकलीकृतम्॥९॥
एष शैलालयो राजा भगदत्तः प्रतापवान्
।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः॥१०॥
यस्य रुक्ममयी माला शिरस्येषा विराजते
।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्॥११॥
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्
।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा॥१२॥
अहिना वृत्रासुरेण॥१२॥
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्
।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः॥१३॥
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन
।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे॥१४॥
भीष्मकृत् भयङ्करकर्मकृत्॥१४॥
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्
।
युगान्त इव कालेन पातितं सूर्यमम्बरात्॥१५॥
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्
।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव॥१६॥
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्
।
शयानं वीरशयने पश्य शूरनिषेविते॥१७॥
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्
।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा॥१८॥
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्
।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना॥१९॥
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः
।
एष शान्तनवः शेते माधवाप्रतिमो युधि॥२०॥
शास्त्रमाज्ञाम्॥२०॥
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये
।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्॥२१॥
निर्णये पारावर्येण परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन तत्वज्ञानबलेन प्राणानधारयदित्यर्थः॥२१॥
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी
।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः॥२२॥
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः
।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना॥२३॥
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः
।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्॥२४॥
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव
।
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे॥२५॥
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा
।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्॥२६॥
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः
।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव॥२७॥
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्
।
चकार स हतः शेते नैनमस्त्राण्यपालयन्॥२८॥
यं पुरोधाय कुरव आहूयन्ति स्म पाण्डवान्
।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः परिक्षतः॥२९॥
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्
।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः॥३०॥
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव
।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा॥३१॥
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव
।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः॥३२॥
वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ
।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ॥३३॥
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन
।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना॥३४॥
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्
।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्॥३५॥
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव
।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी॥३६॥
प्रेतकृत्यं च यतते कृपी कृपणमातुरा
।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी॥३७॥
अग्नीनाधाय विधिवच्चितां प्रज्वाल्य सर्वतः
।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः॥३८॥
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः
।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव॥३९॥
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्
।
इति द्रोणं समादाय शंसन्ति च रुदन्ति च॥४०॥
धक्ष्यदग्ध्वा॥४०॥
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे
।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने॥४१॥
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः
।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं च ते॥४२॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवचने त्रयोविंशोऽध्यायः॥२३॥
गान्धार्युवाच।सोमदत्तसुतं पश्य युयुधानेन पातितम्
।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके॥१॥
सोमदत्तसुतमिति स्पष्टार्थश्चतुर्विंशः॥१॥
पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन
।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते॥२॥
असौ हि भूरिश्रवसो माता शोकपरिप्लुता
।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता॥३॥
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्
।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि॥४॥
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्
।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि॥५॥
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु
।
न शृणोषि महाराज सारसीनामिवार्णवे॥६॥
एकवस्त्रार्धसंवीताः प्रकीर्णाः सितमूर्धजाः
।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः॥७॥
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि
।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्॥८॥
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च
।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि॥९॥
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः
।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि॥१०॥
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्
।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः॥११॥
एता विलप्य करुणं भर्तृशोकेन कर्शिताः
।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव॥१२॥
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्
।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः॥१३॥
बीभत्सुरतिनर्मलकर्मा अतिबीभत्सम् अतिगर्हितम्॥१३॥
ततः पापतरं कर्म कृतवानपि सात्यकिः
।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः॥१४॥
एको द्वाभ्यां हतः शेते त्वमधर्मेण धार्मिक
।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च॥१५॥
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्
।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव॥१६॥
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा
।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति॥१७॥
अयं स हन्ता शूराणां मित्राणामभयप्रदः
।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः॥१८॥
अयं स रसनोत्कर्षी पीनस्तनविमर्दनः
।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः॥१९॥
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा
।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः॥२०॥
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन
।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत्॥२१॥
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना
।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्॥२२॥
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः
।
निहतः सहदेवेन भागिनेयेन मातुलः॥२३॥
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते
।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते॥२४॥
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः
।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा॥२५॥
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्
।
सभायां विपुलं राज्यं स पुनर्जीवितं जितः॥२६॥
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते
।
कैतवं मम पुत्राणां विनाशायोपशिक्षितम्॥२७॥
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह
।
वधाय मम पुत्राणामात्मनः सगणस्य च॥२८॥
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो
।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः॥२९॥
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह
।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन॥३०॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीवाक्ये चतुर्विंशोऽध्यायः॥२४॥
गान्धार्युवाच।काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम्
।
शयानमृषभस्कन्धं हतं पांसुषु माधव॥१॥
काम्बोजमिति काम्बाजास्तरणं कम्बलविशेषः॥१॥
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ
।
अवेक्ष्य कृरुणं भार्या विलपत्यतिदुःखिता॥२॥
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली
।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात्॥३॥
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर
।
हतबन्धुरनाथा च वेपन्ती मधुरस्वरा॥४॥
आतपे क्लाम्यमानानां विविधानामिव स्रजाम्
।
क्लान्तानामपि नारीणां जहाति श्रीर्जहति तनूः॥५॥
शयानमभितः शूरं कालिङ्गं मधुसूदन
।
पश्य दीप्ताङ्गदयुगप्रतिमानद्धमहाभुजम्॥६॥
मागधानामधिपतिं जयत्सेनं जनार्दन
।
आवार्य सर्वतः पत्न्यः प्ररुदन्त्यः सुविङ्गलाः॥७॥
आसामायतनेत्राणां सुस्वराणां जनार्दन
।
मनः श्रुतिहरो नादो मनो मोहयतीव मे॥८॥
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः
।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि॥९॥
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्
।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः॥१०॥
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान्
।
उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः॥११॥
आसां सर्वानवद्यानामातपेन परिश्रमात्
।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव॥१२॥
द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः
।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः॥१३॥
रथाग्न्यगारं चापार्चीं शरशक्तिगदेन्धनम्
।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्॥१४॥
तथैव निहताः शूराः शेरते रुचिराङ्गदाः
।
द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः॥१५॥
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः
।
भासयन्ति महीं भासा ज्वलिता इव पावकाः॥१६॥
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्
।
महाद्विपमिवारण्ये सिंहेन महता हतम्॥१७॥
पाञ्चालराज्ञो विमलं पुण्डरीकाक्षपाण्डुरम्
।
आतपत्रं समाभाति शरदीव निशाकरः॥१८॥
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः
।
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः॥१९॥
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः
।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः॥२०॥
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन
।
महेष्वासो हतः शेते नद्या हत इव द्रुमः॥२१॥
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः
।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः॥२२॥
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः
।
चेदिराजं हृषीकेश हतं सबलबान्धवम्॥२३॥
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम्
।
आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः॥२४॥
दाशार्हपुत्रजमित्यत्र पुण्यामपि पुत्रशब्दः॥२४॥
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्
।
द्रोणेन समरे पश्य निकृतं बहुधा शरैः॥२५॥
पितरं नूनमाजिस्थं युध्यमानं परैः सह
।
नाजहात्पितरं वीरमद्यापि मधुसूदन॥२६॥
पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय॥२६॥
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्
।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा॥२७॥
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव
।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव॥२८॥
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ
।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ॥२९॥
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह
।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्॥३०॥
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात्
।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः॥३१॥
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः
।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्॥३२॥
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन
।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः॥३३॥
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः
।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः॥३४॥
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च
।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति॥३५॥
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति
।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन॥३६॥
तयोर्भीष्मविदुरयोः दर्शनम् अनागतावेक्षणम्॥३६॥
वैशम्पायन उवाच।इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता
।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत॥३७॥
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता
।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया॥३८॥
गान्धार्युवाच।पाण्डवा धार्तराष्ट्राश्च दग्धाः कृष्ण परस्परम्
।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन॥३९॥
शक्तेन बहुभृत्येन विपुले तिष्ठता बले
।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह॥४०॥
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन
।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि॥४१॥
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्
।
तेन त्वां दुरवापेन शपे चक्रगदाधरम्॥४२॥
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः
।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि॥४३॥
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन
।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः॥४४॥
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः
।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि॥४५॥
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः
।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः॥४६॥
तवापीति अनिरस्तः परध्वंसो याति शक्तमुपेक्षकम्। कुलध्वंसप्रसूतार्तिर्गान्धार्या इव केशवम्॥४६॥
वैशम्पयन उवाच।तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः
।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव॥४७॥
अभ्युत्स्मयन्नीषद्धसन्॥४७॥
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये
।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः॥४८॥
चीर्णं चरसि मदनुष्ठितमेवानुतिष्ठसि स्वतपोनाशार्थमिति भावः॥४८॥
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे
।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः॥४९॥
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः
।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः
।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते॥५०॥
॥इति श्रीमहाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि गान्धारीशापदाने पञ्चविंशोऽध्यायः॥२५॥