जलप्रदानिकपर्व - १स्त्रीविलापपर्व - २श्राद्धपर्व - ३

श्राद्धपर्व

षड्विंशोऽध्यायः

श्रीभगवानुवाचउत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।
तवैव ह्यपराधेन कुरवो निधनं गताः॥१॥

उत्तिष्ठेति॥१॥

यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे॥२॥

दुष्कृतं दुराचरितं स्वकीयम्॥२॥

निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् ।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि॥३॥

वैरप्रियं पुरुषं वैरपुरुषम्॥३॥

भृतं वा यदि वा नष्टं योऽतीतमनुशोचसि ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥४॥

द्वौ पूर्वापरदुःखद्वयरूपौ॥४॥

तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी ।
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं क्षत्रिया राजपुत्री॥५॥

तपोरूपायार्थाय उत्पन्नं तपोर्थीयं त्वद्विधा बधार्थीयमेव गर्भं धत्ते अन्या तु जयार्थीयं कीत्त्याद्यर्थीयमपीति भावः॥५॥

वैशम्पायन उवाच।तच्छृत्वा वासुदेवस्य पुनरिक्तं वचिऽप्रियम् ।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना॥६॥

धृतराष्ट्रस्तु राजर्षिर्निगृह्यावुद्धिजं तमः ।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्॥७॥

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।
हतानां यदि जानीषे परिमाणं वदस्व मे॥८॥

युधिष्ठिर उवाच।दशायुतानामयुतं सहस्राणि च विंशतिः ।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन् राजन् मृधे हताः॥९॥

अलक्षितानां वीराणां सहस्राणि चतुर्दश ।
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च॥१०॥

धृतराष्ट्र उवाच।युधिष्ठिर गतिं कां ते गताः पुरुषसत्तम ।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥११॥

युधिष्ठिर उवाच।यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः॥१२॥

ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः॥१३॥

ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति॥१४॥

पात्यमानाः परैर्ये तु हीयमाना निरायुधाः ।
ह्लीनिषेवा महात्मानः परानभिमुखा रणे॥१५॥

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
गतास्ते ब्रह्मसदनं न मेऽत्रास्ति विचारणा॥१६॥

ये त्वत्र निहता राजन्नन्तरायोधनं प्रति ।
यथाकथञ्चित्पुरुषास्ते गतास्तूत्तरान् कुरून्॥१७॥

धृतराष्ट्र उवाच।केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् ।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया॥१८॥

युधिष्ठिर उवाच।निदेशाद्भवतः पूर्वं वने विचरता मया ।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥१९॥

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा॥२०॥

धृतराष्ट्र उवाच।अनाथानां जनानां च सनाथानां च भारत ।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्॥२१॥

न येषामस्ति संस्कर्ता न च येऽत्राहिताग्नयः ।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्॥२२॥

यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति यतस्ततः ।
तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर॥२३॥

वैशम्पायन उवाच।एवमुक्तो महाराज कुन्तीपुत्रो युधिष्ठिरः ।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्॥२४॥

सुधर्माणं दुर्योधनपुरोहितम्॥२४॥

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।
इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः॥२५॥

भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः ।
यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति॥२६॥

शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा॥२७॥

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च॥२८॥

समाहृत्य महार्हाणि दारूणां चैव सञ्चयान् ।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च॥२९॥

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा॥३०॥

दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् ।
शल्यं शलं च राजानं भूरिश्रवसमेव च॥३१॥

जयद्रथं च राजानमभिमन्युं च भारत ।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्॥३२॥

बृहन्तं सोमदत्तं सृञ्जयांश्च शताधिकान् ।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा॥३३॥

शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च॥३४॥

कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।
अचलं वृषकं चैव भगदत्तं च पार्थिवम्॥३५॥

कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्॥३६॥

घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।
अलम्बुषं राक्षसेन्द्रं जलसन्धं च पार्थिवम्॥३७॥

एतांश्चान्यांश्च सुबहून्पार्थिवांश्च सहस्रशः ।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्॥३८॥

पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् ।
सामभिश्चाप्यगायन्त तेऽन्वशोचन्त चापरैः॥३९॥

साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।
कश्मलं सर्वभूतानां निशायां समपद्यत॥४०॥

ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः॥४१॥

ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।
तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः॥४२॥

चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः ।
दाहयामास तान्सर्वान्विदुरो राजशासनात्॥४३॥

स्नेहपाचितैः स्नेहसंयुक्तैः॥४३॥

कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्॥४४॥

॥इति श्रीमहाभारते स्त्रीपर्वणि श्राद्धपर्वणि कुरूणामौर्ध्वदेहिके षड्विंशोऽध्यायः॥२६॥
सप्तविंशोऽध्यायः

वैशम्पायन उवाच।ते समासाद्य तु गङ्गां तु शिवां पुण्यजलान्विताम् ।
ह्लादिनीं च प्रसन्नां च महारूपां महाबलाम्॥१॥

ते समासाद्येति॥१॥

भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च॥२॥

वेष्टनानि उष्णीषकटिबन्धनादीनि॥२॥

पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ।
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः॥३॥

सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः ।
उदके क्रियमाणे तु वीराणां वीरपत्निभिः॥४॥

सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च ।
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम्॥५॥

सूपतीर्था शोभनजलावतरणमार्गा॥५॥

वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ।
ततः कुन्ती महाराज सहसा शोककर्शिता॥६॥

रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ।
यः स वीरो महेष्वासो रथयूथपयूथपः॥७॥

अर्जुनेन जितः सङ्ख्ये वीरलक्षणलक्षितः ।
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः॥८॥

यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ।
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान्॥९॥

दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ।
यस्य नास्ति समो वीर्ये पृथिव्यामपि पार्थिवः॥१०॥

योऽवृणीत यशः शूरः प्राणैरपि सदा भुवि ।
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः॥११॥

कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ।
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत॥१२॥

कुण्डली कवची शूरो दिवाकरसमप्रभः ।
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्॥१३॥

कर्णमेवानुशोचन्तो भूयः क्लान्ततराऽभवन् ।
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः॥१४॥

भवन् अभवन् अडभाव आर्षः॥१४॥

उवाच मातरं वीरो निःश्वसन्निव पन्नगः ।
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः॥१५॥

तलशब्दानुनदितो महारथमहाह्लदः ।
यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जयात्॥१६॥

कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत् ।
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्॥१७॥

तमग्निमिव वस्त्रेण कथं छादितवत्यसि ।
यस्य बाहुबलं नित्यं धार्तराष्ट्रैरुपासितम्॥१८॥

उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः ।
भूमिपानां च सर्वेषां बलं बलवतां वरः॥१९॥

नान्यं कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी ।
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः॥२०॥

असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ।
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः॥२१॥

निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः ।
अभिमन्योर्विनाशेन द्रौपदेयवधेन च॥२२॥

पाञ्चालानां विनाशेन कुरूणां पतनेन च ।
ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम्॥२३॥

कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः ।
नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम्॥२४॥

नेह स्मेति कर्णे भ्रातृत्वेन ज्ञाते सति तदनुसारिणामस्माकमपि दुर्लभं नाभविष्यन्नापि कौरवाणां क्षयोऽभविष्यदित्यर्थः॥२४॥

न चेदं वैशसं घोरं कौरवान्तकरं भवेत् ।
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः॥२५॥

व्यरुदच्छनकै राजंश्चकारास्योदकं प्रभुः ।
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः॥२६॥

अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि ।
तत आनाययामास कर्णस्य सपरिच्छदाः॥२७॥

स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ।
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्॥२८॥

चकार विधिवद्धीमान्धर्मराजो युधिष्ठिरः ।
पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः॥२९॥

अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति ।
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः ।
भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान्॥३०॥

॥इति श्रीमहाभारते स्त्रीपर्वणि श्राद्धपर्वणि कर्णगूढजत्वकथने सप्तविंशोऽध्यायः॥२७॥
॥स्त्रीपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in