श्रीभगवानुवाचउत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः
।
तवैव ह्यपराधेन कुरवो निधनं गताः॥१॥
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्
।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे॥२॥
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम्
।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि॥३॥
भृतं वा यदि वा नष्टं योऽतीतमनुशोचसि
।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥४॥
तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी
।
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं क्षत्रिया राजपुत्री॥५॥
वैशम्पायन उवाच।तच्छृत्वा वासुदेवस्य पुनरिक्तं वचिऽप्रियम्
।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना॥६॥
धृतराष्ट्रस्तु राजर्षिर्निगृह्यावुद्धिजं तमः
।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्॥७॥
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव
।
हतानां यदि जानीषे परिमाणं वदस्व मे॥८॥
युधिष्ठिर उवाच।दशायुतानामयुतं सहस्राणि च विंशतिः
।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन् राजन् मृधे हताः॥९॥
अलक्षितानां वीराणां सहस्राणि चतुर्दश
।
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च॥१०॥
धृतराष्ट्र उवाच।युधिष्ठिर गतिं कां ते गताः पुरुषसत्तम
।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥११॥
युधिष्ठिर उवाच।यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे
।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः॥१२॥
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत
।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः॥१३॥
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः
।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति॥१४॥
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः
।
ह्लीनिषेवा महात्मानः परानभिमुखा रणे॥१५॥
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः
।
गतास्ते ब्रह्मसदनं न मेऽत्रास्ति विचारणा॥१६॥
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति
।
यथाकथञ्चित्पुरुषास्ते गतास्तूत्तरान् कुरून्॥१७॥
धृतराष्ट्र उवाच।केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्
।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया॥१८॥
युधिष्ठिर उवाच।निदेशाद्भवतः पूर्वं वने विचरता मया
।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥१९॥
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्
।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा॥२०॥
धृतराष्ट्र उवाच।अनाथानां जनानां च सनाथानां च भारत
।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्॥२१॥
न येषामस्ति संस्कर्ता न च येऽत्राहिताग्नयः
।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्॥२२॥
यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति यतस्ततः
।
तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर॥२३॥
वैशम्पायन उवाच।एवमुक्तो महाराज कुन्तीपुत्रो युधिष्ठिरः
।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्॥२४॥
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्
।
इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः॥२५॥
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः
।
यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति॥२६॥
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः
।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा॥२७॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत
।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च॥२८॥
समाहृत्य महार्हाणि दारूणां चैव सञ्चयान्
।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च॥२९॥
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्
।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा॥३०॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान्
।
शल्यं शलं च राजानं भूरिश्रवसमेव च॥३१॥
जयद्रथं च राजानमभिमन्युं च भारत
।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्॥३२॥
बृहन्तं सोमदत्तं सृञ्जयांश्च शताधिकान्
।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा॥३३॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्
।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च॥३४॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्
।
अचलं वृषकं चैव भगदत्तं च पार्थिवम्॥३५॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्
।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्॥३६॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च
।
अलम्बुषं राक्षसेन्द्रं जलसन्धं च पार्थिवम्॥३७॥
एतांश्चान्यांश्च सुबहून्पार्थिवांश्च सहस्रशः
।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्॥३८॥
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम्
।
सामभिश्चाप्यगायन्त तेऽन्वशोचन्त चापरैः॥३९॥
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः
।
कश्मलं सर्वभूतानां निशायां समपद्यत॥४०॥
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः
।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः॥४१॥
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः
।
तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः॥४२॥
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः
।
दाहयामास तान्सर्वान्विदुरो राजशासनात्॥४३॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः
।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्॥४४॥