स्वर्गारोहणपर्व - १

स्वर्गारोहणपर्व

श्रीवेदव्यासाय नमः  ।

नारायणं नस्कृत्य नरं चैव नरोत्तमम्  ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

अध्यायः 001

जनमेजय उवाच । स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः  ।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥१॥

पूर्वस्मिन् पर्वणि धर्मस्य फलभूतास्त्यागानृशंस्यादयो युधिष्ठिरदृष्टान्तेन दर्शिताः इदानीं तस्य मुख्यं फलं दर्शयतुं स्वर्गारोहणपर्वारभते स्वर्गं त्रिविष्टपमिति यथा भूयस्यां सङ्ख्यायामल्पसङ्ख्यान्तर्भवति एवं त्रीणि विष्टपानि भुवनानि फलोत्कर्षवशाद्यत्रान्तर्भवन्ति तादृशमपि स्वर्गं प्राप्य ‘विष्टपं भुवनं जगत्’ इत्यमरः॥१॥

एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः  ।
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥२॥

वैशम्पायन उवाच । स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः  ।
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥३॥

स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः  ।
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥४॥

भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम्  ।
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥५॥

ततो युधिष्ठिरो राजा दुर्योधनममर्षितः  ।
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥६॥

तत इति। स्वर्गेऽप्यमर्षो दुस्त्यज इति संस्काराणां प्राबल्यमुक्तम्॥६॥

ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै  ।
सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना ॥७॥

यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा  ।
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने ॥८॥

हताः अस्माभिः सन्धिरार्षः॥८॥

द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी  ।
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ ॥९॥

अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्  ।
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥१०॥

नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव  ।
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति ॥११॥

विरुद्धं वैरादिकं नश्यति अन्तर्धीयते॥११॥

युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन  ।
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥१२॥

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह  ।
सद्भिश्च राजप्रवरैते इमे स्वर्गवासिनः ॥१३॥

वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम्  ।
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः ॥१४॥

स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्  ।
भये महति योऽभीतो बभूव पृथिवीपतिः ॥१५॥

अभीत इति च्छेदः॥१५॥

न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्  ।
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥१६॥

ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः  ।
संग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि ॥१७॥

समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै  ।
स्वर्गोऽयं नेह वैराणि भन्ति मनुजाधिप ॥१८॥

नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः  ।
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥१९॥

यदि दुर्योधनस्यैते वीरलोकाः सनातनाः  ।
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥२०॥

सुहृद् इत्यदन्तः शब्दः॥२०॥

यत्कृते पृथिवी नष्टा सहसा सनरद्विपा  ।
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥२१॥

ये ते वीरी महात्मानो भ्रातरो मे महाव्रताः  ।
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥२२॥

तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम्  ।
॥२३॥

धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ॥ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥२४॥

क नु त पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद ॥विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥२५॥

शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः  ।
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥२६॥

॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
अध्यायः 002

युधिष्ठिर उवाच । नेह पश्यामि विबुधा राधेयममितौजसम्  ।
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥१॥

नेहेति॥१॥

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः  ।
राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥२॥

क ते महारथाः सर्वे शार्दूलसमविक्रमाः  ।
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥३॥

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः  ।
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥४॥

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः  ।
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा ॥५॥

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि  ।
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥६॥

इदं च परितप्यामि पुनःपुनरहं सुराः  ।
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः ॥७॥

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्  ।
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥८॥

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्  ।
अविज्ञातो मया योसौ घातितः सव्यसाचिना ॥९॥

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम  ।
अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ ॥१०॥

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्  ।
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ॥११॥

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः  ।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥१२॥

देवा ऊचुः । यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम्  ।
प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥१३॥

इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्  ।
युधिष्ठिरस्य सुहृदो दर्शयेतदि परंतप ॥१४॥

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः  ।
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥१५॥

अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः  ।
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥१६॥

तमसा संवृतं घोरं केशशैवलशाद्वलम्  ।
युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम् ॥१७॥

दशोत्पातकभल्लूकमक्षिकामशकावृतम्  ।
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥१८॥

अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्  ।
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥१९॥

अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम्  ।
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥२०॥

मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः  ।
निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः ॥२१॥

प्रवेरितैरितस्ततः पातितैः॥२१॥

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्  ।
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन् ॥२२॥

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्  ।
असिपत्रवनं चैव निशितं क्षुरसंवृतम् ॥२३॥

करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक्  ।
लोहकुंभीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥२४॥

करम्भवालुकाः श्वेतसूक्ष्मवालुकाः भ्राष्टवालुका इत्यर्थः॥२४॥

कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम्  ।
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम् ॥२५॥

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह  ।
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम् ॥२६॥

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि  ।
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥२७॥

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्  ।
देवदूतोऽब्रवीचैनमेतावद्गमनं तव ॥२८॥

निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः  ।
यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि ॥२९॥

युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः  ।
निवर्तने धृतमनाः पर्यावर्तत भारत ॥३०॥

स सनिवृत्तो धर्मात्मा दुःखशोकसमाहतः  ।
शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥३१॥

भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन  ।
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥३२॥

आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः  ।
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥३३॥

ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ  ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥३४॥

संतिष्ठस्व महाबाहो मुहूर्तमिह भारत  ।
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते ॥३५॥

एवं बहुविधा वाचः कृपणा वेदनावताम्  ।
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥३६॥

तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम्  ।
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥३७॥

स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः  ।
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥३८॥

अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः  ।
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥३९॥

इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे  ।
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥४०॥

नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत  ।
द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः ॥४१॥

ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप  ।
ततो विममृशे राजा किंत्विदं दैवकारितम् ॥४२॥

किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः  ।
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥४३॥

य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे  ।
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥४४॥

किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः  ।
तथा श्रिया युतः पापैः सहसर्वैः पदानुग: ॥४५॥

महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः  ।
कस्येदानीं विकारोऽयं य इमे नरकं गताः ॥४६॥

सर्वे धर्मविदः शूराः सत्यागमपरायणाः  ।
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः ॥४७॥

किंनु सुप्तोस्मि जागर्मि चेतयामि न चेतये  ।
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥४८॥

एवं बहुविधं राजा विममर्श युधिष्ठिरः  ।
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥४९॥

विममर्श विचारं कृतवान्॥४९॥

क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः  ।
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥५०॥

स तीव्रशोकसंतप्तो देवदूतमुवाच ह  ।
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥५१॥

न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम्  ।
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे ॥५२॥

दूनाः खिन्नाः॥५२॥

इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता  ।
जगामि तत्र यत्रास्ते देवराजः शतक्रतुःठ ॥५३॥

निवेदयामास च तद्धर्मराजचिकीर्षितम्  ।
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥५४॥

॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
अध्यायः 003

वैशम्पायन उवाच । स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे  ।
आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः ॥१॥

स्थित इति॥१॥

स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम्  ।
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥२॥

तेषु भासुरदेहेषु पुण्याभिजनकर्मसु  ।
समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥३॥

नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम्  ।
नदी वैतरणी चैव कूटशाल्मलिना सह ॥४॥

लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः  ।
विकृतानि शरीराणि यानि तत्र समन्ततः ॥५॥

ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान् ॥६॥

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः  ।
ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥७॥

मरुतः सह शक्रेण वसवश्चाश्विनौ सह  ।
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः  ।
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः  ।
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥८॥

ततः शक्रः सुरपतिः श्रिया परमया युतः  ।
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥९॥

युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया  ।
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥१०॥

सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव  ।
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता ॥११॥

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम  ।
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥१२॥

शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ  ।
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥१३॥

शत्रूनां स्वर्गो भ्रातॄणां नरक इति युधिष्ठिरस्य ईर्ष्याविषादावपनयति य इति॥१३॥

पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः  ।
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ॥१४॥

‘भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत  ।
’ तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥१५॥

हतः कुञ्जर इति अश्वत्थामवधे द्रोण उपचार्णो वञ्चितः गजवाची शब्दो मनुष्यपरत्वेन ज्ञापित इत्युपचारच्छलेनेत्यर्यः॥१५॥

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति  ।
व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥१६॥

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा  ।
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः  ।
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात् ॥१७॥

स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे  ।
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ ॥१८॥

तुभ्यं तव॥१८॥

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः  ।
स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥१९॥

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो  ।
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥२०॥

भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान्  ।
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥२१॥

कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव  ।
विहारस्व मया सार्धं गतशोको निरामयः ॥२२॥

कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम्  ।
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः ॥२३॥

अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि  ।
उपसेवन्तु कल्याणं विरजंबरभूषणाः ॥२४॥

राजसूयजितां लोकानश्वमेधभिनिर्मितान्  ।
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम् ॥२५॥

असि ऋद्धितान् खड्गबलेन ऋद्धिं प्रापितान्॥२५॥

उपर्युपरि राज्ञां हि तव लोकाः युधिष्टिर  ।
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि ॥२६॥

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः  ।
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥२७॥

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी  ।
आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि ॥२८॥

अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति  ।
गतशोको निरायासो मुक्तवैरो भविष्यसि ॥२९॥

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्  ।
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥३०॥

भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक  ।
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च ॥३१॥

एषा तृतीया जिज्ञासा तव राजन्कृता मया  ।
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः ॥३२॥

जिज्ञासा परीक्षा॥३२॥

पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया  ।
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥३३॥

सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत  ।
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ॥३४॥

स्वर्गाधिरोहणे द्रौपद्या सह सोदर्येषु विनष्टेषु सत्सु श्वरूपधारिणा शुनकरूपिणा द्रौपद्या इति पञ्चमीपाठे तामारभ्येत्यर्थः॥३४॥

इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि  ।
विशुद्धोसि महाभाग सुखी विगतकल्मषः ॥३५॥

न च ते भ्रातरः पार्थ नरकार्हा विशांपतै  ।
मायैषा देवराजेन महेन्द्रेणि प्रयोजिता ॥३६॥

अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः  ।
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥३७॥

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ  ।
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप ॥३८॥

न कृष्णा राजपुत्री च नरकार्हा कथञ्चन  ।
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥३९॥

वैशम्पायन उवाच  ।
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः  ।
जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः ॥४०॥

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्  ।
अवगाह्य ततो राजा तनुं तत्याज मानुषीम् ॥४१॥

ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः  ।
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥४२॥

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः  ।
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः ॥४३॥

यत्र ते पाण्डवास्तत्र देवैः सह ययाविति द्वयोः सम्बन्धः॥४३॥

यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः  ।
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे ॥४४॥ 

॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
अध्यायः 004

वैशम्पायन उवाच ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः  ।
स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥१॥

तत इति॥१॥

ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम्  ।
तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम् ॥२॥

ब्राह्मेण ब्रह्मणा आराध्येन॥२॥

दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम्  ।
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥३॥

उपस्थितं सेवितमस्त्रैः॥३॥

उपास्यमानं वीरेण फल्गुनेन सुवर्चसा  ।
तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् ॥४॥

तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम्  ।
यथावत्प्रतिपेदाते पूजया देवपूजितौ ॥५॥

अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम्  ।
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥६॥

अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम्  ।
भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् ॥७॥

वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम्  ।
श्रिया परमया युक्तं सिद्धिं परमिकां गतम् ॥८॥

अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा  ।
नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥९॥

तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम्  ।
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥१०॥

तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः  ।
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥११॥

श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता  ।
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥१२॥

मानुषं मानुषभावम्॥१२॥

रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना  ।
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ॥१३॥

एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः  ।
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥१४॥

पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम्  ।
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥१५॥

अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः  ।
सूर्यपुत्रो रथिश्रेष्ठो राधेय इति विश्रुतः  ॥१६॥

आदित्यसहितो भाति पश्यैनं पुरुषर्षभम्  ।
साध्यानामथ देवानां विश्वेषां मरुतामपि  ।
॥१७॥

गणेषु पश्य राजेन्द्र वृष्णन्धकमहारथान्  ।
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महाबलान् ॥१८॥

सोमेन सहितं पश्य सौभद्रमपराजितम्  ।
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥१९॥

एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः  ।
विमानेन सदाऽभ्येति पिता तव ममान्तिकम् ॥२०॥

वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम्  ।
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥२१॥

एते चान्ये महीपाला योधास्तव च पाण्डव  ।
गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा ॥२२॥

गुह्यकानां गतिं चापि केचित्प्राप्ता नराधिपाः  ।
त्यक्त्वा देहं जितः स्वर्गः पुण्यवाग्बुद्धिकर्मभिः ॥२३॥

॥ इति श्रीमन्महाभारते स्वार्गारोहणपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥
अध्यायः 005

जनमेजय उवाच । भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः  ।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥१॥

पूर्वस्मिन्नध्याये यो यो योधो यस्य यस्य देवस्यांशः स स्वर्गं गत्वा स्वस्य स्वस्यांशिनः सान्निध्यं प्रापेत्युक्तम् तत्र संशयः किमेते अंशाः काण्डरुहाणां वृक्षाणामंशा इव पृथक् संसारित्वं प्राप्ता उत तेष्वेवांशिषु लीयन्ते। आद्ये कर्मजदेहपरंपरायास्तत्त्वज्ञानमन्तरेणोच्छेदायोगात्तेषां नित्यसंसारित्वमस्मदादिवत्स्यात्। द्वितीये मानुष्यभावे तैः कृतानां कर्मणां नाशापत्तिरिति संदिहानो जनमेजयः पृच्छति भीष्मद्रोणाविति॥१॥

धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित्  ।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥२॥

कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः  ।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः ॥३॥

ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः  ।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥४॥

आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम  ।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥५॥

ते अन्ते कां गतिं पुण्यभोगान्ते अंशिना सह ऐक्यं वा सालोक्यं वा शाश्वतं प्राप्नुवन्ति उत भूभाववतरन्तीति प्रश्नः॥५॥

एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम  ।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यसि॥६॥

सौतिरुवाच । इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना  ।
व्यासेन तस्य नृपतेराख्यातुमुपचत्रमे ॥७॥

वैशम्पायन उवाच । न शक्यं कर्मणामन्ते सर्वेषां मनुजाधिप ।
प्रकॆतिं किं नु सम्य़क्ते पृच्छैषा संप्रयोजित ॥८॥

अत्रोत्तरमाह न शक्यमिति कर्मणामन्ते सर्वेण प्रकृतिं प्रति गन्तुं न शक्यमित्यध्याहृत्य योज्यं यदि सर्वोऽपि जन्तुः प्रारब्धकर्मान्ते स्वां प्रकृतिं गच्छेत्तर्हि सर्वेऽपि मुक्ताः स्युः संसारश्चादिमान् भवेत् ततश्च कृतहानाकृताभ्यागमप्रसंगो विधिप्रतिषेधशास्त्रानर्थक्यं च । तस्मात्केचिदेव कर्मणामन्ते स्वां प्रकृतिं भजन्ते न सर्वे इति किं तर्हि ये प्रकृतिं न प्राप्तास्तानुद्दिश्य ते त्वयैषा पृच्छा सम्यक् प्रयोजिता॥८॥

शृणु गुह्यमिदं राजन्देवानां भरतर्षभ  ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥९॥

तत्र कांश्चित् स्वर्गप्रापककर्मणामन्ते स्वैः स्वैरंशिभिस्तादात्म्यं प्राप्तुं योग्यान् योगजदृष्ट्या पश्यन्परिगणयति शृण्वित्यादिना अर्थादितरे स्वर्गं गता अपि पुनश्च्यवन्ते एते तु उत्तरामुत्तरामूर्ध्वोर्ध्वक्रमेण गतिं प्राप्य अन्ते ब्रह्मणा सह मुच्यन्ते तेन देवत्वप्राप्तये कर्माणि यज्ञदानतपआदीनि कर्तव्यान्येव न चोक्तदोष इति सर्वमनवद्यम्॥९॥

मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः  ।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥१०॥

तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम्  ।
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ॥११॥

अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ  ।
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ॥१२॥

कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ।
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ॥१३॥

धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्  ।
धृतराष्ट्रो सहिता गन्धारी च यशस्विनी ॥१४॥

पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ  ।
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ॥१५॥

निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः  ।
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ॥१६॥

कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च  ।
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः ॥१७॥

विश्वेषां देवतानां ते विविशुर्नरसत्तमाः  ।
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्  ॥१८॥

सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत्  ।
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्  ॥१९॥

विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः  ।
आविवेश रविं कर्णो निहतः पुरुषर्षभ  ॥२०॥

द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्  ।
धृतराष्ट्रात्मजाः सर्वे यातुधान बलोत्कटाः ॥२१॥

ऋद्विमन्तो महात्मानःशखपुना दिवं गताः ।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥२२॥

अनन्तो भगवान्देवः प्रविवेश रसातलम्  ।
पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥२३॥

यः स नारायणो नाम देवदेवः सनातनः  ।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह ॥२४॥

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः  ।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥२५॥

तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः  ।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥२६॥

हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः  ।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥२७॥

दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः  ।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥२८॥

भवनं च महेन्द्रस्य कुबेरस्य च धीमतः  ।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥२९॥

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते  ।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥३०॥

सौतिरुवाच एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः  ।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥३१॥

एवं पाण्डवानां कथां समाप्य जनमेजयस्य यज्ञे वैशम्पायन एता कथामुक्तवानिति प्रकृतमनुसन्दधानः सौतिरूवाच एतच्छ्रुत्वेत्यादि॥३१॥

ततः समापयामासुः कर्म तत्तस्य याजकाः  ।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥३२॥

ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत्  ।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥३३॥

विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः  ।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम् ॥३४॥

एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम्  ।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥३५॥

समाज्ञातं मया सूतेन व्यासाज्ञया वैशम्पायनेन कीर्तितं च॥३५॥

पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्  ।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥३६॥

सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता  ।
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥३७॥

विधिज्ञेन दैवज्ञेन अतीन्द्रियेण इन्द्रियाण्यतिक्रान्तेन योगबलादेव सर्वदर्शनसिद्धेरित्याह तपसेति भावितात्मना शोधितचितेन॥३७॥

ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा  ।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥३८॥

सर्वेषां तृतीयान्तानां निर्मितमित्यनेनान्वयः अन्येषामपि कीर्तिं प्रथयतेति सम्बन्धः॥३८॥

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्  ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥३९॥

'यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ॥४०॥

ब्रह्मभूयाय मोशाय कल्पते तत्रोक्तसाधनानुष्ठानक्रमेण॥४०॥

कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः  ।
ब्रह्महत्यादिपापानां कोटिस्तस्य विनश्यति॥४१॥

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः  ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते ॥४२॥

अन्ततः निकटे॥४२॥

अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा  ।
महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥४३॥

अह्नेति महाभारतस्याऽल्पमपि पश्चिमायां सन्ध्यायां पठ्यते चेद्दिनकृतं पापं नश्यति एवं प्रातः सन्ध्यायां रात्रिकृतमित्यर्थः॥४३॥

यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः  ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥४४॥

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते  ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥४५॥

निरुकं नामनिर्वचनम्॥४५॥

अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः  ।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥४६॥

श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः  ।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥४७॥

त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः  ।
अखिलं भारतं चेदं चकार भगवान्मुनिः ॥४८॥

आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत्  ।
श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा॥४९॥

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ  ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित् ॥५०॥

धर्मेचेति चकारचतुष्टयादधर्मादिचतुष्टयमप्यत्रोक्तं हानार्थमिति बोध्यम्॥५०॥

जयो नामेतिहासोऽयं श्रोतव्यो मोक्षमिच्छता  ।
ब्राह्मणेन च राज्ञा गर्भिण्या चैव योषिता ॥५१॥

स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम्  ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥५२॥

अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः  ।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥५३॥

अनागतोऽनागन्तुको नित्यसिद्ध इति यावत् एवंविधो यो मोक्षः कैवल्यं तदेव स्वरूपं यस्य स मोक्षः। यद्वा मोक्तुमिच्छन् मुचोऽकर्मकस्य गुणो वेति सनि गुणोऽभ्यासलोपश्च मुमुक्षुरित्यर्थः लोकहित इति भावः॥५३॥

षष्टिं शतसहस्राणि चकारान्यां स संहिताम्  ।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥५४॥

अन्यां वेदचतुष्टयसंहिताभ्यः पृथग्भूतां तदर्थवतीम्॥५४॥

पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश  ।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥५५॥

नारदोऽश्रावयद्देवानसितो देवलः पितॄन्  ।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥५६॥

इतिहासमिमं पुण्यं महार्थं वेदसंमितम्  ।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः ॥५७॥

श्रूयते येन यः शृणोतीत्यर्यः उभयत्र विभक्तिव्यत्यय आर्षः॥५७॥

स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक  ।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥५८॥

भारताध्ययनात्पुण्यादपि पादमधीयतः  ।
श्रद्धया परया भक्त्या श्राव्यते चापि येन तु  ।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥५९॥

भारताध्ययनादिति सार्धश्लोकः यो व्यास इमां संहितां शुकं पुत्रम् अध्यापयत् तस्य अधीयतो भारताख्यमितिहासं स्मरन्तः स्मृत्वा च ग्रन्थरूपेण प्रणयतः भक्त्या परया श्रद्धया च व्यास एव पूज्यस्तस्य वाक्यं प्रमाणमेवेत्यास्तिक्यबुद्ध्या येन पुसा इदं श्राव्यते पुण्यात् पुण्यकरादपि पादं श्लोकपादं ग्रन्थपादं वा भारतस्याध्ययनात्परमिकां सिद्धिं गच्छेदिति पूर्वेणान्वयः व्यासे श्रद्धां बध्वा भारतमध्येतव्यमित्यर्थः॥५९॥

मातापितृसहस्राणि पुत्रदारशतानि च  ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥६०॥

सन्ध्यायां भारतं पठनीयमित्युक्तं तत्र पठनयोग्यं भारतसारसङ्ग्रहं चतुःश्लोकीरूपमाह मातेति॥६०॥

हर्षस्थानसहस्राणि भयस्थानशतानि च  ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥६१॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे  ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥६२॥

न जातु कामान्न भयान्न लोभा- द्धर्मं त्यजेज्जीवितस्यापि हेतोः  ।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥६३॥

इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत्  ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥६४॥

यथा समुद्रो भगवान्यथा हि हिमवान्गिरिः  ।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥६५॥

कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते  ।
इदं भारतमाख्यानं यः पठेत्सुसमाहितः  ।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥६६॥

द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च  ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥६७॥

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय  ।
पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव ॥६८॥

॥ इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
॥ समाप्तं स्वर्गारोहणपर्व ॥ 18 ॥इति श्रीमन्महाभारतं समाप्तम् ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in