सेनोद्योगपर्व - १सञ्जययानपर्व - २प्रजागरपर्व - ३सनत्सुजातपर्व - ४यानसन्धिपर्व - ५भगवद्यानपर्व - ६सैन्यनिर्याणपर्व - ७उलूकदूतागमनपर्व - ८रथातिरथसंख्यानपर्व - ९अम्बोपाख्यानपर्व - १०

सेनोद्योगपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥

प्रथमोऽध्यायः

वैशम्पायन उवाच। कृत्वा विवाहं तु कुरुप्रवीरास्तदाऽभिमन्योर्मुदिताः स्वपक्षाः ।
विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥१॥

कृत्वेति । अभिमन्योः स्वपक्षाः यादवपाण्डवाद्याः तस्यैव विवाहं कृत्वा मुदिता अभूवन्निति शेषः। प्रतीताः प्रबुद्धाः ॥१॥

सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवृद्धाः॥२॥

मणयो मुक्ताप्रवालादयः तेषां प्रवेको जालादिरूपः समूहः तेन उत्तमरत्नैः हीरपद्मरागाद्यैश्च चित्रा । ‘मणिः स्त्रीपुंसयोरश्मजातौ मुतादिकेष्वपि’ इति मेदिनी ॥२॥

अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ ।
वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं रामजनार्दनौ च ॥३॥

आविशतामुपविष्टौ पित्रा वसुदेवेन ॥३॥

पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः ।
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टो जनार्दनश्चैव युधिष्ठिरश्च॥४॥

रौहिणेयः बलरामः ॥४॥

सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च ।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः ॥५॥

सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव ।
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥६॥

तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु ।
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥७॥

ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥८॥

कथान्तमासाद्य च माधवेन सङ्घट्टिताः पाण्डवकार्यहेतोः ।
ते राजसिंहाः सहिता ह्यश्रृण्वन्वाक्यं महार्थं सुमहोदयं च ॥९॥

संघट्टिताः सन्नद्धीकृताः महार्थं सारार्थं महोदयं श्रेष्ठफलम् ॥९॥

श्रीकृष्ण उवाच। सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरः सौबलेनाक्षवत्याम् ।
जितो निकृत्याऽपहृतं च राज्यं वनप्रवासे समयः कृतश्च ॥१०॥

अक्षवत्यां द्यूतक्रीडायाम् । निकृत्यां छलेन । समयः पणः ॥१०॥

शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत् ।
पाण्डोः सुतैस्त्रद्व्रतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥११॥

सत्त्यरथैः सत्पृथिव्यप्तेजांसि त्यत् वाय्वाकाशौ उभयत्र अकुण्ठितो रथो येषां तैरिति मध्यमपदलोपेन समासः । सत्यं रथवदारोढुं योग्यं येषां वा । पाठान्तरे सत्यैकप्रियैः ॥११॥

त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे ।
क्लेशानसह्यान् विविधान् सहद्भिर्महात्मभिश्चापि वने निविष्टम्॥१२॥

एतैः परप्रेष्यनियोगयुक्तैरिच्छद्भिराप्तं स्वकुलेन राज्यम् ।
एवंगते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात्॥१३॥

तच्चिन्तयध्वं कुरुपुङ्गवानां धर्म्यं च युक्तं च यशस्करं च ।
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः॥१४॥

धर्मार्थयुक्तं तु महीपतित्वं ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत् ।
पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः॥१५॥

बुभूषेत् प्राप्तुमिच्छेत् त‌ङ्भाव आर्षः ॥१५॥

मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ।
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः॥१६॥

तथाऽपि राजा सहितः सुहृद्भिरभीप्स्यतेऽनामयमेव तेषाम् ।
यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्प्रपीड्य॥१७॥

अनामयं कुशलम् । यत्तु धनादिकं स्वयमेव समाहृतं न पित्रादिभिः ॥१७॥

तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ।
बलास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसङ्घैः॥१८॥

राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ।
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य॥१९॥

संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व ।
इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत्॥२०॥

पारायित्वेति पाठे समाप्य ॥२०॥

अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ।
तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान्परिवारयेयुः॥२१॥

अतो राज्यार्धप्रदानात् । कार्ये राज्यलाभनिमित्तं तैर्धार्तराष्ट्रैः कृतं विप्रकारमपकारं निशम्य ज्ञात्वा । तान् पाण्डवान् ॥२१॥

युद्धेन बाधेयुरिमांस्तथैवं तैर्बाध्यमाना युधि तांश्च हन्युः ।
तथाऽपि नेमेऽल्पतया समर्थास्तेषां जयायेति भवेन्मतं वः॥२२॥

यदि इमान् बाधेयुस्तर्हि एतेऽपि तान् कौरवान् हन्युः । इमे पाण्डवाः ॥२२॥

समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ।
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति॥२३॥

अज्ञायमाने च मते परस्य किं स्यात् समारभ्यतमं मतं वः ।
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः॥२४॥

दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ।
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च॥२५॥

समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् ॥२६॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि पुरोहितयाने प्रथमोऽध्यायः ॥१॥
द्वितीयोऽध्यायः

बलदेव उवाच। श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च ।
अजातशत्रोश्च हितं हितं च दुर्योधनस्यापि तथैव राज्ञः ॥१॥

श्रुतमिति ॥१॥

अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते ।
प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत् ॥२॥

अर्धं राज्यस्य विसृज्य तस्य कृते अर्धस्य राज्यस्यार्थे ॥२॥

लब्ध्वा हि राज्यं पूरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव ।
ध्रुवं प्रशान्ताः सुखमाविशेयुस्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥३॥

राज्यं राज्यार्धम् ॥३॥

दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य ।
प्रियं च मे स्याद्यदि तत्र कश्चिद्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥४॥

स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् ।
द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम् ॥५॥

सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः ।
स्थिताश्च धर्मेषु तथा स्वकेषु लोकप्रवीराः श्रुतकालवृद्धाः ॥६॥

बलं चतुरङ्गं निगमो नीतिशास्त्रं ते उभे प्रधानं येषां श्रुतेन कालेन च वृद्धाः । वृत्ता इति पाठे श्रुतं कालवृत्तं सर्वसंहारकत्वं यैस्ते ॥६॥

एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु ।
ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात् ॥७॥

समागतेषु सभायामिति शेषः ॥७॥

सर्वास्ववस्थासु च ते न कोप्या ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः ।
प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रसक्तस्य हृतं च राज्यम् ॥८॥

वाक्यमेवाह- सर्वास्विति । सर्वथाऽपि ते पाण्डवाः न कोप्याः भवद्भिरिति शेषः । सोऽर्थो ग्रस्तः वनवासादिप्रतिज्ञानिस्तीर्णेत्यर्थः । बलं सत्यपालने सामर्थ्यं, पूर्वं कोपिता अपि अतः परं न कोप्या इति भावः ॥८॥

निवार्यमाणश्च कुरुप्रवीरः सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः ।
स दीव्यमानः प्रतिदीव्य चैनं गान्धारराजस्य सुतं मताक्षम् ॥९॥

अयं युधिष्ठिरः अतज्ज्ञः द्यूतानभिज्ञः ॥९॥

हित्वा हि कर्णं च सुयोधनं च समाह्वयद्देवितुमाजमीढः ।
दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम् ॥१०॥

उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम् ।
स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं स्वपराङ्मुखेषु ॥११॥

संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित् ।
तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम् ॥१२॥

संरम्भमाणः हठं कुर्वाणः संरब्धमान इति पाठे संवृद्धदर्प इत्यर्थः ॥१२॥

तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थें नियोक्तुं पुरुषेण तेन ।
अयुद्धमाकाङ्क्षत कौरवाणां साम्नैव दुर्योधनमाह्वयध्वम्॥१३॥

साम्ना जितोऽर्थोऽर्थकरो भवेत युद्धेऽनयो भविता नेह सोऽर्थः ॥१४॥

युद्धे अनयः भविता भविष्यति । इह सामोपाये सोऽर्थः अनयः न ॥१४॥

वैशम्पायन उवाच। एवं ब्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात ।
तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समुन्युः ॥१५॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि बलदेववाक्ये द्वितीयोऽध्यायः॥२॥
तृतीयोऽध्यायः

सात्यकिरुवाच। यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते ॥१॥

यादृश इति । यादृश आत्मा शुद्धः पापो वा तादृशं शुद्धं पापं वा भाषते ॥१॥

सन्ति वै पुरुषाः शूराः सन्ति का पुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥२॥

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥३॥

फलाफलवती सुपो लुक् आर्षः पूर्वसवर्णो वा ॥३॥

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥४॥

ते तव वाक्यं तत्रापराधः शकुनेर्न कश्चिदिति पूर्वोक्तं कौरवपक्षपातयुक्तम् ॥४॥

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः॥५॥

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ।
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ॥६॥

यथाश्रद्धं द्यूते आसक्तिरहितमिव धर्मे जयः धर्मनिमित्तं जयः कुतः । किं तु अधर्ममूलक एव तेषां जय इत्यर्थः ॥६॥

अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ।
समाहूय तु राजानं क्षत्रधर्मरतं सदा॥७॥

निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ।
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्॥८॥

प्रणिपतेत् शरणागतो भवेत् । पणं कृत्वा वनवासप्रतिज्ञां निस्तीर्य ॥८॥

वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ।
यद्ययं परवित्तानि कामयेत युधिष्ठिरः॥९॥

पैतामहमिति न्यायलभ्यत्वं सूचितम् ॥९॥

एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ।
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः॥१०॥

निवृत्तवासान् कौन्तेयान् य आहुर्विदिता इति ।
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च॥११॥

विदिता अज्ञातचर्यायामिति शेषः । अनुनीताः परिमितः काल एतैरतिवाहित इति बोधिताः ॥११॥

न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ।
अहं तु तान् शितैर्बाणैरनुनीय रणे बलात्॥१२॥

पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ।
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः॥१३॥

गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ।
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः॥१४॥

वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ।
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि॥१५॥

मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ।
यमौ च दृढधन्वानौ यमकालोपमद्युती ।
विराटद्रुपदौ वीरौ यमकालोपमद्युती॥१६॥

यमः शरीरात् प्राणानामुद्धर्ता कालः आयुःपारिच्छेदकर्ता ॥१६॥

को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम् ।
पञ्चैतान् पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ॥१७॥

पाण्डवेयान् पाण्डवी द्रौपदी तत्पुत्रान् । पुंयोगलक्षणङीषन्तात् स्त्रीभ्यो ढगिति ढक् ॥१७॥

समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ।
सौभद्रं च महेष्वासममरैरपि दुःसहम् ॥१८॥

पाण्डूनां पाण्डुतुल्यानां पाण्डवानाम् ॥१८॥

गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान् ।
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ॥१९॥

कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः ॥२०॥

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ।
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ॥२१॥

तस्य पाण्डवस्य ॥२१॥

निसृष्टं धार्तराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ।
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः॥२२॥

निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥२३॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि सात्यकिक्रोधवाक्ये तृतीयोऽध्यायः ॥३॥
चतुर्थोऽध्यायः

द्रुपद उवाच। एवमेतन्महाबाहो भविष्यति न संशयः ।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥१॥

एवमेतदिति । मधुरेण साम्ना ॥१॥

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥२॥

कार्पण्यात् तदन्नभक्षणेन दैन्यात् ॥२॥

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥३॥

ज्ञाने ज्ञानवतां समाजे न युज्यते अयुक्तमित्यर्थः । एतद्वक्ष्यमाणम् ॥३॥

न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथञ्चन ।
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥४॥

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥५॥

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
जितमर्थं न जानीयादबुधो मार्दवे सति ॥६॥

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥७॥

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥८॥

स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम् ॥९॥

पूर्वाभिपन्नाः पूर्वं साहाय्यार्थं वृताः । पूर्वचोदनं पूर्वं चोदना प्रेरणा यस्य तम् ॥९॥

तत् त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥१०॥

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥११॥

अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च ।
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो ॥१२॥

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
सेनजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥१३॥

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥१४॥

शकानां पह्लवानां च दरदानां च ये नृपाः ।
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ॥१५॥

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ।
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः ॥१६॥

आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ।
भूरितेजा देवकश्च एकलव्यः सहात्मजैः ॥१७॥

कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ।
काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥१८॥

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥१९॥

जानकिश्च सुशर्मा च मणिमान्योऽतिमत्सकः ।
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥२०॥

तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥२१॥

बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥२२॥

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥२३॥

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥२४॥

अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः ।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम् ॥२५॥

यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः ॥२६॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्रुपदवाक्ये चतुर्थोऽध्यायः ॥४॥
पञ्चमोऽध्यायः

वासुदेव उवाच। उपपन्नमिदं वाक्यं सोमकानां धुरंधरे ।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ॥१॥

उपपन्नमिति । उपपन्नं युक्तम् ॥१॥

एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम् ।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥२॥

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥३॥

सम्बन्धकं तुल्यमिति पाण्डवेषु कुन्तीद्वारा कुरुषु दुर्योधनकन्यायाः साम्बेनाहरणात् ॥३॥

ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥४॥

भवान् वृद्धतमो राज्ञां वयसा च श्रुतेन च ।
शिष्यवत् ते वयं सर्वे भवामेह न संशयः ॥५॥

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ॥६॥

स भवान् प्रेषयत्वद्य पाण्डवार्थकरं वचः ।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥७॥

वचः सन्देशवाक्यम् ॥७॥

यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः ।
न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः ॥८॥

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान् समाह्वयेः ॥९॥

प्रेषयित्वा दूतमिति शेषः ॥९॥

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥१०॥

निष्ठां नाशम् । ‘निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वहणेषु च’ इति विश्वः ॥१०॥

वैशम्पायन उवाच। ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान् प्रस्थापयामास सगणं सहबान्धवम् ॥११॥

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः ।
चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः ॥१२॥

ततः संप्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥१३॥

वचनात् कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ॥१४॥

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ॥१५॥

समाकुला मही राजन्कुरुपाण्डवकारणात् ।
तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम् ॥१६॥

संकुला च तदा भूमिश्चतुरङ्गबलान्विता ।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ॥१७॥

चालयन्तीव गां देवीं सपर्वतवनामिमाम् ।
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्॥ कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्येगपर्वणि पुरोहितयाने पञ्चमोऽध्यायः ॥५॥
षष्ठोऽध्यायः

द्रुपद उवाच। भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ॥१॥

भूतानामिति ॥१॥

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥२॥

वैद्याः विद्यावन्तः कृतबुद्धयः सिद्धान्तज्ञाः ॥२॥

स भवान् कृबुद्धीनां प्रधान इति मे मतिः ।
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च॥३॥

प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ।
विदितं चापि ते सर्वं यथावृत्तः स कौरवः ॥४॥

पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ।
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः ॥५॥

विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ।
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् ॥६॥

अनक्षज्ञं मताक्षः सन् क्षत्रवृत्ते स्थितं शुचिम् ।
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् ॥७॥

न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ।
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ॥८॥

मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ।
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्॥९॥

भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति ।
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च॥१०॥

पुनरेकत्रकरणं तेषां कर्म भविष्यति ।
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः॥११॥

एतस्मिन्नन्तरे शत्रुषु भिन्नानामेकीकरणे व्यापृतेष्वित्यर्थः ॥११॥

सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ।
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि॥१२॥

लम्बमाने विलम्बं कुर्वाणे ॥१२॥

न तथा ते करिष्यन्ति सेनाकर्म न संशयः ।
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते॥१३॥

संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ।
स भवान् धर्मयुक्तश्च धर्म्यं तेषु समाचरन् ॥१४॥

कृपालुषु परिक्लेशान् पाण्डवीयान्प्रकीर्तयन् ।
वृद्धेषु कुलधर्मं च ब्रुवन् पूर्वैरनुष्ठितम् ॥१५॥

विभेत्स्यति मनांस्येषामिति मे नात्र संशयः ।
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ॥१६॥

दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ।
स भवान् पुष्ययोगेन मुहूर्तेन जयेन च॥१७॥

कौरवेयान् प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥ वैशम्पायन उवाच। तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना ।
पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् ॥१८॥

शिष्यैः परिवृतो विद्वान् नीतिशास्त्रार्थकोविदः ।
पाण्डवानां हितार्थाय कौरवान् प्रति जग्मिवान् ॥१९॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि पुरोहितयाने षष्ठोऽध्यायः ॥६॥
सप्तमोऽध्यायः

वैशम्पायन उवाच। पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् ।
दूतान् प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥१॥

पुरोहितमिति ॥१॥

प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः ।
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥२॥

गते द्वारवतीं कृष्णे बलदेवे च माधवे ।
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥३॥

सर्वमागमयामास पाण्डवानां विचेष्टितम् ।
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥४॥

आगमयामास ज्ञातवान् ॥४॥

स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः ।
बलेन नातिमहता द्वारकामभ्ययात् पुरीम् ॥५॥

तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।
आनर्तनगरीं रम्यां जगामाशु धनञ्जयः ॥६॥

तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥७॥

ततः शयाने गोविन्दे प्रविवेश सुयोधनः ।
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने॥८॥

ततः किरीटी तस्यानुप्रविवेश महामनाः ।
पश्चाच्चैव तु स कृष्णस्य प्रह्वोऽतिष्ठर् कृताञ्जलिः ॥९॥

प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् ।
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ ॥१०॥

तदागमनजं हेतुं पप्रच्छ मधुसूदनः ।
ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव॥११॥

विग्रहेऽस्मिन् भवान् साह्यं मम दातुमिहार्हति ।
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च॥१२॥

तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ।
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन॥१३॥

पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ।
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन ॥१४॥

सततं संमतश्चैव सद्वृत्तमनुपालय। कृष्ण उवाच। भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।
दृष्टस्तु प्रथमं राजन् मया पार्थो धनञ्जयः ॥१५॥

तव पूर्वाभिगमनात् पूर्वं चाप्यस्य दर्शनात् ।
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥१६॥

प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ।
तस्मात् प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥१७॥

प्रवारणमीप्सितप्रदानम् ‘काम्यदानं प्रवारणम्’ इति विश्वः । पूर्वमर्हस्त्वत्तः कनिष्ठत्वादित्यर्थः ॥१७॥

मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
नारायणा इति ख्याताः सर्वे सङ्ग्रामयोधिनः ॥१८॥

ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।
अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥१९॥

आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥२०॥

वैशम्पायन उवाच। एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनञ्जयः ।
अयुध्यमानं सङ्ग्रामे वरयामास केशवम्॥२१॥

नारायणममित्रघ्नं कामाज्जातमजं नृषु ।
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥२२॥

दुर्योधनस्तु तत् सैन्यं सर्वमावरयत्तदा ।
सहस्राणां सहस्रं तु योधानां प्राप्य भारत ॥२३॥

कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ।
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥२४॥

अपहृतं रिक्तं कृतम् ॥२४॥

ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ।
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् ।
प्रत्युवाच ततः शौरिर्द्धार्तराष्ट्रमिदं वचः ॥२५॥

बलदेव उवाच। विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥२६॥

निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।
मया संबन्धकं तुल्यमिति राजन् पुनः पुनः ॥२७॥

न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत ।
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्॥२८॥

नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै ।
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥२९॥

जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥३०॥

वैशम्पायन उवाच। इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम् ।
कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम्॥३१॥

सोऽभ्ययात् कृतवर्माणं धृतराष्ट्रसुतो नृपः ।
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥३२॥

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।
वृतः परिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥३३॥

ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः ।
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥३४॥

अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया। अर्जुन उवाच। भवान् समर्थस्तान् सर्वान्निहन्तुं नात्र संशयः ।
निहन्तुमहमप्येकः समर्थः पुरुषर्षभ ॥३५॥

भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति ।
यशसां चाहमप्यर्थो तस्मादसि मया वृतः ॥३६॥

सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।
चिररात्रेप्सितं कामं तद्भवान् कर्तुमर्हति ॥३७॥

वासुदेव उवाच। उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह ।
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ॥३८॥

वैशम्पायन उवाच। एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा ।
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥३९॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि कृष्णसारथ्यस्वीकारे सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

वैशम्पायन उवाच। शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्ययात् पाण्डवान् राजन् सह पुत्रैर्महारथैः ॥१॥

शल्य इति ॥१॥

तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् ।
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥२॥

अक्षौहिणीपती राजन् महावीर्यपराक्रमः ।
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥३॥

विचित्राभरणाः सर्वे विचित्ररथवाहनाः ।
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥४॥

स्वदेशवेषाभरणा वीराः शतसहस्रशः ।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥५॥

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन् सेनां स ययौ येन पाण्डवः ॥६॥

येन यत्र देशे तत्र, ययौ ॥६॥

ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥७॥

कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥८॥

शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः ।
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥९॥

कूपाश्च विविधाकारा मनोहर्षविवर्धनाः ।
वाप्यश्च विविधाकारा औदकानि गृहाणि च ॥१०॥

स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः ।
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ॥११॥

आजगाम सभामन्यां देवावसथवर्चसम् ।
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः ॥१२॥

मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् ।
पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रियर्षभः ॥१३॥

युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः ।
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥१४॥

प्रसादमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम् ।
दुर्योधनाय तत् सर्वं कथयन्ति स्म विस्मिताः ॥१५॥

संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥१६॥

दिदित्सुः दद दानेऽस्य रूपम् ॥१६॥

तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत् प्रीत इष्टोऽर्थो गृह्यतामिति ॥१७॥

दुर्योधन उवाच। सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता वै भवान् भवितुमर्हति ॥१८॥

वैशम्पायन उवाच। कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥१९॥

शल्य उवाच। गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ ।
अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिन्दमम् ॥२०॥

दृष्ट्वा युधिष्ठिरं राजन् क्षिप्रमेष्ये नराधिप ।
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥२१॥

दुर्योधन उवाच। क्षिप्रमागम्यतां राजन् पाण्डवं वीक्ष्य पार्थिव ।
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥२२॥

शल्य उवाच। क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप ।
परिष्वज्य तथाऽन्योन्यं शल्यदुर्योधनावुभौ ॥२३॥

गच्छस्व प्राप्नुहि स्वपुरं स्वराज्यम् ॥२३॥

स तथा शल्यमामन्त्र्य पुनरायात् स्वकं पुरम् ।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥२४॥

उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।
पाण्डवानथ तान् सर्वान् शल्यस्तत्र ददर्श ह ॥२५॥

उपप्लव्यं विराटनगरस्य प्रदेशविशेषम् । स्कन्धावारं सेनानिवेशस्थानम् ॥२५॥

समेत्य च महाबाहुः शल्यः पाण्डुसुतैस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रतिगृह्णाद्यथविधि ॥२६॥

ततः कुशलपूर्वं हि मद्रराजोऽरिसूदनः ।
प्रीत्या परमया युक्तः समाश्लिष्यद्युधिष्ठिरम्॥२७॥

तथा भीमार्जुनौ कृष्णौ सस्रीयौ च यमावुभौ ।
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह॥२८॥

कृष्णाविति । भीमोऽपि कृष्ण एवासीदिति गम्यते । हृष्टाविति पाठः सुगमः ॥२८॥

कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन ।
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥२९॥

सुदुष्करं कृतं राजन्निर्जने वसता त्वया ।
भ्रातृभिः सह राजेन्द्र कृष्णाया चानया सह ॥३०॥

अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं भ्रष्टराष्ट्रस्य भारत ॥३१॥

दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।
अवाप्स्यसि सुखं राजन् हत्वा शत्रून् परन्तप॥३२॥

विदितं ते महाराज लोकतन्त्रं नराधिप ।
तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते॥३३॥

राजर्षिणां पुराणानां मार्गमन्विच्छ भारत ।
दाने तपसि सत्ये च भव तात युधिष्ठिर ॥३४॥

क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर ।
अद्भुतश्च पुनर्लोकस्त्वयि राजन् प्रतिष्ठितः॥३५॥

मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ।
धर्मास्ते विदिता राजन् बहवो लोकसाक्षिकाः ॥३६॥

वदान्यो मञ्जुलवाक् । ‘वदान्यो वल्गुवागपि’ इत्यमरः ॥३६॥

सर्वं जगदिदं तात विदितं ते परन्तप ।
दिष्ट्या कृच्छ्रमिदं राजन् पारितं भरतर्षभ ॥३७॥

पारितं निस्तीर्णम् ॥३७॥

दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् ।
निस्तीर्णं दुष्करं राजँस्त्वां धर्मनिचयं प्रभो ॥३८॥

वैशम्पायन उवाच। ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥३९॥

युधिष्ठिर उवाच। सुकृतं ते कृतं राजन् प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥४०॥

एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ।
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥४१॥

मम त्ववेक्षया वीर शृणु विज्ञापयामि ते ।
भवानिह महाराज वासुदेवसमो युधि ॥४२॥

कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥४३॥

तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि ।
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ॥४४॥

अकर्तव्यमपि ह्येतत् कर्तुमर्हसि मातुल। शल्य उवाच। श्रृणु पाण्डव ते भद्रं यद्ब्रवीषि महात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥४५॥

अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥४६॥

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥४७॥

प्रतीपं प्रसङ्गप्रतिकूलमहितं परिणामविरुद्धम् ॥४७॥

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥४८॥

एवमेतत् करिष्यामि यथा तात त्वमात्थ माम् ।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥४९॥

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥५०॥

जटासुरात् परिक्लेशः कीचकाच्च महाद्युते ।
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥५१॥

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥५२॥

मन्युर्दैन्यम् ॥५२॥

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥५३॥

इन्द्रेण श्रूयते राजन् सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥५४॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि शल्यवाक्ये अष्टमोऽध्यायः ॥८॥
नवमोऽध्यायः

युधिष्ठिर उवाच। कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥१॥

शल्य उवाच। शृणु राजन् पुरावृत्तमितिहासं पुरातनम् ।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥२॥

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥३॥

ऐन्द्रं स प्रार्थयत् स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥४॥

वेदानेकेन सोऽधीते सुरामेकेन चापिबत् ।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥५॥

स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ॥६॥

तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥७॥

कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ॥८॥

इति संचिन्त्य बहुधा बुद्धिमान् भरतर्षभ ।
आज्ञापयत् सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥९॥

यथा स सज्जेन्त्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत मा चिरम् ॥१०॥

शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः ।
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ॥११॥

कथमिति । हावाः शृङ्गारचेष्टाः, भावाः चित्तविकाराः हर्षादयस्तैर्युक्ताः ॥११॥

प्रलोभयत भद्रं वः शमयध्वं भयं मम ।
अस्वस्थं ह्यात्मनाऽऽत्मानं लक्षयामि वराङ्गनाः ॥१२॥

भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः ।
अप्सरस ऊचुः। तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥१३॥

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।
तं प्रलोभयितुं देव गच्छामः सहिता वयम् ॥१४॥

यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्। शल्य उवाच। इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥१५॥

नित्यं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम् ।
नाभ्यगच्छत् प्रहर्षं ताः स पश्यन् सुमहातपाः ॥१६॥

सौष्ठवं सौन्दर्यं, प्रहर्षं लब्धभोगोऽस्मीति तोषम् ॥१६॥

इन्द्रियाणि वशे कृत्वा पूर्वसागरसन्निभः ।
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ॥१७॥

कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ॥१८॥

यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ।
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ॥१९॥

चिन्तयामास तस्यैव वधोपायं युधिष्ठिर ।
स तूष्णीं चिन्तयन् वीरो देवराजः प्रतापवान् ॥२०॥

विनिश्चितमतिर्धीमान् वधे त्रिशिरसोऽभवत् ।
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ॥२१॥

शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ।
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ॥२२॥

अथ वैश्वानरनिभं घोररूपं भयावहम् ।
मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति ॥२३॥

स पपात हतस्तेन वज्रेण दृढमाहतः ।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥२४॥

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ॥२५॥

हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते ।
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ॥२६॥

ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन् ।
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ॥२७॥

वर्धकिः तक्षा ॥२७॥

तदरण्यं महाराज यत्रास्तेऽसौ निपातितः ।
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ॥२८॥

अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥२९॥

तक्षोवाच ।
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति ।
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥३०॥

न भविष्यति नङ्क्ष्यति ॥३०॥

इन्द्र उवाच। मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम ।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥३१॥

तक्षोवाच ।
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥३२॥

इन्द्र उवाच। अहमिन्द्रो देवराजस्तक्षन् विदितमस्तु ते ।
कुरुष्वैतद्यथोक्तं मे तक्षन् माऽत्र विचारय ॥३३॥

तक्षोवाच ।
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥३४॥

शक्र उवाच। पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् ।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥३५॥

अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै ।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥३६॥

शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन् क्षिप्रं कुरु मम प्रियम् ॥३७॥

शल्य उवाच। एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा ।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत् तदा॥३८॥

निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥३९॥

येन वेदानधीते स्म पिबते सोममेव च ।
तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ॥४०॥

येन सर्वा दिशो राजन् पिबन्निव नीरीक्षते ।
तस्माद्वक्त्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ॥४१॥

यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा ।
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ॥४२॥

ततस्तेषु निकृत्तेषु विज्वरो मघवानथ ।
जगाम त्रिदिवं हृष्टस्तक्षाऽपि स्वगृहान् ययौ॥४३॥

मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ।
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्॥४४॥

क्रोधसंरक्तनयन इदं वचनमब्रवीत् ।
त्वष्टोवाच ।
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् ।
विनाऽपराधेन यतः पुत्रं हिंसितवान् मम ॥४५॥

तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम् ।
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् ॥४६॥

स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ।
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः॥४७॥

उपस्पृश्य आचम्य ॥४७॥

अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम॥४८॥

सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ।
किं करोमीति चोवाच कालसूर्य इवोदितः॥४९॥

शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ।
ततो युद्धं समभवद्वृत्रवासवयोर्महत्॥५०॥

संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ।
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ॥५१॥

अपावृत्याक्षिपद्वक्त्रे शक्रं कोपसमन्वितः ।
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः॥५२॥

अपावृत्य मुखं संप्रसार्य ॥५२॥

असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ।
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्॥५३॥

स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलनाशनः ।
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता॥५४॥

जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ।
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ॥५५॥

संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ।
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः॥५६॥

त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत ।
निवृत्ते च तदा देवा विषादमगमन् परम् ॥५७॥

समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ।
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत॥५८॥

किं कार्यमिति वै राजन् विचिन्त्य भयमोहिताः ।
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥५९॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्रविजये नवमोऽध्यायः ॥९॥
दशमोऽध्यायः

इन्द्र उवाच। सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् ।
न ह्यस्य सदृशं किञ्चित् प्रतिघाताय यद्भवेत् ॥१॥

सर्वमिति ॥१॥

समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् ।
कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः ॥२॥

तेजस्वी च महात्मा च युद्धे चामितविक्रमः ।
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥३॥

तस्माद्विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः ।
विष्णोः क्षयमुपागम्य समेत्य च महात्मना ॥४॥

क्षयं गृहम् 'निलयापचयौ क्षयौ इत्यमरः ॥४॥

तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः। शल्य उवाच। एवमुक्ते मघवता देवाः सर्षिगणास्तदा ।
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥५॥

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः ।
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा ॥६॥

अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे ।
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥७॥

त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम् ।
त्वं हि देवो महादेव सर्वलोकनमस्कृतः ॥८॥

गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम ।
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥९॥

विष्णुरुवाच। अवश्यं करणीयं मे भवतां हितमुत्तमम् ।
तस्मादुपायं वक्ष्यामि यथाऽसौ नभविष्यति ॥१०॥

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥११॥

भविष्यति जयो देवाः शक्रस्य मम तेजसा ।
अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे ॥१२॥

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ॥१३॥

शल्य उवाच। एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा ।
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥१४॥

समीपमेत्य च यदा सर्व एव महौजसः ।
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥१५॥

ग्रसन्तमिव लोकांस्त्रीन् सूर्याचन्द्रमसौ यथा ।
ददृशुस्ते ततो वृत्रं शक्रेण सहदेवताः ॥१६॥

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ।
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥१७॥

न च शक्नोषि निर्जेषुं वासवं बलिनां वर ।
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥१८॥

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः ।
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥१९॥

अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ।
ऋषिवाक्यं निशम्याथ वृत्रःस तु महाबलः ॥२०॥

उवाच तानृषीन् सर्वान् प्रणम्य शिरसाऽसुरः ।
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ॥२१॥

यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः ।
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः ।
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥२२॥

ऋषय ऊचुः। सकृत् सतां सङ्गतं लिप्सितव्यं ततः परं भविता भव्यमेव ।
नातिक्रामेत् सत्पुरुषेण सङ्गतं तस्मात् सतां सङ्गतं लिप्सितव्यम् ॥२३॥

दृढं सतां सङ्गतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।
महार्थवत्सत्पुरुषेण सङ्गतं तस्मात्सन्तं न जिघांसेत धीरः ॥२४॥

इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् ।
सत्यवादी ह्यनिन्द्यश्च धर्मवित् सूक्ष्मनिश्चयः ॥२५॥

तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा ।
एवं विश्वासमागच्छ मा तेऽभूद्बुद्धिरन्यथा ॥२६॥

शल्य उवाच। महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः ।
अवश्यं भगवन्तो मे माननीयास्तपस्विनः॥२७॥

ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि ।
ततः सर्वं करिष्यामि यदूचुर्मां दिजर्षभाः ॥२८॥

न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ।
न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि ॥२९॥

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ॥३०॥

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ ।
एवं वृत्ते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ॥३१॥

युक्तः सदाऽभवच्चापि शक्रो हर्षसमन्वितः ।
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत् ॥३२॥

छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट् ।
स कदाचित् समुद्रान्ते समपश्यन्महासुरम् ॥३३॥

सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे ।
ततः सञ्चिन्त्य भगवान् वरदानं महात्मनः ॥३४॥

सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ।
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥३५॥

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् ।
महाबलं महाकायं न मे श्रेयो भविष्यति॥३६॥

एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन् ।
अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमप् ॥३७॥

नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति॥३८॥

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् ।
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥३९॥

निहते तु ततो वृत्रे दिशो वितिमिराऽभवन् ।
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा ॥४०॥

ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः ।
ऋषयश्च महेन्द्रं तमस्तुवन् विविधैः स्तवैः ॥४१॥

नमस्कृतः सर्वभूतैः सर्वभूतान्यसान्त्वयत् ।
हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः ॥४२॥

विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ।
ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥४३॥

अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।
त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया॥४४॥

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ॥४५॥

प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः ।
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥४६॥

भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना ।
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च॥४७॥

संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् ।
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥४८॥

अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।
ततो भीताऽभवन् देवाः को नो राजा भवेदिति ॥४९॥

दिवि देवर्षयश्चापि देवराजविनाकृताः ।
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम् ॥५०॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि वृत्रवधे इन्द्रविजयो नाम दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः

शल्य उवाच। ऋषयोऽथाब्रुवन् सर्वे देवाश्च त्रिदिवेश्वराः ।
अयं वै नहुषः श्रीमान् देवराज्येऽभिषिच्यताम् ॥१॥

क्रुद्धमिति ॥१॥

तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा ।
ते गत्वा त्वब्रुवन् सर्वे राजा नो भव पार्थिव ॥२॥

नोऽस्माकं राजा भव ॥२॥

स तानुवाच नहुषो देवानृषिगणांस्तथा ।
पितृभिः सहितान् राजन् परीप्सन् हितमात्मनः ॥३॥

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।
बलवान् ज्ञायते राजा बलं शक्रे हि नित्यदा ॥४॥

तमब्रुवन् पुनः सर्वे देवा ऋषिपुरोगमाः ।
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥५॥

परस्परभयं घोरमस्माकं हि न संशयः ।
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥६॥

देवदानवयक्षाणामृषीणां रक्षसां तथा ।
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्॥७॥

तेज आदास्यसे पश्यन् बलवांश्च भविष्यसि ।
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव ॥८॥

ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे ।
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥९॥

धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् ।
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे॥१०॥

धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ।
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च॥११॥

कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥१२॥

अप्सरोभिः परिवृतो देवकन्यासमावृतः ।
नहुषो देवराजोऽथ क्रीडन् बहुविधं तदा ॥१३॥

श्रृण्वन् दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥१४॥

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।
ऋतवः षट् च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥१५॥

मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः ।
एवं च क्रीडतस्तस्य नहुषस्य दुरात्मनः ॥१६॥

संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ।
स तां संदृश्य दुष्टात्मा प्राह सर्वान् सभासदः ॥१७॥

इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ।
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥१८॥

आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥१९॥

रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता ।
सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे॥२०॥

देवराजस्य दयितामत्यन्तं सुखभागिनीम् ।
अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम् ॥२१॥

उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ।
नोक्तपूर्वं च भगवन् वृथा ते किञ्चिदीश्वर ॥२२॥

तस्मादेतद्भवेत् सत्यं त्वयोक्तं द्विजसत्तम ।
बृहस्पतिरथोवाच शक्राणीं भयमोहिताम् ॥२३॥

शक्राणीमिन्द्राणी मार्ष आनुक् ॥२३॥

यदुक्ताऽसि मया देवि सत्यं तद्भविता ध्रुवम् ।
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् ॥२४॥

न भेत्तव्यं च नहुषात् सत्यमेतद्ब्रवीमि ते ।
समानयिष्ये शक्रेण न चिराद्भवतीमहम्॥२५॥

अथ शुश्राव नहुष शक्राणीं शरणं गताम् ।
बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ॥२६॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्राणीभये एकादशोऽध्यायः ॥११॥
द्वादशोऽध्यायः

शल्य उवाच। क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः ।
अब्रुवन् देवराजानं नहुषं घोरदर्शनम् ॥१॥

देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो ।
त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम् ॥२॥

जहि क्रोधमिमं साधो न कुप्यन्ति भवद्विधाः ।
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥३॥

निवर्तय मनः पापात् परदाराभिमर्शनात् ।
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥४॥

एवमुक्तो न जग्राह तद्वचः काममोहितः ।
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥५॥

अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी ।
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥६॥

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा ।
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥७॥

क्रुद्धमिति । वैधर्म्याणि त्वाष्ट्रवधादीनि उपधाः वृत्रसख्यादीनि छलानि ॥७॥

उपतिष्ठतु देवीमामेतदस्या हितं परम् ।
युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥८॥

देवा ऊचुः। इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ।
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥९॥

शल्य उवाच। इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत ।
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥१०॥

जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ।
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥११॥

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते ।
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥१२॥

इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः ।
वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी ॥१३॥

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम् ।
उवाच रुदती दीना बृहस्पतिमिदं वचः ॥१४॥

नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम ।
शरणागताऽस्मि ते ब्रह्मंस्त्रायस्व महतो भयात् ॥१५॥

बृहस्पतिरुवाच। शरणागतं न त्यजेयमिन्द्राणि मम निश्चयः ।
धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते ॥१६॥

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः ।
श्रुतधर्मा सत्यशीलो जानन् धर्मानुशासनम् ॥१७॥

नाहमेतत् करिष्यामि गच्छध्वं वै सुरोत्तमाः ।
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥१८॥

न तस्य बीजं रोहति रोहकाले न तस्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे न स त्रातारं लभते त्राणमिच्छन् ॥१९॥

प्रपन्नं शरणागतम् ॥१९॥

मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः ।
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥२०॥

अचेताः दुर्बलचित्तः ॥२०॥

प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते ।
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥२१॥

एतदेवं विजानन् वै न दास्यामि शचीमिमाम् ।
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्॥२२॥

अस्या हितं भवेद्यच्च मम चापि हितं भवेत् ।
क्रियतां तत्सुरश्रेष्ठा नहि दास्याम्यहं शचीम् ॥२३॥

शल्य उवाच। अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः ।
कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते ॥२४॥

बृहस्पतिरुवाच। नहुषं याचतां देवी किंचित्कालान्तरं शुभा ।
इन्द्राणी हितमेतद्धि तथाऽस्माकं भविष्यति॥२५॥

कालान्तरं कालावधिम् ॥२५॥

बहुविघ्नः सुराः कालः कालः कालं नयिष्यति ।
गर्वितो बलवांश्चापि नहुषो वरसंश्रयात् ॥२६॥

शल्य उवाच। ततस्तेन तथोक्ते तु प्रीता देवास्तथाऽब्रुवन् ।
ब्रह्मन् साध्विदमुक्तं ते हितं सर्वं दिवौकसाम् ॥२७॥

एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ।
ततः समस्ता इन्द्राणीं देवाश्चाग्निपुरोगमाः ॥२८॥

ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ।
देवा ऊचुः। त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् ।
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥२९॥

क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत् ।
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥३०॥

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये ।
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥३१॥

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् ।
समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥३२॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्राणीकालावधियाचने द्वादशोऽध्यायः॥१२॥
त्रयोदशोऽध्यायः

शल्य उवाच। अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा ।
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ॥१॥

अथेति ॥१॥

भजस्व मां वरारोहे पतित्वे वरवर्णिनि ।
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ॥२॥

प्रावेपत भयोद्विग्ना प्रवाते कदली यथा ।
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः॥३॥

देवराजमथोवाच नहुषं घोरदर्शनम् ।
कालमिच्छाम्यहं लब्धुं त्वत्तः कंचित्सुरेश्वर ॥४॥

न हि विज्ञायते शक्रः किंवा प्राप्तः क्व वा गतः ।
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ॥५॥

ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ।
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥६॥

नहुष उवाच। एवं भवतु सुश्रोणि यथा मामिह भाषसे ।
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥७॥

नहुषेण विसृष्टा च निश्चक्राम ततः शुभा ।
बृहस्पतिनिकेतं च सा जगाम यशस्विनी ॥८॥

तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः ।
चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम॥९॥

देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना ।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥१०॥

ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः ।
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ॥११॥

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया ॥१२॥

विष्णुत्वं व्यापकत्वमव्यापकेन जगद्रक्षाया असंभवात् ॥१२॥

वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ।
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ॥१३॥

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥१४॥

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ।
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ॥१५॥

किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः ।
श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्॥१६॥

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥१७॥

तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥१८॥

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ।
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥१९॥

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः ।
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान् ॥२०॥

अकम्पन्नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः ।
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्॥२१॥

अकम्पत् अकम्पत तङभाव आर्षः ॥२१॥

ततः शचीपतिर्देवः पुनरेव व्यनश्यत ।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥२२॥

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।
हा शक्रेति तदा देवी विललाप सुदुःखिता ॥२३॥

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि ।
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥२४॥

पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे ।
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥२५॥

प्रयता च निशां देवीमुपातिष्ठत तत्र सा ।
पतिव्रतात्वात् सत्येन सोपश्रुतिमथाकरोत् ॥२६॥

उपश्रुतिं संदेहनिर्णायिकां देवीमाकरोदाकास्तिवती ॥२६॥

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे ।
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम् ॥२७॥

यत्रेति । अयं चार्थः ‘आ नो या ह्युपश्रुत्युक्थेषु रणया इह ॥ दिवो अमुष्य शासतो दिवं यय दिवावसो’ इति मन्त्रोक्त उपबृंहितः । मन्त्रार्थस्तु - हे उपश्रुति नः अस्मान् प्रति आयाहि उक्थेषु काम्येषु कर्मसु इह रणय इष्टं कामं गमय प्रापय ॥ रण गतावितस्य रूपम् । अमुष्य बुद्धिस्थस्य दिवं शासत इन्द्रस्य दिवं प्रकाशं यय गमय यच्छेत्यर्थः । व्यय गतावित्यस्य लोटि रूपम् । वलोप आर्षः । हे दिवावसो अह्नो धनं सूर्यस्तद्वत् तमोग्रस्तमर्थं प्रकाशयितुं समर्थः ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि उपश्रुतियाचने त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

शल्य उवाच। अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः ।
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥१॥

अथैनामिति ॥१॥

इन्द्राणी संप्रहृष्टात्मा संपूज्यैनामथाब्रवीत् ।
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥२॥

उपश्रुतिरुवाच। उपश्रुतिरहं देवि तवान्तिकमुपागता ।
दर्शनं चैव संप्राप्ता तव सत्येन भाविनि ॥३॥

पतिव्रता च युक्ता च यमेन नियमेन च ।
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ॥४॥

क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ।
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्॥५॥

प्रहितां प्रस्थिताम् ॥५॥

देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्॥६॥

समुद्रं च समासाद्य बहुयोजनविस्तृतम् ।
आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥७॥

तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर्वृतम् ।
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥८॥

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः॥९॥

सरसस्तस्य मध्ये तु पद्मिनी महती शुभा ।
गौरेणोन्नतनालेन पद्मेन महता वृता ॥१०॥

पद्मस्य भित्त्वा नालं च विवेश सहिता तया ।
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥११॥

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् ।
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा॥१२॥

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः ।
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः ॥१३॥

किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् ।
ततः सा कथयामास नहुषस्य विचेष्टितम् ॥१४॥

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः ।
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ॥१५॥

उपतिष्ठेति स क्रूरः कालं च कृतवान्मम ।
यदि न त्रास्यसि विभो करिष्यति स मां वशे ॥१६॥

त्रस्यसि पालयिष्यसि तङभाव आर्षः ॥१६॥

एतेन चाहं संप्राप्ता द्रुतं शक्र तवान्तिकम् ।
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥१७॥

प्रकाशयात्मनाऽत्मानं दैत्यदानवसूदन ।
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्राणीन्द्रस्तवे चतुर्दशोऽध्यायः ॥१४॥
पञ्चदशोऽध्यायः

शल्य उवाच। एवमुक्तः स भगवान् शच्या तां पुनरब्रवीत् ।
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥१॥

एवमिति ॥१॥

विवर्धितश्च ऋषिभिर्हव्यकव्यैश्च भाविनि ।
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥२॥

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ॥३॥

ऋषियानेन दिव्येन मामुपैहि जगत्पते ।
एवं तव वशे प्रीता भविष्यामीति तं वद ॥४॥

इत्युक्त्वा देवराजेन पत्नी सा कमलेक्षणा ।
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥५॥

नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् ।
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥६॥

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।
तव कल्याणि यत् कार्यं तत् करिष्ये सुमध्यमे ॥७॥

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः ।
सत्येन वै शपे देवि करिष्ये वचनं तव ॥८॥

इन्द्राण्युवाच ।
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते ।
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ॥९॥

कार्यं च हृदि मे यत्तद्देवराजावधारय ।
वक्ष्यामि यदि मे राजन् प्रियमेतत् करिष्यसि ॥१०॥

वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ।
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ॥११॥

इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप ।
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ॥१२॥

वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो ।
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥१३॥

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ॥१४॥

न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान्। शल्य उवाच। एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल ।
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥१५॥

नहुष उवाच। अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि ।
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने ॥१६॥

न ह्यल्पवीर्यो भवति यो वाहान् कुरुते मुनीन् ।
अहं तपस्वी बलवान् भूतभव्यभवत्प्रभुः ॥१७॥

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् ।
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ॥१८॥

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते ।
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥१९॥

तस्मात्ते वचनं देवि करिष्यामि न संशयः ।
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ॥२०॥

मां वक्ष्यन्ति मम वहनं करिष्यन्ति ॥२०॥

पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि। शल्य उवाच। एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् ॥२१॥

विमाने योजयित्वा च ऋषीन्नियममास्थितान् ।
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च ।
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥२२॥

नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत् ।
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥२३॥

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ।
बाढमित्येव भगवान् बृहस्पतिरुवाच ताम् ॥२४॥

न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ।
न ह्येष स्थास्यति चिरं गत एष नराधमः ॥२५॥

अधर्मज्ञो महर्षीणां वाहनाच्च ततः शुभे ।
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ॥२६॥

शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ।
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ॥२७॥

बृहस्पतिर्महातेजा देवराजोपलब्धये ।
हुत्वाऽग्निं सोऽब्रवीद्राजञ्छक्रमन्विष्यतामिति ॥२८॥

अन्विष्यतामनुगच्छतु भवान् ॥ इष गतावित्यस्य दिवादे रूपम् ॥२८॥

तस्माच्च भगवान् देवः स्वयमेव हुताशनः ।
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत॥२९॥

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च ।
पृथिवीं चान्तरिक्षं च विचिन्त्याथ मनोगतिः॥३०॥

निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ।
अग्निरुवाच। बृहस्पते न पश्यामि देवराजमिह क्वचित् ।
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥३१॥

न मे तत्र गतिर्ब्रह्मन् किमन्यत् करवाणि ते ।
तमब्रवीद्देवगुरुरपो विश महाद्युते ॥३२॥

अग्निरुवाच। नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति ।
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ॥३३॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥३४॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि बृहस्पत्यग्निसंवादे पञ्चदशोऽध्यायः ॥१५॥
षोडशोऽध्यायः

बृहस्पतिरुवाच। त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट् ।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्॥१॥

त्वमिति ॥१॥

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः ।
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥२॥

एकं जाठरं त्रिविधं गार्हपत्यदक्षिणाग्न्याहवनीयरूपेण त्वयैकेन ॥२॥

कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् ।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥३॥

तुभ्यं त्रिविधाय ॥३॥

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः ।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ॥४॥

सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥५॥

प्रसूतिरुत्पत्तिस्थानम् । प्रतिष्ठा लयस्थानम् ॥५॥

त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः ।
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ॥६॥

हेतयः ज्वालाः ॥६॥

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् ।
न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु पावक ॥७॥

स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः ।
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥८॥

एवं स्तुतो हव्यवाट् स भगवान् कविरुत्तमः ।
बृहस्पतिमथोवाच प्रीतिमान् वाक्यमुत्तमम्॥९॥

दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते। शल्य उवाच। प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः ।
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ॥१०॥

अथ तत्रापि पद्मानि विचिन्वन् भरतर्षभ ।
अपश्यत् स तु देवेन्द्रं विसमध्यगतं तदा ॥११॥

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः ।
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥१२॥

गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥१३॥

महासुरो हतः शक्र नमुचिर्दारुणस्त्वया ।
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥१४॥

शतक्रतो विवर्धस्व सर्वान् शत्रून्निषूदय ।
उत्तिष्ठ शक्र संपश्य देवर्षींश्च समागतान् ॥१५॥

महेन्द्र दानवान् हत्वा लोकास्त्रातास्त्वया विभो ।
अपां फेनं समासाद्य विष्णुतेजोऽतिबृंहितम् ।
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥१६॥

त्वं सर्वभूतेषु शरण्य ईड्यस्त्वया समं विद्यते नेह भूतम् ।
त्वया धार्यन्ते सर्वभूतानि शक्त त्वं देवानां महिमानं चकर्थ ॥१७॥

पाहि सर्वांश्च लोकांश्च महेन्द्रबलमाप्नुहि ।
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥१८॥

स्वं चैव वपुरास्थाय बभूव स बलान्वितः ।
अब्रवीच्च गुरं देवो बृहस्पतिमवस्थितम् ॥१९॥

किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ॥२०॥

बृहस्पतिरुवाच। मानुषो नहुषो राजा देवर्षिगणतेजसा ।
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥२१॥

इन्द्र उवाच। कथं च नहुषो राज्यं देवानां प्राप दुर्लभम् ।
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ॥२२॥

बृहस्पतिरुवाच। देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत् ।
तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे ॥२३॥

गत्वाऽब्रुवन्नहुषं तत्र शक्र त्वं नो राजा भव भुवनस्य गोप्ता ।
तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम् ॥२४॥

एवमुक्तैर्वर्धितश्चापि देवै राजाऽभवन्नहुषो घोरवीर्यः ।
त्रैलोक्ये च प्राप्य राज्यं महर्षीन् कृत्वा वाहान् याति लोकान् दुरात्मा ॥२५॥

तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् ।
देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः ॥२६॥

शल्य उवाच। एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः ।
वैवस्वतश्चैव यमः पुराणो दवेश्च सोमो वरुणश्चाजगाम॥२७॥

ते वै समागम्य महेन्द्रमूचुर्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः ।
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र ॥२८॥

स तान् यथावच्च हि लोकपालान् समेत्य वै प्रीतमना महेन्द्रः ।
उवाच चैनान् प्रतिभाष्य शक्रः संचोदयिष्यन्नहुषस्यान्तरेण ॥२९॥

नहुषस्यान्तरेण अन्तरं भेदः बुद्धिभेदार्थमित्यर्थः ॥२९॥

राजा देवानां नहुषो घोररूपस्तत्र साह्यं दीयतां मे भवद्भिः ।
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम ईश ॥३०॥

त्वं चेद्राजानं नहुषं पराजयेस्ततो वयं भागमर्हाम शक्र ।
इन्द्रोऽब्रवीद्भवतु भवानपां पतिर्यमः कुबेरश्च मयाभिषेकम् ॥३१॥

संप्राप्नुवन्त्वद्य सहैव दैवतै रिपुं जयाम तं नहुषं घोरदृष्टिम् ।
ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये ।
तमाह शक्रो भविताऽग्ने तवापि चेन्द्राग्न्योर्वै भाग एको महाक्रतौ॥३२॥

शल्य उवाच। एवं सञ्चिन्त्य भगवान् महेन्द्रः पाकशासनः ।
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥३३॥

वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा ।
आधिपत्यं ददौ शक्रः सञ्चिन्त्य वरदस्तथा ॥३४॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्रवरुणादिसंवादे षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

शल्य उवाच। अथ संचिन्तयानस्य देवराजस्य धीमतः ।
नहुषस्य वधोपायं लोकपालैः सदैवतैः ॥१॥

अथेति ॥१॥

तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ।
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ॥२॥

अर्चाभ्यर्च्य ॥२॥

विश्वरूपविनाशेन वृत्रासुरवधेन च ।
दिष्ट्याऽद्य नहुषो भ्रष्टो देवराज्यात् पुरन्दर ॥३॥

दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन। इन्द्र उवाच। स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात् तव ।
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥४॥

शल्य उवाच। पूजितं चोपविष्टं तमासेन मुनिसत्तमम् ।
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥५॥

एतदिच्छामि भगवन् कथ्यमानं द्विजोत्तम ।
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥६॥

अगस्त्य उवाच। श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् ।
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥७॥

श्रमार्ताश्च वहन्तस्तं नहुषं पापकारिणम् ।
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥८॥

पप्रच्छुर्नहुषं देवं संशयं जयतां वर ।
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ॥९॥

गवां प्रोक्षणे प्रोक्षणोपाकरणमारणादिसंस्कारे ये मन्त्राः ‘देवांश्च याभिर्यजते ददाति च गावः सोमस्य प्रथमस्य भक्षः’ इत्यादयः । याभिः पशुभूताभिर्गोभिः भक्ष इति भक्षणान्तयाग उच्यते ॥९॥

एते प्रमाणं भवत उताहो नेति वासव ।
नहुषो नेति तानाह तमसा मूढचेतनः ॥१०॥

नहुषस्तु ‘ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति’ इति शास्त्रप्रामाण्याद्ब्राह्मणवद्गवामवध्यत्वं मन्वानो वदेमप्रमाणीचकार । वेदस्य ब्राह्मणानां चावमानादधोगतिः प्राप्यत इत्याख्यायिकातात्पर्यम् ॥१०॥

ऋषय ऊचुः। अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे ।
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥११॥

अगस्त्य उवाच। ततो विवदमानः स मुनिभिः सह वासव ।
अथ मामस्पृशन् मूर्ध्नि पादेनाधर्मपीडितः ॥१२॥

तेनाभूद्धततेजाश्च निःश्रीकश्च महीपतिः ।
ततस्तं तमसाऽऽविग्नमवोचं भृशपीडितम् ॥१३॥

यस्मात् पूर्वैः कृतं राजन् ब्रह्मर्षिभिरनुष्ठितम् ।
अदृष्टं दूषयसि मे यच्च मूर्ध्न्यस्पृशः पदा ॥१४॥

यच्चापि त्वमृषीन् मूढ ब्रह्मकल्पान् दुरासदान् ॥१५॥

वाहान् कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ।
ध्वंस पापपरिभ्रष्टः क्षीणपुण्यो महीतले ॥१६॥

दशवर्षसहस्राणि सर्परूपधरो महान् ।
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥१७॥

एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम ।
दिष्ट्या वर्धामहे शक्र हतो ब्रह्मणकण्टकः॥१८॥

त्रिविष्टपं प्रपद्यस्व पाहि लोकान् शचीपते ।
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥१९॥

शल्य उवाच। ततो देवा भृशं तुष्टा महर्षिगणसंवृताः ।
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥२०॥

गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः ।
सरांसि सरितः शैलाः सागराश्च विशांपते ॥२१॥

उपागम्याब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन् ।
हतश्च नहुषः पापो दिष्ट्याऽगस्त्येन धीमता ।
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥२२॥

इति श्रीमहाभाते उद्योगपर्वणि सेनोद्योगपर्वणि इन्द्रागस्त्यसंवादे नहुषभ्रंशे सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

शल्य उवाच। ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः ।
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥१॥

तत इति ॥१॥

पावकः सुमहातेजा महर्षिश्च बृहस्पतिः ।
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥२॥

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥३॥

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः ।
मुदा परमया युक्तः पालयामास देवराट् ॥४॥

ततः स भगवांस्तत्र अङ्गिराः समदृश्यत ।
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्॥५॥

ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत ।
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा॥६॥

अथर्वाङ्गिरसो नाम वेदेऽस्मिन् वै भविष्यति ।
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे॥७॥

एवं संपूज्य भगवानथर्वाङ्गिरसं तदा ।
व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥८॥

संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् ।
इन्द्रः प्रमुदितो राजन् धर्मेणापालयत् प्रजाः ॥९॥

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया ।
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥१०॥

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने ।
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥११॥

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत ।
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥१२॥

दुराचारश्च नहुषो ब्रह्मद्विट् पापचेतनः ।
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः॥१३॥

एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥१४॥

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् ।
भ्रातृभिः सहितो वीर द्रौपद्या च सहानया ॥१५॥

उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता॥१६॥

तस्मात् संश्रावयामि त्वां विजयं जयतां वर ।
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर॥१७॥

क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् ।
दुर्योधनापराधेन भीमार्जुनबलेन च॥१८॥

आख्यानमिन्द्रविजयं य इदं नियतः पठेत् ।
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते ॥१९॥

न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः ।
नापदं प्राप्नुयात् किञ्चिद्दीर्घमायुश्च विन्दति ।
सर्वत्र दयमाप्नोति न कदाचित् पराजयम् ॥२०॥

वैशम्पायन उवाच। एवमाश्वासितो राजा शल्येन भरतर्षभ ।
पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥२१॥

श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥२२॥

भवान् कर्णस्य सारथ्यं करिष्यति न संशयः ।
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवः ॥२३॥

अथर्वाङ्गिरसो नामेति यतोऽङ्गिरा अथर्ववेदमन्त्रैरिन्द्रं तुष्टाव ततोऽथर्वा‌ङ्गिरसो नामाऽभवत् अस्मिन्वेदेऽथर्ववेदे अथर्ववेदस्य ऋषिरित्यर्थः । उदाहरणं वाक्यमेतत् अथर्ववेदरूपं, ‘यस्य वाक्यं स ऋषिः’ इति परिभाषावचनात् ॥७॥ शत्रुतेजसो वधो येन तादृशोऽर्जुनसस्तवः ॥२३॥

शल्य उवाच। एवमेतत् करिष्यामि यथा मां संप्रभाषसे ।
यच्चान्यदपि शक्ष्यामि तत् करिष्याम्यहं तव ॥२४॥

वैशम्पायन उवाच। ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा ।
जगाम सबलः श्रीमान् दुर्योधनमरिन्दम ॥२५॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि शल्यगमने अष्टादशोऽध्यायः॥१८॥
एकोनविंशोऽध्यायः

वैशम्पायन उवाच। युयुधानस्ततो वीरः सात्वतानां महारथः ।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥१॥

युयुधान इति । युयुधानः सात्यकिः ॥१॥

तस्य योधा महावीर्या नानादेशसमागताः ।
नानाप्रहरणा वीराः शोभयाञ्चक्रिरे बलम् ॥२॥

परश्वधैर्भिन्दिपालैः शूलतोमरमुद्गरैः ।
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥३॥

खड्गकार्मुकनिर्व्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिः सदाऽशोभतं वै बलम् ॥४॥

तस्य मेघप्रकाशस्य सौवर्णैः शोभितस्य च ।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥५॥

अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम् ।
प्रविश्यान्तर्दधे राजन् सागरं कुनदी यथा ॥६॥

तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्छत् पाण्डवानमितौजसः ॥७॥

मागधश्च जयत्सेनो जारासन्धिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥८॥

तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्॥९॥

तस्य सैन्यमतीवासीत् तस्मिन् बलसमागमे ।
प्रेक्षणीयतरं राजन् सुवेषं बलवत् तदा ॥१०॥

द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥११॥

तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥१२॥

इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥१३॥

युयुत्समानाः कुरुभिः पाण्डवान् समहर्षयन् ।
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् ॥१४॥

भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ।
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥१५॥

बभौ बलमनाधृष्यं कर्णिकारवनं यथा ।
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥१६॥

दुर्योधनमुपायातावक्षौहिण्या पृथक् पृथक् ।
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥१७॥

अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ।
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥१८॥

वनमाला आपादलम्बिनी माला ॥१८॥

अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ।
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥१९॥

आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ।
तेषामक्षौहिणी सेना बहुला विबभौ तदा॥२०॥

विधूयमानो वातेन बहुरूप इवाम्बुदः ।
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा ॥२१॥

उपाजगाम कौरव्यमक्षौहिण्या विशाम्पते ।
तस्य सेनासमावायः शलभानामिवाबभौ ॥२२॥

समावायः समूहः ॥२२॥

स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ।
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥२३॥

महीपालो महावीर्यैर्दक्षिणापथवासिभिः ।
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥२४॥

आवन्त्यौ विन्दानुविन्दौ ॥२४॥

पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ।
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः॥२५॥

संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ।
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥२६॥

तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ।
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥२७॥

युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ।
न हास्तिनपुरे राजन्नवकाशोऽभवत् तदा ॥२८॥

राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत ।
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥२९॥

तथा रोहितकारण्यं मरुभूमिश्च केवला ।
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥३०॥

अहिच्छत्रादयः प्रदेशविशेषाः ॥३०॥

वारणं वाटधानं च यामुनश्चैव पर्वतः ।
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥३१॥

बभूव कौरवेयाणां बलेनातीव संवृतः ।
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥३२॥

यः स पाञ्चालराजेन प्रेषितः कौरवान् प्रति ॥३३॥

इति श्रीमहाभारते उद्योगपर्वणि सेनोद्योगपर्वणि पुरोहितसैन्यदर्शने एकोनविंशोऽध्यायः॥१९॥
॥समाप्तं सेनोद्योगपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in