वैशम्पायन उवाच।
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः
।
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥१॥
स चेति ॥१॥
सर्वं कौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्
।
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥२॥
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः
।
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥३॥
वाक्येति । भवद्भिः किञ्चिद्वक्तव्यमतो हेतोरित्यर्थः ॥३॥
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ
।
तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥४॥
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु
।
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥५॥
एवंगते पाण्डवेयैर्विदितं वः पुरा यथा
।
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण संवृतम्॥६॥
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः
।
शेषवन्तो न शकिता नेतुं वै यमसादनम् ॥७॥
शेषवन्तः आयुःशेषयुक्ताः ॥७॥
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः
।
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥८॥
तदप्यनुमतं कर्म यथायुक्तमनेन वै
।
वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥९॥
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम्
।
अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः॥१०॥
तथा विराटनगरे योन्यन्तरगतैरिव
।
प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः ॥११॥
योन्यन्तरगतैरिवेति तैर्दत्तान् क्लेशान् जन्मान्तरव्यवहितानिव न स्मरन्तीत्यर्थः ॥११॥
ते सर्वं पृष्ठतः कृत्वा तत् सर्वं पूर्वकिल्बिषम्
।
सामैव कुरुभिः सर्धमिच्छन्ति कुरुपुङ्गवाः ॥१२॥
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च
।
अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः ॥१३॥
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह
।
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥१४॥
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति
।
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥१५॥
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः
।
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥१६॥
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः
।
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥१७॥
एकादशैताः पृतना एकतश्च समागताः
।
एकतश्च महाबाहुर्बहुरूपी धनञ्जयः ॥१८॥
यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते
।
एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥१९॥
बहुलत्वं च सेनानां विक्रमं च किरीटिनः
।
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥२०॥
ते भवन्तो यथाधर्मं यथासमयमेव च
।
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि पुरोहितयाने विंशोऽध्यायः॥२०॥
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः
।
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥१॥
तस्येति ॥१॥
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते
।
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥२॥
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः
।
दिष्ट्या न युद्धमनसः पाण्डवाः सह बान्धवैः ॥३॥
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः
।
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥४॥
असंशयं क्लेशितास्ते वने चेह च पाण्डवाः
।
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥५॥
किरीटि बलवान् पार्थः कृतास्त्रश्च महारथः
।
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥६॥
अपि वज्रधरः साक्षात् किमुतान्ये धनुर्भृतः
।
त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥७॥
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना
।
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥८॥
धृष्टं धर्षणायुक्तं यथा स्यात्तथा आक्षिप्य तिरस्कृत्य ॥८॥
न तत्राविदितं ब्रह्मन् लोके भूतेन केनचित्
।
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥९॥
तत्र पाण्डवपक्षे ॥९॥
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान् पुरा
।
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥१०॥
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्
।
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥११॥
तं समयं कालं तच्च सङ्केतवाक्यं त्रयोदशवर्षे ज्ञातैः पुनर्वने वस्तव्यमित्येवंरूपं वा । समय इत्युपक्रम्य ‘सङ्केते कालभाषयोः’ इति मेदिनी । आश्रित्य निर्वाह्य पैतृकं राज्यांशं नेच्छति । किंतु तदतिक्रमेणैव पैतृकमिच्छतीत्यर्थः ॥११॥
दुर्योधनो भयाद्विद्वन्न दद्यात् पादमन्ततः
।
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥१२॥
पादं चतुर्थांशमपि किमुतार्धमित्यर्थः ॥१२॥
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः
।
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥१३॥
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः
।
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥१४॥
अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः
।
आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम ॥१५॥
भीष्म उवाच।
किं नु राधेय वाचा ते कर्म तत् स्मर्तुमर्हसि
।
एक एव यदा पार्थः षड्रथाञ्जितवान् युधि ॥१६॥
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते
।
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्
।
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्॥१७॥
वैशम्पायन उवाच।
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च
।
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥१८॥
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्
।
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥१९॥
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्
।
स भवान् प्रति यात्वद्य पाण्डवानेव मा चिरम् ॥२०॥
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्
।
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि पुरोहितयाने एकविंशोऽध्यायः॥२१॥
धृतराष्ट्र उवाच।
प्राप्तानाहुः सञ्जय पाण्डुपुत्रानुपप्लव्ये तान् विजानीहि गत्वा
।
अजातशत्रुं च सभाजयेथा दिष्ट्याऽऽनह्य स्थानमुपस्थितस्त्वम् ॥१॥
प्राप्तानिति । दिष्ट्या भाग्येन आनह्य संनद्धो भूत्वा स्थानं स्थितिमुपस्थितः प्राप्त इति सभाजयेथाः पूजयेथाः ॥१॥
न केवलं मध्यदेशापेक्षया उदीचीं किंतु उत्तरान् कुरून् हिमाचलादप्युदकदेशान् स्वर्गभूमिरूपान्॥१॥
सर्वान् वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हान्निरुष्य
।
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथोपेतानामुपकारिणां सताम् ॥२॥
स्वस्तिमन्तो वयमिति सर्वान् वदेः कृच्छ्रं निरुष्यापि तेषां शान्तिरक्रोधोऽस्मासु विद्यते मिथ्यापेतानां निष्कपटानाम् ॥२॥
नाहं क्वचित् सञ्जय पाण्डवानां मिथ्यावृत्तिं काञ्चन जात्वपश्यम्
।
सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव ॥३॥
मह्यं पर्याकार्षुः मदर्थं परित आनीतवन्तः ॥३॥
दोषं ह्येषां नाध्यगच्छं परीच्छन्नित्यं कञ्चिद्येन गर्हेय पार्थान्
।
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रियेनानुरुध्यन्ति कामात् ॥४॥
धर्मार्थाभ्यां धर्मार्थमर्थार्थं च सुखं प्रीतिः प्रियं पुत्रादि तदनुरोधेन कामात् धर्मं न त्यजन्तीत्यर्थः॥४॥
धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्
।
धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगात् प्रयतन्ति पार्थाः ॥५॥
तन्द्री जाग्रत एव मौढ्यम् ॥५॥
त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यते तेषु मैत्री
।
यथार्हमानार्थकरा हि पार्थास्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे॥६॥
यथार्हं मानमर्थं च कुर्वन्ति ते तथा ॥६॥
अन्यत्र पापाद्विषमान्मन्दबुद्धेर्दुर्योधनात् क्षुद्रतराच्च कर्णात्
।
तेषां हीमौ हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः ॥७॥
तेजः क्रोधम् ॥७॥
उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत्
।
तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् ॥८॥
उत्थाने आरम्भकाले एव वीर्यं न प्रसङ्गे यस्य स उत्थानवीर्यः यत्तु तेषां भागं हर्तुं शक्यं मन्यते तत् सुकृतं युक्तमिति मन्यते मौढ्यादिति भावः ॥८॥
यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः
।
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति पुरा युद्धात् साधु तस्य प्रदानम् ॥९॥
यस्य पदवीं यान्ति यस्यानुगा इत्यर्थः । तस्य तस्मै प्रदानं भागप्रदानम् ॥९॥
स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः
।
तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा ॥१०॥
जिष्णुर्जयशीलः ॥१०॥
तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद्यः सर्वलोकेषु वरेण्य एकः
।
पर्जन्यघोषान् प्रवपन् शरौघान् पतङ्गसङ्घानिव शीघ्रवेगान् ॥११॥
वरेण्यः भोगमोक्षकामैर्वरणीयः ॥११॥
दिशं ह्युदीचीमपि चोत्तरान् कुरून् गाण्डीवधन्वैकरथो जिगाय
।
धनं चैषामाहरत् सव्यसाची सेनानुगान् द्रविडांश्चैव चक्रे ॥१२॥
यश्चैव देवान् खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
।
उपाहरत् पाण्डवो जातवेदसे यशो मानं वर्धयन् पाण्डवानाम् ॥१३॥
जातवेदसे उपाहरत् खाण्डवमिति विपरिणामेनानुषङ्गः ॥१३॥
गदाभृतां नास्ति समोऽत्र भीमाद्धस्त्यारोहो नास्ति समश्च तस्य
।
रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बलेनायुतनागवीर्यम् ॥१४॥
सुशिक्षितः कृतवैरस्तरस्वी दहेत् क्षुद्रांस्तरसा धार्तराष्ट्रान्
।
सदात्यमर्षी न बलात् स शक्यो युद्धे जेतुं वासवेनापि साक्षात् ॥१५॥
सुतेजसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन
।
श्येनौ यथा पक्षिपूगान् रुजन्तौ माद्रीपुत्रौ शेषयेतां न शत्रून् ॥१६॥
एतद्बलं पूर्णमस्माकमेवं यत्सत्यं तान् प्राप्य नास्तीति मन्ये
।
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः ॥१७॥
एतत् परिदृश्यमानं बलं भीष्मद्रोणादीनां सामर्थ्यं तदपि सत्यं तथाऽपि तान् पाण्डवान् प्राप्य नास्तीति मन्ये तुच्छमित्यर्थः ॥१७॥
सहामात्यः सोमकानां प्रबर्हः संत्यक्तात्मा पाण्डवार्थे श्रुतो मे
।
अजातशत्रुं प्रसहेत कोऽन्यो येषां स स्यादग्रणीर्वृष्णिसिंहः ॥१८॥
प्रवर्हः श्रेष्ठः । सन्त्यक्तात्मा त्यक्तदेहः ॥१८॥
सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः
।
स वै सपुत्रः पाण्डवार्थे च शश्वद्युधिष्ठिरे भक्त इति श्रुतं मे ॥१९॥
सहोषितो वर्षमात्रं चरितार्थः गोग्रहे रक्षितः । मात्स्येयानां मत्स्यदेशजानाम् ॥१९॥
अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति
।
केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्चानुवसन्ति पार्थान् ॥२०॥
केकयेभ्यो देशेभ्यः । अवरुद्धाः बहिर्निःसारिताः पञ्च भ्रातरः केकयानाम् । यतः केकयेभ्यः राज्यं प्राप्तुमिच्छन्तः पूर्वमस्मदीया अपि संप्रति पाण्डवान् अनुवसन्ति - अनुसरन्ति । तेन स्वपक्षहानिः परपक्षपुष्टिश्च दर्शिता ॥२०॥
सर्वांश्च वीरान् पृथिवीपतीनां समागतान् पाण्डवार्थे निविष्टान्
।
शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान् संश्रितान् धर्मराजम् ॥२१॥
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः
।
म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः ॥२२॥
पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः
।
समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥२३॥
समिति संग्रामे ‘समित्याजिसमिद्युधः’ इति कोशः । अप्रतिवीर्यतेजाः अतुल्यतेजाः ॥२३॥
अस्त्रं द्रोणादर्जुनाद्वासुदेवात् कृपाद्भीष्माद्येन वृतं शृणोमि
।
यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः॥२४॥
कार्ष्णिः प्रद्युम्नस्तत्तुल्यम् ॥२४॥
उपाश्रिताश्चेदिकरूषकाश्च सर्वोद्योगैर्भूमिपालाः समेताः
।
तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥२५॥
चेदिपतिं शिशुपालं कृष्णो ममर्देत्युत्तरेणान्वयः ॥२५॥
अस्तम्भनीयं युधि मन्यमान्यो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम्
।
सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा संममर्द ॥२६॥
ज्यां धनुर्गुणं कर्षतां धनुर्मृताम् ॥२६॥
यशोमानौ वर्धयन् पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य
।
यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः॥२७॥
यस्य मानं वर्धयन्ति तं शिशुपालमभिनदिति सम्बन्धः ॥२७॥
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्
।
के प्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये॥२८॥
चेदिपतिं विहायान्ये तं कृष्णं के प्राद्रवन् न केऽपि किंतु स एव तेन स्पर्द्धां चकारेत्यर्थः ॥२८॥
यस्तं प्रतीपस्तरसा प्रत्युदीयादाशंसमानो द्वैरथे वासुदेवम्
।
सोऽशेत कृष्णेन हतः परासुर्वातेनेवोन्मथितः कर्णिकारः ॥२९॥
आशंसमानो जयमिति शेषः । अशेत शयनं कृतवान् शिशुपालः ॥२९॥
पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य
।
अनुस्मरंस्तस्य कर्माणि विष्णोर्गावल्गणेनाधिगच्छामि शान्तिम् ॥३०॥
यत् यतः अवेदयन्त ज्ञापितवन्तः चाराः इति शेषः ॥३०॥
न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः
।
प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ ॥३१॥
कृष्णौ वासुदेवार्जुनौ ॥३१॥
न चेद्गच्छेत् सङ्गरं मन्दबुद्धिस्ताभ्यां लभेच्छर्म तदा सुतो मे
।
नोचेत् कुरून् सञ्जय निर्दहेतामिन्द्राविष्णू दैत्यसेनां यथैव ॥३२॥
सङ्गरं चेन्न गच्छेत्तदा शर्म लभेत् नोचेदन्यथा इन्द्रो विष्णुश्च अर्जुनवासुदेवौ निर्दहेतामित्यन्वयः॥३२॥
मते हि मे शक्रसमो धनञ्जयः सनातनो वृष्णिवीरश्च विष्णुः
।
धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः॥३३॥
शक्रपुत्रत्वात् शक्रसमः धर्मपुत्रत्वात् धर्मारामः ॥३३॥
दुर्योधनेन निकृतो मनस्वी नोचेत् क्रुद्धः प्रदहेद्धार्तराष्ट्रान्
।
नाहं तथा ह्यर्जुनाद्वासुदेवाद्भीमाद्वाऽहं यमयोर्वा बिभेमि॥३४॥
निकृतो वञ्चितः मनस्वी जितमनाः ॥३४॥
यथा राज्ञः क्रोधदीप्तस्य सूतमन्योरहं भीततरः सदैव
।
महातपा ब्रह्मचर्येण युक्तः सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥३५॥
मन्योः क्रोधात् ॥३५॥
तस्य क्रोधं सञ्जयाहं समीक्ष्य स्थाने जानन् भृशमस्म्यद्य भीतः
।
स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम् ॥३६॥
स्थाने जानन् युक्तं पश्यन् ॥३६॥
अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्
।
जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् ॥३७॥
महामात्रं महाभागम् ॥३७॥
अनामयं मद्वचनेन पृच्छेर्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः
।
न तस्य किंचिद्वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत ॥३८॥
शान्तिमीप्युरस्तीति वदेत्यध्याहारः ॥३८॥
प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः
।
समानीतान् पाण्डवान् सृञ्जयांश्च जनार्दनं युयुधानं विराटम् ॥३९॥
समानीतान् एकत्र स्थितान् ॥३९॥
अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च
।
यद्यत्तत्र प्राप्तकालं परेभ्यस्त्वं मन्येथा भारतानां हितं च
।
तद्भाषेथाः सञ्जय राजमध्ये न मूर्च्छयेद्यन्न च युद्धहेतुः॥४०॥
न मूर्च्छयेत् वर्धयेत् क्रोधमिति शेषः ॥४०॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययाने धृतराष्ट्रसन्देशे द्वाविंशोऽध्यायः॥२२॥
वैशम्पायन उवाच।
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः
।
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥१॥
राज्ञ इति ॥१॥
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम्
।
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥२॥
गावल्गणिः सञ्जयः सूतसूनुरजातशत्रुमवदत् प्रतीतः
।
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥३॥
प्रतीतो हृष्टः ॥३॥
अनामयं पृच्छति त्वाऽम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी
।
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ ॥४॥
कच्चित् कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा
।
मनस्विनी यत्र च वाञ्च्छसि त्वमिष्टान् कामान् भारत स्वस्तिकामः ॥५॥
यत्र आप्तवर्गे त्वं स्वस्तिकामः कल्याणार्थी यांश्च इष्टान् कामान् भोग्यान् गजरथादीन् वाञ्छसि ते सर्वे कुशलिनः कच्चिदित्यनुषङ्गः ॥५॥
युधिष्ठिर उवाच।
गावल्गणे सञ्जय स्वागतं ते प्रीयामहे ते वयं दर्शनेन
।
अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥६॥
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
।
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥७॥
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः
।
स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥८॥
वृत्तिरस्मासु स्नेहः ॥८॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा
।
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान् कुशली सूतपुत्र ॥९॥
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसन्धः शलश्च
।
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥१०॥
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः
।
महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥११॥
कुरुभ्यः स्पृहयन्ति कच्चिदित्यनुषङ्गः । कुरूणां कल्याणमयुद्धेन वाञ्च्छन्ति कच्चिदिति भावः ॥११॥
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कच्चिदेतेऽप्यरोगाः
।
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान् द्रोणपुत्रः ॥१२॥
येषां राष्ट्रे निवसति तेषां कुरूणां मध्ये धनुर्भूतः कश्चिन्मानं लभन्ते ॥१२॥
वैश्यापुत्रः कुशली तात कच्चिन्महाप्राज्ञो राजपुत्रो युयुत्सुः
।
कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥१३॥
स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत
।
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥१४॥
महानस्यो महानसे परिचारिकाः । वध्वः स्नुषाः । अब्यलीकाः निष्कपटाः ॥१४॥
कच्चिद्राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत् तात वृत्तिम्
।
कच्चिद्दायान् मामकान् धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति ॥१५॥
वृत्तिं जीविकां दातुमिति शेषः । दायान्मद्दत्तान् ग्रामादीन् ॥१५॥
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान् वै
।
स्वर्गस्य कच्चिन्न तथा वर्त्मभूतामुपेक्षते तेषु सदैव वृत्तिम् ॥१६॥
अतिक्रमान्नोपेक्षत इत्युत्तरार्धान्नञोऽपकर्षेण योज्यम् ॥१६॥
एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा
।
ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥१७॥
एतद्ब्राह्मणानां वृत्तेः पालनं ज्योतिः परलोकप्रकाशकं जीवलोके इह शुक्लं यशस्करम् । दोषं लोभं ब्राह्मणवृत्त्युपघातेन न नियच्छन्ति ॥१७॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे
।
कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदैश्चैकमत्यात् ॥१८॥
बुभूषते प्रापयितुमिच्छति । भेदेन जिजीविषन्ति शत्रुभिर्भेदिताः सन्तस्तद्दत्तैर्धनैर्जीवितुमिच्छन्ति॥१८॥
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव
।
द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित् ॥१९॥
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवः सर्व एव
।
कच्चिद्दृष्ट्वा दस्युसङ्घान् समेतान् स्मरन्ति पार्थस्य युधां प्रणेतुः ॥२०॥
पार्थस्यार्जुनस्य कृत्यं स्मरन्ति । युधां सङ्ग्रामाणां प्रणेतुर्निर्वाहकस्य आहुः शमं कुर्विति शेषः । शमेति पाठे शम शाम्य शान्तिं गच्छेत्यर्थः ॥२०॥
मौर्वीभुजाग्रप्रहितान् स्म तात दोधूयमानेन धनुर्धरेण
।
गाण्डीवनुन्नांस्तनयित्नुघोषानजिह्मगान् कच्चिदनुस्मरन्ति ॥२१॥
मौर्व्याः भुजः कौटिल्यं तस्य अग्रमिवाग्रं शरसन्धानदेशः । ततः प्रहितान् प्रेषितान् ॥२१॥
न चापश्यं कञ्चिदहं पृथिव्यां योधं समं वाऽधिकमर्जुनेन
।
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः समंतो हस्तवापः॥२२॥
सुवाससः सुपुङ्खाः। हस्तवापो हस्तक्षेपः। वचनभेदेऽपि सामानाधिकरण्यं शतं स्त्रियोऽस्य परिग्रह इतिवत् एकषष्टिर्बाणा अस्य एकेन यत्नेन प्रक्षेप्या इत्यर्थः ॥२२॥
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके
।
नागः प्रभिन्न इव नड्वलेषु चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥२३॥
नड्वलेषु सतृणेषु स्थलेषु ॥२३॥
माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद्दन्तकूरे
।
वामेनास्यन् दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥२४॥
दन्तकूरे कूरमन्नं दन्ताः क्रोधावेशात् कूरवच्चर्व्यन्तेऽस्मिन्निति दन्तकूरः सङ्ग्रामः तस्मिन् अस्यन् क्षिपन् ॥२४॥
पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान् सञ्जय पश्यतस्ते
।
दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥२५॥
पराभवो द्वैतवने य आसीद्दुर्मंत्रिते घोषयात्रागतानाम्
।
यत्र मन्दाञ्छत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च ॥२६॥
जयः अर्जुनः ॥२६॥
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्
।
गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥२७॥
अहम् अर्जुनस्य तदा पृष्ठरक्षकः प्रेरकोऽभवमित्यर्थः । भीमसेनश्च माद्रीसुतयोः पृष्टरक्षकोऽभूत् पञ्चभिरप्यस्माभिस्ते मोचिता इत्यर्थः ॥२७॥
न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह सञ्जय
।
सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥२८॥
न कर्मणोत सर्वात्मना सर्वोपायैः दानभेददण्डैश्चेत् धृतराष्ट्रस्य पुत्रं जेतुं न शक्नुमस्तर्हि एकेन साधुना कर्मणा सामाख्येनोपायेन सुखं सुखेन जेतुं नैव शक्यं भवति । साम्नाऽसाध्ये हि दानादयः प्रत्युज्यन्ते तैरप्यसाध्यः कथं साममात्रेण साध्यः स्यात् । अतो दण्डैकसाध्यः स इति भावः । पाठान्तरे परिणेतुं स्वायत्तीकर्तुम् ॥२८॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि युधिष्ठिरप्रश्ने त्रयोविंशोऽध्यायः॥२३॥
युधिष्ठिर उवाच।
समागताः पाण्डवाः सृञ्जयाश्च जनार्दनो युयुधानो विराटः
।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत् सूतपुत्र ॥१॥
समागता इति ॥१॥
सञ्जय उवाच।
अजातशत्रुं च वृकोदरं च धनञ्जयं माद्रवतीसुतौ च
।
आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम् ॥२॥
पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम्
।
सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन् कुरूणाम् ॥३॥
शमं राजा धृतराष्ट्रोऽभिनन्दन्नयोजयत्त्वरमाणो रथं मे
।
सभ्रातृपुत्रस्वजनस्य राज्ञस्तद्रोचतां पाण्डवानां शमोऽस्तु ॥४॥
रथमयोजयत् इह आगन्तुं राज्ञो वचनं पाण्डवानां रोचतां ततश्च शमोऽस्तु ॥४॥
सर्वैर्धर्मैः समुपेतास्तु पार्थाः संस्थानेन मार्दवेनार्जवेन
।
जाताः कुले ह्यनृशंसा वदान्या ह्रीनिषेवाः कर्मणां निश्चयज्ञाः ॥५॥
संस्थानेनाकारेण । मार्दवेन कृपया । आर्जवेन अकौटिल्येन । अनृशंसाः अनुग्राः । ह्रीनिषेवाः लज्जापरायणाः ॥५॥
न युज्यते कर्म युष्मासु हीनं सत्वं हि वस्तादृशं भीमसेनाः
।
उद्भासते ह्यञ्जनबिन्दुवत्तच्छुभ्रे वस्त्रे यद्भवेत् किल्बिषं वः॥६॥
सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः
।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च॥७॥
सर्वक्षयः अभावसंस्थः शून्ये एव परिसमाप्तः क्षयः तत्र तत् प्रथमार्थे त्रल् । जयोऽपि बन्धुनाशात् पराजय एव ॥७॥
ते वै धन्या यैः कृतं ज्ञातिकार्यं ते वै पुत्राः सुहृदो बान्धवाश्च
।
उपक्रुष्टं जीवितं सन्त्यजेयुर्यतः कुरूणां नियतो वै भवः स्यात्॥८॥
ज्ञातीनां दुर्योधनादीनां कार्यं घोषयात्रायां गन्धर्वेभ्यो मोचनादिकमुपक्रुष्टं निन्दितम् ॥८॥
ते चेत् कुरूननुशिष्याथ पार्था निर्णीय सर्वान् द्विषतो निगृह्य
।
समं वस्तज्जीवितं मृत्युन स्याद्यज्जीवध्वं ज्ञातिवधेन साधु ॥९॥
निर्णीय निश्चयं कृत्वा निगृह्य हत्वेत्यर्थः ॥९॥
को ह्येव युष्मान् सह केशवेन सचेकितानान् पार्षतबाहुगुप्तान्
।
ससात्यकीन् विषहेत प्रजेतुं लब्ध्वाऽपि देवान् सचिवान् सहेन्द्रान् ॥१०॥
ननु युद्धे जयपराजयावनित्यावित्याह- को हीति द्वाभ्याम् ॥१०॥
को वा कुरून् द्रोणभीष्माभिगुप्तानश्वत्थाम्ना शल्यकृपादिभिश्च
।
रणे विजेतुं विषहेत राजन् राधेयगुप्तान् सह भूमिपालैः ॥११॥
महद्बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः
।
सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित्॥१२॥
निःश्रेयसं निश्चयम् ॥१२॥
कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः
।
सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम् ॥१३॥
निर्धर्मार्थं धर्मार्थयोर्विरुद्धं कर्म कथं कुर्युः । प्रणतोऽस्मीति शेषः ॥१३॥
कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात् कुरुसृञ्जयानाम्
।
न ह्येवमेवं वचनं वासुदेवो धनञ्जयो वा जातु किंचिन्न कुर्यात् ॥१४॥
एवमेवं वचनमिति द्विरुक्त्या विकल्पवाक्यं न कुर्यात् ॥१४॥
प्रणान् दद्याद्याचमानः कुतोऽन्यदेतद्विद्वन् साधनार्थं ब्रवीमि
।
एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥१५॥
प्राणानिति । एतत् भवतां जयोऽपि पराजय एवेति दीनवचनम् । को वा कुरून् जयेतेति तीक्ष्णवचनम् । कथं स्वस्ति स्यादित्युभयनाशवचनं च साधनार्थं सन्धिकार्यस्य सिद्ध्यर्थं ब्रवीमि न तु युष्मान् भीषयामीत्यर्थः ॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि सञ्जयवाक्ये पञ्चविंशोऽध्यायः॥२५॥
युधिष्ठिर उवाच।
कां नु वाचं सञ्जय मे शृणोषि युद्धैषिणीं येन युद्धाद्बिभेषि
।
अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥१॥
कामिति ॥१॥
अकुर्वतश्चेत् पुरुषस्य सञ्जय सिद्ध्येत् सङ्कल्पो मनसा यं यमिच्छेत्
।
न कर्म कुर्याद्विदितं ममैतदन्यत्र युद्धाद्बहु यल्लघीयः ॥२॥
अकुर्वतश्चेत्संकल्पः सिद्ध्येत्तर्हि कर्म न कुर्यात् । असिद्धावपि युद्धादन्यत्र - अन्यत् । अत्रापि प्रथमार्थे त्रल् । लघीयोऽपि कर्म कुर्यान्न तु युद्धम् ॥२॥
कुतो युद्धं जातु नरोऽवगच्छेत् को देवशप्तो हि वृणीत युद्धम्
।
सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥३॥
अहीनमनपगतम् ॥३॥
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्
।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं य इन्द्रियाणां प्रीतिरसानुगामी॥४॥
धर्मोदयं सुखं निदाघे गङ्गावगाहादिजं न त्वधर्मोदयं हिंसादिजं तत्त्वतो वस्तुतस्तु सर्वं कर्म दुःखमेव यतः कृच्छ्रोपायं क्लेशसाध्यं तर्हि कुतः कर्म कुर्वन्तत्यिाशङ्क्याह - सुखमिति ॥४॥
कर्माभिध्या स्वशरीरं दुनोति यया प्रमुक्तो न करोति दुःखम्
।
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य॥५॥
कामाभिध्या विषयध्यानं ययेति सर्वात्मना विषयविस्मरणे महत्सुखमस्तीति भावः । भोगान्निष्कामता न संभवतीत्याह - यथेति ॥५॥
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः
।
संपश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः॥६॥
उक्तमर्थं प्रकृते योजयति - संपश्येति । अस्माभिरित्यत्र धार्तराष्ट्रान् अन्तर्भाव्याह पञ्चाधिकेन पुत्रशतेन सह धृतराष्ट्रस्य भोगं महान्तं पश्य अथापि कृत्स्रं स्वस्यैव भवत्विति बुद्ध्याऽस्मान् राज्याद्दूरीकृत्य ततो भोगात् तृप्तिं न लभत इति भावः ॥६॥
नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान्वै गीतशब्दं शृणोति
।
नाश्रेयान्वै सेवते माल्यगन्धान्न चाप्यश्रेयाननुलेपनानि॥७॥
पितृव्यानिन्दादोषाद्भीतः पुनराह - नाश्रेयानिति यः पुष्यवत्तरः स विग्रहाणामीश्वरो भवति परैः सह विरोधं कृत्वा स्वोत्कर्षं करोति । अन्यस्तु तेनैव नश्यति अतः स पुण्यवत्तर एव । अस्मद्दोषात्तु वयं वने दुःखमनुभवामो न तु परापराधेनेति भावः ॥७॥
नाश्रेयान्वै प्रावारान् संविवस्ते कथं त्वस्मान् संप्रणुदेत् कुरुभ्यः
।
अत्रैव स्यादबुधस्यैव कामः प्रायः शरीरे हृदयं दुनोति ॥८॥
प्रावारान् दिव्यवासांसि संविवस्ते परिधत्ते । अन्यथा अश्रेयांश्चेद्राजा तर्हि अस्मान् कुरुभ्यः कथं संप्रणुदेत् दूरीकुर्यात् । शत्रूणां राज्याद्भ्रंशनं हि पुण्यवतामेव कर्म नाश्रेयसामिति भावः । अत्रेति । यद्यप्येवं तथाऽपि अन्तर्दाहकरोऽयं कामः । अबुधस्य दुर्योधनादेरेव उचितो न बुधस्यास्मदादेरित्यर्थः । शरीरे शरीरमध्ये स्थितं हृदयं दुनोति खेदयति ॥८॥
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु
।
यथात्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति ॥९॥
अबुधत्वमेवाह - स्वयमिति । विषमस्थः सङ्कटस्थः सन् परेषु कर्णादिषु । आत्मनो वृत्तमशक्तत्वं तथा परेषां कर्णादीनामपि स दुर्योधनोऽभ्युपैति ॥९॥
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य
।
यथा विवृद्धं वायुवशेन शोचेत् क्षेमं मुमुक्षुः शिशिरव्यपाये ॥१०॥
गम्भीरकक्षे बहुतृणे गहने वने क्षेमं शोचेत् मम सुखं नास्तीति शोकं कुर्यात् । मुमुक्षुः तस्माद्दाहादात्मानं मोचयितुमिच्छुः शिशिरव्यपाये वसन्ते तत्रापि निदाघकाले दाहकाले मध्याह्ने ॥१०॥
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते सञ्जय कस्य हेतोः
।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥११॥
लालप्यते दीनवत् भाषते मन्दमभाग्यम् ॥११॥
अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्य
।
सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव ॥१२॥
विदुरस्य वाचोऽवमत्य सुतस्य प्रियैषी अधर्ममेव संविशते आश्रयते ॥१२॥
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम्
।
स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात् ॥१३॥
कुरुभ्यः कुरूणां हितार्थं न सस्मार नादृतवान् । पुत्रकाम्यात् पुत्रलोभात् ॥१३॥
मानघ्नस्यासौ मानकामस्य चेर्षोः संरम्भिणश्चार्थधर्मातिगस्य
।
दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य ॥१४॥
असौ राजा सुतस्य प्रियैषी धर्मकामौ प्राजहात् त्यक्तवानिति द्वयोः संबन्धः । ईर्षोः परोत्कर्षासहिष्णोः संरम्भिणः क्रोधिनः मन्युवशानुगस्य दैन्यभाजां कर्णादीनामनुगस्य दौर्हृदैः पापैः भावितस्य पूजितस्य ॥१४॥
अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहः सञ्जय पापबुद्धेः
।
सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद्धर्मकामौ ॥१५॥
अनेयस्य अशिक्षणीयस्य अश्रेयसः अभाग्यस्य प्रपश्यमानः पश्यन्नपि ॥१५॥
तदैव मे सञ्जय दीव्यतोऽभून्मतिः कुरूणामागतः स्यादभावः
।
काव्यां वाचं विदुरो भाषमाणो न विन्दते यद्धार्तराष्ट्रात् प्रशंसाम् ॥१६॥
प्रशंसां विदुरेण सम्यगुक्तमिति स्तुतिं धार्तराष्ट्राद्विदुरो न लेभे ॥१६॥
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून् सूत तदाऽभ्याजगाम
।
यावत् प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥१७॥
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत
।
दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य ॥१८॥
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात् कुरुसृञ्जयानाम्
।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥१९॥
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम्
।
तस्मिन् शमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥२०॥
तस्मिन् लुब्धे शमः न उपलभ्यः यः मुद्गते मम वनं प्रति गमने सति सर्वं स्वकमेवार्थं मन्यते इति योज्यम् ॥२०॥
यत्तत् कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै
।
आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥२१॥
पारणीयं जेतुं शक्यं युद्धानि गोग्रहादौ आसन् । द्वीपो द्वीपवत् युद्धप्रवाहेण उह्यमानस्याश्रयः ॥२१॥
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च
।
अन्ये च ये कुरवस्तत्र सन्ति यथार्जुनान्नास्त्यपरो धनुर्धरः ॥२२॥
यथेति । गन्धर्वतो बन्धनप्राप्तिं सूचयति ॥२२॥
जानन्त्येतत् कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः
।
दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने ॥२३॥
जानन्तीति । अविद्यमाने इति छेदः ॥२३॥
तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम्
।
किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥२४॥
अनुबन्धं बध्नातीति बन्धो राज्यादिः तमनुसृत्य वर्तमानं पाण्डवानां ममत्वं धार्तराष्ट्रो हर्तुं शक्यं मन्यते । किं कृत्वा तेन किरीटिना सह तत्र राज्ये निमित्ते सति संयुगं संग्रामं गत्वा प्राप्य । तालो हस्तचतुष्टयम् । तद्वेदिना धनुर्विद्यावेदिना ॥२४॥
गाण्डीवविस्फारितशब्दमाजावशृण्वाना धार्तराष्ट्रा ध्रियन्ते
।
क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम् ॥२५॥
ध्रियन्ते जीवन्ति ॥२५॥
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुमैश्वर्यं नो जीवति भीमसेने
।
धनञ्जये नकुले चैव सूत तथा वीरे सहदेवे सहिष्णौ ॥२६॥
स चेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत
।
एवं रणे पाण्डवकोपदग्धा न नश्येयुः सञ्जय धार्तराष्ट्राः ॥२७॥
एतां बुद्धिं राज्यस्य अप्रदाने नाशोऽस्तीत्येवंरूपाम् ॥२७॥
जानामि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन् सञ्जयाहं क्षमेयम्
।
यच्चास्माकं कौरवैर्भृतपूर्वं या नो वृत्तिर्धार्तराष्ट्रे तदाऽऽसीत् ॥२८॥
भूतपूर्वं भीमबन्धनजतुगृहदाहादि ॥२८॥
अद्यापि तत्तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथा त्वमात्थ
।
इन्द्रेप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्र्यः ॥२९॥
इन्द्रप्रस्थे इत्युपराज्यं मम भवतु, भारताग्र्य इति हस्तिनापुरं सुयोधनस्य भवत्विति सूचितम् ॥२९॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि युधिष्ठिरवाक्ये षड्विंशोऽध्यायः॥२६॥
सञ्जय उवाच।
धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ
।
महाश्रावं जीवितं चाप्यनित्यं संपश्य त्वं पाण्डव मा व्यनीनशः॥१॥
धर्मनित्या इति । महान् श्रावः श्रवणं यस्य महाकीर्तिरित्यर्थः । पाठान्तरे तु महान् स्रावो गतिर्यस्य अतिचञ्चलमित्यर्थः । मा व्यनीनशः क्रोधेन धार्तराष्ट्रान् मा नाशय ॥१॥
न चेद्भागं कुरवोऽन्यत्र युद्धात् प्रयच्छेरंस्तुभ्यमजातशत्रो
।
भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥२॥
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च
।
भूयश्च तद्यशसो नानुरूपं तस्मात् पापं पाण्डव मा कृथास्त्वम् ॥३॥
कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र
।
पूर्वं नरस्तान् मतिमान् प्रणिघ्नन् लोके प्रशंसां लभतेऽनवद्याम् ॥४॥
प्रसजन्ते स्पृशन्ति ॥४॥
निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव
।
धर्मं तु यः प्रवृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात् ॥५॥
गृध्रः स्पृहावान् ॥५॥
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति
।
हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥६॥
कर्मणामर्थकामाद्यर्थानां मध्ये ॥६॥
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम्
।
परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥७॥
परं स्थानं परलोकं मन्यमानेन मानयता वर्षपूगं वर्षगणं तत्रत्यसुखेभ्यस्तदर्थं त्वया आत्माऽपि दत्तः ॥७॥
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म
।
वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः॥८॥
सुखप्रिये भोगान् पुत्रादींश्च सेवमानः योगाभ्यासे चित्तवृत्तिनिरोधमभ्यसितुं कर्म आसनप्राणायामादिकं न करोति ॥८॥
एवं पुनर्ब्रह्मचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्
।
अश्रद्दधत् परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः॥९॥
ब्रह्मचर्येति । ब्रह्मणि चर्या आत्मानुसन्धानं तत्र अप्रसक्तः प्रकर्षेण अनासक्तः योगाद्व्यावृत्तः धर्मं च यज्ञादिरूपं हित्वा यः अधर्ममेव प्रकरोति सञ्चिनोति ॥९॥
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाऽप्यथवा पापकानाम्
।
पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेनमनुयात्येव कर्ता ॥१०॥
ननु ‘धर्मेण पापमपनुदति’ इति श्रुतः कालान्तरे अधर्मस्य नाशार्थं धर्ममप्यनुष्ठास्यामः किं मुक्त्येत्याशङ्क्याह - न कर्मणामिति । कृतं कर्म भोगं विना आत्मज्ञानं विना वा न नश्यतीत्यर्थः । ‘नाभुक्तं क्षीयते कर्म’ ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इत्यादिवाक्येभ्यः । उदाहृतश्रुतिस्तु प्रायश्चित्तादिना पापनाशो भवति सोऽपि अत्रैव व्यवहार्यत्वमापादयति न तु परलोकेऽपि पापास्पर्शाय प्रभवतीत्येवंपरा ॥१०॥
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम्
।
अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥११॥
अन्वाहार्येष्वित्यनेन श्रौतमिष्ट्यादिकं लक्ष्यते तत्र हि अन्वाहार्यो दक्षिणात्वेन दीयते ॥११॥
इह क्षेत्रे क्रियते पार्थ कार्यं न वै किञ्चित् क्रियते प्रेत्य कार्यम्
।
कृतं त्वया पारलौक्यं च कर्म पुण्यं महत्सद्भिरतिप्रशस्तम् ॥१२॥
कार्यं धर्मः प्रेत्य मृत्वा ॥१२॥
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि
।
न कर्तव्यं विद्यते तत्र किंचिदन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥१३॥
परलोके कर्म नास्तीत्याह - जहातीति ॥१३॥
एवंरूपं कर्मफलं नरेन्द्र माऽत्रावहं हृदयस्य प्रियेण
।
स क्रोधजं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराय ॥१४॥
एवंरूपमिति । हृदयस्य प्रियेण कामेन ईदृशं क्षयिष्णु इन्द्रियप्रीतिमात्रहेतु कर्मफलं तत् अत्र अस्मिन् लोके माऽवहं नैव वहेयमत्र कर्म कुर्वन् कामवशादमुत्र फलं न प्रार्थयेतेत्यर्थः । ततश्च को लाभ इत्यत आह - स इति । सः त्वमेवं निष्कामकर्मकृत् क्रोधजं लोकं नरकं हर्षजं स्वर्गं चेत्युभौ लोकौ चिराय अपुनरावृत्तये मा प्रहासीः मा गच्छ । ओहाङ् गतावितस्य रूपम् । तङभाव आर्षः । कर्मजं फलं त्यक्त्वा परेण वैराग्येण संपन्नो मोक्षार्थं योगाभ्यासमेव कुरुष्व किं राज्येन बन्धुनाशलभ्येनेत्यर्थः ॥१४॥
अन्तं गत्वा कर्मणां मा प्रजह्याः सत्यं दमं चार्जवमानृशंस्यम्
।
अश्वमेधं राजसूयं तथेज्याः पापस्यान्तं कर्मणो मा पुनर्गाः ॥१५॥
एवं ज्ञानेन कर्मणामन्तं नाशं गत्वा प्राप्य ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन’ इति भगवद्वचनात्, बुद्धतत्त्वोऽपि कृतकृत्योऽपि सत्यादिकं मा त्यज अश्वमेधादीनि कर्माण्यपि लोकसंग्रहार्थं कुरु परन्तु पापस्य कर्मणोऽन्तं समीपं पुनर्मा गाः । ज्ञानोत्तरकालं कृतमपि कर्म न ज्ञानिनं स्पृशतीति भावः । ‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापकं कर्म न श्लिष्यते’ इति श्रुतेः ॥१५॥
तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय
।
निवसध्वं वर्षपूगान् वनेषु दुःखं वासं पाण्डवा धर्म एव ॥१६॥
तच्चेदिति । भो पार्थाः भो पाण्डवाः तत् पापं कर्म गोत्रवधरूपं द्वेषरूपेण चिराय प्रागेत्र चेत् करिष्यध्वं तर्हि यद्वने वर्षपूगान् दुःखं वासं निवसध्वं तद्धर्म एवेति यत्तत्पदाध्याहारेण योज्यम् । राज्यार्थं सर्वलोकनाशमिच्छतां भवतां दुर्योधनेन यो वनवासः कारितः स धर्म एवेत्यर्थः ॥१६॥
अप्रव्रज्ये मा स्म हित्वा पुरस्तादात्माधीनं यद्बलं ह्येतदासीत्
।
नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधानश्च वीरः ॥१७॥
ननु तदानीं सहायाभावादस्माभिर्वनवासोऽङ्गीकृतो न दुर्योधनाज्ञयेत्याशङ्क्याह - अप्रव्रज्येति । इमा इमानि राज्यादीनि । सुपां सुद्धगिति सुपो डादेशः । पुरस्तात् प्रव्रजनकाले एव हित्वा धञो रूपम् । बलेन धृत्वा अप्रव्रज्य वने प्रव्रजनमकृत्वैव आस्म भवेम वयम् । पाण्डवान् आत्मन्यन्तर्भाव्य उत्तमपुरुषप्रयोगः । यत् यतः पुरस्तादपि एतद्बलम् आत्माधीनमेवासीत् ॥१७॥
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सह पुत्रैर्विराटः
।
राजानश्च ये विजिताः पुरस्तात् त्वामेव ते संश्रयेयुः समस्ताः ॥१८॥
महासहायः प्रतपन् बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम्
।
वरान् हनिष्यन् द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥१९॥
बलं कस्माद्वर्धयित्वा परस्य निजान् कस्मात् कर्शयित्वा सहायान्
।
निरुष्य कस्माद्वर्षपूगान् वनेषु युयुत्ससे पाण्डव हीनकालम्॥२०॥
हीनकालं गते काले इत्यर्थः ॥२०॥
अप्राज्ञो वा पाण्डव युद्ध्यमानोऽधर्मज्ञो वा भूतिमथोऽभ्युपैति
।
प्रज्ञावान् वा बुध्यमानोऽपि धर्मं संस्तम्भाद्वा सोऽपि भूतेरपैति ॥२१॥
एवं पूर्वं युद्धमकुर्वता इदानीमपि तन्न कर्तव्यमित्युक्तम् । अथ सर्वथाऽपि युद्धं न कर्तव्यं जयपराजययोरेव्यवस्थितत्वादित्याह - अप्राज्ञ इति । मूढोऽधर्मज्ञो वा युध्यन्नैश्वर्यं लभते प्राज्ञो धर्मज्ञः अयुध्यन् दैवात् ऐश्वर्यात् भ्रश्यतीत्यर्थः ॥२१॥
नाधर्मे ते धीयते पार्थ बुद्धिर्न संरम्भात् कर्म चकर्थ पापम्
।
आत्थ किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥२२॥
ग्रन्थतात्पर्यमाह- नेति । संरम्भात् कोपात् पूर्वमपि पापभयादेव त्वया न कृतं तर्हि इदानीं प्रज्ञाविरुद्धं तत्किमर्थं चिकीर्षसीति भावः ॥२२॥
अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा
।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥२३॥
अव्याधिजं कटुकं पित्तादिकं विनाऽप्यरोचकं यशोमुषं यशोहरं पेयं गिलनीयं मन्युं क्रोधं प्रशाम्य शान्तो भव ॥२३॥
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः
।
यत्र भीष्मः शान्तनवो हतः स्याद्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥२४॥
पापेऽनुबध्नाति तं तथाविधं पापस्य मूलं तं मन्युं यत्र भोगेषु निमित्तेषु । एतेन भीष्मादीनां गुरूणामपि वधो राज्यार्थिनस्त्वत्तो भविष्यतीति दर्शितम् ॥२४॥
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च
।
एतान् हत्वा कीदृशं तत्सुखं स्याद्यद्विन्देथास्तदनु ब्रूहि पार्थ ॥२५॥
लब्ध्वाऽपीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः
।
प्रियाप्रिये सुखदुःखे च राजन्नेवं विद्वान्नैव युद्धं कुरु त्वम् ॥२६॥
अमात्यानां यदि कामस्य हेतोरेवं युक्तं कर्म चिकीर्षसि त्वम्
।
अपक्रामेः स्वं प्रदायैव तेषां मा गास्त्वं वै देवयानात् पथोऽद्य ॥२७॥
देवयानात् पथोऽर्चिरादिमार्गादपुनरावृत्तिफलात् गोत्रद्रोहेण मा गा इत्यर्थः ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि सञ्जयवाक्ये सप्तविंशोऽध्यायः॥२७॥
युधिष्ठिर उवाच।
असंशयं सञ्जय सत्यमेतद्धर्मो वरः कर्मणां यत्त्वमात्थ
।
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरेयम् ॥१॥
असंशयमिति । असंशयं यदि धर्मं चरेयं यदि वा अधर्मं तदुभयं ज्ञात्वा परीक्ष्याधर्माचरणमुपलभ्य गर्हयेः निन्दस्व ॥१॥
यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः
।
बिभ्रद्धर्मो धर्मरूपं तथा च विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या ॥२॥
धर्माधर्मपररीक्षायां त्रैविध्यमाह- यत्रेति । यत्र पुरुषे दम्भादिमति अधर्मः अभिचारार्थं मन्त्रजपादिः धर्म इत्येवान्ये जानन्ति तथा प्रच्छन्नयोगिनि दत्तात्रेयादौ धर्मो रागद्वेषादिशून्यतारूपो योगधर्मोऽपि उन्मत्तवदाचरणाद्धर्मरूप इव दृश्यते । यत्र वसिष्ठादौ धर्मः धर्मरूप एव यद्यपि चाण्डालादौ अधर्मोऽप्यधर्मरूप एवास्ति तथाऽपि तस्यानुपादेयत्वात्त्रयमेव विचार्यम् । पाठान्तरेऽधर्मेति छेदः । एतच्च त्वयाऽपि विदुषा मयि विचार्यमित्याशयः ॥२॥
एवं तथैवापदि लिङ्गमेतद्धर्माधर्मौ नित्यवृत्ती भजेताम्
।
आद्यं लिङ्गं यस्य तस्य प्रमाणमापद्धर्मं सञ्जय तं निबोध ॥३॥
अत्र आद्ययोः प्रच्छन्नत्वात् चिरकालेन तत्त्वानिश्चयः अन्त्ये तु प्रत्यक्षलिङ्गेऽपि आपत्कालवशाद्धर्माधर्मयोर्व्यत्यासो जायत इत्याह- एवमिति । एतदेवरूपं लोकप्रत्यक्षं लिङ्गं ब्राह्मणस्य स्वाध्यायप्रवचनादि। क्षत्रियस्य शौर्यादि । वैश्यस्य कृष्यादि । तत्तथैव यथोक्तमेव तथाऽपि नित्यवृत्ती नित्यं वर्तेते तौ नित्यवृत्ती धर्माधर्मौ तल्लिङ्गं भजेताम् । अयं भावः क्षत्रलिङ्गं ब्राह्मणवैश्ययोरापदि धर्मः अनापद्यधर्मः तथा चैकस्यैव लिङ्गस्य वर्णान्तरे अवस्थाभेदाद्धर्मत्वमधर्मत्वं च नित्यमिति । तत्रापि विशेषमाह- आद्यमिति । आद्यं ब्राह्मणलिङ्गं याजनादि यस्यास्ति ब्राह्मणस्य तस्यैव तत् प्रमाणमव्यभिचारि आपद्यपि क्षत्रियेण याजनाध्यापनादिकं न कर्तव्यमित्यर्थः । एवंविधं तमापद्धर्मं शास्त्रान्निबोध बुध्यस्व ॥३॥
लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत् परीप्सेद्विहीनः
।
प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥४॥
ननु कथं तर्हि एकचक्रायां भिक्षाटनं ब्राह्मणस्यैवासाधारणत्वेन विहितं भवद्भिः कृतमित्याशङ्क्याह- लुप्तायामिति । प्रकृतिः जीविकाहेतुभूतं धनं तच्च क्षत्रियस्य भूमिशस्त्रादिकं वैश्यस्य धनपश्वादिकं तस्मिन्सर्वात्मना नष्टे सति येन कर्म सन्ध्योपासनादिकं निष्पादयेत् तत् भिक्षाटनादिकमपि परीप्सेत् कर्तुमिच्छेत् अन्यथा जीविकाया अभावात्कर्मलोपः प्राणनाशश्च स्यादतोऽत्यन्तापदि तावान् विप्रधर्मोऽपीतैरैरनुष्ठेय एव । प्रकृतिस्थश्चेति । आपदि आपद्धर्मे प्रकृतिस्थोऽपि यद्यापद्धर्ममनुसरेत् स लोभाद्गर्ह्यः। आपत्स्थोऽपि यदि प्राकृतं धर्ममनुसरेत् स जीवनलोपात् कुटुम्बहिंसया च गह्य इत्यर्थः ॥४॥
अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा
।
संपश्येथाः कर्मसु वर्तमानान् विकर्मस्थान् सञ्जय गर्हयेस्त्वम् ॥५॥
अविनाशमिति । यत् यस्माद्धेतोः विधात्रा अविनाशो वृत्यन्तरोपजीवनेन ब्राह्मण्यस्य नाशो विनाशस्तदभावमिच्छतां ब्राह्मणानामापदुत्तीर्णानां प्रायश्चित्तं विहितं तस्माद्धेतोरापदि अन्यस्यान्यधर्माश्रयणं प्रसक्तमेवेति ज्ञायते । अत एव एकचक्रायामस्माभिः कृतं भिक्षाटनं नानुचितमित्यर्थः । एवमनापदि कर्मसु वर्तमानान् आपदि च विकर्मस्थान् संपश्येथाः सम्यगेवेदमिति पश्येथाः । अन्यथा तु आपदि कर्मस्थान् आत्मपरहिंस्रान् अनापदि विकर्मस्थांश्चातिलुब्धान् विगर्हयेस्त्वम् ॥५॥
मनीषिणां सत्त्वविच्छेदनाय विधीयते सत्सु वृत्तिः सदैव
।
अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोत्सङ्गं साधु मन्येत तेभ्यः ॥६॥
किं च मनीषिणां मनसः निग्रहं नाशं कर्तुमिच्छताम् । ईष गतिहिंसादर्शनेष्वित्यस्य रूपम् । सत्त्वविच्छेदनाय सत्त्वस्य बुद्धिसत्त्वस्य चिदात्मना सह एकलोलीभूतस्य विच्छेदनाय मुञ्जेषीकान्यायेन पृथक्करणाय सत्सु सतां गृहेषु वृत्तिर्जीविका शास्त्रे विधीयते । ‘वेदानिमं लोकममुं च परित्यज्यात्मनात्मानमन्विच्छेत्’ इति श्रुत्याऽऽत्मान्वेषणाय सर्वसंन्यासपूर्वकं भिक्षाचर्यविधानात् न ब्राह्मी वृत्तिः कस्यापि निन्द्या । ये तु अब्राह्मणा अपि वैद्याः विद्यानिष्ठाः न भवन्ति तेषां भिक्षाचर्यस्याविधानात् । तेभ्यः तेषामर्थे सर्वोत्सङ्गं सर्वेषामुत्सङ्गं समीपं स्वधर्भसंयोगमापदनापदोरुचितं साधु मन्येत सर्वोच्छेदमिति पाठे तेभ्यस्तेषामर्थे भिक्षाद्यटनं सर्वधर्मोच्छेदाय मन्येतेत्यर्थः ॥६॥
तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये
।
यज्ञैषिणो ये च हि कर्म कुर्युर्नान्यं ततो नास्तिकोऽस्मीति मन्ये ॥७॥
तदध्वान इति । पित्रादयः यज्ञैषिणो ये ते सर्वे तदध्वानः स एव मयोक्तोऽध्वा मार्गो येषां ते तदध्वानोऽभूवन् हि प्रसिद्धं ये च कर्म न कुर्युः संन्यासिन इत्यर्थः । ते सर्वे तदध्वानः अहमपि आस्तिकोऽस्मीति ततोऽन्यमध्वानं न मन्ये ॥७॥
यत्किञ्चनेदं वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परं यत्
।
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः सञ्जय कामयेयम् ॥८॥
एवं स्वस्य नीतिज्ञत्वप्रकाशनप्रसङ्गादापद्धर्मान्योगिधर्मांश्चोक्त्वा प्रकृतमनुसरति यत्किञ्चेति ॥८॥
धर्मेश्वरः कुशलो नीतिमांश्चाप्युपासिता ब्राह्मणानां मनीषी
।
नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः॥९॥
धर्मेश्वरः धर्मफलस्य दाता ॥९॥
यदि ह्यहं विसृजन् साम गर्ह्यो नियुद्ध्यमानो यदि जह्यां स्वधर्मम्
।
महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः॥१०॥
यदि साम विसृजन् स्यां तर्हि गर्ह्यः स्यां यदि वा युद्ध्यमानः स्वधर्मं जह्यां तदा गर्ह्यः स्याम् । मम तु द्वयमपीष्टमेवेति भावः ॥१०॥
शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च
।
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून् सुहृदो नन्दयन्ति॥११॥
वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः
।
मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः॥१२॥
कृष्णप्रणीताः कृष्णेनैव नीतिपथं नीताः ॥१२॥
काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम्
।
यस्मै कामान् वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः॥१३॥
ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम्
।
प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य॥१४॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि युधिष्ठिरवाक्ये अष्टाविंशोऽध्यायः॥२८॥
वासुदेव उवाच।
अविनाशं सञ्जय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च
।
तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम् ॥१॥
अविनाशमिति ॥१॥
कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति
।
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समक्षम् ॥२॥
शाम्यतेति वचनादन्यत्तान् प्रति न ब्रूयां पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि अहं च एतन्मन्ये मानयामि ॥२॥
सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन
।
यस्मिन् गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत् ॥३॥
तत्र राज्ये निमित्ते गृद्धः लिप्सावान् एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ॥३॥
न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानासि युधिष्ठिराच्च
।
अथो कस्मात् सञ्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ॥४॥
विचरं विचलितं पूरयतः पालयतः ॥४॥
यथाख्यातमावमतः कुटुम्बे पुरा कस्मात् साधुविलोपमात्थ
।
अस्मिन् विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् ॥५॥
यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्ठतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम् । अस्मिन् विधौ शुचिरद्रोही कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो यावदायुष्यं वर्तयेदित्येवंरूपे वर्तमानेऽपि ब्राह्मणानामुच्चावचा मतयो गार्हस्थ्यस्य अपरिग्रहे वा त्यागे वा नैष्ठिकबह्मचर्ये पारिव्राज्ये वा भवन्ति ॥५॥
कर्मणाऽऽहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके
।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विहितं ब्राह्मणानाम् ॥६॥
तत्र हेतुमाह- कर्मणेति । सिद्धिं मोक्षमेके । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इत्येके आहुः । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ इत्येके आहुः । यद्यपि एवं कुटुम्बेऽवस्थितिः संन्यासश्च द्वयमपि तुल्यवत् शास्त्रेण विहितं तथाऽपि कृत्स्नभावात्तु गृहिणोपसंहारन्यायेन आश्रमान्तरसाध्यं ज्ञानं गृहस्थेन साधयितुं शक्यं न तु गृहस्थेन साध्यं यज्ञादिकमाश्रमान्तरेऽप्यस्तीति कृत्स्नो धर्मो गार्हस्थ्य एव प्राप्यत इत्याशयेनाह - नाभुञ्जान इति । यतो विद्वानपि अभुञ्जानो न तृप्यति यतश्च ब्राह्मणानां संन्यासिनामपि गृहस्थगृहे विहितं भोजनादिकम् ॥६॥
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम्
।
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥७॥
तेन कर्मणामनुकूला या विद्यास्ता एव फलवत्यो न तु तत्प्रतिकूला इत्याह- या इति । तथा हि ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता’ इति छान्दोग्ये सर्वभूतसंवेशनोद्गमनलिङ्गेन जगत्कारणतया निश्चितस्य प्राणाख्यपरमात्मनो विद्यायाः प्रस्तावकर्मसाधकत्वं दृष्टम् । तासां कर्मसाधकानां विद्यानां फलमस्ति नेतरासां स्वतन्त्राणाम् । अयं भावः- गृहस्थः स्वात्मानमन्यांश्च पित्रादींस्तारयति यतींश्च पुष्णाति यतिस्त्वात्मानमेव तारयति न पित्रादीन् पोषणं च स्वस्यापि न करोति भैक्षोपजीवित्वादतो गार्हस्थ्यमेव श्रेष्ठमिति । किंच्च नैष्क्रर्म्यं दृष्टविरुद्धमपीत्याह- तत्रेति । तत्र कर्मतदभावतारतम्ये विचारणीये कर्म इहैव दृष्टफलम् ॥७॥
सोऽयं विधिर्विहितः कर्मणैव संवर्तते सञ्जय तत्र कर्म
।
तत्र योऽन्यत् कर्मणः साधु मन्येन्मोघं तस्यालपितं दुर्बलस्य ॥८॥
सोऽयं ज्ञानविधिः कर्मणैत्र सह विहितः तत्र च अनुष्ठीयमाने कर्म उद्वर्तते उच्छिद्यते । कर्मसमवेतमेव ज्ञानं सकलकर्मोच्छेदहेतुरित्यर्थः । कर्मणोऽन्यत् संन्यासं मन्येत् मन्यते ॥८॥
कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा
।
अहोरात्रे विदधत् कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥९॥
कर्मसमुच्चितं ज्ञानं स्तौति - कर्मणाऽमी भान्तीत्यादिना । ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निषेवमाणा इत्युपसंहारात् ॥९॥
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमाश्चाभ्युपैति
।
अतन्द्रितो दहते जातवेदाः समिद्ध्यमानः कर्म कुर्वन् प्रजाभ्यः ॥१०॥
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन
।
अतन्द्रिताः शीघ्रमपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥११॥
अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च
।
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन् बलभिद्देवतानाम् ॥१२॥
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप
।
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ॥१३॥
एतानि सर्वाण्युपसेवमानो स देवराज्यं मघवान् प्राप मुख्यम्
।
बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशिमात्मा यथावत् ॥१४॥
हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः
।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ॥१५॥
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत
।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निषेवमाणा ऋषयोऽमुत्र भान्ति ॥१६॥
जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च
।
स कस्मात्त्वं जानतां ज्ञानवान् सन् व्यायच्छसे सञ्जय कौरवार्थे ॥१७॥
व्यायच्छसे निग्रहं करोषि ॥१७॥
आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि
।
संयुज्यते धनुषा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥१८॥
आम्नायेष्विति । विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ॥१८॥
ते चेदिमे कौरवाणामुपायमवगच्छेयुरवधेनैव पार्थाः
।
धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य ॥१९॥
कौरवाणामवधेन उपायं राज्यप्राप्ताविति शेषः । एषामेतैः भीमसेनमार्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ॥१९॥
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन् दिष्टवशेन मृत्युम्
।
यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात् प्रशस्तम् ॥२०॥
पित्र्ये कर्मणि क्षात्रधर्मे युद्धे पूरयन्तः पालयन्तः ॥२०॥
उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्
।
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि ॥२१॥
शाम्यमेव शमः कार्य एवेति मन्यसे तर्हि धर्मतन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं शृणोमि करिष्यामीत्यर्थः ॥२१॥
चातुर्वर्ण्यस्य प्रथमं संविभागमवेक्ष्य त्वं सञ्जय स्वं च कर्म
।
निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते॥२२॥
ननु क्षत्रधर्मलोपेऽपि गोत्रवधो न कर्तब्य इत्याशङ्क्याह- चातुर्वर्ण्यस्येत्यादिना ॥२२॥
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव
।
अध्यापयेद्याजयेच्चापि याज्यान् प्रतिग्रहान् वा विहितान् प्रतीच्छेत् ॥२३॥
प्रतीच्छेत् प्रतिगृह्णीयात् ॥२३॥
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा
।
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्यकृदावसेद्गृहान् ॥२४॥
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम्
।
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन् पालयन्नप्रमत्तः ॥२५॥
सः क्षत्रियः अधीत्य प्राप्य यदिच्छया यस्य धर्मस्य इच्छया बलेन ब्रह्मलोकं गच्छति नोचेज्जनकादिवदिहैव कृतकृत्यो भवतीत्यर्थः । भोगमोक्षकरः क्षात्रो धर्मो दुस्त्यज इति भावः ॥२५॥
प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान्
।
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः
।
नित्योत्थितो भूतयेऽतन्द्रितः स्यादेवं स्मृतः शूद्रधर्मः पुराणः ॥२६॥
नाधीयीत वेदाध्ययनं न कुर्यात् । यज्ञः श्रोतः स्मार्तश्च प्रतिषिद्धः । तस्माच्छूद्रो यज्ञेऽनववलृप्तः इति श्रुतेः ॥२६॥
एतान् राजा पालयन्नप्रमत्तो नियोजयन् सर्ववर्णान् स्वधर्मे
।
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान् ॥२७॥
एतानिति । यथा सर्वाश्रमपालकत्वाद्गृहस्थस्य श्रैष्ठ्यं तथा सर्ववर्णपालकत्वात् धर्मेण राज्यकरणमपि श्रेष्ठतममित्यर्थः ॥२७॥
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः
।
स तं द्रष्टुमनुशिष्यन् प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥२८॥
तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठीप्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः । अनुशिष्यन् अनुशासितुमिच्छन् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत् । न च तस्मिन्नसाधुः युधिष्ठिरेऽसाधुधर्मो न चास्तीत्यपि बुध्येत् । यद्वा एवं सत्यपि तस्मिन्ननुशास्तरि राजा साधुर्न इति न अपि तु साधुरेव । यदि तेन इतोऽधिकं ज्ञायते उच्यते च तर्हि तस्यापि वचनं करिष्यत्येवेत्यर्थः। अनुशिष्यात् प्रजानां न चेद्गृध्येदिति तस्मिन्नसाध्विति पाठे श्रेयांश्चेत् द्रष्टुं धर्मं दर्शयितुमनुशिष्यात् न चेत्प्रजानां प्रजाः राज्यं न गृध्येदिति हेतोस्तस्मिन् युधिष्ठिरे साध्वेव वर्तत इति शेषः ॥२८॥
यदा गृध्येत् परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः
।
ततो राज्ञामभवद्युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च॥२९॥
धर्मतस्तु नृशंसत्वात् दुर्योधनो धार्मिकेण राज्ञा वध्य एवेति सूचयन्नाह- यदेत्यादिना सार्धेन । परभूतौ परैश्वर्यं नृशंसश्चोरकल्पो राजा विधिप्रकोपात् दैवप्रातिकूल्यात् गृद्ध्येत् ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । अनेन युद्धाख्यस्य कर्मण उत्पत्तिरुक्ता ॥२९॥
इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥३०॥
कर्म युद्धं तत्रोत्पत्तिशिष्टं गुणत्रयमाह वर्म कवचं शस्त्रं खड्गादि धनुश्चेति । यत् इन्द्रेण दस्युवधायैतत्त्रयमुत्पादितमत एतैरेव धर्मो दम्युं दुर्योधन यदि हन्यात् स एव धर्म इति भावः ॥३०॥
तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः
।
अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न ॥३१॥
दुर्योधने दस्युत्वं निरूपयति - तत्रेत्यादिना । कुरुभिर्निमित्तभूतैरयं दोषो वञ्चनारूपः प्रादुर्भूतः । पारदार्यदोष इव इन्द्रात् ॥३१॥
तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत् पाण्डवानामकस्मात्
।
नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव ॥३२॥
धर्म्यं धर्मादागतं पित्र्यं राज्यं तदन्वयास्तदनुसारिणः ॥३२॥
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः
।
उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ॥३३॥
पृथक्त्वं स्तेनादन्यत्वम् ॥३३॥
सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी
।
भागः पुनः पाण्डवानां निविष्टस्तं नः कस्मादाददीरन् परे वै ॥३४॥
एतं छलेन राज्यापहारं निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ॥३४॥
अस्मिन् पदे युद्ध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं परराज्याद्विशिष्टम्
।
एतान् धर्मान् कौरवाणां पुराणानाचक्षीथाः सञ्जय राजमध्ये ॥३५॥
पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ॥३५॥
एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः
।
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम् ॥३६॥
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम्
।
यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां व्रजन्तीम् ॥३७॥
कामानुगेन रजसा उपरुद्धां गृहकर्मतो निरुद्धां पाठान्तरे रजसा उपरुद्धं यथा स्यात्तथा व्रजन्तीम् ॥३७॥
तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन् कुरवः समेताः
।
मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत् ॥३८॥
तं दुःशासनं यद्यवारयिष्यत् तदा मम प्रियम् अकरिष्यत् अस्य पुत्राणां च दुर्योधनादीनां प्रियं कृतमभविष्यत् । दुःशासनस्यानिवारणान्मत्प्रियस्याकरणाच्च तत्पुत्राणां नाशो भविष्यतीति तत्त्वोक्तिः ॥३८॥
दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्
।
सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किंचित् ॥३९॥
प्रातिलोम्यात् अक्रमेण श्वशुराणां मध्ये कृष्णां सभां निनायेति संबन्धः । किंचित्करुणं व्यपेक्ष्य दीनं यथा स्यात्तथा किञ्चिदालोच्येत्यर्थः । क्षत्तुरन्यं नाथं रक्षितारं न अवाप ॥३९॥
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन् प्रतिवक्तुं सभायाम्
।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥४०॥
कार्पण्यात् दैन्यात् ॥४०॥
अबुद्ध्वा त्वं धर्ममेतं सभायामथेच्छसे पाण्डवस्योपदेष्टुम्
।
कृष्णा त्वेतत् कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य ॥४१॥
पाण्डवस्य धर्ममुपदेष्टुमिच्छसे हे सञ्जयेति शेषः ॥४१॥
येन कृच्छ्रात् पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात्
।
यत्राब्रवीत् सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ॥४२॥
न ते गतिर्विद्यते याज्ञसेनि प्रपद्य दासी धार्तराष्ट्रस्य वेश्म
।
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥४३॥
प्रपद्य गच्छ ॥४३॥
यो बीभत्सोर्हृदये प्रोत आसीदस्थि छिन्दन्मर्मघाती सुघोरः
।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य ॥४४॥
कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत्
।
एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥४५॥
परिधित्समानान् परिधातुमिच्छतः ॥४५॥
गान्धारराजः शकुनिर्निकृत्या यदब्रवीत् द्यूतकाले स पार्थम्
।
पराजितो नन्दनः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या॥४६॥
नन्दन आनन्दयिता कनिष्ठभ्राता ॥४६॥
जानासि त्वं सञ्जय सर्वमेतत् द्यूते वाक्यं गर्ह्यमेवं यथोक्तम्
।
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम्॥४७॥
विपन्नं नष्टं समाधातुं समीकर्तुम् ॥४७॥
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम्
।
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥४८॥
शक्रेयं शक्तश्चेत्स्याम् ॥४८॥
अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम्
।
अवेक्षेरन् धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥४९॥
काव्यां शौक्रीं नीतियुक्तामित्यर्थः ॥४९॥
अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन
।
परासिक्तान् धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान् कर्मणा स्वेन पापान् ॥५०॥
परासिक्तान् निर्धूतान् संपदा हीनान् ॥५०॥
पराजितान् पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः
।
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले ॥५१॥
रौद्राः मर्मच्छिदः रूक्षाः निःस्नेहाः भाषते द्यूतावसानेऽभाषत ॥५१॥
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखा
।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥५२॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखा
।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च
।
वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रस्ते वै सञ्जय पाण्डुपुत्राः॥५३॥
अहमीश्वरः ब्रह्म वेदः ब्राह्मणाश्च धार्तराष्ट्रोच्छेदे एको धृतराष्ट्र एव शोच्यो भवेत् पाण्डवोच्छेदे तु वयं त्रयोऽपि शोच्या भविष्याम इति श्लोकद्वयस्यार्थः । बहूनामुच्छेदो न भविष्यतीति तात्पर्यम् ॥५३॥
मा वनं छिन्धि सव्याघ्रं मा व्याघ्राऽनीनशन्वनात् ॥५४॥
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्
।
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥५५॥
लताधर्मा धार्तराष्ट्राः शालाः सञ्जय पाण्डवाः
।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥५६॥
लतेति । पाण्डवाश्रयेणैव धार्तराष्ट्राणां जीवनं नान्यथेति भावः ॥५६॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः
।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥५७॥
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः
।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥५८॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि कृष्णवाक्ये एकोनत्रिंशोऽध्यायः॥२९॥
सञ्जय उवाच।
आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु
।
कच्चिन्न वाचा वृजिनं हि किञ्चिदुच्चारितं मे मनसोऽभिषङ्गात् ॥१॥
आमन्त्रय इति । अभिषङ्गात् आवेशात् ॥१॥
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम्
।
आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥२॥
युधिष्ठिर उवाच।
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन्
।
विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥३॥
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च
।
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानो दुरुक्तैः ॥४॥
न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोत मुक्ताम्
।
धर्मारामामर्थवतीमहिंस्रामेतां वाचं तव जानीम सूत ॥५॥
उपश्रुतिं वार्तां रूक्षां मर्मगां च नो वक्ताऽसि कटुकां नीरसां मुक्ताम् अप्रकृतां कार्यहीनां वा ॥५॥
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः
।
अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं धनञ्जयस्यात्मसमः सखाऽसि ॥६॥
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान् ये तदर्हाः
।
विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः ॥७॥
चरणं ब्रह्मचर्येणाध्ययनम् ॥७॥
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु
।
अभिवाद्य वै मद्वचनेन वृद्धास्तथेतरेषां कुशलं वदेथाः ॥८॥
पुरोहितं धृतराष्ट्रस्य राज्ञस्तथाऽऽचार्यानृत्विजो ये च तस्य
।
तैश्च त्वं तात सहितैर्यथार्हं सङ्गच्छेथाः कुशलेनैव सूत ॥९॥
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः
।
आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः ॥१०॥
अश्रोत्रियाः अत्रैवर्णिकाः शुद्रादयः वृद्धत्वाच्च धर्ममात्रां धमलेशं चरन्तः ॥१०॥
श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम्
।
ये जीवन्ति व्यवहारेण राष्ट्रे ये पालयन्तो निवसन्ति राष्ट्रे॥११॥
श्लाघस्व स्तुहि पूर्वं जघन्यं पश्चात्तेभ्यस्तेषामनामयं पृच्छेः । व्यवहारेण वाणिज्यादिना पालयन्तः स्थानाधिकारिणः ॥११॥
आचार्य इष्टो नयगो विधेयो वेदानभीप्सन् ब्रह्मचर्यं चचार
।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयाऽसौ ॥१२॥
चतुष्पात् मन्त्र उपचारः प्रयोगः संहारश्चेति चत्वारः पादा अस्येति अस्त्रम् ॥१२॥
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे
।
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥१३॥
गन्धर्वेति सौन्दर्यं सङ्गीतं च तस्मिन् द्योतितम् ॥१३॥
शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य
।
त्वं मामभीक्ष्णं परिकीर्तयन् वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥१४॥
यस्मिन् शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च
।
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥१५॥
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी
।
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् ॥१६॥
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः
।
प्रशस्ता वै पृथिवी येन सर्वा सुयोधनं कुशलं तात पृच्छेः ॥१७॥
भ्राता कनीयानपि तस्य मन्दस्तथाशीलः सञ्जय सोऽपि शश्वत्
।
महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः ॥१८॥
यस्य कामो वर्तते नित्यमेव नान्यच्छमाद्भारतानामिति स्म
।
स बाह्लिकानामृषभो मनीषी त्वयाऽभिवाद्यः सञ्जय साधुशीलः ॥१९॥
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः
।
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे॥२०॥
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता सञ्जय मत्सखा च
।
महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः॥२१॥
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः
।
यं यमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः ॥२२॥
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित्
।
वशातयः शाल्वकाः केकयाश्च तथाऽवष्ठा ये त्रिगर्ताश्च मुख्याः ॥२३॥
पाण्डवायोधनाय पाण्डवैः सह युद्धाय तथाऽवन्त्या इत्यपि पाठः ॥२३॥
प्राच्योदीच्या दाक्षिणात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे
।
अनृशंसाः शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥२४॥
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः
।
आख्याय मां कुशलिनं स्म नित्यमनामयं परिपृच्छेः समग्रान् ॥२५॥
तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान् ये च सेनां नयन्ति
।
आयव्ययं ये गमयन्ति नित्यमर्थांश्च ये महतश्चिन्तयन्ति ॥२६॥
वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम्
।
न तस्य युद्धं रोचते वै कदाचिद्वैश्यापुत्रं कुशलं तात पृच्छेः ॥२७॥
वृन्दारकं श्रेष्ठम् ॥२७॥
निकर्तने देवने योऽद्वितीयश्छन्नोपधः साधुदेवी मताक्षः
।
यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः ॥२८॥
निकर्तनेऽर्थापहारे साध्ये । प्रथमान्तपाठेऽर्थापहर्ता । छन्नोपधो गुप्तछलः ॥२८॥
गान्धारराजः शकुनिः पार्वतीयो निकर्तनीयोऽद्वितीयोऽक्षदेवी
।
मानं कुर्वन् धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥२९॥
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यन् विजेतुम्
।
यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः ॥३०॥
मुह्यतां धार्तराष्ट्राणाम् ॥३०॥
स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च
।
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः ॥३१॥
वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः
।
ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥३२॥
कच्चित् पुत्रा जीवपुत्राः सुसम्यग्वर्तन्ते वो वृत्तिमनृशंसरूपाः
।
इति स्मोक्त्वा सञ्जय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः ॥३३॥
या नो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः
।
सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥३४॥
न इति धार्तराष्ट्रान् अन्तर्भाव्योक्तं तेषां भार्या इत्यर्थः । सुसंगुप्ता इति कुशलप्रश्नप्रकारकथनम् ॥३४॥
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम्
।
यथा च वः स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनः स्थापयध्वम् ॥३५॥
या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः
।
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत् प्रसन्नः ॥३६॥
कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा
।
कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥३७॥
अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः
।
लघु यासां दर्शनं वाक् च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥३८॥
लघु शीघ्रहारि वेशास्त्रियो वेश्याः ॥३८॥
दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः
।
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम् ॥३९॥
कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान् धार्तराष्ट्रो ददाति
।
अङ्गहीनान् कृपणान् वामनान् वा यानानृशंस्यो धृर्तराष्ट्रो बिभर्ति ॥४०॥
आनृशंस्यं दयामर्हतीत्यानृशंस्यः ॥४०॥
अन्धांश्च सर्वान् स्थविरांस्तथैव हस्त्याजीवा बहवो येऽत्र सन्ति
।
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम् ॥४१॥
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम्
।
निगृह्य शत्रून् सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥४२॥
शत्रून् धार्तराष्ट्रान् निगृह्य वः युष्मान् भरिष्ये पोषयिष्ये इति ब्रूया इति शेषः ॥४२॥
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति
।
तान् पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥४३॥
सन्तीति मे मया कृतानि वत्सरदेयानि नो वर्तयन्ति न चालयन्ति त्वदीया अधिकारिणः तान्यहं यथा यथावत्पश्यामि तथैव तान् सिद्धिं त्वद्दत्तं सम्यक् परिपालयामीति दूतद्वारा मां श्रावयेथा इति तं नृपं दुर्योधनं ब्रूहीति शेषः । एतेन ब्राह्मणवृत्तिषु पक्षपातो दुर्योधने च कनिष्ठत्वादाज्ञा प्रतिपालनौचित्यं च दर्शितम्॥४३॥
ये चानाथा दुर्बलाः सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः
।
तांश्चापि त्वं कृपणान् सर्वथैवास्मद्वाक्यात् कुशलं तात पृच्छेः ॥४४॥
आत्मन्येव प्रयतन्ते न तु कर्तुं शक्नुवन्ति ॥४४॥
ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागताः सूतपुत्र
।
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान् संपृच्छेथाः कुशलं चाव्ययं च ॥४५॥
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान् सर्वदिग्भ्योऽभ्युपेतान्
।
पृष्ट्वा सर्वान् कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥४६॥
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः
।
धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥४७॥
नहीति । धर्मबलेनैव जयो भविष्यति न सहायैरित्यर्थः । नित्यः अविनाशिफलः ॥४७॥
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः
।
यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥४८॥
न विद्यते युक्तिरेतस्य काचिन्नैवंविधाः स्याम यथा प्रियं ते
।
ददस्व वा शक्रपुरीं ममैव युद्ध्यस्व वा भारतमुख्यवीर ॥४९॥
युक्तिः संभावना एतस्यार्थस्य न विद्यते । शक्रपुरीमिन्द्रप्रस्थम् ॥४९॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि युधिष्ठिरसन्देशे त्रिंशोऽध्यायः॥३०॥
युधिष्ठिर उवाच।
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय
।
उताबलं बलीयांसं धाता प्रकुरुते वशे ॥१॥
उतेति । सन्तं साधुमसन्तं दुष्टं धाता ईश्वरः ॥१॥
उत बालाय पाण्डित्यं पण्डितायोत बालताम्
।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥२॥
शुकबीजभूतं प्राचीनं कर्म उच्चरन्नुद्दीपयन् ॥२॥
बलं जिज्ञासमानस्य आचक्षीथा यथातथम्
।
अथ मन्त्रं मन्त्रयित्वा याथातथ्येन हृष्टवत् ॥३॥
गावल्गणे कुरून् गत्वा धृतराष्ट्रं महाबलम्
।
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥४॥
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्
।
तवैव राजन् वीर्येण सुखं जीवन्ति पाण्डवाः ॥५॥
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम
।
राज्ये तान् स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः ॥६॥
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित्
।
तात संहत्य जीवामो द्विषतां मा वशं गमः ॥७॥
सर्वं ब्रह्माण्डं संहत्य एकीभूय ॥७॥
तथा भीष्मं शान्तनवं भारतानां पितामहम्
।
शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥८॥
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः
।
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥९॥
स त्वं कुरु तथा तात स्वमतेन पितामह
।
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥१०॥
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
।
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे ॥११॥
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्
।
मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥१२॥
अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम्
।
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥१३॥
अतितिक्षाम क्षान्तवन्तो वयं तत्र हेतुः मावधीष्मेति ॥१३॥
एवं पूर्वापरान् क्लेशानतितिक्षन्त पाण्डवाः
।
बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः ॥१४॥
यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान्
।
तद्दुःखमतितिक्षाम मावधीष्म कुरूनिति ॥१५॥
यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत्
।
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥१६॥
अथोचितं स्वकं भागं लभेमहि परन्तप
।
निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ ॥१७॥
गृद्धां लब्धाम् ॥१७॥
शान्तिरेवं भवेद्राजन् प्रीतिश्चैव परस्परम्
।
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥१८॥
अविस्थलं वृकस्थलं माकन्दीं वारणावतम्
।
अवसानं भवत्वत्र किञ्चिदेकं च पञ्चमम् ॥१९॥
अवसानं वसतिस्थानम् ॥१९॥
भ्रातॄणां देहि पञ्चानां पञ्चग्रामान् सुयोधन
।
शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय॥२०॥
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्
।
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥२१॥
अक्षतान् कुरुपाञ्चालान् पश्येयमिति कामये
।
सर्वे सुमनसस्तात शाम्याय भरतर्षभ ॥२२॥
अलमेव शमायास्मि तथा युद्धाय सञ्जय
।
धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि युधिष्ठिरसन्देशे एकत्रिंशोऽध्यायः॥३१॥
वैशम्पायन उवाच।
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा
।
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥१॥
अनुज्ञात इति । अनुज्ञातः गच्छेत्युक्तः॥१॥
सम्प्राप्य हास्तिनपुरं शीघ्रंमेव प्रविश्य च
।
अन्तःपुरं समास्थाय द्वाःस्थं वचनमब्रवीत् ॥२॥
आचक्ष्व धृतराष्ट्राय द्वाःस्थ मां समुपागतम्
।
सकाशात् पाण्डुपुत्राणां सञ्जयं मा चिरं कृथाः॥३॥
जागर्ति चेदभिवदेस्त्वं हि द्वाःस्थ प्रविशेयं विदितो भूमिपस्य
।
निवेद्यमत्रात्ययिकं हि मेऽस्ति द्वाःस्थोऽथ श्रुत्वा नृपतिं जगाद॥४॥
आत्ययिकमावश्यकम् ॥४॥
द्वाःस्थ उवाच।
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते
।
प्राप्तो दूतः पाण्डवानां सकाशात् प्रशाधि राजन् किमयं करोतु ॥५॥
धृतराष्ट्र उवाच।
आचक्ष्व मां कुशालिनं कल्पमस्मै प्रवेश्यतां स्वागतं सञ्जयाय
।
न चाहमेतस्य भवाम्यकल्पः स मे कस्माद्द्वारि तिष्ठेच्च सक्तः ॥६॥
कल्पं दृढम् अकल्पः दर्शने असमर्थः । सक्तः निरुद्धः ॥६॥
वैशम्पायन उवाच।
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम्
।
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥७॥
प्राज्ञाः शूराः आर्याः साधवश्च तैर्गुप्तम् ॥७॥
सञ्जय उवाच।
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान्
।
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥८॥
स ते पुत्रान् पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च
।
तथा सुहृद्भिः सचिवैश्च राजन् ये चापि त्वामुपजीवन्ति तैश्च ॥९॥
नप्तृभिः पुत्रस्य पुत्रैः ॥९॥
धृतराष्ट्र उवाच।
अभिनन्द्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम्
।
कच्चित् स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥१०॥
अजातशत्रुं सुखेन अभिनन्द्य त्वां प्रतिवदामि कच्चिदिति ॥१०॥
सञ्जय उवाच।
सहामात्यः कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रेऽऽमनोऽभूत्
।
निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमान् शीलवांश्च ॥११॥
ते तव अग्रे यत् आत्मनः- पूर्वरूपमार्षम्- राज्यधनादिकमभूत् तत् बुभूषते प्राप्तुमिच्छति । अग्रे मनोऽभूदिति पाठे अनुद्यूतात् प्राक् यत्त्वया दत्तं तद्बुभूषते इति ज्ञेयम् । निर्णिक्तौ दोषमलहीनौ धर्मार्थौ करोतीति स तथा मनस्वी उदारः दृष्टिमान् क्रान्तदर्शी ॥११॥
परो धर्मात् पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य
।
सुखप्रिये धर्महीनेऽनपार्थेऽनुरुध्यते भारत तस्य बुद्धिः ॥१२॥
परो मुख्यः आनृशंस्यं दया ततः परोऽमुख्यः वित्तचयात् जात इति शेषः वित्तसाध्यः यज्ञदानादिः । किं च तस्य बुद्धिः अनपार्थे न अपार्थे निष्प्रयोजने सप्रयोजने सुखप्रिये सन्धिरार्षः । नु निश्चितं रुध्यते अनुरुध्यते । अन्नादिजं देहपुष्टिसुखं पुत्रादि प्रियं च स परोपकारार्थमेवानुरुध्यते न कामकारेणेत्यर्थः । पार्थ इति पाठे तस्य बुद्धिरित्युत्तरान्वयि इतीति शेषः ॥१२॥
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा
।
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥१३॥
परेण ईश्वरेण प्रयुक्तः नियमं निग्रहं मनुष्यात् मनुष्यकारात् दैवं ऐश्वरं कर्म परं श्रेष्ठं मन्ये ॥१३॥
इमं च दृष्ट्वा तव कर्मदोषं पापोदर्कं घोरमवर्णरूपम्
।
यावत्परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम् ॥१४॥
अवर्णरूममवर्णनीयरूपमवाच्यमित्यर्थः । यावत् परः उत्कृष्टः शत्रुः कामयते तिष्ठत्वयं कच्चित्कालमितीच्छति तावदपरो नरः प्रशंसां लभते ॥१४॥
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम्
।
विरोचतेऽहार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥१५॥
जीर्णत्वादेव देहे स्थातुमसमर्थाम् अहार्येण स्वाभाविकेन वृत्तेन । यो हि स्वस्वरूपे तिष्ठति तस्य पापं शत्रुष्वेव गच्छति तथा च श्रुतिः ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ॥१५॥
हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादपेतम्
।
उपक्रोशं चेह गतोऽसि राजन् भूयश्च पापं प्रसजेदमुत्र ॥१६॥
हन्त आलोचने सानुग्रहसंबोधने वा उपक्रोशं निंदाममुत्र परलोके पापं दुःखं नरकमित्यर्थः॥१६॥
स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगोऽस्य
।
अधर्मशब्दश्च महान् पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥१७॥
तैर्विना एकाकिना संशयितं दुर्लभमपि आशंससे प्राप्तुमस्य तव महान्पृथिव्यामधर्मशब्दोऽकीर्तिर्भवेत्॥१७॥
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः
।
एवंधर्मानापदः संश्रयेयुर्हीनवीर्यो यश्च भवेदशिष्टः ॥१८॥
एवं धर्मान् ईदृशधर्मयुक्तान् पुरुषान् ॥१८॥
कुले जातो बलवान् यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा
।
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति ॥१९॥
धर्माधर्मौ सत्यानृते ग्रथितौ सत्यं विनाऽनृतं नास्ति निरधिष्ठानकभ्रमासंभवात् । अनृतं देहं विना च सत्यं ब्रह्म न प्रथते अत उभयं यो धत्ते केवलं बाह्यनिष्ठो न भवति स हि स एव दिष्टस्य वशात् भाग्यवशात् अस्य कुले जातत्वादिगुणजातस्य कर्मणि षष्ठी - इदं गुणषट्कमुपैति प्राप्नोति त्वं तु कुले जातोऽपि केवलमनृतोपजीवित्वात् गुणान्तरहीनोऽसीति भावः ॥१९॥
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता
।
एवमुक्तः सर्वमन्त्रैरहीनो नरो नृशंसं कर्म कुर्यादमूढः ॥२०॥
अत एव सत्यामपि संपदि त्वया मौढ्यात् नृशंसं कृतमित्याह - कथमिति । मन्त्र एव अग्र्यः श्रेष्ठो येषां ते मन्त्राग्र्याः भीष्मादयः तेषां धरो धर्ता तैरेवमुक्तरीत्या द्यूतं मा कुर्वित्युक्तः कथं नृशंसं कर्म पाण्डवप्रव्राजनं कुर्यान्न कथमपीत्यर्थः ॥२०॥
तव ह्यमी मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः
।
तेषामयं बलवान्निश्चयश्च कुरुक्षये नियमेनोदपादि ॥२१॥
अमी कर्णादयः तेषां कुरुक्षये कुरुक्षयनिमित्तमयं राज्यं न देयमिति निश्चयः नियमेन उदपादि उत्पन्नः ॥२१॥
अकालिकं कुरवो नाभविष्यन् पापेन चेत्पापमजातशत्रुः
।
इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥२२॥
अकालिकमकस्मादेव कुरवो नाभविष्यन् नष्टाः स्युश्चेत् तव पापेन कर्मणा प्रेरितोऽजातशत्रुस्त्वयि पापमिच्छेत् । नन्वेवं तर्हि तस्य गोत्रवधदोषः स्यादित्याशंक्याह - त्वयीति । स्वनाशहेतुमधर्मं कुर्वति त्वयि चोरे इव पापं निन्दां च विसृज्य राजा निष्पापोऽनिन्द्यश्च स्यादित्यर्थः ॥२२॥
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म द्रष्टुम्
।
अत्यक्रामत् स तथा संमतः स्यान्न संशयो नास्ति मनुष्यकारः ॥२३॥
ईश्वराणां देवानां विषयादन्यत्र किं सर्वं देवाधीनमित्यर्थः। यत्र यतः पार्थोऽर्जुनः परलोकं द्रष्टुमत्यक्रामत् इमं लोकं सशरीर एव त्यक्तवान् स तादृशः नारदादिवदुभयलोकसञ्चारयोग्यत्वेन साधूनां संमतोऽपि यदि तथा वनवासेन क्लेशसहः स्यात् तदा मनुष्यकारो नास्तीत्यस्मिन्नर्थे संशयो न ॥२३॥
एतान् गुणान् कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ
।
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात् कारणं तत्र मेने ॥२४॥
एतानिति । एतान् शौर्यादीन् गुणान् कर्मकृतान् कर्मानुसारेण वृद्धिह्रासयुक्तान् अवेक्ष्य अत एव भावाभावौ ऐश्वर्यानैश्वर्ये अनित्यौ आगमापायिनौ च अवेक्ष्य बलिराजा पूर्वपूर्वकर्मकारणपारमन्तमविन्दमानः सन् कालात् ईश्वरादन्यत्कारणमभ्युदयादिहेतुरन्यत्किंचिन्नास्तीति मेने ॥२४॥
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः
।
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥२५॥
अतः सर्वस्य देवायत्तत्वात् तृष्णाक्षयेणैव इन्द्रियप्रीतिः सम्पादनीया न तु नानायत्नसाध्यतत्ताद्वषयसमर्पणेनेत्याह - चक्षुरिति । ननु स्वस्वविषयालाभे तेषां कथं प्रीतिः स्यादित्याशङ्क्य तानि निरोध्यान्येवेत्याह - तानीति । अव्यथः लाभालाभादौ वैषम्यहीनः प्रणुद्यात् स्वस्वगोचरेभ्यो निवर्तयेत्॥२५॥
न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत्
।
मातुः पितुः कर्मणाऽभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥२६॥
एतद्दूषयति- नत्विति । एवं प्राप्ते सति अन्ये आहुः तदेवाह - पुरुषस्येति । संवर्तते सम्यक् फलवत् वर्तते तदेवाह- मातुरिति । कर्माभावे जन्मवृद्धी न स्यातामित्यर्थः । पाठान्तरे तेनैव स्यातामित्यर्थः ॥२६॥
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजन्त एव
।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥२७॥
स त्वां गर्हे भारतानां विरोधादन्तो नूनं भविताऽयं प्रजानाम्
।
नो चेदिदं तव कर्मापराधात् कुरून् दहेत् कृष्णवर्त्मेव कक्षम् ॥२८॥
किञ्च नोचेदिति इदं मया उच्यमानं कर्म पाण्डवेभ्यो राज्यांशप्रदानात्मकं तव नोचेत् सम्मतमिति शेषः । तर्हि तवापराधात् कृष्णर्त्माऽग्निः कक्षं यथा दहति एवं कृष्णवर्त्मा कृष्ण एव मार्ग इव सुखप्रापको यस्य स कृष्णवर्त्माऽर्जुनः कुरून् दहेदित्यावृत्त्या योज्यम् ॥२८॥
त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नरेन्द्र
।
कामात्मनः श्लाघनो द्यूतकाले नागाः शमं पश्य विपाकमस्य ॥२९॥
श्लाघन आत्मानं कृतार्थं मन्वानः नागाः न गतवानसि ॥२९॥
अनाप्तानां संग्रहात्त्वं नरेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन्
।
भूमिं स्फीतां दुर्बलत्वादनन्तामशक्तस्त्वं रक्षितुं कौरवेय ॥३०॥
अनाप्तानां कर्णादीनामाप्तानां विदुरादीनां निग्रहात् दूरीकरणात् ॥३०॥
अनुज्ञातो रथवेगावधूतः श्रान्तोऽभिपद्ये शयनं नृसिंह
।
प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं समेताः ॥३१॥
अवधूतस्तिरस्कृतः अत एव श्रान्तः प्रपद्ये प्राप्नुयाम् ॥३१॥
धृतराष्ट्र उवाच।
अनुज्ञातोऽस्यावसथं परेहि प्रपद्यस्व शयनं सूतपुत्र
।
प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं त्वयोक्तम्॥३२॥
आवसथं गृहं परेहि गच्छ प्रपद्यस्व सेवस्व ॥३२॥
इति श्रीमहाभारते उद्योगपर्वणि सञ्जययानपर्वणि धृतराष्ट्रसञ्जयसंवादे द्वात्रिंशोऽध्यायः॥३२॥