सेनोद्योगपर्व - १सञ्जययानपर्व - २प्रजागरपर्व - ३सनत्सुजातपर्व - ४यानसन्धिपर्व - ५भगवद्यानपर्व - ६सैन्यनिर्याणपर्व - ७उलूकदूतागमनपर्व - ८रथातिरथसंख्यानपर्व - ९अम्बोपाख्यानपर्व - १०

प्रजागरपर्व

त्रयस्त्रिंशोऽध्यायः

वैशम्पानय उवाच। द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥१॥

द्वाःस्थमिति ॥१॥

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥२॥

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥३॥

द्वाःस्थ उवाच। विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।
द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥४॥

धृतराष्ट्र उवाच। प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥५॥

अकल्पो न किं तु कल्पः समर्थ एव सर्वदा विदुरसन्दर्शनं मम अप्रत्याख्येयमित्यर्थः जातु कदाचित्। अथवा कल्पः कल्पना संशय इत्यर्थः ॥५॥

द्वाःस्थ उवाच। प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः ।
न हि ते दर्शने कल्पो जातु राजाऽब्रवीद्धि माम् ॥६॥

वैशम्पायन उवाच। ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत् प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥७॥

विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।
यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम् ॥८॥

धृतराष्ट्र उवाच। सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥९॥

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत् प्रजागरम् ॥१०॥

प्रजागरं निद्राया अभावम् ॥१०॥

आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥११॥

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ॥१२॥

यतः यदा प्राप्तः संजयस्तदारभ्येत्यर्थः । प्रचिन्ता प्रकृष्टा चिन्ता ॥१२॥

विदुर उवाच। अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥१३॥

अभियुक्तमित्यर्द्धोपात्त एकः त्रयोऽन्ये च प्रजागरा वेशभाजनानि ॥१३॥

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ॥१४॥

गृद्ध्यन् लिप्सावान् ॥१४॥

धृतराष्ट्र उवाच। श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः ।
अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥१५॥

विदुर उवाच। राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् ।
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः॥१॥

द्वाःस्थमिति ॥१॥

विपरीततरश्च त्वं भागधेये न संमतः ।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥२॥

आनृशंस्यादनुक्रोशाद्धर्मात् सत्यात् पराक्रमात् ।
गुरुत्वात्त्वयि संप्रेक्ष्य बहून् क्लेशांस्तितिक्षते ॥३॥

दुर्योधने सौबले च कर्णे दुःशासने तथा ।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥४॥

आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥५॥

अकल्पो न किं तु कल्पः समर्थ एव सर्वदा विदुरसन्दर्शनं मम अप्रत्याख्येयमित्यर्थः जातु कदाचित्। अथवा कल्पः कल्पना संशय इत्यर्थः ॥५॥

निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥१६॥

अनास्तिकः परलोकाद्यस्तीति जानन् श्रद्दधानः श्रद्धा गुरुवेदवाक्यादिषु फलावश्यंभावनिश्चयस्तद्वान्॥१६॥

क्रोधो हर्षश्च दर्पश्च ह्रीःस्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥१७॥

दर्पः परावज्ञानम् । स्तम्भः असन्नतिः। मान्यमानिता मान्यं मानार्हम् आत्मानं मन्यत इति मान्यमानी तस्य भावस्तत्ता ॥१७॥

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥१८॥

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥१९॥

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥२०॥

संसारिणी स्वभावतोऽनवस्थिताऽपि कामादैहिकसुखादुभयलोकसुखावहं धर्ममर्थं वृणीते स पण्डितः । कामो धर्मार्थापेक्षया निकृष्ट इत्यर्थः । कामादिति । यस्तु कामं त्यक्त्वा अर्थं वृणीते स अर्थार्थी मोक्षादेव सर्वमर्थं विन्दति ज्ञानफले मोक्षे कृत्स्नस्यार्थस्यान्तर्भावात् स जनकादितुल्यः अतः पण्डित उच्यते ॥२०॥

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥२१॥

क्षिप्रं विजानाति चिरं श्रृणोति विज्ञाय चार्यं भजते न कामात् ।
नासंपृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥२२॥

चिरं शृणोति ज्ञानदार्ढ्याय । असंपृष्टः यथावदपृष्टः । व्युपयुङ्क्त्ते वाग्व्यययं करोति । परार्थे विषये प्रज्ञानं चिह्नम् ॥२२॥

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥२३॥

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥२४॥

निश्चित्य स्वयत्नसाध्यत्वं कर्मणः अन्तर्मध्ये न वसति नोपरमते किं तु समापयत्येव । अवन्ध्यकालः सर्वदा सप्रयोजनमेव कर्माचरन् ॥२४॥

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥२५॥

आर्याः शिष्टाः तद्योग्यकर्माण भूतिरैश्वर्यं तत्प्राप्त्यर्थं कर्माणि ॥२५॥

न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥२६॥

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥२७॥

तत्त्वं विनाशित्वं भूतानां जातानामैश्वर्यादीनाम् । योगो रचनाप्रकारः उपायस्तदर्थसामग्री । मनुष्याणां मध्ये स नरः पण्डितः ॥२७॥

प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥२८॥

प्रवृत्तवाक् अकुण्ठितवचनः । चित्रकथो लोककथाभिज्ञः । ऊहस्तर्कः। प्रतिभानं तत्कालस्फूर्तिः ॥२८॥

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥२९॥

प्रज्ञानुगं बुद्धिवश्यम् । श्रुतानुगा शास्त्रानुसारिणी ॥२९॥

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥३०॥

अकर्मणा हीनकर्मणा द्यूतादिनेत्यर्थः । तादृशो दुर्योधनः ॥३०॥

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्याचरति मित्रार्थे यश्च मूढः स उच्यते ॥३१॥

स्वमर्थमिति तादृशः शकुनिः ॥३१॥

अकामान् कामयति यः कामयानान् परित्यजेत् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥३२॥

अकामान् त्वयि भक्तिहीनान् कर्णादीन् । कामयानान् त्वयि भक्तिमतः पाण्डवान् । बलवन्तं युधिष्ठिरम् ॥३२॥

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥३३॥

दुष्टं जतुगृहदाहादि ॥३३॥

संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥३४॥

संसारयति भृत्यादिद्वारा प्रवर्तयति ॥३४॥

श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥३५॥

अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः॥३६॥

परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥३७॥

आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥३८॥

नैष्कर्म्यात् अयत्नतः ॥३८॥

अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥३९॥

शून्यं राजदारदीन् अज्ञातं यथा स्यात्तथा उपास्ते । कदर्यमदातारम् ॥३९॥

अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते॥४०॥

असमुन्नद्धः अनुद्धतः ॥४०॥

एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥४१॥

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥४२॥

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥४३॥

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥४४॥

एकयोति । बुद्धिर्बुद्धिमतेत्युपक्रमादेकया बुद्ध्येति व्याख्याद्वयेऽपि समानं द्वे नीतौ । कार्याकार्ये अध्यात्मपक्षे नित्यानित्ये विनिश्चित्य सम्यगवधार्य । त्रीन् नीतौ मित्रोदासीनशत्रून् । पक्षे कामक्रोधलोभान् । चतुर्भिः सामदानभेददण्डैः । मित्रं साम्नैव दानभेदाभ्यामुदासीनं सर्वैः शत्रुं वशीकुरु । पक्षे शमदमोपरमश्रद्धाभिः । पञ्च पक्षद्वयेऽपीन्द्रियाणि जित्वा । षड्विदित्वा सन्धिविग्रहादीन् ज्ञात्वा । पक्षे अशनायां पिपासां शोकं मोहं जरां मृत्युं च । सप्त हित्वा ‘स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च’ इति सप्त हेयानि । पक्षे पञ्चेन्द्रियाणि बुद्धिमनसी च त्यक्त्वा सुखी भव । तथा च श्रुतिः ‘यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्’ इति पूर्वमिन्द्रियाणां प्रत्याहार उक्तः इदानीं तु प्रविलापनमिति भेदः ॥४४॥

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥४५॥

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥४६॥

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥४७॥

सत्यं यथार्थभाषणं स्वर्गस्य पक्षे सत्यं ब्रह्म स्वर्गो मोक्षः पारावारस्य समुद्रस्य ॥४७॥

एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥४८॥

सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥४९॥

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥५०॥

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥५१॥

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥५२॥

अहिंसेति । पुत्राणां विग्रहेण कुलक्षयं मा कुर्विति भावः ॥५२॥

द्वाविमौ ग्रसते भूमिः सर्पो बलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥५३॥

द्वावित्यादिषु किञ्चित्प्रकृतोपयोग्युच्यते किञ्चित् प्रसङ्गात् दृष्टान्तार्थं चेति ज्ञेयम् ॥५३॥

द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥५४॥

असतः शकुन्यादींस्त्वमर्चयसीति भावः ॥५४॥

द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकाः ॥५५॥

पूजितेति । पुत्रेण पूजितं कर्णं त्वमपि पूजयसीत्यर्थः ॥५५॥

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥५६॥

अनीश्वरत्वं त्वत्पुत्रे ॥५६॥

द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥५७॥

निरारम्भ उदासीनस्त्वं पुत्रकलहनिवारणे ॥५७॥

द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥५८॥

प्रभुः पाण्डवः ॥५८॥

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥५९॥

पात्रे धर्मे ॥५९॥

द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥६०॥

अप्रदातारं त्वत्पुत्रम् ॥६०॥

द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥६१॥

त्रयोपाया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥६२॥

उपाया इति छेदः। युद्धं कनीयान् भेददाने मध्यमः साम उत्तमः । अपाया इति च्छेदे काम्ययोगः कनीयान् काम्यधर्मो मध्यम इह लोकलोभोऽधमः । त्रयो न्याया इति पाठः स्पष्टार्थः ॥६२॥

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥६३॥

यथावन्नियोजयेत् त्वया त्वधमाः कर्णादय उत्तमे मन्त्रकार्ये नियुज्यन्त इति भावः ॥६३॥

त्रय एवाधना राजन् भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥६४॥

त्वयि सति त्वत्पुत्रोऽधनोऽतस्त्वमेव पाण्डवानां राज्यं दातुं प्रभुरसीत्यर्थः ॥६४॥

हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ॥६५॥

हरणादयस्त्रयोऽपि दोषाः कामादित्रयसहितास्त्वय्येव सन्तीत्यर्थः ॥६५॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥६६॥

वरप्रदानं राज्यं च पुत्रजन्म च भारत ।
शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥६७॥

शत्रोर्युधिष्ठिरस्य कृच्छ्राद्गोत्रवधात् ॥६७॥

भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेताञ्छरणं प्राप्तान् विषमेऽपि न सन्त्यजेत् ॥६८॥

भक्तादयः पाण्डवाः शरणं गृहं विषमेऽपि सङ्कटेऽपि तव तु तन्नास्तीत्यर्थः ॥६८॥

चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरभसैश्चारणैश्च ॥६९॥

दीर्घसूत्रैः क्षिप्रसाध्ये कार्ये चिरं कुर्वद्भिः रभसैः हर्षतरलैः । अलसैरित्यपि पाठः । चारणैः स्तावकैः अरणैरिति छेदो वा रणविरोधिभिर्द्यूताद्यासक्तैरित्यर्थः । अशनैरिति पाठे बहुभोक्तृभिः ॥६९॥

चत्वारि ते तात गृहे वसन्तु श्रियाऽभिजुष्टस्य गृहस्थधर्मे ।
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥७०॥

वृद्धः कुलधर्मानुपदिशति । कुलीनः शिशूनाचारं ग्राहयति । सखा हितं वदति तादृशा भीष्मद्रोणविदुराः । भगिनी धनं रक्षति । तव गृहे सर्वेऽपि सन्ति परन्तूपदेशं न गृह्णासीति भावः ॥७०॥

चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः ।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥७१॥

साद्यस्कानि सद्यः फलानि ॥७१॥

देवतानां च सङ्कल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥७२॥

देवताः स्वर्गभाजः स्वर्गपदार्थश्च -‘यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्येवंरूपः । अतस्ते सत्यसङ्कल्पाः धीमतामगस्त्यादीनामनुभावं समुद्रपानादिप्रभावं तेऽपि देवतुल्या इत्यर्थः। विनयोऽपि गुरुप्रसादकरत्वेन सद्यः फलः विनाशं विनाशहेतु कर्मापि चौर्यादिकं तच्च त्वय्येवास्ति । तव तु सर्वं कर्म मानार्थमेवेति भावः ॥७२॥

चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥७३॥

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताऽग्निरात्मा च गुरुश्च भरतर्षभ ॥७४॥

अग्निवत् पित्रादयोऽपि पूज्या एव नास्कन्दनीयाः । तव पुत्रस्तु गुरुं युधिष्ठिरं न पूजयतीति भावः॥७४॥

पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् ।
देवान्पितॄन् मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥७५॥

पितॄन् अग्निष्वात्तादीन् गोत्रप्रवर्तकानृषींश्च । मनुष्यान् पित्रादीन् ‘ज्येष्ठो भ्राता पितुः समः’ इति पितृतुल्यस्त्वत्पुत्रस्य युधिष्ठिर इति भावः ॥७५॥

पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः॥७६॥

त्वा त्वामुपजीव्या गुरवः इह लोके साधिता मित्रादयः । इहपरलोके जन्मांतरे वा स्वं स्वं कार्यं कुर्वन्तीत्यर्थः । मित्रेषु पाण्डवेषु मैत्रीमाचरेति भावः । त्वं त्वन्धत्वाद्दुर्जनवचनप्रतारितः पाण्डवानां गुणान् न पश्यसीति भावः ॥७६॥

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥७७॥

दृतेश्चर्ममयाज्जलपात्रात् ॥७७॥

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता॥७८॥

षडिति । क्रोधोऽत्र तन्मूलको द्वेषो ग्राह्यः ॥७८॥

षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥७९॥

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥८०॥

पाण्डवानामरक्षिता राजा त्वमन्येषामपि त्याज्यो भविष्यसीत्यर्थः ॥८०॥

षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥८१॥

दुर्योधनत्यागार्थं तव धृतिर्धैर्यं नास्तीति भावः ॥८१॥

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥८२॥

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥८३॥

षण्णामिति । आत्मनि चित्ते नित्यानां षण्णां ‘कामक्रोधौ शोकमोहौ मदमानौ च षट्पदी’ इत्युक्तानामैश्वर्यं वशित्वं त्वं तु राज्यकामः पापैरनर्थैश्च युक्तोऽसीति भावः ॥८३॥

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥८४॥

प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥८५॥

पण्डिताः पाण्डवाः मूर्खेषु त्वत्पुत्रेषु राज्यं लप्स्यंत्येवेत्यर्थः ॥८५॥

षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् ।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥८६॥

वृषलः शूद्रः पुत्रस्नेहाक्रान्तेन त्वया सद्विद्याऽनवेक्षणान्नशिता अन्यथा सत्यं न जह्या इति भावः ॥८६॥

षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरम् ॥८७॥

नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥८८॥

आतुरा आरोग्ये सतीति शेषः। त्वं तु कृत्स्नराज्यलाभेन कृतकृत्यत्वात् पाण्डवानवमन्यसे ॥८८॥

आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥८९॥

स्वप्रत्यया स्वानुकूला वृत्तिर्जीविका तव सत्सङ्गो नास्तीत्यर्थः ॥८९॥

ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥९०॥

ईर्षुरिति । त्वयि तु ईर्षुत्वं घृणादया । तव तु वश्यः पुत्रो नास्तीति भावः ॥९०॥

सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥९१॥

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च॥९२॥

वाक्पारुष्यं दण्डपारुष्यं च पाण्डवेषु त्वत्पुत्रैः कृतम् ॥९२॥

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते॥९३॥

द्वेष्टि मनसाऽनिष्टं चिन्तयति विरुध्यते कर्मणा ॥९३॥

ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥९४॥

अष्टसु चरमं त्वत्पुत्रे मैत्रेयस्यावमानतो भविष्यतीति जानामीति भावः ॥९४॥

नैनान् स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान् दोषान्नरः प्राज्ञो बुद्ध्येद्बुध्वा विसर्जयेत् ॥९५॥

अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ॥९६॥

समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥९७॥

समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥९८॥

जनसंसदि सभायां द्रौपद्या आनयनेन पूजाऽपि तव नष्टा ॥९८॥

अष्टौ गुमाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥९९॥

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः ॥१००॥

नवेति । श्रोत्रादिपञ्चकं मनोबुद्ध्यहङ्काराः स्थूलशरीरं चेति नव द्वाराणीव द्वाराणि विषयग्रहणमार्गा यस्मिंस्तत् । तिस्रः स्थूणाः स्तम्भा इव विधारका यस्य ते च अविद्या कामः कर्म च । वेश्म गृहं देहद्वयात्मकं पञ्च साक्षिवदुदासीनाः शब्दादयो ग्राह्या यस्मिन् । पञ्चभूमिकमिति पाठे पञ्चभूमयः प्रचारस्थानानीति त एव । पाञ्चभौतिकमित्यर्वाचीनः पाठ उपेक्ष्यः । क्षेत्रज्ञेन चिदात्मना अधिष्ठितमिदं क्षेत्रं तत्त्वेन यो विद्वान् वेद स परः सर्वोत्कृष्टः कविर्ब्रह्मविदित्यर्थः ॥१००॥

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥१०१॥

मत्तो मद्यादिना । प्रमत्तो विषयान्तरासक्त्याऽनवहितः । उन्मत्तो धातुदोषात् एतेषां मध्ये त्वं लुब्धोऽसीति भावः ॥१०१॥

त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ।
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः॥१०२॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥१०३॥

यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च ।
विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥१०४॥

काममन्यू कामक्रोधौ विशेषवित् तारतम्यज्ञः ॥१०४॥

जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥१०५॥

मात्रामपराधानुसारेण दण्डप्रमाणं ब्राह्मणादावपराधस्य क्षमां च जानाति ॥१०५॥

सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥१०६॥

युक्तः छिद्रप्रेक्षणेऽवहितः ॥१०६॥

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः ॥१०७॥

धुरन्धरः कार्यभारसहः ॥१०७॥

अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥१०८॥

न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव ।
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥१०९॥

संरम्भेण क्रोधेन त्रिवर्गं धर्मकामार्थान् आकारितः आहूतः पाठान्तरे मात्रार्थे अल्पार्थे ॥१०९॥

न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।
नात्याह किञ्चित् क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम्॥११०॥

प्रातिभाव्यं प्रतिकूलो भावः चित्ताभिप्रायः तस्य भावः प्रातिभाव्यं विरोधम् अत्याह अतिक्रम्य ब्रवीति॥११०॥

यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूर्च्छितः कटुकान्याह किञ्चित् प्रियं सदा तं कुरुते जनो हि ॥१११॥

न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तिमेति ।
न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥११२॥

न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः ।
दत्त्वा न पश्चात् कुरुते न तापं स कथ्यते सत्पुरुषार्यशीलः ॥११३॥

देशाचारान् समयान् जातिधर्मान् बुभूषते यः स परावरज्ञः ।
स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥११४॥

समयान् भाषाभेदान् बुभूषते ऐश्वर्यं प्राप्तुमिच्छति परावरज्ञः उत्तमाधमविवेकवान् ॥११४॥

दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् ।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत् स प्रधानः ॥११५॥

दम्भं परवञ्चनेच्छया धर्मानुष्ठानम् । मोहमनात्मन्यात्मबुद्धिम् । मत्सरं द्वेषम् । पापकृत्यं पापक्रियामभिचारादिरूपाम् । पूगवैरं बहुभिः सह वैरम् ॥११५॥

दानं मोहं दैवतं मङ्गलानि प्रायश्चित्तान् विविधाँल्लोकवादान् ।
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥११६॥

समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च ।
गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥११७॥

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥११८॥

चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् ।
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥११९॥

यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः ।
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव सप्रन्नः ॥१२०॥

जात्य अभिजातः उत्तमे आकरे जातः ॥१२०॥

य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत ।
अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥१२१॥

आत्मना अपत्रपते परैरज्ञातेऽपि स्वव्यलीके स्वयमेव लज्जते ॥१२१॥

वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥१२२॥

प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥१२३॥

तर्कणीयः शङ्क्यः ॥१२३॥
इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रिंशोऽध्यायः॥३३॥
चतुस्त्रिंशोऽध्यायः

धृतराष्ट्र उवाच। जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशको ह्यसि ॥१॥

जाग्रत इति । दह्यमानस्य चिन्ताग्निनेति शेषः । धर्मार्थयोः कुशलः मोक्षेऽस्य वक्तुमनधिकाराद्द्वयोरेव ग्रहः॥१॥

त्वं मां यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः ।
यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥२॥

अजातशत्रोः पथ्यं कुरूणां च श्रेयस्करम् ॥२॥

पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाऽहम् ।
कवे तन्मे ब्रूहि सर्वं यथावन्मनीषितं सर्वमजातशत्रोः ॥३॥

पापाशङ्की भाविदुःखादुद्विजन् पापं स्वकृतं पूर्वापराधं पश्यन् कवे हे सर्वज्ञ ॥३॥

विदुर उवाच। शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत् पराभवम् ॥४॥

तस्माद्वक्ष्यामि ते राजन् हितं यत्स्यात् कुरून्प्रति ।
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥५॥

मिथ्योपेतानि कर्माणि सिद्ध्येयुर्यानि भारत ।
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥६॥

मिथ्योपेतानि कपटद्यूतादीनि अनुपायैः असदुपायैः प्रयुक्तानि दुःखफलानीत्यर्थः ॥६॥

तथैव योगविहितं यत्तु कर्म न सिद्ध्यति ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥७॥

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥८॥

अनुबन्धान् प्रयोजनानि संप्रधार्य निश्चित्य ॥८॥

अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥९॥

विपाकः फलसिद्धावपि परिपाकः । उत्थानमुद्यमं वा न वेति सिद्धिपक्षे कुर्वीत नान्यथेत्यर्थः ॥९॥

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥१०॥

प्रमाणं निश्चयद्वारं स्थानादीनि सर्वदा विचार्याणीत्यर्थः । स्थाने दुर्गादौ दण्डे सेनायाम् ॥१०॥

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥११॥

एतानि स्थानादिज्ञापकानि प्रमाणानि लेख्यादीनि ॥११॥

न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥१२॥

असाम्प्रतमयुक्तं यथा स्यात्तथा न न वर्तितव्यम् ॥१२॥

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
लोभाभिपाती ग्रसते नानुबन्धमवेक्षते ॥१३॥

भक्ष्येति । मुखे मिष्टमन्ते मृत्युदं कर्म न कर्तव्यमित्यर्थः । अनुबन्धं पश्चाद्बन्धनम् ॥१३॥

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥१४॥

आद्यं भक्षणीयम् ॥१४॥

वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥१५॥

यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥१६॥

यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥१७॥

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाऽङ्गारकारकः ॥१८॥

अ‌ङ्गारकारको हि मूलत उत्कृत्य काष्ठं दहति अङ्गार इ‌ङ्गालः ॥१८॥

किंन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥१९॥

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथाऽगताः ।
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ॥२०॥

अनारभ्याः प्रबलैः सह वैरादयः । अगताः कदाचिदप्यप्राप्ताः ॥२०॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥२१॥

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥२२॥

लघुमूलानल्पोपायान् ॥२२॥

ऋजु पश्यति यः सर्वं चक्षुषाऽनुपिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥२३॥

चक्षुषा प्रीतिमयेन ॥२३॥

सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ॥२४॥

सुपुष्पितः वाचा चक्षुषा चानुग्रहं दर्शयन्नपि अफलः स्यात् भृत्यं न धनेन वर्धयेत् सफलोऽपि सन् दुरारुहः भृत्यवश्यो न भवेत् । अपक्वम् इति । अन्तर्बलहीनोऽपि बलवत्तां बहिः प्रकाशयेदेवेत्यर्थः ॥२४॥

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥२५॥

कर्मणा दानेन लोकं भृत्यवर्गम् ॥२५॥

यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥२६॥

पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥२७॥

अनये स्थितः अनीतिमान् ॥२७॥

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥२८॥

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः ।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा॥२९॥

प्रतिसंवेष्टते सकुञ्चति बहुफलं न प्रयच्छतीत्यर्थः ॥२९॥

य एव यत्नः क्रियते परराष्ट्रविमर्दने ।
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥३०॥

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥३१॥

न जहाति श्रियम् ॥३१॥

अप्युन्मत्तात् प्रलपतो बालाच्च परिजल्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥३२॥

सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः ।
सञ्चिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥३३॥

सुव्याहृतानि पाण्डित्यवचनानि सूक्तानि शोभनतया उक्तानि मातृपितृगुर्वादीनि । सुकृतानि तदुपदिष्टकर्माणि । शिलं कणिशाद्यर्जनम्। ‘उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्’ इति यादवः । त्वमपि अस्मदादिवाक्यात् सारं गृह्णीष्वेति भावः ॥३३॥

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥३४॥

गन्धेनेति । पाण्डवबलं ज्ञातुं चारान् नियुंक्ष्वति भावः ॥३४॥

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥३५॥

भूयांसमिति श्लोकत्रयतात्पर्यं पाण्डवान् प्रति त्वया नम्रीभवितव्यं तेन बलाधिष्ठात्री देवता इन्द्रश्च त्वामनुग्रहीष्यतीति ॥३५॥

यदतप्तं प्रणमति न तत् सन्तापयन्त्यपि ।
यच्च स्वयं नतं दारु न तत्सन्तापयन्त्यपि ॥३६॥

एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥३७॥

पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥३८॥

एतच्च मन्त्रिभिः सहालोचनीयं सत्यं च संरक्ष्यमित्याह - पर्जन्येति त्रिभिः ॥३८॥

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥३९॥

योगेन अभ्यासेन मृजया उद्वर्तनेन ॥३९॥

मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः ।
अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचेलतः ॥४०॥

अनुक्रमः व्यायामशिक्षादिः ॥४०॥

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥४१॥

प्रमाणं धर्मस्य कारणं न कुलमिति । द्वयोर्वृत्तमाश्रय ईर्ष्यां त्यजेति भावः ॥४१॥

य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥४२॥

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥४३॥

अकाले इष्टसिद्धेः प्राक् भीतः स्यात् येन माद्येत् लोभादिना तन्न पिबेत् नाश्रयेत् ॥४३॥

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥४४॥

अभिजनः सहायः तव तु भयं दमश्च नास्तीत्यर्थः ॥४४॥

असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन ।
तावन्न तस्य सुकृतं किञ्चित्कार्यं कदाचन ।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥४५॥

असन्त इति सार्धश्लोको वाक्यं सद्भिरर्थिता असन्तस्तत्कार्यमल्पमप्यकृत्वा असन्तमिति ख्यातमप्यात्मानं सन्तं मन्यन्त इति तदर्थः। किञ्चिदपि तस्य कार्यं यावत् सुष्ठु न कृतं तावदेव मन्यन्त इति योजना ॥४५॥

गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥४६॥

गतिरिति । पाण्डवा एव त्वामुपकरिष्यन्ति न तु त्वं तानिति भावः ॥४६॥

जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥४७॥

जितेति । शीलं संरक्ष्यं त्वयेति द्वयोर्भावः ॥४७॥

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥४८॥

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥४९॥

आढ्यानामिति त्रयस्य शीलवतस्ते दारिद्र्यप्राप्तिरपि श्रेय इति भावः ॥४९॥

संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥५०॥

संपन्नं मिष्टम् ॥५०॥

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥५१॥

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात् परं भयम् ॥५२॥

शीलाभावे सत्सु अवमानो महान् क्लेश इत्याह - अवृत्तिरिति ॥५२॥

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥५३॥

ऐश्वर्यमदः पापिष्ठो निन्दिततमो येभ्यस्ते पानमदादयो मदाः ॥५३॥

इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥५४॥

इन्द्रियार्थेषु शब्दादिषु ग्रहैः सूर्यादिभिः आक्रमोऽत्र तापनम् ॥५४॥

यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥५५॥

पञ्चवर्गः श्रोत्रादिगणः त्वमैश्वर्यमत्तोऽजितेन्द्रियश्चावश्यमापदं प्राप्स्यसीति त्रयस्य भावः ॥५५॥

अविजित्य यथाऽऽत्मानममात्यान् विजिगीषते ।
अमित्रान् वा जितामात्यः सोऽवशः परिहीयते ॥५६॥

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥५७॥

आत्मानं मनः। अमात्यान् पुत्रादीन् द्वेष्यरूपेण शत्रुवत् । मन एव प्रथमं जेतव्यं ततोऽमात्यादीन् विजिगीषते तत् न मोघं न निष्फलं भवति ॥५७॥

वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥५८॥

त्वं त्वजितमनस्कतया पुत्रादिवशो न लक्ष्मीयोग्य इति त्रयाणां भावः ॥५८॥

रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥५९॥

एतदेव रथिरथादिरूपककल्पनया आह - रथ इति ॥५९॥

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ताः हयाः पथि कुसारथिम् ॥६०॥

व्यापादयितुं नाशायितुम् अविधेयाः अवशाः ॥६०॥

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥६१॥

अर्थतोऽर्थहेतोः अनर्थतः अन्यायतः ॥६१॥

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥६२॥

इन्द्रियाणां वश इच्छा तदनुसारी इन्द्रियवशानुगः ॥६२॥

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भ्रश्यते हि सः ॥६३॥

आत्मनाऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६४॥

कृत्स्नस्योपदेशस्य फलमाह - आत्मनेत्यर्धेन । आत्मना बुद्ध्या आत्मानं प्रत्यक्चैतन्यरूपम् अन्विच्छेत् । तत्रोपायमाह - मनसः सङ्कल्पात्मकस्य बुद्धेश्च तन्मूलभूतायाः इन्द्रियाणां च निग्रहेणेत्यर्थः । अत्र न तव सहायान्तरापेक्षेत्याहात्मेति धीजय एव पुरुषार्थ इत्यर्थः ॥६४॥

बन्धुरात्मात्मनस्तस्य येनैवात्माऽत्मना जितः ।
स एव नियतो बन्धुः स एव नियतो रिपुः ॥६५॥

स एव धीरेव जीवस्य बन्धुः रिपुश्च ॥६५॥

क्षुद्राक्षेणेव जालेन झषावपिहितावुरू ।
कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥६६॥

द्वावपि मोहजालपिहितौ झषौ मीनौ उरू महान्तौ तत्र द्वितीयोऽन्यस्य जातिस्वभावाच्छत्रुरपि जालच्छेदार्थं मित्रत्वमापन्नो बन्धुरपि भवति । एवं धीश्चिदात्मनः संसारप्रदत्वाच्छत्रुरपि मोहच्छेदार्थं तस्य मित्रमपि भवतीति भावः । क्षुद्राक्षेण सूक्ष्मछिद्रेण यद्वा उत्तरान्वय्येवायमर्धः । कामक्रोधयोरावरकं प्रज्ञानं तौ नाशयतः जालमिव महामीनावित्यर्थः ॥६६॥

समवेक्ष्येह धर्मार्थौ संभारान् योऽधिगच्छति ।
स वै संभृतसंभारः सततं सुखमेधते ॥६७॥

समवेक्ष्य अनुरुध्य सम्भारान् जयसाधनानि ॥६७॥

यः पञ्चाभ्यन्तरान् शत्रूनविजित्य मनोमयान् ।
जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥६८॥

आभ्यन्तरान् श्रोत्रादीन् मनोमयान् मनसो विकारभूतान् तथा च श्रुतिः- ‘मनसा ह्येव पश्यति मनसा शृणोति’ इति ॥६८॥

दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः ।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥६९॥

राजानो रावणादयः राज्यविभ्रमैः ऐश्वर्यविलासैः स्वकर्मभिः सीताहरणादिभिः ॥६९॥

असन्त्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात् पापैः सह सन्धिं न कुर्यात् ॥७०॥

निजानुत्पततः शत्रून पञ्च पञ्च प्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥७१॥

पञ्च इन्द्रियाणि पञ्च प्रयोजनानि शब्दश्रवणादीनि येषां तान् उत्पततः उत्पथेन गच्छतः त्वं तु अजितचित्तत्वाद्दुःसंगाच्चापद्‌ग्रस्तोऽसीति भावः ॥७१॥

अनसूयाऽर्जवं शौचं सन्तोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥७२॥

अनायासः अचाञ्चल्यम् ॥७२॥

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
वाक् चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥७३॥

तितिक्षा द्वन्द्वसहनशीलता वाक्गुप्ता असम्बद्धप्रलापाद्रक्षिता अन्त्येषु नीचेषु त्वत्पुत्रेष्वार्जवादिकं गुप्तवाक्त्वं च नास्तीति तेऽन्त्याः ॥७३॥

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥७४॥

आक्रोशो रूक्षभाषणं परिवादो निन्दा तयोर्वक्ता त्वत्पुत्रः हिंस्रश्चातो नासौ जयभाक् ॥७४॥

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥७५॥

वाक्संयमो हि नृपते सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥७६॥

वाक्संयमो नियतं वचनं विचित्रं चमत्कारयुक्तम् ॥७६॥

अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥७७॥

रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥७८॥

बीभत्सं निन्दितं यतो न संरोहति ॥७८॥

कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः ।
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥७९॥

कर्णी कर्णाकृतिफलको बाणः नालीकः नलीकया प्रक्षेप्यो बाणः निर्हरन्ति निःसारयन्ति ॥७९॥

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेभ्यः ॥८०॥

नामर्मसु किन्तु मर्म स्वेव सभायां द्रौपदीं प्रति दुर्वचनं वदतां त्वत्पुत्राणामपराधः क्षन्तुमयोग्योऽस्तीति भावः ॥८०॥

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥८१॥

अवाचीनानि - नीचकर्माणि ॥८१॥

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥८२॥

सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ ।
पाण्डवानां विरोधेन न चैनानवबुद्ध्यसे ॥८३॥

राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥८४॥

शिष्यस्ते त्वदाज्ञाकारी शासिता पृथिव्याः ॥८४॥

अतीव सर्वान् पुत्रांस्ते भागधेयपुरस्कृतः ।
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥८५॥

भागधेये राज्यांशे पुरस्कृतः मूर्धाभिषिक्तस्य पाण्डोः पुत्रास्ते राज्यार्हाः अतथाभूतस्यान्धस्य तव पुत्रास्ते न राज्यार्हा इत्यर्थः ॥८५॥

अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः ।
गौरवात्तव राजेन्द्र बहून् क्लेशांस्तितिक्षति ॥८६॥

अनुक्रोशात् दयालुत्वात् आनृशंस्यात् अक्रौर्यात् ॥८६॥
इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः॥३४॥
पञ्चत्रिंशोऽध्यायः

धृतराष्ट्र उवाच। ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥१॥

ब्रहीति ॥१॥

विदुर उवाच। सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते ॥२॥

आर्जवमवषैम्यम् ॥२॥

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥३॥

यावत् कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥५॥

स्वयंवरे स्थिता कन्या केशिनी नाम नामतः ।
रूपेणाप्रतिमा राजन् विशिष्टपतिकाम्यया॥६॥

विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह ।
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी॥७॥

केशिन्युवाच ।
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन ।
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥८॥

सुधन्वा ब्राह्मणः पर्यङ्कमधिरोहत्येव त्वं तु नीचो दैत्यः सन्ः किमर्थं तत्प्रत्याख्यानं करोषीति भावः॥८॥

विरोचन उवाच। प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः ।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥९॥

केशिन्युवाच ।
इहैवावां प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥१०॥

इह स्थाने उपस्थाने मामुपस्थातुं वां दैत्यब्राह्मणौ अहं पश्येयम् ॥१०॥

विरोचन उवाच। तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टाऽसि सङ्गतौ ॥११॥

विदुर उवाच। अतीतायां च शर्वर्यामुदिते सूर्यमण्डले ।
अथाजगाम तं देशं सुधन्वा राजसत्तम ।
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ।
सुधन्वा च समागच्छत् प्राह्लादिं केशिनीं तथा॥१२॥

समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ ।
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः॥१३॥

समागच्छत् उभयोः संमुखमगच्छत् । समागतं संमुखं प्राप्तम् ॥१३॥

सुधन्वोवाच ।
अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम् ।
एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया सह ॥१४॥

विरोचनेन सौवर्णे पीठे मया सह उपवेश्यतामिति प्रार्थितः सुधन्वा उवाच । अन्वालभे स्पृशाम्येव हे प्रह्रादे एकत्वं त्वया सह साम्यम् उपसंपन्नश्चेत् भवेदहं गच्छेयमिति शेषः । न तु त्वया सह एकासने आसे उपविशामि ॥१४॥

विरोचन उवाच। तवार्हते तु फलकं कूर्चं वाऽप्यथवा बृसी ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥१५॥

फलकं काष्ठपीठं कूर्चं वृसीं वर्तितदर्भमयं पीठं वा तव अर्हते योग्यं भवति ॥१५॥

सुधन्वोवाच ।
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि ।
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्याविरतेतरम्॥१६॥

पिता हि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥१७॥

उपासीत सेवते अधःस्थित्वेति शेषः ॥१७॥

विरोचन उवाच। हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन् विपणेतेन प्रश्नं पृच्छाव ये विदुः ॥१८॥

प्रश्नम् आवयोः कः श्रेष्ठ इति प्रश्नं ये विदुस्तान् पृच्छाव ॥१८॥

सुधन्वोवाच ।
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥१९॥

विरोचन उवाच। आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥२०॥

सुधन्वोवाच ।
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥२१॥

विदुर उवाच। एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा ।
विरोचनसुधन्वानौ प्रह्लादो यत्र तिष्ठति॥२२॥

प्रह्लाद उवाच। इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गविहागतौ ॥२३॥

सह न चरितं वैरात् ॥२३॥

किं वै सहैवं चरथो न पुरा चरतः सह ।
विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना ॥२४॥

विरोचन उवाच। न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥२५॥

प्रह्लाद उवाच। उदकं मधुपर्कं वाऽप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥२६॥

पीवरी पुष्टा कृता मधुपर्कार्थम् उपकल्पिता ॥२६॥

सुधन्वोवाच। उदकं मधुपर्कं च पथिष्वेवार्पितं मम ।
प्रह्लाद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतोः॥ किं ब्राह्मणाः स्विच्छ्रेयांस उताहोस्विद्विरोचनः॥२७॥

पथिष्विति प्रश्ननिर्णयेनैतत्प्राप्तमिति भावः ॥२७॥

प्रह्लाद उवाच। पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥२८॥

सुधन्वोवाच ।
गां प्रदद्यास्त्वौरसाय यद्वाऽन्यत्स्यात् प्रियं धनम् ।
द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्त्वया॥२९॥

प्रह्लाद उवाच। अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम् ।
एतत्सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥३०॥

दुर्विवक्ता दुष्टविवेककर्ता अन्याय्यवक्तेत्यर्थः । किं वसेत् किं दुःखं प्राप्नुयात् ॥३०॥

सुधन्वोवाच ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥३१॥

अधिविन्ना कृतसपत्नीका स्त्री तां रात्रिं वसेत्तद्वद्दुःखं प्राप्नुयात् ॥३१॥

नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः ।
अमित्रान् भूयसः पश्येद्यः साक्ष्यमनृतं वदेत् ॥३२॥

नगरे इति शरणमलभमानः क्षुधार्तः शत्रुभिर्वेष्टितश्च यत् दुःखं लभते सः अनृतसाक्ष्यवक्ताऽपि लभेतेत्यर्थः ॥३२॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥३३॥

पञ्च पूर्वजान् पश्वनृते अजादिपश्वर्थमनृते उक्ते सति हन्ति नाशयति परलोकात् च्यावयति एवमुत्तरत्र॥३३॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥३४॥

भूमितुल्या केशिनी तदर्थमनृतं भूम्यनृतम् ॥३४॥

प्रह्लाद उवाच। मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।
माताऽस्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥३५॥

अङ्गिराः सुधन्वनः पिता त्वत् त्वत्तः ॥३५॥

विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ।
सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम् ॥३६॥

सुधन्वोवाच ।
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते पुत्रं तस्मात् प्रह्लाद दुर्लभम् ॥३७॥

एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम ॥३८॥

पादप्रक्षालनं हरिद्रया पादधावनं कुमार्याः केशिन्याः विवाहे दम्पत्योः परस्परं हरिद्रया पादधावनं कुर्वन्तीति प्रसिद्धम् । अस्यैव भार्या केशिनी भवत्वित्यर्थः ॥३८॥

विदुर उवाच। तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥३९॥

प्रकृते आख्यायिकोपयोगमाह - तस्मादिति। अब्रुवन्सत्यमिति शेषः ॥३९॥

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥४०॥

तव दैवं प्रतिकूलम् अधीतं च निष्फलमित्याह त्रयेण - न देवा इति ॥४०॥

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥४१॥

नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥४२॥

छन्दांसि वेदाः ॥४२॥

मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥४३॥

अन्तरं वियोगं विवादं वैरप्रवर्तनं ज्ञातिभेदे कलहे च तव प्रवृत्तिर्न योग्येति भावः ॥४३॥

सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च नैतान् साक्ष्ये त्वधिकुर्वीत सप्त ॥४४॥

सामुद्रिकं हस्त रेखादिपरीक्षकं वणिजं चोरपूर्वं पूर्वं चोरः पश्चाद्वणिक्भूतः तं कूटतुलावन्तं वा शलाकया पाशादिना वा शकुनादिकमुक्त्वा योऽन्यान् वञ्चयति तमरिं विपरीतसाक्ष्यभयात् मित्रं परीक्षकाणामविश्वासात् कुशीलवं कुत्सितं शीलं वाति अनुसरतीति तं नर्तकीदासं विटोन्मत्तादिकं वा तव तु कूटद्यूतकारी शकुनिः कुशीलव एव प्रमाणम् ॥४४॥

मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥४५॥

सत्कर्मद्वाराऽपि तस्य साधुत्वं न मन्तव्यमित्याह - मानेति । मानः लोकेषु उत्कर्षः तदर्थान्यग्निहोत्रादीनि भयदानीत्यर्थः मौनं ध्यानम् ॥४५॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥४६॥

कुण्डाशी भगभक्षः । जीवति भर्तरि जाराज्जातः कुण्डस्तेन निमित्तेनाशितुं शीलः सोमविक्रयी प्रसिद्धः । पर्वकारः शरकृत् आयुधमात्रकर्तेत्यर्थः । सूची सूचको नक्षत्रादीनां परदोषाणां च ज्यौतिषिकः पिशुनो वा ॥४६॥

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥४७॥

काकः काकवत् क्षतोद्वर्तनेन दुःखितस्यापि दुःखप्रदः नास्तिकः परलोकादिद्वेषी ॥४७॥

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात् सर्वे ब्रह्महभिः समाः ॥४८॥

स्रुवप्रग्रहणः राजकीयवृत्तिबलेन सर्वेभ्यो वणिग्भ्यः स्रुवेण धान्यादिकमादत्ते ‘खोंचीग्राहक’ इति भाषायां प्रसिद्धः । ग्रामपुरोहित इत्यन्ये । व्रात्यः अतीतोपनयनकालः पतितसावित्रीको वा । कीनाशः कर्षकः आत्मवान् समर्थोऽपि यो रक्षेत्युक्तो हिंस्यात् एतेष्वाद्यं द्वयं त्वत्पुत्रेषु दृष्टम् ॥४८॥

तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥४९॥

तृणोल्कया तृणज्वालया जातरूपं रूपवद्वस्तु ज्ञायतेऽन्धकारे सति भद्रो वृषः धर्म इति । यावत् वृत्तेन शीलेन सोऽस्ति नास्तीति ज्ञायते व्यवहारेण अहिंसादिप्रधानेन कृच्छ्रेषु दुर्भिक्षादिसङ्कटेषु । त्वत्पुत्रेषु धर्मः साधुत्वं च नास्तीत्यर्थः ॥४९॥

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ॥५०॥

जरेति । त्वत्पुत्रेऽभिमानदोषोऽस्ति ॥५०॥

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥५१॥

श्रीरिति । दाक्ष्यं शीघ्रकारित्वं त्वयि संयमाभावान्न श्रीः स्थास्यति ॥५१॥

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥५२॥

अष्टाविति । राज्ञा पुरस्कृतं पुरुषं प्रज्ञादयो हठादनुसरन्तीति श्लोकद्वयार्थः ॥५२॥

एतान् गुणांस्तात महानुभावा नेको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणो विभाति ॥५३॥

एष गुणो राजसत्कारः विभाति भासयति कर्णादिषु सत्कृतेषु आगन्तुका एते गुणाः सन्ति न स्वाभाविकाः अतस्ते नोपयोक्ष्यन्त इति भावः ॥५३॥

अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः ॥५४॥

इमानि वक्ष्यमाणानि अन्ववेतानि नित्यसम्बद्धानि अनुयान्ति यत्नेन भजन्ति ॥५४॥

यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥५५॥

इज्याध्ययनदनानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥५६॥

तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति॥५७॥

तत्रेति । असत्यपि दमादौ दम्भार्थं यज्ञादिसंभवात् ॥५७॥

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत् सत्यं यच्छलेनाभ्युपेतम् ॥५८॥

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥५९॥

रूपं विनयमुद्रा श्रुतमध्ययनं विद्यादेवताद्युपासनं चित्रभाष्यं युक्तियुक्तं वचनं दशसंसर्गजा गुणा इति पाठे तद्युक्तैः सह सङ्गे कृते एते जायते तेन सत्सङ्गः कर्तव्य इति भावः ॥५९॥

पापं कुर्वन् पापकीर्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते ॥६०॥

पापकीर्तिः कल‌ङ्कित्वेन प्रसिद्धः ॥६०॥

तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः ।
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः॥६१॥

नष्टप्रज्ञः पापमेव नित्यमारभते नरः ।
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः॥६२॥

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ।
पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति ।
तस्मात् पुण्यं निषेवेत पुरुषः सुसमाहितः॥६३॥

असूयको दन्दशूको निष्ठुरो वैरकृच्छठः ।
स कृच्छ्रं महदाप्नोति न चिरात् पापमाचरन् ॥६४॥

दन्दशूको मर्मछेत्ता निष्ठुरः अप्रियवाक् नचिरात् शीघ्रम् ॥६४॥

अनसूयः कृतप्रज्ञः शोभनान्याचरन् सदा ।
न कृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥६५॥

न कृच्छ्रं समस्तं पदं सुखवाची ॥६५॥

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥६६॥

आगमयति आनयति ॥६६॥

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥६७॥

वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥६७॥

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥६८॥

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥६९॥

गतपारं प्राप्ततत्त्वम् ॥६९॥

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥७०॥

परिपाकसुखं कर्म त्वत्पुत्रा न कुर्वन्ति अन्यायेन च सुखं लिप्सन्ति तत्तु विपरीतमेवेत्याह - धनेनेति ॥७०॥

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥७१॥

आत्मवतां जितचित्तानां प्रच्छन्नपापो दुर्योधनः ॥७१॥

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥७२॥

प्रभवः माहात्म्यं ‘प्रभवो जन्ममूले स्याज्जन्महेतौ पराक्रमे’ इति मेदिनी । नाधिगन्तव्यः नाधिगन्तुं शक्योऽनन्तत्वात् ॥७२॥

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥७३॥

ज्ञातिषु अनार्जवी दुर्योधनः ॥७३॥

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥७४॥

शूराः पाण्डवाः सर्वत्र सुवर्णभाज इति भावः ॥७४॥

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥७५॥

बुद्धिरेव येषां फलसिद्धौ साधनं तानि बुद्धिश्रेष्ठानि प्रशस्ततमानि कर्माणि बाहुमध्यानि बाहुबलसाध्यानि मध्यानि । जङ्घेति गोपनीयत्वं लक्ष्यते तेन कपटसाध्यानि जघन्यानि नीचानि । येषां सिद्धौ स्वशिरसि भारः सङ्कटं पतति तानि नीचतराणि ॥७५॥

दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा ।
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥७६॥

तत्रान्त्यद्वयवन्तो दुर्योधनादय इति मत्वा प्राह - दुर्योधन इति ॥७६॥

सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥७७॥

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पञ्चत्रिंशोऽध्यायः॥३५॥
षट्त्रिंशोऽध्यायः

विदुर उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥१॥

अत्रैवेति ॥१॥

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥२॥

हंसरूपेण परिव्राजकरूपेण ॥२॥

साध्या ऊचुः। साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥३॥

अनुमातुं लिङ्गेन ज्ञातुम् । काव्यं विद्वल्लक्षणाभिधायिनीम् ॥३॥

हंस उवाच। एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत ॥४॥

मे मया संश्रुतं गुरुभ्य इति शेषः । तदेवाह - धृतिरिति । धृतिः दुःखैरभिघातेऽपि अवैकल्यम् । दमः सर्वेन्द्रियजयः । सत्यधर्माः ब्रह्मप्रापका धर्माः धारणाध्यानसमाधयः तेषामनुवृत्तिरविच्छेदः । तैश्च ग्रन्थिं चिज्जडयोरात्मान्तःकरणयोरेकलोलीभावं विनीय तयोः पृथक्करणेन शिथिलीकृत्य । प्रियाप्रिये सुखदुःखे । आत्मसममात्मसाम्यं नयीत प्रापयेत् प्रियाप्रियधर्मिणोऽन्तःकरणस्यात्मन्यध्यस्तस्य स्वाधिष्ठाने प्रलये सति तयोरपि तत्रैव लय इत्यर्थः । यथा रज्ज्वां रज्जुसर्पे लीने सति भीषणत्वादयोऽपि तत्रैव लीयन्ते तद्वत् ॥४॥

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥५॥

नाक्रोशेत् न शपेत् यतस्तितिक्षतो मन्युः क्रोध एव आक्रोष्टारं दहति ॥५॥

नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।
न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुषतीं वर्जयीत॥६॥

रुषतीं रोषवतीं पाठान्तरे उषतीं दाहिकां वा ॥६॥

मर्माण्यस्थीनि हृदयं तथासून् रूक्षा वाचो निर्दहन्तीह पुंसाम् ।
तस्माद्वाचमुषतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥७॥

अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम्॥८॥

निरॄतिमलक्ष्मीं मृत्युं वा ॥८॥

परश्चेदेनमभिविद्ध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।
स विद्ध्यमानोऽप्यतिदह्यमानो विद्यात् कविः सुकृतं मे दधाति ॥९॥

बाणैः वाग्बाणैः दधाति पुष्णाति ॥९॥

यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति॥१०॥

त्वत्पुत्राः रूक्षवाचस्त्वमपि तत्सङ्गात्तादृशो भविष्यसीत्याह - यदीति । रङ्गस्य नीलादेर्वशं नीलताम्॥१०॥

अतिवादं न प्रवदेन्न वादयेद्योऽनाहतः प्रतिहन्यान्न घातयेत् ।
हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय ॥११॥

अतिप्रोक्तोऽपि न वदेत् वादयेद्वा । अनाहतो नैव प्रतिहन्यात् आहतोऽपि पापकं हन्तारं यदि हन्तुं नेच्छेत् स देवानामपि श्रेष्ठो भवतीत्यर्थः ॥११॥

अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥१२॥

अव्याहृतं मौनं ततोऽपि श्रेयः सत्यवचनं सत्यमपि प्रियं चेत्ततोऽपि श्रेयः तदपि धर्मादनपेतं चेत् श्रेष्ठतममित्यर्थः ॥१२॥

यादृशैः सन्निविशते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥१३॥

तस्मात्सत्सङ्ग एव त्वयाऽपि कर्तव्य इत्याशयेनाह - यादृशैरिति ॥१३॥

यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥१४॥

यतो यत इति । यथा स्वप्ने बाह्याद्विषयान्निवृत्तस्तज्जेन दुःखेन मुच्यते । एवं जाग्रति स्वाप्नविषयजेन सुषुप्तौ समाधौ च सर्वतो निवृत्तो दुःखलेशमपि न भजतेऽतो निवृत्तिरेव त्वया कार्येति भावः ॥१४॥

न जीयते चानुजिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च ।
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥१५॥

अस्यामवस्थायां पुरुषस्य न किंचिद्दुःखादिकमस्तीत्याह - न जीयते चेति । नानुजिगीषते इति पाठे न पुरुषः ॥१५॥

भावमिच्छति सर्वस्य नाभावे कुरुते मनः ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥१६॥

भावं कल्याणमभावे अकल्याणे ॥१६॥

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।
रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः ॥१७॥

अनर्थकं मिथ्या न सान्त्वयति ॥१७॥

दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात् कृतघ्नः ।
न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः॥१८॥

उपहतो गद्या घोषयात्रायां गन्धर्वैस्ताडितः । अभिशस्तः अभितः शास्त्रैर्विदीर्णः । मन्युवशात् क्रोधवशात् नावर्तते न ऋजुर्भवति । यतः कृतघ्नः पाण्डवैस्तदा मोचितोऽपि तदुपकारं हन्त्येव । एताः कलाः चित्तस्य वृत्तयः अधमस्यैव ॥१८॥

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।
निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥१९॥

अधमलक्षणमाह - नेति । परेभ्यः गुरुभ्यः। आत्मन्येव शङ्कितः विश्वासहीनः ॥१९॥

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ॥२०॥

प्राग्नोति वै वित्तमसद्बलेन नित्योत्थानात् प्रज्ञया पौरुषेण ।
न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥२१॥

धृतराष्ट्र उवाच। महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च ।
पृच्छामि त्वां विदुरं प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥२२॥

महाकुलेभ्य इति स्पृहेरीप्सित इति कर्मणि चतुर्थी ॥२२॥

विदुर उवाच। तपो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्नदानम् ।
येष्वेवैते सप्त गुणा वसन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥२३॥

तपः कृच्छ्रचान्द्रायणादि दमः इन्द्रियजयः ब्रह्मवित्तं ब्राह्मणस्य धनं वेदाध्ययनं वेदाध्यापनं च । वितानाः यज्ञकर्माणि सम्यग्वृत्ताश्च ये तानि - क्लीबत्वं विधेयापेक्षया - महाकुलानि विद्धि ॥२३॥

येषां न वृत्तं व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम् ।
ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥२४॥

न व्यथते न चलति न योनिः पित्राद‌योऽपि येषां दोषेण न व्यथन्ते किन्तु गुणैरेव तुष्यन्ति ॥२४॥

अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥२५॥

देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥२६॥

ब्राह्मणानां परिभवात् परीवादाच्च भारत ।
कुलान्यकुलतां यान्ति न्यासापहरणेन च॥२७॥

परिभवात्ताडनात् परीवादात् निन्दातः ॥२७॥

कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः ।
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥२८॥

गोभिर्वाग्भिर्विद्ययेत्यर्थः । पुरुषतः सत्पुरुषैः अर्थतः धनैश्च कुलानि कुलसङ्ख्यां कुलेषु गणनां समुपेतानि भवन्ति ॥२८॥

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥२९॥

वृत्ततः धर्मेण कर्षन्ति आहरन्ति ॥२९॥

वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥३०॥

गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया ।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ॥३१॥

गोभिर्विद्याभिः ॥३१॥

मा नः कुले वैरकृत्कश्चिदस्तु राजाऽमात्यो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥३२॥

नैकृतिकः कपटी वैरकृदादयः कुलघ्नाः इत्यर्थः ॥३२॥

यश्च नो ब्राह्मणान् हन्याद्यश्च नो ब्राह्मणान् द्विषेत् ।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत् कृषिम् ॥३३॥

प्रसङ्गाद्वृत्तलक्षणमाह - यश्चेति । न इति अस्मच्छब्दस्यादेशचतुष्टयं न नः स इति पाठे । न तस्येति पाठे तु त्रयमेव । निर्वपेत् कुर्यात् । पितॄनिति पाठे नो निषेधार्थः ॥३३॥

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥३४॥

नोच्छिद्यन्ते किन्त्वतिथीनुपगच्छन्त्येव ॥३४॥

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम् ॥३५॥

सत्कृतिं सत्कारं कर्तुं प्रवृत्तानि तृणादीनि ॥३५॥

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथाऽन्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥३६॥

युक्ताः स्यन्दनवदविकलाः ॥३६॥

न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् ।
यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि ॥३७॥

प्रकृतमाह - न तदिति । तव तु शङ्काकुलस्य मय्यापि मित्रत्वबुद्धिर्नास्तीति भावः । सङ्गतानि संबन्धमात्राणि ॥३७॥

यः कश्चिदप्यसंबद्धो मित्रभावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥३८॥

मूर्खस्य तु दुर्योधनादेः कुलशीलादिभिरसंबद्धोऽपि कर्णादिमित्रभावेनास्तीत्याशयेनाह - य इति । बन्धुः सम्बन्धी मित्रमुपकारकृत् ॥३८॥

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ॥३९॥

पारिप्लवमतेः चलबुद्धेः ॥३९॥

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समभिवर्तन्ते हंसाः शुष्कं सरो यथा ॥४०॥

समभिवर्तन्ते सम्यगभित एव वर्तन्ते न तु स्पृशन्ति । समभिवर्तन्त इत्यपि पठन्ति ॥४०॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥४१॥

अभ्रं मेघः ॥४१॥

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान् मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥४२॥

मित्राणां हितायेति शेषः ॥४२॥

अर्चयेदेव मित्राणि सति वाऽसति वा धने ।
नानर्थयन् प्रजानाति मित्राणां सारफल्गुताम् ॥४३॥

अनर्थयन्प्रार्थनाशून्यः लुब्धस्तु मित्राणां सारफल्गुत्वेन जानातीत्यतः स कार्यार्थी वणिक्तुल्यो न तु मित्रम् ॥४३॥

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥४४॥

सन्तापात् इष्टवियोगात् शोकात् ॥४४॥

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥४५॥

अनवाप्यं न प्राप्यं शोकेन शोकमात्रेण इष्टमिति शेषः ॥४५॥

पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च ।
पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च ॥४६॥

दुःखादेरागमापायित्वादपि न शोकादिकं कर्तव्यमित्याह - पुनरिति ॥४६॥

सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत् ॥४७॥

सर्वं पुरुषमात्रम् ॥४७॥

चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः ॥४८॥

षट् मनसा सह श्रोत्रादीनि पञ्च । स्रवते स्वार्थाद्भ्रश्यति ततो विषयसेवनात् ॥४८॥

धृतराष्ट्र उवाच। तनुरुद्धः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥४९॥

तनुः शरीरमभिव्यक्तिस्थानं काष्ठं तत्र रुद्धोऽनभिव्यक्तः शिखी अग्निस्तथाऽयं राजा धर्मेण रुद्धः । तनुना सूक्ष्मेण धर्मेण वा रुद्धः ॥४९॥

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥५०॥

उद्विग्नं भीतं चालतं चा अनुद्विग्नमभयमचलं च पदं पदनीयं प्राप्यं ब्रह्म ॥५०॥

विदुर उवाच। नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ॥५१॥

तत्प्राप्तिसाधनान्येवाह - नान्यत्रेति । विद्याऽध्ययनजा । तपः स्वधर्माचरणम् । त्वं तु लोभी तत्पदं प्राप्तुमनर्ह इति भावः। शान्तिं कल्याणम् ॥५१॥

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति ॥५२॥

बुद्ध्या आत्मज्ञानेन भयं संसारम् । विन्दते महत् सद्‌गुरुशास्त्रादिकं लभते । ततो गुरुशुश्रूषया ज्ञानं ग्रन्थजं योगेन सर्वचित्तवृत्तिनिरोधेन शान्तिम् ॥५२॥

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥५३॥

शान्तिप्राप्तौ सर्वं तुच्छमित्याह - अनाश्रिता इति । दानजं पुण्यं तत्फलं स्वर्गादीत्यर्थः । अनाश्रिताः नाश्रयन्ते तुच्छत्वात्तस्य ॥५३॥

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥५४॥

तस्यान्ते स्वधीतादीनां कर्मणामन्ते नाशे सुखं परमानन्दं विन्दते जगत्कारणदर्शनादेव सकलकर्मनाशे सत्यकारणं शुद्धं प्राप्नोतीत्यर्थः । ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ परो हिरण्यगर्भोऽवरो नीचो यस्मात्कारणात्तस्मिन् दृष्टे सति ॥५४॥

स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते ।
न स्त्रीषु राजन् रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥५५॥

तदन्यद्दुःखरूपमेवेत्याह - स्वास्तीर्णानीति । भिन्नाः भेददृष्टिमन्तः ‘द्वितीयाद्वै भयं भवति’ इति श्रुतेरद्वैततत्त्वात् प्रच्युता इत्यर्थः । पक्षे भिन्नाः ज्ञातिभेदवन्तः ॥५५॥

न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥५६॥

प्रशममक्रोधम् ॥५६॥

न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम् ।
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात् ॥५७॥

योग अलब्धलाभः । क्षेमं लब्धपरिपालनं तदुभयं न कल्पते न युज्यते ॥५७॥

संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः ।
संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं ॥५८॥

तदेवाह - संपन्नमिति । संपन्नं क्षीरादिसम्पत्तिः ॥५८॥

तन्तवोऽप्यायता नित्यं तनवो बहुलाः समाः ।
बहून् बहुत्वादायासान् सहन्तीत्सुपमा सताम् ॥५९॥

तन्तवः कुलतन्तवः पाण्डवाः आप्यायिताः त्वयैव संवर्धिताः । पूर्वरूपमार्षम् । तनवः सूक्ष्माः बाला इत्यर्थः । बहुलाः समाः बहून् संवत्सरान् । बहुत्वात् बन्धूनामन्येषां च ऋषीणां बहुत्वात् वने आयासान् सहन्ति अतः सतामुपमा भवन्ति पाण्डवा इव सन्त इतिः लोके वदन्ति । अतः सत्तमाः पाण्डवास्त्वया न वञ्चनीया इति भावः ॥५९॥

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥६०॥

अन्ये तु ज्ञातयो न पाण्डवतुल्या इत्याह - धूमायन्ते इति । व्यपेतानि पृथग्भूतानि ॥६०॥

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥६१॥

ब्राह्मणादिसाहचर्यात् ज्ञातयोऽप्यत्रायुद्धार्थिन एव ग्राह्याः । तादृशांश्च पाण्डवान् जिघांसन्तः पतिष्यन्त्येवेत्यर्थः ॥६१॥

महानप्येकजो वृक्षो बलवा सुप्रतिष्ठितः ।
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥६२॥

एकजः एकाकी प्रसह्यः शक्यः ॥६२॥

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान् वातान् सहन्तेऽन्योन्यसंश्रयात् ॥६३॥

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥६४॥

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥६५॥

अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः॥६६॥

न मनुष्ये गुणः कश्चिद्राजन् सधनतामृते ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥६७॥

सधनताम् ऋते विना अनातुरत्वात् ऋते च । भद्रं तेऽस्तु इत्याशीर्वचनमाप्तत्वसूचनार्थम् ॥६७॥

अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम् ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥६८॥

धनवाननातुरश्च त्वं गुणी सन् शमं प्राप्नुहीत्याह - अव्याधिजमिति । कटुकमरोचकं परुषं रूक्षं तीक्ष्णं छेदकमुष्णं दुःसहस्पर्शं पेयं गिलनीयं मन्युं दैन्यं ‘मन्युर्दैन्ये क्रतौ कृधि’ इति कोशात् । प्रशाम्य शान्तिं क्षमां प्राप्नुहि ॥६८॥

रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् ।
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम्॥६९॥

सन्तापाद्व्याधिमृच्छतीत्युक्तमतस्तौ द्वावपि निन्दति फलानि पुत्रपश्वादीनि । तत्त्वमिष्टानिष्टविवेकं पित्तोपहतरसनत्वात् । एवं सर्वत्र भोगः स्त्र्यादिसङ्गः धनादिजं सुखं लब्धमपि न बुध्यन्ते । अतः सन्तापं जागरादिद्वारा रोगोत्पादकं त्यजेत्यर्थः ॥६९॥

पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति॥७०॥

कितवत्वं द्यूतप्रियत्वम् ॥७०॥

न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥७१॥

मृदुना सहिष्णुना धर्मः दायविभागाख्यः । क्रूरे त्वत्पुत्रे समाहिता मृदुना युधिष्ठिरेण । प्रौढा सती॥७१॥

धार्तराष्ट्राः पाण्डवान् पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।
एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन् सुखिनः समृद्धाः ॥७२॥

मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ ।
पार्थान् बलान् वनवासप्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन् ॥७३॥

मेढीभूतः स्वयं निर्व्यापारोऽपि परितः सञ्चरमाणानां बलीवर्दानामिव पुत्राणां यथेष्टप्रचारनिरोधकः॥७३॥

सन्धत्स्व त्वं कौरव पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु ।
सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥७४॥

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः॥३६॥
सप्तत्रिंशोऽध्यायः

विदुर उवाच। सप्तदशेमान् राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् ।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥१॥

सप्तदशेति ॥१॥

तानेवेन्द्रस्य च धनुरनाम्यं नमतोऽब्रवीत् ।
अथो मरीचिनः पादानग्राह्यान् गृह्णतस्तथा ॥२॥

दानूनां मेघानां समूहो दानवं तस्मिन् । सुपां सुलुगिति सप्तम्या लुक् डादेशो वा । इन्द्रस्य धनुः वर्षासु दृश्यमानमनाम्यं धूमज्योतिषोः सन्निपातरूपत्वात् नामयितुमयोग्यं नमतः नामयतः मरीचिनः मरीचिमतः सूर्यचन्द्रादेः । व्रीह्यादित्वान्मत्वर्थीय इनिः । पादान् रश्मीन् आकाशहननादिकमकार्यं कुर्वतोऽतिमूढानित्यर्थः ॥२॥

यश्चाशिष्यं शास्ति वै यश्च तुष्येद्यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च यो रक्षति भद्रमश्नुते यश्चायाच्यं याचते कत्थते वा ॥३॥

अशिष्यं शासनार्हं दुर्योधनादिन्यः शास्ति । तुष्येत् अल्पलाभेनेति शेषः । द्विषन्तं भजते स्वकार्यार्थमिति शेषः । कार्यमेवाह - भद्रमश्रुत इति । शत्रुसेवया स्त्रीरक्षया च यो भद्रमश्नुते तौ द्वौ मूर्खावित्यर्थः । यः कत्थते किञ्चित्कृत्वा श्लाघते स षष्ठो मूर्खः ॥३॥

यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी ।
अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र ॥४॥

अभिजातः कुलीनः ॥४॥

वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्नभयो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥५॥

श्वशुरः सन् यो वध्वा पुत्रभार्यया सह अवहासं परिहासं तत्पित्रादिभिरिव मन्यते स एकादशः। वध्वा स्नुषया भूतया अवसन्नभयो नष्टभयः वधूपित्रादिभिरापदि त्रातोऽपि तत्रैव मानं कामयते यः स द्वादशो मूर्खः । अन्ये तु वध्वा सह रतिं कुर्वन्नपि अभयो मानकामश्चेति व्याचख्युः । तद्विगीतत्वादुपेक्ष्यं परक्षेत्र इत्यनेन सङ्गृहीतं च ॥५॥

यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः ।
यश्चासतः सान्त्वमुपानयीत एतान्नयन्ति निरयं पाशहस्ताः ॥६॥

दत्वा तीर्थे वाचा दानं कृत्वा गृहे याचकेन याच्यमानः सन् कत्थते दानमकृत्वैव श्लाघते असतो दुष्टस्य सत्त्वं साधुत्वमसतः मृषार्थस्य सत्त्वं सत्यत्वं वा उपानयीत समर्थयते स सप्तदशो मूर्खः ॥६॥

यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ॥७॥

यस्मिन्निति । साधुषु पाण्डवेषु त्वयाऽपि साधुना भवितव्यमित्याशयः ॥७॥

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया ।
कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥८॥

जरेति । अभिमानं त्यजेति भावः ॥८॥

धृतराष्ट्र उवाच। शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥९॥

अभिमानः सर्वहर इत्युक्तेऽभिमानवतां मत्पुत्राणां यदि स्वल्पमेवायुरस्ति तर्हि त्यक्तेऽप्यभिमाने न जीविष्यन्ति । यदि बहु तर्हि सत्यपि तस्मिन्न मरिष्यन्तीत्याशयेनाह - शतायुरिति ॥९॥

विदुर उवाच। अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप ।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥१०॥

अत्यागः उत्कृष्टोऽपराधश्चौर्यादिर्गरदानादिर्वा । अत्याश इति पाठे बहुभोजित्वम् । आत्मविधित्सेति पोषणार्थस्य धाञः सनि रूपम् । आत्मपोषणेच्छा शिश्नोदरपरायणतेत्यर्थः ॥१०॥

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान् घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥११॥

असयः खड्गाः । भद्रमस्तु ते एतेषां षण्णां त्यागेन तव पुत्राः शतायुषो भवन्त्वित्यर्थः ॥११॥

विश्वस्तस्यैति यो दारान् यश्चापि गुरुतल्पगः ।
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥१२॥

वृषली शूद्राः । द्विजस्त्रैवर्णिकः । पानपो मद्यपः ॥१२॥

आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः ।
शरणागतहा चैव सर्वे ब्रह्महणः समाः ।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥१३॥

आदेशकृत् ग्रामणीः प्रेषकः द्विजान् दास्ये नियोजयन् समेत्य संसृज्य । यदि त्वत्पुत्रा अतिमानादीन्न त्यजन्ति तर्हि तेषां पाण्डववृत्तिहन्तॄणां सङ्गस्त्वया न कार्य इति भावः ॥१३॥

गृहीतवाक्यो नयविद्वदान्यः शेषान्नभोक्ता ह्यविहिंसकश्च ।
नानर्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥१४॥

गृहीतवाक्यो विद्यावान् । नयवित् नीतिज्ञः । वदान्यो दाता । गृहीतवाग्योऽनपविद्धवाक्य इति पाठे मितभाषी अनिरस्तगुरुवचनः ॥१४॥

सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥१५॥

यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥१६॥

त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१७॥

आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१८॥

द्यूतमेतत् पुरा कल्पे दृष्टं वैरकरं नृणाम् ।
तस्मात् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥१९॥

उक्तं मया द्यूतकालेऽपि राजन्नेदं युक्तं वचनं प्रातिपेय ।
तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य ॥२०॥

इदं द्यूतं न युक्तमिति वचनं मया उक्तमिति सम्बन्धः ॥२०॥

काकैरिमांश्चित्रबर्हान् मयूरान् पराजयेथाः पाण्डवान् धार्तराष्ट्रैः ।
हित्वा सिंहान् क्रोष्टुकान् गृहमानः प्राप्ते काले शोचिता त्वं नरेन्द्रः ॥२१॥

यस्तात न क्रुद्ध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥२२॥

भक्तस्य सेवां कुर्वतः ॥२२॥

न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम् ।
त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्या परिहीनभोगाः ॥२३॥

अपूर्वं परकीयं स्निग्धा हि स्नेहवन्तोऽपि ॥२३॥

कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्यायव्यये चानुरूपां च वृत्तिम् ।
सङ्गृह्णीयादनुरूपान् सहायान् सहायसाध्यानि हि दुष्कराणि ॥२४॥

कृत्यानि परिसंख्याय साध्यासाध्यनिश्चयं कृत्वा तथा वृत्तिं भृत्यजीविकामायव्ययानुरूपां कृत्वेत्यर्थः। दुष्कराणि परराष्ट्रग्रहणादीनि ॥२४॥

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री ।
वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥२५॥

अनुकम्प्यो मादृशो वचनस्वीकारेणानुग्राह्य इति प्रार्थयते ॥२५॥

वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥२६॥

प्रत्याह प्रत्याख्यानं करोति प्रतिकूलमाज्ञाविरुद्धं वदतीति प्रतिकूलवादी ॥२६॥

अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥२७॥

अस्तब्धं दर्पशून्यमक्लीबं सामर्थ्यवन्तमदीर्घसूत्रं क्षिप्रकारिणं सानुक्रोशं सदयं श्लक्ष्णं मञ्जुलमहार्यमभेद्यमरोगजातीयं रोगलेशशून्यमुदारं युक्तियुक्तं महार्थं च वाक्यं यस्य तं दूतं प्रेष्यम् ॥२७॥

न विश्वासाज्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥२८॥

विकाले सायङ्काले परस्य अविश्वस्तस्य गेहे न गच्छेत् । प्रार्थयीत भोक्तुमिति शेषः ॥२८॥

न निन्हवं मन्त्रगतस्य गच्छेत् संसृष्टमन्त्रस्य कुसङ्गतस्य ।
न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात् ॥२९॥

संसृष्टः बहुकर्तृकत्वेन मिश्रो मन्त्रो यस्य त्वादृशस्य कर्णादिसहायवतो राज्ञो निन्हवं मन्त्रस्य अपहारं न गच्छेत् मादृशः तं मन्त्रं न दूषयेत् । तैः सर्वैः सह विरोधापत्तेरितिभावः । त्वयि बहूनां शास्ये अहं नाश्वसिमीति न ब्रूयात् किंतु मम किञ्चित्कार्यमस्तीति तथा व्यपदेशं व्याजं कृत्वा तादृशान्मन्त्रादपसेरेदेवेत्यर्थः ॥२९॥

घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा ।
सेनाजीवी चोद्धृतभूरिरेव व्यवहारेषु वर्जनीयाः स्युरेते ॥३०॥

घृणी लज्जावान् । स हि यथोक्तं दण्डमधमर्णेषु पातयितुं न शक्तः क्रूरोऽयमिति लोकापवादभयात् । उद्धृतभूतिः दूरीकृताधिकारः । एते व्यवहारे धनदानादौ वर्जनीयाः । द्रव्यनाशभयात् एतेभ्यो न ग्राह्यं च । अधमर्णो घृणी लज्जावांश्चेदतिनिर्बन्धेन याच्यमानः प्राणानेव जह्यात् एवमन्यत्राप्यूह्यम् । त्वमपि नाशभयात् पुत्राय राज्यं मा देहीति भावः ॥३०॥

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥३१॥

एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणनेष गुणो बिभर्ति ॥३२॥

गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः ।
स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥३३॥

स्वरो ध्वनिस्तस्य प्रशुद्धिः मञ्जुलता वर्णाः कादयः तेषां प्रशुद्धिर्यथास्थानकरणं विस्पष्टमुच्चारणं स्पर्शः मृदुता । सौकुमार्यं लावण्यम् ॥३३॥

गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च ।
अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति ॥३४॥

मितभुक्तं मितभोजिनमाद्यूनो बहुभोजीति क्षिपन्ति निन्दन्ति ॥३४॥

अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्टवेषमेतान् गृहे न प्रतिवासयेत ॥३५॥

अनिष्टवेषं क्षपणकादिवेषधरम् ॥३५॥

कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम् ।
निष्ठूरिणं कृतवैरं कृतघ्नमेतान् भृशार्तोऽपि न जातु याचेत् ॥३६॥

कदर्यमदातारमाक्रोशकं गालयितारमश्रुतं मूर्खं वनौकसं कैवर्तकं धूर्तं कितवं निष्ठूरिणं निर्दयं हिंस्रं कृतवैरमन्येन स्वेन वा ॥३६॥

संक्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च ।
विसृष्टरागं पटुमानिनं चाप्येतान्न सेवेत नराधमान् षट् ॥३७॥

संक्लिष्टकर्माणमाततायिनम् । स च षड्डिधः - ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः’ इति प्रसिद्धः । अतिप्रमादं सदाव्यग्रम् । विसृष्टरागं त्यक्तस्नेहम् । पटुमानिनं कुशलमन्यम् ॥३७॥

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनाऽन्योन्यं न सिद्ध्यतः ॥३८॥

एवं निर्गुणानां स्वपुत्राणां पक्षपातेन सगुणान् पाण्डुपुत्रान् मा त्यजेत्युक्तम् । सम्प्रति सर्वेषामैकमत्येनाभ्युदयं प्रसाध्य स्वहितमेव कुर्वित्याह- सहायेत्यादिना ॥३८॥

उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय काञ्चित् ।
स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥३९॥

हितं यत् सर्वभूतानामात्मनश्च सुखावहम् ।
तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ॥४०॥

ईश्वरे कालान्तरीयफलप्रतिभूभूते एतदेव स्वपरहिताचरणं मूलं हेतुभूतम् । एतद्विना ईश्वरोऽपि फलं दातुं न समर्थ इत्यर्थः ॥४०॥

वृद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥४१॥

ननु परहितकरणे स्वहितं कथं स्यादित्यत आह - वृद्धिरिति । वृद्धिः सहायमेलनेन धनादीनां प्रचयः । बुद्धिरिति पाठे मित्रसङ्ग्रहधीः । प्रभावः शत्रूणां पराजयः । तेजः तद्धेतुभूतं शौर्यं सत्वं धर्मज्ञानैश्वर्शरूपमुत्थानमुद्यमः व्यवसायो निश्चयः । अवृत्तिर्जीविकाया अभावः ॥४१॥

पश्य दोषान् पाण्डवैर्विग्रहे त्वं यत्र व्यथेयुरपि देवाः सशक्राः ।
पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतश्च हर्षः॥४२॥

भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य ।
उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन् खे ॥४३॥

श्वेतो ग्रहो धूमकेतुः ॥४३॥

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥४४॥

धार्तराष्ट्रा वनं राजन् व्याघ्राः पाण्डुसुता मताः ।
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ॥४५॥

नीनशन् नाशं प्राप्नुयुः ॥४५॥

न स्याद्वनमृते व्याघ्रान् व्याघ्रा न स्युर्ऋते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान् रक्षति काननम् ॥४६॥

न तथेच्छन्ति कल्याणान् परेषां वेदितुं गुणान् ।
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥४७॥

परेषां पाण्डवानां पापचेतसो दुर्योधनाद्याः ॥४७॥

अर्थसिद्धिं परामिच्छन् धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥४८॥

यस्यात्मा विरतः पापात् कल्याणे च निवेशितः ।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥४९॥

आत्मा चित्तम् । पापात् इदं मे स्यादिदं मे स्यादित्येवंरूपात् सङ्कल्पात् । कल्याणे भूमानन्दे ब्रह्मणि। प्रकृतिस्त्रिगुणात्मिका माया । विकृतिर्महदादिः । आत्मज्ञानात् सर्वज्ञानप्रसिद्धेः ॥४९॥

यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥५०॥

मोक्षानधिकारिणं प्रत्याह - य इति ॥५०॥

सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन् यश्चापत्सु न मुह्यति ॥५१॥

बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे ।
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥५२॥

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ॥५३॥

यत्त्वस्य सहजं राजन् पितृपैतामहं बलम् ।
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥५४॥

अभिजातबलं कुलबलम् ॥५४॥

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥५५॥

महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥५६॥

स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु ।
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥५७॥

प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥५८॥

औषधाद्याश्चिकित्सकाः न सन्ति । तैरचिकित्स्य इत्यर्थः । आथर्वणा वेदमन्त्रा अपि किंपुनर्भाषामन्त्रादयः । सुसिद्धाः अगदाः पारदादयः ॥५८॥

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ॥५९॥

कुलपुत्रो ज्ञातिः ॥५९॥

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥६०॥

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥६१॥

एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥६२॥

कुले जाताः पाण्डवाः ॥६२॥

लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥६३॥

शालाः महावृक्षाः पाण्डवान् आश्रित्य सपुत्रो वर्धस्वेत्यर्थः ॥६३॥

वनं राजंस्तव पुत्रोऽम्बिकेय सिंहान् वने पाण्डवांस्तात विद्धि ।
सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुर्ह ऋते वनेन ॥६४॥

त्वत्पुत्रान्निहत्य पाण्डवा अपि स्नेहान्नश्येयुरेवेति भावः॥६४॥
इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये सप्तत्रिंशोऽध्यायः॥३७॥
अष्टत्रिंशोऽध्यायः

विदुर उवाच। ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥१॥

ऊर्ध्वमिति । आयति आगच्छति ॥१॥

पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥२॥

निर्णिज्य प्रक्षाल्य आत्मसंस्थां स्वस्थितिं प्रतिवेद्य निवेद्य ॥२॥

यस्योदकं मधुपर्कं च गां च न मन्त्रवित् प्रतिगृह्णाति गेहे ।
लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥३॥

यस्य कदर्यस्य भयात् राज्यादिषु धनिकत्वप्रथाभयात् । अदीयमानत्वादेव न प्रतिगृह्णाति तस्य जीवितमनर्थं व्यर्थम् ॥३॥

चिकित्सकः शल्यकर्ताऽवकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च ।
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥४॥

शल्यकर्ता काण्डकृत् । अवकीर्णी नष्टब्रह्मचर्यः । नोदकार्ह उदकमात्रानर्होऽपि अतिथिः भृशं प्रियः प्रियवज्जामात्रादिवदर्चनीय एवेत्यर्थः ॥४॥

अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।
तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥५॥

श्रुतिविक्रायकप्रस‌ङ्गादन्यदप्यविक्रेयं यो विक्रीणाति सोऽपि मान्य एवेति विवक्षयाऽविक्रेयाण्याह - अविक्रेयमिति ॥५॥

अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः ।
निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः ॥६॥

दोषवानप्यतिथिः पूज्यः किमुत गुणवानिति वक्तुं तद्‌गुणानाह - अरोषण इति । गतसन्धिविग्रहः स्नेहवैररहितः उदासीनवत् रागद्वेषादिराहित्यात् ॥६॥

नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माऽग्निकार्येषु चोद्यः ।
वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥७॥

चोद्यः विधेयः सावधान इत्यर्थः। तापसो दरिद्रोऽप्यतिथिष्वप्रमत्तो भवेत्किंपुनर्भाग्यवानिति भावः॥७॥

अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥८॥

दीर्घौ बाहू बुद्ध्या दूरस्थमप्यादातुं शक्नुत इत्यर्थः । हिंसति हिनस्ति अतिथिभक्ता दूरस्था अपि पाण्डवा न हेलनीया इति भावः ॥८॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥९॥

अविश्वस्ते भीमे न विश्वासः कार्यः ॥९॥

अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत् ॥१०॥

अनीर्षुरित्यादिसार्धश्लोकत्रयस्य गुप्तदाराः पाण्डवाः तेषां स्त्री श्रीतुल्या द्रौपदी सा पित्रा त्वया रक्षणीयैवातस्तदतिक्रमात्तव भयमस्तीति तात्पर्यम् ॥१०॥

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥११॥

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।
गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत्॥१२॥

भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान् ।
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्॥१३॥

प्रसङ्गात् प्रकृतेऽनुपयुक्तानपि धर्मानाह - अद्भ्य इति । एतेषां च यथालाभं प्रकृतोपयोगित्वमप्यूह्यमद्भ्य इत्यादिना । मैत्रेयादीनां ब्राह्मणानामवज्ञा न कार्येति सूचितम् ॥१३॥

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।
नित्यं सन्तः कुले जाताः पावकोपमतेजसः॥१४॥

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ।
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये॥१५॥

स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ।
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्॥१६॥

सर्वतश्चक्षुश्चारैः परमन्त्रं जानन् ॥१६॥

धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ।
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः॥१७॥

अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते ।
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्॥१८॥

निःशलाक तृणैरनावृते तत्रापि कश्चिल्लीनश्चेन्मन्त्रभेदः सम्भवेदिति भावः ॥१८॥

अपण्डितो वापि सुहृत्पण्डितो वाऽप्यनात्मवान् ।
नापरीक्ष्य महीपालः कुर्यात् सचिवमात्मनः॥१९॥

अनात्मवान् चपलवाक् ॥१९॥

अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ।
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः॥२०॥

पार्षदाः सभासदः कृतान्येव विदुः किमुतान्ये ॥२०॥

धर्मे चार्थे च कामे च स राजा राजसत्तमः ।
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥२१॥

अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति ।
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ॥२२॥

अप्रशस्तानि निन्द्यानि विपरिभ्रंशात् विपरीतत्वेन भ्रंशात् ॥२२॥

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।
तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥२३॥

अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति ।
एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ॥२४॥

षाड्गुण्यं षण्णां सन्धि-विग्रह-यानासन-द्वैधीभावसमाश्रयाणां समूहः न श्रुतो येन सः ॥२४॥

स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः ।
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥२५॥

षाड्गुण्याभिज्ञत्वेन विदित आत्मा स्वरूपं यस्य तस्य स्थानं यथास्थितत्वावस्था अनवज्ञातं सत्कृतं शीलमस्य ॥२५॥

अमोघक्रोधहर्षस्य स्वयं कृत्वाऽन्ववेक्षिणः ।
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥२६॥

नवेक्षिण इति पाठे नवमिवादरेण ईक्षितुं शीलमस्य । आत्मनैव प्रत्ययो ज्ञानं यस्य स्वयमेव ज्ञातकोशस्य ॥२६॥

नाममात्रेण तुष्येत छत्रेण च महीपतिः ।
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥२७॥

नाममात्रेणैव राजा भवेत् भोगांस्तु भृत्यैः समानानेव भुञ्जीत ॥२७॥

ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥२८॥

न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः ।
न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।
अहताद्धि भयं तस्माज्जायते न चिरादिव ॥२९॥

दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च॥३०॥

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् ।
कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥३१॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥३२॥

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥३३॥

लोकस्य पर्यायः इहलोकपरलोकवत्त्वं तेन तद्विषयवृत्तान्तं कर्मफलाधीनत्वस्वरूपं प्राज्ञो जानाति न तु बुद्ध्या धनं जाड्येन वा दारिद्र्यं लभ्यते सर्वत्र व्यभिचारदर्शनादिति भावः ॥३३॥

विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत ।
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते॥३४॥

अभिजातः कुलीनः ॥३४॥

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥३५॥

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्॥३६॥

अविसंवादनं वञ्चनाशून्यं समयस्य स्वपरकृतमर्यादायाः आवर्तयन्ति शत्रूनपि स्वीयान् कुर्वन्ति प्रणिहिता प्रयुक्ता ॥३६॥

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥३७॥

परिवारणं परिवारान् भृत्यमित्रादीन् ॥३७॥

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥३८॥

समिधः उद्दीपिकाः ॥३८॥

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्नाराधिपो लोके वर्जनीयो नराधिप ॥३९॥

असंविभागी पोष्येभ्योऽदत्वा स्वयं भुञ्जानः ॥३९॥

न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥४०॥

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥४१॥

दुष्टेषु दूषितेषु वेतनाद्यतिक्रमात् ॥४१॥

येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च ।
ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥४२॥

समासक्ताः निहिताः संशयं गताः कदाचित्प्राप्या इत्यर्थः ॥४२॥

यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता ।
मज्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव ॥४३॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥४४॥

ये भृत्याः विशेषा आधिक्यानि तेषु हि प्रदर्श्यमानेषु परस्परं स्वीयानामेव कलहप्रसङ्गान्मुख्यं प्रयोजनं नश्यतीति भावः । प्रसङ्गिनः प्रसङ्गः संघर्षस्तत्कारिणः ॥४४॥

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥४५॥

हित्वा तान् परमेष्वासान् पाण्डवानमितौजसः ।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥४६॥

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव ।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥४७॥

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः॥३८॥
एकोनचत्वारिंशोऽध्यायः

धृतराष्ट्र उवाच। अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।
धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥१॥

अनीश्वरोऽयमिति । भवाभवे ऐश्वर्यानैश्वर्ये दिष्टस्य दैवस्य । वदैव न तु मां दूषयेति भावः । धृतः धृतिमान् ॥१॥

विदुर उवाच। अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत॥२॥

बुद्ध्यवज्ञानमवज्ञातबुद्धित्वम् ॥२॥

प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः॥३॥

मन्त्रबलेन मूलबलेन च प्रियकृत् प्रियो भवति स च दानाद्यभावे पुनरप्रियो भवति । अहं तु न तथाऽतस्त्वया प्राप्तकाले मदुक्तेऽनादरो न कर्तव्य इति भावः ॥३॥

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह॥४॥

द्वेष्ये इति। यो यस्य द्वेष्यस्तस्मिन् तद्दृष्टथा साधुत्वादिकं सदपि नास्ति प्रिये त्वसदपि तद्दृष्ट्यांऽस्तीति भावः ॥४॥

उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम् ।
तस्य त्यागात् पुत्रशतस्य वृद्धिरस्यात्यागात् पुत्रशतस्य नाशः॥५॥

न वृद्धिर्बहु मन्तव्या या वृद्धिः क्षयमावहेत् ।
क्षयोऽपि बहु मन्तव्यो यः क्षयो वृद्धिमावहेत् ॥६॥

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत्॥७॥

समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे ।
धनवृद्धान् गुणैर्हीनान् धृतराष्ट्र विवर्जय ॥८॥

धृतराष्ट्र उवाच। सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् ।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः॥९॥

आयतीयुक्तम् उदर्के हितम् ॥९॥

विदुर उवाच। अतीव गुणसम्पन्नो न जातुः विनयान्वितः ।
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥१०॥

पुत्रं त्यक्तुमशक्तेन दुष्टाः शकुन्यादयो वा त्याज्या इत्याशयेनाह - अतीवेति । कुलविनाशो नोपेक्षणीय इति भावः ॥१०॥

परापवादनिरताः परदुःखोदयेषु च ।
परस्परविरोधे च यतन्ते सततोत्थिताः॥११॥

सदोषं दर्शनं येषां संवासे सुमहद्भयम् ।
अर्थादाने महान् दोषः प्रदाने च महद्भयम् ॥१२॥

ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः ।
ये पापा इति विख्याताः संवासे परिगर्हिताः॥१३॥

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान् विवर्जयेत् ।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति॥१४॥

सौहार्दे मैत्रीहेतौ निवर्तमाने सति प्रीतिः फलनिर्वृत्तिः सुखं च प्रणश्यति स नीचोऽपवादाय यतते क्षये च यत्नमारभते शान्तिं च न गच्छतीति द्वयोः संबन्धः ॥१४॥

या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् ।
यतते चापवादाय यत्नमारभते क्षये॥१५॥

अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति ।
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः॥१६॥

सङ्गतं संबन्धम् ॥१६॥

निशाम्य निपुणं बुद्ध्या विद्वान् दूराद्विवर्जयेत् ।
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्॥१७॥

निशम्य विचार्य ॥१७॥

स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्नुते ।
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ॥१८॥

कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर ।
श्रेयसा योक्ष्यते राजन् कुर्वाणो ज्ञातिसत्क्रियाम् ॥१९॥

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ।
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः॥२०॥

प्रसादं कुरु वीराणां पाण्डवानां विशाम्पते ।
दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ॥२१॥

एवं लोके यशः प्राप्तं भविष्यति नराधिप ।
वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम्॥२२॥

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ।
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना ।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ॥२३॥

शुभार्थिना ऐश्वर्यलिप्सुना ॥२३॥

संभोजनं संकथनं संप्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन॥२४॥

ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च॥२५॥

सुवृत्तो भव राजेन्द्र पाण्डवान् प्रति मानद ।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि॥२६॥

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥२७॥

दिग्धहस्तं विषाक्तबाणहस्तम्। स श्रीमान् एनस्तस्य ज्ञातेरवसादजं पापं विन्दति । मृगवधजं पापं व्याध इवेत्यर्थः ॥२७॥

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान् वा हतान् सुतान् वाऽपि श्रुत्वा तदनुचिन्तय ॥२८॥

येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत् कुर्यादध्रुवे जीविते सति ॥२९॥

खट्वां समारूढश्चिन्तागारं प्रविष्टः लोके आगन्तुं लज्जमान इत्यर्थः ॥२९॥

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति॥३०॥

न कश्चिदिति । भार्गवात् शुक्रादन्यत्र नीतिशास्त्रकर्तारं शुक्रं विहाय अन्यः कश्चिदपि न अपनयते इति न अपि तु सर्वोऽप्यपनयते अनीतिं करोति । अतः यत् अतीतं तत् अतीतमेव शेषस्य तत्कालोचितस्य अर्थस्य प्रतिपत्तिः विचारः कर्तव्यः इत्यर्थः ॥३०॥

दुर्योधनेन यद्येतत् पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥३१॥

तदेवाह - दुर्योधनेनेति । प्रत्यानेयं प्रतिकर्तव्यम् ॥३१॥

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥३२॥

प्रतीकारमेवाह - तानिति । प्रतिष्ठाप्य राज्यांशदानेन स्थिरीकृत्य ॥३२॥

सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥३३॥

धीराणामुपदेष्टॄणां सुव्याहृतानि वचनानि । अध्यवस्यति निश्चयं करोति । उत्तमफलं कर्मारभत इत्यर्थः ॥३३॥

असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
उपलभ्यं चाविदितं विदितं चाननुष्ठितम्॥३४॥

सुकुशलैरप्युपयुक्तमुपदिष्टं तत् ज्ञानमसम्यगेव यतः उपलभ्यं ज्ञेयं तेन अविदितं न ज्ञातं विदितं ज्ञातं वा तत् नानुष्ठितं मदुक्तं त्वयि निष्फलमेवेति भावः ॥३४॥

पापोदयफलं विद्वान् यो नारभति वर्धते ॥३५॥

यस्य श्येनादेः फलं ब्रह्मवधादि पापोदयं पापहेतुः । तत्फलं फलहेतभूतं कर्म यो नारभते स वर्धते ॥३५॥

यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते॥३६॥

अविमृश्य अविचार्य पापमेवानुवर्तते सततं करोति ॥३६॥

अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ।
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्॥३७॥

पङ्के नरके ॥३७॥

अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ।
मदं स्वप्नमविज्ञानमाकारं चात्मसंभवम्॥३८॥

अर्थसन्ततिः अर्थानामविच्छेदेन वृद्धिः तत्कामः । मदं सुरापानजं चित्तवैक्लव्यम् । स्वप्नं निद्राम् । अविज्ञानं परकीयगुप्तचारादेरज्ञानम् । आत्मसम्भवमाकारं नेत्रवक्तृविकारादिकम् । तावतैव परदूता मन्त्रमुन्नयन्ति ॥३८॥

दुष्टामात्येषु विश्रंभं दूताच्चाकुशलादपि ।
द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप॥३९॥

मन्त्रभेदस्य द्वाराणि संवृणोति पिदधाति ॥३९॥

त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ।
न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा॥४०॥

श्रुतं शास्त्रम् ॥४०॥

धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि ।
नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति॥४१॥

अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ।
मत्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्॥४२॥

मत्या मननेन युक्तिभिरनुचिन्तनेन । जात्येतिपाठे कुलीनत्वेन । बुद्ध्या स्वानुभवेन सम्पाद्य कार्ययोग्यतां निश्चित्य ॥४२॥

श्रुत्वा दृष्ट्वाऽथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ।
अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः॥४३॥

श्रुत्वा परतः दृष्ट्वा स्वयमाकृत्या ज्ञात्वा विज्ञाय पुनः पुनर्विशेषेण ज्ञात्वा प्राज्ञताम् ॥४३॥

हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ।
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया॥४४॥

परिच्छदः भोग्यवस्तुसामग्री क्षेत्रेण जन्मस्थानेन कुग्रामवासिषु प्रायेण विवेकाभावात् परिचर्यया आचारेण ॥४४॥

परीक्षेत कुलं राजन् भोजनाच्छादनेन च ।
उपस्थितस्य कामस्य प्रतिवादो न विद्यते॥४५॥

अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ।
प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् ॥४६॥

वैद्यं विद्यावन्तम् ॥४६॥

मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ।
दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्॥४७॥

धर्मापेक्षी मृदुर्ह्रीमान् स कुलीनशताद्वरः ।
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा॥४८॥

चित्तं ज्ञानमात्रं निभृतं गूढाचारप्रवृत्तं मन्त्रयन्त्रादि प्रज्ञा विशेषतोर्थोन्नयनक्षमता ॥४८॥

समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ।
दुर्बुद्धिमत्कृतप्रज्ञं छन्नं कूपं तृणैरिव॥४९॥

विवर्जयीत मेधावी तस्मिन् मौत्री प्रणश्यति ।
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च॥५०॥

रौद्राः कोपनाः साहसिकाः अविमृश्यकारिणस्तेषु ॥५०॥

तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ।
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ॥५१॥

जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ।
इन्द्रियाणामनुत्सर्गो मृत्युनाऽपि विशिष्यते॥५२॥

इन्द्रियाणामुत्सर्गो विषयेषु प्रवृत्तिः । अनुत्सर्गो विषयेभ्यो निवृत्तिः । सा मृत्युतुल्या दुरनुष्ठेयेत्यर्थः॥५२॥

अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ।
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः॥५३॥

आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ।
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ॥५४॥

आयुष्याणि आयुःकराणि अपनीतमन्यायेन नाशितम् ॥५४॥

मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ।
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ॥५५॥

आयत्यामागामिनि काले दुःखस्य प्रतीकारज्ञः । तदात्वे वर्तमाने दृढनिश्चयः । भोगं विना प्राप्तस्य दुःखस्य नाशो नास्तीति ज्ञात्वा तत्संबन्धेऽपि नोत्तपति ॥५५॥

अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ।
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ॥५६॥

तदेवापहरत्येनं तस्मा कल्याणमाचरेत् ।
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्॥५७॥

मङ्गलानां दधिदूर्वागवादीनामालम्भनं स्पर्शः योगः सहायसम्पत् उत्थानमुद्यमः ॥५७॥

भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ।
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च॥५८॥

अनिर्वेदः उद्योगात् अनुपरमः ॥५८॥

महान् भवत्यनिर्विण्णः सुखं चानन्त्यमश्नुते ।
नातः श्रीमत्तरं किंचिदन्यत् पथ्यतमं मतम्॥५९॥

प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ।
क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणात् ।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता॥६०॥

तस्य मध्यमस्य यो न शक्तः नाप्यशक्तस्तस्येत्यर्थः। सर्वेषां क्षमा श्रेयस्करीत्यर्थः ॥६०॥

यत् सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥६१॥

मूढवव्रतमाहारादौ अतिनिर्बन्धम् ॥६१॥

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः॥६२॥

अदान्तेषु लिप्साहीनेषु ॥६२॥

आर्जवेन नरं युक्तमार्जवात् सव्यपत्रपम् ।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥६३॥

सव्यपत्रपं सलज्जम् ॥६३॥

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥६४॥

अत्यार्यमत्यन्तमकुटिलम् ॥६४॥

न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च ।
नैषा गुणान् कामयते नैर्गुण्यान्नानुरज्यते॥६५॥

उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ।
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्॥६६॥

रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ।
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्॥६७॥

और्ध्वदेहिकं परलोकसाधनं यज्ञदानादि ॥६७॥

न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ।
कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे॥६८॥

उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम् ।
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः॥६९॥

संयम इन्द्रियाणां निग्रहः ॥६९॥

समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ।
तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् ॥७०॥

भवस्य ऐश्वर्यस्य ॥७०॥

हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ।
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः॥७१॥

ब्राह्मणकाम्या ब्राह्मणस्य इच्छा तदाज्ञयेत्यर्थः ॥७१॥

हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ।
न तत्परस्य सन्दध्यात् प्रतिकूलं यदात्मनः॥७२॥

सन्दद्ध्यात् कुर्यात् ॥७२॥

सङ्ग्रहेणैव धर्मः स्यात् कामादन्यः प्रवर्तते ।
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत्॥७३॥

अन्योऽधर्मः कामात् इच्छया साधुना कर्मणा ॥७३॥

जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ।
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि॥७४॥

स्त्रीधूर्तके स्त्रियां धूर्ते चेत्येकवद्भावः॥७४॥

चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ॥७५॥

चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम् ।
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण वा॥७६॥

अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ।
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्॥७७॥

निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ।
अध्वा जरा देहवतां पर्वतानां जलं जरा॥७८॥

असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ।
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्॥७९॥

वाक्शल्यं दुर्वचनमनाम्नायः अनभ्यास एव मलं येषाम् ॥७९॥

मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम् ।
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः॥८०॥

वाह्लिकाः 'पञ्चानां सिन्धुषष्ठानां नदीनां यत्र सङ्गमः। बाह्लिका नाम ते देशाः ॥८०॥

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।
ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ॥८१॥

विप्रवासः प्रवासः ॥८१॥

न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः ।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥८२॥

स्वप्नेन शयनेन ॥८२॥

यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥८३॥

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥८४॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति॥८५॥

राजन् भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।
समता यदि ते राजन् स्वेषु पाण्डुसुतेषु वा॥८६॥

यदि ते स्वेषु पुत्रेषु पाण्डवेषु च समताऽस्ति तर्हि सर्वेषु सममेवाचर । यथाभागं राज्यं तेभ्यो देहीत्यर्थः ॥८६॥
इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः॥३९॥
चत्वारिंशोऽध्यायः

विदुर उवाच। योऽभ्यर्चितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा ।
क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥१॥

योऽभ्यर्चित इति । असज्जमानः अभिमानशून्यः शक्तिमहापयित्वा अनतिक्रम्य यथाशक्तीत्यर्थः । सन्तं साधुमुपैति लभते यतः प्रसन्नाः सन्तः साधवः सुखाय अलं सुखं दातुं पर्याप्ताः ॥१॥

महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनपाकृष्ट एव ।
सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥२॥

अनपाकृष्टः परैरपकर्षमप्रापितोऽपि ॥२॥

अनृते च समुत्कर्षो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥३॥

समुत्कर्षः अनृतेन जय इत्यर्थः ॥३॥

असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥४॥

एकपदं सर्वात्मना ॥४॥

आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
स्तब्धता चाभिमानित्वं तथाऽत्यागित्वमेव च ॥५॥

स्तब्धता औद्धत्यम् । अभिमानो दर्पः । तद्वत्त्वमत्यागित्वं लुब्धता । मद‌मोहौ एकीकृत्य सप्त ॥५॥

एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ।
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्॥६॥

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ।
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥७॥

आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥८॥

अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च ।
वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव ॥९॥

आकर्षः विषादीनाम् ॥९॥

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ॥१०॥

अजेन सहितः उक्षा अजोक्षा औदुम्बरं ताम्रमयं पात्रजातम् ‘उदुम्बरं स्मृतं ताम्रे’ इति विश्वः। विषं लोहमिति सर्वज्ञः । स्वर्णनाभः शालग्रामः । दक्षिणावर्तः शंख इति नारायणः ॥१०॥

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।
देवब्राह्मणपूजार्थमतिथीनां च भारत ॥११॥

धन्यानि मङ्गलावहानि ॥११॥

इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्धर्मं जह्याज्जीवितस्यापि हेतोः ॥१२॥

सर्वपरं सर्वेभ्यः पुण्यहेतुभ्यः परमुत्कृष्टं महाविशिष्टं महेन उत्सवेन अविशिष्टं समानं माङ्गलिकमित्यर्थः ॥१२॥

नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ।
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोषपरो हि लाभः ॥१३॥

अस्य जीवत्वस्य हेतुरविद्या । अनित्यं सुखदुःखे अविद्यां च । नित्ये धर्मे निरवद्ये आत्मनि च प्रतितिष्ठस्व निष्ठां कुरु । सन्तुष्य सन्तोषं प्राप्नुहि । तोषः पर उत्कृष्टः यस्मिन् लाभे ॥१३॥

महाबलान् पश्य महानुभावान् प्रशास्य भूमिं धनधान्यपूर्णाम् ।
राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान् वशमन्तकस्य ॥१४॥

मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् स्वगृहान्निर्हरन्ति ।
तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति॥१५॥

गृहात् निर्हरन्ति दूरीकुर्वन्ति ॥१५॥

अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१६॥

उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः ॥१७॥

उत्सृज्य मृतस्य देहं त्यक्त्वा ॥१७॥

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ॥१८॥

अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् ।
तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन् ॥१९॥

अस्माल्लोकादूर्ध्वं स्वर्गे अमुष्य अमुष्मात् स्वर्गात् चात् अस्माच्च अधः पाताले महत्तमः तमोगुणप्रधानैः पुरुषैः प्राप्यं स्थानमन्धकारमप्रकाशं तत् अन्धन्तमः अन्धतामिस्त्राख्यं नरकं बुद्ध्यस्व मा त्वां रागान्धं प्रलभेत स्पृशेत् ॥१९॥

इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेव ।
यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥२०॥

प्रतिपत्तुं ज्ञातुं शक्ष्यसि चेदिति संबन्धः ॥२०॥

आत्मा नदी भारत पुण्यतीर्था सत्योदया धृतिकूला दयोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव ॥२१॥

आत्मा जीवो नदी पुण्यं धर्म एव तीर्थं यस्याम् । सत्यं ब्रह्म तस्मादुदयो यस्याः। तस्यां स्नातः निष्णातः प्रत्यग्रूपे मग्न इत्यर्थः । पूयते शुध्यति कः पुण्यकर्मा पुण्यमपि किं नित्यमलोभ एव वैराग्यान्न परं पुण्यमित्यर्थः ॥२१॥

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥२२॥

नदीं संसारनदीं जन्मदुर्गाणि सन्तर मोक्षार्थं यतस्वेत्यर्थः ॥२२॥

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत् कदाचित् ॥२३॥

धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ।
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥२४॥

धृत्येति । कामम् अशनायां च धैर्येण जित्वा शिश्नोदरं दोषात् रक्षेत् । सम्यग्दृष्ट्वा वस्तूनामादानेन दृष्टपूते स्थले पदन्यासेन च पाणिपादं चक्षुषा रक्षेत् । चक्षुःश्रोत्रे मनसैव परस्त्र्यादिभ्यः कुशब्देभ्यश्च व्यावर्तनेन रक्षेत् । मनो वाचं च कर्मणा संयमनेन रक्षेत् ॥२४॥

नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी ।
सत्यं ब्रुवन् गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥२५॥

नित्योदकी नित्यं यथाकालं स्नानाचमनपरः ॥२५॥

अधीत्य वेदान् परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।
गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥२६॥

परिसंस्तीर्याग्रीन् परिस्तरणैः एतेनाग्निहोत्रमुपलक्ष्यतीति नारायणः । परिसंस्तीर्य वितत्य स्वे स्वे स्थाने आधायेत्यर्थः ततो यज्ञैरिष्ट्वा शस्त्रपूतः अन्तरात्मा चित्तं यस्य गोब्राह्मणार्थं मृत इत्यर्थः। सङ्ग्रामे हतो वा क्षत्रियः ॥२६॥

वैश्योऽधीत्य ब्राह्मणान् क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च ।
त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ॥२७॥

अधीत्य वेदं शास्त्रमिति शेषः । त्रेता अग्नित्रयं तस्याः पूतं धूमम् आघ्राय पुण्यं पावनं प्रेत्य मृत्वा॥२७॥

ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः ।
तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥२८॥

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध ।
क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन् राजधर्मे नियुङ्क्ष्व ॥२९॥

क्षात्रात् धर्मात् पृथिवीपालनरूपात् राज्यादिति यावत् । राजधर्मे राज्ये ॥२९॥

धृतराष्ट्र उवाच। एवमेतद्यथा त्वं मामनुशाससि नित्यदा ।
ममापि च मतिः सौम्य भवत्येवं यथाऽऽत्थ माम् ॥३०॥

मामनुशाससि अनुशास्सि ॥३०॥

सा तु बुद्धिः कृताऽप्येवं पाण्डवान् प्रति मे सदा ।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥३१॥

न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित् ।
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥३२॥

इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः॥४०॥
॥ समाप्तमिदं प्रजागरपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in