वैशम्पायन उवाच।
ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्
।
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥१॥
उद्योगपर्वणि सनत्सुजातीये भाष्यकारादिभिर्व्याख्यातान् संप्रतितनपुस्तकेषु च स्थितान् पाठान् श्लोकांश्च गुणोपसंहारन्यायेनैकीकृत्य व्याख्यायते- ततो राजेति । मनीषी शास्त्रसंस्कृतमनीषावान् रहिते एकान्ते परमां बुद्धिं परविद्याम् ’अथ परा यया तदक्षरमधिगम्यते’ इति श्रुतिप्रसिद्धां पप्रच्छ । एतेन विषयो दर्शितः । प्रयोजनं दर्शयति - महात्मा बुभूषान्निति । परं ब्रह्म भवितुमिच्छन् ‘ब्रह्म वेद ब्रह्मैव भवति’ इति ब्रह्मज्ञानस्य ब्रह्मभावफलकत्वश्रवणात् । विदुरेरितं वाक्यं ‘सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत’ इति मृत्युशब्दितस्य बन्धस्याभावं श्रुत्वा प्रतिपूज्यासंगत्वात् कपटवतोऽपि मम पापात् भयं नास्तीति संतोषं प्राप्य । तेन ज्ञानस्य सर्वकर्मोन्मूलनहेतुत्वं दर्शितम् । यथोक्तम् - ‘हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते’ इति ॥१॥
धृतराष्ट्र उवाच।
सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तव प्रवादम्
।
देवासुरा ह्याचरन् बह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥२॥
प्रश्नमेवाह - सनत्सुजातेति । मृत्युरिति । ध्रुवं जन्म मृतस्य चेति साहचर्याज्जन्ममरणप्रवाहरूपो बन्ध उच्यते । स नास्तीति तव प्रकर्षेण वादं पूर्वोक्तं विदुरादीनां मुखात् शृणोमि । हे सनत्सुजात सनत् सर्वदा सुष्ठु जातं जन्म यस्य नित्यकुमारत्वेन जरामरणविवर्जितेत्यर्थः । श्रुतिश्चैतदाह- ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति । नु तथा अमृत्यवे मृत्योरभावाय । एकशतं वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवासेति बन्धनिवृत्त्यर्थो यत्नश्च श्रूयते । न ह्यसतो नित्यनिवृत्तस्य निवृत्त्यर्थं यत्नो युज्यते । तदनयोः पक्षयोः कतरत् मतं सत्यं तद्ब्रूहीति शेषः ॥२॥
सनत्सुजात उवाच।
अमृत्युं कर्मणा यच्च मृत्युर्नास्तीति चापरम्
।
शृणु मे ब्रुवतो राजन् यथैतन्मा विशङ्किथाः ॥३॥
यत् कर्मणा ब्रह्मचर्येण मृत्युर्नास्तीति तेन सत्यस्य बन्धस्य साधनेन नाश इति अपृच्छः पृष्टवानसि । यच्चापरं मृत्युः स्वरूपत एव नास्तीत्यपृच्छः । एतत् एतयोः पक्षयोः परस्परविरुद्धत्वं मा विशंकिथाः मामंस्थाः । अमृत्युः कर्मणा केचिदिति पाठे कर्मसाध्यममृतत्वमुत ज्ञानसाध्यमिति पक्षद्वयोपन्यासः तयोश्च क्रमसमुच्चयपक्षाश्रयेण विरोधभावं मन्वानो मा विशंकिथा इति ब्रवीतीत्यर्थः ॥३॥
उभे सत्ये क्षत्रियैतस्य विद्धि मोहान्मृत्युः संमतोऽयं कवीनाम्
।
प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥४॥
अविरोधमेवाह- उभे इति । एतस्य एकस्यैव पुंसोऽवस्थाभेदेन उभे अपि सत्ये एक । हे क्षत्रिय विद्धि अविद्यावस्थायां बन्धः सत्यः कर्मनाशश्च विद्यावतां तु रज्जूरगवत् कालत्रयेऽपि नास्ति । मोहाद्भासमानस्य तु ज्ञानमात्रेण निवृत्तिर्भवतीति भावः । आद्यप्रवृत्ते इति पाठे उभे अपि मते अनादिनी नित्ये इत्यर्थः । सिद्धान्तमाह - मोहादिति । निर्मोहानां तु नास्त्येव मृत्युरित्यर्थः । मोहं विवृणोति- प्रमादमिति । आत्मतत्त्वानवेक्षणं प्रमादः । मूलाज्ञानमिति यावत् । तदेव मृत्युः ‘मृत्युर्वै तमः’ इति श्रुतेः । अप्रमादमवहिततां सम्यगवेक्षणं ज्ञानमिति यावत् । ‘ज्ञानं सम्यगवेक्षणम्’ इति स्मृतेः । अमृतत्वम् अमृतत्वहेतुः ॥४॥
प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूता भवन्ति
।
नैव मृत्युर्व्याघ्र इवात्ति जन्तन्न ह्यस्य रूपमुपलभ्यते हि ॥५॥
प्रमादात् अज्ञानात् असुराः असुषु रममाणाः कामक्रोधाद्यासुरवृत्तिभिराक्रान्ताः । पराभवन् मृत्युवशा अभूवन् । तथा अप्रमादात् ज्ञानात् ब्रह्मभूताः पूर्वं ब्रह्मैव सन्तः अविद्ययाऽब्रह्मत्वमात्मनो मन्यमानाः विद्यया पुनर्ब्रह्मैव भवन्ति । ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतेः । सुराश्चेति पाठे सुराः शमदमादिमन्तः ब्रह्मभूताः ब्रह्मभावं गता इत्यर्थः । मृत्युरज्ञानं जन्तून् अत्ति संसारसङ्कटे पातयति न तु व्याघ्र इव दृश्यते । कार्यमेवास्य दृश्यते न स्वरूपमित्यर्थः । हि यतः अस्य रूपं निरीक्ष्यमाणमपि न उपलभ्यते । न हि रज्जूरगोपादानमज्ञानमुरगवद्द्रष्टुं शक्यमित्यर्थः ॥५॥
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावासन्नममृतं ब्रह्मचर्यम्
।
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥६॥
ननु यदि मृत्योः रूपं नोपलभ्यते तर्हि तत्सत्त्वे किं प्रमाणमत आह- यममिति । अतः अज्ञानाख्यान्मृत्योरन्यं यमसंज्ञमेके मूढाः मृत्युमाहुः । "अथ सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्‘ इति । अस्य व्यतिरेकमुखेन आत्मनि कल्पितत्वमाह - आत्मावसन्नमिति । आत्मनि प्रतीच्ये वाऽवसन्नं लीनं, तेन रज्जूरगादिवद्यमादिकमपि आत्मनि कल्पितमेवेत्यर्थः । आत्मावासमिति पाठे आत्माश्रयमित्यर्थः । यमप्रशमोपायमाह - मृतमिति । ब्रह्मचर्यं ब्रह्मणि चर्या आत्मानुसन्धानं निरस्ताखिलकल्पनाजालं अमृतं मोक्षदेतुः । योगिनां यमभयं नास्तीत्यर्थः । ‘न तस्य रोगो न जरा न मृत्युः’ इति श्रुतेः । ननु कल्पितस्य यमस्य मृगजलादेरिवार्थक्रियाकारित्वं न युक्तमत आह - पितृलोक इति । ‘यादृशो यक्षस्तादृशो बलिः’ इति न्यायेनात्मनि कल्पितगरुडभावस्य विषनिवर्तकत्ववत् तत्राप्यर्थक्रियाकारित्वमस्तीति भावः । अत्र युक्तिमाह- शिव इति । शीतोष्णादिवदेकस्मिन् सत्यस्य विरुद्धधर्मद्वयस्यासंभवात् तस्मिन्नेव शिवत्वाशिवत्वे रज्ज्वां सर्पदण्डादिवत्कल्पिते इत्यर्थः ॥६॥
अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः
।
अहंगतेनैव चरन्विमार्गान्न चात्मनो योगमुपैति कश्चित् ॥७॥
अस्येति । अस्य यमस्य आदेशादाज्ञातः क्रोधादिरूपो मृत्युर्मरणहेतुर्निःसरति उद्भवति । अत्र यथाऽज्ञानाभिमानिनी देवता यमः, एवं क्रोधाद्यभिमानिन्योऽपि देवताः यमस्य दासभूताः सन्तीत्यधिदैवमर्थः । अध्यात्मं तु अज्ञानादेव क्रोधादय उद्भवन्ति ततो म्रियत इत्यर्थः । ननु यद्यात्मावासमज्ञानं तर्हि तत् आत्मनः पृथक् सिद्धमपृथक् सिद्धं वा । अन्त्ये मुक्तानामपि पुनर्बन्धापत्तिः । आद्ये सांख्यप्रकृतिवत्तदनाशापत्तिरित्याशङ्क्य मृत्युं विशिनष्टि - नराणामहं गतेनैव विमार्गान् चरन्निति । जीवानां योऽहंकारस्तेन सह गतं गमनमहङ्कारसाहित्यं तेन विमार्गान् अनात्मगान् मार्गान् चरन् विषयान् भुञ्जान इत्यर्थः । मुक्तौ अज्ञानाश्रयस्याहमर्थस्य चिदाभासस्य नष्टत्वात् न शुद्धादात्मनः सकाशादज्ञानं पुनरुदेति नापि पृथगवतिष्ठत इति भावः । ननु सुषुप्तावहङ्कारलयोऽपि दृश्यत इत्यत आह- न चेति । तदानीमपि सूक्ष्मस्याहमर्थस्य सत्त्वान्न कश्चित् ज्ञानं विना आत्मयोगमुपैति स्वं रूपं प्राप्नोतीत्यर्थः । अतोऽहंकारनाशात् प्राक् आत्मनः क्रोधादिरूपस्य मृत्योरुदयो युज्यत एवेत्यर्थः। आस्यादेष इति पाठे आस्तेऽस्मिन्नित्यास्यमज्ञानस्याधिष्ठानमहङ्कारस्तस्मान्निःसरत इति पूर्ववत् ॥७॥
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति
।
ततस्तान् देवा अनुविप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति ॥८॥
आत्मयोगाभावे दोषमाह- ते इति । ते नराः मोहिताः क्रोधादिभिरिति शेषः । तद्वशे क्रोधादिरूपस्य मृत्योर्वशे वर्तमानाः सन्तः इतोऽस्माल्लोकात् प्रेताः गताः सन्तः तत्र यमलोके पुनरित्यसकृद्गमनसूचनार्थं पतन्ति गच्छन्ति नरकादाविति शेषः । ततस्तान् तत्र गतान् अनु देवा इन्द्रियाणि प्लवन्ते तत्रैव गच्छन्ति ’तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इति श्रुतेः । मृङ् प्राणत्यागे इत्यनुशासनाच्च मृत्युरज्ञानं मरणसंज्ञामपि लभते । अयं भावः ‘मृत्युरत्यन्तविस्मृतिः’ इति स्मृतेरज्ञानं प्रत्यगानन्दविस्मारकत्वेन यमश्च प्रत्यक्त्वेन गृहीतस्य देहस्य च विस्मारकत्वेन साम्यात् द्वयमपि मृत्युशब्दितं तथा च मुख्यो मृत्युरज्ञानं गौणो यम इति ॥८॥
कर्मोदये कर्मफलानुरागास्तत्रानु ते यान्ति न तरन्ति मृत्युम्
।
सदर्थयोगानवगमात् समन्तात् प्रवर्तते भोगयोगेन देही ॥९॥
ननु प्राङ्मरणान्मृत्युभयं मृतस्य तु कृतकृत्यतैवास्तीत्याशङ्क्याह- कर्मोदय इति । भोगप्रदस्य - कर्मण उदये सति कर्मफलभोगेऽनुरागो येषां ते तथाभूताः तत्र स्वर्गादौ अनुयान्ति भोगवासनया पूर्वदेहं त्यक्त्वा गच्छन्ति । अतो मृत्युं न तरन्ति । देहनाशमात्रेण न मुच्यन्त इत्यर्थः । तथा च श्रुतिः - ’येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येकेनायमस्तीति चैके’ इति मृतस्यास्तित्वनास्तित्वे उपक्षिप्य ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्।’ इत्यस्तीत्येवोपलब्धव्य इति चास्तित्वं देहान्तरप्राप्तिं चाह- अत्र हेतुः सदर्थेति । सत् ब्रह्म तत्प्राप्त्यर्थो योगः सदर्थयोगः यमाद्यष्टाङ्गोपेतः तस्यानवगमादलाभात् समन्तात् ऊर्ध्वाधस्तिर्यग्योनिषु भोगयोगेन भोगलिप्सया देही देहाभिमानी प्रवर्तते॥९॥
तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या
।
मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान् समन्तात् ॥१०॥
भोगमेव निन्दति - तद्वा इति । यत् अस्य पुंसः मिथ्याभूतेषु अर्थेषु शब्दादिविषयेषु योगो रागस्तदर्थं गतिः प्रवृत्तिः नित्या स्वाभाविकी तदेव इन्द्रियाणां महामोहनमर्थानां मिथ्यात्वं सङ्कल्पकृतत्वात् यदाहाक्षपादः - ‘दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः’ इति दोषो रागादिः मिथ्यार्थयोगेन विषयसंगेन अभिहतान्तरात्मा व्यथितचित्तः सन् विषयान् स्मरन् स्मरणपूर्वकमुपास्ते । हेतौ शतृप्रत्ययः । स्मरणमेव विषयोपासनाहेतुरतस्तेषां विस्मरणमेव कर्तव्यमित्यर्थः ॥१०॥
अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात्
।
एते बालान् मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥११॥
तत्स्मरणे दोषमाह- अभिध्येति । अभिध्या विषयस्मरणं प्रथमं ततः कामस्तत्प्राप्त्यभिलाषः । केनचिन्निमित्तेन तत्प्रतिहतौ क्रोधः एते अभिध्यादयः । एवं क्रमेण बालान् अजितचित्तान् मृत्यवे मोहाय प्रापयन्ति । ये तु धीराः जितचित्ताः निष्कामास्ते मृत्युं तरन्ति । पाठान्तरे धर्मं योगाभ्यासं चरन्ति ॥११॥
सोऽभिध्यायन्नुत्पतितान्निहन्यादनादरेणाप्रतिबुध्यमानः
।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥१२॥
स इति । सः मृत्युतरणकामः योगी वा अभिध्यायन् आत्मानं चिन्तयन् उत्पतितान् कामानेव निहन्यात् हननोपायमाह- अनादरेण तुच्छत्वबुद्ध्या पथि पतिततृणवत् स्त्र्यादीन् प्राप्तानपि अप्रतिबुध्यमानः अचिन्तयन् । य एवं विद्वान् भूत्वा कामान्निहन्ति एनं पुरुषं मृत्युरज्ञानं मृत्युरिव यम इव नात्ति न ग्रसते । निष्कामस्य मृत्युभयं नास्तीत्यर्थः ॥१२॥
कामानुसारी पुरुषः कामाननु विनश्यति
।
कामान् व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥१३॥
सकामं निन्दति- कामानुसारीति । विषयार्थी विषयमनुविनश्यति । यथोक्तं- ‘कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च’ इति । फलितमाह- कामानिति । विषयांस्त्यक्त्वा रजो दुःखरूपं यत्किचित् सर्वं धुनुते नाशयति ॥१३॥
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते
।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रवत्सुखम्॥१४॥
विपक्षे दोषमाह- तम इति । अयं कामः भूतानां तमः अज्ञानं तत्कार्यकरत्वात् यतः अप्रकाशो नास्ति प्रकाशो विषयविवेको यस्मिन् स तथा अत एक नरकवद्दुःखदः । एतदेवाह- मुह्यन्त इति । यथा मुह्यन्तो मदिरामत्ताः। गृह्यन्त इति पाठे ग्रहगृहीताः । पथि गच्छन्तः श्वभ्रवत् गर्तयुक्तं देशं धावन्ति । तथा कामिनः संसारे वर्तमानाः सुखं सुखप्रदं भार्यादिं प्रति धावन्तीत्यर्थः ॥१४॥
अमूढवृत्तेः पुरुषस्येह कुर्यात् किं वै मृत्युस्तार्ण इवास्य व्याघ्रः
।
अमन्यमानः क्षत्रिय किञ्चिदन्यन्नाधीयीत निर्णुदन्निवास्य चायुः॥१५॥
अमूढवृत्तेः कामेनानभिभूतचित्तस्य पुंसस्तु तृणमयव्याघ्रवत् मृत्युर्यमः किं कुर्यान्न किमपीत्यर्थः । यस्मादेवं तस्मात् अस्य कामस्य आयुः जीवनं मूलाज्ञानं निर्णुदन् अपनेष्यन् अन्यत् किंचित् काम्यमानं स्त्र्यादिकममन्यमानः अगणयन् नाधीयीत न स्मरेत् तुच्छत्वबुद्ध्या विषयविस्मरणमेव काममूलोच्छेदहेतुरित्यर्थः। यदाह वसिष्ठः - ‘भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् । तथापि तव न स्वास्थ्यं सर्वविस्मरणादृते’ इति च ॥१५॥
स क्रोधलोभौ मोहवानन्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः
।
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः
।
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥१६॥
यमं त्वेके इत्यत्र आत्मावसन्नमिति यमोऽप्यात्मनि कल्पित इत्युक्तं तद्व्याचष्टे - स क्रोधलोभाविति । यस्त्वच्छरीरे एषः अहंप्रत्ययविषय अन्तरात्मा बाह्यात्मानं शरीरमपेक्ष्य आन्तरः चिदचिद्ग्रन्थिरूपो जीवः स मोहवान् अतस्मिंस्तद्बुद्धिर्मोहः अनात्मनि देहादावात्मबुद्धिः विपर्ययरूपं ज्ञानं तद्वान् क्रोधलोभमृत्युरूपो भवति । शुकनलिकान्यायेन स्वयं बन्धहीनोऽपि अज्ञानात् स्वात्मानं बद्धं मन्यते तेन कामादिवशो भवतीत्यर्थः । उपसंहरति- एवमिति । जायमानं मोहादिति शेषः । मोहविरोधिनि ज्ञाने तिष्ठन्निष्ठावान् यमान्न बिभेति तत्र दृष्टान्तः - विषये गोचरे तस्य ज्ञानस्य मृत्युर्बन्धः विनश्यते मृत्योर्यमस्य मर्त्यः देहः अज्ञानकृतो बन्धो ज्ञानेनैव नश्यति न कर्मणेति प्रघट्टकार्थः ॥१६॥
धृतराष्ट्र उवाच।
यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान् सनातनात्
।
तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नोपैति कथं नु कर्म ॥१७॥
अत्र शङ्कते- यानिति । साधु इज्यया सोपासनेन अश्वमेधादिना कर्मणा पुण्यतमान् इन्द्रः लोकाद्यपेक्षया पुण्यान् सनातनान् व्यवहारापेक्षया नित्यान् लोकान् सत्यलोकाख्यान् इह वेदे आहुः वेदविदः तेषां लोकानां परार्थं परार्थत्वं मोक्षप्रापकत्वं वेदाः कथयन्ति । एतत्कर्मणां क्रममुक्तिहेतुत्वं विद्वान् जानन् कर्म कथं नु न उपैति न शरणीकरोति कर्मभिरेव मोक्षसिद्धौ किं ज्ञानेनेति भावः ॥१७॥
सनत्सुजात उवाच।
एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः
।
सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान् ॥१८॥
समाधत्ते- एवमिति । अविद्वान् एवं त्वदुक्तक्रमेण तत्र मोक्षपदे उपयाति तथैव अर्थजातं भोगमोक्षाख्यं प्रयोजनसामान्यं वेदाः वदन्ति तथा अनीहो निष्कामः परात्मा परमनात्मानं देहादिकमविद्यया आत्मत्वेन गृह्णन् जीवः परं निर्गुणात्मानमायाति आभिमुख्येन प्राप्नोति निष्कामस्तत्तदुपाध्याकारतां त्यक्त्वा निष्कलेन रूपेणावतिष्ठत इत्यर्थः । अन्यथा तु स एव जीवः मार्गेण सुषुम्नानाड्या मार्गान् तत्तल्लोकप्रापकान् निहत्य निरस्य ब्रह्मलोकद्वारा परं प्रयाति ‘तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुतेः । तथा च बृहदारण्यके - ‘तद्यथा पेशस्कारी पेशसो मात्रामुपादायाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते एवमेवेदं शरीरं निहत्य विद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वेति तु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकामः स्यान्न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते’ इति कामयमानस्य अस्माद्देहादुत्क्रान्तस्य देहं मरणेनासद्रूपत्वं नयतः स्वर्णकारदृष्टान्तेन पित्र्यगान्धर्वादिरूपान्तरकर्तृत्वमुक्त्वा निष्कामस्य पूर्णब्रह्मभावं गतस्य उत्क्रान्तिर्निषिध्यते॥१८॥
धृतराष्ट्र उवाच।
कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण
।
किं वाऽस्य कार्यमथवा सुखं च तन्मे विद्वन् ब्रूहि सर्वं यथावत् ॥१९॥
ननु जीवः परं प्राप्नोति चेदन्यस्यान्यात्मताऽयोगात् पर एव जीवत्वं प्राप्नोतीत्युक्तं भवति तच्चायुक्तम् । अनियोज्यब्रह्मात्मत्वात् परस्येत्याशङ्कते- कोऽसावित्ति । तं परमात्मानमजं जन्मादिहीनं पुराणं पुराऽपि नवमित्यनेन परिणामित्वं निरस्तम् । तादृशं परं कोऽसौ नियुङ्क्ते यन्नियोगादयं दुःखादिभाग्भवति । नियोजकान्तरसत्वे तस्याप्यन्यस्तस्याप्यन्य इति पराऽनवस्थेति भावः । ननु पर एव नियोजकान्तरं विना इदं सर्वं चेतनाचेतनं विश्वम् । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः क्रमेण भवतीति शङ्कते- स चेदिति । एतद्दूषयति- किंवेति । अस्य परस्यावाप्तकामतया निष्कामस्य किं वा कार्यं कर्तव्यमस्ति न किमपीत्यर्थः । ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायेन प्रयोजनं विना परे प्रवृत्तिर्न संभवतीत्यर्थः । ननु ‘लोकवत्तु लीलाकैवल्यम्’ इति न्यायेन लोके निष्प्रयोजनापि चतुरङ्गादिक्रीडा दृश्यते तद्वत्परस्यापि लीलैव जगत्सृष्टिप्रवेशादिकमित्याशङ्क्याह- अथवेति । चतुरङ्गादिक्रीडाऽपि सुखार्थमेव क्रियते न च परस्य सुखलिप्साऽस्ति न च स्वात्मानं स्वयमेव सङ्कटे पातयतः सुखं वाऽस्तीति न परस्य स्वतः सृष्टौ प्रवृत्तिः संभवति । नापि तेन सह जीवस्याभेदः संभवति । जीवपरयोर्भेदे तु जीवादृष्टानुरोधेन राजवत् परो जीवभोगार्थं सृष्ट्यादौ प्रवर्तते स्वकृतमर्यादापरिपालनार्थं चेति युज्यतेऽतः न तयोरभेदः संभवतीत्यर्थः॥१९॥
सनत्सुजात उवाच।
दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः
।
तथाऽस्य नाधिक्यमपैति किञ्चिदनादियोगेन भवन्ति पुंसः ॥२०॥
उत्तरमाह- दोष इति । विभेदयोगे विशेषेण भेदो ययोस्तौ विभेदौ विभिन्नौ तयोर्योगे ‘अभेदेन ऐक्ये महान् दोषः अन्यस्यान्यात्मत्वासंभवात् । अतो जीवपरयोस्तात्विको भेदो न युक्त इत्यर्थः । किं तर्हि अनादियोगेन । न अत्तुं शीलमस्येत्यनादिर्भोग्यवर्गः । स्थूलसूक्ष्मदेहद्वयात्मकानि क्षेत्राणि तैः सह योगेन संबन्धेन पुंसः परस्मात् सकाशात् नित्याः जीवा घटाकाशजलचन्द्रादिन्यायेन भवन्ति तथा तेन औपाधिकेन भेदेनास्य आधिक्यं किश्चिदपि न अपैति न हि जलचन्द्रे कम्पमाने मुख्यश्चन्द्रः कम्पते । नापि घटाकाशे चलति मुख्ये आकाशे चलनं संभाव्यते । तथा च श्रुतयः -’ एक एव तु भूतात्मा भूते भूते प्रकाशते । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा । घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः' इत्याद्याः। औपाधिकं जीवपरयोर्भेदं दर्शयति - एकधेति । ईश्वररूपेण बहुधेति जीवरूपेण एक एव शुद्धः जलाशयतरङ्गचन्द्रन्यायेन प्रकाशत इत्याद्यश्रुतेरर्थः । एवं च जीवशभेदप्रयुक्तः सर्वोऽपि व्यवहारः सेत्स्यति न च परान्तरकल्पनाऽवतरतीति सिद्धम् । कथंभूतेन अनादियोगाख्येन क्षेत्रसंम्बन्धेन अनादियोगेन अनादिना आदिशून्येनाज्ञानेन हेतुना योगः संबन्धोऽस्य सोऽनादियोगस्तेन भवन्ति जन्मादिभाज इति शेषः । पुंसः पुमांसः अज्ञानयोगोत्थः क्षेत्रयोग इत्यर्थः ॥२०॥
य एतद्वा भगवान् स नित्यो विकारयोगेन करोति विश्वम्
।
तथा च तच्छक्तिरिति स्म मन्यते तथाऽर्थयोगे च भवन्ति वेदाः ॥२१॥
जीवेशयोर्भेदं निरस्य प्रपञ्चस्यापि परमेश्वरात् पृथक्सत्वं वारयति - य एतद्वेति । वाशब्द उपमाथ । य इति पुंस्त्वं विधेयापेक्षया । एतत् परिदृश्यमानं जगत् यज्जगदिव भाति स नित्योऽविकारी भगवान् सर्वैश्वर्यसम्पन्नः परमात्मैव । वाशब्दो मिथ्यात्वद्योतकः । तथाहि । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ अहमद्य स्वप्ने गजमिवाद्राक्षमिति वेदे लोके च मिथ्यार्थानुवादे इवशब्दः प्रयुज्यते । श्रुतिश्च - ‘इदं सर्वं यदयमात्मा ब्रह्मैवेदं विश्वं सर्वं खल्विदं ब्रह्म’ इत्याद्या । प्रपञ्चस्य ब्रह्मानन्यत्वमाह विकारोऽनृतं माया तद्योगेन विश्वं करोति स्वप्नेन्द्रजालवन्न तु कनककुण्डलवज्जगद्ब्रह्मणोः परमार्थतो विकारविकारिभावोऽस्ति । ब्रह्मणोऽप्यनित्यत्वापत्तेरित्यर्थः । ननु नित्यं परिणामि च प्रधानं स्वतंत्रमेव जडस्य जगतो जडमेव कारणमस्तु सादृश्यात् न तु चेतनं वैलक्षण्यादित्याशङ्क्याह - तथा च तच्छक्तिरिति । तथा च तेनैव प्रकारेण स्वात्मनि स्वप्नवज्जगदवभासयन्ती तस्य परमात्मनः शक्तिस्तदनन्याऽस्तीति वेदोऽपि मन्यते स्म तथा च श्रूयते - ‘देवात्मशक्तिं स्वगुणैर्निगूढाम्’ इति । ‘पराऽस्य शक्तिर्विविधैवः श्रूयते’ इति च । ननु भोग्यत्वात् शक्तिः आत्मनः स्वं भोक्तृत्वादात्मा तत्स्वामी । तथा च तयोर्भेद इत्याशङ्क्याह - तथार्थेति । शक्तिर्हि न शक्तिमतः पृथग्दृष्टा वह्नेरिव दहनप्रकाशनशक्तिः । वेदा अपि ’बहु स्यां प्रजायेय’ इति ’सच्च त्यच्चाभवत्’ इत्यादयः । चकाराल्लोके शक्तिग्रहोऽपि तादृशार्थयोगे शक्तिशक्तिमतोरभेदेन संबन्धे प्रमाणं भवतीत्यर्थः॥२१॥
धृतराष्ट्र उवाच।
येऽस्मिन् धर्मान्नाचरन्तीह केचित्तथा धर्मान् केचिदिहाचरन्ति
।
धर्मः पापेन प्रतिहन्यते स्विदुताहो धर्मः प्रतिहन्ति पापम् ॥२२॥
एवं जीवेशयोरभेदात् जगतो मिथ्यात्वात् जगज्जन्मादिनिमित्तभूतायाः प्रकृतेः ब्रह्मानन्यत्वाच्च ब्रह्माद्वैतं सिद्धम् । तेन मृत्युर्नास्तीति पक्षः स्थिरः । येषां च मते कर्मणा मृत्युनाशस्तेषामपि क्रममुक्तिप्रणाड्या कर्मणां मोक्षहेतुत्वं च स्थितम् । ये केचित्तु अस्मिन् मोक्षे निमित्ते धर्मान् अग्निहोत्रादीनि कर्माणि नाचरन्ति किन्तु मोक्षार्थं संन्यासमेव कुर्वन्ति । ये केचित् क्रममुक्त्यर्थं कर्माण्येव उपासनासहितानि कुर्वन्ति येषां तु तादृशो महान् धर्मो नास्ति किन्तु अल्प एवाग्निहोत्रादिर्नित्यानुष्ठानात्मकोऽस्ति तेषामपि स धर्मः पापेन रागादिदोषेण हन्यते उत धर्म एव पापं हन्तीति प्रश्नार्थः ॥२२॥
सनत्सुजात उवाच।
उभयमेव तत्रोपयुज्यते फलं धर्मस्यैवेतरस्य च ॥२३॥
उत्तरमाह- उभयमिति । तत्र मोक्षे उभयं संन्यासः सोपासनं कर्म च उपयुज्यते । तथा धर्मस्य फलं स्वर्गः चित्तश्शुद्धिर्वा । इतरस्य अधर्मस्य पापस्य नित्यकर्मत्यागस्य वा फलं नरकः उपयुज्यत इति ॥२३॥
तस्मिन् स्थितौ वाऽप्युभयं हि नित्यं ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम्
।
तथाऽन्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ॥२४॥
इदमेव संग्रहवाक्यं विवृणोति- तस्मिन् स्थिताविति द्वाभ्याम् । उभयं संन्यासः सोपासनं कर्म च तस्मिन् मोक्षे स्वस्वरूपे स्थितौ स्थितिनिमित्तं नित्यमविचलं वाशब्द एवार्थः । तयोर्विशेषमाह - ज्ञानेनेति । संन्यासपूर्वकेण ज्ञानेन ब्रह्मविद्यया सिद्धं नित्यनिर्वृत्तं ब्रह्म प्रतिहन्ति अनृतजडदुःखादिप्रातिकूल्येन सच्चिदानन्दात्मकं गच्छति प्राप्नोति । हन्तेरत्र गत्यर्थत्वं ज्ञेयम् । तथा सोपासनेन कर्मणा अन्यथासिद्धाद्विपरीतं साध्यं पुण्यं प्रशस्तं देवतादिभावमुपैति । यतः देही देहाभिमानी भवति तथागतं तेन प्रकारेण स्थितं सिद्धं नरदेहाभिमानजं पापमपि कदाचित् उपैति । देवभावं प्राप्तोऽपि कदाचिन्मुच्यतेऽन्यथा जयविजयादिवत्ततो भ्रश्यत्यपीति ज्ञानमेव श्रेष्ठामिति भावः ॥२४॥
गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा
।
धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तस्य सिद्धिः ॥२५॥
फलं धर्मस्यैवेतरस्य चेत्युत्तरार्धं विवृणोति- गत्वेति । उभयं पुण्यस्य पापस्य च फलं स्वर्गनरकाख्यं तच्च अस्थिरं क्षयिष्णु गत्वा प्राप्य पुनरस्मिन् लोके कर्मणा पूर्वसंस्कारानुगुणेन तत्तद्योन्युचितेन युज्यते योगं प्राप्नोति । कर्म कृत्वा तत्फलं भुक्त्वा पुनः कर्मैव कुरुते तेन कर्मपाशान्न मुच्यते इत्यर्थः । यद्यप्येवं तथाऽपि स चापि कर्मयोगी कर्मणा धर्मेण धर्मरूपेण पापं प्रणुदति दूरीकरोति विद्वान् । मूढस्तु कर्मणः फलं स्वर्गपश्वादिकमेवेच्छतीति भावः । अतो हेतोर्धर्मो बलीयान् न त्वधर्मः । इति हेतोस्तस्य धर्मं कुर्वतः सिद्धिः कालेन रागादिदोषनाशद्वारा मोक्षोऽप्यस्तीत्यर्थः । विद्धीति पाठे सिद्धिमिति शेषः ॥२५॥
धृतराष्ट्र उवाच।
यानिहाहुः स्वस्य धर्मस्य लोकान् द्विजातीनां पुण्यकृतां सनातनान्
।
तेषां क्रमान् कथय ततोऽपि चान्यान्नैतद्विद्वन् वेत्तुमिच्छामि कर्म ॥२६॥
काम्यो धर्मः पापं च बन्धहेतुः नित्यधर्मजं च पुण्यं मोक्षहेतुरिति मन्वानः पृच्छति - यानिहाहुरिति । ’अपाम सोमममृता अभूम । अक्षय्य ह वै चातुर्मास्ययाजिनः सुकृतं भवति । यस्यैतेऽष्टाचत्वारिंशत्संस्काराः स ब्रह्मणः सायुज्यं सलोकतां गच्छति’ इत्याद्याः श्रुतयः स्मृतयश्च पुण्यकृतां द्विजातीनां स्वधर्मस्य फलभूतान् सनातनान् नित्यान् लोकान् आहुः । तेषां क्रमान् धर्मतारतम्येन उच्चनीचभावं कथय । ततोऽपि चान्यान् निरतिशयान् प्रत्यगानन्दरूपान् - बहुत्वं पूजायाम्- मोक्षसुखं च कथय । एतत् स्वधर्मादन्यत्स्वाभाविकप्रवृत्तिविषयभूतं निषिद्धं काम्यं च कर्म वेदितुं न इच्छामि । एतेन स्वस्य वैराग्यं दर्शितम् । प्रकृते च तदुपयोगोऽस्तीति ज्ञेयम् ॥२६॥
सनत्सुजात उवाच।
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव
।
ते ब्राह्मणा इतः प्रेत्य ब्रह्मलोकप्रकाशकाः॥२७॥
उत्तरमाह- येषामिति । व्रते यमनियमादिरूपे विस्पर्द्धा अहमन्येभ्योऽधिकं यमादीन् साधयिष्यामि अहमन्येभ्य इति सङ्घर्षः । विश्वामित्रादिवत्तपस्यभिनिवेश इति यावत् । बलवतां मल्लादीनामिव । ते योगिनः ब्राह्मणाः सगुणब्रह्मविद इतः देहात् प्रेत्य गत्वा ब्रह्मलोके तेजस्विनः पूज्या भवन्ति ततो मुक्तिं च ब्रह्मणा सह प्राप्नुवन्ति । तथा च स्मर्यते - ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति ॥२७॥
येषां धर्मे च विस्पर्धा तेषां तज्ज्ञानसाधनम्
।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥२८॥
सर्वधर्मश्रेष्ठस्य योगधर्मस्य फलमुक्त्वा इज्यादिधर्मस्य फलमाह - येषामिति । अहमेव यज्ञादीन् सर्वोत्कर्षेणानुतिष्ठेयमिति येषामाग्रहः तेषां तत् यज्ञादिकं ज्ञानस्य साधनं विविदिषोत्पादनद्वारा भवति तथा च श्रुतिः - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति त्रिविष्टपं देवलोकं न तु सत्यलोकम् । विविदिषाद्यर्थमपि कर्मानुतिष्ठतामानुषङ्गिकं स्वर्गफलमपि भवतीत्यर्थः । यदाहापस्तम्बः - ‘तद्यथाऽऽम्रे फलार्थं निर्मिते छायागन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते’ इति ॥२८॥
तस्य सम्यक् समाचारमाहुर्वेदविदो जनाः
।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥२९॥
ये तु अकरणे प्रत्यवायं मत्वा धर्मार्थमेव धर्ममनुतिष्ठन्ति न ज्ञानार्थं नापि स्वर्गार्थं तानाह - तस्येति । तस्य धर्मस्य समाचारं सम्यगनुष्ठानं वेदविदो वैदिकत्वाभिमानिनो जनाः सम्यगित्याहुः । न तु ततः किंचिदैहिकमामुष्मिकं वा फलं कामयन्ते । एनं जनमेनान् जनान् भूयिष्ठमत्यन्तं न मन्येत न मानयेत् । किञ्चित्तु मानयेदेवेत्यर्थः । तमेव विशिनष्टि - बाह्यमात्मनि वर्णाश्रमवयोवस्थाभिमानित्वात् बहिर्मुखं वैदिकत्वान्निष्कामत्वाच्चाभ्यन्तरम् । यतः अकामहतस्य श्रोत्रियस्य कामोपमर्दतारतम्येन हिरण्यगर्भादर्वाचीनानां मानुषादीनामानन्दगणनायामुत्तरोत्तरशतगुणितायां ‘स एक इन्द्रस्यानन्दः स एकः प्रजापतेरानन्दः’ इति प्रतिपर्यायं श्रोत्रियस्य चाकामहतस्येत्यानन्दोत्कर्षः श्रूयते ॥२९॥
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम्
।
अन्नं पानं ब्राह्मणस्य तज्जीवेन्नानुसञ्ज्वरेत् ॥३०॥
एवं योगिनामात्मविविदिषूणां निष्कामवर्णाश्रमाभिमानिनां च धर्मः उत्तममध्यमाधमभावेन प्रोक्तः संप्रति अहिंसाप्रधानान्योगिधर्मानाह- यत्र मन्येतेति । यत्र गृहेऽन्नं पानं च ब्राह्मणस्य संन्यासिनः भूयिष्ठमस्तीति मन्येत जानीयात् तत् गृहं प्राप्य जीवेत् प्राणयात्रां कुर्यात् । न क्षीणवृत्तिं गृहस्थं पीडयेदिति भावः । प्रावृषि वर्षाकाले तृणं च उलपः उच्छ्रिततरं तृणम् । ‘उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे’ इति मेदिनी । तृणोदकमिति पाठान्तरम् । नानुसञ्ज्वरेत् क्षुद्बाधया आत्मानं न पीडयेदित्यर्थः ॥३०॥
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्
।
अतिरिक्तमिवाकुर्वन् स श्रेयान्नेतरो जनः ॥३१॥
यत्र देशे अकथयमानस्य स्वमाहात्म्यमप्रकाशयतः अशिवममङ्गलं भयं प्रयच्छति सप्तम्यन्तमिदं भयप्रदेऽपि देशे स्थित्वा सत्यपि सामर्थ्ये तत्रत्यजनमध्ये आत्मानं स्वविद्यादिना अतिरिक्तमधिकमिव अकुर्वन् स्वोत्कर्षमप्रकाशयन् यो जनो भवति स श्रेयान् प्रशस्ततरः । परपीडां मानं च त्यजेदिति श्लोकद्वयार्थः ॥३१॥
यो वा कथयमानस्य ह्यात्मानं नानुसञ्ज्वरेत्
।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्॥३२॥
ईदृशेन कस्यान्नं भोक्तव्यं तमाह - य इति । यः पुमान् आत्मानं कथयमानस्य स्वप्रौढिं दर्शयतो नरस्योपरि नानुसञ्ज्वरेत् परोत्कर्षं दृष्ट्वा न सन्तप्येत् । तथा ब्रह्मस्वं ‘यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ’ इति स्मृतेर्यत्यादिभ्योऽदत्वा यद्भोजनं तद्ब्रह्मस्वभोजनमकुर्वंश्च यो भवति तदन्नं तस्यान्नं सतां सम्मतमसूयारहितस्य श्रद्धापूर्वकं प्रयच्छत एवान्नं भोज्यमित्यर्थः ॥३२॥
यथास्वं वान्तमश्नाति श्वा वै नित्यमभूतये
।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥३३॥
श्वा शुनकः ते संन्यासिनः स्ववीर्यस्य स्वपाण्डित्यस्य उपजीवनात् पाण्डित्यादिकं प्रकाश्य भिक्षामिच्छन् यतिर्वान्ताशी भवतीत्यर्थः ॥३३॥
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः
।
ज्ञातीनां तु वसन् मध्ये तं विदुर्ब्राह्मणं बुधाः॥३४॥
यः ब्राह्मणः ब्रह्मवित् ज्ञातीनां मध्ये वसन्नपि ज्ञातयो मे मम नित्यमज्ञाता चर्या याभिस्ता अज्ञातचर्याः सन्तु इति मन्येत ज्ञातयो मे योगगतिं मा ज्ञासिषुरिति यस्य प्रच्छन्नतेजसो मतिः तं ब्राह्मणं ब्रह्मिष्ठं बुधाः तल्लक्षणज्ञाः विदुः ॥३४॥
को ह्यनन्तरमात्मानं ब्राह्मणो हन्तुमर्हति
।
निर्लिङ्गमचलं शुद्धं सर्वद्वैतविवर्जितम् ॥३५॥
ईदृशीं चर्यां विना अनन्तरमुपाधिकृतव्यवधानशून्यमात्मानं प्रत्यञ्च निर्लिङ्गमनुमानाद्यगम्यमचलं व्यापकं शुद्धमसङ्गं सर्वद्वैतविवर्जितं सजातीयविजातीयस्वगतभेदशून्यम् । हन्तुं गन्तुं हन्तेर्गत्यर्थत्वमत्र ज्ञेयम् । ज्ञातुमित्यर्थः कोऽर्हति न कोऽपीत्यर्थः ॥३५॥
तस्माद्धि क्षत्रियस्यापि ब्रह्मा वसति पश्यति॥३६॥
तस्मादब्राह्मणस्यापि क्षत्रियादेरीदृक्चर्यावतः- कर्मणि षष्ठी- क्षत्रियमपि ब्रह्म स्वप्रकाशेन आवसति अधिरूढं भवति येन सोऽप्यात्मनो ब्रह्मभावं पश्यतीति सार्धश्लोको वाक्यम् । पाठान्तरं तु सुगमम् ॥३६॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते
।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥३७॥
आत्माज्ञाने दोषमाह - य इति । अन्यथा आत्मत्वेन भासमानाद्देहादेर्विपरीतं सन्तमन्यथा कर्त्रादिरूपं शेषं स्पष्टम् ॥३७॥
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः
।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥३८॥
आत्मतत्त्वप्रतिपत्त्युपायमाह - अश्रान्त इति । अश्रान्तः श्रमहीनः यतः अनादाता आदानशून्यः निष्परिग्रह इत्यर्थः । अत एव संमतः शिष्टानां निरुपद्रवश्च स्वयं भवति तथा शिष्टोऽपि शिष्टवन्न स्यात् शिष्टत्वं न प्रकाशयेत् । पाठान्तरे अशिष्टवत् यथेष्टाचरणकृन्न स्यात् किं तु शिष्ट एव वैदिकमर्यादापरिपालनपर एव स्यात् । कविः क्रान्तदर्शी ॥३८॥
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ
।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥३९॥
मानुषे वित्ते चक्षुर्ग्राह्यधनदारादिरूपे विषये अनाढ्याः दरिद्राः सर्वसङ्गत्यागिन इत्यर्थः । दैवे वित्ते श्रोत्रग्राह्ये पारलौकिके धर्मादौ आढ्याः संपन्नाः । तथा क्रतौ ईश्वरोपासनायां स क्रतुं कुर्वीतेत्युपासनायामपि क्रतुशब्दप्रयोगदर्शनात् वैराग्यपूर्वककर्मोपासनानुष्ठानपरा निर्भया भवन्तीत्यर्थः । तनुं स्वरूपम् ॥३९॥
सर्वान्स्विष्टकृतो देवान् विद्याद्य इह कश्चन
।
न समानो ब्राह्मणस्य तस्मिन् प्रयतते स्वयम् ॥४०॥
सर्वक्रतुभ्यो ब्रह्मज्ञानमेत्र श्रेष्ठमित्याह - सर्वानिति । स्विष्टं शोभनमिष्टं दिव्यस्त्र्यन्नपानादिकं ये यागेन प्रीताः सन्तो यजमानाय कुर्वन्ति ते स्विष्टकृतो देवाः । तान् सर्वान् योऽश्वमेधान्तसकलक्रतुकर्ता वेद साक्षात् कुर्यात् सोऽपि ब्राह्मणस्थ ब्रह्मविदः समानो न भवति । तत्र हेतुः - तस्मिन्निति । यतः तस्मिन् स्विष्टे निमित्ते स्वयं प्रयतते यत्नवान् भवति । अयं भावः - स्विष्टं क्रियासाध्यत्वादनित्यफलं ब्रह्म तु स्वतःसिद्धमेवाभिव्यज्यत इति तज्ज्ञानफलभूतो मोक्षोऽपि स्वतःसिद्धत्वान्नित्य इति न स्विष्टं ब्रह्मज्ञानसममिति ॥४०॥
यमप्रयतमानं तु मानयन्ति स मानितः
।
न मान्यमानो मन्येत न मान्यमभिसञ्ज्वरेत् ॥४१॥
यमिति । यमप्रयतमानं निरारम्भं यादृशं मानयन्ति देवादयः स एव ब्रह्मात्मवित् मानितो भवति । यं तु यज्ञादिकर्ता यमिति मानयन्ति स देवानां पशुरमानित एव । तथा च श्रुतिः - ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम्’ इति । उपास्ते यज्ञादिना तर्पयति ततो हेतोः आत्मानमन्यैर्मान्यमानमपि मान्यं न मन्येत नापि अभिसञ्ज्वरेत् अवमाने सतीति शेषः । नकारो भिन्नक्रमः ॥४१॥
लोकः स्वभाववृत्तिर्हि निमेषोन्मेषवत्सदा
।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥४२॥
लोकः स्वभावादेव मां मानयति न तु मयि मानयोग्यताऽस्तीति मत्वा दर्पं न प्राप्नुयादित्याह - लोक इति ॥४२॥
अधर्मनिपुणा मूढा लोके मायाविशारदाः
।
न मान्यं मानयिष्यन्ति मान्यानामवमानिनः ॥४३॥
ये न मानयन्ति तेऽपि पशुवन्निर्विवेकत्वादुपेक्ष्या एव न तु दण्डनीया इत्याह - अधर्मेति ॥४३॥
न वै मानं च मौनं च सहितौ वसतः सदा
।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥४४॥
न वा इति । मानं क्लीबत्वमार्षम् । मुनेः कर्म मौनं योगिचर्या मानार्थिनां परलोको दुःसम्पादः परलोकार्थिनां मौनिनां च इहलोको दुःसंपाद इति भावः ॥४४॥
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी
।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥४५॥
श्रीरिति । धनाभिजनैश्वर्यरूपा लक्ष्मीः सुखस्य मानरूपस्य संवासोऽधिष्ठानं तथाऽपि सा परिपन्थिनी चोरतुल्या परलोकस्य नाशिनी योगिनां तु सुतरामनिष्टकरीत्यर्थः । ब्राह्मी ब्राह्मणस्य योग्या श्रीः ऋग्यजुःसामात्मिका । ‘ऋचः सामानि यजू षि । सा हि श्रीरमृता सताम्’ इति श्रुतेः । प्रज्ञाहीनेन ऋगादीनां रहस्यं न प्राप्तुं शक्यमित्यर्थः ॥४५॥
द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि
।
सत्यार्जवे ह्रीर्दमशौचविद्या यथा न मोहप्रतिबन्धनानि ॥४६॥
तस्य ब्राह्मसुखस्य द्वाराणि प्राप्तिसाधनानि दुराधराणि दुःसंरक्ष्याणि । सत्यं यथार्थभाषणम् । आर्जवमवक्रता। ह्रीर्लोकापवादभयम् । दम इन्द्रियनिग्रहः । शौचं मृज्जलाभ्यां बाह्यम् । आन्तरं तु मनःशुद्धिः । विद्या वेदशास्त्राधिगमः । यथेति । एतेषु सत्सु अनादिवासनया आगतोऽपि मोहो यथावन्न प्रभवति । षण्मानमोहप्रतिबन्धकानीति पाठे स्पष्टोऽर्थः ॥४६॥
इति श्रीमहाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥४२॥
धृतराष्ट्र उवाच।
कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम्
।
मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥१॥
पूर्वाध्यायान्ते मौनं ब्राह्मी श्रीः सत्यादिषट्कं च मोहात्मकस्य मृत्योः प्रतिरोधकानीत्युक्तम् । तान्येव प्रश्नपूर्वकं विवरीतुमध्यायान्तरमारभते - कस्यैष मौन इत्यादि । न्यासपूर्वकं स्वीक्रियमाणो मुनेर्धर्मः मौनसंज्ञः कस्य प्रयोजनस्यार्थे इत्येकः प्रश्नः । लोकप्रसिद्धेर्वाङ्नियमो वा । ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इति श्रौतप्रसिद्धेरमौनशब्दितात् पाण्डित्यबाल्यापरपर्यायात् श्रवणमननाख्यात् द्वयादन्यत्तत्समनियतं निदिध्यासनं वा मौनशब्दितं तयोर्मध्येऽत्र कतरन्मौनशब्दाभिधेयमिति द्वितीयः । तस्य च भावं स्वलक्षणं ब्रूहीति तृतीयः । तेन मौनेन विद्वान् मौनं मनःप्राणेन्द्रियक्रियाणां निरवशेषेणोपरमं निर्विकल्पं पदमिति यावत् । तदुत अपि यातीति चतुर्थः । कथं वा केन प्रकारेण मौनमाचरन्तीति पञ्चमः प्रश्नः ॥१॥
सनत्सुजात उवाच।
यतो न वेदा मनसा सहैनमनुप्रविशन्ति ततोऽथ मौनम्
।
यत्रोत्थितो वेदशब्दस्तथाऽयं स तन्मयत्वेन विभाति राजन् ॥२॥
पञ्चानामपि प्रश्नानां तन्त्रेणोत्तरमाह - यत इति । यस्माद्धेतोः एनं प्रत्यगात्मानं मनसा सह वेदा न अनुप्रविशन्ति । ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति वाङ्मनसातीतत्वश्रुतेः । ततो हेतोः मौनमिति एतन्नामेत्यर्थः । एतेन वाङ्मनसातीतपदप्राप्तिर्मौनस्य प्रयोजनं तच्च वागादिबाह्येन्द्रियनिग्रहरूपं मनोनिग्रहरूपं तेन च क्रमाद्बाह्याभ्यन्तरप्रपञ्चयोरभानं तेन चाभानेन प्राप्यं वाङ्मनसातीतं पदमिति प्रश्नचतुष्टयस्योत्तरमुक्तं भवति । पञ्चमप्रश्नस्योत्तरमाह - यत्रोत्थित इति । यत्र अधिष्ठाने भूमब्रह्मात्मनि वेदशब्दस्तथा अयमिति लौकिकशब्दश्च उत्थितः क्षेत्रे अंकुर इव समुद्रे तरङ्ग इव चाविर्भूतः स भूतात्मा तन्मयत्वेन शब्दमयत्वेन विभाति प्रकाशते हे राजन् । अयं भावः - वेदशब्देन वेदस्य सारतरः प्रणवः ‘भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदात्तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति’ बह्वृचब्राह्मणात् । तस्य च प्रणवस्य ‘ओमित्येतदक्षरमिदं सर्वम्’ इति सार्वात्म्यश्रुतेस्तन्मात्राणां च अकारोकारमकाराणां क्रमात् स्थूलसूक्ष्मकारणप्रपञ्चवाचकानां वाच्यवाचकयोरभेदात् पूर्वपूर्वस्य उत्तरोत्तरत्र प्रविलापने गुरक्तयुक्त्या क्रियमाणे स्थूलस्य जगतः सूक्ष्मे लवणोदकन्यायेन प्रविलयो भवति । तथा सूक्ष्मस्य कारणे कारणस्य तुरीयेऽर्धमात्रावाच्येऽमात्राख्ये । ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति श्रुतेर्गलिताखिलद्वैतभाने वाङ्मनसातीते प्रविलयो भवति अतः प्रणवाख्यशब्दमयत्वेन तद्द्वारा वाङ्मनसातीतं वस्तु भातीति युक्तमिति ॥२॥
धृतराष्ट्र उवाच।
ऋचो यजूंषि यो वेद सामवेदं च वेद यः
।
पापानि कुर्वन् पापेन लिप्यते किं न लिप्यते ॥३॥
ननु यदि वेदशब्दमयत्वेन तद्द्वारा वाङ्मनसातीते पदं भाति तज्ज्ञानाच्च ‘यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ इति श्रुतेः । सर्वपापनाशश्च भवति तर्हि मौनहीनस्यापि ऋगाद्यभ्यासेन तदुभयं भविष्यतीत्याशङ्कते- ऋच इति ॥३॥
सनत्सुजात उवाच।
नैनं सामान्यृचो वाऽपि न यजूंष्यविचक्षणम्
।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥४॥
अविचक्षणं वाङ्मनसनिग्रहासमर्थम् ॥४॥
न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम्
।
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥५॥
छन्दांसि वेदाः । वृजिनात् पापात् । ननु ‘अथागमो यां यां देवतां निराहः तस्यास्तस्यास्ताद्भाव्यमनुभवति’ इति वचनात् ‘यं यं वाऽपि स्मरन् भावम्’ इति स्मृतेश्च नित्याभ्यासादन्तकाले यद्दैवत्यं मन्त्रं स्मरति तद्देवताताद्भाव्यमस्य भविष्यतीति किं वाङ्मनसनिग्रहरूपेण मौनेनेत्याशङ्क्याह - नीडमिति । मौनाभावेऽन्तकाले छन्दांस्येव न स्फुरन्तीत्यर्थः ॥५॥
धृतराष्ट्र उवाच।
न चेद्वेदा विना धर्मं त्रातुं शक्ता विचक्षण
।
अथ कस्मात् प्रलापोऽयं ब्राह्मणानां सनातनः ॥६॥
सनत्सुजात उवाच।
तस्यैव नामादिविशेषरूपैरिदं जगद्भाति महानुभाव
।
निर्दिश्य सम्यक्प्रवदन्ति वेदास्तद्विश्ववैरूप्यमुदाहरन्ति ॥७॥
धर्मं स्वाभाविकम् । ‘शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्’ इति । गीतासूक्तं विना । प्रलापः ‘ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते।’ ‘यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति’ इति ब्राह्मणानां माहात्म्यप्रख्यापकोऽनर्थको वाक्यसन्दर्भः प्रवृत्त इति शेषः। सनातनोऽनादिः। उत्तरमाह - तस्येति । ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः’ इत्यादिश्रुतेर्यस्य प्रलापोऽयं वेदशास्त्रादिप्रपञ्चः तस्यैव परमात्मनः स्वयमव्याकृतस्य नामरूपात्मना व्याकृतस्य स्वरूपमिदं जगद्भाति । नामादिविशेषरूपैरितीत्थंभावे तृतीया । नामरूपात्मको यो विशेषस्तदात्मकस्वरूपस्येत्यर्थः। तथा च श्रुतिः - ‘तद्ध्येदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति’ इति हे महानुभाव ‘निर्दिश्य द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’ इत्यादिना कृत्स्नं दृश्यमदृश्यं च विश्वं ब्रह्मरूपत्वेन निर्दिश्य ब्रह्मैवेदमिति सम्यक् प्रवदन्तीत्यध्यारोपप्रसङ्गे अपवादप्रसङ्गे च तत् ब्रह्म विश्वस्मान्मूर्तामूर्तात् विरूपमेव वैरूप्यं विलक्षणमुदाहरन्ति वेदा एव ‘अथात आदेशो नेति नेति नह्येतस्मादन्यत् परमस्तीतिनेति’ इत्यादयः । अत्र ‘नेति नेति’ नञ्द्वयेन प्रकृते मूर्तामूर्ते निषिध्य शून्यशेषत्वे प्रसक्ते एतस्मादात्मनोऽन्यत् परं कार्यं कारणं वाऽतिरिक्तं नास्ति इति हेतोर्नेतीत्युच्यते न तु शून्यमवशेष्यते इति श्रुत्यैव ब्रह्मणो विश्ववैरूप्यमुक्तं ततश्च यत्प्रभवत्वेन वेदो मान्यस्तं वेदोक्तमार्गाननुष्ठाननावजानतो वेदाध्ययनमपि निष्फलं भवति भगवदाज्ञाभङ्गदोषादिति भावः । श्रूयते च । न तस्य वाच्यपि भागो अस्तीति । देहाद्यात्मबुद्ध्या परमात्मा नास्तीति मत्वा तं त्यजतः वेदोच्चारणमात्रसंभवेऽपि फलांशो नास्तीति श्रुत्यर्थः ॥७॥
तदर्थमुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान्
।
पुण्येन पापं विनिहत्य पश्चात् सञ्जायते ज्ञानविदीपितात्मा ॥८॥
तदर्थमिति । यत् विश्वस्माद्विलक्षणं ब्रह्म प्रोक्तं तदर्थं तत्प्राप्त्यर्थमेतत् प्रसिद्धं तपः कृच्छ्रचान्द्रायणादि ध्यानधारणादि च उप्तं ‘तपसा ब्रह्म विजिज्ञासस्व’ इति श्रुत्या प्रोक्तम् । तथा एषा इज्या यागादिरपि तदर्थमेव । तत्र क्रममाह - ताभ्यामिति । इज्यातपोभ्यां पुण्योत्पत्तिः पुण्येन पापनाशः निष्पापस्तु ज्ञानेन ब्रह्माकारया चेतोवृत्त्या विदीपितात्मा प्रकाशितात्मतत्त्वो भवति । एतेन इज्यातपसोः साक्षान्मोक्षहेतुत्वनिरसनेन ज्ञानकर्मसमुच्चयपक्षो निर्मूलो वेदितव्यः ॥८॥
ज्ञानेन चात्मानमुपैति विद्वानथान्यथा वर्गफलानुकाङ्क्षी
।
अस्मिन् कृतं तत्परिगृह्य सर्वममुत्र भुङ्क्ते पुनरेति मार्गम् ॥९॥
किमात्मतत्त्वप्रकाशेनेत्यत आह - ज्ञानेन चात्मानमुपैतीति । आत्मलाभान्न परं विद्यते । ‘आत्मानं चेद्विजानीयाद्यमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत्’ इत्यादिशास्त्रादात्मप्राप्तिरेव परमपुरुषार्थ इति भावः । विपक्षे दोषमाह - अथेति । अथेति पक्षान्तरे अन्यथा आत्मज्ञानाभावेनानात्मनि पुरुषार्थत्वबुद्ध्या वर्गफलानुकाङ्क्षी भवति । वृङ्क्ते आत्मानं स्वस्वविषयोपहारमुखेनावृणोतीति वर्ग इन्द्रियगणस्तस्य प्रियं फलं विषयसुखं तदाकाङ्क्षी सन् अस्मिन् लोके कृतं यत्पुण्यं पापं वा तत्सर्वं परिगृह्य ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ इति श्रुतेः । तमुत्क्रामन्तमिति श्रुति पदस्यार्थः अमुत्र स्वर्गे नरके वा तत्फलं सुखं दुःखं वा भुङ्के । ततः पुनरिमं मार्गं लोकं कर्मशेषेण उपैति । ‘तस्मिन् यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते।’ ‘तस्माल्लोकात् परेत्यस्मै लोकाय कर्मणे’ इत्यादिश्रुतिभ्यः सम्पतत्यनेनेति सम्पातः कर्म ॥९॥
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते
।
ब्राह्मणानामिमे लोका धात्वे तपसि तिष्ठताम्॥१०॥
नन्वेवं तर्हि ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तप’- इत्यादरेणाध्ययनाध्यापनयोर्मुख्यतपस्त्वश्रवणादस्ति तयोरपि मोक्षहेतुत्वं तत्कथमुच्यते न छन्दांसि वृजिनात्तारयन्तीति मत्वा विद्वदविद्वत्तपसोर्भेदमाह - अस्मिन्निति । अविदुषां तपसः फलमामुष्मिकं विदुषां ब्राह्मणानां तु इमे एव लोकाः फलदाः ज्ञानं दृष्टफलमित्यर्थः । कीदृशानां धात्वे तपसि तिष्ठतां धात्वे धातव्ये । कृत्यार्थे तवैकेन्केन्यत्वन इति धाञ्स्त्वन् अवश्यकर्तव्ये इत्यर्थः । तच्च शमोदमस्तपःशौचमिति प्रागेवोक्तं वृद्धे तपसीति पाठे स्पष्टोऽर्थः ॥१०॥
धृतराष्ट्र उवाच।
कथं समृद्धमसमृद्धं तपो भवति केवलम्
।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥११॥
समृद्धं विदुषः असमृद्धमविदुषश्च एकमेव तपः केवलं शुद्धं सत्कथं द्वैविध्यं प्राप्नोतीति पृच्छति - कथमिति ॥११॥
सनत्सुजात उवाच।
निष्कल्मषं तपस्त्वेतत् केवलं परिचक्षते
।
एतत् समृद्धमप्यृद्धं तपो भवति केवलम् ॥१२॥
उत्तरमाह- निष्कल्मषमिति । कल्मषं कामः श्रद्धादिराहित्यं च तद्रहितं तपः केवलं कैवल्यसाधनत्वात् केवलमित्युच्यते तदेव श्रद्धाद्युपेतमपि सकामं चेत्समृद्धमित्युच्यते । यत्तु केवलं दम्भार्थमेव क्रियते तदृद्धम् । तथा च श्रुतौ - ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति तरप्प्रत्ययश्रुतेर्विद्याहीनस्यापि तपसो वीर्यवत्त्वावगमादृद्धत्वं गम्यते ॥१२॥
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय
।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥१३॥
तप एव प्रशंसति - तप इति । इदं सर्वं भोग्यं तपोमूलं तपः प्राप्यं परममृतं मुक्तिम् ॥१३॥
धृतराष्ट्र उवाच।
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः
।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥१४॥
ननु निष्कल्मषं तपः श्रुतं, तत्र किं तत्किल्बिषं यद्रहितेन तपसा सनातनं गुह्यं ब्रह्मविद्यां जानीयामिति पृच्छति - कल्मषमिति ॥१४॥
सनत्सुजात उवाच।
क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसानि दशत्रि राजन्
।
धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥१५॥
तदेवाह- क्रोधादय इति । क्रोधादिगणो द्वादशकः दशत्रि त्रयोदशेत्यर्थः । तावान् नृशंसवर्गश्च तपसः कल्मषं धर्मादिगणविरुद्धत्वात् तद्रहितधर्माद्युपेतं तु तपो निष्कल्मषं मोक्षहेतुरित्यर्थः । पितॄणां वंशकर्तॄणां मन्वादीनाम् । आतताना इत्यपि पाठः ॥१५॥
क्रोधः कामो लोभमोहौ विधित्सा कृपासूये मानशोकौ स्पृहा च
।
ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥१६॥
क्रोधः- इच्छाप्रतीघातोतत्थ आक्रोश- ताडनादिहेतुर्मनस्तापः १ कामः- स्त्र्यभिलाषः २ लोभो- धनव्ययभीरुत्वम् ३ मोहः- कृत्याकृत्यविवेकराहित्यम् ४ विधित्सा- सत्यप्युत्तरोत्तरलाभे पिपासाख्या अतृप्तिः । घेट् पाने इत्यस्य रूपम् ५ अकृपा- निर्दयत्वम् ६ असूया- परगुणेषु दोषदर्शनम् ७ मान- आत्मनि पूज्यताबुद्धिः ८ शोकः- इष्टार्थनाशे सति मनोवैक्लव्यम् ९ स्पृहा- भोग्यवर्गेष्वादरः १० ईर्ष्या- परोत्कर्षासहिष्णुत्वम् ११ जुगुप्सा- परनिन्दा बीभत्सता वा १२ मनुष्याणां योगिनामयोगिनां चैते दोषाः सर्वेषामपि वर्ज्या इत्यर्थः ॥१६॥
एकैकः पर्युपास्ते ह मनुष्यान् मनुजर्षभ
।
लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥१७॥
एतेषां मध्ये एकैकोऽपि मनुष्यं नाशयितुं समर्थः । किंतु कतिपयसमुदायः सर्वसमुदायो वेत्याह-एकैक इति । अन्तरं छिद्रम् ॥१७॥
विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोषं चपलोऽरक्षणश्च
।
एतान् पापाः षण्नराः पापधर्मान् प्रकुर्वते नोत्रसन्तः सुदुर्गे ॥१८॥
त्रयोदश नृशंसानि हिंस्राण्याह द्वाभ्याम् । विकत्थन इति । विकत्थनः-परगुणाक्षेपेण स्वगुणोत्कर्षाभिधानशीलः १ स्पृहयालुः- अतियत्नपूर्वकं परस्त्र्यादिभोगेच्छावान् २ मनस्वी गर्वाधिक्यात् परावमानशीलः ३ बिभ्रत्कोपं- निमित्तं विनाऽपि सदा कोपपरः ४ चपलः- मित्रभावादिष्वस्थिरः ५ अरक्षणः- शक्तौ सत्यां स्वीकृतस्त्र्यादेः पालनमकुर्वन् ६ एतान् षट् पापधर्मान् पापाः पापिनो नराः कुर्वते । के ते ये सुदुर्गे महासंकटे इह परत्र वा उपस्थिते नोत्रसन्तः त्रासमकुर्वतः। एकमिदं पदं सुप्सुपेति समासः । एतेषडत्यन्तं हिंस्त्रा इत्यर्थः ॥१८॥
संभोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान्
।
वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥१९॥
सम्भोगः स्त्रीसङ्गादिस्तद्विषया संवित् सम्मतिस्तदेव पुरुषार्थ इति या बुद्धिस्तया विषमो दुर्व्यवस्थितः १ अतिमानी- अत्यन्तं दर्पवान् २ पाठान्तरे सम्भोगसंवित् भोगे बुद्धिमान् द्विषं द्वेषमेधमानो वर्धयन् । दत्तानुतापी- दानं कृत्वाऽपि लोभवशात् मम धनं नष्टमिति सन्तापवान् ३ कृपणः- प्राणान्तेऽपि वित्तव्ययमसहमानः ४ बलीयान्- अतिशयेन बलिमान् । पूर्वराजेभ्योऽप्यधिकं प्रजानां सकाशात् बलिं गृह्णन्नित्यर्थः ५ वर्गप्रशंसी- वर्गो वृजिनं पराभिभवस्तत्प्रशंसनशीलः । अन्येषां दुःखेन सुखीत्यर्थः ६ वनितासु परिणीतासु द्वेष्टा ७ एते सप्त नृशंसाः पूर्वे च षट् एवं त्रयोदश ॥१९॥
धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षाऽनसूया
।
यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥२०॥
गुणानाह- धर्म इति । धर्मो-वर्णाश्रमानियतः सन्ध्योपासनादिः १ सत्यं- हिंसावर्जं यथार्थभाषणम् २ दमः- जिह्वोपस्थादिनिग्रहः ३ तपः-कृच्छ्रचान्द्रायणादि ४ अमात्सर्यं- मत्सरः परगुणासहिष्णुत्वं तदभावः ५ ह्रीर्लज्जा ६ तितिक्षा- सत्यपि क्रोधनिमित्तेत तदनुत्पादः ७ अनसूया- परगुणेषु दोषाविष्करणमसूया तदभावः ८ यज्ञो- ज्योतिष्टोमादिः ९ दानं- बहिर्वेदसंविभागः १० धृतिः- अत्यन्तापद्यपि व्रतादेरत्यागः ११ श्रुतमर्थग्रहणसहितं वेदाध्ययनम् १२ ब्राह्मणस्य ब्रह्म प्राप्तुमिच्छोः ॥२०॥
यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्
।
त्रिभिर्द्वाभ्यामेकतो वाऽर्थितो यस्तस्य स्वमस्तीति स वेदितव्यः ॥२१॥
यस्त्विति । सर्वगुणाढ्यो ब्रह्मवित् सत्यकामादिगुणभाक् भवति । ‘यस्तमात्मानमनुविद्य विजानाति स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्’ इति श्रुतेः । एतेषां मध्ये त्रिभिर्द्वाभ्यामेकतो वा अर्थितः अर्थः वित्तं सञ्जातमस्य स तथा स्वं देवं वित्तम् ॥२१॥
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्
।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥२२॥
दमः - जितेन्द्रियत्वं त्यागः-कर्मणामीश्वरेऽर्पणमप्रमादस्तत्त्वानुसन्धानममृतं मुक्तिः सत्यमुखानि सत्यप्रधानान्येव एतानि फलानि भवन्तीत्यर्थः ॥२२॥
दमो ह्यष्टादशगुणः प्रतिकूलं कृताकृते
।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा॥२३॥
अष्टादशदोषत्यागादष्टादशगुणत्वं दमस्याह - दम इति । कृते कर्मणि वैदिके प्रतिकूलमश्रद्धा आलस्यादि च । अकृते उपवासव्रतादौ प्रतिकूलं क्षुधाजिह्वालौल्यादि । इदं द्वयमेको दोषः १ अनृताभ्यसूये प्रसिद्धे ३ कामः- स्त्र्यभिलाषः ४ अर्थो- धनार्जनार्थेऽतियत्नः ५ स्पृहा- धनाद्यभिलाषः ६ ॥२३॥
क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च
।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः॥२४॥
पैशुन्यं- परदोषसूचकत्वम् ११ परितापः- अतिदुःखित्वम् १४ अरतिः- सत्क्रियानभिलाषः १५॥२४॥
अपस्मारश्चातिवादस्तथा संभावनाऽत्मनि
।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥२५॥
अपस्मारः- कर्तव्यविस्मरणम् १६ अतिवादः- पराक्रोशः १७ संभावना- महत्वबुद्धिः १८ ॥२५॥
मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः
।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ॥२६॥
मद इति । येषां विपर्यया दमगुणत्वेन उक्तास्त एव कृताकृतप्रतिकूलादयोऽष्टादश । तथा वक्ष्यमाणस्य षड्विधत्यागस्य च विपर्ययाः षट् । ते च लक्ष्मीप्राप्तौ हर्षः १ अप्रिये जाते व्यथा २ स्वीयेषु याञ्चा ३ पात्रेष्वप्रदानम् ४ सत्यधिकारे इष्टापूर्तयोरकरणम् ५ कामस्यात्यागः प्रमादश्च ६ एते चतुर्विंशतिर्मददोषाः॥२६॥
श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत्
।
तेन दुःखं तरत्येव भिन्नं तस्मिन् जितं कृते ॥२७॥
श्रेयान् प्रशस्ततरः तृतीयो वक्ष्यमाणः कामत्यागः । तस्मिन् कामत्यागे कृते सति भिन्नं भेदः- भावे निष्ठा- द्वैतमिति यावत् स एव दुःखं ‘द्वितीयाद्वै भयं भवति यत्रान्यत्पश्यत्यन्यच्छृणोति तदल्पम् अथ यदल्पं तद्दुःखम्’ इत्यादिश्रुतिभ्यः कामत्यागादेव सर्वदुःखानिवृतिरूपो मोक्षः सिद्धः । तथा च श्रुतिः - ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ इति ॥२७॥
श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति
।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥२८॥
त्यागमेवाह- श्रेयानिति । श्रियं लक्ष्मीं विद्यां च न हृष्यति न दृप्यति १ इष्टं- यागहोमादि । आपूर्तं- तडागारामादि २ ॥२८॥
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः
।
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः॥२९॥
कामत्यागस्य परां काष्ठामाह- अपीति । अवाच्यं निर्वृत्तिकत्वात् तथा चोदाहृतं ‘यदा सर्वे प्रमुच्यन्ते’ इति ॥२९॥
त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः
।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥३०॥
त्यक्तैरिति । द्रव्यैः स्त्र्यादिभिस्त्यक्तैरेव यत् निष्कामत्वं भवति तत्कामपूर्वकमुपभुक्तैर्न भवति । यथोक्तं- ‘न जातु कामः कासानामुपभोगेन शाम्यति’ इति । निष्कामत्वं बहुभिर्लब्धैरपि द्रव्यैर्न भवति नाप्युपयुक्तैः काम्यद्वारा व्ययीकृतेरित्यर्थः ॥३०॥
न च कर्मस्वसिद्धेषु दुःखं तेन च न ग्लपेत्
।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥३१॥
अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति
।
इष्टान् पुत्रांश्च दारांश्च न याचेत कदाचन ॥३२॥
न दुःखं कुर्यादिति शेषः । तेन च दुःखेन न ग्लपेत् ग्लार्नि न प्राप्नुयात् । गुणैः कीर्त्यादिभिः॥३१॥ अप्रिये कीर्तिवित्तनाशादिप्रभवे समुत्पन्नेऽपि यो व्यथां न गच्छति स चतुर्थस्त्याग इत्यर्थः ४ पञ्चमं त्यागमयाञ्चारूपमाह- इष्टानिति ५ ॥३२॥
अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्
।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥३३॥
षष्ठमाह- अर्हत इति । अर्हते योग्याय ६ षड्विधत्यागफलमाह- अप्रमादीति । स च अप्रमादश्च ॥३३॥
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च
।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च॥३४॥
सत्यं- यथार्थं वचनम् १ घ्यानं- मूर्तेरीश्वरस्य आत्मनो वाऽनुसन्धानम् २ समाधानं- संप्रज्ञातासंप्रज्ञातभेदेन द्विविधः समाधिः ३ चोद्यं तर्कः येन समाधिफले सार्वकाम्यादौ दोषमुन्नयन्ति ४ वैराग्यमुपरमः ५ अस्तेयं- परस्वापहरणाभावः ६ ब्रह्मचर्यं- स्त्रीसङ्गराहित्यम् ७ । असंग्रहो- निष्परिग्रहता ८ ॥३४॥
एवं दोषा मदस्योक्तास्तान् दोषान् परिवर्जयेत्
।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः॥३५॥
उक्तमनुवदत्यप्रमादप्रतियोगिनं प्रमादं वक्तुम्- एवमिति ॥३५॥
अष्टौ दोषाः प्रमादस्य तान् दोषान् परिवर्जयेत्
।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत
।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥३६॥
पञ्चभ्य इन्द्रियेभ्यः षष्ठान्मनसश्च स्वस्वविषये रागद्वेषोत्थाः षट् प्रमादाः । अतीते नष्टपुत्रशोकादिजः सप्तमः । अनागते पुत्रकामस्य तदभावे यः क्लेशः सोऽष्टमः प्रमादः । एतेभ्यः प्रमादेभ्यो मुक्त्युपेतो मुक्तिं प्राप्तः सुखी भवेत् ॥३६॥
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः
।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥३७॥
दमत्यागाप्रमादानुक्त्वा तेषां सत्यमुखत्वं प्रागुक्तं विवृणोति- सत्यात्मेति । सत्ये आत्मा चित्तं यस्य स तथा तान् दमत्यागाप्रमादान् ॥३७॥
निवृत्तेनैव दोषेण तपोव्रतमिहाचरेत्
।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥३८॥
दोषनिवृत्यैव तपःसिद्धिर्धात्रा कृतेत्याह- निवृत्तेनैवेति ॥३८॥
दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः
।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥३९॥
प्रश्नव्याख्यानमुपसंहरति - दोषैरिति ॥३९॥
यन्मां पृच्छसि राजेन्द्र संक्षेपात् प्रब्रवीमि ते
।
एतत् पापहरं पुण्यं जन्ममृत्युजरापहम् ॥४०॥
धृतराष्ट्र उवाच।
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः
।
तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथा परे ॥४१॥
एवं विद्यासाधनान्यधिगम्य अध्ययनगृहीताद्वेदादधिगतवेद्यानामनेकत्वं मन्वानः किं तद्वेद्यं श्रेष्ठमिति पृच्छति- आख्यानेति । आख्यानमितिहासपुराणादि पञ्चमं येषु तैर्वेदैः ‘सर्वं खल्विदं ब्रह्म’ ‘ब्रह्मवेदं विश्वं’ ‘पुरुष एवेदं सर्वम्’ इत्यादिभिर्भूयिष्ठं नामादिप्रपञ्चाधिकतमं भूमाख्यं परं ब्रह्म तदेव जनः स्थावरजङ्गमरूपं जगदिति कथ्यते । अन्ये शाखिनः पुनश्चतुर्वेदाः चत्वारि वेदयन्ति ते तथा चत्वारः पुरुषा इति । बाह्यः शरीरपुरुषश्छन्दः ‘पुरुषो वेदपुरुषो महापुरुष इति । छन्दो गायत्र्यादिनियताक्षरपादं तच्च यजुःसाम्नोरप्युपलक्षणं वेदः कर्मचोदनात्मकं ब्राह्मणम् । तथा त्रिवेदाः त्रीन् क्षरमक्षरमुत्तमं चेति पुरुषं वेदयन्ते त्रिवेदाः । ‘क्षरं प्रधानं अमृताक्षरं ह क्षरात्मानावीशते देव एकः’ इति अमृतो जीवः कूटस्थः सोऽक्षरं- सुलोप आर्षः- ईशते ईष्टे । ‘क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इति ॥४१॥
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे
।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥४२॥
तथा द्विवेदाः द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्मपरं च यदिति वाच्यवाचकयोरभेदेन शब्दब्रह्मशब्देनात्र कृत्नो नामरूपात्मकः प्रपञ्च उच्यते । परं च तदतीतमिति द्वयमपि वेद्यत्वेन वदन्ति एकवेदाः ‘एकधैवानुद्रष्टव्यं नेह नानाऽस्ति किश्चन’ इत्यादय एकमेव वेद्यं वेदयन्ति । अनृचश्च ऋच्यते स्तूयते इति ऋक् ईश्वरः स पृथक्त्वेन नास्ति येषां तेऽनृचो ब्रह्माद्वैतवादिनः । एकवेदानां व्युत्थानकाले द्वैतमस्ति समाधौ तु बाधितं तद्भवति । अनृचां तु अवस्थाद्वयेऽपि द्वैताभावस्तुल्य इति भेदः । एतेषां षण्णां मध्ये स कतरः कतमः यमहं वेद जानीयां द्विजं ब्राह्मणं ब्रह्मविदमित्यर्थः । अत्र भूयिष्ठं जन इति प्रथमः स विशेषाद्वैतपक्षः । द्वितीयो निरीश्वरपक्षः। सांख्यानां मीमांसकानां च त्रिवेदास्तु पातञ्जला जीवेशजगतां भेदं वदन्तः । द्विवेदास्त्वौडुलोमाः कार्यात्मना भेदं कारणात्मना अभेदं च सत्यमेव वदन्तः। यथा कटकमुकुटाद्यात्मना भेदोऽपि सत्यः कनकात्मनाऽभेदोऽपि सत्य एवेति । एकवेदानामपि किञ्चिद्बाधयोग्यं सत्वासत्त्वाभ्यामनिर्वचनीयं द्वैतमस्त्येव व्यावहारिकं प्रातिभासिकात् सद्योबाध्यात् रज्जूरगादेर्विलक्षणं यावन्मोक्षबाध्यम् । अनृचां तु दृष्टिसृष्टिवादिनां यथा रज्ज्वामुरगः स्रक् च कल्पिता एवमात्मनि जाग्रत्स्वप्नौ समसत्ताकौ इति भेदः । ‘तत्राध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ इति न्यायेन आद्यं पक्षचतुष्टयं व्यवहारस्य पारमार्थिकत्वपरमध्यारोपदृष्ट्योपन्यस्तम् । अन्त्यः पक्षोऽपवादृष्ट्या व्यवहारापलापेन । एकवेदपक्षस्तु व्यामिश्रदृष्ट्याऽनिर्वचनीयाख्यया । एवमेव दृष्टित्रयमाश्रित्य शास्त्रमपि प्रवृत्तम् आत्मकृतेः परिणामादिति’। अध्यारोपकाले परिणामदृष्टिः सूचिता ब्रहौव कनककुण्डलन्यायेन जगदाकारेण परिणतम् । तथा च श्रुतिः- तदात्मान स्वयमकुरुत सत्यं चानृतं च सत्यमभवत्‘ सत्यं व्यावहारिकं जाग्रद्रज्ज्वादि। अनृतं प्रातिभासिकं स्वप्नरज्जूरगादि । एतदुभयात्मकं सत्यं कालत्रयाबाध्यं ब्रह्मैव प्राप्तमिति श्रुत्यर्थः । तथा आत्मनि चैवं विचित्राश्च हीति स्वप्नकाले आत्मनि जाग्रत्काले मायेन्द्रजालमरीचिकोदकादयो हि प्रसिद्धतराः सृष्टयो भवन्ति विचित्राश्च ताः न च ताः न सन्तीति वक्तुं शक्यम् । अनुभूयमानत्वात्। नापि सन्तीति ज्ञानेन सद्यो बाधात् । एवं ब्रह्मण्यपि विचित्राऽनिर्वचनीया सृष्टिरस्तीति सूत्रार्थः । तथा चास्य जगतोऽनिर्वचनीयत्वं श्रुतिराह - ‘को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः’ इति । तं कोऽपि न वेद न कोऽपि प्रावोचत् इति श्रुत्यर्थः । सेयं व्यामिश्रदृष्टिः। अपवाददृष्टिस्तु आह च तन्मात्रमिति सूचिता । ‘स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत । स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरेऽयमात्मा कृत्स्नः प्रज्ञानघनः’ इति श्रुत्या च दर्शिता । यथा जले प्रास्तः सैन्धवखिल्यः स्वोपादानमुदकं जले लीनमनुस्वयमपि लीयते । अन्यथा करकालये इव जले परिमाणाधिक्यं स्यात् । अतः सः अतरं कारणं बाह्यं घनीभावः तदुभयवर्जितः केवलरसतन्मात्रात्मना जलेऽभिव्यक्तो दृश्यते एवमयं प्रपञ्चः कार्यकारणोभयस्वरूपहीनः समाधौ केवलप्रज्ञानघनोऽभिव्यज्यते इति श्रुत्यर्थः। अनेन दृष्टित्रयेण जनबोधार्थं शास्त्रं प्रवृत्तम् । यथोक्तं सङ्क्षेपशारीरके- ‘आरोपदृष्टिरपवादकदृष्टिरेवं व्यामिश्रदृष्टिरिति दृष्टिविभागमेनम् । सङ्गृह्य सूत्रकृदयं पुरुषं मुमुक्षुं सम्यक्प्रबोधयितुमुत्सहते क्रमेण’ इत्यादिना ‘श्रुतिवचांसि मुनिस्मरणानि च द्वयविशारदगीरपि सर्वशः । त्रयमपेक्ष्य दृशां त्रितयं विना न हि घटामुपयान्ति कदाचन’ इत्यन्तेन ॥४२॥
सनत्सुजात उवाच।
एकस्य वेदस्याज्ञानाद्वेदास्ते बहवः कृताः
।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः॥४३॥
एवमनेकेषु पक्षेषूपस्थापितेषु सिद्धान्तमाह - एकस्येति । ब्रह्मैव एकं वेद्यं तच्च सत्यं कालत्रयेऽप्यबाध्यं तस्य अज्ञानात् बहूनि वेद्यानि उपास्यानि अब्रह्मभूतानि कृतानि कल्पितानि वेदे सत्यप्रतिपत्त्यर्थं तेषामब्रह्मत्वं वेद एवाह - ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इति । तस्मिंश्च सत्ये ब्रह्मणि कश्चिदेव अवस्थितः । ब्रह्मलाभोऽतिदुर्घट इत्यर्थः । श्रुतिरप्यज्ञानकार्यत्वं जगत आह - ‘तुच्छेनाभ्वपिहितं यदासीत् तमसस्तन्महिनाऽजायतैकम्’ इति तुच्छेन रज्जूरगादिवदध्यस्तेन मिथ्याभूतेन तमसा आभु सर्वव्यापकं ब्रह्म अपिहितमाच्छादितं यत् आसीत् तत् एकमेव सत् तमसः अज्ञानस्य । तपक्ष इति पाठे आलोचनस्य सङ्कल्पमात्रस्य महिना माहात्म्येन अजायत प्रपञ्चाकारेण आविर्बभूव । यथा रज्जुरज्ञानावृता सर्पाकारेणाविर्भवति तद्वदिति श्रुत्यर्थः ॥४३॥
एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते
।
दानमध्ययनं यज्ञो लोभादेतत् प्रवर्तते॥४४॥
एवमिति । सत्यं प्रत्यगद्वयानन्दं वेद्यमज्ञात्वा बाह्यसुखलोभात् एतद्दानादिकं कर्तुं प्रवर्तत इत्यर्थः॥४४॥
सत्यात् प्रच्यवमानानां सङ्कल्पश्च तथा भवेत्
।
ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् ॥४५॥
सत्यादिति । तथा भवेत् परमानन्दात् प्रच्युतस्य क्षुद्रानन्दविषयोऽभिलाषो भवेत् ततश्चासौ यज्ञो ज्योतिष्टोमादिः प्रतायेत सन्तन्यते । सत्यस्य वेदवचनस्य ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादेरवधारणात् प्रामाण्यनिश्चयात् । सङ्कल्पो वितथो भवेदिति पाठे सत्यज्ञस्यैव सत्यसङ्कल्पत्वम् अन्यस्य तु सङ्कल्पो वन्ध्य इत्यर्थः । सनञ्पाठे यज्ञोऽपि सत्यस्यानवधारणादापरोक्ष्येण अनिश्चयादेव प्रवर्तते । ज्ञाते तु सत्ये ‘एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’ इति कृतकृत्यत्वमेव स्मर्यते ॥४५॥
मनसाऽन्यस्य भवति वाचान्यस्याथ कर्मणा
।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥४६॥
मनसेति । यज्ञ इत्यनुकृष्यते । अन्यस्य एकस्य यज्ञो मनसा देवताध्यानादिरूपो भवति । वाचा ब्रह्मयज्ञजपादिरूपो यज्ञो भवति । कर्मणा प्रसिद्धो ज्योतिष्टोमादिः एतेषां पूर्वः पूर्वो ज्यायान् । सङ्कल्पसिद्धः सत्यसङ्कल्पः सङ्कल्पानां कल्पनीयपदार्थानां ब्रह्मलोकादीनामधिष्ठाता भवति ब्रह्मवित् । तथा च श्रुतिः- ‘आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिं, वाक्पतिश्चक्षुष्पतिः, श्रोत्रपतिर्विज्ञानपतिः’ इति । स्वराजो भावः स्वाराज्यं ब्रह्मैश्वर्यम् ॥४६॥
अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्
।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्॥४७॥
तस्य सङ्कल्पस्य अनैभृत्येन अदार्ढ्येन आत्माज्ञानाद्वन्ध्यसङ्कल्पत्वे सतीत्यर्थः । दीक्षितव्रतं मुष्टीकरणवाग्यमनादिकं कुर्यात् । एतन्नाम दीक्षित इति तद्दीक्ष व्रतादेशे इत्यनेन धातुना निष्ठाप्रत्ययान्तेन निष्पन्नम् । कर्मजः संस्कार आगन्तुको विनाशी चेत्यर्थः। सतां तु सत्यमेव परं ब्रह्मैव श्रेष्ठम् । अकृतकत्वे विनाशित्वात् ॥४७॥
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः
।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥४८॥
एतदेव स्पष्टयति - ज्ञानमिति । प्रत्यक्षं शोकमोहनिवृत्तिरूपं ज्ञानफलं प्रत्यक्षमित्यर्थः । तपः कायिकं वाचिकं मानसिकं च । तत् परोक्षमामुष्मिकफलप्रदामित्यर्थः । विद्यादित्यर्धेन परोक्षज्ञानस्य व्यावृत्तिरिह उच्यते ॥४८॥
तस्मात् क्षत्रिय मामंस्था जल्पितेनैव वै द्विजम्
।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया॥४९॥
उक्तमेवोपसंहरति- तस्मादिति । जल्पितेनैव केवलाध्ययनेनैव सत्यात् प्रत्यगद्वयानन्दात् । तथा च श्रुतिः- ‘यो वा एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मणः’ इत्यपरोक्षज्ञानिनो ब्राह्मणत्वमुक्त्वाऽर्थादितरस्याब्राह्मणत्वं दर्शयति ॥४९॥
छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः
।
छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम्॥५०॥
नन्वेवमध्ययनयागादेर्वैयर्थ्यं स्यादित्याशङ्क्येष्टापत्तिमाह- छन्दांसीति । एष उपनिषत्प्रसिद्धः अथर्वा महामुनिर्महर्षिसङ्घो यानि पुरा जगौ तान्येव छन्दांसि उपनिषद्रूपाणि नाम निश्चितम् । ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः’ इति श्रुत्या छन्दःशब्दनिर्वचनात् । ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ इति अथर्वणोपनिषदि यज्ञानां पापाद्रक्षितुमसामर्थ्यदर्शनात् ब्रह्मविद्यार्थानां छन्दसां मुख्यं छन्दस्त्वं कर्मार्थानां तु गौणमिति भावः । किञ्च । उत अपि येऽपि अधीतवेदाः सोपनिषत्कं वेदं पाठतोऽर्थतश्च अधीतवन्तस्तेऽपि न छन्दोविदः । यतः वेदवेद्यस्य औपनिषदस्य पुरुषस्य तत्त्वं याथात्म्यं न विदुः न जानन्ति । ‘अधेन्वा चरति माययैष वाचं शुश्रुवामफलामपुष्याम्’ इति । ‘पुष्पं हि फलं वाचः सत्यम्’ इति श्रुतिश्चैतदाह । सत्यं परं ब्रह्म ॥५०॥
छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र
।
छन्दोविदस्तेन च तानधीत्य गता न वेदस्य न वेद्यमार्याः॥५१॥
छन्दांसि नामेति । द्विपदां मनुष्याणां मध्ये वरिष्ठ तत्र सत्ये ब्रह्मणि विषये छन्दांसि वेदाः स्वच्छन्दयोगेन स्वातन्त्र्यसम्बन्धेनैव भवन्ति । कर्मकाण्डार्थज्ञानवत् ब्रह्मकाण्डार्थज्ञानं न मध्येऽनुष्ठानान्तरमपेक्षते । तथाहि । ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ इति श्रुत्या दर्शनसार्वात्म्ययोर्मध्ये तिष्ठन्गायतीत्यादौ तिष्ठति गायत्योर्मध्ये इव कार्यान्तरं वार्यते । तेन च ज्ञातेन सत्येन चकार एवकारार्थे तेनैवेत्यर्थः । छन्दोविदो भवन्ति न कर्ममात्रज्ञानेन । तान् छन्दोज्ञान् अधीत्य प्राप्य आर्याः वेदस्य वेद्यं वेदनीयं ब्रह्म न गता इति न अपि तु गताः प्राप्ता एवेत्यर्थः । एतेन ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इत्यस्याः श्रुतेरर्थो दर्शितः ॥५१॥
न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान् बुध्यते वाऽपि राजन्
।
यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥५२॥
तथाऽपि ब्रह्मणो दुर्ज्ञेयत्वमाह- नेति । वेदानां रहस्यवेदिता ज्ञाता कश्चिन्नास्ति । कश्चित्तु एतान् वेदान् रहस्यप्रतिपादकान् चित्तशुद्ध्यतिशयाद् बुद्ध्यते । यो व्युत्थितः तत्त्वमसिवाक्यार्थानुसन्धाता वा वेदान् वेद स सविकल्पकः निर्विकल्पकं वेद्यं सर्ववृत्तिलये प्रकाशमानं ब्रह्म न वेद किं तु सत्ये सर्ववृत्तिबाधावधिभूते प्रत्यचैतन्ये स्थित एव निर्विकल्पकं सुखं वेद ॥५२॥
न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम्
।
यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम्॥५३॥
इममेवार्थं भङ्ग्यन्तरेणाह- नेति । वेदानां वेद्यानामहङ्कारादीनामचेतनानां मध्ये कश्चिद्वेदिता नास्ति । अतो हेतोः वेद्येन चेतसा वेदं वेदबोध्यमात्मानं न विदुः । नापि वेद्यमनात्मानमपि न विदुः आत्माऽनात्मा च न जडस्य विषयावित्यर्थः । ननु जडया धीवृत्त्या आत्मा ज्ञायत एव ‘दृश्यते त्वग्र्यया बुद्ध्या’ इति श्रुतेरित्याशङ्क्याह - वेदमात्मानं यो बेद स एव वेद्यमनात्मानं सर्वं वेद आत्मप्रभवत्वात्सर्वस्य । यस्तु बर्हिर्मुखः वेद्यमनात्मानं वेद स सत्यं ब्रह्म न वेद । तथा च श्रुती भवतः- ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्’ । ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ इति व्यतृणत् हिंसितवान् ॥५३॥
यो वेद वेदान् स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः
।
तथाऽपि वेदे न विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति॥५४॥
किञ्च यश्चिदात्मा सर्वेषां प्रत्यक्त्वेन प्रसिद्धः वेदान् वेदयन्ति ते वेदाः तान् प्रमाणानि वेद स एव वेद्यं प्रमेयमपि वेद न तु तान् वेद्यं विदुः जडत्वात् । तं च ‘प्राणस्य प्राणमुत चक्षुषश्चक्षु श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः’ इति प्राणादीनां प्रवर्तकत्वेन प्रसिद्धं वेदाः प्रमाणानि वेदविदः प्रमातारश्च न विदुः । ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति तस्य वाङ्मनसातीतत्वश्रुतेः । यद्यप्येवं तथाऽपि वेदं चेदितारमात्मानं वेदेनैव प्रमाणेन ‘अहं ब्रह्मास्मि’ इत्यादिना विदन्ति जानन्ति के ते ये ब्राह्मणाः वेदविदो वेदं पाठतोऽर्थतोऽनुष्ठानतश्च विदन्ति ते वेदविदः । अध्ययनयज्ञादिना संस्कृतचित्ता एव वाक्यादात्मानं लक्षणया जानन्ति न त्वन्ये इत्यर्थः ॥५४॥
धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य
।
संवेदने चैव यथाऽऽमनन्ति तस्मिन् हि सत्ये परमात्मनोऽर्थे॥५५॥
इदमेव दृष्टान्तेन प्रतिपादयति- धामांशेति । धाम तेजः तन्मयाः अंशा यस्य स तेजोमयोऽर्थाच्चन्द्रः तस्य भागः कला प्रतिपद्गता तस्य संवेदने ज्ञापने यथा च यथैव हि प्रसिद्धं महीरुहस्य शाखा उपादीयते । तथाहि तथैव वेदाः परमात्मनः संवेदनेऽर्थे परमपुरुषार्थरूपे सत्ये सर्वथाऽप्यबाध्ये वेदाः उपादीयन्त इतिः आमनन्ति तं त्वौपनिषदं पुरुषं पृच्छामीत्यौपनिषदत्वविशेषणात् वाचामगोचरत्वश्रुतेश्च सोऽयं देवदत्त इत्यादिवाक्यवत् तत्त्वमस्यादिवाक्यमपि लक्षणया स्वार्थं प्रमापयत्येवेत्यर्थः ॥५५॥
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्
।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान्॥५६॥
एवं गुरूपसदनपूर्वकं वाक्यार्थप्रतिपत्त्युपायमुक्त्वा गुरुलक्षणान्याह अभीति । ब्राह्मणं ब्रह्मविदं लक्षणतोऽभिजानामि । लक्षणमेवाह व्याख्यातारमुपक्रमोपसंहारकरूप्यादिषड्विधतात्पर्यलिङ्गानुसारेण वाक्यार्थवर्णनकुशलं, विचक्षणं श्रुतार्थस्य युक्तिभिरनुचिन्तने समर्थं, निदिध्यासनपरिपाकेनापरोक्षसाक्षात्कारबलात् यश्छिन्नविचिकित्सो निःसंशयः सन् परस्यापि सर्वसंशयान् व्याचष्टे विवृणोति । अत्र स्वरूपव्याक्रियैव पराक्रियेति न्यायेन संशयान् दूरीकरोतीत्यर्थः ॥५६॥
नास्य पर्येषणं गच्छेत् प्राचीनं नोत दक्षिणम्
।
नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथञ्चन ॥५७॥
परीष्यतेऽस्मिन्निति पर्येषणमन्वेषणस्थानं प्राचीनं प्राग्दिक्स्थं नापि दक्षिणादिदिक्स्थं नापि अदिशं दिग्विहीनम् अन्तर्हृदये इत्यर्थः ॥५७॥
तस्य पर्येषणं गच्छेत् प्रत्यर्थिषु कथञ्चन
।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम्॥५८॥
एतदेवाह- तस्येति । प्रत्यर्थिषु आत्मत्वेन प्रथमानेष्वनात्मसु पञ्चसु कोशेषु पर्येषणमन्वेषणं गच्छेत्कुर्यादित्यर्थः । कथं च नेत्यव्यक्तमालम्बनं क्लेशसाध्यमिति सूचयति । ‘अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते’ इति स्मृतेः । वेदे इमम् आत्मानम् अविचिन्वन् वेदान्तन्यायानप्यचिन्तयन्नित्यर्थः । तपः तपस्वी आलोचनवान् ध्यायी तं प्रभुं पश्यति । ‘तं पश्यति निष्कलं ध्यायमानः’ इति श्रुतेः ॥५८॥
तूष्णींभूत उपासीत न चेष्टेन्मनसाऽपि च
।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम्॥५९॥
तूष्णींभूत इत्यनेन वागादिबाह्येन्द्रियव्यापारो परम उक्तः । मनसाऽपि न चेष्टेत् न चेष्टेतेत्यनेन मानसव्यापारोपरम उक्तः । अन्तरात्मनि हार्दाकाशे विश्रुतं वेदे प्रख्यातं तद्वाचामगोचरं ब्रह्म उपावर्तस्व उपागच्छ ॥५९॥
मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः
।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते॥६०॥
मौनात् ध्यानमात्रान्न मुनिर्भवति नापि अरण्यवासात् संन्यासमात्रात् किं तर्हि यः स्वलक्षणं स्वस्य प्रत्यगात्मनो लक्षणं जगज्जन्मादिहेतुत्वं सच्चिदानन्दात्मकत्वं च यो वेद जानाति स श्रेष्ठः । संन्यासिभ्यो योगिभ्यश्च ज्ञानी श्रेष्ठ इत्यर्थः ॥६०॥
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते
।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा॥६१॥
सर्वार्थानां व्याकरणात् प्रकटीकरणात् सर्वज्ञत्वादयं ज्ञानी वैयाकरण इत्युच्यते । तच्च व्याकरणं केचिद्योगजधर्मप्रत्यासत्त्या वदन्ति तन्निराचष्टे - मूलत इति । आत्मज्ञानाद्धि सर्वविज्ञानं श्रूयते न प्रधानज्ञानात् अन्यतो वा मूलत इति- ल्यब्लोपे पञ्चमी- मूलं कारणं ब्रह्म प्राप्येत्यर्थः । तत्र व्याकर्ता परमात्मैव ‘तन्नामरूपाभ्यामेव व्याक्रियत’ ‘नामरूपे व्याकरवाणि’ इति श्रुतिभ्यामित्याह- व्याकरोतीति । श्रौतव्युत्पत्तिप्रदर्शनमेतत् ॥६१॥
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः
।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान् सर्वविद्भवेत् ॥६२॥
सार्वज्ञ्यमपि ब्रह्मविदामनौपचारिकमित्याह - प्रत्यक्षेति । सत्ये तिष्ठन् न तु वृत्त्यन्तरे देहाद्याकारे । ब्राह्मणः ब्रह्मवित् तद्विद्वान् ब्रह्मविद्वानिति ब्राह्मणपदव्युत्पत्तिप्रदर्शनम् ॥६२॥
धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति
।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥६३॥
अध्यायार्थमुपसंहरति - धर्मादिष्विति । धर्मश्च सत्यं च दमस्तपश्चेत्यादिषु द्वादशसु स्थितः । तथा सत्यादिरूपे अष्टविधे अप्रमादे च स्थितः एवं साधनवान् वेदेषु पूर्वोक्तेषु आरोपदृष्टिव्यामिश्रदृष्ट्यपवादृष्टिरूपेषु आनुपूर्व्येण सोपानारोहणन्यायेन परमे पदे स्थितोऽहमेतत्स्वानुभवसिद्धं बुद्ध्या स्वतः स्नेहवत्या ते तुभ्यं ब्रवीमि । सोपानक्रमस्तु नृसिंहतापनीये श्रूयते- ‘ओतानुज्ञात्त्रनुज्ञाऽविकल्पैः’ इति । अस्यार्थः - ‘ओतत्वं कारणव्याप्तिः कार्ये यद्वन्मृदो घटे। सर्वं ब्रह्मेति तन्निष्ठा जानते परिणामतः १ कार्यस्यासमसत्तत्त्वं यत्कारणे समुदीरितम् । तदनुज्ञातृशब्दार्थो मरौ वारिविवर्तनम् २ एतन्निष्ठास्ततो भूत्वा जगन्मिथ्येति जानते । अनुज्ञायां जगत्तुच्छं शशशृङ्गादिवन्मतम् ३ एवं सोपानरीत्यैव भूमित्रितयलङ्घनात् । अविकल्पं परं यत्तदहं ब्रह्मास्मि निर्भयम्’ ४ इति ॥६३॥
इति श्रीमहाभारते उद्योगपर्वणि सनत्सुजातपर्वणि सनत्सुजातवाक्ये त्रिचत्वारिंशोऽध्यायः॥४३॥
धृतराष्ट्र उवाच।
सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्
।
परां हि कामेषु सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार ॥१॥
एवमात्मज्ञानमार्गं श्रुत्वा तस्यान्तरङ्गसाधनं योगं श्रोतुं पृच्छति- सनत्सुजातेति । परामुक्तादपि अत्युत्कृष्टां ब्राह्मीं ब्रह्मप्रापिकां वाचम् उपनिषदं वदसे जानीषे । भासनोपसंभाषाज्ञानेति तङ् । विश्वं रूप्यते प्रकाशतेऽस्याम् । यां ज्ञातवतोऽन्यत् ज्ञातव्यं नावशिष्यत इत्यर्थः । कामेन काम्यमानेन विषयेण परां दूरीभूतां विषयवार्ताहीनामित्यर्थः । अत एव सुदुर्लभां कथां कथनीयां प्रब्रूहि । हे कुमार इदं मे मम वाक्यं त्वां प्रति प्रार्थनारूपं वचनम् अवधेहीति शेषः ॥१॥
सनत्सुजात उवाच।
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव
।
बुद्धौ विलीने मनसि प्रचिन्त्या विद्या हि सा ब्रह्मचर्येण लभ्या॥२॥
ब्रह्मविद्यायाः दुर्लभत्वं दर्शयन् सनत्सुजात उवाच - नैतदिति । हृष्यसि अहं ब्रह्मविद्याधिकार्यस्मीति दृप्यसि । पाठान्तरे अभिषङ्गेण निर्बन्धेन । विद्यालक्षणमाह- बुद्धाविति । सर्वेषामिन्द्रियाणां निरोधेन मनोमात्रमनुपरतं सङ्कल्पाद्यात्मकं तिष्ठति । तस्मिन्नपि अहं ब्रह्मास्मीति निश्चयस्वभावायां बुद्धौ विलीने सति । प्रचिन्त्या प्रगतं चिन्त्यं यस्यां सा निरुद्धसर्ववृत्तिका काचिदवस्था विद्येत्युच्यते । सा च ब्रह्मचर्येण गुरुकुलवासेन लभ्या ॥२॥
धृतराष्ट्र उवाच।
अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्
।
अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत॥३॥
अत्यन्ते अन्तस्त्रिविधपरिच्छेदः तमतिक्रान्तम् अत्यन्तं ब्रह्म तद्विषयां विद्यां सनातनीं नित्यसिद्धां प्रत्यगात्मनो नित्या परोक्षत्वात् । ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इति श्रुतेः । सिद्धाम् अभिव्यज्यमानाम् । तत्र हेतुः- अनारभ्यां कर्मवदारंभायोग्याम् । या च कार्यकाले इह आत्मन्येव वसति नित्यसिद्धत्वात् । एवं सति ब्राह्मण्यं ब्राह्मणस्य योग्यम् अमृतत्वं कथं लभेता न हि लब्धलाभार्थं यत्नोऽपेक्ष्यते इति ब्रह्मचर्याद्यनुष्ठानाक्षेपः ॥३॥
सनत्सुजात उवाच।
अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्
।
यां प्राप्यैव मर्त्यलोके त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या॥४॥
अत्रोत्तरमाह- अव्यक्तेति । बुद्ध्याख्योपाधिसम्बन्धजनितकालुष्यादविविक्ततया न व्यक्तमव्यक्तं ब्रह्म तस्य विद्याम् । अयं भावः- यद्यपि ब्रह्म नित्यापरोक्षम् आत्मत्वात् तथाऽपि अशनायाद्यतीतस्य तस्य विविक्तस्य परोक्षत्वात्तदापरोक्ष्याय यत्नो युक्त इति ॥४॥
धृतराष्ट्र उवाच।
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्जसा
।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन् ब्रवीमि ते॥५॥
अञ्जसा आर्जवेन ॥५॥
सनत्सुजात उवाच।
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति
।
इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥६॥
आचार्येति । योनिः स्थानम् । ‘योनिष्ट इन्द्रनिषदे अकारि । स्वे योनौ निषदतं सरूपा’ इत्यादौ दर्शनात् । गर्भे भूत्वा तस्य निष्कपटसेवया अन्तरङ्गत्वं प्राप्येत्यर्थः । शास्त्रकाराः शास्त्रकर्तृत्वं ब्रह्मण्येव श्रुतं ‘महतो भूतस्य निःश्वसितमेतदृग्वेदः’ इत्यादिना । गुरोरनुग्रहादिहैव ब्रह्मभावं प्राप्नुवन्तीत्यर्थः । परममपुनरावृत्तिं योगं ब्रह्मणा सह ऐक्यं यान्ति ॥६॥
अस्मिँल्लोके वै जयन्तीह कामान् ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः
।
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः॥७॥
अस्मिन्निति । ये जितकामाः ब्राह्मीं स्थितिं प्राप्तुं ये च द्वन्द्वसहाः ते देहादात्मानं निर्हरन्ति पृथक्कुर्वन्ति सत्वसंस्थाः सत्वगुणभाजः । श्रुतिश्च- ‘तं स्वाच्छरारीत् प्रवृहेन्मुञ्जादिव इषीकात् धैर्येण’ इति । प्रवृहेत् पृथक्कुर्यात् ॥७॥
शारीरमेतौ कुरुतः पिता माता च भारत
।
आचार्यशास्ता या जातिः सा पुण्या साजराऽमरा॥८॥
आचार्यः शास्ता उपदेष्टा यस्यां सा जातिर्जन्म । यथा ब्राह्मणस्य सावित्रीप्राप्त्या सावित्रं द्वितीयं जन्म, एवम् आचार्यात् परब्रह्मविद्याप्राप्त्याऽपि तस्य जन्मान्तरं भवति तच्च मोक्षहेतुत्वात् पुण्यत्वादिगुणसंयुक्तम् ॥८॥
यः प्रावृणोत्यवितथेन वर्णानृतं कुर्वन्नमृतं संप्रयच्छन्
।
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत् कृतमस्य जानन् ॥९॥
आचार्यमाहात्म्यप्रख्यापकं मन्त्रं पठति - यः प्रावृणोतीति । यः आचार्यः वर्णान् ब्राह्मणादीन् अवितथेन वितथमनृतमनात्मा जडं तदन्येन सत्येन चिदात्मना प्रकर्षेण आवृणोति सबाह्याभ्यन्तरं वासयति । द्वैतोत्थभयनिवारणेन पालयतीत्यर्थः । ऋतं ब्रह्म कुर्वन् वाचा आविष्कुर्वन् । तस्य फलमाह- अमृतं संप्रयच्छन्निति । अमृतं मोक्षं, कृतं तत्कृतमुपकारम् ॥९॥
गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः
।
मानं न कुर्यान्नादधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः ॥१०॥
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः
।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते॥११॥
शुचिः स्नानादिना भावशुद्ध्या च अप्रमत्तः गुरुशुश्रूषायां सावधानः मानं न कुर्यात् । तुच्छमपि कर्यं शिशूनां शौचादिकं तदपि कर्तव्यमेवेत्यर्थः । अत्यन्तं श्रमेऽपि रोषं नादधीत न विदध्यात् ॥१०॥ शिष्यवृत्तिः सायंप्रातर्भिक्षणेन जीवनं तेनैव क्रमेण न तु गुर्वन्नोपजीवनेनेत्यर्थः ॥११॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि
।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥१२॥
समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथाऽऽचरेत्
।
तत्पुत्रे च तथा कुर्वन् द्वितीयः पाद उच्यते॥१३॥
आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन
।
यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः॥१४॥
प्राप्तविद्यो विद्यासुखेन हृष्यन् आचार्यं यत् अत्यन्तं मानयति स ब्रह्मचर्यस्य तृतीयः पाद इत्याह- आचार्येणेति । आत्मकृतं स्वस्मै उपकृतं विद्यादानेन तस्य च अर्थं प्रयोजनं दुःखनिवृत्तिमानन्दावाप्तिं च ज्ञात्वाऽनुभूय । अनेनाचार्येण भावितो वर्धितोऽस्मीति जानन् यन्मन्यते ॥१४॥
नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि
।
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥१५॥
अनपाकृत्य विद्यायाः निष्क्रयार्थमृणमर्थदानेन अपरिहृत्य प्रवासं गुरुगृहादन्यत्राश्रमान्तरे स्थितिं न कुर्वीत । एतत् गुरवे अर्थप्रदानमहं करोमीति नैव मन्येत मनसा । न च भाषयेत - स्वार्थे णिच्- वदेत वाचा ॥१५॥
कालेन पादं लभते तथाऽर्थं ततश्च पादं गुरुयोगतश्च
।
उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च ततोऽभियाति॥१६॥
चतुष्पाद्ब्रह्मचर्येण लभ्यां चतुष्पदीं विद्यामाह- कालेनेति । कालेन बुद्धिपरिपाकेन । उत्सायोगेन बुद्धिवैभवेन शास्त्रेण सहाध्यायिभिर्विचारेण । क्रमस्तु न विवक्षितः । उक्तं च - ‘आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । कालेन पादमादत्ते पादं सब्रह्मचारिभिः’ इति ॥१६॥
धर्मादयो द्वादश यस्य रूपमन्यानि चाङ्गानि तथा बलं च
।
आचार्ययोगे फलतीति चाहुर्ब्रह्मार्थयोगेन च ब्रह्मचर्यम्॥१७॥
धर्मादय इति । यस्य ब्रह्मचर्यस्य रूपं स्वरूपभूता इत्यर्थः । अन्यानि चाङ्गानि आसनप्राणजयादीनि । बलं योगे नित्योद्युक्तता । ब्रह्मार्थो वेदार्थः कर्मब्रह्मणी तयोर्योगेन अधिगमेन ब्रह्मचर्यं फलतीत्यर्थः॥१७॥
एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनु प्रयच्छेत्
।
सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥१८॥
एवमिति । अहं करोमीत्यभिमानं विना तत्प्रकाशकं वचनं च विना गुर्वर्थार्थं प्रवृत्तः सः आचर्यः वृत्तिं जीविकाम् एति प्राप्नोति । वृत्तिर्वर्तनं शिष्यस्येति शेषः ॥१८॥
एवं वसन् सर्वतो वर्धतीह बहून् पुत्रान् लभते च प्रतिष्ठाम्
।
वर्षन्ति चास्मै प्रदिशो दिशश्च वसन्त्यस्मिन् ब्रह्मचर्ये जनाश्च ॥१९॥
वसन् ब्रह्मचर्ये इति शेषः । सर्वतः सर्वैः प्रकारैः वर्धति वर्धते । वर्षन्ति धनैरिति शेषः ॥१९॥
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्
।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥२०॥
गन्धर्वाणामनेनैव रूपमप्सरसामभूत्
।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥२१॥
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव
।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे॥२२॥
आकाङ्क्ष्येति । रसभेदः पारदगुटिकाविशेषश्चिन्तामणिसंज्ञस्तं चिन्तितवस्तुप्रदं अर्थयन्ते तेषां भेदार्थिनां यथा आकाङ्क्ष्यस्य लिप्सितस्यार्थस्य संयोगः प्राप्तिस्ततो यादृक् भावो भवति एवमेव एते देवादयः समाज्ञाय ब्रह्मचर्यमुपेत्य तादृग्भावं सत्यसङ्कल्पत्वाच्चिन्तितवस्तुप्रदत्वं गताः ॥२२॥
य आश्रयेत् पावयेच्चापि राजन् सर्वं शरीरं तपसा तप्यमानः
।
एतेन वै बाल्यमत्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले ॥२३॥
य इति । सर्वं चतुष्पाद्ब्रह्मचर्यं य आश्रयेत् शरीरं च पावयेत् । बाल्यं रागद्वेषादिराहित्यं वेदान्तार्थानां युक्तिपूर्वकमनुचिन्तनेन तत्त्वनिश्चयं वा । अन्तकाले इत्यनेन यावज्जीवमुक्तप्रकारे बाल्ये तिष्ठेदिति दर्शितम् यथोक्तम्- ‘शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः’ इति ॥२३॥
अन्तवन्तः क्षत्रिय ते जयन्ति लोकान् जनाः कर्मणा निर्मलेन
।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाय विद्यते ॥२४॥
अन्तेति । ते अविद्वांसः अन्तवतः अनित्याঁल्लोकान् कर्मणा जयन्ति । विद्वांस्तु ब्रह्मैव सार्वात्म्यात् सर्वं तेन ज्ञातेन ब्रह्मणा अभ्येति अतस्तस्य कर्मप्राप्यं किञ्चित्फलं नावतिष्ठते इत्यर्थः । अतः ज्ञानादन्यः पन्थाः अयनाय मोक्षाय न विद्यते । ‘ज्ञानादेव तु कैवल्यम्’ इत्यवधारणात् ॥२४॥
धृतराष्ट्र उवाच।
आभाति शुक्लमिव लोहितमिवाथो कृष्णमथाञ्जनं काद्रवं वा
।
सद्ब्रह्मणः पश्यति योऽत्र विद्वान् कथं रूपं तदमृतमक्षरं पदम् ॥२५॥
नान्यः पन्था अयनाय विद्यत इति श्रुत्वा ‘तूष्णींभूत उपासीत न चेष्टेन्मनसाऽपि च । उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम्’ इति प्रागुक्तप्रकारेण आत्मानमनुसन्दधानस्तमनवाप्य नानावर्णान्नाडीमार्गान् अन्तर्हृदये पश्यन् पृच्छति- आभातीति । सद्ब्रह्मणो रूपं यो विद्वानत्र हृदये पश्यति स शुक्लादिरूपमिव अनवस्थितरूपं ब्रह्म पश्यति । अतः कथंरूपं कीदृक्रूपं तदक्षरं व्यापकम् अमृतमविनाशि पदं पदनीयं तद्ब्रूहीति शेषः । काद्रवं कुत्सितः परपीडकः द्रवो गतिर्यस्य स काद्रवो धूमः तद्वर्णं काद्रवं कद्रुपिङ्गलं तद्वर्णम् । श्रूयन्ते च ब्रह्ममार्गे रूपाणि - ‘तस्मिन् शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत्तैजसश्च’ इति ॥२५॥
सनत्सुजात उवाच।
आभाति शुक्लमिव लोहितमिवाथो कृष्णमायसमर्कवर्णम्
।
न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥२६॥
उत्तरमाह- आभातीति । ब्रह्ममार्गे यद्यपि शुक्लादिरूपाणि भान्ति तथाऽपि यत् ब्रह्मणो रूपं तत् पृथिव्यादिषु नास्ति । ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ इति तत्र शब्दादीनां निषेधात् । तेषां शब्दादिमत्त्वात् रूपान्तराणि तु ब्रह्मप्राप्तिचिह्नानि न तु ब्रह्मरूपाणि । तथा च श्रुतिः- ‘नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् । एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे’ इति । समुद्रे संसारसागरे एनं परमात्मानं सलिलं सलिलोपलक्षितः पञ्चभूतात्मको देहः न बिभर्ति । जीवानामिव ब्रह्मण उपाधिजं दुःखं नास्तीत्यर्थः । यद्वा । सामुद्रे जले एतद्रूपं नास्तीत्यर्थः ॥२६॥
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य
।
न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥२७॥
न तारकास्विति । रूपादिराहित्यस्यैव प्रपञ्चः ॥२७॥
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु
।
रथन्तरे बार्हद्रथे वाऽपि राजन् महाव्रतेनैव दृश्येत् ध्रुवं तत् ॥२८॥
नामरूपात्मके प्रपञ्चे सति तद्रहितत्वं ब्रह्मणो वक्तुं रूपप्रपञ्चादन्यत्वमुक्त्वा नामप्रपञ्चादप्यन्यत्वमाह- नैवर्क्षु तदित्यादिना । तदित्यनेन अर्थात् ब्रह्मणो नाम निर्दिश्यते । विमलेषु वैश्वानरसामादिषु । रथन्तरबार्हद्रथे च पृष्ठ्यसामनी । महाव्रते यज्ञविशेषेऽपि नैव तद्दृश्येत् पश्येत् । कर्मभिरपि तद्दर्शनं न प्राप्यत इत्यर्थः । ‘नास्त्यकृतः कृतेन’ इति श्रुतेः । अकृतः मोक्षः कृतेन कर्मणा नास्तीति श्रुत्यर्थः । यतः तत् ध्रुवं नित्यम् ॥२८॥
अपारणीयं तमसः परस्तात् तदन्तकोऽप्येति विनाशकाले
।
अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥२९॥
अपारणीयमनतिक्रमणीयमहेयत्वात् । तमसः अज्ञानरूपादुपाधेः परस्तात् पराचीनम् । अन्तकः कालः तत् ब्रह्म अप्येति गच्छति । प्रलयान्ते कालोऽपि तत्र लीयत इत्यर्थः । अणीय इति दुर्लक्ष्यम् । क्षुरधारया सममित्यत्यन्तावहितेन ग्राह्यम् । महच्च पर्वतेभ्य इति उपलक्षणं सर्वस्य । सर्वस्मादपि महदित्यर्थः ॥२९॥
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः
।
भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र हि ॥३०॥
प्रतिष्ठा अधिष्ठानममृतं निर्विकारम् । विकारो हि विकारान्तरमापद्यमानो मृत उच्यते । लोक्यन्त इति लोकाः दृश्यमात्रम् । ब्रह्म बृहत् यशो रमणीयमपि तदेव, ‘तस्य नाम महद्यशः’ इति हि श्रुतेः । तस्मादुपादानात् कनकात् कुण्डलादीनीव भूतानि जातानि । यतः तत्रैव प्रलयं मृदि घट इव यान्ति । एतेन ब्रह्मणो जगत्कारणत्वमुक्तम् । तथा च श्रुतिः - ’यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति इति तद्विजिज्ञासस्व तद्ब्रह्मेति’ ॥३०॥
अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति
।
यस्मिन् जगत् सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥३१॥
अनामयं निर्द्वैतम् उद्यतं जगदाकारेण उद्गतं महद्यशः परं व्यापकमाकाशादिभ्योऽपि महदित्यर्थः । वाच इति षष्ठी तृतीयार्थे । कवयः विकारं वाचैवास्तीति वदन्ति न स्वरूपेणास्तीत्यर्थः । तथा च श्रुतिः- ‘वाचारम्भणं विकारो नामधेयम्’ इति वागालम्बनत्वं विकारस्याह । यस्मिन्निदं जगत् प्रतिष्ठितं रज्ज्वामुरगवल्लीनं तद्ये विदुस्ते अमृताः मुक्ताः भवन्ति ॥३१॥
इति श्रीमहाभारते उद्योगपर्वणि सनत्सुजातपर्वणि सनत्सुजातवाक्ये चतुश्चत्वारिंशोऽध्यायः॥४४॥
सनत्सुजात उवाच।
शोकः क्रोधश्च लोभश्च कामो मानः परासुता
।
ईर्ष्या मोहो विधित्सा चाकृपाऽसूया जुगुप्सुता ॥१॥
समाप्ता ज्ञानप्रधाना योगोपसर्जना ब्रह्मविद्या । इदानीं योगप्रधानां ज्ञानोपसर्जनां तां वक्तुमध्यायद्वयमारभ्यते । यत्र पूर्वं चित्तवृत्तिनिरोधेन त्वंपदार्थं ज्ञात्वा पश्चाद्वेदान्तश्रवणादिना तस्य ब्रह्मत्वं निश्चीयते सा आद्या । यत्र तु श्रवणादिना पूर्वं पारोक्ष्येण प्रतीचो ब्रह्मभावं निश्चित्य पश्चान्निदिध्यासनेन स अपरोक्षीक्रियते सा द्वितीया । क्रमद्वयेऽपि फलैक्यात् साधनजातमप्येकरूपमेवेति दर्शयितुं प्रागुक्तानेव हेयान् दोषान् उपादेयान् गुणांश्च दर्शयति- शोकः क्रोधश्चेत्यादिना । तत्र क्रोधादयः प्राग्व्याख्याता एव तथापि क्वचित् विशेषो दृश्यते स एव व्याख्यायते । लोभः- स्पृहा । मोहः- प्रज्ञाया अभावः । अत्रापि लोभ इति पाठेऽपि स एवार्थः । लुभ विमोहन इति धात्वर्थानुगमात् । परासुता निद्रापरत्वम् । कृपाऽत्र स्नेहः ॥१॥
द्वादशैते महादोषा मनुष्यप्राणनाशनाः
।
एकैकमेते राजेन्द्र मनुष्यान् पर्युपासते
।
यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥२॥
पापं पापफलं कर्म व्यवस्यति आरभते । मूढसंज्ञः मूढबुद्धिः ॥२॥
स्पृहयालुरुग्रः पुरुषो वा वदान्यः क्रोधं बिभ्रन् मनसा वै विकत्थी
।
नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते ॥३॥
उग्रः निर्दयः । परुषः रूक्षवाक् । वदान्यो बहुभाषी ।न सभाजयन्ते परं न मानयन्ति ॥३॥
संभोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च
।
बहुप्रशंकसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः ॥४॥
बहुप्रशंसी - आत्मस्तुतिपरः ॥४॥
धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षाऽनसूया
।
दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य ॥५॥
महाव्रता महाव्रतानि । सुपां सुलुगिति सुपो डादेशश्छान्दसः ॥५॥
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्
।
त्रिभिर्द्वाभ्यामेकतो वाऽर्थितो यो नास्य स्वमस्तीति च वेदितव्यम् ॥६॥
नास्य स्वं स्वीयं किमपि नास्ति धर्मादिष्वेकैकस्मिन्नपि पक्षपाते सति तदर्थं सर्वं त्यजतीत्यर्थः ॥६॥
दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम्
।
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥७॥
ब्रह्मैव मुख्यं प्राप्यं येषां तेषाम् ॥७॥
सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते
।
नरकप्रतिष्ठास्ते वै स्युर्य एवं कुरुते जनाः ॥८॥
परीवादः परदोषकीर्तनं सत् यथार्थभूतम् । असत् आरोपितम् ॥८॥
मदोऽष्टादशदोषः स स्यात् पुरा योऽप्रकीर्तितः
।
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषा वचः ॥९॥
अप्रकीर्तित इति । दमविरोधिन एव प्रातिकूल्यादयो मददोषत्वेन सूचिता अपि शृङ्गग्राहिकया प्रकर्षेण विधिमुखेन न प्रोक्ता इत्यर्थः । लोकद्वेष्यं- पारदार्यादि । प्रातिकूल्यं- धर्मादौ विघ्नाचरणमभ्यसूया- गुणिषु दोषारोपः ॥९॥
कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम्
।
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥१०॥
कामः- स्त्र्यभिलाषः पारतन्त्र्यं- मद्यादिवशत्वम् । पैशुनं-राजद्वारादौ परदोषसूचनम् अर्थहानिः- नटनर्तकवेश्यादिषु दण्डेन वा वित्तनाशः । विवादो- वैरम् ॥१०॥
ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता
।
तस्मात् प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥११॥
मोदो- हर्षः दर्पहेतुः । ‘हृष्टो दृष्यति’ इत्यापस्तम्बोक्तेः । अतिवादो- निर्मर्यादं वचनम् । संज्ञानाशः कार्याकार्यविवेकराहित्यम् । अभ्यसूयिता- नैरन्तर्येण परद्रोहशीलता । एतत् मदवत्त्वं विगर्हितं निन्दितं सद्भिः । सदा हीत्यापत्कालेऽपि नाश्रयणीयमिति सूचितम् ॥११॥
सौहृदे वै षड्गुणा वेदितव्याः प्रिये हृष्यन्यप्रिये च व्यथन्ते
।
स्यादात्मनः सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात्
।
इष्टान् पुत्रान् विभवान् स्वांश्च दारानभ्यर्थितश्चार्हति शुद्धभावः ॥१२॥
सुहृदां प्रिये सति हर्षः, अप्रिये सति व्यथेति द्वौ सौहृदगुणौ । तृतीयमाह- स्यादिति । सुहितमिति सुतरां हितम् इष्टं पुष्टिकरम् । देयं दातारम् । भव्यगेयेतिवत्कर्तरि कृत्यः । यो दातारमयाच्यमपि पुत्रादिकं मुख्यं कर्मभूतं याचते स अभ्यर्थितः प्रार्थितो दाता तस्मै इष्टादीन् अर्हति । दातुमिति शेषः । सार्धश्लोको वाक्यम् ॥१२॥
त्यक्तद्रव्यः संवसेन्नेह कामाद्भुङ्क्ते कर्म स्वाशिषं बाधते च ॥१३॥
चतुर्थमाह - त्यक्तेति । यस्मै सर्वस्वं दत्तं तस्य गृहे कामात् मयाऽयमुपकृत इति बुद्धितः न संवसेत् । तेन कदाचिदनादृतः सन् सौहार्दभङ्गं कुर्यादिति भावः । पञ्चममाह- भुङ्क्ते कर्मेति । स्वकर्मार्जितमेव धनं भुङ्क्ते न तु मित्राद्यर्जितमन्यथा कालेन हेलनां प्राप्य सौहृदभङ्गो मा भूदिति । षष्ठमाह- स्वाशिषं बाधते च । स्वस्य श्रेयोऽपि मित्रहितार्थं नाशयतीत्यर्थः । पाठान्तरे स्वासितं स्वस्थानं राज्यादिकमास्तेऽस्मिन्निति व्युत्पत्त्या ज्ञेयम् । स्वाशिवमिति पाठे स्वस्य आसमन्तात् शिवं श्रेयस्करमित्यर्थः ॥१३॥
द्रव्यवान् गुणवानेवं त्यागी भवति सात्विकः
।
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥१४॥
द्रव्यवान् गृहस्थः एवमुक्तरीत्या गुणवान् त्यागी दाता सात्विकः सत्वप्रधानश्च यो भवति तादृशः पुरुषः पञ्चभ्यः शब्दादिभ्यः पञ्चभूतानि श्रोत्राद्याकारेण परिणतानि इन्द्रियाणि निवर्तयति ॥१४॥
एतत्समृद्धमप्यूर्ध्वं तपो भवति केवलम्
।
सत्वात् प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥१५॥
एतत् स्वविषयेभ्य इन्द्रियाणां निवर्तनं समृद्धं पुष्कलमपि केवलं तप एव ऊर्ध्वमूर्ध्वगतिप्रदं भवति न ज्ञानवदिहैव कृतकृत्यतामापादयतीत्यर्थः । केषामित्यत आह- सत्वादिति । ये सत्वात् धैर्यात् च्यवन्ते तीव्रवैराग्याभावात् तेषां च सङ्कल्पेन ब्राह्मलौकिकान् दिव्यान् भोगान् भोक्ष्ये इत्येवं रूपेण समाहितं संभृतं तपो भवति तेषामेवोर्ध्वगतिर्भवतीत्यर्थः ॥१५॥
यतो यज्ञः प्रवर्धन्ते सत्यस्यैवावरोधनात्
।
मनसाऽन्यस्य भवति वाच्यऽन्यस्याथ कर्मणा॥१६॥
यतः सङ्कल्पात् यज्ञाः प्रवर्धन्ते । तस्यैव सत्यस्य सङ्कल्पस्यावधारणात् । ‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ इति श्रुतेर्योगी सत्यसङ्कल्पो भवति । अन्यस्य एकस्य यज्ञः मनसैव भवति सत्यसङ्कल्पत्वात् । तथा ह्युपाख्यायते - त्रितो नाम मुनिर्भ्रात्रा कूपे पातितः सन् तत्रैव मनसा कृत्स्नं यज्ञं चकारेति । ‘त्रितः कूपेऽवहितो देवान् हवत ऊतये’ इति मन्त्रवर्णाच्चैतद्गम्यते । अवहितो ध्यायन् हवते आह्वयति ऊतये यज्ञसन्तत्यै । अन्यस्य मध्यमस्य वाचैव ब्रह्मयज्ञजपादिना यज्ञो भवति । अन्यस्य प्राकृतस्य कर्मणा आज्यपशुपुरोडाशीयादिप्रधानया क्रियया ॥१६॥
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति
।
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥१७॥
सङ्कल्पेति । सगुणब्रह्मवेदनात् सत्यसङ्कल्पं पुरुषम् असङ्कल्पश्चिदात्माऽधितिष्ठति भृत्यमिव राजा । ननु अत एव चानन्याधिपतिरिति विदुषः सत्यसङ्कल्पत्वादेव अनन्याधिपतित्वं कथं सूत्रितम् । ईश्वरान्तराभिप्रायेणेति गृहाण । तथा च श्रुतिः- ‘तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति’ इति । देवाश्च न देवा अपि ह प्रसिद्धं तस्य ब्रह्मविदः अभूत्यै अनैश्वर्याय न ईशते न समर्था भवन्ति । तत्र हेतुः आत्मा हीति इति श्रुत्यर्थः । किञ्च अन्यदपि मे मत्तः श्रृणु । तदेवाह- ब्राह्मणस्य निर्गुणब्रह्मविदः सङ्कल्पविशेषेण असङ्कल्पोऽधितिष्ठति । सगुणोपासकापेक्षया निर्गुणविदि सत्यसङ्कल्पत्वादिकमतिशयेनाविर्भवतीत्यर्थः ॥१७॥
अध्यापयेन्महदेतद्यशस्यं वाचो विकराः कवयो वदन्ति
।
अस्मिन् योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति॥१८॥
एतद्योगशास्त्रमध्यापयेत् शिष्यान् ग्राहयेत् यतः यशस्यं यशसे ब्रह्मणे तत्प्राप्त्यै हितम् । इतोऽन्यत् शास्त्रं वाचो विकारा एव । एतच्च कवयो वदन्ति । योगे योगिनि तदधीनं सर्वमित्यर्थः । ये तत् तं योगं विदुः । शेषं स्पष्टम् ॥१८॥
न कर्मणा सुकृतेनैव राजन् सत्यं जयेज्जुहुयाद्वा यजेद्वा
।
नैतेन बालोऽमृत्युमभ्येति राजन् रतिं चासौ न लभत्यन्तकाले ॥१९॥
कर्मणा सत्यं ब्रह्म न जयेत् न प्राप्नुयात् यत् जुहुयात् यत् यजेद्वा एतेन होमयागात्मकेन कर्मणा बालः अविद्वान् अमृत्युं मोक्षं न जयति न प्राप्नोति रतिमानन्दं लभति लभते ॥१९॥
तृष्णीमेक उपासीत चेष्टेत मनसाऽपि न
।
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥२०॥
तूष्णीमित्यर्धो व्याख्यातः । स्तुत्या प्रीतिं निन्दया रोषं च वर्जयेत् ॥२०॥
अत्रैव तिष्ठन् क्षत्रिय ब्रह्माविशति पश्यति
।
वेदेषु चानुपूर्व्येण एतद्विद्वन् ब्रवीमि ते ॥२१॥
अत्रेति । हे क्षत्रिय वेदेषु पूर्वोक्तदृष्टिभेदेषु आनुपूर्व्येण आरोपव्यामिश्रापवादक्रमेण तिष्ठन् अत्रैव ब्रह्म पश्यति आविशति तादात्म्यं च महाकाशघटाकाशन्यायेन उपाधिविलयात्प्राप्नोति । तस्माद्दृष्टार्थाऽनन्तफला च ब्रह्मविद्याऽदृष्टार्थात् विनाशिफलात् कर्मणः श्रेयसीति ज्ञात्वा ज्ञानार्थमेव यतेतेति ते तुभ्यं ब्रवीमि ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि सनत्सुजातपर्वणि सनत्सुजातवाक्ये पञ्चचत्वारिंशोऽध्यायः॥४५॥
सनत्सुजात उवाच।
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः
।
तद्वै देवा उपासते तस्मात् सूर्यो विराजते
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१॥
पूर्वाध्यायान्ते मनसाऽपि न चेष्टेतेत्युक्तं तत्र मनसश्चेष्टाराहित्ये सति महता ब्रह्मचर्यादियत्नेन शून्यशेषतैव साधिता भवतीत्याशङ्क्य शून्यवदेव निर्धर्मकं शून्यभावस्यापि प्रकाशकं सद्रूपं ब्रह्म प्रत्यगभिन्नत्वेन ज्ञेयमस्तीत्यस्मिन्नर्थे मन्त्रानुदाहरति योगिप्रत्यक्षं च पुनः पुनः प्रमाणत्वेनोपन्यस्यति – यत्तच्छुक्रमित्यादिनाऽध्यायेन । यत्तच्छुक्रं बीजमिव बीजं विश्वोत्पत्त्यादिमूलकारणं सर्वचेष्टाप्रवर्तकं आनन्दरूपम् । महत् वृत्तिरूपोपाधिशून्यम् । ज्योतिर्ज्ञप्तिमात्रम् । दीप्यमानं सूर्यादिरूपेण । महद्यशोनामकं तदेव देवा इन्द्रियाणि उपासते अनुसरन्ति । तस्मादेव मूलकारणात् सूर्यो जगत्प्रसवधर्मा मायोपाधिरीश्वरो विराजते । तथा च श्रुतयः - ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ति’ इति । ‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् । येन सूर्यस्तपति तेजसेद्धः । न तस्येशे कश्चन तस्य नाम महद्यशः । न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ । प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इत्यादयः। तं परमात्मानं योगिनः चित्तवृत्तिनिरोधेन भगवन्तं सर्वैश्वर्यवन्तं संप्रज्ञाते । असंप्रज्ञाते तु सनातनम् अखण्डैकरसं पश्यन्तीति सर्वत्र ज्ञेयम् । योगेनैव तं परमात्मानं पश्येन्नान्यथा । यथाह दक्षः - ‘स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम्’ इति ॥१॥
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते
।
तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२॥
अस्यैव मन्त्रस्य विवरणार्था उत्तरे मन्त्राः । शुक्रात् आनन्दात् तं प्राप्येत्यर्थः । ब्रह्म जगतो बृंहकं परमव्योमाख्यमव्याकृतं वाऽवस्तु सदपि चैतन्यप्रतिबिम्बं प्राप्य प्रभवति जगज्जन्मादिकार्ये समर्थं भवति तेनैव च वर्द्धते । अतस्तच्छुक्रं ज्योतिषां सूर्यादीनां मध्येऽन्तः स्थित्वा तपति प्रकाशते । तथा च गीता- ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रभसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति । अतप्तमन्येनाप्रकाशितं स्वयंज्योतिरित्यर्थः । तापनं सूर्यादीनामपि भयप्रदम् । ‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः’ इति श्रुतेः ॥२॥
आपोऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे
।
अतन्द्रितः सवितुर्विवस्वानुभौ बिभर्ति पृथिवीं दिवं च
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३॥
अप इति । सलिलस्य सलिलमिव सलिलमेकरसं ब्रह्म । ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इति श्रुतिप्रसिद्धम् । तस्य मध्ये स्थिताभ्योऽद्भ्यः अवुपलक्षितेभ्यः पञ्चमहाभूतेभ्यः सकाशादुत्पन्नाः अपः पाञ्चभौतिकं देहम् अन्तरिक्षे हृदयाकाशे शिश्रियाते श्रयतः । कौ उभौ देवौ चिद्रूपत्वेन द्योतमानौ जीवेश्वरौ सुप्तिप्रलययोः क्रमेण तन्द्रावन्तौ ताभ्यामन्यः अतन्द्रितः निर्मायः सवितुः जगत्कारणस्य विवस्वान् वस आच्छादने वस्वान् आच्छादनवान् तद्विपरीतो विवस्वान् अपरिच्छिन्नसंविद्रूपः सन्ततमनुदितानस्तमितप्रकाशः सर्वाधिष्ठानभूतः उभौ जीवेश्वरौ पृथिवीम् । दिवं च बिभर्ति आसध्रीचीः सविषूचीर्वसानाविति पाठे सः शुक्रसंज्ञः शुद्ध आत्मा कीदृशौ उभौ देवौ सध्रीचीः विषूचीश्च आवसानौ दिशः उपदिशश्च पटवद्वसानौ । दिगन्तपर्यन्तं विस्तीर्णावित्यर्थः । व्यवहिताश्चेति छान्दसं क्रियोपसर्गयोर्व्यवधानम् । शेषं प्राग्वदेव ॥३॥
उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति
।
तस्माद्दिशः सरितश्च स्रवन्ति तस्मात् समुद्रा विहिता महान्तः
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥४॥
एतदेवाह- उभाविति । देवौ जीवेश्वरौ पृथिव्यादिकं भुवनं ब्रह्माण्डं शुक्रो बिभर्ति । तस्मात् सर्वोत्पत्तिमाह - तस्मादिति । महान् दुरधिगमोऽन्तो येषां ते महान्ताः समुद्राः कामाः ‘कामं समुद्रमाविश’ इति मंत्रलिङ्गात् ॥४॥
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः
।
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५॥
चक्रे इति । रथस्य शरीरस्य ‘रथः स्यन्दनदेहयोः’ इति विश्वः । अध्रुवस्य विनाशिनोऽपि अव्ययम् अविनाशि कर्म यस्य तस्य अव्ययकर्मणः चक्रे चक्रवच्चालके प्राक्कर्मणि निमित्ते सति तिष्ठन्तः कर्माधीना इत्यर्थः । अश्वाः इन्द्रियाणि शरीररथं विषयदेशं प्रति नयन्तः केतुमन्तं प्रज्ञावन्तं जीवम् । किं ज्ञानेऽस्मात्तुन् । तं परमात्मानं प्रतिवहन्ति वहतिर्द्विकर्मा । वश्यैरिन्द्रियाश्वैर्देहरथे योजितैः जीवः परमात्मतां नीयते । अन्यथा शरीरे नष्टेऽपि तत्कृतं कर्म न क्षीयतेऽतः शरीरान्तरेण सद्य एव बध्यते । दिव्यमलौकिकम् अहंप्रत्ययविषयादन्यमशनायाद्यतीतमित्यर्थः । अजरमिति सर्वविकारप्रतिषेधः । दिवि हार्दाकाशे ॥५॥
न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् | मनीषयाऽथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥६॥
अस्य रूपम् आकृतिः सादृश्येन तिष्ठति अनुपमस्वरूपमित्यर्थः । न चक्षुषेति सर्वेन्द्रियगोचरत्वं निषिध्यते । ‘अशब्दमस्पर्शमरूपमव्ययम्’ इति रूपादिहीनत्वश्रुतेः । मनीषया मनसो निग्रहेण । मनसा सूक्ष्मेण । ‘मनसैवानुद्रष्टव्यम्’ इति तस्य करणत्वश्रुतेः । हृदा हृदुपलक्षिते देशे निगृहीतेन मनसा । ये एनं विदुः ते अमृता मुक्ता भवन्ति ॥६॥
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम्
।
मध्वीक्षन्तश्च ते तस्याः सञ्चरन्ति घोरम्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥७॥
तदवेदने संसारानुच्छेदमाह- द्वादशेति । द्वादशसंख्याः पूगाः समुदाया यस्यां तां द्वादशपूगां ते च- ‘चित्तादिपूगः स्मरणादिपूगः श्रोत्रादिपूगः श्रवणादिपूगः । वागादिपूगो वचनादिपूगः शब्दादिपूगो वियदादिपूगः ॥१॥ प्राणादिपूगः श्वसनादिपूगः संस्कारपूगः सुकृतादिपूगः । एतैर्महापुगवरैरविद्यानद्यामधश्चोपरि चैति जीवः २’ त्तादृशीं नित्यप्रवाहवतीं सरितमविद्याख्यां पिबन्तस्तत्कृतैरिष्टैः पुत्रपश्वादिभिर्लब्धैस्तृप्यन्तः देवैश्चक्षुरादीनामनुग्राहकैः सूर्यादिभिस्तत्तद्विषयदर्शनद्वाराऽनेकसंस्कारसन्ततिं सन्तन्वानैः रक्षितां देवरक्षिताम् । ते जीवाः तस्या अविद्यानद्याः मधु पुत्रपश्वादिकं मधुरं फलम् ईक्षन्तः पश्यन्तस्तल्लिप्सया इह शुक्राख्येऽधिष्ठाने भासमानां घोरां महाभयङ्करां सञ्चरन्ति ऊर्ध्वाधोमार्गेषु पुनः पुनरावर्तन्त इत्यर्थः । इह यत्राधिष्ठाने सञ्चरन्ति तं परमेश्वरं योगिनः पश्यन्ति ॥७॥
तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु
।
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥८॥
ननु इह कृतस्य कर्मणः कृत्नस्य अमुत्रैव भोगात् कर्मशेषाभावे कुतः पुनरावृत्तिः किं तु मुक्तिरेव भवतीत्याशङ्क्याह - तदर्धेति । तत् मधु कर्मफलम् अर्धमासम् अर्धमासश्चन्द्रो यस्मिन् भोग्यत्वेन तत् अर्धमासं भवति । तथा हि - ‘तेषां सोमो राजाऽन्नं तं देवा भक्षयन्ति’ इति श्रुत्याऽमुत्र गत्वा देवभावं प्राप्ता इष्टादिकारिणः सोमस्थममृतं पिबन्तीति दर्शितम् । तथा च भ्रमरो जीवः इतस्ततो भ्रमणशीलः अमुत्र सोमरूपमर्धं कर्मफलं भुङ्क्ते शेषेणात्रावर्तत इत्यर्थः । सञ्चित्येत्यनेन आमुष्मिकफलभोगानन्तरमैहिकफलभोगवासनाऽप्यस्तीति सूचितम् । द्विविधं हि कर्म किञ्चिदामुष्मिकफलं किञ्चिदैहिकफलम् । तत्रैकं भुक्त्वा इतरार्थमत्रावतरतीति श्लिष्टम् । श्रुतिश्च - ‘यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते तद्य इह रमणीयचरणा अभ्याशोह ते रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयां योनिमापद्यन्ते’ इत्याह । सम्पातः कर्म । चरणं कर्मशेषः । अभ्याशोह शीघ्रमेवेति श्रुतिपदानामर्थः । य एवंविधो जीवः स एव ईशानः अन्तर्यामी सर्वभूतेषु तिष्ठति स एव च हविर्भूतं हविर्भिः सिद्धं यज्ञं च कल्पितवान् वेदस्य वैदिकमार्गस्य च प्रवर्तक इत्यर्थः । एतेन त्वंपदार्थस्य तत्पदार्थाभेद उक्तः। यो यज्ञम् अकल्पयत् तं योगिनः पश्यन्ति ॥८॥
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः
।
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथा दिशम्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥९॥
ननु ईश्वरस्य जीवभावे किं कारणमत आह - हिरण्येति । हिरण्यानि हरणशीलानि आपातरमणीयत्वात् । पर्णानीव पर्णानि अवयवाः स्त्रीपुत्रादयो यस्य तं हिरण्यपर्णम् अश्वत्थं न श्वोऽपि तिष्ठतीत्यश्वत्थो नश्वरः अविद्यावृक्षः तमभिपद्य प्राप्य अपक्षकाः न सन्ति पक्षाः उत्क्रमणहेतव उपाधयः प्राणरूपा येषां ते चिदात्मानः तत्र अविद्यायां पक्षिणो भूत्वा प्राणाद्युपाधिप्राप्त्या उत्क्रमणयोग्या भूत्वा यथादिशं यथावासनं प्रपतन्ति तासु तासु योनिष्वित्यर्थात् । बहुवचनम् औपाधिकरूपभेदापेक्षया । श्रूयते च प्राणोपाधिकमुत्क्रमणं चिदात्मनः प्रश्नोपनिषदि षोडशकलं पुरुषं प्रस्तुत्य - ‘स ईक्षांचक्रे कस्मिन्वहमुत्कान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’ इति ॥९॥
पूर्णात् पूर्णान्युद्धरन्ति पूर्णात् पूर्णानि चक्रिरे
।
हरन्ति पूर्णात् पूर्णानि पूर्णमेवावशिष्यते॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१०॥
एवमीश्वरस्यापि जीवत्वे उपाधिसम्बन्ध एव कारणमित्युक्तं तत्र किम् उपाधिभिः कृत्स्नं ब्रह्म उपाधीयते उत ब्रह्मणोंऽशा एवोपधीयन्ते । आये जीवबहुत्वानुपपत्तिः । अन्त्ये ब्रह्मणो निष्कलत्वानुपपत्तिः। अंशस्यांशित्वायोगाज्जीवेशयोरभेदानुपपत्तिश्चेत्याशङ्क्याह- पूर्णादिति । पूर्णात् व्यापकात् चिदाकाशात् पूर्णानि चित्प्रतिबिम्बभूतानि जीवरूपाणि । उद्धरन्ति पृथक्कुर्वन्ति । प्राणादय उपाधिदर्पणाः । ननु उपाधीनां पृथक्सत्त्वे पूर्णस्य पूर्णत्वमेव व्याहन्येतेत्याशङ्क्याह- पूर्णादिति । पूर्णानि प्राणादीनि पूर्णादेव चक्रिरे कृतानि । अयं भावः - घटाकाशन्यायेनोपाध्युपधेययोः परस्परपरिच्छेदकत्वेऽन्यतरस्यापि पूर्णत्वं न युज्यतेऽत उपाधिरप्यध्यस्त एव । तथा चाधिष्ठानाध्यस्तयोर्विषमसत्ताकत्वान्न परस्परपरिच्छेदकत्वं किंत्वितरेतरतिरोधायकत्वमेवास्तीति स्वस्वप्रतीतिकाले द्वयोरपि पूर्णत्वं प्रतियोगिनस्तदानीमदर्शनात्। कल्पित उपाधिर्जीवेश्वरभेदे हेतुरित्यर्थः । यदा तु पूर्णानि प्राणादीनि ब्रह्मण्यध्यस्तानि ततः सकाशात् हरन्ति सम्यगवेक्षणेन दूरीकुर्वन्ति रज्जुत इव सर्पं तदा जीवेशभेदनिमित्तस्योपाधेरभावात् पूर्णं ब्रह्मैवावशिष्यते । यथोक्तं विष्णुपुराणे - ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यति’ इति । एवं च अंशांशित्वरूपेण जीवेशयोर्भेदानुपगमादनुपचरितस्तयोरभेदप्रतिपादकस्तत्वमस्यहंब्रह्मास्म्ययमात्माब्रह्मेत्यादिरागम इति सिद्धम् । यत्पूर्णं शिष्यते तं भगवन्तं योगिनः पश्यन्ति ॥१०॥
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा
।
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥११॥
तस्मात् पूर्णात् वायुरिति पञ्चानामपि भूतानामुपलक्षणम् । ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी’ इति तत एव सर्वभूतोद्भवश्रुतेः । प्रयतः निगृहीतः । एतेन तत्रैव लयं दर्शयता तदुपादानकत्वं भूतानामुक्तम् । अग्निर्भोक्ता सोमो भोज्यं प्राण इति देहेन्द्रियादिसङ्घातग्रहणम् ॥११॥
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१२॥
इदं सर्वं तत एव आततं तस्माज्जातं तत् आत्मत्वेन प्रसिद्धम् । तत् तच्छब्दवाच्यं ‘तदिति वा एतस्य महतो भूतस्य नाम भवति’ इति श्रुतिप्रसिद्धेः । वक्तुं न शक्नुमः । वाचामगोचरं योगिनः पश्यन्ति ॥१२॥
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः
।
आदित्यो गिरते चन्द्रमादित्यं गिरते परः
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१३॥
इदानीं तद्दर्शनाभ्युपायं योगं संक्षेपेणाह - अपानमिति । गिरति उपसंहरति स्वात्मनि योगशास्त्रोक्तरीत्या ‘पार्ष्णिना गुदमापीड्य दन्तैर्दन्तानसंस्पृशन् । दृढासनोऽपानवायुमुन्नयेच्च शनैः शनैः । तं प्राणेनैकतां नीत्वा स्थिरं कृत्वा हृदम्बरे । चेतोमात्रेण तिष्ठेत तच्च बुद्धौ विलापयेत्’ चन्द्रमा अत्र मनः, आदित्यो बुद्धिः, परः परमात्मा । एवं य आदित्यं गिरति तं योगिनः पश्यन्ति ॥१३॥
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्
।
तं चेत्सततमूर्ध्वाय न मृत्युर्नामृतं भवेत्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१४॥
ननु नित्यापरोक्षं ब्रह्म यत्साक्षादपरोक्षात् इति श्रुतेः । अतः किं योगेनेत्याशङ्क्याह - एकमिति । हंस इव हंसः परमात्मा शरीरवृक्षमारूढोऽपि तेन असंबद्धः स चतुष्पात् ‘सोऽयमात्मा चतुष्यात्’ इति श्रुतेः । चतुर्णां पादानां जाग्रत्स्वप्नसुषुप्ततुरीयाख्यानां मध्ये एकं पादं तुरीयं नोत्क्षिपति न प्रकाशयति । कीदृशः सलिलात् निर्विशेषात् अतिगंभीरात् उच्चरन् उपर्येव पादत्रयेण चरन् ‘तं तुरीयं पादं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः’ इति श्रुतिप्रसिद्धम् । ऊर्ध्वाय उपरितनाय पादत्रयाय विश्वतैजसप्राज्ञाख्याय तेषां चालनायेत्यर्थः । संततं व्याप्तम् । तुरीयं त्रिषु सन्ततमित्युक्तेः । न हि चैतन्यानुबन्धं विना विश्वादयः स्वकार्ये प्रभवन्ति तं चेत् पश्यति तदा मृत्युरमृतं च अज्ञानकृतं द्वयं सति ज्ञाने कालत्रयेऽपि नास्तीत्यर्थः । यद्यपि नित्यापरोक्षं ब्रह्म तथापि उपाधिविशिष्टेनैव रूपेण परोक्षं न तु ततो निष्कृष्टरूपेणातस्तदापरोक्ष्याय योगोऽपेक्षित इत्यर्थः । सततमृत्विजमिति पाठे ऋत्विग्वत् पादत्रयक्रियानिमित्तमित्यर्थः ॥१४॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम्
।
तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१५॥
अङ्गुष्ठेति । अङ्गुष्ठमात्रे हृदये प्रतिष्ठितत्वादङ्गुष्ठमात्रः एतेन हृदयपुण्डरीकं ध्यानस्थलमुपदिष्टं भवति । पुरुषः पूर्णः अन्तरात्मा बाह्यात्मभ्योन्नमयादिभ्यः पञ्चभ्य आन्तरः । लिङ्गस्य पञ्चप्राणमनोबुद्धिदशेन्द्रियात्मकस्य लिङ्गशरीरस्य सम्बन्धेन नित्यं स याति इहलोकपरलोकौ जाग्रत्स्वप्नौ वा गच्छति तम् ईशं यमयितारम् । ईड्यं स्तुत्यम् । अनुकल्पम् उपाधिमनु सर्वकार्येषु समर्थम्, आद्यं मूलकारणं, विराजमानं प्रत्यक्चैतन्यरूपेण प्रकाशमानमपि मूढा न पश्यन्ति तं योगिनः पश्यन्ति ॥१५॥
असाधना वाऽपि ससाधना वा समानमेतद्दृश्यते मानुषेषु
।
समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१६॥
नन्वंगुष्ठमात्रस्य हृदये स्थितस्य हृदयतापेन तापप्राप्तिरपि स्यात्तथा च तापस्वभावस्य कुतो मुक्तिरित्याशङ्क्य तस्य कदाचिदपि तापो नास्तीत्याह- असाधना इति । मानुषेषु सङ्घाताभिमानिषु जीवेषु केचिदसाधनाः शमादिहीनाः । केचित्ससाधनास्तद्युक्ता वा भवन्तु तत्स्थं एतद्ब्रह्म समानं निर्विकारम् । ‘असङ्गो ह्ययं पुरुषः’ इत्यसङ्गत्वश्रुतेः । एवं मुक्तबद्धयोरपीत्याह- समानमिति । कस्तर्हि मुक्तेषु विशेष इत्यत आह- मुक्ता इति । तत्र तेषु मध्ये मुक्ताः मध्वः मधुनः ब्रह्मरसस्य उत्सम् उत्कर्षं परां काष्ठां समापुः संप्राप्ताः । अयं भावः- अवस्थान्तरगतस्य दुःखस्यावस्थान्तरेऽदर्शनादुपाधिधर्म एव दुःखं भ्रान्त्या उपहितेऽपि भाति स्फटिके इव जपाकुसुमलौहित्यं सर्वात्मना उपाधित्यागात्तु मुक्तानां न दुःखस्पर्शोऽस्तीति ते निरतिशयानन्दभाज इति । य एवं समानस्तं योगिनः पश्यन्ति ॥१६॥
उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम्
।
मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१७॥
एवं ब्रह्मप्राप्तौ सर्वफलावाप्तिं कृतकृत्यतां चाह - उभाविति । उभौ लोकौ आत्मलोकम् अनात्मलोकं च विद्यया ब्रह्माकारया अन्तःकरणवृत्त्या अहमेवेदं सर्वोऽस्मीति सार्वात्म्याकारया च वृत्त्या व्याप्य प्रकाश्य ज्ञात्वा याति प्रारब्धकर्मावष्टब्धदेहः सन् सञ्चरति विद्वान् यदैवं तदा अहुतमप्यग्निहोत्रम् अस्य हुतमेव भवति । ज्ञाने सर्वाणि कर्मफलान्यन्तर्भवन्तीत्यर्थः । अतः ब्राह्मी वाक् ते तव अहं महानस्मीति वदतः लघुतां नीचत्वं मा दधीत मा करोतु । अहं दासोऽस्मीति मा ब्रूहीत्यर्थः । तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतेति श्रुत्यैव ब्रह्मविदामतिवादित्वदोषो नास्तीति प्रदर्शितम् । प्रज्ञानमिति अस्य नामैव स्यात् ‘प्रज्ञानं ब्रह्मेति ब्रह्मविद्ब्रह्मैवेति’ च श्रुतिभ्याम् । ब्रह्मणा विद्वद्रूपेण स्वमाहात्म्यं न गोपनीयमधिकारिष्वेव । प्राकृतेषु तु गोपनीयमेव । ‘तथा चरेत वै योगी सतां धर्ममदूषयन् । जना यथाऽवमन्येरन् गच्छेयुर्नैव सङ्गतम्’ इति । एतच्च प्रज्ञानमिति नाम धीराः ध्यानवन्त एव लभन्ते । यस्य नाम प्रज्ञानं तं योगिनः पश्यन्ति ॥१७॥
एवंरूपो महात्मा स पावकं पुरुषो गिरन्
।
यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१८॥
एवंरूपो वाङ्मनसातीतो जगज्जन्मादियोनिर्निर्विकारो योगैकगम्यो यज्ज्ञानान्महापूज्यत्वं लभ्यते कर्मलोपदोषश्च नास्ति स एवंरूपः परमात्मा पावकं भोक्तारं जीवं गिरन् आत्मनि संहरन् पुरुषं पूरर्णं तं यो वेद तस्य अर्थः पुरुषार्थो मोक्षो न रिष्यते न हिंस्यते । कर्मफलवत् ज्ञानफलं नानित्यमित्यर्थः । यस्य ज्ञानादर्थनाशो नास्ति तं योगिनः पश्यन्ति ॥१८॥
यः सहस्रं सहस्राणां पक्षान् सन्तत्य सम्पतेत्
।
मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१९॥
न केवलं मोक्ष एव ज्ञानतः स्यात् अपि तु सर्वं दूरस्थमपि आत्मन्यन्तर्भूतमेवास्तीत्याह - य इति । दशलक्षाणि अनन्तान् वा पक्षान् कृत्वा यो दूरे गच्छेत्सोऽपि मध्ये शरीरान्तः मध्यमे मध्यस्थे हृदयस्थे परमेश्वरे आगच्छेदेव । विप्रकृष्टमप्यर्थं हार्दाकाशे योगिनः पश्यन्तीत्यर्थः । एतच्चातीतानागतादेरप्युपलक्षणम् । तथा च हार्दाकाशं प्रकृत्य श्रूयते ‘यच्चास्येहास्ति यच्च नास्ति सर्वं तदत्र गत्वा विन्दते’ इति- यत्र दूरस्थोऽप्यस्ति तं योगिनः पश्यन्ति ॥१९॥
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः
।
हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२०॥
एवंविधस्यात्मनो दर्शनार्थं योगानुगुणानि साधनान्तराण्याह- नेति । चक्षुराद्यग्राह्यमेनं शुद्धचित्ता एव चित्तेन गृह्णन्तीति पूर्वार्धार्थः । किं च यदाऽयं हितः जगन्मित्रं मनीषी मनोनिग्रहशीलश्च भवति तथा मनसा च पुत्रादीनां नाशे सत्यपि न तप्यते तदैव चित्तशुद्धिर्जातेति ज्ञेयम् । एवं ज्ञात्वा ये प्रव्रजेयुः विक्षेपहेतून् गृहादींस्त्यजेयुस्ते संन्यासिनः अमृता भवन्तीति । तम् अमृतं योगिनः पश्यन्ति ॥२०॥
गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः
।
तेषु प्रमुह्यन्ति जना विमूढा यथाऽध्वानं मोहयन्ते भयाय
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२१॥
संन्यासं कृत्वाऽपि वञ्चकानां संगतिर्न कर्तव्येत्याह- गूहंतीति । मर्त्याः कौलिकाः स्वशिक्षया स्वेषां गुरूणां शिक्षया स्वेन वृत्तेन वा बहिर्दृष्टीनां रमणीयेन च दंभरूपेण गह्वराणि पापानि मद्यमांसपरस्त्रीसेवनादीनि गृहन्ति छादयन्ति । यथा सर्पाः खलाः परमुद्वेजयन्तोऽपि बिलादौ निलीय आत्मानं गूहन्ति तद्वत् । तेषु बाह्यतो रमणीयेषु तेषां समीपे विमूढाः जनाः मुह्यन्ति । एतदेवाह यथाऽध्वानं मार्गमनतिक्रम्य शिष्टानां लोकदृष्टमाचारमत्यजतः भयाय नरकाय प्रापयितुं तान् मोहयन्ते मद्यमांसाद्यशुचिव्रतोपदेशेन प्रतारयन्ति । अतः सम्यक्परीक्षितैः सहैव संगतिर्यल्लाभाय कर्तव्या तं योगिनः पश्यन्ति ॥२१॥
नाहं सदाऽसत्कृतः स्यां न मृत्युर्नचामृत्युरमृतं मे कुतः स्यात्
।
सत्यानृते सत्यसमानबन्धने सतश्च योनिरसतश्चैक एव
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२२॥
एवं सर्वकर्मास्पर्शिनां योगिनामपि दुःसङ्गत्यागमावश्यकतयोक्त्वा जीवन्मुक्तानां तेषामनुभवमनुवदति- नाहमिति । अहं सदा कालत्रयेऽपि असत्कृतः असता देहेन्द्रियादिना तादात्म्याध्यासेन तद्वत्कृतः सुखदुःखजरामरणादिधर्मवान् कृतः असत्कृतः न स्यां न भवेयं देहादीनामसत्त्वादेवेत्यर्थः । अत एव देहवियोगरूपो मृत्युरपि नास्ति नापि अमृत्युस्तद्विरोधी जन्मलाभः जन्ममरणप्रवाहरूपस्य मृत्युसंज्ञितस्य बन्धस्याभावात् । अमृतं मोक्षोऽपि मम कुतः न कुतश्चिदित्यर्थः । तत्र हेतुः । सत्यं घटादि अनृतं रज्जूरगादि ते उभे अपि सत्यसमानबन्धे सत्यम् अबाधितं समानं सर्वदा सर्वदेशेषु चैकरूपं ब्रह्म तदेव बन्धो निग्रहस्थानं ययोस्ते तथा । सर्वं जगद्ब्रह्माधीनमित्यर्थः । सतः कार्यस्य असतः कारणस्य च योनिः उत्पत्तिप्रलयस्थानम् अहम् एक एव तं मां योगिनः पश्यन्ति । तथा च श्रुतिः - ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति सृष्ट्यादिकं सर्वं मय्येव कल्पितमित्याह ॥२२॥
न साधुना नोत असाधुना वाऽसमानमेतद्दृश्यते मानुषेषु
।
समानमेतदमृतस्य विद्यादेवं युक्तो मधु तद्वै परीप्सेत्
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२३॥
नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम्
।
मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते
।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥२४॥
नास्येति । अस्य आत्मविदः अतिवादाः निन्दावचनानि हृदयं न तापयन्ति । अथवा मया नाधीतं मया न हुतमित्यादिकमपि अस्य मन इति । पूर्वान्वयि श्रूयते च- ‘नैनं कृताकृते तपत इति । ’एतह वाव न तपति किमहसाधु नाकरवं किमहं पापमकरवम्‘ इति च । ब्राह्मी ब्रह्मसम्बन्धिनीयं विद्या अस्मै पुरुषाय लघु शीघ्रं तां प्रज्ञां यामधिकृत्य स्मरति ’प्रज्ञाप्रासादमारुह्य ह्यशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति' इति तां प्रज्ञामृतंभराख्याम् आदधीत समर्पयेत् । आत्मवित्सर्वविद्भवतीत्यर्थः । तां कां यां प्रज्ञां धीराः ध्यानवन्तो नाम निश्चितं लभन्ते नान्ये । एतेन शोकमोहनिवृत्तिः सर्वज्ञत्वं च ब्रह्मविद्याफलमुक्तं भवति । यं न तापयन्ति तं विद्वदभिन्नं परमेश्वरं योगिनः पश्यन्ति ॥२४॥
एवं यः सर्वभूतेषु आत्मानमनुपश्यति
।
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥२५॥
एवमनेन प्रकारेण यः सर्वभूतेषु सद्रूपेण अनुस्यूतमात्मानं गुरूक्तिमनुपश्यति ध्यानेन साक्षात्करोति सः अन्यत्र दारादौ अन्यत्र कर्मादौ युक्तेषु पुरुषान्तरेषु सत्सु किं शोचति नैव शोचति किं तु त एव शोचन्तीत्यर्थः ॥२५॥
यथोदपाने महति सर्वतः सम्प्लुतोदके
।
एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२६॥
उदकं पीयतेऽस्मिन्नित्युदपाने कासारादौ तृषर्तस्य यावता जलेन स्नानपानादिसिद्धिस्तावतैव सर्वेषु वेदेषु आत्मज्ञस्य ध्यायिन इष्टसिद्धिः । अतो ग्रन्थभारवहनं वृथैव किं तु तदन्तर्गतं स्वोपयुक्तं सारमात्रं गुरुवाक्याद्गृहीत्वा योगेन कृतकृत्यो भवेदित्यर्थः ॥२६॥
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यते सौहृदि संनिविष्टः
।
अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥२७॥
अङ्गुष्ठेति । उपाधितोऽल्पपरिमाणोऽपि स्वतो महात्मा व्यापकः । न दृश्यते रूपादिहीनत्वात् । अजो जन्मादिशून्यः । दिवारात्रं चरतीति चरः जगन्नियमने नित्योद्युक्त इत्यर्थः । सः अधिकारी तम् आत्मानं मत्वा ज्ञात्वा कविः क्रान्तदर्शी । आस्ते कर्मभ्य उपरतो भवति कृतकृत्यत्वात् । अत एव प्रसन्नः उपाधिकृतकालुष्यत्यागान्निर्मलः ॥२७॥
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः
।
आत्माऽहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥२८॥
अथेदानीं ब्रह्मविदात्मनो ब्रह्मभावं वामदेववदपरोक्षीकुर्वन् स्वस्य सार्वात्म्यं स्तौति - अहमेवेति । नास्ति अतीतानागतम् । अस्ति वर्तमानम् । सर्वेषामन्तरात्माचाहमेवास्मि ॥२८॥
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत
।
ममैव यूयमात्मस्था न मे यूयं न वो वयम् ॥२९॥
आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः
।
अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः॥३०॥
पितामह इति । एवमात्मनि सर्वमारोप्य अपवदति न मे यूयं न वो वयमिति । यद्यपि रज्ज्वामुरग आरोपितस्तथाऽपि तयोर्न कश्चित् संबन्धोऽस्ति अधिष्ठानव्यतिरेकेणाध्यस्तस्यासत्त्वात् । एवं प्रत्यगात्मजगतोरप्यसंबन्धो द्रष्टव्यः ॥२९॥ अहमेव मुमुक्षूणां ज्ञेय इत्याह- आत्मैवेति । मम स्थानम् अधिष्ठानम् आत्मैव । ‘स्वे महिम्नि प्रतिष्ठितः’ इति श्रुतैः । अत एव मम जन्म जननहेतुरपि आत्मैव । अजत्वादेव अहं कार्ये ओतः प्रोतश्च तिर्यगूर्ध्वं च पटे तन्तव इवानुस्यूतोऽस्मि । अजरा अप्रच्युतस्वभावा प्रतिष्ठा अधिष्ठानत्वं यस्य स तथा । अजश्चर इति पादो व्याख्यातः । मां सर्वेषां भूतानामन्तरात्मानं सर्वेश्वरं सर्वकर्तारं विज्ञाय कविः प्रसन्न आस्ते ॥३०॥
अणोरणीयान् सुमनाः सर्वभूतेषु जाग्रति
।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥३१॥
प्रकरणार्थमुपसंहरति- अणोरिति । अणोरप्यणुतरो दुर्लक्ष्यः । न त्वणुतरपरिमाणवान् । अस्थूलमनण्वह्रस्वमदीर्घमिति ब्रह्मणि चतुर्विधपरिमाणनिषेधात् । एतेन निर्गुणं रूपमुक्तम् । सुमनाः शोभनं मनो दिव्यं चक्षुर्मायाख्यम् अतीतादिसर्वप्रकाशकं यस्य । ‘मनोऽस्य दैवं चक्षुः’ इति श्रुतेः स सुमनाः । एतेन सगुणं रूपमुक्तम् । सर्वभूतेषु जाग्रति अन्तर्यामिरूपेण जागर्ति । शपो लुगार्षः गुणाभावश्च । पितरम् अर्थाद्वियदादीनां जरायुजादीनां च सर्वभूतेषु सर्वदेहेषु पुष्करे हृदयपुण्डरीके निहितं स्थितं विदुर्ब्राह्मणा जानन्ति । एवंगुणविशिष्टं प्रत्यगात्मानं हृदये विचिन्तनेन साक्षात्कृत्य कृतकृत्यो भवतीत्यर्थः ॥३१॥
इति श्रीमहाभारते उद्योगपर्वणि सनत्सुजातपर्वणि षट्चत्वारिंशोऽध्यायः॥४६॥