सेनोद्योगपर्व - १सञ्जययानपर्व - २प्रजागरपर्व - ३सनत्सुजातपर्व - ४यानसन्धिपर्व - ५भगवद्यानपर्व - ६सैन्यनिर्याणपर्व - ७उलूकदूतागमनपर्व - ८रथातिरथसंख्यानपर्व - ९अम्बोपाख्यानपर्व - १०

यानसन्धिपर्व

सप्तचत्वारिंशोऽध्यायः

वैशम्पायन उवाच। एवं सनत्सुजातेन विदुरेण च धीमता ।
सार्धं कथयतो राज्ञः सा व्यतीयय शर्वरी॥१॥

प्रासङ्गिकमध्यात्मं समाप्य प्रस्तुतां कथामेवानुसन्धत्ते- एवं सनत्सुजातेनेत्यादिना । कथयतः कथामिति शेषः ॥१॥

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते ।
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥२॥

सूतस्य सञ्जयस्य ॥२॥

शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः ।
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ॥३॥

सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।
चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा ॥४॥

कनकमयेन अजिरेण अङ्गणेन भूषिताम् ॥४॥

रुचिरैरासनैस्तीर्णां काञ्चनैर्दारवैरपि ।
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः॥५॥

अश्मसारमयैः रत्नखचितैः ॥५॥

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः॥६॥

विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः ।
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ॥७॥

धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ।
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः॥८॥

दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ।
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्॥९॥

विविशुस्तां सभां राजन् सुराः शक्रसदो यथा ।
आविशद्भिस्तदा राजन् शूरैः परिघबाहुभिः॥१०॥

शुशुभे सा सभां रजन् सिंहैरिव गिरेर्गुहा ।
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः॥११॥

आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ।
आसनस्थेषु सर्वेषु तेषु राजसु भारत॥१२॥

द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ।
अयं सरथ आयाति योऽयासीत् पाण्डवान् प्रति॥१३॥

दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ।
उपेयाय स तु क्षिप्रं रथात् प्रस्कन्द्य कुण्डली॥प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥१४॥

उपेयाय उपाजगाम प्रस्कन्द्य उत्तीर्य ॥१४॥

सञ्जय उवाच। प्राप्तोऽस्मि पाण्डवान् गत्वा तं विजानीत कौरवाः ।
यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः ॥१५॥

यथावयः वयसोऽनुरूपम् ॥१५॥

अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् ।
यूनश्चाभ्यवदन् पार्थाः प्रतिपूज्य यथावयः॥१६॥

यथाऽहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः ।
अब्रवं पाण्डवान् गत्वा तन्निबोधत पार्थिवाः॥१७॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयप्रत्यागमने सप्तचत्वारिंशोऽध्यायः॥४७॥
अष्टचत्वारिंशोऽध्यायः

धृतराष्ट्र उवाच। पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्त्वः ।
धनञ्जयस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा ॥१॥

पृच्छामीति ॥१॥

सञ्जय उवाच। दुर्योधनो वाचमिमां श्रृणोतु यदब्रवीदर्जुनो योत्स्यमानः ।
युधिष्ठिरस्यानुमते महात्मा धनञ्जयः श्रृण्वतः केशवस्य ॥२॥

अन्वत्रस्तो बाहुवीर्यं विदान उपह्वरे वासुदेवस्य धीरः ।
अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥३॥

अन्वत्रस्त इत्यनुशब्दस्य अवोचदित्यनेन सम्बन्धः। व्यवहिताश्चेति धातूपसर्गयोश्छान्दसं व्यवहितत्वम् । विदानः जानन् उपह्वरे समीपे कुरूणां मध्ये धार्तराष्ट्रं ब्रूयाः इत्यन्ववोचदिति संबन्धः ॥३॥

संश्रृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूत ।
यो योद्धुमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः ॥४॥

ये वै राजानः पाण्डवायोधनाय समानीताः श्रृण्वतां चापि तेषाम् ।
यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तत् ॥५॥

पाण्डवायोधनाय पाण्डवैः सह युद्धाय ॥५॥

यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे ।
तथाऽश्रृण्वन् पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् ॥६॥

इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः ।
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः॥७॥

अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः ।
येषां युद्धं भीमसेनार्जुनाभ्यां तथाऽश्विभ्यां वासुदेवेन चैव ॥८॥

कर्म पापम् । अनिर्विष्टमनुपभुक्तमश्विभ्यामश्विपुत्राभ्याम् ॥८॥

शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च ।
युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च ॥९॥

अपध्यानादपकारचिन्तनमात्रात् गां पृथ्वीम् ॥९॥

तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् ।
मा तत्कार्षीः पाण्डवस्यार्थहेतोरुपैहि युद्धं यदि मन्यसे त्वम्॥१०॥

निर्वृत्तः सिद्धः सकल इत्ययुद्धपक्षेऽर्धस्यैवार्थस्य लाभो भवेत्स चानभिमत इति सूचितम् । तत् राज्यार्धदानं मा कार्षीः पाण्डवस्य अर्थहेतोः हितार्थम् ॥१०॥

यां तां वने दुःखशय्यामवात्सीत् प्रव्राजितः पाण्डवो धर्मचारी ।
आप्नोतु तां दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः॥११॥

दुःखशय्यां दुःखवासमन्त्यां शय्यां युद्धे मरणं प्राप्तः सन् ॥११॥

ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन ।
अन्यायवृत्तिः कुरुपाण्डवेयानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा॥१२॥

त्वमेतावत् कुर्वित्याह- ह्रियेति यान् लोकान् अन्यायवृत्तिर्धार्तराष्ट्रोऽध्यतिष्ठत् तान् ह्रीप्रभृतिभिर्गुणैरुपलक्षिते पाण्डवेऽनुरक्तान् कुरु । दुर्योधने नष्टे प्रजानामस्मदभिमुखीकरणं त्वत्कार्यं न तु तेन सहास्माकं सन्धानमिति भावः ॥१२॥

मायोपधः प्रणिपातार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन ।
सत्यं ब्रुवन् प्रतिपन्नो नृपो नस्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥१३॥

मायया कपटेन उपधीयन्ते ते मायोपधारछलवादाः तान् मायोपधः । आतो धातोरिति द्वितीयाबहुवचने परे आलोपः । प्रतिपन्नः प्राप्तः प्रणिपातादिभिरुपेतः सत्यं ब्रुवंश्च अतिवेलं क्लिश्यमानोऽपि तितिक्षमाण एवास्ते इति शेषः ॥१३॥

यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान् सुघोरम् ।
अवस्त्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥१४॥

क्रोधमवस्रष्टा उत्स्रक्ष्यति । उद्वृत्तं क्रोधाक्रान्तं चेतो यस्य सः उद्वृत्तचेताः । जन्मना सुवृत्तचेता अपि सन् । अन्वतप्स्यत् शोचिष्यति । आर्षो लकारव्यत्ययः ॥१४॥

कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत् कक्षमग्निर्निदाघे ।
एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोऽन्ववेक्ष्य॥१५॥

कृष्णवर्त्मा दाहेन कृष्णीकृतभूभाग इति प्राञ्चः । वस्तुतस्तु अग्निहोत्रे वस्वादिसप्तरूपोऽग्निः श्रूयते य‌दग्निमुद्धरतीत्यनुवाके । तत्र कृष्णवर्त्मेत्यन्वर्थसंज्ञातो धूमायन् रौद्रोऽग्निरुच्यते । ज्वलित इति किञ्चित्प्रदीप्तः । समिद्ध इति सर्वशो दीप्तः दग्धा धक्ष्यति ॥१५॥

यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम् ।
अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥१६॥

सेनाग्रगं दंशितं भीमसेनं स्वलक्षणं वीरहणं परेषाम् ।
घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी ॥१७॥

दंशितं सन्नद्धम् । स्वालक्षणं स्वीयानामपि अलक्षणं नास्ति लक्षणं सम्यगवलोकनं यस्य तं स्वालक्षणम् । रणे आवेशवशात् स्वैरपि दुर्दर्शमित्यर्थः । यतः अन्तकसन्निकाशं वचनस्य वचनम् ॥१७॥

यदा द्रष्टा भीमसेनेन नागान् निपातितान् गिरिकूटप्रकाशान् ।
कुम्भैरिवासृग्वमतो भिन्नकुम्भांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥१८॥

महासिंहो गाव इव प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य ।
यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥१९॥

गाः वः इवेति छेदः वः युष्मान् गा इव ॥१९॥

महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी ।
सकृद्रथेनाप्रतिमान् रथौघान् पदातिसङ्घान् गदयाऽभिनिघ्नन् ॥२०॥

शैक्येन नागांस्तरसा विगृह्णन् यदा छेत्ता धार्तराष्ट्रस्य सैन्यम् ।
छिन्दन् वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥२१॥

शैक्येन शिक्यसदृशेन पाशेन नागान् विगृह्णन् वैपरीत्येन गृह्णन् । गले पादे वा पाशं दत्वा मृतवत्सवत्कर्षन्नित्यर्थः । अन्ये तु विमृद्गन्निति पाठान्तरं कल्पयित्वा शैक्येन खड्गेनेति व्याचख्युः ॥२१॥

तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान् समीक्ष्य ।
पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् ॥२२॥

तृणप्रायं तृणगृहमयं ग्रामं परासिक्तं दूरे निरस्तम् ॥२२॥

हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽधृष्टयोधम् ।
शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ॥२३॥

अधृष्टयोधमप्रगल्भयोधम् ॥२३॥

उपासङ्गानाचरेद्दक्षिणेन वराङ्गानानां नकुलश्चित्रयोधी ।
यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥२४॥

उपेति । वरा‌ङ्गानां शिरसामुपासङ्गानुच्चयान् दक्षिणेन कुशलेन अनायासेनेति यावत् । आचरेत् कुर्यात् रथिनः योधान् प्रचेता कूटीकरिष्यति । पाठान्तरे उपासङ्गेन निषङ्गेण दक्षिणभागस्थेन शतात् परमाचरन् तत्रत्यैः शताधिकैः शरैर्युध्यन् वामहस्तेनापि शरप्रक्षेपस्य अभ्यस्तत्वात् । दुःखशय्यामशेतेत्युत्तरस्मादपकृष्यते अत एव दुःखाद्रथिनः प्रचेतेति पूर्ववत् ॥२४॥

सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत ।
आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥२५॥

दुःखशय्यामशेतेत्युत्तरं तां यदा स्मरिष्यतीति शेषः । अत एव दुःखात् रथिनः प्रचेतेति पूर्वस्मादनुकृष्यते ॥२५॥

त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत ।
रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥२६॥

हे पार्थिव आयोधनाय युद्धाय समादिष्टाः सैन्यं तावकं दृष्ट्वा तानिति शेषः ॥२६॥

शिशून् कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान् ।
त्यक्त्वा प्राणान् कौरवानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥२७॥

शिशून् द्रौपदीपुत्रान् प्रतिविन्ध्यादीन् आद्रवन्तः आद्रवतः ॥२७॥

यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी ।
दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः॥२८॥

गतोद्वाहमपगतोद्वृत्तगतिमनुकूलगतिमित्यर्थः । अकूजनो निःशब्दोऽक्षो यस्य तं सुवर्णस्य तारो दीर्घतन्तुः तमतिवेगादलातचक्रवत्सुवर्णरेखातुल्यमित्यर्थः । दान्तैः विनीतैः अश्वैरित्यर्थात् ॥२८॥

महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् ।
सर्वा दिशः सम्पतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥२९॥

विवर्तमानं विविधैर्मण्डलैर्वर्तमानं चरन्तम् ॥२९॥

ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः ।
गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान् सहदेवस्तरस्वी ॥३०॥

गान्धारिं शकुनिमार्च्छन् गच्छन् ॥३०॥

यदा द्रष्टा द्रौपदेयान् महेषून् शूरान् कृतास्त्रान् रथयुद्धकोविदान् ।
आशीविषान् घोरविषानिवायतस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३१॥

आयतः आगच्छतः ॥३१॥

यदाऽभिमन्युः परवीरघाती शरैः परान् मेघ इवाभिवर्षन् ।
विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३२॥

विगाहिता अभिभविष्यति ॥३२॥

यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम् ।
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३३॥

प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः ।
यदा क्षेप्तारो धार्तराष्ट्रान् ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३४॥

क्षेप्तारः क्षेप्स्यन्ति ॥३४॥

वृद्धौ विराटद्रुपदौ महारथौ पथक्चमूभ्यामभिवर्तमानौ ।
यदा द्रष्टारौ धार्तराष्ट्रान् ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३५॥

यदा कृतास्त्रो द्रुपदः प्रचिन्वन् शिरांसि यूनां समरे रथस्थः ।
क्रूद्धः शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३६॥

यदा विराटः परवीरघाती ममत्तरे शत्रुचमूं प्रवेष्टा ।
मात्स्यैः सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३७॥

ममत्तरे भृशं मथ्नातीति ममत् यङ्लुगन्तात् क्विप् ततस्तरप् बलवत्तेर ममदिति निपातो बलवद्वाचको वा संग्रामे इत्यर्थः । सहोत्तर इत्याधुनिकाः पठन्ति ॥३७॥

ज्येष्ठं मात्स्यमनृशंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात् ।
यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥३८॥

रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शान्तनूजे ।
न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि ॥३९॥

शान्तनूजे दैर्ध्यमार्षम् । धारयेयुः जीवेयुः ॥३९॥

यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मं रथेनाभियाता वरूथी ।
दिव्यैर्हयैरवमृद्नन् रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥४०॥

वरूथी रथगुप्तिमान् ॥४०॥

यदा द्रष्टा सृञ्जयानामनीके धृष्टद्युम्नं प्रमुखे रोचमानम् ।
अस्त्रं यस्मै गुह्यमुवाच धीमान् द्रोणस्तदा तप्स्यति धार्तराष्ट्रः॥४१॥

यदा स सेनापतिरप्रमेयः परामृद्नन्निषुभिर्धार्तराष्ट्रान् ।
द्रोणं रणे शत्रुसहोऽभियाता तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत् ॥४२॥

ह्रीमान् मनीषी बलवान् मनस्वी स लक्ष्मीवान् सोमकानां प्रबर्हः ।
न जातु तं शत्रवोऽन्ये सहेरन् येषां स स्यादग्रणीर्वृष्णिसिंहः ॥४३॥

इदं च ब्रूया मा वृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् ।
शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् ॥४४॥

इदं चेति सन्निहितं युद्धमूलमुच्यते राज्यं च मा वृणीष्व मा प्रार्थयस्व इति ब्रूयाः । दुर्योधनं प्रतीत्यर्थात् । यतः वयं युद्धेऽद्वितीयं सहायं सात्यकिं प्रवृणीम वृतवन्तः तस्मिन् अवृते तु कदाचित्तव जयोऽपि संभाव्येतेति भावः ॥४४॥

महोरस्को दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी ।
शिनेर्नप्ता तालमात्रायुधोऽयं महारथो वीतभयः कृतास्त्रः॥४५॥

यदा शिनीनामधिपो मयोक्तः शरैः परान् मेघ इव प्रवर्षन् ।
प्रच्छादयिष्यत्यरिहा योधमुख्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥४६॥

यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा ।
सिंहस्येव गन्धमाघ्राय गावः सञ्चेष्टन्ते शत्रवोऽस्माद्रणाग्रे ॥४७॥

अस्मात्- ल्यब्लोपे पंचमी- एनं प्राप्य संचेष्टन्ते इतस्ततो भ्रमन्ति ॥४७॥

स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन् संहरेत् सर्वलोकान् ।
अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति ॥४८॥

चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् ।
यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः॥४९॥

चित्रः विस्मयकृत् सूक्ष्मः दुर्लक्ष्यः श्लक्ष्ण इतिपाठे रमणीयः । शूराणामुत्साहकरत्वात् सुकृतः सुशिक्षितः । अस्त्रयोगोऽस्त्रलाभः वृष्णिसिंहस्य कृष्णस्य यथाविधं यादृक्प्रकारं योगमाहुः तैः सर्वैर्गुणैः सात्यकिरुपेतः ॥४९॥

हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य ।
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्रस्तदा तप्स्यत्यकृतात्मा स मन्दः॥५०॥

यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् ।
दृष्ट्वा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः ॥५१॥

यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् ।
विधूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः॥५२॥

तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुःसहायः ।
दृष्ट्वा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद्रणाग्रे ॥५३॥

बलाहकादुच्चरतः सुभीमान् विद्युत्स्फुलिङ्गानिव घोररूपान् ।
सहस्रघ्नान् द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदः सुपुङ्खान्॥५४॥

सुपुंखान्यदा द्रष्टेति द्वयोः सम्बन्धः ॥५४॥

यदा द्रष्टा ज्यामुखाद्बाणसङ्घान् गाण्डीवमुक्तानापततः शिताग्रान् ।
हयान् गजान् वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५५॥

आददानान् ग्रसमानान् ॥५५॥

यदा मन्दः परबाणान् विमुक्तान् ममेषुभिर्ह्रियमाणान् प्रतीपम् ।
तिर्यग्विध्यच्छिद्यमानान् पृषत्कैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५६॥

तिर्यक् विद्ध्य विध्वा पृषत्कैश्छिद्यमानान्यदा द्रष्टा इति पूर्वेणान्वयः ॥५६॥

यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् ।
प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५७॥

विपाठाः विस्तृतबाणाः प्रचेतारः राशीकरिष्यन्ति ॥५७॥

यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतान् सुयोधनान् ।
शरैर्हतान् पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥५८॥

असंप्राप्तानस्त्रपथं परस्य यदा द्रष्टा नश्यतो धार्तराष्ट्रान् ।
अकुर्वतः कर्म युद्धे समन्तात्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५९॥

अस्त्रपथम् असंप्राप्तान् अस्त्रं दृष्ट्वैव नश्यत इत्यर्थः । युद्धे कर्म अकुर्वतः भयेन वैक्लव्यात् ॥५९॥

पदातिसङ्घान् रथसङ्घान् समन्ताद्व्यात्ताननः काल इवाततेषुः ।
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥६०॥

आतताः संतताः अविच्छिन्नधाराः इषवो यस्य प्रणोत्स्यामि दूरीकरिष्यामि ॥६०॥

सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेन प्रकृत्तम् ।
यदा द्रष्टा स्वबलं संप्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥६१॥

रजोध्वस्तं रजसा व्याकुलीभूय रथादिभ्यः पतितम् । प्रकृत्तं छिन्नम् ॥६१॥

कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् ।
हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् ॥६२॥

कादिग्भूतं भयेन पलायितं श्रान्तपत्रं श्रान्तवाहनम् ॥६२॥

आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम् ।
प्रजापतेः कर्म यथाऽर्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ॥६३॥

प्रजापतेः कर्म यथेति यथा वाजपेये प्रजापतिदैवत्याः सप्तदश पशवो विशस्यन्ते तद्वद्बहूनामिहापि विशसनं कृतं तेन बीभत्सत्वं लक्ष्यते । अर्थः स्वर्गो राज्यं च तदर्थं निष्ठितं संजातनिश्चयम् ॥६३॥

यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च ।
तूणावक्षय्यौ देवदत्तं च मां च दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ॥६४॥

देवदत्तम् अर्जुनस्य शंखम् ॥६४॥

उद्वर्तयन् दस्युसङ्घान् समेतान् प्रवर्तयन् युगमन्यद्युगान्ते ।
यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रः सपुत्रः॥६५॥

दस्युसङ्घान् । न्यायतः प्रदेयस्य राज्यस्याप्रदानाद्दस्यवो धार्तराष्ट्राः । ‘यथा कथा च परप्रतिग्रहमभिमन्यते स्तेनो भवति’ इति स्मृतेः । युगान्ते शत्रूणां संहारे जाते सति अन्यद्युगं धर्मप्रधानं कालं प्रवर्तयन् । ‘राजा कालस्य कारणम्’ इति स्मृतेः ॥६५॥

सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः ।
दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥६६॥

दर्पस्य अन्ते नाशे ॥६६॥

पूर्वाह्णे मां कृतजप्यं कदाचिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम् ।
कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥६७॥

उदकान्ते सन्ध्यावन्दनाचमनान्ते ॥६७॥

इन्द्रो वा ते हरिवान् वज्रहस्तः पुरस्ताद्यातु समरेऽरीन् विनिघ्नन् ।
सुग्रीवयुक्तेन रथेन वा ते पश्चात् कृष्णो रक्षतु वासुदेवः ॥६८॥

पुरस्तात् इन्द्रो रक्षतु इत्यपकृष्यते ॥६८॥

वव्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम् ।
स मे लब्धो दस्युवधाय कृष्णो मन्ये चेतद्विहितं दैवतेर्मे ॥६९॥

अयुद्ध्यमानो मनसाऽपि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् ।
एवं सर्वान् स व्यतीयादमित्रान् सेन्द्रान् देवान् मानुषे नास्ति चिन्ता ॥७०॥

स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम् ।
तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् ॥७१॥

सागरं सगरैर्वर्द्धितम् । सलिलस्य महोदधिं जलसमुद्रम् । अप्रमेयमनन्तत्वात् ॥७१॥

गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् ।
तस्यैव पाणिः सनखो विशीर्येन्न चापि किञ्चित् स गिरेस्तु कुर्यात् ॥७२॥

तलेन चपेटिकया । शिलोच्चयमिति काठिन्यप्रदर्शनार्थं विशेषणम् । श्वेतं कैलासम् । बलवदाश्रितत्वमनेन सूचितम् ॥७२॥

अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत ।
हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत्॥७३॥

यो रुक्मिणीमेकरथेन भोजानुत्साद्य राज्ञः समरे प्रसह्य ।
उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा ॥७४॥

अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् ।
बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम् ॥७५॥

सुदर्शनं नाम राजानं नग्नजितः पुत्रैर्बद्धं मुमोच । देवतानां ललामं रत्नभूतं देवैरपि शिरसा धार्यमित्यर्थः ॥७५॥

अयं कपाटेन जघान पाण्ड्यं तथा कलिङ्गान् दन्तकूरे ममर्द ।
अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव ॥७६॥

कपाटेन वक्षस्तटाघातेन दन्तकूरे सङ्ग्रामे अन्ये तु कपाटे निजघानेति पाठं प्रकल्प्य कपाटे नगरे । एवं दन्तकूरे चेति व्याचख्युः । अनाथा संबभूवेति योज्यम् ॥७६॥

अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम् ।
वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः ॥७७॥

अयं कृष्णः तं युद्धे मन्यते युद्धार्थं प्रार्थयते सर्वदैव सः इदानीं तेनैव कृष्णेन हतः शेते । यथा जंभो दैत्यः शैलं वेगेन अभिहत्य शैलाघातात् स्वयंकृतात् हतः शेते तद्वत् ॥७७॥

ततोऽग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम् ।
अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम्॥७८॥

ततोग्रसेनस्येति सन्धिरार्षः । तथेति वा पाठः ॥७८॥

अयं सौभं योधयामास स्वस्थं विभीषणं मायया शाल्वराजम् ।
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः ॥७९॥

खस्थं खेचरं विभीषणं निर्भयं शतघ्नीं शक्तिं शाल्वेन क्षिप्तां दोर्भ्यां पाणिभ्यां कन्दुकवत् प्रत्यगृह्णात्॥७९॥

प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् ।
महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे ॥८०॥

भौमो भूमिपुत्रः ॥८०॥

न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः ।
दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् ॥८१॥

शेकुर्जेतुमिति शेषः ॥८१॥

जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन् दस्युवधाय कृष्णम् ।
स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान् सिद्धिषु वासुदेवः॥८२॥

प्रकृतिं स्वभावं दस्युहननशीलतां प्रतिशुश्राव अङ्गीचकार । सिद्धिषु कार्यसिद्धिषूपस्थितासु ऐश्वर्यवान् सामर्थ्यवान् ॥८२॥

निर्मोचने षट्सहस्राणि हत्वा संच्छिद्य पाशान् सहसा क्षुरान्तान् ।
मुरं हत्वा विनिहत्यौघरक्षो निर्मोचनं चापि जगाम वीरः ॥८३॥

निर्मोचने नगरे क्षुरान्तान् तीक्ष्णधारान् लोहमयानित्यर्थः । ओघसंज्ञ रक्षः ॥८३॥

तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः ।
शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः॥८४॥

आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च ।
श्रिया वृतो यशसा चैव विद्वान् प्रत्याऽऽजगामाप्रतिमप्रभावः ॥८५॥

अस्मै वराण्यददंस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत् ।
श्रमश्च ते युध्यमानस्य न स्यादाकाशे चाप्सु च ते क्रमः स्यात् ॥८६॥

वराणि वरान् । अददन् दत्तवन्तः । क्रमः गतिः ॥८६॥

शस्त्राणि गात्रे न च ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः ।
एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसंपत्सदैव ॥८७॥

तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो विजेतुम् ।
सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान् समीक्ष्य॥८८॥

तर्कयते बद्धुं यतते ॥८८॥

पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं संप्रसह्य ।
शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा ॥८९॥

प्रसह्य पर्यागतं हठात् प्राप्तं मन्यते वांछति अस्मासु मित्रभेदं प्रार्थयते इत्यर्थः । तेन च पाण्डवानां कृष्णे ममत्वमस्मदीयत्वं हर्तुं शक्यमिति मन्यते । तत् तत्र कुरुक्षेत्रे संयुगं गत्वा प्राप्य वेदिता ज्ञास्यति॥८९॥

नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव ।
शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः ॥९०॥

धर्मेणाप्तं निधनं तस्य मन्ये यो योत्स्यते पाण्डवैः पापबुद्धिः ।
मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान् वै द्वादश राजपुत्राः ॥९१॥

वासः कृच्छ्रो विहितश्चाप्यरण्ये दीर्घं कालं चैकमज्ञातवर्षम् ।
ते हि कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ॥९२॥

ते चेदस्मान् युध्यमानान् जयेयुर्देवैर्महेन्द्रप्रमुखैः सहायैः ।
धर्मादधर्मश्चरितो गरीयांस्ततो ध्रुवं नास्ति कृतं च साधु ॥९३॥

साधु कृतं सत्कर्म नास्ति निष्फलत्वात् । वृथैव धर्म इत्यर्थः ॥९३॥

न चेदिमं पुरुषं कर्मबद्धं न चेदस्मान् मन्यतेऽसौ विशिष्टान् ।
आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम्॥९४॥

न चेदिति । यदि कर्मबद्धः पुरुषो न स्यात्, यदि वा वयं तेभ्यः श्रेष्ठाः न स्याम तर्हि तस्यैव जयो भविष्यतीत्यर्थः ॥९४॥

न चेदिदं कर्म नरेन्द्र वन्ध्यं न चेद्भवेत्सुकृतं निष्फलं वा ।
इदं च तच्चाभिसमीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः ॥९५॥

इदं राज्यस्याप्रदानमिदानीन्तनं तच्च राज्यात् निःसारणं तदानींतनम् अभिसमीक्ष्य आलोच्य पापवशात् पराजय एव तस्येत्यर्थः ॥९५॥

प्रत्यक्षं वः कुरवो यद्ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति ।
अन्यत्र युद्धात् कुरवो यदि स्युर्न युद्धे वै शेष इहास्ति कश्चित्॥९६॥

हत्वा त्वहं धार्तराष्ट्रान् सकर्णान्राज्यं कुरूणामवजेता समग्रम् ।
यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान् दारानात्मभोगान् भजध्वम् ॥९७॥

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः ।
सांवत्सरा ज्योतिषि चाभियुक्ता नक्षत्रयोगेषु च निश्चयज्ञाः॥९८॥

उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।
क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च ॥९९॥

दिव्या अनागतार्थज्ञापकाः । मृगचक्राः- चक्राणि सर्वतोभद्रादीनि शैवागमप्रसिद्धानि मृगयन्ते किं नक्षत्रं केन ग्रहेण विद्धमिति विचारयन्ति सदसत्फलकथनार्थं ते चक्रमृगाः- पूर्वनिपात आर्षः- मृगाणि मार्गितानि चक्राणि यैस्ते इति वा ॥९९॥

यथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय ।
जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः ॥१००॥

संशयं युद्धे जयपराजयविषये न पश्यति यतः अपरोक्षविद्यः दिव्यदृष्ट्याऽतीतानागतादिकं पश्यन्॥१००॥

अहं तथैवं खलु भाविरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः ।
दृष्टिश्च मे न व्यथते पुराणी संयुध्यमाना धार्तराष्ट्रा न सन्ति ॥१०१॥

पुराणी योगप्रभाववती न व्यथते न तिरस्कृता ॥१०१॥

अनालब्धं जृम्भति गाण्डिवं धनुरनाहता कम्पति मे धनुर्ज्या ।
बाणाश्च मे तूणमुखाद्विसृत्य मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥१०२॥

खड्गः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् ।
ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन् ॥१०३॥

गोमायुसङ्घाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् ।
मृगाः श्रृगालाः शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च॥१०४॥

सुवर्णपत्राश्च पतन्ति पश्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।
अहं ह्येकः पार्थिवान् सर्वयोधान् शरान् वर्षन् मृत्युलोकं नयेयम् ॥१०५॥

समाददानः पृथगस्त्रमार्गान् यथाग्निरिद्धो गहनं निदाघे ।
स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ॥१०६॥

वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किञ्चिदिहावशिष्ये ।
शान्तिं लप्स्ये परमो ह्येष भावः स्थिरो मम ब्रूहि गावल्गणे तान् ॥१०७॥

वधे धृतः वधार्थं सज्जः । वेगवतः बाणान् ॥१०७॥

ये वै जय्याः समरे सूत लब्ध्वा देवानपीन्द्रप्रमुखान् समेतान् ।
तैर्मन्मते कलहं संप्रसह्य स धार्तराष्ट्रः पश्यत मोहमस्य ॥१०८॥

विजयः कर्म येषां ते वैजय्याः देवानपि लब्ध्वा विजयवन्त एवेत्यर्थः ॥१०८॥

वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् ।
एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे ॥१०९॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि अर्जुनवाक्यनिवेदनेऽष्टचत्वारिंशोऽध्यायः॥४८॥
ऊनपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच। समवेतेषु सर्वेषु तेषु राजसु भारत ।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥१॥

समवेतेष्विति ॥१॥

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।
मरुतश्च सहेन्द्रेण वसवश्चाग्निना सह ॥२॥

आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि ।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥३॥

नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥४॥

पर्यासत परिवार्य तस्थुः ॥४॥

तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥५॥

बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति ।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥६॥

ब्रह्मोवाच ।
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥७॥

नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ॥८॥

लोकात् मानुषात् लोकं ब्राह्मम् ॥८॥

एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् ।
द्विधा भूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परन्तपौ ॥ असुराणां विनाशाय देवगन्धर्वपूजितौ ॥९॥

वैशम्पायन उवाच। जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥१०॥

तदा देवासुरे युद्धे भये जाते दिवौकसाम् ।
अयाचत महात्मानौ नरनारायणौ वरम् ॥११॥

अयाचत इन्द्रः ॥११॥

तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।
अथैतावब्रवीच्छक्रः सह्यं नः क्रियतामिति ॥१२॥

सत्यं साहाय्यम् ॥१२॥

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥१३॥

नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून् परन्तपः ।
पौलोमान कालखञ्जांश्च सहस्राणि शतानि च ॥१४॥

एष भ्रान्ते रथे तिष्ठन् भल्लेनापाहरच्छिरः ।
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ॥१५॥

भ्रान्ते अस्थिरेऽपि रथे लक्ष्यात् न व्यपैतीत्याश्चर्यम् ॥१५॥

एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।
हत्वा षष्टिं सहस्राणि निवातकवचान् रणे ॥१६॥

आरुजत् पीडितवान् ॥१६॥

एष देवान् सहेन्द्रेण जित्वा परपुरञ्जयः ।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥१७॥

नारायणस्तथैवात्र भूयसोऽन्यान् जघान ह ।
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ॥१८॥

भूयसो बहुन् ॥१८॥

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ॥१९॥

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः ।
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥२०॥

सत्त्वं बुद्धिसत्त्वम् एक एव देवो योगप्रभावाद्रूपद्वयेन वर्तते इत्यर्थः ॥२०॥

एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान् ।
तत्र तत्रैव जायेते युद्धकाले पुनःपुनः॥२१॥

अश्नुवाते व्याप्नुतः ॥२१॥

तस्मात् कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥२२॥

कर्म युद्धं कर्तव्यं तयोरिति शेषः । आचष्ट आख्यातवान् नारद एव ॥२२॥

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥२३॥

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ ।
दुर्योधन तदा तात स्मर्ताऽसि वचनं मम ॥२४॥

नोचेदयमभावः स्यात् कुरूणां प्रत्युपस्थितः ।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥२५॥

न चेद्ग्रहीष्यसे वाक्यं श्रोताऽसि सुबहून् हतान् ।
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥२६॥

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥२७॥

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च ।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥२८॥

कर्ण उवाच। नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥२९॥

किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे ।
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥३०॥

नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः ।
अहं हि पाण्डवान् सर्वान् हनिष्यामि रणे स्थितान् ॥३१॥

प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः ।
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया ।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥३२॥

स हि राज्ये इति । अस्य वचनं मया न कर्तव्यं किं तु राज्ञ एवेति भावः ॥३२॥

वैशम्पायन उवाच। कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः ।
धृतराष्ट्रं महाराज संभाष्येदं वचोऽब्रवीत् ॥३३॥

यदयं कत्थते नित्यं हन्ताऽहं पाण्डवानिति ।
नायं कलाऽपि संपूर्णा पाण्डवानां महात्मनाम् ॥३४॥

कलाऽपि षोडशांशोऽपि ॥३४॥

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥३५॥

एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवामन्यत तान् वीरान् देवपुत्रानरिन्दमान् ॥३६॥

किण् चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम् ।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा॥३७॥

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥३८॥

सहितान् हि कुरून् सर्वानभियातो धनञ्जयः ।
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ॥३९॥

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥४०॥

ह्रियते यद्यदा वृषायते वृषवन्नर्दति ॥४०॥

ननु तत्रापि भीमेन पार्थेन च महात्मना ।
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः ॥४१॥

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥४२॥

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः ।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्॥४३॥

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ॥४४॥

पुरा युद्धात् साधु मन्ये पाण्डवैः सह सङ्गतम् ।
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥४५॥

सर्वं तदपि जानामि करिष्यति च पाण्डवः ।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥४६॥

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान्॥४७॥

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥४८॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि भीष्मद्रोणवाक्ये ऊनपञ्चाशत्तमोऽध्यायः॥४९॥
पञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः॥१॥

किमसाविति ॥१॥

किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः ।
के वाऽस्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो मुखम्॥२॥

के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः ।
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्॥३॥

सञ्जय उवाच। राज्ञोमुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च॥४॥

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्॥५॥

नभःसूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम्॥६॥

आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् ।
पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्॥७॥

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।
क्रीडन्त्योऽभिसमायान्ति पार्थं सन्नद्धमीक्षितुम्॥८॥

धृतराष्ट्र उवाच। सञ्जयाचक्ष्व येनास्मान् पाण्डवा अभ्ययुञ्जत ।
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च॥९॥

येन सहायेन अस्मानालक्ष्य अभ्ययुञ्जत संनद्धा अभूवन् ॥९॥

वैशम्पायन उवाच। गावल्गणिस्तु तत् पृष्टः सभायां कुरुसंसदि ।
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव॥१०॥

कुरवः संसीदंत्यस्यां सभायाम् ॥१०॥

तत्रानिमित्ततो दैवात् सूतं कश्मलमाविशत् ।
तदाचचक्षे विदुरः सभायां राजसंसदि॥११॥

सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि ।
वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः॥१२॥

धृतराष्ट्र उवाच। अपश्यत् सञ्जयो नूनं कुन्तीपुत्रान् महारथान् ।
तैरस्य पुरुषव्याघ्रैर्भृशमुद्द्वेजितं मनः॥१३॥

वैशम्पायन उवाच। सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत् ।
धृतराष्ट्र महाराज सभायां कुरुसंसदि॥१४॥

सञ्जय उवाच। दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान् महारथान् ।
मत्स्यराजगृहावासनिरोधेनावकर्शितान्॥१५॥

श्रृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ।
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत॥१६॥

वस्ते वः युष्मान् ते पाण्डवाः ॥१६॥

यो नैव रोषान्न भयान्न लोभान्नार्थकारणात् ।
न हेतुवादाद्धर्मात्मा सत्यं जाह्यात् कदाचन॥१७॥

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत॥१८॥

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन ।
यो वै सर्वान् महीपालान् वशे चक्रे धनुर्धरः ।
यः काशीनङ्गमगधान् कलिङ्गांश्च युधाऽजयत्॥१९॥

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ।
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः॥२०॥

निःसृत्य जतुगेहाद्वै हिडिम्बात् पुरुषादकात् ।
यश्चैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः॥२१॥

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् ।
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः॥२२॥

सिन्धुराजो जयद्रथः ॥२२॥

यश्च तान् सङ्गतान् सर्वान् पाण्डवान् वारणावते ।
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत॥२३॥

कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः ।
प्रविश्य विषयं घोरं पर्वतं गन्धमादनम्॥२४॥

यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् ।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत॥२५॥

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम्॥२६॥

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् ।
तोषयामास युद्धेन देवदेवमुमापतिम्॥२७॥

यश्च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः ।
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत॥२८॥

विजयेन अर्जुनेन ॥२८॥

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः॥२९॥

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत॥३०॥

यः काशीनङ्गमगधान् कलिङ्गांश्च युधाऽजयत् ।
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत॥३१॥

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च॥३२॥

तेन वः सहदेवेन युद्धं राजन् महात्ययम् ।
यवीयसा नृवीरेण माद्रीनन्दिकरेण च॥३३॥

तपश्चचार या घोरं काशिकन्या पुरा सती ।
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ॥३४॥

पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्॥३५॥

यः कलिङ्गान् समापेदे पाञ्चाल्यो युद्धदुर्मदः ।
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत॥३६॥

यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया ।
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत॥३७॥

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।
आमुक्तकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत॥३८॥

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान् सत्यविक्रमः ।
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः॥३९॥

य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।
रणे तेन विराटेन भविता वः समागमः॥४०॥

यः स काशिपती राजा वाराणस्यां महारथः ।
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत॥४१॥

शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।
आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत॥४२॥

यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे ।
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत॥४३॥

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः॥४४॥

तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ।
अक्षौहिण्या परिवृतः पाण्डवान्योऽभिसंश्रितः॥४५॥

यः संश्रयः पाण्डवानां देवानामिव वासवः ।
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत॥४६॥

यथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत॥४७॥

करकर्षेण करकर्षसंज्ञेन भ्रात्रा ॥४७॥

जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ॥४८॥

द्रुपदश्च महातेजा बलेन महता वृतः ।
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः॥४९॥

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।
शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः॥५०॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये पञ्चाशात्तमोऽध्यायः॥५०॥
एकपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥१॥

सर्वे इति ॥१॥

भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् ।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥२॥

महारुरोः महामृगस्य ॥२॥

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।
भीतो वृकोदरात्तात सिंहात् पशुरिवापरः ॥३॥

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।
सैन्येऽस्मिन् प्रतिपश्यामि य एनं विषहेद्युधि ॥४॥

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥५॥

अनर्महासी नर्म वृथोपहासः तदन्यो हासः सत्यमेव कृत्वा शत्रूनुपहसतीत्यर्थः ॥५॥

महावेगो महोत्साहो महाबाहुर्महाबलः ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥६॥

उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥७॥

उरुग्राहः महानिर्बन्धस्तेन गृहीतानां वशीकृतानाम् ॥७॥

अष्टास्रिमायसीं घोरां गदां काञ्चनभूषणाम् ।
मनसाऽहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥८॥

यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत् ।
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥९॥

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥१०॥

रभसः वेगवान् ॥१०॥

उद्वेपते मे हृदयं ये मे दुर्योधनादयः ।
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥११॥

तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम ।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥१२॥

ग्रसमानमनीकानिं नरवारणवाजिनाम् ।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥१३॥

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ॥१४॥

सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् ।
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना ॥१५॥

तदैव न हताः सर्वे पुत्रा मम मनस्विना ।
येन भीमबला यक्षा राक्षसाश्च पुरा हताः ॥१६॥

कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ।
न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय ॥१७॥

किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ।
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत् ।
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥१८॥

संहते क्रोधेन ग्रथिते भ्रुवौ यस्य संहतभ्रूः ॥१८॥

शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः ।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥१९॥

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥२०॥

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात् पुरा ।
रूपतो र्वार्यतश्चैव याथातथ्येन पाण्डवः ॥२१॥

इतीति । पुरा पुराणं निकटेऽतिदृढमिति वाऽर्थः । ‘पुरा पुराणेऽतिदृढे’ इति मेदिनी । ‘पुरा भाविपुराणयोः । प्रबन्धे निकटेऽतीते’ इति विश्वलोचनः ॥२१॥

आयसेन स दण्डेन रथान्नागान्नरान् हयान् ।
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ॥२२॥

अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः ।
मया तात प्रतीपानि कुर्वन् पूर्वं विमानितः ॥२३॥

निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥२४॥

निष्कर्णामवक्रां तिर्यग्भावहीनां शतनिर्ह्रादां महाशब्दवतीम् ॥२४॥

अपारमप्लवागाधं समुद्रं शरवेधनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥२५॥

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः ।
विषमं न हि मन्यन्ते प्रपातं मधुदर्शिनः ॥२६॥

संयुगं ये गमिष्यन्ति नररूपेण मृत्युना ।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥२७॥

शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् ।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥२८॥

शैक्यां शिक्यस्थाम् । अधःपतनेन भूमिविदारणशङ्कया शिक्ये स्थापिताम् ॥२८॥

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥२९॥

उद्दिश्य नागान् पततः कुर्वतो भैरवान्रवान् ।
प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः ॥३०॥

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥३१॥

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥३२॥

वीथीं रथमार्गम् ॥३२॥

प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रुमान् ।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥३३॥

कुर्वन् रथान् विपुरुषान् विसारथिहयध्वजान् ।
आरुजन् पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥३४॥

गङ्गावेग इवानूपांस्तीरजान् विविधान् द्रुमान् ।
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ॥३५॥

अनूपान् सजलदेशे स्थितान् ॥३५॥

दिशो नूनं गमिष्यन्ति भीमसेनभयार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥३६॥

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा ।
वासुदेवसहायेन जरासन्धो निपातितः ॥३७॥

कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता ।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥३८॥

भीष्मप्रतापात् कुरवो नयेनान्धकवृष्णयः ।
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ॥३९॥

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥४०॥

दीर्घकालसमासक्तं विषमाशीविषो यथा ।
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥४१॥

महेन्द्र इव वज्रेण दानवान् देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥४२॥

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥४३॥

अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युद्ध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥४४॥

अगदस्य गदाहीनस्य ॥४४॥

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥४५॥

आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥४६॥

सङ्‌गरे अन्तं स्वस्य नाशम् । स्थास्यन्ति भीष्मादयः ॥४६॥

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥४७॥

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः ।
त्यक्ष्यन्ति तुमुले प्राणान् रक्षन्तः पार्थिवं यशः ॥४८॥

ऐन्द्रं मार्गं स्वर्गमार्गम् ॥४८॥

यथैषां मामकास्तात तथैषां पाण्डवा अपि ।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥४९॥

ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय ।
तस्यापचितिमार्यत्वात् कर्तारः स्थविरास्त्रयः ॥५०॥

अपचितिं निष्कृतिम् ॥५०॥

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।
निधनं क्षत्रियस्याजौ वरमेवाहुरुत्तमम् ॥५१॥

स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवैः ।
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥५२॥

विक्रुष्टमुच्चैरुक्तम् ॥५२॥

न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय ।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ॥५३॥

एतत् भावि दुःखम् अतिबलं ज्ञानेन अनिवार्यम् ॥५३॥

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् ।
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥५४॥

निर्मुक्ताः जीवन्मुक्ताः ॥५४॥

किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा ।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥५५॥

संशये तु महत्यस्मिन् किं नु मे क्षममुत्तरम् ।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥५६॥

क्षमं शक्यमुत्तरमुत्तरकार्यं प्रतीकारः ॥५६॥

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् ।
मन्देनैश्वर्यकामेन लोभात् पापमिदं कृतम् ॥५७॥

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥५८॥

पर्यायधर्मः विपरीतधर्मः । प्रधिर्नेमिः । अस्य कालवशस्य । तृतीयार्थे षष्ठी ॥५८॥

किन्नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥५९॥

अवशोऽहं तदा तात पुत्राणां निहते शते ।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥६०॥

यथा निदाघे ज्वलनः समिद्धो दहेत् कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान् सहितोऽर्जुनेन ॥६१॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्ये एकपञ्चाशत्तमोऽध्यायः ॥५१॥
द्विपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। व्यस्य वै नानृता वाचः कदाचिदनुशुश्रुम ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥१॥

यस्येति । स धनञ्जयः यस्य योद्धेति तच्छब्दाध्याहारेण पूरणीयम् ॥१॥

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥२॥

तस्य तं प्रति योद्धारं न पश्यामि य एनं प्रतीयादित्यध्याहृत्य योज्यम् ॥२॥

अस्यतः कर्णिनालीकान् मार्गणान् हृदयच्छिदः ।
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥३॥

द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ॥४॥

महान् स्यात् संशयो लोके न त्वस्ति विजयो मम ।
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ॥५॥

घृणी कृपावान् भीमादिषु । प्रमादी अन्ते विद्यां न स्मरिष्यतीति भावः ॥५॥

समर्थो बलवान् पार्थो दृढधन्वा जितक्लमः ।
भवेत् सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥६॥

अपराजयस्तेषामिति शेषः ॥६॥

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥७॥

वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च ।
न तु हन्ताऽर्जुनस्यास्ति जेता चास्य न विद्यते ॥८॥

तयोः कर्णद्रोणयोर्वधे अस्मदीयानां शान्तिः फाल्गुनस्य वधे तु परेषामित्यर्थः ॥८॥

मन्युस्तस्य कथं शाम्येन्मन्दान् प्रति य उत्थितः ।
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च ॥९॥

एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ।
त्रयस्त्रिंशत्समाऽऽहूय खाण्डवेऽग्निमतर्पयत् ॥१०॥

त्रयास्त्रिंशत्समाः वर्षाणि अतीता इत्यर्थः । सन्धिरार्षः ॥१०॥

जिगाय च सुरान् सर्वान्नास्य विद्मः पराजयम् ।
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि ॥११॥

ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ।
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः ॥१२॥

युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुम ।
नैवास्ति नो धनुस्तादृक् न योद्धा न च सारथिः ॥१३॥

तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ।
शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय ॥१४॥

न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ।
अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः ॥१५॥

अस्ताः क्षिप्ताः ॥१५॥

उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ।
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ॥१६॥

गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनीम् ।
अपि सारथ्यघोषेण भयार्ता सव्यसाचिनः ॥१७॥

वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ।
यथा कक्षं महानग्निः प्रदहेत् सर्वतश्चरन् ।
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥१८॥

यदोद्वमन्निशितान् बाणसङ्घांस्तानाततायी समरे किरीटी ।
सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत्तद्वदपारणीयः ॥१९॥

यदा ह्यभीक्ष्णं सुबहून् प्रकारान् श्रोताऽस्मि तानावसथे कुरूणाम् ।
तेषां समन्ताच्च तथा रणाग्रेक्षयः किलायं भरतानुपैति ॥२०॥

कुरूणां प्रकारान् छेदभेदपलायनादीनावसथे गृहे श्रोताऽस्मि श्रोष्यामि ॥२०॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्ये द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः ।
तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥१॥

यथैवेति । अभिसराः पुरोगाः ॥१॥

त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम ।
पञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥२॥

यश्च सेन्द्रानिमाँल्लोकानिच्छन् कुर्याद्वशे बली ।
स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः ॥३॥

जगतः स्रष्टा कृष्णः ॥३॥

समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् ।
शैनेयः समरे स्थाता बीजवत्प्रवपन् शरान् ॥४॥

धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः ।
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥५॥

युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् ।
यमाभ्यां भीमसेनाच्च भयं मे तात जायते ॥६॥

अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा ।
न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय ॥७॥

जालमस्त्रमंतरा सैन्यमध्ये ॥७॥

दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी ।
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥८॥

मित्रामात्यैः सुसंपन्नः संपन्नो युद्धयोजकैः ।
भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः ॥९॥

युद्धयोजकैः युद्धोद्योगिभिः ॥९॥

धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः ।
अनृशंसो वदान्यश्च ह्रीमान् सत्यपराक्रमः ॥१०॥

नैभृत्येन मन्त्रगुप्त्या ॥१०॥

बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः ।
तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ॥११॥

तपन्तमभि को मन्दः पतिष्यति पतङ्गवत् ।
पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः ॥१२॥

तमभिमुखः पतिष्यति ॥१२॥

तनुरुद्धः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां सम पुत्राणां युद्धेनान्तं करिष्यति ॥१३॥

तनुरुच्च इति पाठेऽपि तनुः राज्यापहारादल्पः स्वतस्तु उच्च एव शिखी वह्निरिव वह्निः ॥१३॥

तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत ।
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥१४॥

एषा मे परमा बुद्धिर्यया शाम्यति मे मनः ।
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥१५॥

न तु नः क्लिश्ममानानामुपेक्षेत युधिष्ठिरः ।
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥१६॥

क्लिश्यमानानां - कर्मणि षष्ठी-अस्मान् न उपेक्षेत । मामेव अधर्मेण कलहस्य कारणम् उद्दिश्य जुगुप्सति निन्दति स कथं प्रार्थितः सन् कलहं कारष्यतीति भावः ॥१६॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्ये त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
चतुःपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। एवमेतन्महाराज यथा वदसि भारत ।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥१॥

एवमिति ॥१॥

इदं तु नाभिजानामि तव धीरस्य नित्यशः ।
यत् पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥२॥

नैष कालो महाराज तव शश्वत् कृतागसः ।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥३॥

एष कालः एषा कलना बुद्धिस्तव नैव स्थास्यति ॥३॥

पिता श्रेष्ठः सुहृद्यश्च सम्यक् प्रणिहितात्मवान् ।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥४॥

प्रणिहितात्मवान् सावधानचित्तः ॥४॥

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।
द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥५॥

स्मयसे तप्यसे ॥५॥

परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे ।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥६॥

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः ॥७॥

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।
मयेदं कृतमित्येव मन्यसे राजसत्तम ॥८॥

ग्रस्तान् गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि ।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥९॥

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।
पाण्डवेषु वने राजन् प्रव्रजत्सु पुनः पुनः ॥१०॥

प्रवर्षतः शरव्रातानर्जुनस्य सितान् वहून् ।
अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥११॥

अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ।
केशवः सर्वभूतानामायुधानां सुदर्शनम् ॥१२॥

अस्यतां बाणान् क्षिपतां मध्ये ॥१२॥

वानारो रोचमानश्च केतुः केतुमतां वरः ।
एवमेतानि सरथो बहून् श्वेतहयो रणे ॥१३॥

क्षपयिष्यति नो राजन् कालचक्रमिवोद्यतम् ।
तस्याद्य वसुधा राजन्निखिला भरतर्षभ ॥१४॥

यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ।
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् ॥१५॥

भीमेन भीमसेनेन हतप्रायाम् ॥१५॥

दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ।
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो ॥१६॥

तव पुत्रा महाराज राजानश्चानुसारिणः ।
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः ॥१७॥

शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ।
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ॥१८॥

भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ।
अनर्हानेव तु वधे धर्मयुक्तान् विकर्मणा ॥१९॥

योऽक्लेशयत् पाण्डुपुत्रान् यो विद्वेष्ट्यधुनाऽपि वै ।
सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ॥२०॥

तव पुत्रो महाराज नानुशोचितुमर्हसि ।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥२१॥

यदिदं ते विलपितं पाण्डवान् प्रति भारत ।
अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ॥२२॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः

दुर्योधन उवाच। न भेतव्यं महाराज न शोच्या भवता वयम् ।
समर्थाः स्म परान् जेतुं बलिनः समरे विभो ॥१॥

न भेतव्यमिति ॥१॥

वने प्रव्राजितान् पार्थान् यदाऽऽयान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥२॥

यदाऽऽयात् आगतस्तदा भीष्मद्रोणकृपाः मया उक्ता इति षष्ठेनान्वयः ॥२॥

केकया धृष्टकेतुश्च धृष्टद्युम्नश्व पार्षतः ।
राजानश्चान्वयुः पार्थान् बहवोऽन्येऽनुयायिनः ॥३॥

इन्द्रप्रस्थस्य चादूरात् समाजग्मुर्महारथाः ।
व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह ॥४॥

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥५॥

प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥६॥

श्रुत्वा चैवं मयोक्तास्तु भीष्मद्रोणकृपास्तदा ।
ज्ञातिक्षयभयाद्राजन् भीतेन भरतर्षभ ॥७॥

ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः ।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥८॥

ऋते च विदुरात् सर्वे यूयं वध्या मता मम ।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः ॥९॥

मम मत्संबन्धिनः ॥९॥

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥१०॥

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।
प्राणान् वा संपरित्यज्य प्रतियुध्यामहे परान् ॥११॥

प्रणिपातो वा सन्ध्यर्थः । पलायनं वा लज्जयाम् ॥११॥

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥१२॥

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥१३॥

प्रणिपाते न दोषोऽस्ति सन्धिर्नः शाश्वतीः समाः ।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥१४॥

प्रणिपाते दोषो वंशक्षयकृतो नास्ति किं तु सन्धिरेव भवति तथापि मम युद्धमेव रोचते इत्याशयेनाह - पितरमिति ॥१४॥

मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ।
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ॥१५॥

हे नरोत्तम धृतराष्ट्र ! तव पुत्रैः अस्माभिः ॥१५॥

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥१६॥

प्रतिकरिष्यन्ति प्रतियातयिष्यन्ति ॥१६॥

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ॥१७॥

तत इति पूर्ववृत्तान्तकथनम् ॥१७॥

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप ।
असमर्थाः परे जेतुमस्मान् युधि समास्थितान् ॥१८॥

नः अस्माभिः परे चेत् यद्यपि अभिदुग्धाः द्रोहविषयं नीताः तथाऽपि न भेतव्यम् ॥१८॥

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥१९॥

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।
मृते पितर्यतिक्रुद्धो रथैनैकेन भारत ॥२०॥

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥२१॥

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।
परान् विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥२२॥

इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम् ।
पुरा परेषां पृथिवी कृत्स्नाऽऽसीद्वशवर्तिनी ॥२३॥

अस्मान् पुनरमी नाद्य समर्था जेतुमाहवे ।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥२४॥

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥२५॥

समानीताः मयेति शेषः ॥२५॥

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप ।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥२६॥

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।
विलपन्तं बहुविधं भीतं परविकत्थने ॥२७॥

परविकत्थने परेषां गुणाख्याने ॥२७॥

एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान् प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥२८॥

जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः ॥२९॥

ब्रह्मणोऽपि अक्षय्यरूपा हन्तुमशक्या ॥२९॥

युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान् स याचति ।
भीतो हि मामकात् सैन्यात् प्रभावाच्चैव मे विभो ॥३०॥

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥३१॥

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।
नासीत् कश्चिदतिक्रान्तो भविता न च कश्चन ॥३२॥

युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा ।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥३३॥

युक्तोऽभियोगवान् दुःखोषितः गुरुकुले ॥३३॥

दुर्योधनसमो नास्ति गदायामिति निश्चयः ।
सङ्कर्षणस्य भद्रं ते यत्तदैनमुपावसम् ॥३४॥

उपावसं शिष्यत्वेन पर्यचरम् ॥३४॥

युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि ।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥३५॥

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।
स एवैनं नयेद्धोरः क्षिप्रं वैवस्वतक्षयम् ॥३६॥

इच्छेयं च गदाहस्तं राजन् द्रष्टुं वृकोदरम् ।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥३७॥

गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ॥३८॥

गदाप्रहाराभिहतो हिमवानपि पर्वतः ।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥३९॥

स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥४०॥

तत्ते वृकोदरमयं भयं व्येतु महाहवे ।
व्यपनेष्याम्यहं ह्येनं मा राजन् विमना भव ॥४१॥

तस्मिन् मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥४२॥

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥४३॥

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ।
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् ॥४४॥

पार्थिवी पृथ्वीसम्बन्धिनी पार्थिवानां राज्ञां वा ॥४४॥

कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ।
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः ॥४५॥

द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ।
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत ॥४६॥

ब्रह्मर्षिसदृशो जज्ञे देवैरपि सुदुःसहः ।
न हन्ता विद्यते चापि राजन् भीष्मस्य कश्चन ॥४७॥

पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ।
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत ॥४८॥

द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ।
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि ॥४९॥

शरस्तंबोद्भवः श्रीमानवध्य इति मे मतिः ।
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ॥५०॥

अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ।
सर्व एते महाराज देवकल्पा महारथाः ॥५१॥

शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ।
नैतेषामर्जुनः शक्त एकैकं प्रति वीक्षितुम् ॥५२॥

सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ।
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम ॥५३॥

अनुज्ञातश्च रामेण मत्समोऽसीति भारत ।
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ॥५४॥

ते शच्यर्थं महेन्द्रेण याचितः स परंतपः ।
अमोघया महाराज शक्त्या परमभीमया ॥५५॥

शक्त्या मूल्यभूतया ते कुण्डले याचितः ॥५५॥

तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः ।
विजयो मे ध्रुवं राजन् फलं पाणाविवाहितम् ॥५६॥

तस्य पुरत इति शेषः ॥५६॥

अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ।
अह्ना होकेन भीष्मोऽयं प्रयुतं हन्ति भारत ॥५७॥

तत्समाश्च महेष्वासा द्रोण-द्रौणि-कृपा अपि ।
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप ॥५८॥

अर्जुनं वयमस्मान् वा निहन्यात् कपिकेतनः ।
तं चालमिति मन्यन्ते सव्यसाचिवधे धृताः ॥५९॥

तमर्जुनम् ॥५९॥

पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम् ।
भीमसेने च निहते कोऽन्यो युध्येत भारत ॥६०॥

तेभ्यः पाण्डवेभ्यः ॥६०॥

परेषां तन्ममाचक्ष्व यदि वेत्थं परन्तप ।
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ॥६१॥

परेषां सप्त ये राजन् योधाः सारं बलं मतम् ।
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ॥६२॥

द्रौणिर्विकर्तनः कर्णः सोमदत्तोऽथ वाल्हिकः ।
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः ॥६३॥

दुःशासनो दुर्मुखश्च दुःसहश्च विशाम्पते ।
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥६४॥

शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ।
अक्षौहिण्यो हि मे राजन् दशैका च समाहृताः ॥६५॥

न्यूनाः परेषां सप्तैव कस्मान्मे स्यात् पराजयः ।
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥६६॥

त्रिगुणतः त्र्यंशेन हीनं त्रिगुणा त्र्यंशेनाधिका ॥६६॥

गुणहीनं परेषां च बहु पश्यामि भारत ।
गुणोदयं बहुगुणमात्मनश्च विशाम्पते ॥६७॥

एतत् सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥६८॥

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत ।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥६९॥

विवित्सुः विज्ञातुमिच्छुः प्राप्तकालानि कर्माणि ॥६९॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि दुर्योधनवाक्ये पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

दुर्योधन उवाच। अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय ।
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥१॥

अक्षौहिणीरिति ॥१॥

सञ्जय उवाच। अतीव मुदितो राजन् युद्धप्रेप्सुर्युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥२॥

रथं तु दिव्यं कौन्तेयः सर्वा विभ्रजयन् दिशः ।
मन्त्रं जिज्ञासमानः सन् बिभत्सुः समयोजयत् ॥३॥

मन्त्रमस्त्रप्रयोजकं जिज्ञासमानः परीक्षितुमिच्छन् ॥३॥

तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा ।
समन्तात् समभिध्याय हृष्यमाणोऽभ्यभाषत ॥४॥

पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ।
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥५॥

तथा अवैमीति च्छेदः ॥५॥

दुर्योधन उवाच। प्रशंसस्यभिनन्दंस्तान् पार्थानक्षपराजितान् ।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥६॥

सञ्जय उवाच। भौमनः सह शक्रेण बहुचित्रं विशाम्पते ।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो ॥७॥

भौमनो विश्वकर्मा धाता प्रजापतिः ॥७॥

ध्वजे हि तस्मिन् रूपाणि चक्रुस्ते देवमायया ।
महाधनानि दिव्यानि महान्ति च लघूनि च ॥८॥

ते त्वष्ट्रशक्रधातारः रूपाणि चक्रुः ॥८॥

भीमसेनानुरोधाय हनूमान् मारुतात्मजः ।
आत्मप्रतिकृतिं तस्मिन् ध्वज आरोपयिष्यति ॥९॥

सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूर्ध्वं च रुरोध वै ध्वजः ।
न संसज्जत्यसौ तरुभिः संवृतोऽपि तथा हि माया विहिता भौमनेन ॥१०॥

रुरोध स्वतेजसेति शेषः ॥१०॥

यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत् ।
तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य ॥११॥

यथाऽग्निधूमो दिवमेतिरुद्ध्वा वर्णान् बिभ्रत्तैजसांश्चित्ररूपान् ।
तथा ध्वजो विहितो भौमनेन न चेद्भारो भविता नोत रोधः ॥१२॥

भारो रथे रोधः द्वारादौ द्वयमपि न भवेत् ॥१२॥

श्वेतास्तस्मिन् वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः ।
भुव्यन्तरिक्षे दिवि वानरेन्द्र येषां गतिर्हीयते नात्र सर्वा ।
शतं यत्तत्पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात् ॥१३॥

यत्तत् अश्वानां शतं हतं पुनः पुनः कतिपयाश्वहननेऽपि दिव्यप्रभावात् शतं पूर्यते यतः पुरस्ताद्दत्तवरम् ॥१३॥

तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः ।
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेगा बभूवुः ॥१४॥

तथा अमराः राज्ञो दन्तवर्णाः श्वेताः रथे युक्ता अश्वाः भान्ति ऋक्षप्रख्याः सप्तर्षितुल्यतेजसः । ‘ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षते’ इति शतपथश्रुतेः । पाठान्तरे ऋश्यो मृगभेदः ॥१४॥

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन ।
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति ॥१५॥

माद्रीपुत्रं नकुलं त्वाजमीढ महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ॥१६॥

तुल्यांश्चैभिर्वयसा विक्रमेण महाजवाश्चित्ररूपाः सदश्वाः ।
सौभद्रादीन् द्रौपदेयान् कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः ॥१७॥

देवदत्ताः चित्ररथेन दत्ताः ॥१७॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान् ।
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥१॥

कांस्तत्रेति ॥१॥

सञ्जय उवाच। मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् ।
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥२॥

पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ ।
महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥३॥

अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः ।
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥४॥

द्रुपदो वर्धयन् मानं शिखण्डिपरिपालितः ।
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥५॥

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ॥६॥

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ॥७॥

जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् ।
पृथक् पृथगनुप्राप्तौ पृथगक्षौहिणीवृत्तौ ॥८॥

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥९॥

एतानेतावतस्तत्र तानपश्यं समागतान् ।
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥१०॥

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
स तत्र सेनाप्रमुखे धृष्टद्युन्नो महारथः ॥११॥

भीष्मः शांतनवो राजन्‌ भागः क्लुप्तः शिखण्डिनः ।
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ॥१२॥

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली ।
तौ तु तत्राब्रुवन् केचिद्विषमौ नो मताविति ॥१३॥

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च ।
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥१४॥

अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः ।
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥१५॥

अशक्याश्चैव ये केचित् पृथिव्यां शूरमानिनः ।
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥१६॥

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥१७॥

तेषामेव कृतो भागो मालवाः शाल्वकास्तथा ।
त्रिगर्तानां चैव मुख्यौ यौ तौ संशप्तकाविति ॥१८॥

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च ।
सौभद्रेण कृतो भागो राजा चैव बृहद्वलः ॥१९॥

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥२०॥

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति ।
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥२१॥

सहदेवस्तु माद्रेयः शूरः सङ्क्रन्द‌नो युधि ।
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥२२॥

उलूकं चैव कैतव्यं ये च सारस्वता गणाः ।
नकुलः कल्पयामास भागं माद्रवतीसुतः ॥२३॥

ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति सङ्गरे ।
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥२४॥

समाह्वानेन तत्तन्नामाख्यानेन ॥२४॥

एवमेषामनीकानि प्रविभक्तानि भागशः ।
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥२५॥

अकालिकं कालविलम्बं विना ॥२५॥

धृतराष्ट्र उवाच। न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः ।
येषां युद्धं बलवता भमिन रणमूर्धनि ॥२६॥

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥२७॥

प्रोक्षिताः पशुवत् वधार्थं संस्कृताः कालधर्मणा यजमानेन वा ॥२७॥

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥२८॥

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।
सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ॥२९॥

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥३०॥

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
सात्यकिर्द्रुपद‌श्चैव धृष्टकेतुश्च सानुजः ॥३१॥

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ।
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥३२॥

काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ॥३३॥

येषामिन्द्रोऽप्यकामानां न हरेत् पृथिवीमिमाम् ।
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥३४॥

तान् सर्वगुणसम्पन्नानमनुष्यप्रतापिनः ।
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥३५॥

दुर्योधन उवाच। उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।
अथ कस्मात् पाण्डवानामेकतो मन्यसे जयम् ॥३६॥

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् ।
जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥३७॥

सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥३८॥

सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान् ।
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुम् ॥३९॥

न मामकान् पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।
पराक्रान्तो ह्यहं पाण्डून् सपुत्रान् योद्धुमोहवे ॥४०॥

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥४१॥

ऐणेयान् हरिणशावान् तन्तुना पाशेन ॥४१॥

महता रथवंशेन शरजालैश्च मामकैः ।
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥४२॥

धृतराष्ट्र उवाच। उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय ।
न हि शक्तो रणे जेतुं धर्मराजं युधिष्ठिरम् ॥४३॥

जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम् ।
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥४४॥

यतो नारोचयदयं विग्रहं तैर्महात्मभिः ।
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥४५॥

कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान् ।
अर्चिष्मतो महेष्वासान् हविषा पावकानिव ॥४६॥

सञ्जय उवाच। धृष्टद्युम्नः सदैवैतान् सन्दीपयति भारत ।
युद्ध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥४७॥

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः ।
युद्धे समागमिष्यन्ति तुमले शस्त्रसङ्कुले ॥४८॥

तान् सर्वानाहवे क्रुद्धान् सानुबन्धान् समागतान् ।
अहमेकः समादास्ये तिमिर्मत्स्यानिवोदकात् ॥४९॥

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥५०॥

तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः ।
तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ॥५१॥

सर्वे समधिरूढाः स्म साङ्ग्रामान्नः समुद्धर ।
जानामि त्वां महाबाहो क्षेत्रधर्मे व्यवस्थितम् ॥५२॥

समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे ।
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ॥५३॥

भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ।
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ॥५७॥

पौरुषं दर्शयन् शूरो यस्तिष्ठेदग्रतः पुमान् ।
क्रीणीयात्तं सहस्त्रेण इति नीतिमतां मतम् ॥५५॥

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।
भयार्तानां परित्राता संयुगेषु न संशयः ॥५६॥

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे ।
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् ।
सर्वान् जनपदान् सूत योधा दुर्योधनस्य ये ॥५७॥

सबाह्लिकान् कुरून् ब्रूयाः प्रातिपेयान् शरद्वतः ।
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ॥५८॥

शरद्वतः आयुष्मतः विरुद्धलक्षणया गतायुष इत्यर्थः ॥५८॥

दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ।
भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च मा चिरम् ॥५९॥

युधिष्ठिरः साधु नैवाभ्युपेयो मा वोऽवधीदर्जुनो देवगुप्तः ।
राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम् ॥६०॥

दद्ध्वं ददत ॥६०॥

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन ।
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ॥६१॥

देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।
न स जेयो मनुष्येण मा स्म कृद्ध्वं मनो युधि ॥६२॥

कृद्ध्वं कुरुध्वम् ॥६२॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥१॥

क्षत्रेति ॥१॥

दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम ।
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम ॥२॥

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ॥३॥

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः ॥४ ।
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् ।
जात एष तवाभावस्त्वं तु मोहान्न बुध्यसे ॥५॥

जात एष तवाभाव इत्यत्र शम एव महच्छ्रेय इत्याधुनिकः पाठः । तराभ्याव इति पाठे तराणामश्वादीनां वेगवतां वाहनानामभ्यावः सर्वतः खादनं कण्डूरोगाद्युपद्रव इति यावत् । अव -रक्षणगतिकान्तीत्यादेः खादनार्थात् घञ् । आस्राव इति पाठे आस्त्रावः क्षतं यानेषूपद्रवः पराजयलक्षणमिति भावः ॥५॥

न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः ।
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥६॥

न सोमदत्तो न शलो न कृपो युद्धमिच्छति ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥७॥

येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ।
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥८॥

न त्वं करोषि कामेन कर्णः कारयिता तव ।
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥९॥

दुर्योधन उवाच। नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये ।
न भीष्मे न च काम्बोजे न कृपे न च बाह्लिके ॥१०॥

सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः ।
अन्येषु वा तावकेषु भारं कृत्वा समाह्वयम् ॥११॥

अहं च तात कर्णश्च रणयज्ञं वितत्य वै ।
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥१२॥

रथो वेदी स्रुवः खड्गो गदास्रुक् कवचं सदः ।
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥१३॥

चातुर्होत्रं चतुर्णां होतॄणाम् ऋत्विजां कर्म ॥१३॥

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे ।
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ ॥१४॥

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।
एते वयं हनिष्यामः पाण्डवान् समरे त्रयः ॥१५॥

अहं हि पाण्डवान् हत्वा प्रशास्ता पृथिवीमिमाम् ।
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ॥१६॥

त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव ।
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥१७॥

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान् प्रति ॥१८॥

धृतराष्ट्र उवाच। सर्वान् वस्तात शोचामि त्यक्तो दुर्योधनो मया ।
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥१९॥

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः ।
वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः ॥२०॥

रुरूणामिवेत्यत्र कुरूणां लाटभाषया । अजानामिति पाठो युक्तः । पक्षे कुरूणां मध्ये वरान् वरान् व्याघ्रा इवेति योजना ॥२०॥

प्रतीपमिव मे भाति युयुधानेन भारती ।
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना ॥२१॥

भारती सेना स्त्रीरूपकेण निर्दिष्टा ॥२१॥

संपूर्णं पूरयन् भूयो धनं पार्थस्य माधवः ।
शैनेयः समरे स्थाता बीजवत् प्रवपन् शरान् ॥२२॥

धनं बलम् ॥२२॥

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति ।
तं सर्वे संश्रयिप्यन्ति प्राकारमकुतोभयम् ॥२३॥

प्राकारमिव भीमं संश्रयिष्यन्ति ॥२३॥

यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान् ।
विशीर्णदन्तान् गिर्याभान्भिन्नकुभान्सशोणितान् ॥२४॥

तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् ।
भीतो भीमस्य संस्पर्शात् स्मर्ताऽसि वचनस्य मे ॥२५॥

निर्दग्धं भीमसेनेन सैन्यं रथ-हय-द्विपम् ।
गतिमग्नेरिव प्रेक्ष्य स्मर्ताऽसि वचनस्य मे ॥२६॥

महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः ।
गदया भीमसेनेन हताः शममुपैष्यथ ॥२७॥

महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् ।
बलं कुरूणां भीमेन तदा स्मर्ताऽसि मे वचः ॥२८॥

वैशम्पायन उवाच। एतावदुक्त्वा राजा तु सर्वांस्तान् पृथिवीपतीन् ।
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥२९॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्येऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
एकोनषष्टितमोऽध्यायः

धृतराष्ट्र उवाच। यदब्रूतां महात्मानौ वासुदेवधनञ्जयौ ।
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ॥१॥

यदब्रूतामिति ॥१॥

सञ्जय उवाच। शृणु राजन् यथा दृष्टौ यथा कृष्णधनञ्जयौ ।
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ॥२॥

पादाङ्गुलीरभिप्रेक्षन् प्रयतोऽहं कृताञ्जलिः ।
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ॥३॥

नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै ।
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥४॥

उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ ।
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ॥५॥

नैकरत्नविचित्रं तु काञ्चनं महदासनम् ।
विविधास्तरणाकीर्णं यत्रासातामरिन्द‌मौ ॥६॥

आसातामुपविष्टौ ॥६॥

अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये ।
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ॥७॥

काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा ।
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ॥८॥

ऊर्ध्वरेखातलौ पादौ पार्थस्य शुभलक्षणौ ।
पाद‌पीठादपहृतौ तत्रापश्यमहं शुभौ ॥९॥

श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ ।
एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ॥१०॥

इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुद्ध्यते ।
संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ॥११॥

द्रोणभीष्माभ्यां द्रोणभीष्मयोः ॥११॥

निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते ।
सङ्कल्पो धर्मराजस्य निश्चयो मे तदाऽभवत् ॥१२॥

मानसः संकल्पः सेत्स्यते ॥१२॥

सत्कृतश्चान्नपानाभ्यामासीनो लब्धसत्क्रियः ।
अञ्जलिं मूर्ध्नि सन्धाय तौ सन्देशमचोदयम्॥१३॥

धनुर्गुणकिणाङ्केन पाणिना शुभलक्षणम् ।
पादमानमयन् पार्थः केशवं समचोदयत् ॥१४॥

इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः ।
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ॥१५॥

वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् ।
त्रासिनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥१६॥

वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् ।
अश्रौषमहमिष्टार्थां पश्चाद्धृदयहारिणीम् ॥१७॥

वासुदेव उवाच। सञ्जयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् ।
कुरुमुख्यस्य भीष्मस्य द्रोणस्यापि च शृण्वतः ॥१८॥

आवयोर्वचनात् सूत ज्येष्ठानप्यमिवादयन् ।
यवीयसश्च कुशलं पश्चात् पृष्ट्वैवमुत्तरम् ॥१९॥

यजध्वं विविधैर्यज्ञैर्विप्रेभ्यो दत्तदक्षिणाः ।
पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् ॥२०॥

अर्थांस्त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान् ।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥२१॥

ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति ।
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥२२॥

ऋणमिति । वस्त्रापहरणकाले गोविंदेति चुक्रोश तद्वस्त्रप्रदानमात्रेण तस्याक्रोशस्य ऋणं न परिंहृतं किं तु कौरवाणामुच्छेदं विना तद्धृदयान्नापसर्पतीत्यर्थः ॥२२॥

तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् ।
मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ॥२३॥

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति ।
यो न कालपरीतो वाऽप्यपि साक्षात् पुरन्दरः ॥२४॥

बाहुभ्यासुद्वहेद्भूमिं दहेत् क्रुद्ध इमाः प्रजाः ।
पातयेत्त्रिदिवाद्देवान् योऽर्जुनं समरे जयेत् ॥२५॥

देवासुरमनुष्येषु यक्ष-गन्धर्व-भोगिषु ।
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ॥२६॥

यत्तद्विराटनगरे श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥२७॥

एकेन पाण्डुपुत्रेण विराटनगरे यदा ।
भग्नाः पलायत दिशः पर्याप्तं तन्निदर्शनम् ॥२८॥

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता ।
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ॥२९॥

बलं -शारीरम् । वीर्यम् - मानसोत्साहः । तेजः - शौर्यम् । शीघ्रता - शीघ्रं कार्यावबोधः । लघुहस्तता - वेगेन बाणप्रक्षेप्तृता ॥२९॥

इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन् गिरा ।
गर्जन् समयवर्षीव गगने पाकशासनः ॥३०॥

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः ।
अर्जुनस्तन्महद्वाक्यमब्रवीद्रोमहर्षणम् ॥३१॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयेन श्रीकृष्णवाक्यकथने एकोनषष्टितमोऽध्यायः ॥५९॥
षष्टितमोऽध्यायः

वैशम्पायन उवाच। सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः ।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥१॥

सञ्जयस्येति ॥१॥

प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान् विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान् प्रति ॥२॥

बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् ।
शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥३॥

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरून् शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥४॥

वचस एव गुणान् दोषांश्च निश्चित्य स्वेषां परेषां च बलाबलं निश्चित्याह - देवेति । पाण्डवेषु दैवं मानुषं च बलमस्ति अस्माकं तु केवलं मानुषमेवास्तीत्यर्थः । शक्त्या परिच्छिद्येति शेषः ॥४॥

दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥५॥

आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते ।
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥६॥

एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत् प्रियम् ॥७॥

अग्निः साचिव्यकर्ता स्यात् खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन् कुरुपाण्डुसमागमे ॥८॥

दैवं बलाधिक्यं पाण्डवेषु दर्शयति - अग्निरिति । भीमे भयंकरे ॥८॥

जातिगृद्ध्याभिपन्नाश्च पाण्डवानामनेकशः ।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥९॥

जातिगृद्ध्या जन्मग्रहणाद्धेतोः । युधिष्ठिरार्दानां पितरोः धर्मादयोऽपि तेषांसहायाः सन्ति ॥९॥

भीष्म-द्रोण-कृपादीनां भयादशनिसन्निभम् ।
रिरक्षिपन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥१०॥

रिरक्षिषन्तः रक्षितुमिच्छन्तः संरंभं क्रोधम् ॥१०॥

ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥११॥

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
दारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥१२॥

वानरश्च ध्वजे दिव्यो निःसङ्गो धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥१३॥

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दः शात्रवाणां भयङ्करः ॥१४॥

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥१५॥

शतानि पञ्च चैवेषून् यो गृह्णन्नैव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन् दूरं च पातयन् ॥१६॥

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥१७॥

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं नरशार्दूलं पराजेतुमरिन्दमम् ॥१८॥

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥१९॥

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् ।
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन् महाहवे ॥२०॥

इत्येवं चिन्तयन् कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥२१॥

क्षयोदयोऽयं सुमहान् कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥२२॥

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवान् शक्तिमत्तरान् ॥२३॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रविवेचने षष्टितमोऽध्यायः ॥६०॥
एकषष्टितमोऽध्यायः

वैशम्पायन उवाच। पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥१॥

पितुरिति ॥१॥

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।
मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥२॥

अकामद्वेषसंयोगाल्लोभाद्द्रोहाच्च भारत ।
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥३॥

अकामेति । कामद्वेषयोरसंयोगात् ॥३॥

इति द्वैपायनो व्यासो नारदश्च महातपाः ।
जामदग्न्यश्च रामो नः कथामकथयत् पुरा ॥४॥

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।
कामात् क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ ॥५॥

यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।
कामयोगात् प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥६॥

तस्मान्न भवता चिन्ता कार्यैषा स्यात् कथञ्चन ।
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥७॥

दैवोष्विति । एते देवादयः दैवेषु भावेषु शमदमादिषु शश्वदपेक्षका अपेक्षमाणाः न तु आसुरेषु भावेषु कामक्रोधादिषु । तस्माद्देवाः पाण्डवानां साहाय्यं न करिष्यन्तीति भावः ॥७॥

अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते ।
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति ॥८॥

अथेति । दैवप्रामाण्यात् वेदप्रामाण्यात् कामादिमता कृतमपि निष्फलं भविष्यतीत्यर्थः ॥८॥

मयाऽभिमन्त्रितः शश्वज्जातवेदाः प्रशाम्यति ।
दिधक्षुः सकलाঁल्लोकान् परिक्षिप्य समन्ततः ॥९॥

दैवं बलमप्यस्तीत्याह- मयाऽभीति ॥९॥

यद्वा परमकं तेजो येन युक्ता दिवौकसः ।
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥१०॥

विदीर्यमाणां वसुधां गिरीणां शिखराणि च ।
लोकस्य पश्यतो राजन् स्थापयाम्यभिमन्त्रणात् ॥११॥

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।
विनाशाय समुत्पन्नमहं घोरं महास्वनम् ॥१२॥

अश्मवर्षं च वायुं च शमयामीह नित्यशः ।
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥१३॥

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।
देवासुराणां भावानामहमेकः प्रवर्तिता ॥१४॥

अक्षौहिणीभिर्यान् देशान् यामि कार्येण केनचित् ।
तत्राश्वा मे प्रवर्तन्ते यत्र यत्राभिकामये ॥१५॥

भयानकानि विषये व्यालादीनि न सन्ति मे ।
मन्त्रगुप्तानि भूतानि न हिंसन्ति भयङ्कराः ॥१६॥

निकामवर्षी पर्जन्यो राजन् विषयवासिनाम् ।
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥१७॥

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥१८॥

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा ।
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥१९॥

मद्द्विषः मच्छत्रून् ॥१९॥

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥२०॥

यदभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् ।
नैतद्विपन्नपूर्वं मे मिवेष्वरिषु चोभयोः ॥२१॥

अभिध्यामि चिन्तयामि ॥२१॥

भविष्यतीदमिति वा यद्ब्रवीमि परन्तप ।
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः ॥२२॥

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥२३॥

न ह्यहं श्लाघनो राजन् भूतपूर्वः कदाचन ।
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥२४॥

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान् केकयैः सह ।
सात्यकिं वासुदेवं च श्रोताऽसि विजितान् मया ॥२५॥

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।
तथैव ते विनंक्ष्यन्ति मामासाद्य सहान्वयाः ॥२६॥

परा बुद्धिः परं तेजो वीर्यं च परमं मम ।
परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥२७॥

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।
अस्त्रेषु यत् प्रजानन्ति सर्वं तन्मयि विद्यते ॥२८॥

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारतः ।
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः ॥२९॥

इतीति । इति एवं दुर्योधनोक्तं धृतराष्ट्रः सञ्जयं प्रति उक्त्वा प्राप्तकालं पूर्वप्रस्तुतम् अर्जुनमाहात्म्यमेव अपृच्छत् । इदं मत्पुत्रस्य बलं ज्ञात्वा पाण्डवबलं च त्वं ब्रूहीत्यर्थः । युयुत्सोः वैश्यापुत्रस्य पाण्डवेष्वनुरक्तस्य कार्याणि ज्ञात्वा । एतेषां सर्वेषां विनाशेन तस्यैव राज्यलाभरूपाणि कार्याणि भविष्यन्तीति ज्ञात्वेत्यर्थः ॥२९॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि दुर्योधनवाक्ये एकषष्टितमोऽध्यायः ॥६१॥
द्विषष्टितमोऽध्यायः

वैशम्पायन उवाच। तथा तु पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा ।
उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन् संसदि कौरवाणाम् ॥१॥

तथेति । पार्थं पृच्छन्तं वैचित्रवीर्यमचिन्तयित्वेति सम्बन्धः ॥१॥

मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात् कृतं ब्रह्ममयं पुरस्तात् ।
विज्ञाय तेनास्मि तदैव मुक्तस्तेनान्तकाले प्रतिभाऽस्यतीति ॥२॥

हे स्तेन अन्तकाले प्रतिभा अस्त्रस्मृतिः अस्यति क्षिपति त्वां त्यक्ष्यतीत्यर्थः ॥२॥

महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः ।
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः ॥३॥

प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण ।
तदस्ति चास्त्रं मम सावशेषं तस्मात् समर्थोऽस्मि ममैष भारः॥४॥

सावशेषं मम आयुरस्ति । अतोऽन्तकालस्यानुपस्थितत्वात्तदस्त्रं ममास्तीत्त्यहं समर्थोऽस्मि । अर्जुनं जेतुमित्यर्थः ॥४॥

निमेषमात्रात्तमृषेः प्रसादमवाप्य पाञ्चाल-करूष-मत्स्यान् ।
निहत्य पार्थान् सह पुत्रपौत्रैर्लोकानहं शस्त्रजितान् प्रपत्स्ये ॥५॥

प्रपत्स्ये प्रापयिष्ये ॥५॥

पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।
यथा प्रधानेन बलेन गत्वा पार्थान् हनिष्यामि ममैष भारः ॥६॥

एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे ।
न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः ॥७॥

प्रधाने त्वयि हते सति सर्वे हताः स्युरत आत्मानं गोपायेत्युपहासः ॥७॥

यत् खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन ।
श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सह बान्धवेन ॥८॥

आत्मा मनो नियन्तुं युक्तः । अर्जुनद्वेषादुपरमः कर्तव्यस्तस्य दुर्जयत्वं ज्ञात्वेति भावः ॥८॥

यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान् महेन्द्रः ।
भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन ॥९॥

यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात् ।
स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ॥१०॥

बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः ।
यस्त्वादृशानां च वरीयसां च हन्ता रिपूणां तुमुले प्रगाढे ॥११॥

कर्ण उवाच। असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयांश्च ततो महात्मा ।
अहं यदुक्तः परुषं तु किञ्चित् पितामहस्तस्य फलं शृणोतु ॥१२॥

न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मा सभायाम् ।
त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥१३॥

मां कृतविजयं सभायां द्रक्ष्यति । अयं भावः - यद्यहं योत्स्ये तर्हि एतस्य जीवनं भविष्यति तन्माभूदतोऽयं निःसारो म्रियतामिति ॥१३॥

वैशम्पायन उवाच। इत्येवमुक्त्वा स महाधनुष्मान् हित्वा सभां स्वं भवनं जगाम ।
भीष्मस्तु दुर्योधनमेव राजन् मध्ये कुरूणां प्रहसन्नुवाच ॥१४॥

सत्यप्रतिज्ञः किल सूतपुत्रस्तथा स भारं विषहेत कस्मात् ।
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात् ॥१५॥

सत्यप्रतिज्ञः पूर्वमादावेव योत्स्य इत्युक्त्वा इदानीं मयि सति न योत्स्य इति वदति मज्जीवनपर्यन्तं त्वत्क्षयमुपेक्षते स कथं मित्रमिति भावः ॥१५॥

आवन्त्य-कालिङ्ग-जयद्रथेषु चेदिध्वजे तिष्ठति बाह्लिके च ।
अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतश्च योधान् ॥१६॥

यदैव रामे भगवत्यनिन्द्ये ब्रह्म ब्रुवाणः कृतवांस्तदस्रम् ।
तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य ॥१७॥

ब्रह्म ब्रुवाणः ब्राह्मणोऽहमिति वदन् ॥१७॥

वैशम्पायन उवाच। तथोक्तवाक्ये नृपतीन्द्र भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे ।
वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनः शान्तनवं बभाषे ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि कर्णभीष्मवाक्ये द्विषष्टितमोऽध्यायः ॥६२॥
त्रिषष्टितमोऽध्यायः

दुर्योधन उवाच। सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् ।
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥१॥

सदृशानामिति ॥१॥

वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः ।
समेन वयसा चैव प्रातिभेन श्रुतेन च ॥२॥

प्रातिभेन समयस्फूर्त्या ॥२॥

अस्त्रेण योगयुग्या च शीघ्रत्वे कौशले तथा ।
सर्वे स्म समजातीयाः सर्वे भानुषयौनयः ॥३॥

योधयुग्या शूरसमृद्ध्या- युजेरौणादिकः किः- कुत्वमार्षम् ॥३॥

पितामह विजानीषे पार्थेषु विजयं कथम् ।
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ॥४॥

अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ।
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ॥५॥

पाण्डवान् समरे पञ्च हनिष्यामः शितैः शरैः ।
ततो राजन् महायज्ञैर्विविधैर्भूरिदाक्षणैः ॥६॥

ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ।
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना ॥७॥

तरित्रा नौरक्षकाः कर्णधारादयः तद्रहितान् जलं यथा परिहरति आवर्तेषु पातयति । अनरित्रानिति पाठे 'अरित्रं केनिपातनम् नौचालनदण्डस्तद्रहितानित्यर्थः । तद्वत् मामकास्तान् रणे बाहुभ्यां परिहरिष्यन्ति॥७॥

अतरित्रानिव जले बाहुभिर्मामका रणे ।
पश्यन्तस्ते परांस्तत्र रथ-नाग-समाकुलान् ।
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ॥८॥

विदुर उवाच। इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥९॥

अदान्तोऽयं कुलक्षयं करिष्यतीति वक्ष्यन् दममेव प्रशंसन्विदुर उवाच- इहेति । किं तन्निःश्रेयसं कल्याणं ब्राह्मणस्य ब्रह्मजिज्ञासोः दम एव सनातनोऽनादिर्मुख्यो धर्मः ॥९॥

तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ॥१०॥

तस्य पुंसः दानं क्षमासिद्धिर्मोक्षश्च उपपद्यते कस्य यस्य दमः दानादीन् अनुवर्तते । दान्तः सन् यो दानादिकं करोति स दानफलं क्षमां सिद्धिं च प्राप्नोतीत्यर्थः ॥१०॥

दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥११॥

विन्दते लभते दमेन महद्ब्रह्म ॥११॥

क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा ॥१२॥

आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ॥१३॥

समुदयः उद‌यहेतुः ॥१३॥

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं हरिचापलम् ॥१४॥

तान्येवाह - क्षमा परेभ्यः ताडनादिप्राप्तावपि संतापानुदयः । धृतिः- कामादिभिरननुतप्तता अहिंसा- वाङ्मनःशरीरैः परस्य पीडाया अकरणम् । समता- शत्रुमित्रादौ तुल्यत्वम् । सत्यं- यथार्थभाषणम् । आर्जवम्- अकौटिल्यम् । इन्द्रियाणां जयः धैर्यम् अत्यन्तापद्यपि मनसोऽवैक्लव्यम् । मार्दवं - प्रियवादिता । ह्रीरकार्यान्निवृत्तिः । अचापलं - स्थैर्यं वाड्मनःकायानाम् । एते दान्तानां गुणाः ॥१४॥

अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥१५॥

कामो लोमश्च दर्पश्च मन्युर्निद्रा विकत्थनम् ।
मान ईर्ष्या च शोकश्च नैतद्दान्तो निषेवते ।
अजिह्ममशठं शुद्ध‌मेतद्दान्तस्य लक्षणम् ॥१६॥

काम इति। कामादिमत्वादयमदान्त इत्यर्थः । अजिह्ममकुटिलम् । अशठं सुशीलम् । शुद्धं मनसा॥१६॥

अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः ॥१७॥

अलोलुपः आशाहीनः। कामानां स्त्र्यादीनामविचिन्तिता ध्यानमकुर्वन् । समुद्रकल्पः गंभीराशयः॥१७॥

सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद्बुधः ।
प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति ॥१८॥

प्रसन्नात्मा शुद्धचित्तः अत एवात्मवित् बुधः ज्ञातज्ञेयः प्रेत्य मृत्वा ॥१८॥

अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ॥१९॥

सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः ।
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ॥२०॥

कर्मणाऽऽचरितं पूर्वं सद्भिराचरितं च यत् ।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥२१॥

कर्मणेति । दैवदत्तैर्भोगैः सदाचारेण च ये युक्तास्ते दान्तास्त एव च मोदन्ते ॥२१॥

नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः ।
कालाकाङ्क्षी चरঁल्लोके ब्रह्मभूयाय कल्पते ॥२२॥

नैष्कर्म्यं वाङ्मनःशरीराणां सर्वात्मना अप्रवृत्तिः निर्विकल्पकावस्था । तत्र हेतुः ज्ञानतृप्तः श्रवणमननजेनापरोक्षज्ञानेन तृप्तः रागद्वेषशून्यः । तत्रापि हेतुः जितेन्द्रियः कालाकाङ्क्षी सर्वत्र ममताशून्यः ब्रह्मभूयाय ब्रह्मभावाय कल्पते योग्यो भवति ॥२२॥

शकुनीनामिवाकाशे पदं नैवोपलभ्यते ।
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ॥२३॥

ब्रह्मभूयफलमाह- शकुनीनामिति । ‘न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतेर्ब्रह्मविदोऽनुपाख्यं रूपं गतस्य गगनवद्विश्वव्यापिनो गत्यभावात् स्वर्गिणामिव तस्य मार्गो न दृश्यते ॥२३॥

उत्सृज्यैव गृहान् यस्तु मोक्षमेवाभिमन्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ॥१४॥

तान्येवाह - क्षमा परेभ्यः ताडनादिप्राप्तावपि संतापानुदयः । धृतिः- कामादिभिरननुतप्तता अहिंसा- वाङ्मनःशरीरैः परस्य पीडाया अकरणम् । समता- शत्रुमित्रादौ तुल्यत्वम् । सत्यं- यथार्थभाषणम् । आर्जवम्- अकौटिल्यम् । इन्द्रियाणां जयः धैर्यम् अत्यन्तापद्यपि मनसोऽवैक्लव्यम् । मार्दवं - प्रियवादिता । ह्रीरकार्यान्निवृत्तिः । अचापलं - स्थैर्यं वाड्मनःकायानाम् । एते दान्तानां गुणाः ॥१४॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धि-पर्वणि विदुरवाक्ये त्रिषष्टितमोऽध्यायः ॥६३॥
चतुःषष्टितमोऽध्यायः

विदुर उवाच। शकुनीनामिहार्थाय पाशं भूमावयोजयत् ।
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥१॥

दमस्य श्रेष्ठ्यं प्रतिपाद्यादान्तयोः कलहं कुर्वतोर्द्वयोरपि नाश इति प्रतिपादयन्नाख्यायिकामुखेनाह - शकुनीनामिति । पूर्वेषां मुखात् ॥१॥

तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ ।
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥२॥

तौ विहाय समाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।
अन्वधावद‌निर्विण्णो येन येन स्म गच्छतः ॥३॥

विहायसं व्योम ॥३॥

तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् ।
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥४॥

तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् ।
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥५॥

विचित्रमिदमाश्चर्यं मृगहन् प्रतिभाति मे ।
प्लवमानौ हि खचरौ पदातिरनुधावसि ॥६॥

शाकुनिक उवाच। पाशमेकमुभावेतौ सहितौ हरतो मम ।
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥७॥

विदुर उवाच। तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ ।
विगृह्य च सुदुर्बुद्धी पृथिव्यां सन्निपेततुः ॥८॥

तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।
उपसृत्यापरिज्ञातो जग्राह मृगहा तदा ॥९॥

एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।
तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥१०॥

अमित्रेति छेदः ॥१०॥

सम्भोजनं सङ्कथनं संप्रश्नोऽथ समागमः ।
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥११॥

ये स्म काले सुमनसः सर्वे वृद्धानुपासते ।
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥१२॥

येऽर्थं सन्ततमासाद्य दीना इव समासते ।
श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥१३॥

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥१४॥

इदमन्यत् प्रवक्ष्यामि यथा दृष्टं गिरौ मया ।
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥१५॥

वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः ॥१६॥

विद्याजंभकवार्तिकाः विद्या मन्त्रयंत्रादिरूपा जंभक औषधीसाधनानि तद्वार्ताप्रियाः विद्याजंभकवार्तिकाः ॥१६॥

कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् ।
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥१७॥

कुञ्जभूतं सर्वतो लताभिः परिवृतम् ॥१७॥

तत्रापश्याम वै सर्वे मधुपीतकमाक्षिकम् ।
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥१८॥

पीतकमाक्षिकं सुवर्णमाक्षिकं धातुविशेषः ॥१८॥

आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् ।
यत्प्राप्य पुरुषो मत्यर्थोऽप्यमरत्वं नियच्छति ॥१९॥

अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा ।
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥२०॥

ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते ।
विनेशुर्विषमे तस्मिन् ससर्पे गिरिगह्वरे ॥२१॥

तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति ।
मधु पश्यति सम्मोहात् प्रपातं नानुपश्यति ॥२२॥

दुर्योधनो योद्धमनाः समरे सव्यसाचिना ।
न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥२३॥

एकेन रथमास्थाय पृथिवी येन निर्जिता ।
भीष्मद्रोणप्रभृतयः सन्त्रस्ताः साधुयायिनः ॥२४॥

विराटनगरे भग्नाः किं तत्र तव दृश्यताम् ।
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥२५॥

तव दृश्यतां त्वया द्रष्टव्यं बलमिति शेषः । यो वीरः कर्णादिः ॥२५॥

द्रुपद्रो मत्स्यराजश्च संक्रुद्धश्च धनञ्जयः ।
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥२६॥

अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् ।
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥२७॥

युद्ध्यतोरन्यतरस्य नाशोऽपि त्वन्नाश एवेति भावः ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि यानसान्धपर्वणि विदुरवाक्ये चतुःषष्टितमोऽध्यायः ॥६४॥
पञ्चषष्टितमोऽध्यायः

धृतराष्ट्र उवाच। दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥१॥

दुर्योधनेति । उत्पथममार्गमेव मार्गं मन्यसे ॥१॥

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि ।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ॥२॥

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् ।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ॥३॥

परां गतिं मरणम् असंप्रेत्य अप्राप्य मरिष्यस्येवेत्यर्थः ॥३॥

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।
रणान्तकं तर्जयसे महावातमिव द्रुमः ॥४॥

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव ।
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ॥५॥

धुष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।
शत्रुमध्ये शरान् मुञ्चन् देवराडशनीमिव ॥६॥

न शातयेत् न छिन्द्यात् ॥६॥

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥७॥

यः पुनः प्रतिमानेन त्रीन् लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ॥८॥

प्रतिमानेन तुल्यत्वेन ॥८॥

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥९॥

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्याऽपि तद्बलं यत्र केशवः ॥१०॥

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥११॥

भीष्मं तितिक्षस्व तद्वाक्यं गृहाणेत्यर्थः ॥११॥

मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥१२॥

एते ह्यपि यथैवाहं मंतुमर्हसि तांस्तथा ।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥१३॥

यत्तद्विराटनगरे सह भ्रातृ‌भिरग्रतः ।
उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत ॥१४॥

यच्चैव नगरे तस्मिन् श्रूयते महद‌द्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥१५॥

अर्जुनस्तत्तथाऽकार्षीत् किं पुनः सर्व एव ते ।
सभ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ॥१६॥

वृत्त्या राज्यार्धदानेन प्रतिपादय संभावय ॥१६॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्ये पञ्चषष्टितमोऽध्यायः ॥६५॥
षट्षष्टितमोऽध्यायः

वैशम्पायन उवाच। एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् ।
पुनरेव महाभागः सञ्जयं पर्यपृच्छत ॥१॥

एवमिति ॥१॥

ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यदर्जुन उवाच त्वां परं कौतूहलं हि मे ॥२॥

सञ्जय उवाच। वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः ।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥३॥

पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च कर्णं च महाराजं च बाह्निकम् ॥४॥

द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् ।
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ॥५॥

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ॥६॥

सैन्धवं दुःसहं चैव भूरिश्रवसमेव च ।
भगदत्तं च राजानं जलसन्धं च पार्थिवम् ॥७॥

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागता कौरवाणां प्रियार्थम् ।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण होतुम् ॥८॥

यथान्यायं कौशलं वन्दनं च समागता मद्वचनेन वाच्याः ।
इदं ब्रूयाः सञ्जय राजमध्ये सुयोधनं पापकृतां निधानम् ॥९॥

अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् ।
सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः ॥१०॥

एवं प्रतिष्ठाप्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् ।
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः ॥११॥

लोहितान्ते आयते च अक्षिणी यस्य स लोहितान्तायताक्षः ॥११॥

यथा श्रुतं ते वदतो महात्मनो मधु प्रवीरस्य वचः समाहितम् ।
तथैव वाच्यं भवता हि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥१२॥

शराग्निधूमे रथनेमिनादिते धनुः स्रुवेणास्त्रबलप्रसारिणा ।
यथा न होमः क्रियते महामृधे समेत्य सर्वे प्रयतध्वमादृताः ॥१३॥

शराणां मिथः सन्निपातजोऽग्निस्तस्य धूमो यस्मिन् यज्ञे इति शेषः । रथध्वनिरेव मन्त्रस्थाने । धनुःस्रुवेण अस्त्रबलेन प्रसरति । शास्त्रबलेनेव यज्ञः ॥१३॥

न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यांशमभीप्सितं स्वकम् ।
न यामि वः साश्वपदातिकुञ्जरान् दिशं पितॄणामशिवां शितैः शरैः ॥१४॥

ततोऽहमामन्त्र्य तदा धनञ्जयं चतुर्भुजं चैव नमस्य सत्वरः ।
जवेन संप्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥१५॥

चतुर्भुजमिति । सञ्जयस्यापि योगिदृश्यं भगवतश्चतुर्भुजं रूपं सदा दृष्टिगोचरमासीदित्यनुमीयते॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये षट्षष्टितमोऽध्यायः ॥६६॥
सप्तषष्टितमोऽध्यायः

वैशम्पायन उवाच। दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति ।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥१॥

दुर्योधन इति ॥१॥

उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥२॥

आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्॥३॥

परेषां तटस्थानाम् ॥३॥

धृतराष्ट्र उवाच। गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायां यावदिहास्ति किञ्चित् ।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः॥४॥

त्वमेतयोः सारवित् सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।
स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥५॥

युद्ध्यमाना न सन्ति उदासीना इत्यर्थः ॥५॥

सञ्जय उवाच। न त्वां ब्रूयां रहिते जातु किञ्चिदसूया हि त्वां प्रविशेत राजन् ।
आनयस्व पितरं महाव्रतं गान्धारीं च महिर्षामाजमीढ ॥६॥

असूया मयि दोषदृष्टिः । पितरं व्यासम् ॥६॥

तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत् ॥७॥

वैशम्पायन उवाच। इत्युक्तेन च गान्धारी व्यासश्चात्राजगाम ह ।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥८॥

ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च ।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥९॥

व्यास उवाच। संपृच्छते धृतराष्ट्राय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।
सर्वं यावद्वेत्थ तस्मिन् यथावद्याथातथ्यं वासुदेवेऽर्जुने च ॥१०॥

अनुयुङ्क्ते पृच्छति ॥१०॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि व्यासगान्धार्यागमने सप्तषष्टितमोऽध्यायः ॥६७॥
अष्टषष्टितमोऽध्यायः

सञ्जय उवाच। अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ ।
कामादन्यत्र सम्भूतौ सर्वभावाय सम्मितौ ॥१॥

अर्जुन इति । कामादिति कामपूर्वकं कर्मोच्यते । अकर्मजं तयोर्जन्म लोकानुग्रहार्थं सूर्यवदाविर्भावमात्रमित्यर्थः । सर्वभावाय ब्रह्मभावाय संमितौ तुल्यौ उभावपि साक्षाद्ब्रह्मरूपावित्यर्थः ॥१॥

व्यामान्तरं समास्थाय यथामुक्तं मनस्विनः ।
चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥२॥

व्यामान्तरं प्रसारितयोर्हस्तयोर्यावान् विस्तारः पञ्चहस्तमितः तावत् अन्तरं मध्यप्रमाणं यस्य तद्व्यामान्तरं यथामुक्तं यथा यथारूपं यावत्प्रमाणं चिन्तितं तावत्प्रमाणं भूत्वा यत् मुक्तं भवति । मायया दुर्लक्ष्यरूपेणत्येर्थः ॥२॥

सापह्नवं कौरवेषु पाण्डवानां सुसम्मतम् ।
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ॥३॥

सापह्नवं ससंहारमत एव पाण्डवानां सुसंमतम् ॥३॥

नरकं शम्बरं चैव कंसं चैद्यं च माधवः ।
जितवान् घोरसङ्काशान् क्रीडन्निव महाबलः ॥४॥

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥५॥

मनसैव संकल्पमात्रेण विशिष्टात्मा श्रेष्ठरूपः वशी ऐश्वर्यवान् ॥५॥

भूयो भूयो हि यद्राजन् पृच्छसे पाण्डवान् प्रति ।
सारासारबलं ज्ञातुं तत् समासेन मे शृणु ॥६॥

एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः ।
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥७॥

भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः ।
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ॥८॥

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः ।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः॥९॥

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः ।
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥१०॥

विचेष्टयति चालयति यतो भूतात्मा सर्वेषां भूतानामन्तरात्मा ॥१०॥

स कृत्वा पाण्डवान् सत्रं लोकं संमोहयन्निव ।
अधर्मनिरतान् मूढान् दग्धुमिच्छति ते सुतान् ॥११॥

सत्रं मिषम् ‘सत्रमाच्छादने यज्ञे सदादाने च कैतवे’ इति विश्वः । संमोहयन् आत्मनो जगत्कर्तृत्वेऽपि अकर्तृत्वं दर्शयन् ॥११॥

कालचक्रं जगच्चक्रं युगचक्रं च केशवः ।
आत्मयोगेन भगवान् परिवर्तयतेऽनिशम् ॥१२॥

कालचक्रं संवत्सरात्मकम् । जगच्चक्रं जगतो जन्मस्थितिलयप्रवाहं युगचक्रं कर्मचक्रं कृतं यत्र धर्मश्चतुष्पात् त्रेतायां त्रिपाद्धर्म एकपादधर्मः । द्वापरेऽर्धं धर्मोऽर्धमधर्मः । कलौ त्रिपात्पापम् एकपाद्धर्म इति । तदिदं कर्मचक्रं पुनःपुनर्जन्ममरणयोर्हेतुभूतं पुनः कर्म पुनः संसारः पुनः कर्मेत्येवंरूपमात्मयोगेन चैतन्यसम्बन्धेन । न हि संवत्सरादिकं केवलजडाश्रयं भवितुमर्हति । सर्वस्य चिदेकप्रकाश्यत्वात् ॥१२॥

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ॥१३॥

कालः आयुःपरिच्छेदकर्त्री देवता मृत्युर्देहप्राणयोर्वियोगकर्त्री ईशते ईष्टे ॥१३॥

ईशन्नपि महायोगी सर्वस्य जगतो हरिः ।
कर्माण्यारभते कर्तुं कीनाश इव वर्धनः ॥१४॥

ईशन्नपि ईशानोऽपि - शपोऽलुक् परस्मैपदं चार्षम् । कीनाशः कर्षकः वर्धनः धान्यादिवृद्धिकृत् । यद्वा कीनाशो यमः वर्धनः देहादेश्छेत्ता ॥१४॥

तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥१५॥

ते नरा न मुह्यन्ति ॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये अष्टषष्टितमोऽध्यायः ॥६८॥
ऊनसप्ततितमोऽध्यायः

धृतराष्ट्र उवाच। कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥१॥

कथमिति । कथं केन प्रकारेण कानि ज्ञानसाधनानि कानि वा ज्ञानप्रतिबन्धकानीति प्रश्नार्थः ॥१॥

सञ्जय उवाच। शृणु राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥२॥

विद्या तत्त्वमस्यादिवाक्यजं ज्ञानं तेन हीनो यः स तमोध्वस्तस्तमसा स्वस्वरूपात् निर्विषयानन्दमात्रात् च्युतः ॥२॥

विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥३॥

विद्यया तमोविरोधिन्या त्रियुगं त्रीणि स्थूलसूक्ष्मकारणशरीराणि युज्यन्ते रज्जूरगवत् सम्बध्यन्ते यस्मिन् अधिष्ठानभूते तं त्रियुगमज्ञानकल्पितस्यावस्थात्रयस्य विद्यया बाधे सति निरुपाधिप्रत्यगात्मरूपं ज्ञायत इत्यर्थः । कर्तारं विश्वस्य निमित्तकारणमकृतं कर्मभिरसाध्यं नित्यसिद्धत्वात् । भूतानां वियदादीनां प्रभवमुत्पत्तिस्थानम् । अप्ययो लयस्थानम् ॥३॥

धृतराष्ट्र उवाच। गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥४॥

भक्तिः आराध्यत्वेन ज्ञानं तच्च कीदृशं किं भेदेन राजवत्तटस्थतया भगवान् ध्येय उत प्रत्यगात्मत्वेनेति भावः ॥४॥

सञ्जय उवाच। मायां न सेवे भद्रं ते न वृथा धर्ममाचरे ।
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥५॥

मायां पुत्रकलत्राद्याकारेण परिणतामविद्यां न सेवे । वृथा धर्मं भगवदर्पणं विना न चरामि । शुद्धभावं मनसः कामक्रोधादिराहित्येन नैर्मल्यं गतः प्राप्तः भक्त्या ध्यानेन । शास्त्रात् तत्त्वमसीत्यागमात् । जनार्दनं जगल्लयाधिष्ठानं ज्ञानमात्रव्यवहितं ब्रह्म । नास्मि संसारी । ब्रह्मैवास्मीति तत्त्वालोचनात्मकेन ज्ञानेनैव प्राप्यते । नायं सर्पो रज्जुरेवेयमितिवत् । न तु कीटभृङ्गन्यायेन भावनादित्यर्थः ॥५॥

धृतराष्ट्र उवाच। दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् ।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥६॥

दुर्योधन उवाच। भगवान् देवकीपुत्रो लोकांश्चेन्निहनिष्यति ।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥७॥

अर्जुने विशुद्धे कामक्रोधादिमलशून्ये सख्यं वदन् भगवानस्ति अद्य कामाद्याक्रान्तदशायां नाहं गच्छे न प्राप्नुयाम् । आसुरो भावो न मया त्यक्तुं शक्योऽतो न मे तत्प्राप्तिसंभावनाऽपीत्यर्थः ॥७॥

धृतराष्ट्र उवाच। अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥८॥

अवाक् अधो नरकमित्यर्थः । श्रेयसां साधूनां वचनातिगः उपदेशावमानी ॥८॥

गान्धार्युवाच ।
ऐश्वर्यकाम दुष्टात्मन् वृद्धानां शासनातिग ।
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥९॥

वर्धयन् दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताऽसि वचनं पितुः ॥१०॥

व्यास उवाच। प्रियोऽसि राजन् कृष्णस्य धृतराष्ट्र निबोध मे ।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥११॥

जानात्येष हृषीकेशं पुराणं यच्च वै परम् ।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ॥१२॥

ऐकाग्र्यं शुश्रूषमाणं सेवमानं त्वां मोक्ष्यते मोचयिष्यति ॥१२॥

वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥१३॥

सिताः बद्धाः पाशैः कामादिभिः ॥१३॥

यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥१४॥

अन्धो नेता येषां ते अन्धनेत्राः ॥१४॥

एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति ॥१५॥

एषः ज्ञानमार्गः एकायनः एकस्य ब्रह्मणः प्रापकः तं दृष्ट्वा तं मार्गं ज्ञात्वा मृत्युं संसारमत्येति अतिक्रम्य गच्छति । अभ्येतीति पाठे आत्मत्वेन मृत्युरप्येनं प्रविशतीत्यर्थः। तथा च श्रुतिः - ‘तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति’ इति । देवाश्च न देवा अपि तत्र संसारे महान् न सज्जति सक्तो न भवति ॥१५॥

धृतराष्ट्र उवाच। अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् ।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ॥१६॥

सिद्धिं मोक्षम् ॥१६॥

सञ्जय उवाच। नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥१७॥

अकृतात्मा अजितमनाः कृतात्मानं नित्यसिद्धं प्रत्यगात्मानमात्मनः स्वस्य इन्द्रियनिग्रहादन्यत्र इन्द्रियनिग्रहं विना क्रिया यागादिरूप उपायः प्राप्त्युपायो नास्ति ॥१७॥

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥१८॥

इन्द्रियाणामप्रमादतः अवहिततया कामत्यागः अप्रमादः अविहिंसेति छेदः । ज्ञानस्य योनिः कारणम् ॥१८॥

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्यवतु नियच्छैनां यतस्ततः ॥१९॥

मा च्यवतु तत्त्वात् प्रच्युता मा भूत् यतस्ततः सर्वेभ्य आन्तरेभ्यो बाह्येभ्यश्च विषयेभ्यो नियच्छ निगृह्णीष्व ॥१९॥

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥२०॥

इन्द्रियाणां समनस्कानां धारणं निग्रहणम् ॥२०॥

अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ॥२१॥

आगमाधिगमात् शास्त्रयुक्त्योर्लाभात् योगात् चित्तवृत्तिनिरोधात् । वशी ईश्वरः । तत्त्वे स्वयाथात्म्ये विषये प्रसीदति ज्ञानदानेन अनुगृह्णाति ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये ऊनसप्ततितमोऽध्यायः ॥६९॥
सप्ततितमोऽध्यायः

धृतराष्ट्र उवाच। भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः ।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥१॥

भूय इति । नाम्नां कर्मणां च अर्थवित् भूत्वा ॥१॥

सञ्जय उवाच। श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम् ।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥२॥

यावद‌भिजाने तावत् वदामीति शेषः । वस्तुतस्तु सः अप्रमेयो वाचामगोचरः ॥२॥

वसनात् सर्वभूतानां वसुत्वाद्देवयोनितः ।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥३॥

वस्ते आच्छादयति मायया आवृणोतीति वा वस्यति स्तभ्नाति भुवनमिति वा वसत्यस्मिन् भुवनमिति वा वासुः स चासौ देवो द्योतमानश्च वासुदेवः, वसन्ति देवा अस्मिन्निति वा; करणग्रामस्योद्भवप्रलयस्थानमित्यर्थः । बृहत्त्वाद्व्यापकत्वात् वेवेष्टि व्याप्नोति सर्वमिति विष्णुः ॥३॥

मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् ।
सर्वतत्त्वमयत्वाच्च मधुहा मधुसूदनः ॥४॥

मौनात् ध्यानाच्च योगाच्चेति मा धीवृत्तिः तां स्वस्य उपाधिभूतां मौनादिभिः धवयति दूरीकरोतीति माधवः । मौनं- मुनेः कर्म मननं शास्त्रतो युक्तितश्च तत्त्वालोचनम्, ध्यानं- निश्चिते तत्त्वे चेतसः प्रणिधानं योगस्तस्यैव चेतसो निरोधः । मधुसूदनो मधोर्दैत्यस्य नाशकः श्रीकृष्णः । सर्वाणि चतुर्विंशतिसंख्यानि तत्त्वानि तन्मयत्वात् तत्प्रधानत्वात् । मधुहा मधूनि पृथिव्यादीनि हन्ति संहरति गच्छन्ति वा एनमिति मधुहा । ‘इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु’ इति श्रुत्या पृथिव्यादितत्त्वजातस्य मधुशब्देनैवनिर्देशात् ॥४॥

कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥५॥

कृषिः कर्षत्यात्मनि सर्वं संहरतीतिः कृषिः सर्वप्रपञ्चबाधावधिभूतं सत्तामात्रम् । भूवाचकः भवतीति भूः सत्ता तद्वाचकः कृषिरिति शब्दः । णश्च निर्वृतिः सुखं विष्णुस्तद्भावयोर्धात्वर्थयोर्योगात् कृष्णः सन्मात्रानन्दरूपो भवतीत्यर्थः ॥५॥

पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात् पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ॥६॥

पुण्डरीकं श्वेतपद्मं तत्सदृशं पुण्डरीकमिव पुण्डरीकं हृदयकमलं धाम वासस्थानं तत्र सन्नपि अक्षो न क्षीयते हन्यते वेति पुण्डरीकाक्षः । तथा च श्रुतिः- ‘नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते’ इति । हृत्पद्मदोषैर्जरानाशादिभिः परमात्मनोऽस्पृष्टत्वमाह । दस्युत्रासात् जनं दस्युजनं अर्दयति पीडयतीति जनार्दन इत्यर्थः ॥६॥

यतः सत्त्वान्न च्यवते यच्च सत्त्वान्न हीयते ।
सत्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥७॥

सत्त्वमबाधितत्वमस्यास्तीति सत्वतः ‘तप्पर्वमरुद्भ्याम्’ इति स्मृतो मत्वर्थीयस्तप्प्रत्ययो बाहुलकात् सत्वशब्दादपि बोध्यः अत्र सत्वेन अत्याज्यः सत्वं च यस्य अत्याज्यं स सत्वतः सत्वत एव सात्वतः- राक्षसवायसादिवत्स्वार्थे तद्धितः- आर्षं वेदस्तेन भातीत्यार्षभ औपनिषदः पुरुषः उपनिषद्वेद्यत्वाद्योगात् वृषभेक्षणः । तथा चायं योगः वृषं धर्मं भासयतीति वृषभो वेदस्तदेव ईक्षणं चक्षुरिव ज्ञापकं यस्य सः वृषभेक्षण इति ॥७॥

न जायते जनित्राऽयमजस्तस्माद‌नीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥८॥

न जायत इत्यजः अनीकजित्सेनाजित् कृष्णः देवानामिन्द्रियाणां मध्ये स्वप्रकाशत्वात् । ऋ गतावित्यस्मादुत्पूर्वात् अप् । उत् उत्कर्षेण ऋच्छति प्रकाशत इति उदरः दमोऽस्यास्तीति दामः दामश्चासावुदरश्चेति दामोदरः । दामादिति पाठे दम एव दामस्तस्मात् ॥८॥

हर्षात् सुखात् सुखैश्वर्याद्धृषीकेशत्वमश्नुते ।
बाहुभ्यां रोदसी विभ्रन्महाबाहुरिति स्मृतः ॥९॥

हर्षादिति । हृष्यत्यनेनेति हृषीकं वृत्तिसुखं सुखं स्वरूपानन्दः ईश ईशनवान् अतो हृषीकेशः ॥९॥

अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः ।
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥१०॥

अधो न क्षीयते जातु इति विग्रहवाक्ये उत्तरपदावयवलोपेन अधोक्षजः सततोर्ध्वरूपः संसारधर्मेणास्पृष्ट इत्यर्थः ॥१०॥

पूरणात् सदनाच्चापि ततोऽसौ पुरुषोत्तमः ।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ॥११॥

पूरयतीति पुरुः सीदन्त्यस्मिन्निति सः तस्मात् पुरुषः स चासावुत्तमश्च पुरुषोत्तमः । असतः कारणस्य सतः कार्यस्य प्रभवाप्ययात् उत्पत्तिप्रलयस्थानत्वात् ॥११॥

सर्वस्य च सदा ज्ञानात् सर्वमेतं प्रचक्षते ।
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ॥१२॥

सत्ये धर्मे ॥१२॥

सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योऽपि नामतः ।
विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते ॥१३॥

सत्यात् धर्मात् तत्फलात् ब्रह्मलोकावधेरपि सत्यमबाधितमतः सत्योऽपि नामतः । विशेषेण स्नौति प्रस्रवते गच्छतीति विष्णुरित्यर्थः । एवं जयतीति जिष्णुः ॥१३॥

शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ।
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥१४॥

शाश्वतत्वात् शश्वद्भवत्वात् गवामिन्द्रियाणां वेदनात् लाभात् प्रकाशाद्वा गोविन्दः । अतत्वं मिथ्याभूतं जगत्तत्त्वं सत्यामिव स्वीयसत्तास्फूर्तिप्रदानेन करोति तेन हेतुना लोकान्मोहयति ॥१४॥

एवंविधो धर्मनित्यो भगवान् मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥१५॥

धर्मं नित्यं सन्निधानात् धर्मनित्यः । आगन्ता आगमिष्यति आनृशंस्यार्थं कुरूणां क्षयो मा भूदिति कृपां कर्तुम् ॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि सञ्जयवाक्ये सप्ततितमोऽध्यायः ॥७०॥
एकसप्ततितमोऽध्यायः

धृतराष्ट्र उवाच। चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे ।
बिभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च ॥१॥

चक्षुष्मतामिति । चक्षुष्मतां भाग्याय स्पृहयामि धन्याश्चक्षुष्मन्त इत्यर्थः । चक्षुष्मतां ज्ञानवतां वा परेण चिन्मात्रेण वपुषा स्वरूपेण ॥१॥

ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शङ्करीं सृञ्जयानाम् ।
बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् ॥२॥

भारतानां पाण्डवानां भारतीं वाचम् ईरयन्तम् अस्मत्सभायां कथयन्तं शङ्करीं कल्याणकरीं बुभूषद्भिः ऐश्वर्यमिच्छद्भिः । परासूनां मृतानाम् ॥२॥

समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् ।
निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि ॥३॥

उद्यन्तं प्रकटीभवन्तं देहरूपेणेत्यर्थात् शाश्वतं नित्यम् ॥३॥

द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम् ।
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥४॥

वरेण्यं वरीयम् ॥४॥

ऋषिं सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम् ।
अरिष्टनेमिं गरुडं सुपर्णं हरिं प्रजानां भुवनस्य धाम ॥५॥

ऋषिं मुख्यं नारायणं विपश्चितम् आत्मज्ञं यतीनां संन्यासिनां कलशमिव कलशं करग्राह्यं समुद्रं योगमुद्रयोपेतम् । अरिष्टः अहिंसितः नेमिः पादो यस्य सः अरिष्टनेमिरिति प्राञ्चः । अरिष्टनेमिर्नामतः अहिंसितमर्यादः नेमिरिव नेमिर्मर्यादा । गरुडं जातितः सुपर्णं शोभनपक्षं हरिं हर्तारम् ॥५॥

सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम् ।
शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये ॥६॥

आदिः कारणं शुक्रस्य कर्मजन्यस्य बीजभूतस्य पुण्यादेः धातारं प्रतिभूरूपं परेषां विराडादीनां परं श्रेष्ठम् ॥६॥

त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् ।
नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये ॥७॥

निर्माणं रचना जनित्रं जनयितारम् ॥७॥
इति श्रीमहाभारते उद्योगपर्वणि यानसन्धिपर्वणि धृतराष्ट्रवाक्ये एकसप्ततितमोऽध्यायः ॥७१॥
॥समाप्तं यानसन्धिपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in