सेनोद्योगपर्व - १सञ्जययानपर्व - २प्रजागरपर्व - ३सनत्सुजातपर्व - ४यानसन्धिपर्व - ५भगवद्यानपर्व - ६सैन्यनिर्याणपर्व - ७उलूकदूतागमनपर्व - ८रथातिरथसंख्यानपर्व - ९अम्बोपाख्यानपर्व - १०

भगवद्यानपर्व

द्विसप्ततितमोऽध्यायः

वैशम्पायन उवाच। सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः ।
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ॥१॥

सञ्जय इति ॥१॥

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥२॥

त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् ।
धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे ॥३॥

मोघं दर्पितं यस्य अनुयुङ्क्षमहे प्रार्थयामहे ॥३॥

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम ।
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान् महतो भयात् ॥४॥

श्रीभगवानुवाच ।
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥५॥

युधिष्ठिर उवाच। श्रुतं ते धार्तराष्ट्रस्य सपुत्रस्य चिकीर्षितम् ।
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ॥६॥

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः ।
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥७॥

विवृतान्तरः प्रकाशितभावः ॥७॥

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति ।
लुब्धः पापेन मनसा चरन्नसममात्मनः ॥८॥

यत्तद्द्वादश वर्षाणि वनेषु ह्युषिता वयम् ।
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥९॥

छद्मना अज्ञातचर्यया ॥९॥

स्थाता नः समये तस्मिन् धृतराष्ट्र इति प्रभो ।
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥१०॥

स्थाता स्थास्यति नः अस्माकम् । तस्मिन् चतुर्दशे वर्षे स्वं राज्यं गृह्णीतेत्यस्मिन् न अहास्म न युक्तवन्तो वयम् ॥१०॥

गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।
वश्यत्वात् पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ॥११॥

सुयोधनमते तिष्ठन् राजाऽस्मासु जनार्दन ।
मिथ्या चरति लुब्धः सन् चरन् हि प्रियमात्मनः॥१२॥

इतो दुःखतरं किं नु यदहं मातरं ततः ।
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥१३॥

मातरं संविधातुं सम्यक्पोषयितुं ततः तत्रस्थामित्यर्थः । मित्राणां- कर्मणि षष्ठी । मातुरिति पाठे अन्ततोऽन्येषां वणिक्प्रभृतीनां नागरिकाणां परित्यागेऽपि मातरं मित्राणि च विदुरादीनि संविधातुमिति प्राग्वत् ॥१३॥

काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन ।
भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥१४॥

काशिभिः राजभिः नाथेन नाथवता भवदनुग्रहात् शक्तेनापीत्यर्थः ॥१४॥

अविस्थलं वृकस्थलं माकन्दी वारणावतम् ।
अवसानं च गोविन्द कञ्चिदेवात्र पञ्चमम् ॥१५॥

अवसीयते संस्थीयतेऽस्मिन्नित्यवसानं यावज्जीवनं वासस्थानम् ॥१५॥

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा ।
वसेम सहिता येषु मा च नो भरता नशन् ॥१६॥

नः अस्माकं कृते भरताः भरतवंश्या भीष्मादयः मा नशन् मा नश्यन्तु ॥१६॥

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते ।
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किम् ॥१७॥

तानपि भरतानपि ॥१७॥

कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः ।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥१८॥

कुले इति द्वाभ्यां गर्वजा दोषसन्ततिरुक्ता ॥१८॥

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः ॥१९॥

अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः ।
अपुष्पाद‌फलाद्वृक्षाद्यथा कृष्ण पतत्रिणः ॥२०॥

द्विजाः अर्थिनः ॥२०॥

एतच्च मरणं तात यन्मत्तः पतितादिव ।
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ॥२१॥

प्रेतसत्वात् प्रगतबुद्धेर्मृतादित्यर्थः ॥२१॥

नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥२२॥

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् ।
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥२३॥

धर्मं धर्मकारणम् । सर्वं यज्ञदानादि ये अधनास्ते मृता एव ॥२३॥

ये धनादपकर्षन्ति नरं स्वबलमास्थिताः ।
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥२४॥

एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः ।
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥२५॥

एतां निर्धनताख्याम् एके नागरिकाः ग्रामाय कुग्रामवासार्थं वनायास्मदादयः नाशाय मरणाय॥२५॥

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥२६॥

आपदेवास्य मरणात् पुरुषस्य गरीयसी ।
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥२७॥

आपत्पदार्थमाह - श्रियो विनाश इति । तद्धि श्रीर्हि ॥२७॥

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् ।
समन्तात् सर्वभूतानां न तदत्येति कश्चन ॥२८॥

धर्म्यं देहस्वभावात् प्राप्तं न तु दारिद्र्याद्यपराधजं मरणं तच्छाश्वतम् अनिमित्तमित्यर्थः । समन्तात् सर्वत्र अपरिहार्यमिति शेषः । नात्येति नातिक्रामति ॥२८॥

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः ।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥२९॥

स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत् ।
सेन्द्रान् गर्हयते देवान्नात्मानं च कथञ्चन ॥३०॥

तदा संपत्काले आत्मापराधेन चित्तदोषेण रागादिना नात्मानं चेत्यस्य न चात्मानमित्यर्थः ॥३०॥

न चास्य सर्वशास्त्राणि प्रभवन्ति निबर्हणे ।
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ॥३१॥

अस्य व्यसनस्य निबर्हणे नाशनिमित्तम् ॥३१॥

तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति ।
स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥३२॥

तत्तदा सर्वदेत्यर्थः । मन्युः क्रोधः स तद्वानेवेत्यर्थः । मुह्यति कार्याकार्ये न जानाति ॥३२॥

पापकर्मतया चैव सङ्करं तेन पुष्यति ।
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ॥३३॥

नचेत्प्रबुध्यते कृष्ण नरकायैव गच्छति ।
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति ॥३४॥

एवं श्रिया युक्तानां नरकप्राप्तिमुक्त्वा तेषामुद्धारोपायमाह- तस्येति । तस्य श्रीमतः अविद्याया निद्राणस्य प्रज्ञा विवेकः स एव प्रबोधो जागरणम् । यतः प्रज्ञाचक्षुः पुमान् तरिष्यति अविद्यामिति शेषः॥३४॥

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥३५॥

तरणे क्रममाह - प्रज्ञेति । धर्मं करोतीति शेषः । तस्य धर्मस्य ह्रीरकार्यकरणान्निवृत्तिहेतुश्चेतोवृत्तिविशेषः । ह्रीहीनेन कृतो धर्मोऽप्यधर्म एवेति भावः ॥३५॥

ह्रीमान् हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते ।
श्रीमान् स यावद्भवति तावद्भवति पूरुषः ॥३६॥

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा ।
नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते ॥३७॥

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् ।
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥३८॥

अह्रीकः तिर्यक्स्थावरतुल्यो न मनुष्य इत्यर्थः ॥३८॥

ह्रीमानवति देवांश्च पितॄनात्मानमेव च ।
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥३९॥

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन ।
यथा राज्यात् परिभ्रष्टो वसामि वसतीरिमाः ॥४०॥

इदं ह्रीमत्त्वं ते त्वया मयि दृष्टम् ॥४०॥

ते वयं न श्रियं हातुमलं न्यायेन केनचित् ।
अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥४१॥

अत्र श्रीनिमित्तं नः अस्माकम् ॥४१॥

तत्र नः प्रथमः कल्पो यद्वयं ते च माधव ।
प्रशान्ताः शमभूताश्च श्रियं तामश्नुवीमहि ॥४२॥

प्रथमः कल्पः मुख्यः पक्षः समभूताः निर्वैरत्वं गताः ॥४२॥

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया ।
यद्वयं कौरवान् हत्वा तानि राष्ट्राण्यवाप्नुमः ॥४३॥

रौद्रकर्म रौद्रकर्मणां सुपां सुलुगिति सप्तम्याश्च (?) लुक् । क्षयोदया क्षयपूर्वक उद‌यो यस्यां सा रौद्रकर्मणां परमा काष्ठेति सम्बन्धः ॥४३॥

ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः ।
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ॥४४॥

असंबद्धाः अबान्धवाः अवधः वधविरुद्धं पालनम् ईदृशा इति बान्धवा आर्या अशत्रवश्च ये तेषामवधः कार्य इति किमाश्चर्यमित्यर्थः ॥४४॥

ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः ।
तेषां वधोऽतिपापीयान् किं नु युद्धेऽस्ति शोभनम् ॥४५॥

तदेवाह- ज्ञातय इति । भूयिष्ठाः अतिमहान्तः ॥४५॥

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः ।
स नः स्वधर्मो धर्मो वा वृत्तिरन्या विगर्हिता ॥७६॥

शूद्रः करोति शुश्रूषां वैश्या वै पण्यजीविकाः ।
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥४७॥

कपालं भिक्षापात्रम् ॥४७॥

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति ।
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥४८॥

यथा येन प्रकारेण आगतः कुलपरंपरया प्राप्तस्तं पश्येति योजना ॥४८॥

युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे ।
बलं तु नीतिमाधाय युध्ये जयपराजयौ ॥४९॥

बलमिति । नीतिमेव बलं कृत्वा युध्ये योत्स्ये । जयपराजयौ तु आत्मच्छन्देन स्वेच्छया न भवतः । तथा तद्वत् भूतानां जीवितं मरणं च स्वेच्छया न स्तः ॥४९॥

नात्मच्छन्देन भूतानां जीवितं मरणं तथा ।
नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम ॥५०॥

एको ह्यपि बहुन् हन्ति घ्नन्त्येकं बहवोऽप्युत ।
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥५१॥

जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः ।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥५२॥

पराजयभयाद्व्यपयाने पलायनेऽपि अपचयः क्षयव्ययौ च दृष्टौ भवत् एव । अपचयो- दीनता । क्षयो- मरणम् । तत्र हेतुः व्ययः- द्रव्यादेर्नाशः ॥५२॥

सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते ।
हतस्य च हृषीकेश समौ जयपराजयौ ॥५३॥

पराजयश्च मरणान्मन्ये नैव विशिष्यते ।
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥५४॥

विजयोऽप्यजयः पराजय एव इष्टजननाशादित्याह- यस्येति ॥५४॥

अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः ।
तस्याङ्ग बलहीनस्य पुत्रान् भ्रातॄनपश्यतः ॥५५॥

दयितं पुत्रादि । हे अङ्ग बलहीनस्य जातिबलहीनस्य ॥५५॥

निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ।
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः ॥५६॥

त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः ।
हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन ॥५७॥

यवीयान् कनिष्ठः । अनुशयः पश्चात्तापः ॥५७॥

अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ।
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ॥५८॥

अनुबन्धो दोषोत्पादः स च पापः कष्टप्रदः शेषः शत्रोः शेषं स्वस्य ॥५८॥

सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ।
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ॥५९॥

सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ।
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ॥६०॥

अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि ।
उत्सादयति यः सर्वं यशसा स विमुच्यते ॥६१॥

अनिर्वृत्तेन अस्वस्थेन ॥६१॥

अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ।
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ॥६२॥

आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले ।
न चापि वैरं वैरेण केशव व्युपशाम्यति ॥६३॥

हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते ।
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ॥६४॥

अत इति । यतः अन्तरं छिद्रं नित्यम् अपरिहार्यमतो हेतोः अन्ततोऽन्यथा स्वस्य शत्रोर्वा नाशं विना शान्तिर्नास्ति ॥६४॥

अन्तरं लिप्समानानामयं दोषो निरन्तरः ।
पौरुषे यो हि बलवानाधिर्हृदयबाधनः ।
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत् ॥६५॥

अयं दोषः नाशाख्यः अन्तत इत्येतद्व्याचष्टे- पौरुषेय इति सार्धेन ॥६५॥

अथवा मूलघातेन द्विषतां मधुसूदन ।
फलनिर्वृत्तिरिद्धा स्यान्न नृशंसतरं भवेत् ॥६६॥

द्विषतां मूलघातेन फलनिर्वृत्तिः निष्कण्टकराज्यप्राप्तिः इद्धा प्रदीप्ता स्यात् तावता च नृशंसतरं न भवेत् नृशंसं तु भवेदेवेत्यर्थः । अतः शम एव श्रेयानितिभावः ॥६६॥

या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः ।
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥६७॥

त्यागेन राज्यस्येति शेषः । तदृते राज्यं विना द्विषतां संशयात् किं शत्रवश्छिद्रे प्रहरिष्यन्ति उत उपेक्षां करिष्यन्तीत्येवंरूपात् । आत्मनः भ्रष्टश्रीकस्य सद्यः समुच्छेदात् नाशसंभवात् । अतो राज्यत्यागो न युक्त इति भावः ॥६७॥

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् ।
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥६८॥

सिद्धान्तमाह- न चेति ॥६८॥

सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् ।
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ॥६९॥

सर्वथा सामदानभेदैः राज्यार्थं यतमानानां युद्धं प्रसिद्धमवश्यं कर्तव्यमित्यर्थः । न तु अपराक्रमः क्लीबत्वं युक्त इति शेषः ॥६९॥

प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते ।
तच्छुनामिव सम्पाते पण्डितैरुपलक्षितम् ॥७०॥

दारुणं युद्धं तच्छुनामिव निन्द्यमित्यर्थः ॥७०॥

लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् ।
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥७१॥

दृष्टान्तं विवृणोति- लाङ्गूलेति । अत्र लाङ्गूलेन ध्वज उपमीयते । क्ष्वेडा ध्वनिकौटिल्यं परस्परछिद्रान्वेषणं च । प्रतिवाचः परस्परनिन्दा स्वप्रशंसा च । विवर्तनं भूमौ लुण्ठनं दन्तदर्शनं मुखस्य व्यादानेन । आरावः भषणं पक्षे सिंहनादः ॥७१॥

तत्र यो बलवान् कृष्ण जित्वा सोऽत्ति तदामिषम् ।
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥७२॥

सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् ।
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥७३॥

सर्वथेति । अनादरे राज्यस्याप्राप्तिः । युद्धे कुलक्षयः । प्रणिपाते तु दौर्बल्यप्रसिद्धिः ॥७३॥

पिता राजा च वृद्धश्च सर्वथा मानमर्हति ।
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥७४॥

अन्त्यः पक्षोऽपि न सेत्स्यतीत्याह - पितेति द्वाभ्याम् ॥७४॥

पुत्रस्नेहश्च बलवान् धृतराष्ट्रस्य माधव ।
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥७५॥

प्रहास्यति न स्वीकरिष्यति ॥७५॥

तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् ।
कथमर्थाच्च धर्माच्च न हीयेम हि माधव ॥७६॥

ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन् कमन्यं मधुसूदन ।
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥७७॥

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् ।
को हि कृष्णास्ति नस्त्वादृक् सर्वनिश्चयवित्सुहृत् ॥७८॥

वैशम्पायन उवाच। एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।
उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥७९॥

शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥८०॥

मोचयेयं मृत्युपाशात् संरब्धान् कुरुसृञ्जयान् ।
पाण्डवान् धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥८१॥

युधिष्ठिर उवाच। न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून् प्रति ।
सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥८२॥

समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम् ।
तेषां मध्यावतरणं तव कृष्ण न रोचये ॥८३॥

न हि नः प्रीणयेद्द्रव्यं न देवत्त्वं कुतः सुखम् ।
न च सर्वामरैश्वर्यं तव द्रोहेण माधव ॥८४॥

श्रीभगवानुवाच ।
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् ।
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ॥८५॥

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः ॥८६॥

अथ चेत्ते प्रवर्तेत मयि किञ्चिदसाम्प्रतम् ।
निर्दहेयं कुरून् सर्वानिति मे धीयते मतिः ॥८७॥

ते त्वत्संबंधिनि मयि चेत् कुरुकृतम् असांप्रतम् अयुक्तं वधबन्धादि प्रवर्तेत तदा निर्दहेयं कुरूनित्यन्वयः ॥८७॥

न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् ।
अर्थप्राप्तिः कदाचित् स्यादन्ततो वाऽप्यवाच्यता ॥८८॥

युधिष्ठिर उवाच। यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् ।
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥८९॥

विष्वक्सेन कुरून् गत्वा भरतान् शमयन् प्रभो ।
यथा सर्वे सुमनसः सह स्याम सुचेतसः ॥९०॥

कुरून् गत्वा तथा वदेति शेषः ॥९०॥

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः ।
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ॥९१॥

अस्मान् वेत्थ परान् वेत्थ वेत्थार्थान्वेत्थ भाषितुम् ।
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥९२॥

यद्यधर्मेण संयुक्तमुपपद्येद्धितं वचः ।
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत्॥९३॥

यदीति । अधर्मेण सान्त्वं नो राज्यार्धार्हाणां पञ्चग्रामदानेन अधर्मेण इतरत् द्यूतेनैव राज्यप्रत्यादानं बृहदश्वादक्षहृदयस्य प्राप्तत्वात् । यद्यद्धर्मेणेति सत्यं वेति च पाठे त्वनृतस्य धर्मसंयुक्तत्वमहिंसाप्राधान्येन बोध्यम् ॥९३॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि युधिष्ठिरकृतकृष्णप्रेरणे द्विसप्ततितमोऽध्यायः ॥७२॥
त्रिसप्ततितमोऽध्यायः

श्रीभगवानुवाच ।
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥१॥

सञ्जयस्येति ॥१॥

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः ।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥२॥

न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशाम्पते ।
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ॥३॥

नैष्टिकं कर्म यावज्जीवं ब्रह्मचर्यं पारिव्राज्यं च विहितमिति शेषः ॥३॥

जयो वधो वा संग्रामे धात्राऽऽदिष्टः सनातनः ।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥४॥

कार्पण्यं ग्रामपञ्चकं देहीति दीनवचनम् ॥४॥

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रून् परन्तप ॥५॥

वृत्तिः जीविका कर्त्तुमिति शेषः ॥५॥

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप ॥६॥

अतिगृद्धाः अत्यंतलुब्धाः ॥६॥

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥७॥

पर्याय उपायः । यद्येन बलवत्तां स्वस्येति शेषः ॥७॥

यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि ।
तावदेते हरिष्यन्ति तव राज्यमरिन्दमे ॥८॥

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।
अलङ्कर्तुं धार्तराष्ट्रास्तव काममरिन्दम ॥९॥

अनुक्रोशात् भवत्सु कृपातः । कार्पण्यात् स्वस्य दैन्यात् । अलं कर्तुं पूर्णं कर्तुं न समर्थाः ॥९॥

एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि ।
नान्वतप्यन्त कौपीनं तावत्कृत्वाऽपि दुष्करम् ॥१०॥

निमित्तमशमे कारणम् । हे पाण्डव त्वयि कौपीनं धारयति सति ते कौरवाः नान्वतप्यन्त पश्चात्तापं न कृतवन्तः । तावत् वनवासादि ॥१०॥

पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ॥११॥

पितामहादीननादृत्य उपधिना छलेन त्वां द्यूते वञ्चितवानिति सार्धद्वयसम्बन्धः ॥११॥

पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ।
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ॥१२॥

यत्त्वामुपधिना राजन् द्यूते वञ्चितवांस्तदा ।
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ॥१३॥

तथा शीलसमाचारे राजन् मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥१४॥

वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् ।
श्लाघमानः प्रहृष्टः सन् भ्रातृभिः सह भाषते ॥१५॥

अतुदत् पीडितवान् ॥१५॥

एतावत् पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥१६॥

कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ॥१७॥

प्रकृतिं पञ्चतां मयि मत्समीपे नष्टा प्रकृतिः शौर्यादिरूपः स्वभावो येषाम् ॥१७॥

दुःशासनेन पापेन तदा द्यूते प्रवर्तिते ।
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ॥१८॥

आकृष्य केशे रुदती सभायां राजसंसदि ।
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ॥१९॥

गौरिव सर्वभोग्येत्युपहासो गौर्गौरिति ॥१९॥

भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः ।
धर्मपाशनिबद्धाश्च न किञ्चित् प्रतिपेदिरे ॥२०॥

एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥२१॥

ये तत्रासन् समानीतास्ते दृष्ट्वा त्वामनागसम् ।
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ॥२२॥

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥२३॥

कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन ।
महागुणो वधो राजन्न तु निन्दा कुजीविका ॥२४॥

तदैव निहतो राजन् यदैव निरपत्रपः ।
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ॥२५॥

ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥२६॥

ईषत्कार्यः अनायाससाध्यः प्रस्कुंदेन चक्राकारया वैदिकया ‘कुंदश्चक्रभ्रमे मेघे’ इति विश्वः । पारस्करादित्वात् सुट् । प्रस्कंदेनेति पाठे मध्यमशिफयेति प्राञ्चः ॥२६॥

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येनं त्वममित्रघ्न मा राजन् विचिकित्सिथाः ॥२७॥

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥२८॥

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।
येषामस्ति द्विधाभावो राजन् दुर्योधनं प्रति ॥२९॥

द्विधाभावः- अयं साधुरसाधुर्वेति संशयः ॥२९॥

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान् गुणान् ।
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥३०॥

प्रातिपौरुषिकान् सर्वपुरुषसाधारणान् ॥३०॥

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥३१॥

त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तसिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥३२॥

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ॥३३॥

शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे ।
कुरून् विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥३४॥

तस्मिन् लोकपरित्यक्ते किं कार्यमवशिष्यते ।
हते दुर्योधने राजन् यदन्यत्क्रियतामिति ॥३५॥

हते निंद्यतया नष्टप्राये ॥३५॥

यात्वा चाहं कुरून् सर्वान् युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥३६॥

यात्वा गत्वा ॥३६॥

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशम्य विनिवर्तिष्ये जयाय तव भारत ॥३७॥

निशम्य आलोच्य ॥३७॥

सर्वथा युद्धमेवाहमाशंसामि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥३८॥

मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्निर्वर्णान् बहून् पुष्यति घोररूपान् ॥३९॥

मनुष्यलोकक्षयकृत् सुघोरो नो चेदनुप्राप्त इहान्तकः स्यात् ।
शस्त्राणि यन्त्रं कवचा रथांश्च नागान् हयांश्च प्रतिपादयित्वा ॥४०॥

चेदिहान्तकोऽनुप्राप्तो नो स्यात्तर्हि एतन्न स्यादिति शेषः । यन्त्रं गोलकोत्क्षेपणं कवचा कवचानि वर्माणि सुपां सुलुगिति सुपो डादेशः । नान्तपाठे पुंस्त्वमार्षम् । प्रतिपादयित्वा सज्जीकृत्य ॥४०॥

योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः ।
साङ्ग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र ॥४१॥

दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथञ्चित् ।
यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् ॥४२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णवाक्ये त्रिसप्ततितमोऽध्यायः ॥७३॥
चतुःसप्ततितमोऽध्यायः

भीम उवाच। यथा यथैव शान्तिः स्यात् कुरूणां मधुसूदन ।
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ॥१॥

यथेति । शान्तिबाधकं भयं तेषां मा कुर्वित्याह- तथेति ॥१॥

अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः ।
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ॥२॥

महामनाः स्तब्धः समाचरेः प्रागपि समाहितवानसि ॥२॥

प्रकृत्या पापसत्त्वश्च तुल्यचेतास्तु दस्युभिः ।
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥३॥

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥४॥

निष्ठूरी निष्ठुरवाक् क्षेप्ता निन्दकः अनेयः शिक्षयितुमयोग्यः ॥४॥

म्रियेतापि न भज्येत नैव जह्यात् स्वकं मतम् ।
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ॥५॥

सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः ।
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ॥६॥

अवाचीनो विपरीतः ॥६॥

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।
स्वभावात् पापमभ्येति तृणैश्छन्न इवोरगः ॥७॥

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥८॥

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् ।
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥९॥

दुर्योधनस्य क्रोधेन भरता मधुसूदन ।
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥१०॥

अष्टादशेमे राजानः प्रख्याता मधुसूदन ।
ये समुच्चिच्छिदुर्ज्ञातीन् सुहृदश्च सबान्धवान् ॥११॥

ज्ञातीन् सगोत्रान् सुहृदः मित्राणि बान्धवान् शालश्वशुरादीन् ॥११॥

असुराणां समृद्धानां ज्वलतामिव तेजसा ।
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ॥१२॥

पर्यायकाले धर्मान्तकाले ॥१२॥

हैहयानां मुदावर्तो नीपानां जनमेजयः ।
बहुलस्तालज‌ङ्घानां कृमीणामुद्धतो वसुः ॥१३॥

अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः ।
अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥१४॥

हयग्रीवो विदेहानां वरयुश्च महौजसाम् ।
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ॥१५॥

सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः ।
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ॥१६॥

शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।
युगान्ते कृष्ण सम्भूताः कुले कुपुरुषाधमाः ॥१७॥

अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः ।
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥१८॥

तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् ।
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रम ॥१९॥

कामानुबन्धबहुलं बाहुल्येन तस्य चित्तानुसारि ॥१९॥

अपि दुर्योधनं कृष्ण सर्वे वयमधश्च्राः ।
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरताऽनशन् ॥२०॥

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह ।
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥२१॥

अनयः कुलक्षयकृतो दोषः ॥२१॥

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः ।
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥२२॥

अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ॥२३॥

प्रशंसति शममेवेति शेषः ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीमवाक्ये चतुःसप्ततितमोऽध्यायः ॥७४॥
पञ्चसप्ततितमोऽध्यायः

वैशम्पायन उवाच। एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव ।
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ॥१॥

एतदिति ॥१॥

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके ।
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥२॥

सन्तेजयंस्तदावाग्भिर्मातरिश्वेव पावकम् ।
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ॥३॥

श्रीभगवानुवाच ।
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि ।
वधाभिनन्दिनः क्रूरान् धार्तराष्ट्रान् मिमर्दिषुः ॥४॥

न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप ।
घोरामशान्तां रुषतीं सदा वाचं प्रभाषसे ॥५॥

रुषतीं रोषवतीम् ॥५॥

निःश्वसन्नग्निवत्तेन संतप्तः स्वेन मन्युना ।
अप्रशान्तमना भीमं सधूम इव पावकः ॥६॥

अग्निवत् अग्निमेव ॥६॥

एकान्ते निःश्वसन् शेषे भारार्त इव दुर्बलः ।
अपि त्वां केचिदुन्मत्तं मन्यन्ते तद्विदो जनाः ॥७॥

आरुज्य वृक्षान्निर्मूलान् गजः परिरुजन्निव ।
निघ्नन् पद्भिः क्षितिं भीम निष्टनन् परिधावसि ॥८॥

आरुज्य भङ्क्त्वा ॥८॥

नास्मिन् जने न रमसे रहः क्षिपसि पाण्डव ।
नान्यं निशि दिवा चापि कदाचिद‌भिनन्दसि ॥९॥

अस्मिन् वने जनेन ब्राह्मणसमूहेन क्षिपसि नयसि कालमिति शेषः ॥९॥

अकस्मात् स्मयमानश्च रहस्यास्से रुदन्निव ।
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ॥१०॥

भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव ।
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥११॥

यथा पुरस्तात् सविता दृश्यते शुक्रमुच्चरन् ।
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥१२॥

शुक्रं तेजः निर्मुक्तोऽस्तं गतः ध्रुवं निश्चयं पुनः पर्येति मेरुं पुनः पुनः प्रद‌क्षिणीकरोति ॥१२॥

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।
हन्ताहं ग‌दयाऽभ्येत्य दुर्योधनममर्षणम् ॥१३॥

नियमेन हन्ता अस्मीति शेषः ॥१३॥

इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् ।
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परंतप ॥१४॥

अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते ।
चेतांसि विप्रतीपानि यत्त्वां भीर्भीम विन्दति ॥१५॥

अहो पार्थ निमित्तानि विपरीतानि पश्यसि ।
स्वप्नान्ते जागारान्ते च तस्मात् प्रशममिच्छसि ॥१६॥

निमित्तानि महिषारोहणवामनेत्रस्फुरणादीनि स्वप्नान्ते स्वप्ने । जागरान्ते जागरे ॥१६॥

अहो नाशंससे किञ्चित् पुंस्त्वं क्लीब इवात्मनि ।
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥१७॥

उद्वेपते ते हृदयं मनस्ते प्रतिसीदति ।
ऊरुस्तंभगृहीतोऽसि तस्मात् प्रशममिच्छसि ॥१८॥

अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् ।
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥१९॥

अष्ठीला फलान्तर्ग्रन्थिः सा च शाल्मलेः केवलं तूलमयी भवति ॥१९॥

तवैषा विकृता बुद्धिर्गवां वागिव मानुरषी ।
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ॥२०॥

इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् ।
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥२१॥

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥२२॥

न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम ।
यदोजसा न लभते क्षत्रियो न तदश्नुते ॥२३॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीमोत्तेजकश्रीकृष्णवाक्ये पञ्चसप्ततितमोऽध्यायः ॥७५॥
षट्सप्ततितमोऽध्यायः

वैशम्पायन उवाच। तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः ।
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥१॥

तथोक्त इति । समाधावत् तीव्रवेगं यथा स्यात्तथा ॥१॥

भीमसेन उवाच। अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत ।
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ॥२॥

वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः ।
उत वा मां न जानासि प्लवन् ह्रद इवाप्लवे ॥३॥

तस्मादनभिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ।
कथं हि भीमसेनं मां जानन् कश्चन माधव ॥४॥

ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि ।
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ॥५॥

आत्मनः पौरुषं चैव बलं च न समं परैः ।
सर्वथा नार्यकर्मेतत् प्रशंसा स्वयमात्मनः ॥६॥

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ।
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ॥७॥

रोदसी द्यावाभूमी ॥७॥

अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ ।
यदिमे सहसा क्रुद्धे समेयातां शिले इव ॥८॥

अहमेते निगृह्णीयां बाहुभ्यां सचराचरे ।
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ॥९॥

य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ।
हिमवांश्च समुद्रश्च वज्री वा बलमित् स्वयम् ॥१०॥

मयाऽभिपन्नं त्रायेरन् बलमास्थाय न त्रयः ।
युद्धार्हान् क्षत्रियान् सर्वान् पाण्डवेष्वाततायिनः ॥११॥

अधः पादतलेनैतानधिष्ठास्यामि भूतले ।
न हि त्वं नाभिजानासि मम विक्रममच्युत ॥१२॥

यथा मया विनिर्जित्य राजानो वशगाः कृताः ।
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ॥१३॥

विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन ।
परुषैराक्षिपसि किं व्रणं पूतिमिवोन्नयन् ॥१४॥

सम्बाधे सङ्कीर्णे ॥१४॥

यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ।
द्रष्टाऽसि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि ॥१५॥

वैशसे विशसनवति ॥१५॥

मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा ।
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ॥१६॥

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान् वरान् ।
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः ॥१७॥

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ।
किं तु सौहृदमेवैतत् कृपया मधुसूदन ।
सर्वांस्तितिक्षे संक्लेशान् मा स्म नो भरता नशन् ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीमसेनवाक्ये षट्सप्ततितमोऽध्यायः ॥७६॥
सप्तसप्ततितमोऽध्यायः

श्रीभगवानुवाच ।
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् ।
ज चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥१॥

भावमिति । विवक्षया त्वया स्वरूपं वक्तव्यमितीच्छया प्रागेव तस्य ज्ञातत्वात् ॥१॥

वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् ।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥२॥

वेद वेद्मि ॥२॥

यथा चात्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्त्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ॥३॥

यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥४॥

जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ॥५॥

कुतस्तर्हि मां निन्दितवानसीत्याशङ्क्याह- जिज्ञासन्त इति । देवमानुषयोर्धर्मस्य पर्यायमिति सम्बन्धः । देवधर्मस्य भाविनः पुण्यपापफलस्य पर्यायं पर्यन्तं दैवज्ञादेः सकाशाज्जिज्ञासन्तो ज्ञातुमिच्छन्तोऽपि नाध्यवस्यन्ति न निश्चिन्वन्ति । कदाचिद्दैवज्ञाद्युक्तावपि विसंवाददर्शनात् । तथा मानुषधर्मस्य पुरुषकारस्य पर्यायं बलाबलनिर्णयमिति पूर्ववत् । शूरस्यापि कदाचित् क्लीबत्वदृष्टेरिति भावः ॥५॥

स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु ।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ॥६॥

स एव धर्म एव सन्दिग्धं सन्दिग्धफलम् ॥६॥

अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥७॥

परिदृष्टानि कर्तव्यत्वेन निश्चितानि कार्याणि ॥७॥

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ॥८॥

सुनीतं सम्यगनुष्ठितं विरुध्यते निष्फलं क्रियते ॥८॥

दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥९॥

अकृतं भोगायानारब्धं कर्म पुण्यादिकमागामि दुःखं दैवज्ञादिभिरुपदिष्टतया निश्चितसद्भावं पौरुषेण विहन्यते तेन काम्यकर्मणामपि फलवत्त्वमस्त्येवेति सिद्धम् । यद्वा । अकृतं कालस्वभावजं कर्म अनुभूयमानं शीतोष्णादि तत् पौरुषेण प्रावरणादिसंपादनेन निवार्यत इत्यर्थः ॥९॥

यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ॥१०॥

यन्यदिति । दिष्टः फलभोगाय आज्ञप्तः भावः सत्ता यस्य तत् दिष्टभावं प्रारब्धकर्म-पञ्चम्यर्थे षष्ठी- प्रारब्धादन्यदित्यर्थः । पुरुषस्य पुरुषेण सञ्चितं यत्स्वयं कृतं कर्म तस्मादनुपरोधो जन्मान्तरे निरोधो नास्ति । तत्र ज्ञानेन प्रायश्चित्तेन वा सञ्चितपापानां नाशे लक्षणं ज्ञापकं श्रुतिस्मृतिजातं विद्यते । ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ ‘धर्मेण पापमपनुदति’ ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा’ इति । भावः प्रारब्धकर्म । यद्वा अकृतात् दैवात् शीतादेरन्यत्स्वयं कृतं दैवं देहान्तः- करणसन्तापहेतुः तस्मादपि उपरोधोऽत्रैव नास्ति । यतस्तत्रापि लक्षणं चिकित्सा विवेकहेतुः शास्त्रं प्रवर्तते सर्वेष्वपि पौरुषं कर्तव्यमिति भावः ॥१०॥

लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः ।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ॥११॥

एतदेवाह- लोकस्येति । कर्मणोऽन्यत्र पौरुषं विना अन्यत एकस्माद्दैवादेव वृत्तिर्जीविका नास्ति । एवंबुद्धिः ईदृग्ज्ञानवान् सन् प्रवर्तेत पुरुषकारं कुर्यात् । तथा सति उभयान्वये दैवपौरुषयोः सम्बन्धे फलं भवति नान्यतरत इत्यर्थः ॥११॥

य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ॥१२॥

य इति । यथा कर्षकः कर्म कृत्वा दैवानुकूल्यात् फलं लब्ध्वाऽपि न हृष्यति । अनाकस्मिकत्वात् फलस्य । दैवप्रातिकूल्यादलब्ध्वाऽपि न व्यथते अनुचितस्याकरणात् । तद्वदत्रापि ज्ञेयमित्याशयः ॥१२॥

तत्रेयमनुमात्रा मे भीमसेन विवक्षिता ।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ॥१३॥

तं प्रकृते योजयति- तत्रेति । अनुमात्राऽवधारणं निश्चय इत्यर्थः । ‘मात्रं कार्त्स्न्येऽवधारणे’ इति कोशः । लिङ्गव्यत्यय आर्षः ॥१३॥

नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्छेद्ग्लानिं वाऽप्येतमर्थं ब्रवीमि ते ॥१४॥

प्रहीणरश्मिः निष्प्रभः भावः प्रारब्धं कर्म अर्च्छेत् प्राप्नुयात् ॥१४॥

श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव ।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥१५॥

शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम ।
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ॥१६॥

ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ॥१७॥

ते कुरव इति सम्बन्धः ॥१७॥

अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ॥१८॥

अस्मिन्निति । रथोपमो भीमः । अश्वोपमोऽर्जुनः ॥१८॥

अहं हि यन्ता बीभत्सोर्भविता संयुगे सति ।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥१९॥

अहमिति । युद्धकामोऽप्यहमर्जुनप्रीत्यै सारथ्यं करिष्यामीत्यर्थः ॥१९॥

तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव ।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ॥२०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णवाक्ये सप्तसप्ततितमोऽध्यायः ॥७७॥
अष्टसप्ततितमोऽध्यायः

अर्जुन उवाच। उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप ॥१॥

उक्तमिति ॥१॥

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥२॥

दैन्याद्वा अस्मदीयात् ॥२॥

अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् ।
न चान्तरेण कर्माणि पौरुषेण बलोदयः ॥३॥

पराक्रमं सर्वेषां रक्षणे यत्नं कर्माणि जीवनबीजानि प्राक्तनानि तदभावात् दलद्वयहितार्थं कृतोऽपि यत्नो निष्फल इति मत्वा शममेवेच्छसीत्यर्थः ॥३॥

तदिदं भाषितं वाक्यं तथाचन तथैव तत् ।
न चैतदेवं द्रष्टव्यमसाध्यमपि किञ्चन ॥४॥

मन्त्रकारणमाह- तदिदमिति । न हि युद्धं न कामये इति यत्त्वया भाषितं तथाचन तथाऽपि । चनशब्दोऽप्यर्थे । यद्यपि ममैतद‌निष्टं तथापि त्वया यद्भाषितं तत्तथैव भविष्यतीत्यर्थः । परन्तु शमोऽपि तव नासाध्योऽस्तीत्याह- न चेति ॥४॥

किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम् ।
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥५॥

एतत् कृच्छ्रं युद्धं सङ्कटं मन्यसेऽङ्गीकरोषि । अन्माकं कुरुपाण्डवानां शमासंभवाद्युद्धमिच्छसीत्याह- कुर्वन्तीति । येषां पुंसां फलोदयो नास्ति तेषां कर्माणि क्रियमाणान्यपि सामादीनि कुर्वन्ति कृण्वन्ति हिंसन्ति । कॄ हिंसायामित्यस्य स्वादिगणस्थस्य रूपम् । तनादित्वमस्यार्षं लेखकप्रमादजं वा । ‘चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया’ इत्यभियुक्तोक्तेर्जीवनादृष्टाभावाद्दण्डैकसाध्येषु कुरुषु सान्त्वप्रयोगो दुष्कर इत्यर्थः॥५॥

संपाद्यमानं सम्यक्च स्यात् कर्म सफलं प्रभो ।
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥६॥

एवं जानन्नपि सामैव चेन्मन्यसे तत्राह- संपाद्येति । यत्कर्म सम्यक् संपाद्यमानं भवेत् तत्सफलं स्यादिति सम्बन्धः । प्रभो इत्यनेन असाध्यसाधनसामर्थ्यमस्य दर्शयति । फलितमाह- स इति ॥६॥

पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत् ।
सुराणामसुराणां च यथा वीर प्रजापतिः ॥७॥

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ॥८॥

निरामयं कुशलम् ॥८॥

एवं च कार्यतामेति कार्यं तव जनार्दन ।
गमनादेवमेव त्वं करिष्यसि जनार्दन ॥९॥

कार्यतामौचित्यं कार्यं कर्म ॥९॥

चिकीर्षितमथान्यत्ते तस्मिन् वीर दुरात्मनि ।
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ॥१०॥

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ।
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः ॥११॥

शर्मेति कृष्णात्स्वस्य व्यवहारतो भेदान्मतभेदमुक्त्वा तत्त्वमाह- विचार्यमाण इति । गुरुः उपदेष्टा । ‘प्राणस्य प्राणमुतचक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यम्’ इति श्रुतेरस्मन्मनसोऽपि मतस्त्वमतस्तव यः कामः स एवास्मत्कामस्य प्रवर्तक इति भावः । वस्तुतस्तु तवैव कामो युक्त इत्याह- न स इत्यादिना ॥११॥

येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ।
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन ॥१२॥

धर्मिष्ठं युद्धादिकम् ॥१२॥

उपायेन नृशंसेन हृता दुर्द्यूतदेविना ।
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ॥१३॥

हृता श्रीः ॥१३॥

समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ।
अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितांस्तथा ॥१४॥

समाहूतो यूतार्थम् ॥१४॥

वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ।
न चैतद‌द्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि ।
क्रिया कथं च मुख्या स्यान्मृदुना चेतरेण वा ॥१५॥

निर्गतः निश्चयेन प्राप्तः कथं च कथमपि मुख्या फलवती मृदुना साम्ना इतरेण युद्धेन ॥१५॥

अथवा मन्यसे ज्यायान् वधस्तेषामनन्तरम् ।
तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥१६॥

जानासि हि यथैतेन द्रौपदी पापबुद्धिना ।
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ॥१७॥

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव ।
न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे ॥१८॥

नाम निश्चितं स पाण्डवेषु सम्यग्वर्तेतेति बुद्धिर्मे न सञ्जायते नोत्पद्यते ॥१८॥

तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत् ।
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥१९॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि अर्जुनवाक्येऽष्टसप्ततितमोऽध्यायः ॥७८॥
ऊनाशीतितमोऽध्यायः

श्रीभगवानुवाच ।
एवमेतन्महाबाहो यथा वदसि पाण्डव ।
पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् ॥१॥

एवमिति ॥१॥

सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ।
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम् ॥२॥

द्वयोः कर्मणोः शमयुद्धयोर्मध्ये इदमनामयं सर्वं कृत्स्नं मम दूतस्यायत्तमधीनं तथाऽपि दैवानुकूल्यमत्रापेक्षितमित्याह - क्षेत्रमिति । कर्मणा कर्षणेन वाप्यादिजलदानेन च शुद्धं भूदोषहीनं रसवदार्द्रं च उपपादितं कृतं तत् कदाचिद्वर्षं विनाऽपि फलप्रदं भवेत् ॥२॥

ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत् फलम् ।
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम् ॥३॥

अत्र केवलं पौरुषस्यैव श्रेष्ट्यं दृष्टमित्याह - तत्रेति ॥३॥

तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ।
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः ॥४॥

एतदपि दैवाधीनमेवेत्याह - तत्र चापीति । शोषणं वाप्यादेः । सर्वथा वृष्ट्यभावे यथा न फलनिष्पत्तिस्तद्वद्देवाभावेऽपीत्यर्थः ॥४॥

दैवे च मानुषे चैव संयुक्तं लोककारणम् ।
अहं हि तत्करिष्यामि परं पुरुषकारतः ॥५॥

संयुक्तमाहितं लोककारणं लोकहितसाधनम् ॥५॥

दैवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ।
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः॥६॥

दैवं कर्म प्राक्तनं कर्म कर्तुमन्यथाकर्तुम् ॥६॥

न हि सन्तप्यते तेन तथारूपेण कर्मणा ।
तथाऽपि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ॥७॥

शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ।
स हि त्यागेन राज्यस्य न शमं समुपैष्यति ॥८॥

पुरुषकाराच्छमोऽप्यत्र दुःसंपाद इत्याह- स हीति । त्यागेन दानेन ॥८॥

अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ।
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रदास्यति दुर्मतिः ॥९॥

सानुबन्धः सपरिवारः । न चेति । एको राज्यं त्यक्तुं नेच्छति परो दातुं नेच्छतीत्यर्थः ॥९॥

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ॥१०॥

शासनं पञ्चग्रामान् देहीति तत् न वक्तव्यः दैन्यद्योतकत्वादिति भावः । अफलत्वाच्च नैवं स वाच्य इत्याह- उक्तमिति । प्रयोजनं शमम् ॥१०॥

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ॥११॥

मम चापि स वध्यो हि जगतश्चापि भारत ।
येन कौमारके यूयं सर्वे विप्रकृताः सदा ॥१२॥

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥१३॥

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ॥१४॥

जानासि हि महाबाहो त्वमप्यस्य परं मतम् ।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥१५॥

सञ्जानंस्तस्य चात्मानं मम चैव परं मतम् ।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ॥१६॥

अभिशङ्कसे मां शममनिच्छन्तमिव मन्यसे ॥१६॥

यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया ।
विधानं विहितं पार्थ कथं शर्म भवेत् परैः ॥१७॥

दिव्यं विधानं भूभारापहारार्थं स्वर्गाद्देवानामवतरणम् ॥१७॥

यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥१८॥

आशंसे संभावयामि ॥१८॥

कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ॥१९॥

कथमिति । भीष्मेण एतच्छर्म याच्यमानोऽपि सः हितं कथं नोक्तः अपि तु उक्त उपदिष्ट एव दुर्योधनस्तथाऽपि न गृहीतवानिति भावः । संवत्सरगते गतसंवत्सरे ॥१९॥

तदैव ते पराभूता यदा संकल्पितास्त्वया ।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥२०॥

सङ्कल्पिताः वध्यत्वेन निश्चिताः । लवशः क्षणशः लवोंशः क्षणः स्वीकारः । राज्यलेशस्य स्वीकारेऽपि न संतुष्ट इत्यर्थः । क्रमेण षष्ठ्यर्थे सप्तम्यर्थे च शस्प्रत्ययः ॥२०॥

सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥२१॥

विभाव्यं विचारणीयम् ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णवाक्ये ऊनाशीतितमोऽध्यायः ॥७९॥
अशीतितमोऽध्यायः

नकुल उवाच। उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ॥१॥

उक्तमिति ॥१॥

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥२॥

राज्ञो मतमाज्ञाय संशमः सम्यक् शमः ख्यापितः हे माधव मधुदेशज आत्मनः मतमाज्ञाय बाहुवीर्यं ख्यापितं हे माधव लक्ष्मीपते ॥२॥

तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवता सकृत् ॥३॥

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् ।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥४॥

तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ॥५॥

तस्मिन्निति । निमित्तभेदान्मतभेदो भवति । कुलधुर्यस्य युधिष्ठिरस्य मतं कुलोच्छेदो मा भूदिति, केशाकर्षणक्लिष्टायाः द्रौपद्या मतं शत्रवो निर्मूलमुन्मूलनीया इति । तत्र कालानुरूपं यत् क्षमं योग्यं तत्त्वया कार्यमित्यर्थः ॥५॥

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम ॥६॥

अनित्या नाशवती मतिर्येषां ते ॥६॥

अन्यथा बुद्धया ह्यासन्नस्मासु वनवासिषु ।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥७॥

न केवलं व्यक्तिभेदान्मतभेदः किंतु व्यक्त्यैक्येऽप्यवस्थाभेदान्मतभेदो भवतीत्याह - अन्यथेत्यादिना । अदृश्येष्विति । अज्ञातवासकाले कथमनावृताश्चरिष्याम इत्येव मनोरथ आसीत् । दृश्येषु इदानीं भव्येषु अस्मासु कदा राज्यं प्राप्स्याम इत्यस्तीति भावः ॥७॥

अस्माकमपि वार्ष्णेय वने विचरतां तदा ।
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ॥८॥

प्रणय आदरः ॥८॥

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥९॥

न व्यथेत् क्रुध्येत् ॥९॥

इमान् हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् ।
आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥१०॥

स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम् ।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥११॥

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव ॥१२॥

सात्यकिं च महावीर्यं विराटं च सहात्मजम् ।
द्रुपदं च सहामात्यं धृष्टद्युम्नं च माधव ॥१३॥

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥१४॥

स भवान् गमनादेव साधयिष्यत्यसंशयम् ।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥१५॥

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ॥१६॥

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥१७॥

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥१८॥

अर्थं प्रयोजनं निवर्तन्तं भ्रश्यन्तम् ॥१८॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि नकुलवाक्ये अशीतितमोऽध्यायः ॥८०॥
एकाशीतितमोऽध्यायः

सहदेव उवाच। यदेतत्कथितं राज्ञा धर्म एष सनातनः ।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ॥१॥

यदेतदितिः ॥१॥

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह ।
तथाऽपि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥२॥

कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम् ।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥३॥

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धमिच्छामि संयुगे ॥४॥

यदि यद्यपि भीमादयो धार्मिकाः स्युस्तथाऽप्यहं धर्ममुत्सृज्य तेन सह योद्धुमिच्छामि ॥४॥

सात्यकिरुवाच। सत्यमाह महाबाहो सहदेवो महामतिः ।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥५॥

महाबाहो हे कृष्ण ॥५॥

न जानासि यथा दृष्ट्वा चीराजिनधरान् वने ।
तवापि मन्युरुद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान् ॥६॥

तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः ।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥७॥

वैशम्पायन उवाच। एवं वदति वाक्यं तु युयुधाने महामतौ ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥८॥

सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन् ।
साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥९॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि सहदेवसात्यकिवाक्ये एकाशीतितमोऽध्यायः ॥८१॥
द्व्यशीतितमोऽध्यायः

वैशम्पायन उवाच। राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् ।
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता ॥१॥

राज्ञस्विति ॥१॥

सुता द्रुपदराजस्य स्वसितायतमूर्धजा ।
संपूज्य सहदेवं च सात्यकिं च महारथम् ॥२॥

स्वसितायतमूर्धजा अतिकृष्णा दीर्घाश्च केशा यस्याः ॥२॥

भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः ।
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥३॥

विदितं ते महाबाहो धर्मज्ञ मधुसूदन ।
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥४॥

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन ।
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ॥५॥

मन्त्रं शमप्रधानम् ॥५॥

युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव ।
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ॥६॥

पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते ।
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ॥७॥

अवसानं महाबाहो कञ्चिदेकं च पञ्चमम् ।
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥८॥

न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः ।
युधिष्ठिरस्य दाशार्ह श्रीमतः सन्धिमिच्छतः ॥९॥

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः ।
सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथञ्चन ॥१०॥

शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह ।
धार्तराष्ट्रबलं घोरं कुद्धं प्रतिसमासितुम् ॥११॥

प्रतिसमासितुं प्रतिपक्षतया स्थातुम् ॥११॥

न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन ।
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥१२॥

कश्चन अर्थः शमोपायः शक्यः कर्तुमिति शेषः ॥१२॥

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः ।
योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥१३॥

तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत ।
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥१४॥

एतत्समर्थं पार्थानां तव चैव यशस्करम् ।
क्रियमाणं भवेत् कृष्ण क्षत्रस्य च सुखावहम् ॥१५॥

समर्थं युक्तम् ॥१५॥

क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः ।
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥१६॥

अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् ।
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥१७॥

प्रसृतं प्रदत्तं च तदग्र्यं च तस्य भोक्ता प्रसृताग्रभुक् । पूज्य इत्यर्थः ॥१७॥

यथाऽवध्ये वध्यमाने भवेद्दोषो जनार्दन ।
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥१८॥

यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु ।
पाण्डवैः सह दाशार्हैः सृञ्जयैश्च ससैनिकैः ॥१९॥

पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन ।
का तु सीमन्तिनी मादृक् पृथिव्यामस्ति केशव ॥२०॥

सुता द्रुपद्रराजस्य वेदिमध्यात् समुत्थिता ।
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥२१॥

आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः ।
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥२२॥

सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः ।
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥२३॥

साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता ।
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥२४॥

जीवत्सु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु ।
दासीभूताऽस्मि पापानां सभामध्ये व्यवस्थिता ॥२५॥

निरमर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु ।
पाहि मामिति गोविन्द मनसा चिन्तितोऽसि मे ॥२६॥

यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् ।
वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम ॥२७॥

अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति ।
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥२८॥

एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन ।
त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान् ॥२९॥

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥३०॥

धिक् पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥३१॥

यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि ।
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥३२॥

वैशम्पायन उवाच। इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् ।
सुनीलमसितापाङ्गी सर्वगन्धाधिवासितम् ॥३३॥

मृदुसंहारं वेणीरूपेण समाहृतमपि मृदुं वृजिनाग्रं कुटिलाग्रं केशवत्सूक्ष्माग्रं वा । ‘वृजिनः कुटिलेऽन्यवत्’ इति विश्वः सुदर्शनं रमणीयम् ॥३३॥

सर्वलक्षणसम्पन्नं महाभुजगवर्चसम् ।
केशपक्षं वरारोहा गृह्य वामेन पाणिना ॥३४॥

पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी ।
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥३५॥

अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः ।
स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छता ॥३६॥

यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ ।
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥३७॥

पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन ।
अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सहः ॥३८॥

दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम् ।
यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे ॥३९॥

त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे ।
विधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥४०॥

विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् ।
योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति ॥४१॥

हे भीम शत्रुभयङ्कर कृष्ण योऽयं भवान् ॥४१॥

इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना ।
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥४२॥

स्तनौ पीनायतश्रोणी सहितावभिवर्षती ।
द्रवीभूतमिवात्युष्णं मुञ्चती वारि नेत्रजम् ॥४३॥

अत्युष्णं वह्निम् ॥४३॥

तामुवाच महाबाहुः केशवः परिसान्त्वयन् ।
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥४४॥

एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः ।
हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी ॥४५॥

रोत्स्यन्ति रोदिष्यन्ति ॥४५॥

अहं च तत्करिष्यामि भीमार्जुनयमैः सह ।
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥४६॥

धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः ।
शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः ॥४७॥

चलेद्धि हिमवान् शैलो मेदिनी शतधा फलेत् ।
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥४८॥

सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् ।
हतामित्रान् श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ॥४९॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्रौपदीकृष्णसंवादे द्व्यशीतितमोऽध्यायः ॥८२॥
त्र्यशीतितमोऽध्यायः

अर्जुन उवाच। कुरूणामद्य सर्वेषां भवान् सुहृदमुत्तमः ।
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥१॥

कुरूणामिति ॥१॥

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् ।
समर्थः प्रशमं चैव कर्तुमर्हसि केशव ॥२॥

प्रतिपाद्य संपाद्यम् अनामयं कुशलम् ॥२॥

त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् ।
शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ॥३॥

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् ।
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥४॥

श्रीभगवानुवाच ।
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् ।
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥५॥

यास्यामि । तदेव कर्तुमिति शेषः । अभीप्सया प्राप्तुमिच्छया ॥५॥

वैशम्पायन उवाच। ततो व्यपेततमसि सूर्ये विमलवद्गते ।
मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे ॥६॥

विमलवद्गतनिर्मलाकाशगे मैत्रे जन्मर्क्षाष्टमतारायां दूतस्य हि स्वामिबलेनैव बलवत्त्वमित्यर्थः ॥६॥

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
स्फीतसस्यसुखे काले कल्पः सत्त्ववतां वरः ॥७॥

कौमुदे कार्तिके रेवत्याम् अर्जुनस्य फल्गुनीजातस्य रेवती मैत्रतारा भवतीति प्रसिद्धम् ॥७॥

मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः ।
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥८॥

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः ।
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥९॥

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च ।
अग्निं प्रदक्षिणं कृत्वा पश्यन् कल्याणमग्रतः ॥१०॥

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः ।
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥११॥

प्रतिज्ञाय अनुस्मृत्य ॥११॥

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह ।
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥१२॥

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ॥१३॥

ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः ।
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥१४॥

तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् ।
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ॥१५॥

आकाशगः सूर्यः । आकाशमिव चेति पाठे जङ्गमाकाशतुल्यमित्यर्थः । विशालत्वात् नक्षत्रोपमरत्नरचितत्वाच्च । तदेवाह- सूर्येति ॥१५॥

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥१६॥

तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् ।
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥१७॥

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् ।
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥१८॥

सूपस्करं शोभनैरुपकरणैरुपेतम् ॥१८॥

वाजिभिः शैब्य-सुग्रीव-मेघपुष्पबलाहकैः ।
स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा ॥१९॥

संपादयामासुः सज्जीकृतवन्तः ॥१९॥

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् ।
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥२०॥

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिःस्वनम् ।
आरुरोह रथं शौरिर्विमानमिव कामगम् ॥२१॥

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः ।
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥२२॥

व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत ।
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥२३॥

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः ।
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥२४॥

मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः ।
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥२५॥

मङ्गल्यार्थप्रदैः विजयी भवेत्यादिमङ्गलावहैः ॥२५॥

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।
प्रदक्षिणमुखो भूत्वा विधूमः समपद्यत ॥२६॥

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः ।
शुक्र-नारद-वाल्मीका मरुतः कुशिको भृगुः ॥२७॥

देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम् ।
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥२८॥

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥२९॥

तं प्रयान्तमनुप्रायात् कुन्तीपुत्रो युधिष्ठरः ।
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥३०॥

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।
द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥३१॥

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह ।
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥३२॥

संसाधनार्थं कार्यनिष्पत्त्यर्थम् ॥३२॥

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः ।
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥३३॥

यो वै न कामान्न भयान्न लोभान्नार्थकारणात् ।
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥३४॥

धर्मज्ञो धृतिमान् प्राज्ञः सर्वभूतेषु केशवः ।
ईश्वरः सर्वभूतानां देवदेवः सनातनः ॥३५॥

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् ।
संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ॥३६॥

युधिष्ठिर उवाच। या सा बाल्यात्प्रभृत्यस्मान् पर्यवर्धयताबला ।
उपवासतपःशीला सदा स्वस्त्ययने रता ॥३७॥

देवतातिथिपूजासु गुरुशुश्रूषणे रता ।
वत्सला प्रियपुत्रा च प्रियाऽस्माकं जनार्दन ॥३८॥

सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन ।
महतो मृत्युसंबाधादुद्धरेन्नौरिवार्णवात् ॥३९॥

अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ॥४०॥

भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान् परिकीर्तयन् ॥४१॥

ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम ।
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ॥४२॥

ऊढात् विवाहात् । यद्वा ‘उढस्तंद्रितबालयोः’ इति विश्वः । बाल्यादित्यर्थः । उभयत्र भावप्रधानो निर्देशः ॥४२॥

अपि जातु स कालः स्यात् कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ॥४३॥

प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमुपहायैनामगच्छाम वयं वनम् ॥४४॥

न नूनं म्रियते दुःखैः सा चेज्जीवति केशव ।
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृत ॥४५॥

अभिवाद्याथ सा कृष्ण त्वया मद्वचनाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ॥४६॥

भीष्मं द्रोणं कृपं चैव महाराजं च बाल्हिकम् ।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान् प्रति ॥४७॥

विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् ।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ॥४८॥

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः ।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥४९॥

व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत् परवीरघ्नं दाशार्हमपराजितम् ॥५०॥

यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ॥५१॥

तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च ।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥५२॥

अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् ।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥५३॥

वैशम्पायन उवाच। एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः ।
मुहुर्मुहुः क्रोधवशात् प्रावेपत च पाण्डवः ॥५४॥

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् ।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥५५॥

तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वाणि शकृन्मूत्रे प्रसुस्रु‌वुः ॥५६॥

इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् ।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥५७॥

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः ।
तूर्णमभ्यगमद्धृष्टः शैब्य-सुग्रीववाहनः ॥५८॥

ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥५९॥

अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्म्या श्रिया दीप्यमानान् स्थितानुभयतः पथि ॥६०॥

सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः ।
यथावृत्तानृषीन् सर्वानभ्यभाषत पूजयन् ॥६१॥

कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ॥६२॥

तेभ्यः प्रयुज्यतां पूजां प्रोवाच मधुसूदनः ।
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ॥६३॥

वीथी मार्गः ॥६३॥

किं वा कार्यं भगवतामहं किं करवाणि वः ।
केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् ॥६४॥

तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् ।
परिष्यज्य च गोविन्दं सुरासुरपतेः सखा ॥६५॥

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ।
देवासुरस्य द्रष्टारः पुराणस्य महामते ॥६६॥

समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ॥६७॥

एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ।
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव ॥६८॥

त्वयोच्यमानाः कुरुषु राजमध्ये परंतप ।
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ॥६९॥

त्वं च यादवशार्दूल सभायां वै समेष्यथ ।
तव वाक्यानि दिव्यानि तथा तेषां च माधव ॥७०॥

श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च ।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ॥७१॥

याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ।
आसीनमासने दिव्ये बलतेजःसमाहितम् ॥७२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णप्रस्थाने त्र्यशीतितमोऽध्यायः ॥८३॥
चतुरशीतितमोऽध्यायः

वैशम्पायन उवाच। प्रयान्तं देवकीपुत्रं परवीररुजो दश ।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥१॥

प्रयान्तमिति ॥१॥

पदातीनां सहस्रं च सादिनां च परंतप ।
भोज्यं च विपुलं राजन् प्रेष्याश्च शतशोऽपरे ॥२॥

जनमेजय उवाच। कथं प्रयातो दाशार्हो महात्मा मधुसूदनः ।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥३॥

वैशम्पायन उवाच। तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः ।
तानि मे शृणु सर्वाणि दैवान्यौत्पातिकानि च ॥४॥

दैवानि शकुनानि औत्पातिकानि अशकुनानि ॥४॥

अनम्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥५॥

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन ॥६॥

प्रत्यक् प्रतीपम् ऊहुः प्रवाहं कृतवत्यः ॥६॥

प्राज्वलन्नग्नयो राजन् पृथिवी समकम्पत ।
उदपानाश्च कुंभाश्च प्रासिञ्चन् शतशो जलम् ॥७॥

तमःसंवृतमप्यासीत् सर्वं जगदिदं तथा ।
न दिशो नादिशो राजन् प्रज्ञायन्ते स्म रेणुना ॥८॥

प्रादुरासीन्महाञ्छब्दः खे शरीरं न दृश्यते ।
सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत् ॥९॥

खे शरीरं छायापुरुषशरीरम् ॥९॥

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः ॥१०॥

दक्षिणपश्चिमः निर्ऋतिदेशः ॥१०॥

यत्र यत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्र तत्र सुखो वायुः सर्वं चासीत् प्रदक्षिणम् ॥११॥

औत्पातिकान्युक्त्वा दैवान्याह - यत्र यत्रेति ॥११॥

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥१२॥

संस्तुतो ब्राह्मणैर्गीर्भिस्तत्र तत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ॥१३॥

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥१४॥

स शालिभवनं रम्यं सर्वसस्यसमाचितम् ।
सुखं परमधर्मिष्ठमभ्यगाद्भरतर्षभ॥१५॥

भवन्ति अस्मिन्निति भवनं क्षेत्रम् ॥१५॥

पश्यन् बहुपशून् ग्रामान् रम्यान् हृदयतोषणान् ।
पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च ॥१६॥

नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः ।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ॥१७॥

उपप्लव्यादथागम्य जनाः पुरनिवासिनः ।
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥१८॥

उपप्लव्यात् ग्रामात् ॥१८॥

ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ॥१९॥

वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ॥२०॥

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥२१॥

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः ।
मुमोच सर्वयोक्त्रादि मुक्त्वा चैतानवासृजत् ॥२२॥

अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः ।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ॥२३॥

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ॥२४॥

तस्मिन् ग्रामे प्रधानास्तु य आसन् ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥२५॥

तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् ।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥२६॥

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् ।
न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने ॥२७॥

तान् प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात् सहैव तैः ॥२८॥

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥२९॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णप्रयाणे चतुरशीतितमोऽध्यायः ॥८४॥
पञ्चाशीतितमोऽध्यायः

वैशम्पायन उवाच। तथा दूतैः समाज्ञाय प्रयान्तं मधुसूदनम् ।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥१॥

तथा दूतैरिति ॥१॥

द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योधनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ॥२॥

अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ॥३॥

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥४॥

उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥५॥

तस्मिन् हि यात्रा लोकस्य भूतानामीश्वरो हि सः ।
तस्मिन् धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥६॥

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥७॥

स चेत्तुष्यति दाशार्ह उपचारैररिन्दमः ।
कृष्णात् सर्वानभिप्रायान् प्राप्स्यामः सर्वराजसु ॥८॥

अभिप्रायान् मनोरथान् ॥८॥

तस्य पूजार्थमद्यैव संविधत्स्व परंतप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ॥९॥

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥१०॥

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् ।
ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः ॥११॥

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा ।
सभा वास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥१२॥

ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥१३॥

आसनानि विचित्राणि युतानि विविधैर्गणैः ।
स्त्रियो गन्धानलङ्कारान् सूक्ष्माणि वसनानि च ॥१४॥

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च ।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥१५॥

विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले ।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥१६॥

एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥१७॥

ताः सभाः केशवः सर्वा रत्नानि विविधानि च ।
असमीक्ष्यैव दाशार्ह उपायात् कुरुसद्म तत् ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मार्गे सभानिर्माणे पञ्चाशीतितमोऽध्यायः ॥८५॥
षडशीतितमोऽध्यायः

धृतराष्ट्र उवाच। उपप्लव्यादिह क्षत्तरुपायातो जनार्दनः ।
वृकस्थले निवसति स च प्रातरिहैष्यति ॥१॥

उपप्लव्यादिति ॥१॥

आहुकानामधिपतिः पुरोगः सर्वसात्वताम् ।
महामना महावीर्यो महासत्वो जनार्दनः ॥२॥

स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान् प्रपितामहः ॥३॥

प्रपितामहः पितामहस्य ब्रह्मणोऽपि पिता ॥३॥

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते ।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥४॥

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः शृणु ॥५॥

एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः ।
चतुर्युक्तान् रथांस्तस्मै रौक्मान् दास्यामि षोडश ॥६॥

नित्यप्रभिन्नान् मातङ्गानीषादन्तान् प्रहारिणः ।
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ॥७॥

ईषा लाङ्गलदण्डस्तत्सदृशदन्तान् अष्टौ अनुचराः यस्य गजस्य ॥७॥

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावताम् ॥८॥

आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ॥९॥

अजिनानां सहस्राणि चीनदेशोद्भवानि च ।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥१०॥

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ॥११॥

एकेनाभिपतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥१२॥

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥१३॥

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते ।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ॥१४॥

स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः ।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥१५॥

नगरादपि याः काश्चिद्ग‌मिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥१६॥

सस्त्रीपुरुषबालं च नगरं मधुसूदनम् ।
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ॥१७॥

महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः ।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥१८॥

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ॥१९॥

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥२०॥

सर्वर्तु सर्वे ऋतवो युगपदस्मिन् सन्तीति तथा ॥२०॥

सर्वमस्मिन् गृहे रत्नं मम दुर्योधनस्य च ।
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ॥२१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि धृतराष्ट्रवाक्ये षडशीतितमोऽध्यायः ॥८६॥
सप्ताशीतितमोऽध्यायः

विदुर उवाच। राजन् बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः ।
संभावितश्च लोकस्य संमतश्चासि भारत ॥१॥

राजन्निति ॥१॥

यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः ।
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥२॥

लेखा शशिनि, भाः सूर्ये, महोर्मिरिव सागरे ।
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ॥३॥

सदैव भावितो लोको गुणौघैस्तव पार्थिव ।
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥४॥

भावितः हृष्टः ॥४॥

आर्जवं प्रतिपद्यस्व मा बाल्याद्बहु नीनशः ।
राजन् पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ॥५॥

मा नीनशः हेतुमण्णिच् मा नाशं प्राप्नुहि ॥५॥

यत्त्वमिच्छसि कृष्णाय राजन्नतिथये बहु ।
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥६॥

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् ।
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ॥७॥

मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिण ।
जानामि त्वन्मतं राजन् गूढं बाह्येन कर्मणा ॥८॥

माया इन्द्रजालं छद्म वञ्चनम् ॥८॥

पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान् पाण्डवा नृप ।
न च दित्ससि तेभ्यस्तांस्तच्छद्मं न करिष्यसि ॥९॥

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।
अनेन चाप्युपायेन पाण्डवेभ्यो बिभेत्स्यसि ॥१०॥

विभेत्स्यसि शल्यवत् पृथक्करिष्यसि ॥१०॥

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया ।
अन्यो धनञ्जयात् कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥११॥

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् ।
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥१२॥

वेद वेद्मि ॥१२॥

अन्यत् कुम्भादपां पूर्णादन्यत् पादावसेचनात् ।
अन्यत् कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः ॥१३॥

नैवेक्ष्यति नैवाङ्गीकरिष्यति ॥१३॥

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।
तदस्मै क्रियतां राजन् मानार्होऽसौ जनार्दनः ॥१४॥

आतिथ्यं शमरूपम् ॥१४॥

आशंसमानः कल्याणं कुरूनभ्येति केशवः ।
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥१५॥

उपाकुरु अर्पय ॥१५॥

शममिच्छति दाशार्हस्तव दुर्योधनस्य च ।
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥१६॥

पिताऽसि राजन् पुत्रास्ते वृद्धस्त्वं शिशवः परे ।
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥१७॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि विदुरवाक्ये सप्ताशीतितमोऽध्यायः ॥८७॥
अष्टाशीतितमोऽध्यायः

दुर्योधन उवाच। यदाह विदुरः कृष्णे सर्वं तत् सत्यमच्युते ।
अनुरक्तो ह्यसंहार्यः पार्थान् प्रति जनार्दनः ॥१॥

यदाहेति । असंहार्यः हर्तुमशक्यः ॥१॥

यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥२॥

देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन् भयादर्चति मामिति ॥३॥

देश इति । यद्यपि केशवोऽर्चामर्हत्येव तथाऽप्यर्चायां देशः कालश्चायुक्त इत्यर्थः । तदेवाह - मंस्यतीति ॥३॥

अवमानश्च यत्र स्यात् क्षत्रियस्य विशाम्पते ।
न तत् कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥४॥

स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥५॥

न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥६॥

कार्यगतिः कर्तव्यरीतिः । अविग्रहात् आतिथ्यमात्रेण ॥६॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः ।
वैचित्रवीर्यं राजानामिदं वचनमब्रवीत् ॥७॥

सत्कृतोऽसत्कृतो वाऽपि न क्रुद्ध्येत जनार्दनः ।
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ॥८॥

नालं न पर्याप्तोऽसि ॥८॥

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित् कर्तुमन्यथा ॥९॥

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥१०॥

तीर्थेन अवतरणवर्त्मना संशाम्य शान्तो भव ॥१०॥

धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः ।
तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥११॥

दुर्योधन उवाच। न पर्यायोऽस्ति यद्राजन् श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्नीयां यावज्जीवं पितामह ॥१२॥

पर्यायः प्रकारान्तरं निष्केवलां कृत्स्नां माण्डवान् यथा दासवद्वासयेयं तथा प्रकारो नास्तीत्यर्थः॥१२॥

इदं तु सुमहत् कार्यं शृणु मे यत् समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ॥१३॥

तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा ।
पाण्डवाश्च विधेया मे स च प्रातरिहैष्यति ॥१४॥

अत्रोपायान् यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान् प्रब्रवीतु मे ॥१५॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् ।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाऽभवत् ॥१६॥

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥१७॥

दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः ।
अपापः कौरवेयेषु स कथं बन्धमर्हति ॥१८॥

भीष्म उवाच। परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ॥१९॥

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् ।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥२०॥

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥२१॥

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथञ्चन ॥२२॥

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात् प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥२३॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि दुर्योधनवाक्ये अष्टाशीतितमोऽध्यायः ॥८८॥
एकोननवतितमोऽध्यायः

वैशम्पायन उवाच। प्रातरुत्थाय कृष्णस्तु कृतवान् सर्वमाह्निकम् ।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥१॥

प्रातरिति ॥१॥

तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥२॥

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः ।
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ॥३॥

पौराश्च बहुला राजन् हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्यैः पद्भिरेव तथा परे ॥४॥

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥५॥

कृष्णसम्माननार्थं च नगरं समलङ्कृतम् ।
बभूव राजमार्गश्च बहुरत्नसमाचितः ॥६॥

न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥७॥

राजमार्गे नरास्तस्मिन् संस्तुवन्त्यवनिं गताः ।
तस्मिन् काले महाराज हृषीकेशप्रवेशने ॥८॥

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ॥९॥

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन् राजमार्गे नरैर्वृते ॥१०॥

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः ।
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥११॥

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ॥१२॥

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः ।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥१३॥

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः ।
आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम् ॥१४॥

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् ।
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥१५॥

तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिः सह माधवः ॥१६॥

अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम् ।
कृपं च सोमदत्तं च समीयाय जनार्दनः ॥१७॥

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥१८॥

मृष्टं शोधितम् ॥१८॥

अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥१९॥

कृतातिथ्यस्तु गोविन्दः सर्वान् परिहसन् कुरून् ।
आस्ते साम्बन्धिकं कुर्वन् कुरुभिः परिवारितः ॥२०॥

परिहसन् नर्म कुर्वन् साम्बन्धिकं धनञ्जयादिसम्बन्धहेतुकं व्यवहारम् ॥२०॥

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः ॥२१॥

पूजितः स्तुतः ॥२१॥

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ॥२२॥

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥२३॥

या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा ।
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम् ॥२४॥

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् ।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥२५॥

प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः ।
धर्मार्थनित्यस्य सतो गतरोषस्य धीमतः ॥२६॥

विदुरः पाण्डवानां विचेष्टितं तस्य तं कृष्णं प्रत्यपृच्छदित्यन्वयः । सार्धश्लोक एकं वाक्यम् । अपृच्छदिति पूर्वस्मादनुकृष्यते । प्रीयमाणस्येत्यादिषष्ठ्यौ द्वितीयार्थे ॥२६॥

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ॥२७॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि धृतराष्ट्रगृहप्रवेशपूर्वकं श्रीकृष्णस्य विदुरगृहप्रवेशे एकोननवतितमोऽध्यायः ॥८९॥
नवतितमोऽध्यायः

वैशम्पायन उवाच। अथोपगम्य विदुरमपराह्णे जनार्दनः ।
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ॥१॥

अथेति ॥१॥

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् ।
कण्ठे गृहीत्वा प्राक्रोशत् स्मरन्ती तनयान् पृथा ॥२॥

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् ।
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत् पृथा ॥३॥

साऽब्रवीत् कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥४॥

ये ते बाल्यात् प्रभृत्येव गुरुशुश्रूषणे रताः ।
परस्परस्य सुहृदः सम्मताः समचेतसः ।
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः ॥५॥

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ।
त्यक्त्वा प्रियसुखे पार्था रुदतीमपहाय माम् ॥६॥

प्रियं राज्यादि सुखं भोगोत्थ आल्हादः ॥६॥

अहार्षुश्च वनं यान्तः समूलं हृदयं मम ।
अतदर्हा महात्मानः कथं केशव पाण्डवाः ॥७॥

ऊषुर्महावने तात सिंह-व्याघ्र-गजाकुले ।
बाला विहीनाः पित्रा ते मया सततलालिताः ॥८॥

अपश्यन्तश्च पितरौ कथमूषुर्महावने ।
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वेणुनिःस्वनैः ॥९॥

पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ।
ये स्म वारणशब्देन हयानां हेषितेन च ॥१०॥

रथनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे ।
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ॥११॥

पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ।
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ॥१२॥

गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ।
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ॥१३॥

प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ।
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ॥१४॥

न स्मोपयान्ति निद्रान्ते न तदर्हा जनार्दन ।
भेरी-मृदङ्गनिनदैः शङ्ख-वैणव-निःस्वनैः ॥१५॥

स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।
बन्दि-मागध-सूतैश्च स्तुवद्भिर्बोधिताः कथम् ॥१६॥

महावनेष्वबोध्यन्त श्वापदानां रुतेन च ।
ह्रीमान् सत्यधृतिर्दान्तो भूतानामनुकम्पिता ॥१७॥

कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ।
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ॥१८॥

भरतस्य दिलीपस्य शिबेरौशीनरस्य च ।
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ॥१९॥

धुरं भारम् ॥१९॥

शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसङ्गरः ।
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् ॥२०॥

अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ।
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥२१॥

प्रियो दर्शो दर्शनं यस्य दर्शादिश्राद्धकर्म वा यस्य ॥२१॥

यः स नागायुतप्राणो वातरंहा महाबलः ।
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः ॥२२॥

सामर्षत्वादेव पाण्डवः पाण्डुरेव पाण्डवः स्वार्थे तद्धितः । यद्वा पाण्डवः पाण्डुपुत्रः । ‘पाण्डुः कुन्तीपतौ सिते’ इति विश्वः ॥२२॥

कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन ।
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥२३॥

पराक्रमे शक्रसमो मातरिश्वसमो बले ।
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥२४॥

क्रोधं बलममर्षं च यो निधाय परंतपः ।
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥२५॥

तेजोराशिं महात्मानं वरिष्ठममितौजसम् ।
भीमं प्रदर्शनेनापि भीमसेनं जनार्दनम् ॥२६॥

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ।
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ॥२७॥

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥२८॥

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥२९॥

तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे ।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥३०॥

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।
आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥३१॥

यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते ।
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥३२॥

यं गत्वाऽभिमुखः संख्ये न जीवन् कश्चिदाव्रजेत् ।
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ॥३३॥

योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥३४॥

दयावान् सर्वभूतेषु ह्रीनिषेवो महास्त्रवित् ।
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥३५॥

सहदेवो महेष्वासः शूरः समिति शोभनः ।
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥३६॥

सदैव सहदेवस्य भ्रातरो मधुसूदन ।
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥३७॥

ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम् ।
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥३८॥

ज्येष्ठोपचायिनं ज्येष्ठानां भाववृद्धिकरम् ॥३८॥

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ॥३९॥

चित्रयोधी च नकुलो महेष्वासो महाबलः ।
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥४०॥

सुखोचितमदुःखार्हं सुकुमारं महारथम् ।
अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥४१॥

पक्ष्मसम्पातजे काले नकुलेन विनाकृता ।
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम् ॥४२॥

पक्ष्मणोः संपातजे निमेषमात्रे इत्यर्थः ॥४२॥

सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन ।
कुलीना रूपसम्पन्ना सर्वैः समुदिता गुणैः ॥४३॥

पुत्रलोकात् पतिलोकं वृण्वाना सत्यवादिनी ।
प्रियान् पुत्रान् परित्यज्य पाण्डवाननुरुध्यते ॥४४॥

पुत्रलोकात् पुत्रसन्निकर्षं त्यक्त्वा पतिलोकं पतिसन्निधिं वृण्वाना ॥४४॥

महाभिजनसम्पन्ना सर्वकामैः सुपूजिता ।
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥४५॥

यतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥४६॥

चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम ।
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥४७॥

न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् ।
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ॥४८॥

तथावृत्ता पुण्यशीला ॥४८॥

न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः ।
भीमसेनो यमौ वाऽपि यदपश्यं सभागताम् ॥४९॥

न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम् ।
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ॥५०॥

आनायितामनार्येण क्रोधलोभानुवर्तिना ।
सर्वे प्रेक्षन्त कुरव एकवस्त्रां सभागताम् ॥५१॥

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ॥५२॥

तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् ।
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥५३॥

तस्य कृष्ण महाबुद्धेर्गंभीरस्य महात्मनः ।
क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥५४॥

वैशम्पायन उवाच। सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् ।
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ॥५५॥

पूर्वैराचरितं यत्तत्कुराजभिररिन्दम ।
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥५६॥

कच्चिदिति काक्वा सुखावहत्वं नास्तीति व्यज्यते । एषां मत्पुत्रभर्त्रादीनाम् ॥५६॥

तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ ।
धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ॥५७॥

नकुशलं मरणम् ॥५७॥

निर्वासनं च नगरात् प्रव्रज्या च परंतप ।
नानाविधानां दुःखानामभिज्ञाऽस्मि जनार्दन ॥५८॥

अज्ञातचर्या बालानामवरोधश्च माधव ।
न मे क्लेशतमं तत्स्यात् पुत्रैः सह परंतप ॥५९॥

अवरोधः राज्याप्रदानरूपो वृत्तिनिरोधः ॥५९॥

दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ।
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ॥६०॥

यदि सुखं पुण्यक्षयरूपम् । अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात् पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात् । तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ॥६०॥

न मे विशेषो जात्वासीत् धार्तराष्ट्रेषु पाण्डवैः ।
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।
अस्माद्विमुक्तं सङ्ग्रामात् पश्येयं पाण्डवैः सह ॥६१॥

अस्मात् भाविनः कुरुपाण्डवसंग्रामात् गोत्रकलहे विषमधियामेवावमर्दः समबुद्धीनां तु सुखमेवेति भावः ॥६१॥

नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् ।
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ॥६२॥

सर्वं वृत्तम् । एषां पाण्डवानां तथाविधमविषमम् ॥६२॥

येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता ।
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकाम् ॥६३॥

वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । ‘वृत्तोऽतीते दृढे ख्याते’ इति विश्वः । धूर्तैरिवेत्यपपाठः । आर्यकः पितामहः । तुभ्यं तव ॥६३॥

अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने ।
साऽहं पित्रा च निकृता श्वशुरैश्च परंतप ।
अत्यन्तदुःखिता कृष्णा किं जीवितफलं मम ॥६४॥

श्वशुरैर्भीष्मादिभिः धृतराष्ट्रोऽपि भर्तुर्ज्येष्ठत्वात् श्वशुर एव ॥६४॥

यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ॥६५॥

हत्वा कुरून् महाजन्ये राज्यं प्राप्य धनञ्जयः ।
भ्रातृभिः सह कौन्तेयस्त्रीन् मेधानाहरिष्यति ॥६६॥

महाजन्ये महायुद्धे मेधान् अश्वमेधान् ॥६६॥

नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥६७॥

अभ्यसूयामि निन्दामि वेधसे विश्वकर्त्रे महते इति कृष्णस्येश्वरस्य निन्दार्थमुपहासः । कर्मण एव प्राबल्यं धर्मपदस्यार्थदर्शनेनाह- धर्म इति । धारयतीति धर्म इति व्युत्पत्त्या धर्म एव कर्ता धारयिता । ईश्वराराधनं तु वृथैवेति भावः ॥६७॥

धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत ।
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥६८॥

धर्मश्चेदिति । धर्मेऽपि संशयं दर्शयति सतोऽपीश्वरस्याकिञ्चित्करत्वमाह - त्वं चेति ॥६८॥

न मां माधव वैधव्यं नार्थनाशो न वैरता ।
तथा शोकाय दहति यथा पुत्रैर्विनाभवः ॥६९॥

याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् ।
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे ।
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ॥७०॥

धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ।
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ॥७१॥

अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ।
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ॥७२॥

भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ।
पराश्रया वासुदेव या जीवति धिगस्तु ताम् ॥७३॥

वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी ।
अधो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ॥७४॥

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ॥७५॥

अतिक्रमिष्यति अयुद्धेनेत्यर्थः ॥७५॥

लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ ।
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ॥७६॥

सुनृशंसमत्यन्तबीभत्सम् ॥७६॥

काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ।
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा ॥७७॥

विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि ।
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ॥७८॥

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ।
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ॥७९॥

अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ।
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ॥८०॥

भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ।
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ॥८१॥

दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ।
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ॥८२॥

पश्यतां कुरु‌मुख्यानां तस्य द्रक्ष्यति यत्फलम् ।
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ॥८३॥

सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ।
यावदन्तं न नयति शात्रवाञ्छत्रुकर्शनः ॥८४॥

न दुःखं राज्यहरणं न च द्यूते पराजयः ।
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ॥८५॥

यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता ।
अशृणोत् परुषा वाचः किं नु दुःखतरं ततः ॥८६॥

स्त्रीधिर्मिणी वरारोहा क्षत्रधर्मरता सदा ।
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥८७॥

यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥८८॥

साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम ।
भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥८९॥

वैशम्पायन उवाच। तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥९०॥

वासुदेव उवाच। का तु सीमन्तिनी त्वादृक् लोकेष्वस्ति पितृष्वसः ।
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥९१॥

महाकुलीना भवती ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥९२॥

वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः ।
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥९३॥

निद्रातन्द्रे क्रोधहर्षौ श्रुत्पिपासे हिमातपौ ।
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ॥९४॥

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥९५॥

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।
उत्तमांश्च परिक्लेशान् भोगांश्चातीव मानुषान् ॥९६॥

अन्तं राज्यं वा वनं वा मध्यमल्पैश्वर्यम् । अन्तपदं व्याचष्टे - उत्तमानिति । उत्तमान् तीव्रवैराग्यजान् परिक्लेशान् शीतवातादीन् ॥९६॥

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमेतयोः ॥९७॥

अन्तेषु अन्तयोः परब्रह्मानन्दे सुषुप्तौ वा उभयत्रैव द्वैतादर्शनात् सुखमस्ति एतयोरन्तरं जाग्रत्स्वप्नौ दुःखं दुःखरूपं स्वयमात्मा निर्दुःख एव जाग्रत्स्वप्नयोस्तूपाधिसम्बन्धात्तत्र भासमानं दुःखम् आगमापायित्वात्तत्र पुत्राः सहन्ते त्वं च सहस्वेति भावः ॥९७॥

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।
आत्मानं च कुशलिनं निवेद्याहुरनामयम् ॥९८॥

अरोगान् सर्वसिद्धार्थान् क्षिप्रं द्रक्ष्यसि पाण्डवान् ।
ईश्वरान् सर्वलोकस्य हतामित्रान् श्रियावृतान् ॥९९॥

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।
पुत्रादिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥१००॥

अबुद्धिजमज्ञानजं तमो विपर्ययज्ञानम् अनात्मनि देहादावात्माभिमानरूपम् ॥१००॥

कुन्त्युवाच ।
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन ।
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ॥१०१॥

अविलोपेन धर्मस्य अनिकृत्या परंतप ।
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ॥१०२॥

अनिकृत्या अच्छलेन ॥१०२॥

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥१०३॥

त्वमेवेति भगवतः सार्वात्म्यं सर्वाधिष्ठानत्वं प्रोक्तम् ॥१०३॥

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् ।
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥१०४॥

वैशम्पायन उवाच। तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान् प्रति ॥१०५॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णकुन्तीसंवादे नवतितमोऽध्यायः ॥९०॥
एकनवतितमोऽध्यायः

वैशम्पायन उवाच। पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रद‌क्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥१॥

पृथामिति । तामामन्त्र्येति पूर्वश्लोकेन प्रस्थानमात्रमुक्त्वा पृथामामन्त्र्येत्यत्र तु तदर्थानुवादपूर्वकं दुर्योधनगृहप्राप्तिरुच्यत इत्यपौनरुक्त्यम् ॥१॥

लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् ।
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥२॥

तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ।
ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ॥३॥

अभ्रघनः सजलो मेघः । स हि सविद्युत् तत्सादृश्येन महेन्द्रनीलमणिमयत्वं सुवर्णमयत्वं च सूचितम् । अन्ये तु अभ्रघनः आकाशमात्रवर्तिघनः स हि शरत्सम्बन्धाद्धवल इति व्याचख्युः ॥३॥

श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ।
तत्र राजसहस्त्रैश्च कुरुभिश्चाभिसंवृतम् ॥४॥

धार्तराष्ट्र महाबाहुं ददर्शासीनमासने ।
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥५॥

दुर्योधनसमीपे तानासनस्थान् ददर्श सः ।
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥६॥

उद‌तिष्ठत् सहामात्यः पूजयन्मधुसूदनम् ।
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः ॥७॥

राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ।
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥८॥

विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ।
तस्मिन् गां मधुपर्कं चाप्युदकं च जनार्दने ॥९॥

निवेदयामास तदा गृहान् राज्यं च कौरवः ।
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥१०॥

उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह ।
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥११॥

न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ।
ततो दुर्योधनः कृष्णमब्रवीत् कुरुसंसदि ॥१२॥

मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ।
कस्मादन्नानि पानानि वासांसि शयनानि च ॥१३॥

शठोदर्कं शाठ्यपर्यवसानम् । आभाष्य सम्बोधनेनोन्मुखीकृत्य ॥१३॥

त्वदर्थमुपनीतानि नागृहीस्त्वं जनार्दन ।
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥१४॥

सम्बधी दयितश्चासि धृतराष्ट्रस्य माधव ।
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥१५॥

तत्र अन्नादेरग्रहणे ॥१५॥

वैशम्पायन उवाच। स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।
उद्यन्मेघस्वनः काले प्रगृह्य विपुलं भुजम् ॥१६॥

प्रगृह्य उद्यम्यः ॥१६॥

अलघूकृतमग्रस्तमनिरस्तमसंकुलम् ।
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥१७॥

अलघूकृतं प्रयत्नशैथिल्यहीनकरणम् । पाठान्तरे अनंबूकृतम् अनिष्ठीवनम् अनन्यकृतमित्यपि पठन्ति । अग्रस्तम् अलुप्ताक्षरम् अनिरस्तं स्थानभ्रंशरहितम् असंकुलम् असंकीर्णवर्णम् ॥१७॥

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह ।
कृतार्थं मां सहामात्यं समर्चिष्यसि भारत ॥१८॥

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।
न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्रतम् ॥१९॥

असाम्प्रतं प्रतिपत्तुम् अयुक्तं कर्तुम् ॥१९॥

कृतार्थं वाऽकृतार्थं च त्वां वयं मधुसूदन ।
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥२०॥

न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन ।
पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ॥२१॥

वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।
स भवान् प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥२२॥

वैरं द्वेषः विग्रहो युद्धम् ॥२२॥

वैशम्पायन उवाच। एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः ।
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥२३॥

नाहं कामान्न संरंभान्न द्वेषान्नार्थकारणात् ।
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ॥२४॥

संरंभात् क्रोधात् । हेतुवादात् कपटात् ॥२४॥

संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च संप्रीयसे राजन्न चैवापद्गता वयम् ॥२५॥

अकस्माद्द्वेष्टि वै राजन् जन्मप्रभृति पाण्डवान् ।
प्रियानुवर्तिनो भ्रातॄन् सर्वैः समुदितान् गुणैः॥२६॥

द्वेष्टि भवान् ॥२६॥

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।
धर्मे स्थिताः पाण्डवेयाः कस्तान् किं वक्तुमर्हति ॥२७॥

यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु ।
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥२८॥

कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति ।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥२९॥

विरुरुत्सति विरोधं कर्तुमिच्छति ॥२९॥

यः कल्याणगुणान् जातीन् मोहाल्लोभाद्दिदृक्षते ।
सोऽजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रियम् ॥३०॥

मोहात् अदुष्टे दुष्टबुद्धिर्मोहः। लोभः परकीयधनापहारेच्छा । अजितक्रोध इति छेदः ॥३०॥

अथ यो गुणसंपन्नान् हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥३१॥

सर्वमेतन्न भोक्तव्यमन्नं दुष्टामिसंहितम् ।
क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥३२॥

एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥३३॥

शुभ्रात् नानारत्नमयत्वेन प्रदीप्तात् ‘शुभ्रं प्रदीप्ते धवलेऽभ्रके च’ इति विश्वः ॥३३॥

निर्याय च महाबाहुर्वासुदेवो महामनाः ।
निवेशाय ययौ वेश्म विदुरस्य महात्मनः ॥३४॥

तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥३५॥

त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् ।
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥३६॥

तानुवाच महातेजाः कौरवान् मधुसूदनः ।
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता॥३७॥

अपचितिः पूजा ॥३७॥

यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥३८॥

ततः क्षत्ताऽन्नपानानि शुचीनि गुणवन्ति च ।
उपाहरदनेकानि केशवाय महात्मने ॥३९॥

तैस्तर्पयित्वा प्रथमं ब्राह्मणान् मधुसूदनः ।
वेदविद्भ्यो ददौ कृष्णः प्रथमं द्रविणान्यवि ॥४०॥

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥४१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णदुर्योधनसंवादे एकनवतितमोऽध्यायः ॥९१॥
द्विनवतितमोऽध्यायः

वैशम्पायन उवाच। तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।
नेदं सम्यग्व्यवसितं केशवागमनं तव ॥१॥

तं भुक्तवन्तमिति ॥१॥

अर्थधर्मातिगो मन्दः संरंभी च जनार्दन ।
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥२॥

धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः ।
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ॥३॥

प्रग्रहं निर्बन्धम् अत्यन्ताभिनिवेशमित्यर्थः ॥ अनेयः अप्रापणीयः श्रेयसां कर्मणि षष्ठी ॥३॥

कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वेशङ्कितः ।
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः॥४॥

सर्वशङ्किता सर्वत्र विश्वासहीनः ॥४॥

मूढश्चाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः ।
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ॥५॥

एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः ।
त्वयोच्यमानः श्रेयोऽपि संरंभान्न ग्रहीष्यति ॥६॥

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे ।
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥७॥

वृत्तिं जीविकाम् एते युद्धेन मह्यं राज्यं दास्यन्तीत्याशयेत्यर्थः ॥७॥

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।
भीष्मद्रोणमुखान् पार्था न शक्ताः प्रतिवीक्षितुम् ॥८॥

सेनासमुदयं कृत्वा पार्थिवं मधुसूदन ।
कृतार्थं मन्यते बाल आत्मानमविचक्षणः ॥९॥

पार्थिवं पृथ्वीसम्बन्धिनम् ॥९॥

एकः कर्णः परान् जेतुं समर्थ इति निश्चितम् ।
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥१०॥

संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥११॥

न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥१२॥

प्रतिदेयं परावृत्य देयम् व्यवसिताः निश्चिताः ॥१२॥

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत् प्राज्ञो बधिरेष्विव गायनः ॥१३॥

अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।
न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ॥१४॥

सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः ।
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ॥१५॥

तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।
तव मध्यावतरणं मम कृष्ण न रोचते ॥१६॥

दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् ।
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥१७॥

अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः ।
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥१८॥

ते त्वत्तः ॥१८॥

बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥१९॥

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥२०॥

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।
समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥२१॥

मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः ।
दुर्योधनो मन्यते वीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति ॥२२॥

आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् ।
तस्मिन् शमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम् ॥२३॥

बद्धं भवदीयत्वेन प्रतिबद्धमपि लब्धमेव मन्यते ॥२३॥

पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान् योद्धुकामाः ।
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः ॥२४॥

सर्वे चैते कृतवैराः पुरस्तात् त्वया राजानो हृतसाराश्च कृष्ण ।
तवोद्वेगात्संश्रिता धार्तराष्ट्रान् सुसंहताः सह कर्णेन वीराः ॥२५॥

त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धुं पाण्डवान् सर्वयोधाः ।
तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर ॥२६॥

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥२७॥ ।
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥२८॥

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव ।
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥२९॥

या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा ।
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम् ॥३०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णविदुरसंवादे द्विनवतितमोऽध्यायः ॥९२॥
त्रिनवतितमोऽध्यायः

श्रीभगवानुवाच ।
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः ।
यथा वाच्यस्त्वद्विधेन भवता मद्विधः सृहृत् ॥१॥

यथेति ॥१॥

धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते ।
तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् ॥२॥

सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम् ।
शृणुष्वागमने हेतुं विदुरावहितो भव ॥३॥

दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरताम् ।
सर्वमेतदहं जानन् क्षत्तः प्राप्तोऽद्य कौरवान् ॥४॥

पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात् प्राप्नुयाद्धर्ममुत्तमम् ॥५॥

पर्यस्तामन्यथाभूताम् ॥५॥

धर्मकार्यं यतन् शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥६॥

यतन् यतमानः ॥६॥

मनसा चिन्तयन् पापं कर्मणा नातिरोचयन् ।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥७॥

सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया ।
कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् ॥८॥

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥९॥

व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनर्थाय यथाशक्ति तन्नृशंसं विदुर्बुधाः ॥१०॥

तन्नृशंसमनर्थाय विदुरिति सम्बन्धः । अनुनीयेत्यपि पाठः ॥१०॥

आकेशग्रहणान्मित्रमकार्यात् संनिवर्तयन् ।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥११॥

तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् ।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥१२॥

हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥१३॥

हितं कर्तुमिति शेषः ॥१३॥

हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि ।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥१४॥

ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थं न तन्मित्रं विदुर्बुधाः ॥१५॥

नाभिपद्यते नोपकरोति ॥१५॥

न मां बूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत् कृष्णः संरब्धान् कुरुपाण्डवान् ॥१६॥

उभयोः साधयन्नर्थमहमागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥१७॥

मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् ।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥१८॥

अहापयन् पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम् ।
पुण्यं च मे स्याच्चरितं महात्मन् मुच्येरंश्च कुरवो मृत्युपाशात् ॥१९॥

अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन् धार्तराष्ट्राः शमार्थां मां च प्राप्तं कुरवः पूजयेयुः ॥२०॥

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥२१॥

वैशम्पायन उवाच। इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा ।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥२२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णवाक्ये त्रिनवतितमोऽध्यायः ॥९३॥
चतुर्नवतितमोऽध्यायः

वैशम्पायन उवाच। तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा ।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥१॥

तथेति । नक्षत्रसंपन्ना शरदि निरभ्रत्वात् ॥१॥

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः ।
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥२॥

कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः ।
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ॥३॥

ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः ।
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ॥४॥

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् ।
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ॥५॥

कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः ।
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ॥६॥

उदकं स्नानाचमनादि । अनुजप्यं सन्ध्योपासनादि ते उभे कृते येन सः कृतोद‌कानुजप्यः ॥६॥

अथ दुर्योधनः कृष्णं शकुनिश्चपि सौबलः ।
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥७॥

तिष्ठन्तम् उपासीनम् ॥७॥

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् ।
कुरूंश्च भीष्मप्रमुखान् राज्ञः सर्वांश्च पार्थिवान् ॥८॥

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥९॥

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ।
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः ॥१०॥

विसृज्य बहुरत्नानि दाशार्हमपराजितम् ।
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥११॥

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ॥१२॥

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥१३॥

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः ।
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ॥१४॥

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥१५॥

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् ।
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ॥१६॥

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।
द्वितीयेन रथेनैनमन्वयातां परंतपम् ॥१७॥

सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः ।
पृष्ठतोऽनुययुः कृष्णं गजरैश्वै रथैरपि ॥१८॥

तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः ।
गच्छतां घोषिणश्चित्ररथा राजन् विरेजिरे ॥१९॥

चित्राश्च ते रथाश्च ॥१९॥

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।
राजर्षिचरितं काले कृष्णो धीमान् श्रिया ज्वलन् ॥२०॥

संमृष्टं दूरीकृतं संसिक्तं जलेनाप्लावितं च रजो यस्मात्तम् । अविभक्तिकं पदम् ॥२०॥

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः ।
शंखाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥२१॥

एकपुष्कराः काहलाः ॥२१॥

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः ।
परिवार्य रथं शौरेरगच्छन्त परंतपाः ॥२२॥

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।
असिप्रासायुधधराः कृष्णस्यासन् पुरःसराः ॥२३॥

गजाः पञ्चशतास्तत्र रथाश्चासन् सहस्रशः ।
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥२४॥

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ॥२५॥

वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः ।
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥२६॥

स पूज्यमानः कुरुभिः संशृण्वन् मधुराः कथाः ।
यथार्हं प्रतिसत्कुर्वन् प्रेक्षमाणः शनैर्ययौ ॥२७॥

ततः सभां समासाद्य केशवस्यानुयायिनः ।
स शंखैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥२८॥

ततः सा समितिः सर्वा राज्ञाममिततेजसाम् ।
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥२९॥

ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः ।
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥३०॥

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥३१॥

नवमेघप्रर्ताकाशां ज्वलन्तीमिव तेजसा ।
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥३२॥

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः ।
ज्योतींष्यादित्यवद्राजन्कुरून् प्राच्छादयन् श्रिया ॥३३॥

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।
वृष्णयः कृतवर्मा चाप्यासन् कृष्णस्य पृष्ठतः ॥३४॥

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।
आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम् ॥३५॥

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः ।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन् महायशाः ॥३६॥

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥३७॥

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥३८॥

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥३९॥

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् ।
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥४०॥

तत्र तिष्ठन् स दाशार्हो राजमध्ये परंतपः ।
अपश्यदन्तरिक्षस्थानृषीन् परपुरञ्जयः ।
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ॥४१॥

अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ।
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ॥४२॥

निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ।
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ॥४३॥

पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ।
ऋषीन् शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् ॥४४॥

त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ।
आसनान्यथ मृष्टानि महान्ति विपुलानि च ॥४५॥

मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ।
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत ॥४६॥

निषसादासने कृष्णो राजानश्च यथासनम् ।
दुःशासनः सात्यकये ददावासनमुत्तमम् ॥४७॥

विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ।
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ॥४८॥

एकासने महात्मानौ निषीदतुरमर्षणौ ।
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ॥४९॥

निषसादासने राजा सहपुत्रो विशाम्पते ।
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ॥५०॥

संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ।
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ॥५१॥

अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम् ।
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ॥५२॥

व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ।
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।
न तत्र कश्चित् किञ्चिद्वा व्याजहार पुमान् क्वचित् ॥५३॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णसभाप्रवेशे चतुर्नवतितमोऽध्यायः ॥९४॥
पञ्चनवतितमोऽध्यायः

वैशम्पायन उवाच। तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु ।
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥१॥

तेष्विति ॥१॥

जीमूत इव धर्मान्ते सर्वां संश्रावयन् सभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥२॥

श्रीभगवानुवाच ।
कुरूणां पाण्डवानां च शमः स्यादिति भारत ।
अप्रणाशेन वीराणामेतद्याचितुमागतः ॥३॥

आगतोऽस्मीति शेषः ॥३॥

राजन्नान्यत् प्रवक्तव्यं तव नैःश्रेयसं वचः ।
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम ॥४॥

इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।
श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ॥५॥

कृपाऽनुकम्पा कारुण्यमानृशंस्यं च भारत ।
तथाऽऽर्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥६॥

कृपा परस्य सुखार्थे यत्नः । अनुकम्पा- परदुःखदर्शने त्रासः। कारुण्यं- परदुःखप्रहाणार्थो यत्नः । आनृशंस्यं- परदुःखाप्रदानम् ॥६॥

तस्मिन्नेवंविधे राजन् कुले महति तिष्ठति ।
त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ॥७॥

असाम्प्रतं कृपादिभ्यो विपरीतं परस्य दुःखार्थो यत्नः परदुःखदर्शने आह्लादः । परस्य सुखनाशार्थो यत्नः । परस्य दुःखसंपादनं कौटिल्यादिकं च तच्चयुक्तम् ॥७॥

त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम ।
मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥८॥

बाह्येषु द्यूतादिषु आभ्यन्तरेषु जतुगृहादिषु ॥८॥

ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः ।
धर्मार्थैः पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥९॥

अशिष्टा गतमर्यादा लोभेन हृतचेतसः ।
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ॥१०॥

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥११॥

कुरुष्वेव भवत्स्वेव न तु पाण्डवेषु ॥११॥

शक्या चेयं शमयितुं न चेद्दित्ससि भारत ।
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥१२॥

न दित्ससि कुलं न छेत्तुमिच्छसि । वं चेदिच्छसीति पाठे कुरून् स्थापयितुमिच्छसि तर्हि शमो न दुष्करः ॥१२॥

त्वय्यधीनः शमो राजन् मयि चैव विशांपते ।
पुत्रान् स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥१३॥

आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।
हितं बलवदप्येषां तिष्ठतां तव शासने ॥१४॥

बलवत् अत्यन्तमेषामेव । अपिशब्द एवार्थे ॥१४॥

तव चैव हितं राजन् पाण्डवानामथो हितम् ।
शमे प्रयतमानस्य मम शासनकाङ्क्षिणः ॥१५॥

शासनकांक्षिणः पुत्रान् शासितुमिच्छतस्तव ॥१५॥

स्वयं निष्फलमालक्ष्य संविधत्स्व विशाम्पते ।
सहायभूता भरतास्तवैव स्युर्जनेश्वर ॥१६॥

निष्फलं वैरं संविधत्स्व शमं कुरु ॥१६॥

धर्मार्थयोस्तिष्ठ राजन् पाण्डवैरभिरक्षितः ।
न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥१७॥

न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।
इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपः ॥१८॥

यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमद‌त्तोऽथ बाह्लिकः ॥१९॥

सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुद‌क्षिणः ।
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥२०॥

सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ॥२१॥

लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम् ।
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥२२॥

तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥२३॥

पाण्डवैः सह सन्धास्यन्ते सन्धिं करिष्यन्ति ॥२३॥

स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा ।
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥२४॥

एतानेव पुरोधाय सत्कृत्य च यथा पुरा ।
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥२५॥

अखिलां निष्कण्टकाम् ॥२५॥

एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥२६॥

तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप ।
यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥२७॥

संयुगे वै महाराज दृश्यते सुमहान् क्षयः ।
क्षये चोभयतो राजन् कं धर्ममनुपश्यसि ॥२८॥

पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वाऽपि महाबलैः ।
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥२९॥

शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः ।
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥३०॥

न पश्येम कुरून् सर्वान् पाण्डवांश्चैव संयुगे ।
क्षीणानुभयतः शूरान्रथिनो रथिभिर्हतान् ॥३१॥

समवेताः पृथिव्यां हि राजानो राजसत्तम ।
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥३२॥

त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः ।
त्वयि प्रकृतिमापन्ने शेषः स्यात् कुरुनन्दन ॥३३॥

प्रकृतिं सत्त्वगुणम् ॥३३॥

शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः ।
अन्योन्यसचिवा राजंस्तान् पाहि महतो भयात् ॥३४॥

शिवेनेमे भूमिपालाः समागम्य परस्परम् ।
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥३५॥

सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ ।
अमर्षं च निराकृत्य वैराणि च परंतप ॥३६॥

हार्दं यत् पाण्डवेष्वासीत् प्राप्तेऽस्मिन्नायुषः क्षये ।
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ॥३७॥

हार्दं प्रीतिः आसीत् पूर्वं बाल्ये ॥३७॥

बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।
तान् पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥३८॥

भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः ।
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥३९॥

आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च ।
भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥४०॥

द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः ।
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ॥४१॥

स्थाता नः समये तस्मिन् पितेति कृतनिश्चयाः ।
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥४२॥

स्थाता स्थास्यति ॥४२॥

तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।
नित्यं सङ्क्लेशिता राजन् स्वराज्यांशं लभेमहि ॥४३॥

त्वं धर्ममर्थं सञ्जानन् सम्यङ्नस्त्रातुमर्हसि ।
गुरुत्वं भवति प्रेक्ष्य बहून् क्लेशांस्तितिक्ष्महे ॥४४॥

स भवान् मातृपितृवदस्मासु प्रतिपद्यताम् ।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥४५॥

गुरोः गुरौ ॥४५॥

वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ।
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ॥४६॥

संस्थापय पथिष्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ।
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ॥४७॥

परिषदं धर्मज्ञसभां पुत्राः पाण्डवाः ॥४७॥

धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ॥४८॥

हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ॥४९॥

न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।
धर्म एतानारुजति यथा नद्यनुकूलजान् ॥५०॥

आरुजति हिनस्ति अनुकूलजान् कूलं कूलमनुसृत्य जातान् वृक्षादीन् ॥५०॥

ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ॥५१॥

ये पाण्डवास्तूष्णीमासते कालं निर्वाह्य भवद्भ्यो राज्यांशं लब्धुमिच्छन्ति ते सत्यं धर्म्यं न्याय्यं चाहुः॥५१॥

शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर ।
ब्रुवन्तु ते महीपालाः सभायां ये समासते ॥५२॥

धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ।
प्रमुञ्चेमान् मृत्युपाशात् क्षत्रियान् पुरुषर्षभ ॥५३॥

प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ।
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ॥‌५४॥

ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान् परंतप ।
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा ॥५५॥

सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ।
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ॥५६॥

दाहितः जतुगृहे निरस्तो द्यूतेन राज्याद्दूरीकृतः ॥५६॥

इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ।
स तत्र विवसन् सर्वान् वशमानीय पार्थिवान् ॥५७॥

त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ।
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता ॥५८॥

राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ।
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभागताम् ॥५९॥

परमोपधिः महच्छद्म ॥५९॥

क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ।
अहं तु तव तेषां च श्रेय इच्छामि भारत ॥६०॥

धर्मादर्थात् सुखाच्चैव मा राजन्नीनशः प्रजाः ।
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः ॥६१॥

लोभेऽतिप्रसृतान् पुत्रान्निगृह्णीष्व विशांपते ।
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः॥ यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परंतप ॥६२॥

वैशम्पायन उवाच। तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् ।
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥६३॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णवाक्ये पञ्चनवतितमोऽध्यायः ॥९५॥
षण्णवतितमोऽध्यायः

वैशम्पायन उवाच। तस्मिन्नभिहिते वाक्ये केशवेन महात्मना ।
स्तिमिता हृष्टरोमाण आसन् सर्वे सभासदः ॥१॥

तस्मिन्निति ॥१॥

कश्चिदुत्तरमेतेषां वक्तुं नोत्सहते पुमान् ।
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥२॥

इमां मे सोपमां वाचं शृणु सत्यामशङ्कितः ।
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥४॥

राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत् ।
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥५॥

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।
ब्राह्मणान् क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ॥६॥

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ॥७॥

इति ब्रुवन्नन्वचरत् स राजा पृथिवीमिमाम् ।
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥८॥

तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः ।
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥९॥

निषिध्यमानोऽप्यसकृत् पृच्छत्येव स वै द्विजान् ।
अतिमानं श्रिया मन्तं तमूचुर्ब्राह्मणास्तदा ॥१०॥

तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः ।
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥११॥

वेदप्रत्त्ययदर्शिनः वेदजः प्रत्ययो ब्रह्मात्मैक्यापरोक्ष्यं तदेव द्रष्टुं शीलं येषां ते ॥११॥

अनेकजयिनौ संख्ये यौ वै पुरुषसत्तमौ ।
तयोस्त्वं न समो राजन् भविताऽसि कदाचन ॥१२॥

एवमुक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान् ।
क्व तौ वीरौ क्व जन्मानौ किंकर्माणौ च की च तौ ॥१३॥

ब्राह्मणा ऊचुः। नरो नारायणश्चैव तापसाविति नः श्रुतम् ।
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ॥१४॥

श्रूयेते तौ महात्मानौ नरनारायणावुभौ ।
तपो घोरमनिर्देश्यं तप्यते गन्धमादने ॥१५॥

तप्यते ताभ्यामिति शेषः ॥१५॥

स राजा महतीं सेनां योजयित्वा षडाङ्गिनीम् ।
अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥१६॥

षडङ्गिनीं रथनागाश्वपादातकटोष्ट्रवतीम् ॥१६॥

स गत्वा विषमं घोरं पर्वतं गन्धमादनम् ।
मृगयाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ ॥१७॥

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ ।
शीतवातातपश्चैव कर्शितौ पुरुषोत्तमौ ॥१८॥

अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ।
तमर्चित्वा मूलफलैरासनेनोदकेन च ॥१९॥

न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ।
ततस्तामानुपूर्वीं स पुनरेवान्वकीर्तयत् ॥२०॥

बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः ।
भवद्भ्यां युद्धमाकांक्षन्नुपयातोऽस्मि पर्वतम् ॥२१॥

आतिथ्यं दीयतामेतत् कांक्षितं मे चिरं प्रति ।
नरनारायणावूचतुः ।
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ॥२२॥

न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।
अन्यत्र युद्धमाकांक्ष बहवः क्षत्रियाः क्षितौ ॥२३॥

राम उवाच। उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत ।
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत ॥२४॥

दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ।
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत ॥२५॥

अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय ।
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ॥२६॥

अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्। दम्भोद्भव उवाच। यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे ॥२७॥

एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः। राम उवाच। इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ॥२८॥

दंभोद्भवस्तापसं तं जिघांसुः सहसैनिकः ।
तस्य तानस्यतो घोरानिषून् परतनुच्छिदः ॥२९॥

कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत् ।
ततोऽस्मै प्रासृजद्धोरमैषीकमपराजितः ॥३०॥

अस्त्रमप्रतिसन्धेयं तद‌द्भुतमिवाभवत् ।
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया ॥३१॥

निमित्तवेधी स मुनिरिषीकाभिः समार्पयत् ।
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ॥३२॥

पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ।
तमब्रवीन्नरो राजन् शरण्यः शरणैषिणाम् ॥३३॥

ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ।
नैतादृक् पुरुषो राजन् क्षत्रधर्ममनुस्मरन् ॥३४॥

मनसा नृपशार्दूल भवेत् परपुरञ्जयः ।
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित् कथञ्चन ॥३५॥

अल्पीयांसं विशिष्टं वा तत्ते राजन् समाहितम् ।
कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् ॥३६॥

दान्तः क्षान्तो मृदुः सौम्यः प्रजाः पालय पार्थिव ।
मा स्म भूयः क्षिपेः कञ्चिदविदित्वा बलाबलम् ॥३७॥

अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः ।
कुशलं ब्राह्मणान् पृच्छेरावयोर्वचनाद्भृशम् ॥३८॥

ततो राजा तयोः पादावभिवाद्य महात्मनोः ।
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम् ॥३९॥

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥४०॥

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते ।
तावत्त्वं मानमुत्सृज्य गच्छ राजन् धनञ्जयम् ॥४१॥

काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा ।
संतानं नर्तकं घोरमास्यमोदकमष्टम् ॥४२॥

काकुदीकमित्यादयोऽष्टावस्त्रजातयः । येनास्त्रेणाभिभूता रथगजादीनां ककुद्येव शेरते तत्काकुदीकं प्रस्वापनं नाम। येन शुकनलिकान्यायेन अभयेऽपि भयद‌र्शिनो हयरथादिपादेषु गाढं श्लिष्यन्ति तत् शुकं मोहनं नाम । येन स्वर्गनगरं पश्यति तन्नाकम् उन्मादनं नाम । येन क्षिप्तमात्रेणानुविद्धास्त्रासात् शकृन्मूत्रं स्रवन्ति तत् अक्षिसन्तर्जनं त्रासनं नाम । संतानम् अविच्छेदेन शस्त्राणां वृष्टिकरमैन्द्रादि दिव्यम् । नर्तकं नर्तनकरं पैशाचं, घोरं कदनकरं राक्षसम्, आस्यमोदकं येनाभिहताः मुखे पाषाणं दत्वा मरणार्थमेव प्रतिष्ठन्ते तत् याम्यं नाम । अत्रैव उन्मत्ताश्चेति श्लोकोक्ता दोषा यथायोग्यं सम्बन्धनीयाः ॥४२॥

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।
कामक्रोधौ लोभमोहौ मदमानौ तथैव च ॥४३॥

मात्सर्याहङ्‌कृती चैव क्रमादेत उदाहृताः ।
उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥४४॥

स्वपन्ति च प्लवन्ते च छर्दयन्ति च मानवाः ।
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥४५॥

निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित् ।
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि ॥४६॥

कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत ।
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि ॥४७॥

असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः ।
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥४८॥

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ ॥४९॥

यद्येतदेवं जानासि न च मामभिशंकसे ।
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥५०॥

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति ।
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥५१॥

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।
तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय ॥५२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि दम्भोद्भवोपाख्याने षण्णवतितमोऽध्यायः ॥९६॥
सप्तनवतितमोऽध्यायः

वैशम्पायन उवाच। जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः ।
दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि ॥१॥

जामदग्न्येति ॥१॥

कण्व उवाच। अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः ।
तथैव भगवन्तौ तौ नरनारायणावृषी ॥२॥

अव्ययः अपचयशून्यः ॥२॥

आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः ।
अक्षय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥३॥

प्रभवत्यस्मादिति प्रभुर्जगत उपादानकारणं घटस्येव मृत्पिण्डः ॥३॥

निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् ।
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ॥४॥

ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा ।
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥५॥

मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः ।
तैर्यग्योन्यश्च ये चान्ये जीवलोकचरांस्तथा ॥६॥

भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये ।
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ॥७॥

निमित्तमरणा इति । नाशवन्त इत्यर्थः । पाठान्तरे निमित्तकारणानि चक्रचीवरकुलालादिस्थानीयानि ॥४॥ तरुणा इति । भोगकाले युद्धेन मरणं मा प्राप्नुवन्तीत्यर्थः ॥७॥

स भवान् धर्मपुत्रेण शमं कर्तुमिहार्हति ।
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् ॥८॥

बलवानहमित्येव न मन्तव्यं सुयोधन ।
बलवन्तो बलिभ्यो हि दृश्यन्ते पुरुषर्षभ ॥९॥

न बलं बलिनां मध्ये बलं भवति कौरव ।
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ॥१०॥

बलं सैन्यं बलिनाम् औरसबलवतां बलं सामर्थ्यं न भवति ॥१०॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥११॥

मातलेरितिहासमिति सम्बन्धः ॥११॥

मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः ।
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥१२॥

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।
श्रिया च वपुषा चैव स्त्रियोऽन्याः साऽतिरिच्यते ॥१३॥

तस्याः प्रदानसमयं मातलिः सह भार्यया ।
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥१४॥

धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् ।
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ॥१५॥

उच्छ्रितानां महत्तया ख्यातानाम् ॥१५॥

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥१६॥

देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा ।
अवगाह्यैव विचितौ न च मे रोचते वरः ॥१७॥

चक्षुषा ज्ञानेन विचितौ अन्वेषितौ ॥१७॥

कण्व उवाच। न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् ।
अरोचयद्वरकृते तथैव बहुलानृषीन् ॥१८॥

भार्ययाऽनु स संमन्त्र्य सह रात्रौ सुधर्मया ।
मातलिर्नागलोकाय चकार गमने मतिम् ॥१९॥

न मे देवमनुष्येषु गुणकेश्याः समो वरः ।
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥२०॥

इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् ।
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥२१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे सप्तनवतितमोऽध्यायः ॥९७॥
अष्टनवतितमोऽध्यायः

कण्व उवाच। मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा ।
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥१॥

मातालरिति ॥१॥

नारदोऽथाब्रवीदेनं क्व भवान् गन्तुमुद्यतः ।
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥२॥

मातलिर्नारदेनैवं संपृष्टः पथि गच्छता ।
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति ॥३॥

तमुवाचाथ स मुनिर्गच्छावः सहिताविति ।
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥४॥

अहं ते सर्वमाख्यास्ये दर्शयन् वसुधातलम् ।
दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले ॥५॥

अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ ।
ददृशाते महात्मानौ लोकपालमपां पतिम् ॥६॥

तत्र देवर्षिसदृशीं पूजां स प्राप नारदः ।
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥७॥

तावुभौ प्रतिमनसौ कार्यवन्तौ निवेद्य ह ।
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥८॥

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥९॥

यन्तुः यन्तारं मातलिं प्रति ॥९॥

नारद उवाच। दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः ।
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥१०॥

एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः ।
एष वै शीलवृत्तेन शौचेन च विशिष्यते ॥११॥

गोपतेः वारिपतेः, ‘भूवाग्वारिषु गौर्मता’ इति विश्वः ॥११॥

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।
रूपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥१२॥

ज्योत्स्ना कालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः॥१३॥

द्वितीयां सोमपुत्रीं तया अदित्याः पुत्रः सूर्यः श्रेष्ठः कृतः भर्ता कृतः ॥१३॥

भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम् ।
यत्प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥१४॥

वारुण्यं वारुण्याः सुरायाः इदं वारुण्यं सुरा विद्यते येषां ते सुराः ॥१४॥

एतानि हृतराज्यानां दैतेयानां स्म मातले ।
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥१५॥

अक्षयाणि किलैतानि विवर्तन्ते स्म मातले ।
अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥१६॥

विवर्तन्ते प्रक्षिप्तान्यपि पुनः पुनः प्रहर्तुर्हस्तमायान्ति॥१६॥

अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले ।
दिव्यप्रहरणाश्चासन् पूर्वदैवतनिर्मिताः ॥१७॥

जात्यः जातीयाः पूर्वदैवतानि पूर्वदेवाः दैत्याः । सर्वेतिपाठे निर्मिताः निश्चयेन प्रक्षिप्ताः ॥१७॥

अग्निरेष महार्चिष्मान् जागर्ति वारुणे ह्रदे ।
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥१८॥

अग्निरिति । हविष्मताऽग्निना आविद्धं रुद्धं विष्णुचक्रजमप्यत्र भयं नास्तीत्यर्थः ॥१८॥

एष गाण्डीमयश्चापो लोकसंहारसंभृतः ।
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥१९॥

गाण्डी खड्गाख्यः पशुविशेषः । तस्य विकारो गाण्डीमयः तस्य हि पशूनां वा पृष्ठवंशस्य धनुः कर्तुं शक्यं यतः गाण्डीमयत्वादेव तत् गाण्डीवं नाम धनुरभूत् । गाण्डीशब्दाद्विकारार्थो वप्रत्ययः कल्प्यत इति भावः । गाण्डी वज्रग्रन्थिस्तन्मय इत्यन्ये ॥१९॥

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् ।
सहस्त्रशतसंख्येन प्राणेन सततं ध्रुवः ॥२०॥

एष चापः कृत्ये अभेद्यभेदने तत्तत् तावत्तावत्प्राणेन बलेन । सर्वदा लक्षचापतुल्यबलोऽप्ययं चापः कार्यकालेऽधिकबलोऽपि भवतीत्यनन्तबल इत्यर्थः ॥२०॥

अशास्यानपि शास्त्येष रक्षोबंधुषु राजसु ।
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना ॥२१॥

रक्षोबंधुषु रक्षस्तुल्येषु ॥२१॥

एतच्छस्त्रं नरेन्द्राणां महच्चक्रेण भासितम् ।
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥२२॥

एतच्छस्त्रं धनुः चक्रेण चक्रादपि । एतच्छास्त्रं नरेन्द्राणां महच्छुक्रेण भाषितमिति पाठे नीतिशास्त्रं शुक्रेण काव्येन छत्रेणेति वा पाठः ॥२२॥

एतत् सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।
सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥२३॥

एतच्छत्रात् परिभ्रष्टं सलिलं सोमनिर्मलम् ।
तमसा मूर्छितं भाति येन नार्छति दर्शनम् ॥२४॥

मूर्छितममिभूतम् आवृतमिति यावत् । येन हेतुना जनोऽस्य दर्शनं नार्छति न प्राप्नोति ॥२४॥

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले ।
तव कार्यावरोधस्तु तस्माद्गच्छाव मा चिरम् ॥२५॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे अष्टनवतितमोऽध्यायः ॥९८॥
ऊनशततमोऽध्यायः

नारद उवाच। एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् ।
पातालमिति विख्यातं दैत्यदानवसेवितम् ॥१॥

एतदिति ॥१॥

इदमद्भिः समं प्राप्ता ये केचिद्भुवि जङ्गमाः ।
प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥२॥

अद्भिः समं प्राप्ताः जलवेगेनानीताः ॥२॥

अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः ।
व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥३॥

व्यापारेण यत्नेन धृतः मर्यादायां स्थापितः अन्यथा सद्यः कृत्स्नं समुद्रं लोकांश्च दहेत् आत्मानं निबद्धं देवैरिति शेषः । समबुद्ध्यत अग्निरित्यर्थः । धृतात्मेति सन्धिरार्षः ॥३॥

अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥४॥

निहितं स्थापितम् अतः सोमस्येति कन्दुकाकारं भूगोलं प्रदक्षिणीकुर्वतः सूर्यस्य सोमस्य वा केनचिद्भूगोलप्रदेशेन आवरणात् कदाचिददर्शनं भवति । सैव तेषां रात्रिः । ये तु गोलस्य शिरसि अधस्ताच्च तिष्ठन्ति ते सर्वदैव सूर्यादीन् पश्यन्ति तत्र जलमयं चन्द्रमण्डलं सूर्यरश्मिभिस्तैजसैः प्रकाश्यते तयोश्च यथा यथा विप्रकर्षः तथा तथाऽधिकं चन्द्रोऽवभासते यथा यथा सन्निकर्षः तथा तथाऽधिकं सूर्यपुरोवर्तिभिरग्न्यादिभिर्देवताभिस्तिरोधीयतेऽस्मद्दृष्ट्या । एतदेवाभिलक्ष्य ‘प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः’ इत्यादि शास्त्रं प्रवृत्तम् । पानं चेह सान्निध्यादाप्यायनमात्रम् । पातालनाभिस्थानां तु मेरुशिखरस्थानामिव सर्वदा संपूर्ण एव चंद्रोऽवभासते । तद्दृश्यप्रदेशेऽग्न्याद्यावरणाभावात् । अतः स्थानात् चन्द्रस्य ह्रासवृद्धी प्रदृश्येते इति विरुद्धलक्षणया न दृश्येते इत्यर्थः । न दृश्यते इत्येव पाठो लेखकप्रमादाद्भ्रष्टो वा ॥४॥

अत्रादित्यो हयशिराः काले पर्वणि पर्वणि ।
उत्तिष्ठति सुवर्णाख्यं वाग्भिरापूरयन् जगत् ॥५॥

आदित्योऽदितेः पुत्रो विष्णुर्हयग्री वरूपी सुवर्णाख्यं जगत् वेदरूपी नामात्मकः प्रपञ्चः ‘नाम वा ऋग्वेदः’ इत्यादिश्रुतेः । तं वाग्भिरापूरयन् उत्तिष्ठति वेदाध्यायिनां ध्वनिम् उपबृंहयितुमाविर्भवतीत्यर्थः॥५॥

यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः ।
तस्मात् पातालमित्येव ख्यायते पुरमुत्तमम् ॥६॥

जलमूर्तयश्चन्द्राद्याः पतन्ति चंद्रकान्तवज्जलं स्रवन्ति । अतोऽयं पतज्जल इति वक्तव्ये पाताल इत्यर्थः ॥६॥

ऐरावणोऽस्मात् सलिलं गृहीत्वा जगतो हितः ।
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥७॥

अत्र नानाविधाकारास्तिमयो नैकरूपिणः ।
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥८॥

अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः ।
मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि ॥९॥

प्रदेशान्तरं गत्वाह- अत्र सूर्यांशुभिरिति । दिवसेऽस्मदीयरात्रौ निशि अस्मदीयदिवसे ॥९॥

उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः ।
अमृतं स्पृश्य संस्पर्शात् सञ्जीवयति देहिनः ॥१०॥

अत्र ते धर्मनिरता बद्धाः कालेन पीडिताः ।
दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥११॥

अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः ।
भूतये सर्वभूतानामचरत्तप उत्तमम् ॥१२॥

अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः ।
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥१३॥

स्वाध्यायाम्नायो वेदपाठः ॥१३॥

यत्रतत्रशयो नित्यं येन केनचिदाशितः ।
येन केनचिदाच्छन्नः स गोव्रत इहोच्यते ॥१४॥

गोव्रतं व्याचष्टे- यत्रेति ॥१४॥

ऐरावणो नागराजो वामनः कुमुदोञ्जनः ।
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥१५॥

पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः ।
वरयिष्यामि तं गत्वा यत्नमास्थाय मातले ॥१६॥

अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया ।
आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ॥१७॥

आ प्रजानां निसर्गात् प्रजोत्पत्तिमारभ्य ॥१७॥

नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै ।
पितरं मातरं चापि नास्य जानाति कश्चन ॥१८॥

जातिं जन्म निसर्गं स्वभावं ततः पूर्वमुत्पन्नस्य कस्यचिदभावात् ॥१८॥

अतः किल महानग्निरन्तकाले समुत्थितः ।
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥१९॥

मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् ।
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥२०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वाणि मातलिवरान्वेषणे ऊनशततमोऽध्याय ॥९९॥
शततमोऽध्यायः

नारद उवाच। हिरण्यपुरमित्येतत् ख्यातं पुरवरं महत् ।
दैत्यानां दानवानां च मायाशतविचारिणाम् ॥१॥

हिरण्येति ॥१॥

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा ।
मयेन मनसा सृष्टं पातालतलमाश्रितम् ॥२॥

अत्र मायासहस्राणि विकुर्वाणा महौजसः ।
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ॥३॥

नैते शक्रेण नान्येन यमेन वरुणेन वा ।
शक्यन्ते वशमानेतुं तथैव धनदेन च ॥४॥

असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः ।
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये ॥५॥

दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः ।
मायावीर्योपसंपन्ना निवसन्त्यत्र मातले ॥६॥

निवातकवचा नाम दानवा युद्धदुर्मदाः ।
जानासि च यथा शक्रो नैतान् शक्नोति बाधितुम् ॥७॥

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥८॥

पश्य वेश्मानि रौक्माणि मातले राजतानि च ।
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥९॥

वैदूर्यमणिचित्राणि प्रवालरुचिराणि च ।
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ॥१०॥

पार्थिवानीव चाभान्ति पद्मरागमयानि च ।
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत ॥११॥

शैलानि शिलामयानि ॥११॥

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।
मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥१२॥

नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा ।
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥१३॥

आक्रीडान् पश्य दैत्यानां तथैव शयनान्युत ।
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥१४॥

आक्रीडान् क्रीडास्थानानि ॥१४॥

जलदाभांस्तथा शैलांस्तोयप्रस्त्रवणानि च ।
कामपुष्पफलांश्चापि पादपान् कामचारिणः ॥१५॥

मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् ।
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥१६॥

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्॥१७॥

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।
परपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् ॥१८॥

अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् ।
जानामि तव चात्मानं हिंसात्मकमनं तथा ॥१९॥

आत्मानम् अहिंसापरं जानामि हिंसात्मनां तथा हिंसात्मकमनं हिंसाप्रधानानां दैत्यानां कमनम् अपेक्षणीयं च हिंसोदर्कतया जानामि । अन्ये तु दित्सात्मकमलं तथेति पाठं प्रकल्प्य दित्सात्मकं दानेच्छाप्रचुरम् अलम् अत्यर्थम् इति व्याचक्षते ॥१९॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे शततमोऽध्यायः ॥१००॥
एकाधिकशततमोऽध्यायः

नारद उवाच। अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् ।
विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥१॥

अयमिति ॥१॥

वैतनेयसुतैः सूत षड्भिस्ततमिदं कुलम् ।
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥२॥

सुरुचा पक्षिराजेन सुबलेन च मातले ।
वर्धितानि प्रसृत्या वै विनताकुलकर्तृभिः ॥३॥

प्रसृत्या प्रकृष्टगत्या जवेन वृद्धिमन्तीत्यर्थः ॥३॥

पक्षिराजाभिजात्यानां सहस्राणि शतानि च ।
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥४॥

सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥५॥

कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः ।
ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ॥६॥

निघृणाः निर्दयाः ॥६॥

नामानि चैषा वक्ष्यामि यथा प्राधान्यतः शृणु ।
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥७॥

दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।
हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः ॥८॥

सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः ।
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥९॥

पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः ।
वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा ॥१०॥

त्रिरावः सप्तरावश्च वाल्मीकिर्द्वीपकस्तथा ।
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः ॥११॥

सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः ।
मेषहृत् कुमुदो दक्षः सर्पान्तः सहभोजनः ॥१२॥

गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः ।
विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा ॥१३॥

सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च ।
मालयो मातरिश्वा च निशाकरदिवाकरौ ॥१४॥

एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ।
प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्च ये ॥१५॥

यद्यत्र न रुचिः काचिदेहि गच्छाव मातले ।
तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे ॥१६॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे एकाधिकशततमोऽध्यायः॥१०१॥
द्व्यधिकशततमोऽध्यायः

नारद उवाच। इदं रसातलं नाम सप्तमं पृथिवीतलम् ।
यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥१॥

इदं रसातलमिति ॥१॥

क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् ।
षण्णां रसानां सारेण रसमेकमनुत्तमम् ॥२॥

अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा ।
पितामहस्य वद‌नादुद‌तिष्ठद‌निन्दिता ॥३॥

वदनात् मुखादुदतिष्ठत् तेन मुखजेन ब्राह्मणेन तस्या एककुलत्वं यथोक्तं- ‘ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्’ इति ॥३॥

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले ।
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते ॥४॥

पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम् ।
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥५॥

फेनेन पुष्पितस्येव श्वेतस्यास्य पर्यन्तं तीरप्रदेशं फेनेनैवानुवेष्टितं पिबन्तः सादरमवलोकयन्त एव वसन्ति तेनैव फेनपा इत्युच्यन्ते ॥५॥

फेनपा नाम ते ख्याताः फेनाहाराश्च मातले ।
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥६॥

एतेभ्योऽन्ये फेनाहाराश्चेत्यर्थः ॥६॥

अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले ।
निवसन्ति दिशां पाल्यो धारयन्तो दिशः स्म ताः ॥७॥

पूर्वां दिशं धारयते सुरूपा नाम सौरभी ।
दक्षिणां हंसिका नाम धारयत्यपरां दिशम् ॥८॥

पश्चिमा वारुणी दिक्च धार्यते वै सुमद्र‌या ।
महानुभावया नित्यं मातले विश्वरूपया ॥९॥

सर्वकामदुघा नाम धेनुर्धारयते दिशम् ।
उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् ॥१०॥

इलविलस्येमामैलविलसंज्ञिताम् ॥१०॥

आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे ।
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥११॥

असुरसंहितैः असुरसहितैः ॥११॥

उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले ।
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥१२॥

सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् ।
अमृतं चामृताशेषु सुरभी क्षरते पयः ॥१३॥

सुधेति । सर्पपितृदेवानां तत्तद्योग्याहाररूपं पयः क्षरतीत्यर्थः । सुधा सर्पस्य भोजनं स्वधाभोजिनः पितरः । अमृताशेषु देवेषु ॥१३॥

अत्र गाथा पुरा गीता रसातलनिवासिभिः ।
पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥१४॥

न नागलोके न स्वर्गे न विमाने त्रिविष्टपे ।
परिवासः सुखस्तादृक् रसातलतले यथा ॥१५॥

परिवासः निवासः सुखः सुखकरः ॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे द्व्यधिकशततमोऽध्यायः॥१०२ ॥
त्र्यधिकशततमोऽध्यायः

नारद उवाच। इयं भोगवती नाम पुरी वासुकिपालिता ।
यादृशी देवराजस्य पुरीवर्याऽमरावती ॥१॥

इयमिति ॥१॥

एष शेषः स्थितो नागो येनेयं धार्यते सदा ।
तपसा लोकमुख्येन प्रभावसहिता मही ॥२॥

श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन् मूर्ध्नां ज्वालाजिह्वो महाबलः ॥३॥

इह नानाविधाकारा नानाविधविभूषणाः ।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥४॥

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।
सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः ॥५॥

कमण्डलुकलक्षणाः पानपात्रसदृशचिह्नाः ॥५॥

सहस्रशिरसः केचित् केचित् पञ्चशताननाः ।
शतशीर्षास्तथा केचित् केचित्त्रिशिरसोऽपि च ॥६॥

द्विपञ्चशिरसः केचित् केचित् सप्तमुखास्तथा ।
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥७॥

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
नागानामेकवंशानां यथाश्रेष्ठं तु मे शृणु ॥८॥

वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ ।
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥९॥

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥१०॥

आर्यको नन्दकश्चैव तथा कलशपोतकौ ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥११॥

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्द‌कौ ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥१२॥

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥१३॥

करवीरः पीठरकः संवृत्तो वृत्त एव च ।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥१४॥

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥१५॥

विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥१६॥

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥१७॥

कण्व उवाच। मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै ।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥१८॥

मातलिरुवाच। स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु ।
द्युतिमान् दर्शनीयश्च कस्यैष कुलनन्दनः ॥१९॥

कः पिता जननी चास्य कतमस्यैष भोगिनः ।
वंशस्य कस्यैष महान् केतुभूत इव स्थितः ॥२०॥

प्रणिधानेन धैर्येण रूपेण वयसा च मे ।
मनःप्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥२१॥

कण्व उवाच। मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात् ।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥२२॥

नारद उवाच। ऐरावतकुले जातः सुमुखो नाम नागराट् ।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च॥२३॥

एतस्य हि पिता नागश्चिकुरो नाम मातले ।
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ॥२४॥

ततोऽब्रवीत् प्रीतमना मातलिर्नारदं वचः ।
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥२५॥

क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै ।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥२६॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे त्र्यधिकशततमोऽध्यायः॥१०३ ॥
चतुरधिकशततमोऽध्यायः

नारद उवाच। सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् ।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान् बली ॥१॥

सूत इति ॥१॥

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥२॥

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ॥३॥

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ॥४॥

अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ॥५॥

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते ।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥६॥

यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ॥७॥

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥८॥

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥९॥

पितृहीनमपि ह्येनं गुणतो वरयामहे ।
बहुमानाच्च भवतस्तथैवैरावतस्य च ॥१०॥

सुमुखश्च गुणैश्चैव शीलशौचदमादिभिः ।
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ॥११॥

मातलिस्तस्य संमानं कर्तुमर्हो भवानपि। कण्व उवाच। स तु दीनः प्रहृष्टश्च प्राह नारद‌मार्यकः ॥१२॥

व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ।
कथमिच्छामि देवर्षे गुणकेशीं स्नुषां प्रति ॥१३॥

आर्यक उवाच। न मे नैतद्बहुमतं महर्षे वचनं तव ।
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ॥१४॥

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ।
अस्य देहकरस्तात मम पुत्रो महाद्युते ॥१५॥

भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ।
पुनरेव च तेनोक्तं वैनतेयेन गच्छता ॥ मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥१६॥

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् ।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥१७॥

कण्व उवाच। मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया ।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥१८॥

सोऽयं मया च सहितो नारदेन च पन्नगः ।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥१९॥

शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥२०॥

सुमुखश्च मया सार्धं देवेशमभिगच्छतु ।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥२१॥

ततस्ते सुमुखं गृह्य सर्व एव महौजसः ।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥२२॥

सङ्गत्या तत्र भगवान् विष्णुरासीच्चतुर्भुजः ।
ततस्तत् सर्वमाचख्यौ नारदो मातलिं प्रति ॥२३॥

वैशम्पायन उवाच। ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम् ।
अमृतं दीयतामस्मै क्रियताममरैः समः ॥२४॥

मातलिर्नारदश्चैव सुमुखश्चैव वासव ।
लभन्तां भवतः कामात् काममेतं यथेप्सितम् ॥२५॥

पुरन्दरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥२६॥

विष्णुरुवाच। ईशस्त्वं सर्वलोकानां चराणामचराश्च ये ।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥२७॥

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् ।
न त्वेनममृतप्राशं चकार बलवृत्रहा ॥२८॥

लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह ।
कृतदारो यथा कामं जगाम च गृहान् प्रति ॥२९॥

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥३०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे चतुरधिकशततमोऽध्यायः॥ १०४ ॥
पञ्चाधिकशततमोऽध्यायः

कण्व उवाच। गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥१॥

गरुड इति ॥१॥

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः ।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥२॥

गरुड उवाच। भगवन् किमवज्ञानाद्वृत्तिः प्रतिहता मम ।
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥३॥

निसर्गात् सर्वभूतानां सर्वभूतेश्वरेण मे ।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥४॥

वृतश्चैष महानागः स्थापितः समयश्च मे ।
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥५॥

एतस्मिंस्तु तथाभूते नान्यं हिंसितमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥६॥

सोऽहं प्राणान् विमोक्ष्यामि तथा परिजनो मम ।
ये च भृत्या मम गृहे प्रीतिमान् भव वासव ॥७॥

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।
त्रैलोकस्येश्वरो योऽहं परभृत्यत्वमागतः ॥८॥

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम ।
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्॥९॥

ममापि दक्षस्य सुता जननी कश्यपः पिता ।
अहमप्युत्सहे लोकान् समन्ताद्वोढुमञ्जसा ॥१०॥

असह्यं सर्वभूतानां ममापि विपुलं बलम् ।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥११॥

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रसृतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥१२॥

यत्तु ध्वजस्थानगतो यत्नात् परिचराम्यहम् ।
वहामि चैवानुजं ते तेन मामवमन्यसे ॥१३॥

कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन् वहामीमं सबान्धवम् ॥१४॥

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥१५॥

अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥१६॥

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात को न्वत्र बलवानिति ॥१७॥

कण्व उवाच। स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम् ।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥१८॥

गरुत्मन् मन्यसेऽत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥१९॥

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।
अहमेवात्मनाऽऽत्मानं वहामि त्वां च धारये ॥२०॥

इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह ।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥२१॥

ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् ।
निपपात स भारार्तो विह्वलो नष्टचेतनः ॥२२॥

यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ॥२३॥

न त्वेनं पीडयामास बलेन बलवत्तरः ।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥२४॥

व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥२५॥

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ॥२६॥

भगवन् लोकसारस्य सदृशेन वपुष्मता ।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥२७॥

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥२८॥

न हि ज्ञातं बलं देव मया ते परमं विभो ।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥२९॥

ततश्चक्रे स भगवान् प्रसादं वै गरुत्मतः ।
मैवं भूयः इति स्नेहात्तदा चैनमुवाच ह ॥३०॥

पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि ।
ततःप्रभृति राजेन्द्र सह सर्पेण वर्तते ॥३१॥

एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः ।
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥३२॥

कण्व उवाच। तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे ।
नासादयसि तान् वीरांस्तावज्जीवसि पुत्रक ॥३३॥

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥३४॥

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥३५॥

तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥३६॥

प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥३७॥

वैशम्पायन उवाच। दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन् भृकुटीमुखः ।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥३८॥

कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निद‌मब्रवीत् ॥३९॥

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः ।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥४०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे पञ्चाधिकशततमोऽध्यायः॥१०५ ॥
षडधिकशततमोऽध्यायः

जनमेजय उवाच। अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् ।
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥१॥

अनर्थे इति । परार्थे परस्वनिमित्तम् ॥१॥

ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥२॥

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः ।
सौहृदाद्वा सुहृत् स्निग्धो भगवान् वा पितामहः ॥३॥

भगवान् पितामहो व्यासो न तु भीष्मः । उत्तरे तस्य पृथगुपादानात् उक्तमित्यस्यावृत्तिदर्शनाच्च॥३॥

वैशम्पायन उवाच। उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् ।
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥४॥

नारद उवाच। दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठते ॥५॥

सुहृत्- प्रत्युपकारमनपेक्ष्य उपकर्ता मादृशः तदीयवाक्यस्य श्रोता सुहृच्छ्रोता मूढोऽयं हितमप्युक्तं न श्रोष्यतीति भावः । तिष्ठते स्थिरो भवति यत्र महासंकटे तत्र बन्धुः उपकारमपेक्ष्योपकर्ता कर्णादिः न तिष्ठते न प्रकाशते । ‘प्रकाशनस्थेयाख्ययोश्च’ इत्युभयत्र तङ् । बन्धुतोऽपि सुहृद्वचः श्रेयस्करमित्यर्थः ॥५॥

श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन ।
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥६॥

श्रोतव्यं श्रोतुं युक्तम् । निर्बन्धः सत्यपि बलवद्बाधके तत्रैवग्राहः सुदारुणो नाशकारी ॥६॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥७॥

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥८॥

वसिष्ठमूर्त्या धर्मोऽभ्यागच्छत् ॥८॥

सप्तर्षीणामन्यतमं वेषमास्थाय भारत ।
बुभुक्षुः क्षुभितो राजन्नाश्रमं कौशिकस्य तु ॥९॥

विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।
परमान्नस्य यत्नेन न च तं प्रत्यपालयत् ॥१०॥

न प्रत्यपाल्यत् अन्नसिद्धिपर्यन्तं न प्रतीक्षितवान् ॥१०॥

अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।
अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽप्युपागमत् ॥११॥

तेन वसिष्ठेन । उपागमत् वसिष्ठसमीपम् ॥११॥

भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान् ययौ ।
विश्वामित्रस्ततो राजन् स्थित एव महाद्युतिः ॥१२॥

भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥१३॥

मूर्ध्वा बाहुभ्यां च परिगृह्य अभ्याशे समीपे आश्रमस्य ॥१३॥

तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥१४॥

गौरवात् गुरुत्वात् बहुमानात् लोकपूज्यत्वात् हार्देन प्रीत्या ॥१४॥

अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् ।
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥१५॥

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥१६॥

प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥१७॥

क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।
धर्मस्य वचनात् प्रीतो विश्वामित्रस्तथाऽभवत् ॥१८॥

विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह ॥१९॥

शुश्रूषया सेवया भक्त्या आराध्यत्वज्ञानेन ॥१९॥

अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ।
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ॥२०॥

प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ।
दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि ॥२१॥

गुरुकर्मणि ब्रह्मचर्यव्रतसमाप्तौ सत्याम् ॥२१॥

दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद ।
दक्षिणानां हि दाता वै अपवर्गेण युज्यते ॥२२॥

मानवमिति पाठे सिध्यति सिद्धं कृतकृत्यं करोतीत्यर्थः । एतदेवाह- दक्षिणानामिति । अपवर्गेण फलप्राप्त्या ॥२२॥

स्वर्गे ऋतुफलं तद्धि दक्षिणा शान्तिरुच्यते ।
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥२३॥

क्रतुफलं दक्षिणाप्रद एव प्राप्नोति ‘हतो यज्ञस्त्वदक्षिणः’ इति स्मृतेरदक्षिणस्य क्रतोर्हतत्वेनाफलत्वात् । शान्तिः सर्वोपद्रवहारिण्युच्यते वेदेन ‘दक्षिणां कर्म कृणुते विजानन्’ इति ॥२३॥

जानानस्तेन भगवान् जितः शुश्रूषणेन वै ।
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥२४॥

जानानः शुश्रूषणेनैव दक्षिणाकर्मसमाप्तिरिति । स जानंस्तेनेति पाठे तेन गालवेन शुश्रूषणेनैव जितो वशीकृतोऽस्मीति जानन्नित्यन्वयः ॥२४॥

असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः ।
किं ददानीति बहुशो गालवः प्रत्यभाषत ॥२५॥

निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः ।
किञ्चिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥२६॥

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
अष्टौ शतानि मे देहि गच्छ गालव मा चिरम् ॥२७॥

श्यामो हरितः एकतः । बहिःप्रदेशे एव श्यामाः कर्णा येषामेकतः श्यामकर्णानाम् ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते षडधिकशततमोऽध्यायः ॥१०६॥
सप्ताधिकशततमोऽध्यायः

नारद उवाच। एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।
नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥१॥

एवमिति ॥१॥

त्वगस्थिभूतो हरिणश्चिन्ता-शोकपरायणः ।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ।
गालवो दुःखितो दुःखाद्विललाप सुयोधन ॥२॥

हरिणः पाण्डुरः मन्युना दैन्येन दह्यमानश्चिन्ताग्निना ॥२॥

कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कुतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥३॥

कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे ।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥४॥

अहं पारे समुद्रस्य पृथिव्या वा परंपरात् ।
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे ॥५॥

परंपरात् दूरादपि दूरम् । आत्मानं देहम् ॥५॥

अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया ॥६॥

अनीया अनुद्यमेन ॥६॥

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥७॥

ईप्सितं प्रणयं कृत्वा ईप्सितं दास्यामीति विश्वासमुत्पाद्य । ‘प्रणयः प्रेम्णि विस्रंभे’ इति विश्वः ॥७॥

प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥८॥

एतदेवाह- प्रतिश्रुत्येति । करिष्येतीति सन्धिरार्षः ॥८॥

न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥९॥

अनृतस्य सत्यहीनस्य रूपं स्वंरूपं जीवन्नेव स मृत इत्यर्थः ॥९॥

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥१०॥

न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् ।
पापो ध्रुवमवाप्नोति विनाशं नाशयन् कृतम् ॥११॥

तन्त्रणं कुटुम्बधारणम् । पाठान्तरे मन्त्रणमिष्टैः सह विचारणम् । अविश्वसनीयत्वादित्यर्थः ॥११॥

सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ॥१२॥

तत् भाषितमिति सम्बन्धः ॥१२॥

सोऽहं प्राणान् विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ।
अर्थिता न मया काचित् कृतपूर्वा दिवौकसाम् ॥१३॥

अनुत्तमं यत्नमधमोपायं विषोद्बन्धनादिरूपं कृत्वा प्राणान् मोक्ष्यामीत्यर्थः । अर्थिता याञ्चा ॥१३॥

मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ।
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥१४॥

अहन्त्विति । अत्राहमिति पदस्य द्विरावृत्तिर्वक्तुर्वैक्लव्याददोषः ॥१४॥

भोगा यस्मात् प्रतिष्ठन्ते व्याप्य सर्वान् सुरासुरान् ।
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम् ॥१५॥

भोगाः भोग्यवर्गो वियदादिः प्रतिष्ठन्ते निःसरन्ति बीजादिव वृक्षाः ॥१५॥

एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥१६॥

तस्य विष्णुदासत्वेन सखा न तु पूर्वोपकारादिना ॥१६॥

सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥१७॥

सुहृदां विश्वं विष्णुरिति बुध्या सर्वलोकमित्राणाम् ॥१७॥

विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥१८॥

वासवादवरजो विष्णुरुक्तः अहं गालवस्य साहाय्यं कर्तुमिच्छामीति प्रार्थितः तेन विष्णुना ॥१८॥

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम् ॥१९॥

देशं पृथिव्यन्तर्गतमेव पृथिव्याः पारः समुद्रः ॥१९॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते सप्ताधिकशततमोऽध्यायः॥१०७॥
अष्टाधिकशततमोऽध्यायः

सुपर्ण उवाच। अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोगिना ।
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथमतो दिशम् ॥१॥

अनुशिष्ट इति । अनुशिष्ट आज्ञापितः ज्ञानयोनिन धीप्रवर्तकेन विष्णुना । पाठान्तरे अज्ञातयोनिना सर्वादित्वात् अज्ञातः रूपादिहीनत्वाच्च तादृशोऽपि योनिः जगदुदयप्रलयस्थानं तेन कामं यथेष्टम् ॥१॥

पूर्वां वा दक्षिणां वाऽहमथवा पश्चिमां दिशम् ।
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥२॥

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।
सविता यत्र संध्यायां साध्यानां वर्तते तपः ॥३॥

साध्यानां देवताविशेषाणाम् । तप आलोचनं वर्तते अनुवर्तते । साध्या देवा इह ध्यायन्तः सत्यकामा बभूवुरित्यर्थः ॥३॥

यस्यां पूर्वं मतिर्याता यया व्याप्तमिदं जगत् ।
चक्षुषी यत्र धर्मस्य यन्त्रवै सुप्रतिष्ठिते ॥४॥

मतिर्बुद्धिः याता प्राप्ता प्रातःसन्ध्यायां सवितुः प्रसादात् प्रथमं यत्र धीप्राप्तिर्भवति । गायत्र्यां सवितुर्धीप्रवर्तकत्वदर्शनादित्यर्थः । चक्षुषी आज्यभागाख्ये अग्नीषोमदैवत्ये धर्मस्य यज्ञस्य यन्त्रवै यन्त्रणार्थं यंत्रयतेस्तुमर्थे तवैप्रत्ययो वैदिकस्तकारलोपश्च ॥४॥

कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ।
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः ॥५॥

तदेवाह- कृतं संस्कृतं हव्यं यतो हुतं ययोर्मध्ये हुतं सत् ‘तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्’ इति श्रुतेर्यज्ञस्य रक्षणं भवति । अन्यत्र गतं त्वर्थाद्धर्मनाशकं भवतीति भावः । अध्वनः देवयानस्य पितृयाणस्य वा ॥५॥

अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥६॥

दाक्षायण्यः अदितिर्दितिर्दनुः काष्ठा इत्यादयः । प्रजाः लोकान् ॥६॥

अतो मूलं सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत ।
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥७॥

एतस्मात् कारणाद्ब्रह्मन् पूर्वेत्येषा दिगुच्यते ।
यस्मात् पूर्वतरे काले पूर्वमेवावृता सुरैः ॥८॥

अत एव च सर्वेषां पुर्वामाशां प्रचक्षते ।
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता ॥९॥

पूर्वं पूर्वसंस्थानि सुखमीप्सता सुखाद्यर्थिना ॥९॥

अत्र वेदान् जगौ पूर्वं भगवान् लोकभावनः ।
अत्रैवोक्ता सवित्राऽऽसीत् सावित्री ब्रह्मवादिषु ॥१०॥

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते ॥११॥

यजूंषि दत्तानि याज्ञवल्क्यायेति शेषः ॥११॥

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥१२॥

स्वां योनिं सोमाज्यपय आदिरूपं जलम् ॥१२॥

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥१३॥

पूर्वं मित्रावरुणयोर्यज्ञकाले पौराणस्य पुराणस्य । स्वार्थे तद्धितः। निधनं निमिशापात् स्थूलदेहवियोगः सूतिः कुंभात् तस्मिन्नेव यज्ञे ॥१३॥

ओङ्कारस्यात्र जायन्ते सृतयो दशतीर्दश ।
पिबन्ति मुनयो यत्र हविर्धूमं स्म धूमपाः ॥१४॥

दशशतीशब्दस्य पृषोदरादिशकारलोपेन दशतीशब्दः सहस्रवाची सृतयो मार्गाः । ‘ओंकारो वै सर्वा वाक्’ इति श्रुतेर्वेदस्य शाखाप्रशाखादिभेदोऽत्रैव जात इत्यर्थः ॥१४॥

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने ।
शक्रेण यज्ञभागार्थे दैवतेषु प्रकल्पिताः ॥१५॥

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये ।
उदयंस्तान् हि सर्वान् वै क्रोधाद्धन्ति विभावसुः ॥१६॥

ये मानुषाः कृतघ्नाः ये वाऽसुरास्तान् अत्रैवोदयन् हन्ति तेषामायुरल्पीकरोतीत्यर्थः ॥१६॥

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च ।
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि ॥१७॥

विशावः प्रविशावः ॥१७॥

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः ।
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते अष्टाधिकशततमोऽध्यायः॥१०८॥
नवाधिकशततमोऽध्यायः

सुपर्ण उवाच। इयं विवस्वता पूर्वं श्रौतेन विधिना किल ।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ॥१॥

इयमिति । स्रौवेणेति पाठे स्रुवेण हूयतेऽस्मिन्निति स्रौवो विधिर्यज्ञः । गुरवे कश्यपाय ॥१॥

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः ।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ॥२॥

ऊष्मपाणाम् उष्णान्नभोजिनां ‘यावदुष्णं भवत्यन्नं पितरस्तावदश्नन्ति’ इति स्मृतेः ॥२॥

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते ।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यमागताम् ॥३॥

विश्वे त्रयोदशमितो गणः ॥३॥

एतद्द्वितीयं वेदस्य द्वारमाचक्षते द्विज ।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ॥४॥

द्वितीयं देवस्य धर्मस्य द्वारं पूर्वा दिक् प्रथमं तदपेक्षया पित्र्यस्य धर्मस्य द्वारमिदं द्वितीयं ‘प्राक्संस्थानि दैवानि कर्माणि दक्षिणसंस्थानि पित्र्याणि’ इति स्मृतेः ॥४॥

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा ।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥५॥

अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते ।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ॥६॥

कर्म पुण्यापुण्यरूपं निगद्यते प्रकाश्यते चित्रगुप्तादिभिः । अवसायिनां मृतानां कर्म निग्रहानुग्रहरूपम् ॥६॥

एषा दिक् सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते ।
वृता त्वनवबोधेन सुखं तेन न गम्यते ॥७॥

सर्वः मुमूर्षुमात्रः वृता छन्ना अनवबोधेन तमसा पुण्यवान् पापी वा मरणकाले अत्यन्तमूढत्वात् दुःखे वसन्नैतां दिशं गच्छतीत्यर्थः । कृत्वा त्वनवरोधेनेति पाठे अनवः प्राक्सञ्चितेन कर्मणा उपस्थितो रोधो मोहस्तेन सर्वः कृत्वा कर्ता पुरुषः ‘आतो मनिन्क्वनिब्वनिपश्च’ इति सूत्रात् क्वनिबित्यनुवर्तमाने ‘अन्येऽभ्योऽपि दृश्यन्ते’ इति कृञः कर्तरि क्वनिप् ॥७॥

नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥८॥

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च ।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ॥९॥

चित्तं च बुद्धिश्च तयोर्हराः योगिनां तत्त्वानुसन्धानं प्रपञ्चमिथ्यात्वनिश्चयं च हरन्तीत्यर्थः ॥९॥

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ॥१०॥

गाथाः वर्णमय्यो मन्त्राद्याः सामानि तदाश्रयाणि गीतानि श्रुत्वाऽतीतं कालमजानन् भूलोके आगत्य दारान्नष्टान् ज्ञात्वा वनं गत इति पौराणी कथा ॥१०॥

अत्र सावर्णिना चैव यवक्रीतात्मजेन च ।
मर्यादा स्थापिता ब्रह्मन् यां सूर्यो नातिवर्तते ॥११॥

सावर्णिना मनुना मर्यादा सूर्यरथस्य वीथीनां वाहकानां देवतानां च नियमः ॥११॥

अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ॥१२॥

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥१३॥

सवासवः सर्वेषां प्राणा अत्र प्राप्ताः सन्तः पुनः पञ्चधा गच्छन्ति देहं प्राप्नुवन्ति प्राणापानादिभेदेनेत्यर्थः ॥१३॥

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वितरणैर्वृता ॥१४॥

वितरणैः वैतरणीनदीसंज्ञकनरकगामिभिः ॥१४॥

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ।
अत्र वृत्तो दिनकरः सुरसं क्षरते पयः ॥१५॥

सुखस्यान्तं नरकं दुःखस्यान्तं स्वर्गसुखम् । आवृत्तः कर्कायनगतः तदा हि प्रायेणार्द्रानक्षत्रं भवति तच्च वर्षाकालस्यादिभूतं प्रसिद्धम् ॥१५॥

काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः ।
अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् ॥१६॥

वासिष्ठीं काष्ठामुदीचीं वसिष्ठोपलक्षितसप्तर्षिभिरधिष्ठिताम् । धानिष्ठीमिति पाठेऽतिशयेन धनवान् धनिष्ठः कुबेरस्तदीयाम् उत्सृजते त्यजति ॥१६॥

लब्धवान् युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याज्जातो महानृषिः ॥१७॥

विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ॥१८॥

अधीत्य सकलान् वेदाँल्लेभिरे मोक्षमक्षयम् ।
अत्र भोगवती नाम पुरी वासुकिपालिता ॥१९॥

तक्षकेण च नागेन तथैवैरावतेन च ।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ॥२०॥

निर्याणकाले मरणकाले तमः आन्ध्यम् ॥२०॥

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ।
एष तस्यापि ते मार्गः परिचार्यस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ॥२१॥

तस्य ते तव परिचार्यस्य सेव्यस्य ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते नवाधिकशततमोऽध्यायः॥१०९॥
दशाधिकशततमोऽध्यायः

सुपर्ण उवाच। इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः ।
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥१॥

इयमिति । गोपतेः सूर्यस्य प्रतिष्ठेति सम्बन्धः ॥१॥

अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् ।
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥२॥

एतदेवाह- पश्चादह इति । अह्नः पश्चाद्भागे गाः रश्मीन् विसर्जयति अत एव पश्चिमा अन्तिमेत्यर्थः॥२॥

यादसामत्र राज्येन सलिलस्य च गुप्तये ।
कश्यपो भगवान् देवो वरुणं स्माभ्यषेचयत् ॥३॥

अत्र पीत्वा समस्तान् वै वरुणस्य रसांस्तु षट् ।
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥४॥

अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा ।
निःश्वसन्तो महावातैरर्दिताः सुषुपुर्द्विज ॥५॥

पश्चात्कृताः विमुखीकृताः संयताः सन्नद्धाः सन्तः ॥५॥

अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति॥६॥

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये ।
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥७॥

अर्थमायुषो हर्तुं निद्रया व्ययीकर्तुमित्यर्थः ॥७॥

अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥८॥

अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।
अपि वर्षसहस्त्रेण न चास्यान्तोऽधिगम्यते ॥९॥

मन्दरं समुद्रे मग्नम् एतेन हिमवन्मूलस्य समुद्रजलस्य चाप्रमेयत्वमुक्तम् ॥९॥

अत्र काञ्चनशैलस्य काञ्चनांबुरुहस्य च ।
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥१०॥

काञ्चनमयानि अम्बुरुहाणि यत्र तस्य उदधेः समुद्रतुल्यस्य सरसः ॥१०॥

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते ।
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥११॥

सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।
अदृश्यस्याप्रमेयस्य श्रूयते विपुली ध्वनिः ॥१२॥

सुवर्णशिरसो मुनेः हरिरोम्णः अपलितस्य नित्यतरुणस्येत्यर्थः ॥१२॥

अत्र ध्वजवती नाम कुमारी हरिमेधसः ।
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ॥१३॥

हरिमेधसो मुनेः कुमारी तिष्ठ तिष्ठेति सूर्यस्य शासनात् ॥१३॥

अत्र वायुस्तथा वह्निरापः खं चापि गालव ।
आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति ॥१४॥

अत्र वायुरिति । वाय्वादयोऽत्र दुःखदं शीतोष्णस्पर्शं विमुञ्चन्ति । सदा सुखसंस्पर्शा एवेत्यर्थः॥१४॥

अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः ।
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ॥१५॥

अतः प्रभृतीति । मेरुं प्रदक्षिणीकुर्वन् सूर्यः सर्वदा तिर्यग्गतिरेव सन् लोकदृष्ट्या उपर्यधश्च गच्छतीत्येव भाति । अतःपरं लोकदृष्ट्यभावात्तिर्यगेवावर्तत इत्यर्थः । आदित्यमण्डलं कर्तुं ज्योतींष्यग्न्यादीन् विशति । ‘आदित्यो वा अस्तं यन्नग्निमनुप्रविशति’ इति श्रुतेः । नक्षत्रादीन्यपि अम्मयत्वादप्रकाशानि आदित्यप्रभयैव भाषन्ते रात्रौ दिवा तु तयैव तिरोभवन्तीति प्रसिद्धिः ॥१५॥

अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना ।
निष्पतन्ति पुनः सूर्यात् सोमसंयोगयोगतः ॥१६॥

अष्टेति । अष्टाविंशतितमे दिने एकैकं नक्षत्रं भानुना चन्द्रेण सह संक्रम्य एकोनत्रिंश्यां रात्रौ निष्पतति बहिर्निर्गच्छति चन्द्रादेव । पुनस्तद्वत् सोमसंयोगसदृशेन योगेन सम्बन्धेन सूर्येण सहापि संक्रम्य काले निष्पतन्तीत्यर्थः । एवं चन्द्रवत् सर्वेषामपि नक्षत्राणां सर्वग्रहयोगस्तुल्यः ॥१६॥

अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये ॥१७॥

स्रवन्तीनां नदीनाम् । सागरस्य उदयः पूर्तिर्येन तादृशः प्रभवः ॥१७॥

अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥१८॥

अत्रानलसखस्यापि पवनस्य निवेशनम् ।
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥१९॥

एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः ।
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥२०॥

दिग्द्वारेण संक्षेपप्रकारेण ते तव ॥२०॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते दशाधिकशततमोऽध्यायः॥११०॥
एकादशाधिकशततमोऽध्यायः

सुपर्ण उवाच। यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते ।
अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ॥१॥

यस्मादिति । उत्तरेण पथा गतानां हि पापनाशः स्वर्गप्राप्तिश्च भवतीति योगादुत्तरा उत्कृष्टतरा इयं दिगित्यर्थः ॥१॥

उत्तरस्य हिरण्यस्य परिवापश्च गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥२॥

परिवापः स्थानं हिरण्यस्य निधीनामित्यर्थः उत्तरं यन्निधिस्थानं ततः स्वर्गमार्गः दिग्भ्यामुपलक्षितो मध्यमो ज्ञेय इति भावः ॥२॥

अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः ॥३॥

अविधेयात्मा अजितचित्तः ॥३॥

अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥४॥

अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः ।
प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः ॥५॥

प्रकृत्या उमया ॥५॥

न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः ।
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते ॥६॥

न सः मायाविष्टोऽपि न दृश्यो दर्शनार्हः किमुत मायारहितः शुद्धचिन्मात्रः ॥६॥

अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः ।
सहस्रशिरसः श्रीमानेकः पश्यति मायया ॥७॥

सहस्त्रशिरस इत्यकारान्तः शब्दः । मायया उपेतमिति शेषः । वस्तुतोऽस्य प्रत्यगात्मत्वेन द्रष्टृदृश्यभावस्याभावादिति भावः । सगुणब्रह्मभावप्राप्तिपूर्वकैव निर्गुणप्राप्तिरिति प्रघट्टकार्थः । यथोक्तं- ‘सोपाधिर्निरुपाधिश्च द्वेधा ब्रह्मविदुच्यते । सोपाधिकः स्यात्सर्वात्मा निरुपाख्योऽनुपाधिकः’ इति । एतच्च सम्यग्व्युत्पादितमस्माभिर्वेदान्तकतके ॥७॥

अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ।
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ॥८॥

प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ।
अत्र देव्यां तपस्तप्तं महेश्वरपरीप्सया ॥९॥

अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः ।
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ॥१०॥

आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ।
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ॥११॥

अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ।
अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते ॥१२॥

शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः ।
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ॥१३॥

शाद्वलं जम्बालं देवताभेदः । कदली वैजयंती पताका तस्याः स्कन्धवदुच्छ्रितम् । ‘अथ कदलीपताकामृगभेदयोः’ इति मेदिनी । नगाः वृक्षा कल्पद्रुमाः संयमो धारणाध्यानादिभिर्नित्यो न त्याज्यो येषां तेषाम् ॥१३॥

विमानान्यनुरूपाणि कामभोग्यानि गालव ।
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ॥१४॥

अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ।
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः ॥१५॥

ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ।
अत्र गङ्गां महाद्वारं रक्षन्ति द्विजसत्तम ॥१६॥

गङ्गा महाद्वारमित्यत्र गायन्तिकाद्वारमिति पाठे गायन्तिका बिलविशेषः ॥१६॥

धामा नाम महात्मानो मुनयः सत्यवादिनः ।
न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम् ॥१७॥

मूर्तिः पिण्डः आकृतिः संस्थानविशेषः ॥१७॥

परिवर्तः सहस्राणि कामभोज्यानि गालव ।
यथा यथा प्रविशति तस्मात् परतरं नरः ॥१८॥

परिवर्तो गतागतम् । सहस्त्राणि सत्रेऽन्नपरिवेषणपात्राणि कामभोज्यानि च ज्ञायन्ते स्थूलदृष्टिभिरित्यर्थः । तस्मात् हिमस्थानात् ॥१८॥

तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ।
नैतत् केनचिदन्येन गतपूर्वं द्विजर्षभ ॥१९॥

प्रविलीयति हिमेन नश्यति ॥१९॥

ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ।
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ॥२०॥

ऐलविलस्य कुबेरस्य ॥२०॥

अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ।
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥२१॥

त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ।
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम ॥२२॥

उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ।
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ॥२३॥

उशीरबीजे स्थाने ॥२३॥

साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः ।
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ॥२४॥

कनकाकरः जीमूतस्य उप समीपे तस्थे प्रकाशं गतः । ‘प्रकाशनस्थेयाख्ययोश्च’ इति तङ् ॥२४॥

वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः ।
अत्र नित्यं दिशांपालाः सायं प्रातर्द्विजर्षभ ॥२५॥

वव्रे ब्राह्मणेभ्यः मन्नामकमेतदस्त्विति ॥२५॥

कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ।
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ॥२६॥

उत्तरा उत्कृष्टतरा ॥२६॥

उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ।
एता विस्तरशस्तात तव सङ्कीर्तिता दिशः ॥२७॥

चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ।
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः ।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥२८॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते एकादशाधिकशततमोऽध्यायः॥१११ ॥
द्वादशाधिकशततमोऽध्यायः

गालव उवाच। गरुत्मन् भुजगेन्द्रारे सुपर्ण विनतात्मज ।
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥१॥

गरुत्मन्निति । पूर्वेण पूर्वस्यां दिशि चक्षुषी अग्नीषोमौ ॥१॥

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ॥२॥

अत्र सत्यं च धर्मश्च त्वया सम्यक् प्रकीर्तितः ।
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् ।
भूयश्च तान् सुरान् द्रष्टुमिच्छेयमरुणानुज ॥३॥

समागन्तुम् एकीभवितुम् ॥३॥

नारद उवाच। तमाह विनतासूनुरारोहस्वेति वै द्विजम् ।
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥४॥

गालव उवाच। क्रममाणस्य ते रूपं दृश्यते पन्नगाशन ।
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥५॥

सहस्त्रांशोर्विवस्वत इति पक्षवातानुगामिनां गरुडप्रभयाऽवभासितानां वृक्षाणामंशुसाम्यं निरावरणत्वं चाभिप्रेत्य विशेषणद्वयम् । एतच्च वाक्यशेषाद्व्यक्तं भविष्यति । वस आच्छादनेऽस्मात् क्किपि वः वस्त्रादि तद्वान् वस्वान् तद्विपरीतो विवस्वानित्यर्थः ॥५॥

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।
प्रस्थितानामिव समं पश्यामीह गतिं खग ॥६॥

ससागरवनामुर्वीं सशैलवनकाननाम् ।
आकर्षन्निव चाभासि पक्षवातेन खेचर ॥७॥

समीननागनक्रं च खमिवारोप्यते जलम् ।
वायुना चैव महता पक्षवातेन चानिशम् ॥८॥

खमिवारोप्यते खेऽवस्थाप्यत इव ॥८॥

तुल्यरूपाननान् मत्स्यांस्तथा तिमितिमिङ्गिलान् ।
नागाश्वनरवक्त्रांश्च पश्याम्युन्मथितानिव ॥९॥

महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते ।
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥१०॥

रवैः शब्दैः कारणं प्रयोजनमपि न वेद्मि न स्मरामि ॥१०॥

शनैः स तु भवान्यातु ब्रह्मवध्यामनुस्मरन् ।
न दृश्यते रविस्तात न दिशो न च खं खग ॥११॥

तम एव तु पश्यामि शरीरं ते न लक्षये ।
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥१२॥

ते तव मणीवेति इवार्थे व शब्दः ॥१२॥

शरीरं तु न पश्यामि तव चैवात्मनश्च ह ।
पदे पदे तु पश्यामि शरीरादग्निमुत्थितम् ॥१३॥

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः ।
तन्नियच्छ महावेगं गमने विनतात्मज ॥१४॥

निर्वाप्य मन्दीकृत्य ॥१४॥

न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन ।
संनिवर्त महाभाग न वेगं विषहामि ते ॥१५॥

सन्निवर्त निवर्तस्व ॥१५॥

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।
एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥१६॥

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ।
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः॥१७॥

नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितः सुहृत् ।
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥१८॥

नारद उवाच। एवं बहु च दीनं च ब्रुवाणं गालवं तदा ।
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥१९॥

नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि ।
न चापि कृत्रिमः कालः कालो हि परमेश्वरः॥२०॥

योऽऽत्मानं सन्धिरार्षः । कृत्रिमः स्वेच्छासम्पाद्यः कालो मृत्युः ॥२०॥

किमहं पूर्वमेवेह भवता नाभिचोदितः ।
उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥२१॥

तदेष ऋषभो नाम पर्वतः सागरान्तिके ।
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥२२॥

निवर्तिष्यावेत्यार्षस्तङोऽभावः ॥२२॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते द्वादशाधिकशततमोऽध्यायः॥११२॥
त्रयोदशाधिकशततमोऽध्यायः

नारद उवाच। ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ ।
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ॥१॥

ऋषभस्येति ॥१॥

अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् ।
तया च स्वागतेनोक्तौ विष्ठरे सन्निषीदतुः ॥२॥

सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् ।
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ॥३॥

मुहूर्तात् प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥४॥

भ्रष्टतनूजं छिन्नपक्षमङ्गं यस्य तं भ्रष्टतनूजाङ्गम् ॥४॥

मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः ।
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ॥५॥

किमिदं भवता प्राप्तमिहागमनजं फलम् ।
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥६॥

किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥७॥

व्यभिचारो धर्मातिक्रमः ॥७॥

सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥८॥

यत्र देवो महादेवो यत्र विष्णुः सनातनः ।
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥९॥

सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया ।
मयैतन्नाम प्रध्यातं मनसा शोचता किल ॥१०॥

शोचता कथमियमत्र वसतीति ॥१०॥

तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।
सुकृतं दुष्कृतं वा त्वं माहात्म्यात् क्षन्तुमर्हसि ॥११॥

सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ ।
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ॥१२॥

निन्दिताऽस्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ॥१३॥

हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया ।
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥१४॥

आचारः फलते धर्ममाचारः फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥१५॥

तदायुष्मन् खगपते यथेष्टं गम्यतामितः ।
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ॥१६॥

भवितासि यथापूर्वं बलवीर्यसमन्वितः ।
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥१७॥

द्रविणवत्तरौ बलवत्तरौ ॥१७॥

अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् ।
नैव चासाद‌यामास तथारूपांस्तुरङ्गमान् ॥१८॥

विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः ।
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ॥१९॥

यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज ।
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥२०॥

अपवर्गस्य फलप्राप्तेः ॥२०॥

प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।
यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ॥२१॥

निशम्यतां विचार्यताम् ॥२१॥

सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥२२॥

तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।
नादत्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ॥२३॥

आसितुं स्थातुम् ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते त्रयोदशाधिकशततमोऽध्यायः॥११३॥
चतुर्दशाधिकशततमोऽध्यायः

नारद उवाच। अथाह गालवं दीनं सुपर्णः पततां वरः ।
निर्मितं वह्निना भूमौ वायुना शोधितं तथा ।
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥१॥

अथेति । हिरण्यपदप्रवृत्तिनिमित्तमाह - निर्मितमिति । भूम्यन्तर्गतमेत्र पार्थिवेषु पांसुषु वह्निना धम्यमानेषु व्यक्तीभवतोति वह्निना निर्मितं वायुना वह्निमुद्दीपयता विशोधितम् । वायुना वर्धितमित्यपि पाठः। सर्वं जगत् हिरण्मयं हिरण्यप्रधानं तेन भूमेः सारत्वात् शुद्धत्वात् सर्वजगन्मोहकत्वाच्च हिरण्यमित्युच्यत इत्यर्थः ॥१॥

धत्ते धारयते चेदमेतस्मात् कारणाद्धनम् ।
तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥२॥

धत्ते पुष्णाति धारयते जीवयति ॥२॥

नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा ।
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥३॥

नित्यमिति । प्रोष्ठपदाभ्यामिति तृतीया ‘मूलेनावाहयेद्देवीम्’ इति वत्सप्तम्यर्थे तेन तस्मिन् नक्षत्रद्वये शुक्रे शुक्रवासरे तद्योगे सति शुक्रोऽग्निः धनपतौ कुबेरस्य वृद्ध्यर्थं मनुष्येभ्यः संप्रदानेभ्यः धनं दत्ते ददाति । शुक्रश्चित्तार्जितमित्यनेन वह्निरेतस्त्वं तस्य प्रदर्श्यते । ‘शुक्रः काव्येऽनले ज्येष्ठे’ इति विश्वः । धनार्थी उक्तनक्षत्रवारयोगे वह्निं प्रार्थयेत् । तच्च धनं यागादिद्वारा वा भूमौ निखननेन वा सर्वं कुबेरं प्रत्येव गच्छतीति भावः ॥३॥

अजैकपाद‌हिर्बुध्न्यै रक्ष्यते धनदने च ।
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ।
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ॥४॥

अजेति । अज एकपात् पूर्वप्रोष्ठपदा देवता । अहिर्बुध्न्य उत्तरप्रोष्ठपदा देवता । धनदश्च तदध्यक्षस्तस्मादेतानि प्रार्थयता धनं लब्धुं शक्यं नान्यथेत्यर्थः ॥४॥

स त्वं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् ।
अपीड्य राजा पौरान् हि यो नौ कुर्यात्‌ कृतार्थिनौ ॥५॥

याच याचस्व यः राजा नौ आवाम् ॥५॥

अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥६॥

ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः ।
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥७॥

विभवश्चास्य सुमहानासीद्धनपतेरिव ।
एवं गुरुधनं विद्वन् दानेनैव विशोधय ॥८॥

विशोधय परिहर ॥८॥

तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् ।
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥९॥

प्रतिगृह्य च सत्काररैर्ध्यपाद्यादिकं वरम् ।
पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥१०॥

अयं मे नाहुष सखा गालवस्तपसो निधिः ।
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥११॥

सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः ।
तमाह भगवान् काले ददानि गुरुदक्षिणाम् ॥१२॥

असकृत्तेन चोक्तेन किञ्चिदागतमन्युना ।
अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥१२॥

एकतः श्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥१३॥

गुर्वर्थो दीयतामेष यदि गालव मन्यसे ।
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥१५॥

सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥१६॥

प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।
कृत्वाऽपवर्गं गुरवे चरिष्यति महत्तपः ॥१७॥

तपसः संविभागेन भवन्तमपि योक्ष्यते ।
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥१८॥

यावन्ति रोमाणि हये भवन्तीह नरेश्वर ।
तावन्तो वाजिनो लोकान् प्राप्नुवन्ति महीपते ॥१९॥

पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।
शङ्खे क्षीरमिवासिक्तं भवत्वेतत्तथोपमम् ॥२०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते चतुर्दशाधिकशततमोऽध्यायः॥११४॥
पञ्चदशाधिकशततमोऽध्यायः

नारद उवाच। एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमश्यावहितो राजा निश्चित्य च पुनः पुनः ॥१॥

एवमुक्त इति ॥१॥

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥२॥

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसा भिक्षां श्लाघ्यां च कीर्तिताम् ॥३॥

अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥४॥

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥५॥

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥६॥

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।
न चाशामरय विप्रर्षोर्वितथीकर्तुमुत्सहे ॥७॥

तत्तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति ।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥८॥

हताशोऽतिथिरिति शेषः ॥८॥

नातः परं वैनतेय किञ्चित् पापिष्ठमुच्यते ।
यथाशानाशनाल्लोके देहि नास्तीति वा वचः ॥९॥

हताशो ह्यकृतार्थः सन् हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥१०॥

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम ।
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥११॥

सदा देवमनुष्याणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥१२॥

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् ।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥१३॥

स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम् ।
अहं दौहित्रवान् स्यां वै वर एष मम प्रभो ॥१४॥

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥१५॥

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छय जगाम भवनं स्वकम् ॥१६॥

गते पतगराजे तु गालवः सह कन्यया ।
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥१७॥

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥१८॥

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥१९॥

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥२०॥

इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥२१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते पञ्चदशाधिकशततमोऽध्यायः॥११५ ॥
षोडशाधिकशततमोऽध्यायः

नारद उवाच। हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः ।
दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ॥१॥

हर्यश्व इति ॥१॥

उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु ।
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु ॥२॥

षट्सु करपृष्ठयोः पादष्पृष्ठयोः कुचयोश्च । स्तनयोर्नितम्बयोश्चक्षुषोश्चेति प्राच्चः । ‘वक्षः- कुक्ष्यलकस्कन्धकरवक्त्रं षडुन्नतम्’ इति काशीखण्डोक्तिः । सप्तसु सूक्ष्मा त्वक्केशदर्शनेषु कराङ्गुलिषु पादाङ्गुलिषु तदुभयपर्वसु च सूक्ष्मा । त्रिषु स्वरसत्वनाभिषु गम्भीरा । पञ्चसु पाणितले नेत्रान्ते तालुनि जिह्वायाम् अधरोष्ठे च रक्ता ॥२॥

बहुदेवासुरालोका बहुगन्धर्वदर्शना ।
बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ॥३॥

बहुभिर्देवैरसुरैश्च आलोकयितुं योग्या बहुदेवासुरालोका । गन्धर्वाणां दर्शनं शास्त्रं गीतादिविद्या यस्यां सा तथा ॥३॥

समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् ।
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥४॥

गालव उवाच। एकतः श्यामकर्णानां शतान्यष्टौ प्रयच्छ मे ।
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥५॥

ततस्तव भवित्रीयं पुत्राणां जननी शुभा ।
अरणीव हुताशानां योनिरायतलोचना ॥६॥

नारद उवाच। एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः ।
उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ॥७॥

द्वे मे शते संनिहिते हयानां यद्विधास्तव ।
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥८॥

सोऽहमेकमपत्यं वै जनयिष्यामि गालव ।
अस्यामेतं भवान् कामं संपादयतु मे वरम् ॥५॥

एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् ।
मम दत्तो वरः कश्चित् केनचिद्ब्रह्मवादिना ॥१०॥

प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि ।
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥११॥

नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि मे ।
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥१२॥

क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम ।
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥१३॥

एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा ।
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥१४॥

इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् ।
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥१५॥

प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च ।
समये देशकाले च लब्धवान् सुतमीप्सितम् ॥१६॥

ततो वसुमना नाम वसुभ्यो वसुमत्तरः ।
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥१७॥

अथ काले पुनर्धीमान् गालवः प्रत्युपस्थितः ।
उपसङ्गम्य चोवाच हर्यश्वं प्रीतमानसम् ॥१८॥

जातो नृप सुतस्तेऽयं बालो भास्करसंनिभः ।
कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ॥१९॥

हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे ।
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥२०॥

माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् ।
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वयात् ॥२१॥

कामत इच्छया योगबलेन कुमारी भूत्वा यौवनं परित्यज्येत्यर्थः ॥२१॥

त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान् द्विजः ।
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥२२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते षोडशाधिकशततमोऽध्यायः॥११६ ॥
सप्तदशाधिकशततमोऽध्यायः

गालय उवाच। महावीर्यो महीपालः काशीनामीश्वरः प्रभुः ।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥१॥

महावीर्य इति ॥१॥

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः ॥२॥

नारद उवाच। तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः ।
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥३॥

दिवोदास उवाच। श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज ।
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम ॥४॥

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् ।
मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥५॥

स एव विभवोऽस्माकमश्वानामपि गालव ।
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥६॥

तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः ।
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान् ॥७॥

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ।
स्वाहायां च यथा वह्निर्यथा शच्यां च वासवः ॥८॥

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः ।
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ॥९॥

यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥१०॥

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया ।
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ॥११॥

अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान् यथा ।
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥१२॥

रेणुकायां यथार्चीको हैमवत्यां च कौशिकः ।
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा ॥१३॥

यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः ।
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः॥१४॥

शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः ।
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ॥१५॥

जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया ।
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया ॥१६॥

वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः ।
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः ॥१७॥

तथा तु रममाणस्य दिवोदासस्य भूपतेः ।
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥१८॥

अथाजगाम भगवान् दिवोदासं स गालवः ।
समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥१९॥

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥२०॥

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् ।
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥२१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते सप्तदशाधिकशततमोऽध्यायः॥११७ ॥
अष्टादशाधिकशततमोऽध्यायः

नारद उवाच। तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात् सत्यसङ्गरा ॥१॥

तथेति ॥१॥

गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥२॥

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् ।
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥३॥

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च ।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ॥४॥

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् ।
एकतः श्यामकर्णानां देयं मह्यं चतुःशतम् ॥५॥

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे ।
यदि शक्यं महाराज क्रियतामविचारितम् ॥६॥

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन् पुत्रप्लवेन त्वमात्मानं चैव तारय ॥७॥

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः ।
न याति नरकं घोरं यथा गच्छन्त्यनात्मजाः ॥८॥

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥९॥

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान् ब्रह्मन् प्रवणं हि मनो मम ॥१०॥

प्रवणं पुत्रोत्पत्तौ तत्परम् ॥१०॥

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम ।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥११॥

अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ॥१२॥

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम ।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥१३॥

कामतो हि धनं राजा पारक्यं यः प्रयच्छति ।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥१४॥

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान् मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥१५॥

तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥१६॥

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥१७॥

कन्दरेषु च शैलानां नदीनां निर्झरेषु च ।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥१८॥

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च ।
वातायनविमानेषु तथा गर्भगृहेषु च ॥१९॥

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाऽभिविख्यातो यः स पार्थिवसत्तमः ॥२०॥

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च ।
कन्यां प्रयातंस्तां राजन् दृष्टवान् विनतात्मजम् ॥२१॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते अष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥
एकोनविंशत्यधिकशततमोऽध्यायः

नारद उवाच। गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् ।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥१॥

गालवमिति ॥१॥

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥२॥

सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः ।
प्रयत्नस्तेन कर्तव्यो नैष सम्पत्स्यते तव ॥३॥

पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम् ।
भार्यार्थे वरयत् कन्यामृचीकस्तेन भाषितः ॥४॥

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन् दीयतां मह्यं सहस्रमिति गालव ॥५॥

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः ।
अश्वतीर्थे हयान् लब्ध्वा दत्तवान् पार्थिवाय वै ॥६॥

इष्ट्वा ते पुण्डरकिणे दत्ता राज्ञा द्विजातिषु ।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ॥७॥

अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि सन्तारे हृतान्यासन् वितस्तया ॥८॥

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ॥९॥

विश्वामित्राय धर्मात्मन् षड्भिरश्वशतैः सह ।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम ॥१०॥

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ॥११॥

अश्वानां कांक्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥१२॥

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ॥१३॥

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते ।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥१४॥

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा ।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥१५॥

किमियं पूर्वमेवेह न दत्ता मम गालव ।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥१६॥

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ॥१७॥

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवी पुत्रमष्टकम् ॥१८॥

जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥१९॥

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ ।
गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् ।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ॥२१॥

जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः ।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ॥२२॥

तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ॥२३॥

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥२७॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते एकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९॥
विंशत्यधिकशततमोऽध्यायः

नारद उवाच। स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् ।
उपगम्याश्रमपदं गङ्गायमुनसङ्गमे ॥१॥

स इति । स तु राजा आश्रमपदमुपगम्य कर्तुकामः अभूदिति शेषः ॥१॥

गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥२॥

पर्यधावतां वरान्वेषणायेत्यर्थः ॥२॥

नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः ॥३॥

नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥४॥

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वांस्तान् वरं वृतवती वनम् ॥५॥

वनं वनवासम् ॥५॥

अवतीर्य रथात् कन्या नमस्कृत्य च बन्धुषु ।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥६॥

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥७॥

आत्मनः चित्तस्य लघुतां रागद्वेषादिमलराहित्येन सूक्ष्मार्थभेदने शीघ्रताम् ॥७॥

वैदूर्यांकुरकल्पानि मृदूनि हरितानि च ।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥८॥

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च ।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥९॥

वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥१०॥

व्याघ्राणां विप्रोषितं पर्यटनं येषु ॥१०॥

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥११॥

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः ।
बहुवर्षसहस्त्रायुर्युयुजे कालधर्मणा ॥१२॥

युयुजे योगं प्राप्तवान् कालधर्मणा मृत्युना ॥१२॥

पूरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥१३॥

नाहुषः ययातिः ॥१३॥

महीपते नरपतिर्ययातिः स्वर्गमास्थितः ।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥१४॥

बहुवर्षसहस्त्राख्ये काले बहुगुणे गते ।
राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु ॥१५॥

अवमेने नरान् सर्वान् देवानृषिगणांस्तथा ।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥१६॥

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥१७॥

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥१८॥

कर्मणा केन सिद्धोऽयं क्व वाऽनेन तपश्चितम् ।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥१९॥

एवं विचारयन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥२०॥

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥२१॥

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ॥२२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते ययातिमोहे विंशत्यधिकशततमोऽध्यायः ॥ १२०॥
एकविंशाधिकशततमोऽध्यायः

नारद उवाच। अथ प्रचलितः स्थानादासनाच्च परिच्युतः ।
कम्पितेनेव मनसा धर्षितः शोकवह्निना ॥१॥

अथेति ॥१॥

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।
विघूर्णन् स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥२॥

अदृश्यमानस्तान् पश्यन्नपश्यंश्च पुनः पुनः ।
शून्यः शून्येन मनसा प्रपतिष्यन् महीतलम् ॥३॥

किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥४॥

धर्मदूषणं पुण्यनाशकम् ॥४॥

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।
अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् ॥५॥

अथैत्य पुरुषः कश्चित् क्षीणपुण्यनिपातकः ।
ययातिमब्रवीद्राजन् देवराजस्य शासनात् ॥६॥

अतीव मद्दमत्तस्त्वं न कञ्चिन्नावमन्यसे ।
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ॥७॥

न च प्रज्ञायसे गच्छ पतस्वेत्ति तमब्रवीत् ।
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः ॥८॥

प्रज्ञायसे हीनतेजस्त्वेन अप्रकाशत्वात् ॥८॥

पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ।
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ॥९॥

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह ।
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ॥१०॥

शिबिरौशीनर इत्येकः ॥१०॥

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ।
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ॥११॥

ययातिरुपजिघ्रन् वै निपपात महीं प्रति ।
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीमिव ।
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥१२॥

एक इवशब्दः पादपूरणार्थः गङ्गां नदीमिव धूममयीं लेखामालम्ब्य निपपातेति सम्बन्धः ॥१२॥

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु ।
मध्ये निपतितो राजा लोकपालोपमेषु सः ॥१३॥

प्रतिबन्धुषु दौहित्ररूपेषु ॥१३॥

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।
पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये ॥१४॥

तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया ।
को भवान् कस्य वा बन्धुर्देशस्य नगरस्य वा ॥१५॥

बन्धुः पालयिता ॥१५॥

यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा ।
न हि मानुषरूपोऽसि को वाऽर्थः काङ्क्ष्यते त्वया ॥१६॥

ययातिरुवाच। ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः ।
पतेयं सत्स्विति ध्यायन् भवत्सु पतितस्ततः ॥१७॥

राजान ऊचुः। सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।
सर्वेषां नः ऋतुफलं धर्मश्च प्रतिगृह्यताम् ॥१८॥

ययातिरुवाच। नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् ।
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥१९॥

नारद उवाच। एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् ।
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥२०॥

किमागमनकृत्यं ते किं कुर्मः शासनं तव ।
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥२१॥

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा ।
पितरं समुपागच्छद्ययातिं सा ववन्द च ॥२२॥

स्पृष्ट्वा मूर्धनि तान् पुत्रांस्तापसी वाक्यमब्रवीत् ।
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ॥२३॥

इमे त्वां तारयिष्यन्ति दृष्टमेतत् पुरातने ।
अहं ते दुहिता राजन् माधवी मृगचारिणी ॥२४॥

पुरातने अनादिकालप्रवृत्ते वेदे ॥२४॥

मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ।
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ॥२५॥

तस्मादिच्छन्ति दौहित्रान् यथा त्वं वसुधाधिप ।
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ॥२६॥

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ।
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ॥२७॥

मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ।
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् ।
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥२८॥

अष्टभागेन अष्टमांशेन ॥२८॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते ययातिस्वर्गभ्रंशे एकविंशाधिकशततमोऽध्यायः॥ १२१ ॥
द्वाविंशत्यधिकशततमोऽध्यायः

नारद उवाच। प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः ।
समारुरोह नृपतिरस्पृशन् वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥१॥

प्रत्यभिज्ञातेति ॥१॥

दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत् पदा ॥२॥

ततो वसुमनाः पूर्वमुच्चैरुच्चारयन् वचः ।
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा॥३॥

प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥४॥

यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥५॥

आधाने अग्न्याधानोपलक्षिते श्रौतधर्मे ॥५॥

ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥६॥

प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः ।
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ॥७॥

शिबिरौशीनरो धीमानुवाच मधुरां गिरम् ।
यथा बालेषु नारीषु वैहार्येषु तथैव च ॥८॥

वैहार्येषु परिहासेन लालनीयेषु स्यालसम्बन्ध्यादिषु ॥८॥

सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥९॥

यथा प्राणांश्च राज्यं च राजन् कामसुखानि च ।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥१०॥

यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ॥११॥

अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः ।
अनेकशतयज्वानं नाहुषं प्राप्य धर्मवित् ॥१२॥

शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥१३॥

न मे रत्नानि न धनं न तथाऽन्ये परिच्छदाः ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥१४॥

यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥१५॥

एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥१६॥

दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः ।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ॥१७॥

राजान ऊचुः। राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन् दिवमारोह पार्थिव ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते ययातिस्वर्गारोहणे द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२ ॥
त्रयोविंशत्यधिकशततमोऽध्यायः

नारद उवाच। सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।
अभ्यनुज्ञाय दौहित्रान् ययातिर्दिवमास्थितः ॥१॥

सद्भिरिति ॥१॥

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना ।
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥२॥

वर्षेण वृष्ट्या ॥२॥

अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् ।
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥३॥

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ॥४॥

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।
अर्चितश्चोत्तमार्धेण दैवतैरभिनन्दितः ॥५॥

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥६॥

चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा ।
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ॥७॥

चतुष्पादः तपो-यज्ञ-ज्ञान-दानवान् । अहिंसा सत्यमस्तेयमानृण्यं चेति वा पादाः ॥७॥

पुनस्त्वयैव राजर्षे सुकृतेन विघातितम् ।
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ॥८॥

सुकृतेन सम्यक्संपादितेन कर्मणा। मया समोऽन्यो नास्तीति वाक्प्रयोगेण । तमसा क्रोधेन ॥८॥

येन त्वां नाभिजानन्ति ततोऽज्ञातोऽसि पातितः ।
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ॥९॥

नाभिजानन्ति श्रेष्ठोऽयमिति ना‌ङ्गीकुर्वन्ति । ततो हेतोः अज्ञातः अकीर्त्या तिरोभूतः ॥९॥

स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥१०॥

ययातिरुवाच। भगवन् संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि ।
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥११॥

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैरर्जितं मे महत्फलम् ॥१२॥

कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।
भगवन् वेत्थ लोकांश्च शाश्वतान् मम निर्मितान् ।
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ॥१३॥

पितामह उवाच। बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥१४॥

तदनेनैव दोषेण क्षीणं येनासि पातितः ।
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवालिमिः ॥१५॥

नायं मानेन राजर्षे न बलेन न हिंसया ।
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥१६॥

नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः ।
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ॥१७॥

पतनारोहणामिदं कथयिष्यन्ति ये नराः ।
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥१८॥

शाठ्यं विश्वासघातः माया अद्भुतार्थप्रदर्शनरञ्जनपूर्वकं परवञ्चनम् ॥१८॥

नारद उवाच। एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।
निर्बध्नतातिमात्रं च गालवेन महीपते ॥१९॥

श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम् ।
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥२०॥

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥२१॥

ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यज्जुहोति ।
न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता ॥२२॥

पापिष्ठत्वेन त्वत्कृतं पापं त्वयैव भोक्तव्यं न तु भ्रात्रादिभिरित्याशयेनाह- ददातीति । किं तु कर्तैव तदाप्नोति ॥२२॥

इदं महाख्यानमनुत्तमं हितं बहुश्रुतानां गतरोषरागिणाम् ।
समीक्ष्य लोके बहुधा प्रधारितं त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥२३॥

बहुधा नानाशास्त्रयुक्त्यादिभिः प्रधारितं निश्चितम् ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३ ॥
चतुर्विंशाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। भगवन्नेवमेवैतद्यथा वदसि नारद ।
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥१॥

भगवन्निति ॥१॥

वैशम्पायन उवाच। एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥२॥

न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ॥३॥

अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ।
न शृणोति महाबाहो वचनं साधुभाषितम् ॥४॥

गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥५॥

स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
अनुशाधि दुरात् मान स्वयं दुर्योधनं नृपम् ॥६॥

सुहृत्कार्यं तु सुमहत् कृतं ते स्याज्जनार्दन ।
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ॥७॥

अभ्यावृत्य पुनः पुनः ॥७॥

अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ।
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम ॥८॥

शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ।
महाप्रज्ञ कुले जातः साध्वेतत् कर्तुमर्हसि ॥९॥

श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः ।
दौष्कुलेया दुरात्मानो नुशंसा निरपत्रपाः ॥१०॥

त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ।
धर्मार्थयुक्ता लोकेऽस्मिन् प्रवृत्तिर्लक्ष्यते सताम् ॥११॥

असतां विपरीता तु लक्ष्यते भरतर्षभ ।
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥१२॥

अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥१३॥

तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ।
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥१४॥

अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ।
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिबहुश्रुतैः ॥१५॥

सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ।
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥१६॥

पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥१७॥

अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः ।
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप ॥१८॥

शमे शर्म भवेत्तत सर्वस्य जगतस्तथा ।
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् ।
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥१९॥

शास्त्रे शासने ॥१९॥

एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् ॥२०॥

रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः ।
समात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ॥२१॥

श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥२२॥

किंपाकं महाकालफलम् ॥२२॥

यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥२३॥

यस्तु निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते ।
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥२५॥

अर्थकामस्य इष्टार्थिनः ॥२५॥

योऽर्थकामस्य वचनं प्रातिकूल्यांन्न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥२५॥

अर्थकामस्य इष्टार्थिनः ॥२५॥

सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
शोचन्ते व्यसने तस्य सुहृदो न चिरादिव ॥२६॥

मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥२७॥

योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम् ।
परान् वृणीते स्वान् द्वेष्टि तं गौस्त्यजति भारत ॥२८॥

स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि ।
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥२९॥

को हि शक्रसमान् ज्ञातीनतिक्रम्य महारथान् ।
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥३०॥

जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥३१॥

मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशखिनः ॥३२॥

उपचरिताः प्रतारिताः ॥३२॥

त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षम ।
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥३३॥

त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः ॥३४॥

पृथक्च विनिविष्टानां धर्मं धीरोऽनुरुध्यते ।
मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते ॥३५॥

अर्थं कलिं कलहहेतुम् ॥३५॥

इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ॥३६॥

अनुपायेन हानोपायेन ॥३६॥

कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥३७॥

उपायं धर्ममेवाहुस्त्रिवर्गस्य विशाम्पते ।
लिप्यमानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥३८॥

स त्वं तातानुपायेन लिप्स्यसे भरतर्षभ ।
आधिराज्यं महद्दीपं प्रथितं सर्वराजसु ॥३९॥

आत्मानं तक्षति ह्येष वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु मिथ्या राजन् प्रवर्तते ॥४०॥

छिन्द्यात् लोभादिना दूषयेत् ॥४०॥

न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत् पराभवम् ।
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः ।
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥४१॥

अप्यन्यं प्राकृतं किञ्चित् किमुतान् पाण्डवर्षभान् ।
अमर्षवशमापन्नो न किञ्चिद्बुध्यते जनः ॥४२॥

छियते ह्याततं सर्वं प्रमाणं पश्य भारत ।
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥४३॥

छिद्यते प्रमाणमार्गात् च्युतो भवतीत्यर्थः । प्रमाणं लोकवेदप्रसिद्धम्। दुर्जनात् सङ्गिनः पाण्डवैः सङ्गतं श्रेयः ॥४३॥

तैर्हि संप्रीयमाणस्त्वं सर्वान् कामानवाप्स्यसि ।
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥४४॥

निर्मितां वशीकरणेनोत्पादिताम् ॥४४॥

पाण्डवान् पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ।
दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥४५॥

एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥४६॥

विक्रमे चाप्यपर्याप्ताः पाण्डवान् प्रति भारत ।
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥४७॥

क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ।
इदं सन्निहितं तात समग्रं पार्थिवं बलम् ॥४८॥

अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥४९॥

अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ।
अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥५०॥

दृश्यतां वा पुमान् कश्चित् समग्रे पार्थिवे बले ।
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥५१॥

किं ते जनक्षयेणेह कृतेन भरतर्षम ।
यस्मिञ्जिते जितं तत्स्यात् पुमानेकः स दृश्यताम् ॥५२॥

यस्मिन्नर्जुने जिते सति ते तव जितं जयः स्यात् ॥५२॥

यः स देवान् सगन्धर्वान् सयक्षासुरपन्नगान् ।
अजयत् खाण्डवप्रस्थे कस्तं युध्येत मानवः ॥५३॥

तथा विराटनगरे श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥५४॥

युद्धे येन महादेवः साक्षात् सन्तोषितः शिवः ।
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
आशंससीह समरे वीरिमर्जुनमूर्जितम् ॥५५॥

मद्द्वितीयं पुनः पार्थं कः प्रार्थायितुमर्हति ।
युद्धे प्रतीपमायान्तमपि साक्षात् पुरन्दरः ॥५६॥

बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्त्रिदिवाद्देवान् योऽर्जुनं समरे जयेत् ॥५७॥

पश्य पुत्रांस्तथा भ्रातॄन् ज्ञातीन् सम्बन्धिनस्तथा ।
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥५८॥

अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥५९॥

त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥६०॥

मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥६१॥

पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥६२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भगवद्वाक्ये चतुर्विंशाधिकशततमोऽध्यायः॥१२४ ॥
पञ्चविंशाधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् ।
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षम ॥१॥

तत इति ॥१॥

कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता ।
अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः ॥२॥

अकृत्वा वचनं तात केशवस्य महात्मनः ।
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ॥३॥

धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः ।
तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥४॥

मा नीनशः मा नाशय ॥४॥

ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु ।
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ॥५॥

आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम् ।
अहमित्यनया बुद्ध्या जीविताद्भ्रंशयिष्यसि ॥६॥

अतिक्रामन् केशवस्य तथ्यं वचनमर्थवत् ।
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ॥७॥

मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः ।
मातरं पितरं चैष मा मज्जीः शोकसागरे ॥८॥

कुलघ्नो मा भूरिति शेषः ॥८॥

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनामदं वचः ।
अमर्षवशमापन्नं निःश्वसन्तं पुनःपुनः ॥९॥

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः ।
तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप ॥१०॥

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ ।
आहतुस्त्वां हितं वाक्यं तज्जुषस्व नराधिप ॥११॥

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः ।
माधवं बुद्धिमोहेन माऽवमंस्थाः परंतप ॥१२॥

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कार्हिचित् ।
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥१३॥

एते कर्णादयः कृत्याय जयाय परेषामस्मदादीनाम् ॥१३॥

मा जीघनः प्रजाः सर्वाः पुत्रान् भ्रातॄंस्तथैव च ।
वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान् ॥१४॥

मा जीघनः मा घातय । यत्र तान् अजेयान् विद्धि ॥१४॥

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः ।
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥१५॥

यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः ।
कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः ।
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ॥१६॥

सुखं हितावहं प्रियं च न्यायोपेतत्वात् तेन सुखप्रियेण प्रोक्तेन वचनेन तव मूढस्य किं न किमपीत्यर्थः ॥१६॥

एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ।
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥१७॥

वैशम्पायन उवाच। तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् ।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥१८॥

दुर्योधन न शोचामि त्वामहं भरतर्षभ ।
इमौ तु वृद्धी शोचामि गान्धारीं पितरं च ते ॥१९॥

यावानर्थौ चरिष्येते त्वया नाथेन दुर्हृदा ।
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ ॥२०॥

भिक्षुकौ विचरिष्येत शोचन्तौ पृथिवीमिमाम् ।
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥२१॥

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥२२॥

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना ।
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥२३॥

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा ।
इष्टान् सर्वानभिप्रायान् प्राप्स्यामः सर्वराजसु ॥२४॥

सुसंहतः केशवेन तात गच्छ युधिष्ठिरम् ।
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम् ॥२५॥

सुसंहतः सुष्ठु एकीभूतः ॥२५॥

वासुदेवेन तीर्थेन तात गच्छस्व संशमम् ।
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥२६॥

तीर्थेन उपायेन ॥२६॥

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥२७॥

अपराभवो जयः ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीष्मादिवाक्ये पञ्चविंशाधिकशततमोऽध्यायः॥१२५ ॥
षड्विंशाधिकशततमोऽध्यायः

वैशम्पायन उवाच। धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥१॥

धृतराष्ट्रवच इति ॥१॥

यावत् कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ॥२॥

मेधाग्नौ संग्रामाग्नौ । मेधो यज्ञः ‘यान्येव संग्रामनामानि तानि यज्ञनामानि’ इति यास्कः ॥२॥

यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः ।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ॥३॥

वैशसं वैरम् ॥३॥

यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः ।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥४॥

यावन्न चरते मार्गान् पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत् संशाम्य पाण्डवैः ॥५॥

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ।
गदया वीरघातिन्या फलानीव वनस्पतेः ॥६॥

कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥७॥

विराटश्च शिखण्डी च शैषुपालिश्च दंशिताः ।
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ॥८॥

कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ।
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् ॥९॥

गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ।
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरःसु यावद्योधानां महेष्वासैर्महेषवः ॥१०॥

उरस्सु निपात्यन्त इति उत्तरेण सम्बन्धः ॥१०॥

कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥११॥

अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥१२॥

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ॥१३॥

रत्नौषधिसमेतेन रत्नाङ्गलितलेन च ।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥१४॥

रत्नयुक्तौषधिवद्वेष्टयतीति रत्नौषधिरत्नांगुलीयकम् । रत्नबन्धसमेतेनेति पाठः स्वच्छः । ‘आबन्धो दृढबन्धे स्यात् प्रेमाल‌ङ्कारयोरपि’ इति विश्वः । रत्नालङ्‌कारेण रत्नैः प्रेम्णा च वा समेतेनेति भावः । रत्नवदारक्तानि अङ्गुलितलानि यस्य तेन रत्नाङ्गुलितलेन ॥१४॥

शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः ।
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ॥१५॥

स्वजानः वक्षसि मिलितः । स्वंज परिष्वङ्गे ॥१५॥

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः ।
मूर्ध्नि तान् समुपाघ्राय प्रेम्णाभिवद पार्थिव ॥१६॥

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।
यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ॥१७॥

घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥१८॥

सर्वसंपत् परस्परं प्रीतिः ॥१८॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीष्मद्रोणवाक्ये षड्विंशाधिकशततमोऽध्यायः॥१२६ ॥
सप्तविंशाधिकशततमोऽध्यायः

वैशम्पायन उवाच। श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥१॥

श्रुत्वेति ॥१॥

प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव ।
मामेव हि विशेषेण विभाष्य परिगर्हसे ॥२॥

प्रसमीक्ष्य विचार्य विभाष्य परुषमुक्त्वा ॥२॥

भक्तिवादेन पार्थानामकस्मान्मधुसूदन ।
भवान् गर्हयते नित्यं किं समीक्ष्य बलाबलम् ॥३॥

भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः ।
मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम् ॥४॥

न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः ।
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥५॥

व्यभिचारमन्याय्यम् ॥५॥

न चाहं कञ्चिदत्यर्थमपराधमरिन्दम ।
विचिन्तयन् प्रपश्यामि सुसूक्ष्ममपि केशव ॥६॥

प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन ।
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥७॥

प्रियाभ्युपगते प्रीत्या स्वीकृते ॥७॥

यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः ।
तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन ॥८॥

अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः ।
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥९॥

केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह ।
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥१०॥

किमस्माभिः कृतं तेषां कस्मिन् वा पुनरागसि ।
धार्तराष्ट्रान् जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥११॥

न चापि वयमुग्रेण कर्मणा वचनेन वा ।
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम् ॥१२॥

न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥१३॥

न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन ।
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥१४॥

स्वधर्ममनुपश्यन्तो यदि माधव संयुगे ।
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत् ॥१५॥

मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।
यच्छयीमहि संग्रामे शरतल्पगता वयम् ॥१६॥

ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे ।
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव ॥१७॥

कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित् ॥१८॥

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित् ॥१९॥

उद्यच्छेदेव उद्यमं कुर्यादेव अपर्वणि अप्रस्तावे । ‘पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे’ इति विश्वः ॥१९॥

इति मातङ्गवचनं परीप्सन्ति हितेप्सवः ।
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥२०॥

मातङ्गः मुनिः ॥२०॥

अचिन्तयन् कञ्चिदन्यं यावज्जीवं तथाऽऽचरेत् ।
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥२१॥

राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत् ।
न स लभ्यः पुनर्जातु मयि जीवति केशव ॥२२॥

यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन ।
न्यरतशस्त्रा वयं ते वाऽप्युपजीवाम माधव ।
अप्रदेयं पुरा दत्तं राज्यं परवतो मम ॥२३॥

न्यस्तशस्त्राः त्यक्तक्षत्रियधर्माः उपजीवाम भिक्षुकवत्सिद्धमन्नं भोक्ष्याम इत्यर्थः ॥२३॥

अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन ।
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ॥२४॥

घ्रियमाणे महाबाहौ मयि सम्प्रति केशव ।
यावद्धि तीक्ष्णया सूच्या विध्येदग्रेण केशव॥ तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान् प्रति ॥२५॥

इति श्रीमहाभारते उद्योगपर्वाणि भगवद्यानपर्वणि दुर्योधनवाक्ये सप्तविंशाधिकशततमोऽध्यायः॥१२७ ॥
अष्टाविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः प्रशम्य दाशार्हः क्रोधपर्याकुलेक्षणः ।
दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि ॥१॥

तत इति । प्रशम्य विचार्य ॥१॥

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि ।
स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥२॥

यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः ।
पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ॥३॥

श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् ।
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥४॥

कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।
अथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥५॥

अक्षद्यूतं महाप्राज्ञ सतां मतिविनाशनम् ।
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥६॥

तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् ।
असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ॥७॥

कश्चान्यो भ्रातृभार्यां वै विप्रकर्तुं तथाऽर्हति ।
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया ॥८॥

कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी ।
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥९॥

जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि ।
दुःशासनेन कौन्तयाः प्रव्रजन्तः परंतपाः ॥१०॥

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।
स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ॥११॥

नृशंसानामनार्याणां पुरुषाणां च भाषणम् ।
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥१२॥

सह मात्रा प्रदग्धुं तान् बालकान् वारणावते ।
आस्थितः परमं यत्नं न समृद्धं च तत्तव ॥१३॥

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥१४॥

विषेण सर्वबन्धैश्च यतिताः पाण्डवास्त्वया ।
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥१५॥

एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥१६॥

यच्चेभ्यो याचमातेभ्यः पित्र्यमंशं न दित्ससि ।
तञ्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः ॥१७॥

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् ।
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥१८॥

विप्रतिपद्यसे विवादं कुरुषे मात्रादिभिः सह ॥१८॥

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च ।
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ॥१९॥

शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः ।
न च रोचयसे राजन् किमन्यद्बुद्धिलाघवात् ॥२०॥

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः ।
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥२१॥

वैशम्पायन उवाच। एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।
दुःशासन इदं वाक्यमब्रवीत् कुरुसंसदि ॥२२॥

न चेत्सन्धास्यसे राजन् स्वेन कामेन पाण्डवैः ।
बद्ध्वा किल त्यां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥२३॥

वैकर्तनं त्वां च मां च त्रीनेतान् मनुजर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥२४॥

भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥२५॥

विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् ।
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥२६॥

सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः ।
अशिष्टवदमर्यादो मानी मान्यावमानिता ॥२७॥

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् ।
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥२८॥

सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह ।
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥२९॥

धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते ।
हसन्ति व्यसने तस्य दुर्हृदो न चिरादिव ॥३०॥

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायकृत् ।
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥३१॥

कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन ।
सर्वे ह्यनुसृता मोहात् पार्थिवाः सह मन्त्रिभिः ॥३२॥

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।
भीष्मद्रोणमुखान् सर्वानभ्यभाषत वीर्यवान् ॥३३॥

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ॥३४॥

तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः ।
क्रियमाणे भवेच्छ्रेयस्तत् सर्वं शृणुतानघाः ॥३५॥

प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः ।
भवतामानुकूल्येन यदि रोचेत भारताः ॥३६॥

भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् ।
जीयतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः ॥३७॥

उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः ।
ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥३८॥

आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥३९॥

कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः ।
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ॥४०॥

अपि चाप्यवदद्राजन् परमेष्ठी प्रजापतिः ।
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥४१॥

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।
अब्रवीत् सृष्टिमान् देवो भगवाँल्लोकभावनः ॥४२॥

पराभविष्यन्त्यसुरा दैतेया दानवैः सह ।
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ॥४३॥

भविष्यन्ति जेषन्ति ॥४३॥

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अस्मिन् युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम् ॥४४॥

इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।
वरुणाय प्रयच्छैतान् बद्ध्वा दैतेयदानवान् ॥४५॥

एवमुक्तस्ततो धर्मो नियोगात् परमेष्ठिनः ।
वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान् ॥४६॥

तान् बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥४७॥

तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छथ ॥४८॥

त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥४९॥

राजन् दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥५०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णवाक्ये अष्टाविंशत्यधिकशततमोऽध्यायः॥ १२८ ॥
ऊनत्रिंशाधिकशततमोऽध्यायः

वैशम्पायन उवाच। कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः ।
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥१॥

कृष्णस्येति ॥१॥

गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् ।
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥२॥

यदि साऽपि दुरात्मानं शमयेद्दुष्टचेतसम् ।
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ॥३॥

अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् ।
दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ॥४॥

अपि नो व्यसनं घोरं दुर्योधनकृतं महत् ।
शमयेच्चिररात्राय योगक्षेमवदव्ययम् ॥५॥

चिररात्राय योगक्षेमवत् बहुकालमप्राप्तस्य सुखस्य प्राप्तिः प्राप्तस्य संरक्षणं च निर्वहेदित्यर्थः ॥५॥

राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् ।
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥६॥

धृतराष्ट्र उवाच। एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥७॥

अशिष्टवदमर्यादः पापैः सह दुरात्मवान् ।
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥८॥

वैशम्पायन उवाच। सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी ।
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥९॥

गान्धार्युवाच ।
आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् ।
न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ॥१०॥

आप्तुमाप्तं तथापीदमविनीतेन सर्वथा ।
त्वं ह्येवात्र भृशं गर्हो धृतराष्ट्र सुतप्रियः ॥११॥

यो जानन् पापतामस्य तत्प्रज्ञामनुवर्तसे ।
स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः ॥१२॥

अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ।
राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः ॥१३॥

दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ।
कथं हि स्वजने भेदमुपेक्षेत महीपतिः ।
भिन्नं हि स्वजनेन त्वां प्रहसिष्यन्ति शत्रवः ॥१४॥

या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥१५॥

वैशम्पायन उवाच। शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् ।
मातुश्च वचनात् क्षत्ता सभां प्रावेशयत् पुनः ॥१६॥

स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् ।
अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः ॥१७॥

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ॥१८॥

दुर्योधन निबोधेदं वचनं मम पुत्रक ।
हितं ते सानुबन्धस्य तथाऽयत्यां सुखोदयम् ॥१९॥

आयत्यां परिणामे ॥१९॥

दुर्योधन यदाह त्वां पिता भरतसत्तम ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥२०॥

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥२१॥

अपचितिः पूजा ॥२१॥

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।
अवाप्तुं रक्षितुं वाऽपि मोक्तुं भरतसत्तम ॥२२॥

न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् ।
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥२३॥

दीर्घमन्तरं चिरकालम् ॥२३॥

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥२४॥

लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः ।
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥२५॥

इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥२६॥

महद्राज्यं ‘महद्राज्यविशालयोः’ इति विश्वः ॥२६॥

अविधेयानि हीमानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥२७॥

अविधेयानि अवशीकृतानि व्यापादयितुं हन्तुम् ॥२७॥

अविजित्य य आत्मानममात्यान् विजिगीषते ।
अमित्रान् वाऽजितामात्यः सोऽवशः परिहीयते ॥२८॥

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥२९॥

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ॥३०॥

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥३१॥

क्षुद्राक्षेण सूक्ष्मछिद्रेण ॥३१॥

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् ।
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥३२॥

अनुपरागस्य अनासक्तस्यापि कामक्रोधौ स्वर्गनिरोधकावित्यर्थः ॥३२॥

कामं क्रोधं च लोमं च दंभं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ॥३३॥

अभिजायते शास्तीत्यर्थः ॥३३॥

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥३४॥

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥३५॥

यः कामेन अभिभूतः क्रोधाद्वा अभिभूतः मिथ्या कपटेन वाऽभिभूतः प्रतिपद्यते ईप्सितार्थादीन् तस्य सहाया न भवन्तीत्यर्थः ॥३५॥

एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥३६॥

यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः ।
आहुतस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥३७॥

प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् ।
प्रसन्नो हि सखाय स्यादुभयोरेव केशवः ॥३८॥

सुहृदामर्थकामानां यो न तिष्ठति शासने ।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥३९॥

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् ।
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥४०॥

भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च ।
दत्तोंशः पाण्डुपुत्राणां मेदाद्भीतैररिन्दम ॥४१॥

अंशो भागः ॥४१॥

तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि ।
यद्भङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ॥४२॥

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ॥४३॥

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।
सुहृदां वचने तिष्ठन् यशः प्राप्स्यसि भारत ॥४४॥

श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः ।
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥४५॥

निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् ।
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥४६॥

अलमङ्ग निकारोऽयं त्रयोदश समाः कृतः ।
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥४७॥

निकारः अपकारः समाः वर्षाणि ॥४७॥

न चैष शक्तः पार्थानां यस्त्वमर्थमभीप्ससि ।
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥४८॥

यः त्वं पार्थानामर्थमभीप्ससि स एष त्वं न शक्तः तदर्थापहारायेत्यर्थः । नापि सूतपुत्रादयः शक्ताः॥४८॥

भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये ।
धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥४९॥

अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।
एषा हि पृथिवी कृत्स्ना मागमत्त्वत्कृते वधम् ॥५०॥

मा गमत् मा गच्छतु ॥५०॥

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः ।
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥५१॥

समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् ।
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥५२॥

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥५३॥

न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते ।
तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥५४॥

इति श्रीमहाभारते उद्योगपर्वाणि भगवद्यानपर्वणि गान्धारीवाक्ये ऊनत्रिंशाधिकशततमोऽध्यायः॥ १२९ ॥
त्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।
पुनः प्रतस्थे संरम्भात् सकाशमकृतात्मनाम् ॥१॥

तत्त्विति ॥१॥

ततः सभाया निर्गम्य मन्त्रयामास कौरवः ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥२॥

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥३॥

पुराऽयमस्मान् गृह्णाति क्षिप्रकारी जनार्दनः ।
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥४॥

वयमेव हृषीकेशं निगृह्णीम बलादिव ।
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥५॥

वैरोचनिं बलिम् ॥५॥

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥६॥

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।
अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम् ॥७॥

निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ।
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् ॥८॥

केशवं बद्ध्वा रिपून्योत्स्यामह इत्युत्तरश्लोकेनान्वयः ॥८॥

क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ।
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् ॥९॥

इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ।
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ॥१०॥

अब्रवीत् कृतवर्माणं क्षिप्रं योजय वाहिनीम् ।
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ॥११॥

यावदाख्याम्यहं चैतत् कृष्णायाक्लिष्टकारिणे ।
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ॥१२॥

आचष्ट तमभिप्रायं केशवाय महात्मने ।
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ॥१३॥

तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ।
धर्मादार्थाच्च कामाच्च कर्म साधुविगर्हितम् ॥१४॥

कर्म दूतनिग्रहाख्यम् ॥१४॥

मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन ।
पुरा विकुर्वते मूढाः पापात्मानः समागताः ॥१५॥

विकुर्वते विकारं कलहाख्यं कुर्वते ॥१५॥

धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ।
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः ॥१६॥

पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ।
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ॥१७॥

धृतराष्ट्रं महाबाहुमब्रवीत् कुरुसंसदि ।
राजन् परीतकालास्ते पुत्राः सर्वे परंतप ॥१८॥

अशक्यमयशस्यं च कर्तुं कर्म समुद्यताः ।
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ॥१९॥

अशक्यं न च कर्तुं शक्यम् ॥१९॥

निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ।
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् ॥२०॥

वासवानुजं विष्णुं त्रिविक्रममित्यर्थः ॥२०॥

आसाद्य न भविष्यन्ति पतङ्गा इव पावकम् ।
अयमिच्छन् हि तान् सर्वान् युध्यमानान् जनार्दनः ॥२१॥

न भविष्यन्ति मरिष्यन्ति ॥२१॥

सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ।
न त्वयं निन्दितं कर्म कुर्यात् पापं कथञ्चन ॥२२॥

न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ।
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ॥२३॥

धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ।
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ॥२४॥

एते वा मामहं वैनाननुजानीहि पार्थिव ।
एतान् हि सर्वान् संरब्धान्नियन्तुमहमुत्सहे ॥२५॥

न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन ।
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान् हास्यन्ति ते सुताः ॥२६॥

पाण्डवार्थे पाण्डवधने लुभ्यन्तः लोभं कुर्वन्तः ॥२६॥

एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ।
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत ॥२७॥

निगृह्य राजन् पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ।
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ॥२८॥

इदं तु कर्म कर्तुमिति शेषः ॥२८॥

सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ।
एष दुर्योधनो राजन् यथेच्छति तथाऽस्तु तत् ॥२९॥

अहं तु सर्वास्तनयाननुजानामि ते नृप ।
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥३०॥

सहमित्रं सहामात्यं ससोदर्यं सहानुगम् ।
शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥३१॥

पन्थानमवतारयितुं सत्पथे निवेशयितुम् ॥३१॥

ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत् सभाम् ।
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥३२॥

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ॥३३॥

नृशंस पापभूषिष्ठ क्षुद्रकर्मसहायवान् ।
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥३४॥

अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।
यथा त्वादृशको मूढो व्यवस्येत् कुलपांसनः ॥३५॥

त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥३६॥

यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥३७॥

देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः ।
न सोढुं समरे शक्यस्तं न बुद्ध्यसि केशवम् ॥३८॥

दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात्॥३९॥

इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत् ।
दुर्योधनमभिप्रेत्य धार्तराष्ट्रममर्षणम् ॥४०॥

विदुर उवाच। दुर्योधन निबोधेदं वचनं मम साम्प्रतम् ।
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः ।
शिलावर्षेण महता छादयामास केशवम् ॥४१॥

ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।
गृहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ॥४२॥

प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥४३॥

अनेकयुगवर्षायुर्निहत्य नरकं मृधे ।
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ॥४४॥

निर्मोचने षट्सहस्राः पाशैर्बद्धा महासुराः ।
गृहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥४५॥

निर्मोचने नगरविशेषे ॥४५॥

अनेन हि हता बाल्ये पूतना शकुनी तथा ।
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥४६॥

अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः ।
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥४७॥

जरासन्धश्च वक्त्रश्च शिशुपालश्च वीर्यवान् ।
बाणश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥४८॥

वरुणो निर्जितो राजा पावकश्चामितौजसा ।
पारिजातं च हरता जितः साक्षाच्छचीपतिः॥४९॥

एकार्णवे च स्वपता निहतौ मधुकैटभौ ।
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥५०॥

अयं कर्ता न क्रियते कारणं चापि पौरुषे ।
यद्यदिच्छेदयं शौरिस्तत्तत् कुर्यादयत्नतः ॥५१॥

तं न बुद्ध्यसि गोविन्दं घोरविक्रममच्युतम् ।
आशीविषमिव क्रुद्धं तेजोराशिमनिन्दितम् ॥५२॥

प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् ।
पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि ॥५३॥

इति श्रीमहामारते उद्योगपर्वणि भगवद्यानपर्वणि विदुरवाक्ये त्रिंशदधिकशततमोऽध्यायः॥१३०॥
एकत्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा ।
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥१॥

विदुरेणेति ॥१॥

एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥२॥

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥३॥

एवमुक्त्वा जहासोच्चै केशवः परवीरहा ।
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ॥४॥

अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ।
अस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥५॥

लोकपाला भुजेष्वासन्नग्निरास्यादजायत ।
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि॥६॥

मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।
बभूवुश्चैकरूपाणि यक्षगन्धर्वरक्षसाम् ॥७॥

प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ ।
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥८॥

भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः ।
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ॥९॥

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।
शङ्ख-चक्र-गदा-शक्ति-शार्ङ-लाङ्गल-नन्दकाः ॥१०॥

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥११॥

नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः ।
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥१२॥

रोमकूपेषु च तथा सूर्यस्येव मरीचयः ।
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ॥१३॥

न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ।
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् ॥१४॥

महामतिं धृतराष्ट्रम् ॥१४॥

सञ्जयं च महाभागमृषींश्चैव तपोधनान् ।
प्रादात्तेषां स भगवान् दिव्यं चक्षुर्जनार्दनः ॥१५॥

तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥१६॥

धृतराष्ट्र उवाच। त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः ।
तस्मात्त्वं यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥१७॥

भगवन् मम नेत्राणामन्तर्धानं वृणे पुनः ।
भवन्तं द्रष्टुमिच्छामि नान्यं द्रष्टुमिहोत्सहे ॥१८॥

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥१९॥

अदृश्यमाने इतरैरिति शेषः ॥१९॥

तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी ।
लब्धवान् वासुदेवाच्च विश्वरूपदिदृक्षया ॥२०॥

लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः ।
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥२१॥

चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।
विस्मयं परमं जग्मुः पार्थिवा भरतर्षम ॥२२॥

ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् ।
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥२३॥

ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च ।
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥२४॥

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।
तस्मिन् कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥२५॥

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ॥२६॥

अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥२७॥

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हेमजालविचित्रेण लघुना मेघनादिना ॥२८॥

सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥२९॥

वरूथिना रथगुप्तिमता ॥२९॥

तथैव रथमास्थाय कृतवर्मा महारथः ।
वृष्णीनां संमतो वीरो हार्दिक्यः समदृश्यत ॥३०॥

उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् ।
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥३१॥

यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन ।
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ॥३२॥

कुरूणां शममिच्छन्तं यतमानं च केशव ।
विदित्यैतामवस्थां मे नाभिशंङ्कितुमर्हसि ॥३३॥

न मे पापोऽस्त्यभिप्रायः पाण्डवान् प्रति केशव ।
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥३४॥

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥३५॥

वैशम्पायन उवाच। ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥३६॥

प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥३७॥

मन्दो दुर्योधनः ॥३७॥

वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।
आपृच्छे भवतः सर्वान् गमिष्यामि युधिष्ठिरम् ॥३८॥

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ ।
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥३९॥

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥४०॥

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
कुरुणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥४१॥

किङ्किणीकं क्षुद्रघण्टिकाजालं तद्वता किङ्किणीकिना ॥४१॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि विश्वरूपदर्शने एकत्रिंशदधिकशततमोऽध्यायः॥१३१ ॥
द्वात्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥१॥

प्रविश्येति ॥१॥

वासुदेव उवाच। उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् ।
ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान् ॥२॥

कालपक्वमिदं सर्वं सुयोधनवशानुगम् ।
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान् प्रति ॥३॥

किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ।
तब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ॥४॥

कुन्त्युवाच ।
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् ।
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥५॥

भूयान् पृथ्वीपालनजो धर्मः ॥५॥

श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः ।
अनुवाकहताबुद्धिर्धर्ममेवैकमीक्षते ॥६॥

श्रोत्रियस्य वेदाध्यायिनः मन्दकस्य अर्थज्ञानशून्यस्य अनुवाकेन अत्यन्तं वेदाक्षरावृत्त्या हता नष्टा॥६॥

अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा ।
बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः ॥७॥

क्रूराय कर्मणे नित्यं प्रजानां परिपालने ।
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ॥८॥

मुचुकुन्दस्य राजर्षेरददत् पृथिवीमिमाम् ।
पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान् ॥९॥

बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ।
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥१०॥

मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् ।
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः ॥११॥

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा विन्देत भारत ॥१२॥

राजा चरति चेद्धर्मं देवत्यायैव कल्पते ।
स चेदधर्मं चरति नरकायैव गच्छति ॥१३॥

दण्डनीतिश्च धर्मेभ्यश्चातुर्वर्ण्यं नियच्छति ।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥१४॥

दण्डनीतिः स्वामिना प्रयुक्तेति सम्बन्धः । धर्मेभ्यः धर्मार्थं नियच्छति निर्बन्धं करोति दण्डनीतिरेव॥१४॥

दण्डनीत्यां यदा राजा सम्यक् कार्त्स्न्येन वर्तते ।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥१५॥

कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥२६॥

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥१७॥

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते ।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥१८॥

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥१९॥

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।
राजदोषेण हि जगत् स्पृश्यते जगतः स च ॥२०॥

जगतः दोषेण स च राजा स्पृश्यते ॥२०॥

राजधर्मानवेक्षस्व पितृपैतामहोचितान् ।
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥२१॥

न हि वैक्लव्यसंसृष्ट आनृशंस्यव्यवस्थितः ।
प्रजापालनसंभूतं फलं किञ्चन लब्धवान् ॥२२॥

फलं न लब्धवान् प्राप्तवान् असीति शेषः ॥२२॥

न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः ।
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥२३॥

यज्ञो दानं तपः शौर्यं प्रज्ञा संतानमेव च ।
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥२४॥

नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः ।
दीर्घमायुर्धनं पुत्रान् सम्यगाराधिताः शुभाः ॥२५॥

नित्यमिति । मानुषाश्च देवताश्च सम्यगाराधिताः सत्यः इहलोके आयुरादीनि परलोकसाधनानि स्वधादीनि सत्कर्माणि च दद्युः ॥२५॥

पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ।
दानमध्ययनं यज्ञः प्रजानां परिपालनम् ॥२६॥

एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः ।
ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥२७॥

एतत् मद्वाक्यं धर्मं धर्मयुक्तम् अधर्मं वा जन्मनैव स्वभावत एव अभ्यजायथाः अभिजानीषे हे कृष्ण। ते तु पाण्डवास्तु वैद्याः विद्यावन्तः ॥२७॥

यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः ।
प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥२८॥

दानपतिं पालनाधिकारिणं देङ् पालने अस्य रूपम् ॥२८॥

दानेनान्यं बलेनान्यं तथा सूनृतया परम् ।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥२९॥

ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् ।
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥३०॥

भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते ।
क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ॥३१॥

पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर ।
साम्ना भेदेन दानेन दण्डेनाथ नयेन वा ॥३२॥

इतो दुःखतरं किं नु यदहं दीनबान्धवा ।
परपिण्डमुदीक्षे वै त्वां सूत्त्वाऽमित्रनन्दन ॥३३॥

युद्ध्यस्व राजधर्मेण मा निमज्जीः पितामहान् ।
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ॥३४॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कुन्तीवाक्ये द्वात्रिंशदधिकशततमोऽध्यायः॥१३२ ॥
त्रयस्त्रिंशाधिकशततमोऽध्यायः

कुन्त्युवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विदुलायाश्च संवादं पुत्रस्य च परंतप ॥१॥

अत्रेति ॥१॥

ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि ।
यशस्विनी मन्युमती कुले जाता विभावरी ॥२॥

ततः मदुक्तात् श्रेयः प्रशस्ततरं भूयोऽधिकतरं मन्युमती दैन्यवती विभावरी कुपितां ‘विभाकरी रजन्यां च वक्रयोषिति’ इति विश्वः ॥२॥

क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी ।
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥३॥

विदुला नाम राजन्या जगर्हे पुत्रमौरसम् ।
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ॥४॥

विदुलोवाच ।
अनन्दन मया जात द्विषतां हर्षवर्धन ॥५॥

राजन्या मूर्धाभिषिक्ता । ‘मूर्द्धाभिषिक्तो राजन्यः’ इत्यमरः । जगर्हे निन्दितवती अनन्दन कुपुत्र कुत्सार्थेऽत्र नञ् ॥५॥

न मया त्वं न पित्रा च जातः क्वाभ्यागतो ह्यसि ।
निर्मन्युश्चाप्यसंख्येयः पुरुषः क्लीबसाधनः ।
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ॥६॥

असंख्येयः अगणनीयः तुच्छत्वात् क्लीबं निर्वीर्यं साधनं बाह्वादिकं यस्य स तथा ॥६॥

माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः ।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ॥७॥

मा बीभरः मा पालय । प्रतिसंहर भयमिति शेषः ॥७॥

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ।
अमित्रान्नन्दयन् सर्वान्निर्मानो बन्धुशोकदः ॥८॥

मा शेष्व निरुद्योगो मा भूः ॥८॥

सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति ॥९॥

अप्यहेरारुजन् दंष्ट्रामाश्वेव निधनं व्रज ।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ॥१०॥

पराक्रमेः पराक्रमं कुरु ॥१०॥

अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।
विवदन् वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ॥११॥

विवदन् शत्रुजयार्थमनेकान् पक्षानुद्भावयन् वा तूष्णींभूतोऽरेश्छिद्रं पश्येः। यथा व्योम्नि अपरिशङ्कितः शत्रोराधिक्याद्भयमपश्यन् श्येनस्तद्वत् ॥११॥

त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा ।
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ॥१२॥

माऽस्तंगमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा ।
मा मध्ये मा जघन्ये त्वं माऽघो भूस्तिष्ठ गर्जितः ॥१३॥

विश्रूयस्व ख्यातो भव । मा मध्य इति । सामभेदौ जघन्यमध्यमौ दानमधमो नीच उपायो दंडस्तूत्तमः । तत्राद्यत्रयकर्ता मा भूः किं तु गर्जितो दण्डयितैव भवेत्यर्थः । ऊर्जित इति वा पाठः ॥१३॥

अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल ।
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ॥१४॥

तिंदुकस्य अलातं यथा दिक्षु स्फुलि‌ङ्गान् ‌विक्षिपति ज्वलति तद्वत् ज्वल दीप्यस्व परन्तु तुषाग्निवदनर्चिर्मा धूमायस्व । काकरं खा जिजीविषुरिति पाठान्तरे काकरं खाः काकरमग्न्यगारं मा खाः मा नाशय । खै तु स्थैर्ये खदनहिंसयोरिति खायतेरिदं रूपम् । काकरंख इति पाठे काकवत् रंखति पलायते वा काकरङ्खः। रखि गतावित्यस्य रूपम् ॥१४॥

मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ।
मा ह स्म कस्यचिद्गेहे जनि राज्ञः खरो मृदुः ॥१५॥

मा जनि मा उत्पद्यतां खरः कर्कशः खरीति पाठे खरत्ववानिति स एवार्थः मृदुर्दयालुः ॥१५॥

कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् ।
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥१६॥

आजिं सङ्ग्रामं सृत्वाऽभिसृत्य मानुष्यकं मनुष्यस्योचितम् ॥१६॥

अलब्ध्या यदि वा लब्ध्या नानुशोचति पण्डितः ।
आनन्तर्यं चारभते न प्राणानां धनायते ॥१७॥

प्राणानां प्राणाः बलं तत्साध्यानां कार्याणाम् आनन्तर्यम् अविच्छेदेन कार्यधारामारभत इत्यर्थः । न धनायते धनम् आत्मनो नेच्छति तृष्णां त्यजतीत्यर्थः ॥१७॥

उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।
धर्मं पुत्राग्रतः कृत्वा किं निमित्तं हि जीवसि ॥१८॥

ध्रुवां गतिं मरणमग्रत इत्युपहासः पृष्ठतः कृत्वेत्यर्थः ॥१८॥

इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ॥१९॥

भोगमूलं राज्यं धनं वा ॥१९॥

शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता ।
विपरिच्छिन्नमूलोऽपि न विषीदेत् कथञ्चन ॥२०॥

निमज्जता प्रपतिष्यता च शत्रुर्जङ्घायां ग्राह्यः तेनैव सह निमज्जेत्पतेद्वेत्यर्थः । न विषीदेत् निरुद्यमो न भवेत् ॥२०॥

उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ।
कुरु सत्यं च मानं च विद्धि पौरुषमात्मनः ॥२१॥

उद्यम्य उद्यमं कृत्वा धुरं भारमुत्कर्षेत् उद्यच्छेत् आजानेयाः जात्यश्वाः तेषां कृतं कर्म युद्धेऽनवसादरूपं स्मरन् विद्धि प्राप्नुहि ॥२१॥

उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ।
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ॥२२॥

त्वत्कृते मग्नमिति सम्बन्धः ॥२२॥

राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ॥२३॥

राशिवर्धनः संख्यापूरको न तु प्रयोजनान्तरार्हः ॥२३॥

विद्यायामर्थलाभे या मातुरुच्चार एव सः ।
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ॥२४॥

मातुः उच्चारो विष्ठा ॥२४॥

जनान्योऽभिभवत्यन्यान् कर्मणा हि स वै पुमान् ।
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ॥२५॥

कापालीं वृत्तिं भिक्षाचर्याम् ॥२५॥

नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ।
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ॥२६॥

यमेनममित्रा अभिनन्देयुः तं बन्धुं बान्धवः आसाद्य न सुखमेधत इति तृतीयश्लोकेन सम्बन्धः॥२६॥

लोकस्य समवज्ञातं निहीनासनवाससम् ।
अहो लाभकरं हीनमल्पजीवनमल्पकम् ॥२७॥

अहो लाभकरम् अल्पेऽपि लाभे अहो लाभो जात इति विस्मयं कुर्वाणम् ॥२७॥

नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ।
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात् प्रवासिताः ॥२८॥

अवृत्त्या जीवनोपायाभावेन विपत्स्यामः मरिष्यामः ॥२८॥

सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः ।
अवल्गुकारिणं सत्सु कुलवंशस्य नाशनम् ॥२९॥

अवल्गु अमङ्गलम् । अकर्मेति वा पाठः । तत्कारिणं निश्चेष्टं कुलं ज्ञातयः वंशः सोमसूर्यादिमूलोत्पत्तिस्थानम् ॥२९॥

कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ।
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ॥३०॥

संजयति तस्य नाम ॥३०॥

मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् ।
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ॥३१॥

ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ।
एतावानेव पुरुषो यदमर्षी यदक्षमी ॥३२॥

क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ।
सन्तोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ॥३३॥

अनुक्रोशो दया ॥३३॥

अनुत्थानभये चोभे निरीहो नाश्नुते महत् ।
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ॥३४॥

अनुत्थानं शत्रुं प्रत्यनवस्थाने भयं च ते उभे च श्रियं हत इति पूर्वेण सम्बन्धः। निरीहो निश्चेष्टो नाश्नुते महत्पदमिति शेषः । निकृतिपापेभ्यः पराभवदोषेभ्यः ॥३४॥

आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ।
परं विषहते यस्मात्तस्मात् पुरुष उच्यते ॥३५॥

स्वकं धनादिकं परं विषहते इति पुरुषपदनिर्वचनं वर्णविकारादिना ज्ञेयम् ॥३५॥

तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ।
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तचारिणः ॥३६॥

दिष्टभावं गतस्यापि विषये मोदते प्रजा ।
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् ॥३७॥

दिष्टभावं मरणं प्रजा सन्ततिः । प्रियं पुत्रादिसुखं तत्परिष्व‌ङ्गादिजो हर्षः ॥३७॥

अमात्यानामथो हर्षमाधात्यचिरेण सः ॥३८॥

पुत्र उवाच। किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ।
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥३९॥

मामपश्यन्त्यास्ते पृथिव्या किमिति सम्बन्धः ॥३९॥

मातोवाच ।
किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।
ये त्वादृतात्मनां लोकाः सुहृदस्तान् व्रजन्तु नः ॥४०॥

किमद्यं किं भोक्तव्यमिति ये चिन्तयन्ति निर्धनास्तेषां किमद्यकानाम् । यद्वा किमद्य त्वरया श्व एव शत्रून् जेष्याम इति विलम्बशीलानाम् । हन्यमानस्येति पाठे अनुद्रुतस्य । अत्र हन्तिर्गत्यर्थः । अनाहतानामिति पाठे शस्त्रैरक्षतानाम् । अनादृतानामिति पाठे अलसानाम् । निर्मन्युकानामित्यपि पाठः॥४०॥

भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् ।
कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ॥४२॥

अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।
पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ॥४२॥

यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय ।
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥४३॥

यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् ।
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥४४॥

स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः ।
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥४५॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि विदुलापुत्रानुशासने त्रयस्त्रिंशाधिकशततमोऽध्यायः ॥ १३३ ॥
चतुस्त्रिंशदधिकशततमोऽध्यायः

विदुलोवाच ।
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि ।
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥१॥

अथेति ॥१॥

यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् ।
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥२॥

अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च ।
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भैषजम् ॥३॥

सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः ।
दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ॥४॥

सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः ।
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥५॥

सहायोपचितिं सहायसंपत्तिं कृत्वाऽपि अपरे स्वकीयास्तव पौरुषमपश्यन्तो यत्ननैष्फल्यादनुदुष्येयुः शत्रुपक्षं श्रयेयुरित्यर्थः ॥५॥

तैः कृत्वा सह सङ्घातं गिरिदुर्गालयं चर ।
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥६॥

स्वीयानां संग्रहे उपायमाह - तैरिति । तैः स्वीयैः संघातमैक्यं व्यसनं परस्य अयं तव शत्रुः ॥६॥

सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥७॥

सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् ।
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥८॥

मे मह्यं ब्राह्मणोऽब्रवीदिति सम्बन्धः ॥८॥

तस्य स्मरन्ती वचनमाशंसे विजयं तव ।
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः ॥९॥

यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥१०॥

अर्थाभिनिर्वृत्तौ प्रयोजननिष्पत्तौ परे तत्सम्बन्धिनः । तेनार्थेन आप्यायिता भवन्ति तस्य तद्भाग्यादेवार्थसिद्धिः । नयेषु नीतिमार्गेषु ॥१०॥

समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय ।
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ॥११॥

पूर्वेषां मम च युद्धे समृद्धिरसमृद्धिर्वाऽवश्यंभाविनीत्येवं विद्वान् युद्धमना भव लाभालाभौ समौ कृत्वा युद्धस्वेति भावः । मा प्रत्युपाहरः प्रत्युपहारं युद्धोपसंहारं मा कार्षीरित्यर्थः ॥११॥

नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥१२॥

अयुध्यतो दरिद्रत्वं स्यात्तच्चानिष्टमित्याह - नात इति ॥१२॥

पतिपुत्रवधादेतत् परमं दुःखमब्रवीत् ।
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥१३॥

पर्यायमरणं दारिद्र्यं नामान्तरेण मरणमेवेत्यर्थः ॥१३॥

अहं महाकुले जाता ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥१४॥

महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।
पुरा हृष्टः सुहृद्वर्गो मामपश्यत् सुहृद्गताम् ॥१५॥

यदा मां चैव भार्यां च द्रष्टाऽसि भृशदुर्बलाम् ।
न तदा जीवितेनार्थो भविता तव सञ्जय ॥१६॥

दासकर्मकरान् भृत्यानाचार्यर्त्विक्पुरोहितान् ।
अवृत्त्याऽस्मान् प्रजहतो दृष्ट्वा किं जीवितेन ते ॥१७॥

अस्मान् प्रजहतः अस्मत्त्यागं कुर्वतः ॥१७॥

यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा ।
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥१८॥

कृत्यं कर्तव्यं पराक्रमम् ॥१८॥

नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम ।
न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥१९॥

वयमाश्रयणीयाः स्म न श्रोतारः परस्य च ।
साऽन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥२०॥

श्रोतारः पराज्ञायाः । पाठान्तरे श्रेतार आश्रयितारः ॥२०॥

अपारे भव नः पारमप्लवे भव नः प्लवः ।
कुरुष्व स्थानमस्थाने मृतान् सञ्जीवयस्व नः॥२१॥

सर्वे ते शत्रवः शक्या न चेज्जीवितुमर्हसि ।
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥२२॥

शक्याः जेतुमिति शेषः । सह्या इति पाठे सहनीयाः ॥२२॥

निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् ।
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥२३॥

निर्विण्णात्मा विरक्तचित्तः यतो हतमना नष्टसंकल्पः । विश्रुतिं ख्यातिम् ॥२३॥

इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
माहेद्रं च गृहं लेभे लोकानां चेश्वरोऽभवत् ॥२४॥

ग्रहं सोमपात्रम् । प्रग्रहमिति पाठे नियमनं नियन्तृत्वमित्यर्थः। ‘प्रग्रहश्च तुलासूत्रे वन्द्यां नियमने भुजे’ इति विश्वः ॥२४॥

नाम विश्राव्य वै संख्ये शत्रूनाहूय दंशितान् ।
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ॥२५॥

यदैव लभते वीरः सुयुद्धेन महद्यशः ।
यदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥२६॥

त्यक्त्वाऽऽत्मानं रणे दक्षं शूरं कापुरुषा जनाः ।
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ॥२७॥

कापुरुषाः जनाः रणे आत्मानं देहं त्यक्त्वा रणे दक्षं शूरं समृद्धिभिस्तर्पयन्ति स्मेति सम्बन्धः ॥२७॥

राज्यं चाप्युग्रविभ्रंशं संशयो जीवितस्य वा ।
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥२८॥

उग्रविभ्रंशं महाप्रपातं जीवितस्य संशयो मरणम् । लब्धस्य जितस्य शेषं पुनः स्वल्पेन विभवेनावस्थापनम् ॥२८॥

स्वर्गद्वारोपमं राज्यमथवाऽप्यमृतोपमम् ।
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ॥२९॥

रुद्धं ग्रस्तं मत्वा एकायनं स्वर्गराज्ययोर्मध्य एकं मार्गं पत गच्छ ॥२९॥

जहि शत्रून्रणे राजन् स्वधर्ममनुपालय ।
मा त्वादृशं सुकृपणं शत्रूणां भयवर्धनम् ॥३०॥

मा त्वेति। शत्रूणां भयवर्धनं भयच्छेदनम् । अनुग्रत्वात् सुकृपणं दीनं त्वा त्वां मादृशं माद्राक्षं दृशमिति। माङ्योगादडभावे इरितो वेत्यङ्पक्षे दृशिर प्रेक्षणेऽस्य लुङुत्तमैकवचनं पाठान्तरं तु मूढजनकल्पितं नादरणीयम् ॥३०॥

अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् ।
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ॥३१॥

हृष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा ।
मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥३२॥

हृष्य हर्षं प्राप्नुहि सौवीरकन्याभिः स्वदारैः । मा चेति । सैन्धवकन्यानां शत्रुदेशजकन्यानाम्॥३२॥

युवा रूपेण संपन्नो विद्ययाऽभिजनेन च ।
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥३३॥

विकुर्वीत अपसरणं कुर्वीत ॥३३॥

अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत् ।
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ॥३४॥

अधुर्यवत् अदान्तवृषभवत् । अनड्वानिवेत्यपि पाठः । तत् विकारकरणम् ॥३४॥

पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ।
नास्मिन् जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः ॥३५॥

न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।
अहं हि क्षत्रहृदयं वेद यत् परिशाश्वतम् ॥३६॥

वेद वेद्मि । परिशाश्वतं सर्वथैवैकरूपमक्षीणमित्यर्थः ॥३६॥

पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ।
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ॥३७॥

पूर्वैः स्ववंशजैः परैरन्यवंशीयैः परतरैर्वृद्धैः अव्ययमपक्षयहीनं क्षत्रहृदयं प्रोक्तमिति पूर्वेण सम्बन्धः ॥३७॥

यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रकर्मवित् ।
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥३८॥

आजातः सम्यग्जातः कुले जात इत्यर्थः । य आजातः स भयात् कस्यचिन्न नमेत् । वृत्तिसमीक्षो वृत्तिं समीक्षमाणो वा न नमेत् ॥३८॥

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥३९॥

उद्यच्छेत् उद्यमं कुर्यात् अपर्वणि अकांडे वृथाऽपीत्यर्थः ॥३९॥

मातङ्गो मत्त इव च परीयात् स महामनाः ।
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥४०॥

परीयात् पर्यटनं कुर्यात् ॥४०॥

नियच्छन्नितरान् वर्णान् विनिघ्नन् सर्वदुष्कृतः ।
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥४१॥

दुष्कृतः पापिष्ठान् ॥४१॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि विदुलापुत्रानुशासने चतुस्त्रिंशदधिकशततमोऽध्यायः॥ १३४ ॥
पञ्चत्रिंशदधिकशततमोऽध्यायः

पुत्र उवाच। कृष्णायसस्येव च ते संहत्य हृदयं कृतम् ।
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ॥१॥

कृष्णायसस्येवेति । कृष्णायसस्य लोहस्य संहत्य पिण्डीकृत्य ॥१॥

अहो क्षत्रसमाचारो यत्र मामितरं यथा ।
नियोजयसि युद्धाय परमातेव मां तथा ॥२॥

ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ।
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ॥३॥

एकजमभ्रातृकम् ॥३॥

किमाभरणकृत्येन किं भोगैर्जीवितेन वा ।
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ॥४॥

मातोवाच ।
सर्वावस्था हि विदुषां तात धर्मार्थकारणात् ।
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् ॥५॥

सर्वावस्था गार्हस्थ्यादिरूपा । सर्वारंभा इति पाठान्तरम् । तावेव धर्मार्थावेव । अचूचुदं प्रेरितवत्यस्मि ॥५॥

स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः ।
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥६॥

समीक्ष्य क्रमोपेतः द्रष्टुं योग्येन पराक्रमेण युक्तः अस्मिन् काले चेत् कार्यं कर्तव्यं युद्धं न प्रतिपद्यसे॥६॥

असंभावितरूपस्त्वमानृशंस्यं करिष्यसि ।
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ॥७॥

आनृशंस्यं शत्रुषु स्वदेहे वा दयां करिष्यसि तर्हि त्वमसंभावितरूपस्तिरस्कृतरूपो भविष्यसीति सम्बन्धः ॥७॥

खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ।
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ॥८॥

खरीति । उभयलोकानुपयुक्तेऽपि पुत्रे वृथा वात्सल्यं खरी करोति तद्वदहमपि स्यामित्यर्थः ॥८॥

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ।
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ॥९॥

अविद्या अनात्मनि देहे आत्मबुद्धिः सा यदि तव स्यात् तर्हि सत् समीचीनं तव देहनाशादात्मनाशं पश्यतो वृत्तं शीलम् । उपहासार्थमिदमुच्यते तेन देहात्मभावेन मम देहादन्यदात्मानं पश्यन्त्याः प्रियो भवेः । अयमप्युपहासः । देहात्मवादी दुर्वृत्तो मम द्वेष्यश्च भविष्यसीत्यर्थः ॥९॥

धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ।
दैवमानुषयुक्तेन सद्भिराचरितेन च ॥१०॥

धर्मार्थेति । त्वया भाव्यमिति शेषः ॥१०॥

यो ह्येवमविनीतेन रमते पुत्र नप्तृणा ।
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ॥११॥

रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम् ।
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ॥१२॥

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ।
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च ॥१३॥

जयन्या वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ।
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् ।
यदमित्रान् वशे कृत्वा क्षत्रियः सुखमेधते ॥१४॥

मन्युना दह्यमानेन पुरुषेण मनस्विना ।
निकृतेनेह बहुशः शत्रून् प्रतिजिगीषया ॥१५॥

निकृतेन अपकृतेनापि शत्रून् प्रति जिगीषया प्रस्थातव्यमेवेति शेषः॥१५॥

आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च ।
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥१६॥

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥१७॥

स्वल्पमैश्वर्यम् अप्रियमनिष्टम् इच्छति मन्यते प्राज्ञः । यस्य तु अल्पमेवैश्वर्यं प्रियं तस्य ध्रुवं निश्चितं तदेवाल्पं प्रियत्वेन गृहीतम् अप्रियमनर्थकरं स्यात् । तेन राज्ञाऽल्पसंतुष्टेन न भवितव्यमित्यर्थः ॥१७॥

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥१८॥

अभावं नाशम् ॥१८॥

पुत्र उवाच। नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ॥१९॥

कारुण्यमेव पश्य हितत्वेनेति शेषः ॥१९॥

मातोवाच ।
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ।
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥२०॥

अतो वचनात् मे मम भूयसी नन्दिः समृद्धिः । भवितेति शेषः । यत् एवं कारुण्यं देहे कृपामनुपश्यसि हितत्वेन एवं सत्यपि त्वमेव चोद्यं पूर्वपक्षं चोदयसि प्रेरयसि कारुण्यं कुर्विति । अथाऽपि वज्रहृदयाऽहं ते तुभ्यं चोदयामि ॥२०॥

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् ।
अहं पश्यामि विजयं कृच्छ्रभावितमेव ते ॥२१॥

सैन्धवान् हत्वा कृछ्रेण भावितं ते तव विजयं यदा पश्यामि द्रक्ष्यामि अथ त्वां पूजयिष्यामीति योजना॥२१॥

पुत्र उवाच। अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम ।
इत्यवस्थां विदित्वैतामात्मनाऽऽत्मनि दारुणाम् ॥२२॥

एतामवस्थां दारुणामात्मनि आत्मना स्वयं विदित्वा मे मम भावश्चित्तं राज्यान्निवृत्त इत्युत्तरेण सम्बन्धः ॥२२॥

राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतः ।
ईदृशं भवती कञ्चिदुपायमनुपश्यति ॥२३॥

तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥२४॥

मातोवाच ।
पुत्र नात्माऽवमन्तव्यः पूर्वाभिरसमृद्धिभिः ।
अभूत्वा हि भयन्त्यर्था भूत्वा नश्यन्ति चापरे ।
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ॥२५॥

अर्थाः धर्माद्याः बालिशैरमर्षेणैव नारब्धव्याः पण्डितैस्तु आदरेण आरब्धव्या एवेति भावः ॥२५॥

सर्वेषां कर्मणां तात फले नित्यमनित्यता ।
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ॥२६॥

अनित्यमिति जानन्तः पण्डिता आरभमाणा न भवन्ति कदाचिदैश्वर्यं न लभन्ते भवन्ति च कदाचित्सिद्धार्थाः ॥२६॥

अथ येनैव कुर्वन्ति नैव जातु भवन्ति ते ।
एकगुण्यमनीहायामभावः कर्मणां फलम् ॥२७॥

अकुर्वाणान्निन्दति - अथेति । अनीहायां चेष्टाया अभावे ऐकगुण्यमेकगुणमेव फलं यत्कर्मणामीप्सिततमानामभावोऽप्राप्तिः ॥२७॥

अथ द्वैगुण्यमीहायां फलं भवति वा न वा ।
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ॥२८॥

ईहायां तु द्वैगुण्यं गुणद्वयं यत्फलं भवति वा न वेत्यभावनिश्चयापेक्षया पाक्षिकफलसद्भाववती प्रवृत्तिरेव श्रेष्ठेत्यर्थः ॥२८॥

नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ।
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ॥२९॥

वृद्धिः पीडा । वृधु हिंसायामित्यस्य रूपम् । समृद्धिरैश्वर्यम् । ते उभे नुदेत् दूरीकुर्यात् । आत्मनः पीडां परस्यैश्वर्यं च नुदेदित्यर्थः। योक्तव्यं सज्जीभवितव्यम् ॥२९॥

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ॥३०॥

ईश्वरैर्देवैः ॥३०॥

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः॥३१॥

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च ।
अनुदर्शितरूपोऽसि पक्ष्यामि कुरु पौरुषम् ॥३२॥

उद्धर्षणानि प्रोत्साहकानि अनुदर्शितं रूपं लोकवृत्तान्तो यस्मै स तथा ॥३२॥

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ।
क्रुद्धान् लुष्धान् परिक्षीणानवलिप्तान्विमानितान् ॥३३॥

स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ।
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् ॥३४॥

महावेग इवोद्भूतो मातरिश्वा बलाहकान् ।
तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः ॥३५॥

तेषां बुद्धादीनामग्रप्रदायी भक्तं वेतनं च सर्वेभ्यः प्रथमं देयं न चेत्सद्यः कुपितास्ते त्यजेयुरित्यर्थः॥३५॥

ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ।
यदैव शत्रुर्जानीयात् सपत्नं त्यक्तजीवितम् ।
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ॥३६॥

त्यक्तजीवितं युद्धे जीवितनिराकाङ्क्षं शत्रुर्जीविताकाङ्क्षी उद्विजते ॥३६॥

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि ।
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥३७॥

तमिति । तं शत्रुं पराक्रान्तं पराक्रमवन्तं विदित्वा अशक्त्या वशे स्वाज्ञायां यदि न करोति । तर्हि एनं निर्वादैः परिनिष्ठितैर्दूतैर्निर्वदेत् परिनिष्ठां प्रापयेत् । साम्ना दानेन वा तं पर्यवस्थापयेदित्यर्थः । ‘निर्वादः स्यात् परीवादे परिनिष्ठितवादयोः’ इति विश्वः । अन्ततः फलतः तत् शत्रोर्वशीकरणं भविष्यति ॥३७॥

निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति ।
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥३८॥

तत्रोपायमाह -निर्वादादिति । एवं परिनिष्ठिततया आस्पदं स्थानं प्राप्तं चेत् शत्रुणाऽनुपद्रुतस्य धनवृद्ध्यादिकं सर्वं सेत्स्यतीत्यर्थः ॥३८॥

स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः ।
अप्यस्मिन्नाश्वसन्ते च जुगुप्सन्ते च तादृशम् ॥३९॥

स्खलितार्थं च्युतधनं न आश्वसन्ते इति छेदः । विश्वासं न कुर्वन्तीत्यर्थः ॥३९॥

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति ।
अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥४०॥

संभाव्यमेवैतदित्युपहासः । असंभावितमेतत् यच्छत्रौ विश्वासं कृत्वाऽपि राज्यं प्राप्नुयादिति ॥४०॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि विदुलापुत्रानुशासने पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ १३५ ॥
षट्त्रिंशदधिकशततमोऽध्यायः

मातोवाच ।
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि ।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥१॥

नैवेति । दरो भयं जातु कदाचित् दीर्णो भीतः ॥१॥

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते ।
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ॥२॥

महीमिति पाठे महीस्थान् लोकान् ॥२॥

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।
अन्ये तु प्राजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥३॥

अपरे स्वीयाः । प्रजिहीर्षन्ति प्रहर्तुं ताडितुमिच्छन्ति ॥३॥

य एवात्यन्तसुहृदस्त एनं पर्युपासते ।
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ॥४॥

इलाः धेनवः ‘इलाः धेनुः सहवत्सा न आगात्’ इति मन्त्रवर्णात् ॥४॥

शोचन्तमनुशोचन्ति पतितानिव बान्धवान् ।
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ॥५॥

ते तवापि सुहृदः सन्ति ॥५॥

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥६॥

ये राष्ट्रमस्मदीयमिदमस्माभी रक्षणीयं राजा च व्यसनादुद्धर्तव्य इति अभिमन्यन्ते अभिमानवन्तः । मा दीदरः मा विदारय ॥६॥

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव ।
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ॥७॥

समाश्वासं धैर्यम् ॥७॥

यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् ।
कृत्वाऽसौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय ॥८॥

अस्ति नः कोशनिचयो महान् ह्यविदितस्तव ।
तमहं वेद नान्यस्तमुपसंपादयामि ते ॥९॥

सन्ति नैकतमा भूयः सुहृदस्तव सञ्जय ।
सुखदुःखसहा वीर सङ्ग्रामादनिवर्तिनः ॥१०॥

तादृशा हि सहाया वै पुरुषस्य बुभूषतः ।
इष्टं जिहीर्षतः किञ्चित्सचिवाः शत्रुकर्शन ॥११॥

यस्यास्त्वीदृशकं वाक्यं श्रुत्वाऽपि स्वल्पचेतसः ।
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ॥१२॥

स्वल्पचेतसोऽपि तस्य तमोऽपागमदिति सम्बन्धः ॥१२॥

पुत्र उवाच। उदके भूरियं धार्या मर्तव्यं प्रवणे मया ।
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥१३॥

उदके मज्जन्तीव भूः पित्र्यं राज्यम् । धूरितिपाठेऽपि स एवार्थः । इयं मया धार्या मग्नं राज्यं वा उद्धर्तव्यं प्रवणे प्रपाते वा युद्धाख्ये वा मर्तव्यं न तु एवमेव निर्व्यापारेण स्थेयम् । नेत्री शिक्षयित्री ॥१३॥

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।
किञ्चित् किञ्चित् प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥१४॥

अपरापरमपरमपरम् उत्तरोत्तरमिति यावत् । प्रतिवदन् प्रतिकूलं वदन् आयसं हृदयं तवेति पुत्रे निःस्नेहासीत्यादि ॥१४॥

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् ।
उद्यच्छाम्येष शत्रूणां नियमार्थं जयाय च ॥१५॥

बान्धवात् बन्धुतः उद्यच्छामि उद्यमं करोमि नियमार्थं निग्रहार्थं बान्धवानिति पाठे उद्यच्छामि धारयामि ॥१५॥

कुन्त्युवाच ।
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः ।
तच्चकार तथा सर्वं यथावदनुशासनम् ॥१६॥

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥१७॥

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥१८॥

इदं पुंसवनं चैव वीराजननमेव च ।
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥१९॥

पुंसवनं पुत्रप्रसवकरम् । वीराणामाजननं येन तद्वीराजननं प्रजायते जनयति ॥१९॥

विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्म्या श्रिया दीप्यमानं साधुवादे च संमतम् ॥२०॥

अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥२१॥

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥२२॥

इति श्रीमहामारते उद्योगपर्वणि भगवद्यानपर्वणि विदुलापुत्रानुशासनसमाप्तौ षट्त्रिंशदधिकशततमोऽध्यायः ॥ १३६ ॥
सप्तत्रिंशदधिकशततमोऽध्यायः

कुन्त्युवाच ।
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके ।
उपोपविष्टा नारीभिराश्रमे परिवारिता ॥१॥

अर्जुनमिति ॥१॥

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।
सहस्त्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ॥२॥

एष जेष्यति सङ्ग्रामे कुरुन् सर्वान् समागतान् ।
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥३॥

उद्वर्तयिष्यति आकुलीकरिष्यति लोकं शत्रुजनम् ॥३॥

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ।
हत्या कुरूंश्च सङ्ग्रामे वासुदेवसहायवान् ॥४॥

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।
भ्रातृभिः सहितः श्रीमांस्त्रीन् मेधानाहरिष्यति ॥५॥

मेधान् अश्वमेधान् ॥५॥

स सत्यसन्धो बीभत्सुः सव्यसाची यथाऽच्युत ।
तथा त्वमेव जानासि बलवन्तं दुरासदम् ॥६॥

तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ।
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ॥७॥

त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ।
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ॥८॥

नमो धर्माय महते धर्मो धारयति प्रजाः ।
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ॥९॥

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥१०॥

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति ।
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शन ॥११॥

सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः ।
ब्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम् ॥१२॥

युक्तमेतन्महाभागे कुले जाते यशस्विनि ।
यन्मे पुत्रेषु सर्वेषु यथावत्वमवर्तिथाः ॥१३॥

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ ।
विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि ॥२४॥

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥१५॥

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम् ।
पाञ्चाली परुषाण्युक्ता को नु तत् क्षन्तुमर्हति ॥१६॥

धर्मोपचायिनां धर्मवर्धनशीलानाम् ॥१६॥

न राज्यहरणं दुःखं द्यूते चापि पराजयः ।
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥१७॥

यत्र सा बृहती श्यामा सभायां रुदती तदा ।
अश्रौषीत् परुषा वाचस्तन्मे दुःखतरं महत् ॥१८॥

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥१९॥

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥२०॥

पदवीं चर मार्गमनुसर शत्रुस्त्रीणां वैधव्यार्थं यतस्वेत्यर्थः ॥२०॥

विदितं हि तवात्यन्तं क्रुद्धाविव यमान्तकौ ।
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥२१॥

परां गतिं मरणम् ॥२१॥

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता ।
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ॥२२॥

पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ।
पाण्डवान् कुशलं पृच्छेः सपुत्रान् कृष्णया सह ॥२३॥

मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।
अरिष्टं गच्छ पन्थानं पुत्रान् मे प्रतिपालय ॥२४॥

वैशम्पायन उवाच। अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम् ।
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥२५॥

ततो विसर्जयामास भीष्मादीन् कुरुपुङ्गवान् ।
आरोप्याथ रथे कर्णं प्रायात् सात्यकिना सह ॥२६॥

ततः प्रयाते दाशार्हे कुरवः संगता मिथः ।
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥२७॥

प्रमूढा पृथियी सर्वा मृत्युपाशवशीकृता ।
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥२८॥

नैतदस्ति राष्ट्रमिति शेषः ॥२८॥

ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः ।
मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥२९॥

निर्याय निर्गत्य ॥२९॥

विसर्जयित्वा राधेयं सर्वयादवनन्दनः ।
ततो जवेन महता तूर्णमश्वानचोदयत् ॥३०॥

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः ।
हया जग्मुर्महावेगा मनोमारुतरंहसः ॥३१॥

ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः ।
उचैर्जग्मुरुपप्लव्यं शार्ङ्गधन्वानमावहन् ॥३२॥

उपप्लव्यं विराटनगरम् ॥३२॥
इति श्रीमहामारते उद्योगपर्वणि भगवद्यानपर्वणि कुन्तीवाक्ये सप्तत्रिंशदधिकशततमोऽध्यायः॥१३७॥
अष्टत्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥१॥

कुन्त्या इति ॥१॥

श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य सन्निधौ ।
वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम् ॥२॥

तत् करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् ।
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥३॥

क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा ।
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥४॥

कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम् ।
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ॥५॥

नकुलं सहदेवं च बलवीर्यसमन्वितौ ।
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥६॥

प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥७॥

दानवा घोरकर्माणो निवातकवचा युधि ।
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना ॥८॥

कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी ।
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम् ।
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ॥९॥

प्रशाम्य प्रशमं कुरु ॥९॥

रक्षेमां पृथिवीं सर्वां मृत्योर्दष्ट्रान्तरं गताम् ।
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः ॥१०॥

तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ।
दृष्टश्च त्वं पाण्डवेन व्यपनीतशरासनः ॥११॥

प्रशान्तभ्रुकुटिः श्रीमान् कृता शान्तिः कुलस्य नः ।
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ॥१२॥

अभिवादय राजानं यथापूर्वमरिन्दम ।
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः ॥१३॥

प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः ।
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ॥१४॥

परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ।
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ॥१५॥

अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ॥१६॥

आश्विनेयौ नरव्याघ्रौ रुपेणाप्रतिमौ भुवि ।
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥१७॥

आश्विनेयौ अश्विनोः पुत्रौ नकुलसहदेवौ ॥१७॥

मुञ्चन्त्यानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥१८॥

प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह ।
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥१९॥

अलं युद्धेन राजेन्द्र सहृदां शृणु वारणम् ।
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृदयते ॥२०॥

वारणं प्रतिषेधम् ॥२०॥

ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः ।
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥२१॥

विशेषत इहास्माकं निमित्तानि निवेशने ।
उल्काभिर्हि प्रदीप्ताभिर्बाध्यते पृतना तव ॥२२॥

वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते ।
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥२३॥

नगरं न यथापूर्वं तथा राजनिवेशनम् ।
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥२४॥

दीप्तां दिशमिति दिग्दाहाख्य उत्पात उक्तः ॥२४॥

कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥२५॥

न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥२६॥

भीमस्य च महानादं नदतः शुष्मिणो रणे ।
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःस्वनम् ।
यद्येतदपसव्यं ते वचो मम भविष्यति ॥२७॥

शुष्मिणः बलिनः अपसव्यं विपरीतम् । यदि निर्घातसदृशमिति पाठे निर्वातसदृशं वज्रपाततुल्यम्॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीष्मद्रोणवाक्ये अष्टत्रिंशदधिकशततमोऽध्यायः ॥ १३८ ॥
एकोनचत्वारिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः ।
संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह ॥१॥

एवमिति ॥१॥

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥२॥

भीष्म उवाच। शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यवादिनम् ।
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥३॥

द्रोण उवाच। अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये ।
बहुमानः परो राजन् संनतिश्च कपिध्वजे ॥४॥

तं च पुत्रात् प्रियतमं प्रतियोत्स्ये धनञ्जयम् ।
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ॥५॥

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।
मत्प्रसादात् स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥६॥

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः ।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥७॥

पूजां न लभते हे दुर्योधन त्वद्वत् ॥७॥

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥८॥

मिथ्योपचरिता ह्येते वर्तमाना ह्यनुप्रिये ।
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥९॥

एते पाण्डवास्त्वया मिथ्योपचरिता अपि अनु पश्चात्प्रिये वर्तमाना हि प्रसिद्धं तव तु दोषाः द्वेषादयः अहितत्वाय वैरभावाय कल्पन्ते ॥९॥

त्त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे ॥१०॥

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि ।
सग्राहनक्रमकरं गङ्गावेगमिवोर्ष्णगे ॥११॥

उष्णगे उष्णातिगमे वर्षाकाले ॥११॥

वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे ।
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥१२॥

वास एवेति पाठे वासगृहे । पाठान्तरे त्यक्तं वासो वस्त्रं परकीयं स्वीयमिति मन्यसे इति योज्यम्॥१२॥

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् ।
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति ॥१३॥

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः ।
तमैलविलमासाद्य धर्मराजो व्यराजत ॥१४॥

ऐलविलं कुबेरमासाद्य रणे प्राप्य ॥१४॥

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥१५॥

दत्तं हुतमधीतं च ब्राह्मगास्तर्पिता धनैः ।
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥१६॥

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥१७॥

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम् ॥१८॥

मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः ।
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम् ॥१९॥

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः ।
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥२०॥

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता ।
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे ॥२१॥

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।
मा गमः ससुतामात्यः सबलश्च पराभवम् ॥२२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भीष्मद्रोणवाक्ये एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ १३९ ॥
चत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। राजपुत्रैः परिवृतस्तथा भृत्यैश्च सञ्जय ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥१॥

राजपुत्रैरिति ॥१॥

किमब्रवीदमेयात्मा राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥२॥

उद्यन्मेघस्वनः काले कृष्णः कर्णमथाब्रवीत् ।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय ॥३॥

सञ्जय उवाच। आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥४॥

हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५॥

वासुदेव उवाच। उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥६॥

त्वमेव कर्ण जानासि वेदवादान् सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥७॥

कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥८॥

कानीनो द्विविधः सहोढः विवाहादूर्ध्वं जातः विवाहात् प्राग्जातश्च तन्मातुर्वोढारं तस्य पितरं प्राहुः॥८॥

सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः ।
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥९॥

पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्यमेतौ पुरुषर्षभ ॥१०॥

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥११॥

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥१२॥

राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥१३॥

हिरण्मयांश्च ते कुम्भन्रजतान् पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥१४॥

राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ॥१५॥

अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ॥१६॥

पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः ।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ॥१७॥

द्रौपदेयास्तथा पञ्च पञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ॥१८॥

युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः ।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ॥१९॥

उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ॥२०॥

अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ॥२१॥

रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ॥२२॥

नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः ॥२३॥

अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दशार्णाश्च विशाम्पते ॥२४॥

भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥२५॥

पुरोगमाश्च ते सन्तु द्रविडाः संह कुन्तलैः ।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥२६॥

स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥२७॥

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥२८॥

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥२९॥

इति श्रीमहामारते उद्योगपर्वणि भगवद्यानपर्वणि श्रीकृष्णवाक्ये चत्वारिंशदधिकशततमोऽध्यायः ॥ १४० ॥
एकचत्वारिंशदधिकशततमोऽध्यायः

कर्ण उवाच। असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव ।
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥१॥

असंशयमिति ॥१॥

सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥२॥

कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥३॥

सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः ।
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥४॥

सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान् ।
राधायाश्चैव मां प्रादात् सौहार्दान्मधुसूदन ॥५॥

मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् ।
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥६॥

तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥७॥

तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।
पितरं चाभिजानामि तमहं सौहृदात् सदा ॥८॥

स हि मे जातकर्मादि कारयामास माधव ।
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥९॥

नाम वै वसुषेणेति कारयामास वै द्विजैः ।
भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात् ॥१०॥

तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।
तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ॥११॥

न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।
हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे ॥१२॥

धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् ।
मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥१३॥

इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयाऽसकृत् ।
आवाहाश्च विवाहाश्च सह सूतैर्मया कृताः ॥१४॥

आवाहाः कुलधर्माः । आवापा इति पाठेऽपि स एवार्थः ॥१४॥

मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः ।
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥१५॥

मां च मित्रमिति शेषः । शस्त्रसमुद्यमो युद्धोत्साहः ॥१५॥

तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।
वृतवान् परमं कृष्ण प्रतीपं सव्यसाचिनः ॥१६॥

वधाद्बन्धाद्भयाद्वाऽपि लोभाद्वाऽपि जनार्दन ।
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥१७॥

वधात् वधं प्राप्यापि बन्धात् निर्बन्धात् कुन्तीसंबन्धाद्वा । भयात् पराजयभयात् ॥१७॥

यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥१८॥

उभयोरपि अकीर्तिः उभाभ्यामपि अन्योन्यवधस्य प्रतिज्ञातत्वात् ॥१८॥

असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥१९॥

ब्रूयास्त्वं पाण्डवान् प्रतीति शेषः । त्वद्वशित्वात् त्वमेव वशी नियामको येषां तेषां भावस्तत्त्वं ततः॥१९॥

मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन ।
एतदत्र हितं मन्ये सर्वं यादवनन्दन ॥२०॥

मन्त्रस्य ‘कर्णः कुन्तीसुतः’ इत्येवंविधस्य आवयोर्गुप्तपरिभाषणस्य नियमं गोपनं युधिष्ठिरेऽप्रकाशनमिति यावत् ॥२०॥

यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः ।
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥२१॥

अन्यथा बाधकमाह- यदीति ॥२१॥

प्राप्य चापि महद्राज्यं तदहं मधुसूदन ।
स्फीतं दुर्योधनायैव संप्रदद्यामरिन्दम ॥२२॥

इष्टापत्तिमाश‌ङ्क्याह- प्राप्येति । अधर्मिष्ठस्य दुर्योधनस्य राज्यं लोकनाशकरमिति भावः ॥२२॥

स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥२३॥

पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥२४॥

धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः ।
उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः ॥२५॥

चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ।
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा ।
इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः ॥२६॥

इन्द्रगोपकः वर्षासु प्रचलन् रक्तजंतुस्तद्वर्णास्ताम्रा इत्यर्थः । इन्द्रायुधं इन्द्रधनुः ॥२६॥

मातुलो भीमसेनस्य श्येनजिच्च महारथः ।
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥२७॥

निधिस्त्वं च जनार्दन निधिरिवाक्षयः कामपूरकः ॥२७॥

महानयं कृष्ण कृतः क्षत्रस्य समुदानयः ।
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥२८॥

समुदानयः समुदायीकरणम् ॥२८॥

धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति ।
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥२९॥

अस्य यज्ञस्य वेत्ता उपद्रष्टा ॥२९॥

आध्वर्यवं च ते कृष्ण क्रतावस्मिन् भविष्यति ।
होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः ॥३०॥

आध्वर्यवं यज्ञस्य नेतृत्वम् । लोके हि उपद्रष्टाऽन्योऽध्वर्युरन्यो दृश्यते । अत्र तु त्वमेव ईश्वररूपेण कर्ता ब्रह्मरूपेण साक्षी चेति भावः ॥३०॥

गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति ।
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥३१॥

अनुयातश्च पितरमधिको वा पराक्रमे ।
गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति॥३२॥

अनुयातोऽनुगतः पितृसम इत्यर्थः। गीतं स्तोत्रं प्रगीतमन्त्रप्रसाध्यां स्तुतिम् । उद्गातृकर्मेत्यर्थः । तत् सौभद्रः भविष्यति अनुभविष्यति करिष्यतीत्यर्थः ॥३२॥

उद्गाताऽत्र पुनर्भीमः प्रस्तोता सुमहाबलः ।
विनदन् स नरव्याघ्रो नागानीकान्तकृद्रणे ॥३३॥

स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥३४॥

कारयिष्यति स्वार्थे णिच । करिष्यतीत्यर्थः ॥३४॥

शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन ।
उत्कृष्टसिंहनादश्च सुब्रह्मण्यो भविष्यति ॥३५॥

नाद एव सुब्रह्मण्यो युद्धयज्ञे भोक्तुः कालस्यावाहनकर्ता ॥३५॥

नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।
शामित्रं तौ महावीर्यौ सम्यक् तत्र भविष्यतः ॥३६॥

शामित्रं क्षत्रियपशूनां मारणम् ॥३६॥

कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः ।
यूपाः समुपकल्पन्तामस्मिन् यज्ञे जनार्दन ॥३७॥

काल्माषदण्डाश्चित्रध्वजाः ॥३७॥

कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः ।
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥३८॥

कर्णिप्रभृतयो वत्सदन्तान्ताः उपबृंहणाः अध्वर्योः सोमाहुतिप्रक्षेपकाले सहायाश्चमसाध्वर्यव इत्यर्थः । सोमकलशाः सोमरसग्रहणपात्राणि । तोमराः तोमरच्छायाः । पवित्राणि सोमोत्पवनसाधनानि बाणोत्क्षेपणसाम्यात् धनूंषि ॥३८॥

असयोऽत्र कपालानि पुरोडाशाः शिरांसि च ।
हविस्तु रुधिरं कृष्ण तस्मिन् यज्ञे भविष्यति ॥३९॥

कपालानि शिरःपुरोडाशपाचकानि खर्परशकलानि हविः सोमाज्यपयोरूपम् ॥३९॥

इध्माः परिधयश्चैव शक्तयो विमला गदाः ।
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥४०॥

इध्माः अग्निसमिन्धनार्थाः समिधः शक्तयः । परिधयः अग्नेः परितः आहुतिरक्षणार्थं स्थापितानि काष्ठानि गदाः ॥४०॥

इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥४१॥

परिस्तोमाः सोमचमसादयः ॥४१॥

प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति ।
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥४२॥

प्रतिप्रस्थाताऽध्वर्योस्तव द्वितीयः तस्य कर्म प्रतिप्रास्थानिकम् ॥४२॥

घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः ।
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥४३॥

अतिरात्रे क्रतौ श्लेषेण निशीथे च घटोत्कचः रात्रिचरत्वात् शामित्रं करिष्यति ॥४३॥

दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् ।
वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात् ॥४४॥

वैतानिके वितानोऽग्नीनां विस्तरः तत्र विदिते वैतानिके श्रौतयज्ञे कर्ममुखे कर्मप्रभवे द्वारे कर्मैव मुखं निर्गमद्वारं यस्मिन्न तु योनिः तस्मिन् ॥४४॥

यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् ।
प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा ॥४५॥

पाण्डवेषु स्नेहं दर्शयति- यदब्रुवमिति ॥४५॥

यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।
पुनश्चित्तिस्तदा चास्य यज्ञस्याथ भविष्यति ॥४६॥

पुनश्चित्तियज्ञानन्तरं चयनारंभो यज्ञविशेषेषूक्तः ॥४६॥

दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।
आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति ॥४७॥

आनर्दं महानादं नर्दतः णमुलन्तं पूर्वपदं सूयं सोमाभिषवः राजसूयसूर्येति निपातनात् उपपद‌योगस्त्वनित्यः आर्षो वा । तदभावेऽपि सुञः क्यप् दीर्घश्च । सुत्यमित्यपि पठन्ति ॥४७॥

यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः ।
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥४८॥

यज्ञावसानं यज्ञस्य मध्ये मध्ये विरम्यावस्थानम् ॥४८॥

दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥४९॥

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः ।
हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव ॥५०॥

प्रस्नुषाः स्नुषाणामपि स्नुषाः संगता एकीभूता हतेश्वराः ईश्वरो राजा । नाथः पतिः ॥५०॥

रुदन्त्यः सह गान्धार्या श्व-गृध्र-कुरराकुले ।
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५१॥

स्नुषादयो यद्रुदंत्योऽश्रुभिरार्द्रदेहाः स एवार्द्रीभावोऽवभृथ इत्यर्थः ॥५१॥

विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।
वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५२॥

इदं युद्धं श्रेय एवेत्याह - विद्येति । वृथा अयुद्धेन ॥५२॥

शस्त्रेण निधनं गच्छेत् समृद्धं क्षत्रमण्डलम् ।
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५३॥

तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५४॥

यावत् स्थास्यन्ति गिरयः सरितश्च जनार्दन ।
तावत् कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५५॥

ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् ।
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम् ॥५६॥

समागमेषु संग्रामेषु यशो जयः पराक्रमेण मृत्युर्वा तदेव क्षत्रियाणां धनम् ॥५६॥

समुपानय कौन्तेयं युद्धाय मम केशव ।
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥५७॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कर्णोपनिवादे एकचत्वारिंशदधिकशततमोऽध्यायः॥१४१॥
द्विचत्वारिंशद‌धिकशततमोऽध्यायः

सञ्जय उवाच। कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।
उवाच प्रहसन् वाक्यं स्मितपूर्वमिदं यथा ॥१॥

कर्णस्येति ॥१॥

श्रीभगवानुवाच ।
अपि त्वां न लभेत् कर्ण राज्यलंभोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥२॥

राज्यलंभोपपादनं राज्यप्राप्त्युपायस्त्वां न लभेत् न स्पृशेत् तं न स्वीयं मन्यसे इत्यर्थः ॥२॥

ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र ।
जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः ॥३॥

दिव्या माया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा ।
दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि ॥४॥

भौमनेन विश्वकर्मणा दृश्यन्ति पश्यन्ति । स्वार्थयगन्तोऽयं कण्ड्वादेराकृतिगणत्वात् । अत्र ध्वजे॥४॥

न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान् ध्वजः कर्ण धनञ्जयस्य समुच्छ्रितः पावकतुल्यरूपः ॥५॥

यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ॥६॥

अग्निमारुते आग्नेयं मारुतं च ॥६॥

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥७॥

न तदेति । कृते हि सर्वे कृतकृत्या एवेति न त्रिवर्गं कश्चिदपेक्षते । त्रेतायां तु धर्मप्राधान्येनार्थकामावानुषङ्गिकत्वेन चापेक्षन्ते । द्वापरे तु अर्थकामौ प्राधान्येन धर्मं च तदंगत्वेन । तत्र कृतं न भवितेति मोक्षात् भ्रंश उक्तः । न त्रेतेति । धर्माद्भ्रंश उक्तः । स च दुर्योधनादीनामस्त्येव । द्वापरं न भवितेति तेषामर्थकामावपि न भविष्यतो युद्धेन मरणस्यावश्यंभावादित्यर्थः ॥७॥

यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥८॥

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥९॥

यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥१०॥

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥११॥

यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥१२॥

युद्धायापततस्तूर्णं वारितान् सव्यसाचिना ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥१३॥

यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥१४॥

विगाढे शस्त्रसम्पाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥१५॥

रथारुजौ रथभञ्जकौ ॥१५॥

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥१६॥

सौम्यः चन्द्रिकया अभिरामः ॥१६॥

सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥१७॥

सप्तमाच्चापि दिवसादमावास्या भविष्यति ।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ॥१८॥

सङ्ग्रामः संग्रामसाधनकलापः युज्यताम् एकीभूयावतिष्ठतां सङ्ग्रामारम्भस्तु दिनान्तरे एवेति वक्ष्यते॥१८॥

तथा राज्ञो वदेः सर्वान् ये युद्धायाभ्युपागताः ।
यद्वो मनीषितं तद्वै सर्वं सम्पादयाम्यहम् ॥१९॥

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥२०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कर्णोपनिवादे भगवद्वाक्ये द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ १४२ ॥
त्रिचत्वारिंशद‌धिकशततमोऽध्यायः

सञ्जय उवाच। केशवस्य तु तद्वाक्यं कर्णः श्रुत्वाऽऽहितः शुभम् ।
अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम् ॥१॥

केशवस्येति । शुभं राज्यादिलाभं आहितः प्रवेशितः प्रलोभित इत्यर्थः ॥१॥

जानन् मां किं महाबाहो संमोहयितु‌मिच्छसि ।
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ॥२॥

निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥३॥

असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् ।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥४॥

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥५॥

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥६॥

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
शंसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ॥७॥

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन् प्राणिनोऽधिकम् ॥८॥

प्राजापत्यं रोहिणीनक्षत्रं प्रजानां पतिर्दुर्योधनस्तदीयं नाम नक्षत्रम् उत्तराभाद्रपदाख्यमिति वा । तेन पत्युः पीडया प्राणिनामपि पीडेति युक्तम् । यद्वा पृथ्वीकूर्मोदरस्थां रोहिणीं शनैश्चरः पीडयति तेन मध्यदेशे महान् क्षयो राज्ञो नाशश्चेति भावः ॥८॥

कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन ।
अनुराधां प्रार्थयते मैत्रं सङ्गमयन्निव ॥९॥

कृत्वा चेति । ज्येष्ठामप्राप्य यदि भौमो वक्री भवेत्तर्हि ज्येष्टस्य राज्ञो येऽमित्रभूतास्ते सर्वे नश्येयुरिति भावः । मैत्रं मित्रसमूहं संगमयन् नाशयन् । वैवस्वतं संगमनं जनानामित्यादौ संपूर्वस्य गमेर्मारणार्थत्वदर्शनात् ॥९॥

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥१०॥

चित्रां ग्रहो महापाताख्यो ज्योतिःशास्त्रप्रसिद्धः । तेन राकारस्य वेधाद्राजजातीयानां क्षयो भवितेति भावः ॥१०॥

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च ।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥११॥

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥१२॥

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् ।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥१३॥

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।
वाजिनां वारणानां च मनुष्याणां च केशव ॥१४॥

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥१५॥

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥१६॥

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तत् पराभवलक्षणम् ॥१७॥

मयूराः पुण्यशकुना हंस-सारस-चातकाः ।
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥१८॥

लक्ष्म व्यावृत्तं क्षीणत्वादमावास्यासान्निध्यात् क्षीणचन्द्रोऽपि पाप एव । तस्मिंश्चामावास्यायामर्केण युक्ते उभयोः शत्रुः सदा वक्री राहुरर्कम् उपैति चेदयं कर्तरीयोगः । सोमवंश्यानां सूर्यवंश्यानां च राज्ञां क्षयकर इत्यर्थः । पुण्यशकुना हंसादय एव । पाठान्तरे पुण्यशकुनाः कुक्कुटाः जीवंजीवकाः पक्षिविशेषाः । ये जीवजीवेत्येवशब्दं कुर्वन्ति तेषां संघाश्चकोरादयः ॥१८॥

गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः ।
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ॥१९॥

पाठान्तरे बलाः काकाः ॥१९॥

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥२०॥

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत् पराभवलक्षणम् ॥२१॥

उदपानाः कूपादयो जलाशयाः ॥२१॥

मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ॥२२॥

सप्राकारं सपरिखं सवप्रं चारुतोरणम् ।
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ॥२३॥

गन्धर्वनगरं सप्राकारं परिधः परिवेषः तत्राकाशे गन्धर्वनगरोपर्येव ॥२३॥

उदयास्तमने सन्ध्ये वेदयन्ती महद्भयम् ।
शिवा च वाशते घोरं तत् पराभवलक्षणम् ॥२४॥

शिवा कोष्ट्री वाशते शब्दं करोति ॥२४॥

एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन ।
उत्सृजन्ति महद्घोरं तत् पराभवलक्षणम् ॥२५॥

एकपक्षाक्षिचरणाः पक्षिणो महाराष्ट्रभाषायां ‘पांकोळी’ इति प्रसिद्धाः । घोरं बीभत्सं मलमूत्रादिकमित्यर्थः ॥२५॥

कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः ।
सन्ध्यामभिमुखा यान्ति तत् पराभवलक्षणम् ॥२६॥

ब्राह्मणान् प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान् भक्तिमतश्चापि तत् पराभवलक्षणम् ॥२७॥

पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ।
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ॥२८॥

प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव ।
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ॥२९॥

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः ।
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥३०॥

सहस्त्रपादं सहस्रस्तंभम् ॥३०॥

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः ।
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥३१॥

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।
अन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥३२॥

तव पृथिवीति सम्बन्धः त्वच्छरीरमित्यर्थः । परिक्षिप्ता परिवेष्टिता ॥३२॥

अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः ।
सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम् ॥३३॥

वसुन्धरां ग्रसमानो मृद्भक्षणं कुर्वन् ॥३३॥

युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् ।
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ॥३४॥

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ॥३५॥

क्षपयिष्यति नः सर्वान् स सुव्यक्तं महारणे ।
विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥३६॥

पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः ।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥३७॥

यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः ।
पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान् ॥३८॥

नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुक्लकेयूरकण्ठत्राः शुक्लमाल्यांबरावृताः ॥३९॥

शुक्लानि मौक्तिकमयत्वात् केयूराणि बाहुभूषणानि कण्ठत्राणि कण्ठपुरकाख्यानि शिरोदेशमारभ्य अंसपर्यन्तं लम्बमानानि कण्ठाभरणानि येषां ते शुक्लकेयूरकण्ठत्राः ॥३९॥

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ॥४०॥

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन ।
धार्तराष्ट्रेषु सैन्येषु तान् विजानीहि केशव ॥४१॥

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः॥४२॥

उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ ।
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो॥४३॥

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥४४॥

अहं चान्ये च राजानो यच्च तत् क्षत्रमण्डलम् ।
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥४५॥

कृष्ण उवाच। उपस्थितविनाशेयं नूनमद्य वसुन्धरा ।
यथा हि मे वचः कर्ण नोपैति हृदयं तव ॥४६॥

तव हृदयं कर्तृ मम वचो नोपैति नाङ्गीकरोति ॥४६॥

सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥४७॥

कर्ण उवाच। अपि त्वां कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् ।
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ॥४८॥

अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयाऽनघ ॥४९॥

सञ्जय उवाच। इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥५०॥

पीडितं यथा स्यात्तथा गाढं परिष्वज्येत्यर्थः ॥५०॥ इतिकरणे - कर्णोपनिवादः कर्णस्य भेदनम्।

ततः स्वरथमास्थाय जाम्बूनदविभूषितम् ।
सहास्माभिर्निववृते राधेयो दीनमानसः ॥५१॥

ततः शीघ्रतरं प्रायात् केशवः सहसात्यकिः ।
पुनरुच्चारयन् वाणीं याहि याहीति सारथिम् ॥५२॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कर्णोपनिवादे कृष्णकर्णसंवादे त्रिचत्वारिंशद‌धिकशततमोऽध्यायः
चतुश्चत्वारिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान् गते ।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥१॥

असिद्धेति । असिद्धानुनये विफलविनये ॥१॥

जानासि मे जीवपुत्रि भावं नित्यमविग्रहे ।
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ॥२॥

क्रोशत इत्यनादरे षष्ठी ॥२॥

उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥३॥

उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः ।
काङ्क्षते ज्ञातिसौहार्दाद्बलवान् दुर्बलो यथा ॥४॥

उपप्लव्ये विराटनगरे ॥४॥

राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति ।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥५॥

विधर्मे धर्महीने ॥५॥

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च ।
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते ॥६॥

अधर्मेण हि धर्मिष्ठं कृतं वैकार्यमीदृशम् ।
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥७॥

अधर्मेणेति । हि यस्मात् येषाम् अधर्मेण कृतमपि वैकार्यं विकारजनकं वैरम् ईदृशं चतुर्दशे वर्षे स्वं राज्यं प्राप्स्यथेति प्रतिज्ञाया अयथाकरणरूपं धर्मिष्ठं घर्मयुक्तमेव भवति । तैषामधर्मकृतमेव वैरं धर्मवद्भातीत्यर्थः । तेषामयं विकृतो धर्मः सानुबंधः सफलो भविष्यति । अधर्मफलं विनाशस्तेषां भविष्यत्येवेत्यर्थः ॥७॥

क्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् ।
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥८॥

बलाद्धर्मे पाखण्डिनां पारदार्यम् उभयसंतोषकरमिति द्वयोरपि धर्महेतुरिति बलात्कल्पना शास्त्रद्बहिर्भूता तद्वदयमपीत्यर्थः ॥८॥

ततः कुरूणामनयो भविता वीरनाशनः ।
चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥९॥

श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् ।
सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह ॥१०॥

अर्थकामेन हितकामेन ॥१०॥

धिगस्त्वर्थं यत्कृतेऽयं महान् ज्ञातिवधः कृतः ।
वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन् वै पराभवः ॥११॥

कृतः निश्चितत्वात् कृत इव ॥११॥

पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः ।
भारतैः सह योत्स्यन्ति किं नु दुःखमतः परम् ॥१२॥

पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् ।
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः ॥१३॥

पश्ये पश्यामि आर्षमात्मनेपदम् । अयुद्धे युद्धाभावे ॥१३॥

इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते ।
पितामहः शान्तनव आचार्यश्च युधां पतिः ॥१४॥

कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ।
नाचार्यः कामवान् शिष्यैर्द्रोणो युद्ध्येत जातुचित् ॥१५॥

पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ।
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः ॥१६॥

मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ।
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः ॥१७॥

कर्णः सदा पाण्डवानां तन्मे दहति सम्प्रति ।
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान् प्रति ॥१८॥

प्रसाद‌यितुमासाद्य दर्शयन्ती यथातथम् ।
तोषितो भगवान् यत्र दुर्वासा मे वरं ददौ ॥१९॥

आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि ।
साऽहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ॥२०॥

चिन्तयन्ती बहुविधं हृदयेन विदूयता ।
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ॥२१॥

स्त्रीभावाद्बलभावाच्च चिन्तयन्ती पुनः पुनः ।
धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा ॥२२॥

दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी ।
कथं न सुकृतं मे स्यान्नापराधवती कथम् ॥२३॥

भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च ।
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा ।
कन्या सती देवमर्कमासादयमहं ततः ॥२४॥

तं लब्ध्वा मन्त्रं प्राप्य आचरं तेन मन्त्रेण देवतावाहनाख्यं कार्यं कृतवती । आसादयं लब्धवती॥२४॥

योऽसौ कानीनगर्भो मे पुत्रवत् परिरक्षितः ।
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥२५॥

इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् ।
कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति ॥२६॥

कार्यार्थमवश्यकर्तव्यं प्रयोजनम् ॥२६॥

आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।
गङ्गातीरे पृथाऽश्रौषीद्वेदाध्ययननिःस्वनम् ॥२७॥

घृणिनः दयालोः सत्यसंगिनः सत्यरतस्य ॥२७॥

प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः ।
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥२८॥

अतिष्ठत् सूर्यतापार्ता कर्णस्योत्तरवाससि ।
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥२९॥

उत्तरवाससि उत्तरीयवस्त्रच्छायायाम् ॥२९॥

आपृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः ।
दृष्ट्वा कुन्तीमुपातिष्ठ‌दभिवाद्य कृताञ्जलिः ॥३०॥

आपृष्ठतापादपराह्णपर्यन्तमित्यर्थः ॥३०॥

यथान्यायं महातेजा मानी धर्मभृतां वरः ।
उत्स्मयन् प्रणतः प्राह कुन्तीं वैकर्तनो वृषः ॥३१॥

उत्स्मयन् उद्गतविस्मयः ॥३१॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कुन्तीकर्णसमागमे चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥१४४॥
पञ्चचत्वारिंशदधिकशततमोऽध्यायः

कर्ण उवाच। राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ॥१॥

राधेय इति ॥१॥

कुन्त्युवाच ।
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः॥२॥

कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक ॥३॥

प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥४॥

कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥५॥

स त्वं भ्रातॄनसम्बुद्ध्य मोहाद्यदुपसेवसे ।
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥६॥

एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।
यत्तुष्यन्त्यस्य पितरो माता चाप्येकद‌र्शिनी ॥७॥

एकं पुत्रमेव स्नेहेन पश्यन्ती एकदर्शिनी ॥७॥

अर्जुनेनार्जितां पूर्वं हृतां लोभाद‌साधुभिः ।
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ॥८॥

अद्य पश्यन्ति कुरवः कर्णार्जुनसमागमम् ।
सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः ॥९॥

संनमन्तां प्रह्वा भवन्तु ॥९॥

कर्णार्जुनौ वै भवेतां यथा रामजनार्दनौ ।
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः ॥१०॥

भवेतां वर्धेतां संहितात्मनोः मिलितचेतसोः ॥१०॥

कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृ‌भिर्वृतः ।
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे ॥११॥

उपपन्नो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु ।
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥१२॥

सूतपुत्रेति शब्दो माभूदिति शेषः ॥१२॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कुन्तीकर्णसमागमे पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥ १४५ ॥
षट्चत्वारिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥१॥

तत इति ॥१॥

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥२॥

वैशम्पायन उवाच। एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥३॥

कर्ण उवाच। न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥४॥

न श्रद्दधे कर्तव्यत्वेन न मन्ये धर्मद्वारं धर्मापगमद्वारं तव नियोगकरणं त्वदाज्ञप्तार्थानुष्ठानम् ॥४॥

अकरोन्मयि यत् पापं भवती सुमहात्ययम् ।
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ॥५॥

सुमहात्ययं सुमहान् अत्ययो जातिभ्रंशाख्यो विनाशो यस्मात् । अपाकीर्णस्त्यक्तः यशो माहात्म्यख्यातिः कीर्तिः सद्भिस्तस्याः कीर्तनम् ॥५॥

अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥६॥

त्वत्कृते त्वत्सुखार्थं कानीनो गर्भः प्रकटो मा भूदितिहेतोरहं क्षत्रसत्क्रियां चेन्न प्राप्तस्तर्हि त्वदन्यः कः शत्रुः किं ममाहितं पापीय इति इतोऽपि पापतरं कुर्यान्न कोऽपीत्यर्थः ॥६॥

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।
हीनसंस्कारसमयमद्य मां समचूचुदः ॥७॥

क्रियाकाले क्षत्रियोचितसंस्कारकाले अनुक्रोशं दयां समचूचुदः स्वकार्यार्थं प्रेरितवत्यसि ॥७॥

न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया ।
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी ॥८॥

कृष्णेन सहितात् को वै न व्यथेत धनञ्जयात् ।
कोऽद्य भीतं न मां विद्यात् पार्थानां समितिं गतम्॥९॥

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥१०॥

सर्वकामैः संविभक्तः पूजितश्च यथासुखम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥११॥

उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥१२॥

उपनह्य बद्ध्वा ॥१२॥

मम प्राणेन ये शत्रून् शक्ताः प्रतिसमासितुम् ।
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ॥१३॥

प्रतिसमासितुं जेतुम् ॥१३॥

मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् ।
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥१४॥

अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥१५॥

निर्वेष्टव्यं भुक्तस्य तदन्नादेरानृण्यं कर्तव्यम् ॥१५॥

कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते ।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥१६॥

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् ।
नैवायं न परो लोको विद्यते पापकर्मणाम् ॥१७॥

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥१८॥

आनृशंस्यमथो वृत्तं रक्षन् सत्पुरुषोचितम् ।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥१९॥

न च तेऽयं समारम्भो मयि मोघो भविष्यति ।
वध्यान् विषह्यान् सङ्ग्रामे न हनिष्यामि ते सुतान् ॥२०॥

वध्यान् वधार्हान् विषह्यान् हन्तुं शक्यानपीत्यर्थः ॥२०॥

युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ।
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ॥२१॥

अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात् फलं मया ।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥२२॥

न ते जातु न शिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥२३॥

इति कर्णवचः श्रुत्वा कुन्ती दुःखात् प्रवेपती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ॥२४॥

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥२५॥

त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत् प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥२६॥

अनामयं स्वस्ति चेति पृथाऽथो कर्णमब्रवीत् ।
तां कर्णोऽथ तथेत्युक्त्वा ततस्तौ जग्मतुः पृथक् ॥२७॥

सा च स च तौ । धर्माधर्मौ न त्यजतो धर्माधर्मैकसंश्रयौ । प्रार्थितावपि पित्राद्यैः कर्णदुर्योधनाविव ॥ इति कृत्स्नाख्यायिकातात्पर्यम् ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कुन्तीकर्णसमागमे षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४६॥
सप्तचत्वारिंशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। आगम्य हास्तिनपुरादुपप्लव्यमरिन्दमः ।
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥१॥

आगम्येति । पाण्डवानां पुर इति शेषः ॥१॥

संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः ।
स्वमेव भवनं शौरिर्विश्रामार्थं जगाम ह ॥२॥

विसृज्य सर्वान्नृपतीन् विराटप्रमुखांस्तदा ।
पाण्डवा भ्रातरः पञ्च भानावस्तं गते सति ॥३॥

सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः ।
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥४॥

युधिष्ठिर उवाच। त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥५॥

नागपुरं हास्तिनपुरम् ॥५॥

वासुदेव उवाच। मया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥६॥

पथ्यं न्यायोपेतं हितमुभयत्र जयावहम् ॥६॥

युधिष्ठिर उवाच। तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः ।
किमुक्तवान् हृषीकेश दुर्योधनममर्षणम् ॥७॥

आचार्यो वा महाभाग भारद्वाजः किमब्रवीत् ।
पिता वा धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् ॥८॥

पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः ।
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ॥९॥

किं च सर्वे नृपतयः सभायां ये समासते ।
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥१०॥

उक्तवान् हि भवान् सर्वं वचनं कुरुमुख्ययोः ।
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि ॥११॥

कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ।
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ॥१२॥

तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ।
यथा च नाभिपद्येत कालस्तात तथा कुरु ॥१३॥

नाभिपद्येत नातिक्रामेत नोऽस्माकम् ॥१३॥

भवान् हि नो गतिः कृष्ण भवान्नाथो भवान् गुरुः। वासुदेव उवाच। शृणु राजन् यथा वाक्यमुक्तो राजा सुयोधनः ।
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥१४॥

मया विश्राविते वाक्ये जहास धृतराष्ट्रजः ।
अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥१५॥

दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते ।
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥१६॥

मम तात पिता राजन् शान्तनुर्लोकविश्रुतः ।
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥१७॥

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथं सुतः ।
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥१८॥

न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः ।
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥१९॥

कालीं सत्यवतीम् ॥१९॥

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च ।
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ।
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥२०॥

प्रतीतः तुष्टः ॥२०॥

तस्यां जज्ञे महाबाहुः श्रीमान् कुरुकुलोद्वहः ।
विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिव ॥२१॥

स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम् ।
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥२२॥

तस्याहं सदृशान् दारान् राजेन्द्र समुपाहरम् ।
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ॥२३॥

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् ।
स हि रामभयादेभिर्नागरैर्विप्रवासितः ॥२४॥

विप्रवासितः दूरे स्थापितः रामभयात् स्वयं पलायनेन प्रजाभिस्तदीयशिबिरस्य शून्यताकरणात् ॥२४॥

दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत ।
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।
तदाऽभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥२५॥

प्रजा ऊचुः। उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः ।
ईतीः प्रणुद भद्रं ते शान्तनोः कुलवर्धन ॥२६॥

ईतीः अनावृष्ट्यादिरूपाः ॥२६॥

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥२७॥

व्याधीन् प्रणुद वीर त्वं प्रजा धर्मेण पालय ।
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु ॥२८॥

भीष्म उवाच। प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ॥२९॥

ततः पौरा महाराज माता काली च मे शुभा ।
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ।
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ॥३०॥

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति ।
स त्वमस्मद्धितार्थं वै राजा भव महामते ॥३१॥

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगौरवात् ॥३२॥

ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ।
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ॥३३॥

ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् ।
नाम्ब शान्तनुना जातः कौरवं वंशमुद्वहन् ॥३४॥

प्रतिज्ञां वितथां कुर्यामिति राजन् पुनःपुनः ।
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम् ॥३५॥

अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले ।
एवं तामनुनीयाहं मातरं जनमेव च ॥३६॥

अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ।
सह मात्रा महाराज प्रसाद्य तमृषिं तदा ॥३७॥

अपत्यार्थं महाराज प्रसादं कृतवांश्च सः ।
त्रीन् स पुत्रानजनयत्तदा भरतसत्तम ॥३८॥

अन्धः करणहीनत्वान्न वै राजा पिता तव ।
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥३९॥

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥४०॥

मयि जीवति राज्यं कः संप्रशासेत् पुमानिह ।
मावमंस्था वचो मह्यं शममिच्छामि वः सदा ॥४१॥

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव ।
मतमेतत् पितुस्तुभ्यं गान्धार्या विदुरस्य च॥४२॥

श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम ।
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा॥४३॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि भगवद्वाक्ये सप्तचत्वारिंशदधिकशततमोऽध्यायः॥१४७॥
अष्टचत्वारिंशदधिकशततमोऽध्यायः

वासुदेव उवाच। भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥१॥

भीष्मेणोक्त इति ॥१॥

प्रातीपः शान्तनुस्तात कुलस्यार्थे यथा स्थितः ।
यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥२॥

तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः ।
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥३॥

ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते ।
यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः ॥४॥

ज्येष्ठोऽन्धत्वादनर्हः क्षत्ता वियोनित्वादनर्ह इति सूचयन् यथा ज्येष्टायाददात् तथा क्षत्रे विदुरायापि न्यासभूतमददादिति भावः ॥४॥

ततः सिंहासने राजन् स्थापयित्वैनमच्युतम् ।
वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः ॥५॥

नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् ।
प्रेष्यवत् पुरुषव्याघ्रो बालव्यजनमुत्क्षिपन् ॥६॥

ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।
अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम् ॥७॥

विसृज्य धृतराष्ट्राय राज्यं सविदुराय च ।
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ॥८॥

कोशसंवनने दाने भृत्यानां चान्ववेक्षणे ।
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ॥९॥

संवननमात्मीयताकरणम् ॥९॥

सन्धि-विग्रहसंयुक्तो राज्ञां संवाहनक्रियाः ।
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ॥१०॥

संवाहनक्रियाः संवाहनं संप्रापणं दानोपदानादिकं ता एव क्रियाः ॥१०॥

सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।
अन्वास्यमानः सततं विदुरेण महात्मना ॥११॥

कथं तस्य कुले जातः कुलभेदं व्यवस्यसि ।
सम्भूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगान् जनाधिप ॥१२॥

ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन ।
भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम ॥१३॥

कार्पण्याद्युद्धभयात् ॥१३॥

नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत् कुरु ॥१४॥

दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।
सममाचार्यकं तात तव तेषां च मे सदा ॥१५॥

अश्वत्थामा यथा मह्यं तथा श्वेतह‌यो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥१६॥

वासुदेव उवाच। एवमुक्ते महाराज द्रोणेनामिततेजसा ।
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ।
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ॥१७॥

पितुर्भीष्मस्य ॥१७॥

विदुर उवाच। देवव्रत निबोधेदं वचनं मम भाषतः ।
प्रनष्टः कौरवो वंशस्त्वयाऽयं पुनरुद्धृतः ॥१८॥

तन्मे विलपमानस्य वचनं समुपेक्षसे ।
कोऽयं दुर्योधनो नाम कुलेऽस्मिन् कुलपांसनः ॥१९॥

यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः ॥२०॥

अतिक्रामति यः शास्रं पितुर्धर्मार्थदर्शिनः ।
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै ॥२१॥

शास्त्रमाज्ञाम् । दुर्योधनकृतेन दुर्योधनकर्मणा ॥२१॥

यथा ते न प्रणश्येयुर्महाराज तथा कुरु ।
मां चैव धृतराष्ट्रं च पूर्वमेव महामते ॥२२॥

चित्रकार इवालेख्यं कृत्वा स्थापितवानसि ।
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ॥२३॥

नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् ।
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ॥२४॥

वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ।
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ॥२५॥

वनं गच्छेति । तावता त्वया त्वदनुगामिना द्रोणेन च त्यक्तोऽयं हीनपक्षो दुर्योधनः पाण्डवेभ्यो भयं प्राप्स्यतीत्याशयः ॥२५॥

शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम् ।
प्रसीद राजशार्दूल विनाशो दृश्यते महान् ॥२६॥

पाण्डवानां कुरूणां च राज्ञाममिततेजसाम् ।
विररामैवमुक्त्वा तु विदुरो दीनमानसः ।
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥२७॥

ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता ।
दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात् ॥२८॥

ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये ।
शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य ॥२९॥

राज्यं कुरूणामनुपूर्वभोज्यं क्रमागतो नः कुलधर्म एषः ।
त्वं पापबुद्धेऽतिनृशंसकर्मन् राज्यं कुरूणामनयाद्विहंसि ॥३०॥

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी ।
एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात् ॥३१॥

राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् ।
अयं तु धर्मज्ञतया महात्मा न कामयेद्यो नृवरो नदीजः ॥३२॥

राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये ।
राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि ॥३३॥

यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसन्धो मनीषी ।
सर्वं तदस्माभिरहत्य कार्यं राज्यं स्वधर्मान् परिपालयद्भिः ॥३४॥

अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपोऽयं विदुरस्तथैव ।
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं धर्मं पुरस्कृत्य सुदीर्घकालम् ॥३५॥

न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः ।
प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शान्तनवेन चैव ॥३६॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णवाक्ये अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८॥
एकोनपञ्चाशदधिकशततमोऽध्यायः

वासुदेव उवाच। एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।
दुर्योधनमुवाचेदं राजमध्ये जनाधिप ॥१॥

एवमुक्त इति ॥१॥

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत् कुरु भद्रं ते यद्यस्ति पितृ‌गौरवम् ॥२॥

सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः ॥३॥

तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत् प्रभुः ॥४॥

पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।
शर्मिष्ठया सम्प्रसूतो दुहित्रा वृषपर्वणः ॥५॥

यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् ।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥६॥

यादवानां कुलकरो बलवान् वीर्यसम्मतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥७॥

न चातिष्ठत् पितुः शास्त्रे बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥८॥

पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली ।
वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये ॥९॥

तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत् ॥१०॥

ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः ।
शशाप तानभिक्रुद्धो ययातिस्तनयानथ ॥११॥

यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥१२॥

एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोऽपि जायन्ते राज्यं वृद्धोपसेवया ॥१३॥

अभिजायते प्राप्नोति । जायन्ते लभन्ते ॥१३॥

तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥१४॥

तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥१५॥

देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शान्तनुस्तात धृतिमान् मे पितामहः ॥१६॥

देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥१७॥

त्वग्दोषी कुष्ठी ॥१७॥

पौरजानपदानां च सम्मतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ॥१८॥

वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥१९॥

बाह्लीकस्य प्रियो भ्राता शान्तनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥२०॥

अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
सम्भारानभिषेकार्थं कारयामास शास्त्रतः ॥२१॥

कारयामास सर्वाणि मङ्गलार्थानि वै विभुः ।
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ॥२२॥

सर्वे निवारयामासुर्देवापेरभिषेचनम् ।
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् ।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥२३॥

वृद्धः प्रतीपः आत्मजं देवापिम् ॥२३॥

एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् ।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥२४॥

हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः ।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन् द्विजर्षभाः ॥२५॥

ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः ।
निवारितं नृपं दृष्ट्वा देवापिः संश्रितो वनम् ॥२६॥

बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः ।
पितृभ्रातॄन् परित्यज्य प्राप्तवान् परमर्द्धिमत् ॥२७॥

राज्यं त्यक्त्वा मातुलकुलं समाश्रित इति सम्बन्धः ॥२७॥

बाह्लीकेन त्वनुज्ञातः शान्तनुर्लोकविश्रुतः ।
पितर्युपरते राजन् राजा राज्यमकारयत् ॥२८॥

अकारयत् अकरोत् ॥२८॥

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥२९॥

पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम ॥३०॥

मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ।
अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि ॥३१॥

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य ।
स कौरवस्यास्य कुलस्य भर्ता प्रशासिता चैव महानुभावः ॥३२॥

स सत्यसन्धः स तथाऽप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः ।
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता ॥३३॥

आसमन्तात् अनुकंपी दयावान् ॥३३॥

क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥३४॥

अराजपुत्रस्त्वमनार्यवृत्तो लुब्धः सदा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीत ॥३५॥

प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च ।
ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र ॥३६॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि धृतराष्ट्रवाक्यकथने एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ १४९ ॥
पञ्चाशद‌धिकशततमोऽध्यायः

वासुदेव उवाच। एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च ।
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत ॥१॥

एव मुक्त इति ॥१॥

अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः ।
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥२॥

आज्ञापयच्च राज्ञस्तान् पार्थिवान्नष्टचेतसः ।
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥३॥

पुष्योऽद्येति । पुष्यनक्षत्रं हि अश्विन्याः पौर्णमास्या उपरि अष्टम्यां भवति । पूर्वमपि सप्तमाद्दिवसादूर्ध्वममावास्या भविष्यति । ‘ संग्रामं योजयेत्तस्याम्’ इत्युक्तत्वात् ॥३॥

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥४॥

अक्षौहिण्यो दशैका च कौरवाणां समागताः ।
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥५॥

यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशाम्पते ।
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ॥६॥

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।
एतत्ते कथितं राजन् यद्वृत्तं कुरुसंसदि ॥७॥

साम्यमादौ प्रयुक्तं मे राजन् सौभ्रात्रमिच्छता ।
अभेदायास्यं वंशस्य प्रजानां च विवृद्धये ॥८॥

साम्यं साम्नो भावः सामेति यावत् ॥८॥

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते ।
कर्मानुकीर्तनं चैव देवमानुषसंहितम् ॥९॥

पुनर्भेदश्च कर्णेन सहोपसंवादेन ॥९॥

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।
तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥१०॥

अद्भुतानि च घोराणि दारुणानि च भारत ।
अमानुषाणि कर्माणि दर्शितानि मया विभो ॥११॥

निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।
राधेयं भीषयित्वा च सौबलं च पुनःपुनः ॥१२॥

द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः ।
भेदयित्वा नृपान् सर्वान् वाग्भिर्मन्त्रेण चासकृत् ॥१३॥

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् ।
अभेदात् कुरुवंशस्य कार्ययोगात्तथैव च ॥१४॥

ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥१५॥

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च ।
यथाह राजा गाङ्गेयो विदुरश्च हितं तव ॥१६॥

सर्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्जय ।
अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥१७॥

पञ्चग्राममात्रस्वीकारेण कृत्स्नराज्यसमर्पणरूपं दानमपि प्रयुक्तम् ॥१७॥

एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत ।
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥१८॥

दण्ड एवोपायो नान्य इत्याह - दण्डमिति ॥१८॥

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः ।
एतत्ते कथितं राजन् यद्वृत्तं कुरुसंसदि ॥१९॥

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥२०॥

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि कृष्णवाक्ये पञ्चाशद‌धिकशततमोऽध्यायः ॥१५०॥
॥समाप्तं भगवद्यानपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in