सेनोद्योगपर्व - १सञ्जययानपर्व - २प्रजागरपर्व - ३सनत्सुजातपर्व - ४यानसन्धिपर्व - ५भगवद्यानपर्व - ६सैन्यनिर्याणपर्व - ७उलूकदूतागमनपर्व - ८रथातिरथसंख्यानपर्व - ९अम्बोपाख्यानपर्व - १०

सैन्यनिर्याणपर्व

एकपञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। जनार्दनवचः श्रुत्वा धर्मराजी युधिष्ठिरः ।
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥१॥

जनार्दनेति ॥१॥

श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।
केशवस्यापि यद्वाक्यं तत् सर्वमवधारितम् ॥२॥

तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः ।
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ॥३॥

तासां ये पतयः सप्त विख्यातास्तान्निबोधत ।
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनो ॥४॥

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥५॥

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥६॥

इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः ।
सप्तानामपि यो नेता सेनानां प्रविभागवित् ॥७॥

यः सहेत रणे भीष्मं शरार्चिः पावकोपमम् ।
तं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन ।
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥८॥

सहदेव उवाच। संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः ।
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥९॥

संयुक्तः सम्बन्धी ॥९॥

मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः ।
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥१०॥

वैशम्पायन उवाच। तथोक्ते सहदेवेन वाक्ये वाक्यविशारद ।
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥११॥

वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च ।
ह्रीमान् बलान्वितः श्रीमान् सर्वशास्त्रविशारदः ॥१२॥

कुलेन वंशेन अभिजनेन स्वजनसमूहेन ॥१२॥

वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः ।
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥१३॥

श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः ।
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥१४॥

यस्तताप तपो घोरं सदारः पृथिवीपतिः ।
रोषाद्द्रोणविनाशाय वीरः समिति शोभनः ॥१५॥

पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः ।
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ॥१६॥

स द्रोणभीष्मावायातौ सहेदिति मतिर्मम ।
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः॥१७॥

अङ्गिरसो द्रोणस्य ॥१७॥

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः ।
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥१८॥

योऽयं तपःप्रभावेण ऋषिसन्तोषणेन च ।
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ॥१९॥

धनुष्मान् कवची खड्गी रथमारुह्य दंशितः ।
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात् समुत्थितः ॥२०॥

गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ॥२१॥

सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः ।
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥२२॥

सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥२३॥

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥२४॥

धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् ।
चज्राशनिसमस्पर्शान् दीप्तास्यानुरगानिव ॥२५॥

यमदूतसमान् वेगे निपाते पावकोपमान् ।
रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान् ॥२६॥

पुरुषं तं न पश्यामि यः सहेत महाव्रतम् ।
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥२७॥

क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।
अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः ॥२८॥

भीमसेन उवाच। वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥२९॥

यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः ।
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥३०॥

न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनम् ।
शस्त्रेण समरे राजन् सन्नद्धं स्यन्दने स्थितम् ॥३१॥

द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् ।
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥३२॥

युधिष्ठिर उवाच। सर्वस्य जगतस्तात सारासारं बलाबलम् ।
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ॥३३॥

यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम ।
कृतास्त्रोऽप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥३४॥

एष नो विजये मूलमेष तात विपर्यये ।
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥३५॥

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता ।
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः ॥३६॥

ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते ।
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ॥३७॥

रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥३८॥

शस्त्राणामधिवासनं गन्धाद्यैः पूजनं कौतुकं रक्षाबन्धनं मङ्गलं स्वस्तिवाचनम् ॥३८॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः ।
अब्रवीत् पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥३९॥

धनञ्जयमवेक्ष्येत्यनेनार्जुनाभिमतो धृष्टद्युम्नः सेनापतिरिति स्वाशयं प्रदर्श्येत्यर्थः ॥३९॥

ममाप्येते महाराज भवद्भिर्य उदाहृताः ।
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ॥४०॥

सर्व एव समर्था हि तव शत्रुं प्रबाधितुम् ।
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ॥४१॥

किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ।
मयाऽपि हि महाबाहो त्वत्प्रियार्थं महाहवे ॥४२॥

कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥४३॥

कृतास्त्रं मन्यते बाल आत्मानमविचक्षणः ।
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ॥४४॥

युज्यतां वाहिनी साधु वधसाध्या हि मे मताः ।
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥४५॥

भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ ।
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥४६॥

अभिमन्युं द्रौपदेयान् विराटद्रुपदावपि ।
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान् भीमविक्रमान् ॥४७॥

सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् ।
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ॥४८॥

अस्माकं बलं कर्तृ, धार्तराष्ट्रबलं कर्म ॥४८॥

धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम। वैशम्पायन उवाच। एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः ॥४९॥

तेषां प्रहृष्टमनसां नादः समभवन्महान् ।
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ॥५०॥

योगो युद्धाय सज्जीभवनम् । ‘द्रव्योपायसन्नहनेष्वपि योगः’ इति विश्वः ॥५०॥

हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः ।
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ॥५१॥

तदुग्रं सागरनिभं क्षुब्धं बलसमागमम् ।
रथपत्तिगजोदग्रं महोर्मिभिरिवाकुलम् ॥५२॥

धावतामाह्वयानानां तनुत्राणि च बध्नताम् ।
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ॥५३॥

गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ।
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ॥५४॥

सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ।
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ॥५५॥

ततः शब्दः समभवत् समुद्रस्येव पर्वणि ।
हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत् ॥५६॥

प्रहृष्टा दंशिता योधाः परानीकविदारणाः ।
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥५७॥

शकटापणवेशाश्च यानयुग्यं च सर्वशः ।
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥५८॥

शकंटा अनांसि आपणो वणिग्वीथ्युपलक्षितं विक्रेयद्रव्यं वेशो वेश्याजनाश्रयः पटगृहाणि यानयुग्यं यानेषु युग्यं युगमर्हतीति रथादि । शकटमुपस्करादिभारवहं युग्यम् । इदं तु केवलं प्रयाणार्हं ‘युग्यं च पत्रे’ इति निपातनात् । कोशं धनचयं यंत्रायुधं गोलकप्रक्षेपणं नाल इत्युच्यते लोके । चिकित्सकाः शस्त्रवैद्याः ॥५८॥

फल्गु यच्च बलं किञ्चिद्यच्चापि कृशदुर्बलम् ।
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥५९॥

उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी ।
सह स्त्रीभिर्निववृते दासीदाससमावृता ॥६०॥

कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः ।
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥६१॥

मूलप्रतीकारं धनदाररक्षां गुल्मैः स्थावरैः प्राकाररूपैः जङ्गमैः परितः स्थाने स्थाने शूरस‌ङ्घैः स्कन्धावारेण सैन्येन ॥६१॥

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः ।
स्तूयमाना ययू राजन् रथैर्मणिविभूषितैः ॥६२॥

गां भूमि धेनुं वा ॥६२॥

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभुः ।
श्रेणिमान् वसुदानश्च शिखण्डी चापराजितः ॥६३॥

हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः ।
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥६४॥

जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः ।
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥६५॥

जघनार्धे पश्चिमार्धे ॥६५॥

रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा ।
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ॥६६॥

अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः ।
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥६७॥

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥६८॥

तेऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुररिन्दमाः ।
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ॥६९॥

पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥७०॥

समहृष्यन्त रोमाञ्चितानि ॥७०॥

शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥७०॥

समहृष्यन्त रोमाञ्चितानि ॥७०॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि कुरुक्षेत्रप्रवेशे एकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥
द्विपञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। ततो देशे समे स्निग्धे प्रभूतयवसेन्धने ।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥१॥

तत इति ॥१॥

परिहृत्य श्मशानानि देवतायतनानि च ।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥२॥

मधुरानूषरे देशे शुचौ पुण्ये महामतिः ।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥३॥

मधुरे मनोहरे ॥३॥

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥४॥

विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान् ।
पर्यक्रामत् समन्ताच्च पार्थेन सह केशवः ॥५॥

गुल्मान् सैनिकस‌ङ्घान् ॥५॥

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः ।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ॥६॥

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥७॥

सूपतीर्थां शोभनोपकण्ठाम् ॥७॥

खानयामास परिखां केशवस्तत्र भारत ।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥८॥

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।
तद्विधानि नरेन्द्राणां कारयामास केशवः ॥९॥

तद्विधानि शिबिराणि ॥९॥

प्रभूततरकाष्ठानि दुराधर्षतराणि च ।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ॥१०॥

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।
विमानानीव राजेन्द्र निविष्ठानि महीतले ॥११॥

तत्रासन् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः ।
सर्वोपकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ॥१२॥

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।
ससर्जरसपांसूनां राशयः पर्वतोपमाः ॥१३॥

बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥१४॥

महायन्त्राणि नाराचास्तोमराणि परश्वधाः ।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ॥१५॥

गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः ।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ॥१६॥

कण्टकसन्नाहाः येषां स्पर्शमात्रादपि गजान्तराणां कण्टकवेधो भवति तादृशाः सन्नाहाः कवचानि कण्टकैः कवचैः सन्नहनं येषामिति प्राञ्चः ॥१६॥

निविष्टान् पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ॥१७॥

अभिसस्रुरभ्याजग्मुः ॥१७॥

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः ।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥१८॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि शिबिरादिनिर्माणे द्विपञ्चाशदधिकशततमोऽध्यायः ॥ १५२ ॥
त्रिपञ्चाशद‌धिकशततमोऽध्यायः

जनमेजय उवाच। युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया ।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥१॥

युधिष्ठिरमिति ॥१॥

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥२॥

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः ।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥३॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते ।
सम्भ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले ॥४॥

व्यथयेयुरिमे देवान् सेन्द्रानपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५॥

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ॥६॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥७॥

वैशम्पायन उवाच। प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा ।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥८॥

अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ॥९॥

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥१०॥

अजातशत्रुरत्यर्थं भीमसेनवशानुगः ।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥११॥

विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥१२॥

भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः ।
तस्मात् साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥१३॥

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः॥१४॥

आसन्नजलकोष्ठानि शतशोऽथ सहस्रशः ।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च ॥१५॥

आसन्नजलाः कोष्ठाः कक्ष्याः येषु तानि तथा । अच्छेद्यः शत्रुभिरनिर्वार्यः आहार आहारणं वस्तूनां मार्गाश्च येषु तानि अच्छेद्याहारमार्गाणि ॥१५॥

विविधायुधपूर्णानि पताकाध्वजवन्ति च ।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ॥१६॥

प्रयाणं घुष्यतामद्य श्वोभूत इति मा चिरम् ।
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ॥१७॥

हृष्टरूपा महात्मानो निवासाय महीक्षिताम् ।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ॥१८॥

आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ।
बाहून् परिघसङ्काशान् संस्पृशन्तः शनैः शनैः ॥१९॥

काञ्चनाङ्गददीप्तांश्च चन्दनागुरुभूषितान् ।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः ।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥२०॥

अन्तरीयं परिधानीयमुत्तरीयं प्रावरणवस्त्रम् ॥२०॥

ते रथान् रथिनः श्रेष्ठा हयांश्च हयकोविदाः ।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ॥२१॥

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ॥२२॥

पदातयश्च पुरुषाः शस्त्राणि विविधानि च ।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥२३॥

उपाजह्रुः परिधानं कृतवन्तः ॥२३॥

तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥२४॥

जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥२५॥

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासाद‌मालाद्रिवृतो रथ्यापणमहाह्रदः ॥२६॥

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ॥२७॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यसज्जकरणे त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ १५३ ॥
चतुःपञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः ।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥१॥

वासुदेवेति ॥१॥

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत ।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥२॥

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
वासुदेवमतज्ञोऽसि मम सभ्रातृकस्य च ॥३॥

विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः ।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥४॥

सर्वमेतदतिक्रम्य विचार्य च पुनःपुनः ।
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ॥५॥

श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः ।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥६॥

कृष्ण उवाच। उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् ।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥७॥

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा ।
मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ॥८॥

नैष कामयते धर्मं नैष कामयते यशः ।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥९॥

बन्धमाज्ञापयामास मम चापि सुयोधनः ।
न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः ॥१०॥

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः ।
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥११॥

शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥१२॥

किं च तेन मयोक्तेन यान्यभाषत कौरवः ।
संक्षेपेण दुरात्माऽसौ न युक्तं त्वयि वर्तते ॥१३॥

युक्तं सम्यक् ॥१३॥

पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः ।
यत् पापं यन्न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् ॥१४॥

न कल्याणमकल्याणं पापमकल्याणं च त्वदीयेष्वविद्यमानं सर्वं तस्मिन् दुर्योधने प्रतिष्ठितम्॥१४॥

न चापि वयमत्यर्थं परित्यागेन कर्हिचित् ।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥१५॥

परित्यागेन राज्यस्योपेक्षया ॥१५॥

वैशम्पायन उवाच। तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् ।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥१६॥

युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥१७॥

योगं युद्धोद्योगम् ॥१७॥

ततः किलकिलाभूतमनीकं पाण्डवस्य ह ।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥१८॥

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः ।
निःश्वसन् भीमसेनं च विजयं चेदमब्रवीत् ॥१९॥

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया ।
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥२०॥

यदर्थं यन्निवृत्यर्थं अनर्थः कुलक्षयः प्रयत्नतो बलात् ॥२०॥

तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः ।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥२१॥

तस्मिन्निति । तस्मिन्ननर्थे निमित्ते सति यत्नस्तत्परिहारार्थ उपायः सद्यः शत्रुवधरूपो भीमस्य यूतकाले संमतः । स नोऽस्माकं अस्माभिः क्षमां कुर्वद्भिः प्रयत्नतो बलाद्धीनो व्यर्थः कृतः । अकृते तु अकृतेऽपि प्रयत्ने युद्धार्थमुद्योगे तथाऽपि अस्मान् कलिः उपावृत्त आगतः ॥२१॥

कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति ।
कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति ॥२२॥

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः ।
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥२३॥

उक्तवान् देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।
वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥२४॥

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः ।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥२५॥

तौ कुन्तीविदुरौ अधर्ममिति च्छेदः । अयुद्ध्यतस्तव निवर्तितुमपि न युक्तम् ॥२५॥

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ॥२६॥

ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः ।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥२७॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि युधिष्ठिरार्जुनसंवादे चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ १५४ ॥
पञ्चपञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः ।
व्यभजत्तान्यनीकानि दश चैकं च भारत ॥१॥

व्युष्टायामिति । युष्टायां व्यतीतायाम् ॥१॥

नर-हस्ति-रथाश्वानां सारं मध्यं च फल्गु च ।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥२॥

सारं पुरोगामि मध्यं मध्यमं फल्गु पाश्चात्यम् ॥२॥

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः ।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः ॥३॥

सानुकर्षा इत्यादीनि नानामणिविभूषिता इत्यन्तानि चित्रानीकानां विशेषणानि । अनुकर्षः युद्धविमर्दे यस्य कस्यचिद्रथावयवस्य नष्टस्य प्रतिसमाधानार्थं यद्रथस्याधो दारु बध्यते तत् । ‘अनुकर्षो रथाधःस्थदारुणि’ इति मेदिनी । तूणीरो रथबाह्यो बाणकोशः । महान् निषङ्ग इति यावत् । वरूथो रथगुप्तिर्व्याघ्रादिचर्ममयी । तोमराः हस्तक्षेप्याः सशल्या दण्डाः उपास‌ङ्गाः हयगजबाह्यास्तूणाः । निषङ्गः पत्तिबाह्यः स एव । शक्तिर्लोहदण्डः ऋष्टिर्गुरुतरः काष्ठदण्डः ॥३॥

सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥४॥

शरासनतोमराः धनुःप्रक्षेप्यास्तोमराः स्थूलबाणाः । पाशाः समीपागतस्य गले प्रक्षेपार्थं परिच्छदा आस्तरणादीनि । परिस्तरा इति पाठे आस्तरणमेव ॥४॥

सकचग्रह‌विक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥५॥

कचग्रहविक्षेपः कचेषु गृहीत्वा येन शत्रुर्विक्षिप्यते तादृशः कलविंकग्रहतुल्यश्चिक्कणद्रव्याञ्जिताग्रो दण्डविशेषः । करग्रहेति पाठे अङ्कुशविशेषः । तैलादयः प्रतप्ताः शत्रूणामुपरि क्षिप्यन्ते । साशीविषघटाः ससर्पाः कुंभाः सर्जरसो रालद्रव्यमग्न्युद्दीपकम् ॥५॥

सघण्टफलकाः सर्वे सायोगुडजलोपलाः ।
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥६॥

सघण्टानि फलकानि शस्त्राग्राणि येषां ते सघंटफलकाः घण्टासहितं चर्मेत्यन्ये अयोऽसि खड्गपट्टिशच्छुरिकादीनि । गुडजलं तप्तं उपला यन्त्रक्षेप्या गोलाः शालते कत्थते शब्दं करोतीति शालः स चासौ भिन्दिपालो गोफलकः । सशुलेति गौडपाठः । मधूच्छिष्टं मयनं तदपि द्रवीकृत्य गुडजलवत्प्रक्षेप्यम् । मुद्गरोः मुशलतुल्यो दण्डः ॥६॥

सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्‌कुशतोमराः ॥७॥

काण्डं बाणफलकं तयुक्तो दण्डः काण्डदण्डः कण्टकदण्ड इति यावत् । दण्डकण्टक इति पाठे स एवार्थः । सीरं लाङ्गलम् । विषं प्रसिद्धं तेन युक्तास्तोमरा विषतोमराः शूर्पाणि तप्तगुडादिप्रक्षेपार्थानि पिटकास्तदाश्रया मञ्जूषाः । अस्त्ररोधनार्था वा दात्रं परशुप्रभृति । अङ्‌कुशतोमराः बदरीकण्टकतुल्यलोहकण्टकोपेतास्तोमराः । येषामन्तःप्रविष्टानां बहिर्निःसरणे अन्त्राण्यपि बहिर्निःसरन्ति ॥७॥

सकीलकवचाः सर्वे वासीवृक्षादनान्विताः ।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥८॥

कीलकवचवान् हि परेण मुष्टियुद्धे जेतुमशक्यः । सकीलक्रकचा इति पाठे सदन्तं करपत्रं येन तक्षा काष्ठं पाटयति । वाशी काष्ठप्रच्छन्नं शस्त्रं वास्येति वासीति वा पाठेऽपि स एवार्थः। वृक्षादनाः लोहकण्टककीलादीन्युपकरणानि । व्याघ्रचर्मणा द्वीपी चित्रव्याघ्रस्तच्चर्मणा च परिवृता रथा एव ॥८॥

सहर्ष्टयः सशृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥९॥

ऋष्टिः द्रविडेषु प्रसिद्धं हस्तक्षेप्यं वक्रं काष्ठफलकं श्रृंगसाहचर्यात् । श्रृंगं गदाघातेन नष्टस्य रक्तस्य मोक्षणार्थं विण्मूत्रोत्सर्जनस्थानं वा । प्रासाः भल्लाः । तैलक्षौमानि तैलाक्तवस्त्रविशेषा येषां भस्म प्रहारस्थले दीयते । सर्पिश्च पुरातनं तदर्थमेव ॥९॥

रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥१०॥

चित्राश्च ते अनीकाश्च चित्रानीकाः चित्राणि सैन्यानि । ‘अनीकोऽस्त्री रणे सैन्ये’ इति मेदिनी॥१०॥

तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥११॥

विनिवेशिता येषु रथोष्विति शेषः ॥११॥

बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः ।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥१२॥

बद्धानि अरिष्टानि अशुभहराणि यन्त्रौषधादीनि येषु ते बद्धारिष्टाः । ‘रिष्टं क्षेमाशुभाभावे’ इति मेदिनी । बद्धकक्षाः बद्धाः कक्षाः स्पर्धापदानि तुरगादिशिरसि घण्टामालामौक्तिकगुच्छादीन्यतिशौर्यावद्योतीनि बिरुदानि येषु । ‘कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्धापदेनादोर्मूले’ इति मेदिनी । बद्धानि आभरणानि क्षुद्रघटिकादीनि निर्यूहाः शिखराणि च येषु । ‘निर्यूहः शिखरे द्वारे’ इति मेदिनी ॥१२॥

चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥१३॥

धुर्ययोर्हययोरेकस्तथाऽन्यौ पार्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥१४॥

चतुर्युज इत्येतद्व्याचष्टे - धुर्ययोरिति । धुर्ययोः धूः सन्निहितयोः पार्ष्णिसारथी चक्ररक्षौ ॥१४॥

नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन् रथसहस्त्राणि हेममालीनि सर्वशः ॥१५॥

यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥१६॥

द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृक् ॥१७॥

अङ्कुशधरौ गजनियन्तारौ । उत्तमधनुर्धरौ दूरस्थान् प्रहर्तुम् । असिधरौ समीपस्थान् शक्तिपिनाकधरौ मध्यस्थान् पिनाकः त्रिशूलम् । ‘पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः’ इति मेदिनी ॥१७॥

गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः ।
तद्बभूव बलं राजन् कौरव्यस्य महात्मनः ॥१८॥

आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥१९॥

सादिभिः अश्वारोहैः ॥१९॥

असङ्ग्राहाः सुसम्पन्ना हेमभाण्डपरिच्छदाः ।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥२०॥

संग्राहः बृहदुद्रंगः हेषणपूर्वकमग्रपादाभ्यामुप्लवनमिति यावत् । तद्रहिता असंग्राहाः ‘संग्राहो बृहदुद्रंगे इति’ विश्वः । यतः सुसंपन्नाः सम्यक् शिक्षिताः । भाण्डम् अश्वाभरणं तेन परिच्छदः परिष्कारो येषां ते । ‘भाण्डं भूषाश्वभूषयोः’ इति विश्वः ॥२०॥

नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥२१॥

रूपविकाराः रक्तकृष्णहयमुखत्वादयः ॥२१॥

रथस्यासन् दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन् पादरक्षाः समन्ततः ॥२२॥

रथस्येति । एकस्य रथस्य यथोक्तविभागेन दशगजाः शतं अश्वाः सहस्रं पदातयश्च परिवार इत्यर्थः ॥२२॥

रथस्य नागाः पञ्चाशन्नागस्यासन् शतं हयाः ।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥२३॥

पक्षान्तरमाह-रथस्येति । एकस्य रथस्य पञ्चाशद्गजाः पञ्चसहस्रं अश्वाः पञ्चत्रिंशत्सहस्रं पदातयः परिवार इत्यर्थः ॥२३॥

सेना पञ्चशतं नागा रथास्तावन्त एव च ।
दश सेना च पृतना पृतना दशवाहिनी ॥२४॥

अत्र रथादीनां प्राधान्याप्राधान्याभिप्रायेण परिवाराल्पत्वबहुत्वे ज्ञेये । साधारणी तु संख्या आदिपर्वण्युक्ता । ‘एको रथो गजस्त्वेको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते’ इत्यादिना । तामेवानुसरति - सेनेति । तत्र गजानां रथानां च तुल्यसंख्योक्तिः पूर्वोक्तसंख्योपलक्षणार्था । तेन पञ्चविंशतिशतानि मनुष्याः पञ्चदशशतं तुरगा इत्यपि ज्ञेयम् । पृतनायां तु पञ्चसहस्रं नागास्तावन्तो रथाः पञ्चविंशतिसहस्रं नराः पञ्चदशसहस्रं अश्वाः । वाहिन्यां पञ्चाशत्सहस्रं नागास्तावन्तो रथाः सार्धलक्षद्वयं नराः सार्थलक्षम् अश्वा इति ज्ञेयम् ॥२४॥

सेना च वाहिनी चैव पृतना ध्वजिनी चमूः ।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ॥२५॥

एवमपि पूर्वोक्ताक्षौहिणीसंख्यया विसंवाद एवेत्याशङ्‌क्याह - सेनेति । सेनादयः शब्दाः पर्यायाः न तु संख्येयानां संख्याभेदमात्रेण नानार्थाः । एकस्मिन्नपि भीमसेने दशनागसहस्रबलत्वस्मरणात् । एवं च बलस्यैवेयं एकादश सप्तेतिसंख्या न संख्येयस्येति भावः । पाण्डवानां हनिबलत्वेऽपि असंख्येयं वासुदेवबलं तत्र सहायीभूतमिति जयोऽभूदिति द्रष्टव्यम् ॥२५॥

एवं व्यूढान्यनीकानि कौरवेयेण धीमता ।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ॥२६॥

अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥२७॥

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते ।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ॥२८॥

नराणामिति । अयुतश इत्यनेन नराणामन्तो नास्तीति दर्शितम् ॥२८॥

त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥२९॥

तत्र दुर्योधनो राजा शूरान् बुद्धिमतो नरान् ।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ॥३०॥

पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।
विधिवत् पूर्वमानीय पार्थिवानभ्यभाषत ॥३१॥

कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् ।
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ॥३२॥

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च ।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम्॥३३॥

दिवसे दिवसे तेषां प्रतिवेलं च भारत ।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ॥३४॥

तथा विनियताः सर्वे ये च तेषां पदानुगाः ।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ॥३५॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यविभागे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥
षट्पञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥१॥

तत इति ॥१॥

ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥२॥

न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।
शौर्यं च बलनेतॄणां स्पर्धते च परस्परम् ॥३॥

श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।
अभ्ययुर्बाह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥४॥

तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह ।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः॥५॥

ततो युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः ।
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥६॥

ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः ।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥७॥

वयमेकस्य शृण्वाना महाबुद्धिमतो रणे ।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥८॥

ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् ।
नये सुकुशलं शूरमजयन् क्षत्रियांस्ततः ॥९॥

एवं ये कुशलं शूरं हितेप्सितमकल्मषम् ।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥१०॥

भवानुशनसा तुल्यो हितैषी च सदा मम ।
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥११॥

उशनसा शुक्रेण असंहार्यः पितुर्वरदानात् कालेनापि संहर्तुमशक्यः ॥११॥

रश्मिवतामिवादित्यो वीरुधामिव चन्द्रमाः ।
कुबेर इव यक्षाणां देवानामिव वासवः ॥१२॥

पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा ।
कुमार इव देवानां वसूनामिव हव्यवाट् ॥१३॥

कुमारः कार्तिकेयः ॥१३॥

भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः ।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥१४॥

प्रयातु नो भवानग्रे देवानामिव पावकिः ।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥१५॥

पावकिः कार्तिकेय एव ॥१५॥

भीष्म उवाच। एवमेतन्महाबाहो यथा वदसि भारत ।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥१६॥

अपि चैव मया श्रेयो वाच्यं तेषां नराधिप ।
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥१७॥

न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।
ऋते तस्मान्नरव्याघ्रात् कुन्तीपुत्राद्धनञ्जयात् ॥१८॥

स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः ।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥१९॥

विवृतो विस्पष्टो भूत्वेत्यर्यः ॥१९॥

अहं चैव क्षणेनैव निर्मनुष्यमिदं जगत् ।
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥२०॥

न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप ।
तस्माद्योधान् हनिष्यामि प्रयोगेणायुतं सदा ॥२१॥

न मे मया उत्सादनीयाः नाशयितुं शक्याः सदा प्रत्यहम् ॥२१॥

एवमेषां करिष्यामि निधनं कुरुनन्दन ।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥२२॥

सेनापतिस्त्वहं राजन् समये नापरेण ते ।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥२३॥

कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।
स्पर्धते हि सदाऽत्यर्थं सूतपुत्रो मया रणे ॥२५॥

कर्ण उवाच। नाहं जीवति गाङ्गेये राजन् योत्स्ये कथञ्चन ।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥२६॥

वैशम्पायन उवाच। ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥२७॥

ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः ।
वादयामासुरव्यग्रा वादका राजशासनात् ॥२७॥

सिंहनादाश्च विविधा वाहनानां च निःस्वनाः ।
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥२८॥

निर्घाताः पृथिवीकम्पा गजबृंहितनिःस्वनाः ।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥२९॥

पातयन्तः मूच्छितानि कुर्वन्तः ॥२९॥

वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥३०॥

सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।
तदैतान्युग्ररूपाणि बभूवुः शतशा नृप ॥३१॥

ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।
वाचयित्वा द्विजश्रेष्ठान् गोभिर्निष्कैश्च भूरिशः ॥३२॥

वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः ।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥३३॥

स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥३४॥

परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।
शिबिरं मापयामास समे देशे जनाधिप ॥३५॥

मधुरानूषरे देशे प्रभूतयवसेन्धने ।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥३६॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि भीष्मसैनापत्ये षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
सप्तपञ्चाशदधिकशततमोऽध्यायः

जनमेजय उवाच। आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् ।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥१॥

आपगयोमति ॥१॥

बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्र‌मिव गांभीर्ये हिमवन्तमिव स्थिरम् ॥२॥

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥३॥

रणयज्ञे प्रवितते सुभीमे लोमहर्षणे ।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥४॥

किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वाऽपि कृष्णो वा प्रत्यभाषत ॥५॥

वैशम्पायन उवाच। आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।
सर्वान् भ्रातॄन् समानीय वासुदेवं च शाश्वतम् ॥६॥

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥७॥

पितामहेन वो युद्धं पूर्वमेव भविष्यति ।
तस्मात् सप्तसु सेनासु प्रणेतॄन् मम पश्यत ॥८॥

कृष्ण उवाच। यथाऽर्हति भवान् वक्तुमस्मिन् काले ह्युपस्थिते ।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥९॥

रोचते मे महाबाहो क्रियतां यदनन्तरम् ।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥१०॥

वैशम्पायन उवाच। ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव ॥११॥

शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ।
एतान् सप्त महाभागान् वीरान् युद्धाभिकांक्षिणः ॥१२॥

सेनाप्रणेतॄन् विधिवदभ्यषिञ्चद्युधिष्ठिरः ।
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ॥१३॥

द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः ।
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ॥१४॥

इद्धात् प्रदीप्तात् ॥१४॥

सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् ।
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ॥१५॥

सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ।
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ॥१६॥

महात्ययमत्यन्तं क्षयकरम् ॥१६॥

प्राविशद्भवनं राजन् पाण्डवानां हलायुधः ।
सहाक्रूरप्रभृतिभिर्गदसाम्बोद्धवादिभिः ॥१७॥

रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ।
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ॥१८॥

अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ।
नीलकौशेयवसनः कैलासशिखरोपमः ॥१९॥

सिंहखेलगतिः श्रीमान् मदरक्तान्तलोचनः ।
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ॥२०॥

उद‌तिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ।
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ॥२१॥

पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ।
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ॥२२॥

वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ।
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ॥२३॥

युधिष्ठिरेण सहित उपाविशदरिन्दमः ।
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥२४॥

रौहिणेयो बलरामः ॥२४॥

भविताऽयं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतत्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥२५॥

तस्माद्युद्धात् समुत्तीर्णानपि वः ससुहृज्जनान् ।
अरोगानक्षर्तैर्देहैर्द्रष्टाऽस्मीति मतिर्मम ॥२६॥

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान् भावी मांसशोणितकर्दमः ॥२७॥

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे ।
सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥२८॥

उपह्वरे एकान्ते ॥२८॥

पाण्डवा हि यथाऽस्माकं तथा दुर्योधनो नृपः ।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥२९॥

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥३०॥

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥३१॥

न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥३२॥

उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥३३॥

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ॥३४॥

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।
तीर्थयात्रां ययौ रामो निर्वर्त्य मधुसूदनम् ॥३५॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि बलरामतीर्थयात्रागमने सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ १५७ ॥
अष्टपञ्चाशद‌धिकशततमोऽध्यायः

वैशम्पायन उवाच। एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥१॥

एतस्मिन्निति । साक्षात्पुत्र इति सम्बन्धः ॥१॥

आकूतीनामधिपतिर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥२॥

आकूतीनां स‌ङ्कल्पानां सत्यसङ्कल्प इत्यर्थः ॥२॥

यः किम्पुरुषसिंहस्य गन्धमादनवासिनः ।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पाद‌मवाप्तवान् ॥३॥

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।
शार्ङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम् ॥४॥

त्रीण्येवैतानि दिव्यानि धनूंषि दिवि चारिणाम् ।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ।
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥५॥

धारयामास तत्कृष्णः परसेनाभयावहम् ।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥६॥

द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ।
संछिद्य मौरवान् पाशान्निहत्य मुरुमोजसा ॥७॥

मौरवान् आन्त्रतन्तिमयान् । यैरिदानीं शार्ङ्गे धनुषि ज्या क्रियते ॥७॥

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥८॥

प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥९॥

विभीषयन्निव जगत् पाण्डवानभ्यवर्तत ।
नामृष्यत पुरा योऽसौ स्वबाहुबलगर्वितः ॥१०॥

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥११॥

ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः ।
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥१२॥

विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥१३॥

व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥१४॥

तत्र भोजकटं नाम कृतं नगरमुत्तमम् ।
सैन्येन महता तेन प्रभूतगजवाजिना ॥१५॥

पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ।
स भोजराजः सैन्येन महता परिवारितः ॥१६॥

अक्षौहिण्या महावीर्यः पाण्डवान् क्षिप्रमागमत् ।
ततः स कवची धन्वी तली खड्गी शरासनी ॥१७॥

ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥१८॥

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥१९॥

प्रतिगृह्य तु तान् सर्वान् विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥२०॥

सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥२१॥

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।
हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डव ॥२२॥

अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः ।
अथवा सर्वं एवैते तिष्ठन्तु वसुधाधिपाः ॥२३॥

निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् ।
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ ॥२४॥

शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ।
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ॥२५॥

उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम् ।
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः ॥२६॥

द्रोणं व्यपदिशन् शिष्यो वासुदेवसहायवान् ।
भीतोऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः ॥२७॥

द्रोणमयं मम गुरुरिति व्यपदिशन् कथयन् ॥२७॥

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत् सखा मम ॥२८॥

तथा प्रतिभये तस्मिन् देवदानवसङ्कुले ।
खाण्डवे युद्ध्यमानस्य कः सहायस्तदाऽभवत् ॥२९॥

निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युद्ध्यमानस्य कः सहायस्तदाऽभवत् ॥३०॥

तथा विराटनगरे कुरुभिः सह सङ्गरे ।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥३१॥

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥३२॥

उपजीव्य आराध्य रणे युद्धनिमत्तम् ॥३२॥

धारयन् गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥३३॥

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् ।
वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥३४॥

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वाऽन्यत्र तिष्ठ वा ॥३५॥

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।
दुर्योधनमुपागच्छत्तथैवं भरतर्षभ ॥३६॥

तथैव चाभिगम्यैनमुवाच वसुधाधिपः ।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥३७॥

द्वावेव तु महाराज तस्माद्युद्धादपेयतुः ।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥३८॥

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।
उपाविशन् पाण्डवेया मन्त्राय पुनरेव च ॥३९॥

समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥४०॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि रुक्मिप्रत्याख्याने अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥
ऊनषष्ट्यधिकशततमोऽध्यायः

जनमेजय उवाच। तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।
किमकुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ॥१॥

तथेति ॥१॥

वैशम्पायन उवाच। तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ ।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥२॥

एहि सञ्जय सर्वं मे आचक्ष्वानवशेषतः ।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥३॥

दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।
यदहं बुद्ध्यमानोऽपि युद्धदोषान् क्षयोदयान् ॥४॥

क्षयस्यैव उदयो येभ्यस्तान् क्षयोदयान् ॥४॥

तथाऽपि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।
न शक्रोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥५॥

निकृतिप्रज्ञं कपटविषयैव प्रज्ञा न धर्मविषया यस्य तम् ॥५॥

भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥६॥

एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।
क्षत्रधर्मः किल रणे तनुत्यागो हि पूजितः ॥७॥

सञ्जय उवाच। त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि ।
न तु दुर्योधने दोषमिममाधातुमर्हसि ॥८॥

शृणुंष्वानवशेषेण वदतो मम पार्थिव ।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देवानेनसा गन्तुमर्हति ॥९॥

एनसा दोषेण देवान् कालं वा गन्तुं उपालब्धुं नार्हति ‘दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वात्’ दृष्टापराधाभावे देवस्य कालस्य वा उपालंभः कर्तुमुचितो न तु तस्मिन् सतीत्यर्थः न स कालं न वा देवं वक्तुमेतदिहार्हतीति पाठेऽप्ययमेवार्थः ॥९॥

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥१०॥

निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥११॥

निकाराः तिरस्काराः ॥११॥

हयानां च गजानां च राज्ञां चामिततेजसाम् ।
वैशसं समरं वृत्तं यत्तन्मे शृणु सर्वशः ॥१२॥

वैशसं वैरं समरे निमित्ते ॥१२॥

स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम् ।
यथा भूतं महायुद्धे श्रुत्वा चैकमना भव ॥१३॥

न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥१४॥

केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया ।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते ।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ॥१५॥

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि सञ्जयवाक्ये ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९ ॥
॥समाप्तं सैन्यनिर्याणपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in