वैशम्पायन उवाच।
जनार्दनवचः श्रुत्वा धर्मराजी युधिष्ठिरः
।
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥१॥
जनार्दनेति ॥१॥
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि
।
केशवस्यापि यद्वाक्यं तत् सर्वमवधारितम् ॥२॥
तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः
।
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ॥३॥
तासां ये पतयः सप्त विख्यातास्तान्निबोधत
।
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनो ॥४॥
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
।
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥५॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
।
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥६॥
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः
।
सप्तानामपि यो नेता सेनानां प्रविभागवित् ॥७॥
यः सहेत रणे भीष्मं शरार्चिः पावकोपमम्
।
तं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन
।
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥८॥
सहदेव उवाच।
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः
।
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥९॥
संयुक्तः सम्बन्धी ॥९॥
मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः
।
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥१०॥
वैशम्पायन उवाच।
तथोक्ते सहदेवेन वाक्ये वाक्यविशारद
।
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥११॥
वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च
।
ह्रीमान् बलान्वितः श्रीमान् सर्वशास्त्रविशारदः ॥१२॥
कुलेन वंशेन अभिजनेन स्वजनसमूहेन ॥१२॥
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः
।
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥१३॥
श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः
।
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥१४॥
यस्तताप तपो घोरं सदारः पृथिवीपतिः
।
रोषाद्द्रोणविनाशाय वीरः समिति शोभनः ॥१५॥
पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः
।
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ॥१६॥
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम
।
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः॥१७॥
अङ्गिरसो द्रोणस्य ॥१७॥
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
।
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥१८॥
योऽयं तपःप्रभावेण ऋषिसन्तोषणेन च
।
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ॥१९॥
धनुष्मान् कवची खड्गी रथमारुह्य दंशितः
।
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात् समुत्थितः ॥२०॥
गर्जन्निव महामेघो रथघोषेण वीर्यवान्
।
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ॥२१॥
सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः
।
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥२२॥
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः
।
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥२३॥
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
।
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥२४॥
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्
।
चज्राशनिसमस्पर्शान् दीप्तास्यानुरगानिव ॥२५॥
यमदूतसमान् वेगे निपाते पावकोपमान्
।
रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान् ॥२६॥
पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
।
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥२७॥
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम
।
अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः ॥२८॥
भीमसेन उवाच।
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
।
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥२९॥
यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः
।
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥३०॥
न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनम्
।
शस्त्रेण समरे राजन् सन्नद्धं स्यन्दने स्थितम् ॥३१॥
द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम्
।
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥३२॥
युधिष्ठिर उवाच।
सर्वस्य जगतस्तात सारासारं बलाबलम्
।
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ॥३३॥
यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम
।
कृतास्त्रोऽप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥३४॥
एष नो विजये मूलमेष तात विपर्यये
।
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥३५॥
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
।
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः ॥३६॥
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते
।
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ॥३७॥
रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
।
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥३८॥
शस्त्राणामधिवासनं गन्धाद्यैः पूजनं कौतुकं रक्षाबन्धनं मङ्गलं स्वस्तिवाचनम् ॥३८॥
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः
।
अब्रवीत् पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥३९॥
धनञ्जयमवेक्ष्येत्यनेनार्जुनाभिमतो धृष्टद्युम्नः सेनापतिरिति स्वाशयं प्रदर्श्येत्यर्थः ॥३९॥
ममाप्येते महाराज भवद्भिर्य उदाहृताः
।
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ॥४०॥
सर्व एव समर्था हि तव शत्रुं प्रबाधितुम्
।
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ॥४१॥
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्
।
मयाऽपि हि महाबाहो त्वत्प्रियार्थं महाहवे ॥४२॥
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत
।
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥४३॥
कृतास्त्रं मन्यते बाल आत्मानमविचक्षणः
।
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ॥४४॥
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः
।
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥४५॥
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ
।
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥४६॥
अभिमन्युं द्रौपदेयान् विराटद्रुपदावपि
।
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान् भीमविक्रमान् ॥४७॥
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्
।
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ॥४८॥
अस्माकं बलं कर्तृ, धार्तराष्ट्रबलं कर्म ॥४८॥
धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम। वैशम्पायन उवाच।
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः ॥४९॥
तेषां प्रहृष्टमनसां नादः समभवन्महान्
।
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ॥५०॥
योगो युद्धाय सज्जीभवनम् । ‘द्रव्योपायसन्नहनेष्वपि योगः’ इति विश्वः ॥५०॥
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः
।
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ॥५१॥
तदुग्रं सागरनिभं क्षुब्धं बलसमागमम्
।
रथपत्तिगजोदग्रं महोर्मिभिरिवाकुलम् ॥५२॥
धावतामाह्वयानानां तनुत्राणि च बध्नताम्
।
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ॥५३॥
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी
।
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ॥५४॥
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः
।
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ॥५५॥
ततः शब्दः समभवत् समुद्रस्येव पर्वणि
।
हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत् ॥५६॥
प्रहृष्टा दंशिता योधाः परानीकविदारणाः
।
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥५७॥
शकटापणवेशाश्च यानयुग्यं च सर्वशः
।
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥५८॥
शकंटा अनांसि आपणो वणिग्वीथ्युपलक्षितं विक्रेयद्रव्यं वेशो वेश्याजनाश्रयः पटगृहाणि यानयुग्यं यानेषु युग्यं युगमर्हतीति रथादि । शकटमुपस्करादिभारवहं युग्यम् । इदं तु केवलं प्रयाणार्हं ‘युग्यं च पत्रे’ इति निपातनात् । कोशं धनचयं यंत्रायुधं गोलकप्रक्षेपणं नाल इत्युच्यते लोके । चिकित्सकाः शस्त्रवैद्याः ॥५८॥
फल्गु यच्च बलं किञ्चिद्यच्चापि कृशदुर्बलम्
।
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥५९॥
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
।
सह स्त्रीभिर्निववृते दासीदाससमावृता ॥६०॥
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः
।
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥६१॥
मूलप्रतीकारं धनदाररक्षां गुल्मैः स्थावरैः प्राकाररूपैः जङ्गमैः परितः स्थाने स्थाने शूरसङ्घैः स्कन्धावारेण सैन्येन ॥६१॥
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः
।
स्तूयमाना ययू राजन् रथैर्मणिविभूषितैः ॥६२॥
गां भूमि धेनुं वा ॥६२॥
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभुः
।
श्रेणिमान् वसुदानश्च शिखण्डी चापराजितः ॥६३॥
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः
।
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥६४॥
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः
।
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥६५॥
जघनार्धे पश्चिमार्धे ॥६५॥
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा
।
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ॥६६॥
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः
।
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥६७॥
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
।
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥६८॥
तेऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुररिन्दमाः
।
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ॥६९॥
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः
।
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥७०॥
समहृष्यन्त रोमाञ्चितानि ॥७०॥
शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम्
।
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥७०॥
समहृष्यन्त रोमाञ्चितानि ॥७०॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि कुरुक्षेत्रप्रवेशे एकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥
वैशम्पायन उवाच।
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥१॥
तत इति ॥१॥
परिहृत्य श्मशानानि देवतायतनानि च
।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥२॥
मधुरानूषरे देशे शुचौ पुण्ये महामतिः
।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥३॥
मधुरे मनोहरे ॥३॥
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः
।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥४॥
विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान्
।
पर्यक्रामत् समन्ताच्च पार्थेन सह केशवः ॥५॥
गुल्मान् सैनिकसङ्घान् ॥५॥
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः
।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ॥६॥
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥७॥
सूपतीर्थां शोभनोपकण्ठाम् ॥७॥
खानयामास परिखां केशवस्तत्र भारत
।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥८॥
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम्
।
तद्विधानि नरेन्द्राणां कारयामास केशवः ॥९॥
तद्विधानि शिबिराणि ॥९॥
प्रभूततरकाष्ठानि दुराधर्षतराणि च
।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ॥१०॥
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्
।
विमानानीव राजेन्द्र निविष्ठानि महीतले ॥११॥
तत्रासन् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः
।
सर्वोपकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ॥१२॥
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
।
ससर्जरसपांसूनां राशयः पर्वतोपमाः ॥१३॥
बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥१४॥
महायन्त्राणि नाराचास्तोमराणि परश्वधाः
।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ॥१५॥
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः
।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ॥१६॥
कण्टकसन्नाहाः येषां स्पर्शमात्रादपि गजान्तराणां कण्टकवेधो भवति तादृशाः सन्नाहाः कवचानि कण्टकैः कवचैः सन्नहनं येषामिति प्राञ्चः ॥१६॥
निविष्टान् पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत
।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ॥१७॥
अभिसस्रुरभ्याजग्मुः ॥१७॥
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः
।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥१८॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि शिबिरादिनिर्माणे द्विपञ्चाशदधिकशततमोऽध्यायः ॥ १५२ ॥
जनमेजय उवाच।
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया
।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥१॥
युधिष्ठिरमिति ॥१॥
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्
।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥२॥
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः
।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥३॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते
।
सम्भ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले ॥४॥
व्यथयेयुरिमे देवान् सेन्द्रानपि समागमे
।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५॥
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः
।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ॥६॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥७॥
वैशम्पायन उवाच।
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा
।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥८॥
अकृतेनैव कार्येण गतः पार्थानधोक्षजः
।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ॥९॥
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः
।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥१०॥
अजातशत्रुरत्यर्थं भीमसेनवशानुगः
।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥११॥
विराटद्रुपदौ चैव कृतवैरौ मया सह
।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥१२॥
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः
।
तस्मात् साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥१३॥
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः॥१४॥
आसन्नजलकोष्ठानि शतशोऽथ सहस्रशः
।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च ॥१५॥
आसन्नजलाः कोष्ठाः कक्ष्याः येषु तानि तथा । अच्छेद्यः शत्रुभिरनिर्वार्यः आहार आहारणं वस्तूनां मार्गाश्च येषु तानि अच्छेद्याहारमार्गाणि ॥१५॥
विविधायुधपूर्णानि पताकाध्वजवन्ति च
।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ॥१६॥
प्रयाणं घुष्यतामद्य श्वोभूत इति मा चिरम्
।
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ॥१७॥
हृष्टरूपा महात्मानो निवासाय महीक्षिताम्
।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ॥१८॥
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः
।
बाहून् परिघसङ्काशान् संस्पृशन्तः शनैः शनैः ॥१९॥
काञ्चनाङ्गददीप्तांश्च चन्दनागुरुभूषितान्
।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः
।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥२०॥
अन्तरीयं परिधानीयमुत्तरीयं प्रावरणवस्त्रम् ॥२०॥
ते रथान् रथिनः श्रेष्ठा हयांश्च हयकोविदाः
।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ॥२१॥
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ॥२२॥
पदातयश्च पुरुषाः शस्त्राणि विविधानि च
।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥२३॥
उपाजह्रुः परिधानं कृतवन्तः ॥२३॥
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम्
।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥२४॥
जनौघसलिलावर्तो रथनागाश्वमीनवान्
।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥२५॥
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्
।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥२६॥
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः
।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यसज्जकरणे त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ १५३ ॥
वैशम्पायन उवाच।
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः
।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥१॥
वासुदेवेति ॥१॥
अस्मिन्नभ्यागते काले किं च नः क्षममच्युत
।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥२॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च
।
वासुदेवमतज्ञोऽसि मम सभ्रातृकस्य च ॥३॥
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः
।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥४॥
सर्वमेतदतिक्रम्य विचार्य च पुनःपुनः
।
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ॥५॥
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः
।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥६॥
कृष्ण उवाच।
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्
।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥७॥
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा
।
मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ॥८॥
नैष कामयते धर्मं नैष कामयते यशः
।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥९॥
बन्धमाज्ञापयामास मम चापि सुयोधनः
।
न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः ॥१०॥
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः
।
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥११॥
शकुनिः सौबलश्चैव कर्णदुःशासनावपि
।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥१२॥
किं च तेन मयोक्तेन यान्यभाषत कौरवः
।
संक्षेपेण दुरात्माऽसौ न युक्तं त्वयि वर्तते ॥१३॥
युक्तं सम्यक् ॥१३॥
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः
।
यत् पापं यन्न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् ॥१४॥
न कल्याणमकल्याणं पापमकल्याणं च त्वदीयेष्वविद्यमानं सर्वं तस्मिन् दुर्योधने प्रतिष्ठितम्॥१४॥
न चापि वयमत्यर्थं परित्यागेन कर्हिचित्
।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥१५॥
परित्यागेन राज्यस्योपेक्षया ॥१५॥
वैशम्पायन उवाच।
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्
।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥१६॥
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम्
।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥१७॥
योगं युद्धोद्योगम् ॥१७॥
ततः किलकिलाभूतमनीकं पाण्डवस्य ह
।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥१८॥
अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः
।
निःश्वसन् भीमसेनं च विजयं चेदमब्रवीत् ॥१९॥
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया
।
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥२०॥
यदर्थं यन्निवृत्यर्थं अनर्थः कुलक्षयः प्रयत्नतो बलात् ॥२०॥
तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः
।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥२१॥
तस्मिन्निति । तस्मिन्ननर्थे निमित्ते सति यत्नस्तत्परिहारार्थ उपायः सद्यः शत्रुवधरूपो भीमस्य यूतकाले संमतः । स नोऽस्माकं अस्माभिः क्षमां कुर्वद्भिः प्रयत्नतो बलाद्धीनो व्यर्थः कृतः । अकृते तु अकृतेऽपि प्रयत्ने युद्धार्थमुद्योगे तथाऽपि अस्मान् कलिः उपावृत्त आगतः ॥२१॥
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति
।
कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति ॥२२॥
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः
।
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥२३॥
उक्तवान् देवकीपुत्रः कुन्त्याश्च विदुरस्य च
।
वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥२४॥
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः
।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥२५॥
तौ कुन्तीविदुरौ अधर्ममिति च्छेदः । अयुद्ध्यतस्तव निवर्तितुमपि न युक्तम् ॥२५॥
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा
।
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ॥२६॥
ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः
।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि युधिष्ठिरार्जुनसंवादे चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ १५४ ॥
वैशम्पायन उवाच।
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः
।
व्यभजत्तान्यनीकानि दश चैकं च भारत ॥१॥
व्युष्टायामिति । युष्टायां व्यतीतायाम् ॥१॥
नर-हस्ति-रथाश्वानां सारं मध्यं च फल्गु च
।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥२॥
सारं पुरोगामि मध्यं मध्यमं फल्गु पाश्चात्यम् ॥२॥
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः
।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः ॥३॥
सानुकर्षा इत्यादीनि नानामणिविभूषिता इत्यन्तानि चित्रानीकानां विशेषणानि । अनुकर्षः युद्धविमर्दे यस्य कस्यचिद्रथावयवस्य नष्टस्य प्रतिसमाधानार्थं यद्रथस्याधो दारु बध्यते तत् । ‘अनुकर्षो रथाधःस्थदारुणि’ इति मेदिनी । तूणीरो रथबाह्यो बाणकोशः । महान् निषङ्ग इति यावत् । वरूथो रथगुप्तिर्व्याघ्रादिचर्ममयी । तोमराः हस्तक्षेप्याः सशल्या दण्डाः उपासङ्गाः हयगजबाह्यास्तूणाः । निषङ्गः पत्तिबाह्यः स एव । शक्तिर्लोहदण्डः ऋष्टिर्गुरुतरः काष्ठदण्डः ॥३॥
सध्वजाः सपताकाश्च सशरासनतोमराः
।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥४॥
शरासनतोमराः धनुःप्रक्षेप्यास्तोमराः स्थूलबाणाः । पाशाः समीपागतस्य गले प्रक्षेपार्थं परिच्छदा आस्तरणादीनि । परिस्तरा इति पाठे आस्तरणमेव ॥४॥
सकचग्रहविक्षेपाः सतैलगुडवालुकाः
।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥५॥
कचग्रहविक्षेपः कचेषु गृहीत्वा येन शत्रुर्विक्षिप्यते तादृशः कलविंकग्रहतुल्यश्चिक्कणद्रव्याञ्जिताग्रो दण्डविशेषः । करग्रहेति पाठे अङ्कुशविशेषः । तैलादयः प्रतप्ताः शत्रूणामुपरि क्षिप्यन्ते । साशीविषघटाः ससर्पाः कुंभाः सर्जरसो रालद्रव्यमग्न्युद्दीपकम् ॥५॥
सघण्टफलकाः सर्वे सायोगुडजलोपलाः
।
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥६॥
सघण्टानि फलकानि शस्त्राग्राणि येषां ते सघंटफलकाः घण्टासहितं चर्मेत्यन्ये अयोऽसि खड्गपट्टिशच्छुरिकादीनि । गुडजलं तप्तं उपला यन्त्रक्षेप्या गोलाः शालते कत्थते शब्दं करोतीति शालः स चासौ भिन्दिपालो गोफलकः । सशुलेति गौडपाठः । मधूच्छिष्टं मयनं तदपि द्रवीकृत्य गुडजलवत्प्रक्षेप्यम् । मुद्गरोः मुशलतुल्यो दण्डः ॥६॥
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः
।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ॥७॥
काण्डं बाणफलकं तयुक्तो दण्डः काण्डदण्डः कण्टकदण्ड इति यावत् । दण्डकण्टक इति पाठे स एवार्थः । सीरं लाङ्गलम् । विषं प्रसिद्धं तेन युक्तास्तोमरा विषतोमराः शूर्पाणि तप्तगुडादिप्रक्षेपार्थानि पिटकास्तदाश्रया मञ्जूषाः । अस्त्ररोधनार्था वा दात्रं परशुप्रभृति । अङ्कुशतोमराः बदरीकण्टकतुल्यलोहकण्टकोपेतास्तोमराः । येषामन्तःप्रविष्टानां बहिर्निःसरणे अन्त्राण्यपि बहिर्निःसरन्ति ॥७॥
सकीलकवचाः सर्वे वासीवृक्षादनान्विताः
।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥८॥
कीलकवचवान् हि परेण मुष्टियुद्धे जेतुमशक्यः । सकीलक्रकचा इति पाठे सदन्तं करपत्रं येन तक्षा काष्ठं पाटयति । वाशी काष्ठप्रच्छन्नं शस्त्रं वास्येति वासीति वा पाठेऽपि स एवार्थः। वृक्षादनाः लोहकण्टककीलादीन्युपकरणानि । व्याघ्रचर्मणा द्वीपी चित्रव्याघ्रस्तच्चर्मणा च परिवृता रथा एव ॥८॥
सहर्ष्टयः सशृङ्गाश्च सप्रासविविधायुधाः
।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥९॥
ऋष्टिः द्रविडेषु प्रसिद्धं हस्तक्षेप्यं वक्रं काष्ठफलकं श्रृंगसाहचर्यात् । श्रृंगं गदाघातेन नष्टस्य रक्तस्य मोक्षणार्थं विण्मूत्रोत्सर्जनस्थानं वा । प्रासाः भल्लाः । तैलक्षौमानि तैलाक्तवस्त्रविशेषा येषां भस्म प्रहारस्थले दीयते । सर्पिश्च पुरातनं तदर्थमेव ॥९॥
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः
।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥१०॥
चित्राश्च ते अनीकाश्च चित्रानीकाः चित्राणि सैन्यानि । ‘अनीकोऽस्त्री रणे सैन्ये’ इति मेदिनी॥१०॥
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः
।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥११॥
विनिवेशिता येषु रथोष्विति शेषः ॥११॥
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः
।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥१२॥
बद्धानि अरिष्टानि अशुभहराणि यन्त्रौषधादीनि येषु ते बद्धारिष्टाः । ‘रिष्टं क्षेमाशुभाभावे’ इति मेदिनी । बद्धकक्षाः बद्धाः कक्षाः स्पर्धापदानि तुरगादिशिरसि घण्टामालामौक्तिकगुच्छादीन्यतिशौर्यावद्योतीनि बिरुदानि येषु । ‘कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्धापदेनादोर्मूले’ इति मेदिनी । बद्धानि आभरणानि क्षुद्रघटिकादीनि निर्यूहाः शिखराणि च येषु । ‘निर्यूहः शिखरे द्वारे’ इति मेदिनी ॥१२॥
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः
।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥१३॥
धुर्ययोर्हययोरेकस्तथाऽन्यौ पार्ष्णिसारथी
।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥१४॥
चतुर्युज इत्येतद्व्याचष्टे - धुर्ययोरिति । धुर्ययोः धूः सन्निहितयोः पार्ष्णिसारथी चक्ररक्षौ ॥१४॥
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः
।
आसन् रथसहस्त्राणि हेममालीनि सर्वशः ॥१५॥
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः
।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥१६॥
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ
।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृक् ॥१७॥
अङ्कुशधरौ गजनियन्तारौ । उत्तमधनुर्धरौ दूरस्थान् प्रहर्तुम् । असिधरौ समीपस्थान् शक्तिपिनाकधरौ मध्यस्थान् पिनाकः त्रिशूलम् । ‘पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः’ इति मेदिनी ॥१७॥
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः
।
तद्बभूव बलं राजन् कौरव्यस्य महात्मनः ॥१८॥
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः
।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥१९॥
सादिभिः अश्वारोहैः ॥१९॥
असङ्ग्राहाः सुसम्पन्ना हेमभाण्डपरिच्छदाः
।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥२०॥
संग्राहः बृहदुद्रंगः हेषणपूर्वकमग्रपादाभ्यामुप्लवनमिति यावत् । तद्रहिता असंग्राहाः ‘संग्राहो बृहदुद्रंगे इति’ विश्वः । यतः सुसंपन्नाः सम्यक् शिक्षिताः । भाण्डम् अश्वाभरणं तेन परिच्छदः परिष्कारो येषां ते । ‘भाण्डं भूषाश्वभूषयोः’ इति विश्वः ॥२०॥
नानारूपविकाराश्च नानाकवचशस्त्रिणः
।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥२१॥
रूपविकाराः रक्तकृष्णहयमुखत्वादयः ॥२१॥
रथस्यासन् दश गजा गजस्य दश वाजिनः
।
नरा दश हयस्यासन् पादरक्षाः समन्ततः ॥२२॥
रथस्येति । एकस्य रथस्य यथोक्तविभागेन दशगजाः शतं अश्वाः सहस्रं पदातयश्च परिवार इत्यर्थः ॥२२॥
रथस्य नागाः पञ्चाशन्नागस्यासन् शतं हयाः
।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥२३॥
पक्षान्तरमाह-रथस्येति । एकस्य रथस्य पञ्चाशद्गजाः पञ्चसहस्रं अश्वाः पञ्चत्रिंशत्सहस्रं पदातयः परिवार इत्यर्थः ॥२३॥
सेना पञ्चशतं नागा रथास्तावन्त एव च
।
दश सेना च पृतना पृतना दशवाहिनी ॥२४॥
अत्र रथादीनां प्राधान्याप्राधान्याभिप्रायेण परिवाराल्पत्वबहुत्वे ज्ञेये । साधारणी तु संख्या आदिपर्वण्युक्ता । ‘एको रथो गजस्त्वेको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते’ इत्यादिना । तामेवानुसरति - सेनेति । तत्र गजानां रथानां च तुल्यसंख्योक्तिः पूर्वोक्तसंख्योपलक्षणार्था । तेन पञ्चविंशतिशतानि मनुष्याः पञ्चदशशतं तुरगा इत्यपि ज्ञेयम् । पृतनायां तु पञ्चसहस्रं नागास्तावन्तो रथाः पञ्चविंशतिसहस्रं नराः पञ्चदशसहस्रं अश्वाः । वाहिन्यां पञ्चाशत्सहस्रं नागास्तावन्तो रथाः सार्धलक्षद्वयं नराः सार्थलक्षम् अश्वा इति ज्ञेयम् ॥२४॥
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः
।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ॥२५॥
एवमपि पूर्वोक्ताक्षौहिणीसंख्यया विसंवाद एवेत्याशङ्क्याह - सेनेति । सेनादयः शब्दाः पर्यायाः न तु संख्येयानां संख्याभेदमात्रेण नानार्थाः । एकस्मिन्नपि भीमसेने दशनागसहस्रबलत्वस्मरणात् । एवं च बलस्यैवेयं एकादश सप्तेतिसंख्या न संख्येयस्येति भावः । पाण्डवानां हनिबलत्वेऽपि असंख्येयं वासुदेवबलं तत्र सहायीभूतमिति जयोऽभूदिति द्रष्टव्यम् ॥२५॥
एवं व्यूढान्यनीकानि कौरवेयेण धीमता
।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ॥२६॥
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम्
।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥२७॥
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते
।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ॥२८॥
नराणामिति । अयुतश इत्यनेन नराणामन्तो नास्तीति दर्शितम् ॥२८॥
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्
।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥२९॥
तत्र दुर्योधनो राजा शूरान् बुद्धिमतो नरान्
।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ॥३०॥
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्
।
विधिवत् पूर्वमानीय पार्थिवानभ्यभाषत ॥३१॥
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम्
।
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ॥३२॥
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च
।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम्॥३३॥
दिवसे दिवसे तेषां प्रतिवेलं च भारत
।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ॥३४॥
तथा विनियताः सर्वे ये च तेषां पदानुगाः
।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ॥३५॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यविभागे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥
वैशम्पायन उवाच।
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः
।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥१॥
तत इति ॥१॥
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि
।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥२॥
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित्
।
शौर्यं च बलनेतॄणां स्पर्धते च परस्परम् ॥३॥
श्रूयते च महाप्राज्ञ हैहयानमितौजसः
।
अभ्ययुर्बाह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥४॥
तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह
।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः॥५॥
ततो युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः
।
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥६॥
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः
।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥७॥
वयमेकस्य शृण्वाना महाबुद्धिमतो रणे
।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥८॥
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्
।
नये सुकुशलं शूरमजयन् क्षत्रियांस्ततः ॥९॥
एवं ये कुशलं शूरं हितेप्सितमकल्मषम्
।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥१०॥
भवानुशनसा तुल्यो हितैषी च सदा मम
।
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥११॥
उशनसा शुक्रेण असंहार्यः पितुर्वरदानात् कालेनापि संहर्तुमशक्यः ॥११॥
रश्मिवतामिवादित्यो वीरुधामिव चन्द्रमाः
।
कुबेर इव यक्षाणां देवानामिव वासवः ॥१२॥
पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा
।
कुमार इव देवानां वसूनामिव हव्यवाट् ॥१३॥
कुमारः कार्तिकेयः ॥१३॥
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः
।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥१४॥
प्रयातु नो भवानग्रे देवानामिव पावकिः
।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥१५॥
पावकिः कार्तिकेय एव ॥१५॥
भीष्म उवाच।
एवमेतन्महाबाहो यथा वदसि भारत
।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥१६॥
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप
।
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥१७॥
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि
।
ऋते तस्मान्नरव्याघ्रात् कुन्तीपुत्राद्धनञ्जयात् ॥१८॥
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः
।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥१९॥
विवृतो विस्पष्टो भूत्वेत्यर्यः ॥१९॥
अहं चैव क्षणेनैव निर्मनुष्यमिदं जगत्
।
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥२०॥
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप
।
तस्माद्योधान् हनिष्यामि प्रयोगेणायुतं सदा ॥२१॥
न मे मया उत्सादनीयाः नाशयितुं शक्याः सदा प्रत्यहम् ॥२१॥
एवमेषां करिष्यामि निधनं कुरुनन्दन
।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥२२॥
सेनापतिस्त्वहं राजन् समये नापरेण ते
।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥२३॥
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते
।
स्पर्धते हि सदाऽत्यर्थं सूतपुत्रो मया रणे ॥२५॥
कर्ण उवाच।
नाहं जीवति गाङ्गेये राजन् योत्स्ये कथञ्चन
।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥२६॥
वैशम्पायन उवाच।
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्
।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥२७॥
ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः
।
वादयामासुरव्यग्रा वादका राजशासनात् ॥२७॥
सिंहनादाश्च विविधा वाहनानां च निःस्वनाः
।
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥२८॥
निर्घाताः पृथिवीकम्पा गजबृंहितनिःस्वनाः
।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥२९॥
पातयन्तः मूच्छितानि कुर्वन्तः ॥२९॥
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे
।
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥३०॥
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान्
।
तदैतान्युग्ररूपाणि बभूवुः शतशा नृप ॥३१॥
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम्
।
वाचयित्वा द्विजश्रेष्ठान् गोभिर्निष्कैश्च भूरिशः ॥३२॥
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः
।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥३३॥
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥३४॥
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः
।
शिबिरं मापयामास समे देशे जनाधिप ॥३५॥
मधुरानूषरे देशे प्रभूतयवसेन्धने
।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥३६॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि भीष्मसैनापत्ये षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
जनमेजय उवाच।
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्
।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥१॥
आपगयोमति ॥१॥
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम्
।
समुद्रमिव गांभीर्ये हिमवन्तमिव स्थिरम् ॥२॥
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम्
।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥३॥
रणयज्ञे प्रवितते सुभीमे लोमहर्षणे
।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥४॥
किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः
।
भीमसेनार्जुनौ वाऽपि कृष्णो वा प्रत्यभाषत ॥५॥
वैशम्पायन उवाच।
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः
।
सर्वान् भ्रातॄन् समानीय वासुदेवं च शाश्वतम् ॥६॥
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः
।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥७॥
पितामहेन वो युद्धं पूर्वमेव भविष्यति
।
तस्मात् सप्तसु सेनासु प्रणेतॄन् मम पश्यत ॥८॥
कृष्ण उवाच।
यथाऽर्हति भवान् वक्तुमस्मिन् काले ह्युपस्थिते
।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥९॥
रोचते मे महाबाहो क्रियतां यदनन्तरम्
।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥१०॥
वैशम्पायन उवाच।
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम्
।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव ॥११॥
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम्
।
एतान् सप्त महाभागान् वीरान् युद्धाभिकांक्षिणः ॥१२॥
सेनाप्रणेतॄन् विधिवदभ्यषिञ्चद्युधिष्ठिरः
।
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ॥१३॥
द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः
।
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ॥१४॥
इद्धात् प्रदीप्तात् ॥१४॥
सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम्
।
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ॥१५॥
सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः
।
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ॥१६॥
महात्ययमत्यन्तं क्षयकरम् ॥१६॥
प्राविशद्भवनं राजन् पाण्डवानां हलायुधः
।
सहाक्रूरप्रभृतिभिर्गदसाम्बोद्धवादिभिः ॥१७॥
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः
।
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ॥१८॥
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः
।
नीलकौशेयवसनः कैलासशिखरोपमः ॥१९॥
सिंहखेलगतिः श्रीमान् मदरक्तान्तलोचनः
।
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ॥२०॥
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः
।
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ॥२१॥
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम्
।
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ॥२२॥
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन्
।
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ॥२३॥
युधिष्ठिरेण सहित उपाविशदरिन्दमः
।
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः
।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥२४॥
रौहिणेयो बलरामः ॥२४॥
भविताऽयं महारौद्रो दारुणः पुरुषक्षयः
।
दिष्टमेतत्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥२५॥
तस्माद्युद्धात् समुत्तीर्णानपि वः ससुहृज्जनान्
।
अरोगानक्षर्तैर्देहैर्द्रष्टाऽस्मीति मतिर्मम ॥२६॥
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम्
।
विमर्दश्च महान् भावी मांसशोणितकर्दमः ॥२७॥
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे
।
सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥२८॥
उपह्वरे एकान्ते ॥२८॥
पाण्डवा हि यथाऽस्माकं तथा दुर्योधनो नृपः
।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥२९॥
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः
।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥३०॥
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः
।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥३१॥
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम्
।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥३२॥
उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ
।
तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥३३॥
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम्
।
न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ॥३४॥
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः
।
तीर्थयात्रां ययौ रामो निर्वर्त्य मधुसूदनम् ॥३५॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि बलरामतीर्थयात्रागमने सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ १५७ ॥
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥१॥
एतस्मिन्निति । साक्षात्पुत्र इति सम्बन्धः ॥१॥
आकूतीनामधिपतिर्भोजस्यातियशस्विनः
।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥२॥
आकूतीनां सङ्कल्पानां सत्यसङ्कल्प इत्यर्थः ॥२॥
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः
।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ॥३॥
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा
।
शार्ङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम् ॥४॥
त्रीण्येवैतानि दिव्यानि धनूंषि दिवि चारिणाम्
।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
।
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥५॥
धारयामास तत्कृष्णः परसेनाभयावहम्
।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥६॥
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत
।
संछिद्य मौरवान् पाशान्निहत्य मुरुमोजसा ॥७॥
मौरवान् आन्त्रतन्तिमयान् । यैरिदानीं शार्ङ्गे धनुषि ज्या क्रियते ॥७॥
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले
।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥८॥
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्
।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥९॥
विभीषयन्निव जगत् पाण्डवानभ्यवर्तत
।
नामृष्यत पुरा योऽसौ स्वबाहुबलगर्वितः ॥१०॥
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता
।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥११॥
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः
।
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥१२॥
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया
।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥१३॥
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्
।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥१४॥
तत्र भोजकटं नाम कृतं नगरमुत्तमम्
।
सैन्येन महता तेन प्रभूतगजवाजिना ॥१५॥
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप
।
स भोजराजः सैन्येन महता परिवारितः ॥१६॥
अक्षौहिण्या महावीर्यः पाण्डवान् क्षिप्रमागमत्
।
ततः स कवची धन्वी तली खड्गी शरासनी ॥१७॥
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम्
।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥१८॥
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्
।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥१९॥
प्रतिगृह्य तु तान् सर्वान् विश्रान्तः सहसैनिकः
।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥२०॥
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव
।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥२१॥
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
।
हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डव ॥२२॥
अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः
।
अथवा सर्वं एवैते तिष्ठन्तु वसुधाधिपाः ॥२३॥
निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम्
।
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ ॥२४॥
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः
।
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ॥२५॥
उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम्
।
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः ॥२६॥
द्रोणं व्यपदिशन् शिष्यो वासुदेवसहायवान्
।
भीतोऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः ॥२७॥
द्रोणमयं मम गुरुरिति व्यपदिशन् कथयन् ॥२७॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
।
सहायो घोषयात्रायां कस्तदासीत् सखा मम ॥२८॥
तथा प्रतिभये तस्मिन् देवदानवसङ्कुले
।
खाण्डवे युद्ध्यमानस्य कः सहायस्तदाऽभवत् ॥२९॥
निवातकवचैर्युद्धे कालकेयैश्च दानवैः
।
तत्र मे युद्ध्यमानस्य कः सहायस्तदाऽभवत् ॥३०॥
तथा विराटनगरे कुरुभिः सह सङ्गरे
।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥३१॥
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥३२॥
उपजीव्य आराध्य रणे युद्धनिमत्तम् ॥३२॥
धारयन् गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥३३॥
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम्
।
वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥३४॥
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे
।
यथाकामं यथायोगं गच्छ वाऽन्यत्र तिष्ठ वा ॥३५॥
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
।
दुर्योधनमुपागच्छत्तथैवं भरतर्षभ ॥३६॥
तथैव चाभिगम्यैनमुवाच वसुधाधिपः
।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥३७॥
द्वावेव तु महाराज तस्माद्युद्धादपेयतुः
।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥३८॥
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
।
उपाविशन् पाण्डवेया मन्त्राय पुनरेव च ॥३९॥
समितिर्धर्मराजस्य सा पार्थिवसमाकुला
।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥४०॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि रुक्मिप्रत्याख्याने अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥
जनमेजय उवाच।
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ
।
किमकुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ॥१॥
तथेति ॥१॥
वैशम्पायन उवाच।
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ
।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥२॥
एहि सञ्जय सर्वं मे आचक्ष्वानवशेषतः
।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥३॥
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम्
।
यदहं बुद्ध्यमानोऽपि युद्धदोषान् क्षयोदयान् ॥४॥
क्षयस्यैव उदयो येभ्यस्तान् क्षयोदयान् ॥४॥
तथाऽपि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम्
।
न शक्रोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥५॥
निकृतिप्रज्ञं कपटविषयैव प्रज्ञा न धर्मविषया यस्य तम् ॥५॥
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी
।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥६॥
एवं गते वै यद्भावि तद्भविष्यति सञ्जय
।
क्षत्रधर्मः किल रणे तनुत्यागो हि पूजितः ॥७॥
सञ्जय उवाच।
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि
।
न तु दुर्योधने दोषमिममाधातुमर्हसि ॥८॥
शृणुंष्वानवशेषेण वदतो मम पार्थिव
।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः
।
न स कालं न वा देवानेनसा गन्तुमर्हति ॥९॥
एनसा दोषेण देवान् कालं वा गन्तुं उपालब्धुं नार्हति ‘दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वात्’ दृष्टापराधाभावे देवस्य कालस्य वा उपालंभः कर्तुमुचितो न तु तस्मिन् सतीत्यर्थः न स कालं न वा देवं वक्तुमेतदिहार्हतीति पाठेऽप्ययमेवार्थः ॥९॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्
।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥१०॥
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया
।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥११॥
निकाराः तिरस्काराः ॥११॥
हयानां च गजानां च राज्ञां चामिततेजसाम्
।
वैशसं समरं वृत्तं यत्तन्मे शृणु सर्वशः ॥१२॥
वैशसं वैरं समरे निमित्ते ॥१२॥
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्
।
यथा भूतं महायुद्धे श्रुत्वा चैकमना भव ॥१३॥
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः
।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥१४॥
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया
।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते
।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ॥१५॥
इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि सञ्जयवाक्ये ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९ ॥