सञ्जय उवाच।
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
।
न्यविशन्त महाराज कौरवेया यथाविधि ॥१॥
हिरण्वत्यामिति ॥१॥
तत्र दुर्योधनो राजा निवेश्य बलमोजसा
।
संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥२॥
गुल्मान् सैन्यान् ॥२॥
आरक्षरय विधिं कृत्वा योधानां तत्र भारत
।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥३॥
आरक्षस्य रक्षणीयस्य द्रव्यादेः विधिं रक्षाविधानम् । 'आरक्षं रक्षणीये स्यात्' इति विश्वः ॥३॥
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत
।
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥४॥
संभाषित्वा च कर्णेन भ्रात्रा दुःशासनेन च
।
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ॥५॥
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
।
उलूक गच्छ कैतव्य पाण्डवान् सहसोमकान् ॥६॥
गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः
।
इदं तत् समनुप्राप्तं वर्षपूगाभिचिन्तितम् ॥७॥
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम्
।
यदेतत् कत्थनावाक्यं सञ्जयो महदब्रवीत् ॥८॥
कत्थनावाक्यम् आत्मप्रशंसनम् ॥८॥
वासुदेवसहायस्य गर्जतः सानुजस्य ते
।
मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ॥९॥
यथा वः संप्रतिज्ञातं तत् सर्वं क्रियतामिति
।
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्वं वचनान्मम ॥१०॥
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः
।
कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः ॥११॥
संप्रतिज्ञातं दुःशासनरुधिरपानादि । भ्रातृभिः सहितः कथमधर्मे मनः कृथा इति सम्बन्धः ॥११॥
य इच्छसि जगत् सर्वं नश्यमानं नृशंसवत्
।
अभयं सर्वभूतेभ्यो दाता त्वमिति मे मतिः ॥१२॥
दाता दास्यसि पारिव्राज्यं करिष्यसीत्यर्थः ॥१२॥
श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ
।
प्रह्रादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥१३॥
यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः
।
प्रच्छन्नानि च पापानि बेडालं नाम तद्व्रतम् ॥१४॥
भो सुरा इति देवान् प्रह्रादः संबोधयति यस्य व्रतम्य धर्मध्वजो धर्मचिह्नं दर्भपवित्रपाणित्वादि । उच्छ्रितः सर्वलोकविदितः ॥१४॥
अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम्
।
कथितं नारदेनेह पितुर्मम नराधिप ॥१५॥
मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु
।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीरे कदाचन ॥१६॥
स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम्
।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥१७॥
मन शुद्धिं हिंसातो निवृत्तिम् ॥१७॥
तस्य कालेन महता विश्रंभं जग्मुरण्डजाः
।
समेत्य च प्रशंसन्ति मार्जारं तं विशाम्पते ॥१८॥
विश्रभं विश्वासम् ॥१८॥
पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः
।
आत्मकार्यं कृतं मेने चर्यायाश्च कृतं फलम् ॥१९॥
अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः
।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥२०॥
कार्येण महता युक्तं दम्भयुक्तेन भारत
।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥२१॥
बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम्
।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥२२॥
बहवश्च ते मित्राणि चेति बहुमित्राः । बहुमित्रा इत्यपि पाठः । वृद्धाश्च बालाश्च तेषां समाहारो वृद्धबालं तस्य ॥२२॥
उपगम्य तु ते सर्वे बिडालमिदमब्रुवन्
।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥२३॥
भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत्
।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥२४॥
भवान् धर्मपरो नित्यं भवान् धर्मे व्यवस्थितः
।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥२५॥
एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशाम्पते
।
प्रत्युवाच ततः सर्वान् मूषिकान् मूषिकान्तकृत् ॥२६॥
द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च
।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥२७॥
युष्माभिरपि कर्तव्यं वचनं मम नित्यशः
।
तपसाऽस्मि परिश्रान्तो दृढं नियममास्थितः ॥२८॥
न चापि गमने शक्तिं काञ्चित्पश्यामि चिन्तयन्
।
सोऽस्मि नेयः सदा ताता नदीकूलमितः परम् ॥२९॥
तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ
।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥३०॥
ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन्
।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥३१॥
मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः
।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥३२॥
ततस्ते मूषिकाः सर्वे समेत्यान्योऽन्यमब्रुवन्
।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥३३॥
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः
।
अब्रवीद्वचनं राजन् मूषिकाणां महागणम् ॥३४॥
गच्छतां वो नदीतीरं सहितानां विशेषतः
।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥३५॥
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा
।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥३६॥
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान्
।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥३७॥
तत्र वृद्धतमः कश्चित् कोलिको नाम मूषिकः
।
अब्रवीद्वचनं राजन् ज्ञातिमध्ये यथातथम् ॥३८॥
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा
।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥३९॥
शिखा शाखा अमित्रस्यापि मित्रभावरूपं पक्षान्तरकृता स्वीकृता । 'शिखा शाखा बर्हिचूडा' इति 'शाखा पक्षान्तरे बाहौ' इति च मेदिनी ॥३९॥
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते
।
अद्य सप्ताष्टदिवसान् डिण्डिकोऽपि न दृश्यते ॥४०॥
गणश्च मूषिकाणाम् ॥४०॥
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः
।
बिडालोऽपि स दुष्टात्मा जगामैव यथागतम् ॥४१॥
तथा त्वमपि दुष्टात्मन् बैडालं व्रतमास्थितः
।
चरसि ज्ञातिषु सदा बिडालो मूषिकेष्विव ॥४२॥
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते
।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥४३॥
त्यक्त्वा छद्म त्विदं राजन् क्षत्रधर्मं समाश्रितः
।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥४४॥
इदं छद्म अजातशत्रुत्वरूपं धर्मिष्ठोऽसीत्युपहासः ॥४४॥
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम
।
देहि दानं द्विजातिभ्यः पितृभ्यश्च यथोचितम् ॥४५॥
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः
।
प्रमार्जाश्रु रणे जित्वा सम्मानं परमावह ॥४६॥
प्रमार्ज प्रमार्जय ॥४६॥
पञ्च ग्रामा वृता यत्नान्नास्माभिरपवर्जिताः
।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥४७॥
त्वत्कृते दुष्टभावस्य सन्त्यागो विदुरस्य च
।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥४८॥
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि
।
अयमस्मि स्थितो राजन् शमाय समराय च ॥४९॥
तस्यायमागतः कालः समरस्य नराधिप
।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥५०॥
किं नु युद्धात् परं लाभं क्षत्रियो बहु मन्यते
।
किं च त्वं क्षत्रियकुले जातः संप्रथितो भुवि ॥५१॥
द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ
।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥५२॥
ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः
।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रति योधय ॥५३॥
सभामध्ये च यद्रूपं मायया कृतवानसि
।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥५४॥
इन्द्रजालं च मायां वै कुहका वाऽपि भीषणा
।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥५५॥
इन्द्रजालं प्रसिद्धम् । माया छलं कुहका कृत्या प्रतिगर्जनाः विपरीतं कोपं वहन्ति प्रापयन्ति न तु भयं जनयन्तीत्यर्थः । 'गर्जनं निनदे कोपे' इति मेदिनी ॥५५॥
वयमप्युत्सहेम द्यां खं च गच्छेम मायया
।
रसातलं विशामोऽपि ऐन्द्रं वा पुरमेव तु ॥५६॥
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि
।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम्॥५७॥
पर्यायतः पर्यायो भयप्रदर्शनादिरूपः प्रकारस्तेन सिद्धिः स्वस्य न तु भवति तथा परोऽपि तेन बुद्धिं मानुषीं भयात्मिकां न प्राप्नोति ॥५७॥
मनसैव हि भूतानि धातैव कुरुते वशे
।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥५८॥
यतो मनसैव ईश्वरेणैव वयं वशे कर्तव्या न त्वादृशैर्विभीषिकयेति भावः । पूर्वश्लोकेन त्वित्यत्र नन्विति पाठे पर्यायतः क्रमतः भावस्तु स एव । 'पर्यायः प्रकारेऽवसरे क्रमे' इति मेदिनी ॥५८॥
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम्
।
आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम् ॥५९॥
आचचक्षे आख्यातवान् ॥५९॥
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना
।
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ॥६०॥
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव
।
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः ॥६१॥
करोति द्विषतां शोकं स जीवति सुजीवितम्
।
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः ॥६२॥
अद्येदानीं विजानीमः सन्ति षण्ढाः सश्रृङ्गकाः
।
मद्विधो नापि नृपतिस्त्वयि युक्तः कथञ्चन ॥६३॥
सशृङ्गकाः शृङ्गं पुंस्त्वचिह्नं श्मश्रुलत्वलिङ्गवत्त्वादिकं तत्सहिताः षण्ढाः निर्वीर्याः सन्ति येषु तव शौर्यं प्रख्यातमिति भावः ॥६३॥
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः
।
तं च तूबरकं बालं बह्वाशिनमविद्यकम् ॥६४॥
तूबरकं तूबरः प्रौढशृङ्गोऽनड्वान् तत्तुल्यम् । तूपर इति पाठेऽपि स एवार्थः। अश्मश्रुपुरुषामत्यन्ये । 'तूबरोऽश्मश्रुपुरुषे प्रौढशृङ्गानडुह्यपि' इति मेदिनी । तेषां भीमसेनो निःश्मश्रुक इति कल्पना भवति । अश्वोऽजस्तूपरो गोमृग इति प्राजापत्या इति श्रुतौ अश्वादिसाहचर्यात्तूपरोऽपि पशुरेव । अविद्यकं मूढम् ॥६४॥
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम्
।
विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा ॥६५॥
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम्
।
प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा ॥६६॥
दुःशासनस्य रुधिरं पीयतां यदि शक्यते
।
यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे ॥६७॥
निहनिष्यामि तरसा तस्य कालोऽयमागतः
।
त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ॥६८॥
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव
।
शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत ॥६९॥
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर
।
उलूक नकुलं ब्रूहि वचनान्मम भारत ॥७०॥
युद्ध्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम्
।
युधिष्ठिरानुरागं च द्वेषं च मयि भारत
।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥७१॥
ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम
।
युद्ध्येदानीं रणे यत्तः क्लेशान् स्मर च पाण्डव ॥७२॥
विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम
।
न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ॥७३॥
न दृष्टेति । भर्तारः राजानः ॥७३॥
तथाऽर्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः
।
अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥७४॥
अर्थपतिभी राजभिः । यतः कालात् तत आरभ्येत्यर्थः । मूढा यूयं मयि गुणवति स्वामिनि न संतुष्टाः स्थ । मूढश्च युधिष्ठिरो भवदादिषु निर्गुणेष्वपि तुष्यतीति भावः ॥७४॥
ते यूयं संहता भूत्वा तद्वधार्थं ममापि च
।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥७५॥
तत्तस्माद्धेतोर्मम वधार्थं च प्रयुद्ध्यध्वमिति सम्बन्धः ॥७५॥
धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम
।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयाऽपि सः ॥७६॥
द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम्
।
युध्यस्व ससुहृत्पापं कुरु कर्म सुदुष्करम् ॥७७॥
पापं कर्म कुरु गुरुवधाख्यम् । स्वार्थमिति पाठे दुष्करपदादेवायमर्थो ज्ञेयः । ससुहृत्पार्थमितिपाठे तु क्रियाविशेषणमिदं सुहृद्भिः पार्थैश्च सहितं यथा स्यात्तथा युद्ध्यस्वेत्यर्थः । अयमेव मूलपाठ इति भाति ॥७७॥
शिखण्डिनमथो ब्रूहि उलूकवचनान्मम
।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥७८॥
गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भय
।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥७९॥
एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत्
।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य शृण्वतः ॥८०॥
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
।
अथवा निर्जितोऽस्माभी रणे वीर शयिष्यसि ॥८१॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव
।
कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव ॥८२॥
यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम्
।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥८३॥
पौरुषं दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम्
।
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च
।
हृदयं कस्य न स्फोटेदैश्वर्याद्भ्रंशितस्य च ॥८४॥
कुले जातस्य शूरस्य परवित्तेष्वगृध्यतः
।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥८५॥
राज्यमाक्रम्य मादृश इति शेषः ॥८५॥
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्
।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥८६॥
अकर्मणा अयुद्धेन कत्थितेन स्वप्रशंसामात्रेण ॥८६॥
अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर
।
द्वावर्थौ युद्धकामस्य तस्मात्तत् कुरु पौरुषम् ॥८७॥
स्थानं स्थितिं तत् स्थानराज्ययोरुद्धरणं पौरुषं पुरुषकर्म कुरु ॥८७॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्
।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥८८॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः
।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥८९॥
धिष्ण्यात् गृहात् ॥८९॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव
।
कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव ॥९०॥
अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः
।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥९१॥
अप्रियाणां शत्रूणां वक्तुं योग्यं वचनं गौर्गौः 'न सन्ति पतयो भद्रे षण्ढतिला एते' इत्यादिकं प्रब्रुवत्सु दुःशासनादिषु अमर्षं कोपं दर्शय ॥९१॥
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्
।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥९२॥
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥९३॥
लोहाभिसारः शस्त्राणां नीराजनादिकं तेषु मन्त्रेण देवतावाहनादिकं च अकर्दममिति युद्धयोग्यत्वं भूमेरुक्तम् ॥९३॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे
।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥९४॥
एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव
।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥९५॥
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि
।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥९६॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः
।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥९७॥
वेदयोः श्रुतिधनुर्वेदयोः अन्तगं पारगम् ॥९७॥
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा
।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥९८॥
अनिलो वा वहेन्मेरुं द्योर्वाऽपि निपतेन्महीम्
।
युगं वा परिवर्तेत यद्येवं स्याद्यथाऽऽत्थ माम् ॥९९॥
युगं कालचक्रम् ॥९९॥
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम्
।
पार्थो वा इतरो वाऽपि कोऽन्यः स्वस्ति गृहान्व्रजेत् ॥१००॥
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा
।
रणे जीवन् प्रमुच्येत पदा भूमिमुपस्पृशन् ॥१०१॥
आभ्यां द्रोणभीष्माभ्याम् अभिध्यातो हन्तव्यत्वेन निश्चितः । दारुणेन भयानकेनास्त्रादिना पदा भूमिमिति मर्त्य उक्तः ॥१०१॥
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्दैस्त्रिदशैरिव द्याम् ॥१०२॥
दर्दुरो मण्डूकः ॥१०२॥
प्राच्येः प्रतीच्येरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च
।
शाल्वैः समत्स्यैः कुरुमध्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥१०३॥
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम्
।
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥१०४॥
नागबलस्य हस्तिसैन्यस्य ॥१०४॥
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्
।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥१०५॥
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु
।
पर्यायात्सिद्धिरेतस्य नैतत्सिद्ध्यति कत्थनात् ॥१०६॥
पर्यायात् युद्धप्रकारात् ॥१०६॥
यदीदं कत्थनाल्लोके सिध्येत् कर्म धनञ्जय
।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥१०७॥
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्
।
जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥१०८॥
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति मानवः
।
मनसैवानुकूलानि धातैव कुरुते वशे ॥१०९॥
पर्यायधर्मेण उपधर्मेण मायादिना अन्ये तु राजपुत्रोऽयं राज्यार्ह इति क्रमधर्मस्तेन न किं तु शौर्येणैव सिद्धिमाप्नोतीत्यर्थः । मनसा संकल्पेन धातैव कुरुते न तु मनुष्यः ॥१०९॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव
।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥११०॥
क्क तदा गाण्डिवं तेऽभूद्यत्त्वं दास पणैर्जितः
।
क्क तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥१११॥
हे दास वासव इति पाठे इन्द्रपुत्र ॥१११॥
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात्
।
न वै मोक्षस्तदा योऽभूद्विना कृष्णामनिन्दिताम् ॥११२॥
सा वो दास्ये समापन्नान् मोचयामास पार्षती
।
अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान् ॥११३॥
अमानुष्यं नीचमनुष्यत्वम् अलवणा यवागूरितिवदल्पार्थोऽत्र नञ् ॥११३॥
अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्
।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥११४॥
सूदकर्मणि विश्रान्तं विराटस्य महानसे
।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥११५॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
।
वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसि ॥११६॥
वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसीत्येतस्मात्परं 'श्रोण्यां वेण्यां च कक्ष्यां च संयुगे यः पलायते' इत्यर्धं दृश्यते । तस्यार्थः - यः षण्ढवेषः अस्त्री अपि स्त्रीवेषमृत् श्रोणिकक्षावेण्युपलक्षितेषु रत्यवमर्ददशनस्थानेषु संयुगे स्मरयुद्धे उपस्थिते सति पलायते स्त्री त्वस्मिन्संयुगे स्थिरीभवति । अयं तु ततोऽप्यधम इति भावः। कक्षायामित्यपेक्षित आकारलोप आर्षः ॥११६॥
न भयाद्वासुदेवस्य न चापि तव फाल्गुन
।
राज्यं प्रति प्रदास्यामि युद्ध्यस्व सहकेशवः ॥११७॥
न मायाऽहीन्द्रजालं वा कुहका वाऽपि भीषणा
।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥११८॥
न मायेति व्याख्यात एव श्लोकः ॥११८॥
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥११९॥
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्
।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥१२०॥
भीष्मेण सह संग्रामः गिरौ शिरोभेदनादिवत् स्वनाशकर इत्यर्थः ॥१२०॥
शारद्वतमहामीनं विविंशतिमहोरगम्
।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥१२१॥
उद्वेलो वृद्धिः ॥१२१॥
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्
।
कर्ण-शल्यझषावर्तं काम्बोजवडवामुखम् ॥१२२॥
दुःशासनौघं शल-शल्यमत्स्यं सुषेण-चित्रायुधनाग-नक्रम्
।
जयद्रथाद्रिं पुरुमित्र-गाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥१२३॥
ओघः प्रवाहः पुरुमित्रो दुर्योधनभ्राता स एव गाधो गाम्भीर्यस्य पर्यन्तो यस्मिन् । गाढमिति पाठे तेन गाढं दुष्प्रवेशं दुर्मर्षणोदं दुर्मर्षणोदकं सोऽपि दुर्योधनभ्रातैव ॥१२३॥
शस्त्रौघमक्षय्यमभिप्रवृद्धं यदाऽवगाह्य श्रमनष्टचेताः
।
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥१२४॥
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्तिता पार्थ महीप्रशासनात्
।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥१२५॥
निवर्तिता निवर्तिष्यति प्रशाम्य शान्तो भव । प्रशास्येति पाठे प्रशास्यं च तद्राज्यं चेति समासः। बुभूषितः प्राप्तुमिष्टः । अतपस्विना स्वर्ग इव त्वया राज्यं दुर्लभं लब्धुमशक्यम् ॥१२५॥