सञ्जय उवाच।
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
।
न्यविशन्त महाराज कौरवेया यथाविधि ॥१॥
हिरण्वत्यामिति ॥१॥
तत्र दुर्योधनो राजा निवेश्य बलमोजसा
।
संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥२॥
गुल्मान् सैन्यान् ॥२॥
आरक्षरय विधिं कृत्वा योधानां तत्र भारत
।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥३॥
आरक्षस्य रक्षणीयस्य द्रव्यादेः विधिं रक्षाविधानम् । ‘आरक्षं रक्षणीये स्यात्’ इति विश्वः ॥३॥
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत
।
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥४॥
संभाषित्वा च कर्णेन भ्रात्रा दुःशासनेन च
।
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ॥५॥
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
।
उलूक गच्छ कैतव्य पाण्डवान् सहसोमकान् ॥६॥
गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः
।
इदं तत् समनुप्राप्तं वर्षपूगाभिचिन्तितम् ॥७॥
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम्
।
यदेतत् कत्थनावाक्यं सञ्जयो महदब्रवीत् ॥८॥
कत्थनावाक्यम् आत्मप्रशंसनम् ॥८॥
वासुदेवसहायस्य गर्जतः सानुजस्य ते
।
मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ॥९॥
यथा वः संप्रतिज्ञातं तत् सर्वं क्रियतामिति
।
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्वं वचनान्मम ॥१०॥
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः
।
कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः ॥११॥
संप्रतिज्ञातं दुःशासनरुधिरपानादि । भ्रातृभिः सहितः कथमधर्मे मनः कृथा इति सम्बन्धः ॥११॥
य इच्छसि जगत् सर्वं नश्यमानं नृशंसवत्
।
अभयं सर्वभूतेभ्यो दाता त्वमिति मे मतिः ॥१२॥
दाता दास्यसि पारिव्राज्यं करिष्यसीत्यर्थः ॥१२॥
श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ
।
प्रह्रादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥१३॥
यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः
।
प्रच्छन्नानि च पापानि बेडालं नाम तद्व्रतम् ॥१४॥
भो सुरा इति देवान् प्रह्रादः संबोधयति यस्य व्रतम्य धर्मध्वजो धर्मचिह्नं दर्भपवित्रपाणित्वादि । उच्छ्रितः सर्वलोकविदितः ॥१४॥
अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम्
।
कथितं नारदेनेह पितुर्मम नराधिप ॥१५॥
मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु
।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीरे कदाचन ॥१६॥
स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम्
।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥१७॥
मन शुद्धिं हिंसातो निवृत्तिम् ॥१७॥
तस्य कालेन महता विश्रंभं जग्मुरण्डजाः
।
समेत्य च प्रशंसन्ति मार्जारं तं विशाम्पते ॥१८॥
विश्रभं विश्वासम् ॥१८॥
पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः
।
आत्मकार्यं कृतं मेने चर्यायाश्च कृतं फलम् ॥१९॥
अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः
।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥२०॥
कार्येण महता युक्तं दम्भयुक्तेन भारत
।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥२१॥
बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम्
।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥२२॥
बहवश्च ते मित्राणि चेति बहुमित्राः । बहुमित्रा इत्यपि पाठः । वृद्धाश्च बालाश्च तेषां समाहारो वृद्धबालं तस्य ॥२२॥
उपगम्य तु ते सर्वे बिडालमिदमब्रुवन्
।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥२३॥
भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत्
।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥२४॥
भवान् धर्मपरो नित्यं भवान् धर्मे व्यवस्थितः
।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥२५॥
एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशाम्पते
।
प्रत्युवाच ततः सर्वान् मूषिकान् मूषिकान्तकृत् ॥२६॥
द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च
।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥२७॥
युष्माभिरपि कर्तव्यं वचनं मम नित्यशः
।
तपसाऽस्मि परिश्रान्तो दृढं नियममास्थितः ॥२८॥
न चापि गमने शक्तिं काञ्चित्पश्यामि चिन्तयन्
।
सोऽस्मि नेयः सदा ताता नदीकूलमितः परम् ॥२९॥
तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ
।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥३०॥
ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन्
।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥३१॥
मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः
।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥३२॥
ततस्ते मूषिकाः सर्वे समेत्यान्योऽन्यमब्रुवन्
।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥३३॥
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः
।
अब्रवीद्वचनं राजन् मूषिकाणां महागणम् ॥३४॥
गच्छतां वो नदीतीरं सहितानां विशेषतः
।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥३५॥
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा
।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥३६॥
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान्
।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥३७॥
तत्र वृद्धतमः कश्चित् कोलिको नाम मूषिकः
।
अब्रवीद्वचनं राजन् ज्ञातिमध्ये यथातथम् ॥३८॥
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा
।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥३९॥
शिखा शाखा अमित्रस्यापि मित्रभावरूपं पक्षान्तरकृता स्वीकृता । ‘शिखा शाखा बर्हिचूडा’ इति ‘शाखा पक्षान्तरे बाहौ’ इति च मेदिनी ॥३९॥
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते
।
अद्य सप्ताष्टदिवसान् डिण्डिकोऽपि न दृश्यते ॥४०॥
गणश्च मूषिकाणाम् ॥४०॥
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः
।
बिडालोऽपि स दुष्टात्मा जगामैव यथागतम् ॥४१॥
तथा त्वमपि दुष्टात्मन् बैडालं व्रतमास्थितः
।
चरसि ज्ञातिषु सदा बिडालो मूषिकेष्विव ॥४२॥
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते
।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥४३॥
त्यक्त्वा छद्म त्विदं राजन् क्षत्रधर्मं समाश्रितः
।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥४४॥
इदं छद्म अजातशत्रुत्वरूपं धर्मिष्ठोऽसीत्युपहासः ॥४४॥
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम
।
देहि दानं द्विजातिभ्यः पितृभ्यश्च यथोचितम् ॥४५॥
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः
।
प्रमार्जाश्रु रणे जित्वा सम्मानं परमावह ॥४६॥
प्रमार्ज प्रमार्जय ॥४६॥
पञ्च ग्रामा वृता यत्नान्नास्माभिरपवर्जिताः
।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥४७॥
त्वत्कृते दुष्टभावस्य सन्त्यागो विदुरस्य च
।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥४८॥
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि
।
अयमस्मि स्थितो राजन् शमाय समराय च ॥४९॥
तस्यायमागतः कालः समरस्य नराधिप
।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥५०॥
किं नु युद्धात् परं लाभं क्षत्रियो बहु मन्यते
।
किं च त्वं क्षत्रियकुले जातः संप्रथितो भुवि ॥५१॥
द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ
।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥५२॥
ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः
।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रति योधय ॥५३॥
सभामध्ये च यद्रूपं मायया कृतवानसि
।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥५४॥
इन्द्रजालं च मायां वै कुहका वाऽपि भीषणा
।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥५५॥
इन्द्रजालं प्रसिद्धम् । माया छलं कुहका कृत्या प्रतिगर्जनाः विपरीतं कोपं वहन्ति प्रापयन्ति न तु भयं जनयन्तीत्यर्थः । ‘गर्जनं निनदे कोपे’ इति मेदिनी ॥५५॥
वयमप्युत्सहेम द्यां खं च गच्छेम मायया
।
रसातलं विशामोऽपि ऐन्द्रं वा पुरमेव तु ॥५६॥
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि
।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम्॥५७॥
पर्यायतः पर्यायो भयप्रदर्शनादिरूपः प्रकारस्तेन सिद्धिः स्वस्य न तु भवति तथा परोऽपि तेन बुद्धिं मानुषीं भयात्मिकां न प्राप्नोति ॥५७॥
मनसैव हि भूतानि धातैव कुरुते वशे
।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥५८॥
यतो मनसैव ईश्वरेणैव वयं वशे कर्तव्या न त्वादृशैर्विभीषिकयेति भावः । पूर्वश्लोकेन त्वित्यत्र नन्विति पाठे पर्यायतः क्रमतः भावस्तु स एव । ‘पर्यायः प्रकारेऽवसरे क्रमे’ इति मेदिनी ॥५८॥
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम्
।
आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम् ॥५९॥
आचचक्षे आख्यातवान् ॥५९॥
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना
।
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ॥६०॥
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव
।
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः ॥६१॥
करोति द्विषतां शोकं स जीवति सुजीवितम्
।
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः ॥६२॥
अद्येदानीं विजानीमः सन्ति षण्ढाः सश्रृङ्गकाः
।
मद्विधो नापि नृपतिस्त्वयि युक्तः कथञ्चन ॥६३॥
सशृङ्गकाः शृङ्गं पुंस्त्वचिह्नं श्मश्रुलत्वलिङ्गवत्त्वादिकं तत्सहिताः षण्ढाः निर्वीर्याः सन्ति येषु तव शौर्यं प्रख्यातमिति भावः ॥६३॥
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः
।
तं च तूबरकं बालं बह्वाशिनमविद्यकम् ॥६४॥
तूबरकं तूबरः प्रौढशृङ्गोऽनड्वान् तत्तुल्यम् । तूपर इति पाठेऽपि स एवार्थः। अश्मश्रुपुरुषामत्यन्ये । ‘तूबरोऽश्मश्रुपुरुषे प्रौढशृङ्गानडुह्यपि’ इति मेदिनी । तेषां भीमसेनो निःश्मश्रुक इति कल्पना भवति । अश्वोऽजस्तूपरो गोमृग इति प्राजापत्या इति श्रुतौ अश्वादिसाहचर्यात्तूपरोऽपि पशुरेव । अविद्यकं मूढम् ॥६४॥
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम्
।
विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा ॥६५॥
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम्
।
प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा ॥६६॥
दुःशासनस्य रुधिरं पीयतां यदि शक्यते
।
यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे ॥६७॥
निहनिष्यामि तरसा तस्य कालोऽयमागतः
।
त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ॥६८॥
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव
।
शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत ॥६९॥
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर
।
उलूक नकुलं ब्रूहि वचनान्मम भारत ॥७०॥
युद्ध्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम्
।
युधिष्ठिरानुरागं च द्वेषं च मयि भारत
।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥७१॥
ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम
।
युद्ध्येदानीं रणे यत्तः क्लेशान् स्मर च पाण्डव ॥७२॥
विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम
।
न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ॥७३॥
न दृष्टेति । भर्तारः राजानः ॥७३॥
तथाऽर्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः
।
अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥७४॥
अर्थपतिभी राजभिः । यतः कालात् तत आरभ्येत्यर्थः । मूढा यूयं मयि गुणवति स्वामिनि न संतुष्टाः स्थ । मूढश्च युधिष्ठिरो भवदादिषु निर्गुणेष्वपि तुष्यतीति भावः ॥७४॥
ते यूयं संहता भूत्वा तद्वधार्थं ममापि च
।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥७५॥
तत्तस्माद्धेतोर्मम वधार्थं च प्रयुद्ध्यध्वमिति सम्बन्धः ॥७५॥
धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम
।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयाऽपि सः ॥७६॥
द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम्
।
युध्यस्व ससुहृत्पापं कुरु कर्म सुदुष्करम् ॥७७॥
पापं कर्म कुरु गुरुवधाख्यम् । स्वार्थमिति पाठे दुष्करपदादेवायमर्थो ज्ञेयः । ससुहृत्पार्थमितिपाठे तु क्रियाविशेषणमिदं सुहृद्भिः पार्थैश्च सहितं यथा स्यात्तथा युद्ध्यस्वेत्यर्थः । अयमेव मूलपाठ इति भाति ॥७७॥
शिखण्डिनमथो ब्रूहि उलूकवचनान्मम
।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥७८॥
गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भय
।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥७९॥
एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत्
।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य शृण्वतः ॥८०॥
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
।
अथवा निर्जितोऽस्माभी रणे वीर शयिष्यसि ॥८१॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव
।
कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव ॥८२॥
यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम्
।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥८३॥
पौरुषं दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम्
।
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च
।
हृदयं कस्य न स्फोटेदैश्वर्याद्भ्रंशितस्य च ॥८४॥
कुले जातस्य शूरस्य परवित्तेष्वगृध्यतः
।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥८५॥
राज्यमाक्रम्य मादृश इति शेषः ॥८५॥
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्
।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥८६॥
अकर्मणा अयुद्धेन कत्थितेन स्वप्रशंसामात्रेण ॥८६॥
अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर
।
द्वावर्थौ युद्धकामस्य तस्मात्तत् कुरु पौरुषम् ॥८७॥
स्थानं स्थितिं तत् स्थानराज्ययोरुद्धरणं पौरुषं पुरुषकर्म कुरु ॥८७॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्
।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥८८॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः
।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥८९॥
धिष्ण्यात् गृहात् ॥८९॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव
।
कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव ॥९०॥
अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः
।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥९१॥
अप्रियाणां शत्रूणां वक्तुं योग्यं वचनं गौर्गौः ‘न सन्ति पतयो भद्रे षण्ढतिला एते’ इत्यादिकं प्रब्रुवत्सु दुःशासनादिषु अमर्षं कोपं दर्शय ॥९१॥
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्
।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥९२॥
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥९३॥
लोहाभिसारः शस्त्राणां नीराजनादिकं तेषु मन्त्रेण देवतावाहनादिकं च अकर्दममिति युद्धयोग्यत्वं भूमेरुक्तम् ॥९३॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे
।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥९४॥
एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव
।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥९५॥
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि
।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥९६॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः
।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥९७॥
वेदयोः श्रुतिधनुर्वेदयोः अन्तगं पारगम् ॥९७॥
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा
।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥९८॥
अनिलो वा वहेन्मेरुं द्योर्वाऽपि निपतेन्महीम्
।
युगं वा परिवर्तेत यद्येवं स्याद्यथाऽऽत्थ माम् ॥९९॥
युगं कालचक्रम् ॥९९॥
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम्
।
पार्थो वा इतरो वाऽपि कोऽन्यः स्वस्ति गृहान्व्रजेत् ॥१००॥
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा
।
रणे जीवन् प्रमुच्येत पदा भूमिमुपस्पृशन् ॥१०१॥
आभ्यां द्रोणभीष्माभ्याम् अभिध्यातो हन्तव्यत्वेन निश्चितः । दारुणेन भयानकेनास्त्रादिना पदा भूमिमिति मर्त्य उक्तः ॥१०१॥
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्दैस्त्रिदशैरिव द्याम् ॥१०२॥
दर्दुरो मण्डूकः ॥१०२॥
प्राच्येः प्रतीच्येरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च
।
शाल्वैः समत्स्यैः कुरुमध्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥१०३॥
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम्
।
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥१०४॥
नागबलस्य हस्तिसैन्यस्य ॥१०४॥
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्
।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥१०५॥
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु
।
पर्यायात्सिद्धिरेतस्य नैतत्सिद्ध्यति कत्थनात् ॥१०६॥
पर्यायात् युद्धप्रकारात् ॥१०६॥
यदीदं कत्थनाल्लोके सिध्येत् कर्म धनञ्जय
।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥१०७॥
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्
।
जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥१०८॥
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति मानवः
।
मनसैवानुकूलानि धातैव कुरुते वशे ॥१०९॥
पर्यायधर्मेण उपधर्मेण मायादिना अन्ये तु राजपुत्रोऽयं राज्यार्ह इति क्रमधर्मस्तेन न किं तु शौर्येणैव सिद्धिमाप्नोतीत्यर्थः । मनसा संकल्पेन धातैव कुरुते न तु मनुष्यः ॥१०९॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव
।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥११०॥
क्क तदा गाण्डिवं तेऽभूद्यत्त्वं दास पणैर्जितः
।
क्क तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥१११॥
हे दास वासव इति पाठे इन्द्रपुत्र ॥१११॥
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात्
।
न वै मोक्षस्तदा योऽभूद्विना कृष्णामनिन्दिताम् ॥११२॥
सा वो दास्ये समापन्नान् मोचयामास पार्षती
।
अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान् ॥११३॥
अमानुष्यं नीचमनुष्यत्वम् अलवणा यवागूरितिवदल्पार्थोऽत्र नञ् ॥११३॥
अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्
।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥११४॥
सूदकर्मणि विश्रान्तं विराटस्य महानसे
।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥११५॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
।
वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसि ॥११६॥
वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसीत्येतस्मात्परं ‘श्रोण्यां वेण्यां च कक्ष्यां च संयुगे यः पलायते’ इत्यर्धं दृश्यते । तस्यार्थः - यः षण्ढवेषः अस्त्री अपि स्त्रीवेषमृत् श्रोणिकक्षावेण्युपलक्षितेषु रत्यवमर्ददशनस्थानेषु संयुगे स्मरयुद्धे उपस्थिते सति पलायते स्त्री त्वस्मिन्संयुगे स्थिरीभवति । अयं तु ततोऽप्यधम इति भावः। कक्षायामित्यपेक्षित आकारलोप आर्षः ॥११६॥
न भयाद्वासुदेवस्य न चापि तव फाल्गुन
।
राज्यं प्रति प्रदास्यामि युद्ध्यस्व सहकेशवः ॥११७॥
न मायाऽहीन्द्रजालं वा कुहका वाऽपि भीषणा
।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥११८॥
न मायेति व्याख्यात एव श्लोकः ॥११८॥
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥११९॥
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्
।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥१२०॥
भीष्मेण सह संग्रामः गिरौ शिरोभेदनादिवत् स्वनाशकर इत्यर्थः ॥१२०॥
शारद्वतमहामीनं विविंशतिमहोरगम्
।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥१२१॥
उद्वेलो वृद्धिः ॥१२१॥
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्
।
कर्ण-शल्यझषावर्तं काम्बोजवडवामुखम् ॥१२२॥
दुःशासनौघं शल-शल्यमत्स्यं सुषेण-चित्रायुधनाग-नक्रम्
।
जयद्रथाद्रिं पुरुमित्र-गाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥१२३॥
ओघः प्रवाहः पुरुमित्रो दुर्योधनभ्राता स एव गाधो गाम्भीर्यस्य पर्यन्तो यस्मिन् । गाढमिति पाठे तेन गाढं दुष्प्रवेशं दुर्मर्षणोदं दुर्मर्षणोदकं सोऽपि दुर्योधनभ्रातैव ॥१२३॥
शस्त्रौघमक्षय्यमभिप्रवृद्धं यदाऽवगाह्य श्रमनष्टचेताः
।
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥१२४॥
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्तिता पार्थ महीप्रशासनात्
।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥१२५॥
निवर्तिता निवर्तिष्यति प्रशाम्य शान्तो भव । प्रशास्येति पाठे प्रशास्यं च तद्राज्यं चेति समासः। बुभूषितः प्राप्तुमिष्टः । अतपस्विना स्वर्ग इव त्वया राज्यं दुर्लभं लब्धुमशक्यम् ॥१२५॥
इति श्रीमहाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि दुर्योधनवाक्ये षष्ट्यधिकशततमोऽध्यायः॥१६० ॥
सञ्जय उवाच।
सेनानिवेशं संप्राप्तः कैतव्यः पाण्डवस्य ह
।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥१॥
सेनेति ॥१॥
अभिज्ञो दूतवाक्यानां यथोक्तं ध्रुवतो मम
।
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥२॥
युधिष्ठिर उवाच।
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः
।
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥३॥
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्
।
सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः ॥४॥
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ
।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥५॥
उलूक उवाच।
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः
।
शृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर ॥६॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्
।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥७॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः
।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥८॥
अमर्षं राज्यहरणं वनवासं च पाण्डव
।
द्रौपद्याश्च परिक्लेशं संस्मरन् पुरुषो भव ॥९॥
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव
।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥१०॥
शप्तं शपथः कृतः ॥१०॥
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
।
समः पन्था भृतास्तेऽश्वाः श्वो युध्यस्व सकेशवः ॥११॥
व्याख्यात एवायमध्यायः ॥११॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे
।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥१२॥
एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव
।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥१३॥
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि
।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥१४॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः
।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥१५॥
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा
।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥१६॥
अनिलो वा वहेन्मेरुं द्यौर्वाऽपि निपतेन्महीम्
।
युगं वा परिवर्तेत यद्येवं स्याद्यथाऽऽत्थ माम् ॥१७॥
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम्
।
गजो वाजी रथो वाऽपि पुनः स्वस्ति गृहान्व्रजेत् ॥१८॥
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा
।
रणे जीवन् विमुच्येत पदा भूमिमुपस्पृशन् ॥१९॥
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥२०॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च
।
शाल्वैः समत्स्यैः कुरुमुख्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥२१॥
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम्
।
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥२२॥
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्
।
अभ्यावृत्य पुनर्जिप्णुमुलूकः प्रत्यभाषत ॥२३॥
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु
।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥२४॥
यदीदं कत्थनाल्लोके सिध्येत् कर्म धनञ्जय
।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥२५॥
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्
।
जानाम्येतत् त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥२६॥
न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः
।
मनसैवानुकूलानि विधाता कुरुते वशे ॥२७॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव
।
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥२८॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दास पणैर्जितः
।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥२९॥
सगदाद्भीमसेनाद्वा पार्थाद्वाऽपि सगाण्डिवात्
।
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥३०॥
सा वो दास्ये समापन्नान् मोक्षयामास पार्षती
।
अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान् ॥३१॥
अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्
।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥३२॥
सूदकर्मणि च श्रान्तं विराटस्य महानसे
।
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥३३॥
एवमेतत् सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
।
वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसि ॥३४॥
न भयाद्वासुदेवस्य न चापि तव फाल्गुन
।
राज्यं प्रति प्रदास्यामि युद्ध्यस्व सहकेशवः ॥३५॥
न माया हीन्द्रजालं वा कुहका वाऽपि भीषणा
।
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥३६॥
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥३७॥
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्
।
तरेमं वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥३८॥
शारद्वतमहामीनं विविंशतिमहोरगम्
।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥३९॥
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्
।
कर्णशल्यझषावर्तं काम्बोजवडवामुखम् ॥४०॥
दुःशासनौघं शल-शल्यमत्स्यं सुषेण-चित्रायुधनाग-नक्रम्
।
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥४१॥
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदाऽवगाह्य श्रमनष्टचेताः
।
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥४२॥
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्तिता पार्थ महीप्रशासनात्
।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥४३॥
इति श्रीमहाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि उलूकवाक्ये एकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥
सञ्जय उवाच।
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्
।
आशीविषमिव क्रुद्धं तुदन् वाक्यशलाकया ॥१॥
उलूकस्त्विति ॥१॥
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्
।
प्रागेव भृशसंक्रुद्धाः कैतव्येनापि धर्षिताः ॥२॥
आसनेषूदतिष्ठन्त बाहुंश्चैव प्रचिक्षिपुः
।
आशीविषा इव क्रुद्धा वीक्षांचकुः परस्परम् ॥३॥
अवाक्शिरा भीमसेनः समुदैक्षत केशवम्
।
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥४॥
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्
।
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥५॥
प्रयाहि शीघ्रं कैतव्यं ब्रूयाश्चैव सुयोधनम्
।
श्रुतं वाक्यं गृहीतोऽर्थों मतं यत्ते तथाऽस्तु तत्॥६॥
एवमुक्त्वा महाबाहुः केशवो राजसत्तम
।
पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत ॥७॥
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः
।
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ ॥८॥
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
।
उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ॥९॥
आशीविषमिव क्रुद्धं तुदन् वाक्यशलाकया
।
कृष्णादींश्चैव तान् सर्वान् यथोक्तं वाक्यमब्रवीत्॥१०॥
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम्
।
श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् ॥११॥
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप
।
नामृष्यन्त महाराज पाण्डवानां महारथाः ॥१२॥
समितिः सभा ॥१२॥
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः
।
श्रुत्वा ते पुरुषव्याघ्राः क्रोधाज्जज्वलुरच्युत ॥१३॥
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः
।
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ॥१४॥
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः
।
भीमसेनश्च विक्रान्तो यमजौ च महारथौ ॥१५॥
द्रौपदेयैः सहितोऽभिमन्युः द्रौपदेयाभिमन्युः ॥१५॥
उत्पेतुरासनात् सर्वे क्रोधसंरक्तलोचनाः
।
बाहून् प्रगृह्य रुचिरान् रक्तचन्दनरूषितान्
।
अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् ॥१६॥
पारिहार्यैः परितो हारा येषां ते परिहाराः मौक्तिकगुच्छाः मौक्तिकादिजालानि वा त एव पारिहार्याणि स्वार्थे ष्यञ् ॥१६॥
दन्तान् दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन्
।
तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः ॥१७॥
उदतिष्ठत् स वेगेन क्रोधेन प्रज्वलन्निव
।
उद्धृत्य सहसा नेत्रे दन्तान् कटकटाय्य च ॥१८॥
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत्
।
अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् ॥१९॥
श्रुतं ते वचनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत्
।
तन्मे कथयतो मन्द शृणु वाक्यं दुरासदम् ॥२०॥
सर्वक्षत्रस्य मध्यं तं यद्वक्ष्यसि सुयोधनम्
।
शृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः ॥२१॥
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः
।
मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे ॥२२॥
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून् प्रति
।
कुलस्य हितकामेन धर्मराजेन धीमता ॥२३॥
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम्
।
गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् ॥२४॥
मयाऽपि च प्रतिज्ञातो वधः सभ्रातृकस्य ते
।
स तथा भविता पाप नात्र कार्या विचारणा ॥२५॥
वेलामतिक्रमेत् सद्यः सागरो वरुणालयः
।
पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् ॥२६॥
सहायस्ते यदि यमः कुबेरो रुद्र एव वा
।
यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः
।
दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् ॥२७॥
यश्चेह प्रतिसंरब्धः क्षत्रियो माऽभियास्यति
।
अपि भीष्मं पुरस्कृत्य तं नेष्यामि यमक्षयम् ॥२८॥
यश्चेति । इह दुःशासनरुधिरपानकाले मा माम् अभियास्यति ॥२८॥
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि
।
यथैतद्भविता सत्यं तथैवात्मानमालभे ॥२९॥
आत्मानम् आलभे शपामि । अन्तरात्मानम् ईश्वरं वा स्पृष्ट्वाऽऽह आलभे इति ईश्वरशपथं करोमीत्यर्थः ॥२९॥
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः
।
क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह ॥३०॥
शौटीरशूरसदृशमनीकजनसंसदि
।
शृणु पाप वचो मह्यं यद्वाच्यो हि पिता त्वया ॥३१॥
शौटीरः सगर्वः शूरो विक्रान्तः । शौट्ट गर्वे, शूर विक्रान्तौ इति धातू । अनीकजनः सैन्यवासीजनः हे पाप मह्यं मम ॥३१॥
नास्माकं भविता भेदः कदाचित् कुरुभिः सह
।
धृतराष्ट्रस्य सम्बन्धो यदि न स्यात्त्वया सह ॥३२॥
नास्माकमिति । धृतराष्ट्रदोषादेव वैरं जातम् अन्यथा तेन बाल्ये एव त्वयि त्यक्ते सति तन्न स्यादिति भावः ॥३२॥
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च
।
उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् ॥३३॥
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः
।
अहितानि नृशंसानि नित्यशः कर्तुमिच्छति ॥३४॥
ते तव पिता अस्माकम् अहितानि कर्तुमिच्छतीति सम्बन्धः ॥३४॥
तस्य वैरानुषङ्गस्य गन्ताऽस्म्यन्तं सुदुर्गमम्
।
अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः ॥३५॥
ततोऽस्मि शकुनिं हन्तामिषतां सर्वधन्विनाम्
।
भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः ॥३६॥
भीमसेनस्येति प्राचीनपाठे श्रुत्वेत्यध्याहारः ॥३६॥
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयान्निव
।
भीमसेन न ते सन्ति येषां वैरं त्वया सह ॥३७॥
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः
।
उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम ॥३८॥
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः
।
एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम् ॥३९॥
धृष्टद्युम्नमुखान् वीरान् सुहृदः समभाषत
।
श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् ॥४०॥
कुत्सनं वासुदेवस्य मम चैव विशेषतः
।
श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया ॥४१॥
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः
।
समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् ॥४२॥
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम्
।
उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम् ॥४३॥
श्वोभूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे
।
गाण्डीवेनाभिधास्यामि क्लीबा हि वचनोत्तराः ॥४४॥
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम्
।
तेन वाक्योपचारेण विस्मिता राजसत्तमाः ॥४५॥
अनुनीय च तान् सर्वान् यथामान्यं यथावयः
।
धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत ॥४६॥
आत्मानमवमन्वानो न हि स्यात् पार्थिवोत्तमः
।
तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः ॥४७॥
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम्
।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ॥४८॥
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन्
।
स्मयमान इव क्रोधात् सृक्किणी परिसंलिहन् ॥४९॥
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत्
।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥५०॥
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम्
।
कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् ॥५१॥
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते
।
स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्
।
अभीतः पूरयन् वाक्यमेष वै क्षत्रियः पुमान् ॥५२॥
पाण्डवेष्विति । हे पाप पाण्डवेषु त्वयोक्तं बैडालव्रतरूपं जिह्मं प्रवर्तत इति तुष्यतु दुर्जनन्यायेनाङ्गीकरोति । प्रवर्तसे इति पाठे तु स्पष्टोऽर्थः । पूरयन् वाक्यं तदर्थानुष्ठानेन समर्थयन् ॥५२॥
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे
।
मान्यामान्यान् पुरस्कृत्य युद्धं मा गाः कुलाधम ॥५३॥
मान्याः भीष्मद्रोणादयः अमान्याः पुत्राः लक्ष्मणादयः बालवृद्धनाशं मा कार्षीरित्यर्थः ॥५३॥
आत्मवीर्यं समाश्रित्य भृत्यवीर्यं च कौरव
।
आह्वयस्व रणे पार्थान् सर्वथा क्षत्रियो भव ॥५४॥
परवीर्यं समाश्रित्य यः समाह्वयते परान्
।
अशक्तः स्वयमादातुमेतदेव नपुंसकम् ॥५५॥
नपुंसकं नपुंसकत्वं तव ॥५५॥
स त्वं परेषां वीर्येण आत्मानं बहु मन्यसे
।
कथमेवमशक्तस्त्वमस्मान् समभिगर्जसि ॥५६॥
परेषां कर्णादीनाम्॥५६॥
कृष्ण उवाच।
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः
।
श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते ॥५७॥
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः
।
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥५८॥
जघन्यकालमप्येतन्न भवेत् सर्वपार्थिवान्
।
निर्दहेयमहं क्रोधात् तृणानीव हुताशनः ॥५९॥
जघन्यकालं चरमकालेऽपि एतन्न भवेन्मा भूत् एतदेवाह-सर्वेत्यादिना श्लोकशेषेण ॥५९॥
युधिष्ठिरनियोगान्नु फाल्गुनस्य महात्मनः
।
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः ॥६०॥
यद्युत्पतसि लोकांस्त्रीन् यद्याविशसि भूतलम्
।
तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः ॥६१॥
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम्
।
दुःशासनस्य रुधिरं पीतमद्यावधारय ॥६२॥
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः
।
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥६३॥
समीक्षते गणयति ॥६३॥
इति श्रीमहाभारते उद्योगपर्वणि उलूकदूताभिगमनपर्वणि कृष्णादिवाक्ये द्विषष्ट्यधिकशततमोऽध्यायः ॥१६२॥
सञ्जय उवाच।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ
।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥१॥
दुर्योधनस्येति । समुदैक्षत गुडाकेश इति सम्बन्धः ॥१॥
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः
।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥२॥
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान्
।
अभीतो युध्यते शत्रून् स वै पुरुष उच्यते ॥३॥
पूरणात् पुरुष इति पुरुषशब्दनिर्वचनम् अन्यथा त्वपुरुष एवेत्यर्थः ॥३॥
परवीर्यं समाश्रित्य यः समाह्वयते परान्
।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥४॥
क्षत्रबन्धुः क्षत्रजातिरेव न तु क्षत्रकर्मेत्यर्थः ॥४॥
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः
।
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि ॥५॥
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्
।
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे ॥६॥
वृद्धं बाल्हीकं भीष्मं च ॥६॥
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन
।
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि ॥७॥
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
।
हन्ताऽस्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ॥८॥
मिषतां पश्यताम् ॥८॥
कैतव्य गत्वा भरतान् समेत्य सुयोधनं धार्तराष्ट्रं वदस्व
।
तथेत्युवाचार्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥९॥
कैतव्येति । समेत्य एकीकृत्य निशाव्यपाये श्वोभूते ॥९॥
यद्वाऽब्रवीद्वाक्यमदीनसत्त्वां मध्ये कुरून् हर्षयन् सत्यसन्धः
।
अहं हन्ता सृञ्जयानामनीकं शाल्वेयकांश्चेति ममैष भारः
।
कैतव्य गत्वा भरतान् समेत्य सुयोधनं धार्तराष्ट्रं वदस्व ॥१०॥
सत्यसन्धो भीष्मः भीष्मवाक्यमेवाह - अहं हन्तेति । हे कैतव्य अहं हन्तेत्यादि मदीयं वाक्यं भरतान् पाण्डवान् प्रति गत्वा वदस्व किं कृत्वा सुयोधनं समेत्य मदीयं सन्देशं दुर्योधनाय श्रावयित्वा पाण्डवान् प्रति कथयेत्यर्थः । तेन दुर्योधनस्य सुखं पाण्डवानां भयं चोदेष्यतीति भावः ॥१०॥
हन्यामहं द्रोणमृतेऽपि लोकं न ते भयं विद्यते पाण्डवेभ्यः
।
ततो हि ते लब्धतमं च राज्यमापद्गताः पाण्डवाश्चेति भावः ॥११॥
द्रोणमृतेऽपि द्रोणं विनाऽप्यसहाय एवाहं लोकं हन्यां ततो भीष्मवाक्यात् ते तव भाव एवंभूतो जात इत्यर्थः ॥११॥
स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम्
।
तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव ॥१२॥
हन्ता हनिष्यामि कुरुवृद्धं भीष्मम् ॥१२॥
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्षत सत्यसन्धम्
।
अहं हि वः पश्यतां द्वीपमेनं भीष्मं रथात् पातयिष्यामि बाणैः ॥१३॥
यो युक्तसेनो ध्वजी रथी तं रक्षतेति योजना । द्वीपं मज्जतामाधारम् ॥१३॥
श्वोभूते कत्थनावाक्यं विज्ञास्यति योधनः
।
आचितं शरजालेन मया दृष्ट्वा पितामहम् ॥१४॥
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः
।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥१५॥
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसवत्
।
सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन ॥१६॥
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा
।
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥१७॥
अभिमानः श्रेष्ठोऽस्मीति बुद्धिः । दर्पः पराभिभवसमर्थोऽस्मीति धीः । क्रोधोऽभिज्वलनं पारुष्यं निष्ठुरवाक्यत्वम् । नैष्ठुर्यं निःस्नेहता । अवलेपोऽन्येषामवज्ञा । आत्मसंभावनम् अहमेव ज्ञाता शूरश्चास्मीति बुद्धिः ॥१७॥
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥१८॥
नृशंसता निर्दयत्वम् । तैक्ष्ण्यं तीक्ष्णता विषदानादिबीभत्सकर्मकारित्वम् । धर्मविद्वेषणं कपटद्यूतादिना । अधर्मो यथाप्रतिज्ञातराज्याप्रदानम् । अतिवादो धर्मिष्ठेष्वधर्मिष्ठत्वारोपो बैडालव्रतिकोऽसीत्यादिवचनम् । वृद्धातिक्रमणं विदुरादीनामवमाननम् ॥१८॥
दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च
।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥१९॥
दर्शनं कर्णादिषु जयनिश्चयः चक्रं सेनाया आधिक्यम् । अपनयः अस्माकं दूरीकरणम् एतेषां फलं द्रक्ष्यसि ॥१९॥
वासुदेवद्वितीये हि मयि कुद्धे नराधम
।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥२०॥
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते
।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥२१॥
भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन
।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥२२॥
न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव
।
सत्यं ब्रवीम्यहं ह्येतत् सर्वं सत्यं भविष्यति ॥२३॥
युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत्
।
उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् ॥२४॥
स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि
।
उभयोरन्तरं वेद सूनृतानृतयोरपि ॥२५॥
वेद वेद्मि ॥२५॥
न चाहं कामये पापमपि कीटपिपीलयोः
।
किं पुनर्ज्ञातिषु वधं कामयेयं कथञ्चन ॥२६॥
एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा
।
कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत् ॥२७॥
कथमिति । हे सुदुर्बुद्धे तव व्यसनं मरणागमं कथमपि न प्रेक्ष्ये इति हेतोः पञ्च ग्रामा वृता इति सम्बन्धः ॥२७॥
स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे
।
तथैव वासुदेवस्य न गृह्णासि हितं वचः ॥२८॥
किञ्चेदानीं बहूक्तेन युध्यस्व सह बान्धवैः
।
मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ॥२९॥
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथाऽस्तु तत्
।
भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ॥३०॥
उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम्
।
शठं नैकृतिकं पापं दुराचारं सुयोधनम् ॥३१॥
गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये
।
प्रतिज्ञातं मया तच्च सभामध्ये नराधम ॥३२॥
कर्ताऽहं तद्वचः सत्यं सत्येनैव शपामि ते
।
दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ॥३३॥
सक्थिनी तव भङ्क्त्वैव हत्वा हि तव सोदरान्
।
सर्वेषां धार्तराष्ट्राणामहं मृत्युः सुयोधन ॥३४॥
सर्वेषां राजपुत्राणामभिमन्युरसंशयम्
।
कर्मणा तोषयिष्यामि भूयश्चैव वचः शृणु ॥३५॥
हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः
।
आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः ॥३६॥
नकुलस्तु ततो वाक्यमिदमाह महीपते
।
उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् ॥३७॥
श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्
।
तथा कर्ताऽस्मि कौरव्य यथा त्वमनुशासि माम्॥३८॥
सहदेवोऽपि नृपते इदमाह वचोऽर्थवत्
।
सुयोधन मतिर्या ते वृथैषा ते भविष्यति ॥३९॥
शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः
।
इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे ॥४०॥
यत् इमं क्लेशं श्रुत्वा हृष्टः सन् विकत्थसे तत्ततो हेतोः शोचिष्यसे इति सम्बन्धः ॥४०॥
विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः
।
दासभावं नियच्छेव साधोरिति मतिः सदा
।
तौ च दासावदासौ वा पौरुषं यस्य यादृशम् ॥४१॥
अश्लाघ्योऽहं नरपतिर्युवयोरिति दुर्योधनवाक्यस्योत्तरं विराटद्रुपदावाहतुरित्याह - विराटेति । साधोः दासभावं नियच्छेव नितरां यच्छेव प्रार्थयावहे । इषुगमीति छादेशे यमयतेर्विधिलिङि उत्तमस्य द्विवचनम् । इति आवयोर्मतिरस्ति । तौ च आवां दासावदासौ वेति यस्य तव यादृशं पौरुषं तत्तथैव श्वो द्रक्ष्याव इति शेषः ॥४१॥
शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत्
।
वक्तव्यो भवता राजा पापेष्वभिरतः सदा ॥४२॥
पश्य त्वं मां रणे राजन् कुर्वाणं कर्म दारुणम्
।
यस्य वीर्यं समासाद्य मन्यसे विजयं युधि ॥४३॥
तमहं पातयिष्यामि रथात्तव पितामहम्
।
अहं भीष्मवधात् सृष्टो नूनं धात्रा महात्मना ॥४४॥
वधात् वधहेतोः ॥४४॥
सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम्
।
धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् ॥४५॥
सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः
।
अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् ॥४६॥
अवश्यं च मया कार्यं पूर्वेषां चरितं महत्
।
कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति ॥४७॥
पूर्वेषां चरितं द्रोणवधेन पितृवैरप्रतियातनम् । सर्वेषामिति पाठेऽपि स एवार्थः ॥४७॥
तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत्
।
नाहं ज्ञातिवधं राजन् कामयेयं कथञ्चन ॥४८॥
अनावृतं विस्पष्टम् ॥४८॥
तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम्
।
स गच्छ मा चिरं तात उलूक यदि मन्यसे ॥४९॥
इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः
।
उलूकस्तु ततो राजन् धर्मपुत्रं युधिष्ठिरम् ॥५०॥
आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः
।
उलूकस्तत आगम्य दुर्योधनममर्षणम् ॥५१॥
अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत्
।
वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् ॥५२॥
नकुलस्य विराटस्य द्रुपदस्य च भारत
।
सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः
।
केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत् ॥५३॥
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः
।
दुःशासनं च कर्णं च शकुनिं चापि भारत ॥५४॥
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा
।
यथा प्रागुदयात् सर्वे युक्तास्तिष्ठन्त्यनीकिनः ॥५५॥
ततः कर्णसमादिष्टा दूताः संत्वरिता रथैः
।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥५६॥
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्
।
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति ॥५७॥
इति श्रीमहाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि उलूकापयाने त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥