धृतराष्ट्र उवाच।
प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे
।
किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः ॥१॥
प्रतिज्ञाते इति ॥१॥
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे
।
वासुदेवसहायेन पार्थेन दृढधन्वना ॥२॥
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्
।
किमुक्तवान् महेष्वासो भीष्मः प्रहरतां वरः ॥३॥
सैनापत्यं च संप्राप्य कौरवाणां धुरन्धरः
।
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥४॥
वैशम्पायन उवाच।
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत्
।
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥५॥
सञ्जय उवाच।
सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप
।
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥६॥
नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये
।
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥७॥
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च
।
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥८॥
भृतान् वेतनभक्षकान् अभृतान् मैत्र्या समागतान् ॥८॥
यात्रायाने च युद्धे च तथा प्रशमनेषु च
।
भृशं वेद महाराज यथा वेद बृहस्पतिः ॥९॥
यात्रार्थं याने प्रयाणे युद्धे प्रशमनेषु परास्त्राणां प्रतीकारेषु विषयेषु वेद वेद्मि । वेद वेत्ति ॥९॥
व्यूहानां च समारंभान् दैवगान्धर्वमानुषान्
।
तैरहं मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः ॥१०॥
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्
।
यथावच्छास्त्रतो राजन् व्येतु ते मानसो ज्वरः ॥११॥
तत्त्वेन अकापट्येन ॥११॥
दुर्योधन उवाच।
विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि
।
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥१२॥
किं पुनस्त्वयि दुर्धर्षे सैनापत्ये व्यवस्थिते
।
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥१३॥
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजये मम
।
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥१४॥
रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा
।
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥१५॥
पितामहो हि कुशलः पेरषामात्मनस्तथा
।
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥१६॥
भीष्म उवाच।
गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले
।
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥१७॥
बहूनीह सहस्त्राणि प्रयुतान्यर्बुदानि च
।
रथानां तव सेनायां यथामुख्यं तु मे श्रृणु ॥१८॥
भवानग्रे रथोदारः सह सर्वैः सहोदरैः
।
दुःशासनप्रभृतिभिर्भातृभिः शतसंमितैः ॥१९॥
रथोदारः रथेष्वेव उदारो न तु महारथस्तादृशा एव दुःशासनादय इति भावः ॥१९॥
सर्वे कृतप्रहरणाश्छेदभेदविशारदाः
।
रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि ॥२०॥
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः
।
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥२१॥
एते हनिष्यन्ति रणे पञ्चालान्युद्धदुर्मदान्
।
कृतकिल्विषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥२२॥
तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव
।
शत्रून् विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥२३॥
न त्वात्मनो गुणान् वक्तुमर्हामि विदितोऽस्मि ते
।
कृतवर्मा त्वतिरथो भोजः शस्त्रभृतां वरः ॥२४॥
न त्वात्मन इति स्वस्यासंख्येयत्वं सूचितम् ॥२४॥
अर्थसिद्धिं तव रणे करिष्यति न संशयः
।
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ॥२५॥
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव
।
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ॥२६॥
स्पर्धते वासुदेवेन नित्यं यो वै रणे रणे
।
भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः
।
एष योत्स्यति संग्रामे पाण्डवांश्च महारथान्॥२७॥
सागरोर्मिसमैर्बाणैः प्लावयन्निव शात्रवान्
।
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥२८॥
सौमदत्तिर्महेष्वासो रथयूथपयूथपः
।
बलक्षयममित्राणां सुमहान्तं करिष्यति ॥२९॥
रथयूथपा महारथाः तेषां यूथपोऽतिरथः ॥२९॥
सिन्धुराजो महाराज मतो मे द्विगुणो रथः
।
योत्स्यते समरे राजन् विक्रान्तो रथसत्तमः ॥३०॥
सिन्धुराजो जयद्रथो द्विरथः ॥३०॥
द्रौपदीहरणे राजन् परिक्लिष्टश्च पाण्डवैः
।
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥३१॥
एतेन हि तदा राजंस्तप आस्थाय दारुणम्
।
सुदुर्लभो बरो लब्धः पाण्डवान् योद्धुमाहवे ॥३२॥
स एष रथशार्दूलस्तद्वैरं संस्मरन् रणे
।
योत्स्यते पांडवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥३३॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥१६५॥
भीष्म उवाच।
सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः
।
तवार्थसिद्धिमाकाङ्क्षन् योत्स्यते समरे परैः ॥१॥
सुदक्षिण इति ॥१॥
एतस्य रथसिंहस्य तवार्थे राजसत्तम
।
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥२॥
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः
।
काम्बोजानां महाराज शलभानामिवायतिः ॥३॥
नीलो माहिष्मतीवासी नीलवर्मा रथस्तव
।
रथवंशेन कदनं शत्रूणां वै करिष्यति ॥४॥
रथवंशेन रथसंघेन सहित इति शेषः । ‘वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः’ इति मोदनी ॥४॥
कृतवैरः पुरा चैव सहदेवेन मारिष
।
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन ॥५॥
विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ
।
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥६॥
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
।
गदाप्रासासिनाराचैस्तोमरैश्च करच्युतैः ॥७॥
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ
।
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥८॥
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
।
कृतवैराश्च पार्थैस्ते विराटनगरे तदा ॥९॥
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्
।
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ॥१०॥
समुद्धततरङ्गिणीम् उच्छ्रितपताकां सेनाम् उच्छ्रिततरङ्गवतीं गङ्गां च ॥१०॥
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
।
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतम् ॥११॥
सत्यरथो नाम पञ्चानां मुखं श्रेष्ठः ॥११॥
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
।
दिशो विजयता राजन् श्वेतवाहेन भारत ॥१२॥
व्यलीकम् अप्रियम् ॥१२॥
ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्
।
वरान् वरान् महेष्वासान् क्षत्रियाणां धुरन्धरान् ॥१३॥
लक्ष्मणस्तव पुत्रश्च तथा दुःशासनस्य च
।
उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वपलायिनौ ॥१४॥
तरुणौ सुकुमारौ च राजपुतत्रौ तरस्विनौ
।
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥१५॥
रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ
।
क्षत्रधर्मरतौ वीरौ महत् कर्म करिष्यतः ॥१६॥
दण्डधारो महाराज रथ एको नरर्षभ
।
योत्स्यते तव संग्रामे स्वेन सैन्येन पालितः ॥१७॥
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः
।
रथो मम मतस्तात महावेगपराक्रमः ॥१८॥
एष योत्स्यति संग्रोम स्वान् बन्धून् संप्रहर्षयन्
।
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥१९॥
कृपः शारद्वतो राजन् रथयूथपयूथपः
।
प्रियान् प्राणान्परित्यज्य प्रधक्ष्यति रिपुंस्तव ॥२०॥
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः
।
कार्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥२१॥
एष सेनाः सुबहुला विविधायुधकार्मुकाः
।
अग्निवत्समरे तात चरिष्यति विनिर्दहन् ॥२२॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥
भीष्म उवाच।
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप
।
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥१॥
शकुनिरिति ॥१॥
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः
।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥२॥
द्रोणपुत्रो महेष्वासः सर्वनिवातिधन्विनः
।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥३॥
एतस्य हि महाराज यथा गाण्डीवधन्वनः
।
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥४॥
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः
।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ॥५॥
क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिनाम्
।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥६॥
आश्रमवासिनामृषीणां क्रोधस्तेजश्च तयोः समुदायरूप इत्यर्थः । आश्रमेत्याकारस्य पूर्वरूपमार्षम्॥६॥
दोषस्त्वस्य महानेको येनैव भरतर्षभ
।
न मे रथो नातिरथो मतः पार्थिवसत्तमः ॥७॥
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः
।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥८॥
हन्यादेकरथेनैव देवानामपि वाहिनीम्
।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥९॥
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः
।
दण्डपाणिरिवासह्यः कालवत् प्रचरिष्यति ॥१०॥
युगान्ताग्निसमः क्रोधात् सिंहग्रीवो महाद्युतिः
।
एष भारतयुद्धस्य पृष्ठं संशमयिष्यति ॥११॥
पृष्ठं शेषम् ॥११॥
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः
।
रणे कर्म महत् कर्ता अत्र मे नास्ति संशयः ॥१२॥
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः
।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ॥१३॥
रथयूथपयूथानां यूथपोऽयं नरर्षभः
।
भारद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ॥१४॥
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः
।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ॥१५॥
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्
।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥१६॥
श्लाघतेऽयं सदा वीर पार्थस्य गुणविस्तरैः
।
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यत्ति ॥१७॥
हन्यादेकरथेनैव देवगन्धर्वमानुषान्
।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥१९॥
पौरवो राजशार्दूलस्तव राजन् महारथः
।
मतो मम रथोदारः परवीररथारुजः ॥१९॥
स्वेन सैन्येन महता प्रतपन् शत्रुवाहिनीम्
।
प्रधक्ष्यति स पञ्चालान् कक्षमग्निगतिर्यथा ॥२०॥
विकृतानि नानाविधानि आयुधानि तैर्भूयिष्ठा ॥२०॥
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्वलः
।
तव राजन् रिपुबले कालवत् प्रचरिष्यति ॥२१॥
सत्यश्रवाः सत्यकीर्तिः ॥२१॥
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
।
विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शात्रवांस्तव ॥२२॥
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः
।
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ॥२३॥
जलसन्धो महातेजा राजन् रथवरस्तव
।
त्यक्ष्यते समरे प्राणान् माधवः परवीरहा ॥२४॥
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः
।
रथेन वा महाबाहुः क्षपयन् शत्रुवाहिनीम् ॥२५॥
रथ एष महाराज मतो मे राजसत्तम
।
त्वदर्थे त्यक्ष्यते प्राणान् सहसैन्यो महारणे ॥२६॥
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे
।
वीतभीश्चापि ते राजन् शत्रुभिः सह योत्स्यते ॥२७॥
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः
।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥२८॥
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन
।
यथा सततगो राजन् स हि हन्यात् परान् रणे ॥२९॥
सेनापतिर्महाराज सत्यवांस्ते महारथः
।
रणेष्वद्भुतकर्मा च रथी पररथारुजः ॥३०॥
एतस्य समरं दृष्ट्वा न व्यथाऽस्ति कथञ्चन
।
उत्स्मयन्नुत्पतत्येष परान् रथपथ स्थितान् ॥३१॥
उत्स्मयन् हृष्यन् ॥३१॥
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्
।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥३२॥
अलम्बुषो राक्षसेन्द्रः क्रूरकर्मा महारथः
।
हनिष्यति परान् राजन् पूर्ववैरमनुस्मरन् ॥३३॥
एष राक्षससैन्यानां सर्वेषां रथसत्तमः
।
मायावी दृढवैरश्च समरे विचरिष्यत्ति ॥३४॥
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्
।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥३५॥
गजाङ्कुशधरेषु गजयुद्धकुशलेषु श्रेष्ठः । ‘सप्तमी शौण्डैः’ इति समासः ॥३५॥
एतेन युद्धमभवत् पुरा गाण्डीवधन्वनः
।
दिवसान् सुबहुन् राजन्नुभयोर्जयगृद्धिनोः॥३६॥
ततः सखायं गान्धारे मानयन् पाकशासनम्
।
अकरोत् संविदं तेन पाण्डवेन महात्मना ॥३७॥
संविदं मैत्रीम् ॥३७॥
एष योत्स्यति संग्रामे गजस्कन्धविशारदः
।
ऐरावतगतो राजा देवानामिव वासवः ॥३८॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥
भीष्म उवाच।
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ
।
रथौ तव दुराधर्षौ शत्रून् विध्वंसयिष्यतः ॥१॥
अचल इति ॥१॥
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ
।
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥२॥
सखा ते दयितो नित्यं य एष रणकर्कशः
।
उत्साह्यति राजंस्त्वां विग्रहे पाण्डवैः सह ॥३॥
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव
।
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥४॥
एष नैव रथः कर्णो न चाप्यतिरथो रणे
।
वियुक्तः कवचेनैष सहजेन विचेतनः ॥५॥
विचेतनः मूर्खः ॥५॥
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी
।
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ॥६॥
घृणी निन्दकः ॥६॥
करणानां वियोगाच्च तेन मेऽर्धरथो मतः
।
नैष फाल्गुनमासाद्य पुनर्जीवन् विमोक्ष्यसे ॥७॥
करणानां सहजकवचादीनाम् ॥७॥
ततोऽब्रवीत् पुनर्द्रोणः सर्वशस्त्रभृतां वरः
।
एवमेतद्यथाऽऽत्थ त्वं न मिथ्याऽस्ति कदाचन ॥८॥
रणे रणेऽभिमानी च विमुखश्चापि दृश्यते
।
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥९॥
प्रमादी स्वीयं कल्पनावाक्यं विस्मरति च ॥९॥
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फाल्य लोचने
।
उवाच भीष्मं राधेयस्तुदन् वाग्भिः प्रतोदवत् ॥१०॥
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि
।
अनागसं सदा द्वेषादेवमेव पदे पदे ॥११॥
मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै
।
त्वं तु मां मन्यसे मन्दं यथा कापुरुषं तथा ॥१२॥
भवानर्धरथो मह्यं मतो वै नात्र संशयः
।
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ॥१३॥
भवान् कर्णोऽधरथो मह्यं मम मत इति गाङ्गेयो वदेत्तन्न मृषेति सर्वस्य जगतो मत इति सम्बन्धः । त्वद्वाक्यात् सर्वेऽपि मामवमंस्यन्त इति भावः ॥१३॥
कुरूणामहितो नित्यं न च राजाऽवबुध्यते
।
को हि नाम समानेषु राजसुदारकर्मसु ॥१४॥
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे
।
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ॥१५॥
बिभेदयिषुर्भेदं कर्तुमिच्छुः । अपरागं द्वेषम् ॥१५॥
न हायनेर्न पलितैर्न वित्तैर्न च बन्धुभिः
।
महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥१६॥
बलज्येष्ठं स्मृतं क्षेत्रं मन्त्रज्येष्ठा द्विजातयः
।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ॥१७॥
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा
।
कामद्वेषसमायुक्तो मोहात् प्रकुरुते भवान् ॥१८॥
प्रकुरुते प्रकारं भेदं कुरुते ’प्रकारस्तुल्यभेदयोः’ इति विश्वः ॥१८॥
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्
।
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्विषकृत्तव ॥१९॥
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत
।
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ॥२०॥
मौलाः पारंपर्यागताः तेऽपि भिन्नाः सन्तो दुःसन्धेयाः भवन्ति किमु नाना पृथक्भूताः सन्त एककार्यार्थं समुत्थिता इति ॥२०॥
एषां द्वैधं समुत्पन्नं योधानां युधि भारत
।
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥२१॥
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः
।
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥२२॥
आसाद्य माममोघेषु गमिष्यन्ति दिशो दश
।
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥२३॥
क्व च युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च
।
क्व च भीष्मो गतवया मन्दात्मा कालचोदितः ॥२४॥
क्व चेति । युद्धे वृद्धो मन्त्रेषु मूर्खश्च अशक्तत्वान्नष्टबुद्धित्वाच्चायोग्य इति भावः ॥२४॥
एकाकी स्पर्धते नित्यं सर्वेण जगता सह
।
न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ॥२५॥
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्
।
न त्वेव ह्यतिवृद्धानां पुनर्बाला हि ते मताः ॥२६॥
येऽतिवृद्धास्ते पुनर्बाला एव मे मतास्तादृशश्चायं भीष्म इत्यर्थः ॥२६॥
अहमेको हनिष्यामि पाण्डवानामनीकिनीम्
।
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ॥२७॥
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप
।
सेनापतौ यशो गन्ता न तु योधान् कथञ्चन ॥२८॥
त्वयि हन्तरि कुतो भीष्मं यशो गमिष्यन्तीत्याशङ्क्याह- कृत इति ॥२८॥
नाहं जीवति गाङ्गेये योत्स्ये राजन् कथञ्चन
।
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ॥२९॥
भीष्म उवाच।
समुद्यतोऽयं भारो मे सुमहान् सागरोपमः
।
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ॥३०॥
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे
।
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ॥३१॥
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव
।
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ॥३२॥
न हि छिन्द्यामित्यन्वयः । भेदभयादेवाहं त्वद्वधं न कुर्यामित्यर्थः । आशङ्कायां लकारः ॥३२॥
जामदग्न्येन रामेण महास्त्राणि विमुञ्चता
।
न मे व्यथा कृता काचित्त्वं तु मे किं करिष्यति ॥३३॥
कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्
।
वक्ष्यामि तु त्वां संतप्तो निहीनकुलपांसन ॥३४॥
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे
।
निर्जित्यैकरथेनैव याः कन्यास्तरसा हताः ॥३५॥
ईदृशानां सहस्राणि विशिष्टानामथो पुनः
।
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥३६॥
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
।
उपस्थितो विनाशाय यतस्व पुरुषो भव ॥३७॥
युद्ध्यस्व समरे पार्थं येन विस्पर्धसे सह
।
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात् सुदुर्मते ॥३८॥
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान्
।
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥३९॥
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्
।
उभावपि भवन्तौ मे महत् कर्म करिष्यतः ॥४०॥
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
।
ये चैवातिरथास्तत्र ये चैव रथयूथपाः ॥४१॥
बलाबलममित्राणां श्रोतुमिच्छामि कौरव
।
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥४२॥
रथादिसंख्यातात्पर्यं तु- भीष्मद्रोणौ समर्थीवपि पाण्डवान् न हनिष्यतः । कर्णोऽपि कुन्तीवरदानात् भीमादीन् हन्तुं शक्तोऽपि न हनिष्यति । अर्जुनस्त्वनेन दुर्जेय एवेति पाण्डवानामेव जय इति ॥४२॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि भीष्मकर्णसंवादे अष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥
भीष्म उवाच।
एते रथास्तवाख्यातास्तथैवातिरथा नृप
।
ये चाप्यर्धरथा राजन् पाण्डवानामतः शृणु ॥१॥
एते इति ॥१॥
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप
।
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ॥२॥
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
।
अग्निवत् समरे तात चरिष्यति न संशयः ॥३॥
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः
।
न तस्यास्ति समो युद्धे गदया सायकैरपि ॥४॥
नागायुतबलो मानी तेजसा न स मानुषः
।
माद्रीपुत्रौ च रथिनौ द्वावेव पुरुषर्षभौ ॥५॥
अश्विनाविव रूपेण तेजसा च समन्वितौ
।
एते चमूमुपगताः स्मरन्तः क्लेशमुत्तमम् ॥६॥
रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः
।
सर्व एव महात्मानः शालस्तम्भा इवोद्गताः ॥७॥
प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः
।
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ॥८॥
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः
।
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ॥९॥
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः
।
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ॥१०॥
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्
।
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ॥११॥
उद्यतां वा गदा गुर्वीः शरान् वा क्षेप्तुमाहवे
।
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ॥१२॥
उद्यताद्गच्छतां क्षिपतामिति यावत् । उद्यन्तुमिति पाठान्तरम् । भोज्ये कौटिल्ये मर्मपीडने इति यावत् । भुज कौटिल्येऽस्य रूपम् । पांसुविकर्षणे पांसुषु विकर्षणे भूमौ मुष्टियुद्धे इत्यर्थः ॥१२॥
बालैरपि भवन्तस्तैः सर्व एव विशेषितः
।
एतत् सैन्यं समासाद्य सर्व एव बलोत्कटाः ॥१३॥
विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः
।
एकैकशस्ते संमर्दे हन्युः सर्वान् महीक्षितः ॥१४॥
प्रत्यक्षं तव राजेन्द्र राजसूये यथाऽभवत्
।
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ॥१५॥
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत्
।
लोहिताक्षो गुडाकेशो नारायणसहायवान् ॥१६॥
उभयोः सेनयोर्वीरो रथो नास्तीति तादृशः
।
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ॥१७॥
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु
।
भूतोऽथवा भविष्यो वा रथः कश्चिन्मया श्रुतः ॥१८॥
समायुक्तो महाराज रथः पार्थस्य धीमतः
।
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ॥१९॥
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः
।
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ॥२०॥
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च
।
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ॥२१॥
वज्रादीनि च मुख्यानि नानाप्रहरणानि च
।
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ॥२२॥
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः
।
एष हन्याद्धि संरंभी बलवान् सत्यविक्रमः ॥२३॥
तव सेनां महाबाहुः स्वां चैव परिपालयन्
।
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ॥२४॥
प्रत्युदियां युद्धे संमुखः स्याम् ॥२४॥
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि
।
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥२५॥
जीमूत इव घर्मान्ते महावातसमीरितः
।
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्
।
तरुणश्च कृती चैव जीर्णावावामुभावपि ॥२६॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
।
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥२७॥
दध्वंसिरे विगलिताः ॥२७॥
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम्
।
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ॥२८॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि पाण्डवरथातिरथसंख्यायां ऊनसप्तत्यधिकशततमोऽध्यायः ॥१६९॥
भीष्म उवाच।
द्रौपदेया महाराज सर्वे पञ्च महारथाः
।
वैराटिरुत्तरश्चैव रथोदारो मतो मम ॥१॥
द्रौपदेया इति ॥१॥
अभिमन्युर्महाबाहू रथयूथपयूथपः
।
समः पार्थेन समरे वासुदेवेन चारिहा ॥२॥
लब्धास्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः
।
संस्मरन् वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥३॥
सात्यकिर्माधवः शूरो रथयूथपयूथपः
।
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥४॥
उत्तमौजास्तथा राजन् रथोदारो मतो मम
।
युधामन्युश्च विक्रान्तो रथोदारो मतो मम ॥५॥
एतेषां बहुसाहस्रा रथा नागा हयास्तथा
।
योत्स्यन्ते ते तनूंस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥६॥
पाण्डवैः सह राजेन्द्र तव सेनासु भारत
।
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥७॥
अजेयौ समरे वृद्धौ विराटद्रुपदौ तथा
।
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥८॥
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ
।
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥९॥
वीरगते वीरैरनुसृते ॥९॥
सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
।
आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ ॥१०॥
सितौ बद्धौ ॥१०॥
कारणं प्राप्य तु नराः सर्व एव महाभुजाः
।
शूरा वा कातरा वाऽपि भवन्ति कुरुपुङ्गव ॥११॥
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ
।
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ परंतप ॥१२॥
एकायनगतौ मरणैकशरणौ घट्टितारौ घट्टनं संघट्टं करिष्यतः ॥१२॥
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ
।
संबन्धिभावं रक्षन्तौ महत् कर्म करिष्यतः ॥१३॥
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
।
प्रत्ययं परिरक्षन्तौ महत् कर्म करिष्यतः ॥१४॥
त्यक्तात्मानौ त्यक्तदेहौ ॥१४॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥१७०॥
भीष्म उवाच।
पञ्चालराजस्य सुतो राजन् परपुरञ्जयः
।
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥१॥
पञ्चालेति ॥१॥
एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितम्
।
परं यशो विप्रथयंस्तव सेनासु भारत ॥२॥
नाशयन् पूर्वसंस्थितं प्राचीनं स्त्रीत्वेनावस्थानम् अदर्शयन् पौरुषं दर्शयन्नित्यर्थः । यद्वा । पूर्वसंस्थितं पूर्वव्यूहसंस्थानं नाशयन् सैन्यानि विद्रावयन्नित्यर्थः ॥२॥
एतस्य बहुलाः सेनाः पञ्चालाश्च प्रभद्रकाः
।
तेनासौ रथवंशेन महत् कर्म करिष्यति ॥३॥
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत
।
मतो मेऽतिरथो राजन् द्रोणशिष्यो महारथः ॥४॥
एष योत्स्यति संग्रामे सूदयन् वै परान् रणे
।
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये ॥५॥
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
।
बहुत्वात् सागरप्रख्यं देवानामिव संयुगे ॥६॥
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप
।
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥७॥
शिशुपालसुतो वीरश्चेदिगजो महारथः
।
धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह ॥८॥
एष चेदिपतिः शूरः सह पुत्रेण भारत
।
महारथानां सुकरं महत् कर्म करिष्यति ॥९॥
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः
।
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ॥१०॥
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः
।
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ॥११॥
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः
।
अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ ॥१२॥
योत्स्येते बलिनौ शूरौ परं शक्त्या क्षयिष्यतः
।
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः ॥१३॥
क्षयिष्यतः सामर्थ्यं दर्शयिष्यतः । ऐश्वर्यार्थोऽयं क्षयतिः ॥१३॥
केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः
।
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः ॥१४॥
काशिकः सुकुमारश्च नीलो यश्चापरो नृप
।
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥१५॥
सर्व एव रथोदाराः सर्वे चाहवलक्षणाः
।
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥१६॥
विदुषः विद्वांसः ॥१६॥
वार्धक्षेमिर्महाराज मतो मम महारथः
।
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ॥१७॥
स हि संग्रामशोमी च भक्तश्चापि किरीटिनः
।
चेकितानः सत्यधृतिः पाण्डवानां महारथौ
।
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥१८॥
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत
।
मतौ मम रथोदारौ पाण्डवानां न संशयः ॥१९॥
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः
।
यः समो वासुदेवेन भीमसेनेन वा विभो ॥२०॥
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः
।
मां च द्रोणं कृपं चैव यथा संमन्यते भवान् ॥२१॥
तथा स समरश्लाघी मन्तव्यो रथसत्तमः
।
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः ॥२२॥
रथ एकगुणो मह्यं ज्ञेयः परपुरञ्जयः
।
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः ॥२३॥
सत्यजित् समरश्लाघी द्रुपदस्यात्मजो युवा
।
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ॥२४॥
पाण्डवानां यशस्कामः परं कर्म करिष्यति
।
अनुरक्तश्च शूरश्च रथोऽयमपरो महान् ॥२५॥
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः
।
दृढधन्वा महेष्वासः पाण्डवानां महारथः ॥२६॥
श्रेणिमान् कौरवश्रेष्ठ वसुदानश्च पार्थिवः
।
उभावेतावतिरथौ मतौ परपुरञ्जयौ ॥२७॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥
भीष्म उवाच।
रोचमानो महाराज पाण्डवानां महारथः
।
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत ॥१॥
रोचमान इति ॥१॥
पुरुजित् कुन्तिभोजश्च महेष्वासो महाबलः
।
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥२॥
भीमसेनस्येति क्रोधोद्दीपनार्थं भीमसेनसाम्यार्थं वा विशेषणम् ॥२॥
एष वीरो महेष्वासः कृती च निपुणश्च ह
।
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥३॥
स योत्स्यति हि विक्रम्य मघवानिव दानवैः
।
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः॥४॥
भागिनेयकृते वीरः स करिष्यति सङ्गरे
।
सुमहत् कर्म पाण्डूनां स्थितः प्रियाहते रतः ॥५॥
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः
।
मतो मे बहुमायावी रथयूथपयूथपः ॥६॥
योत्स्यते समरे तात मायावी समरप्रियः
।
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः ॥७॥
एते चान्ये च बहवो नानाजनपदेश्वराः
।
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥८॥
एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः
।
रथाश्चातिरथाश्चैव ये चान्येऽर्धरथा नृप ॥९॥
नेष्यन्ति समरे सेनां भीमां योधिष्ठिरीं नृप
।
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥१०॥
तैरहं समरे वीर मायाविद्भिजयैषिभिः
।
योत्स्यामि जयमाकाङ्क्षन्नथवा निधनं रणे ॥११॥
वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ
।
सन्ध्यागताविवार्केन्दू समेष्येते रथोत्तमौ ॥१२॥
रथोत्तमौ उत्तमोऽग्निदत्तो रथो ययोस्तौ । आहिताग्न्यादित्वादुत्तमपदस्य परनिपातः । यद्वा । रथे रथयुद्धे उत्तमौ उत्कृष्टतमौ ॥१२॥
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
।
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥१३॥
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया
।
तथाऽपरे येऽर्धरथाश्च केचित्तथैव तेषामपि कौरवेन्द्र ॥१४॥
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
।
सर्वांस्तान् वारयिष्यामि यावद्द्रक्ष्यामि भारत ॥१५॥
पाठान्तरे ध्रक्ष्यामि शक्तिं धारयामि ॥१५॥
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
।
उद्यतेषुमथो दृष्ट्वा प्रतियुध्यन्तमाहवे ॥१६॥
लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया
।
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः ॥१७॥
चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्
।
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥१८॥
देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु
।
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन ॥१९॥
स हि स्त्रीपूर्वको राजन् शिखण्डी यदि ते श्रुतः
।
कन्या भूत्वा पुमान् जातो न योत्स्ये तेन भारत ॥२०॥
देवव्रतत्वं ब्रह्मचारिव्रतवत्त्वं स्त्रीसंमुखे गमने हि दृष्टिमैथुनं स्यात् । स्त्रीपूर्वदर्शनेऽपि मनसा तदीयस्त्रीभावस्मरणेन विकारः स्यादिति भावः ॥२०॥
सर्वांस्त्वन्यान् हनिष्यामि पार्थिवान् भरतर्षभ
।
यान् समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥२१॥
इति श्रीमहाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥१७२॥