दुर्योधन उवाच।
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम्
।
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥१॥
किमर्थमिति ॥१॥
पूर्वमुक्त्वा महाबाहो पञ्चालान् सह सोमकैः
।
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥२॥
भीष्म उवाच।
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः
।
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥३॥
महाराजो मम पिता शान्तनुर्लोकविश्रुतः
।
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ॥४॥
दिष्टान्तं मरणम् ॥४॥
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
।
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥५॥
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः
।
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥६॥
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः
।
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥७॥
तस्य दारक्रियां तात चिकीर्षुरहमप्युत
।
अनुरूपादिव कुलादित्येव च मनो दधे ॥८॥
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवराः
।
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा
।
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ॥९॥
राजानश्च समाहूताः पृथिव्यां भरतर्षभ
।
अम्बा ज्येष्ठाऽभवत्तासामम्बिका त्वथ मध्यमा ॥१०॥
अम्बालिका च राजेन्द्र राजकन्या यवीयसी
।
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ॥११॥
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः
।
राज्ञश्चैव समाहूतान् पार्थिवान् पृथिवीपते ॥१२॥
ततोऽहं तान्नृपान् सर्वानाहूय समरे स्थितान्
।
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ॥१३॥
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा
।
अवोचं पार्थिवान् सर्वानहं तत्र समागतान्
।
भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः ॥१४॥
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
।
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ॥१५॥
मिषतां पश्यताम् । अनादरे षष्ठी ॥१५॥
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः
।
योगो योग इति कुद्धाः सारथीनभ्यचोदयन् ॥१६॥
ते रथैर्गजसङ्काशैर्गजैश्च गजयोधिनः
।
पुष्टैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥१७॥
ततस्ते मां महीपालाः सर्व एव विशांपते
।
रथव्रातेन महता सर्वतः पर्यवारयन् ॥१८॥
तानहं शरवर्षेण समंतात् पर्यवारयम्
।
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥१९॥
अपातयं शरैर्दीप्तैः प्रहसन् भरतर्षभ
।
तेषामापततां चित्रान् ध्वजान् हेमपरिष्कृतान् ॥२०॥
एकैकेन हि बाणेन भूमौ पातितवानहम्
।
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ॥२१॥
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम
।
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः ॥२२॥
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत
।
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि कन्याहरणे त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥
भीष्म उवाच।
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा
।
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान् ॥१॥
तत इति ॥१॥
समनुज्ञासिषं कन्यामम्बां ज्येष्ठां नराधिप
।
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् ॥२॥
समनुज्ञासिषं समनुज्ञातवान् अडभाव आर्षः ॥२॥
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
।
अतीत्य च तमध्वानमासाद्य नृपतिं तथा ॥३॥
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्
।
आगताऽहं महाबाहो त्वामुद्दिश्य महामते ॥४॥
तामब्रवीच्छाल्वपतिः स्मयन्निव विशांपते
।
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥५॥
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै
।
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥६॥
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा
।
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ॥७॥
परामृश्य हस्ते धृत्वा नीता ॥७॥
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि
।
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ॥८॥
नारीं विदितविज्ञानः परेषां धर्ममादिशन्
।
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ॥९॥
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता
।
नैवं वद महीपाल नैतदेवं कथञ्चन ॥१०॥
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
।
बलान्नीताऽस्मि रुदती विद्राव्य पृथिवीपतीन् ॥११॥
भजस्व मां शाल्वपते भक्तां बालामनागसम्
।
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥१२॥
साऽहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्
।
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ॥१३॥
न स भीष्मो महाबाहुर्मामिच्छति विशाम्पते
।
भ्रातृहेतोः समारंभो भीष्मस्येति श्रुतं मया ॥१४॥
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
।
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥१५॥
यथा शाल्वपते नान्यं वरं ध्यामि कथञ्चन
।
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥१६॥
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता
।
सत्यं ब्रवीमि शाल्वैतत् सत्येनात्मानमालभे ॥१७॥
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्
।
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥१८॥
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम्
।
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ॥१९॥
एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः
।
नाश्रद्दधच्छाल्वपतिः कन्यायां भरतर्षभ ॥२०॥
ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता
।
अब्रवीत् साश्रुनयना बाष्पविप्लुतया गिरा ॥२१॥
त्वया त्यक्ता गमिष्यामि यत्र तत्र विशाम्पते
।
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ॥२२॥
सन्तः साधवः गतयः रक्षितारः सन्तु ॥२२॥
एवं तां भाषमाणां तु कन्यां शाल्वपतिस्तदा
।
परितत्याज कौरव्य करुणं परिदेवतीम् ॥२३॥
करुणं दीनं यथा स्यात्तथा परिदेवतीं शोचन्तीम् ॥२३॥
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत
।
बिभेमि भीष्मात् सुश्रोणि त्वं च भीष्मपरिग्रहः ॥२४॥
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना
।
निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥२५॥
अदीर्घदर्शिनेति शाल्वस्याधर्मः सूचितः ॥२५॥
भीष्म उवाच।
निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता
।
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ॥२६॥
बन्धुभिर्विप्रहीणाऽस्मि शाल्वेन च निराकृता
।
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ॥२७॥
वारणेन हस्तिना समानाह्वयं समानाख्यं हस्तिनापुरम् ॥२७॥
अनुज्ञाता तु भीष्मेण शाल्वमुद्दिश्य कारणम्
।
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥२८॥
अथवा पितरं मूढं यो मेऽकार्षीत् स्वयंवरम्
।
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ॥२९॥
प्रवृत्ते दारुणे युद्धे शाल्वार्थं नापतं पुरा
।
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ॥३०॥
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्
।
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ॥३१॥
धिङ्मां धिक् शाल्वराजानं धिग्धातारमथापि वा
।
येषां दुर्नीतभावेन प्राप्ताऽस्म्यापदमुत्तमाम् ॥३२॥
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
।
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ॥३३॥
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम्
।
तपसा वा युधा वाऽपि दुःखहेतुः स मे मतः ॥३४॥
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः
।
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ॥३५॥
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
।
ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥३६॥
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत
।
विस्तरेण महाबाहो निखिलेन शुचिस्मिता
।
हरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥३७॥
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः
।
शेखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥३८॥
शैखावत्यः शिखावान् वह्निस्तत्साध्यानि श्रौतस्मार्तकर्माणि शैखावतानि तेषु साधुः शैखावत्यः । कर्मणि निष्णातः । आरण्यके उपनिषदि गुरुः ब्रह्मविदित्यर्थः ॥३८॥
आर्तां तामाह स मुनिः शैखावत्यो महातपाः
।
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥३९॥
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः
।
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ॥४०॥
सा त्वेनमब्रवीद्राजन् क्रियतां मदनुग्रहः
।
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ॥४१॥
प्राव्राज्यं प्रव्रज्या संन्यासः तत्रोचितं कर्म प्राव्राज्यम् ॥४१॥
मयैव यानि कर्माणि पूर्वदेहे तु मूढया
।
कृतानि नूनं पापानि तेषामेतत् फलं ध्रुवम् ॥४२॥
नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः
।
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥४३॥
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः
।
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि ॥४४॥
तापस्यं तपसे हितं धर्मजातम् ॥४४॥
स तामाश्वासयत् कन्यां दृष्टान्तागमहेतुभिः
।
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥४५॥
दृष्टान्तो लौकिकोदाहरणम् । आगमो वेदः हेतुर्युक्तिस्तैः प्रारब्धकर्मभोगस्यापरिहार्यत्वं ज्ञात्वा समाश्वस्ता भवेत्युक्तेत्यर्थः ॥४५॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि शैखावत्याम्बासंवादे पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥
भीष्म उवाच।
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा
।
तां कन्यां चिन्तयन्तस्ते किं कार्यमिति धर्मिणः ॥१॥
तत इति ॥१॥
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः
।
केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः ॥२॥
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे
।
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥३॥
एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः
।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥४॥
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः
।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥५॥
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्
।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥६॥
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता
।
पतिर्वाऽपि गतिर्नार्याः पिता वा वरवर्णिनि ॥७॥
गतिः पतिः समस्थाया विषमे च पिता गतिः
।
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ॥८॥
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि
।
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ॥९॥
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गुहे
।
ततस्त्वन्येऽब्रुवन् वाक्यं तापसास्तां तपस्विनीम् ॥१०॥
ये दोषा विद्यन्ते आश्रमे प्रव्रज्यायां ते दोषाः पितुर्गृहे न भवेयुः । सुंदरीं तरुणीं च त्वां दृष्ट्वा मुनयो वा मोहं प्राप्स्यन्ति त्वं वा धर्मात् स्खलिष्यसीति भावः ॥१०॥
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने
।
प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः ॥११॥
अम्बोवाच
।
न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गुहान्
।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥१२॥
उषिताऽस्मि तथा बाल्ये पितुर्वेश्मनि तापसाः
।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम
।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥१३॥
यथा परेऽपि मे लोके न स्यादेवं महात्ययः
।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥१४॥
महात्ययः सुखनाशः । ‘मह उद्धव उत्सवः’ इति कोशः ॥१४॥
भीष्म उवाच।
इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम्
।
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥१५॥
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्
।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥१६॥
तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः
।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥१७॥
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत
।
राजर्षिः स महातेजा बभूवोद्विग्नमानसः ॥१८॥
तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः
।
राजर्षिः कृपयाऽऽविष्टो महात्मा होत्रवाहनः ॥१९॥
स वेपमान उत्थाय मातुस्तस्याः पिता तदा
।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥२०॥
स तामपृच्छत् कार्स्न्येन व्यसनोत्पत्तिमादितः
।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥२१॥
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः
।
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥२२॥
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः
।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥२३॥
दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके
।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥२४॥
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम्
।
रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति ॥२५॥
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः
।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥२६॥
प्रतिष्ठापयिता स त्वां स मे पथि महातपाः
।
ततस्तु सुस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ॥२७॥
अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्
।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥२८॥
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्
।
कथं च तीव्रं दुःखं मे नाशयिष्यति भार्गवः
।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै ॥२९॥
होत्रवाहन उवाच।
रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने
।
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥३०॥
महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह
।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥३१॥
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम
।
अभिवाद्य च तं मूर्ध्ना तपोवृद्धं दृढव्रतम् ॥३२॥
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम्
।
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति ॥३३॥
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे
।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥३४॥
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने
।
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥३५॥
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः
।
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥३६॥
ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः
।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥३७॥
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः
।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥३८॥
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः
।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥३९॥
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान्
।
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वर ॥४०॥
अकृतव्रण उवाच।
भवन्तमेव सततं रामः कीर्तयति प्रभो
।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥४१॥
इह रामः प्रभाते श्वो भवितेति मतिर्मम
।
द्रष्टाऽस्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥४२॥
इयं च कन्या राजर्षे किमर्थं वनमागता
।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥४३॥
होत्रवाहन उवाच।
दौहित्रीयं मम विभो काशिराजसुता प्रिया
।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥४४॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता
।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥४५॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्
।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥४६॥
ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्
।
अधिक्षिप्य महातेजास्तिस्त्रः कन्या जहार ताः ॥४७॥
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्
।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥४८॥
सत्यवत्यै निवेद्याथ विवाहं समनन्तरम्
।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥४९॥
तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्
।
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥५०॥
तं विचित्रवीर्यं वैवाहिकं विवाहार्थमुद्यतं समुपार्जितम् अभ्यङ्गकौतुकबन्धादिना संस्कृतं दृष्ट्वा इयं कन्या गाङ्गेयमब्रवीदिति योजना ॥५०॥
मया शाल्वपतिर्वीरो मनसाऽभिवृतः पतिः
।
न मामर्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥५१॥
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः
।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥५२॥
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः
।
कन्येयं मुदिता तत्र काले वचनमब्रवीत् ॥५३॥
विसर्जिताऽस्मि भीष्मेण धर्मं मां प्रतिपादय
।
मनसाऽभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ॥५४॥
प्रत्याचख्यौ च शाल्वोऽस्याश्चारित्रस्याभिशङ्कितः
।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥५५॥
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्
।
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ॥५६॥
उत्पत्तिं कारणम् ॥५६॥
अम्बोवाच
।
भगवन्नेवमेवेह यथाऽऽह पृथिवीपतिः
।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥५७॥
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन
।
अपमानभयाच्चैव व्रीडया च महामुने ॥५८॥
यत्तु मां भगवान् रामो वक्ष्यति द्विजसत्तम
।
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥५९॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि होत्रवाहनाम्बासंवादे षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥
अकृतव्रण उवाच।
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि
।
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ॥१॥
दुःखद्वयमिति । दुःखद्वयं दुःखकरद्वयं, भीष्मशाल्वाख्यं यद्वा । निर्भर्तृकत्वमेकं दुःखं त्वच्छत्रोर्वधश्चेति तापसानां दुःखद्वयं तथाऽपि शत्रुद्वयमध्ये कतरस्य कं प्रतिकर्तव्यं हन्तुं यत्नं चिकीर्षसि । यद्वा । एकैकस्य गतिहानिर्मरणं वेति दुःखद्वयं ज्ञेयम् ॥१॥
यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव
।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥२॥
नियोक्तव्यस्तव पाणिग्रहणार्थमिति शेषः ॥२॥
अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता
।
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥३॥
भीष्मस्य तु सत्यप्रतिज्ञस्य त्वत्सुखार्थं जयमात्रं कर्तव्यं न तु तावता तव हितमित्याशयेनाह - अथेति॥३॥
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते
।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥४॥
अम्बोवाच
।
अपनीताऽस्मि भीष्मेण भगवन्नविजानता
।
नाभिजानाति मे भीष्मो ब्रह्मन् शाल्वगतं मनः ॥५॥
एतद्विचार्य मनसा भवानेतद्विनिश्चयम्
।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥६॥
विधानं प्रतीकारम् ॥६॥
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः
।
उभयोरेव वा ब्रह्मन् युक्तं यत्तत् समाचर ॥७॥
निवेदितं मया ह्येतद्दुःखमूलं यथातथम्
।
विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः ॥८॥
अकृतव्रण उवाच।
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि
।
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ॥९॥
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम्
।
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥१०॥
तेन त्वं निर्जिता भद्रे यस्मान्नीताऽसि भाविनि
।
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥११॥
भीष्मः पुरुषमानी च जितकाशी तथैव च
।
तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥१२॥
अम्बोवाच
।
ममाप्येष सदा ब्रह्मन् हृदि कामोऽभिवर्तते
।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥१३॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि
।
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥१४॥
भीष्म उवाच।
एवं कथयतामेव तेषां स दिवसो गतः
।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥१५॥
ततो रामः प्रादुरासीत् प्रज्ज्वलन्निव तेजसा
।
शिष्यैः परिवृतो राजन् जटाचीरधरो मुनिः ॥१६॥
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत् परश्वधी
।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥१७॥
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः
।
तस्थुः प्राञ्जलयो राजन् सा च कन्या तपस्विनी ॥१८॥
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्
।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥१९॥
ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ
।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥२०॥
आसातां लङि द्विवचनम् ॥२०॥
तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्
।
उवाच मधुरं काले रामं वचनमर्थवत् ॥२१॥
रामेयं मम दौहित्री काशिराजसुता प्रभो
।
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥२२॥
परमं कथ्यतां चेति तां रामः प्रत्यभाषत
।
ततः साऽभ्यवदद्रामं ज्वलन्तमिव पावकम् ॥२३॥
परमं तव विवक्षितं यत्तन्मेऽवश्यं वक्तव्यमित्यर्थः ॥२३॥
ततोऽभिवाद्य चरणौ रामस्य शिरसौ शुभौ
।
स्पृष्ट्वा पद्मतलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥२४॥
शिरसौ श्रेष्ठौ । ‘शिरः प्रधाने सेनाग्रे’ इति मेदिनी । पुंस्त्वमार्षम् ॥२४॥
रुरोद सा शोकवती बाष्पव्याकुललोचना
।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥२५॥
राम उवाच।
यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे
।
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥२६॥
अम्बोवाच
।
भगवन् शरणं त्वाऽद्य प्रपन्नाऽस्मि महाव्रतम्
।
शोकपङ्कार्णवान्मग्नां घोरादुद्धर मां विभो ॥२७॥
सृञ्जयस्य दौहित्रीति शेषः ॥२७॥
भीष्म उवाच।
तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः
।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥२८॥
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः
।
इति दध्यौ चिरं रामः कृपयाऽभिपरिप्लुतः ॥२९॥
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता
।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥३०॥
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा
।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥३१॥
राम उवाच।
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भाविनि
।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥३२॥
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः
।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥३३॥
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते
।
यावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥३४॥
अम्बोवाच
।
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन
।
शाल्वराजगतं भावं मम पूर्वं मनीषितम् ॥३५॥
सौभराजमुपेत्याहमवोचं दुर्वचं वचः
।
न च मां प्रत्यगृह्णात् स चारित्र्यपरिशङ्कितः ॥३६॥
एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन
।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥३७॥
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः
।
येनाहं वशमानीता समुत्क्षिप्य बलात्तदा ॥३८॥
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्
।
प्राप्ताऽहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥३९॥
स हि लुब्धश्च नीचश्च जितकाशी च भार्गव
।
तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ॥४०॥
लुब्धो यतो मां हृतवान् । नीचो यतो मदङ्गीकारं स्वयं न कृतवान् । अकामुकस्य कन्याहरणं दोष इति भावः ॥४०॥
एष मे क्रियमाणाया भारतेन तदा विभो
।
अभवद्धृदि संकल्पो घातयेयं महाव्रतम् ॥४१॥
क्रियमाणायाः बलादाहरणेन हिंस्यमानायाः। कृ हिंसायां स्वादिः ॥४१॥
तस्मात् कामं ममाद्येमं राम सम्पादयानघ
।
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ॥४२॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि रामाम्बासंबादे सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
भीष्म उवाच।
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो
।
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥१॥
एवमिति ॥१॥
काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि
।
ऋते ब्रह्मविदां हेतोः किमन्यत् करवाणि ते ॥२॥
काश्ये काशिराजकन्ये ॥२॥
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ
।
भविष्यतोऽनवद्याङ्गि तत् करिष्यामि मा शुचः ॥३॥
न तु शस्त्रं ग्रहीष्यामि कथञ्चिदपि भाविनि
।
ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥४॥
अम्बोवाच
।
मम दुःखं भगवता व्यपनेयं यतस्ततः
।
तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम् ॥५॥
राम उवाच।
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ
।
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥६॥
अम्बोवाच
।
जहि भीष्मं रणे राम गर्जन्तमसुरं यथा
।
समाहूतो रणे राम मम चेदिच्छसि प्रियम्
।
प्रतिश्रुतं च यदपि तत् सत्यं कर्तुमर्हसि ॥७॥
भीष्म उवाच।
तयोः संवदतोरेवं राजन् रामाम्बयोस्तदा
।
ऋषिः परमधर्मात्मा इदं वचनमब्रवीत् ॥८॥
ऋषिः अकृतव्रणः । पाठान्तरे तु स्पष्टमेव सः कीर्त्यते ॥८॥
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि
।
यदि भीष्मो रणे राम समाहूतस्त्वया मृधे ॥९॥
निर्जितोऽस्मीति वा ब्रूयात् कुर्याद्वा वचनं तव
।
कृतमस्या भवेत् कार्यं कन्याया भृगुनन्दन ॥१०॥
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो
।
इयं चापि प्रतिज्ञा ते तदा राम महामुने ॥११॥
जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुता
।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ॥१२॥
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव
।
शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम् ॥१३॥
न शक्ष्यामि परित्यागं कर्तुं जीवन् कथञ्चन
।
यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम् ॥१४॥
दीप्तात्मानमहं तं च हनिष्यामीति भार्गव
।
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः ॥ तेन युध्यस्व सङ्ग्रामे समेत्य भृगुनन्दन ॥१५॥
राम उवाच।
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम
।
तथैव च चरिष्यामि यथा साम्नैव लप्स्यते ॥१६॥
कार्यमेतन्महद्ब्रह्मन् काशिकन्यामनोगतम्
।
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः ॥१७॥
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः
।
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥१८॥
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्
।
कायेषु विदितं तुभ्यं पुरा क्षत्रियसङ्गरे ॥१९॥
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः
।
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः ॥२०॥
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः
।
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया ॥२१॥
अभ्यगच्छत्ततो रामः सह तैर्ब्रह्मवादिभिः
।
कुरुक्षेत्रं महाराज कन्यया सह भारत ॥२२॥
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्
।
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥२३॥
भीष्म उवाच।
ततस्तृतीये दिवसे संदिदेश व्यवस्थितः
।
कुरु प्रियं स मे राजन् प्राप्तोऽस्मीति महाव्रतः ॥२४॥
तमागतमहं श्रुत्वा विषयान्तं महाबलम्
।
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥२५॥
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
।
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥२६॥
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
।
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥२७॥
राम उवाच।
भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा
।
अकामेन त्वयाऽऽनीता पुनश्चैव विसर्जिता ॥२८॥
विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी
।
परासृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥२९॥
प्रत्याख्याता हि शाल्वेन त्वयाऽऽनीतेति भारत
।
तस्मादिमां मन्नियोगात् प्रतिगृह्णीष्व भारत ॥३०॥
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
।
न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ ॥३१॥
ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्
।
नाहमेनां पुनर्दद्यां ब्रह्मन् भ्रात्रे कथञ्चन ॥३२॥
शाल्वस्याहमिति प्राह पुरा मामेव भार्गव
।
मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति ॥३३॥
न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया
।
क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम् ॥३४॥
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः
।
न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव ॥३५॥
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
।
संरंभादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥३६॥
तमहं गीर्भिरिष्टाभिः पुनः पुनररिन्दम
।
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥३७॥
प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम्
।
अब्रुवं कारणं किं तद्यत्त्वं युद्धं मयेच्छसि ॥३८॥
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
।
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥३९॥
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः
।
जानीषे मां गुरुं भीष्म गृह्णासीमां न चैव ह ॥४०॥
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते
।
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन ॥४१॥
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
।
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति ॥४२॥
तथा ब्रवन्तं तमहं रामं परपुरञ्जयम्
।
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥४३॥
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम्
।
प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया ॥४४॥
को जातु परभावां हि नारीं व्यालीमवस्थिताम्
।
वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः ॥४५॥
न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत
।
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम् ॥४६॥
अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो
।
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥४७॥
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम्
।
गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया ॥४९॥
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
।
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥५०॥
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
।
यो हन्यात् समरे कुद्धं युध्यन्तमपलायिनम् ॥५१॥
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः
।
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन ॥५२॥
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन्
।
नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥५३॥
यः पुमान् यस्मिन्नरे यथा प्रीत्या द्वेषेण वा वर्तते स नरस्तस्मिन् तथैव प्रीतिं द्वेषं वा प्रवर्तयन् ॥५३॥
अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
।
अर्थसंशयमापन्नः श्रेयान्निःसंशयो नरः ॥५४॥
ननु त्वामर्थे प्रवर्तयन्नहं त्वयि प्रीतिमेव करोमीत्याशङ्क्याहार्थेवेति । अर्थे गुरुवाक्याद्दारकरणे, धर्मे पितृप्रीत्यर्थं स्वीकृते ब्रह्मचर्ये विषये, देशकालानुसारेण समर्थो विवेककुशलः । तत्र धर्मलोपेन गुरुवाक्यात् प्राप्यमाणोऽर्थः श्रेयानुत नेत्यर्थे संशयवानुत गुरुवाक्यविरोधेनापि पाल्यमानो धर्मः श्रेयानुत नेति धर्मे संशयवान् । एतयोर्मध्ये अर्थे संशयमापन्नोऽर्थमननुतिष्ठन् श्रेयान् । परिशेषात् धर्मे तु निःसंशयो धर्ममेवानुतिष्ठन् श्रेयानित्यर्थः ॥५४॥
यस्मात् संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे
।
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ॥५५॥
अयथान्यायमिति छेदः । न्यायातिक्रमेण मां प्रवर्तयसे ॥५५॥
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्
।
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ॥५६॥
बाहुवीर्यं बाणप्रक्षेपादौ एवंगते एवंस्थिते त्वयि ॥५६॥
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
।
द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते ॥५७॥
तत्र त्वं निहतो राम मया शरशतार्दितः
।
प्राप्स्यसे निर्जिताँल्लोकान् शस्त्रपूतो महारणे ॥५८॥
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
।
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥५९॥
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
।
तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव ॥६०॥
अपि यत्रेति । पितृवद्गुरुमरणेऽप्याशौचप्राप्तौ सत्यां तत्रैव तीर्थे शौचं सचैलस्नानादिना दशमेऽह्नि शुद्धिं स्वस्य करिष्यामीत्यर्थः । शौचं रुधिराञ्जलिदानमित्यर्वाचीनः ॥६०॥
तत्र राम समागच्छ त्वरितं युद्धदुर्मद
।
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणध्रुवः ॥६१॥
पौराणं पुराकृतम् ॥६१॥
यच्चापि कत्थसे राम बहुशः परिवत्सरे
।
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥६२॥
न तदा जातवान् भीष्मः क्षत्रियो वाऽपि मद्विधः
।
पश्चाज्जातानि तेजांसि तृणेषु ज्वलितं त्वया ॥६३॥
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्
।
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः
।
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥६४॥
भीष्म उवाच।
ततो मामब्रवीद्रामः प्रहसन्निव भारत
।
दिष्ट्या भीष्म मया सार्धं योद्धमिच्छसि सङ्गरे॥६५॥
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह
।
भाषितं ते करिष्यामि तत्रागच्छ परंतप ॥६६॥
तत्र त्वां निहतं माता मया शरशताचितम्
।
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम् ॥६७॥
बलाः काकाः तेषामशनम् अन्नभूतम् ॥६७॥
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता
।
मया विनिहतं देवी रोदतामद्य पार्थिव ॥६८॥
अतदर्हा महाभागा भगीरथसुताऽनघा
।
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥६९॥
एहि गच्छ मया भीष्म युद्धकामुक दुर्मद
।
गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥७०॥
इति ब्रुवाणं तमहं रामं परपुरञ्जयम्
।
प्रणम्य शिरसा राममेवमस्त्वित्यथाब्रुवम् ॥७१॥
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया
।
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥७२॥
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः
।
द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्यूते ॥७३॥
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः
।
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥७४॥
सूपस्पकरं स्वस्वधिष्ठानं सुचक्रं वैयाघ्रं व्याघ्रचर्म तदेव परिवारणम् आच्छादनं यस्य तम् ॥७४॥
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्
।
तत्कुलीनेन वीरेण हयशास्त्रविदारणे ॥७५॥
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा
।
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥७६॥
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम
।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥७७॥
पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप
।
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः॥७८॥
स्तूयमानो जयाशीभिर्निष्क्रम्य गजसाह्वयात्
।
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥७९॥
ते हयाश्चोदितास्तेन सूतेन परमाहवे
।
अवहन्मां भृशं राजन् मनोमारुतरंहसः ॥८०॥
गत्वाऽहं तत् कुरुक्षेत्रं स च रामः प्रतापवान्
।
युद्धाय सहसा राजन् पराक्रान्तौ परस्परम् ॥८१॥
ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः
।
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ॥८२॥
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः
।
अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा ॥८३॥
ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः
।
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥८४॥
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः
।
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥८५॥
भार्गवस्य रामस्य ॥८५॥
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी
।
माता स्वरूपिणी राजन् किमिदं ते चिकीर्षितम् ॥८६॥
देवी गङ्गा ॥८६॥
गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह
।
भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥८७॥
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
।
जामदग्न्येन समरे योद्धमित्येव भर्त्सयत् ॥८८॥
किन्न वै क्षत्रियहणो हरतुल्यपराक्रमः
।
विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि ॥८९॥
क्षत्रियहणः क्षत्रियहन्ता ॥८९॥
ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः
।
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥९०॥
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः
।
काशिराजसुतायाश्च यथा कर्म पुरातनम् ॥९१॥
ततः सा राममभ्येत्य जननी मे महानदी
।
मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् ॥९२॥
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्
।
स च तामाह याचन्तीं भीष्ममेव निवर्तय
।
न च मे कुरुते काममित्यहं तमुपागमम् ॥९३॥
वैशम्पायन उवाच।
ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत्
।
न चास्याश्चाकरोद्वाक्यं क्रोधपर्याकुलेक्षणः ॥९४॥
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः
।
आह्वयामास च तदा युद्धाय द्विजसत्तमः ॥९५॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि परशुरामभीष्मयोः कुरुक्षेत्रावतरणे अष्टसप्तत्यधिकशततमोऽध्यायः ॥१७८॥
भीष्म उवाच।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥१॥
तमिति । स्मयन्निव दृप्यन्निव ॥१॥
आरोह स्यन्दनं वीर कवचं च महाभुज
।
बधान समरे राम यदि योद्धुं मयेच्छसि ॥२॥
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे
।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥३॥
सुतश्च मातरिश्वा वै कवचं वेदमातरः
।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥४॥
वेदमातरो गायत्री-सावित्री-सरस्वत्यः ॥४॥
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
।
शरव्रातेन महता सर्वतः प्रत्यवारयत् ॥५॥
सव्यतिक्रम इति पाठे लङ्घितक्रमः ॥५॥
ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम्
।
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ॥६॥
अद्भुतोपमम् अभूतोपमं दर्शनं यस्य तस्मिन् ॥६॥
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
।
दिव्याश्वयुजि सन्नद्धे काञ्चनेन विभूषिते ॥७॥
कवचेन महाबाहो सोमार्ककृतलक्ष्मणा
।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥८॥
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥९॥
आह्वयानः स मां युद्धे मनो हर्षयतीव मे
।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥१०॥
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
।
क्षत्रियान्तकरं राममेकमेकः समासदम् ॥११॥
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
।
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥१२॥
अभ्यागच्छं तदा राममर्चिष्यन् द्विजसत्तमम्
।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥१३॥
योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा
।
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ॥१४॥
राम उवाच।
एवमेतत् कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥१५॥
शपेयं त्वां न चेदेवमागच्छेया विशांपते
।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥१६॥
न तु ते जयमाशासे त्वां विजेतुमहं स्थितः
।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥१७॥
न तु ते जयमाशासे इत्युक्तिर्भूतिमिच्छता त्वया प्रागेव मदभिवंदनस्य जयहेतोः कृतत्वादिति भावः । तच्चैवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छतेत्यनेन सूचितम् ॥१७॥
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
।
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ॥१८॥
ततो युद्धं समभवन्मम तस्य च भारत
।
दिवसान् सुबहून् राजन् परस्परजिगीषया ॥१९॥
स मे तस्मिन् रणे पूर्वं प्राहरत् कङ्कपत्रिभिः
।
षष्ट्या शतैश्च नवभिः शराणां नतपर्वणाम् ॥२०॥
चत्वारस्तेन मे वाहाः सुतश्चैव विशाम्पते
।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥२१॥
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः
।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥२२॥
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
।
भूयश्च शृणु मे ब्रह्मन् सम्पदं धर्मसंग्रहे ॥२३॥
मे मया मानिता ॥२३॥
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
।
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ॥२४॥
प्रहारे क्षत्रधर्मस्य यं राम त्वं समाश्रितः
।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥२५॥
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम
।
एष ते कार्मुकं वीर छिनद्मि निशितेषुणा ॥२६॥
तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ
।
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ॥२७॥
चिक्षेपेति पारोक्ष्यार्थे लिट्प्रयोगो हेलया कृतत्वसूचनार्थः ॥२७॥
तथैव च पृषत्कानां शतानि नतपर्वणाम्
।
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति ॥२८॥
काये विषक्तास्तु तदा वायुना समुदीरिताः
।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥२९॥
क्षतजोक्षितसर्वाङ्गः क्षरन् स रुधिरं रणे
।
बभौ रामस्तदा राजन् मेरुर्धातुमिवोत्सृजन् ॥३०॥
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः
।
बभौ रामस्तथा राजन् प्रफुल्ल इव किंशुकः ॥३१॥
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः
।
हेमपुङ्खान् सुनिशितान् शरांस्तान् हि ववर्ष सः ॥३२॥
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥३३॥
तमहं समवष्टभ्य पुनरात्मानमाहवे
।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥३४॥
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः
।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥३५॥
ततोऽहं कृपयाऽऽविष्टो विष्टभ्यात्मानमात्मना
।
धिग्धिगित्यबुवं युद्धं क्षत्रधर्मं च भारत ॥३६॥
असकृच्चाब्रुवं राजन् शोकवेगपरिप्लुतः
।
अहो बत कृतं पापं मयेदं क्षत्रधर्मणा ॥३७॥
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः
।
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥३८॥
अथावताप्य पृथिवीं पूषा दिवससंक्षये
।
जगामास्तं सहस्त्रांशुस्ततो युद्धमुपारमत् ॥३९॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि रामभीष्मयुद्धे ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
भीष्म उवाच।
आत्मनस्तु ततः सूतो हयानां च विशाम्पते
।
मम चापनयामास शल्यान् कुशलसम्मतः ॥१॥
आत्मन इति ॥१॥
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः
।
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ॥२॥
स्नातापवृत्तैः स्नातैः परावृत्तैश्च ॥२॥
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्
।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥३॥
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्
।
धनुःश्रेष्ठं समुत्सृज्य सहसाऽवतरं रथात् ॥४॥
अभिवाद्य तथैवाहं रथमारुह्य भारत
।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५॥
ततोऽहं शरवर्षेण महता समवाकिरम्
।
स च मां शरवर्षेण वर्षन्तं समवाकिरत् ॥६॥
सुतेजितान् सुष्टु तीक्ष्णीकृतान् ॥६॥
संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान्
।
सम्प्रैषीन्मे शरान् घोरान् दीप्तास्यानुरगानिव ॥७॥
ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः
।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥८॥
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
।
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् ॥९॥
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्
।
ततो दिवि महान्नादः प्रादुरासीत् समन्ततः ॥१०॥
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥११॥
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान्
।
वारुणेनैव तद्रामो वारयामास मे विभुः ॥१२॥
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्
।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ॥१३॥
ततो मां सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः
।
उरस्यविध्यत् संक्रुद्धो जामदग्न्यः प्रतापवान् ॥१४॥
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे
।
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्॥१५॥
ग्लायन्तं भरतश्रेष्ठ रामबाणप्रपीडितम्
।
ततो मामपयातं वै भृशं विद्धमचेतसम् ॥१६॥
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः
।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥१७॥
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्
।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥१८॥
ततो मामवहत् सूतो हयैः परमशोभितैः
।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥१९॥
ततोऽहं राममासाद्य बाणवर्षैश्च कौरव
।
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ॥२०॥
तानापतत एवासौ रामो बाणानजिह्मगान्
।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥२१॥
ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः
।
रामबाणैर्द्विधा छिन्नाः शतशोऽथ सहस्रशः ॥२२॥
ततः पुनः शरं दीप्तं सुप्रभं कालसम्मितम्
।
असृजं जामदग्न्याय रामायाहं जिघांसया ॥२३॥
तेन त्वभिहतो गाढं बाणवेगवशं गतः
।
मुमोह समरे रामो भूमौ च निपपात ह ॥२४॥
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते
।
जगद्भारत संविग्नं यथार्कपतने भवेत् ॥२५॥
तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः
।
तपोधनास्ते सहसा काश्या च कुरुनन्दन ॥२६॥
तत एनं परिष्वज्य शनैराश्वासयंस्तदा
।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥२७॥
ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्
।
तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके॥२८॥
स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे
।
येनाहं भृशमुद्विग्नो व्याघूर्णित इव द्रुमः ॥२९॥
हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे
।
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ॥३०॥
ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम्
।
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ॥३१॥
रामस्य मम चैवाशु व्योमावृत्य समन्ततः
।
न स्म सूर्यः प्रतपति शरजालसमावृतः ॥३२॥
मातरिश्वा ततस्तस्मिन् मेघरुद्ध इवाभवत्
।
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ॥३३॥
अभिघातप्रभावाच्च पावकः समजायत
।
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ॥३४॥
भूमौ सर्वे तदा राजन् भस्मभूताः प्रपेदिरे
।
तदा शतसहस्त्राणि प्रयुतान्यर्बुदानि च ॥३५॥
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव
।
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत् ॥३६॥
ततोऽहं तानपि रणे शरैराशीविषोपमैः
।
संछिद्य भूमौ नृपते पातयेयं नगानिव ॥३७॥
एवं तदभवद्युद्धं तदा भरतसत्तम
।
सन्ध्याकाले व्यतीते तु व्यपायात् स च मे गुरुः ॥३८॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि रामभीष्मयुद्धे अशीत्यधिकशततमोऽध्यायः॥१८०॥
भीष्म उवाच।
समागतस्य रामेण पुनरेवातिदारुणम्
।
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥१॥
समागतस्येति ॥१॥
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः
।
अयोजयत् स धर्मात्मा दिवसे दिवसे विभुः ॥२॥
तान्यहं तत्प्रतीघातैरस्त्रैरस्राणि भारत
।
व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥३॥
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत
।
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥४॥
ततः शक्तिं प्राहिणोद्घोररूपामस्त्रे रुद्धे जामदग्न्यो महात्मा
।
कालोत्सृष्टां प्रज्वलितामिवोल्कां संदीप्ताग्रां तेजसा व्याप्य लोकम् ॥५॥
ततोऽहं तामिषुभिर्दीप्यमानां समायान्तीमन्तकालार्कदीप्ताम्
।
छित्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः ॥६॥
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्वादशान्याः
।
तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥७॥
किं त्वेवाहं विह्नलः सम्प्रदृश्य दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः
।
नानारूपास्तेजसोऽग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसंक्षये ॥८॥
ततो जालं बाणमयं विवृत्तं संदृश्य भित्त्वा शरजालेन राजन्
।
द्वादशेषून् प्राहिणवं रणेऽहं ततः शक्तीरप्यधमं घोररूपाः ॥९॥
ततो राजन् जामदग्न्यो महात्मा शक्तीर्घारा व्याक्षिपद्धेमदण्डाः
।
विचित्रिताः काञ्चनपट्टनद्धा यथा महोल्का ज्वलितास्तथा ताः ॥१०॥
ताश्चाप्युग्राश्चर्मणा वारयित्वा खड्गेनाजौ पातयित्वा नरेन्द्र
।
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यानश्वानभ्यवर्षं ससूतान् ॥११॥
निर्मुक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः
।
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशप्रमाथी ॥१२॥
निकृत्ताः छिन्नाः हैहयेशप्रमाथी कार्तवीर्यस्य हन्ता ॥१२॥
ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः
।
समाचिनोच्चापि भृशं शरीरं हयान् सूतं सरथं चैव मह्यम् ॥१३॥
रथः शरैर्मे निचितः सर्वतोऽभूत्तथा वाहाः सारथिश्चैव राजन्
।
युगं रथेषां च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः ॥१४॥
शरकृत्तः बाणैश्छिन्नः ॥१४॥
ततस्तस्मिन् बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम्
।
स विक्षतो मार्गणैर्ब्रह्मराशिर्देहादसक्तं मुमुचे भूरि रक्तम् ॥१५॥
यथा रामो बाणजालाभितप्तस्तथैवाहं सुभृशं गाढविद्धः
।
ततो युद्धं व्यरमच्चापरादह्णे भानावस्तं प्रति याते महीध्रम् ॥१६॥
अस्तं महीध्रम् अस्ताचलम् ॥१६॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥१८१॥
भीष्म उवाच।
ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते
।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥१॥
तत इति ॥१॥
ततोऽभ्रान्ते रथे तिष्ठन् रामः प्रहरतां वरः
।
ववर्ष शरजालानि मयि मेघ इवाचले ॥२॥
अभ्रान्ते मेघमण्डलसमीपे ॥२॥
ततः सूतो मम सुहृच्छरवर्षेण ताडितः
।
अपयातो रथोपस्थान्मनो मम विषादयन् ॥३॥
ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत्
।
पृथिव्यां च शराधातान्निपपात मुमोह च ॥४॥
ततः सुतोऽजहात् प्राणान् रामबाणप्रपीडितः
।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥५॥
ततः सूते हते तस्मिन् क्षिपतस्तस्य मे शरान्
।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम् ॥६॥
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः
।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥७॥
स मे भुजान्तरे राजन्निपत्य रुधिराशनः
।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥८॥
मत्वा तु निहतं रामस्ततो मां भरतर्षभ
।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥९॥
तथा तु पतिते राजन् मयि रामो मुदा युतः
।
उक्रोशन्महानादं सह तैरनुयायिभिः ॥१०॥
मम तत्राभवन् ये तु कुरवः पार्श्वतः स्थिताः
।
आगता अपि युद्धं तज्जनास्तत्र दिदृक्षवः
।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥११॥
ततोऽपश्यं पतितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान्
।
ते मां समन्तात् परिवार्य तस्थुः स्वबाहुभिः परिधार्याजिमध्ये ॥१२॥
द्विजान् ब्राह्मणरूपधरान् वसून् ॥१२॥
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम्
।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥१३॥
श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः
।
ततस्ते ब्राह्मणा राजन्नब्रुवन् परिगृह्य माम् ॥१४॥
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्
।
ततस्तेषांमहं वाग्भिस्तर्पितः सहसोत्थितः
।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥१५॥
हयाश्च मे सङ्गृहीतास्तयाऽऽसन् महानद्या संयति कौरवेन्द्र
।
पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम् ॥१६॥
ररक्ष सा मां सरथं हयांश्चोपस्कराणि च
।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥१७॥
ततोऽहं स्वयमुद्यम्य हयांस्तान् वातरंहसः
।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥१८॥
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्
।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥१९॥
ततो जगाम वसुधां मम बाणप्रपीडितः
।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥२०॥
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे
।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥२१॥
भूरिसहस्रदे स्वर्णसहस्त्राणां दातरि ‘भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गके’ इति मेदिनी ॥२१॥
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः
।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥२२॥
सकम्पनाः सविद्युतः ॥२२॥
ववुश्च वाताः परुषाश्चलिता च वसुन्धरा
।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥२३॥
बलाः बलाकाः ॥२३॥
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्
।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥२४॥
एतदौत्पातिकं सर्वं घोरमासीद्भयङ्करम्
।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥२५॥
ततो वै सहसोत्थाय रामो मामभ्यवर्तत
।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥२६॥
विह्वलः व्याकुलः क्रोधावेशादेव वृद्धिं गतः ॥२६॥
आददानो महाबाहुः कार्मुकं बलसन्निभम्
।
ततो मय्याददानं तं राममेव न्यवारयन् ॥२७॥
बलसन्निभं गन्धकरसवत् । ‘बलं गन्धरसे रूपे’ इति मेदिनी । मयि मन्निमित्तम् आददानं शरमिति शेषः। शरं मय्याददानमिति पाठान्तरम् ॥२७॥
महर्षयः कृपायुक्ताः क्रोधाविष्टोऽथ भार्गवः
।
स मेऽहरदमेयात्मा शरं कालानलोपमम् ॥२८॥
मे मयि । अहरत् संहृतवान् मुनीनां वाक्यादित्यर्थः ॥२८॥
ततो रविर्मंत्रमरीचिमण्डलो जगामास्तं पांसुपुञ्जवगूढः
।
निशा व्यगाहत् सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥२९॥
मन्त्रमयाः मरीचयो मण्डलं च यस्य स तथा । तथा च श्रुतिः - ‘सैषा त्रय्येव विद्या तपति’ इति । प्रत्यवहारयावः समाप्तं कृतवन्तौ आवामिति शेषः ॥२९॥
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत् सुघोरम्
।
कल्यं कल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥३०॥
विमले दिवसे वितमसीत्यर्थः । कल्यंकल्यं प्रातःप्रातः ॥३०॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि रामभीष्मयुद्धे द्व्यशीत्यधिकशततमोऽध्यायः॥१८२॥
भीष्म उवाच।
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा
।
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥१॥
ततोऽहमिति ॥१॥
नक्तंचराणां भूतानां राजन्यानां विशाम्पते
।
शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥२॥
रहिते एकान्ते ॥२॥
जामदग्न्येन मे युद्धमिदं परमदारुणम्
।
अहानि च बहून्यद्य वर्तते सुमहात्ययम् ॥३॥
न च रामं महावीरर्यं शक्नोमि रणमूर्धनि
।
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥४॥
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्
।
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥५॥
निशां निशि दर्शयन्तु आत्मानं प्रकाशयन्तु ॥५॥
ततो निशि च राजेन्द्र प्रसुप्तः शरविक्षतः
।
दक्षिणेनेह पार्श्वेन प्रभातसमये तदा ॥६॥
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्
।
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥७॥
त एव मां महाराज स्वप्नदर्शनमेत्य वै
।
परिवार्याब्रुवन् वाक्यं तन्निबोध कुरुद्धह ॥८॥
उत्तिष्ठ मा भैर्गाङ्गेय न भयं तेऽस्ति किञ्चन
।
रक्षामहे त्वां कौरव्य स्वशरीरं हि नो भवान् ॥९॥
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन
।
त्वमेव समरे रामं विजेता भरतर्षभ ॥१०॥
इदमस्रं सुदयितं प्रत्यभिज्ञास्यते भवान्
।
विदितं हि तवाप्येतत् पूर्वस्मिन् देहधारणे ॥११॥
प्रत्यभिज्ञा परिचयस्तं प्राप्स्यसे पूर्वस्मिन् वसुभावे ॥११॥
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत
।
नहीदं वेद रामोऽपि पृथिव्यां वा पुमान् क्वचित्॥१२॥
तत् स्मरस्व महाबाहो भृशं संयोजयस्व च
।
उपस्थास्यति राजेन्द्र स्वयमेव तवानघ ॥१३॥
येन सर्वान् महावीर्यान् प्रशासिष्यसि कौरव
।
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥१४॥
एनसा न तु संयोगं प्राप्स्यसे जातु मानद
।
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥१५॥
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि
।
अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै ॥१६॥
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः
।
प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम् ॥१७॥
न च रामेण मर्तव्यं कदाचिदपि पार्थिव
।
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥१८॥
इत्युक्त्वाऽन्तर्हिता राजन् सर्व एव द्विजोत्तमाः
।
अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः ॥१९॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपख्यानपर्वणि भीष्मप्रस्वापनास्त्रलाभे त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥
भीष्म उवाच।
ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत
।
ततः सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥१॥
तत इति ॥१॥
ततः समभवद्युद्धं मम तस्य च भारत
।
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् ॥२॥
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः
।
न्यवारयमहं तच्च शरजालेन भारत ॥३॥
ततः परमसंक्रुद्धः पुनरेव महातपाः
।
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ॥४॥
इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम्
।
ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः ॥५॥
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा
।
स मामभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ॥६॥
धिष्ण्यं नक्षत्रम् । ‘धिष्ण्यं स्थानाग्निसद्मसु । शक्तावृक्षे च’ इति मेदिनी । जत्रुदेशे कण्ठकक्षयोरन्तराले ॥६॥
अथास्त्रमस्रवद्घोरं गिरेर्गैरिकधातुवत्
।
रामेण सुमहबाहो क्षतस्य क्षतजेक्षण ॥७॥
अस्रं शोणितम् । पाठान्तरेऽसृगपि तदेव ॥७॥
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
।
चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम् ॥८॥
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः
।
अशोभत महाराज सशृंग इव पर्वतः ॥९॥
स संरब्धः समावृत्य शरं कालान्तकोपमम्
।
सन्दधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् ॥१०॥
कृष्य आकृष्य ॥१०॥
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्
।
महीं राजंस्ततश्चाहमगमं रुधिराविलः ॥११॥
संप्राप्य तु पुनः संज्ञां जामदग्न्याय धीमते
।
प्राहिण्वं विमलां शक्तिं ज्वलन्तमशनीमिव ॥१२॥
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
।
विह्वलश्चाभवद्राजन् वेपथुश्चैनमाविशत् ॥१३॥
तत एनं परिष्वज्य सखा विप्रो महातपाः
।
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥१४॥
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः
।
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥१५॥
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्
।
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥१६॥
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः
।
असम्प्राप्यैव रामं च मां च भारतसत्तम ॥१७॥
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम्
।
भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते ॥१८॥
ऋषयश्च सगन्धर्वा देवताश्चैव भारत
।
सन्तापं परमं जग्मुरस्रतेजोभिपीडिताः ॥१९॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
।
सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम् ॥२०॥
प्रजज्वाल नभो राजन् धूमायन्ते दिशो दश
।
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥२१॥
ततो हाहाकृते लोके सदेवासुरराक्षसे
।
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ॥२२॥
प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम्
।
विचित्रं च तदस्रं मे मनसि प्रत्यभात्तदा ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि परस्परब्रह्मास्त्रप्रयोगे चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥
भीष्म उवाच।
ततो हलहलाशब्दो दिवि राजन् महानभूत्
।
प्रस्वापं भीष्म मा स्रक्षीरिति कौरवनन्दन ॥१॥
तत इति । दिवि देवानामिति शेषः ॥१॥
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने
।
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ॥२॥
एते वियति कौरव्य दिवि देवगणाः स्थिताः
।
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥३॥
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते
।
तस्यावमानं कौरव्य मा स्म कार्षीः कथञ्चन ॥४॥
ततोऽपश्यं दिविष्ठान् वै तानष्टौ ब्रह्मवादिनः
।
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥५॥
यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु
।
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥६॥
ततश्च प्रतिसंहृत्य तदस्रं स्वापनं महत्
।
ब्रह्मास्त्रं दीपयांचक्रे तंस्मिन् युधि यथाविधि ॥७॥
चक्रे कृतवानहम् ॥७॥
ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै
।
जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत् ॥८॥
हे भीष्म सुंमदबुद्धिरहं जितोऽस्मीति सम्बन्धः ॥८॥
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम्
।
ते तत्र चैनं परिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम् ॥९॥
पितर ऊचुः। मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन
।
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥१०॥
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन
।
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम्॥११॥
इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम्
।
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया ॥१२॥
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे
।
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥१३॥
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम्
।
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥१४॥
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः
।
निवर्तस्व रणादस्मादिति चैव प्रसादितः ॥१५॥
देवैर्निवारित इत्येतदेवाहुः- निवर्तस्वेति ॥१५॥
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः
।
न हि रामो रणे जेतुं त्वया न्याय्यः कुरुद्वह ॥१६॥
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे
।
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे ॥१७॥
भीष्मो वसुनामन्यतमो दिष्ट्या जीवसि पुत्रक
।
गाङ्गेयः शान्तनोः पुत्रो वसुरेष महायशाः ॥१८॥
कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव
।
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली ॥१९॥
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः
।
सव्यसाचीति विख्यातस्रिषु लोकेषु वीर्यवान्
।
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ॥२०॥
भीष्म उवाच।
एवमुक्तः स पितृभिः पितॄन् रामोऽब्रवीदिदम्
।
नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ॥२१॥
न निवर्तितपूर्वश्च-कदाचिद्रणमूर्धनि
।
निवर्त्यतामापगेयः कामं युद्धात् पितामहाः ॥२२॥
न त्वहं विनिवर्तिष्ये युद्धादस्मात् कथञ्चन
।
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ॥२३॥
नारदेनैव सहिताः समागम्येदमब्रुवन्
।
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् ॥२४॥
इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया
।
मम व्रतमिदं लोके नाहं युद्धात् कदाचन ॥२५॥
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः
।
नाहं लोभान्न कार्पण्याच्च भयान्नार्थकारणात् ॥२६॥
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः
।
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप ॥२७॥
भागीरथी च मे माता रणमध्यं प्रपेदिरे
।
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
।
स्थिरोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ॥२८॥
समेत्य सहिता भूयः समरे भृगुनन्दनम्
।
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ॥२९॥
शाम्य शान्तो भव ॥२९॥
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम
।
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥३०॥
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम्
।
न्यासयांचाक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥३१॥
न्यासयांचक्रिरे त्याजितवन्तः ॥३१॥
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः
।
अद्राक्षं दीप्यमानान् वै ग्रहानष्टाविवोदितान् ॥३२॥
ते मां सप्रणयं वाक्यमब्रुवन् समरे स्थितम्
।
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥३३॥
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
।
लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥३४॥
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः
।
रामश्चाभ्युत्स्मयन् प्रेम्णा मामुवाच महातपाः ॥३५॥
त्वत्समो नास्ति लोकेऽस्मिन् क्षत्रियः पृथिवीचरः
।
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥३६॥
मम चैव समक्षं तां कन्यामाहूय भार्गवः
।
उक्तवान् दीनया वाचा मध्ये तेषां महात्मनाम् ॥३७॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि युद्धनिवृत्तौ पञ्चाशीत्यधिकशततमोऽध्यायः॥१८५॥
राम उवाच।
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भाविनि
।
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ॥१॥
प्रत्यक्षमिति ॥१॥
न चैवमपि शक्नोमि भीष्मं शस्रभृतां वरम्
।
विशेषयितुमत्यर्थमुत्तमास्राणि दर्शयन् ॥२॥
एषा मे परमा शक्तिरेतन्मे परमं बलम्
।
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥३॥
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः
।
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥४॥
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः
।
तूष्णीमासीत्ततः कन्या प्रोवाच भृगुनन्दनम् ॥५॥
भगवन्नेवमेवैतद्यथाऽऽहं भगवांस्तथा
।
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥६॥
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
।
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ॥७॥
न चैव शक्यते युद्धे विशेषयितुमन्ततः
।
न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन ॥८॥
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
।
समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥९॥
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना
।
तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम् ॥१०॥
ततो महेन्द्रं सहितैर्मुनिभिर्भृगुसत्तमः
।
यथागतं तथा सोऽगान्मामुपामन्त्र्य भारत ॥११॥
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः
।
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ॥१२॥
यथावृत्तं महाराज सा च मां प्रत्यनन्दत
।
पुरुषांश्चादिशं प्राक्षान् कन्यावृत्तान्तकर्मणि ॥१३॥
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम्
।
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ॥१४॥
अस्याः काशिराजकन्यायाः ॥१४॥
यदैव हि वनं प्रायात् सा कन्या तपसे धृता
।
तदैव व्यथितो दीनो गतचेता इवाभवम् ॥१५॥
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि
।
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥१६॥
अपि चैतन्मया राजन्नारदेऽपि निवेदितम्
।
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ॥१७॥
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति
।
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥१८॥
सा कन्या तु महाराज प्रविश्याश्रममण्डलम्
।
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥१९॥
निराहारा कृशा रुक्षा जटिला मलपङ्किनी
।
षण्मासान् वायुभक्षा च स्थाणुभूता तपोधना ॥२०॥
यमुनाजलमाश्रित्य संवत्सरमथापरम्
।
उदवासं निराहारा पारयामास भाविनी ॥२१॥
शीर्णपर्णेन चैकेन पारयामास सा परम्
।
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥२२॥
एवं द्वादश वर्षाणि तापयामास रोदसी
।
निवर्त्यमानाऽपि च सा ज्ञातिभिर्नैव शक्यते ॥२३॥
तत्तोऽगमद्वत्सभूमिं सिद्धचारणसेविताम्
।
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥२४॥
तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम्
।
व्यचरत् काशिकन्या सा यथाकामविचारिणी ॥२५॥
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे
।
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥२६॥
प्रयागे देवयजने देवारण्येषु चैव ह
।
भोगवत्यां महाराज कौशिकस्याश्रमे तथा॥२७॥
माण्डव्यस्याश्रमे राजन् दिलीपस्याश्रमे तथा
।
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ॥२८॥
एतेषु तीर्थेषु तदा काशिकन्या विशाम्पते
।
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ॥२९॥
तामब्रवीच्च कौरव्य मम माता जले स्थिता
।
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ॥३०॥
सैनामथाब्रवीद्राजन् कृताञ्जलिरनिन्दिता
।
भीष्मेण समरे रामो निर्जितश्चारुलोचने ॥३१॥
कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषु महीपतिः
।
साऽहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥३२॥
विचरामि महीं देवि यथा हन्यामहं नृपम्
।
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ॥३३॥
ततोऽब्रवीत्सागरगा जिह्मं चरसि भाविनि
।
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ॥३४॥
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्
।
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ॥३५॥
नदी भविष्यसि शुभे कुटिला वार्षिकोदका
।
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ॥३६॥
वार्षिकी वर्षास्वेव वहतीति वार्षिकी ॥३६॥
भीमग्राहवती घोरा सर्वभूतभयङ्करी
।
एवमुक्त्वा ततो राजन् काशिकन्यां न्यवर्तत ॥३७॥
माता मम महाभागा स्मयमानेव भाविनी
।
कदाचिदष्टमे मासि कदाचिद्दशमे तथा
।
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥३८॥
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः
।
पतिता परिधावन्ती पुनः काशिपतेः सुता ॥३९॥
पतिता गता परिधावन्ती पर्यटन्ती ॥३९॥
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत
।
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥४०॥
सा कन्या तपसा तेन देहार्धेन व्यजायत
।
नदी च राजन् वत्सेषु कन्या चैवाभवत्तदा ॥४१॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अम्बातपस्यायां षडशीत्यधिकशततमोऽध्यायः॥१८६॥
भीष्म उवाच।
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्
।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥१॥
तत इति ॥१॥
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा
।
निराकृताऽस्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥२॥
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः॥३॥
यत्कृते दुःखवसतिमिमां प्राप्ताऽस्मि शाश्वतीम्
।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥४॥
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः
।
एष मे हृदि संकल्पो यदिदं कथितं मया ॥५॥
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया
।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥६॥
तां देवो दर्शयामास शूलपाणिरुमापतिः
।
मध्ये तेषां महर्षीणां स्वेन रूपेण तापसीम् ॥७॥
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्
।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥८॥
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह
।
उपपद्येत् कथं देव स्त्रिया युधि जयो मम ॥९॥
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते
।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥१०॥
शान्तं शौर्यधर्मरहितम् ॥१०॥
यथा स सत्यो भवति तथा कुरु वृषध्वज
।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥११॥
तामुवाच महादेवः कन्यां किल वृषध्वजः
।
न मे वागनृतं प्राह सत्यं भद्रे भविष्यति ॥१२॥
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे
।
स्मरिष्यसि च तत् सर्वं देहमन्यं गता सती ॥१३॥
द्रुपदस्य कुले जाता भविष्यसि महारथः
।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥१४॥
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति
।
भविष्यसि पुमान् पश्चात्कस्माच्चित्कालपर्ययात् ॥१५॥
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः
।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥१६॥
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता
।
समाहृत्य वनात्तस्मात् काष्ठानि वरवर्णिनी ॥१७॥
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥१८॥
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
।
ज्येष्ठा काशिसुता राजन् यमुनामभितो नदीम् ॥१९॥
यमुनामभितः यमुनाद्वीपे इत्यर्थः ॥१९॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अम्बाहुताशनप्रवेशे सप्ताशीत्यधिकशततमोऽध्यायः ॥१८७॥
दुर्योधन उवाच।
कथं शिखण्डी गाङ्गेय कन्या भूत्त्वा पुरा तदा
।
पुरुषोऽभूद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
कथं शिखण्डीति ॥१॥
भीष्म उवाच।
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः
।
महिषी दयिता ह्यासीदपुत्रा च विशांपते ॥२॥
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः
।
अपत्यार्थे महाराज तोषयामास शङ्करम् ॥३॥
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः
।
ऋते कन्यां महादेव पुत्रो मे स्यादिति ब्रुवन् ॥४॥
भगवन् पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया
।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥५॥
स्त्रीपुमान् पूर्वं स्त्री सैव श्चात् पुमान् । पूर्वकालैकसर्वेति समासः ॥५॥
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्
।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥६॥
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया
।
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शम्भुना ॥७॥
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः
।
न तदन्यच्च भविता भवितव्यं हि तत्तथा ॥८॥
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
।
पत्नी द्रुपद्राजस्य द्रुपदं प्रविवेश ह ॥९॥
द्रुपदं प्रविवेश ह तेन सह मिथुनीभावं जगाम ॥९॥
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा
।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ॥१०॥
विधिदृष्टेन शास्त्रदृष्टेन कर्मणा गर्भाधानाख्येन । पार्षतस्य गर्भं दधार इति उत्तरेण सम्बन्धः ॥१०॥
ततो दधार सा देवी गर्भं राजीवलोचना
।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥११॥
पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा
।
सर्वानभिप्रायकृतान् भार्याऽलभत कौरव ॥१२॥
अभिप्रायकृतान् वासनानिर्मितान् दोहदानित्यर्थः ॥१२॥
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः
।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ॥१३॥
कन्यां प्रवररूपां तु प्राजायत नराधिप
।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ॥१४॥
प्राजायत प्रसूतवती ॥१४॥
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै
।
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप ॥१५॥
पुत्रवत् पुत्रकार्याणि सर्वाणि समकारयत्
।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा ॥१६॥
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत
।
न च तां वेद नगरे कश्चिदन्यत्र पार्षतात् ॥१७॥
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः
।
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् ॥१८॥
जातकर्माणि सर्वाणि कारयामास पार्थिवः
।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥१९॥
अहमेकस्तु चारेण वचनान्नारदस्य च
।
ज्ञातवान् देववाक्येन अम्बायास्तपसा तथा ॥२०॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि शिखण्ड्युत्पत्तौ अष्टाशीत्यधिकशततमोऽध्यायः ॥१८८॥
भीष्म उवाच।
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु
।
ततो लेख्यादिषु तथा शिल्पेषु च परन्तप ॥१॥
चकारेति ॥१॥
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह
।
तस्य माता महाराज राजानं वरवर्णिनी ॥२॥
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा
।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम्
।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ॥३॥
द्रुपद उवाच।
कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी
।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥४॥
शूलयुक्तः पाणिः शूलपाणिः सोऽस्यास्तीति शूलपाणी तस्य शूलपाणिनः । व्रीह्यादित्वान्मत्वर्थीय इनिः ॥४॥
भार्योवाच
।
न तन्मिथ्या महाराज भविष्यति कथञ्चन
।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ॥५॥
यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः
।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ॥६॥
क्रियतामस्य यत्नेन विधिवद्दारसङ्ग्रहः
।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ॥७॥
ततस्तैौ निश्चयं कृत्वा तस्मिन् कार्येऽथ दंपती
।
वरयांचक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥८॥
ततो राजा द्रुपदो राजसिंहः सर्वान् राज्ञः कुलतः सन्निशाम्य
।
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥९॥
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः
।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥१०॥
स च राजा दशार्णेषु महानासीत् सुदुर्जयः
।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥११॥
कृते विवाहे तु तदा सा कन्या राजसत्तम
।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥१२॥
कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्
।
ततः सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल ॥१३॥
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्
।
धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ॥१४॥
धात्रीणां पितृगृहादागतानां सखीनां च ॥१४॥
कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम्
।
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा
।
जग्मुरार्तिं परां प्रेष्याः प्रेषयामासुरेव च ॥१५॥
ता एव धात्र्यः स्वाः प्रेष्या दासीः प्रेषयामासुः दशार्णपतिमिति शेषः ॥१५॥
ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन्
।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥१६॥
विप्रलम्भं वञ्चनाम् ॥१६॥
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा
।
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥१७॥
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ
।
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ॥१८॥
ततो दाशार्णको राजा तीव्रकोपसमन्वितः
।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ॥१९॥
ततो द्रुपदमासाद्य दूतः कञ्चनवर्मणः
।
एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ॥२०॥
उत्सार्य नीत्वा ॥२०॥
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्
।
अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयाऽनघ ॥२१॥
अभिषङ्गात् पराभवात् ॥२१॥
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥२२॥
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
।
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ॥२३॥
उद्धरामि उच्छेत्स्यामि ॥२३॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि हिरण्यवर्मदूतागमने ऊननवत्यधिकशततमोऽध्यायः ॥१८९ ॥
भीष्म उवाच।
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप
।
चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥१॥
एवमिति ॥१॥
स यत्नमकरोत्तीव्रं सम्बन्धिन्यनुमानने
।
दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन् ॥२॥
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत्
।
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ॥३॥
अगमत् ज्ञातवान् ॥३॥
ततः संप्रेषयामास मित्राणाममितौजसाम्
।
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥४॥
ततः समुदयं कृत्वा बलानां राजसत्तमः
।
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥५॥
समुदयं समुदायम् ॥५॥
ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः
।
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥६॥
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम्
।
तथ्यं भवति चेदेतत् कन्या राजन् शिखण्डिनी ॥७॥
बद्ध्वा पञ्चालराजानमानयिष्यामहे गृहम्
।
अन्यं राजानमाधाय पञ्चालेषु नरेश्वरम् ॥८॥
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥९॥
तत्तदाऽनृतमाज्ञाय पुनर्दूतान्नराधिपः
।
प्रास्थापयत् पार्षताय निहन्मीति स्थिरो भव ॥१०॥
भीष्म उवाच।
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः
।
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥११॥
विसृज्य दूतान् दाशार्णे द्रुपदः शोकमूर्च्छितः
।
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥१२॥
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः
।
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥१३॥
अभियास्यति मां कोपात् सम्बन्धी सुमहाबलः
।
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥१४॥
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति
।
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥१५॥
इति सञ्चिन्त्य यत्नेन समित्रः सबलानुगः
।
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥१६॥
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने
।
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ॥१७॥
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी
।
त्वं च राज्ञि महत् कृच्छ्रं संप्राप्ता वरवर्णिनि ॥१८॥
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः
।
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ॥१९॥
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः
।
कृपयाऽहं वरारोहे वञ्चितः पुत्रधर्मतः ॥२०॥
भार्याया अदण्ड्यत्वं जानन् स्वस्य निर्दोषतां ख्यापयितुम् उभयकृतमप्यपराधं लोकमध्ये भार्यायामेवासञ्जयितुं तामाह- शिखण्डिनीति । यद्यप्यहं शिखण्ड्यर्थे त्वया शिखण्डिन्या च वञ्चितस्तथाऽपि त्वं मा भैः शिखण्डिनिविषये विधास्ये युवयोर्धारणं च करिष्ये न तु हिंसिष्ये इत्यर्थः । यद्वा । हे शिखण्डिनि त्वं मा भैः हे वरारोहे भार्ये त्वं च मा भैरिति द्वयोरपि अभयं दत्वा जनमध्ये पृच्छति ॥२०॥
मया दाशार्णको राजा वञ्चितः स महीपतिः
।
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥२१॥
मयेति । विधास्ये करिष्ये ॥२१॥
जानता हि नरेन्द्रेण ख्यापनार्थं परस्य वै
।
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥२२॥
परस्य शत्रोर्लोकस्य च ॥२२॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्रुपदप्रश्ने नवत्यधिकशततमोऽध्यायः॥१९०॥
भीष्म उवाच।
ततः शिखण्डिनो माता यथातत्त्वं नराधिप
।
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ॥१॥
तत इति ॥१॥
अपुत्रया मया राजन् सपत्नीनां भयादिदम्
।
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ॥२॥
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम्
।
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥३॥
भार्या चोढा त्वया राजन् दशार्णाधिपतेः सुता
।
मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्
।
कन्या भूत्वा पुमान् भावीत्येवं चैतदुपेक्षितम् ॥४॥
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य
।
मन्त्रं राजा मन्त्रयामास राजन् यथायुक्तं रक्षणे वै प्रजानाम् ॥५॥
सम्बन्धकं चैव समर्थ्य तस्मिन् दाशार्णके वै नृपतौ नरेन्द्र
।
स्वयं कृत्वा विप्रलम्भं यथावन्मन्त्रैकाग्रो निश्चयं वै जगाम ॥६॥
सम्बन्धकं सामर्थ्ययुक्तमेव साम्बन्धिकं मया कृतं न प्रतारणा कृतेति उपपाद्य ॥६॥
स्वभावगुप्तं नगरमापत्काले तु भारत
।
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥७॥
आर्तिं च परमां राजा जगाम सह भार्यया
।
दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥८॥
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान्
।
इति सञ्चिन्त्य मनसा देवतामर्चयत्तदा ॥९॥
तं तु दृष्ट्वा तदा राजन् देवी देवपरं तदा
।
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥१०॥
देवी राज्ञी ॥१०॥
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम्
।
किमु दुःखार्णवं प्राप्य तस्मादर्चयतां गुरून् ॥११॥
साधुमता कल्याणवताऽपि देवानां प्रतिपत्तिः पूजा नित्यं कर्तव्येति शेषः । किमु दुःखार्णवं प्राप्य कर्तव्येति । तस्मात् भवान् गुरून् देवाराधनार्थं ब्राह्मणान् अर्चयतां पूजयतु ॥११॥
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणम्
।
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने ॥१२॥
भूरिदक्षिणं यथा स्यात्तथा प्रतिषेधने परावृत्त्यर्थम् ॥१२॥
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो
।
देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥१३॥
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन
।
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु ॥१४॥
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव
।
परस्परविरोधाद्धि सिद्धिरस्ति न चैतयोः ॥१५॥
तस्माद्विधाय नगरे विधानं सचिवैः सह
।
अर्चयस्व यथाकामं दैवतानि विशांपते ॥१६॥
एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ
।
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी ॥१७॥
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ
।
इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥१८॥
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
।
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम् ॥१९॥
यक्षेणर्द्धिमता राजन् स्थूणाकर्णेन पालितम्
।
तद्भयादेव च जनो विसर्जयति तद्वनम् ॥२०॥
तत्र च स्थूणभवनं सुधांमृत्तिकलेपनम्
।
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥२१॥
सुधामृत्तिकलेपनं सुधा चूर्णं सैव मृत्तिका तया लेपनं यस्य। लाजोल्लापिकः लाजानि उशीराणि उल्लापयति सूचयतीति लाजोल्लापिकः । उशीरपरिमलयुक्तधूमाढ्यमित्यर्थः । ‘उशीरे लाजमुद्दिष्टम्’ इति विश्वः ॥२१॥
तत् प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप
।
अनश्नाना बहुतिथं शरीरमुदशोषयत् ॥२२॥
दर्शयामास तां यक्षः स्थूणो मार्दवसंयुतः
।
किमर्थोऽयं तवारंभः करिष्ये ब्रूहि मा चिरम् ॥२३॥
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह
।
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः ॥२४॥
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे
।
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ॥२५॥
ततः शिखण्डी तत् सर्वमखिलेन न्यवेदयत्
।
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥२६॥
शिखण्ड्युवाच
।
अपुत्रो मे पिता यक्ष न चिरान्नाशमेष्यति
।
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम् ॥२७॥
महाबलो महोत्साहः सहेमकवचो नृपः
।
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे ॥२८॥
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम
।
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥२९॥
यावदेव स राजा वै नोपयाति पुरं मम
।
तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥३०॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि स्थूणाकर्णसमागमे एकनवत्यधिकशततमोऽध्यायः ॥१९१॥
भीष्म उवाच।
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ
।
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥१॥
शिखण्डीति । चिन्त्य चिन्तयित्वा ॥१॥
भवितव्यं तथा तद्धि मम दुःखाय कौरव
।
भद्रे कामं करिष्यामि समयं तु निबोध मे ॥२॥
किञ्चित् कालान्तरे दास्ये पुल्लिङ्गं स्वमिदं तव
।
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ॥३॥
प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहङ्गमः
।
मत्प्रसादात् पुरं चैव त्राहि बन्धूंश्च केवलम् ॥४॥
विहङ्गमः आकाशगामी ॥४॥
स्त्रीलिङ्गं धारयिष्यामि तदेवं पार्थिवात्मजे
।
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥५॥
शिखण्ड्युवाच
।
प्रतिदास्यामि भगवन् पुल्लिङ्गं तव सुव्रत
।
किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥६॥
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि
।
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ॥७॥
भीष्म उवाच।
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप
।
अन्योऽन्यस्याभिसन्देहे तो संक्रामयतां ततः ॥८॥
समयं शपथं सन्देहे लिङ्गे सम्यग्दिह्येते उपचीयेते रतिकाले प्रथेते इति व्युत्पत्तेः । अभिसन्दोहे इति पाठेऽपि संदुह्यते प्रजा आभ्यामिति व्युत्पत्त्या ते एव ॥८॥
स्त्रीलिङ्गं धारयामास स्थूणायक्षोऽथ भारत
।
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥९॥
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव
।
विवेश नगरं हृष्टः पितरं च समासदत् ॥१०॥
यथावृत्तं तु तत् सर्वमाचख्यौ द्रुपदस्य तत्
।
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत् परम् ॥११॥
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा
।
ततः संप्रेषयामास दशार्णाधिपतेर्नृपः ॥१२॥
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति
।
अथ दाशार्णको राजा सहसाऽभ्यागमत्तदा ॥१३॥
पञ्चालराजं द्रुपदं दुःखशोकसमन्वितः
।
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ॥१४॥
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्
।
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ॥१५॥
यन्मे कन्यां स्वकन्यार्थे वृतवानास दुर्मते
।
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥१६॥
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम
।
दूत्तः प्रयातो नगरं दाशार्णनृपचोदितः ॥१७॥
तत आसादयामास पुरोधा द्रुपदं पुरे
।
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥१८॥
प्रापयामास राजेन्द्र सह तेन शिखण्डिना
।
तां पूजां नाभ्यनन्दत् स वाक्यं चेदमुवाच ह ॥१९॥
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा
।
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ॥२०॥
तस्य पापस्य करणात् फलं प्राप्नुहि दुर्मते
।
देहि युद्धं नरपते ममाद्य रणमूर्धनि ॥२१॥
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम्
।
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ॥२२॥
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा
।
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ॥२३॥
यदाह मां भवान् ब्रह्मन् सम्बन्धिवचनाद्वचः
।
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ॥२४॥
उत्तरम् उत्कृष्टतरम् ॥२४॥
ततः संप्रेषयामास द्रुपदोऽपि महात्मने
।
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥२५॥
तमागम्य तु राजानं दशार्णाधिपतिं तदा
।
तद्वाक्यमाददे राजन् यदुक्तं द्रुपदेन ह ॥२६॥
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम
।
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ॥२७॥
आगमः परीक्षा ॥२७॥
ततः स राजा द्रुपदस्य श्रुत्वा विमर्षयुक्तो युवतीर्वरिष्ठाः
।
संप्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् ॥२८॥
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्
।
शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम् ॥२९॥
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ
।
सम्बन्धिना समागम्य हृष्टो वासमुवास ह ॥३०॥
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः
।
हस्तिनोऽश्वांश्च गाश्चैव दास्योऽथ बहुलास्तथा ॥३१॥
पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल
।
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे ॥३२॥
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी
।
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः
।
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ॥३३॥
स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता
।
स्थूणस्य यक्षस्य विवेश वेश्म स्वलङ्कृतं माल्यगुणैर्विचित्रैः ॥३४॥
लाज्यैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च
।
ध्वजैः पताकाभिरलङ्कृतं च भक्ष्यान्नपेयामिषदन्तहोमम् ॥३५॥
लाज्यैः उशीरजैः। पाठान्तरे लाजैरुशीरैः । भक्ष्यं लट्टुकेक्षुदण्डादि दन्तव्यापारग्राह्यम्, अन्नम् अदनीम् ओदनपायसखण्डशर्करादि । भोज्यं लेह्यरूपम् । पेयं सुरासवादि । आमिषं मांसमभ्यर्हितत्वादस्य भक्ष्यात् पृथक्करणम् । एतान्येव दन्तहोमा दन्तैर्हूयन्त इति व्युत्पत्त्याऽभ्यवहार्याणि यस्मिन् तं भक्ष्यान्नपेयामिषदन्तहोमम् । आमिषमप्रमेयमिति पठास्तु मूर्खकल्पितः॥३५॥
तत् स्थानं तस्य दृष्ट्वा तु सर्वतः समलङ्कृतम्
।
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ॥३६॥
नानाकुसुमगन्धाढ्यं सिक्तसंमृष्टशोभितम्
।
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥३७॥
स्वलङ्कृतमिदं वेश्म स्थूणस्यामितविक्रमाः
।
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ॥३८॥
यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति
।
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥३९॥
यक्षा ऊचुः।> द्रुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी
।
तस्या निमित्ते कस्मिंश्चित् प्रादात् पुरुषलक्षणम् ॥४०॥
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतो तिष्ठते गृहे
।
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ॥४१॥
तिष्ठते गृहे एव स्थिरोऽस्ति ॥४१॥
एतस्मात् कारणाद्राजन् स्थूणो न त्वाद्य सर्पति
।
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥४२॥
त्वाऽद्य त्वामद्य ॥४२॥
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्
।
कर्ताऽस्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ॥४३॥
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते
।
स्त्रीसरूपो महाराज तस्थौ व्रीडासमन्वितः ॥४४॥
तं शशापाथ संकुद्धो धनदः कुरुनन्दन
।
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ॥४५॥
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान्
।
शिखण्डिनो लक्षणं पापबुद्धेः स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥४६॥
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम्
।
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ॥४७॥
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल
।
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः॥४८॥
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः
।
सर्वान् यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥४९॥
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते
।
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः॥५०॥
इत्युक्त्वा भगवान् देवो यक्षराजः सुपूजितः
।
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ॥५१॥
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा
।
समये चागमत्तूर्णं शिखण्डी तं क्षपाचरम् ॥५२॥
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति
।
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥५३॥
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्
।
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥५४॥
यक्ष उवाच।
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज
।
गच्छेदानीं यथाकामं चर लोकान् यथासुखम्॥५५॥
दिष्टमेतत् पुरा मन्ये न शक्यमतिवर्तितुम्
।
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्॥५६॥
भीष्म उवाच।
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत
।
प्रत्याजगाम नगरं हर्षेण महता वृतः ॥५७॥
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः
।
द्विजातीन् देवताश्चैव चैत्यानथ चतुष्पथान् ॥५८॥
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना
।
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥५९॥
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव
।
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥६०॥
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः
।
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥६१॥
चतुष्पादं ग्रहणधारणप्रयोगप्रतीकारैश्चतुर्भिः पादैर्युक्तम् ॥६१॥
मम त्वेतच्चरास्तात यथावत् प्रत्यवेदयन्
।
जडान्धबधिराकारा ये मुक्ता द्रुपदे मया ॥६२॥
एवमेष महाराज स्त्रीपुमान् द्रुपदात्मजः
।
स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ॥६३॥
ज्येष्ठा काशिपतेः कन्या अम्बानामेति विश्रुता
।
द्रुपदस्य कुले जाता शिखण्डी भरतर्षम ॥६४॥
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्
।
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥६५॥
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्
।
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ॥६६॥
न मुञ्चेयमहं बाणमिति कौरवनन्दन
।
न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥६७॥
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः
।
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥६८॥
यदि भीष्मः स्त्रियं हन्यात् सन्तः कुर्युर्विगर्हणम्
।
नैनं तस्माद्धनिष्यामि दृष्ट्वाऽपि समरे स्थितम् ॥६९॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा
।
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥७०॥
युक्तं स्त्रीषु अयुद्धमिति शेषः ॥७०॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि शिखण्डिपुंस्त्वप्राप्तौ द्विनवत्यधिकशततमोऽध्यायः ॥१९२॥
सञ्जय उवाच।
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव
।
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥१॥
प्रभातायामिति ॥१॥
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुद्यतम्
।
प्रभूतनरनागाश्वं महारथसमाकुलम् ॥२॥
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः
।
लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥३॥
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम्
।
सेनासागरमक्षोभ्यमपि देवैर्महाहवे ॥४॥
केन कालेन गाङ्गेय क्षपयेथा महाद्युते
।
आचार्यो वा महेष्वासः कृपो वा सुमहाबलः ॥५॥
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः
।
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥६॥
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे
।
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥७॥
भीष्म उवाच।
अनुरूपं कुरुश्रेष्ठ त्वय्येतत् पृथिवीपते
।
बलाबलममित्राणां तेषां यदिह पृच्छसि ॥८॥
शृणु राजन् मम रणे या शक्तिः परमा भवेत्
।
शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज ॥९॥
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः
।
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥१०॥
हन्यामहं महाभाग पाण्डवानामनीकिनीम्
।
दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम ॥११॥
प्रागाह्निकम् अह्नः पूर्वभागकार्यम् ॥११॥
योधानां दशसाहस्रं कृत्वा भागं महाद्युते
।
सहस्रं रथिनामेकमेष भागो मतो मम ॥१२॥
अनेनाहं विधानेन सन्नद्धः सततोत्थितः
।
क्षपयेयं महत् सैन्यं कालेनानेन भारत ॥१३॥
मुञ्चेयं यदि वाऽस्त्राणि महान्ति समरे स्थितः
।
शतसाहस्रघातीनि हन्यां मासेन भारत ॥१४॥
सञ्जय उवाच।
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः
।
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥१५॥
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्
।
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥१६॥
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः
।
शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥१७॥
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम
।
एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥१८॥
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्
।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् ॥१९॥
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्
।
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः ॥२०॥
जहास सस्वनं हासं वाक्यं चेदमुवाच ह
।
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम् ॥२१॥
वासुदेवसमायुक्तं रथेनायान्तमाहवे
।
समागच्छसि राधेय तेनैवमभिमन्यसे
।
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥२२॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि भीष्मादिशक्तिकथने त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु कौन्तेयः सर्वान् भ्रातॄनुपह्वरे
।
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥१॥
एतच्छ्रुत्वेति ॥१॥
युधिष्ठिर उवाच।
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम
।
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥२॥
व्युषितां निशां प्रभातकाले ॥२॥
दुर्योधनः किलापृच्छदापगेयं महाव्रतम्
।
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥३॥
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः
।
तावता चापि कालेन द्रोणोऽपि प्रतिजज्ञिवान् ॥४॥
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्
।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥५॥
तथा दिव्यास्त्रवित् कर्णः संपृष्टः कुरुसंसदि
।
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ॥६॥
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः
।
कालेन कियता शत्रून् क्षपयेरिति फाल्गुन ॥७॥
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः
।
वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ॥८॥
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः
।
असंशयं महाराज हन्युरेव न संशयः ॥९॥
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम्
।
हन्यामेकरथेनैव वासुदेवसहायवान् ॥१०॥
सामरानपि लोकांस्त्रीन् सर्वान् स्थावरजङ्गमान्
।
भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ॥११॥
भूतमुत्पन्नं भव्यमुत्पाद्यमानमनयोर्बीजभूतयोर्नाशे बीजभावाद्भविष्यस्यापि नाशो मयैव कर्तव्य इत्यर्थः ॥११॥
यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम
।
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ॥१२॥
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन्
।
प्रयुक्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥१३॥
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः
।
न च द्रोणसुतो राजन् कुत एव तु सूतजः ॥१४॥
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्
।
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥१५॥
तथेमे पुरुषव्याघ्राः सहायास्तत्र पार्थिव
।
सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ॥१६॥
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः
।
निहन्युः समरे सेनां देवानामपि पाण्डव ॥१७॥
वेदान्तावभृथस्नाताः वेदग्रहणान्त एव दारक्रियया सहैव यागं कृतवन्त इत्यर्थः ॥१७॥
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः
।
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥१८॥
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि
।
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ॥१९॥
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः
।
शैनेयश्च महावाहुः सहायो रणकोविदः ॥२०॥
अभिमन्युश्च बलवान् द्रौपद्याः पञ्च चात्मजाः
।
स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादनेऽपि च ॥२१॥
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते
।
स क्षिप्रं न भवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥२२॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अर्जुनवाक्ये चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥
वैशम्पायन उवाच।
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
।
दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति ॥१॥
ततः प्रमात इति ॥१॥
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः
।
गृहीतशस्त्रा ध्वजिनः स्वस्तिवाच्यहुताग्नयः ॥२॥
आप्लाव्य स्नात्वा ॥२॥
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः
।
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः ॥३॥
आहवेषु पराँल्लोकान् जिगीषन्तो महाबलाः
।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥४॥
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह
।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥५॥
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः
।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये नृपाः ॥६॥
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः
।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥७॥
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्
।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥८॥
कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः
।
दुर्योधनश्च नृपतिर्भातृभिः परिवारितः ॥९॥
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः
।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥१०॥
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः
।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः ॥११॥
दुर्योधनस्तु शिबिरं कारयामास भारत
।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥१२॥
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥१३॥
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः
।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥१४॥
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्
।
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः ॥१५॥
उत्सृज्य उत्कर्षेण सृष्ट्वा पञ्चयोजनं वर्तुलं परिधिं कृत्वेत्यर्थः सेनानिवेशाः सैनिकाः वणिक्शूराश्वादयः ॥१५॥
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥१६॥
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
।
व्यादिदेश सबाह्यानां भक्ष्यभेाज्यमनुत्तमम् ॥१७॥
सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः
।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥१८॥
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः
।
सर्वांस्तान् कौरवो राजा विधिवत्प्रत्यवैक्षत ॥१९॥
इति श्रमिहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि कौरवसैन्यनिर्याणे पञ्चनवत्यधिकशततमोऽध्यायः ॥१९५॥
वैशम्पायन उवाच।
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः
।
धृष्टद्युम्नमुखान् वीरांश्चोदयामास भारत ॥१॥
तथैवेति ॥१॥
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्
।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥२॥
भीमधन्वानः अयन्ते प्रचरन्त्यस्यामिति भीमधन्वायनी ॥२॥
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्
।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ॥३॥
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः
।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥४॥
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव
।
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ॥५॥
दिदेश तान्यनीकानि प्रयाणाय महीपतिः
।
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ॥६॥
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्
।
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः ॥७॥
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः
।
घृष्टद्युम्नमुखानेतान् प्राहिणोत् पाण्डुनन्दनः ॥८॥
भीमं च युयुधानं च पाण्डवं च धनञ्जयम्
।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥९॥
बलस्कन्धं सैन्यसंमुदायम् ॥९॥
भाण्डं समारोपयतां चरतां संप्रधावताम्
।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥१०॥
भाण्डं युद्धोपकरणम् ॥१०॥
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः
।
अथापरैर्महीपालैः सह प्रायान्महीपतिः ॥११॥
भीमधन्वायनी सेना धृष्टद्युम्नेन पालिता
।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥१२॥
ततः पुनरनीकानि न्ययोजयत बुद्धिमान्
।
मोहयन् धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ॥१३॥
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः
।
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥१४॥
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम्
।
अयुतं च पदातीनां रथाः पञ्चशतं तथा ॥१५॥
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम्
।
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ॥१६॥
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ
।
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥१७॥
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ
।
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः ॥१८॥
कृतप्रहरणाः कृतयुद्धाः ॥१८॥
तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः
।
पञ्च नागसहस्त्राणि रथवंशाश्च सर्वशः ॥१९॥
पदायतश्च ये शूराः कार्मुकासिगदाधराः
।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥२०॥
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे
।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥२१॥
तत्र नागसहस्राणि हयानामयुतानि च
।
तथा रथसहस्त्राणि पदातीनां च भारत ॥२२॥
चेकितानः स्वसैन्येन महता पार्थिवर्षभ
।
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ॥२३॥
सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः
।
वृतः शतसहस्त्रेण रथानां प्रणुदन् बली ॥२४॥
क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ
।
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ॥२५॥
शकटापणवेशाश्च यानं युग्यं च सर्वशः
।
तत्र नागसहस्राणि हयानामयुतानि च
।
फल्गु सर्वं कलत्रं च यत्किञ्चित् कृशदुर्बलम् ॥२६॥
शकटा भाण्डवन्ति अनांसि । आपणो वणिक्समुदायः वेशो वेश्याजनः यानं युद्धयोग्यं वाहनं युग्यं केवलं वाहनं फल्गु बालादिकम् । कलत्रं स्त्र्यादिकम् ॥२६॥
कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च
।
गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः ॥२७॥
कोशो धनं कोष्ठो धान्यादिसामग्री सङ्गृह्य एकीकृत्य ॥२७॥
तमन्वयात् सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
।
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य वा विभुः॥२८॥
रथा विंशतिसाहस्रा ये तेषामनुयायिनः
।
हयानां दश कोट्यश्च महतां किंकिणीकिनाम् ॥२९॥
गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः
।
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ॥३०॥
षष्ठिर्नागसहस्त्राणि दशान्यानि च भारत
।
युधिष्ठिरस्य यान्यासन् युधि सेना महात्मनः ॥३१॥
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः
।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥३२॥
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः
।
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ॥३३॥
ततोऽन्ये शतशः पश्चात् सहस्त्रायुतशो नराः
।
नर्दन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥३४॥
तत्र भेरीसहस्राणि शङ्खानामयुतानि च
।
न्यवादयन्त संहृष्टाः सहस्त्रायुतशो नराः ॥३५॥
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पाण्डवसेनानिर्याणे षण्णवत्यधिकशततमोऽध्यायः ॥१९६॥