जनमेजय उवाच।
एवं द्यूतजिताः पार्था कोपिताश्च दुरात्मभिः
।
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥१॥
तत्र पूर्वस्मिन् पर्वणि द्रौपदीत्राणेन भक्तेर्माहात्म्यं दर्शितम् । सा च प्रतिज्ञापालनसत्समागमतीर्थाटनस्वधर्माचरणादिना लभ्यत इति तत्तदाख्यायिकामुखेनेह प्रतिपाद्य द्रौपदीदत्तशाकलेशाशनेन कृष्णे तृप्ते सति दौर्वाससोपाख्यानेन भगवतो जगदन्तरात्मत्वं दार्शितम् । धर्मयुधिष्ठिरसंवादेन भगवत्तत्वम् अधिगमोपायसाहितं च संक्षेपेणोक्तम् । एवं द्यूतजिताः पार्था इत्यादिनामन्त्राय समुपाविशन्नित्यन्तेन ग्रन्थेन। तत्र प्रथमेऽध्याये सदसत्संगयोर्गुणदोषौ द्वितीये शौनकयुधिष्ठिरसवांदेन काम्यधर्मनिन्दायोगप्रशंसा च दर्शिता एवमिति । पार्था इति छत्रिन्यायेन माद्रीसुतयोरपि उपलक्षणम् । दुरात्मभिर्दुष्टचित्तैः । सहामात्यैः कर्णादिभिः । निकृत्या छलेन ॥१॥
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्
।
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥२॥
पूर्वःपिता परीक्षित् तस्य पितामहाः ॥२॥
एयुषः प्राप्तवन्तः ॥२॥
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः
।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥३॥
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्
।
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥४॥
उत्तमं तीव्रम् ॥४॥
कथं च द्वादशसमा वने तेषां महामुने
।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥५॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्
।
पतिव्रता महाभागा सततं सत्यवादिनी॥६॥
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत
।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥७॥
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्
।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥८॥
द्रविणं पराक्रमः तेजः देहकान्तिश्च ते उभे पुष्कले येषां ते भूरिद्रविणतेजसः ‘द्रविणं च पराक्रमे’ इति विश्वः॥८॥
वैशंपायन उवाच।
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥९॥
गजसाह्वयात् हस्तिनापुरात् ॥९॥
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः
।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥१०॥
वर्धमानपुरं नाम ग्रामविशेषः तदभिमुखं द्वारं तस्मात् वृधु हिंसायां वर्धमानाः हिंसकाः तेषां पुरं कुत्सितमार्गेण निःसारिता इत्यन्ये ॥१०॥
इन्द्रसनादयश्चैव भृत्याः परिचतुर्दश
।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥११॥
परिचतुर्दश अधिकचतुर्दशाः पञ्चदशेत्यर्थः। संख्ययाव्ययासन्नेति समासः समासान्तविधेरनित्यत्वाद्बहुव्रीहौ संख्येये इति प्राप्तस्य डच्प्रत्ययस्याभावः ॥११॥
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः
।
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥१२॥
ऊचुर्विगतसन्त्रासाः समागम्य परस्परम्
।
पौरा ऊचुः
।
नेदमास्ति कुलं सर्वं न वयं न च नो गृहाः॥१३॥
यत्र दुर्योधनः पापः सौबलेयेन पालितः
।
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥१४॥
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्
।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥१५॥
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः
।
अर्थलुब्धोभिमानी च नीचः प्रकृतिनिर्घृणः॥१६॥
प्रकृतिर्घृणः स्वभावनिर्दयः ॥१६॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः
।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥१७॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः
।
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥१८॥
सानुकोशाः सदयाः महात्मानः उदारचित्ताः । विजिताः इन्द्रियाणि च शत्रवश्च यैस्ते विजितेन्द्रियशत्रवः । ह्रीरकार्यान्निवर्त्तिका चित्तवृत्तिः धर्मो यमनियमादिस्तस्य आचरणम् आचारः धर्माचारः॥१८॥
वैशंपायन उवाच।
एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान्समेत्य च
।
ऊचुः प्राञ्जलयः सर्वे कौन्तेयान्माद्रिनन्दनान्॥१९॥
कौन्तेयत्वं माद्रेयत्वं च छत्रिन्यायेन प्रत्येकं पञ्चस्वपि पर्याप्तं माद्रीति ह्रस्वत्वमार्षम् ॥१९॥
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः
।
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥२०॥
अधर्मेण जिताञ्च्छ्रुत्वा युष्मांस्त्यक्तघृणैः परैः
।
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ॥२१॥
भक्तानुरक्तान्सुहृदः सदा प्रियहितेरतान्
।
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥२२॥
भक्तान् आराधनापरान् अनुरक्तान् प्रीतिमतः सुहृदः वेतनाद्युपकारमनपेक्ष्य उपकारकान् प्रियान् प्रीतिविषयान् हितेरतान् अभ्युदयसाधनपरान् हितेरतानित्यलुक्समासः प्रियाश्च ते हितेरताश्चेति विग्रहः । न विनश्येम विनाशं न प्रार्थयामहे । प्रार्थनायां लिङ् नेति वितर्के विनश्येमेति तर्कयामह इति प्राञ्चः॥२२॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः
।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥२३॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा
।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥२४॥
आपः अपः ॥२४॥
मोहजालस्य योनिर्हि मूढैरेव समागमः
।
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥२५॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः
।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥२६॥
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च
।
तान्सेवेत्तैः समास्याहि शास्त्रेभ्योऽपि गरीयसी॥२७॥
अवदातानि शुद्धानि विद्या वैदिका न तु लौकिक्यादिः कर्म वेदार्थानुष्ठानं योनिः पूर्वप्रज्ञा श्येनयागादेर्हिंसासाधनस्य वेदार्थत्वेऽपि नावदातत्वमस्ति । अतोः ‘जन्मान्तरीयसंस्कारोऽपि शुद्ध एवापेक्षितः । ‘तं विद्याकर्मणी समन्वारभेते पूवप्रज्ञा च’ इति श्रुतेरत्र योनिशब्देन मुख्यं प्रवृत्तिकारणं पूर्वप्रज्ञैव ग्राह्यम् । अन्ये तु योनिशब्देन पितृमातृशुद्धिमाहुः । समास्या संगतिः संपूर्वस्यासगतावित्यस्य रूपम् अपि शब्दाच्छास्त्रमपि सम्यक् ज्ञानहेतुतया गुरु । सत्संगस्तु ततोऽपि गरीयान् । न गाथा गाथिनं शास्तीति केवलशास्रस्य प्रागेव अकिञ्चित्करत्वोक्तेः ॥२७॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु
।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥२८॥
निरारम्भाः आग्निहोत्राद्यकुर्वाणा अपि। हिशब्दः ‘एतद्ध स्म वै तद्विद्वांसः पूर्वेग्निहोत्रं न जुहवांचक्रिरे’ इति श्रोतीं प्रसिद्धिं द्योतयाति। सत्संगाल्लब्धात्मविद्यानां किमग्निहोत्रादिनेति भावः ॥२८॥
असतां दर्शनात्स्पर्शात्सञ्जल्पाच्च सहासनात्
।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥२९॥
न सिद्ध्यन्ति सिद्धिश्चित्तशुद्धिस्तां न प्राप्नुवन्ति। धर्माचारहीनत्वात् ॥२९॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥३०॥
अनीचैर्नाप्यविषयैर्नाधर्मिष्टैर्विशेषताः
।
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः
।
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसंमताः॥३१॥
अविषयैः अगोचरैरपरिचितैरित्यर्थः । धर्मकामार्थसंभवाः धमांदीनां संभव उत्पत्तिर्येभ्यस्ते । शिष्टानां वेदप्रामाण्यवादिनां संमताः ॥३१॥
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः
।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकांक्षिणः॥३२॥
समस्ताः एकीभूताः व्यस्ताः पृथक् प्रथग्भूताः । श्रेयः स्वर्गादपि प्रशस्ततरमात्मसुखम् ॥३२॥
युधिष्ठिर उवाच।
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः
।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥३३॥
एवं पौरवचनैः सत्संगगुणाः असत्संगदोषाश्च उपादानाय हानाय च उक्ताः धन्या इत्यादिना । शत्रोरपि सुखं देयमिति दर्शयति पौरनिवर्तनप्रसङ्गेन ॥३३॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः
।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥३४॥
स्नेहो वात्सल्यं तत्सहिता अनुकम्पा दया स्नेहानुकम्पा तया ॥३४॥
भीष्मः पितामहो राजा विदुरो जननी च मे
।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥३५॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः
।
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥३६॥
शोकसंतापविह्वलाः शोकः इष्टवियोगजं दुःखं तेन संतापः देहेन्द्रियादेरवसादः तेन विह्वलाः व्याकुलाः ॥३६॥
निवर्तता गता दूरं समागमनशापिताः
।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥३७॥
आगमनेत्यविभक्तिकम् अस्माभिः सह आगमने शापिताः मम शपथं कारिता इत्यर्थः ॥३७॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम्
।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥३८॥
वैशम्पायन उवाच।
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः
।
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥३९॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
।
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्॥४०॥
समागम्य संपृच्छ्य ॥४०॥
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः
।
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्॥४१॥
निवृत्तेषु पौरेष्वित्यादिना धिक्पापान् धुतराष्ट्रजानित्यन्तेन ग्रन्थेन धर्मात्मानमनिच्छन्तमपि बलात्सन्तोऽनुगृह्णन्तीत्युच्यते ॥४१॥
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः
।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥४२॥
ऊषुः वासं चक्रुः ॥४२॥
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः
।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥४३॥
उदकेनैव न त्वन्नेन ऊषुर्निन्युः ॥४३॥
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः
।
स तैःपरिवृतो राजा शुशुभे ब्रह्मवादिभिः॥४४॥
साग्नयः दारैः सहिताः अनग्नयस्तदन्ये स्नातकब्रह्मचार्यादयः ॥४४॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
।
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत॥४५॥
प्रादुष्कृताः प्रकटीकृताः अग्नयो यैस्ते रम्यत्वं तापविरहात्संध्यारागादिशोभातश्च । दारुणो रक्षःपिशाचादिसंचारकालत्वात् । ब्रह्मघोषपुरस्कारः उच्चैःश्रुत्युपन्यासपूर्वकः संजल्पः परस्परसंवादः ॥४५॥
राजानं तु कुरुश्रेष्ठं ते हंसा मधुरस्वराः
।
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥४६॥
आश्वासयन्तः वनवासस्यापि श्रेयस्करत्वोपपादनेनेति शेषः ॥४६॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि पौरप्रत्यागमने प्रथमोऽध्यायः॥१॥
वैशम्पायन उवाच।
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्
।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥१॥
प्रभातायाम् अरुणोदयेन उद्दीपितायाम्। रजन्याश्चरमभागे इति यावत् । यियासतां यातुं गन्तुमिच्छताम् । भिक्षाभुजः ब्राह्मणाः॥१॥
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः
।
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥२॥
धनं राज्यं तदुभयकृता श्रीः ब्राह्मणतर्पणादिरूपा शोभा चास्माकं नष्टेत्याह वयं हीति॥२॥
फलमूलामिषाहारा वनं गच्छाम दुःखिताः
।
वनं च दोषहुलं बहुव्यालसरीसृपम्॥३॥
व्यालाः श्वापदाः वृकव्याघ्रादयः ’व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि’ इति विश्वः ॥३॥
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति
।
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्
।
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥४॥
ब्राह्मणा ऊचुः
।
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः
।
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥५॥
भक्ता अपि मूढाश्चेत्स्युः किं तर्हि तैरित्यत आहुः सद्धर्मदर्शिन इति। सतो ब्रह्मणो ये धर्माः सत्यकामत्वसत्यसंकल्पत्वादयस्तदनुभाविनः॥५॥
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते
।
विशेषतो ब्राह्मणेषु सदाचरावलम्बिषु॥६॥
युधिष्ठिर उवाच।
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः
।
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥७॥
आहरेयुरिमे येऽपि फलमूलमृगांस्तथा
।
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥८॥
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च
।
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥९॥
ब्राह्मणा ऊचुः
।
अस्मत्पोषणजा चिन्ता माभूत्ते हृदि पार्थिव
।
स्वयमाहृत्य चान्नानि त्वानुयास्यामहे वयम्॥१०॥
अनुध्यानेन जप्येन विधास्यामः शिवं तव
।
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥११॥
अनुध्यानेन। इष्टचिन्तनेन । जप्येन स्वस्त्ययनेनेत्यदृष्टद्वार उपकारमुक्त्वा | दृष्टद्वारापि तमाहुः कथाभिरिति ॥११॥
युधिष्ठिर उवाच।
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः
।
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥१२॥
प्रत्यादेशं धिक्कारम्॥१२॥
कथं द्रक्ष्यामि वः सर्वान्वयमाहृत्य भोजिनः
।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥१३॥
वैशम्पायन उवाच।
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले
।
तमध्यात्मरतो विद्वाञ्च्छौनको नाम वै द्विजः॥१४॥
एवं ब्राह्मणभरणसामर्थ्याभावात्खिन्नं राजानं प्रति शोकमोहनिवर्तकं वचनं शौनक आहेत्याह । इत्युक्त्वेति । अध्यात्मम् आत्मानं शारीरम् आधिकृत्य प्रवृत्तं शास्त्रम् अध्यात्मं वेदान्तस्तत्र रतः॥१४॥
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत्॥१५॥
योगश्चित्तवृत्तिनिरोधः सांख्यं प्रकृतिपुरुषविवेकः तयोर्निष्णातः ॥१५॥
शोकस्थानसहस्राणि भयस्थानशतानि च
।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥१६॥
शोके स्थीयतेऽनेनेति व्युत्पत्त्या स्थानशब्दो हेतुवचनः। शोको मनस्तापः भयं मरणात् त्रासः तयोर्हेतवः इष्टवियोगानिष्टसंयोगादयः तेषां सहस्रादीनि॥१६॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु
।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥१७॥
ननु धर्मे सामर्थ्याभावादेव मम शोकभये न तु राज्यच्युतिवनवासकृते इत्याशंक्याह न हीति । प्रवृत्तिरूपो यज्ञदानादिधर्मो ज्ञानविरोधी ज्ञाने हि “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति द्वैतोपमर्दः श्रूयते। कर्माणि तु द्वैतोपजीवनानि अतस्तयोर्विरोधः प्रसिद्ध इति हि शब्दो द्योतयति। पशुबीजवधादिसाध्यत्वाद्दोषबहुलश्चात एव श्रेयोघाती मोक्षविरोधी। तत्र न सज्जन्ते नात्यन्तमभिनिवेशिनो भवन्ति॥१७॥
अष्टाङ्गां बुद्धिमाहुर्यां सर्वा श्रेयोऽभिघातिनीम्
।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥१८॥
एवं कर्मनिष्ठां निन्दित्वा योगनिष्ठां ग्राहयति अष्टाङ्गमिति “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावाङ्गानि' इति योगसूत्रोक्तानि संकल्पसंबाधादीनि वा वक्ष्यमाणानि अष्टौ अङ्गानि यस्याः सा बुद्धिस्तत्त्वमस्यादिवाक्यजा प्रज्ञा । यां सर्वं कृत्स्नम् अश्रेयो मूलाज्ञानं तदभिघातिनीं श्रुतिस्मृतिभ्यां समायुक्तां सम्यक् दृढीकृताम् । सा त्वयि अवस्थिताऽस्मत्संनिधानादिति भावः ॥१८॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च
।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥१९॥
अर्थकृच्छ्रेषु धननाशेषु । अशनवसनाद्यभावात् दुर्गेषु दुस्तरेषु शारीरदुःखेषु विपरीतास्वापत्सु स्त्रीकर्षणादिषु मनोदुःखेषु च उपस्थितेषु तैः सन्तो नावसीदन्ति । शारीरं दुःखं तितिक्षया मानसं विवेकेन च नाशयितुं समर्था इत्यर्थः ॥१९॥
श्रूयतां च चाभिधास्यामि जनकेन यथा पुरा
।
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥२०॥
आत्मव्यवस्थानकराः मनःस्थैर्यहेतवः ॥२०॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्
।
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥२१॥
व्याससमासाभ्यां विस्तरसंक्षेपाभ्याम् ॥२१॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् | दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥२२॥
व्याधिः प्रसिद्धः अनिष्टं कण्टकादिः श्रमो व्यायामः इष्टम् अन्नादि ॥२२॥
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्
।
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥२३॥
प्रतिकारात् औषधोपानत्स्वास्थ्यान्नादिभिरुपशमनात्। आधिव्याधिप्रशमनम् अविचिन्तनाच्च । क्वचिद्विषयेऽत्यन्तनिमग्नचित्तस्य न मनोव्यथा व्याधिप्रभवा वेदना च भवतीति प्रसिद्धं इदमेव क्रियायोगद्वयम् ॥२३॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते
।
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥२४॥
मतीति । अतः वक्ष्यमाणाद्धेतोः वैद्याः विद्यावन्तः। प्रागेव मानसस्य शमं कुर्वते। प्रियाख्यानैः अनुकूलवचनैः। बहुलाभदर्शनैर्धनहान्यादिजम् । संभोगोपनयैः स्त्र्यादिसमर्पणैः कामादिजम्॥२४॥
मानसेन हि दुःखेन शरीरमुपतप्यते
।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥२५॥
मानसस्य प्राक् प्रशमने हेतुमाह मानसेन हीति ॥२५॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना
।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥२६॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते
।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥२७॥
स्नेहो रागः सज्जते प्रवर्तते । प्रवृत्त्या च दुःखयोगमुपैति ॥२७॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च
।
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते॥२८॥
आयासः क्लेशः स्नेहात् रागात् ॥२८॥
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा
।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥२९॥
भावः भावना संकल्पसंज्ञा अनुरागः पश्चाद्भाविनी प्रीतिः । अयं भावः । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः इति न्यायसूत्राभ्याम् अज्ञानात्संकल्पस्ततो विषयरततस्तत्र प्रीतिस्ततस्तल्लाभाय प्रवृत्तिस्ततो जन्म ततः सुखदुःखे ततो रागद्वेषवासना ततः पुनः संकल्प इति क्रमः तत्र मूलभूतो रागः स्नेहशब्देनोक्तः स भावस्य हेतुः । ततो विषयसिद्ध्युत्तरं जायमानो रागोऽनुराग इति । तत्र भावानुरागयोर्मध्ये पूर्वो भावः अत्यन्तमश्रेयस्करः तस्मात्संकल्पत्याग एव मुख्यं साधनं तथा च वक्ष्यति । ‘यत्किंचिदपि संकल्प्य नरो दुःखे निमज्जति । न किंचिदपि संकल्प्य सुखमक्षय्यमश्नुते’ इति ॥२९॥
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्
।
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥३०॥
कोटरेति । राग एव दोषः ॥३०॥
विप्रयोगन तु त्यागी दोषदर्शी समागमे
।
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥३१॥
विप्रयोगे विषयेण सह वियोगे त्यागी न किं तु सत्यपि समागमे यो विषयदोषदर्शी स एव त्यागी । स एव च विरागं भजते । निर्वैरश्च द्वेषाभावान्निरवग्रहः प्रतिबन्धशून्यः॥३१॥
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्
।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥३२॥
मित्राणि धनानि च प्राप्य तेषु स्नेहं न लिप्सेत न कामयेत् । मित्रेभ्य इत्यादिके ल्यब्लोपे पञ्चम्यौ । किं च स्वशरीराल्लिङ्गाख्यात्समुत्थम् उत्पन्नमपि स्नेहं ज्ञानेन भोग्यानामवस्तुत्वानित्यत्वज्ञानेन नाशयेत् ॥३२॥
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु
।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥३३॥
ज्ञानान्वितेषु नित्यानित्यविवेकवत्सु । युक्तेषु नित्यवस्तुप्राप्तये उद्युक्तेषु तत एव शास्त्रज्ञेषु कृतात्मसु ध्यानेन संस्कृतचित्तेषु तेषु प्रसिद्धेषु स्नेहो रागो न सज्जते न संगं प्राप्नोति ॥३३॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते
।
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥३४॥
रागः रम्यवस्तुदर्शने चित्तस्योत्फुल्लता कामस्तल्लिप्सा । इच्छालब्धे तस्मिन् रुच्यतिशयात्पुनस्तदभिलाषः पुनःपुनस्तल्लाभेप्यतृप्तिस्तृष्णा ॥३४॥
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता
।
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥३५॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥३६॥
जीर्यतः जरामृत्युग्रस्तस्य ॥३६॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्
।
विनाशयति भूतानि अयोनिज इवानलः॥३७॥
अनाद्यन्ता तन्मूलवासनानामनादित्वात् अन्तर्देहः बाह्यतरो देहोऽन्नमयः बाह्यो लिङ्गशरीरम् अंतर्देहो मनस्तद्गता अयः तप्तायःपिण्डं निजः स्वरूपस्थः अनलो वह्निः अयोनिजमिवानलमिति पाठे तु नास्ति अलं पर्याप्तिर्यस्य तत् इन्धनसहस्रैरतृप्तं तेजोऽग्न्याख्यमिति विशेष्यमध्याहृत्य योज्यम् ॥३७॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति
।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति॥३८॥
अकृतात्मा अनिर्जितचेताः ॥३८॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि
।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥३९॥
तथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि
।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥४०॥
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्
।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः॥४१॥
केषांचित् मूढानां धीमतामप्यर्थो न आत्यन्तिकश्रेयस्कर इत्याह अर्थश्रेयसि अर्थसाध्ये श्रेयसि ज्योतिष्टोमादौ ॥४१॥
तस्मादर्थागमाः सर्वे मनो मोहविवर्धनाः
।
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥४२॥
कार्पण्यम् अर्थव्ययोपस्थितौ दैन्यं दर्पः परपरिभवेच्छा । मानः अहमेव श्रेष्ठः इति मतिः भयं स्वोच्छेदशङ्का उद्वेगः शङ्काकृतं चित्तस्यानवस्थितत्वम् ॥४२॥
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
।
अर्थस्योत्पादने चैव पालने च तथा क्षये॥४३॥
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्
।
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥४४॥
सहन्ति सहन्ते ॥४४॥
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्
।
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥४५॥
अर्थाः दुःखं प्रयच्छन्ति यदि परित्यक्तमिष्यन्ते तस्मात् नाशम् अर्थार्जनादिजं दुःखं न चिन्तयेत् ॥४५॥
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्
।
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥४६॥
पिपासायाः तृष्णायाः ॥४६॥
अनित्यं यौवनं रूपं जीवितं रत्नसञ्चयः
।
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥४७॥
न गृध्येत् इच्छां न कुर्यात् तत्र यौवनादौ ॥४७॥
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च
।
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः
।
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते॥४८॥
संचयान् अर्थान् तज्जान् अर्थत्यागजान् अनीहार्थः यदृच्छालब्धोऽर्थः ॥४८॥
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता
।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥४९॥
न स्पर्शनम् अस्पर्शनं सुप्सुपेऽपि न शब्देन नैकधेत्यादिवत्समासः ॥४९॥
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि
।
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥५०॥
एवं सर्वेषु अर्थवत् यौवनादिषु अर्थतः धनात् ॥५०॥
युधिष्ठिर उवाच।
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम
।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥५१॥
अर्थोपभोगः विषयोपभोगः अर्थेप्सुता धनेप्सुता । ‘अर्थःप्रकारे विषये वित्तकारणवस्तुषु’ इति विश्वः । आत्मोपभोगेति पाठो निर्मूलः ॥५१॥
कथं त्वस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे
।
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥५२॥
संविभागो हि भूतानां सर्वेषामेव दृश्यते
।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥५३॥
भूतानामिति । देवपितृमनुष्याणामुपलक्षणं दृश्यते पञ्चमहायज्ञेषु । अपचमानेभ्यः ‘यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ’ इति स्मृतेर्यत्यादिभ्यः ॥५३॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥५४॥
तृणान्यासनार्थानि ॥५४॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्
।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥५५॥
स्थितश्रान्तस्य स्थितः ऊर्ध्वं स्थितः तत्सहितस्य श्रान्तस्य च आसनं तृणमयं दद्यादतिथये इति शेषः ॥५५॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्
।
उत्थाय चासनं दद्यादेष धर्मः सनातनः
।
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥५६॥
न्यायेन वर्णाश्रमानुरूप्येण ॥५६॥
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः
।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥५७॥
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्
।
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥५८॥
वृथा श्राद्धयज्ञादिनिमित्तं विना । ‘देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक्’ इति स्मृतेः यत् अन्नं न निर्वपेत् न दद्यात् देवपितृभूतमनुष्येभ्य इति शेषः ॥५८॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥५९॥
विश्वं सर्वजातीयं प्राणिजातं देवो देवता यस्मिन् तत् विश्वेदेवं स्वार्थे तद्धितः वैश्वदेवं नाम कर्म॥५९॥
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः
।
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम्॥६०॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्
।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥६१॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥६२॥
अपरिक्लष्टं कार्पण्यं विना अध्वनि वर्तते मार्गस्थाय ॥६२॥
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे
।
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥६३॥
धर्मं परं गार्हस्थ्यात्परो धर्मो नास्तीति भावः ॥६३॥
शौनक उवाच।
अहो बत महत्कष्टं विपरीतमिदं जगत्
।
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥६४॥
अपत्रपते निर्लज्ज इति अपवादं लभते ॥६४॥
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु
।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥६५॥
अप्राज्ञ इति छेदः प्रकर्षेण अज्ञ प्राज्ञ इति वा शिश्नोदरकृते इति दिव्याङ्गनाभोगलिप्सया दिव्यरूपादिभोगलिप्सया च विघसं देवताद्युपयुक्तशेषं कामुको बहु करोति मोह आत्माज्ञानं रागस्तज्जे प्रपञ्चे प्रीतिः वशम् इच्छा ऐश्वर्यं वा तैः आक्रान्तः ‘वशमिच्छाप्रभुत्वयोः’ इति विश्वः । इन्द्रियार्थाः शब्दादययस्तेषां वश अयत्तता तदनुगः तदर्थी ॥६५॥
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः
।
विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः॥६६॥
हारिभिः हरणशीलैः एवं वर्णाश्रमाभिमानपूर्वकं यज्ञादीननुतिष्ठतामात्मस्वरूपाज्ञानात्तत्तत्कर्मफलतया उपस्थितेषु विषयेषु रागवतामिन्द्रियैर्विषयान्प्रतिहृतानां तत्र निमग्नचित्तानां परमार्थस्यात्यन्तास्फुरणलक्षणं विमूढसंज्ञत्वं भवतीत्युक्तम् ॥६६॥
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा
।
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥६७॥
तदुपपादयति षडिति । दीपप्रभावत् तैजसं मनः नेत्रादिद्वारा तत्तद्विषयं प्रति गत्वा तदावरकमज्ञानमभिभाव्य तं विषयं प्रकाशयति यदा तदैषां विषयविदां मनः तत्तद्विषयहानोपादानोपेक्षा लोचनाख्यमननात्मकमन्तःकरणं प्रादुर्भवति विशेषेण पीनं भवति । तत्र पूर्वसंकल्पजं यथापूर्वसंस्कारम् । हीनेप्युपादेयबुद्धिरुत्तमेहानबुद्धिर्विपरता वा बुद्धिर्भवति सोऽयं मनःप्रादुर्भावः ॥६७॥
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्
।
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥६८॥
तस्मिंश्च जाते किं स्यात्तदाह मनो यस्येति यस्य पुंसः मनः इन्द्रियस्य इन्द्रियाणां विषयान् शब्दादीन् सेवितुं याति उच्चलति तस्य तद्विषयभोगार्थम् औत्सुक्यं विलम्बासहत्वं भवति च ततः प्रवृत्तिर्जायते ॥६८॥
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः
।
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥६९॥
प्रवृत्तश्च लोभाग्नौ मोहाग्नौ पतति यतः कामेन विषयबाणैर्निहतः अतिरागान्मुह्यतीत्यर्थः॥६९॥
ततो विहारैराहारैर्मोहितश्च यथेप्सया
।
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥७०॥
महामोहे अन्धे तमधि ॥७०॥
एवं पतति संसारे तासु तास्विहयोनिषु | अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥७१॥
अविद्या आत्माज्ञानं ततः परमानन्दतिरोधानात्क्षुद्रानन्दप्राप्तये कर्म। ततस्तत्फलभोगेष्वतृप्तिस्तृष्णा ॥७१॥
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते
।
जले भुवि तथाकाशे जायमानः पुनः पुनः॥७२॥
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु
।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥७३॥
अबुधानां गृहस्थानां विघसाशनमेव परमो धर्म इति मन्वानानां गतिः कर्मनिष्ठाफलम् उक्तम् । बुधानां तेभ्योऽन्येषां संस्यासिनामपि गतिं मे मत्तः शृणु। धर्मे श्रेयसि प्रवृत्तिधर्मोऽपि प्रशस्यः निवृत्तिधर्मः प्रशस्यतरः तस्मिन् रताः अत एव विमोक्षरतयः ॥७३॥
तदिदं वेदवचनं कुरु कर्म त्यजेति च
।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥७४॥
तदिदमिति । ‘कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः’ इति । ‘त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इति च द्विविधा अपि श्रुतयः सन्ति तत्र येऽभिभानात्कर्म कुर्वते ते पूर्वोक्तरीत्यान्धं तमो विशन्ति । ये च शुद्धाः संन्यासिनस्ते कृतकृत्या एव भवन्ति तव तु मध्यमस्य गतिरियमित्याह तस्मादिति । तथा च वक्ष्यति । ‘एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्’ इति ॥७४॥
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः
।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥७५॥
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः
।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥७६॥
पितृयाणपथे धूमादिमार्गे आवृत्तिफले कर्त्तव्यम् अवश्यानुष्ठेयं नित्याग्निहोत्रसंध्योपासनादि अभिमानात्संगात् ॥७६॥
उत्तरो देवयानस्तु सद्भिराचरितः सदा
।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥७७॥
उत्तरश्चतुवर्गः सत्यं दमः क्षमा अलोभश्च देवयानोऽर्चिरादिमार्गोऽनावृत्तिफलः अष्टाङ्गेन वक्ष्यमाणसंकल्पसंबन्धाद्यङ्गाष्टकवता मार्गेण प्रकारेण यत्कर्तव्यं तदाचरेदिति पूर्वेण संबन्धः । शुद्धात्मा शुद्धचित्तः ॥७७॥
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्
।
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥७८॥
संकल्पो मानसं कर्म तस्य संबन्धो निरोधः तेन अन्तरिन्द्रियनिग्रहाख्यः शम उक्तः । इन्द्रियनिग्रहो दमः । व्रतविशेषः अहिंसादीनि व्रतानि तेषां विशेषः - सार्वभौमत्वम् । सर्वदेशे कालेषु च सर्वप्रकारेण हिंसात्याग इत्यर्थः ॥७८॥
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्
।
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात्॥७९॥
आहारो हितमितमेध्याशनं तस्य योगात् कर्मणां विधिवत् त्यागः ततश्चित्तनिरोधनात् ॥७९॥
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः
।
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥८०॥
रुद्राः साध्यास्तथादित्या वसवोऽथ तथाश्विनौ
।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥८१॥
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्
।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥८२॥
पितृमात्रमयी सिद्धिः प्राप्ता कर्ममयी च ते
।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥८३॥
कर्ममयी यज्ञयुद्धादिकर्मरूपसाधनप्रधानासिद्धिः । पितृमातृमयी ‘द्यौः पिता पृथिवी माता’ इति श्रुतेः। परलोकइहलोकफलप्रधाना सा त्वया प्राप्तैव । चकार एव शब्दार्थः। तपसा देवताध्यानजपादिना या सिद्धिस्ताम् ॥८३॥
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्
।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥८४॥
अनुग्रहात्तपस इति शेषः॥८४॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥२॥
वैशंपायन उवाच।
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः
।
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्॥१॥
शौनकेनेति ॥१॥
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः
।
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः॥२॥
परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे
।
कथमत्र मया कार्यं तद्ब्रूहि भगवन्मम॥३॥
वैशंपायन उवाच।
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्
।
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः॥४॥
धर्मेण योगमयेन न तु कर्मणा ॥४॥
धौम्य उवाच।
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्
।
ततोऽनुकम्पया तेषां सविता स्वपिता यथा॥५॥
सूर्याराधनं विवक्षुः सूर्यस्य सार्वात्म्यं तावदाह प्ररोचनार्थम् । सविता प्रसविता उत्पादकः परमात्मेत्यर्थः॥५॥
गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः
।
दक्षिणायनमावृत्तो महीं निविशते रविः॥६॥
तेजोरसान् जलानि उद्धृत्य आदाय महीं निविशते स्वोष्मणामहीं वासयति ॥६॥
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः
।
दिवस्तेजः समुद्धृत्य जनयामास वारिणा॥७॥
ओषधीपतिश्चन्द्रः दिवस्तेजः अन्तरिक्षगतं मेघाकारेण परिणतं तेजः उद्धृत्य मेघानुद्भाव्येत्यर्थः जनयामास तदुत्थेन वारिणा ओषधीः ॥७॥
निषिक्तश्चन्द्रतेजोभिः स्वयोनौ निर्गते रविः
।
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि॥८॥
स्वयोनौ बीजे निर्गते अङ्कुरादिरूपेण निष्पन्ने सति रविरेव ओषधीरूपो भवति । तदन्नं ताभ्य औषधीभ्योऽन्नम् अदनीयं धान्यं तच्च पुनर्जलोष्मयोगादङ्कुरादिक्रमेण धान्ययोनिरिति रविरेवान्नम् अन्नयोनित्वात् । अन्ये तु यदा दर्शे चन्द्रे स्वयोनौ सूर्य एकतां गच्छति तदा चन्द्रतेजोभिरमृतमयैर्निषिक्तो भवति ततश्चन्द्ररूपेण बहिर्निर्गत्य ओषधीराप्यायति तेनान्नं भवतीत्याहुः ॥८॥
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्
।
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज॥९॥
राजानो हि महात्मानो योनिकर्मविशोधिताः
।
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्॥१०॥
भीमेन कार्तवीर्येण वैन्येन नहुषेण च
।
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः॥११॥
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः
।
तप आस्थाय धर्मेण द्विजातीन्भर भारत॥१२॥
तपोयोगः व्रतस्वीकारः तत्पूर्वकःसमाधिर्ध्यानं तत्स्थैः तन्निष्ठैः धर्मेण ध्यानेन ॥१२॥
जनमेजय उवाच।
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः
।
विप्रार्थमाराधितवान्सूर्यमद्भुतदर्शनम्॥१३॥
वैशम्पायन उवाच।
शृणुष्वावहितो राजन्शुचिर्भूत्वा समाहितः
।
समं च कुरु राजेन्द्र सम्प्रवक्ष्याम्यशेषतः॥१४॥
धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने
।
नामाष्टतमाख्यातं तच्छृणुष्व महामते॥१५॥
धौम्य उवाच।
सूर्योर्यमा भगस्त्वष्टा पूषार्कः सविता रविः
।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः॥१६॥
सूर्योर्यमेति । अत्र सूर्योपाधिकं ब्रह्म सर्वकर्तृत्वसर्वज्ञत्वसर्वात्मत्वादिभिर्धर्मैः स्तूयते तद्यथा सूर्यः सूते आलोकमिति सूर्यः १ अर्यमा गतिमत्वात् २ भगः सर्वैश्वर्यसंपन्नत्वात् ३ त्वष्टा विश्वशिल्पकरत्वात् ४. पूषा पोषकः ५ अर्कः अर्चनीयः ६ सविता जगत्प्रसवनात् ७ रविः वेदत्रयीशब्दमयः ८ गभस्तिमान् सहस्रकिरणः ९ अजोऽनादिः १० कालः मुहूर्तादिः तत्प्रवर्तकत्वात् ११ मृत्युः प्राणहर्ता १२ धाता जगत्कर्ता १३ प्रभाकरः दीप्तिकरः १४ ॥१६॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च॥१७॥
पृथिवीत्यादिनामभिः सार्वात्म्यस्यैव प्रपञ्चः । परायणं मूलकारणम् २० ॥१७॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः
।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः॥१८॥
२८ शुचिरग्निः २९ शौरिः कृष्णः ३० ॥१८॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः॥१९॥
४० तेजसां पतिः सूर्यः ४१ धर्मध्वजो धर्मप्रधानः ४२ । ४३ वेदाङ्गः वेदशरीरः त्रयीमयत्वात् ४४ । ४५ ॥१९॥
कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः
।
कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः॥२०॥
४८ कलिः सर्वमलाश्रय इत्येकं नाम ४९ ॥२०॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः॥२१॥
अश्वत्थः संसारवृक्षः स एव संवत्सरकरः न तु षष्ठः पदार्थः कालो नाम कश्चिदस्ति कालोपाधिभूतं द्रव्यमेव स्वस्य अतीतानागतादिव्यवहारहेतुर्भवतीति भावः ५६ कालचक्रः कालप्रवर्तको यो विभावसुः स इत्येकं नाम ५७ पुरुषः पूर्षु कर्मेन्द्रियपञ्चकज्ञानेन्द्रियपञ्चकमनआदिचतुष्टयप्राणादिपञ्चकभूतपञ्चककामकर्माविद्याख्यासु वसतीति पुरुषः जीवरूपः ५८ स एव शाश्वत आद्यन्तशून्यः ५९ योगी कर्मज्ञानाधिकारी ६० व्यक्ताव्यक्तः कार्यकारणात्मा ६१ सनातनो निरुपाधिः ६२ ॥२१॥
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
।
वरुणः सागरोंशश्च जीमूतो जीवनोरिहा॥२२॥
६५ तमोनुदः अज्ञानहन्ता मोक्षद इत्यर्थः ६६ अंशः अंशयति विभाजयति कर्मफलानीत्यंशः ६९।७० जीवनः जलवज्जीवनहेतुः ७१।७२॥२२॥
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः
।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः॥२३॥
संवर्तकः प्रलयकालिको वह्निरित्येकम् ७७॥२३॥
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः
।
जयो विशालो वरदः सर्वधातुनिषेचिता॥२४॥
सर्वेषां धातूनां त्वगादीनां देहगतानां निषेचिता सेचक आप्यायकः ८८ ॥२४॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः
।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः॥२५॥
मनोरूपीसुपर्ण इत्येकं ८९ भूतादिरहंकारः ९० आदिदेवोऽदितेः सुत इत्येकं नाम विष्णुरित्यर्थः ९५ ॥२५॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः
।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥२६॥
पितामाता पितामहः द्यावापृथिव्योः पिता हिरण्यगर्भस्तस्यापि पितेत्यर्थः ९८ स्वर्गद्वारं ब्रह्मलोकप्राप्तिद्वारं ‘सूर्यद्वारेण ते विरजाः प्रयान्ति’ इति श्रुतेः तदेव प्रजाद्वारम् ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्टते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति क्रमेण इहपरलोकप्रापक इत्यर्थः ९९ मोक्षद्वारं क्रममुक्तिस्थानभूतं त्रिविष्टपं स्वर्गभूमिरित्येकम् १०० ॥२६॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः॥२७॥
मैत्रेयः मित्रेषु सर्वभूताभयप्रदेषु साधुर्मैत्रेयः १०७ करुणान्वित इति पतितव्रात्यादीनामपि त्रातेत्यर्थः १०८ ॥२७॥
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः
।
नामाष्टशतकं चेदं प्रोक्तमेतत्स्वयंभुवा॥२८॥
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्
।
वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम्॥२९॥
सूर्योदये यः सुसमाहितः पठेत्सपुत्रदारान्धनरत्नसञ्चयान्
।
लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान्॥३०॥
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचि सुमनाः समाहितः
।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान्॥३१॥
शुचिश्चासौ सुमनाश्चेति कर्मधारयः। शोक एव दवाग्निर्यस्मिन् तस्मात्सागरात् सागरवदपारात्संसारात् ॥३१॥
वैशम्पायन उवाच।
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः
।
विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः॥३२॥
विप्रत्यागसमाधिस्थः विप्रेभ्यस्त्यागः त्यज्यमानमन्नं तदर्थं समाधिस्थः नियमस्थः । यूपदार्वादिवत् प्रकृतिविकाराभावेऽपि चतुर्थीसमासः । अश्वघासादिवत्षष्ठीसमासो वा । संयतात्मा नियमितचित्तः॥३२॥
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्
।
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्॥३३॥
तपः सूर्याष्टशतनामजपाख्यम् ॥३३॥
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत्
।
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः॥३४॥
योगं चित्तैकाग्र्यम् आस्थाय कृत्वा ॥३४॥
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्
।
शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः॥३५॥
प्राणानाम् आसमन्तात् यमनं निग्रहस्तेन प्राणायामेन । आरब्धवान् ततः जपानन्तरम् ॥३५॥
युधिष्ठिर उवाच।
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्
।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्॥३६॥
चक्षुः चक्षुरादिप्रवर्तकत्वात् बाह्यरूपेण च चक्षुरनुग्राहकत्वात् । अत एव सर्वदेहिनामात्मा योनिः उत्पत्तिलयस्थानं भूतानां वियदादीनाम् आचारः आसमन्ताच्चारयतीत्याचारोऽन्तर्यामी॥३६॥
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम्
।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम्॥३७॥
सांख्यानां ज्ञाननिष्ठानां योगिनां चित्तनिरोधकानाम् अनावृतार्गलद्वारं त्वम् आवृणोतीत्यावृतं कपाटं कर्त्तरि क्तः अर्गलाकपाटविष्टम्भकं तिर्यक्काष्ठं तदुभयरहितं मुक्तिद्वारं त्वं मुमुक्षतां गतिश्च त्वमेव प्राप्यं पदमपि त्वमेवेत्यर्थः ॥३७॥
त्वया संवार्यते लोकस्त्वया लोकः प्रकाश्यते
।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया॥३८॥
निर्व्याजं राजवत्प्रत्युपकाराशाख्यं मिषं विना केवलं कृपयैवेत्यर्थः ॥३८॥
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः
।
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चितम्॥३९॥
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः
।
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः॥४०॥
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः
।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः॥४१॥
त्रयस्त्रिंशत् ‘अष्टौ वसव एकादशरुद्रा द्वादशादित्या प्रजापतिश्च वषट्कारश्च’ इति श्रुतिप्रसिद्धाः गणास्तदन्यानि विश्वेदेवादीनि समुदायदैवतानि सिद्धिं ज्ञानम् ॥४१॥
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः
।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः॥४२॥
उपयान्ति त्वामेव त्वाम् अर्चयित्वा तु प्राप्तमनोरथा भवन्ति ॥४२॥
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः
।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम्॥४३॥
सप्तार्यमाग्निष्वात्तादयः प्रधानतां जगत्कारणताम् ॥४३॥
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः
।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः॥४४॥
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च
।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते॥४५॥
अस्य सार्वात्म्यमाह सब्रह्मकेष्विति । न मन्ये नास्तीति मन्ये सर्वस्यैकात्म्यात् ॥४५॥
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च
।
न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव॥४६॥
ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः
।
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः॥४७॥
सत्यं सत् पृथिव्यप्तेजांसि । त्यत् वाय्वाकाशौ तदात्मकं सत्यम् । सत्त्वं बुद्धिसत्त्वं सात्त्विका भावाः धर्मो ज्ञानं विराग ऐश्वर्यमित्याद्याः ॥४७॥
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा
।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना॥४८॥
सुनाभं सुदर्शनम् ॥४८॥
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्
।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि॥४९॥
तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः
।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः॥५०॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः
।
शीतवातार्दितं लोक यथा तव मरीचयः॥५१॥
प्रावाराः वस्त्रविशेषाः ॥५१॥
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्
।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे॥५२॥
त्रयोदशद्वीपवतीं सुदर्शनाद्यवान्तरद्वीपयोगात् गोभिः रश्मिभिः ॥५२॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत्
।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः॥५३॥
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः
।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः॥५४॥
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम्
।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः॥५५॥
मनूनां मनुपुत्राणां जगतोऽमानवस्य च
।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः॥५६॥
अमानवस्येति छेदः अमानवोऽर्चिरादिमार्गेण गतस्य बह्मलोकप्रापकः पुरुषः ॥५६॥
संहारकाले संप्राप्ते तव क्रोधविनिःसृतः
।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते॥५७॥
त्वद्दीधितिसमुत्पन्ना नानावर्णा महाघनाः
।
सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम्॥५८॥
त्वद्दीधितयस्त्वत्किरणाः सैरावताः मेघस्योपरि यो मेघः स ऐरावतस्तत्सहिताः । आभूतं यावच्चतुर्विधभूतग्रामं तस्य संप्लवः जलेनाभिप्लावनम् ॥५८॥
कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः
।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः॥५९॥
द्वादशधा ‘अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा’ इत्यादिस्मृत्युक्तारुणादिरूपेण ॥५९॥
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः
।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम्॥६०॥
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः
।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च॥६१॥
हन्ति गच्छति विश्वं संहरतीति वा हंसः । वृषाकपिः हरो हरिर्वा ॥६१॥
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः
।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा॥६२॥
गवां रश्मीनाम् ॥६२॥
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः
।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे॥६३॥
सप्तसप्तिः सप्ताश्वः धामकेशी ज्योतिर्मयकिरणवान् आशुगामीत्यत्राशावह इति पाठे दिग्व्यवहारनिर्वाहकः आशायाः प्रसिद्धाया इष्टार्थसमर्पणेन पूरको वा ॥६३॥
सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः
।
अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम्॥६४॥
अनिर्विण्णः पूजने आसक्तः ॥६४॥
न तेषामापदः सन्ति नाधयो व्याधयस्तथा
।
ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम्॥६५॥
सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः
।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः॥६६॥
त्वद्भावभक्ताः सूर्य एव सर्वत्रास्तीति भावो भावना तत्र भक्ता आदृताः ॥६६॥
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः
।
अन्नमन्नपते दातुमभितः श्रद्धयार्हसि॥६७॥
श्रद्धया आतिथ्यं चिकीर्षत इति संबन्धः ॥६७॥
ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः
।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान्॥६८॥
अशनिक्षुभान् विद्युदशन्यादिप्रवर्तकान् ॥६८॥
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः
।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम्॥६९॥
क्षुभामैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते भूतमातरः गौरीपद्मादयः ब्राह्मीमाहेश्वर्यादयश्च॥६९॥
वैशंपायन उवाच।
एवं स्तुतो महाराज भास्करो लोकभावनः
।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः॥७०॥
विवस्वानुवाच
।
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि
।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः॥७१॥
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप
।
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत॥७२॥
गृह्णीष्व गृहाण पिटरं पीरवेषणपात्रं ताम्रं ताम्रमयं वर्त्स्यति वृत्तिं जनजीविकारूपां करिष्यति पात्रेण पात्रप्रसूतेनान्नेन ॥७२॥
फलमूलामिषं शाकं संस्कृतं यन्महानसे
।
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति॥७३॥
यावद्वर्त्स्यति तावदन्नाद्यम् ओदनादिकम् अक्षय्यं भविष्यतीति संबन्धः । चतुर्विधं लेह्य चोष्यं भक्ष्यं पेयं च ॥७३॥
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि
।
वैशंपायन उवाच।
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत॥७४॥
इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन्
।
तत्तस्य दद्याच्च रविर्मनीषतं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम्॥७५॥
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः
।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
।
विद्यार्थी लभते विद्यां पुरुषोऽप्यथवा स्त्रियः॥७६॥
उभे सन्ध्ये पठेन्नित्यं नारी वा पुरुषो यदि
।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात्॥७७॥
एतद्ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने
।
शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम्॥७८॥
सङ्ग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु
।
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति॥७९॥
वैशंपायन उवाच।
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्
।
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे॥८०॥
द्रौपद्या सह संगम्य वन्द्यमानस्तया प्रभुः
।
महानसे तदानीं तु साधयामास पाण्डवः॥८१॥
महानसे पाकशालायां साधयामास कारयामास अन्नमिति शेषः ॥८१॥
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्
।
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्॥८२॥
संस्कृतं पक्वम् ॥८२॥
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि
।
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः॥८३॥
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती
।
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च
।
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः॥८४॥
पार्षती पृषतः द्रुपदपितुः गोत्रापत्यम् ॥८४॥
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः
।
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु
।
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः॥८५॥
यज्ञियार्थाः यज्ञार्हाणि वस्तूनि आज्यपशुपुरोडाशीयादीनि । प्रवर्तन्ते निःसरन्ति । विधिमन्त्रप्रमाणतः विधिर्वसन्ते वसन्त ज्योतिषा यजेतेत्यादिरज्ञातज्ञापनरूपः मन्त्रः अनुष्ठेयार्थस्मारकः इषेत्वेत्यादिः तावेव प्रमाणे ताभ्यामित्यर्थः ॥८५॥
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
।
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्॥८६॥
इति श्रीमहाभारते अरण्यके पर्वणि अरण्यपर्वणि काम्यकवनप्रवेशे तृतीयोऽध्यायः॥३॥
वैशम्पायन उवाच।
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः
।
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥१॥
ननु एवं कर्मजसिद्ध्यपेक्षया योगजसिद्धेः प्राबल्यं चेत् किमिति सर्वेऽपि तां नाद्रियन्त इत्याशंक्य मूढाः दृष्टद्वारकफलेष्वर्थेषु हितोपदेष्टारं द्विषन्ति किमुतादृष्टद्वारकेष्वित्याह वनं प्रविष्टेष्वित्यध्यायेन । आम्बिकेय इति पूर्वरूपमार्षम् ॥१॥
धृतराष्ट्र उवाच।
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम्
।
समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि॥२॥
सूक्ष्मो धर्मो ज्ञानं तद्वत्त्वादेव त्वं कौरवाणां पाण्डवधार्त्तराष्ट्राणां समः पक्षपातशून्यः । एषां पाण्डवानां मम च सपुत्रस्येति शेषः ॥२॥
एवं गते विदुर यदद्य कार्यं पौराश्च मे कथमस्मान्भजेरन्
।
ते चाप्यस्मान्नोद्धरेयुः समूलांस्तत्त्वं ब्रूयाः साधु कार्याणि वेत्सि॥३॥
एवं गते एवं पाण्डवप्रव्राजनाद्युक्तरूपे संकटे गते प्राप्ते सति । उद्धरेयुः उन्मूलयेयुः ॥३॥
विदुर उवाच।
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति
।
धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि पाण्डोः सुतांश्च॥४॥
स वै धर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः
।
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते॥५॥
स इति । य उक्तविधः स एव धर्मो युधिष्ठिररूपो विप्रलब्धः वञ्चितः अक्षवत्यां द्यूतक्रीडायां सत्या संधा प्रतिज्ञा यस्य तम् ॥५॥
एतस्य ते दुष्प्रणीतस्य राजञ्च्छेषस्याहं परिपश्याम्युपायम्
।
यथा पुत्रस्तव कौरव्य पापन्मुक्तो लोके प्रतितिष्ठेत साधु॥६॥
दुष्प्रणीतस्य दुरात्मभिः कृतस्य शेषस्य पाण्डवमानहानिलक्षणस्य वधस्य उपाय दोषप्रशान्तिप्रकारम् ॥६॥
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नभिसृष्टं त्वयासीत्
।
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥७॥
अभिसृष्टं दत्तं स्वकेन धनेनेति शेषः ॥७॥
यशो न नश्येज्ज्ञातिभेदश्च न स्याद्धर्मो न स्यान्नैव चैवं कृते त्वाम्
।
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः॥८॥
एवं कृते सति त्वां धर्मो न स्यादिति नैव किं तु स्यादेव । स्यादित्यव्ययं सज्जेदित्यर्थे ॥८॥
एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व
।
तथैतदेवं न करोषि राजन् ध्रुवं करूणां भविता विनाशः॥९॥
एवं कृत्वा शेषं नष्टावशिष्टं भाग्यम् ॥९॥
न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके
।
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्॥१०॥
येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु नाप्राप्यमस्ति
।
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्॥११॥
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ
।
इदं च राजन्हितमुक्तं न चेत्त्वमेवं कर्ता परितप्तासि पश्चात्॥१२॥
चकर्थ कृतवान् इदं च वक्ष्यमाणं च कर्ता करिष्यसि ॥१२॥
यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्
।
तापो न ते भविता प्रीतियोगान्न चेन्निगृह्णीष्व सुतं सुखाय॥१३॥
एकराज्यं यदि अनुमन्ता तर्हि तापा न भविता। न चेत् यदि वानुमन्ता तर्हि सुतं निगृह्णीष्व ॥१३॥
दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं तत्कुरुष्वाधिपत्ये
।
अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन्॥१४॥
पक्षान्तरमाह दुर्योधनमिति ॥१४॥
ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः
।
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रा भजन्तु॥१५॥
दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च
।
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य॥१६॥
याचतु मदपराधं क्षमस्वेति प्रार्थयतु ॥१६॥
त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन्॥१७॥
धृतराष्ट्र उवाच।
एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च
।
हितं तेषामहितं मामकानामेतत्सर्वं मम नावैति चेतः॥१८॥
नावैति नाङ्गीकरोति ॥१८॥
इदं त्विदानीं गत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ
।
तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्॥१९॥
तत्र हेतुमाह इदमिति । तथा दुर्योधनबन्धनं युधिष्ठिराय राज्यप्रदानमित्येवं प्रकारकं सुखोपायं यत् आत्थ तत् इदं कुत एव निश्चितं न कुतश्चित् । गत इति पाठे पाण्डवानामर्थे गतः प्राप्त इत्यर्थः लब्धपदाः पाण्डवा मदीयान् न हिंस्युरित्यत्र नियामकं नास्तीति भावः ॥१९॥
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः
।
स्वं वै देहं परहेतोस्त्यजेति को न ब्रूयात्समतामन्ववेक्ष्य॥२०॥
स मां जिह्मं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकं धारयामि
।
यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति॥२१॥
जिह्मं कुटिलम् ॥२१॥
वैशम्पायन उवाच।
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन्
।
नेदमस्तीत्यथ विदुरो भाषमाणः सम्प्राद्रवद्यत्र पार्था बभूवुः॥२२॥
नेदमस्ति इदं कुलम् ॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि विदुरवाक्यप्रत्याख्याने चतुर्थोऽध्यायः॥४॥
वैशम्पायन उवाच।
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः
।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः॥१॥
हितोपदेशेऽपि दुष्टाः कुप्यन्तीत्युक्त्वा सन्तस्तत्रैव तुष्यन्तीत्याह पाण्डवा इत्यध्यायेन ॥१॥
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते
।
ययुर्वनेनैव वनं सततं पश्चिमां दिशम्॥२॥
ततः सरस्वतीकूले समेषु मरुधन्वसु
।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्॥३॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे
।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत॥४॥
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः
।
जगामैकरथेनैव काम्यकं वनमृद्धिमत्॥५॥
ततो गत्वा विदुरः काम्यकं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन
।
ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च॥६॥
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसन्धः स राजा
।
अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य॥७॥
आरात् दूरतः ॥७॥
कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयातः
।
कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम्॥८॥
समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम्
।
गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः॥९॥
आद्रव आगच्छ अपयातुं निवर्तितुं संशयिते पणीकृते सति कथं नः राज्यप्राप्तिः यतः संशयिता गाण्डीवनाशादित्यर्थः ॥९॥
वैशम्पायन उवाच।
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव
।
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात्॥१०॥
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम्
।
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽम्बिकेयः॥११॥
यथावृत्तः यादृशाचारः॥११॥
विदुर उवाच।
अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य
।
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि॥१२॥
अनुगुप्तम् अनुरक्षितारं हितोपदेशेनेति शेषः कर्तरि क्तः ब्रवीहीत्यवोचदिति संबन्धः ॥१२॥
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव
।
तद्वै तस्मै न रुचामभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये॥१३॥
रुचां प्रीतिम् अन्यत् साम्नोऽन्यत् वैरम् ॥१३॥
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः
।
यथातुरस्येव हि पथ्यमन्नं न रोचतेस्मास्य तदुच्यमानम्॥१४॥
न श्रेयसे नीयतेऽजातशत्रो स्त्रीश्रोत्रियस्येव गृहे प्रदुष्टा
।
ध्रुवं नरो चेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥१५॥
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति
।
यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन्॥१६॥
परैति परामृशति पुष्करस्य कमलस्य ॥१६॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिन्श्रद्धा भारत तत्र याहि
।
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा॥१७॥
श्रद्धा इष्टोऽयमिति धीः ॥१७॥
सोऽहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र
।
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः॥१८॥
धार्यतां न विस्मर्तव्यम् ॥१८॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः
।
संवर्धयन्स्तोकमिवाग्निमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव॥१९॥
उपासते उपास्ते प्रतीक्षते तृणैः स्तोकम् अग्निमिव आत्मानं सहायसंपत्या संवर्धयन् एक एव शत्रूणां कार्त्स्न्येनोच्छेदात् ॥१९॥
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः
।
सहायानामेष सङ्ग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः॥२०॥
सहायार्जनोपायमाह यस्येति । अविभक्तं साधारणं । वसु वित्तम् ॥२०॥
सत्यं श्रेष्ठं पाण्डवविप्रलपं तुल्यं चान्नं सह भोज्यं सहायैः
।
आत्मा चैषामग्रतो न स्म पूज्य एवंवृत्तिर्वर्धते भूमिपालः॥२१॥
विप्रलापं विगतः प्रलापोऽनर्थकं वचो यस्मात्तत्तथा पूज्यः स्तव्यः वनवासान्ते बहुना धनेन बहून्सहायान्प्राप्य त्वमेव शत्रूच्छेदं कृत्वा राज्यं प्राप्स्यसीत्यर्थः ॥२१॥
युधिष्ठिर उवाच।
एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः
।
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि विदुरनिर्वासे पञ्चमोऽध्यायः॥५॥
वैशम्पायन उवाच।
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति
।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥१॥
गते इति । महाप्राज्ञः विदुरोपदेशे स्थितानां जयो भविष्यतीति जानन् ॥१॥
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्
।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥२॥
सन्धिविग्रहकारितं सन्धिविग्रहादिनीतिज्ञत्वकृतम् । भविष्यति आगामिनि काले ॥२॥
स सभाद्वारमागम्य विदुरःस्मारमोहितः
।
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥३॥
विदुरस्मारमोहितः स्मरः कामः तस्मात्केनचित्प्रतिबद्धादुत्पन्नो द्वेषः स्मार इत्युच्यते । विदुरद्वेषेण मम नाशो भविष्यतीति चिन्तया मोहं प्राप्त इत्यर्थः स्नेहेत्यपपाठः ॥३॥
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्
।
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥४॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः
।
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥५॥
द्वेषमेव स्नेहेरूपेण नाटयितुं सभाद्वारे राज्ञां समक्षं पतित्वोत्थाय आह भ्रातेत्यादि ॥५॥
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै
।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥६॥
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः
।
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥७॥
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम
।
यदि जीवति रोषेण मया पापेन निर्धुतः॥८॥
निर्धुतः निःसारितः ॥८॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन
।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥९॥
व्यलीकम् अप्रियम् ॥९॥
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्
।
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥१०॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च
।
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति॥११॥
मानितः सन्नितरान्मानयित्वेत्यनुमान्येत्यस्यार्थः ॥११॥
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः
।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥१२॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः
।
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव पुरन्दरम्॥१३॥
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः
।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥१४॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः
।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः॥१५॥
सञ्जय उवाच।
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः
।
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम्॥१६॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्
।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम॥१७॥
वैशम्पायन उवाच।
एवमुक्तस्तु विदुरो धीमान्स्वजनवल्लभः
।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्॥१८॥
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः
।
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥१९॥
धृतराष्ट्रः प्रतापवानति पाठे मोहेन प्रकृष्टं तापं प्राप्त इत्यर्थः ॥१९॥
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ
।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥२०॥
प्रजागरे आधिभवायामुन्निद्रतायां विचित्रं विगतदिव्यवस्तुकम् अपेतलक्ष्मीकमित्यर्थः ॥२०॥
सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह
।
क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥२१॥
विदुर उवाच।
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्
।
एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः॥२२॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः
।
दीनाभिपातिनो राजन्नात्र कार्या विचारणा॥२३॥
पाण्डोः सुता यादृशा मे तादृशास्तव भारत
।
दीना इतीव मे बुद्धिरभिपन्नाद्य तान्प्रति॥२४॥
वैशम्पायन उवाच।
अन्योऽन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती
।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः॥६॥
वैशम्पायन उवाच।
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
।
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः॥१॥
श्रुत्वा चेति ॥१॥
स सौबलेयमानाय्य कर्णदुःशासनौ तथा
।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः॥२॥
अबुद्धिरज्ञानं तज्जं तमः रागद्वेषात्मकं मोहम् ॥२॥
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य धीमतः
।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हितेरतः॥३॥
सुहृत् शुभचिन्तकः हितेरतः शुभकर्ता ॥३॥
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति
।
पाण्डवानयने तावन्मत्रयध्वं हितं मम॥४॥
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन
।
पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः॥५॥
वारणो वा नवग्रह इति पाठे वा शब्द इवार्थे नवगृहीतो गज इवेत्यर्थः निरम्बुर्निरवग्रह इति पाठे निरवग्रहः प्रतिबन्धाभावेऽपि निरम्बुर्निराहारो भूत्वा शोषं गमिष्यामीत्यर्थः । ‘प्रतिबन्धेऽप्यवग्रहः’ इति विश्वः । निरयुरिति निरासुरिति च पाठौ चिन्त्यौ ॥५॥
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्
।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे॥६॥
मरणार्थं विषादिकं करिष्ये स्वीकरिष्ये ऋद्धान् ऋद्धिमतः ॥६॥
शकुनिरुवाच।
किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते
।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति॥७॥
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ
।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥८॥
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्
।
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति॥९॥
पणः कार्याकार्यविवेकलक्षणो व्यवहारः अस्माकमिति पाण्डवानपि गृहीत्वा उक्तम् ॥९॥
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः
।
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥१०॥
छिद्रं समयातिक्रमदोषं बहु बहुलं प्रपश्यन्तोऽन्येऽपि सुसंवृताः। पाण्डवेभ्योऽधर्मवद्भ्यो भीताः सन्तो निलीय स्थास्यन्तीत्यर्थः ॥१०॥
दुःशासन उवाच।
एवमेतन्महाप्राज्ञ यथा वदसि मातुल
।
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥११॥
कर्ण उवाच।
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्
।
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये॥१२॥
नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्
।
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय॥१३॥
वैशम्पायन उवाच।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
।
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः॥१४॥
नातिहृष्टमनाः पाण्डवानां निन्दायां सत्यामपि आगमनासहिष्णुत्वात् । कर्णेन स्वपराक्रमयोग्यस्य वचनस्यानुक्तेश्च ॥१४॥
उपलभ्य ततः कर्णो विवृत्य नयने शुभे
।
रोषाद्दुःशासनं चैव सौबलं च तमेव च॥१५॥
उपलभ्य दुर्योधनाशयमिति शेषः ॥१५॥
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना
।
अथो मम मतं यत्तु तन्निबोधत भूमिपाः॥१६॥
उद्यम्य उत्क्षिप्य आत्मानं देहम् ॥१६॥
प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः
।
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः॥१७॥
वयं किंकराः पाणय इव किंकरपाणयः । पश्यन्तश्चारचक्षुषेतिवत् । किं कुर्म इति कृत्वा कृताञ्जलिपाणय इति प्राञ्चः । प्रियं चिकीर्षामो न तु शक्नुमः । प्रिये स्थातुमिति संबन्धः । धृतराष्ट्रेण निरुद्धत्वात् ॥१७॥
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः
।
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्॥१८॥
दंशिताः संनद्धाः॥१८॥
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्
।
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्॥१९॥
यावदेव परिद्यूना यावच्छोकपरायणाः
।
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम॥२०॥
परिद्यूनाः खिन्नाः वर्जितविजिगीषा वा शक्याः जेतुमिति शेषः ॥२०॥
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः
।
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा॥२१॥
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्
।
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः॥२२॥
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः
।
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा॥२३॥
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः
।
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि व्यासागमने सप्तमोऽध्यायः॥७॥
धृतराष्ट्र उवाच।
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्
।
मन्ये तद्विधिनाकृष्य कारितोऽस्मीति वै मुने॥१॥
भगवन्निति ॥१॥
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च
।
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥२॥
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्
।
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥३॥
व्यास उवाच।
वैचित्रवीर्यनृपते सत्यमाह यथा भवान्
।
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥४॥
परं शत्रुं शोकहेतुत्वात् परं श्रेष्ठं प्रीतिहेतुत्वात् ‘न कुपुत्रात्परः शत्रुर्न सत्पुत्रात्परः सखा’ इत्युक्तेः ॥४॥
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः
।
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥५॥
सुरभ्या देवधेन्वा अन्यैरन्नवस्त्रादिभिर्हेतुभिः परं श्रेष्ठं स्थानं न विद्यते अपि तु पुत्रादेव । तथा च श्रुतिः ‘अन्नं ह प्राणं शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः । सखा ह जायाकृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्’ इति ॥५॥
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम्
।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते॥६॥
अत्र पुत्रस्य शोकहेतुत्वेऽर्थे ॥६॥
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल
।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥७॥
अन्वकृपायत अनुकम्पितवान् ॥७॥
इन्द्र उवाच।
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्
।
मनुष्येष्वथ नागेषु नैतदल्पं भविष्यति॥८॥
सुरभिरुवाच।
विनिपातो न ते कश्चिद्दृश्यते त्रिदशाधिप
।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥९॥
कौशिक हे इन्द्र ॥९॥
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्
।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥१०॥
प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ॥१०॥
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप
।
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम
।
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥११॥
धुरं भारम् ॥११॥
अपरोप्यबलप्राणः कृशो धमनिसन्ततः
।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥१२॥
धमनिसंततः शिराभिर्व्याप्तः निर्मांस इत्यर्थः ॥१२॥
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः
।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥१३॥
वधो दण्डाघातेन तोदः प्रतोदेन ॥१३॥
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता
।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥१४॥
शक्र उवाच।
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने
।
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥१५॥
सुरभिरुवाच।
यदि पुत्रसहस्राणि सर्वत्र समतैव मे
।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥१६॥
व्यास उवाच।
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः
।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥१७॥
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्
।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥१८॥
उल्बणम् उत्कटम् ॥१८॥
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा
।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥१९॥
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक
।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥२०॥
चिराय तव पुत्राणां शतमेकश्च भारत
।
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥२१॥
मन्दाः त्वत्पुत्रवत्कपटानभिज्ञाः ॥२१॥
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि
।
इति दीनेषु पार्थेषु मनो मे परितप्यते॥२२॥
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि
।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि सुरभ्युपाख्याने नवमोऽध्यायः॥९॥
धृतराष्ट्र उवाच।
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने
।
अहं चैव विजानामि सर्वे चेमे नराधिपाः॥१॥
एवमिति । विनाशकाले साधूनपि मूढा अवजानन्तीत्यध्यायतात्पर्यम् ॥१॥
भवांश्च मन्यते साधु यत्कुरूणां महोदयम्
।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥२॥
यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि
।
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥३॥
व्यास उवाच।
अयमायाति वै राजन्मैत्रेयो भगवानृषिः
।
अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥४॥
अन्विष्य अवेक्ष्य भातॄन्पञ्चेति शेषः ॥४॥
एष दुर्योधनं पुत्रं तव राजन्महानृषिः
।
अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥५॥
अनुशास्ता अनुशासिष्यति ॥५॥
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया
।
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥६॥
अक्रियायाम् अकरणे कार्यस्य अवश्यकर्तव्यस्य ॥६॥
वैशम्पायन उवाच।
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत
।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥७॥
अर्घाद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्
।
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥८॥
क्रियाभिः सत्कारैः ॥८॥
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्
।
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥९॥
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः
।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥१०॥
मैत्रेय उवाच।
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्
।
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥११॥
यदृच्छया दैवात् ॥११॥
तं जटाजिनसंवीतं तपोवननिवासिनम्
।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥१२॥
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्
।
अनयं द्यूतरूपेण महाभयमुपस्थितम्॥१३॥
विभ्रमं द्यूतानर्थेऽप्यर्थबुद्धिम् ॥१३॥
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया
।
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥१४॥
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति
।
यदन्योऽन्येन ते पुत्रा विरोध्यन्ते कथञ्चन॥१५॥
औपयिकं योग्यम् ॥१५॥
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्
।
किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥१६॥
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन
।
तेन न भ्राजसे राजंस्तापसानां समागमे॥१७॥
मेढीभूतः खलदामस्तम्भीभूतः प्रग्रहे अनुग्रहे ॥१७॥
वैशम्पायन उवाच।
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्
।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥१८॥
व्यावृत्य अभिमुखीभूयेत्यर्थः ॥१८॥
मैत्रेय उवाच।
दुर्योधन महाबाहो निबोध वदतां वर
।
वचनं मे महाभाग ब्रुवतो यद्धितं तव॥१९॥
मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः
।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥२०॥
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः
।
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥२१॥
विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च वज्रसंहननाः वज्रकायाः अत एव दृढाः ॥२१॥
सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः
।
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥२२॥
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः
।
इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥२३॥
प्रद्रवतां गच्छताम् ॥२३॥
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः
।
तं भीमः समरश्लाघी बलेन बलिनां वरः॥२४॥
समरे जेतुमिति पाठे क्षम इत्यध्याहारः॥२४॥
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा
।
पश्य दिग्विजये राजन्यथा भीमेन पातितः॥२५॥
पशुमारेण पशुमारणप्रकारेण ॥२५॥
जरासन्धो महेष्वासो नागायुतबलो युधि
।
सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥२६॥
कस्तान्युधि समासीत जरामरणवान्नरः
।
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ॥२७॥
कुरु मे वचनं राजन्मा मन्युवशमन्वगाः
।
वैशम्पायन उवाच।
एव
ं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते॥२८॥
मन्युवशं क्रोधवशं मेति निषेधार्थो निपातः न तु माङ् ॥२८॥
ऊरुं गजकराकारं करेणाभिजघान सः
।
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्॥२९॥
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः
।
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्॥३०॥
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्
।
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः॥३१॥
विधिना सम्प्रणुदितः शापायास्य मनो दधे
।
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः
।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥३२॥
प्रणुदितः प्रेरितः प्रचुदित इति पाठेऽपि स एवार्थः॥३२॥
यस्मात्त्वं मामनादृत्य नैमां वाचं चिकीर्षसि
।
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥३३॥
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्
।
तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥३४॥
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः
।
प्रसादयामास मुनिं नैतदेवं भवेदिति॥३५॥
मैत्रेय उवाच।
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा
।
शापो न भविता तात विपरीते भविष्यति॥३६॥
वैशम्पायन उवाच।
विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा
।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥३७॥
विलक्षयन् भीमस्य बलं विशेषेण अयमस्मज्जय्यो नवेति राक्षसबलद्वारा लक्षयन् हेतौ शतृप्रत्ययः विलक्षण इति पाठे दुर्योधनस्य दुराग्रहेण शापभयाद्विच्छायः वलक्षस्तत्रेति पाठे वलक्षो धवलोर्जुनः इति कोशात् स एवार्थः॥३७॥
मैत्रेय उवाच।
नाहं वक्ष्यामि ते भूयो न ते शुश्रूषते सुतः
।
एष ते विदुरः सर्वमाख्यास्यति गते मयि॥३८॥
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्
।
किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥३९॥
किर्मीरवधसंविग्नः किर्मीरस्य वधो यस्मात्तस्माद्भीमसेनात्संविग्नः शत्रुयशो दुःखश्रवणमित्यर्थः ॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥१०॥