अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

किर्मीरवधपर्व

एकादशोऽध्यायः

किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।
रक्षसा भीमसेनस्य कथमासीत्समागमः॥१॥

किर्मीरस्येति ॥१॥

विदुर उवाच। शृणु भीमस्य कर्मेदमतिमानुषकर्मणः ।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनःपुनः॥२॥

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्॥३॥

रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप ।
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम्॥४॥

आभीले भयंकरे स्वाभीले इत्यपि पाठः ‘आभीलं भीषणे कृच्छ्रे’ इति विश्वः । अर्धसमयेऽर्धज्ञाने गते सति लोके तंद्रावति सतीत्यर्थः ‘समयः शपथाचारकाले सिद्धान्तसंविदोः’ इति विश्वः । संप्राप्ते इत्यपपाठः ॥४॥

तद्वनं तापसा नित्यं गोपाश्च वनचारिणः ।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल॥५॥

तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यपद्यत॥६॥

बाहू महान्तौ कृत्वा च तथास्यं च भयानकम् ।
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः॥७॥

स्पष्टाष्टदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् ।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्॥८॥

स्षष्टेति । अक्षिबलाक्रयोः केशार्करश्म्योर्दन्ततडितोश्चोपमोपमेयभावः तडिद्वक्रमित्यपपाठः॥८॥

सृजन्तं राक्षसीं मायां महानादनिनादितम् ।
मुञ्चन्तं विपुलान्नादान्सतोऽयमिव तोयदम्॥९॥

तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतो दिशम् ।
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह॥१०॥

संपेतुः एकीबभूवुः ॥१०॥

सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत्॥११॥

तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः ।
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान्॥१२॥

तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।
रजसा संवृतं तेन नष्टज्योतिरभून्नभः॥१३॥

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।
पञ्चानामिन्द्रियार्थानां शोकावेश इवातुलः॥१४॥

पञ्चानां शब्दादीनाम् इन्द्रियार्थानाम् इन्द्रियैरर्थ्यमानानां कृते शोकावेशः शोकागमः ॥१४॥

स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् ।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः॥१५॥

तं समासाद्य वित्रस्ता कृष्णा कमललोचना ।
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने॥१६॥

दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा ।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता॥१७॥

मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्॥१८॥

अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः॥१९॥

पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः॥२०॥

काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत ।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः॥२१॥

को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्॥२२॥

अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः॥२३॥

युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ।
के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम् ।
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः॥२४॥

वैशंपायन उवाच। युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।
आचचक्षे ततः सर्वं गोत्रनामादि भारत॥२५॥

युधिष्ठिर उवाच। पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः॥२६॥

हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।
वनमभ्यागतो घोरमिदं तव परिग्रहम्॥२७॥

विदुर उवाच। किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।
उपपादितमद्येह चिरकालान्मनोगतम्॥२८॥

भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्॥२९॥

सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।
अनेन हि मम भ्राता बको विनिहतः प्रियः॥३०॥

वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा ।
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्॥३१॥

वैत्रकीयवने एकचक्रायाम् ॥३१॥

हिडिम्बश्च सखा मह्यं दयितो वनगोचरः ।
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा॥३२॥

मह्यं मम॥३२॥

सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् ।
प्रचारसमयेऽस्माकमर्धरात्रे स्थिते समे॥३३॥

अद्यास्य पातयिष्यामि तद्वैरं चिरसम्भृतम् ।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा॥३४॥

अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च ।
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम्॥३५॥

लब्धास्मि लप्स्यामि ॥३५॥

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर॥३६॥

एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् ।
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्॥३७॥

महासुरं वातापिम् ॥३७॥

एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः ।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्॥३८॥

ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् ।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा॥३९॥

आरुज्य भङ्क्त्वा दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम् उद्विद्धम् उत्पाटितम् ॥३९॥

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः॥४०॥

वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा ॥४०॥

निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम् ।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत॥४१॥

इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः ।
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली॥४२॥

कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ॥४२॥

तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि॥४३॥

पातयामास वेगेन कुलिशं मघवानिव ।
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत॥४४॥

चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।
तदुदस्तमलातं तु भीमः प्रहरतां वरः॥४५॥

उदस्तम् उत्क्षिप्तम् अलातम् उल्मुकम् ॥४५॥

पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ।
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्॥४६॥

रक्षः राक्षसम् आव्रजत् आगच्छत् ॥४६॥

दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ।
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्॥४७॥

वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ।
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः॥४८॥

स्त्री तारा ॥४८॥

यथैवोत्पलमालानि मत्तयोर्द्विपयोस्तथा ।
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः॥४९॥

उत्पलमालानि पद्मक्षेत्राणि ‘मालं क्षेत्रे जने माले’ इति विश्वः। पद्मसमूह इत्यर्थः ॥४९॥

चीराणीव व्युदस्तानि रेजुस्तत्र महावने ।
तद्वृक्षयुद्धमभवन्मुहूर्तं भरतर्षभ ।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च॥५०॥

चीराणि वृक्षवल्कलानि ॥५०॥

ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।
प्राहिणोद्राक्षसः क्रुद्धो भीमश्च न चचाल ह॥५१॥

तं शिलाताडनजडं पर्यधावत राक्षसः ।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्॥५२॥

तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् ।
उभावपि चकाशेते प्रयुद्धौ वृषभाविव॥५३॥

तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः ।
नगदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः॥५४॥

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः॥५५॥

निकारात् परिभवात् । कृष्णानयनं दृष्टं येन स तथा द्रौपद्याकर्षणेन कुपित इत्यर्थः ॥५५॥

अभिपद्य च बाहुभ्यां प्रत्यगृह्णादमर्षितः ।
मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्॥५६॥

प्रभिन्नकरटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ॥५६॥

स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान् ।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः॥५७॥

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि॥५८॥

अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।
धुनयामास वेगेन वायुश्चण्ड इव द्रुमम्॥५९॥

स भीमेन परामृष्टो दुर्बलो बलिना रणे ।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्॥६०॥

व्यस्पन्दत किंचिच्चलनं कृतवान् ॥६०॥

तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः ।
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा॥६१॥

योक्त्रयामास बबन्ध रशनया पशुमिव ॥६१॥

विनदन्तं महानादं भिन्नभेरीस्वनं बली ।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्॥६२॥

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्॥६३॥

पशुमारं पशुमिव मारयित्वा कषादित्वादनुप्रयोगः समूलघातं न्यवधींदरींश्चेतिवत् ॥६३॥

आक्रम्य च कटीदेशे जानुना राक्षसाधमम् ।
पीडयामास पाणिभ्यां तस्य कण्ठं तस्य वृकोदरः॥६४॥

अथ जर्जरसर्वाङ्गं व्याविद्धनयनाम्बरम् ।
भूतले पातयामास वाक्यं चेदमुवाच ह॥६५॥

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।
करिष्यसि गतश्चापि यमस्य सदनं प्रति॥६६॥

इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः ।
विस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज॥६७॥

तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः ।
भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः॥६८॥

विदुर उवाच। एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप ।
भीमेन वचनात्तस्य धर्मराजस्य कौरव॥६९॥

ततो निष्कण्टकं कृत्वा वनं तदपराजितः ।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह॥७०॥

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्॥७१॥

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम्॥७२॥

स मया गच्छता मार्गे विनिकीर्णो भयावहः ।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः॥७३॥

तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत ।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः॥७४॥

वैशम्पायन उवाच। एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम् ।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा॥७५॥

इति श्रीमहाभारते आरण्यके पर्वणि किर्मीरवधपर्वणि विदुरवाक्ये एकादशोऽध्यायः॥११॥
समाप्तं किर्मीरवधपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in