किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
।
रक्षसा भीमसेनस्य कथमासीत्समागमः॥१॥
विदुर उवाच।
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनःपुनः॥२॥
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्॥३॥
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप
।
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम्॥४॥
तद्वनं तापसा नित्यं गोपाश्च वनचारिणः
।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल॥५॥
तेषां प्रविशतां तत्र मार्गमावृत्य भारत
।
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यपद्यत॥६॥
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम्
।
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः॥७॥
स्पष्टाष्टदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्॥८॥
सृजन्तं राक्षसीं मायां महानादनिनादितम्
।
मुञ्चन्तं विपुलान्नादान्सतोऽयमिव तोयदम्॥९॥
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतो दिशम्
।
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह॥१०॥
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
।
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत्॥११॥
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः
।
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान्॥१२॥
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
।
रजसा संवृतं तेन नष्टज्योतिरभून्नभः॥१३॥
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
।
पञ्चानामिन्द्रियार्थानां शोकावेश इवातुलः॥१४॥
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः॥१५॥
तं समासाद्य वित्रस्ता कृष्णा कमललोचना
।
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने॥१६॥
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता॥१७॥
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
।
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्॥१८॥
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः॥१९॥
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः॥२०॥
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत
।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः॥२१॥
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्
।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्॥२२॥
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः
।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः॥२३॥
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्
।
के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम्
।
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः॥२४॥
वैशंपायन उवाच।
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
।
आचचक्षे ततः सर्वं गोत्रनामादि भारत॥२५॥
युधिष्ठिर उवाच।
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः॥२६॥
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
।
वनमभ्यागतो घोरमिदं तव परिग्रहम्॥२७॥
विदुर उवाच।
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
।
उपपादितमद्येह चिरकालान्मनोगतम्॥२८॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
।
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्॥२९॥
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
।
अनेन हि मम भ्राता बको विनिहतः प्रियः॥३०॥
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा
।
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्॥३१॥
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
।
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा॥३२॥
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
।
प्रचारसमयेऽस्माकमर्धरात्रे स्थिते समे॥३३॥
अद्यास्य पातयिष्यामि तद्वैरं चिरसम्भृतम्
।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा॥३४॥
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च
।
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम्॥३५॥
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर॥३६॥
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
।
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्॥३७॥
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः
।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्॥३८॥
ततो भीमो महाबाहुरारुज्य तरसा द्रुमम्
।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा॥३९॥
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः॥४०॥
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्
।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत॥४१॥
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः
।
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली॥४२॥
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
।
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि॥४३॥
पातयामास वेगेन कुलिशं मघवानिव
।
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत॥४४॥
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
।
तदुदस्तमलातं तु भीमः प्रहरतां वरः॥४५॥
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
।
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्॥४६॥
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत
।
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्॥४७॥
वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा
।
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः॥४८॥
यथैवोत्पलमालानि मत्तयोर्द्विपयोस्तथा
।
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः॥४९॥
चीराणीव व्युदस्तानि रेजुस्तत्र महावने
।
तद्वृक्षयुद्धमभवन्मुहूर्तं भरतर्षभ
।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च॥५०॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः
।
प्राहिणोद्राक्षसः क्रुद्धो भीमश्च न चचाल ह॥५१॥
तं शिलाताडनजडं पर्यधावत राक्षसः
।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्॥५२॥
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
।
उभावपि चकाशेते प्रयुद्धौ वृषभाविव॥५३॥
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः
।
नगदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः॥५४॥
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः॥५५॥
अभिपद्य च बाहुभ्यां प्रत्यगृह्णादमर्षितः
।
मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्॥५६॥
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान्
।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः॥५७॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि॥५८॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः
।
धुनयामास वेगेन वायुश्चण्ड इव द्रुमम्॥५९॥
स भीमेन परामृष्टो दुर्बलो बलिना रणे
।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्॥६०॥
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः
।
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा॥६१॥
विनदन्तं महानादं भिन्नभेरीस्वनं बली
।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्॥६२॥
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्॥६३॥
आक्रम्य च कटीदेशे जानुना राक्षसाधमम्
।
पीडयामास पाणिभ्यां तस्य कण्ठं तस्य वृकोदरः॥६४॥
अथ जर्जरसर्वाङ्गं व्याविद्धनयनाम्बरम्
।
भूतले पातयामास वाक्यं चेदमुवाच ह॥६५॥
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
।
करिष्यसि गतश्चापि यमस्य सदनं प्रति॥६६॥
इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः
।
विस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज॥६७॥
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
।
भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः॥६८॥
विदुर उवाच।
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप
।
भीमेन वचनात्तस्य धर्मराजस्य कौरव॥६९॥
ततो निष्कण्टकं कृत्वा वनं तदपराजितः
।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह॥७०॥
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः
।
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्॥७१॥
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
।
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम्॥७२॥
स मया गच्छता मार्गे विनिकीर्णो भयावहः
।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः॥७३॥
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत
।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः॥७४॥
वैशम्पायन उवाच।
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम्
।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा॥७५॥