अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

अर्जुनाभिगमनपर्व

द्वादशोऽध्यायः

वैशम्पायन उवाच। भोजाः प्रव्रजिताञ्च्छ्रुत्वा वृष्णयश्चान्धकैः सह ।
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने॥१॥

एवमधर्मरुचीनां दुर्योधनादीनां व्यासादिभिरौप्तरुपदेशे कृतेऽपि मैत्रेयशापेऽपि किर्मीरवधेन महाभयेऽपि प्रत्युपस्थिते सति न धर्मे रुचिरुत्पद्यत इत्युक्तम् । संप्रति धर्मरुचीनां पाण्डवानामुपरि परमेश्वरस्येतरेषां चानुग्रहं पाण्डवानां कृष्णतत्त्वविज्ञानं च वर्णयति । भोजाः प्रव्रजितानित्यादिनाध्यायेन ॥१॥

पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः ।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः॥२॥

वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः ।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्॥३॥

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः ।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्॥ अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत्॥४॥

वासुदेव उवाच। दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥५॥

दुःशासनश्चतुर्थो येषाम् ॥५॥

एतान्निहत्य समरे ये च तस्य पदानुगाः ।
तांश्च सर्वान्विनिर्जित्य सहितान्सनराधिपान्॥६॥

तस्य दुर्योधनस्य पदानुगाः सहायाः ॥६॥

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।
निकृत्योपचरन्वध्य एष धर्मः सनातनः॥७॥

निकृत्या छलेन उपचरन् वर्तमानः ॥७॥

वैशम्पायन उवाच। पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् ।
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः॥८॥

अभिषङ्गेण दुःखेन पराभवेन वा ॥८॥

सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फाल्गुनः ।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः॥९॥

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः॥१०॥

पुरुषस्य पुरि शरीरे शयानस्य अप्रमेयस्य अहंकारादिवत् प्रमातुमयोग्यस्य विषयित्वात् । अत एव सत्यस्य कालत्रयेऽपि बाधशून्यस्य विषयस्य हि बाधः स्वप्नादौ दृष्टः अमिततेजसः त्रिविधपरिच्छेदशून्यचिन्मात्रस्य । प्रजापतिपतेः सूत्रविराजोरपि स्वामिनः। विष्णोर्व्यापकस्य लोकेनाथस्यान्तर्यामिणः । एवं तत्पदार्थमुक्त्वा त्वं पदार्थमाह धीमत इति । बुद्ध्युपाधेः अनयोः सामानाधिकरण्यादभेदः । अस्यैव सूत्रभूतस्य श्लोकस्य विवरणमुत्तरो ग्रन्थः ॥१०॥

अर्जुन उवाच। दश वर्षसहस्राणि यत्र सायङ्गृहो मुनिः ।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने॥११॥

तत्र तपस्विनां क्षमैवोचितेति दर्शयितुं भगवतः क्रोधोपशमनाय तदीयं जन्मान्तरीयं तप एव तावदुदाहरति दशेत्यादिना। यत्र सायंकालस्तत्रैव गृहं यस्य स यत्र सायंगृह इत्येकं पदम् ॥११॥

दश वर्षसहस्राणि दश वर्षशतानि च ।
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा॥१२॥

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः॥१३॥

अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः ।
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके॥१४॥

अवकृष्टोत्तरासङ्गः त्यक्तोत्तरीयवस्त्रः ॥१४॥

प्रभासमप्यथासाद्य तीर्थं पुण्यजनोचितम् ।
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्॥१५॥

आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः ।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत्॥१६॥

तपसः प्रयोजनमाह लोकेति ॥१६॥

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव ।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः॥१७॥

निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः॥१८॥

भौमं भूमिपुत्रं प्रथमोत्पादितं सर्वभूतानां प्रथमेन अहंकारेण उत्पादितं भूतादिरहंकार इति प्रसिद्धम् । मेध्यं यज्ञियम् ॥१८॥

कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् ।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्॥१९॥

तत्कर्म अश्वोत्सर्गाख्यम् ॥१९॥

ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः ।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव॥२०॥

स त्वं नारायणो भूत्वा हरिरासीः परन्तप ।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः॥२१॥

सः त्वं क्षेत्रज्ञः शुद्धचिन्मात्रः भूस्थानीयः सन् नारायणः नरेण परमात्मना सृष्टं नारं स्थूलसूक्ष्मकारणरूपम् उपाधित्रयं तदेव अयनं वासस्थानं यस्य स यथा । वृक्षांकुरबीजस्थानीयविराट्सूत्रान्तर्यामिरूपो भूत्वा हरिः परिणतबीजसहस्रगर्भफलस्थानीयः साम्बमूर्तिः आसीः ईषत्पक्वफलोपमाश्च ब्रह्मादयस्त्वमेव ॥२१॥

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम॥२२॥

हे पुरुषोत्तम उक्तेभ्यो बीजादिस्थानीयेभ्य उत्तमभूस्थानीयनिर्विशेषचिन्मात्ररूपः अजो विष्णुः चराचरगुरुः रुद्रः स्रष्टा दक्षप्रजापत्यादिः ॥२२॥

परायणं देवमूर्धा क्रतुभिर्मधुसूदन ।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने॥२३॥

परायणं सर्वोत्कृष्टं प्राप्यं देवमूर्धा देवश्रेष्ठः क्रतुभिरयज इत्यन्वयः । अधृष्य इति पाठे त्वं यज इत्यध्याहारः ॥२३॥

शतं शतसहस्राणि सुवर्णस्य जनार्दन ।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः॥२४॥

अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः॥२५॥

शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप ।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा॥२६॥

सम्प्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः ।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा॥२७॥

संप्राप्य सम्यक् व्याप्य । आदित्यस्यन्दने सूर्यदेहे भास्करं मण्डलाभिमानिनं जीवम् ॥२७॥

प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो ।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः॥२८॥

सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥२९॥

सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः मुरवेष्टने अस्मादौणादिके उक् प्रत्यये तद्धितः मौर्वी शब्दोप्यत एव मध्यमस्वरलोपेन निष्पन्नः ॥२९॥

जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह ।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः॥३०॥

जारूथ्यां नगर्याम् ॥३०॥

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अवाप्सीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम्॥३१॥

अवाप्सीः अवाप्तवानसि भोज्यां भोजवंशजाम् ॥३१॥

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कसेरुमान् ।
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्॥३२॥

सौभं खेचरं पुरम् ॥३२॥

एवमेते युधि हता भूयश्चान्याञ्च्छृणुष्व ह ।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि॥३३॥

गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन॥३४॥

द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु॥३५॥

नृशंस्यं निर्दयत्वं दीर्घपाठे त्वाङ्पूर्वोऽयं शब्दो ज्ञेयः ॥३५॥

आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा ।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत॥३६॥

आसीनं चैत्यमध्ये त्वां चैत्यम् आयतनम् आध्यात्मिकं हृदयपुण्डरीकं बाह्यं देवालयादि । चित्तमध्यस्थमित्यपि पाठः । नित्यमध्यस्थमिति पाठेऽपि मध्यं हृदयाब्जमेव ॥३६॥

युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन ।
आत्मनैवात्मसात्कृत्वा जगदासीः परन्तप॥३७॥

आत्मनैव निमित्तान्तरं विना । आत्मसात् आत्ममात्रम् ॥३७॥

युगादौ तव वार्ष्णेय नाभिपद्मादजायत ।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्॥३८॥

युगादौ तव वार्ष्णेयेत्यादि सार्धश्लोकत्रयं क्वचिन्न दृष्टम् । यस्य कृतिरिदं सकलम् असौ देवोऽपि त्वन्नियोगकर इति विपरिणामेन योज्यम् ॥३८॥

तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ।
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः॥३९॥

ललाटाज्जातवाञ्च्छृम्भुः शूलपाणिस्त्रिलोचनः ।
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ॥४०॥

त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ।
तथा नारायणपुरा क्रतुभिर्भूरिदक्षिणैः॥४१॥

इष्टवांस्त्वं महासत्रं कृष्णचैत्ररथे वने ।
नैवं परे नापरे वा करिष्यन्ति कृतानि वा॥४२॥

यानि कर्माणि देव त्वं बाल एव महाबलः ।
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्॥ कैलासभवने चापि ब्राह्मणैर्न्यवसः सह॥४३॥

कर्माणि पूतनावधादीनि ॥४३॥

वैशम्पायन उवाच। एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः ।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः॥४४॥

एवं तत्पदार्थस्वरूपं प्रपंच्य तस्य त्त्वंपदार्थाभेदमाह एवमिति ॥४४॥

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु॥४५॥

ममैव त्वं ब्रह्मण एव स्वरूपं जीवः तवैवाहं जीवस्यैव शुद्धं रूपं ब्रह्म न ततोऽन्यत्। ये मदीयास्तवैव ते ब्रह्मगता औपाधिकाः सर्वेश्वरत्वादयस्तेऽपि जीवस्यैव तस्माद्यो जीवं द्वेष्टि स ब्रह्म द्वेष्टि यो जीवं याति स ब्रह्म याति अद्रोही सन्सर्वभूतेषु भगवद्भावं पश्येदित्यर्थः ॥४५॥

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।
काले लोकमिमं प्राप्तौ नरनारायणावृषी॥४६॥

अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च ।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ॥४७॥

ननु मित्रयोर्ममात्मा त्वं तवात्माहमित्यभेदोपचारो दृष्टः न त्वभेद इत्याशंक्याहानन्य इति । मित्रयोर्हि अन्यत्वं प्रत्यक्षदृष्टं तदिह निरस्यते । अपूर्वार्थज्ञापकत्वाद्वाक्यस्य अनन्यत्वमप्यौपचारिकमस्त्वित्याशंक्याह नावयोरिति। अन्तरं भेदः । वेदितुं विचारयितुं जोवेशयोर्भेदो दुर्निरूप इत्यर्थः । तथा हि किं देहभेदादात्मभेद उत आत्मभेदात् । नाद्यः कायव्यूहकृतयोगिन्यव्याप्तेः नान्त्यः उपाधिपरामर्शं विना भेदस्याविभाव्यमानत्वात् । मुक्तात्मानौ जीवेशौ वा न स्वभावभिन्नौ उक्तहेतोः घटमठाकाशवदिति ॥४७॥

वैशंपायन उवाच। एवमुक्ते तु वचने केशवेन महात्मना ।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु॥४८॥

समावाये समूहे संरब्धेषु कुपितेषु ॥४८॥

धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ।
पाञ्चाली पुण्डरीकाक्षमासीनं भ्रातृभिः सह ।
अभिगम्याब्रवीत्क्रुद्धा शरण्यं शरणैषिणी॥४९॥

द्रौपद्युवाच। पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम् ।
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत्॥५०॥

एवंविधस्यात्मतत्त्वस्याधिगमाय ध्यानस्तवनसेवादिना कृष्ण एव शरणींकरणीय इत्याह द्रौपदी वाक्येन पूर्वे इत्यादिना । पूर्वे सृष्टेःप्राक्काले त्वाम् एकम् आहुः ‘सदेव सोम्येदमग्र आसीत्’ इत्याद्याः श्रुतयः प्रजाभिसर्गे च प्रजापतिं त्वामाहुः ‘सर्वस्य वशी सर्वस्येशानः’ इत्याद्याः श्रुतयः। ईशत्वमपि न राजवत् किं तूपादानत्वेनेत्याह स्रष्टारमिति ॥५०॥

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्॥५१॥

विष्णुः विशतीति विष्णुः ‘अन्तः प्रविष्टः शास्ता जनानाम्’ इति श्रुतेः । कारयिता क्रियाकर्ता कर्म च त्वमेवासीति पादचतुष्टयार्थः ॥५१॥

ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम ।
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत्॥५२॥

क्षमा दुःखसहता सत्त्यं सत्पृथिव्यप्तेजांसि त्यत् वाय्वाकाशौ तदात्मकं तस्माच्च संभूतो यज्ञोऽपि त्वमसि ॥५२॥

साध्यानामपि देवानां शिवानामीश्वरेश्वर ।
भूतभावन भूतेश यथा त्वां नारदोऽब्रवीत्॥५३॥

भूतभावनवियदादिस्रष्टः भूतेश भूतनियन्तः ‘य आकाशमन्तरो यमयति’ इत्यादिश्रुतेराकाशादेरपि नियम्यत्वादस्मदादिवच्चेतनत्वं द्रष्टव्यम् । तत्र चेतनानुपलम्भस्त्वरणिस्थाग्नेरिवानभिव्यक्तत्वान्न त्वभावादिति भावः ॥५३॥

ब्रह्मशङ्करशक्राद्यैर्दैववृन्दैः पुनः पुनः ।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव॥५४॥

ब्रह्मादिनियन्तृत्वं वैश्वरूप्यं चाह द्वाभ्यां ब्रह्मेति ॥५४॥

द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो ।
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः॥५५॥

विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् ।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः॥५६॥

विद्या वेदाधिगमो ब्रह्मचारिधर्मः । तपस्तद‌र्थानुष्ठानं गृहस्थधर्मः । तपसा कृच्छ्रचान्द्रायणादिना वानप्रस्थधर्मेण च भावितात्मनां शोधितचित्तानाम् अत एवात्मदर्शनतृप्तानां यतीनां सत्तमः सत्यतमः सत्यं स्वप्नेन्द्रजालादि प्रातिभासिकं । सत्यतरो व्यवहारः सत्यतमं ब्रह्म इतरयोर्बाधावधिभूतत्वात् ॥५६॥

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ॥५७॥

सर्वे धर्माः पापपुण्यादयस्तैरुपपन्नानामपि त्वमेव गतिः । दीनदयालुत्वात्पापिष्ठानामपि उद्धर्तेति भावः । प्रभुर्नियन्ता विभुर्व्यापकः भूतात्मा जीवः बुद्ध्याद्याकारपरिणतानि भूतान्येवात्मत्वेन मन्यमानः । ‘अस्ति खल्वन्योऽपरो भूतात्मा यो यं सतीसितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यत’ इति मैत्रायणीये भूतात्मपदस्य जीवे रूढिदर्शनात् विचेष्टसे । कर्माणि कुरुषे ॥५७॥

त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ।
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्॥५८॥

त्वयि सर्वं प्रतिष्ठितं लोकपालादिपदस्य त्वमेव प्रापक इत्यर्थः ॥५८॥

मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्॥५९॥

अस्यैव व्याख्या मर्त्यता चेति । मर्त्यता संसारः भूतानां साधारणजीवानाम् अमृतत्वं मुक्तिः दिवौकसां दिव्यदृष्टिमतां सात्त्विकानाम् ॥५९॥

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः॥६०॥

एवं स्वर्गापवर्गार्थिभिः कृष्ण एव शरणीकरणीय इति कृष्णस्तुतिप्रसङ्गादुक्तम् । संप्रति दृष्टफलार्थमपि स एवानुसर्तव्य इत्याह सा तेऽहं दुःखमाख्यास्ये इत्यादिना। अत्रात्मनि कृष्णस्य करुणोत्पादनार्थं दुःखनिवेदनं तत्प्रसङ्गेन महामहिम्नामपि संसारिणां दुर्गतिः प्रपञ्चिता वैराग्योत्पादनाय प्रणयाद्विश्रम्भात् आख्याने हेतुमाह ईशस्त्वमिति ॥६०॥

कथं नु भार्या पार्थानां तव कृष्णसखी विभो ।
धृष्टद्युम्नस्य भगिनी सभां कृप्येत मादृशी॥६१॥

स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता ।
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि॥६२॥

स्त्रीधर्मिणी रजस्वला ॥६२॥

राज्ञां मध्ये सभायां तु रजसातिपरिप्लुता ।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः॥६३॥

दासीभावेन मां भोक्तुमीषुस्ते मधुसूदन ।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु॥६४॥

ईषुः ऐच्छन् ॥६४॥

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साहं दासीकृता बलात्॥६५॥

स्नुषा वधूः ॥६५॥

गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्॥६६॥

धर्मपत्नीं यज्ञसंयोगिनीम् ॥६६॥

धिग्बलं भीमसेनस्य धिक्पार्थस्य च गाण्डिवम् ।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन॥६७॥

विप्रकृतां दुःखं प्रापितां मर्षयेताम् क्षमेताम् ॥६७॥

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि॥६८॥

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः॥६९॥

आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत ।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे॥७०॥

जायात् उत्पद्येत् ॥७०॥

नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन ।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः॥७१॥

नान्वपद्यन्त नानुगृहीतवन्तः ॥७१॥

पञ्चभिः पञ्चभिर्जाताः कुमारा मे महौजसः ।
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन॥७२॥

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः॥७३॥

कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमाः ।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः॥७४॥

नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्॥७५॥

धार्तराष्ट्राणाम् अपराधं दुर्बलीयसां दुर्बलतराणाम् ॥७५॥

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला॥७६॥

नाधिज्यमपि यच्छक्यं कर्तुमन्ये न गाण्डिवम् ।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन॥७७॥

अधिज्यम् आरोपितगुणम् ॥७७॥

धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति॥७८॥

य एतानाक्षिपद्राष्ट्रात्सह मात्राऽविहिंसकान् ।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन॥७९॥

आक्षिपत् दूरे कृतवान् । अविहिंसकान् अदुःखदान् ॥७९॥

भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् ।
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम्॥८०॥

संभृतं सहितं संभूतमिति पाठे बहुलम् ॥८०॥

तज्जीर्णमविकारेण सहान्नेन जनार्दन ।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम॥८१॥

सशेषत्वात् आयुष इति शेषः ॥८१॥

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् ।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्॥८२॥

प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ॥८२॥

यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः॥८३॥

आशीविषैः कृष्णसर्पैर्भीमसेनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥८४॥

प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान्॥८५॥

अपोथयत् प्रहृतवान् अपहस्तेन हस्तपृष्टेन ॥८५॥

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति॥८६॥

उपाधाक्षीत् दाहार्थम् उपहृतवान् । आर्या श्वश्रूः ॥८६॥

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।
महद्व्यसनमापन्ना शिखिना परिवारिता॥८७॥

हा हतास्मि कुतोन्वद्य भवेच्छान्तिरिहानलात् ।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह॥८८॥

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः॥८९॥

वैनतेयो यथा पक्षी गरुत्मान्पततां वरः ।
तथैवाभिपतिष्यामि भयं वो नेह विद्यते॥९०॥

वैनतेयः विनतापुत्रः ॥९०॥

आर्यामङ्केन वामेन राजानं दक्षिणेन च ।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च॥९१॥

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्॥९२॥

ते रात्रौ प्रस्थिताः सर्वे सह मात्रा यशस्विनः ।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात्॥९३॥

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी॥९४॥

सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ ।
हृच्छेयेनाभिभूतात्मा भीमसेनमकामयत्॥९५॥

भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततोबला ।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना॥९६॥

तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः ।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते॥९७॥

एवमुक्ता तु भीमेन राक्षसी कामरूपिणी ।
भीमसेनं महात्मानमाह चैवमनिन्दिता॥९८॥

पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान् ।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम्॥९९॥

अथ भोमो…..साभिमानमिदं वचः ।
नोद्विजेयमहं …..न्निहनिष्येहमागतम्॥१००॥

तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः ।
भीमरूपो महानादान्विसृजन्भीमदर्शनः॥१०१॥

राक्षस उवाच। केन सार्धं कथयसि आनयैनं ममान्तिकम् ।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि॥१०२॥

सा कृपासङ्गृहीतेन हृदयेन मनस्विनी ।
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता॥१०३॥

कृपासंगृहीतेन स्नेहवशेन ॥१०३॥

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।
अभ्यद्रवत वेगेन भीमसेनं तदा किल॥१०४॥

तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली ।
अगृह्णत्पाणिना पाणिं भीमसेनस्य राक्षसः॥१०५॥

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्॥१०६॥

संहत्य मुष्टीकृत्य ॥१०६॥

गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा ।
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः॥१०७॥

तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव॥१०८॥

विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ ।
निजघान महावीर्यस्तं तदा निर्बलं बली॥१०९॥

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः॥११०॥

ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः ।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः॥१११॥

प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः ।
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः॥११२॥

तत्राप्यासादयामासुर्बकं नाम महाबलम् ।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्॥११३॥

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ॥११४॥

लब्धाहमपि तत्रैव वसता सव्यसाचिना ।
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा॥११५॥

एवं सुयुद्धे पार्थेन जिताहं मधुसूदन ।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः॥११६॥

एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता ।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसरा॥११७॥

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मां कथम्॥११८॥

एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम् ।
दीर्घकालं प्रदीप्तास्मि पापानां पापकर्मणाम्॥११९॥

कुले महति जातास्मि दिव्येन विधिना किल ।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः॥१२०॥

दिव्येन अमानुषेण अग्निकुण्डोद्भवत्वात् ॥१२०॥

कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती ।
पञ्चानां पाण्डुपुत्राणां प्रेक्षतां मधुसूदन॥१२१॥

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी॥१२२॥

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः॥१२३॥

सुजातौ संलग्नो ॥१२३॥

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः ।
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्॥१२४॥

नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः ।
न भ्रातरो न च पिता नैव त्वं मधुसूदन॥१२५॥

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा॥१२६॥

विशोकवत् विशोका इव ॥१२६॥

चतुर्भिः कारणैः कृष्ण त्वया रक्षास्मि नित्यशः ।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव॥१२७॥

संबन्धात् पितृष्वस्त्रीयभार्यात्वात् गौरवादग्निकुण्डोद्भवत्वात् सख्यात् भक्तिमत्वात् प्रभुत्वेन सामर्थ्यवत्वेन त्वदीयेन ॥१२७॥

वैशंपायन उवाच। अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे ।
वासुदेव उवाच। रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भाविनि ।
बीभत्सुशरसंच्छन्नाञ्च्छोणितौघपरिप्लुतान्॥१२८॥

निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ।
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः॥१२९॥

सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।
पतेद्द्यौर्हिमवाञ्च्छीर्येत्पृथिवी शकलीभवेत्॥१३०॥

शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्॥१३१॥

द्रौपदीवाक्यं प्रतिवाक्यं च श्रुत्वाऽर्जुन आबभाषे इति व्यवहितेन संबन्धः ॥१३१॥

साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ।
आबभाषे महाराज द्रौपदीमर्जुनस्तदा॥१३२॥

अत्र हेतुः यतः पाञ्चाली साचीकृतं वक्रीभूतं यथा स्यात्तथा मध्यमं पतिं तमेवावैक्षदिति यत इत्यध्याहृत्य योज्यम् ॥१३२॥

मा रोदीः शुभताम्राक्षि तदाह मधुसूदनः ।
तथा तद्भविता देवि नान्यथा वरवर्णिनि॥१३३॥

धृष्टद्युम्न उवाच। अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः॥१३४॥

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणे स्वसः ।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः॥१३५॥

स्वसः हे भगिनि ॥१३५॥

वैशम्पायन उवाच। इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिताः ।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्॥१३६॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपद्याश्वासने द्वादशोऽध्यायः॥१२॥
त्रयोदशोऽध्यायः

वासुदेव उवाच। नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा॥१॥

निरूपिता ससाधना ब्रह्मविद्या संप्रति भगवत्स्मरणमेव तत्सान्निध्यहेतुः सान्निध्यं च सर्वापत्तरणकृदिति भंग्यन्तरेण प्रतिपाद्यते । नैतदित्यादिनाऽध्यायेन । यदहं द्वारकायां नवद्वारवत्यां देहनगर्यां तव मां चिन्तयतः संनिहितः स्यां तर्हि एतत् कृच्छ्रं वनवाससंकटं भवान्नानुप्राप्तः स्यात् यथा द्रौपदी कृच्छ्रकाले मां स्मृतवती वस्त्रराशिप्रदानेन मया सभायां कृच्छ्रान्मोचिता तथा त्वमपि अक्षपातनकाले मां यदि स्मरेस्तर्हि नैतत्कृच्छ्रं प्राप्नुयाः प्रत्युत तवैव जयः स्यादिति भावः ॥१॥

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः ।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ।
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन्॥२॥

अनाहूतोऽपि स्वक्षेमार्थम् अप्रार्थितोऽपि वारयेयं द्यूतम् अन्तर्यामित्वेन कथापक्षे त्वृजुरेवार्थः ॥२॥

भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव॥३॥

बहिर्यामित्वेनापि द्यूतवारणोपायमाह भीष्मेति द्वाभ्याम् ॥३॥

पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः॥४॥

राजेन्द्र धृतराष्ट्र तव पुत्राणां द्यूतेन अलं इति वैचित्रवीर्यादीन्प्रति त्वन्निमित्तं हे प्रभो युधिष्ठिर अहं तत्र द्यूते दोषान् अचक्षं व्यक्तं कथितवान् स्यामिति संबन्धः ॥४॥

वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा ।
अतर्कितविनाशश्च देवनेन विशांपते॥५॥

वीरसेनसुतः नलः यैः अक्षैरिति शेषः ॥५॥

सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्॥६॥

सातत्यम् अविच्छेदं प्रसङ्गस्य द्यूतक्रीडायाः हीयमानोऽपि जयाशया पुनः पुनर्दीव्यत्येवेत्यर्थः ॥६॥

स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
दुःखं चतुष्टयं प्रोक्तं यैर्नरो भ्रश्यते श्रियः॥७॥

कामः रागः ॥७॥

तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः॥८॥

वक्तव्यम् अधिगन्तव्यं ज्ञातव्यं गत्यर्थस्य वजेरिदं रूपं वचेरेव वार्थान्तरम् ॥८॥

एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्॥९॥

तदेवाह एकाहादिति । व्यसनं राज्यभ्रंशादि अर्थानां धर्मार्थकामानां पुमर्थानाम् ॥९॥

एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्॥१०॥

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्धन॥११॥

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्॥१२॥

अथैनमपनीतेन सुहृदो नाम दुर्हृदः ।
सभासदोनुवर्तेरंस्तांश्च हन्यां दुरोदरान्॥१३॥

अपनीतेन अन्यायेन दुरोदरान् द्यूतकारान् ॥१३॥

असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम्॥१४॥

आनर्तेषु आसमन्तान्नर्तयन्ति तेषु धीविलासेषु पक्षे देशविशेषेषु ॥१४॥

सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्॥१५॥

कथान्तरमवतारयितुं कथापक्षमेवानुसरति सोऽहमित्यादिना । एत्य आगत्य युयुधानात्सात्यकेः ॥१५॥

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः ।
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशांपते॥१६॥

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ।
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः॥१७॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि वासुदेववाक्ये त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

युधिष्ठिर उवाच। असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।
क्व चासीद्विप्रवासस्ते किं चाकार्षीः प्रवासकः॥१॥

असान्निध्यमिति । अत्र संक्षेपविस्ताराभ्यां सौभवध उपाख्यायते । तस्य तात्पर्यं संसारसागरमध्ये द्वारकाख्ये स्थूलसूक्ष्मदेहद्वयरूपे क्षेत्रे विस्मरणरूपाद्भगवदसंनिधानात् कामगमं मनोरथाख्यं सौममारुह्यागतेन शाल्वाख्येन महामोहेन शोकास्त्रैरुपद्रुते सति प्रद्युम्नादिस्वरूपा यज्ञादयो धर्मास्तं वारयितुमक्षमा अभूवन् । ततोऽहं चित्तद्वारकामेत्य चिदात्मानं मामधिक्षिपन्तं शाल्वमोहमहं ब्रह्मविद्यास्त्रेण हतवान् तत्पुरं च मनोरथसौभं पातितवानिति । एवमेव युद्धादिरूपकेण सर्वत्राख्यायिकातात्पर्यमुन्नेयं तथा च श्रुतिः ‘द्वयाह प्राजापत्या देवाश्चासुराश्च’ इत्यादिना देवासुरशब्दैः शमकामादीन् विवक्षित्वा तद्युद्धरूपकेणाध्यात्मिकमर्थं निरूपयति तद्वदिहापि ज्ञेयं श्रुत्यनुसारित्वाद्भारतस्मृतेः ॥१॥

कृष्ण उवाच। शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम्॥२॥

महातेजा महाबाहुर्यः स राजा महायशाः ।
दमघोषात्मजो वीरः शिशुपालो मया हतः॥३॥

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।
सरोषवशमापन्नो नामृष्यत दुरात्मवान्॥४॥

सरोषवशं रोषेण सहितं सामर्थ्यम्। ‘वशमिच्छाप्रभुत्वयोः’ इति विश्वः। दुरात्मवान् दुष्टचित्तः यद्वा दुःस्थितः रोषवत्त्वात् आत्मवान् युद्धादौ धृतिमान्सामर्थ्यवत्त्वात् दुःस्थितश्चासावात्मवांश्चेति समासः॥४॥

श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः ।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत॥५॥

इहस्थे त्वत्समीपस्थे ॥५॥

स तत्र योधितो राजन्कुमारैर्वृष्णिपुङ्गवैः ।
आगतः कामगं सौभमाहत्यैवं नृशंसवत्॥६॥

सौमं सुष्ठु भान्ति ते सुभाः काञ्चनाद‌यो धातवस्तज्जम् ॥६॥

ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः॥७॥

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः॥८॥

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् ।
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः॥९॥

आनर्ताः भो आनर्तदेश्याः आख्यात कथयत ॥९॥

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे॥१०॥

क्वासौ क्वासाविति पुनस्तत्र तत्र प्रधावति ।
मया किल रणे योद्धुं काङ्क्षमाणः स सौभराट्॥११॥

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्॥१२॥

मम पापस्वभावेन भ्राता येन निपातितः ।
शिशुपालो महीपालस्तं वधिष्ये महीपते॥१३॥

भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि ।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्॥१४॥

एवमादि महाराज विलष्य दिवमास्थितः ।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन॥१५॥

क्षिप्त्वा कुत्सयित्वा ॥१५॥

तमश्रौषमहं गत्वा यथावृत्तः स दुर्मतिः ।
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः॥१६॥

मार्तिकावतकः एतन्नामकदेशवासी ॥१६॥

ततोऽहमपि कौरव्य रोषव्याकुलमानसः ।
निश्चित्य मनसा राजन्वधायास्य मनो दधे॥१७॥

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः॥१८॥

अवलेपं गर्वं ज्ञात्वेति शेषः ॥१८॥

ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता॥१९॥

सागरस्य आसमन्ताद्वर्तो वर्तनं यस्मिन्सागरद्वीपे इत्यर्थः ॥१९॥

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप ।
आहूय शाल्वं समरे युद्धाय समवस्थितः॥२०॥

जलजं शङ्खम् ॥२०॥

तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।
वशीभूताश्च मे सर्वे भूतले च निपातिताः॥२१॥

एतत्कार्यं महाबाहो येनाहं नागमं तदा ।
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनियोत्थितम् ।
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान्॥२२॥

द्यूतं श्रुत्वैव हास्तिनपुरम् आगतवान्॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

युधिष्ठिर उवाच। वासुदेव महाबाहो विस्तरेण महामते ।
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः॥१॥

अर्थाधीनौ धर्मकामौ अर्थस्तु स्वराज्यरक्षापरराज्यावमर्दाभ्यां राज्ञा प्राप्यते इति तावेव शाल्वप्रसङ्गात् सम्यक् श्रोतुकामः पृच्छति वासुदेवेति । कथ्यतः कथयतः कंड्वादियगन्तात् शत्रन्तस्य रूपम् ॥१॥

वासुदेव उवाच। हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् ।
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्॥२॥

श्रुतश्रवा शिशुपालमाता तज्जं श्रौतश्रवम् उपायात् उपगतः ॥२॥

अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन ।
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः॥३॥

अरुन्धत् सेनया वैहायसं खेचरं व्यूह्य स्वरक्षापरोपमर्दयोग्यरचनाविशेषेण स्थापयित्वा घिष्ठितः सम्यक् स्थितः ॥३॥

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् ।
अभिसारेण सर्वेण तत्र युद्धमवर्तत॥४॥

अभितः परित उपरितश्चायुधानां सरणं निःसाणमभिसारस्तेन सर्वेण अच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपदविरलायुधसमूहागमेनेत्यर्थः॥४॥

पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनकास्तथा॥५॥

पताका ध्वजांचलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः हुडास्तदाश्रयस्थानानि भाषायां ‘बुरुज’ संज्ञानि अन्ये तु। विण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च अन्ये कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सुरिभिः विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यत‘ इति । यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि महान्ति ‘कमान’संज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि ‘बंदूख’संज्ञानि । खनकाः सुराङ्गद्वारा गुप्तमार्गकर्तारः ॥५॥

सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।
सचक्रग्रहणी चैव सोल्कालातावपोथिका॥६॥

उपशल्या लोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्यां सा। अट्टालकाः उपरिगृहाः । गोपुराणि पुरद्वाराणि साट्टानि अट्टेन अन्नेन सहितानि अट्टालकादीनि यस्यां सा । साट्टेति विशेषणम् उपशल्यस्य ग्रामान्तस्य रथ्यायश्चावृत्त्या संबध्यते। चक्रप्रहणी सैन्यनिग्राहिका ‘मोर्चा’ इति म्लेच्छप्रसिद्धा सोल्कालातावपोथिका सोल्कमलातं ज्वालासहितमुल्मुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकाः यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपारी पातनाय यस्यामिति प्राञ्चः । उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलः। अलातं सकाष्ठदण्डं लोहमयमाग्नेयं प्रहरणं ‘बाण’ इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयगत्योरपि पोथिकाः पातयित्र्यः मन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्तिसदृशास्तद्युक्ताः सोल्कालातावपोथिकाः ॥६॥

सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका ।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला॥७॥

उष्ट्रिका मृच्चर्ममयानि भाण्डानि । सर्ष्टिकेति पाठे ऋष्टय आयुधविशेषाः ॥७॥

सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा ।
लोहचर्मवती चापि साग्निः सगुडशृङ्गिका॥८॥

अश्मगुडकाः वर्तुलीकृताः पाषाणाः लोहमयानि चर्माणि कमठपृष्ठाकाराणि । प्रहारवारकाणि । साग्निः आग्नेयौषधसहिता गुडा गोलकाः शृङ्गिकास्तदुत्क्षेपकयन्त्राणिः शत्रूणामुपरि पातनाय तप्तो गुडो द्रवीभूतो यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये ॥८॥

शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ ।
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः॥९॥

पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे ।
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे॥१०॥

मध्यमेन च गुल्मेन रक्षिभिः सा सुरसक्षिता ।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः॥११॥

मध्यमो गुल्मः यत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवो द्रष्टुं बाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम् । उत्क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः ॥११॥

आघोषितं च नगरे न पातव्या सुरेति वै ।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः॥१२॥

प्रमत्तेष्वभिघातं हि कुर्याच्छावो नराधिपः ।
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः॥१३॥

अप्रमत्ता इति छेदः ॥१३॥

आनर्ताश्च तथा सर्वे नटा नर्तकगायनाः ।
बहिर्निवासिताः क्षिप्रं रक्षद्भिर्वित्तसञ्चयाम्॥१४॥

सङ्क्रमा भोदिताः सर्वे नावश्च प्रतिषेधिताः ।
परिखाश्चापि कौरव्य कालैः सुनिचिताः कृताः॥१५॥

संक्रमाः नदीसेतवः कीलैः शुलैः सुनिचिताः व्याप्ताः ॥१५॥

उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः ।
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः॥१६॥

उदपानाः कूपाः ‘अम्बरीषो भवेद्भ्राष्ट्र’ इति विश्वः गुप्ताग्निरित्यन्ये विषमा लोहकण्टकाद्याकीर्णा ॥१६॥

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् ।
प्रकृत्या चायुधोपेतं विशेषेण तदानघ॥१७॥

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् ।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा॥१८॥

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते ।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे॥१९॥

अनुरथ्यासु सर्वासु चत्वरेषु च कौरव ।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्॥२०॥

अनुरथ्यासु प्रतिरथ्यम् ॥२०॥

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् ।
कृतोपधानं च तदा बलमासीन्महाभुज॥२१॥

वेतनं धनं भक्तं नित्यभोजनं कृतोपधानं कृतविशेषम् ॥२१॥

न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी ।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः॥२२॥

कुप्यं स्वर्णरूप्येतरद्धनं ताम्रादि ग्रहो रणोद्यमस्तमनुलक्षीकृत्य मृतोऽनुग्रहतस्तत्कालस्वीकृतो न कश्चित् किं तु चिरसंभृता एव । कृपाभृतो न किं तु शौर्यभृत एवेति वा ॥२२॥

एवं सुविहिता राजन्द्वारका भूरिदक्षिणा ।
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन॥२३॥

भूरिदक्षिणा बहवो दाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने पञ्चदशोऽध्यायः॥१५॥
षोडशोऽध्यायः

वासुदेव उवाच। तां तूपयातो राजेन्द्र शाल्वः सौभपतिस्तदा ।
प्रभूतनरनागेन बलेनोपविवेश ह॥१॥

तामिति ॥१॥

समे निविष्टा सा सेना प्रभूतसलिलाशये ।
चतुरङ्गबलोपेता शाल्वराजाभिपालिता॥२॥

समे देशे चतुरङ्गं चत्त्वारि रथनागाश्वपादातान्यङ्गानि यस्य ॥२॥

वर्जयित्वा श्मशानानि देवतायतनानि च ।
वल्मीकांश्चैत्यवृक्षांश्च तन्निविष्टमभूद्बलम्॥३॥

अनीकानां विभागेन पन्थानः संवृता भवन् ।
प्रवणाय च नैवासञ्च्छाल्वस्य शिबिरे नृप॥४॥

पन्थानः पुरे धान्याद्यागमनमार्गाः प्रवणाय गूढभावेन निम्नगमनाय ॥४॥

सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम्॥५॥

कलिलं संकटम् ॥५॥

तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम् ।
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम्॥६॥

संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।
अभिसारयामास तदा वेगेन पतगेन्द्रवत्॥७॥

अभिसारयामास नगरसमीपं गमयामास सैन्यं पतगेन्द्रवत् सौभं चोपरितः अभिसारयामास ॥७॥

तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा ।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः॥८॥

आपतन्त आपतत् । निर्याय निर्गत्य पुराद्बहिः ॥८॥

असहन्तोऽभियानं तच्छाल्वराजस्य कौरव ।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः॥९॥

ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः ।
संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः॥१०॥

दंशिताः संनद्धाः ॥१०॥

गृहीत्वा कार्मुकं साम्बः शाल्वस्य सचिवं रणे ।
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम्॥११॥

तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक्॥१२॥

तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः॥१३॥

ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्वयम् ।
मुमोच मायाविहितं शरजालं महत्तरम्॥१४॥

ततो मायामयं जालं माययैव विदीर्य सः ।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत॥१५॥

ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः ।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः॥१६॥

अपायात् पलायितः । जवनैः शीघ्रगैः ॥१६॥

तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली॥१७॥

अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन्॥१८॥

अभिपन्नः आभिमुख्येनासादितः ॥१८॥

स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।
चिक्षेप तरसा वीरो व्याविध्द्यः सत्यविक्रमः॥१९॥

व्याविध्द्य भ्रामयित्वा ॥१९॥

तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि ।
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः॥२०॥

रुग्णः क्षुण्णश्च गजादिपदाघातैः ॥२०॥

तस्मिन्विनिहते वीरे गदानुन्ने महासुरे ।
प्रविश्य महतीं सेनां योधयामास मे सुतः॥२१॥

चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।
महारथः समाज्ञातो महाराज महाधनुः॥२२॥

ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत्॥२३॥

अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः ।
विनदन्तौ महारावान्सिंहाविव महाबलौ॥२४॥

रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम्॥२५॥

स विविन्ध्याय सक्रोधः समाहूय महारथः ।
चिक्षेप मे सुतो राजन्स गतासुरथापतत्॥२६॥

विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् ।
कामगेन ससौभेन शाल्वः पुनरुपागमत्॥२७॥

सौभेन खेचरेण पुरेण ॥२७॥

ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।
दृष्ट्वा शाल्वं महाबाहो सौभस्थं नृपते तदा॥२८॥

ततो निर्याय कौरव्यम् अवस्थाप्य च तद्बलम् ।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्॥२९॥

निर्याय निर्गत्य अवस्थाप्य आश्वास्य आनर्तानां द्वारकावासिनाम् ॥२९॥

सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम्॥३०॥

अहं सौभपतेः सेनामायसैर्भुजगैरिव ।
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः॥३१॥

धनुर्भुजावनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तेः । भुज कौटिल्ये तुदादिः ॥३१॥

आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति॥३२॥

नश्यति आशु मरिष्यति । वर्तमानसामीप्ये वर्तमानवद्वेति लट् ॥३२॥

एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन ।
धिष्टितं तद्बलं वीर युयुधे च यथासुखम्॥३३॥

धिष्ठितमधिष्ठितम् । धिषा वचनप्रागल्भ्येन स्थितमिति वा ॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

वासुदेव उवाच। एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्॥१॥

एवमुक्त्वेति । हरिभिरश्वैः ॥१॥

उच्छ्रित्य मकरं केतुं व्यात्ताननमिवान्तकम् ।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्॥२॥

अन्वयादुपगतः ॥२॥

विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलैः ।
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्॥३॥

विक्षिपन् परान् धिक्कुर्वन् महाबलैर्हयैः ॥३॥

स विद्युच्छुरितं चापं विहरन्वै तलात्तलम् ।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः॥४॥

समानं विद्युच्छुरितेने विद्युत्कम्पनेनेति सविद्युच्छुरितं तलात्तलं सव्यापसव्यहस्ततलपरिवर्तेन॥४॥

तस्य विक्षिपतश्चापं संदधानस्य चासकृत् ।
नान्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे॥५॥

विक्षिपतः कर्षतः ॥५॥

मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य ।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम्॥६॥

विकल्पते भिद्यते ॥६॥

जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी ।
वित्रासयन्राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः॥७॥

जलेचरः मीनः तिमिर्मीनः वाहमुख्ये रथश्रेष्ठे ॥७॥

ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्षणः ।
शाल्वमेवाभिदुद्राव विधित्सुः कलहं नृप॥८॥

अभियानं तु वीरेण प्रद्युम्नेन महारणे ।
नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह॥९॥

स रोषमदमत्तो वै कामगादवरुह्य च ।
प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः॥१०॥

तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः ।
समेता ददृशुर्लोका बलिवासवयोरिव॥११॥

तस्य मायामयो वीर रथो हेमपरिष्कृतः ।
सपताकः सध्वजश्च सानुकर्षः सतूणवान्॥१२॥

सानुकर्षः रथाघस्थकाष्ठमनुकर्षः सः रथः तृणवान् ॥१२॥

स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः॥१३॥

ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव॥१४॥

स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् ।
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम॥१५॥

तानापतत बाणौघान्स चिच्छेद महाबलः ।
ततश्चान्याञ्च्छरान्दीप्तान्प्रचिक्षेप सुते मम॥१६॥

आपततेति विसर्गलोप आर्षः ॥१६॥

स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे॥१७॥

तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।
विव्याध हृदयं पत्री स मुमोह पपात च॥१८॥

तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि ।
सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम्॥१९॥

हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते ।
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृपे॥२०॥

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् ।
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः॥२१॥

तैः स विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा॥२२॥

जत्रुदेशे कण्ठमूले व्यवासीदद्विशेषेणावसादं प्राप्तः ॥२२॥

तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् ।
ननाद सिंहनादं वै नादेनापूरयन्महीम्॥२३॥

ततो मोहं समापन्ने तनये मम भारत ।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान्॥२४॥

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः ।
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

वासुदेव उवाच। शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे ।
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः॥१॥

शाल्वेति ॥१॥

हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं ततः ।
प्रद्युम्ने मोहिते राजन्परे च मुदिता भृशम्॥२॥

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा॥३॥

नातिदूरापयाते तु रथे रथवरप्रणुत् ।
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम्॥४॥

सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते॥५॥

कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे ।
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्॥६॥

सौतिरुवाच। जानार्दने न मे मोहो नापि मां भयमाविशत् ।
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन॥७॥

सोऽपयामि शनैर्वीर बलवानेष पापकृत् ।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी॥८॥

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् ।
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम्॥९॥

एकश्चासि महाबाहो बहवश्चापि दानवाः ।
न समं रौक्मिणेयाहं रणं मत्वापयामि वै॥१०॥

एवं ब्रुवति सूते तु तदा मकरकेतुमान् ।
उवाच सूतं कौरव्य निवर्तय रथं पुनः॥११॥

दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन ।
व्यपयानं रणात्सौते जीवतो मम कर्हिचित्॥१२॥

न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् ।
यो वा निपतितं हन्ति तवास्मीति च वादिनम्॥१३॥

तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च ।
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा॥१४॥

त्वं च सूतकुले जातो विनीतः सूतकर्मणि ।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके॥१५॥

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।
अपयानं पुनः सौते मैवं कार्षीः कथञ्चन॥१६॥

अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम् ।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः॥१७॥

केशवस्याग्रजो वापि नीलवासा मदोत्कटः ।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः॥१८॥

किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः ।
अपयातं रणात्सूत साम्बश्च समितिञ्जयः॥१९॥

शिनेर्नप्ता सात्यकिः॥१९॥

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे॥२०॥

शूरं सम्भावितं शान्तं नित्यं पुरुषमानिनम् ।
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति संहताः॥२१॥

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति॥२२॥

धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा ।
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः॥२३॥

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।
यज्ञं भरतसिंहस्य न हि शक्योद्य मर्षितुम्॥२४॥

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज॥२५॥

स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः ।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम्॥२६॥

उपयातं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्॥२७॥

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम्॥२८॥

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।
त्वयापनीतो विवशो न जीवेयं कथञ्चन॥२९॥

स निवर्त रथेनाशु पुनर्दारुकनन्दन ।
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन॥३०॥

न जीवितमहं सौते बहु मन्ये कथञ्चन ।
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः॥३१॥

कदापि सूतपुत्र त्वं जानीषे मां भयार्दितम् ।
अपयातं रणं हित्वा यथा कापुरुषं तथा॥३२॥

न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज ।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्॥३३॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने अष्टादशोऽध्यायः॥१८॥
एकोनविंशोऽध्यायः

वासुदेव उवाच। एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततोऽब्रवीत् ।
प्रद्युम्नं बलिनां श्रेष्टं मधुरं श्लक्ष्णमञ्जसा॥१॥

एवमुक्त इति॥१॥

न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् ।
युद्धज्ञोऽस्मि च वृष्णीनां नात्र किञ्चिदतोऽन्यथा॥२॥

आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः॥३॥

त्वं हि शाल्वप्रयुक्तेन शरेणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान्॥४॥

स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन॥५॥

दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां शाल्वस्य प्रथितां चमूम्॥६॥

वासुदेव उवाच। एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे ।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा॥७॥

मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः॥८॥

यमकानि सदृशानि इतराणि विसदृशानि॥८॥

प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशे व्यचरंस्ते हयोत्तमाः॥९॥

ते हस्तलाघवोपेतं विज्ञाय नृपदारुकिम् ।
दह्यमाना इव तदा नापस्पृशुञ्श्चरणैर्महीम्॥१०॥

सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत्॥११॥

अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत्॥१२॥

दारुकस्य सुतस्तत्र बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः॥१३॥

ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीरे मम रुक्मिणिनन्दने॥१४॥

तानप्राप्ताञ्च्छितैर्बाणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम्॥१५॥

छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान्॥१६॥

प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तरा च्छित्त्वा मुमोचान्यान्पतत्रिणः॥१७॥

ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्त्रे च स मुमोह पपात च॥१८॥

तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते ।
रौक्मिणेयो परं बाणं संदधे शत्रुनाशनम्॥१९॥

तमर्चितं सर्वदाशार्हपूगैराशीविषाग्निज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम्॥२०॥

ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः ।
नारदं प्रेषयामासुः श्वसनं च मनोजवम्॥२१॥

तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन॥२२॥

संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य च शरस्याजौ नावध्योऽस्ति पुमान्क्वचित्॥२३॥

मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः सङ्कल्पितो धात्रा तन्मिथ्या न भवेदिति॥२४॥

ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत्॥२५॥

तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः॥२६॥

स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः ।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने एकोनविंशोऽध्यायः॥१९॥
विंशोऽध्यायः

वासुदेव उवाच। आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।
महाक्रतौ राजसूये निवृत्ते नृपते तव॥१॥

आनर्तेति ॥१॥

अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्॥२॥

अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्॥३॥

हृदिकात्मजं कृतवर्माणम् ॥३॥

अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः॥४॥

एवमुक्तः स तु मया विस्तरेणेदमब्रवीत् ।
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम॥५॥

ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः ।
विनाशे शाल्वराजस्य तदैवाकरवं मतिम्॥६॥

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।
राजानमाहुकं चैव तथैवानकदुन्दुभिम्॥७॥

सर्वन्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः॥८॥

शाल्वराजविनाशाय प्रयातं मां निबोधत ।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति॥९॥

स शाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा॥१०॥

त्रिःसामा त्रिस्वरा नीचमंद्रतारभावेन त्रिःसमा हन्यतामित्यपि पठन्ति ॥१०॥

ते मयाश्वासिता वीरा यथावद्भरतर्षभ ।
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान्॥११॥

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाभवम्॥१२॥

वाचयित्वा स्वस्तिवादानिति शेषः ॥१२॥

शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप॥१३॥

प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः ।
कॢप्तेन चतुरङ्गेण यत्तेन जितकाशिना॥१४॥

जितकाशिना जयशोभिना । जिताः काशयो देशविशेषा येनेति वा ते हि शरत्वेनातिप्रसिद्धाः ‘काश्यो वा वैदेहो वा’ इति श्रुतिलिङ्गात् ॥१४॥

समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।
सरांसि सरितश्चैव मार्त्तिकावतमासदम्॥१५॥

मार्तिकावतं देशविशेषम् आसदं प्राप्तः ॥१५॥

तत्राश्रौषं नरव्याघ्र शाल्वं सागरमन्तिकात् ।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम्॥१६॥

सागरमन्तिकात् सागरससीपे अन्वयाम् अनुगतवानस्मि ॥१६॥

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः ।
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन्॥१७॥

महोर्मिणः महोर्मिमतः व्रीह्यादित्वादिनिः नाभ्यां गर्भे गुप्त इत्यर्थः ॥१७॥

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर ।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः॥१८॥

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुरं नासाद्यत शरैस्ततो मां रोष आविशत्॥१९॥

तस्य पुरं मदीयैः शरैर्नासाद्यतेति संबन्धः ॥१९॥

स चापि पापप्रकृतिर्दैतेयापसदो नृप ।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः॥२०॥

सैनिकान्मम सूतं च हयांश्च स समाकिरत् ।
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत॥२१॥

ततः शतसहस्राणि शराणां नतपर्वणाम् ।
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः॥२२॥

नतानि निम्नीकृतानि पर्वाणि ग्रन्थयो येषां श्लक्ष्णानामित्यर्थः ॥२२॥

ते हयांश्च रथं चैव तदा दारुकमेव च ।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः॥२३॥

न हया न रथो वीर न यन्ता मम दारुकः ।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे॥२४॥

ततोऽहमपि कौन्तेय शराणामयुतान्बहून् ।
आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम्॥२५॥

आमन्त्रितानाम् अभिमन्त्रितानां दिव्येन विधिना अलौकिया अश्वविद्यया ॥२५॥

न तत्र विषमस्त्वासीन्मम सैन्यस्य भारत ।
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत्॥२६॥

विषयः गोचरः तत्र हेतुः खे विषक्तं लग्नम् ॥२६॥

ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः ।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः॥२७॥

तलस्वनैः हस्ततलशब्दैः ॥२७॥

मत्कराग्रविनिर्मुक्ता दानवानां शरास्तथा ।
अङ्गेषु रुचिरापाङ्गा विविशुः शलभा इव॥२८॥

दानवानाम् अङ्गेष्विति संबन्धः रुचिरापाङ्गाश्चित्रपुङ्खाः ॥२८॥

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे॥२९॥

वध्यतां वध्यमानानाम् ॥२९॥

ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।
नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः॥३०॥

पतितास्तेऽपि भक्षन्ते समुद्राम्भोनिवासिभिः ।
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्॥३१॥

जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ।
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्ततः॥३२॥

प्राणेन बलेन ॥३२॥

मायायुद्धेन महता योधयामास मां युधि ।
ततो गदा हलाः प्रासाः शूलशक्तिपरश्वधाः॥३३॥

असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः ।
पट्टिशाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि॥३४॥

अस्रयः खङ्गाः शक्तिः कौमारी कुलिशानि वज्राणि पाशाः वारुणाः ऋष्टयो दण्डाः शक्त्यादीनां कनो दीप्तिर्गतिः शोभा वा तां पान्ति ते शक्तिकुलिशपाशर्ष्टिकनपाः कार्तिकेयेन्द्रवरुणयमायुधतुल्या इत्यर्थः । कनीत्रि श्रीगति द्युताविति वोपदेवः ॥३४॥

तामहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत्॥३५॥

ततोऽभवत्तम इव प्रकाश इव चाभवत् ।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत॥३६॥

अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत ।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः॥३७॥

विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः॥३८॥

ततो व्योम महाराज शतसूर्यमिवाभवत् ।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम्॥३९॥

ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम्॥४०॥

ततस्तदस्त्रं कौन्तेय धूतं तूलमिवानलैः ।
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् ।
लब्धा लोकस्तु राजेन्द्र पुनः शत्रुमयोधयम्॥४१॥

तदस्त्रं मायामयम् ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने विंशोऽध्यायः॥२०॥
एकविंशोऽध्यायः

वासुदेव उवाच। एवं स पुरुषव्याघ्रः शाल्वराजो महारिपुः ।
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः॥१॥

एवं स इति ॥१॥

ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान्मुसलानसींश्च ।
चिक्षेप रोषान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाङ्क्षी॥२॥

तानाशुगैरापततोऽहमाशु निवार्य हन्तुं खगमान्ख एव ।
द्विधा त्रिधा चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव॥३॥

ततः शतसहस्रेण शराणां नतपर्वणाम् ।
दारुकं वाजिनश्चैव रथं च समवाकिरत्॥४॥

ततो मामब्रवीद्वीर दारुको विह्वलन्निव ।
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ।
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति॥५॥

इति तस्य निशम्याहं सारथेः करुणं वचः ।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम्॥६॥

न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये ।
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः॥७॥

स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।
अभिवृष्टे यथा मेघे गिरिर्गैरिकधातुमान्॥८॥

बाणवरोत्पीडात् क्षतस्थानात् उल्बणम् उत्कटम् ॥८॥

अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।
अस्तं भयं महाबाहो शाल्वबाणप्रपीडितम्॥९॥

अस्तं भयम् आश्वासितवान् ॥९॥

अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।
त्वरितो रथमारोप्य सौहृदादिव भारत॥१०॥

अथ मां पुरुषः कश्चिदित्यादेरध्यायशेषस्य तात्पर्यं भगवानपि क्षुद्रजनमायया मोहितः किमुत क्षुद्रजनो भगवन्माययेति शुद्धचैतन्याश्रितमेवाज्ञानमिति वा ॥१०॥

आहुकस्य वचो वीर तस्यैव परिचारकः ।
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर॥११॥

द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत्॥१२॥

पितृसखः आहुकः ॥१२॥

उपायायाद्य शाल्वेन द्वारकां वृष्णिनन्दन ।
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात्॥१३॥

उपायाय उपगम्य विषक्ते अन्यत्र व्यासक्ते शूरसुतो वसुदेवः ॥१३॥

तदलं साधु युद्धेन निवर्तस्व जनार्दन ।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव॥१४॥

इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च॥१५॥

सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् ।
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम्॥१६॥

अहं जगर्हे । वैचित्यात्पारोक्ष्ये लिट् निन्दितवान् ॥१६॥

अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।
तेषु रक्षां समाधाय प्रयातः सौभपातने॥१७॥

बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा ।
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्॥१८॥

साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ।
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन॥१९॥

शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ।
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः॥२०॥

बलदेवमुखाः सर्व इति मे निश्चिता मतिः ।
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।
सुविह्वलो महाराज पुनः शाल्वमयोधयम्॥२१॥

ततोऽपश्यं महाराज प्रपतन्तमहं तदा ।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत्॥२२॥

तस्य रूपं प्रपततः पितुर्मम नराधिप ।
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम्॥२३॥

विशीर्णमलिनोष्णीषप्रकीर्णाम्बरमूर्धजः ।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः॥२४॥

ततः शार्ङ्गधनुः श्रेष्ठं करात्प्रपतितं मम ।
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम्॥२५॥

ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् ।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत॥२६॥

प्रसार्य बाहू पततः प्रसार्य चरणावपि ।
रूपं पितुर्मे विबभौ शकुनेः पततो यथा॥२७॥

तं पतन्तं महाबाहो शूलपट्टिशपाणयः ।
अभिघ्नन्तो भृशं वीरा मम चेतो ह्यकम्पयन्॥२८॥

ततो मुहूर्तात्प्रतिलभ्य संज्ञामहं तदा वीर महाविमर्दे ।
न तत्र सौभं न रिपुं न शाल्वं पश्यामि वृद्धं पितरं न चापि॥२९॥

ततो ममासीन्मनसि मायेयमिति निश्चितम् ।
प्रबुद्धोऽस्मि ततो भूयः शतशोऽवाकिरच्छरान्॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने एकविंशोऽध्यायः॥२१॥
द्वाविंशोऽध्यायः

वासुदेव उवाच। ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः ।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्॥१॥

ततोऽहमिति ॥१॥

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।
प्रेषयं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः॥२॥

सुवाससः सुपुङ्खान् ॥२॥

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम्॥३॥

अथ दानवसङ्घास्ते विकृताननमूर्धजाः ।
उदक्रोशन्महाराज धिष्ठिते मयि भारत॥४॥

विकृताननमूर्धजा इति तेषां स्वरूपकथनं न तु तद्दर्शनं धिष्ठिते प्रागल्भ्येन स्थिते । विष्ठिते इति पाठेऽपि स एवार्थः ॥४॥

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे ।
अयोजयं तद्वधाय ततः शब्द उपारमत्॥५॥

शब्द एव साहो लक्ष्यं यत्र तत्तथा शब्दवेधि शब्दे अस्त्रम् उपारमत् न्यपतदित्यर्थः । शब्दसाहं शब्दबाधानिवारकं वा ॥५॥

हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः॥६॥

शब्दसाधनैः शब्द एव साधनं लक्ष्यसंबन्धे कारणं येषां तैः पुरस्यादृश्यत्वात् ॥६॥

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः॥७॥

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।
नादयामासुरसुरास्ते चापि निहता मया॥८॥

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।
सौभं कामगमं वीर मोहयन्मम चक्षुषी॥९॥

प्राग्ज्योतिषं पूर्वसमुद्रतीरस्थं नगरविशेषं यतः कामगमम् अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत॥९॥

ततो लोकान्तकरणो दानवो दारुणाकृतिः ।
शिलावर्षेण महता सहसा मां समावृणोत्॥१०॥

सोऽहं पर्वतवर्षेण वध्यमानः पुनः पुनः ।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्॥११॥

ततोऽहं पर्वतचितः सहयः सहसारथिः ।
अप्रख्यातिमियां राजन्सर्वतः पर्वतैश्चितः॥१२॥

अप्रख्यातिम् अदर्शनम् इयां प्राप्तवान् ॥१२॥

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।
ते भयार्ता दिशः सर्वे सहसा विप्रदुद्रुवुः॥१३॥

ततो हाहाकृतमभूत्सर्वं किल विशांपते ।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि॥१४॥

ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः॥१५॥

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि ।
एवं विजितवान्वीर पश्चादश्रौषमच्युत॥१६॥

एवमिति । हे वीर हे अच्युत एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् संज्ञालाभानन्तरं श्रुतवान्सारथिमुखेनेति शेषः ॥१६॥

ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम् ।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्॥१७॥

इन्द्रदयितं इन्द्रदैवत्यं वज्रं वज्रास्त्रं । यद्वा इन्द्रोप्यस्यैव विभूतिः अतस्तच्छत्रमप्येतदीयमेवेति ध्येयं समशातयं नाशितवान् ॥१७॥

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।
हया मम महाराज वेपमाना इवाभवन्॥१८॥

मेघजाल इवाकाशे विदार्याभ्युदितं रविम् ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः॥१९॥

आहारयन्प्राप्तवन्तः ॥१९॥

ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान् ।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः॥२०॥

तात्कालिकं तत्कालयोग्यम् ॥२०॥

साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर॥२१॥

मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ।
जहि शाल्वं महाबाहो मैनं जीवय केशव॥२२॥

सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा॥२३॥

योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ।
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो॥२४॥

पीठगः स्वासनस्थः अयुध्यमानोऽपीत्यर्थः ॥२४॥

जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोत्यगात्पुनः ।
नैष मार्दवसाध्यो वै मतो नापि सखा तव॥२५॥

येन त्वं योधितो वीर द्वारका चावमर्दिता ।
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः॥२६॥

तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ।
वधाय शाल्वराजस्य सौभस्य च निपातने॥२७॥

दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ।
ततो प्रतिहतं दिव्यमभेद्यमतिवीर्यवान्॥१८॥

आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ।
योजयं तत्र धनुषा दानवान्तकरं रणे॥१९॥

आहारयन्प्राप्तवन्तः ॥१९॥

यक्षाणां राक्षसानां च दानवानां च संयुगे ।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्॥३०॥

प्रतिलोमानां विपरीताचाराणां म्लेच्छानाम् ॥३०॥

क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्॥३१॥

क्षुरान्तं तीक्ष्णपरिधि ॥३१॥

जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा॥३२॥

तस्मै सौभाय प्राहिणवं प्रहितवान् ॥३२॥

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।
द्वितीयस्येव सूर्यस्य युगान्ते प्रपतिष्यतः॥३३॥

तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्॥३४॥

क्रकचः दन्तुरखड्गः ॥३४॥

द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा॥३५॥

तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।
पुनश्चादाय वेगेन शाल्वायेत्यहमब्रुवम्॥३६॥

ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे ।
द्विधा चकार सहसा प्रजज्वाल च तेजसा॥३७॥

तस्मिन्विनिहिते वीरे दानवास्त्रस्तचेतसः ।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः॥३८॥

ततोऽहं समवस्थाप्य रथं सौभसमीपतः ।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्॥३९॥

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः॥४०॥

एवं निहत्य समरे सौभं शाल्वं निपात्य च ।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम्॥४१॥

तदेतत्कारणं राजन्यदहं नागसाह्वयम् ।
नागमं परवीरघ्न न हि जीवेत्सुयोधनः॥४२॥

यद्यागच्छेयं तर्हि न हि जीवेत् ॥४२॥

मय्यागतेथवा वीरा द्यूतं न भविता तथा ।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम्॥४३॥

किं करिष्यामि अद्याहमकिंचित्कर इत्यर्थः । उदकं धारयितुमिति शेषः ॥४३॥

वैशम्पायन उवाच। एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः॥४४॥

अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः॥४५॥

परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः ।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः॥४६॥

सुभद्रामभिमन्युं च रथमारोप्य काच्चनम् ।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः॥४७॥

शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्॥४८॥

ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः ।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा॥४९॥

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्॥५०॥

धृष्टकेतुः शिशुपालसुतः स्वसारं करेणुमतीं नकुलभार्याम् ॥५०॥

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत॥५१॥

केकयाः सहदेवश्यालाः ॥५१॥

ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः ।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्॥५२॥

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ॥५३॥

समवायः मेलकः॥५३॥

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।
शशास पुरुषान्काले रथान्योजयतेति वै॥५४॥

शशास आज्ञापयामास । एवमुक्त्वा महाबाहुरित्याद्यध्यायशेषस्याग्रिमाध्यायसहितस्य तात्पर्यं पाण्डवेष्विव साधुषु सर्वे निसर्गात् रज्यन्ते धार्तराष्ट्रेष्विवासाधुषु द्वेषवन्तो भवन्तीति ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशोऽध्यायः

वैशम्पायन उवाच। तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च ।
यमौ च कृष्णा च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान्॥१॥

तस्मिन्निति ॥१॥

आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः ।
हिरण्यनिष्कान्वसनानि गाश्च प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः॥२॥

भूतपतिः शिवः निष्कः अष्टोत्तरशतं सुवर्णानि वक्षोऽलंकारो वा । शिक्षेति व्याकरणद्यङ्गानामुपलक्षणम्। अक्षराणि वेदः । नित्यत्वात्क्षरणशून्यः । ‘वाचा विरूपनित्यया’ इति श्रुतेः । मन्त्रः प्रणवः तान्पाठतोऽर्थतश्च जानद्भ्यः शिक्षाक्षरमन्त्रविद्भ्यः ॥२॥

प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि शस्त्राणि शरांश्च दीप्तान् ।
मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः॥३॥

प्रेष्याः कर्मकराः पुरः प्रागेव जघन्यं पाश्चात्यं द्वारकादेशम् ॥३॥

ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च ।
तदिन्द्रसेनस्त्वरितः प्रगृह्य जघन्यमेवोपययौ रथेन॥४॥

राजपुत्र्या सुभद्रया सह ॥४॥

ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्त्वाः ।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम्॥५॥

स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः ।
तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम्॥६॥

पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा ।
ते चापि तस्मिन्भरतप्रबर्हे तदा बभूवुः पितरीव पुत्राः॥७॥

प्रबर्हे श्रेष्ठे ॥७॥

ततस्तमासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः ।
हा नाथ हा धर्म इति ब्रुवाणा ह्रीताश्च सर्वेऽश्रुमुखाश्च राजन्॥८॥

ह्रीताः कुराज्ये तिष्ठाम इति हेतोः शङ्कया लज्जिताः भीता इति पाठान्तरम् ॥८॥

वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् ।
पौरानिमाञ्जानपदांश्च सर्वान्हित्वा प्रयातः क्व नु धर्मराजः॥९॥

धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं धिक्सौबलं पापमतिं च कर्णम् ।
अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवैवम्॥१०॥

अनर्थं द्यूतजम्। एवम् एवं प्रकारम् ॥१०॥

स्वयं निवेश्याप्रतिमं महात्मा पुरं महादेवपुरप्रकाशम् ।
शतक्रतुप्रस्थममेयकर्मा हित्वा प्रयातः क्व नु धर्मराजः॥११॥

चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम् ।
तां देवगुप्तामिव देवमायां हित्वा प्रयातः क्व नु धर्मराजः॥१२॥

तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच ।
आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि॥१३॥

बीभत्सुरर्जुनः । आदास्यते आच्छिद्य ग्रहीष्यति । यशांसि यशस्कराणि दिव्यसभादीनि ॥१३॥

द्विजातिमुख्याः सहिताः पृथक्च भवद्भिरासाद्य तपस्विनश्च ।
प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः॥१४॥

भवद्भिः पौरैः । वाच्याः प्रार्थाः ॥१४॥

इत्येवमुक्ते वचनेऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् ।
मुदाभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतां वरिष्ठम्॥१५॥

आमन्त्र्य पार्थं च वृकोदरं च धनञ्जयं याज्ञसेनीं यमौ च ।
प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथा स्वम्॥१६॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशोऽध्यायः

वैशम्पायन उवाच। ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः ।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः॥१॥

तत इति । सत्यसंगरः सत्यप्रतिज्ञः॥१॥

द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने ।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्॥२॥

समाः वर्षाणि संधिरार्षः ॥२॥

बहुपुष्पफलं रम्यं शिवं पुण्यजनावृतम् ।
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि॥३॥

शरदो वत्सरान् ॥३॥

एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः ।
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम्॥४॥

अर्जुन उवाच। भवानेव महर्षीणां वृद्धानां पर्युपासिता ।
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन॥५॥

त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ ।
द्वैपायनप्रभृतयो नारदश्च महातपाः॥६॥

यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी ।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि॥७॥

अनुभावांश्च जानासि ब्राह्मणानां न संशयः ।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव॥८॥

अनुभावान् कर्तव्याकर्तव्यविषयान् निश्चयान्। प्रभावो निग्रहानुग्रहशक्तिः ‘अनुभावो निश्चये स्यात्प्रभावः शक्तितेजसोः’ इति विश्वः ॥८॥

त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।
यत्रेच्छसि महाराज निवासं तत्र कुर्महे॥९॥

श्रेयो मोक्षः कारणं तत्साधनम् ॥९॥

इदं द्वैतवनं नाम सरः पुण्यजलोचितम् ।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्॥१०॥

द्वैतं द्वौ शोकमोहौ इतौ गतौ यस्मात्तद्द्वीतं द्वीतमेव द्वैतम् । स्वार्थे तद्धितः । वनं जलं यस्मिन् द्वैतवनं पुण्येन पावनेन जलेन उचितं समवेतम् एतेन द्वैतवनशब्दार्थः सूचितः । उचसमवायेदिवादिः॥१०॥

यत्रेमा द्वादशसमा विहरेमेति रोचये ।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान्॥११॥

विहरेम प्रीत्या नयेम ॥११॥

युधिष्ठिर उवाच। ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः॥१२॥

वैशम्पायन उवाच। ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः॥१३॥

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः॥१४॥

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।
तपःसिद्धा महात्मानः शतशः संशितव्रताः॥१५॥

ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिः सह ।
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः॥१६॥

यात्वा गत्वा ॥१६॥

तमालतालाम्रमधूकनीपकदम्बसर्जार्जुनकर्णिकारैः ।
तपात्यये पुष्पधरैरुपेतं महावलं राष्ट्रपतिर्ददर्श॥१७॥

तपात्यये वर्षासु । महाबलं महावनम् । दन्त्यादिरयं शब्दः । देवा वै वले गाः पर्यपश्यन् इति वने वलशब्दप्रयोगदर्शनात् ॥१७॥

महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः ।
मयूरदात्यूहचकोरसङ्घास्तस्मिन्वने बर्हिणकोकिलाश्च॥१८॥

करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् ।
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श॥१९॥

करेणुः हस्तिनी ॥१९॥

मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम् ।
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्॥२०॥

भोगवतीं सरस्वतीं नदीम् ॥२०॥

ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् ।
विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः॥२१॥

तं सत्यसन्धं सहिताभिपेतुर्दिदृक्षवश्चारणसिद्धसङ्घाः ।
वनौकसश्चापि नरेन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः॥२२॥

चारणाः देवगायनाः सिद्धा महर्षयः ॥२२॥

स तत्र सिद्धानभिवाद्य सर्वान्प्रत्यर्चितो राजवद्देववच्च ।
विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः॥२३॥

स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य ।
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा॥२४॥

महाद्रुमः कदम्बः ॥२४॥

भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम् ।
विमुच्य वाहानवरशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः॥२५॥

लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरेव धन्विभिः ।
बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव॥२६॥

लतावातानावनतः वल्लीतन्तुभिरावृततया नम्रः ॥२६॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे चतुर्विंशोऽध्यायः॥२४॥
पञ्चविंशोऽध्यायः

वैशम्पायन उवाच। तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् ।
विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु॥१॥

तत्काननमित्याद्यध्यायद्वयेन वृद्धतमाभ्यां मार्कण्डेयदाल्भ्याभ्यां धर्मस्यात्यागो ब्राह्मणभक्तिश्च कर्तव्येत्युच्यते । तत्कारणमिति पाठे तत् वनं कारणं चिक्रीडिषाहेतुः कृच्छ्रं वनवाससंकटम् ॥१॥

यतींश्च राजा स मुनींश्च सर्वांस्तस्मिन्वने मूलफलैरुदग्रैः ।
द्विजातिमुख्यानृषभः कुरूणां सन्तर्पयामास महानुभावः॥२॥

इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम् ।
पुरोहितस्तत्र समृद्धतेजाश्चकार धौम्यः पितृवत्कुरूणाम्॥३॥

इष्टीः दर्शपौर्णमासाद्याः पित्र्याणि पिण्डपितृयज्ञदर्शश्राद्धादीनि ॥३॥

अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम ।
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम्॥४॥

राष्ट्रात् अपेत्य निर्गत्य वने वसतां तीव्रं दुःसहं समृद्धं पुष्कलं च तेजो यस्य ॥४॥

तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः ।
अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्त्ववीर्यवान्॥५॥

स सर्वविद्द्रौपदीं वीक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च ।
संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः॥६॥

अस्मयत विस्मितवान् ॥६॥

तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनोऽमी ।
भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य॥७॥

ह्रिया प्रागल्भ्यसंकोचेन ॥७॥

मार्कण्डेय उवाच। न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः ।
तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि॥८॥

स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् ।
धन्वी चरन्पार्थ मयैव दृष्टो गिरेः पुरा ऋष्यमूकस्य सानौ॥९॥

सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता ।
पितुर्निदेशादनघः स्वधर्मं वासं वने दाशरथिश्चकार॥१०॥

सहस्रनेत्रः प्रतिमा रूपान्तरं यस्य । ‘देवानामस्मि वासवः’ इत्युक्तत्वात् । अत एव यमस्य नियन्तुरपि नेता निर्वाहकः नमुचेश्च हन्ता इति सर्वमिन्द्रकर्म तस्यैव कर्मेत्यर्यः ॥१०॥

स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः ।
विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम्॥११॥

तदेवाह स चेति । शक्रस्य समप्रभावः कृत्स्नप्रभावः समशब्दः सर्वपर्यायः सर्वनामा । प्रभावः शक्तिः । अनुभावो भावसूचनं विद्याबलमित्यर्थः । शक्रस्य प्रभावादिकमयमेवातोऽसौ समरेष्वजेयः । तस्मादिति सर्वत्राध्याहारः । बलस्य बहुसामर्थ्यस्य ईशे प्रभवामीति हेतोरधर्मं न चरेत् । शक्तौ सत्यां धर्ममेवाचरेन्न त्वधर्ममित्यर्थः ॥११॥

भूपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य ।
सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम्॥१२॥

अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूषराजम् ।
विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम्॥१३॥

धात्रा विधिर्यो विहितः पुराणैस्तं पूजयन्तो नरवर्य सन्तः ।
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम्॥१४॥

धात्रा ईशेन पुराणैर्वेदवाक्यैर्विहितो विधिरग्निहोत्रादिः ॥१४॥

महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र ।
स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम्॥१५॥

पशवोऽपि बलवानस्मीति दर्पणाधर्मं न चरन्तीत्याह । महाबलानिति । ‘विषाणं दन्तशृङ्गयोः’ इति कोशः ॥१५॥

सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद्विहितं विधात्रा ।
स्वयोनितः कर्म सदाचरन्ति नेशे बलस्येति चरेदधर्मम्॥१६॥

एवं सर्पादिष्वपि ज्ञेयमित्याह सर्वाणीति । स्वयोनितः जन्मानुरूपम् ॥१६॥

सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य ।
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ॥१७॥

विभा प्रभा सैव वसु वित्तं यस्य ॥१७॥

यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य ।
ततः श्रियं तेजसा तेन दीप्ता मादास्यसे पार्थिव कौरवेभ्यः॥१८॥

आदास्यसे ग्रहीष्यसि ॥१८॥

वैशम्पायन उवाच। तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्भिः ।
आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः॥१९॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे पञ्चविंशोऽध्यायः॥२५॥
षड्विंशोऽध्यायः

वैशम्पायन उवाच। वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत॥१॥

वसत्स्विति । अनुकीर्णं व्याप्तम् ॥१॥

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः॥२॥

यजुषामृचां साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निःस्वनो हृदयङ्गमः॥३॥

गद्यानां ब्राह्मणवाक्यानां पादाक्षरादिनियमहीनानाम् ॥३॥

ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत॥४॥

अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम्॥५॥

सन्ध्यामुपास्येति शेषः ॥५॥

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम्॥६॥

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह॥७॥

आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया॥८॥

इदं तु वचनं पार्थ शृणुष्व गदतो मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव॥९॥

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ॥१०॥

नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम् ।
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान्॥११॥

अब्राह्मणोः ब्राह्मणहीनो नृपः । बुभूषेत् ऐश्वर्यमिच्छेत् तस्येच्छतोऽपि जयो दुर्लभ इत्यर्थः । विनीतौ सम्यक् शिक्षितौ धर्मार्थौ येन ॥११॥

चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात्॥१२॥

तीर्थम् उपायम् ॥१२॥

अनूनमासीदसुरस्य कामैर्वैरोचनेः श्रीरपि चाक्षयासीत् ।
लब्ध्वा महीं ब्राह्मणसम्प्रयोगात्तेष्वाचरन्दुष्टमथो व्यनश्यत्॥१३॥

वैरोचनेः बलेः ॥१३॥

नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय ।
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम्॥१४॥

कुञ्जरस्येव सङ्ग्रामे परिगृह्याङ्कुशग्रहम् ।
ब्राह्मणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम्॥१५॥

अङ्कुशग्रहम् अङ्कुशेन निगृह्णाति तम्। परिगृह्य वर्जयित्वा परिर्वर्जने ॥१५॥

ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति॥१६॥

यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम्॥१७॥

ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये॥१८॥

बुद्धिपर्येषणं बुद्धेः साकल्येन संग्रहणम् ॥१८॥

अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय ।
यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय॥१९॥

यथार्हतीर्थे यथायोग्यपात्रे प्रतिपादनाय दानाय ॥१९॥

ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः॥२०॥

वृत्तिर्वर्तनम् ॥२०॥

वैशंपायन उवाच। ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् ।
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्॥२१॥

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्॥२२॥

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः॥२३॥

कृतवाक्च सुवाक्चैव बृहदश्वो विभावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः॥२४॥

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे षड्विंशोऽध्यायः॥२६॥
सप्तविंशोऽध्यायः

वैशंपायन उवाच। ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः॥१॥

तत इति । इतोऽध्यायद्वयस्य तात्पर्यं सुशीलापि स्त्री धर्मं त्याजयति किमुतेतरेति ॥१॥

प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत्॥२॥

द्रौपद्युवाच। न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन ।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः॥३॥

अस्मासु दुःखितेष्विति शेषः ॥३॥

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः॥४॥

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा॥५॥

सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः ।
ईदृशं दुःखमानीय मोदते पापपूरुषः॥६॥

आनीय प्रापय्य ॥६॥

चतुर्णामेव पापानामस्त्रं न पतितं तदा ।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि॥७॥

अस्रं नेत्रजलम् ॥७॥

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःशासनस्य च॥८॥

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्॥९॥

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्॥१०॥

दान्तं यच्च सभामध्य आसनं रत्नभूषितम् ।
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम्॥११॥

दान्तं गजदन्तमयम् । कुशबृसीं कुशासनम् । रुन्धयति आवृणोति मोहयतीत्यर्थः ॥११॥

यदपश्यं सभायां त्वां राजभिः परिवारितम् ।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे॥१२॥

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत॥१३॥

त्वाहं त्वामहम् आदिग्धं लिप्तम् ॥१३॥

या त्वाहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा ।
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्॥१४॥

कौशिकैः कोशजैः ॥१४॥

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्॥१५॥

यतीनामगृहाणां ते तथैव गृहमेधिनाम् ।
दीयते भोजनं राजन्नतीवगुणवत्प्रभो॥१६॥

अगृहाणां ब्रह्मचारिणाम् ॥१६॥

सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे ।
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्॥१७॥

सहस्राणि सहस्रसंज्ञानि सत्रपरिवेषणपात्राणि । ‘तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्ति’ इति बहृचब्राह्मणे दर्शनात् । सत्कृतानि प्रत्यहमुपयोगात्संभावितानि । सर्वकामैः काम्यमानैरन्नैः। यत् यैः सहस्रैः सर्वैः कामैर्मनोरथैर्द्विजान् अपूजयथाः । वने तु एकमेव सूर्यदत्तं परिवेषणपात्रमित्यर्थः ॥१७॥

तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ।
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः॥१८॥

अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ।
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः॥१९॥

अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ।
भीमसेनमिमं चापि दुःखितं वनवासिनम्॥२०॥

ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते ।
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्॥२१॥

मन्युः क्रोधः ॥२१॥

सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा॥२२॥

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः॥२३॥

त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः ।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना॥२४॥

अर्जुनेन कार्तवीर्येण ॥२४॥

शरावमर्दे शीघ्रत्वात्कालान्तकयमोपमः ।
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः॥२५॥

शरावमर्दे बाणपाते ॥२५॥

यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ।
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः॥२६॥

ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि ।
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्॥२७॥

न च ते वर्धते मन्युस्तेन मुह्यामि भारत ।
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्॥२८॥

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः॥२९॥

प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तप ।
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः॥३०॥

आदत्त आत्तवान् ॥३०॥

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे॥३१॥

चर्मिणां खड्गचर्मधराणाम् ॥३१॥

नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ।
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर॥३२॥

सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव ।
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ॥३३॥

अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते ।
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः॥३४॥

धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम् ।
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव॥३५॥

नूनं च तव वै नास्ति मन्युर्भरतसत्तम ।
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः॥३६॥

न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् ।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्॥३७॥

निर्वचनं क्षत्रियशब्दस्य क्षरते हिनस्तीति क्षत्रमिति ॥३७॥

यो न दर्शयते तेजः क्षत्रियः काल आगते ।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत॥३८॥

हिंस्रत्वं निन्द्यमिति चेत्तत्राह यो नेति । तेजः क्रोधः ॥३८॥

तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन ।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः॥३९॥

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति॥४०॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीपरितापवाक्ये सप्तविंशोऽध्यायः॥२७॥
अष्टाविंशोऽध्यायः

द्रौपद्युवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च॥१॥

अत्रापीति ॥१॥

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः॥२॥

आगतागमं प्राप्तरहस्यम् ॥२॥

बलिरुवाच। क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते॥३॥

श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम्॥४॥

श्रेयः प्रशस्ततरम् अत्र क्षमा तेजसोर्मध्ये ॥४॥

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते॥५॥

प्रह्लाद उवाच। न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात विजानीहि द्वयमेतदसंशयम्॥६॥

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।
भृत्याः परिभवन्त्येनमुदासीनास्तथारयः॥७॥

सर्वभूतानि चाप्यस्य न नमन्ते कदाचन ।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता॥८॥

अस्य एनम् ॥८॥

अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम् ।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः॥९॥

यानं वस्त्राण्यलङ्काराञ्च्छयनान्यासनानि च ।
भोजनान्यथ पानानि सर्वोपकरणानि च॥१०॥

आददीरन्नधिकृता यथाकाममचेतसः ।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्॥११॥

अधिकृताः अन्नपानादिसंरक्षणे नियुक्ताः प्रदिष्टानि इदमस्मै देयमित्याज्ञापितानि ॥११॥

न चैनं भर्तृपूजाभिः पूजयन्ति कथञ्चन ।
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्॥१२॥

एनं क्षमिणं भर्तृपूजाभिः स्वाम्युचितमानेन ॥१२॥

क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि ।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः॥१३॥

अथास्य दारानिच्छन्ति परिभूय क्षमावतः ।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः॥१४॥

तथा च नित्यमुदिता यदि नाल्पमपीश्वरात् ।
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते॥१५॥

नित्यमुदिताः नित्यं होलकाद्युत्सवपराः ॥१५॥

एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम्॥१६॥

अस्थाने यदि वा स्थाने सततं रजसा वृतः ।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा॥१७॥

तेजसा क्रोधेन ॥१७॥

मित्रैः सह विरोधं च प्राप्नुते तेजसा वृतः ।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा॥१८॥

सोऽवमानादर्थहानिमुपालम्भमनादरम् ।
सन्तापद्वेषमोहांश्च शत्रूंश्च लभते नरः॥१९॥

उपालम्भं धिक्कारम् ॥१९॥

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात् ।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि॥२०॥

योऽपकर्तॄंश्च हर्तॄंश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव॥२१॥

उपकर्तॄनिति छेदः संधिरार्षः । उपकर्तॄन् कोशादिवृद्धिकरान् हर्तॄन् चोरान् ॥२१॥

यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् ।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्॥२२॥

भवः ऐश्वर्यम् । अन्तरं छिद्रं । विकुरुते प्रथयति ॥२२॥

तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।
काले काले तु संप्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत्॥२३॥

काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च॥२४॥

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः॥२५॥

असंत्याज्याः क्रोधेनानतिक्रमणीयाः ॥२५॥

पूर्वोपकारी यस्ते स्यादपराधे गरीयसि ।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः॥२६॥

पूर्वेषां पूर्वकाले वा उपकारी उपकर्ता ॥२६॥

अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनः ।
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै॥२७॥

अबुद्धिं मौढ्यम् ॥२७॥

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून्॥२८॥

सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्॥२९॥

अपकृते अपकारे ॥२९॥

अजानता भवेत्कश्चिदपराधः कृतो यदि ।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया॥३०॥

मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम् ।
नासाध्यं मृदुना किञ्चित्तस्मात्तीव्रतरं मृदु॥३१॥

मृदुना साम्ना ॥३१॥

देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः ।
नादेशकाले किञ्चित्स्याद्देशकालौ प्रतीक्ष्यताम् ।
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः॥३२॥

सामापि देशकालापेक्षयैव कर्तव्यमित्याह देशेति ॥३२॥

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते॥३३॥

तदहं तेजसः कालं तव मन्ये नराधिप ।
धार्तराष्ट्रेषु लब्धेषु सततं चापकारिषु॥३४॥

न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि॥३५॥

उत्स्रष्टुं प्रयोक्तुम् ॥३५॥

मृदुर्भवत्यनुज्ञातस्तीक्ष्णादुद्विजते जनः ।
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः॥३६॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये अष्टाविंशोऽध्यायः॥२८॥
ऊनत्रिंशोऽध्यायः

युधिष्ठिर उवाच। क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ॥१॥

क्रोध इति । परैरपकृताः आप्तैश्चोद्दीपिताः सामर्थ्यवन्तोऽपि सन्तः क्षमामेव श्रयन्तः इत्यध्यायतात्पर्यम्। भावयिता वर्धयिता जितः सन्निति शेषः ॥१॥

यो हि संहरते क्रोधं भवस्तस्य सुशोभने ।
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ।
तस्याभावाय भवति क्रोधः परमदारुणः॥२॥

तदेवाह योऽहीति ॥२॥

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्॥३॥

लोक आत्मा स्वर्गो वा तन्नाशनम् ॥३॥

क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते॥४॥

तदेवाह क्रुद्ध इति। श्रेयसः श्रेष्ठान् श्रेयोऽपि प्राप्येति वा ल्यब्लोपे पञ्चमीमाश्रित्य व्याख्येयम्॥४॥

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा॥५॥

हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च ।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्॥६॥

एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्॥७॥

तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् ।
एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते॥८॥

तं क्रोधं विक्रमम् । धीरैरिति पाठे विपरीतः क्रमो येन तमित्यर्थः । चरेत् आचरेत् ॥८॥

आत्मानं च परांश्चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः॥९॥

अप्रतिक्रुध्यन् त्रायते द्वयोरात्मपरयोः चिकित्सकः दोषापहर्ता ॥९॥

मूढो यदि क्लिश्यमानः क्लिश्यतेऽशक्तिमान्नरः ।
बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना॥१०॥

एतदेवाह मूढ इति । बलीयसामुपरि यदि अशक्तिमान् क्लिश्यते क्रुध्यते । तर्हि आत्मानं देहं त्यजति ॥१०॥

तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः ।
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्॥११॥

अनात्मनः अजितचित्तस्य । नियमनं कर्तव्यमिति स्मृतम् । अशक्तः क्रोधं जित्वा आत्मानमात्महत्यादोषात् । परं च परहत्यादोषात्त्रायत इत्यर्थः ॥११॥

विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति ।
अनाशयित्वा क्लेष्टारं परलोके च नन्दति॥१२॥

शक्तस्यापि क्रोधजये आत्मपरत्रातृत्वमाह विद्वानिति॥१२॥

तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता॥१३॥

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।
क्षमावतो जयो नित्यं साधोरिह सतां मतम्॥१४॥

सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता ।
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्॥१५॥

मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ।
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः॥१६॥

प्रसृजेत्प्रकर्षेण प्रयुञ्जीत । सुयोधनवधादपि सुयोधनाद्वधं प्राप्यापीत्यर्थः । यदुक्तं ‘तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि’ इति तत्राह तेजस्वीति । क्रोधजिदेव तेजस्वी न तु क्रोधीत्यर्थः ॥१६॥

न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ।
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥१७॥

तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ।
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति॥१८॥

प्रत्युत क्रोधाजये दोषमाह क्रुद्धो होति ॥१८॥

हन्त्यवध्यानपि क्रुद्धो गुरून्क्रुद्धस्तुदत्यपि ।
तस्मात्तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः॥१९॥

तुदति व्यथयति परुषोक्त्यादिना तेजसि सति क्रोधजयित्वमेव तेजो नान्यदित्यर्थः ॥१९॥

दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा॥२०॥

एतदेव तेजोलक्षणप्रदर्शनेन प्रतिपादयति दाक्ष्यमिति । दाक्ष्यं कर्मसु कौशलम् । अमर्षः शत्रोरपकारोपायचिन्तनम् । शौर्यं पराभिभवशक्तिः । शीघ्रत्वम् आशुकारिता । अञ्जसा आर्जवेन ॥२०॥

क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम्॥२१॥

क्रुद्धेः कालयुक्तं देशकालोपपन्नं तेजः सुदुःसहम् ॥२१॥

क्रोधस्तु पण्डितैः शश्वत्तेज इत्यभिनिश्चितम् ।
रजस्तु लोकनाशाय विहितं मानुषं प्रति॥२२॥

पण्डितैरित्युपहासो मूर्खैरित्यर्थः । अपण्डितैरिति गौडपाठः स्वच्छः । रजः रजोगुणपरिणामः ॥२२॥

तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्॥२३॥

स्वधर्मान् अपगः अपहाय गच्छतीति तथा द्वितीयाया अलुगार्षः । जातिभ्रष्टात् पतितादपि क्रोधी हीन इत्यर्थः ॥२३॥

यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् ।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते॥२४॥

सर्वं क्षमार्जवादिकम् अबुद्धीनां मूढैः अतिक्रान्तं लङ्घितम् अनिन्दिते प्रशस्ते विषये क्षमादौ॥२४॥

यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः ।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः॥२५॥

अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्॥२६॥

अभिषक्तः तापितः अभिषजेत्तापयेत् गुरुणापि हतस्तम् आहन्यात् ताडयेत् किमुतान्यमिति भावः एवं विनाशः अधर्मश्च प्रथितो भवेत् ॥२६॥

आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम् ।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः॥२७॥

आक्रुष्टो वाचा ताडितः हतोऽन्येनाभिगतः हिंसितस्ताडितः ॥२७॥

हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च॥२८॥

एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते ।
प्रजानां सन्धिमूलं हि जन्मविद्धि शुभानने॥२९॥

जन्म उत्पत्तिः तत्र हेतुः प्रजानां संधिः दंपत्योः प्रीतिः । शम इति पाठे क्षमा ॥२९॥

ताः क्षिपेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे ।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च॥३०॥

तादृशे क्रोधपरे राज्ञि सति क्षिपेरन् नश्येयुः। अभवाय अनैश्वर्याय ॥३०॥

यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते॥३१॥

जन्म प्रतिपद्यते अन्यथा क्रोधप्राबल्ये पूर्ववयस्येव दंपत्योर्नाशाज्जन्मासंभव इत्यर्थः ॥३१॥

क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने ।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥३२॥

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा ।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥३३॥

बलीयसा बलवत्तरेण स्वाम्यादिना यथा आक्रुष्टस्ताडितो वाऽशक्तः क्षमते तथा यः प्रभाववानपि क्षमते तस्य लोका इति सार्धश्लोको वाक्यम् ॥३३॥

प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति॥३४॥

अन्यथा दोषमाहार्धेन क्रोधनस्त्विति ॥३४॥

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना॥३५॥

अत्रेति । क्षमावतां गाथाः प्रशंसाः क्षमावतां मध्ये महात्मना ॥३५॥

क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
य एतदेवं जानाति स सर्वं क्षन्तुमर्हति॥३६॥

क्षमा धर्म इति । क्षमाहीनस्य धर्मादिरनर्थकर इत्यर्थः । यः धर्मादिफलार्थी ॥३६॥

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत्॥३७॥

ब्रह्म ब्राह्मणजातिः सत्यं परं ब्रह्मापि क्षमाप्राप्यं भूतं संचितं तपः भावि च क्षमेव रक्षति ॥३७॥

अतियज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च ।
अतिब्रह्मविदां लोकानति चापि तपस्विनाम्॥३८॥

अति अतिक्रम्य प्राप्नुवन्ति तदूर्ध्वं पदमिति शेषः ब्रह्मविदां वेदविदाम् ॥३८॥

अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः॥३९॥

यजुषां त्रेताग्निसाध्यकर्मवतां कर्मिणां वापीकूपादिधर्मवताम् ॥३९॥

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः॥४०॥

तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः॥४१॥

क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा॥४२॥

सर्वे मनः प्राणेन्द्रियाणां वेगं क्षमते सोढुं शक्नोति ॥४२॥

क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छन्ति परत्र च शुभां गतिम्॥४३॥

येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता॥४४॥

परतरे सत्यलोके लोकाः भोग्यपदार्थाः ॥४४॥

इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः॥४५॥

तुष्य तुष्टा भव ॥४५॥

पितामहः शान्तनवः शमं सम्पूजयिष्यति ।
कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति॥४६॥

आचार्यो विदुरः क्षत्ता क्षममेव वदिष्यतः ।
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः॥४७॥

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः॥४८॥

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति॥४९॥

राजा धृतराष्ट्रः तत्पुत्रो वा दाता दास्यति ॥४९॥

कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।
निश्चितं मे सदैवैतत्पुरस्तादपि भाविनि॥५०॥

अभूतये नाशाय ॥५०॥

सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा॥५१॥

नार्हति राज्यमिति शेषः तत्र हेतुः इतीति । एवम् उक्तरीत्या ॥५१॥

एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा॥५२॥

अञ्जसा तत्त्वतः ॥५२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीयुधिष्ठिरसंवादे ऊनत्रिंशोऽध्यायः॥२९॥
त्रिंशोऽध्यायः

द्रौपद्युवाच। नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः॥१॥

नमो धात्रे इति । धात्रे ईश्वराय विधात्रे पूर्वकर्मणे वृत्ते बलेन राज्याक्रमणरूपे ॥१॥

कर्मभिश्चिन्तितो लोके गत्यां गत्यां पृथग्विधः ।
तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति॥२॥

ईश्वरस्यापि कर्मापेक्षत्वात्प्रथमं कर्मप्राबल्यमेवाह कर्मभिरिति । चिन्तितः कल्पितो लोको भोगसाधनं गत्यां गत्याम् ऊर्ध्वाधो मध्यमोत्तमाधमयोनिषु। नित्यानि अपरिहार्यफलानि । लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ॥२॥

नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्॥३॥

कर्मनित्यत्वमेवाह नेहेति । इह जन्मनि पुरुषः पूर्वकर्मभिर्बाध्यमानो धर्मादिना न श्रियमाप्नोति । आनृशंस्यं दया घृणा लोकापवादभयम् ॥३॥

त्वां च व्यसनमभ्यागादिदं भारत दुःसहम् ।
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः॥४॥

तत्र त्वमेव दृष्टान्त इत्याह त्वामित्यादिना ॥४॥

न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत ।
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह॥५॥

तदानीं राज्यकाले अद्य राज्यच्युतौ जातु कदाचित् धर्मात्प्रियतरं न हि ते अध्यगमन् ज्ञातवन्तः किं तु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ॥५॥

धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः॥६॥

भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह ।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः॥७॥

राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति॥८॥

अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते ।
बुद्धिः सततमन्वेतिच्छायेव पुरुषं निजा॥९॥

नावमस्था हि सदृशान्नावराञ्च्छ्रेयसः कुतः ।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत॥१०॥

श्रृङ्गं प्रभुत्वाभिमानः ॥१०॥

स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे॥११॥

ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत॥१२॥

ते त्वया मोक्षिणः संन्यासिनः मोक्षाश्रमस्थाः ॥१२॥

भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका ।
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि ।
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते॥१३॥

आरण्यकेभ्यो वानप्रस्थेभ्यः । लौहानि सौवर्णादीनि । लोहानां काच्चनं वरमिति लिङ्गात् ॥१३॥

यदिदं वैश्वदेवं ते शान्तये क्रियते गृहे ।
तद्दत्त्वातिथिभूतेभ्यो राजञ्च्छिष्टेन जीवसि॥१४॥

इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये ।
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा॥१५॥

पाकयज्ञाः गृह्याग्निसाध्या इष्टयः ॥१५॥

अस्मिन्नपि महारण्ये विजने दस्युसेविते ।
राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति॥१६॥

अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः ।
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः॥१७॥

राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः॥१८॥

परीतया विपरीतया ॥१८॥

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।
कथमक्षव्यसनजा बुद्धिरापतिता तव॥१९॥

ऋजोः अवक्रस्य मृदोः दयालोः ॥१९॥

अतीव मोहमायाति मनश्च परिभूयते ।
निशाम्यते दुःखमिदमिमां चापदमीदृशीम्॥२०॥

निशाम्य आलोच्य मम मनः मोहं मौढ्यम् आयाति परिभूयते चेत्यन्वयः । परिभव आर्तिः ॥२०॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ईश्वरस्य वशे लोकास्तिष्ठन्ते नात्मनो यथा॥२१॥

लोकाः भोग्यानि तिष्ठन्ते प्रकाशन्ते । प्रकाशनस्थेयाख्ययोश्चेति तङ् ॥२१॥

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्॥२२॥

धाता ईश्वरः । शुक्रं प्राक्कर्मबीजम् । उच्चरन् उत्कर्षेणानुसरन् ॥२२॥

यथा दारुमयी योषा नरवीर समाहिता ।
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः॥२३॥

यथेति । हे नरवीर सूत्रधारेण समाहिता सम्यक् नियुक्ता सती अङ्गम् ईरयति तथा इमाः प्रजाः अङ्गानि हस्तादीनि ईश्वरेण समाहिताः सत्य ईरयन्ति । चेष्टयन्त्यङ्गकर्माणीति पाठे हे अङ्ग कर्माणि कर्तॄणि कर्मानुरोधी ईश्वर इत्यर्थः । इमाः प्रजाश्चेष्टयन्तीति संबन्धः ॥२३॥

आकाश इव भूतानि व्याप्य सर्वाणि भारत ।
ईश्वरो विदधातीह कल्याणं यच्च पापकम्॥२४॥

अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः । भूतानि जरायुजादीनि ॥२४॥

शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः ।
ईश्वरस्य वशे तिष्ठेन्नान्येषां नात्मनः प्रभुः॥२५॥

बद्धो वा बद्ध इव अन्येषाम् उपाध्यायादीनाम् ॥२५॥

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः॥२६॥

नसि नासिकायां नस्यं नासासूत्रं तेन वा ओतः प्रोतः । अत्र द्वौ आकाशशकुनिसूत्रदृष्टान्तौ ईश्वरस्य व्यापकत्वप्रेरकत्वयोः त्रयो मणिवृषवृक्षदृष्टान्ता जीवस्यास्वातन्त्र्ये ॥२६॥

धातुरादेशमन्वेति तन्मयो हि तदर्पणः ।
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन॥२७॥

आदेशम् आज्ञाम् अन्वेत्ति अनुसरति तत्र हेतुः तन्मयो हि तदर्पण इति । यथा मृन्मयो घटो मृद्येव लीयतेऽतो मध्येऽपि मृदधीनोऽनन्य एवं जीवोऽपीश्वरस्यैव रूपभेदस्तन्मयस्तदर्पणश्चातो मध्येऽपि तत्प्रेर्य एवेत्यर्थः यथोक्तम् । ‘अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्’ इति यद्यन्मयं तत्तन्नियम्यमिति तस्यार्थः। अयम् आत्माधीनो न किं तु कंचन अनिर्देश्यरूपं कालं कालयितारम् ईशं भजत्यनुसरति ॥२७॥

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च॥२८॥

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।
धातुरेवं वशं यान्ति सर्वभूतानि भारत॥२९॥

आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः ।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते॥३०॥

चरते भुङ्क्ते कर्म व्यतिहारे तङ् । फलप्रदत्वेनोपकारकम् ईशं जीवो भुङ्क्ते । कर्मकर्तृत्वेनोपकारकं जीवमीशो भुङ्क्त इत्यर्थः । अयमिति । राजवत्तटस्थतया न च लक्ष्यते अन्तर्यामित्वात् ॥३०॥

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् ।
येन कारयते कर्म शुभाशुभफलं विभुः॥३१॥

नन्वीश्वरो जीवादन्योऽनन्यो वा । आद्ये न चायमिति लक्ष्यत इत्यनुपपन्नम् । द्वितीये तयोः शास्तृशास्यभावानुपपत्तिरित्याशंक्याह हेतुमात्रमिति । विभुश्चिदात्मा येन प्रयोज्येन कर्म कारयते तत इदं शरीरं महाभूतान्यहंकार इत्यादिना उक्तरूपं स्थूलसूक्ष्मदेहद्वयं तदेव कर्तृ इत्यर्थः । ननु जडे कर्तृत्वासंभव इत्याशंक्याह धातुः क्षेत्रसंज्ञितं क्षेत्रमिव क्षेत्रं चिदात्मनः आभासरूपबीजनिवायस्थानं चिदाभासयुक्तं क्षेत्रं कर्तृ इत्यर्थः । तच्च हेतुमात्रं इच्छाद्यात्मकत्वात् हेतुरपि न मुख्यहेतुभूतं बिम्बप्रतिबिम्बदृष्टान्तेन चिदाभासस्य चिदात्मतन्त्रत्वात् । तथा चाभासस्यान्यत्वमादाय शास्तृशास्यभावो व्यावहारिकः । परमार्थतस्तु क्षेत्रस्य सुप्तिसमाध्योरभावान्न चायमिति लक्ष्यत इत्युक्तमिति भावः ॥३१॥

पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः ।
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया॥३२॥

अयं पूर्वोक्तो मायाया अघटितघटनापटी यस्या अनिर्वचनीयाज्ञानाख्यायाः प्रभावः । य ईश्वरो भूतैः पृथक् पृथक् क्षेत्राभिमानिभिर्मोहयित्वा अनात्मनि देहादावात्मबुद्धिं जनयित्वा ॥३२॥

अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥३३॥

मोहमेव विवृणोति द्वाभ्याम् अन्यथेति । तत्त्वदर्शिभिः स्वप्नमायेन्द्रजालवद्दृष्टान्यपि मूढानां सत्यवत्परिवर्तन्ते भासन्ते वेगाः करप्रसराः नभस्वतः आकाशगामिनः सूर्यस्य तेजोमयाः सन्तो जलह्रदवदवभासन्ते ॥३३॥

अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।
अन्यथैव प्रभुस्तानि करोति विकरोति च॥३४॥

अनित्याशुचिदुःखरूपाण्यपि तानि नित्यशुचिसुखस्वरूपाणि मन्यन्ते अन्यथा करोति गगनवदजातमपि अङ्कुरादिक्रमेण जनयति । विकरोति च जीर्णत्वादिभावं च नयति ॥३४॥

यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्॥३५॥

अयोवत्तरुवन्न केवलं निश्चेष्टं किं त्वचेतनमपि ॥३५॥

एवं स भगवान्देवः स्वयम्भूः प्रपितामहः ।
हिनस्ति भूतैर्भूतानि च्छद्म कृत्वा युधिष्ठिर॥३६॥

छद्म मायाम् ॥३६॥

सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः ।
क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव॥३७॥

संप्रयोज्य संयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः । बालः प्राकृतः क्रीडनकैः सारीप्रभृतिभिः ॥३७॥

न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः॥३८॥

न मात्रिति । ईशो न दयालुः प्रत्युत नृशंस इत्यर्थः ॥३८॥

आर्याञ्च्छीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्षितान् ।
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तया॥३९॥

किं च ईशस्य दुष्टेषु पक्षपातः साधुषु च द्वेषो दृश्यतेऽतः स निन्द्य एवेत्याह आर्यानित्यादि त्रिभिः । चिन्तया धनादिध्यानेन ॥३९॥

तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति॥४०॥

आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते॥४१॥

कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः॥४२॥

कर्मेति । कृतं कर्म यदि कर्तारमेव गच्छति न त्वन्यं तर्हि कारयितृत्वादीश्वरोऽपि पापेन लिप्येतैवेयर्थः ॥४२॥

अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति ।
कारणं बलमेवेह जनाञ्च्छोचामि दुर्बलान्॥४३॥

अथेति । कर्तारं कारयितारमीश्वरम् ऐश्वर्यादेव कर्म न स्पृशति तर्हि तत्प्रयोज्या जीवा एव कर्मभिर्हताः तथा च ईश्वरो बलाद्दीनान् नरके पातयतीत्यत्यन्तं निन्द्य एव स इति भावः ॥४३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये त्रिंशोऽध्यायः॥३०॥
एकत्रिंशोऽध्यायः

युधिष्ठिर उवाच। वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।
उक्तं तच्छ्रुतमस्माभिनीस्तेक्यं तु प्रभाषसे॥१॥

एवं धर्मेश्वरयोराक्षेपे प्राप्ते प्रत्यक्षानुमानागमैस्तौ समर्थयितुमध्याय आरभ्यते वल्गु चित्रेति । वल्गु शोभनम् । ष्लक्ष्णं सुकुमारम् । नास्तिक्यं वेदविद्विष्टम् ॥१॥

नाहं कर्मफलान्वेषी राजपुत्रि चराम्युत ।
ददामि देयमित्येव यजे यष्टव्यमित्युत॥२॥

यदुक्तं त्वां चेद्व्यसनिनमित्यादिना धर्मस्य नैष्फल्ये त्वदभिभव एव दृष्टान्त इति तत्राह नाहमिति । कर्म धर्मं फलार्थिना कृतो धर्मो यदि निष्फलः स्यात्तर्हि भवेदयमाक्षेपः न त्वहं तथा चरामीत्यर्थः । ननु फलेच्छाया अभावे किमर्थं धर्मः कर्तव्य इत्यत आह ददामीत्यादिना देयम् ऋणम् इत्येव ददामि । ‘जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति श्रुतेः । ऋणवा ऋणवान् ॥२॥

अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् ।
गृहे वा वसता कृष्णे यथाशक्ति करोमि तत्॥३॥

यथाशक्ति यत्कर्त्तव्यं तत्करोमीत्यन्वयः ॥३॥

धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च॥४॥

धर्ममिति । वेदवाक्यात् शिष्टाचाराच्च निष्काममेव धर्मं चरामि । ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इति स्वर्गादिफलश्रुतिस्तु धर्मे प्ररोचनार्थेति भावः ॥४॥

धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ।
घर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्॥५॥

स्वभावात् 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ इति गीतावचनोक्तधर्माचरणशील एव क्षत्रियो नान्य इति नियमात् मे । मया धर्मे मनो धृतं यतः धर्मवाणिज्यको धर्मात्स्वर्गादिफलमिच्छन् । हीनः मुख्यफलात् च्युतः अत एव जघन्य नीचः॥५॥

न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः॥६॥

धर्मफलम्। ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेर्विद्या विविदिषा वा धर्मफलं मुख्यं तन्नाप्नोति । यश्चैनं धर्मं शङ्कते विश्वासं न कुरुते सोऽपि धर्मफलं नाप्नोति । पापचेतनः पापबुद्धिः ॥६॥

अतिवादाद्वदाम्येष मा धर्ममभिशङ्किथाः ।
धर्माभिशङ्की पुरुषस्तिर्यग्गतिपरायणः॥७॥

अतिवादात् मानान्तरमतिक्रान्तो वादो वचनं तस्मात् वेदैकप्रामाण्यात् ॥७॥

धर्मों यस्याभिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः | वेदाच्छूद्र इवापेयात्स लोकादजरामरात्॥८॥

आर्षम् ऋषयो मन्त्रास्तद्द्रष्टारो मन्वादयो वा धर्ममूलभूतं मन्त्रजातं वा मन्वादिवाक्यं वेत्यर्थः । अर्थे वेति पाठे फले विषये इत्यर्थः। दुर्बलात्मनः विवेकाक्षमचित्तस्य अपेयात् अपगच्छेत् । लोकात् आत्मलोकात् । स्वर्लोकादिति पाठेऽपि आनन्दरूपादात्मलोकादित्यर्थः । अनात्मलोकेषु अजरामरत्वयोरसंभवात् अजरामरात् मोक्षरूपात् ॥८॥

वेदाध्यायी धर्मपरः कुले जातो मनस्विनि ।
स्थविरेषु स योक्तव्यो राजर्षिर्धर्मचारिभिः॥९॥

बालोऽपि स्थविरेषु योक्तव्यो नियोक्तव्यो गणनीयः ॥९॥

पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते ।
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममभिशङ्कते॥१०॥

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता॥११॥

एवं धर्मस्य वेदैकगम्यत्वादनतिशंक्यत्वं वेदस्य च श्रेष्ठप्रमाणत्वमुक्त्वा प्रत्यक्षत्वादपि धर्मफलस्यानतिशंक्यत्वमाह प्रत्यक्ष हीत्यादिना । चिरजीविता चिरजीवी ॥११॥

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः॥१२॥

प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः॥१३॥

एते हि धर्ममेवादौ वर्णयन्ति सदानघे ।
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः॥१४॥

धर्मं कर्तव्यं वर्णयन्ति प्रत्यक्षागमबुद्धयः । अस्माकं वेदैकगम्यमपप्यर्थं प्रत्यक्षेण पश्यन्त इत्यर्थः ॥१४॥

अतो नार्हसि कल्याणि धातारं धर्ममेव च ।
राज्ञी मूढेन मनसा क्षेप्तुं शङ्कितुमेव च॥१५॥

क्षेपो निन्दा शङ्का फले संशयः ॥१५॥

उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान् ।
धर्माभिशङ्की नान्यस्मात्प्रमाणमधिगच्छति॥१६॥

एतच्च मूढकार्यामत्याह उन्मत्तानित्यादिना । आगतनिश्चयान् प्राप्ततत्त्वनिश्चयान् ॥१६॥

आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ।
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् ।
एतावन्मन्यते बालो मोहमन्यत्र गच्छति॥१७॥

उन्नद्धः दृप्तः। श्रेयसो धर्मस्य । अन्यत्रातीन्द्रिये धर्माद्यर्थे ॥१७॥

प्रायश्चित्तं न तस्यास्ति यो धर्ममभिशङ्कते ।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते॥१८॥

ध्यायन् अर्थान् चिन्तयन्नपि लोकान् धर्मप्राप्यान् ॥१८॥

प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः ।
कामलोभातिगो मूढो नरकं प्रतिपद्यते॥१९॥

कामलोभौ अति अत्यन्तं गच्छति प्राप्नोतीति कामलोभातिगः ॥१९॥

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते॥२०॥

आनन्त्यं ब्रह्मभावम् ॥२०॥

आर्षं प्रमाणमुत्क्रम्य धर्मं न प्रतिपालयन् ।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति॥२१॥

शं कल्याणम्॥२१॥

यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भाविनि ।
न वै तरय परो लोको नायमस्तीति निश्चयः॥२२॥

शिष्टैराचरितं धर्मं कृष्णे मास्माभिशङ्किथाः ।
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः॥२३॥

धर्म एव प्लवो नान्यः खर्गं द्रौपदि गच्छताम् ।
सैव नौः सागरस्येव वणिजः पारमिच्छतः॥२४॥

अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः ।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते॥२५॥

अनुमानमपि धर्मे प्रमाणमित्याह अफल इति । अयं भावः। यदि धर्मो न स्यात्तर्हि ऊर्ध्वगतिं कश्चिदपि नाप्नुयात्। जायस्व म्रियेस्वेति मशकादीनां पूर्वसंस्कारात्पुनः पुनस्तत्तज्जातीयदेहस्यैव प्राप्तिश्रुतेरन्धं तमः प्राप्तिरेव सर्वेषां स्यात् । ततश्च शास्त्रानर्थक्यम् । यदि तु धर्मोऽस्ति तर्हि तेषामपि विशिष्टदेशनिवासादिजनितस्य पुण्यस्यापरिहार्यत्वात् ऊर्ध्वगतिः संभवति ॥२५॥

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।
विद्यां ते नैव युज्येयुर्न चार्थं केचिदाप्नुयुः॥२६॥

ननु यथा तृणात् क्षीरं क्षीराद्दधीवत् परिणामक्रमादेव तत्तद्विशिष्टदेहलाभादूर्ध्वगतिर्भविष्यति किं धर्मेणेत्याशंक्याह निर्वाणामिति । दध्नोऽपि गवोपभुक्तात् क्षीरमूत्रादिनी च परिणामदृष्टेर्नैतद्युक्तम् । तथा च मोक्षासिद्धिः तस्यां च सत्यां बोधशून्यां पशुजीविकां जीवेयुरन्धतमः प्रविशेयुरेवेत्यर्थः । ततश्च ते पशुतुल्याः विद्यां विद्यया नैव युज्येरन्। सन्तु तर्हि स्वभावेनैव सर्वेऽपि प्राणिनः। कं विद्यया किं वा मोक्षणेत्याशंक्याह न चार्थं केचिदाप्नुयुरिति । अयं भावः । घटशरावोदंचनादिकार्यवौचत्र्यं क्रियावैचित्र्यायत्तं यथा दृष्टं तथा ऐहिकयत्नाभावेऽपि नृषु पश्वादिषु ज्ञानैश्वर्यतारतम्यं दृश्यमानं जन्मान्तरीयक्रियानुमापकम् । तदभावे जगद्वैचित्र्यस्याकस्मिकनिधिलाभादेश्चासंभवः स्यादिति ॥२६॥

तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च ।
दानमार्जवमेतानि यदि स्युरफलानि वै॥२७॥

अनादिपरंपरागतः शिष्टाचारोऽपि धर्मास्तित्वे प्रमाणमित्याह । तपश्चेत्यादिना ॥२७॥

नाचरिष्यन्परे धर्मं परे परतरे च ये ।
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः॥२८॥

विप्रलम्भो वञ्चनम् । अयं यज्ञादिधर्मः ॥२८॥

ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः ।
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः॥२९॥

फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवम् ।
धर्मं ते व्यचरन्कृष्णे तद्धि श्रेयः सनातनम्॥३०॥

श्रेयसि श्रेयोनिमित्तं धर्मं व्यचरन्। तद्धि धर्मो हि श्रेयः श्रेयःसाधनं सनातनम् अनाद्यनन्तम्॥३०॥

स नायमफलो धर्मों नाधर्मोऽफलवानपि ।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा॥३१॥

त्वमात्मनो विजानीहि जन्म कृष्णे यथा श्रुतम् ।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्॥३२॥

अनुभवोऽपि धर्मे प्रमाणमित्याह त्वमिति । अयं भावः ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतेः । पञ्चाग्निविद्यायां च द्युपर्जन्यपृथिवीपुरुषयोषात्सु अग्निषु श्रद्धासोमवर्षान्नरेतआहुतयो हूयन्ते ततः शरीरमिति क्रमेण ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेश्च सर्वेषां प्राणिनामुत्पत्तिरगवता । तत्र गर्भवासारख्या रेतोद्रव्यकपञ्चम्याहुत्यवस्थाऽत्यन्तदुःखमयी पुण्यवशात् द्रोणस्य नासीत्। द्रौपदीधृष्टद्युम्नयोस्त्वतिपुण्यवशात् रेतोरूपमलपरिणामहेतुरन्नाहुतिरपि नास्ति । साक्षादाग्निकुण्डोद्भवत्वात् । तदिदं धर्मफलं तवानुभवसिद्धमतो धर्मं भावमंस्था इति ॥३२॥

एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।
कर्मणां फलमाप्नोति धीरोऽल्पेनापि तुष्यति॥३३॥

उपमानं निदर्शनम् । कर्मस्वादरवशात् अल्पेन अन्नाच्छादनमात्रेण तुष्टो भवति न तु कर्माण्युपेक्ष्य बहुलाभार्थं यतते इत्यर्थः ॥३३॥

बहुना ह्यपि विद्वांसो नैव तुष्यन्त्यबुद्धयः ।
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति वा पुनः॥३४॥

कर्मणां श्रुतपुण्यानां पापानां च फलोदयः ।
प्रभवश्चात्ययश्चैव देव गुह्यानि भाविनि॥३५॥

श्रुतं वेदोदितं पुण्यं येषां पापानामनिष्टसाधनानां च फलोदयः स्वर्गनरकहेतुत्वं प्रभव उत्पत्तिः अविद्येति यावत् । अत्ययो नाशः विद्येति यावत् । देवगुह्यानि वेदैकवेद्यत्वात् । ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति श्रुतेर्देवगोप्यानि एतानि । स्वपशुभूतपुरुषविनाशकत्वात् ॥३५॥

एतानि वेद यः कश्चिन्मुह्यन्तेऽत्र प्रजा इमाः ।
अपि कल्पसहस्रेण न स श्रेयोऽधिगच्छति॥३६॥

एतानीति । अत्र एतेषु देवगुह्येषु विषयेषु इमाः प्राकृताः प्रजाः मुह्यन्ते । अविद्यामपि विद्यात्वेन विद्यां चाविद्यात्वेन गृह्णन्ति । एवं पुण्यपापविपर्ययोऽपि ज्ञेयः । अत एतानि यस्तत्त्वतो वेद सः श्रेयो देवानां हिततरं कर्म नाधिगच्छति नानुसरति । कर्तृत्वादिमदन्तःकरणस्य विविक्तत्वादिति भावः ॥३६॥

रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ।
कृताशाश्च व्रताशाश्च तपसा दग्धकिल्बिषाः ।
प्रसादैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः॥३७॥

कृता नाशिता आशा यैस्ते । कॄ हिंसायां स्वादिः । व्रतं हितं मितं मेध्यं चाश्नन्ति ते कृताशाश्च व्रताशाश्च । शान्ता दान्ता इत्यर्थः। तपसा श्रवणमननात्मकेन आलोचनेन मनःप्रसादैर्ध्यानफलैर्युक्ताः द्विजाः योगिनः एतानि देवगुह्यानि ॥३७॥

न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः ।
यष्टव्यं च प्रयत्नेन दातव्यं चानसूयता॥३८॥

कर्मणां फलमस्तीह तथैतद्धर्मशाश्वतम् ।
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः॥३९॥

धर्मशाश्वतं धर्मस्य शश्वद्भवोयं स्वभावः ॥३९॥

तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज॥४०॥

व्यवस्य निश्चित्य । भावम् अभिप्रायम् ॥४०॥

ईश्वरं चापि भूतानां धातारं मा च वै क्षिप ।
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी॥४१॥

एवं धर्मश्रेष्ठ्यं निश्चित्य ईश्वरश्रैष्ठ्यमप्याह ईश्वरमिति । धातारं दधाति कर्मफलानि यथा स्वं विभजतीति तं कर्मणामाशुतरविनाशित्वात्। नष्टानां च कालान्तरीयफलहेतुत्वायोगात् । अपूर्वकल्पनायाश्च ‘सर्वस्य वशी सर्वस्येशानः’ इति सर्वस्येश्वराधीनत्वप्रतिपादकश्रुत्या बाधात् । लौकिकराजभृत्यदृष्टान्ताच्च कर्मभिस्तुष्टो रुष्टो वा ईश्वर एव सदसत्फलविभाजक इति भावः। मा क्षिप मा निन्दां कुरु । शिक्षस्व शास्त्राचार्योपदेशादधीष्व ॥४१॥

यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् ।
उत्तमां देवतां कृष्णे मावमंस्थाः कथञ्चन॥४२॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि युधिष्ठिरवाक्ये एकत्रिंशोऽध्यायः॥३१॥
द्वात्रिंशोऽध्यायः

द्रौपद्युवाच ।
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन ।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्॥१॥

नावमन्य इति ॥१॥

आर्ताहं प्रलपामीदमिति मां विद्धि भारत ।
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे॥२॥

कर्म खल्विह कर्तव्यं जानता मित्रकर्शन ।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः॥३॥

स्थावरा इतरे जना वा हि यस्मात् अकर्माणो न जीवन्ति अतः कर्म कर्तव्यमिति योजना। तथा चायं प्रयोगः । स्थावरजीविका प्राक्कर्मपूर्विका जीविकात्वात्पाकादिक्रियापूर्वकास्मदादिजीविकावदिति ॥३॥

यावद्गोस्तनपानाच्च यावच्छायोपसेवनात् ।
जन्तवः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर॥४॥

स्थावरेषूक्तं न्यायं तिर्यक्षु योजयति यावदिति । सद्यो जातस्य गोवत्सस्य स्तनपानादिप्रवृत्तिरपि स्वजनकसंस्कारहेतुप्राक्तनकर्मसत्त्वे प्रमाणमित्यर्थः । यावद्गोस्तनपानात् गोस्तनपानादेरित्यर्थः । यावच्छायोपसेवनात् प्रतिमाद्वारकभोगादित्यर्थः । अयं भावः कौलिकशास्त्रप्रसिद्ध्या शत्रुनिर्मितायां चैत्रप्रतिमायां शत्रुणा कण्टकादिनानुन्नायां चैत्रो व्यथते । तत्र व्यथानिमित्तम् आन्तरं धातुवैषम्यं बाह्यं वा कण्टकवेधादि न किंचिददृष्टमस्ति किं तु केवलदृष्टमेव । अनेनैव न्यायेन जन्तवः कर्मणा प्राचीनेनैव वृत्तिं जीवनम् आप्नुवन्ति ॥४॥

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च॥५॥

जङ्गमेष्विति प्रेत्य मृत्वा ॥५॥

उत्थानमभिजानन्ति सर्वभूतानि भारत ।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्॥६॥

उत्थानम् उत्तिष्ठति प्रवर्त्ततेऽस्मादित्युत्थानं प्राक्कर्मसंस्कारः तं सर्वेऽपि प्राणिनः अभिजानन्ति अनुभवन्ति। तत्कर्मसु प्रवर्तन्ते तत्फलं चाप्नुवन्ति । तस्मात्कर्मतत्संस्कारपरंपरेयमनादिरित्यर्थः ॥६॥

सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः ।
अपि धाता विधाता च यथायमुदके बकः॥७॥

सर्वे हीति । यथायं बकः पूर्वसंस्कारात् वृत्त्यर्थी ध्यायति एवं धाता ईश्वरोऽपि अनादिसंस्कारवशात् पूर्वपूर्वकल्पस्वरूपामेव सृष्टिं करोति । ‘धाता यथापूर्वमकल्पयत्’ इति श्रुतेः । तथा विधाता धर्मोऽपि पूर्वसंस्कारानुरोधेनैव कर्मणि प्रवर्तयति । अन्यथा संसारानादित्वानभ्युपगमे कृतहानाकृताभ्यागमादिदोषः स्यादिति भावः ॥७॥

अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन ।
तदेवाभिप्रपद्येत न विहन्यात्कदाचन॥८॥

एवं प्राक्तनकर्मप्राबल्यमुपपाद्य ऐहिकानामपि तेषां प्राबल्यमाह अकर्मणामिति । याञ्चा मुखचालनादिदृष्टयत्नशून्या न जीविकास्ति । अतस्तदेव दृष्टफलं कर्मैव न विहन्यात् । दैवपरो भूत्वा न त्यजेदित्यर्थः ॥८॥

स कर्म कुरु मा ग्लासीः कर्मणा भव दंशितः ।
कृतं हि योऽभिजानाति सहस्रे सोऽस्ति नास्ति च॥९॥

दंशितः संनद्धः कृतं कर्म कर्तुमिति शेषः ॥९॥

तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा ।
भक्ष्यमाणो ह्यनादानात्क्षीयेत हिमवानपि॥१०॥

तस्य कर्मणः कार्यं प्रयोजनं रक्षणेऽर्थानामिति शेषः । अनादानात् असंग्रहात् । लब्धेनार्थेन न संतोष्टव्यं किं तु तद्विवृद्ध्यर्थं कर्म कर्तव्यमित्यर्थः ॥१०॥

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्भुवि ।
तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत्॥११॥

अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।
नान्यथा ह्यपि गच्छन्ति वृत्तिं लोकाः कथञ्चन॥१२॥

अपि चेति कर्मणां क्वचिदफलत्वेऽपि आवश्यकत्वं नित्यमित्यर्थः ॥१२॥

यश्च दिष्टपरो लोके यश्चापि हठवादिकः ।
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते॥१३॥

यश्चेति । दिष्टपरो मन्त्रौषधाद्यदृष्टद्वारैवार्थसाधनपरः कौलिकः । हठवादिकः प्राग्जन्माभावात् अकृतमेवोपस्थास्यतीति वदन् चार्वाकः । एतौ शठौ प्राक्कर्मानङ्गीकारात् । पाठान्तरे अपसदौ अधमौ। कर्मबुद्धिः प्राक्तनं तात्कालिकं च कर्मसहितं सत् इष्टसाधनमिति बुद्धिमान् ॥१३॥

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत् ।
अवसीदेत्स दुर्बुद्धिरामो घट इवोदके॥१४॥

निर्विचेष्टः दृष्टयत्नहीनः । शयेत् शेयात् आमः अपक्वः ॥१४॥

तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत् ।
आसीत न चिरं जीवेदनाथ इव दुर्बलः॥१५॥

अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्॥१६॥

हठादीन् व्याचष्टे अकस्मादिति । अचिन्तितस्यातर्कितस्य च लाभो हठः ॥१६॥

यच्चापि किञ्चित्पुरुषो दिष्टं नाम भजत्युत ।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्॥१७॥

दैवं देवताराधनम् ॥१७॥

यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः ।
प्रत्यक्षमेतल्लोकेषु तत्पौरुषमिति श्रुतम्॥१८॥

पौरुषं यथोक्तप्रतिगृहादिवृत्तिः॥१८॥

स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात् ।
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम॥१२॥

अपि चेति कर्मणां क्वचिदफलत्वेऽपि आवश्यकत्वं नित्यमित्यर्थः ॥१२॥

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम्॥२०॥

एतच्चतुष्टयजोऽपि लाभः पूर्वकर्मफलमेव ॥२०॥

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्॥२१॥

स्वकर्मैव कर्माधीन एव । विदधाति अर्पयति । पूर्वकृतं पूर्वकर्मजम् ॥२१॥

यध्द्यायं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् ।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्॥२२॥

एतदेव स्पष्टयति यद्धीति ॥२२॥

कारणं तस्य देहोऽयं धातुः कर्मणि वर्तते ।
स यथा प्रेरयत्येनं तथायं कुरुते वशः॥२३॥

कारणमिति । यः कर्मणि वर्तते सोऽयं मानुषदेहः प्राग्भवीयस्तस्य प्रवर्तकस्य धातुरपि कारणं प्रवर्तकः सः धाता एनं वर्तमानदेहं बीजाङ्कुरवत् धातृप्रेर्यो देहः देहप्रेर्यश्च धातेत्यर्थः । देहो देहसाध्यं कर्म ॥२३॥

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः ।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि॥२४॥

मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा ।
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम्॥२५॥

ननु पूर्वकर्मैव प्रवर्तकं चेत्किं पुरुषकारेणेत्याशंक्याह मनसेति ॥२५॥

सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ ।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी॥२६॥

एतदपि प्राक्कर्मजमेवेत्याशंक्याह संख्यातुमिति । संख्यातुं प्राक्कर्मैव कारणं न पुरुषकार इति निश्चेतुं तत्र हेतुः अगारेति ॥२६॥

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।
धिया धीरो विजानीयादुपायं चास्य सिद्धये॥२७॥

तिले इति । पङ्वन्धन्यायेन प्राक्कर्मसिद्धमेव पुरुषकारोऽभिव्यनक्तीत्यर्थः अस्य तैलादेः सिद्धये प्राप्तये ॥२७॥

ततः प्रवर्तते पश्चात्कारणैस्तस्य सिद्धये ।
तां सिद्धिमुपजीवन्ति कर्मजामिह जन्तवः॥२८॥

कारणैः यन्त्रनिपीडनादिभिः । तां सिद्धिं तैल्लादिप्राप्तिम् । कर्मणामिति पाठे सिद्धिं फलम् । तां तैलप्राप्तिम् ॥२८॥

कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम् ।
इदं त्वकुशलेनेति विशेषादुपलभ्यते॥२९॥

कुशलेनेति । विशेषात् फलभेदात् ऐहिककर्मणोऽपि प्राबल्यमस्तीत्यर्थः ॥२९॥

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्॥३०॥

विधिप्रतिषेधशास्त्रवैयर्थ्यान्यथानुपपत्त्यापि पुरुषकारस्य श्रेष्ठ्यमाह इष्टेति द्वाभ्याम् । इष्टं यागादि आपूर्तं तडागारामादि ॥३०॥

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।
असिद्धौ निन्द्यते चापि कर्मनाशात्कथं त्विह॥३१॥

न चैवैतावता कार्यं मन्यन्त इति चापरे ।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः॥३३॥

एतैरेव नार्थसिद्धिरिति वैदिका इत्याह न चेति। अदृश्यं धर्माधर्मरूपं प्राक्कर्म तदेव दिष्टहठादिकं सर्वमित्यर्थः ॥३३॥

दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ।
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वभावतः॥३४॥

अत्र पूर्वपक्षः दृश्यते हीति । स्वभावतः यत्नतः ॥३४॥

पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदो जनाः॥३५॥

चतुर्थं प्राक्कर्मकुशला इत्युपहासः इति प्रतिजानन्तीत्यध्याहृत्य योज्यम् ॥३५॥

तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।
यदि न स्यान्न भूतानां कृपणो नाम कश्चन॥३६॥

सिद्धान्तमाह तथेति ॥३६॥

यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम्॥३७॥

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।
तथैवानर्थसिद्धिं च यथैवात्मा तथैव ते॥३८॥

त्रिद्वारामिति । हठादित्रयं द्वारमेव अर्थसिद्धेर्मुख्यं कारणं कर्मैवेत्यर्थः। आत्मा देहः देहवत्ते जडा इत्यर्थः। यथा लोका इति पाठे लोकाः लोकायतिकाः ॥३८॥

कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः ।
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः॥३९॥

कर्तव्यमेवेति। यथा ग्रामकामस्य सांग्रहणीष्टी राजसेवा चेति द्वयमनुष्ठेयं तद्वदिह दिष्टपौरुषात्मकं कर्म कर्तव्यमेव हठपक्षस्त्याज्य एवेत्यर्थः । एकान्तेन अतिशयेन अनीहो निश्चेष्टः हठवादीत्यर्थः ॥३९॥

कुर्वतो हि भवत्येव प्रायेणेऽह युधिष्ठिर ।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्॥४०॥

भवत्येव फलसिद्धिः अलसः असम्यक्कारी ॥४०॥

असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्षयेत् ।
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्नुते॥४१॥

असंभवेत्विति। अङ्गवैकवल्यात्कर्मफलानुत्पादे तु अस्य फलस्य हेतुः। प्रायश्चित्तं दोषप्रतिसमाधानं लक्षयेत् कर्मतः फलाभावेऽङ्गवैकल्यं कल्प्यं न तु कर्मवैयर्थ्यमिति भावः। कर्मणि साङ्गे कृते। आनृण्यं फलानुत्पादेऽपि निर्दोषत्वम् ॥४१॥

अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते॥४२॥

अनर्थाः संशयावस्थाः सिद्ध्यन्ते मुक्तसंशयाः ।
धीरा नराः कर्मरता ननु निःसंशयाः क्वचित्॥४३॥

अनर्थाः अर्थहीनाः ननु निश्चितं धीरा निःसंशया दुर्लभा इत्यर्थः ॥४३॥

एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् ।
सतु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते॥४४॥

अनर्थो राज्यच्युतिः कर्मणि पौरुषे ॥४४॥

अथवाऽसिद्धिरेव स्यादभिमानं तदेव ते ।
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि॥४५॥

असिद्धिरिति छेदः कृतेऽपि पौरुषे यदि फलासिद्धिरेव स्यात्तर्हि तदेव ते तव वृकोदरादीनाम् अभिमानं साकल्येन प्रमाणं राज्यानर्हत्वे स्यात्। तदा राज्याशाविच्छेदान्न मम राज्यार्थर्मुद्वेग स्यादिति भावः ॥४५॥

अन्येषां कर्मसफलमस्माकमपि वा पुनः ।
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम्॥४६॥

अन्येषामस्माकं वा कर्म सफलं यथा तथा कृतकर्मैव विप्रकर्षेण कर्मकरणान्ते बुध्येत। त्वं त्वकृतकर्मा तत्कथं बुध्येरिति भावः ॥४६॥

पृथिवीं लाङ्गलेनेह भित्त्वा बीजं वपत्युत ।
आस्तेथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्॥४७॥

वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया॥४८॥

तच्चेदं फलमस्माकमपराधो न मे क्वचित् ।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्॥४९॥

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।
निर्वेदो नात्र कर्तव्यो द्वावन्यौ ह्यत्र कारणम् ॥५०॥

निर्वेदो वैराग्यं द्वावन्यौ पौरुषानिर्वेदौ अत्र फलसिद्धौ ॥५०॥

सिद्धिर्वाप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा ।
बहूनां समवाये हि भावानां कर्मसिद्धयः॥५१॥

सिद्धिरसिद्धिर्वास्तु किं स्वप्रवृत्तिरेव मास्त्वित्यर्थः । बहूनां सर्वेषां समवाये समुदाये । भावानां कारणानाम् ॥५१॥

गुणाभावे फलं न्यूनं भवत्यफलमेव च ।
अनारम्भे हि न फल न गुणो दृश्यते क्वचित्॥५२॥

गुणः अप्रधानमङ्गं तदभावे गुणः शौर्यादिः ॥५२॥

देशकालावुपायांश्च मङ्गलं स्वस्तिवृद्धये ।
युनक्ति मेधया धीरो यथाशक्ति यथाबलम्॥५३॥

उपायाः सामादयः स्वस्तिवृद्धये कल्याणवृद्धये ॥५३॥

अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः ।
भूयिष्ठं कर्मयोगेषु दृश्यमेव पराक्रमः॥५४॥

अप्रमत्तेनेति। तत् देशकालादियोगाख्यं कार्यम् आदरणीयं तत्र पराक्रमः पुरुषकारस्तु उपदेष्टा कार्यकर्ता मुख्य इत्यर्थः । भूयिष्ठं श्रेष्ठम् । कर्मयोगेषु कार्यघटनासु पराक्रमः । दृश्यमेव प्रसिद्ध एव श्रेष्ठत्वेन । तस्मात्पराक्रमे यतितव्यमिति भावः ॥५४॥

यत्र धीमानवेक्षेत श्रेयांसं बहुभिर्गुणैः ।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मे प्रयोजयेत्॥५५॥

ननु भ्रातृषु धार्तराष्ट्रेषु कथं पराक्रान्तुं शक्यमित्याशंक्य सामासंभवमाह यत्रेति । अवेक्षेत आदरं कुर्यात् श्रेयांसं प्रशस्ततरं कर्म च भेदं दानाख्यं वा ॥५५॥

व्यसनं वास्य काङ्क्षेत विवासं वा युधिष्ठिर ।
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः॥५६॥

दुर्मेधसि दुर्योधने तु न सामभेददानानामुपायानां संभवोऽस्ति । अतस्तत्र दण्ड एव श्रेयानित्याह। व्यसनमिति । व्यसनं राष्ट्रोपप्लवादि । विवासनं देशान्निःसारणम् ॥५६॥

उत्थानयुक्तः सततं परेषामन्तरैषणे ।
आनृष्यमाप्नोति नरः परस्यात्मन एव च॥५७॥

उत्थानयुक्तः यत्नवान् । अन्तरैषणे छिद्रान्वेषणे। आनृण्य निर्दोषत्वं । परस्यामात्यादेः ॥५७॥

न त्वेवात्मावमन्तव्यः पुरुषेण कदाचन ।
न ह्यात्मपरिभूतरय भूतिर्भवति शोभना॥५८॥

नन्वशक्तः कथमुत्थानं कुर्यामित्याशंक्याह न त्वेवेति ॥५८॥

एवं संस्थितिका सिद्धिरियं लोकस्य भारत ।
तत्र सिद्धिर्गतिः प्रोक्ता कालावस्थाविभागतः॥५९॥

एवं संस्थितिका ईदृग्व्यवस्थावती। सांसिद्धिकीति पाठे स्वाभाविकीत्यर्थः । सिद्धिः फलसिद्धिः । तत्रेति कालावस्थयोरानुकूल्येन गतिरन्वेषणे यत्नः सैव सिद्धिः सिद्धिमूलम् ॥५९॥

ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् ।
सोऽपि सर्वामिमां प्राह पित्रे मे भरतर्षभ॥६०॥

नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा ।
तेषां सकाशाद‌श्रौषमहमेता तदा गृहे॥६१॥

स मां राजन्कर्मवतीमागतामाह सान्त्वयन् ।
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर॥६२॥

कर्मवतीमागतां किंचित्कार्योद्देशेन पितुरन्तिके आगताम् ॥६२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये द्वात्रिंशोऽध्यायः॥३२॥
त्रयस्त्रिंशोऽध्यायः

वैशंपायन उवाच। याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः ।
निश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत्॥१॥

याज्ञसेन्या इति ॥१॥

राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने॥२॥

एवं द्रौपद्या प्राक्कर्माधीनां फलसिद्धिमङ्गीकृत्यापि तद्द्वारभूतस्य पुरुषकारस्य प्राबल्ये प्रतिपादिते राजानमुद्योजयन् भीम आह राज्यस्य पदवीमित्यादि । पदवीं प्राप्तिमार्गं धर्म्यां वनवासकालपालनरूपाद्धर्मादनपेतां किं प्रयोजनमिति शेषः ॥२॥

नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै॥३॥

कूटं कपटम् ॥३॥

गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् ।
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्॥४॥

विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेन शुनकेनेत्यर्थः ॥४॥

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुःखेषु परितप्यसे॥५॥

धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः अर्थं राज्याख्यम् ॥५॥

भवतोऽनवधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना॥६॥

अनवधानेन प्रमादेन पश्यतामित्यनादरे षष्ठी ॥६॥

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते॥७॥

कुणीनां हस्तविकलानाम् । पड्गूनां पादविकलानां षष्ठी पूर्ववत् । भवतः कृते भवन्निमित्तम्॥७॥

भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत॥८॥

धर्मकामे धर्मेच्छायाम् । प्रतीतस्य विश्वस्तस्य । धर्मकाम्या प्रतीतस्येति पाठे धर्मेच्छायां विश्वस्तस्य ॥८॥

कर्षयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतां शास्त्रैर्नियम्य भरतर्षभ॥९॥

शास्त्रैः शमवचनैः भवतां भासमानानां योगिनाम् ॥९॥

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्॥१०॥

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
दुर्बलाचरितां राजन्नबलस्थैर्निषेविताम्॥११॥

मृगचर्यामिव एनां वनचर्याम् । अबलस्थैर्निषेवितामित्येकं पदम् । बलवद्भिरसेवितामित्यर्थः॥११॥

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ॥१२॥

भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्॥१३॥

न आपन्न इति सबन्धः ॥१३॥

दुर्मनुष्या हि निर्वेदमफलं स्वार्थघातकम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्॥१४॥

स भवान्दृष्टिमाञ्च्छक्तः पश्यन्नस्मासु पौरुषम् ।
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे॥१५॥

अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः ।
अशक्तानिव मन्यन्ते तद्दुःखं नाहवे वधः॥१६॥

अलं समर्थान्सतः ॥१६॥

तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकान्लभेमहि॥१७॥

अथवा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः॥१८॥

गां पृथिवीम् ॥१८॥

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्॥१९॥

आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे ।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा॥२०॥

कृत्यलक्षणे करणीयस्वरूपे ॥२०॥

कर्षणार्थे हि यो धर्मो मित्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न धर्मः स कुधर्मतत्॥२१॥

कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ॥२१॥

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
त्यजतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा॥२२॥

धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ॥२२॥

यस्य धर्मो हि धर्मार्थं क्लेशभाङ्ग स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव॥२३॥

धर्मार्थं न त्वर्थकामार्थम् अर्थं प्रयोजनम् ॥२३॥

यस्य चात्मार्थमेवार्थः सच नार्थस्य कोविदः ।
रक्षेत भृतकोरण्ये यथा गास्तादृगेव सः॥२४॥

सा हि धर्मार्थरूपा हि ॥२४॥

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः॥२५॥

अतिवेलम् अत्यन्तम्॥२५॥

सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते॥२६॥

इतरौ अर्थकामौ ॥२६॥

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये॥२७॥

कामतो रममाणस्य तस्य कामान्ते निधनमिति संबन्धः ॥२७॥

तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा॥२८॥

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा॥२९॥

अर्थपरिग्रहः अर्थार्थमेवालम्बनीयः इतरेतरयोर्नीतौ धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः । मेघादुदधिपुष्टिदधेर्मेघपूर्तिरिव ॥२९॥

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसङ्कल्पः शरीरं नास्य दृश्यते॥३०॥

द्रव्यस्य स्रक्चन्दनादेः । स्पर्शः अर्थस्य स्वर्णादेः। संयोगो लाभः ॥३०॥

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति ।
अर्थमिच्छति कामार्थी न कामादन्यमिच्छति॥३१॥

न हि कामेन कामोऽन्यः साध्यते फलमेव तत् ।
उपयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितैः॥३२॥

उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम् । काष्ठाद्भस्मसाध्यं न तु भस्मतोऽपि भस्मान्तरं साध्यमस्ति तद्वत् ॥३२॥

इमाञ्च्छकुनकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु हि विहिंसता॥३३॥

वैतंसिकः वीतंसेन जीवतीति पक्षिहन्ता । ‘वीतं सबन्धनोपाये मृगाणां पक्षिणामपि’ इति विश्वः । विहिंसता विशिष्टहिंसावत्वम् ॥३३॥

कामाल्लोभाच्च धर्मस्य प्रकृतिं यो न पश्यति ।
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः॥३४॥

प्रकृतिं स्वरूपम् ॥३४॥

व्यक्तं ते विदितो राजन्नार्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्॥३५॥

व्यक्तमिति । अर्थः प्रयोजनं कामाख्यं सद्रव्येण स्त्रीधनगोहस्त्यश्वात्मना परिगृह्यत इति द्रव्यपरिग्रहः । अस्य द्रव्यस्य प्रकृतिं स्त्र्यादिरूपाम् । विकृतिं त्यागभोगादिरूपाम् ॥३५॥

तस्य नाशे विनाशे वा जरया मरणेन वा ।
अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते॥३६॥

तस्य स्त्रीधनादिरूपद्रव्यस्य नाशे अदर्शने अभावे । विनाशे लब्धस्य वियोगे । जरामरणे स्त्रीगोऽश्वादीनां सोऽयमनर्थः स्त्रीपरामर्शराज्यनाशादिरूपः। अनर्थपरिहाराय धर्मोऽपि लङ्घनीय इति भावः ॥३६॥

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विषये वर्तमानानां या प्रीतिरुपजायते॥३७॥

पञ्चानां श्रोत्रादीनां विषये शब्दादौ । मनसो विषयः संकल्पः हृदयस्य निश्चयः ॥३७॥

स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च॥३८॥

पृथक् भिन्नान्दृष्ट्वा ॥३८॥

न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा॥३९॥

धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः॥४०॥

धर्मं पूर्वे अहनि चरेत् ॥४०॥

कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः॥४१॥

कामं पूर्वे वयसि चरेत्॥४१॥

धर्मं चार्थं च कामं च यथावद्वदतां वर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः॥४२॥

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन॥४३॥

तद्वाशु क्रियतां राजन्प्राप्तिं वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः॥४४॥

प्राप्तिं महोदयं वा राज्यलाभजम् । ‘प्राप्तिर्लाभे महोदये’ इति विश्वः । तत् मोक्षाख्यं श्रेयः दुःखं दुःखदम् ॥४४॥

विदितश्चैव मे धर्मः सततं चरितश्च ते ।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम्॥४५॥

कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यम् । शंसन्ति कथयन्ति ॥४५॥

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्बलवान्प्रेत्य चेह च॥४६॥

एष नार्थविहीनेन शक्यो राजान्निषेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे॥४७॥

अखिलाः खिलं शल्यं तद्रहिताः ॥४७॥

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्॥४८॥

न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना॥४९॥

क्लेब्येन कातर्येण वेत्तुं लब्धुम् ॥४९॥

प्रतिषिद्धा हि ते याञ्चा यया सिद्ध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ॥५०॥

द्विजः ब्राह्मणः तेजसा पराभिभवशक्त्या ॥५०॥

भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम्॥५१॥

औरसम् उत्साहः ॥५१॥

स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् ।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय॥५२॥

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि॥५३॥

उदारम् ईश्वरभावम् अवरे अनैश्वर्ये ॥५३॥

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः॥५४॥

क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ॥५४॥

प्रजापालनसम्भूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः॥५५॥

तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते॥५६॥

अपचितः हीनः ॥५६॥

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत्॥५७॥

शिथिलं दुर्बलम् ॥५७॥

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम्॥५८॥

न भूतिम् अनैश्वर्यं न पुनःश्रियं नास्ति पुनः श्रीर्ययेति न भूतेरेव विशेषणम् । उभयत्र नैकधेतिवन्न शब्देन समासः । व्यजयत् पराभूतवान् ॥५८॥

जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः॥५९॥

जिह्वां जिह्वायाः प्रियं साध्वन्नम् उत्कोचमित्यर्थः । क्षुद्राणां शत्रुपक्षीयाणां निकृत्या भेदरूपेण छलेन । शल्यकः व्याधः । स हि मृगेभ्यो भक्ष्यं दत्वा विश्वास्य हत्वा आहारं लभते तद्वत् । शल्यकः श्वावित् क्षुद्रान्मधुमक्षिकाविशेषान् जिह्वां दत्वा बहिर्निःसार्य भक्षयति तद्वज्जिह्वां वाचं दत्त्वा शत्रून् जहीति प्राञ्चः ॥५९॥

भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ॥६०॥

एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितः॥६१॥

बलवतः शत्रून् परां निकृतिं संवत्सरशब्दं मीमांसकन्यायेन दिनपरं कुर्विति भावः ॥६१॥

न ह्यर्जुनसमः कश्चिद्युधि योधो धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः॥६२॥

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव॥६३॥

सत्त्वेन बलेन प्रमाणेन सङ्घेन । उत्साहेन शत्रुपक्षीयैः सहसंधानलक्षणेन सूत्रेण । प्रमाणं नित्यमर्यादासंघवादिप्रमादिषु । उत्साहस्तूद्यमे सूत्रे इति विश्वः । अप्रमादी महोत्साहीत्यपि पाठः॥६३॥

सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी॥६४॥

सत्त्वादन्यस्य वितथत्वे हेतुः न त्विति। प्रसक्तम् उपकारकत्वेन प्रत्यासन्नम् इष्टमित्यर्थः॥६४॥

अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः॥६५॥

अर्थत्यागोऽपीति । दुर्योधने राज्यार्पणं न श्रेयसेऽपि तु खरकण्डूयनवदपकारायैव । यथा स्वरकण्डूयनं स्पर्शदोषात्सद्यो दुःखदस्नाननिमित्तं गोकण्डूयनवच्च परत्र न हितं एवमेतदपीति श्लोकद्वयार्थः ॥६५॥

अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः ।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत्॥६६॥

विपणः प्रतिज्ञा न कार्यः न निर्वाह्यः ॥६६॥

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम्॥६७॥

एवमेव बीजौपम्येन प्रतिज्ञानिर्वाहजमल्पं धर्मं त्यक्त्वा राज्यलाभजे दानयागादिर्महान्धर्म आदर्तव्य इत्यर्थः ॥६७॥

अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः ।
मिन्नैर्मित्रैः परित्यक्तं युवानं कुरुते वशम्॥६८॥

युवानम् अल्पबुद्धिम् । ‘यदेकः स्थविरो वेत्ति न तत्तरुणकोटयः’ इत्युक्तेः । दुर्बलमित्यपि पाठः ॥६८॥

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः॥६९॥

पक्वबुद्धेः सर्वत्र सावधानस्य मित्राणि दुर्भेद्यानि अतस्तादृशे दुर्योधने बलमेत्र श्रेय इत्याह सत्त्वेनेति । युद्धेनैव शत्रुजये कृते प्रजाः स्वाधीना भवन्ति न तूद्यमेन निग्रहेण न होत्राभिः सान्त्वेन आह्वानैः ॥६९॥

सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमररिव॥७०॥

संहतैमिलितैः मधुहा मध्वर्थं गतः । ओहाङ् गतौ इत्यस्य रूपम् । भ्रमरैर्मधुपटलस्थैः सविषवक्त्रैः युगपद्दष्टो म्रियत इति प्रसिद्धम् । कालप्रतीक्षायां दि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ॥७०॥

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
अत्ति चैव तथैव त्वं सदृशः सवितुर्भव॥७१॥

यथेति । अत्ति रसशोषणेन पाति वर्षेण तथा त्वं दुर्योधनादीन्वशमानीय पालयेत्यर्थः ॥७१॥

एतच्चापि तपो राजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः॥७२॥

एतत् भूमेः पालनं वक्ष्यमाणं तपः स्वधर्मः पुराणम् अनादि । एतच्चावितथमिति पाठान्तरे पुराणं वेदविहितमित्यर्थः ॥७२॥

न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः ।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥७३॥

सृष्टेन विहितेन धर्मेणेत्यर्थः इतरेण मरणेन ॥७३॥

अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्॥७४॥

अपेयात् अपगच्छेत् व्यवसितः निश्चितः ॥७४॥

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथा युक्ताः परिषदः पृथग्राजन्समागताः॥७५॥

इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम्॥७६॥

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात्॥७७॥

यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः॥७८॥

ननु कथं तर्हि मया राज्यार्थमनृतं कर्तव्यमत आह यदेन इति । एनः पापमवाप्नुवन् अवाप्तिहेतोः॥७८॥

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः॥७९॥

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालसहिताः शंसन्ति त्वां युधिष्ठिर॥८०॥

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा॥८१॥

परस्यापि राज्यानर्हत्वादवरोपणमुचितमित्याह श्वदृताविति । श्वदृतौ सारमेयचर्मकोशे ब्रह्म वेदः वृषले शूद्रे ॥८१॥

इति लोके निर्वचनं पुरश्चरति भारत ।
अपि चैताः स्त्रियो बालाः खाध्यायमधिकुर्वते॥८२॥

स्वाध्यायमधिकुर्वते श्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्थः ॥८२॥

इमामवस्थां च गते सहास्माभिररिन्दम ।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति॥८३॥

भवता हेतुना उपद्रवे राज्यभ्रंशे ॥८३॥

स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योर्यविभावकः॥८४॥

अर्थविभावकः जयार्जितमर्थं प्रदातुम् । तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति ण्वुल् ॥८४॥

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः॥८५॥

वाचयित्वा आशीर्वादान् ॥८५॥

आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ।
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा ।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल॥८६॥

धार्तराष्ट्रादिति छेदः ॥८६॥

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्॥८७॥

गार्घ्रवाससां गृध्रपक्षमयपुङ्खवतां संसहेत् सम्यक् सहेत ॥८७॥

न स वीरो न मातङ्गो न च सोऽश्वोऽस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे॥८८॥

सृंञ्जयैः सह कैकेयैर्वृष्णीनां वृषभेण च ।
कथं स्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे॥८९॥

सृंजयादिभिः सहायैः स्विदिति विस्मयेन शिरश्चालने ॥८९॥

शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम् ।
इह यत्नमुपाहृत्य बलेन महतान्वितः॥९०॥

उपाहृत्य आलम्ब्य ॥९०॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि भीमवाक्ये त्रयस्त्रिंशोऽध्यायः॥३३॥
चतुस्त्रिंशोऽध्यायः

वैशंपायन उवाच। स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा ।
अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे॥१॥

स एवमिति ॥१॥

युधिष्ठिर उवाच। असंशयं भारत सत्यमेतद्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि ।
न त्वां विगर्हे प्रतिकूलमेव ममानयाद्धि व्यसनं व आगात्॥२॥

एव मम ममैव वः युष्मान् ॥२॥

अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।
तन्मां शठः कितवः प्रत्यदेवीत् सुयोधनार्थं सुबलस्य पुत्रः॥३॥

अन्वपद्यम् अनुसृतवान् । जिहर्षिन्हर्तुमिच्छन् शठः कूटपाशकर्तृत्वात् कितवो द्यूतकारः ॥३॥

महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान् ।
अमायिनं मायया प्रत्यजैषीत्ततोऽपश्यं वृजिनं भीमसेन॥४॥

प्रवपन् पातयन् अक्षपूगान् पाशसमूहान् वृजिनं दुःखदं व्यसनम् ॥४॥

अक्षांश्च दृष्ट्वा शकुनेर्यथावत्कामानुकूलानयुजो युजश्च ।
शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम्॥५॥

कामानुकूलान् इच्छानुकूलान् । अयुजः विषमान् । युजः समान् । शक्यमिति । यः पुरुषस्य धैर्यं हन्यात् स मन्युर्यदि नाभविष्यत्तर्हि आत्मा मनः नियन्तुं शक्यमभविष्यदित्यध्याहृत्य योज्यम् । परस्यानुकूलानक्षान् दृष्ट्वा मन्युवशान्मम द्यूतोपरमे बुद्धिर्नासीदित्यर्थः ॥५॥

यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।
न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत्॥६॥

स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् ।
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः॥७॥

त्वं चापि तद्वेत्थ धनञ्जयश्च पुनर्द्यूतायागतांस्तां सभां नः ।
यन्मां ब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्॥८॥

वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।
अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः॥९॥

समा वर्षाणि अथापरं वर्षम् ॥९॥

त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराश्च ।
अन्यांश्चरेथास्तावतोऽब्दांस्तथा त्वं निश्चित्य तत्प्रतिजानीहि पार्थ॥१०॥

अवभोत्स्यन्ते ज्ञास्यन्ति ॥१०॥

वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान् ।
वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति॥१२॥

सर्वे शतमपि भ्रातरः स राजा दुर्योधनः ॥१२॥

तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे ।
इत्थं तु देशाननुसञ्चरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः॥१३॥

नः अस्माकं जघन्यं नीचम् । कृछ्ररूपाः क्लिष्टरूपाः ॥१३॥

सुयोधनश्चापि न शान्तिमिच्छन् भूयः स मन्योर्वशमन्वगच्छत् ।
उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन्॥१४॥

शान्तिं न इच्छन् अनिच्छन् । उद्योजयामास उत्कर्षेण स्वेच्छया तेषु तेषु दुर्गदेशादिपालनकार्येषु इष्टान् योजितवान् ॥१४॥

तं सन्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्॥१५॥

तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।
बाहू दिधक्षन्वारितः फाल्गुनेन किं दुष्कृतं भीम तदाऽभविष्यत्॥१६॥

पर्यमृक्षः परामृष्टवानसि दिधक्षन् दग्धुमिच्छन् ॥१६॥

प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।
प्राप्तं तु कालं त्वभिपद्य पश्चात् किं मामिदानीमतिवेलमात्थ॥१७॥

समयक्रियातः प्रागेव चेदिदमब्रवीस्तर्हि किं दुष्कृतम् अभविष्यत् न किमपीत्यर्थः । आविदानः जानन् । प्राप्तं कालं कालतुल्यां विपदम् । अभिपद्य स्वीकृत्य अतिवेलम् अतिशयेन ॥१७॥

भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा ।
यद्याज्ञसेनीं परिक्लिश्यमानां सन्दृश्य तत्क्षान्तमिति स्म भीम॥१८॥

भूयोऽपि बह्वपि दूये उपतप्ये ॥१८॥

न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।
कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः॥१९॥

यदुक्तं यां प्रतिज्ञां कृत्वा । बीजवापः कृषीवलः ॥१९॥

यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा ।
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके॥२०॥

पूर्वं निकृतो वञ्चितः वैरं वैरिसमूहम् । सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा । यदा यदि । निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ॥२०॥

श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते ।
मित्राणि चैनमचिराद्भजन्ते देवा इवेन्द्रमुपजीवन्ति चैनम्॥२१॥

मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च ।
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति॥२२॥

अमृतात् देवभावात् । कलां षोडशं भागम् ॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि युधिष्ठिरवाक्ये चतुस्त्रिंशोऽध्यायः॥३४॥
पञ्चत्रिंशोऽध्यायः

भीमसेन उवाच। सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेण स्त्रोतसा सर्वहारिणा॥१॥

संधिमिति । पतत्रिणा बाणवत् शीघ्रगामिना प्राणहरेण वा । स्त्रोतसा नित्यवाहिना ॥१॥

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च॥२॥

प्रत्यक्षं प्रत्यक्षेण ज्ञातम् । कालबन्धनः कालवश्यः फेनधर्मा निःसारः फलधर्मा पतनशीलः॥२॥

निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्॥३॥

सूच्येवाञ्जनचूर्णस्य यथा कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किंचिदपचीयते । एवं निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य योज्यम् । ‘चूर्णः क्षोदे क्षारभेदे’ इति विश्वः । शून्येवेति पाठेऽपि स एवार्थः । श्वयते प्रविशतीति शूनः स्थूलसूची ‘सूवा’ इति प्रसिद्धः । अल्पः शूनः शूनी तयेति योगात् । पूर्णस्येत्यपपाठः ॥३॥

यो नूनममितायुः स्यादथवापि प्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्॥४॥

प्रमाणवित् आयुः प्रमाणज्ञः ॥४॥

प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश ।
आयुषोपचयं कृत्वा मरणायोपनेष्यति॥५॥

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे॥६॥

यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्त्वा वैराणि सोऽवसीदति गौरिव॥७॥

याति प्राप्नोति । प्रसंख्यानं प्रकृष्टां साधुकीर्तिम्। यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः भूमिवर्धनः भूमिहिंसकः । भूमेर्भारभूत इत्यर्थः अयातयित्वा अनिस्तीर्य । गौर्बलीवर्द इव । सोऽप्यशक्तश्चेत् गोषु संख्यानं स्पष्टतां वाप्यप्राप्नुवन्भूमेर्भारभूतो भवति ॥७॥

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् ।
अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः॥८॥

दुर्जातजायिनः कुजन्मभाजः ॥८॥

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी ।
हत्वा द्विषन्तं सङ्ग्रामे भुङ्क्ष्व बाहुजितं वसु॥९॥

हैरण्यौ हिरण्यस्वामिनौ । श्रुतिः कीर्तिः । पार्थिवी पृथोः राज्ञ इवेत्यर्थः ॥९॥

हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः॥१०॥

निकर्तारं वञ्चकम् । अह्नाय सद्यः । स नरकम् आपदम् ॥१०॥

अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसन्तप्तो न नक्तं न दिवा शये॥११॥

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसन्तप्तो नूनं सिंह इवाशये॥१२॥

आशये स्वस्थाने ॥१२॥

योऽयमेकोऽभिमनुते सर्वान्ल्लोके धनुर्भृतः ।
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति॥१३॥

अभिमनुते हिनस्ति । ‘यदि वेममभिमंस्ये कनीयोन्नं करिष्ये’ इति बृहदारण्यकादावभिपूर्वस्य मन्यतेर्हिंसार्थत्वदृष्टेः । इमं प्रथमजं सूक्ष्मं बीजभूतमिति श्रुतिपदस्यार्थः । आत्मजं चित्तजमूष्माणं तापम् ॥१३॥

नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत्॥१४॥

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकश्च सन्तप्तो माता च प्रतिविन्ध्यतः॥१५॥

प्रतिविन्ध्यतः प्रतिविन्ध्यस्य माता द्रौपदी ॥१५॥

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन ।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः॥१६॥

नातः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते॥१७॥

शीलदोषाद्धृणाविष्ट आनृशंस्यात्परन्तप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति॥१८॥

घृणाविष्टः कथं सत्यं त्यजेयमिति लज्जया व्याप्तः आनृशंस्यात् दयालुत्वात् ॥१८॥

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी॥१९॥

मन्दकस्य कुत्सितमन्दस्य अनुवाकः गुरूक्तिमनुवचनं तेन हता । अर्थज्ञानशून्यस्य वेदाक्षरमात्राभ्यासिनः ॥१९॥

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रेषु जायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः॥२०॥

घृणी दयालुः जायथाः जातोऽसि ॥२०॥

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसम्पन्नान्विहितानशमात्मकान्॥२१॥

धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः ।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्॥२२॥

आस्से तूष्णीं भूतोऽसि । पीठसर्पवत् अजगरवत् ॥२२॥

बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्॥२३॥

अज्ञातवासस्य दुष्करत्वमाह तृणानामिति ॥२३॥

छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ।
अशातचर्या गूढेन पृथिव्यां विश्रुतेन च॥२४॥

संवर्तुं संवरीतुं छादितुम् ॥२४॥

दिवीव पार्थ सूर्येण न शक्याचरितुं त्वया ।
बृहच्छाल इवानूपे शाखापुष्पपलाशवान्॥२५॥

अनूपे बहुजले देशे ॥२५॥

हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ।
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू॥२६॥

नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ।
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्॥२७॥

विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ।
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः॥२८॥

नाज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ।
तथैव बहवोऽस्माभी राष्ट्रभ्यो विप्रवासिताः॥२९॥

राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ।
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः॥३०॥

अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ।
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान् ।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम्॥३१॥

निकर्तव्यं नीचं सूचनादि कर्म कर्तव्यम् ॥३१॥

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणेन तान्पश्य तावतः परिवत्सरान्॥३२॥

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति॥३३॥

अथवाऽनडुहे राजन्साधवे साधुवाहिने ।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते॥३४॥

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोऽस्ति संयुगात्॥३५॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि भीमवाक्ये पञ्चत्रिंशोऽध्यायः॥३५॥
षट्त्रिंशोऽध्यायः

वैशंपायन उवाच। भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परन्तपः॥१॥

भीमसेनेति ॥१॥

श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः ।
आयत्यां च तदात्वे च यः पश्यति स पश्यति॥२॥

आयत्यामुत्तरकाले तदात्वे वर्तमानकाले यः तान्पश्यति ॥२॥

धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम् ।
कथं बलात्करिष्यामि मेरोरिव विमर्दनम्॥३॥

जानमानः जानन् । श्नम्विकरणत्वमार्षम् ॥३॥

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्॥४॥

इतिकृत्यताम् इतिकर्तव्यताम् अपदान्तरम् अविलम्बितम् ॥४॥

युधिष्ठिर उवाच। एवमेतन्महाबाहो यथा वदसि भारत ।
इदमन्यत्समादत्स्व वाच्यं मे वाच्यकोविद॥५॥

समादत्स्व अङ्गीकुरु ॥५॥

महापापानि कर्माणि यानि केवलसाहसात् ।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत॥६॥

व्यथन्ते व्यथयन्ति ॥६॥

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्॥७॥

सुमन्त्रिते शोभनमन्त्रे क्रियमाणे सति सुविक्रान्ते उत्कर्षेणोपस्थिते सुकृते पुण्यकर्मणि सुविचारिते निश्चिते सति । चकारो यद्यर्थे ॥७॥

यत्तु केवलचापल्याद्बलदर्पोऽत्थितः स्वयम् ।
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे॥८॥

बलं शारीरं सामर्थ्यं दर्पो गर्वः ताभ्याम् उत्थितः प्रवृत्तः ॥८॥

भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् ।
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्॥९॥

धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः ।
सर्व एव कृतास्त्राश्च सततं चाततायिनः॥१०॥

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।
संश्रिताः कौरवं पक्षं जातस्नेहाश्च तं प्रति॥११॥

दुर्योधनहिते युक्ता न तथास्मासु भारत ।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति सङ्गरे॥१२॥

सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः ।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः॥१३॥

सैन्यस्य सैन्यसंबन्धिनः सर्वे । मात्राभिः अंशपरिच्छेदैः ॥१३॥

दुर्योधनेन ते वीरा मानिताश्च विशेषतः ।
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः॥१४॥

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।
द्रोणस्य च महाबाहो कृपस्य च महात्मनः॥१५॥

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान्॥१६॥

राजपिण्डः राजदत्तो ग्रासः । निर्वेश्यः आनृण्यार्थं शोधनीयः ॥१६॥

सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः॥१७॥

अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः ।
सर्वास्त्रविदनाधृष्यो ह्यमेद्यकवचावृतः॥१८॥

अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् ।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया॥१९॥

न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।
अतिसर्वान्धनुर्गाहान्सूतपुत्रस्य लाघवम्॥२०॥

लाघवं शीघ्रताम् ॥२०॥

वैशंपायन उवाच। एतद्वचनमाज्ञाय भीमसेनोत्यमर्षणः ।
बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन॥२१॥

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।
आजगाम महायोगी व्यासः सत्यवतीसुतः॥२२॥

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः ।
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः॥२३॥

व्यास उवाच। युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम् ।
मनीषया ततः क्षिप्रमागतोरिम नरर्षभ॥२४॥

भीष्माद्द्रोणात्कृपात्कर्णाद्रोणपुत्राच्च भारत ।
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि॥२५॥

यत्ते भयममित्रघ्न्न हृदि सम्परिवर्तते ।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा॥२६॥

तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ।
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि॥२७॥

तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् ।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः॥२८॥

श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम॥२८॥

येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः॥२९॥

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव ।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते॥३०॥

यामवाप्य महाबाहुरर्जुनः साधयिष्यति ।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु॥३१॥

साधयिष्यति राज्यम् ॥३१॥

वरुणं च कुबेरं च धर्मराजं च पाण्डव ।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च॥३२॥

ऋषिरेष महातेजा नारायणसहायवान् ।
पुराणः शाश्वतो देवस्त्वजेयो जिष्णुरच्युतः॥३३॥

अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च ।
समादाय महाबाहुर्महत्कर्म करिष्यति॥३४॥

वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते॥३५॥

एकत्र चिरवासो हि न प्रीतिजननो भवेत् ।
तापसानां च सर्वेषां भवेदुद्वेगकारकः॥३६॥

मृगाणामुपयोगश्च वीरुदौषधिसंक्षयः ।
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान्॥३७॥

उपयोगः व्ययः वीरुधः प्रतानवत्यः औषध्यः फलपाकान्ताः ॥३७॥

वैशंपायन उवाच। एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः ।
प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम्॥३८॥

धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः ।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत॥३९॥

अनुज्ञाय पृष्ट्वा ॥३९॥

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।
धारयामास मेधावी काले काले सदाऽभ्यसन्॥४०॥

ब्रह्म मन्त्रम् ॥४०॥

स व्यासवाक्यनुदितो वनाद्द्वैतवनात्ततः ।
ययौ सरस्वतीकूले काम्यकं नाम काननम्॥४१॥

तमन्वयुर्महाराज शिक्षाक्षरविशारदाः ।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा॥४२॥

ततः काम्यकमासाद्य पुनस्ते भरतर्षभ ।
न्यविशन्त महात्मानः सामात्याः सपरिच्छदाः॥४३॥

तत्र ते न्यवसन्राजन्किञ्चित्कालं मनस्विनः ।
धनुर्वेदपरा वीराः शृण्वन्तो वेदमुत्तमम्॥४४॥

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः ।
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि॥४५॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि काम्यकवनगमने षट्त्रिंशोऽध्यायः॥३६॥
सप्तत्रिंशोऽध्यायः

वैशंपायन उवाच। कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।
संस्मृत्य मुनिसन्देशमिदं वचनमब्रर्वात्॥१॥

कस्यचित् कस्मिंश्चित् ॥१॥

विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्॥२॥

स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः ।
धनञ्जयं धर्मराजो रहसीदमुवाच ह॥३॥

वनवासं द्रौपदीवियोगम् । ‘गृहिणी गृहमुच्यते’ इति स्मृतेः ॥३॥

युधिष्ठिर उवाच। भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः॥४॥

चतुष्पादः आदानसंधानविसर्गसंहाराश्चत्वारः पादा यस्य ॥४॥

दैवं ब्राह्म मानुषं च सयत्नं सचिकित्सितम् ।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः॥५॥

दैवम् इन्द्रवरुणाद्यस्त्रं ब्राह्मं ब्रह्मास्त्रं मानुषं धनुर्बाणादि यत्नः ग्रहणधारणप्रयोगरूपः चिकित्सा परप्रयुक्तानामेषां प्रतीकारः एवं ते सर्वास्त्राणां प्रयोगम् अभितः साकल्येन जानन्ति ॥५॥

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः ।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते॥६॥

गुरुवत् गुरुष्विव ॥६॥

सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ।
आचार्या मानितास्तुष्टाः शान्ति व्यवहरन्त्युत॥७॥

शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते॥७॥

शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ।
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा॥८॥

शक्तिं सामर्थ्यं न हापयिष्यन्ति त्याजयिष्यन्ति अपि तु उद्दीपयिष्यन्ति ॥८॥

सग्रामनगरा पार्थ ससागरवनाकरा ।
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः॥९॥

अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम ।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया॥१०॥

उपनिषत् रहस्यविद्या ॥१०॥

तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः॥११॥

देवतानां यथाकालं प्रसादं प्रतिपालय ।
तपसा योजयात्मानमुग्रेण भरतर्षभ॥१२॥

प्रतिपालय प्राप्नुहि ॥१२॥

धनुष्मान्कवची खड्गी मुनिः साधुव्रते स्थितः ।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्॥१३॥

मार्गं न ददत् अददत् ॥१३॥

इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम्॥१४॥

बलं सर्वास्त्ररूपम् ॥१४॥

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ।
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति॥१५॥

ततः शक्रात् ॥१५॥

दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम् ।
वैशंपायन उवाच। एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः॥१६॥

दीक्षितः स्वीकृतव्रतः अध्यापयत विद्यया योजितवान् ॥१६॥

दीक्षितं विधिनानेन धृतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः॥१७॥

अनुजज्ञे गमनाय अनुज्ञातवान् ॥१७॥

निदेशाद्धर्मराजस्य द्रष्टुकामः पुरन्दरम् ।
धनुर्गाण्डीवमादाय तथाक्षय्ये महेषुधी॥१८॥

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः॥१९॥

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च॥२०॥

तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् ।
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च॥२१॥

क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।
अब्रुवन्ब्राह्मणाः पार्थामिति कृत्वा जयाशिषः॥२२॥

इति वक्ष्यमाणम् अब्रुवन् ॥२२॥

संसाधयस्व कौन्तेय ध्रुवोऽस्तु विजयस्तव ।
तं तथा प्रस्थितं वीरं शालस्कन्धोरुमर्जुनम्॥२३॥

मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ।
कृष्णोवाच ।
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय॥२४॥

यत् मङ्गलं ते तव ॥२४॥

तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ।
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्॥२५॥

ब्राह्मणेभ्यो नमो नित्यं येषां भैक्ष्येण जीविका ।
इदं मे परमं दुःखं यः स पापः सुयोधनः॥२६॥

दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ।
तस्माद्दुःखादिदं दुःखं गरीय इति मे मतिः॥२७॥

गौरिति बहुपुरुषभोग्येत्युपहासः ॥२७॥

यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ।
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे॥२८॥

अभाषत शत्रुः यत्तस्मात् दुःखात् इदं त्वद्वियोगजमिति पूर्वेण संबन्धः ॥२८॥

रंस्यन्ते वीरकर्माणि कथयन्तः पुनः पुनः ।
नैव नः पार्थ भोगेषु न धने नोत जीविते॥२९॥

तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ।
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते॥३०॥

जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।
आपृष्टो मोस कौन्तेय स्वस्ति प्राप्नुहि भारत॥३१॥

बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयानघ ।
प्रयाह्यविघ्नेनैवाशु विजयाय महाबल ।
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्॥३२॥

ह्रीः श्रीः कीर्तिद्युतिः पुष्टिरुमा लक्ष्मीः सरखती ।
इमा वै तव पान्थस्य पालयन्तु धनञ्जय॥३३॥

तव त्वाम् ॥३३॥

ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः ।
प्रपद्येऽहं वसून्रुद्रानादित्यान्समरुद्गणान्॥३४॥

ज्येष्ठापचायी ज्येष्ठपूजनशीलः । ज्येष्ठोपचायीति पाठे ज्येष्ठवृद्धिकरणशीलः ॥३४॥

विश्वेदेवांस्तथा साध्याञ्च्छान्त्यर्थं भरतर्षभ ।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत॥३५॥

दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ।
वैशंपायन उवाच। एवमुक्त्वाशिषः कृष्णा विरराम यशस्विनी॥३६॥

ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः॥३७॥

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः॥३८॥

शुष्मिणः बलिनः । शुष्ममिति बलनामेति यास्कः ॥३८॥

सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परन्तपः॥३९॥

अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः॥४०॥

हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः॥४१॥

इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः ।
अन्तरिक्षेऽतिशुश्राव तिष्ठेति स वचस्तदा॥४२॥

तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः ।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम्॥४३॥

ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ।
सोऽब्रवीदर्जुनं तत्र स्थितं दॄष्ट्वा महातपाः॥४४॥

कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ।
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः॥४५॥

नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः ।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्॥४६॥

विनीतौ जितौ क्रोधहर्षौ यैः ॥४६॥

नेहास्ति धनुषा कार्यं न सङ्ग्रामोऽत्र कर्हिचित् ।
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम्॥४७॥

ओजसा तेजसा वीर यथा नान्यः पुमान्क्वचित् ।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।
न चैनं चालयामास धैर्यात्सुधृतनिश्चयम्॥४८॥

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन॥४९॥

एवमुक्तः सहस्त्राक्षं प्रत्युवाच धनञ्जयः ।
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः॥५०॥

ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे ।
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्॥५१॥

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।
इह प्राप्तस्य किं कार्यमस्त्रैस्तत्र धनञ्जय॥५२॥

कामान्वृणीष्व लोकांस्त्वं प्राप्तोऽसि परमां गतिम् ।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः॥५३॥

कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् लोकान् भोगान् ॥५३॥

न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम् ।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप॥५४॥

न लोभान्न पुनः कामादिति न शब्दौ वा शब्दार्थौ । लोभाद्वा कामाद्वेत्यर्थः ॥५४॥

भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः॥५५॥

अप्रतियात्य अनिस्तीर्य । एतेन ज्येष्ठभ्रात्रादिसेवनम् ऐन्द्रपदप्राप्तावपि नोपेक्षणीयमित्युक्तम् ॥५५॥

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।
सान्त्वयञ्च्छ्लक्ष्णया वाचा सर्वलोकनमस्कृतः॥५६॥

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः॥५७॥

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि॥५८॥

इत्युक्त्वा फाल्गुनं शक्रो जगामादर्शनं पुनः ।
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः॥५९॥

इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि इन्द्रदर्शने सप्तत्रिंशोऽध्यायः॥३७॥
समाप्तं अर्जुनाभिगमनपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in