वैशम्पायन उवाच।
भोजाः प्रव्रजिताञ्च्छ्रुत्वा वृष्णयश्चान्धकैः सह
।
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने॥१॥
एवमधर्मरुचीनां दुर्योधनादीनां व्यासादिभिरौप्तरुपदेशे कृतेऽपि मैत्रेयशापेऽपि किर्मीरवधेन महाभयेऽपि प्रत्युपस्थिते सति न धर्मे रुचिरुत्पद्यत इत्युक्तम् । संप्रति धर्मरुचीनां पाण्डवानामुपरि परमेश्वरस्येतरेषां चानुग्रहं पाण्डवानां कृष्णतत्त्वविज्ञानं च वर्णयति । भोजाः प्रव्रजितानित्यादिनाध्यायेन ॥१॥
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः
।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः॥२॥
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः
।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्॥३॥
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः
।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्॥ अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत्॥४॥
वासुदेव उवाच।
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥५॥
दुःशासनश्चतुर्थो येषाम् ॥५॥
एतान्निहत्य समरे ये च तस्य पदानुगाः
।
तांश्च सर्वान्विनिर्जित्य सहितान्सनराधिपान्॥६॥
तस्य दुर्योधनस्य पदानुगाः सहायाः ॥६॥
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्
।
निकृत्योपचरन्वध्य एष धर्मः सनातनः॥७॥
निकृत्या छलेन उपचरन् वर्तमानः ॥७॥
वैशम्पायन उवाच।
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्
।
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः॥८॥
अभिषङ्गेण दुःखेन पराभवेन वा ॥८॥
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फाल्गुनः
।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः॥९॥
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः
।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः॥१०॥
पुरुषस्य पुरि शरीरे शयानस्य अप्रमेयस्य अहंकारादिवत् प्रमातुमयोग्यस्य विषयित्वात् । अत एव सत्यस्य कालत्रयेऽपि बाधशून्यस्य विषयस्य हि बाधः स्वप्नादौ दृष्टः अमिततेजसः त्रिविधपरिच्छेदशून्यचिन्मात्रस्य । प्रजापतिपतेः सूत्रविराजोरपि स्वामिनः। विष्णोर्व्यापकस्य लोकेनाथस्यान्तर्यामिणः । एवं तत्पदार्थमुक्त्वा त्वं पदार्थमाह धीमत इति । बुद्ध्युपाधेः अनयोः सामानाधिकरण्यादभेदः । अस्यैव सूत्रभूतस्य श्लोकस्य विवरणमुत्तरो ग्रन्थः ॥१०॥
अर्जुन उवाच।
दश वर्षसहस्राणि यत्र सायङ्गृहो मुनिः
।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने॥११॥
तत्र तपस्विनां क्षमैवोचितेति दर्शयितुं भगवतः क्रोधोपशमनाय तदीयं जन्मान्तरीयं तप एव तावदुदाहरति दशेत्यादिना। यत्र सायंकालस्तत्रैव गृहं यस्य स यत्र सायंगृह इत्येकं पदम् ॥११॥
दश वर्षसहस्राणि दश वर्षशतानि च
।
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा॥१२॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन
।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः॥१३॥
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः
।
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके॥१४॥
अवकृष्टोत्तरासङ्गः त्यक्तोत्तरीयवस्त्रः ॥१४॥
प्रभासमप्यथासाद्य तीर्थं पुण्यजनोचितम्
।
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्॥१५॥
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः
।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत्॥१६॥
तपसः प्रयोजनमाह लोकेति ॥१६॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव
।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः॥१७॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले
।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः॥१८॥
भौमं भूमिपुत्रं प्रथमोत्पादितं सर्वभूतानां प्रथमेन अहंकारेण उत्पादितं भूतादिरहंकार इति प्रसिद्धम् । मेध्यं यज्ञियम् ॥१८॥
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित्
।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्॥१९॥
तत्कर्म अश्वोत्सर्गाख्यम् ॥१९॥
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः
।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव॥२०॥
स त्वं नारायणो भूत्वा हरिरासीः परन्तप
।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः॥२१॥
सः त्वं क्षेत्रज्ञः शुद्धचिन्मात्रः भूस्थानीयः सन् नारायणः नरेण परमात्मना सृष्टं नारं स्थूलसूक्ष्मकारणरूपम् उपाधित्रयं तदेव अयनं वासस्थानं यस्य स यथा । वृक्षांकुरबीजस्थानीयविराट्सूत्रान्तर्यामिरूपो भूत्वा हरिः परिणतबीजसहस्रगर्भफलस्थानीयः साम्बमूर्तिः आसीः ईषत्पक्वफलोपमाश्च ब्रह्मादयस्त्वमेव ॥२१॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः
।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम॥२२॥
हे पुरुषोत्तम उक्तेभ्यो बीजादिस्थानीयेभ्य उत्तमभूस्थानीयनिर्विशेषचिन्मात्ररूपः अजो विष्णुः चराचरगुरुः रुद्रः स्रष्टा दक्षप्रजापत्यादिः ॥२२॥
परायणं देवमूर्धा क्रतुभिर्मधुसूदन
।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने॥२३॥
परायणं सर्वोत्कृष्टं प्राप्यं देवमूर्धा देवश्रेष्ठः क्रतुभिरयज इत्यन्वयः । अधृष्य इति पाठे त्वं यज इत्यध्याहारः ॥२३॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन
।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः॥२४॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन
।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः॥२५॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप
।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा॥२६॥
सम्प्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः
।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा॥२७॥
संप्राप्य सम्यक् व्याप्य । आदित्यस्यन्दने सूर्यदेहे भास्करं मण्डलाभिमानिनं जीवम् ॥२७॥
प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो
।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः॥२८॥
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ
।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥२९॥
सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः मुरवेष्टने अस्मादौणादिके उक् प्रत्यये तद्धितः मौर्वी शब्दोप्यत एव मध्यमस्वरलोपेन निष्पन्नः ॥२९॥
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह
।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः॥३०॥
जारूथ्यां नगर्याम् ॥३०॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा
।
अवाप्सीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम्॥३१॥
अवाप्सीः अवाप्तवानसि भोज्यां भोजवंशजाम् ॥३१॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कसेरुमान्
।
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्॥३२॥
सौभं खेचरं पुरम् ॥३२॥
एवमेते युधि हता भूयश्चान्याञ्च्छृणुष्व ह
।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि॥३३॥
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ
।
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन॥३४॥
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि
।
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन
।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु॥३५॥
नृशंस्यं निर्दयत्वं दीर्घपाठे त्वाङ्पूर्वोऽयं शब्दो ज्ञेयः ॥३५॥
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा
।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत॥३६॥
आसीनं चैत्यमध्ये त्वां चैत्यम् आयतनम् आध्यात्मिकं हृदयपुण्डरीकं बाह्यं देवालयादि । चित्तमध्यस्थमित्यपि पाठः । नित्यमध्यस्थमिति पाठेऽपि मध्यं हृदयाब्जमेव ॥३६॥
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन
।
आत्मनैवात्मसात्कृत्वा जगदासीः परन्तप॥३७॥
आत्मनैव निमित्तान्तरं विना । आत्मसात् आत्ममात्रम् ॥३७॥
युगादौ तव वार्ष्णेय नाभिपद्मादजायत
।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्॥३८॥
युगादौ तव वार्ष्णेयेत्यादि सार्धश्लोकत्रयं क्वचिन्न दृष्टम् । यस्य कृतिरिदं सकलम् असौ देवोऽपि त्वन्नियोगकर इति विपरिणामेन योज्यम् ॥३८॥
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ
।
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः॥३९॥
ललाटाज्जातवाञ्च्छृम्भुः शूलपाणिस्त्रिलोचनः
।
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ॥४०॥
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत्
।
तथा नारायणपुरा क्रतुभिर्भूरिदक्षिणैः॥४१॥
इष्टवांस्त्वं महासत्रं कृष्णचैत्ररथे वने
।
नैवं परे नापरे वा करिष्यन्ति कृतानि वा॥४२॥
यानि कर्माणि देव त्वं बाल एव महाबलः
।
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्॥ कैलासभवने चापि ब्राह्मणैर्न्यवसः सह॥४३॥
कर्माणि पूतनावधादीनि ॥४३॥
वैशम्पायन उवाच।
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः
।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः॥४४॥
एवं तत्पदार्थस्वरूपं प्रपंच्य तस्य त्त्वंपदार्थाभेदमाह एवमिति ॥४४॥
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते
।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु॥४५॥
ममैव त्वं ब्रह्मण एव स्वरूपं जीवः तवैवाहं जीवस्यैव शुद्धं रूपं ब्रह्म न ततोऽन्यत्। ये मदीयास्तवैव ते ब्रह्मगता औपाधिकाः सर्वेश्वरत्वादयस्तेऽपि जीवस्यैव तस्माद्यो जीवं द्वेष्टि स ब्रह्म द्वेष्टि यो जीवं याति स ब्रह्म याति अद्रोही सन्सर्वभूतेषु भगवद्भावं पश्येदित्यर्थः ॥४५॥
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्
।
काले लोकमिमं प्राप्तौ नरनारायणावृषी॥४६॥
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च
।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ॥४७॥
ननु मित्रयोर्ममात्मा त्वं तवात्माहमित्यभेदोपचारो दृष्टः न त्वभेद इत्याशंक्याहानन्य इति । मित्रयोर्हि अन्यत्वं प्रत्यक्षदृष्टं तदिह निरस्यते । अपूर्वार्थज्ञापकत्वाद्वाक्यस्य अनन्यत्वमप्यौपचारिकमस्त्वित्याशंक्याह नावयोरिति। अन्तरं भेदः । वेदितुं विचारयितुं जोवेशयोर्भेदो दुर्निरूप इत्यर्थः । तथा हि किं देहभेदादात्मभेद उत आत्मभेदात् । नाद्यः कायव्यूहकृतयोगिन्यव्याप्तेः नान्त्यः उपाधिपरामर्शं विना भेदस्याविभाव्यमानत्वात् । मुक्तात्मानौ जीवेशौ वा न स्वभावभिन्नौ उक्तहेतोः घटमठाकाशवदिति ॥४७॥
वैशंपायन उवाच।
एवमुक्ते तु वचने केशवेन महात्मना
।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु॥४८॥
समावाये समूहे संरब्धेषु कुपितेषु ॥४८॥
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता
।
पाञ्चाली पुण्डरीकाक्षमासीनं भ्रातृभिः सह
।
अभिगम्याब्रवीत्क्रुद्धा शरण्यं शरणैषिणी॥४९॥
द्रौपद्युवाच।
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्
।
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत्॥५०॥
एवंविधस्यात्मतत्त्वस्याधिगमाय ध्यानस्तवनसेवादिना कृष्ण एव शरणींकरणीय इत्याह द्रौपदी वाक्येन पूर्वे इत्यादिना । पूर्वे सृष्टेःप्राक्काले त्वाम् एकम् आहुः ‘सदेव सोम्येदमग्र आसीत्’ इत्याद्याः श्रुतयः प्रजाभिसर्गे च प्रजापतिं त्वामाहुः ‘सर्वस्य वशी सर्वस्येशानः’ इत्याद्याः श्रुतयः। ईशत्वमपि न राजवत् किं तूपादानत्वेनेत्याह स्रष्टारमिति ॥५०॥
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन
।
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्॥५१॥
विष्णुः विशतीति विष्णुः ‘अन्तः प्रविष्टः शास्ता जनानाम्’ इति श्रुतेः । कारयिता क्रियाकर्ता कर्म च त्वमेवासीति पादचतुष्टयार्थः ॥५१॥
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम
।
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत्॥५२॥
क्षमा दुःखसहता सत्त्यं सत्पृथिव्यप्तेजांसि त्यत् वाय्वाकाशौ तदात्मकं तस्माच्च संभूतो यज्ञोऽपि त्वमसि ॥५२॥
साध्यानामपि देवानां शिवानामीश्वरेश्वर
।
भूतभावन भूतेश यथा त्वां नारदोऽब्रवीत्॥५३॥
भूतभावनवियदादिस्रष्टः भूतेश भूतनियन्तः ‘य आकाशमन्तरो यमयति’ इत्यादिश्रुतेराकाशादेरपि नियम्यत्वादस्मदादिवच्चेतनत्वं द्रष्टव्यम् । तत्र चेतनानुपलम्भस्त्वरणिस्थाग्नेरिवानभिव्यक्तत्वान्न त्वभावादिति भावः ॥५३॥
ब्रह्मशङ्करशक्राद्यैर्दैववृन्दैः पुनः पुनः
।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव॥५४॥
ब्रह्मादिनियन्तृत्वं वैश्वरूप्यं चाह द्वाभ्यां ब्रह्मेति ॥५४॥
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो
।
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः॥५५॥
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्
।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः॥५६॥
विद्या वेदाधिगमो ब्रह्मचारिधर्मः । तपस्तदर्थानुष्ठानं गृहस्थधर्मः । तपसा कृच्छ्रचान्द्रायणादिना वानप्रस्थधर्मेण च भावितात्मनां शोधितचित्तानाम् अत एवात्मदर्शनतृप्तानां यतीनां सत्तमः सत्यतमः सत्यं स्वप्नेन्द्रजालादि प्रातिभासिकं । सत्यतरो व्यवहारः सत्यतमं ब्रह्म इतरयोर्बाधावधिभूतत्वात् ॥५६॥
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्
।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ॥५७॥
सर्वे धर्माः पापपुण्यादयस्तैरुपपन्नानामपि त्वमेव गतिः । दीनदयालुत्वात्पापिष्ठानामपि उद्धर्तेति भावः । प्रभुर्नियन्ता विभुर्व्यापकः भूतात्मा जीवः बुद्ध्याद्याकारपरिणतानि भूतान्येवात्मत्वेन मन्यमानः । ‘अस्ति खल्वन्योऽपरो भूतात्मा यो यं सतीसितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यत’ इति मैत्रायणीये भूतात्मपदस्य जीवे रूढिदर्शनात् विचेष्टसे । कर्माणि कुरुषे ॥५७॥
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे
।
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश
।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्॥५८॥
त्वयि सर्वं प्रतिष्ठितं लोकपालादिपदस्य त्वमेव प्रापक इत्यर्थः ॥५८॥
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्
।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्॥५९॥
अस्यैव व्याख्या मर्त्यता चेति । मर्त्यता संसारः भूतानां साधारणजीवानाम् अमृतत्वं मुक्तिः दिवौकसां दिव्यदृष्टिमतां सात्त्विकानाम् ॥५९॥
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन
।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः॥६०॥
एवं स्वर्गापवर्गार्थिभिः कृष्ण एव शरणीकरणीय इति कृष्णस्तुतिप्रसङ्गादुक्तम् । संप्रति दृष्टफलार्थमपि स एवानुसर्तव्य इत्याह सा तेऽहं दुःखमाख्यास्ये इत्यादिना। अत्रात्मनि कृष्णस्य करुणोत्पादनार्थं दुःखनिवेदनं तत्प्रसङ्गेन महामहिम्नामपि संसारिणां दुर्गतिः प्रपञ्चिता वैराग्योत्पादनाय प्रणयाद्विश्रम्भात् आख्याने हेतुमाह ईशस्त्वमिति ॥६०॥
कथं नु भार्या पार्थानां तव कृष्णसखी विभो
।
धृष्टद्युम्नस्य भगिनी सभां कृप्येत मादृशी॥६१॥
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता
।
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि॥६२॥
स्त्रीधर्मिणी रजस्वला ॥६२॥
राज्ञां मध्ये सभायां तु रजसातिपरिप्लुता
।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः॥६३॥
दासीभावेन मां भोक्तुमीषुस्ते मधुसूदन
।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु॥६४॥
ईषुः ऐच्छन् ॥६४॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
।
स्नुषा भवामि धर्मेण साहं दासीकृता बलात्॥६५॥
स्नुषा वधूः ॥६५॥
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्
।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्॥६६॥
धर्मपत्नीं यज्ञसंयोगिनीम् ॥६६॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य च गाण्डिवम्
।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन॥६७॥
विप्रकृतां दुःखं प्रापितां मर्षयेताम् क्षमेताम् ॥६७॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा
।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि॥६८॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः॥६९॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत
।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे॥७०॥
जायात् उत्पद्येत् ॥७०॥
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन
।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः॥७१॥
नान्वपद्यन्त नानुगृहीतवन्तः ॥७१॥
पञ्चभिः पञ्चभिर्जाताः कुमारा मे महौजसः
।
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन॥७२॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः॥७३॥
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमाः
।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः॥७४॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः
।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्॥७५॥
धार्तराष्ट्राणाम् अपराधं दुर्बलीयसां दुर्बलतराणाम् ॥७५॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा
।
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला॥७६॥
नाधिज्यमपि यच्छक्यं कर्तुमन्ये न गाण्डिवम्
।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन॥७७॥
अधिज्यम् आरोपितगुणम् ॥७७॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्
।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति॥७८॥
य एतानाक्षिपद्राष्ट्रात्सह मात्राऽविहिंसकान्
।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन॥७९॥
आक्षिपत् दूरे कृतवान् । अविहिंसकान् अदुःखदान् ॥७९॥
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम्
।
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम्॥८०॥
संभृतं सहितं संभूतमिति पाठे बहुलम् ॥८०॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन
।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम॥८१॥
सशेषत्वात् आयुष इति शेषः ॥८१॥
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्
।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्॥८२॥
प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ॥८२॥
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्
।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः॥८३॥
आशीविषैः कृष्णसर्पैर्भीमसेनमदंशयत्
।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥८४॥
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्
।
सारथिं चास्य दयितमपहस्तेन जघ्निवान्॥८५॥
अपोथयत् प्रहृतवान् अपहस्तेन हस्तपृष्टेन ॥८५॥
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते
।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति॥८६॥
उपाधाक्षीत् दाहार्थम् उपहृतवान् । आर्या श्वश्रूः ॥८६॥
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्
।
महद्व्यसनमापन्ना शिखिना परिवारिता॥८७॥
हा हतास्मि कुतोन्वद्य भवेच्छान्तिरिहानलात्
।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह॥८८॥
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः
।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः॥८९॥
वैनतेयो यथा पक्षी गरुत्मान्पततां वरः
।
तथैवाभिपतिष्यामि भयं वो नेह विद्यते॥९०॥
वैनतेयः विनतापुत्रः ॥९०॥
आर्यामङ्केन वामेन राजानं दक्षिणेन च
।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च॥९१॥
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्
।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्॥९२॥
ते रात्रौ प्रस्थिताः सर्वे सह मात्रा यशस्विनः
।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात्॥९३॥
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः
।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी॥९४॥
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ
।
हृच्छेयेनाभिभूतात्मा भीमसेनमकामयत्॥९५॥
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततोबला
।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना॥९६॥
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः
।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते॥९७॥
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी
।
भीमसेनं महात्मानमाह चैवमनिन्दिता॥९८॥
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्
।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम्॥९९॥
अथ भोमो…..साभिमानमिदं वचः
।
नोद्विजेयमहं …..न्निहनिष्येहमागतम्॥१००॥
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः
।
भीमरूपो महानादान्विसृजन्भीमदर्शनः॥१०१॥
राक्षस उवाच।
केन सार्धं कथयसि आनयैनं ममान्तिकम्
।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि॥१०२॥
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी
।
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता॥१०३॥
कृपासंगृहीतेन स्नेहवशेन ॥१०३॥
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः
।
अभ्यद्रवत वेगेन भीमसेनं तदा किल॥१०४॥
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली
।
अगृह्णत्पाणिना पाणिं भीमसेनस्य राक्षसः॥१०५॥
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्
।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्॥१०६॥
संहत्य मुष्टीकृत्य ॥१०६॥
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा
।
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः॥१०७॥
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः
।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव॥१०८॥
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ
।
निजघान महावीर्यस्तं तदा निर्बलं बली॥१०९॥
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह
।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः॥११०॥
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः
।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः॥१११॥
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः
।
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः॥११२॥
तत्राप्यासादयामासुर्बकं नाम महाबलम्
।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्॥११३॥
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः
।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ॥११४॥
लब्धाहमपि तत्रैव वसता सव्यसाचिना
।
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा॥११५॥
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन
।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः॥११६॥
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता
।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसरा॥११७॥
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः
।
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मां कथम्॥११८॥
एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम्
।
दीर्घकालं प्रदीप्तास्मि पापानां पापकर्मणाम्॥११९॥
कुले महति जातास्मि दिव्येन विधिना किल
।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः॥१२०॥
दिव्येन अमानुषेण अग्निकुण्डोद्भवत्वात् ॥१२०॥
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती
।
पञ्चानां पाण्डुपुत्राणां प्रेक्षतां मधुसूदन॥१२१॥
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना
।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी॥१२२॥
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ
।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः॥१२३॥
सुजातौ संलग्नो ॥१२३॥
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः
।
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्॥१२४॥
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः
।
न भ्रातरो न च पिता नैव त्वं मधुसूदन॥१२५॥
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्
।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा॥१२६॥
विशोकवत् विशोका इव ॥१२६॥
चतुर्भिः कारणैः कृष्ण त्वया रक्षास्मि नित्यशः
।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव॥१२७॥
संबन्धात् पितृष्वस्त्रीयभार्यात्वात् गौरवादग्निकुण्डोद्भवत्वात् सख्यात् भक्तिमत्वात् प्रभुत्वेन सामर्थ्यवत्वेन त्वदीयेन ॥१२७॥
वैशंपायन उवाच।
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे
।
वासुदेव उवाच।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भाविनि
।
बीभत्सुशरसंच्छन्नाञ्च्छोणितौघपरिप्लुतान्॥१२८॥
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले
।
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः॥१२९॥
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि
।
पतेद्द्यौर्हिमवाञ्च्छीर्येत्पृथिवी शकलीभवेत्॥१३०॥
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
।
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्॥१३१॥
द्रौपदीवाक्यं प्रतिवाक्यं च श्रुत्वाऽर्जुन आबभाषे इति व्यवहितेन संबन्धः ॥१३१॥
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम्
।
आबभाषे महाराज द्रौपदीमर्जुनस्तदा॥१३२॥
अत्र हेतुः यतः पाञ्चाली साचीकृतं वक्रीभूतं यथा स्यात्तथा मध्यमं पतिं तमेवावैक्षदिति यत इत्यध्याहृत्य योज्यम् ॥१३२॥
मा रोदीः शुभताम्राक्षि तदाह मधुसूदनः
।
तथा तद्भविता देवि नान्यथा वरवर्णिनि॥१३३॥
धृष्टद्युम्न उवाच।
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्
।
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः॥१३४॥
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणे स्वसः
।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः॥१३५॥
स्वसः हे भगिनि ॥१३५॥
वैशम्पायन उवाच।
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिताः
।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्॥१३६॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपद्याश्वासने द्वादशोऽध्यायः॥१२॥
युधिष्ठिर उवाच।
वासुदेव महाबाहो विस्तरेण महामते
।
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः॥१॥
अर्थाधीनौ धर्मकामौ अर्थस्तु स्वराज्यरक्षापरराज्यावमर्दाभ्यां राज्ञा प्राप्यते इति तावेव शाल्वप्रसङ्गात् सम्यक् श्रोतुकामः पृच्छति वासुदेवेति । कथ्यतः कथयतः कंड्वादियगन्तात् शत्रन्तस्य रूपम् ॥१॥
वासुदेव उवाच।
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम्
।
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्॥२॥
श्रुतश्रवा शिशुपालमाता तज्जं श्रौतश्रवम् उपायात् उपगतः ॥२॥
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
।
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः॥३॥
अरुन्धत् सेनया वैहायसं खेचरं व्यूह्य स्वरक्षापरोपमर्दयोग्यरचनाविशेषेण स्थापयित्वा घिष्ठितः सम्यक् स्थितः ॥३॥
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्
।
अभिसारेण सर्वेण तत्र युद्धमवर्तत॥४॥
अभितः परित उपरितश्चायुधानां सरणं निःसाणमभिसारस्तेन सर्वेण अच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपदविरलायुधसमूहागमेनेत्यर्थः॥४॥
पुरी समन्ताद्विहिता सपताका सतोरणा
।
सचक्रा सहुडा चैव सयन्त्रखनकास्तथा॥५॥
पताका ध्वजांचलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः हुडास्तदाश्रयस्थानानि भाषायां ‘बुरुज’ संज्ञानि अन्ये तु। विण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च अन्ये कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सुरिभिः विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यत‘ इति । यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि महान्ति ‘कमान’संज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि ‘बंदूख’संज्ञानि । खनकाः सुराङ्गद्वारा गुप्तमार्गकर्तारः ॥५॥
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा
।
सचक्रग्रहणी चैव सोल्कालातावपोथिका॥६॥
उपशल्या लोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्यां सा। अट्टालकाः उपरिगृहाः । गोपुराणि पुरद्वाराणि साट्टानि अट्टेन अन्नेन सहितानि अट्टालकादीनि यस्यां सा । साट्टेति विशेषणम् उपशल्यस्य ग्रामान्तस्य रथ्यायश्चावृत्त्या संबध्यते। चक्रप्रहणी सैन्यनिग्राहिका ‘मोर्चा’ इति म्लेच्छप्रसिद्धा सोल्कालातावपोथिका सोल्कमलातं ज्वालासहितमुल्मुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकाः यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपारी पातनाय यस्यामिति प्राञ्चः । उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलः। अलातं सकाष्ठदण्डं लोहमयमाग्नेयं प्रहरणं ‘बाण’ इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयगत्योरपि पोथिकाः पातयित्र्यः मन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्तिसदृशास्तद्युक्ताः सोल्कालातावपोथिकाः ॥६॥
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला॥७॥
उष्ट्रिका मृच्चर्ममयानि भाण्डानि । सर्ष्टिकेति पाठे ऋष्टय आयुधविशेषाः ॥७॥
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा
।
लोहचर्मवती चापि साग्निः सगुडशृङ्गिका॥८॥
अश्मगुडकाः वर्तुलीकृताः पाषाणाः लोहमयानि चर्माणि कमठपृष्ठाकाराणि । प्रहारवारकाणि । साग्निः आग्नेयौषधसहिता गुडा गोलकाः शृङ्गिकास्तदुत्क्षेपकयन्त्राणिः शत्रूणामुपरि पातनाय तप्तो गुडो द्रवीभूतो यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये ॥८॥
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
।
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः॥९॥
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे
।
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे॥१०॥
मध्यमेन च गुल्मेन रक्षिभिः सा सुरसक्षिता
।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः॥११॥
मध्यमो गुल्मः यत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवो द्रष्टुं बाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम् । उत्क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः ॥११॥
आघोषितं च नगरे न पातव्या सुरेति वै
।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः॥१२॥
प्रमत्तेष्वभिघातं हि कुर्याच्छावो नराधिपः
।
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः॥१३॥
अप्रमत्ता इति छेदः ॥१३॥
आनर्ताश्च तथा सर्वे नटा नर्तकगायनाः
।
बहिर्निवासिताः क्षिप्रं रक्षद्भिर्वित्तसञ्चयाम्॥१४॥
सङ्क्रमा भोदिताः सर्वे नावश्च प्रतिषेधिताः
।
परिखाश्चापि कौरव्य कालैः सुनिचिताः कृताः॥१५॥
संक्रमाः नदीसेतवः कीलैः शुलैः सुनिचिताः व्याप्ताः ॥१५॥
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः
।
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः॥१६॥
उदपानाः कूपाः ‘अम्बरीषो भवेद्भ्राष्ट्र’ इति विश्वः गुप्ताग्निरित्यन्ये विषमा लोहकण्टकाद्याकीर्णा ॥१६॥
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्
।
प्रकृत्या चायुधोपेतं विशेषेण तदानघ॥१७॥
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा॥१८॥
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते
।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे॥१९॥
अनुरथ्यासु सर्वासु चत्वरेषु च कौरव
।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्॥२०॥
अनुरथ्यासु प्रतिरथ्यम् ॥२०॥
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
।
कृतोपधानं च तदा बलमासीन्महाभुज॥२१॥
वेतनं धनं भक्तं नित्यभोजनं कृतोपधानं कृतविशेषम् ॥२१॥
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी
।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः॥२२॥
कुप्यं स्वर्णरूप्येतरद्धनं ताम्रादि ग्रहो रणोद्यमस्तमनुलक्षीकृत्य मृतोऽनुग्रहतस्तत्कालस्वीकृतो न कश्चित् किं तु चिरसंभृता एव । कृपाभृतो न किं तु शौर्यभृत एवेति वा ॥२२॥
एवं सुविहिता राजन्द्वारका भूरिदक्षिणा
।
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन॥२३॥
भूरिदक्षिणा बहवो दाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने पञ्चदशोऽध्यायः॥१५॥
वासुदेव उवाच।
तां तूपयातो राजेन्द्र शाल्वः सौभपतिस्तदा
।
प्रभूतनरनागेन बलेनोपविवेश ह॥१॥
तामिति ॥१॥
समे निविष्टा सा सेना प्रभूतसलिलाशये
।
चतुरङ्गबलोपेता शाल्वराजाभिपालिता॥२॥
समे देशे चतुरङ्गं चत्त्वारि रथनागाश्वपादातान्यङ्गानि यस्य ॥२॥
वर्जयित्वा श्मशानानि देवतायतनानि च
।
वल्मीकांश्चैत्यवृक्षांश्च तन्निविष्टमभूद्बलम्॥३॥
अनीकानां विभागेन पन्थानः संवृता भवन्
।
प्रवणाय च नैवासञ्च्छाल्वस्य शिबिरे नृप॥४॥
पन्थानः पुरे धान्याद्यागमनमार्गाः प्रवणाय गूढभावेन निम्नगमनाय ॥४॥
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्
।
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम्॥५॥
कलिलं संकटम् ॥५॥
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्
।
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम्॥६॥
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ
।
अभिसारयामास तदा वेगेन पतगेन्द्रवत्॥७॥
अभिसारयामास नगरसमीपं गमयामास सैन्यं पतगेन्द्रवत् सौभं चोपरितः अभिसारयामास ॥७॥
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा
।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः॥८॥
आपतन्त आपतत् । निर्याय निर्गत्य पुराद्बहिः ॥८॥
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव
।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः॥९॥
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः
।
संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः॥१०॥
दंशिताः संनद्धाः ॥१०॥
गृहीत्वा कार्मुकं साम्बः शाल्वस्य सचिवं रणे
।
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम्॥११॥
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्
।
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक्॥१२॥
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः
।
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः॥१३॥
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्वयम्
।
मुमोच मायाविहितं शरजालं महत्तरम्॥१४॥
ततो मायामयं जालं माययैव विदीर्य सः
।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत॥१५॥
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः
।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः॥१६॥
अपायात् पलायितः । जवनैः शीघ्रगैः ॥१६॥
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ
।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली॥१७॥
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः
।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन्॥१८॥
अभिपन्नः आभिमुख्येनासादितः ॥१८॥
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्
।
चिक्षेप तरसा वीरो व्याविध्द्यः सत्यविक्रमः॥१९॥
व्याविध्द्य भ्रामयित्वा ॥१९॥
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि
।
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः॥२०॥
रुग्णः क्षुण्णश्च गजादिपदाघातैः ॥२०॥
तस्मिन्विनिहते वीरे गदानुन्ने महासुरे
।
प्रविश्य महतीं सेनां योधयामास मे सुतः॥२१॥
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः
।
महारथः समाज्ञातो महाराज महाधनुः॥२२॥
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः
।
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत्॥२३॥
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः
।
विनदन्तौ महारावान्सिंहाविव महाबलौ॥२४॥
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्
।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम्॥२५॥
स विविन्ध्याय सक्रोधः समाहूय महारथः
।
चिक्षेप मे सुतो राजन्स गतासुरथापतत्॥२६॥
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम्
।
कामगेन ससौभेन शाल्वः पुनरुपागमत्॥२७॥
सौभेन खेचरेण पुरेण ॥२७॥
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्
।
दृष्ट्वा शाल्वं महाबाहो सौभस्थं नृपते तदा॥२८॥
ततो निर्याय कौरव्यम् अवस्थाप्य च तद्बलम्
।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्॥२९॥
निर्याय निर्गत्य अवस्थाप्य आश्वास्य आनर्तानां द्वारकावासिनाम् ॥२९॥
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि
।
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम्॥३०॥
अहं सौभपतेः सेनामायसैर्भुजगैरिव
।
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः॥३१॥
धनुर्भुजावनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तेः । भुज कौटिल्ये तुदादिः ॥३१॥
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति
।
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति॥३२॥
नश्यति आशु मरिष्यति । वर्तमानसामीप्ये वर्तमानवद्वेति लट् ॥३२॥
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन
।
धिष्टितं तद्बलं वीर युयुधे च यथासुखम्॥३३॥
धिष्ठितमधिष्ठितम् । धिषा वचनप्रागल्भ्येन स्थितमिति वा ॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने षोडशोऽध्यायः॥१६॥
वासुदेव उवाच।
आनर्तनगरं मुक्तं ततोऽहमगमं तदा
।
महाक्रतौ राजसूये निवृत्ते नृपते तव॥१॥
आनर्तेति ॥१॥
अपश्यं द्वारकां चाहं महाराज हतत्विषम्
।
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्॥२॥
अनभिज्ञेयरूपाणि द्वारकोपवनानि च
।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्॥३॥
हृदिकात्मजं कृतवर्माणम् ॥३॥
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम्
।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः॥४॥
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्
।
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम॥५॥
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः
।
विनाशे शाल्वराजस्य तदैवाकरवं मतिम्॥६॥
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्
।
राजानमाहुकं चैव तथैवानकदुन्दुभिम्॥७॥
सर्वन्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा
।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः॥८॥
शाल्वराजविनाशाय प्रयातं मां निबोधत
।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति॥९॥
स शाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः
।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा॥१०॥
त्रिःसामा त्रिस्वरा नीचमंद्रतारभावेन त्रिःसमा हन्यतामित्यपि पठन्ति ॥१०॥
ते मयाश्वासिता वीरा यथावद्भरतर्षभ
।
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान्॥११॥
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः
।
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाभवम्॥१२॥
वाचयित्वा स्वस्तिवादानिति शेषः ॥१२॥
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः
।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप॥१३॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः
।
कॢप्तेन चतुरङ्गेण यत्तेन जितकाशिना॥१४॥
जितकाशिना जयशोभिना । जिताः काशयो देशविशेषा येनेति वा ते हि शरत्वेनातिप्रसिद्धाः ‘काश्यो वा वैदेहो वा’ इति श्रुतिलिङ्गात् ॥१४॥
समतीत्य बहून्देशान्गिरींश्च बहुपादपान्
।
सरांसि सरितश्चैव मार्त्तिकावतमासदम्॥१५॥
मार्तिकावतं देशविशेषम् आसदं प्राप्तः ॥१५॥
तत्राश्रौषं नरव्याघ्र शाल्वं सागरमन्तिकात्
।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम्॥१६॥
सागरमन्तिकात् सागरससीपे अन्वयाम् अनुगतवानस्मि ॥१६॥
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः
।
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन्॥१७॥
महोर्मिणः महोर्मिमतः व्रीह्यादित्वादिनिः नाभ्यां गर्भे गुप्त इत्यर्थः ॥१७॥
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर
।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः॥१८॥
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः
।
पुरं नासाद्यत शरैस्ततो मां रोष आविशत्॥१९॥
तस्य पुरं मदीयैः शरैर्नासाद्यतेति संबन्धः ॥१९॥
स चापि पापप्रकृतिर्दैतेयापसदो नृप
।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः॥२०॥
सैनिकान्मम सूतं च हयांश्च स समाकिरत्
।
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत॥२१॥
ततः शतसहस्राणि शराणां नतपर्वणाम्
।
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः॥२२॥
नतानि निम्नीकृतानि पर्वाणि ग्रन्थयो येषां श्लक्ष्णानामित्यर्थः ॥२२॥
ते हयांश्च रथं चैव तदा दारुकमेव च
।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः॥२३॥
न हया न रथो वीर न यन्ता मम दारुकः
।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे॥२४॥
ततोऽहमपि कौन्तेय शराणामयुतान्बहून्
।
आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम्॥२५॥
आमन्त्रितानाम् अभिमन्त्रितानां दिव्येन विधिना अलौकिया अश्वविद्यया ॥२५॥
न तत्र विषमस्त्वासीन्मम सैन्यस्य भारत
।
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत्॥२६॥
विषयः गोचरः तत्र हेतुः खे विषक्तं लग्नम् ॥२६॥
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः
।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः॥२७॥
तलस्वनैः हस्ततलशब्दैः ॥२७॥
मत्कराग्रविनिर्मुक्ता दानवानां शरास्तथा
।
अङ्गेषु रुचिरापाङ्गा विविशुः शलभा इव॥२८॥
दानवानाम् अङ्गेष्विति संबन्धः रुचिरापाङ्गाश्चित्रपुङ्खाः ॥२८॥
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत
।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे॥२९॥
वध्यतां वध्यमानानाम् ॥२९॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः
।
नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः॥३०॥
पतितास्तेऽपि भक्षन्ते समुद्राम्भोनिवासिभिः
।
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्॥३१॥
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्
।
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्ततः॥३२॥
प्राणेन बलेन ॥३२॥
मायायुद्धेन महता योधयामास मां युधि
।
ततो गदा हलाः प्रासाः शूलशक्तिपरश्वधाः॥३३॥
असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः
।
पट्टिशाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि॥३४॥
अस्रयः खङ्गाः शक्तिः कौमारी कुलिशानि वज्राणि पाशाः वारुणाः ऋष्टयो दण्डाः शक्त्यादीनां कनो दीप्तिर्गतिः शोभा वा तां पान्ति ते शक्तिकुलिशपाशर्ष्टिकनपाः कार्तिकेयेन्द्रवरुणयमायुधतुल्या इत्यर्थः । कनीत्रि श्रीगति द्युताविति वोपदेवः ॥३४॥
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्
।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत्॥३५॥
ततोऽभवत्तम इव प्रकाश इव चाभवत्
।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत॥३६॥
अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत
।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः॥३७॥
विज्ञाय तदहं सर्वं माययैव व्यनाशयम्
।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः॥३८॥
ततो व्योम महाराज शतसूर्यमिवाभवत्
।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम्॥३९॥
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः
।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम्॥४०॥
ततस्तदस्त्रं कौन्तेय धूतं तूलमिवानलैः
।
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम्
।
लब्धा लोकस्तु राजेन्द्र पुनः शत्रुमयोधयम्॥४१॥
तदस्त्रं मायामयम् ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने विंशोऽध्यायः॥२०॥
वासुदेव उवाच।
एवं स पुरुषव्याघ्रः शाल्वराजो महारिपुः
।
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः॥१॥
एवं स इति ॥१॥
ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान्मुसलानसींश्च
।
चिक्षेप रोषान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाङ्क्षी॥२॥
तानाशुगैरापततोऽहमाशु निवार्य हन्तुं खगमान्ख एव
।
द्विधा त्रिधा चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव॥३॥
ततः शतसहस्रेण शराणां नतपर्वणाम्
।
दारुकं वाजिनश्चैव रथं च समवाकिरत्॥४॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निव
।
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः
।
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति॥५॥
इति तस्य निशम्याहं सारथेः करुणं वचः
।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम्॥६॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये
।
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः॥७॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्
।
अभिवृष्टे यथा मेघे गिरिर्गैरिकधातुमान्॥८॥
बाणवरोत्पीडात् क्षतस्थानात् उल्बणम् उत्कटम् ॥८॥
अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे
।
अस्तं भयं महाबाहो शाल्वबाणप्रपीडितम्॥९॥
अस्तं भयम् आश्वासितवान् ॥९॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्
।
त्वरितो रथमारोप्य सौहृदादिव भारत॥१०॥
अथ मां पुरुषः कश्चिदित्यादेरध्यायशेषस्य तात्पर्यं भगवानपि क्षुद्रजनमायया मोहितः किमुत क्षुद्रजनो भगवन्माययेति शुद्धचैतन्याश्रितमेवाज्ञानमिति वा ॥१०॥
आहुकस्य वचो वीर तस्यैव परिचारकः
।
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर॥११॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः
।
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत्॥१२॥
पितृसखः आहुकः ॥१२॥
उपायायाद्य शाल्वेन द्वारकां वृष्णिनन्दन
।
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात्॥१३॥
उपायाय उपगम्य विषक्ते अन्यत्र व्यासक्ते शूरसुतो वसुदेवः ॥१३॥
तदलं साधु युद्धेन निवर्तस्व जनार्दन
।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव॥१४॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः
।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च॥१५॥
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्
।
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम्॥१६॥
अहं जगर्हे । वैचित्यात्पारोक्ष्ये लिट् निन्दितवान् ॥१६॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन
।
तेषु रक्षां समाधाय प्रयातः सौभपातने॥१७॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा
।
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्॥१८॥
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः
।
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन॥१९॥
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम्
।
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः॥२०॥
बलदेवमुखाः सर्व इति मे निश्चिता मतिः
।
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः
।
सुविह्वलो महाराज पुनः शाल्वमयोधयम्॥२१॥
ततोऽपश्यं महाराज प्रपतन्तमहं तदा
।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत्॥२२॥
तस्य रूपं प्रपततः पितुर्मम नराधिप
।
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम्॥२३॥
विशीर्णमलिनोष्णीषप्रकीर्णाम्बरमूर्धजः
।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः॥२४॥
ततः शार्ङ्गधनुः श्रेष्ठं करात्प्रपतितं मम
।
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम्॥२५॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्
।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत॥२६॥
प्रसार्य बाहू पततः प्रसार्य चरणावपि
।
रूपं पितुर्मे विबभौ शकुनेः पततो यथा॥२७॥
तं पतन्तं महाबाहो शूलपट्टिशपाणयः
।
अभिघ्नन्तो भृशं वीरा मम चेतो ह्यकम्पयन्॥२८॥
ततो मुहूर्तात्प्रतिलभ्य संज्ञामहं तदा वीर महाविमर्दे
।
न तत्र सौभं न रिपुं न शाल्वं पश्यामि वृद्धं पितरं न चापि॥२९॥
ततो ममासीन्मनसि मायेयमिति निश्चितम्
।
प्रबुद्धोऽस्मि ततो भूयः शतशोऽवाकिरच्छरान्॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने एकविंशोऽध्यायः॥२१॥
वासुदेव उवाच।
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः
।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्॥१॥
ततोऽहमिति ॥१॥
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः
।
प्रेषयं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः॥२॥
सुवाससः सुपुङ्खान् ॥२॥
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह
।
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम्॥३॥
अथ दानवसङ्घास्ते विकृताननमूर्धजाः
।
उदक्रोशन्महाराज धिष्ठिते मयि भारत॥४॥
विकृताननमूर्धजा इति तेषां स्वरूपकथनं न तु तद्दर्शनं धिष्ठिते प्रागल्भ्येन स्थिते । विष्ठिते इति पाठेऽपि स एवार्थः ॥४॥
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे
।
अयोजयं तद्वधाय ततः शब्द उपारमत्॥५॥
शब्द एव साहो लक्ष्यं यत्र तत्तथा शब्दवेधि शब्दे अस्त्रम् उपारमत् न्यपतदित्यर्थः । शब्दसाहं शब्दबाधानिवारकं वा ॥५॥
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः
।
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः॥६॥
शब्दसाधनैः शब्द एव साधनं लक्ष्यसंबन्धे कारणं येषां तैः पुरस्यादृश्यत्वात् ॥६॥
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्
।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः॥७॥
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत
।
नादयामासुरसुरास्ते चापि निहता मया॥८॥
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत
।
सौभं कामगमं वीर मोहयन्मम चक्षुषी॥९॥
प्राग्ज्योतिषं पूर्वसमुद्रतीरस्थं नगरविशेषं यतः कामगमम् अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत॥९॥
ततो लोकान्तकरणो दानवो दारुणाकृतिः
।
शिलावर्षेण महता सहसा मां समावृणोत्॥१०॥
सोऽहं पर्वतवर्षेण वध्यमानः पुनः पुनः
।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्॥११॥
ततोऽहं पर्वतचितः सहयः सहसारथिः
।
अप्रख्यातिमियां राजन्सर्वतः पर्वतैश्चितः॥१२॥
अप्रख्यातिम् अदर्शनम् इयां प्राप्तवान् ॥१२॥
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा
।
ते भयार्ता दिशः सर्वे सहसा विप्रदुद्रुवुः॥१३॥
ततो हाहाकृतमभूत्सर्वं किल विशांपते
।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि॥१४॥
ततो विषण्णमनसो मम राजन्सुहृज्जनाः
।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः॥१५॥
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि
।
एवं विजितवान्वीर पश्चादश्रौषमच्युत॥१६॥
एवमिति । हे वीर हे अच्युत एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् संज्ञालाभानन्तरं श्रुतवान्सारथिमुखेनेति शेषः ॥१६॥
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्
।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्॥१७॥
इन्द्रदयितं इन्द्रदैवत्यं वज्रं वज्रास्त्रं । यद्वा इन्द्रोप्यस्यैव विभूतिः अतस्तच्छत्रमप्येतदीयमेवेति ध्येयं समशातयं नाशितवान् ॥१७॥
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः
।
हया मम महाराज वेपमाना इवाभवन्॥१८॥
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्
।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः॥१९॥
आहारयन्प्राप्तवन्तः ॥१९॥
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्
।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः॥२०॥
तात्कालिकं तत्कालयोग्यम् ॥२०॥
साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्
।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर॥२१॥
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर
।
जहि शाल्वं महाबाहो मैनं जीवय केशव॥२२॥
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्
।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा॥२३॥
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः
।
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो॥२४॥
पीठगः स्वासनस्थः अयुध्यमानोऽपीत्यर्थः ॥२४॥
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोत्यगात्पुनः
।
नैष मार्दवसाध्यो वै मतो नापि सखा तव॥२५॥
येन त्वं योधितो वीर द्वारका चावमर्दिता
।
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः॥२६॥
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
।
वधाय शाल्वराजस्य सौभस्य च निपातने॥२७॥
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति
।
ततो प्रतिहतं दिव्यमभेद्यमतिवीर्यवान्॥१८॥
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्
।
योजयं तत्र धनुषा दानवान्तकरं रणे॥१९॥
आहारयन्प्राप्तवन्तः ॥१९॥
यक्षाणां राक्षसानां च दानवानां च संयुगे
।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्॥३०॥
प्रतिलोमानां विपरीताचाराणां म्लेच्छानाम् ॥३०॥
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्
।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्॥३१॥
क्षुरान्तं तीक्ष्णपरिधि ॥३१॥
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम
।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा॥३२॥
तस्मै सौभाय प्राहिणवं प्रहितवान् ॥३२॥
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा
।
द्वितीयस्येव सूर्यस्य युगान्ते प्रपतिष्यतः॥३३॥
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्
।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्॥३४॥
क्रकचः दन्तुरखड्गः ॥३४॥
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्
।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा॥३५॥
तस्मिन्निपतिते सौभे चक्रमागात्करं मम
।
पुनश्चादाय वेगेन शाल्वायेत्यहमब्रुवम्॥३६॥
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे
।
द्विधा चकार सहसा प्रजज्वाल च तेजसा॥३७॥
तस्मिन्विनिहिते वीरे दानवास्त्रस्तचेतसः
।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः॥३८॥
ततोऽहं समवस्थाप्य रथं सौभसमीपतः
।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्॥३९॥
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्
।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः॥४०॥
एवं निहत्य समरे सौभं शाल्वं निपात्य च
।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम्॥४१॥
तदेतत्कारणं राजन्यदहं नागसाह्वयम्
।
नागमं परवीरघ्न न हि जीवेत्सुयोधनः॥४२॥
यद्यागच्छेयं तर्हि न हि जीवेत् ॥४२॥
मय्यागतेथवा वीरा द्यूतं न भविता तथा
।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम्॥४३॥
किं करिष्यामि अद्याहमकिंचित्कर इत्यर्थः । उदकं धारयितुमिति शेषः ॥४३॥
वैशम्पायन उवाच।
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः
।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः॥४४॥
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्
।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः॥४५॥
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः
।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः॥४६॥
सुभद्रामभिमन्युं च रथमारोप्य काच्चनम्
।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः॥४७॥
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा
।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्॥४८॥
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः
।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा॥४९॥
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्
।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्॥५०॥
धृष्टकेतुः शिशुपालसुतः स्वसारं करेणुमतीं नकुलभार्याम् ॥५०॥
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा
।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत॥५१॥
केकयाः सहदेवश्यालाः ॥५१॥
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः
।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्॥५२॥
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः
।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ॥५३॥
समवायः मेलकः॥५३॥
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः
।
शशास पुरुषान्काले रथान्योजयतेति वै॥५४॥
शशास आज्ञापयामास । एवमुक्त्वा महाबाहुरित्याद्यध्यायशेषस्याग्रिमाध्यायसहितस्य तात्पर्यं पाण्डवेष्विव साधुषु सर्वे निसर्गात् रज्यन्ते धार्तराष्ट्रेष्विवासाधुषु द्वेषवन्तो भवन्तीति ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने द्वाविंशोऽध्यायः॥२२॥
वैशम्पायन उवाच।
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः
।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः॥१॥
तत इति । सत्यसंगरः सत्यप्रतिज्ञः॥१॥
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने
।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्॥२॥
समाः वर्षाणि संधिरार्षः ॥२॥
बहुपुष्पफलं रम्यं शिवं पुण्यजनावृतम्
।
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि॥३॥
शरदो वत्सरान् ॥३॥
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः
।
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम्॥४॥
अर्जुन उवाच।
भवानेव महर्षीणां वृद्धानां पर्युपासिता
।
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन॥५॥
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ
।
द्वैपायनप्रभृतयो नारदश्च महातपाः॥६॥
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी
।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि॥७॥
अनुभावांश्च जानासि ब्राह्मणानां न संशयः
।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव॥८॥
अनुभावान् कर्तव्याकर्तव्यविषयान् निश्चयान्। प्रभावो निग्रहानुग्रहशक्तिः ‘अनुभावो निश्चये स्यात्प्रभावः शक्तितेजसोः’ इति विश्वः ॥८॥
त्वमेव राजञ्जानासि श्रेयःकारणमेव च
।
यत्रेच्छसि महाराज निवासं तत्र कुर्महे॥९॥
श्रेयो मोक्षः कारणं तत्साधनम् ॥९॥
इदं द्वैतवनं नाम सरः पुण्यजलोचितम्
।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्॥१०॥
द्वैतं द्वौ शोकमोहौ इतौ गतौ यस्मात्तद्द्वीतं द्वीतमेव द्वैतम् । स्वार्थे तद्धितः । वनं जलं यस्मिन् द्वैतवनं पुण्येन पावनेन जलेन उचितं समवेतम् एतेन द्वैतवनशब्दार्थः सूचितः । उचसमवायेदिवादिः॥१०॥
यत्रेमा द्वादशसमा विहरेमेति रोचये
।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान्॥११॥
विहरेम प्रीत्या नयेम ॥११॥
युधिष्ठिर उवाच।
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्
।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः॥१२॥
वैशम्पायन उवाच।
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः
।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः॥१३॥
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः
।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः॥१४॥
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्
।
तपःसिद्धा महात्मानः शतशः संशितव्रताः॥१५॥
ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिः सह
।
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः॥१६॥
यात्वा गत्वा ॥१६॥
तमालतालाम्रमधूकनीपकदम्बसर्जार्जुनकर्णिकारैः
।
तपात्यये पुष्पधरैरुपेतं महावलं राष्ट्रपतिर्ददर्श॥१७॥
तपात्यये वर्षासु । महाबलं महावनम् । दन्त्यादिरयं शब्दः । देवा वै वले गाः पर्यपश्यन् इति वने वलशब्दप्रयोगदर्शनात् ॥१७॥
महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः
।
मयूरदात्यूहचकोरसङ्घास्तस्मिन्वने बर्हिणकोकिलाश्च॥१८॥
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्
।
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श॥१९॥
करेणुः हस्तिनी ॥१९॥
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्
।
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्॥२०॥
भोगवतीं सरस्वतीं नदीम् ॥२०॥
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत्
।
विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः॥२१॥
तं सत्यसन्धं सहिताभिपेतुर्दिदृक्षवश्चारणसिद्धसङ्घाः
।
वनौकसश्चापि नरेन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः॥२२॥
चारणाः देवगायनाः सिद्धा महर्षयः ॥२२॥
स तत्र सिद्धानभिवाद्य सर्वान्प्रत्यर्चितो राजवद्देववच्च
।
विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः॥२३॥
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य
।
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा॥२४॥
महाद्रुमः कदम्बः ॥२४॥
भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम्
।
विमुच्य वाहानवरशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः॥२५॥
लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरेव धन्विभिः
।
बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव॥२६॥
लतावातानावनतः वल्लीतन्तुभिरावृततया नम्रः ॥२६॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्वैतवनप्रवेशे चतुर्विंशोऽध्यायः॥२४॥
वैशंपायन उवाच।
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया
।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः॥१॥
तत इति । इतोऽध्यायद्वयस्य तात्पर्यं सुशीलापि स्त्री धर्मं त्याजयति किमुतेतरेति ॥१॥
प्रिया च दर्शनीया च पण्डिता च पतिव्रता
।
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत्॥२॥
द्रौपद्युवाच।
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन
।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः॥३॥
अस्मासु दुःखितेष्विति शेषः ॥३॥
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्
।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः॥४॥
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः
।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा॥५॥
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः
।
ईदृशं दुःखमानीय मोदते पापपूरुषः॥६॥
आनीय प्रापय्य ॥६॥
चतुर्णामेव पापानामस्त्रं न पतितं तदा
।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि॥७॥
अस्रं नेत्रजलम् ॥७॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
।
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःशासनस्य च॥८॥
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम
।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्॥९॥
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्
।
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्॥१०॥
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्
।
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम्॥११॥
दान्तं गजदन्तमयम् । कुशबृसीं कुशासनम् । रुन्धयति आवृणोति मोहयतीत्यर्थः ॥११॥
यदपश्यं सभायां त्वां राजभिः परिवारितम्
।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे॥१२॥
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्
।
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत॥१३॥
त्वाहं त्वामहम् आदिग्धं लिप्तम् ॥१३॥
या त्वाहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा
।
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्॥१४॥
कौशिकैः कोशजैः ॥१४॥
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः
।
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्॥१५॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम्
।
दीयते भोजनं राजन्नतीवगुणवत्प्रभो॥१६॥
अगृहाणां ब्रह्मचारिणाम् ॥१६॥
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे
।
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्॥१७॥
सहस्राणि सहस्रसंज्ञानि सत्रपरिवेषणपात्राणि । ‘तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्ति’ इति बहृचब्राह्मणे दर्शनात् । सत्कृतानि प्रत्यहमुपयोगात्संभावितानि । सर्वकामैः काम्यमानैरन्नैः। यत् यैः सहस्रैः सर्वैः कामैर्मनोरथैर्द्विजान् अपूजयथाः । वने तु एकमेव सूर्यदत्तं परिवेषणपात्रमित्यर्थः ॥१७॥
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे
।
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः॥१८॥
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः
।
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः॥१९॥
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः
।
भीमसेनमिमं चापि दुःखितं वनवासिनम्॥२०॥
ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते
।
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्॥२१॥
मन्युः क्रोधः ॥२१॥
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते
।
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा॥२२॥
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
।
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः॥२३॥
त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः
।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना॥२४॥
अर्जुनेन कार्तवीर्येण ॥२४॥
शरावमर्दे शीघ्रत्वात्कालान्तकयमोपमः
।
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः॥२५॥
शरावमर्दे बाणपाते ॥२५॥
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
।
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः॥२६॥
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि
।
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्॥२७॥
न च ते वर्धते मन्युस्तेन मुह्यामि भारत
।
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्॥२८॥
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
।
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः॥२९॥
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तप
।
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः॥३०॥
आदत्त आत्तवान् ॥३०॥
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
।
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे॥३१॥
चर्मिणां खड्गचर्मधराणाम् ॥३१॥
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
।
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर॥३२॥
सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव
।
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ॥३३॥
अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते
।
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः॥३४॥
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्
।
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव॥३५॥
नूनं च तव वै नास्ति मन्युर्भरतसत्तम
।
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः॥३६॥
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्
।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्॥३७॥
निर्वचनं क्षत्रियशब्दस्य क्षरते हिनस्तीति क्षत्रमिति ॥३७॥
यो न दर्शयते तेजः क्षत्रियः काल आगते
।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत॥३८॥
हिंस्रत्वं निन्द्यमिति चेत्तत्राह यो नेति । तेजः क्रोधः ॥३८॥
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन
।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः॥३९॥
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति
।
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीपरितापवाक्ये सप्तविंशोऽध्यायः॥२७॥
द्रौपद्युवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च॥१॥
अत्रापीति ॥१॥
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्
।
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः॥२॥
आगतागमं प्राप्तरहस्यम् ॥२॥
बलिरुवाच।
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत
।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते॥३॥
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्
।
करिष्यामि हि तत्सर्वं यथावदनुशासनम्॥४॥
श्रेयः प्रशस्ततरम् अत्र क्षमा तेजसोर्मध्ये ॥४॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः
।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते॥५॥
प्रह्लाद उवाच।
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा
।
इति तात विजानीहि द्वयमेतदसंशयम्॥६॥
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति
।
भृत्याः परिभवन्त्येनमुदासीनास्तथारयः॥७॥
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन
।
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता॥८॥
अस्य एनम् ॥८॥
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम्
।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः॥९॥
यानं वस्त्राण्यलङ्काराञ्च्छयनान्यासनानि च
।
भोजनान्यथ पानानि सर्वोपकरणानि च॥१०॥
आददीरन्नधिकृता यथाकाममचेतसः
।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्॥११॥
अधिकृताः अन्नपानादिसंरक्षणे नियुक्ताः प्रदिष्टानि इदमस्मै देयमित्याज्ञापितानि ॥११॥
न चैनं भर्तृपूजाभिः पूजयन्ति कथञ्चन
।
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्॥१२॥
एनं क्षमिणं भर्तृपूजाभिः स्वाम्युचितमानेन ॥१२॥
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि
।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः॥१३॥
अथास्य दारानिच्छन्ति परिभूय क्षमावतः
।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः॥१४॥
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्
।
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते॥१५॥
नित्यमुदिताः नित्यं होलकाद्युत्सवपराः ॥१५॥
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्
।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम्॥१६॥
अस्थाने यदि वा स्थाने सततं रजसा वृतः
।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा॥१७॥
तेजसा क्रोधेन ॥१७॥
मित्रैः सह विरोधं च प्राप्नुते तेजसा वृतः
।
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा॥१८॥
सोऽवमानादर्थहानिमुपालम्भमनादरम्
।
सन्तापद्वेषमोहांश्च शत्रूंश्च लभते नरः॥१९॥
उपालम्भं धिक्कारम् ॥१९॥
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात्
।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि॥२०॥
योऽपकर्तॄंश्च हर्तॄंश्च तेजसैवोपगच्छति
।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव॥२१॥
उपकर्तॄनिति छेदः संधिरार्षः । उपकर्तॄन् कोशादिवृद्धिकरान् हर्तॄन् चोरान् ॥२१॥
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्
।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्॥२२॥
भवः ऐश्वर्यम् । अन्तरं छिद्रं । विकुरुते प्रथयति ॥२२॥
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्
।
काले काले तु संप्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत्॥२३॥
काले मृदुर्यो भवति काले भवति दारुणः
।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च॥२४॥
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्
।
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः॥२५॥
असंत्याज्याः क्रोधेनानतिक्रमणीयाः ॥२५॥
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि
।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः॥२६॥
पूर्वेषां पूर्वकाले वा उपकारी उपकर्ता ॥२६॥
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनः
।
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै॥२७॥
अबुद्धिं मौढ्यम् ॥२७॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्
।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून्॥२८॥
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्
।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्॥२९॥
अपकृते अपकारे ॥२९॥
अजानता भवेत्कश्चिदपराधः कृतो यदि
।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया॥३०॥
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्
।
नासाध्यं मृदुना किञ्चित्तस्मात्तीव्रतरं मृदु॥३१॥
मृदुना साम्ना ॥३१॥
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः
।
नादेशकाले किञ्चित्स्याद्देशकालौ प्रतीक्ष्यताम्
।
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः॥३२॥
सामापि देशकालापेक्षयैव कर्तव्यमित्याह देशेति ॥३२॥
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः
।
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते॥३३॥
तदहं तेजसः कालं तव मन्ये नराधिप
।
धार्तराष्ट्रेषु लब्धेषु सततं चापकारिषु॥३४॥
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति
।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि॥३५॥
उत्स्रष्टुं प्रयोक्तुम् ॥३५॥
मृदुर्भवत्यनुज्ञातस्तीक्ष्णादुद्विजते जनः
।
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये अष्टाविंशोऽध्यायः॥२८॥
युधिष्ठिर उवाच।
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ॥१॥
क्रोध इति । परैरपकृताः आप्तैश्चोद्दीपिताः सामर्थ्यवन्तोऽपि सन्तः क्षमामेव श्रयन्तः इत्यध्यायतात्पर्यम्। भावयिता वर्धयिता जितः सन्निति शेषः ॥१॥
यो हि संहरते क्रोधं भवस्तस्य सुशोभने
।
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे
।
तस्याभावाय भवति क्रोधः परमदारुणः॥२॥
तदेवाह योऽहीति ॥२॥
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्॥३॥
लोक आत्मा स्वर्गो वा तन्नाशनम् ॥३॥
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि
।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते॥४॥
तदेवाह क्रुद्ध इति। श्रेयसः श्रेष्ठान् श्रेयोऽपि प्राप्येति वा ल्यब्लोपे पञ्चमीमाश्रित्य व्याख्येयम्॥४॥
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा॥५॥
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च
।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्॥६॥
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्॥७॥
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्
।
एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते॥८॥
तं क्रोधं विक्रमम् । धीरैरिति पाठे विपरीतः क्रमो येन तमित्यर्थः । चरेत् आचरेत् ॥८॥
आत्मानं च परांश्चैव त्रायते महतो भयात्
।
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः॥९॥
अप्रतिक्रुध्यन् त्रायते द्वयोरात्मपरयोः चिकित्सकः दोषापहर्ता ॥९॥
मूढो यदि क्लिश्यमानः क्लिश्यतेऽशक्तिमान्नरः
।
बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना॥१०॥
एतदेवाह मूढ इति । बलीयसामुपरि यदि अशक्तिमान् क्लिश्यते क्रुध्यते । तर्हि आत्मानं देहं त्यजति ॥१०॥
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः
।
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्॥११॥
अनात्मनः अजितचित्तस्य । नियमनं कर्तव्यमिति स्मृतम् । अशक्तः क्रोधं जित्वा आत्मानमात्महत्यादोषात् । परं च परहत्यादोषात्त्रायत इत्यर्थः ॥११॥
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति
।
अनाशयित्वा क्लेष्टारं परलोके च नन्दति॥१२॥
शक्तस्यापि क्रोधजये आत्मपरत्रातृत्वमाह विद्वानिति॥१२॥
तस्माद्बलवता चैव दुर्बलेन च नित्यदा
।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता॥१३॥
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
।
क्षमावतो जयो नित्यं साधोरिह सतां मतम्॥१४॥
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता
।
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्॥१५॥
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि
।
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः॥१६॥
प्रसृजेत्प्रकर्षेण प्रयुञ्जीत । सुयोधनवधादपि सुयोधनाद्वधं प्राप्यापीत्यर्थः । यदुक्तं ‘तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि’ इति तत्राह तेजस्वीति । क्रोधजिदेव तेजस्वी न तु क्रोधीत्यर्थः ॥१६॥
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्
।
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥१७॥
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः
।
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति
।
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति॥१८॥
प्रत्युत क्रोधाजये दोषमाह क्रुद्धो होति ॥१८॥
हन्त्यवध्यानपि क्रुद्धो गुरून्क्रुद्धस्तुदत्यपि
।
तस्मात्तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः॥१९॥
तुदति व्यथयति परुषोक्त्यादिना तेजसि सति क्रोधजयित्वमेव तेजो नान्यदित्यर्थः ॥१९॥
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः
।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा॥२०॥
एतदेव तेजोलक्षणप्रदर्शनेन प्रतिपादयति दाक्ष्यमिति । दाक्ष्यं कर्मसु कौशलम् । अमर्षः शत्रोरपकारोपायचिन्तनम् । शौर्यं पराभिभवशक्तिः । शीघ्रत्वम् आशुकारिता । अञ्जसा आर्जवेन ॥२०॥
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते
।
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम्॥२१॥
क्रुद्धेः कालयुक्तं देशकालोपपन्नं तेजः सुदुःसहम् ॥२१॥
क्रोधस्तु पण्डितैः शश्वत्तेज इत्यभिनिश्चितम्
।
रजस्तु लोकनाशाय विहितं मानुषं प्रति॥२२॥
पण्डितैरित्युपहासो मूर्खैरित्यर्थः । अपण्डितैरिति गौडपाठः स्वच्छः । रजः रजोगुणपरिणामः ॥२२॥
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्
।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्॥२३॥
स्वधर्मान् अपगः अपहाय गच्छतीति तथा द्वितीयाया अलुगार्षः । जातिभ्रष्टात् पतितादपि क्रोधी हीन इत्यर्थः ॥२३॥
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्
।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते॥२४॥
सर्वं क्षमार्जवादिकम् अबुद्धीनां मूढैः अतिक्रान्तं लङ्घितम् अनिन्दिते प्रशस्ते विषये क्षमादौ॥२४॥
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः
।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः॥२५॥
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः
।
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्॥२६॥
अभिषक्तः तापितः अभिषजेत्तापयेत् गुरुणापि हतस्तम् आहन्यात् ताडयेत् किमुतान्यमिति भावः एवं विनाशः अधर्मश्च प्रथितो भवेत् ॥२६॥
आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्
।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः॥२७॥
आक्रुष्टो वाचा ताडितः हतोऽन्येनाभिगतः हिंसितस्ताडितः ॥२७॥
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्
।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च॥२८॥
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते
।
प्रजानां सन्धिमूलं हि जन्मविद्धि शुभानने॥२९॥
जन्म उत्पत्तिः तत्र हेतुः प्रजानां संधिः दंपत्योः प्रीतिः । शम इति पाठे क्षमा ॥२९॥
ताः क्षिपेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे
।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च॥३०॥
तादृशे क्रोधपरे राज्ञि सति क्षिपेरन् नश्येयुः। अभवाय अनैश्वर्याय ॥३०॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः
।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते॥३१॥
जन्म प्रतिपद्यते अन्यथा क्रोधप्राबल्ये पूर्ववयस्येव दंपत्योर्नाशाज्जन्मासंभव इत्यर्थः ॥३१॥
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने
।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥३२॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा
।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥३३॥
बलीयसा बलवत्तरेण स्वाम्यादिना यथा आक्रुष्टस्ताडितो वाऽशक्तः क्षमते तथा यः प्रभाववानपि क्षमते तस्य लोका इति सार्धश्लोको वाक्यम् ॥३३॥
प्रभाववानपि नरस्तस्य लोकाः सनातनाः
।
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति॥३४॥
अन्यथा दोषमाहार्धेन क्रोधनस्त्विति ॥३४॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्
।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना॥३५॥
अत्रेति । क्षमावतां गाथाः प्रशंसाः क्षमावतां मध्ये महात्मना ॥३५॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्
।
य एतदेवं जानाति स सर्वं क्षन्तुमर्हति॥३६॥
क्षमा धर्म इति । क्षमाहीनस्य धर्मादिरनर्थकर इत्यर्थः । यः धर्मादिफलार्थी ॥३६॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च
।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत्॥३७॥
ब्रह्म ब्राह्मणजातिः सत्यं परं ब्रह्मापि क्षमाप्राप्यं भूतं संचितं तपः भावि च क्षमेव रक्षति ॥३७॥
अतियज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च
।
अतिब्रह्मविदां लोकानति चापि तपस्विनाम्॥३८॥
अति अतिक्रम्य प्राप्नुवन्ति तदूर्ध्वं पदमिति शेषः ब्रह्मविदां वेदविदाम् ॥३८॥
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा
।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः॥३९॥
यजुषां त्रेताग्निसाध्यकर्मवतां कर्मिणां वापीकूपादिधर्मवताम् ॥३९॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्
।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः॥४०॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्
।
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः॥४१॥
क्षन्तव्यमेव सततं पुरुषेण विजानता
।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा॥४२॥
सर्वे मनः प्राणेन्द्रियाणां वेगं क्षमते सोढुं शक्नोति ॥४२॥
क्षमावतामयं लोकः परश्चैव क्षमावताम्
।
इह सन्मानमृच्छन्ति परत्र च शुभां गतिम्॥४३॥
येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा
।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता॥४४॥
परतरे सत्यलोके लोकाः भोग्यपदार्थाः ॥४४॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्
।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः॥४५॥
तुष्य तुष्टा भव ॥४५॥
पितामहः शान्तनवः शमं सम्पूजयिष्यति
।
कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति॥४६॥
आचार्यो विदुरः क्षत्ता क्षममेव वदिष्यतः
।
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः॥४७॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च
।
पितामहश्च नो व्यासः शमं वदति नित्यशः॥४८॥
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति
।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति॥४९॥
राजा धृतराष्ट्रः तत्पुत्रो वा दाता दास्यति ॥४९॥
कालोऽयं दारुणः प्राप्तो भरतानामभूतये
।
निश्चितं मे सदैवैतत्पुरस्तादपि भाविनि॥५०॥
अभूतये नाशाय ॥५०॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति
।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा॥५१॥
नार्हति राज्यमिति शेषः तत्र हेतुः इतीति । एवम् उक्तरीत्या ॥५१॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः
।
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा॥५२॥
अञ्जसा तत्त्वतः ॥५२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीयुधिष्ठिरसंवादे ऊनत्रिंशोऽध्यायः॥२९॥
द्रौपद्युवाच।
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव
।
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः॥१॥
नमो धात्रे इति । धात्रे ईश्वराय विधात्रे पूर्वकर्मणे वृत्ते बलेन राज्याक्रमणरूपे ॥१॥
कर्मभिश्चिन्तितो लोके गत्यां गत्यां पृथग्विधः
।
तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति॥२॥
ईश्वरस्यापि कर्मापेक्षत्वात्प्रथमं कर्मप्राबल्यमेवाह कर्मभिरिति । चिन्तितः कल्पितो लोको भोगसाधनं गत्यां गत्याम् ऊर्ध्वाधो मध्यमोत्तमाधमयोनिषु। नित्यानि अपरिहार्यफलानि । लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ॥२॥
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च
।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्॥३॥
कर्मनित्यत्वमेवाह नेहेति । इह जन्मनि पुरुषः पूर्वकर्मभिर्बाध्यमानो धर्मादिना न श्रियमाप्नोति । आनृशंस्यं दया घृणा लोकापवादभयम् ॥३॥
त्वां च व्यसनमभ्यागादिदं भारत दुःसहम्
।
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः॥४॥
तत्र त्वमेव दृष्टान्त इत्याह त्वामित्यादिना ॥४॥
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत
।
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह॥५॥
तदानीं राज्यकाले अद्य राज्यच्युतौ जातु कदाचित् धर्मात्प्रियतरं न हि ते अध्यगमन् ज्ञातवन्तः किं तु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ॥५॥
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते
।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः॥६॥
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह
।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः॥७॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः
।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति॥८॥
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते
।
बुद्धिः सततमन्वेतिच्छायेव पुरुषं निजा॥९॥
नावमस्था हि सदृशान्नावराञ्च्छ्रेयसः कुतः
।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत॥१०॥
श्रृङ्गं प्रभुत्वाभिमानः ॥१०॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्
।
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे॥११॥
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः
।
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत॥१२॥
ते त्वया मोक्षिणः संन्यासिनः मोक्षाश्रमस्थाः ॥१२॥
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका
।
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि
।
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते॥१३॥
आरण्यकेभ्यो वानप्रस्थेभ्यः । लौहानि सौवर्णादीनि । लोहानां काच्चनं वरमिति लिङ्गात् ॥१३॥
यदिदं वैश्वदेवं ते शान्तये क्रियते गृहे
।
तद्दत्त्वातिथिभूतेभ्यो राजञ्च्छिष्टेन जीवसि॥१४॥
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये
।
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा॥१५॥
पाकयज्ञाः गृह्याग्निसाध्या इष्टयः ॥१५॥
अस्मिन्नपि महारण्ये विजने दस्युसेविते
।
राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति॥१६॥
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः
।
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः॥१७॥
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये
।
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः॥१८॥
परीतया विपरीतया ॥१८॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः
।
कथमक्षव्यसनजा बुद्धिरापतिता तव॥१९॥
ऋजोः अवक्रस्य मृदोः दयालोः ॥१९॥
अतीव मोहमायाति मनश्च परिभूयते
।
निशाम्यते दुःखमिदमिमां चापदमीदृशीम्॥२०॥
निशाम्य आलोच्य मम मनः मोहं मौढ्यम् आयाति परिभूयते चेत्यन्वयः । परिभव आर्तिः ॥२०॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
ईश्वरस्य वशे लोकास्तिष्ठन्ते नात्मनो यथा॥२१॥
लोकाः भोग्यानि तिष्ठन्ते प्रकाशन्ते । प्रकाशनस्थेयाख्ययोश्चेति तङ् ॥२१॥
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये
।
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्॥२२॥
धाता ईश्वरः । शुक्रं प्राक्कर्मबीजम् । उच्चरन् उत्कर्षेणानुसरन् ॥२२॥
यथा दारुमयी योषा नरवीर समाहिता
।
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः॥२३॥
यथेति । हे नरवीर सूत्रधारेण समाहिता सम्यक् नियुक्ता सती अङ्गम् ईरयति तथा इमाः प्रजाः अङ्गानि हस्तादीनि ईश्वरेण समाहिताः सत्य ईरयन्ति । चेष्टयन्त्यङ्गकर्माणीति पाठे हे अङ्ग कर्माणि कर्तॄणि कर्मानुरोधी ईश्वर इत्यर्थः । इमाः प्रजाश्चेष्टयन्तीति संबन्धः ॥२३॥
आकाश इव भूतानि व्याप्य सर्वाणि भारत
।
ईश्वरो विदधातीह कल्याणं यच्च पापकम्॥२४॥
अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः । भूतानि जरायुजादीनि ॥२४॥
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः
।
ईश्वरस्य वशे तिष्ठेन्नान्येषां नात्मनः प्रभुः॥२५॥
बद्धो वा बद्ध इव अन्येषाम् उपाध्यायादीनाम् ॥२५॥
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः
।
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः॥२६॥
नसि नासिकायां नस्यं नासासूत्रं तेन वा ओतः प्रोतः । अत्र द्वौ आकाशशकुनिसूत्रदृष्टान्तौ ईश्वरस्य व्यापकत्वप्रेरकत्वयोः त्रयो मणिवृषवृक्षदृष्टान्ता जीवस्यास्वातन्त्र्ये ॥२६॥
धातुरादेशमन्वेति तन्मयो हि तदर्पणः
।
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन॥२७॥
आदेशम् आज्ञाम् अन्वेत्ति अनुसरति तत्र हेतुः तन्मयो हि तदर्पण इति । यथा मृन्मयो घटो मृद्येव लीयतेऽतो मध्येऽपि मृदधीनोऽनन्य एवं जीवोऽपीश्वरस्यैव रूपभेदस्तन्मयस्तदर्पणश्चातो मध्येऽपि तत्प्रेर्य एवेत्यर्थः यथोक्तम् । ‘अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्’ इति यद्यन्मयं तत्तन्नियम्यमिति तस्यार्थः। अयम् आत्माधीनो न किं तु कंचन अनिर्देश्यरूपं कालं कालयितारम् ईशं भजत्यनुसरति ॥२७॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः
।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च॥२८॥
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः
।
धातुरेवं वशं यान्ति सर्वभूतानि भारत॥२९॥
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः
।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते॥३०॥
चरते भुङ्क्ते कर्म व्यतिहारे तङ् । फलप्रदत्वेनोपकारकम् ईशं जीवो भुङ्क्ते । कर्मकर्तृत्वेनोपकारकं जीवमीशो भुङ्क्त इत्यर्थः । अयमिति । राजवत्तटस्थतया न च लक्ष्यते अन्तर्यामित्वात् ॥३०॥
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्
।
येन कारयते कर्म शुभाशुभफलं विभुः॥३१॥
नन्वीश्वरो जीवादन्योऽनन्यो वा । आद्ये न चायमिति लक्ष्यत इत्यनुपपन्नम् । द्वितीये तयोः शास्तृशास्यभावानुपपत्तिरित्याशंक्याह हेतुमात्रमिति । विभुश्चिदात्मा येन प्रयोज्येन कर्म कारयते तत इदं शरीरं महाभूतान्यहंकार इत्यादिना उक्तरूपं स्थूलसूक्ष्मदेहद्वयं तदेव कर्तृ इत्यर्थः । ननु जडे कर्तृत्वासंभव इत्याशंक्याह धातुः क्षेत्रसंज्ञितं क्षेत्रमिव क्षेत्रं चिदात्मनः आभासरूपबीजनिवायस्थानं चिदाभासयुक्तं क्षेत्रं कर्तृ इत्यर्थः । तच्च हेतुमात्रं इच्छाद्यात्मकत्वात् हेतुरपि न मुख्यहेतुभूतं बिम्बप्रतिबिम्बदृष्टान्तेन चिदाभासस्य चिदात्मतन्त्रत्वात् । तथा चाभासस्यान्यत्वमादाय शास्तृशास्यभावो व्यावहारिकः । परमार्थतस्तु क्षेत्रस्य सुप्तिसमाध्योरभावान्न चायमिति लक्ष्यत इत्युक्तमिति भावः ॥३१॥
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः
।
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया॥३२॥
अयं पूर्वोक्तो मायाया अघटितघटनापटी यस्या अनिर्वचनीयाज्ञानाख्यायाः प्रभावः । य ईश्वरो भूतैः पृथक् पृथक् क्षेत्राभिमानिभिर्मोहयित्वा अनात्मनि देहादावात्मबुद्धिं जनयित्वा ॥३२॥
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः
।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥३३॥
मोहमेव विवृणोति द्वाभ्याम् अन्यथेति । तत्त्वदर्शिभिः स्वप्नमायेन्द्रजालवद्दृष्टान्यपि मूढानां सत्यवत्परिवर्तन्ते भासन्ते वेगाः करप्रसराः नभस्वतः आकाशगामिनः सूर्यस्य तेजोमयाः सन्तो जलह्रदवदवभासन्ते ॥३३॥
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च
।
अन्यथैव प्रभुस्तानि करोति विकरोति च॥३४॥
अनित्याशुचिदुःखरूपाण्यपि तानि नित्यशुचिसुखस्वरूपाणि मन्यन्ते अन्यथा करोति गगनवदजातमपि अङ्कुरादिक्रमेण जनयति । विकरोति च जीर्णत्वादिभावं च नयति ॥३४॥
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः
।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्॥३५॥
अयोवत्तरुवन्न केवलं निश्चेष्टं किं त्वचेतनमपि ॥३५॥
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः
।
हिनस्ति भूतैर्भूतानि च्छद्म कृत्वा युधिष्ठिर॥३६॥
छद्म मायाम् ॥३६॥
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः
।
क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव॥३७॥
संप्रयोज्य संयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः । बालः प्राकृतः क्रीडनकैः सारीप्रभृतिभिः ॥३७॥
न मातृपितृवद्राजन्धाता भूतेषु वर्तते
।
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः॥३८॥
न मात्रिति । ईशो न दयालुः प्रत्युत नृशंस इत्यर्थः ॥३८॥
आर्याञ्च्छीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्षितान्
।
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तया॥३९॥
किं च ईशस्य दुष्टेषु पक्षपातः साधुषु च द्वेषो दृश्यतेऽतः स निन्द्य एवेत्याह आर्यानित्यादि त्रिभिः । चिन्तया धनादिध्यानेन ॥३९॥
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने
।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति॥४०॥
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि
।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते॥४१॥
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति
।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः॥४२॥
कर्मेति । कृतं कर्म यदि कर्तारमेव गच्छति न त्वन्यं तर्हि कारयितृत्वादीश्वरोऽपि पापेन लिप्येतैवेयर्थः ॥४२॥
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति
।
कारणं बलमेवेह जनाञ्च्छोचामि दुर्बलान्॥४३॥
अथेति । कर्तारं कारयितारमीश्वरम् ऐश्वर्यादेव कर्म न स्पृशति तर्हि तत्प्रयोज्या जीवा एव कर्मभिर्हताः तथा च ईश्वरो बलाद्दीनान् नरके पातयतीत्यत्यन्तं निन्द्य एव स इति भावः ॥४३॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये त्रिंशोऽध्यायः॥३०॥
युधिष्ठिर उवाच।
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः
।
उक्तं तच्छ्रुतमस्माभिनीस्तेक्यं तु प्रभाषसे॥१॥
एवं धर्मेश्वरयोराक्षेपे प्राप्ते प्रत्यक्षानुमानागमैस्तौ समर्थयितुमध्याय आरभ्यते वल्गु चित्रेति । वल्गु शोभनम् । ष्लक्ष्णं सुकुमारम् । नास्तिक्यं वेदविद्विष्टम् ॥१॥
नाहं कर्मफलान्वेषी राजपुत्रि चराम्युत
।
ददामि देयमित्येव यजे यष्टव्यमित्युत॥२॥
यदुक्तं त्वां चेद्व्यसनिनमित्यादिना धर्मस्य नैष्फल्ये त्वदभिभव एव दृष्टान्त इति तत्राह नाहमिति । कर्म धर्मं फलार्थिना कृतो धर्मो यदि निष्फलः स्यात्तर्हि भवेदयमाक्षेपः न त्वहं तथा चरामीत्यर्थः । ननु फलेच्छाया अभावे किमर्थं धर्मः कर्तव्य इत्यत आह ददामीत्यादिना देयम् ऋणम् इत्येव ददामि । ‘जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति श्रुतेः । ऋणवा ऋणवान् ॥२॥
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्
।
गृहे वा वसता कृष्णे यथाशक्ति करोमि तत्॥३॥
यथाशक्ति यत्कर्त्तव्यं तत्करोमीत्यन्वयः ॥३॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात्
।
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च॥४॥
धर्ममिति । वेदवाक्यात् शिष्टाचाराच्च निष्काममेव धर्मं चरामि । ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इति स्वर्गादिफलश्रुतिस्तु धर्मे प्ररोचनार्थेति भावः ॥४॥
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम्
।
घर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्॥५॥
स्वभावात् 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ इति गीतावचनोक्तधर्माचरणशील एव क्षत्रियो नान्य इति नियमात् मे । मया धर्मे मनो धृतं यतः धर्मवाणिज्यको धर्मात्स्वर्गादिफलमिच्छन् । हीनः मुख्यफलात् च्युतः अत एव जघन्य नीचः॥५॥
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति
।
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः॥६॥
धर्मफलम्। ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेर्विद्या विविदिषा वा धर्मफलं मुख्यं तन्नाप्नोति । यश्चैनं धर्मं शङ्कते विश्वासं न कुरुते सोऽपि धर्मफलं नाप्नोति । पापचेतनः पापबुद्धिः ॥६॥
अतिवादाद्वदाम्येष मा धर्ममभिशङ्किथाः
।
धर्माभिशङ्की पुरुषस्तिर्यग्गतिपरायणः॥७॥
अतिवादात् मानान्तरमतिक्रान्तो वादो वचनं तस्मात् वेदैकप्रामाण्यात् ॥७॥
धर्मों यस्याभिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः | वेदाच्छूद्र इवापेयात्स लोकादजरामरात्॥८॥
आर्षम् ऋषयो मन्त्रास्तद्द्रष्टारो मन्वादयो वा धर्ममूलभूतं मन्त्रजातं वा मन्वादिवाक्यं वेत्यर्थः । अर्थे वेति पाठे फले विषये इत्यर्थः। दुर्बलात्मनः विवेकाक्षमचित्तस्य अपेयात् अपगच्छेत् । लोकात् आत्मलोकात् । स्वर्लोकादिति पाठेऽपि आनन्दरूपादात्मलोकादित्यर्थः । अनात्मलोकेषु अजरामरत्वयोरसंभवात् अजरामरात् मोक्षरूपात् ॥८॥
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि
।
स्थविरेषु स योक्तव्यो राजर्षिर्धर्मचारिभिः॥९॥
बालोऽपि स्थविरेषु योक्तव्यो नियोक्तव्यो गणनीयः ॥९॥
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते
।
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममभिशङ्कते॥१०॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः
।
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता॥११॥
एवं धर्मस्य वेदैकगम्यत्वादनतिशंक्यत्वं वेदस्य च श्रेष्ठप्रमाणत्वमुक्त्वा प्रत्यक्षत्वादपि धर्मफलस्यानतिशंक्यत्वमाह प्रत्यक्ष हीत्यादिना । चिरजीविता चिरजीवी ॥११॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः
।
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः॥१२॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्
।
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः॥१३॥
एते हि धर्ममेवादौ वर्णयन्ति सदानघे
।
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः॥१४॥
धर्मं कर्तव्यं वर्णयन्ति प्रत्यक्षागमबुद्धयः । अस्माकं वेदैकगम्यमपप्यर्थं प्रत्यक्षेण पश्यन्त इत्यर्थः ॥१४॥
अतो नार्हसि कल्याणि धातारं धर्ममेव च
।
राज्ञी मूढेन मनसा क्षेप्तुं शङ्कितुमेव च॥१५॥
क्षेपो निन्दा शङ्का फले संशयः ॥१५॥
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान्
।
धर्माभिशङ्की नान्यस्मात्प्रमाणमधिगच्छति॥१६॥
एतच्च मूढकार्यामत्याह उन्मत्तानित्यादिना । आगतनिश्चयान् प्राप्ततत्त्वनिश्चयान् ॥१६॥
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः
।
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम्
।
एतावन्मन्यते बालो मोहमन्यत्र गच्छति॥१७॥
उन्नद्धः दृप्तः। श्रेयसो धर्मस्य । अन्यत्रातीन्द्रिये धर्माद्यर्थे ॥१७॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममभिशङ्कते
।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते॥१८॥
ध्यायन् अर्थान् चिन्तयन्नपि लोकान् धर्मप्राप्यान् ॥१८॥
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः
।
कामलोभातिगो मूढो नरकं प्रतिपद्यते॥१९॥
कामलोभौ अति अत्यन्तं गच्छति प्राप्नोतीति कामलोभातिगः ॥१९॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते
।
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते॥२०॥
आनन्त्यं ब्रह्मभावम् ॥२०॥
आर्षं प्रमाणमुत्क्रम्य धर्मं न प्रतिपालयन्
।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति॥२१॥
शं कल्याणम्॥२१॥
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भाविनि
।
न वै तरय परो लोको नायमस्तीति निश्चयः॥२२॥
शिष्टैराचरितं धर्मं कृष्णे मास्माभिशङ्किथाः
।
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः॥२३॥
धर्म एव प्लवो नान्यः खर्गं द्रौपदि गच्छताम्
।
सैव नौः सागरस्येव वणिजः पारमिच्छतः॥२४॥
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः
।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते॥२५॥
अनुमानमपि धर्मे प्रमाणमित्याह अफल इति । अयं भावः। यदि धर्मो न स्यात्तर्हि ऊर्ध्वगतिं कश्चिदपि नाप्नुयात्। जायस्व म्रियेस्वेति मशकादीनां पूर्वसंस्कारात्पुनः पुनस्तत्तज्जातीयदेहस्यैव प्राप्तिश्रुतेरन्धं तमः प्राप्तिरेव सर्वेषां स्यात् । ततश्च शास्त्रानर्थक्यम् । यदि तु धर्मोऽस्ति तर्हि तेषामपि विशिष्टदेशनिवासादिजनितस्य पुण्यस्यापरिहार्यत्वात् ऊर्ध्वगतिः संभवति ॥२५॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्
।
विद्यां ते नैव युज्येयुर्न चार्थं केचिदाप्नुयुः॥२६॥
ननु यथा तृणात् क्षीरं क्षीराद्दधीवत् परिणामक्रमादेव तत्तद्विशिष्टदेहलाभादूर्ध्वगतिर्भविष्यति किं धर्मेणेत्याशंक्याह निर्वाणामिति । दध्नोऽपि गवोपभुक्तात् क्षीरमूत्रादिनी च परिणामदृष्टेर्नैतद्युक्तम् । तथा च मोक्षासिद्धिः तस्यां च सत्यां बोधशून्यां पशुजीविकां जीवेयुरन्धतमः प्रविशेयुरेवेत्यर्थः । ततश्च ते पशुतुल्याः विद्यां विद्यया नैव युज्येरन्। सन्तु तर्हि स्वभावेनैव सर्वेऽपि प्राणिनः। कं विद्यया किं वा मोक्षणेत्याशंक्याह न चार्थं केचिदाप्नुयुरिति । अयं भावः । घटशरावोदंचनादिकार्यवौचत्र्यं क्रियावैचित्र्यायत्तं यथा दृष्टं तथा ऐहिकयत्नाभावेऽपि नृषु पश्वादिषु ज्ञानैश्वर्यतारतम्यं दृश्यमानं जन्मान्तरीयक्रियानुमापकम् । तदभावे जगद्वैचित्र्यस्याकस्मिकनिधिलाभादेश्चासंभवः स्यादिति ॥२६॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च
।
दानमार्जवमेतानि यदि स्युरफलानि वै॥२७॥
अनादिपरंपरागतः शिष्टाचारोऽपि धर्मास्तित्वे प्रमाणमित्याह । तपश्चेत्यादिना ॥२७॥
नाचरिष्यन्परे धर्मं परे परतरे च ये
।
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः॥२८॥
विप्रलम्भो वञ्चनम् । अयं यज्ञादिधर्मः ॥२८॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः
।
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः॥२९॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवम्
।
धर्मं ते व्यचरन्कृष्णे तद्धि श्रेयः सनातनम्॥३०॥
श्रेयसि श्रेयोनिमित्तं धर्मं व्यचरन्। तद्धि धर्मो हि श्रेयः श्रेयःसाधनं सनातनम् अनाद्यनन्तम्॥३०॥
स नायमफलो धर्मों नाधर्मोऽफलवानपि
।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा॥३१॥
त्वमात्मनो विजानीहि जन्म कृष्णे यथा श्रुतम्
।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्॥३२॥
अनुभवोऽपि धर्मे प्रमाणमित्याह त्वमिति । अयं भावः ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतेः । पञ्चाग्निविद्यायां च द्युपर्जन्यपृथिवीपुरुषयोषात्सु अग्निषु श्रद्धासोमवर्षान्नरेतआहुतयो हूयन्ते ततः शरीरमिति क्रमेण ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेश्च सर्वेषां प्राणिनामुत्पत्तिरगवता । तत्र गर्भवासारख्या रेतोद्रव्यकपञ्चम्याहुत्यवस्थाऽत्यन्तदुःखमयी पुण्यवशात् द्रोणस्य नासीत्। द्रौपदीधृष्टद्युम्नयोस्त्वतिपुण्यवशात् रेतोरूपमलपरिणामहेतुरन्नाहुतिरपि नास्ति । साक्षादाग्निकुण्डोद्भवत्वात् । तदिदं धर्मफलं तवानुभवसिद्धमतो धर्मं भावमंस्था इति ॥३२॥
एतावदेव पर्याप्तमुपमानं शुचिस्मिते
।
कर्मणां फलमाप्नोति धीरोऽल्पेनापि तुष्यति॥३३॥
उपमानं निदर्शनम् । कर्मस्वादरवशात् अल्पेन अन्नाच्छादनमात्रेण तुष्टो भवति न तु कर्माण्युपेक्ष्य बहुलाभार्थं यतते इत्यर्थः ॥३३॥
बहुना ह्यपि विद्वांसो नैव तुष्यन्त्यबुद्धयः
।
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति वा पुनः॥३४॥
कर्मणां श्रुतपुण्यानां पापानां च फलोदयः
।
प्रभवश्चात्ययश्चैव देव गुह्यानि भाविनि॥३५॥
श्रुतं वेदोदितं पुण्यं येषां पापानामनिष्टसाधनानां च फलोदयः स्वर्गनरकहेतुत्वं प्रभव उत्पत्तिः अविद्येति यावत् । अत्ययो नाशः विद्येति यावत् । देवगुह्यानि वेदैकवेद्यत्वात् । ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति श्रुतेर्देवगोप्यानि एतानि । स्वपशुभूतपुरुषविनाशकत्वात् ॥३५॥
एतानि वेद यः कश्चिन्मुह्यन्तेऽत्र प्रजा इमाः
।
अपि कल्पसहस्रेण न स श्रेयोऽधिगच्छति॥३६॥
एतानीति । अत्र एतेषु देवगुह्येषु विषयेषु इमाः प्राकृताः प्रजाः मुह्यन्ते । अविद्यामपि विद्यात्वेन विद्यां चाविद्यात्वेन गृह्णन्ति । एवं पुण्यपापविपर्ययोऽपि ज्ञेयः । अत एतानि यस्तत्त्वतो वेद सः श्रेयो देवानां हिततरं कर्म नाधिगच्छति नानुसरति । कर्तृत्वादिमदन्तःकरणस्य विविक्तत्वादिति भावः ॥३६॥
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः
।
कृताशाश्च व्रताशाश्च तपसा दग्धकिल्बिषाः
।
प्रसादैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः॥३७॥
कृता नाशिता आशा यैस्ते । कॄ हिंसायां स्वादिः । व्रतं हितं मितं मेध्यं चाश्नन्ति ते कृताशाश्च व्रताशाश्च । शान्ता दान्ता इत्यर्थः। तपसा श्रवणमननात्मकेन आलोचनेन मनःप्रसादैर्ध्यानफलैर्युक्ताः द्विजाः योगिनः एतानि देवगुह्यानि ॥३७॥
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः
।
यष्टव्यं च प्रयत्नेन दातव्यं चानसूयता॥३८॥
कर्मणां फलमस्तीह तथैतद्धर्मशाश्वतम्
।
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः॥३९॥
धर्मशाश्वतं धर्मस्य शश्वद्भवोयं स्वभावः ॥३९॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु
।
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज॥४०॥
व्यवस्य निश्चित्य । भावम् अभिप्रायम् ॥४०॥
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप
।
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी॥४१॥
एवं धर्मश्रेष्ठ्यं निश्चित्य ईश्वरश्रैष्ठ्यमप्याह ईश्वरमिति । धातारं दधाति कर्मफलानि यथा स्वं विभजतीति तं कर्मणामाशुतरविनाशित्वात्। नष्टानां च कालान्तरीयफलहेतुत्वायोगात् । अपूर्वकल्पनायाश्च ‘सर्वस्य वशी सर्वस्येशानः’ इति सर्वस्येश्वराधीनत्वप्रतिपादकश्रुत्या बाधात् । लौकिकराजभृत्यदृष्टान्ताच्च कर्मभिस्तुष्टो रुष्टो वा ईश्वर एव सदसत्फलविभाजक इति भावः। मा क्षिप मा निन्दां कुरु । शिक्षस्व शास्त्राचार्योपदेशादधीष्व ॥४१॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्
।
उत्तमां देवतां कृष्णे मावमंस्थाः कथञ्चन॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि युधिष्ठिरवाक्ये एकत्रिंशोऽध्यायः॥३१॥
द्रौपद्युवाच
।
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन
।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्॥१॥
नावमन्य इति ॥१॥
आर्ताहं प्रलपामीदमिति मां विद्धि भारत
।
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे॥२॥
कर्म खल्विह कर्तव्यं जानता मित्रकर्शन
।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः॥३॥
स्थावरा इतरे जना वा हि यस्मात् अकर्माणो न जीवन्ति अतः कर्म कर्तव्यमिति योजना। तथा चायं प्रयोगः । स्थावरजीविका प्राक्कर्मपूर्विका जीविकात्वात्पाकादिक्रियापूर्वकास्मदादिजीविकावदिति ॥३॥
यावद्गोस्तनपानाच्च यावच्छायोपसेवनात्
।
जन्तवः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर॥४॥
स्थावरेषूक्तं न्यायं तिर्यक्षु योजयति यावदिति । सद्यो जातस्य गोवत्सस्य स्तनपानादिप्रवृत्तिरपि स्वजनकसंस्कारहेतुप्राक्तनकर्मसत्त्वे प्रमाणमित्यर्थः । यावद्गोस्तनपानात् गोस्तनपानादेरित्यर्थः । यावच्छायोपसेवनात् प्रतिमाद्वारकभोगादित्यर्थः । अयं भावः कौलिकशास्त्रप्रसिद्ध्या शत्रुनिर्मितायां चैत्रप्रतिमायां शत्रुणा कण्टकादिनानुन्नायां चैत्रो व्यथते । तत्र व्यथानिमित्तम् आन्तरं धातुवैषम्यं बाह्यं वा कण्टकवेधादि न किंचिददृष्टमस्ति किं तु केवलदृष्टमेव । अनेनैव न्यायेन जन्तवः कर्मणा प्राचीनेनैव वृत्तिं जीवनम् आप्नुवन्ति ॥४॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ
।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च॥५॥
जङ्गमेष्विति प्रेत्य मृत्वा ॥५॥
उत्थानमभिजानन्ति सर्वभूतानि भारत
।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्॥६॥
उत्थानम् उत्तिष्ठति प्रवर्त्ततेऽस्मादित्युत्थानं प्राक्कर्मसंस्कारः तं सर्वेऽपि प्राणिनः अभिजानन्ति अनुभवन्ति। तत्कर्मसु प्रवर्तन्ते तत्फलं चाप्नुवन्ति । तस्मात्कर्मतत्संस्कारपरंपरेयमनादिरित्यर्थः ॥६॥
सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः
।
अपि धाता विधाता च यथायमुदके बकः॥७॥
सर्वे हीति । यथायं बकः पूर्वसंस्कारात् वृत्त्यर्थी ध्यायति एवं धाता ईश्वरोऽपि अनादिसंस्कारवशात् पूर्वपूर्वकल्पस्वरूपामेव सृष्टिं करोति । ‘धाता यथापूर्वमकल्पयत्’ इति श्रुतेः । तथा विधाता धर्मोऽपि पूर्वसंस्कारानुरोधेनैव कर्मणि प्रवर्तयति । अन्यथा संसारानादित्वानभ्युपगमे कृतहानाकृताभ्यागमादिदोषः स्यादिति भावः ॥७॥
अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन
।
तदेवाभिप्रपद्येत न विहन्यात्कदाचन॥८॥
एवं प्राक्तनकर्मप्राबल्यमुपपाद्य ऐहिकानामपि तेषां प्राबल्यमाह अकर्मणामिति । याञ्चा मुखचालनादिदृष्टयत्नशून्या न जीविकास्ति । अतस्तदेव दृष्टफलं कर्मैव न विहन्यात् । दैवपरो भूत्वा न त्यजेदित्यर्थः ॥८॥
स कर्म कुरु मा ग्लासीः कर्मणा भव दंशितः
।
कृतं हि योऽभिजानाति सहस्रे सोऽस्ति नास्ति च॥९॥
दंशितः संनद्धः कृतं कर्म कर्तुमिति शेषः ॥९॥
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा
।
भक्ष्यमाणो ह्यनादानात्क्षीयेत हिमवानपि॥१०॥
तस्य कर्मणः कार्यं प्रयोजनं रक्षणेऽर्थानामिति शेषः । अनादानात् असंग्रहात् । लब्धेनार्थेन न संतोष्टव्यं किं तु तद्विवृद्ध्यर्थं कर्म कर्तव्यमित्यर्थः ॥१०॥
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्भुवि
।
तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत्॥११॥
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्
।
नान्यथा ह्यपि गच्छन्ति वृत्तिं लोकाः कथञ्चन॥१२॥
अपि चेति कर्मणां क्वचिदफलत्वेऽपि आवश्यकत्वं नित्यमित्यर्थः ॥१२॥
यश्च दिष्टपरो लोके यश्चापि हठवादिकः
।
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते॥१३॥
यश्चेति । दिष्टपरो मन्त्रौषधाद्यदृष्टद्वारैवार्थसाधनपरः कौलिकः । हठवादिकः प्राग्जन्माभावात् अकृतमेवोपस्थास्यतीति वदन् चार्वाकः । एतौ शठौ प्राक्कर्मानङ्गीकारात् । पाठान्तरे अपसदौ अधमौ। कर्मबुद्धिः प्राक्तनं तात्कालिकं च कर्मसहितं सत् इष्टसाधनमिति बुद्धिमान् ॥१३॥
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत्
।
अवसीदेत्स दुर्बुद्धिरामो घट इवोदके॥१४॥
निर्विचेष्टः दृष्टयत्नहीनः । शयेत् शेयात् आमः अपक्वः ॥१४॥
तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत्
।
आसीत न चिरं जीवेदनाथ इव दुर्बलः॥१५॥
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः
।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्॥१६॥
हठादीन् व्याचष्टे अकस्मादिति । अचिन्तितस्यातर्कितस्य च लाभो हठः ॥१६॥
यच्चापि किञ्चित्पुरुषो दिष्टं नाम भजत्युत
।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्॥१७॥
दैवं देवताराधनम् ॥१७॥
यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः
।
प्रत्यक्षमेतल्लोकेषु तत्पौरुषमिति श्रुतम्॥१८॥
पौरुषं यथोक्तप्रतिगृहादिवृत्तिः॥१८॥
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्
।
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम॥१२॥
अपि चेति कर्मणां क्वचिदफलत्वेऽपि आवश्यकत्वं नित्यमित्यर्थः ॥१२॥
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा
।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम्॥२०॥
एतच्चतुष्टयजोऽपि लाभः पूर्वकर्मफलमेव ॥२०॥
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः
।
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्॥२१॥
स्वकर्मैव कर्माधीन एव । विदधाति अर्पयति । पूर्वकृतं पूर्वकर्मजम् ॥२१॥
यध्द्यायं पुरुषः किञ्चित्कुरुते वै शुभाशुभम्
।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्॥२२॥
एतदेव स्पष्टयति यद्धीति ॥२२॥
कारणं तस्य देहोऽयं धातुः कर्मणि वर्तते
।
स यथा प्रेरयत्येनं तथायं कुरुते वशः॥२३॥
कारणमिति । यः कर्मणि वर्तते सोऽयं मानुषदेहः प्राग्भवीयस्तस्य प्रवर्तकस्य धातुरपि कारणं प्रवर्तकः सः धाता एनं वर्तमानदेहं बीजाङ्कुरवत् धातृप्रेर्यो देहः देहप्रेर्यश्च धातेत्यर्थः । देहो देहसाध्यं कर्म ॥२३॥
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः
।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि॥२४॥
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा
।
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम्॥२५॥
ननु पूर्वकर्मैव प्रवर्तकं चेत्किं पुरुषकारेणेत्याशंक्याह मनसेति ॥२५॥
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ
।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी॥२६॥
एतदपि प्राक्कर्मजमेवेत्याशंक्याह संख्यातुमिति । संख्यातुं प्राक्कर्मैव कारणं न पुरुषकार इति निश्चेतुं तत्र हेतुः अगारेति ॥२६॥
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः
।
धिया धीरो विजानीयादुपायं चास्य सिद्धये॥२७॥
तिले इति । पङ्वन्धन्यायेन प्राक्कर्मसिद्धमेव पुरुषकारोऽभिव्यनक्तीत्यर्थः अस्य तैलादेः सिद्धये प्राप्तये ॥२७॥
ततः प्रवर्तते पश्चात्कारणैस्तस्य सिद्धये
।
तां सिद्धिमुपजीवन्ति कर्मजामिह जन्तवः॥२८॥
कारणैः यन्त्रनिपीडनादिभिः । तां सिद्धिं तैल्लादिप्राप्तिम् । कर्मणामिति पाठे सिद्धिं फलम् । तां तैलप्राप्तिम् ॥२८॥
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम्
।
इदं त्वकुशलेनेति विशेषादुपलभ्यते॥२९॥
कुशलेनेति । विशेषात् फलभेदात् ऐहिककर्मणोऽपि प्राबल्यमस्तीत्यर्थः ॥२९॥
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्
।
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्॥३०॥
विधिप्रतिषेधशास्त्रवैयर्थ्यान्यथानुपपत्त्यापि पुरुषकारस्य श्रेष्ठ्यमाह इष्टेति द्वाभ्याम् । इष्टं यागादि आपूर्तं तडागारामादि ॥३०॥
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते
।
असिद्धौ निन्द्यते चापि कर्मनाशात्कथं त्विह॥३१॥
न चैवैतावता कार्यं मन्यन्त इति चापरे
।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः॥३३॥
एतैरेव नार्थसिद्धिरिति वैदिका इत्याह न चेति। अदृश्यं धर्माधर्मरूपं प्राक्कर्म तदेव दिष्टहठादिकं सर्वमित्यर्थः ॥३३॥
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः
।
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वभावतः॥३४॥
अत्र पूर्वपक्षः दृश्यते हीति । स्वभावतः यत्नतः ॥३४॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्
।
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदो जनाः॥३५॥
चतुर्थं प्राक्कर्मकुशला इत्युपहासः इति प्रतिजानन्तीत्यध्याहृत्य योज्यम् ॥३५॥
तथैव धाता भूतानामिष्टानिष्टफलप्रदः
।
यदि न स्यान्न भूतानां कृपणो नाम कश्चन॥३६॥
सिद्धान्तमाह तथेति ॥३६॥
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः
।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम्॥३७॥
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः
।
तथैवानर्थसिद्धिं च यथैवात्मा तथैव ते॥३८॥
त्रिद्वारामिति । हठादित्रयं द्वारमेव अर्थसिद्धेर्मुख्यं कारणं कर्मैवेत्यर्थः। आत्मा देहः देहवत्ते जडा इत्यर्थः। यथा लोका इति पाठे लोकाः लोकायतिकाः ॥३८॥
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः
।
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः॥३९॥
कर्तव्यमेवेति। यथा ग्रामकामस्य सांग्रहणीष्टी राजसेवा चेति द्वयमनुष्ठेयं तद्वदिह दिष्टपौरुषात्मकं कर्म कर्तव्यमेव हठपक्षस्त्याज्य एवेत्यर्थः । एकान्तेन अतिशयेन अनीहो निश्चेष्टः हठवादीत्यर्थः ॥३९॥
कुर्वतो हि भवत्येव प्रायेणेऽह युधिष्ठिर
।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्॥४०॥
भवत्येव फलसिद्धिः अलसः असम्यक्कारी ॥४०॥
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्षयेत्
।
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्नुते॥४१॥
असंभवेत्विति। अङ्गवैकवल्यात्कर्मफलानुत्पादे तु अस्य फलस्य हेतुः। प्रायश्चित्तं दोषप्रतिसमाधानं लक्षयेत् कर्मतः फलाभावेऽङ्गवैकल्यं कल्प्यं न तु कर्मवैयर्थ्यमिति भावः। कर्मणि साङ्गे कृते। आनृण्यं फलानुत्पादेऽपि निर्दोषत्वम् ॥४१॥
अलक्ष्मीराविशत्येनं शयानमलसं नरम्
।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते॥४२॥
अनर्थाः संशयावस्थाः सिद्ध्यन्ते मुक्तसंशयाः
।
धीरा नराः कर्मरता ननु निःसंशयाः क्वचित्॥४३॥
अनर्थाः अर्थहीनाः ननु निश्चितं धीरा निःसंशया दुर्लभा इत्यर्थः ॥४३॥
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम्
।
सतु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते॥४४॥
अनर्थो राज्यच्युतिः कर्मणि पौरुषे ॥४४॥
अथवाऽसिद्धिरेव स्यादभिमानं तदेव ते
।
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि॥४५॥
असिद्धिरिति छेदः कृतेऽपि पौरुषे यदि फलासिद्धिरेव स्यात्तर्हि तदेव ते तव वृकोदरादीनाम् अभिमानं साकल्येन प्रमाणं राज्यानर्हत्वे स्यात्। तदा राज्याशाविच्छेदान्न मम राज्यार्थर्मुद्वेग स्यादिति भावः ॥४५॥
अन्येषां कर्मसफलमस्माकमपि वा पुनः
।
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम्॥४६॥
अन्येषामस्माकं वा कर्म सफलं यथा तथा कृतकर्मैव विप्रकर्षेण कर्मकरणान्ते बुध्येत। त्वं त्वकृतकर्मा तत्कथं बुध्येरिति भावः ॥४६॥
पृथिवीं लाङ्गलेनेह भित्त्वा बीजं वपत्युत
।
आस्तेथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्॥४७॥
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः
।
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया॥४८॥
तच्चेदं फलमस्माकमपराधो न मे क्वचित्
।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्॥४९॥
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
।
निर्वेदो नात्र कर्तव्यो द्वावन्यौ ह्यत्र कारणम् ॥५०॥
निर्वेदो वैराग्यं द्वावन्यौ पौरुषानिर्वेदौ अत्र फलसिद्धौ ॥५०॥
सिद्धिर्वाप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा
।
बहूनां समवाये हि भावानां कर्मसिद्धयः॥५१॥
सिद्धिरसिद्धिर्वास्तु किं स्वप्रवृत्तिरेव मास्त्वित्यर्थः । बहूनां सर्वेषां समवाये समुदाये । भावानां कारणानाम् ॥५१॥
गुणाभावे फलं न्यूनं भवत्यफलमेव च
।
अनारम्भे हि न फल न गुणो दृश्यते क्वचित्॥५२॥
गुणः अप्रधानमङ्गं तदभावे गुणः शौर्यादिः ॥५२॥
देशकालावुपायांश्च मङ्गलं स्वस्तिवृद्धये
।
युनक्ति मेधया धीरो यथाशक्ति यथाबलम्॥५३॥
उपायाः सामादयः स्वस्तिवृद्धये कल्याणवृद्धये ॥५३॥
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः
।
भूयिष्ठं कर्मयोगेषु दृश्यमेव पराक्रमः॥५४॥
अप्रमत्तेनेति। तत् देशकालादियोगाख्यं कार्यम् आदरणीयं तत्र पराक्रमः पुरुषकारस्तु उपदेष्टा कार्यकर्ता मुख्य इत्यर्थः । भूयिष्ठं श्रेष्ठम् । कर्मयोगेषु कार्यघटनासु पराक्रमः । दृश्यमेव प्रसिद्ध एव श्रेष्ठत्वेन । तस्मात्पराक्रमे यतितव्यमिति भावः ॥५४॥
यत्र धीमानवेक्षेत श्रेयांसं बहुभिर्गुणैः
।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मे प्रयोजयेत्॥५५॥
ननु भ्रातृषु धार्तराष्ट्रेषु कथं पराक्रान्तुं शक्यमित्याशंक्य सामासंभवमाह यत्रेति । अवेक्षेत आदरं कुर्यात् श्रेयांसं प्रशस्ततरं कर्म च भेदं दानाख्यं वा ॥५५॥
व्यसनं वास्य काङ्क्षेत विवासं वा युधिष्ठिर
।
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः॥५६॥
दुर्मेधसि दुर्योधने तु न सामभेददानानामुपायानां संभवोऽस्ति । अतस्तत्र दण्ड एव श्रेयानित्याह। व्यसनमिति । व्यसनं राष्ट्रोपप्लवादि । विवासनं देशान्निःसारणम् ॥५६॥
उत्थानयुक्तः सततं परेषामन्तरैषणे
।
आनृष्यमाप्नोति नरः परस्यात्मन एव च॥५७॥
उत्थानयुक्तः यत्नवान् । अन्तरैषणे छिद्रान्वेषणे। आनृण्य निर्दोषत्वं । परस्यामात्यादेः ॥५७॥
न त्वेवात्मावमन्तव्यः पुरुषेण कदाचन
।
न ह्यात्मपरिभूतरय भूतिर्भवति शोभना॥५८॥
नन्वशक्तः कथमुत्थानं कुर्यामित्याशंक्याह न त्वेवेति ॥५८॥
एवं संस्थितिका सिद्धिरियं लोकस्य भारत
।
तत्र सिद्धिर्गतिः प्रोक्ता कालावस्थाविभागतः॥५९॥
एवं संस्थितिका ईदृग्व्यवस्थावती। सांसिद्धिकीति पाठे स्वाभाविकीत्यर्थः । सिद्धिः फलसिद्धिः । तत्रेति कालावस्थयोरानुकूल्येन गतिरन्वेषणे यत्नः सैव सिद्धिः सिद्धिमूलम् ॥५९॥
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्
।
सोऽपि सर्वामिमां प्राह पित्रे मे भरतर्षभ॥६०॥
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा
।
तेषां सकाशादश्रौषमहमेता तदा गृहे॥६१॥
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्
।
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर॥६२॥
कर्मवतीमागतां किंचित्कार्योद्देशेन पितुरन्तिके आगताम् ॥६२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि द्रौपदीवाक्ये द्वात्रिंशोऽध्यायः॥३२॥
वैशंपायन उवाच।
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः
।
निश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत्॥१॥
याज्ञसेन्या इति ॥१॥
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्
।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने॥२॥
एवं द्रौपद्या प्राक्कर्माधीनां फलसिद्धिमङ्गीकृत्यापि तद्द्वारभूतस्य पुरुषकारस्य प्राबल्ये प्रतिपादिते राजानमुद्योजयन् भीम आह राज्यस्य पदवीमित्यादि । पदवीं प्राप्तिमार्गं धर्म्यां वनवासकालपालनरूपाद्धर्मादनपेतां किं प्रयोजनमिति शेषः ॥२॥
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा
।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै॥३॥
कूटं कपटम् ॥३॥
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
।
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्॥४॥
विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेन शुनकेनेत्यर्थः ॥४॥
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः
।
अर्थमुत्सृज्य किं राजन्दुःखेषु परितप्यसे॥५॥
धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः अर्थं राज्याख्यम् ॥५॥
भवतोऽनवधानेन राज्यं नः पश्यतां हृतम्
।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना॥६॥
अनवधानेन प्रमादेन पश्यतामित्यनादरे षष्ठी ॥६॥
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः
।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते॥७॥
कुणीनां हस्तविकलानाम् । पड्गूनां पादविकलानां षष्ठी पूर्ववत् । भवतः कृते भवन्निमित्तम्॥७॥
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्
।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत॥८॥
धर्मकामे धर्मेच्छायाम् । प्रतीतस्य विश्वस्तस्य । धर्मकाम्या प्रतीतस्येति पाठे धर्मेच्छायां विश्वस्तस्य ॥८॥
कर्षयामः स्वमित्राणि नन्दयामश्च शात्रवान्
।
आत्मानं भवतां शास्त्रैर्नियम्य भरतर्षभ॥९॥
शास्त्रैः शमवचनैः भवतां भासमानानां योगिनाम् ॥९॥
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि
।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्॥१०॥
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
।
दुर्बलाचरितां राजन्नबलस्थैर्निषेविताम्॥११॥
मृगचर्यामिव एनां वनचर्याम् । अबलस्थैर्निषेवितामित्येकं पदम् । बलवद्भिरसेवितामित्यर्थः॥११॥
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः
।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ॥१२॥
भवान्धर्मो धर्म इति सततं व्रतकर्शितः
।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्॥१३॥
न आपन्न इति सबन्धः ॥१३॥
दुर्मनुष्या हि निर्वेदमफलं स्वार्थघातकम्
।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्॥१४॥
स भवान्दृष्टिमाञ्च्छक्तः पश्यन्नस्मासु पौरुषम्
।
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे॥१५॥
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः
।
अशक्तानिव मन्यन्ते तद्दुःखं नाहवे वधः॥१६॥
अलं समर्थान्सतः ॥१६॥
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्
।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकान्लभेमहि॥१७॥
अथवा वयमेवैतान्निहत्य भरतर्षभ
।
आददीमहि गां सर्वां तथापि श्रेय एव नः॥१८॥
गां पृथिवीम् ॥१८॥
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्
।
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्॥१९॥
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा॥२०॥
कृत्यलक्षणे करणीयस्वरूपे ॥२०॥
कर्षणार्थे हि यो धर्मो मित्राणामात्मनस्तथा
।
व्यसनं नाम तद्राजन्न धर्मः स कुधर्मतत्॥२१॥
कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ॥२१॥
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्
।
त्यजतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा॥२२॥
धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ॥२२॥
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्ग स पण्डितः
।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव॥२३॥
धर्मार्थं न त्वर्थकामार्थम् अर्थं प्रयोजनम् ॥२३॥
यस्य चात्मार्थमेवार्थः सच नार्थस्य कोविदः
।
रक्षेत भृतकोरण्ये यथा गास्तादृगेव सः॥२४॥
सा हि धर्मार्थरूपा हि ॥२४॥
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति
।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः॥२५॥
अतिवेलम् अत्यन्तम्॥२५॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति
।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते॥२६॥
इतरौ अर्थकामौ ॥२६॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्
।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये॥२७॥
कामतो रममाणस्य तस्य कामान्ते निधनमिति संबन्धः ॥२७॥
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः
।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा॥२८॥
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः
।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा॥२९॥
अर्थपरिग्रहः अर्थार्थमेवालम्बनीयः इतरेतरयोर्नीतौ धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः । मेघादुदधिपुष्टिदधेर्मेघपूर्तिरिव ॥२९॥
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
।
स कामश्चित्तसङ्कल्पः शरीरं नास्य दृश्यते॥३०॥
द्रव्यस्य स्रक्चन्दनादेः । स्पर्शः अर्थस्य स्वर्णादेः। संयोगो लाभः ॥३०॥
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति
।
अर्थमिच्छति कामार्थी न कामादन्यमिच्छति॥३१॥
न हि कामेन कामोऽन्यः साध्यते फलमेव तत्
।
उपयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितैः॥३२॥
उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम् । काष्ठाद्भस्मसाध्यं न तु भस्मतोऽपि भस्मान्तरं साध्यमस्ति तद्वत् ॥३२॥
इमाञ्च्छकुनकान्राजन्हन्ति वैतंसिको यथा
।
एतद्रूपमधर्मस्य भूतेषु हि विहिंसता॥३३॥
वैतंसिकः वीतंसेन जीवतीति पक्षिहन्ता । ‘वीतं सबन्धनोपाये मृगाणां पक्षिणामपि’ इति विश्वः । विहिंसता विशिष्टहिंसावत्वम् ॥३३॥
कामाल्लोभाच्च धर्मस्य प्रकृतिं यो न पश्यति
।
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः॥३४॥
प्रकृतिं स्वरूपम् ॥३४॥
व्यक्तं ते विदितो राजन्नार्थो द्रव्यपरिग्रहः
।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्॥३५॥
व्यक्तमिति । अर्थः प्रयोजनं कामाख्यं सद्रव्येण स्त्रीधनगोहस्त्यश्वात्मना परिगृह्यत इति द्रव्यपरिग्रहः । अस्य द्रव्यस्य प्रकृतिं स्त्र्यादिरूपाम् । विकृतिं त्यागभोगादिरूपाम् ॥३५॥
तस्य नाशे विनाशे वा जरया मरणेन वा
।
अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते॥३६॥
तस्य स्त्रीधनादिरूपद्रव्यस्य नाशे अदर्शने अभावे । विनाशे लब्धस्य वियोगे । जरामरणे स्त्रीगोऽश्वादीनां सोऽयमनर्थः स्त्रीपरामर्शराज्यनाशादिरूपः। अनर्थपरिहाराय धर्मोऽपि लङ्घनीय इति भावः ॥३६॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च
।
विषये वर्तमानानां या प्रीतिरुपजायते॥३७॥
पञ्चानां श्रोत्रादीनां विषये शब्दादौ । मनसो विषयः संकल्पः हृदयस्य निश्चयः ॥३७॥
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्
।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च॥३८॥
पृथक् भिन्नान्दृष्ट्वा ॥३८॥
न धर्मपर एव स्यान्न चार्थपरमो नरः
।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा॥३९॥
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्
।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः॥४०॥
धर्मं पूर्वे अहनि चरेत् ॥४०॥
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्
।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः॥४१॥
कामं पूर्वे वयसि चरेत्॥४१॥
धर्मं चार्थं च कामं च यथावद्वदतां वर
।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः॥४२॥
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्
।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन॥४३॥
तद्वाशु क्रियतां राजन्प्राप्तिं वाप्यधिगम्यताम्
।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः॥४४॥
प्राप्तिं महोदयं वा राज्यलाभजम् । ‘प्राप्तिर्लाभे महोदये’ इति विश्वः । तत् मोक्षाख्यं श्रेयः दुःखं दुःखदम् ॥४४॥
विदितश्चैव मे धर्मः सततं चरितश्च ते
।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम्॥४५॥
कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यम् । शंसन्ति कथयन्ति ॥४५॥
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्
।
एष धर्मः परो राजन्बलवान्प्रेत्य चेह च॥४६॥
एष नार्थविहीनेन शक्यो राजान्निषेवितुम्
।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे॥४७॥
अखिलाः खिलं शल्यं तद्रहिताः ॥४७॥
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते
।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्॥४८॥
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्
।
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना॥४९॥
क्लेब्येन कातर्येण वेत्तुं लब्धुम् ॥४९॥
प्रतिषिद्धा हि ते याञ्चा यया सिद्ध्यति वै द्विजः
।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ॥५०॥
द्विजः ब्राह्मणः तेजसा पराभिभवशक्त्या ॥५०॥
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका
।
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम्॥५१॥
औरसम् उत्साहः ॥५१॥
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्
।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय॥५२॥
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः
।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि॥५३॥
उदारम् ईश्वरभावम् अवरे अनैश्वर्ये ॥५३॥
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्
।
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः॥५४॥
क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ॥५४॥
प्रजापालनसम्भूतं फलं तव न गर्हितम्
।
एष ते विहितो राजन्धात्रा धर्मः सनातनः॥५५॥
तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि
।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते॥५६॥
अपचितः हीनः ॥५६॥
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः
।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत्॥५७॥
शिथिलं दुर्बलम् ॥५७॥
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन
।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम्॥५८॥
न भूतिम् अनैश्वर्यं न पुनःश्रियं नास्ति पुनः श्रीर्ययेति न भूतेरेव विशेषणम् । उभयत्र नैकधेतिवन्न शब्देन समासः । व्यजयत् पराभूतवान् ॥५८॥
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्
।
निकृत्या लभते राज्यमाहारमिव शल्यकः॥५९॥
जिह्वां जिह्वायाः प्रियं साध्वन्नम् उत्कोचमित्यर्थः । क्षुद्राणां शत्रुपक्षीयाणां निकृत्या भेदरूपेण छलेन । शल्यकः व्याधः । स हि मृगेभ्यो भक्ष्यं दत्वा विश्वास्य हत्वा आहारं लभते तद्वत् । शल्यकः श्वावित् क्षुद्रान्मधुमक्षिकाविशेषान् जिह्वां दत्वा बहिर्निःसार्य भक्षयति तद्वज्जिह्वां वाचं दत्त्वा शत्रून् जहीति प्राञ्चः ॥५९॥
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः
।
निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ॥६०॥
एवं बलवतः सर्वमिति बुद्ध्वा महीपते
।
जहि शत्रून्महाबाहो परां निकृतिमास्थितः॥६१॥
बलवतः शत्रून् परां निकृतिं संवत्सरशब्दं मीमांसकन्यायेन दिनपरं कुर्विति भावः ॥६१॥
न ह्यर्जुनसमः कश्चिद्युधि योधो धनुर्धरः
।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः॥६२॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव॥६३॥
सत्त्वेन बलेन प्रमाणेन सङ्घेन । उत्साहेन शत्रुपक्षीयैः सहसंधानलक्षणेन सूत्रेण । प्रमाणं नित्यमर्यादासंघवादिप्रमादिषु । उत्साहस्तूद्यमे सूत्रे इति विश्वः । अप्रमादी महोत्साहीत्यपि पाठः॥६३॥
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा
।
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी॥६४॥
सत्त्वादन्यस्य वितथत्वे हेतुः न त्विति। प्रसक्तम् उपकारकत्वेन प्रत्यासन्नम् इष्टमित्यर्थः॥६४॥
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता
।
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः॥६५॥
अर्थत्यागोऽपीति । दुर्योधने राज्यार्पणं न श्रेयसेऽपि तु खरकण्डूयनवदपकारायैव । यथा स्वरकण्डूयनं स्पर्शदोषात्सद्यो दुःखदस्नाननिमित्तं गोकण्डूयनवच्च परत्र न हितं एवमेतदपीति श्लोकद्वयार्थः ॥६५॥
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः
।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत्॥६६॥
विपणः प्रतिज्ञा न कार्यः न निर्वाह्यः ॥६६॥
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः
।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम्॥६७॥
एवमेव बीजौपम्येन प्रतिज्ञानिर्वाहजमल्पं धर्मं त्यक्त्वा राज्यलाभजे दानयागादिर्महान्धर्म आदर्तव्य इत्यर्थः ॥६७॥
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः
।
मिन्नैर्मित्रैः परित्यक्तं युवानं कुरुते वशम्॥६८॥
युवानम् अल्पबुद्धिम् । ‘यदेकः स्थविरो वेत्ति न तत्तरुणकोटयः’ इत्युक्तेः । दुर्बलमित्यपि पाठः ॥६८॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः॥६९॥
पक्वबुद्धेः सर्वत्र सावधानस्य मित्राणि दुर्भेद्यानि अतस्तादृशे दुर्योधने बलमेत्र श्रेय इत्याह सत्त्वेनेति । युद्धेनैव शत्रुजये कृते प्रजाः स्वाधीना भवन्ति न तूद्यमेन निग्रहेण न होत्राभिः सान्त्वेन आह्वानैः ॥६९॥
सर्वथा संहतैरेव दुर्बलैर्बलवानपि
।
अमित्रः शक्यते हन्तुं मधुहा भ्रमररिव॥७०॥
संहतैमिलितैः मधुहा मध्वर्थं गतः । ओहाङ् गतौ इत्यस्य रूपम् । भ्रमरैर्मधुपटलस्थैः सविषवक्त्रैः युगपद्दष्टो म्रियत इति प्रसिद्धम् । कालप्रतीक्षायां दि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ॥७०॥
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः
।
अत्ति चैव तथैव त्वं सदृशः सवितुर्भव॥७१॥
यथेति । अत्ति रसशोषणेन पाति वर्षेण तथा त्वं दुर्योधनादीन्वशमानीय पालयेत्यर्थः ॥७१॥
एतच्चापि तपो राजन्पुराणमिति नः श्रुतम्
।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः॥७२॥
एतत् भूमेः पालनं वक्ष्यमाणं तपः स्वधर्मः पुराणम् अनादि । एतच्चावितथमिति पाठान्तरे पुराणं वेदविहितमित्यर्थः ॥७२॥
न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः
।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥७३॥
सृष्टेन विहितेन धर्मेणेत्यर्थः इतरेण मरणेन ॥७३॥
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा
।
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्॥७४॥
अपेयात् अपगच्छेत् व्यवसितः निश्चितः ॥७४॥
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च
।
कथा युक्ताः परिषदः पृथग्राजन्समागताः॥७५॥
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते
।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम्॥७६॥
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि
।
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात्॥७७॥
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन्
।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः॥७८॥
ननु कथं तर्हि मया राज्यार्थमनृतं कर्तव्यमत आह यदेन इति । एनः पापमवाप्नुवन् अवाप्तिहेतोः॥७८॥
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः
।
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः॥७९॥
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन
।
सवृद्धबालसहिताः शंसन्ति त्वां युधिष्ठिर॥८०॥
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा
।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा॥८१॥
परस्यापि राज्यानर्हत्वादवरोपणमुचितमित्याह श्वदृताविति । श्वदृतौ सारमेयचर्मकोशे ब्रह्म वेदः वृषले शूद्रे ॥८१॥
इति लोके निर्वचनं पुरश्चरति भारत
।
अपि चैताः स्त्रियो बालाः खाध्यायमधिकुर्वते॥८२॥
स्वाध्यायमधिकुर्वते श्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्थः ॥८२॥
इमामवस्थां च गते सहास्माभिररिन्दम
।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति॥८३॥
भवता हेतुना उपद्रवे राज्यभ्रंशे ॥८३॥
स भवान्रथमास्थाय सर्वोपकरणान्वितम्
।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योर्यविभावकः॥८४॥
अर्थविभावकः जयार्जितमर्थं प्रदातुम् । तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति ण्वुल् ॥८४॥
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्
।
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः॥८५॥
वाचयित्वा आशीर्वादान् ॥८५॥
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा
।
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा
।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल॥८६॥
धार्तराष्ट्रादिति छेदः ॥८६॥
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्
।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्॥८७॥
गार्घ्रवाससां गृध्रपक्षमयपुङ्खवतां संसहेत् सम्यक् सहेत ॥८७॥
न स वीरो न मातङ्गो न च सोऽश्वोऽस्ति भारत
।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे॥८८॥
सृंञ्जयैः सह कैकेयैर्वृष्णीनां वृषभेण च
।
कथं स्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे॥८९॥
सृंजयादिभिः सहायैः स्विदिति विस्मयेन शिरश्चालने ॥८९॥
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्
।
इह यत्नमुपाहृत्य बलेन महतान्वितः॥९०॥
उपाहृत्य आलम्ब्य ॥९०॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि भीमवाक्ये त्रयस्त्रिंशोऽध्यायः॥३३॥
वैशंपायन उवाच।
स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा
।
अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे॥१॥
स एवमिति ॥१॥
युधिष्ठिर उवाच।
असंशयं भारत सत्यमेतद्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि
।
न त्वां विगर्हे प्रतिकूलमेव ममानयाद्धि व्यसनं व आगात्॥२॥
एव मम ममैव वः युष्मान् ॥२॥
अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्
।
तन्मां शठः कितवः प्रत्यदेवीत् सुयोधनार्थं सुबलस्य पुत्रः॥३॥
अन्वपद्यम् अनुसृतवान् । जिहर्षिन्हर्तुमिच्छन् शठः कूटपाशकर्तृत्वात् कितवो द्यूतकारः ॥३॥
महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान्
।
अमायिनं मायया प्रत्यजैषीत्ततोऽपश्यं वृजिनं भीमसेन॥४॥
प्रवपन् पातयन् अक्षपूगान् पाशसमूहान् वृजिनं दुःखदं व्यसनम् ॥४॥
अक्षांश्च दृष्ट्वा शकुनेर्यथावत्कामानुकूलानयुजो युजश्च
।
शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम्॥५॥
कामानुकूलान् इच्छानुकूलान् । अयुजः विषमान् । युजः समान् । शक्यमिति । यः पुरुषस्य धैर्यं हन्यात् स मन्युर्यदि नाभविष्यत्तर्हि आत्मा मनः नियन्तुं शक्यमभविष्यदित्यध्याहृत्य योज्यम् । परस्यानुकूलानक्षान् दृष्ट्वा मन्युवशान्मम द्यूतोपरमे बुद्धिर्नासीदित्यर्थः ॥५॥
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः
।
न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत्॥६॥
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन्
।
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः॥७॥
त्वं चापि तद्वेत्थ धनञ्जयश्च पुनर्द्यूतायागतांस्तां सभां नः
।
यन्मां ब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्॥८॥
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो
।
अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः॥९॥
समा वर्षाणि अथापरं वर्षम् ॥९॥
त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराश्च
।
अन्यांश्चरेथास्तावतोऽब्दांस्तथा त्वं निश्चित्य तत्प्रतिजानीहि पार्थ॥१०॥
अवभोत्स्यन्ते ज्ञास्यन्ति ॥१०॥
वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान्
।
वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति॥१२॥
सर्वे शतमपि भ्रातरः स राजा दुर्योधनः ॥१२॥
तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे
।
इत्थं तु देशाननुसञ्चरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः॥१३॥
नः अस्माकं जघन्यं नीचम् । कृछ्ररूपाः क्लिष्टरूपाः ॥१३॥
सुयोधनश्चापि न शान्तिमिच्छन् भूयः स मन्योर्वशमन्वगच्छत्
।
उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन्॥१४॥
शान्तिं न इच्छन् अनिच्छन् । उद्योजयामास उत्कर्षेण स्वेच्छया तेषु तेषु दुर्गदेशादिपालनकार्येषु इष्टान् योजितवान् ॥१४॥
तं सन्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः
।
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्॥१५॥
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः
।
बाहू दिधक्षन्वारितः फाल्गुनेन किं दुष्कृतं भीम तदाऽभविष्यत्॥१६॥
पर्यमृक्षः परामृष्टवानसि दिधक्षन् दग्धुमिच्छन् ॥१६॥
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः
।
प्राप्तं तु कालं त्वभिपद्य पश्चात् किं मामिदानीमतिवेलमात्थ॥१७॥
समयक्रियातः प्रागेव चेदिदमब्रवीस्तर्हि किं दुष्कृतम् अभविष्यत् न किमपीत्यर्थः । आविदानः जानन् । प्राप्तं कालं कालतुल्यां विपदम् । अभिपद्य स्वीकृत्य अतिवेलम् अतिशयेन ॥१७॥
भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा
।
यद्याज्ञसेनीं परिक्लिश्यमानां सन्दृश्य तत्क्षान्तमिति स्म भीम॥१८॥
भूयोऽपि बह्वपि दूये उपतप्ये ॥१८॥
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये
।
कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः॥१९॥
यदुक्तं यां प्रतिज्ञां कृत्वा । बीजवापः कृषीवलः ॥१९॥
यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा
।
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके॥२०॥
पूर्वं निकृतो वञ्चितः वैरं वैरिसमूहम् । सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा । यदा यदि । निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ॥२०॥
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते
।
मित्राणि चैनमचिराद्भजन्ते देवा इवेन्द्रमुपजीवन्ति चैनम्॥२१॥
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च
।
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति॥२२॥
अमृतात् देवभावात् । कलां षोडशं भागम् ॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि युधिष्ठिरवाक्ये चतुस्त्रिंशोऽध्यायः॥३४॥
भीमसेन उवाच।
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा
।
अनन्तेनाप्रमेयेण स्त्रोतसा सर्वहारिणा॥१॥
संधिमिति । पतत्रिणा बाणवत् शीघ्रगामिना प्राणहरेण वा । स्त्रोतसा नित्यवाहिना ॥१॥
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः
।
फेनधर्मा महाराज फलधर्मा तथैव च॥२॥
प्रत्यक्षं प्रत्यक्षेण ज्ञातम् । कालबन्धनः कालवश्यः फेनधर्मा निःसारः फलधर्मा पतनशीलः॥२॥
निमेषादपि कौन्तेय यस्यायुरपचीयते
।
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्॥३॥
सूच्येवाञ्जनचूर्णस्य यथा कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किंचिदपचीयते । एवं निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य योज्यम् । ‘चूर्णः क्षोदे क्षारभेदे’ इति विश्वः । शून्येवेति पाठेऽपि स एवार्थः । श्वयते प्रविशतीति शूनः स्थूलसूची ‘सूवा’ इति प्रसिद्धः । अल्पः शूनः शूनी तयेति योगात् । पूर्णस्येत्यपपाठः ॥३॥
यो नूनममितायुः स्यादथवापि प्रमाणवित्
।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्॥४॥
प्रमाणवित् आयुः प्रमाणज्ञः ॥४॥
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश
।
आयुषोपचयं कृत्वा मरणायोपनेष्यति॥५॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्
।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे॥६॥
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः
।
अयातयित्त्वा वैराणि सोऽवसीदति गौरिव॥७॥
याति प्राप्नोति । प्रसंख्यानं प्रकृष्टां साधुकीर्तिम्। यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः भूमिवर्धनः भूमिहिंसकः । भूमेर्भारभूत इत्यर्थः अयातयित्वा अनिस्तीर्य । गौर्बलीवर्द इव । सोऽप्यशक्तश्चेत् गोषु संख्यानं स्पष्टतां वाप्यप्राप्नुवन्भूमेर्भारभूतो भवति ॥७॥
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्
।
अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः॥८॥
दुर्जातजायिनः कुजन्मभाजः ॥८॥
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी
।
हत्वा द्विषन्तं सङ्ग्रामे भुङ्क्ष्व बाहुजितं वसु॥९॥
हैरण्यौ हिरण्यस्वामिनौ । श्रुतिः कीर्तिः । पार्थिवी पृथोः राज्ञ इवेत्यर्थः ॥९॥
हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम
।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः॥१०॥
निकर्तारं वञ्चकम् । अह्नाय सद्यः । स नरकम् आपदम् ॥१०॥
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः
।
येनाहमभिसन्तप्तो न नक्तं न दिवा शये॥११॥
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे
।
आस्ते परमसन्तप्तो नूनं सिंह इवाशये॥१२॥
आशये स्वस्थाने ॥१२॥
योऽयमेकोऽभिमनुते सर्वान्ल्लोके धनुर्भृतः
।
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति॥१३॥
अभिमनुते हिनस्ति । ‘यदि वेममभिमंस्ये कनीयोन्नं करिष्ये’ इति बृहदारण्यकादावभिपूर्वस्य मन्यतेर्हिंसार्थत्वदृष्टेः । इमं प्रथमजं सूक्ष्मं बीजभूतमिति श्रुतिपदस्यार्थः । आत्मजं चित्तजमूष्माणं तापम् ॥१३॥
नकुलः सहदेवश्च वृद्धा माता च वीरसूः
।
तवैव प्रियमिच्छन्त आसते जडमूकवत्॥१४॥
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः
।
अहमेकश्च सन्तप्तो माता च प्रतिविन्ध्यतः॥१५॥
प्रतिविन्ध्यतः प्रतिविन्ध्यस्य माता द्रौपदी ॥१५॥
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन
।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः॥१६॥
नातः पापीयसी काचिदापद्राजन्भविष्यति
।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते॥१७॥
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परन्तप
।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति॥१८॥
घृणाविष्टः कथं सत्यं त्यजेयमिति लज्जया व्याप्तः आनृशंस्यात् दयालुत्वात् ॥१८॥
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः
।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी॥१९॥
मन्दकस्य कुत्सितमन्दस्य अनुवाकः गुरूक्तिमनुवचनं तेन हता । अर्थज्ञानशून्यस्य वेदाक्षरमात्राभ्यासिनः ॥१९॥
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रेषु जायथाः
।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः॥२०॥
घृणी दयालुः जायथाः जातोऽसि ॥२०॥
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्
।
क्रूरान्निकृतिसम्पन्नान्विहितानशमात्मकान्॥२१॥
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः
।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्॥२२॥
आस्से तूष्णीं भूतोऽसि । पीठसर्पवत् अजगरवत् ॥२२॥
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च
।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्॥२३॥
अज्ञातवासस्य दुष्करत्वमाह तृणानामिति ॥२३॥
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि
।
अशातचर्या गूढेन पृथिव्यां विश्रुतेन च॥२४॥
संवर्तुं संवरीतुं छादितुम् ॥२४॥
दिवीव पार्थ सूर्येण न शक्याचरितुं त्वया
।
बृहच्छाल इवानूपे शाखापुष्पपलाशवान्॥२५॥
अनूपे बहुजले देशे ॥२५॥
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति
।
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू॥२६॥
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः
।
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्॥२७॥
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति
।
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः॥२८॥
नाज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्
।
तथैव बहवोऽस्माभी राष्ट्रभ्यो विप्रवासिताः॥२९॥
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः
।
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः॥३०॥
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः
।
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्
।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम्॥३१॥
निकर्तव्यं नीचं सूचनादि कर्म कर्तव्यम् ॥३१॥
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश
।
परिमाणेन तान्पश्य तावतः परिवत्सरान्॥३२॥
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः
।
पूतिकानिव सोमस्य तथेदं क्रियतामिति॥३३॥
अथवाऽनडुहे राजन्साधवे साधुवाहिने
।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते॥३४॥
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया
।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोऽस्ति संयुगात्॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि भीमवाक्ये पञ्चत्रिंशोऽध्यायः॥३५॥
वैशंपायन उवाच।
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
।
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परन्तपः॥१॥
भीमसेनेति ॥१॥
श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः
।
आयत्यां च तदात्वे च यः पश्यति स पश्यति॥२॥
आयत्यामुत्तरकाले तदात्वे वर्तमानकाले यः तान्पश्यति ॥२॥
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्
।
कथं बलात्करिष्यामि मेरोरिव विमर्दनम्॥३॥
जानमानः जानन् । श्नम्विकरणत्वमार्षम् ॥३॥
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्
।
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्॥४॥
इतिकृत्यताम् इतिकर्तव्यताम् अपदान्तरम् अविलम्बितम् ॥४॥
युधिष्ठिर उवाच।
एवमेतन्महाबाहो यथा वदसि भारत
।
इदमन्यत्समादत्स्व वाच्यं मे वाच्यकोविद॥५॥
समादत्स्व अङ्गीकुरु ॥५॥
महापापानि कर्माणि यानि केवलसाहसात्
।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत॥६॥
व्यथन्ते व्यथयन्ति ॥६॥
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते
।
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्॥७॥
सुमन्त्रिते शोभनमन्त्रे क्रियमाणे सति सुविक्रान्ते उत्कर्षेणोपस्थिते सुकृते पुण्यकर्मणि सुविचारिते निश्चिते सति । चकारो यद्यर्थे ॥७॥
यत्तु केवलचापल्याद्बलदर्पोऽत्थितः स्वयम्
।
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे॥८॥
बलं शारीरं सामर्थ्यं दर्पो गर्वः ताभ्याम् उत्थितः प्रवृत्तः ॥८॥
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्
।
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्॥९॥
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः
।
सर्व एव कृतास्त्राश्च सततं चाततायिनः॥१०॥
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः
।
संश्रिताः कौरवं पक्षं जातस्नेहाश्च तं प्रति॥११॥
दुर्योधनहिते युक्ता न तथास्मासु भारत
।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति सङ्गरे॥१२॥
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः
।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः॥१३॥
सैन्यस्य सैन्यसंबन्धिनः सर्वे । मात्राभिः अंशपरिच्छेदैः ॥१३॥
दुर्योधनेन ते वीरा मानिताश्च विशेषतः
।
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः॥१४॥
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च
।
द्रोणस्य च महाबाहो कृपस्य च महात्मनः॥१५॥
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः
।
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान्॥१६॥
राजपिण्डः राजदत्तो ग्रासः । निर्वेश्यः आनृण्यार्थं शोधनीयः ॥१६॥
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः
।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः॥१७॥
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः
।
सर्वास्त्रविदनाधृष्यो ह्यमेद्यकवचावृतः॥१८॥
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान्
।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया॥१९॥
न निद्रामधिगच्छामि चिन्तयानो वृकोदर
।
अतिसर्वान्धनुर्गाहान्सूतपुत्रस्य लाघवम्॥२०॥
लाघवं शीघ्रताम् ॥२०॥
वैशंपायन उवाच।
एतद्वचनमाज्ञाय भीमसेनोत्यमर्षणः
।
बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन॥२१॥
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः
।
आजगाम महायोगी व्यासः सत्यवतीसुतः॥२२॥
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः
।
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः॥२३॥
व्यास उवाच।
युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्
।
मनीषया ततः क्षिप्रमागतोरिम नरर्षभ॥२४॥
भीष्माद्द्रोणात्कृपात्कर्णाद्रोणपुत्राच्च भारत
।
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि॥२५॥
यत्ते भयममित्रघ्न्न हृदि सम्परिवर्तते
।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा॥२६॥
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय
।
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि॥२७॥
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम्
।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः॥२८॥
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम॥२८॥
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः॥२९॥
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव
।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते॥३०॥
यामवाप्य महाबाहुरर्जुनः साधयिष्यति
।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु॥३१॥
साधयिष्यति राज्यम् ॥३१॥
वरुणं च कुबेरं च धर्मराजं च पाण्डव
।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च॥३२॥
ऋषिरेष महातेजा नारायणसहायवान्
।
पुराणः शाश्वतो देवस्त्वजेयो जिष्णुरच्युतः॥३३॥
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च
।
समादाय महाबाहुर्महत्कर्म करिष्यति॥३४॥
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्
।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते॥३५॥
एकत्र चिरवासो हि न प्रीतिजननो भवेत्
।
तापसानां च सर्वेषां भवेदुद्वेगकारकः॥३६॥
मृगाणामुपयोगश्च वीरुदौषधिसंक्षयः
।
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान्॥३७॥
उपयोगः व्ययः वीरुधः प्रतानवत्यः औषध्यः फलपाकान्ताः ॥३७॥
वैशंपायन उवाच।
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः
।
प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम्॥३८॥
धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः
।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत॥३९॥
अनुज्ञाय पृष्ट्वा ॥३९॥
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः
।
धारयामास मेधावी काले काले सदाऽभ्यसन्॥४०॥
ब्रह्म मन्त्रम् ॥४०॥
स व्यासवाक्यनुदितो वनाद्द्वैतवनात्ततः
।
ययौ सरस्वतीकूले काम्यकं नाम काननम्॥४१॥
तमन्वयुर्महाराज शिक्षाक्षरविशारदाः
।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा॥४२॥
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ
।
न्यविशन्त महात्मानः सामात्याः सपरिच्छदाः॥४३॥
तत्र ते न्यवसन्राजन्किञ्चित्कालं मनस्विनः
।
धनुर्वेदपरा वीराः शृण्वन्तो वेदमुत्तमम्॥४४॥
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः
।
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि॥४५॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि काम्यकवनगमने षट्त्रिंशोऽध्यायः॥३६॥
वैशंपायन उवाच।
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः
।
संस्मृत्य मुनिसन्देशमिदं वचनमब्रर्वात्॥१॥
कस्यचित् कस्मिंश्चित् ॥१॥
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ
।
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्॥२॥
स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः
।
धनञ्जयं धर्मराजो रहसीदमुवाच ह॥३॥
वनवासं द्रौपदीवियोगम् । ‘गृहिणी गृहमुच्यते’ इति स्मृतेः ॥३॥
युधिष्ठिर उवाच।
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत
।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः॥४॥
चतुष्पादः आदानसंधानविसर्गसंहाराश्चत्वारः पादा यस्य ॥४॥
दैवं ब्राह्म मानुषं च सयत्नं सचिकित्सितम्
।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः॥५॥
दैवम् इन्द्रवरुणाद्यस्त्रं ब्राह्मं ब्रह्मास्त्रं मानुषं धनुर्बाणादि यत्नः ग्रहणधारणप्रयोगरूपः चिकित्सा परप्रयुक्तानामेषां प्रतीकारः एवं ते सर्वास्त्राणां प्रयोगम् अभितः साकल्येन जानन्ति ॥५॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः
।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते॥६॥
गुरुवत् गुरुष्विव ॥६॥
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा
।
आचार्या मानितास्तुष्टाः शान्ति व्यवहरन्त्युत॥७॥
शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते॥७॥
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः
।
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा॥८॥
शक्तिं सामर्थ्यं न हापयिष्यन्ति त्याजयिष्यन्ति अपि तु उद्दीपयिष्यन्ति ॥८॥
सग्रामनगरा पार्थ ससागरवनाकरा
।
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः॥९॥
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम
।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया॥१०॥
उपनिषत् रहस्यविद्या ॥१०॥
तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते
।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः॥११॥
देवतानां यथाकालं प्रसादं प्रतिपालय
।
तपसा योजयात्मानमुग्रेण भरतर्षभ॥१२॥
प्रतिपालय प्राप्नुहि ॥१२॥
धनुष्मान्कवची खड्गी मुनिः साधुव्रते स्थितः
।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्॥१३॥
मार्गं न ददत् अददत् ॥१३॥
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय
।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम्॥१४॥
बलं सर्वास्त्ररूपम् ॥१४॥
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे
।
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति॥१५॥
ततः शक्रात् ॥१५॥
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम्
।
वैशंपायन उवाच।
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः॥१६॥
दीक्षितः स्वीकृतव्रतः अध्यापयत विद्यया योजितवान् ॥१६॥
दीक्षितं विधिनानेन धृतवाक्कायमानसम्
।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः॥१७॥
अनुजज्ञे गमनाय अनुज्ञातवान् ॥१७॥
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरन्दरम्
।
धनुर्गाण्डीवमादाय तथाक्षय्ये महेषुधी॥१८॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्
।
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः॥१९॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः
।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च॥२०॥
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्
।
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च॥२१॥
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि
।
अब्रुवन्ब्राह्मणाः पार्थामिति कृत्वा जयाशिषः॥२२॥
इति वक्ष्यमाणम् अब्रुवन् ॥२२॥
संसाधयस्व कौन्तेय ध्रुवोऽस्तु विजयस्तव
।
तं तथा प्रस्थितं वीरं शालस्कन्धोरुमर्जुनम्॥२३॥
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्
।
कृष्णोवाच
।
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय॥२४॥
यत् मङ्गलं ते तव ॥२४॥
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि
।
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्॥२५॥
ब्राह्मणेभ्यो नमो नित्यं येषां भैक्ष्येण जीविका
।
इदं मे परमं दुःखं यः स पापः सुयोधनः॥२६॥
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि
।
तस्माद्दुःखादिदं दुःखं गरीय इति मे मतिः॥२७॥
गौरिति बहुपुरुषभोग्येत्युपहासः ॥२७॥
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत
।
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे॥२८॥
अभाषत शत्रुः यत्तस्मात् दुःखात् इदं त्वद्वियोगजमिति पूर्वेण संबन्धः ॥२८॥
रंस्यन्ते वीरकर्माणि कथयन्तः पुनः पुनः
।
नैव नः पार्थ भोगेषु न धने नोत जीविते॥२९॥
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि
।
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते॥३०॥
जीवितं मरणं चैव राज्यमैश्वर्यमेव च
।
आपृष्टो मोस कौन्तेय स्वस्ति प्राप्नुहि भारत॥३१॥
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयानघ
।
प्रयाह्यविघ्नेनैवाशु विजयाय महाबल
।
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्॥३२॥
ह्रीः श्रीः कीर्तिद्युतिः पुष्टिरुमा लक्ष्मीः सरखती
।
इमा वै तव पान्थस्य पालयन्तु धनञ्जय॥३३॥
तव त्वाम् ॥३३॥
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः
।
प्रपद्येऽहं वसून्रुद्रानादित्यान्समरुद्गणान्॥३४॥
ज्येष्ठापचायी ज्येष्ठपूजनशीलः । ज्येष्ठोपचायीति पाठे ज्येष्ठवृद्धिकरणशीलः ॥३४॥
विश्वेदेवांस्तथा साध्याञ्च्छान्त्यर्थं भरतर्षभ
।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत॥३५॥
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः
।
वैशंपायन उवाच।
एवमुक्त्वाशिषः कृष्णा विरराम यशस्विनी॥३६॥
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः
।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः॥३७॥
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः
।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः॥३८॥
शुष्मिणः बलिनः । शुष्ममिति बलनामेति यास्कः ॥३८॥
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्
।
दिव्यं हैमवतं पुण्यं देवजुष्टं परन्तपः॥३९॥
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः
।
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः॥४०॥
हिमवन्तमतिक्रम्य गन्धमादनमेव च
।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः॥४१॥
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः
।
अन्तरिक्षेऽतिशुश्राव तिष्ठेति स वचस्तदा॥४२॥
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः
।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम्॥४३॥
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्
।
सोऽब्रवीदर्जुनं तत्र स्थितं दॄष्ट्वा महातपाः॥४४॥
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी
।
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः॥४५॥
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः
।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्॥४६॥
विनीतौ जितौ क्रोधहर्षौ यैः ॥४६॥
नेहास्ति धनुषा कार्यं न सङ्ग्रामोऽत्र कर्हिचित्
।
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम्॥४७॥
ओजसा तेजसा वीर यथा नान्यः पुमान्क्वचित्
।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्
।
न चैनं चालयामास धैर्यात्सुधृतनिश्चयम्॥४८॥
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव
।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन॥४९॥
एवमुक्तः सहस्त्राक्षं प्रत्युवाच धनञ्जयः
।
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः॥५०॥
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे
।
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्॥५१॥
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव
।
इह प्राप्तस्य किं कार्यमस्त्रैस्तत्र धनञ्जय॥५२॥
कामान्वृणीष्व लोकांस्त्वं प्राप्तोऽसि परमां गतिम्
।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः॥५३॥
कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् लोकान् भोगान् ॥५३॥
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्
।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप॥५४॥
न लोभान्न पुनः कामादिति न शब्दौ वा शब्दार्थौ । लोभाद्वा कामाद्वेत्यर्थः ॥५४॥
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च
।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः॥५५॥
अप्रतियात्य अनिस्तीर्य । एतेन ज्येष्ठभ्रात्रादिसेवनम् ऐन्द्रपदप्राप्तावपि नोपेक्षणीयमित्युक्तम् ॥५५॥
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्
।
सान्त्वयञ्च्छ्लक्ष्णया वाचा सर्वलोकनमस्कृतः॥५६॥
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्
।
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः॥५७॥
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः
।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि॥५८॥
इत्युक्त्वा फाल्गुनं शक्रो जगामादर्शनं पुनः
।
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः॥५९॥
इति श्रीमहाभारते आरण्यके पर्वणि अर्जुनाभिगमनपर्वणि इन्द्रदर्शने सप्तत्रिंशोऽध्यायः॥३७॥