जनमेजय उवाच।
भगवञ्च्छ्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः
।
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्॥१॥
भगवन्निति ॥१॥
यथा च पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः
।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्॥२॥
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम
।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः॥३॥
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्विजोत्तम
।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थह॥४॥
अत्यद्भुततमं ब्रह्मन्रोमहर्षणमर्जुनः
।
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल॥५॥
पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः
।
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्॥६॥
दैन्यहर्षातिविस्मयात् दैन्यं नाशभयात् । हर्षो महादेवप्रतिभटत्वात् । विस्मयः तत्प्रसादेनालौकिकसामर्थ्यलाभात् ॥६॥
शूराणामपि पार्थानां हृदयानि चकम्पिरे
।
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद॥७॥
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये
।
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय॥८॥
वैशंपायन उवाच।
कथयिष्यामि ते तात कथामेतां महात्मनः
।
दिव्यां पौरवशार्दूल महतीमद्भुतोऽपमाम्॥९॥
गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण सहानघ
।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम्॥१०॥
युधिष्ठिरनियोगात्स जगामामितविक्रमः
।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम्॥११॥
दिव्यं तद्धनुरादाय खड्गं च कनकत्सरुम्
।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये॥१२॥
कनकत्सरुं स्वर्णमुष्टिम् ॥१२॥
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति
।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः॥१३॥
ऐन्द्रिः अर्जुनः ॥१३॥
त्वरया परया युक्तस्तपसे धृतनिश्चयः
।
वनं कण्टकितं घोरमेक एवान्वपद्यत॥१४॥
कण्टकितं कण्टकाक्रान्तम् ॥१४॥
नानापुष्पफलोपेतं नानापक्षिनिषेवितम्
।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥१५॥
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्
।
शङ्खानां पटहानां च शब्दः समभवद्दिवि॥१६॥
पुष्पवर्षं चानुमहन्निपपात महीतले
।
मेघजालं च विततं छादयामास सर्वतः॥१७॥
सोऽतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः
।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा॥१८॥
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्
।
नदीश्च विपुलावर्ता वैदूर्यविमलप्रभाः॥१९॥
वल्गु मधुरम् ॥१९॥
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा
।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः॥२०॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः
।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत्॥२१॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा
।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः॥२२॥
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः
।
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्॥२३॥
दर्भचीर तृणमयं वासः । निवस्य परिधाय । समुपयुक्तवान् भुक्तवान् ॥२३॥
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः
।
द्विगुणेन हि कालेन द्वितीयं मासमत्ययात्॥२४॥
द्विगुणेन षड्रात्रेण अत्ययात् अतिवाहितवान् ॥२४॥
तृतीयमपि मासं स पक्षेणाहारमाचरन्
।
चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः॥२५॥
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः
।
ऊर्ध्वबाहुर्निरालम्बः पदाङ्गुष्ठाग्रधिष्ठितः॥२६॥
निरालम्बो निराश्रयः ॥२६॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः
।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः॥२७॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्
।
निवेदयिषवः पार्थं तपस्युग्रे समास्थितम्॥२८॥
तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत्
।
एष पार्थों महातेजा हिमवत्पृष्ठमास्थितः॥२९॥
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः
।
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्॥३०॥
धूमाययन् धूमवतीरिव कुर्वन् ॥३०॥
सन्तापयति नः सर्वानसौ साधु निवार्यताम्
।
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम्॥३१॥
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह
।
महादेव उवाच।
न वो विषादः कर्तव्यः फाल्गुनं प्रति सर्वशः॥३२॥
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः
।
अहमस्य विजानामि सङ्कल्पं मनास स्थितम्॥३३॥
संकल्पं मनोरथम् ॥३३॥
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य तथायुषः
।
यत्तस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै॥३४॥
वैशंपायन उवाच।
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः
।
प्रहृष्टमनसो जग्मुर्यथा स्वान्पुनरालयान्॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि मुनिशङ्करसंवादे अष्टत्रिंशोऽध्यायः॥३०॥
वैशंपायन उवाच।
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु
।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः॥१॥
गतेष्विति ॥१॥
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्
।
विम्राजमानो विपुलो गिरिर्मरुरिवापरः॥२॥
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान्
।
निष्पपात महावेगो दहनो देहवानिव॥३॥
देव्या सहोमया श्रीमान्समानव्रतवेषया
।
नानावेषधरैर्हृष्टैर्भूतेरनुगतस्तदा॥४॥
भूतैः प्रमथाख्यैः स्वपार्षदैः ॥४॥
किरातवेषसञ्च्छन्नः स्त्रीभिश्चापि सहस्रशः
।
अशोभत तदा राजन्स देशोऽतीव भारत॥५॥
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा
।
नादः प्रस्त्रवणानां च पक्षिणां चाप्युपारमत्॥६॥
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः
।
मूकं नाम दनोः पुत्रं ददर्शाद्भुतदर्शनम्॥७॥
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम्
।
हन्तुं परं दीप्यमानं तमुवाचाथ फाल्गुनः॥८॥
अर्जुनं हन्तुं तर्कयन्तम् इच्छन्तम् । क्रोधेन दीप्यमानमिव ॥८॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्
।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्॥९॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्
।
तस्मात्त्वां पूर्वमेवाहं नेताऽद्य यमसादनम्॥१०॥
नेता नेष्यामि ॥१०॥
दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं हृढधन्विनम्
।
किरातरूपी सहसा वारयामास शङ्करः॥११॥
मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रभः
।
अनादृत्य च तद्वाक्यं प्रजहाराथ फाल्गुनः॥१२॥
इन्द्रकीलः माहेन्द्रमणिमयः पर्वतः ॥१२॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः
।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्॥१३॥
समम् एककालम् ॥१३॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः
।
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा॥१४॥
शैलसंहनेन शैलवददृढे ॥१४॥
यथाशनेर्विनिर्घोषो वज्रस्येव च पर्वते
।
तथा तयोः सन्निपातः शरयोरभवत्तदा॥१५॥
अशनिर्मेघजं वज्रम् । वज्रम् इन्द्रप्रहरणम् । संनिपातो योगः ॥१५॥
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव
।
ममार राक्षसं रूपं भूयः कृत्वा बिभीषणम्॥१६॥
स दानवः राक्षसमिव ॥१६॥
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्
।
किरातवेशसञ्च्छन्नं स्त्रीसहायममित्रहा॥१७॥
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव
।
को भवानटते शून्ये वने स्त्रीगणसंवृतः॥१८॥
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ
।
किमर्थं च त्वया विद्धो वराहो मत्परिग्रहः॥१९॥
मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः
।
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे॥२०॥
अभिपन्नः परिगृहीतः । कामात् यदृच्छातः । परिभवात् ममाभिभवाय ॥२०॥
न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि
।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम्॥२१॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव
।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्॥२२॥
न मत्कृते त्वया वीर भीः कार्या वनमन्तिकात्
।
इयं भूमिः सदास्माकमुचिता वसतां वने॥२३॥
मत्कृते मन्निमित्तम् । वनमन्तिकात् वनस्य समीपे ॥२३॥
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः
।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन॥२४॥
प्ररोचितः स्वीकृतः ॥२४॥
भवांस्तु कृष्णवर्त्माभः सुकुमारः सुखोचितः
।
कथं शून्यमिमं देशमेकाकी विचरिष्यति॥२५॥
अर्जुन उवाच।
गाण्डीवमाश्रयं कृत्वा नाराचांश्चाग्निसन्निभान्
।
निवसामि महारण्ये द्वितीय इव पावकिः॥२६॥
पावकिः स्वामी कार्तिकेयः ॥२६॥
एष चापि मया जन्तुर्मृगरूपं समाश्रितः
।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः॥२७॥
किरात उवाच।
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि
।
बाणैरभिहतः शेते नीतश्च यमसादनम्॥२८॥
ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः
।
ममैव च प्रहारेण जीविताद्व्यपरोपितः॥२९॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः
।
अवलिप्तोऽसि मन्दात्मन्न मे जीवन्विमोक्षसे॥३०॥
दोषान्मृगयाधर्मातिक्रमरूपान् ॥३०॥
स्थिरो भवस्व मोक्ष्यामि सायकानशीनिव
।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्॥३१॥
स्थिरः सन् भवस्व प्राप्नुहि ॥३१॥
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा
।
रोषमाहारयामास ताडयामास चेषुभिः॥३२॥
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्
।
भूयो भूय इति प्राह मन्दमन्देत्युवाच ह॥३३॥
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः
।
इत्युक्तो बाणवर्षं स मुमोच सहसार्जुनः॥३४॥
नाराचान् शरजातिभेदान् ॥३४॥
ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः
।
शरैराशीविषाकारैस्ततक्षाते परस्परम्॥३५॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत्
।
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः॥३६॥
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक्
।
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः॥३७॥
स दृष्ट्वा बाणवर्षं तु मोघीभूतं धनञ्जयः
।
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्॥३८॥
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः
।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः॥३९॥
अहोऽयमिति संधिरार्षः ॥३९॥
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः
।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः॥४०॥
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः
।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्॥४१॥
सहितुं सोढुम् ऋते विना ॥४१॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः
।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥४२॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः
।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः॥४३॥
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः
।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः॥४४॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फाल्गुनस्तदा
।
भीश्चैनभाविशत्तीव्रा तं दृष्ट्वा शरसंक्षयम्॥४५॥
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्
।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे॥४६॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः
।
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः॥४७॥
हत्वा चैनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम्
।
नयामि दण्डधारस्य यमस्य सदनं प्रति॥४८॥
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च
।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः॥४९॥
सम्प्रयुद्धो धनुष्कोट्या कौन्तेयः परवीरहा
।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः॥५०॥
संप्रयुद्धः सम्यक् प्रयुद्धं प्रहृतं प्रहारो यस्य सः ॥५०॥
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत
।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्॥५१॥
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि
।
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः॥५२॥
असक्तम् अकुण्ठितम् ॥५२॥
तस्य मूर्धानमासाद्य पफालासिवरो हि सः
।
ततो वृक्षैः शिलाभिश्च योधयामास फाल्गुनः॥५३॥
पफाल विशीर्णः ॥५३॥
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः
।
किरातरूपी भगवांस्ततः पार्थों महाबलः॥५४॥
मुष्टिभिर्वज्रसङ्काशैर्धूममुत्पादयन्मुखे
।
प्रजहार दुराधर्षे किरातसमरूपिणि॥५५॥
धूमं क्रोधावेशेन ॥५५॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः
।
किरातरूपी भगवानर्दयामास फाल्गुनम्॥५६॥
ततश्चटचटाशब्दः सुघोरः समपद्यत
।
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः॥५७॥
सुमुहूर्तं तु तद्युद्धमभवल्लोमहर्षणम्
।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव॥५८॥
जघानाथ ततो जिष्णुः किरातमुरसा बली
।
पाण्डवं च विचेष्टं तं किरातोऽप्यहनद्बली॥५९॥
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा
।
समजायत गात्रेषु पावकोऽङ्गारधूमवान्॥६०॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्
।
तेजसा व्यक्रमद्रोषाच्चेतस्तस्य विमोहयन्॥६१॥
पीड्य निपीड्य ॥६१॥
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ
।
फाल्गुनो गात्रसंरुद्धो देवदेवेन भारत॥६२॥
गात्रेषु संरुद्धश्चलनहीनः ॥६२॥
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महात्मना
।
पपात भूम्यां निश्चेष्टो गतसत्त्व इवाभवत॥६३॥
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः
।
रुधिरेणाश्रुताङ्गस्तु पाण्डवो भृशदुःखितः॥६४॥
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्
।
मृन्मयं स्थाण्डिलं कृत्वा माल्योनापूजयद्भवम्॥६५॥
तञ्च माल्यं तदा पार्थः किरातशिरसि स्थितम्
।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः॥६६॥
प्रकृतिं स्वास्थ्यम् ॥६६॥
पपात पादयोस्तस्य ततः प्रीतोभवद्भवः
।
उवाच चैनं वचसा मेघगम्भीरगीर्हरः
।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहितम्॥६७॥
भव उवाच।
भो भो फाल्गुन तुष्टोऽस्मि कर्मणाऽप्रतिमेन ते
।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः॥६८॥
समं तेजश्च वीर्यं च ममाद्य तव चानघ
।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ॥६९॥
ददामि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान्
।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः॥७०॥
चक्षुः दिव्यज्ञनम्॥७०॥
प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्
।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात्॥७१॥
वैशंपायन उवाच।
ततो देवं महादेवं गिरिशं शूलपाणिनम्
।
ददर्श फाल्गुनस्तत्र सह देव्या महाद्युतिम्॥७२॥
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च
।
प्रसादयामास हरं पार्थः परपुरञ्जयः॥७३॥
अर्जुन उवाच।
कपर्दिन्सर्वदेवेश भगनेत्रनिपातन
।
देवदेव महादेव नीलग्रीव जटाधर॥७४॥
कपर्दिन्नित्यादि नामानि शिवसहस्त्रनामव्याख्यायां व्याख्यास्यन्ते ॥७४॥
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्
।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत्॥७५॥
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः
।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे॥७६॥
दक्षयज्ञविनाशाय हरिरुद्राय वै नमः
।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये॥७७॥
मीढुषे वर्षकाय ॥७७॥
पिनाकगोप्त्रे सूर्याय मार्जालीयाय वेधसे
।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर॥७८॥
मार्जालीयाय किराताय शुद्धदेहाय वा । ‘मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने’ इति विश्वः ॥७८॥
गणेशं जगतः शम्भुं लोककारणकारणम्
।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम्॥७९॥
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर
।
भगवन्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम्॥८०॥
दयितं तव देवेश तापसालयमुत्तमम्
।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम्॥८१॥
न मे स्यादपराधोऽयं महादेवातिसाहसात्
।
कृतो मयायमज्ञानाद्विमर्दों यस्त्वया सह
।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शङ्कर॥८२॥
वैशंपायन उवाच।
तमुवाच महातेजाः प्रहस्य वृषभध्वजः
।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फाल्गुनम्॥८३॥
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः
।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः॥८४॥
इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि महादेवस्तवे एकोनचत्वारिंशोऽध्यायः॥३९॥
देवदेव उवाच।
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्
।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून्॥१॥
नरस्त्वमिति ॥१॥
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे
।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत्॥२॥
शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम्
।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो॥३॥
तदेतदेव गाण्डीवं तव पार्थ करोचितम्
।
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम॥४॥
त्वया पुरुष इति पाठे समम् इत्यध्याहारः ॥४॥
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ
।
भविष्यति शरीरं च नीरुजं कुरुनन्दन॥५॥
प्रीतिमानस्मि ते पार्थ भवान्सत्यपराक्रमः
।
गृहाण वरमस्मत्तः काङ्क्षितं पुरुषोत्तम॥६॥
न त्वया पुरुषः कश्चित्पुमान्मर्त्येषु मानद
।
दिवि वा वर्तते क्षत्रं त्वत्प्रधानमरिन्दम॥७॥
त्वत्प्रधानं त्वमेव श्रेष्ठो यस्मिन् क्षत्रे ॥७॥
अर्जुन उवाच।
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज
।
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो॥८॥
कामं वरम् ॥८॥
यत्तद्ब्रह्माशरो नाम रौद्रं भीमपराक्रमम्
।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्॥९॥
कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः
।
त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि॥१०॥
दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा
।
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान्॥११॥
यस्मिञ्च्छूलसहस्त्राणि गदाश्चोग्रप्रदर्शनाः
।
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिते॥१२॥
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च
।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा॥१३॥
एष मे प्रथमः कामो भगवन्भगनेत्रहन्
।
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा॥१४॥
विनिर्वृत्तः विषेशेण कृतकृत्यः ॥१४॥
भव उवाच।
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो
।
संमर्थो धारणे मोक्षे संहारे चासि पाण्डव॥१५॥
संहारे निवर्तने ॥१५॥
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट्
।
वरुणोऽप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः॥१६॥
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्
।
जगद्विनाशयेत्सर्वमल्पतेजसि पातितम्॥१७॥
अवध्यो नाम नास्त्यत्र त्रैलोक्ये सचराचरे
।
मनसा चक्षुषा वाचा धनुषा च निपातयेत्॥१८॥
मनसा संकल्पमात्रेण निपातयेत् शत्रुं धनुषेति बाणप्रयोगेण ॥१८॥
वैशंपायन उवाच।
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः
।
उपसङ्गम्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत्॥१९॥
अधीष्व अध्यापय ॥१९॥
ततस्त्वध्यापयामास सरहस्यनिवर्तनम्
।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्॥२०॥
उपतस्थे च तत्पार्थं यथा त्र्यक्षमुमापतिम्
।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा॥२१॥
उपतस्थे कर्मव्यतिहारे तङ् । पार्थः अस्त्रं प्रत्युपनत एवमस्त्रं पार्थं प्रतीत्यर्थः ॥२१॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
।
ससागरवनोद्देशा सग्रामनगराकरा॥२२॥
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः
।
तस्मिन्मुहूर्ते संप्राप्ते निर्घाताश्चापतन्मु्हुः॥२३॥
निर्धाता उत्पाताः ॥२३॥
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः
।
मूर्तिमद्वै स्थितं पार्श्वे ददृशुर्देवदानवाः॥२४॥
स्पष्टस्य त्र्यम्बकेणाथ फाल्गुनस्यामितौजसः
।
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमीयिवत्॥२५॥
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदार्जुनः
।
प्रणम्य शिरसा राजन्प्राञ्जलिर्देवमैक्षत॥२६॥
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापातिः शिवः
।
घनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम्॥२७॥
वशी वश इच्छा तद्वान् तज्जयीत्यर्थः ॥२७॥
ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम्
।
विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि शिवप्रस्थाने चत्त्वारिंशोऽध्यायः॥४०॥
वैशंपायन उवाच।
तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः
।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान्॥१॥
तस्येति । अस्तं स्वस्थानम् अदर्शनं च ॥१॥
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा
।
मया साक्षान्महादेवो दृष्ट इत्येव भारत॥२॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः
।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना॥३॥
कृतार्थं चावगच्छामि परमात्मानमाहवे
।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्॥४॥
परम् अत्यन्तं कृतार्थं कृतकृत्यं निर्वृतं निष्पन्नम् ॥४॥
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः
।
ततो वैदूर्यवर्णाभो भासयन्सर्वतो दिशः
।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः॥५॥
वैदूर्यं रत्नविशेषः यादांसि जलजन्तवस्तेषां गणः ॥५॥
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः
।
वरुणो यादसां भर्ता वशी तं देशमागमत्॥६॥
नागैः सर्पैः ॥६॥
अथ जाम्बूनदवपुर्विमानेन महार्चिषा
।
कुवेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः॥७॥
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः
।
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः॥८॥
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान्
।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः॥९॥
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्
।
वैवस्वतो धर्मराजो विमानेनावमासयन्॥१०॥
त्रींल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्
।
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते॥११॥
ते भानुमन्ति चित्राणि शिखराणि महागिरेः
।
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम्॥१२॥
भानुमन्ति दीप्तिमन्ति ॥१२॥
ततो मुहूर्ताद्भगवानैरावतशिरोगतः
।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः॥१३॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
।
शुशुभे तारकाराजः सितमभ्रमिव स्थितः॥१४॥
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः
।
शृङ्गं गिरेः समासाद्य तस्थो सूर्य इवोदितः॥१५॥
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्
।
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः॥१६॥
अर्जुनार्जुन पश्यास्मांल्लोकपालान्समागतान्
।
दृष्टिं ते वितरामोद्य भवानर्हति दर्शनम्॥१७॥
वितरामः यच्छामः ॥१७॥
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः
।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः॥१८॥
त्वया च वसुसंभूतो महावीर्यः पितामहः
।
भीष्मः परमधर्मात्मा संसाध्यश्च रणेऽनघ॥१९॥
संसाध्यः जेतव्यः ॥१९॥
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्
।
दानवाश्च महावीर्या ये मनुष्यत्वमागताः॥२०॥
निवातकवचाञ्चैव दानवाः कुरुनन्दन
।
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः॥२१॥
मम पितुः सूर्यस्य ॥२१॥
कर्णश्च सुमहावीर्यस्त्वया वध्यो धनञ्जय
।
अंशाश्च क्षितिसम्प्राप्ता देवदानवरक्षसाम्॥२२॥
त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम्
।
गतिं प्राप्स्यन्ति कौन्तेय यथा स्वामरिकर्षण॥२३॥
अक्षया तव कीर्तिश्च लोके स्थास्यति फाल्गुन
।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे॥२४॥
मृधे संग्रामे ॥२४॥
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह
।
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्
।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि॥२५॥
लघ्वी भारशून्या ॥२५॥
वैशंपायन उवाच।
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः
।
समन्त्रं सोपचारं च समोक्षविनिवर्तनम्॥२६॥
सोपचारं सेतिकर्तव्यताकम् ॥२६॥
ततो जलधरश्यामो वरुणो यादसां पतिः
।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः॥२७॥
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः
।
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वर॥२८॥
मया समुद्यतान्पाशान्वारुणाननिवारितान्
।
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनम्॥२९॥
एभिस्तदा मया वीर सङ्ग्रामे तारकामये
।
दैतेयानां सहस्राणि संयतानि महात्मनाम्॥३०॥
संयतानि बद्धानि ॥३०॥
तस्मादिमान्महासत्त्व मत्प्रसादसमुत्थितान्
।
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः॥३१॥
अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि
।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः॥३२॥
वैशंपायन उवाच।
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत
।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च॥३३॥
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाबल
।
त्वया सह समागम्य अजितेन तथैव च॥३४॥
अजितेन कृष्णेन यथा तथैव प्रीतोऽस्मि ॥३४॥
सव्यसाचिन्महाबाहो पूर्वदेव सतातन
।
सहास्माभिर्भवाञ्च्छ्रान्तः पुराकल्पेषु नित्यशः॥३५॥
पूर्वदेव नरनारायणसख ॥३५॥
दर्शनात्ते त्विदं दिव्यं प्रदिशामि नरर्षभ
।
अमनुष्यान्महाबाहो दुर्जयानपि जेष्यसि॥३६॥
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम्
।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि॥३७॥
तदिदं प्रतिगृह्णीष्व अन्तर्धानं प्रियं मम
।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत्॥३८॥
महात्मना शङ्करेण त्रिपुरं निहतं यदा
।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः॥३९॥
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम
।
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव॥४०॥
उद्यतम् उपस्थितम् ॥४०॥
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः
।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः॥४१॥
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्
।
सान्त्वयञ्च्छ्लक्ष्णया वाचा मेघदुन्दुभिनिःस्वनः॥४२॥
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः
।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः॥४३॥
देवगतिं देवानां परायणत्वम् ॥४३॥
देवकार्यं तु सुमहत्त्वया कार्यमरिन्दम
।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते॥४४॥
रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम्
।
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव॥४५॥
आगन्ता आयास्यति ॥४५॥
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि
।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः॥४६॥
ततोऽर्जुनो महातेजा लोकपालान्समागतान्
।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि॥४७॥
ततः प्रतिययुर्देवाः प्रतिमान्य धनञ्जयम्
।
यथागतेन विबुधाः सर्वे काममनोजवाः॥४८॥
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः
।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम्॥४९॥
इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि देवप्रस्थाने एकचत्त्वारिंशोऽध्यायः॥४१॥