अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

कैरातपर्व

अष्टत्रिंऽध्यायः

जनमेजय उवाच। भगवञ्च्छ्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्॥१॥

भगवन्निति ॥१॥

यथा च पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्॥२॥

किं च तेन कृतं तत्र वसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः॥३॥

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थह॥४॥

अत्यद्भुततमं ब्रह्मन्रोमहर्षणमर्जुनः ।
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल॥५॥

पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ।
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्॥६॥

दैन्यहर्षातिविस्मयात् दैन्यं नाशभयात् । हर्षो महादेवप्रतिभटत्वात् । विस्मयः तत्प्रसादेनालौकिकसामर्थ्यलाभात् ॥६॥

शूराणामपि पार्थानां हृदयानि चकम्पिरे ।
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद॥७॥

न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय॥८॥

वैशंपायन उवाच। कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां पौरवशार्दूल महतीमद्भुतोऽपमाम्॥९॥

गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण सहानघ ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम्॥१०॥

युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम्॥११॥

दिव्यं तद्धनुरादाय खड्गं च कनकत्सरुम् ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये॥१२॥

कनकत्सरुं स्वर्णमुष्टिम् ॥१२॥

दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः॥१३॥

ऐन्द्रिः अर्जुनः ॥१३॥

त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
वनं कण्टकितं घोरमेक एवान्वपद्यत॥१४॥

कण्टकितं कण्टकाक्रान्तम् ॥१४॥

नानापुष्पफलोपेतं नानापक्षिनिषेवितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥१५॥

ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि॥१६॥

पुष्पवर्षं चानुमहन्निपपात महीतले ।
मेघजालं च विततं छादयामास सर्वतः॥१७॥

सोऽतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा॥१८॥

तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् ।
नदीश्च विपुलावर्ता वैदूर्यविमलप्रभाः॥१९॥

वल्गु मधुरम् ॥१९॥

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः॥२०॥

मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत्॥२१॥

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः॥२२॥

दर्भचीरं निवस्याथ दण्डाजिनविभूषितः ।
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्॥२३॥

दर्भचीर तृणमयं वासः । निवस्य परिधाय । समुपयुक्तवान् भुक्तवान् ॥२३॥

पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ।
द्विगुणेन हि कालेन द्वितीयं मासमत्ययात्॥२४॥

द्विगुणेन षड्रात्रेण अत्ययात् अतिवाहितवान् ॥२४॥

तृतीयमपि मासं स पक्षेणाहारमाचरन् ।
चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः॥२५॥

वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
ऊर्ध्वबाहुर्निरालम्बः पदाङ्गुष्ठाग्रधिष्ठितः॥२६॥

निरालम्बो निराश्रयः ॥२६॥

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः॥२७॥

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
निवेद‌यिषवः पार्थं तपस्युग्रे समास्थितम्॥२८॥

तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत् ।
एष पार्थों महातेजा हिमवत्पृष्ठमास्थितः॥२९॥

उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ।
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्॥३०॥

धूमाययन् धूमवतीरिव कुर्वन् ॥३०॥

सन्तापयति नः सर्वानसौ साधु निवार्यताम् ।
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम्॥३१॥

उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ।
महादेव उवाच। न वो विषादः कर्तव्यः फाल्गुनं प्रति सर्वशः॥३२॥

शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।
अहमस्य विजानामि सङ्कल्पं मनास स्थितम्॥३३॥

संकल्पं मनोरथम् ॥३३॥

नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य तथायुषः ।
यत्तस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै॥३४॥

वैशंपायन उवाच। तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः ।
प्रहृष्टमनसो जग्मुर्यथा स्वान्पुनरालयान्॥३५॥

इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि मुनिशङ्करसंवादे अष्टत्रिंशोऽध्यायः॥३०॥
एकोनचत्वारिंशोऽध्यायः

वैशंपायन उवाच। गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः॥१॥

गतेष्विति ॥१॥

कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम् ।
विम्राजमानो विपुलो गिरिर्मरुरिवापरः॥२॥

श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
निष्पपात महावेगो दहनो देहवानिव॥३॥

देव्या सहोमया श्रीमान्समानव्रतवेषया ।
नानावेषधरैर्हृष्टैर्भूतेरनुगतस्तदा॥४॥

भूतैः प्रमथाख्यैः स्वपार्षदैः ॥४॥

किरातवेषसञ्च्छन्नः स्त्रीभिश्चापि सहस्रशः ।
अशोभत तदा राजन्स देशोऽतीव भारत॥५॥

क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।
नादः प्रस्त्रवणानां च पक्षिणां चाप्युपारमत्॥६॥

स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः ।
मूकं नाम दनोः पुत्रं ददर्शाद्भुतदर्शनम्॥७॥

वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् ।
हन्तुं परं दीप्यमानं तमुवाचाथ फाल्गुनः॥८॥

अर्जुनं हन्तुं तर्कयन्तम् इच्छन्तम् । क्रोधेन दीप्यमानमिव ॥८॥

गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्॥९॥

यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।
तस्मात्त्वां पूर्वमेवाहं नेताऽद्य यमसादनम्॥१०॥

नेता नेष्यामि ॥१०॥

दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं हृढधन्विनम् ।
किरातरूपी सहसा वारयामास शङ्करः॥११॥

मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रभः ।
अनादृत्य च तद्वाक्यं प्रजहाराथ फाल्गुनः॥१२॥

इन्द्रकीलः माहेन्द्रमणिमयः पर्वतः ॥१२॥

किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्॥१३॥

समम् एककालम् ॥१३॥

तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा॥१४॥

शैलसंहनेन शैलवददृढे ॥१४॥

यथाशनेर्विनिर्घोषो वज्रस्येव च पर्वते ।
तथा तयोः सन्निपातः शरयोरभवत्तदा॥१५॥

अशनिर्मेघजं वज्रम् । वज्रम् इन्द्रप्रहरणम् । संनिपातो योगः ॥१५॥

स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।
ममार राक्षसं रूपं भूयः कृत्वा बिभीषणम्॥१६॥

स दानवः राक्षसमिव ॥१६॥

स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।
किरातवेशसञ्च्छन्नं स्त्रीसहायममित्रहा॥१७॥

तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ।
को भवानटते शून्ये वने स्त्रीगणसंवृतः॥१८॥

न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ।
किमर्थं च त्वया विद्धो वराहो मत्परिग्रहः॥१९॥

मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ।
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे॥२०॥

अभिपन्नः परिगृहीतः । कामात् यदृच्छातः । परिभवात् ममाभिभवाय ॥२०॥

न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम्॥२१॥

इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्॥२२॥

न मत्कृते त्वया वीर भीः कार्या वनमन्तिकात् ।
इयं भूमिः सदास्माकमुचिता वसतां वने॥२३॥

मत्कृते मन्निमित्तम् । वनमन्तिकात् वनस्य समीपे ॥२३॥

त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः ।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन॥२४॥

प्ररोचितः स्वीकृतः ॥२४॥

भवांस्तु कृष्णवर्त्माभः सुकुमारः सुखोचितः ।
कथं शून्यमिमं देशमेकाकी विचरिष्यति॥२५॥

अर्जुन उवाच। गाण्डीवमाश्रयं कृत्वा नाराचांश्चाग्निसन्निभान् ।
निवसामि महारण्ये द्वितीय इव पावकिः॥२६॥

पावकिः स्वामी कार्तिकेयः ॥२६॥

एष चापि मया जन्तुर्मृगरूपं समाश्रितः ।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः॥२७॥

किरात उवाच। मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि ।
बाणैरभिहतः शेते नीतश्च यमसादनम्॥२८॥

ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः ।
ममैव च प्रहारेण जीविताद्व्यपरोपितः॥२९॥

दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।
अवलिप्तोऽसि मन्दात्मन्न मे जीवन्विमोक्षसे॥३०॥

दोषान्मृगयाधर्मातिक्रमरूपान् ॥३०॥

स्थिरो भवस्व मोक्ष्यामि सायकानशीनिव ।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्॥३१॥

स्थिरः सन् भवस्व प्राप्नुहि ॥३१॥

तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा ।
रोषमाहारयामास ताडयामास चेषुभिः॥३२॥

ततो हृष्टेन मनसा प्रतिजग्राह सायकान् ।
भूयो भूय इति प्राह मन्दमन्देत्युवाच ह॥३३॥

प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः ।
इत्युक्तो बाणवर्षं स मुमोच सहसार्जुनः॥३४॥

नाराचान् शरजातिभेदान् ॥३४॥

ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः ।
शरैराशीविषाकारैस्ततक्षाते परस्परम्॥३५॥

ततोऽर्जुनः शरवर्षं किराते समवासृजत् ।
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः॥३६॥

मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् ।
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः॥३७॥

स दृष्ट्वा बाणवर्षं तु मोघीभूतं धनञ्जयः ।
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्॥३८॥

अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः ।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः॥३९॥

अहोऽयमिति संधिरार्षः ॥३९॥

कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः ।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः॥४०॥

न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः ।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्॥४१॥

सहितुं सोढुम् ऋते विना ॥४१॥

देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः ।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥४२॥

ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः॥४३॥

तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः ।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः॥४४॥

क्षणेन क्षीणबाणोऽथ संवृत्तः फाल्गुनस्तदा ।
भीश्चैनभाविशत्तीव्रा तं दृष्ट्वा शरसंक्षयम्॥४५॥

चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् ।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे॥४६॥

किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः॥४७॥

हत्वा चैनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् ।
नयामि दण्डधारस्य यमस्य सदनं प्रति॥४८॥

प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च ।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः॥४९॥

सम्प्रयुद्धो धनुष्कोट्या कौन्तेयः परवीरहा ।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः॥५०॥

संप्रयुद्धः सम्यक् प्रयुद्धं प्रहृतं प्रहारो यस्य सः ॥५०॥

ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत ।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्॥५१॥

तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि ।
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः॥५२॥

असक्तम् अकुण्ठितम् ॥५२॥

तस्य मूर्धानमासाद्य पफालासिवरो हि सः ।
ततो वृक्षैः शिलाभिश्च योधयामास फाल्गुनः॥५३॥

पफाल विशीर्णः ॥५३॥

तदा वृक्षान्महाकायः प्रत्यगृह्णा‌दथो शिलाः ।
किरातरूपी भगवांस्ततः पार्थों महाबलः॥५४॥

मुष्टिभिर्वज्रसङ्काशैर्धूममुत्पादयन्मुखे ।
प्रजहार दुराधर्षे किरातसमरूपिणि॥५५॥

धूमं क्रोधावेशेन ॥५५॥

ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।
किरातरूपी भगवानर्दयामास फाल्गुनम्॥५६॥

ततश्चटचटाशब्दः सुघोरः समपद्यत ।
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः॥५७॥

सुमुहूर्तं तु तद्युद्धमभवल्लोमहर्षणम् ।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव॥५८॥

जघानाथ ततो जिष्णुः किरातमुरसा बली ।
पाण्डवं च विचेष्टं तं किरातोऽप्यहनद्बली॥५९॥

तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा ।
समजायत गात्रेषु पावकोऽङ्गारधूमवान्॥६०॥

तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।
तेजसा व्यक्रमद्रोषाच्चेतस्तस्य विमोहयन्॥६१॥

पीड्य निपीड्य ॥६१॥

ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।
फाल्गुनो गात्रसंरुद्धो देवदेवेन भारत॥६२॥

गात्रेषु संरुद्धश्चलनहीनः ॥६२॥

निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महात्मना ।
पपात भूम्यां निश्चेष्टो गतसत्त्व इवाभवत॥६३॥

स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः ।
रुधिरेणाश्रुताङ्गस्तु पाण्डवो भृशदुःखितः॥६४॥

शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् ।
मृन्मयं स्थाण्डिलं कृत्वा माल्योनापूजयद्भवम्॥६५॥

तञ्च माल्यं तदा पार्थः किरातशिरसि स्थितम् ।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः॥६६॥

प्रकृतिं स्वास्थ्यम् ॥६६॥

पपात पादयोस्तस्य ततः प्रीतोभवद्भवः ।
उवाच चैनं वचसा मेघगम्भीरगीर्हरः ।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहितम्॥६७॥

भव उवाच। भो भो फाल्गुन तुष्टोऽस्मि कर्मणाऽप्रतिमेन ते ।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः॥६८॥

समं तेजश्च वीर्यं च ममाद्य तव चानघ ।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ॥६९॥

ददामि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् ।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः॥७०॥

चक्षुः दिव्यज्ञनम्॥७०॥

प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम् ।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात्॥७१॥

वैशंपायन उवाच। ततो देवं महादेवं गिरिशं शूलपाणिनम् ।
ददर्श फाल्गुनस्तत्र सह देव्या महाद्युतिम्॥७२॥

स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च ।
प्रसादयामास हरं पार्थः परपुरञ्जयः॥७३॥

अर्जुन उवाच। कपर्दिन्सर्वदेवेश भगनेत्रनिपातन ।
देवदेव महादेव नीलग्रीव जटाधर॥७४॥

कपर्दिन्नित्यादि नामानि शिवसहस्त्रनामव्याख्यायां व्याख्यास्यन्ते ॥७४॥

कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् ।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत्॥७५॥

अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे॥७६॥

दक्षयज्ञविनाशाय हरिरुद्राय वै नमः ।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये॥७७॥

मीढुषे वर्षकाय ॥७७॥

पिनाकगोप्त्रे सूर्याय मार्जालीयाय वेधसे ।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर॥७८॥

मार्जालीयाय किराताय शुद्धदेहाय वा । ‘मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने’ इति विश्वः ॥७८॥

गणेशं जगतः शम्भुं लोककारणकारणम् ।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम्॥७९॥

व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ।
भगवन्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम्॥८०॥

दयितं तव देवेश तापसालयमुत्तमम् ।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम्॥८१॥

न मे स्यादपराधोऽयं महादेवातिसाहसात् ।
कृतो मयायमज्ञानाद्विमर्दों यस्त्वया सह ।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शङ्कर॥८२॥

वैशंपायन उवाच। तमुवाच महातेजाः प्रहस्य वृषभध्वजः ।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फाल्गुनम्॥८३॥

परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः ।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः॥८४॥

इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि महादेवस्तवे एकोनचत्वारिंशोऽध्यायः॥३९॥
चत्त्वारिंशोऽध्यायः

देवदेव उवाच। नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून्॥१॥

नरस्त्वमिति ॥१॥

त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत्॥२॥

शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम् ।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो॥३॥

तदेतदेव गाण्डीवं तव पार्थ करोचितम् ।
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम॥४॥

त्वया पुरुष इति पाठे समम् इत्यध्याहारः ॥४॥

तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ।
भविष्यति शरीरं च नीरुजं कुरुनन्दन॥५॥

प्रीतिमानस्मि ते पार्थ भवान्सत्यपराक्रमः ।
गृहाण वरमस्मत्तः काङ्क्षितं पुरुषोत्तम॥६॥

न त्वया पुरुषः कश्चित्पुमान्मर्त्येषु मानद ।
दिवि वा वर्तते क्षत्रं त्वत्प्रधानमरिन्दम॥७॥

त्वत्प्रधानं त्वमेव श्रेष्ठो यस्मिन् क्षत्रे ॥७॥

अर्जुन उवाच। भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो॥८॥

कामं वरम् ॥८॥

यत्तद्ब्रह्माशरो नाम रौद्रं भीमपराक्रमम् ।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्॥९॥

कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः ।
त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि॥१०॥

दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा ।
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान्॥११॥

यस्मिञ्च्छूलसहस्त्राणि गदाश्चोग्रप्रदर्शनाः ।
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिते॥१२॥

युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा॥१३॥

एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा॥१४॥

विनिर्वृत्तः विषेशेण कृतकृत्यः ॥१४॥

भव उवाच। ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो ।
संमर्थो धारणे मोक्षे संहारे चासि पाण्डव॥१५॥

संहारे निवर्तने ॥१५॥

नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् ।
वरुणोऽप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः॥१६॥

न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।
जगद्विनाशयेत्सर्वमल्पतेजसि पातितम्॥१७॥

अवध्यो नाम नास्त्यत्र त्रैलोक्ये सचराचरे ।
मनसा चक्षुषा वाचा धनुषा च निपातयेत्॥१८॥

मनसा संकल्पमात्रेण निपातयेत् शत्रुं धनुषेति बाणप्रयोगेण ॥१८॥

वैशंपायन उवाच। तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।
उपसङ्गम्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत्॥१९॥

अधीष्व अध्यापय ॥१९॥

ततस्त्वध्यापयामास सरहस्यनिवर्तनम् ।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्॥२०॥

उपतस्थे च तत्पार्थं यथा त्र्यक्षमुमापतिम् ।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा॥२१॥

उपतस्थे कर्मव्यतिहारे तङ् । पार्थः अस्त्रं प्रत्युपनत एवमस्त्रं पार्थं प्रतीत्यर्थः ॥२१॥

ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
ससागरवनोद्देशा सग्रामनगराकरा॥२२॥

शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।
तस्मिन्मुहूर्ते संप्राप्ते निर्घाताश्चापतन्मु्हुः॥२३॥

निर्धाता उत्पाताः ॥२३॥

अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः ।
मूर्तिमद्वै स्थितं पार्श्वे ददृशुर्देवदानवाः॥२४॥

स्पष्टस्य त्र्यम्बकेणाथ फाल्गुनस्यामितौजसः ।
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमीयिवत्॥२५॥

स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदार्जुनः ।
प्रणम्य शिरसा राजन्प्राञ्जलिर्देवमैक्षत॥२६॥

ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापातिः शिवः ।
घनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम्॥२७॥

वशी वश इच्छा तद्वान् तज्जयीत्यर्थः ॥२७॥

ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम् ।
विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि शिवप्रस्थाने चत्त्वारिंशोऽध्यायः॥४०॥
एकचत्त्वारिंशोऽध्यायः

वैशंपायन उवाच। तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः ।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान्॥१॥

तस्येति । अस्तं स्वस्थानम् अदर्शनं च ॥१॥

ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा ।
मया साक्षान्महादेवो दृष्ट इत्येव भारत॥२॥

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः ।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना॥३॥

कृतार्थं चावगच्छामि परमात्मानमाहवे ।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्॥४॥

परम् अत्यन्तं कृतार्थं कृतकृत्यं निर्वृतं निष्पन्नम् ॥४॥

इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः ।
ततो वैदूर्यवर्णाभो भासयन्सर्वतो दिशः ।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः॥५॥

वैदूर्यं रत्नविशेषः यादांसि जलजन्तवस्तेषां गणः ॥५॥

नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः ।
वरुणो यादसां भर्ता वशी तं देशमागमत्॥६॥

नागैः सर्पैः ॥६॥

अथ जाम्बूनदवपुर्विमानेन महार्चिषा ।
कुवेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः॥७॥

विद्योतयन्निवाकाशमद्भुतोपमदर्शनः ।
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः॥८॥

तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् ।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः॥९॥

दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् ।
वैवस्वतो धर्मराजो विमानेनावमासयन्॥१०॥

त्रींल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् ।
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते॥११॥

ते भानुमन्ति चित्राणि शिखराणि महागिरेः ।
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम्॥१२॥

भानुमन्ति दीप्तिमन्ति ॥१२॥

ततो मुहूर्ताद्भगवानैरावतशिरोगतः ।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः॥१३॥

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे तारकाराजः सितमभ्रमिव स्थितः॥१४॥

संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः ।
शृङ्गं गिरेः समासाद्य तस्थो सूर्य इवोदितः॥१५॥

अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् ।
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः॥१६॥

अर्जुनार्जुन पश्यास्मांल्लोकपालान्समागतान् ।
दृष्टिं ते वितरामोद्य भवानर्हति दर्शनम्॥१७॥

वितरामः यच्छामः ॥१७॥

पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः ।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः॥१८॥

त्वया च वसुसंभूतो महावीर्यः पितामहः ।
भीष्मः परमधर्मात्मा संसाध्यश्च रणेऽनघ॥१९॥

संसाध्यः जेतव्यः ॥१९॥

क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् ।
दानवाश्च महावीर्या ये मनुष्यत्वमागताः॥२०॥

निवातकवचाञ्चैव दानवाः कुरुनन्दन ।
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः॥२१॥

मम पितुः सूर्यस्य ॥२१॥

कर्णश्च सुमहावीर्यस्त्वया वध्यो धनञ्जय ।
अंशाश्च क्षितिसम्प्राप्ता देवदानवरक्षसाम्॥२२॥

त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ।
गतिं प्राप्स्यन्ति कौन्तेय यथा स्वामरिकर्षण॥२३॥

अक्षया तव कीर्तिश्च लोके स्थास्यति फाल्गुन ।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे॥२४॥

मृधे संग्रामे ॥२४॥

लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ।
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् ।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि॥२५॥

लघ्वी भारशून्या ॥२५॥

वैशंपायन उवाच। प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः ।
समन्त्रं सोपचारं च समोक्षविनिवर्तनम्॥२६॥

सोपचारं सेतिकर्तव्यताकम् ॥२६॥

ततो जलधरश्यामो वरुणो यादसां पतिः ।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः॥२७॥

पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः ।
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वर॥२८॥

मया समुद्यतान्पाशान्वारुणाननिवारितान् ।
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनम्॥२९॥

एभिस्तदा मया वीर सङ्ग्रामे तारकामये ।
दैतेयानां सहस्राणि संयतानि महात्मनाम्॥३०॥

संयतानि बद्धानि ॥३०॥

तस्मादिमान्महासत्त्व मत्प्रसादसमुत्थितान् ।
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः॥३१॥

अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि ।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः॥३२॥

वैशंपायन उवाच। ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत ।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च॥३३॥

प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाबल ।
त्वया सह समागम्य अजितेन तथैव च॥३४॥

अजितेन कृष्णेन यथा तथैव प्रीतोऽस्मि ॥३४॥

सव्यसाचिन्महाबाहो पूर्वदेव सतातन ।
सहास्माभिर्भवाञ्च्छ्रान्तः पुराकल्पेषु नित्यशः॥३५॥

पूर्वदेव नरनारायणसख ॥३५॥

दर्शनात्ते त्विदं दिव्यं प्रदिशामि नरर्षभ ।
अमनुष्यान्महाबाहो दुर्जयानपि जेष्यसि॥३६॥

मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम् ।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि॥३७॥

तदिदं प्रतिगृह्णीष्व अन्तर्धानं प्रियं मम ।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत्॥३८॥

महात्मना शङ्करेण त्रिपुरं निहतं यदा ।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः॥३९॥

त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम ।
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव॥४०॥

उद्यतम् उपस्थितम् ॥४०॥

ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः ।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः॥४१॥

ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् ।
सान्त्वयञ्च्छ्लक्ष्णया वाचा मेघदुन्दुभिनिःस्वनः॥४२॥

कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः ।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः॥४३॥

देवगतिं देवानां परायणत्वम् ॥४३॥

देवकार्यं तु सुमहत्त्वया कार्यमरिन्दम ।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते॥४४॥

रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् ।
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव॥४५॥

आगन्ता आयास्यति ॥४५॥

तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि ।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः॥४६॥

ततोऽर्जुनो महातेजा लोकपालान्समागतान् ।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि॥४७॥

ततः प्रतिययुर्देवाः प्रतिमान्य धनञ्जयम् ।
यथागतेन विबुधाः सर्वे काममनोजवाः॥४८॥

ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः ।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम्॥४९॥

इति श्रीमहाभारते आरण्यके पर्वणि कैरातपर्वणि देवप्रस्थाने एकचत्त्वारिंशोऽध्यायः॥४१॥
कैरातपर्व समाप्तम्।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in