वैशंपायन उवाच।
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः
।
चिन्तयामास राजेन्द्र देवराजरथं प्रति॥१॥
गतेष्विति ॥१॥
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः
।
रथो मातलिसंयुक्त आजगाम महाप्रभः॥२॥
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव
।
दिशः सम्पूरयन्नादैर्महामेघरवोपमैः॥३॥
पाटयन् द्विधाकुर्वन् ॥३॥
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः
।
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः॥४॥
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः
।
वायुस्फोटाः सनिर्घाता महामेघस्वनास्तथा॥५॥
तुलागुडाः भाण्डगोलकाः भाण्डानि तु ‘नालबन्द्ख’ इत्यादि म्लेच्छभाषया प्रसिद्धानि आग्नेयौषधबलेन पाषाणगोलकादिनिक्षेपपात्राणि । वायुस्फोटाः वेगवशाद्वायुं जनयन्तः सनिर्घाता अशनिध्वनियुक्ताश्च महामेघस्वनाः ॥५॥
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः
।
सिताभ्रकूटप्रतिमाः संहताश्च तथोपलाः॥६॥
दशवाजिसहस्राणि हरीणां वातरंहसाम्
।
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्॥७॥
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्
।
ध्वजमिन्दीवरक्ष्यामं वंशं कनकभूषणम्॥८॥
वैजयन्तं नाम्ना देवेन्द्रध्वजम् ॥८॥
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्
।
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत्॥९॥
तथा तर्कयतस्तस्य फाल्गुनस्याथ मातलिः
।
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत्॥१०॥
मातलिरुवाच
।
भो भो शक्रात्मज श्रीमाञ्च्छक्रस्त्वां द्रष्टुमिच्छति
।
आरोहतु भवाञ्च्छीघ्रं रथमिन्द्रस्य सम्मतम्॥११॥
आह माममरश्रेष्ठः पिता तव शतक्रतुः
।
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः॥१२॥
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा
।
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते॥१३॥
अस्मांल्लोकाद्देवलोकं पाकशासनशासनात्
।
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि॥१४॥
अर्जुन उवाच।
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्
।
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्॥१५॥
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः
।
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम्॥१६॥
नातप्ततपसा शक्य एष दिव्यो महारथः
।
द्रष्टुं वाप्यथवा स्प्रष्टुमारोढुं कुत एव च॥१७॥
त्वायि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि
।
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा॥१८॥
वैशंपायन उवाच।
तस्य तद्वचनं श्रुत्वा मातालिः शक्रसारथिः
।
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः॥१९॥
येमे नियमितवान् ॥१९॥
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि
।
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे॥२१॥
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्
।
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्॥२२॥
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः
।
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः॥२३॥
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्॥२१॥
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि
।
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च
।
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः॥२५॥
फलानि च सुगन्धीनि भक्षितानि ततस्ततः
।
सुसुगन्धाश्च वार्यौघास्त्वच्छरीरविनिःसृताः॥२६॥
अमृतास्वादनीया मे पीताः प्रस्त्रवणोदकाः
।
शिशुर्यथा पितुरङ्के सुसुखं वर्तते नग॥२७॥
तथा तवाङ्के ललितं शैलराज मया प्रभो
।
अप्सरोगणसङ्कर्णे ब्रह्मघोषानुनादिते॥२७॥
सुखमस्म्युषितः शैल तव सानुषु नित्यदा
।
एवमुक्त्वार्जुनः शैलमामन्व्य परवीरहा॥२९॥
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
।
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा॥३०॥
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
।
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्॥३१॥
दृदर्शाद्भुतरूपाणि विमानानि सहस्रशः
।
न तत्र सूर्यः सोमो वा द्योतते न च पावकः॥३२॥
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया
।
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै॥३३॥
दीपवद्विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि
।
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः॥३४॥
विप्रकृष्टत्वात् दूरत्वात् । सुमहान्त्यपि तनूनि सूक्ष्माणि दृश्यन्ते ॥३४॥
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्तः स्वयार्चिषा
।
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि॥३५॥
धिष्ण्येषु स्थानेषु ॥३५॥
तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः
।
गन्धर्वाणां सहस्राणि सूर्यज्वलिततेजसाम्॥३६॥
गुह्यकानामृषीणां च तथैवाप्सरसां गणान्
।
लोकानात्मप्रभान्पश्यन्फाल्गुनो विस्मयान्वितः॥३७॥
आत्मनैव सूर्यादिवत्प्रभान्ति तान् आत्मप्रभान् ॥३७॥
पप्रच्छ मातालिं प्रीत्या स चाप्येनमुवाच ह
।
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः॥३८॥
तान्दृष्टवानसि विभो तारारूपाणि भूतले
।
ततोऽपश्यत्स्थितं द्वारि शुभं वैजयिनं गजम्॥३९॥
वैजयिनं विजयिनमेव वैजयिनम् । स्वार्थे तद्धितः ॥३९॥
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्
।
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः॥४०॥
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः
।
अमिचक्राम लोकान्स राज्ञां राजीवलोचनः॥४१॥
एवं स सङ्क्रमंस्तत्र स्वर्गलोके महायशाः
।
ततो ददर्श शक्रस्य पुरीं ताममरावतीम्॥४२॥
संक्रमन् गच्छन् । अमरावतीं नाम्ना ॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि द्विचत्त्वारिंशोऽध्यायः॥४२॥
वैशंपायन उवाच।
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम्
।
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्॥१॥
ददर्शेति ॥१॥
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्
।
उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना॥२॥
सौगन्धिकानां कल्हाराणां पुष्पाणां च मिश्रेण वायुनेति संबन्धः ॥२॥
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्
।
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः॥३॥
नन्दनं नामतः ॥३॥
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना
।
स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्मुखैः॥४॥
नातप्ततपस इति । तप आदीनां निषेधमुखेन स्वर्गसाधनत्वं विधीयते ॥४॥
नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः
।
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः॥५॥
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन
।
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः॥६॥
यज्ञहनैः द्रव्यं देवता च यज्ञस्वरूपं तत्र यो दक्षिणाहीनं देवतास्वरूपज्ञानहीनं च यज्ञं करोति स वृथापशुबीजघाती यज्ञहन इत्युच्यते । तथा च श्रूयते शतपथे ‘घ्नन्ति वा एतद्यज्ञं यदेनं तन्वते यत्त्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपपलाभ्यां हविर्यज्ञं घ्नन्ति स एष यज्ञो हतो न ददक्षे तं देवा दक्षिणाभिरदक्षयंस्तद्येनं दक्षिणाभिरदक्षयंस्तद्दक्षिणा नामेति’। राजानं सोमवल्लीम् अभिषुण्वन्ति कण्डयन्ति । संज्ञपयन्ति घ्नन्ति। विशासति विशसनं करोति । न ददक्षे दक्षो न बभूव । अदक्षयन् दक्षमकुर्वन् । असंज्ञायामपि हन्तेर्घः। यज्ञहरैरित्यपपाठः । अत एव क्षुद्रेः लुब्धैः। पानशब्दो निरुपपदो मद्यवाची । गुरुतल्पसमधिव्याहाराद्वा पानवैः मद्यपैः मांसादैः वृथामांसभक्षकैः । अन्यत्र तु ‘देवान्पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्’ इति स्मृतेर्न दोषः । अत एव दुरात्मभिः हिंस्त्रैः ॥६॥
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्
।
प्रविशेश महाबाहुः शक्रस्य दयितां पुरीम्॥७॥
तत्र देवविमानानि कामगानि सहस्त्रशः
।
संस्थितान्यभियातानि ददर्शायुतशस्तदा॥८॥
अभितः यान्ति एतान् देशानित्यभियातानि आपानभूमयः ॥८॥
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः
।
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः॥९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
।
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम्॥१०॥
आशीर्वादैःस्तूयमानो दिव्यवादित्रनिःस्वनैः
।
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्॥११॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्
।
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः॥१२॥
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा
।
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः॥१३॥
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः
।
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हाहाहुहूः॥१४॥
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः
।
ततोऽपश्यद्देवराजं शतक्रतुमरिन्दमः॥१९॥
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्
।
ददर्श साक्षाद्देवेशं पितरं पाकशासनम्॥१६॥
पाकशासनं पाकशब्दः प्रशस्ते नीचे च वर्तते । ‘योमापाकेन मनसा चरन्तम् । योऽस्मात्पाकतर’ इत्यादि प्रयोगात् तेन देवादीनामधिपतिरिति वा दुष्टानां दण्डयितेति वा पाकशासनपदस्यावयवार्थः पाकनामा दैत्य इत्यन्ये ॥१६॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा
।
दिव्यगन्धाधिवासेन व्यजनेन विधूयता॥१७॥
विश्वावसुप्रभृतिभिर्गन्धर्वैस्तुतिवन्दभिः
।
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसम्भवैः॥१८॥
स्तुतिवन्दिभिः स्तुत्या वन्दमानैः ॥१८॥
ततोऽभिगम्य कौन्तेयः शिरसाभ्यगमद्बली
।
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत॥१९॥
ततः शक्रासने पुण्ये देवर्षिगणसेविते
।
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके॥२०॥
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा
।
अङ्कमारोपयामास प्रश्रयावनतं तदा॥२१॥
प्रश्रयावनतं विनयेन प्रहृीभूतम् ॥२१॥
सहस्राक्षनियोगात्स पार्थः शक्रासनं गतः
।
अध्यक्रामदमेयात्मा द्वितीय इव वासवः॥२२॥
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ
।
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ॥२४॥
वज्रग्रहणचिह्नेन करेण परिसान्त्वयन्
।
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्च्छनैः॥२५॥
वज्रग्रहणस्य चिह्नं किणो यस्मिन् ॥२५॥
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्त्रदृक्
।
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा॥२६॥
एकासनोऽपविष्टौ तौ शोभयाञ्चक्रतुः सभाम्
।
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ॥२७॥
चतुर्दश्यामिति । यद्यपि दर्शे एव सूर्येन्दोरेकासनगतत्वम् एकनक्षत्रस्थत्वादस्ति न चतुर्दश्यां तथापि सामीप्यलक्षणया एकराशिस्थत्वमत्र ग्राह्यम् । अन्यथाश्विनीस्थे सूर्ये चतुर्दश्यां रेवतीयोगे एकराशिस्थितत्वस्याप्यलाभात् ॥२७॥
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना
।
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु॥२८॥
साम्ना प्रीत्या । वल्गुना रम्येण । गीतानि अमन्त्रोपरिगानं साममन्त्रोपरिगानम् ॥२८॥
घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा
।
उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी॥२९॥
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा
।
चित्रसेना चित्रलेखा सहा च मधुरस्वरा॥३०॥
एताश्चान्याश्च ननृतुस्तत्र तत्र सहस्रशः
।
चित्तप्रसादने युक्ताः सिद्धानां पद्मलोचनाः॥३१॥
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः
।
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः॥३२॥
चेतः अलोचनात्मिका चित्तवृत्तिः । बुद्धिरध्यवसायरूपा । मनः संकल्पविकल्पात्मकम् । कटाक्षादिभिः चित्तस्य वृत्त्यन्तरं हरन्तीत्यर्थः ॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि इन्द्रसभादर्शने त्रिचत्वारिंशोऽध्यायः॥४३॥
वैशंपायन उवाच।
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्
।
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा॥१॥
तत इति ॥१॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्
।
प्रवेशयामासुरथो पुरन्दरनिवेशनम्॥२॥
एवं संपूजितो जिष्णुरुवास भवने पितुः
।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः॥३॥
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम्
।
अशनीश्च महानादा मेघबर्हिणलक्षणाः॥४॥
मेघबर्हिणलक्षणाः अकालेऽपि उद्यतेर्मेघैर्नृत्यमानैश्च मयूरैर्यत् अशन्यस्त्रं देशान्तरे प्रयुक्तमिति लक्ष्यते । देशान्तरीयैः ता अशनोर्बह्वीरित्यर्थः ॥४॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः
।
पुरन्दरनियोगाच्च पञ्चाब्दानवसत्सुखी॥५॥
भ्रातॄन्सस्मार स्वर्गेऽपि दुःखितभ्रातृस्मरणेन दुःखवानेवाभूदित्यर्थः ॥५॥
ततः शक्रोब्रवीत्पार्थं कृतास्त्रं काल आगते
।
नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि॥६॥
वादिंत्रं देवविहितं नृलोके यन्न विद्यते
।
तदर्जस्यस्व कौन्तेय श्रेयो वै ते भविष्यति॥७॥
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः
।
स तेन सह सङ्गस्य रेमे पार्थो निरामयः॥८॥
गीतवादित्रनृत्यानि भूय एवादिदेश ह
।
तथापि नालभच्छर्म तपस्वी द्यूतकारितम्॥९॥
दुःशासनवधामर्षी शकुनेः सौबलस्य च
।
ततस्तेनातुलां प्रीतिमुपागम्य क्वचित् क्वचित्
।
गान्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान्॥१०॥
स शिक्षितो नृत्यगुणाननेकान् वादित्रगीतार्थगुणांश्च सर्वान्
।
न शर्म लेभे परवीरहन्ता भ्रातॄन्स्मरन्मातरं चैव कुन्तीम्॥११॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्त्वारिंशोऽध्यायः॥४४॥
वैशंपायन उवाच।
आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत्
।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः॥१॥
आदाविति ॥१॥
गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम्
।
उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम्॥२॥
उर्वशीं गच्छ सा च फाल्गुनम् उपातिष्ठतु ॥२॥
यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः
।
तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः॥३॥
एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्
।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम्॥४॥
तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया
।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत्॥५॥
विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः
।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना॥६॥
यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः
।
श्रिया शीलेन रूपेण व्रतेन च दमेन च
।
प्रख्यातो बलवीर्येण सम्मतः प्रतिभानवान्॥७॥
प्रतिभानं समये स्फूर्तिः ॥७॥
वर्चस्वी तेजसा युक्तः क्षमावान्वीतमत्सरः
।
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान्॥८॥
वर्चः शरीरे विद्यैश्वर्यादिजं तेजः तद्वान् वर्चस्वी । तेजः शौर्यं तेन युक्तः । चतुराख्यानपञ्चमान् चतुः चतुःसंख्यान् विभक्तिलोप आर्षः । आख्यानं भारतादि । चतुरप्रियम् आख्यानं चतुराख्यानमिति मध्यमपदलोपेन वा शाकपार्थिवादिवत्समासः ॥८॥
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्
।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च॥९॥
गुरुशुश्रूषां मेधां च प्रत्येकमष्टगुणाम् अधीते प्राप्नोति । गुणाश्च वाक्यशेषादेव यथायथमूह्याः । ब्रह्मचर्यम् उपस्थनिग्रहः । दाक्ष्यम् अनालस्यं प्रसवैर्द्वैमातुः कुले द्वे पितुस्तैः चतुर्भिः । वयसा तारुण्येन॥९॥
एको वै रक्षिता चैव त्रिदिवं मघवानिव
।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः॥१०॥
रक्षिता पालकः। अकत्थन इति पालकश्चेति श्लाघाराहित्यम् । स्थूलमिव सुज्ञेयं लक्ष्यं लक्षयितुं योग्यं सूक्ष्मं यस्य । सूक्ष्मानप्यर्थान् स्थूलवझ्झटित्येवावगच्छतीत्यर्थः दाता वा ॥१०॥
सुहृदश्चान्नपानेन विविधेनाभिवर्षति
।
सत्यवाक्पूजितो वक्ता रूपवाननहङ्कृतः॥११॥
रूपवान् सुन्दरः ॥११॥
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसङ्गरः
।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः॥१२॥
कान्तः सुखदः । अत एव प्रियः प्रेमास्पदम् । प्रसववयो व्यतिरिक्त ब्रह्मचर्यादयोऽष्टौ शुश्रूषागुणाः सत्यवाक्त्वादयः पूजितत्वादन्येष्टौ मेधागुणा इति विभागः । यद्वा ‘शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः’ इति धीगुणाष्टकं ग्राह्यम् ॥१२॥
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात्
।
तव शक्राभ्यनुज्ञातः पादावद्य प्रपद्यताम्
।
तदेवं कुरु कल्याणि प्रपन्नस्त्वां धनञ्जयः॥१३॥
स्वर्गफलं त्वत्संगम् । तव पादाविति प्रपन्न इति च रतार्थिनो दीनता दर्शिता ॥१३॥
एवमुक्ता स्मितं कृत्वा सम्मानं बहुमन्य च
।
प्रत्युवाचोऽर्वशी प्रीता चित्रसेनमनिन्दिता॥१४॥
बहुमन्य मत्वा ॥१४॥
यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम
।
तं श्रुत्वाऽव्यथयं पुंसो वृणुयां किमतोऽर्जुनम्॥१५॥
गुणोद्देशः गुणलेशः । तम् अर्जुनम् । पुंसः यतः कुतश्चित् सकाशाच्छ्रुत्वा अव्यथयं स्वार्थे णिच्। प्रागेव कामव्यथां प्राप्तवत्यस्मि अतो हेतोरर्जुनं किं वृणुयामिति काक्वा प्रागेव वृतत्वं दर्शयति॥१५॥
महेन्द्रस्य नियोगेन त्वत्तः संप्रणयेन च
।
तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा
।
गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम्॥१६॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि चित्रसेनोर्वशीसंवादे पञ्चचत्त्वारिंशोऽध्यायः॥४५॥
वैशंपायन उवाच।
ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता
।
उर्वशी चाकरोत्स्रानं पार्थदर्शनलालसा॥१॥
तत इति ॥१॥
स्नानालङ्करणैर्हृद्यैर्गन्धमाल्यैश्च सुप्रभैः
।
धनञ्जयस्य रूपेण शरैर्मन्मथचोदितैः॥२॥
रूपेण सौन्दर्येण ॥२॥
अतिविद्धेन मनसा मन्मथेन प्रदीपिता
।
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे॥३॥
चित्तसङ्कल्पभावेन सुचित्तानन्यमानसा
।
मनोरथेन सम्प्राप्तं रमन्त्येनं हि फाल्गुनम्॥४॥
रमन्ती रमयन्ती ॥४॥
निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे
।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति॥५॥
मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा
।
केशहस्तेन ललना जगामाथ विराजती॥६॥
केशहस्तेन हस्तः शुण्डादण्डः तेनेव वेण्येत्यर्थः ॥६॥
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयापि च
।
शशिनं वक्त्रचन्द्रेण साह्वयन्तीव गच्छती॥७॥
आह्वयन्ती स्पर्धया एहि युध्यावहे इति वदन्तीव ॥७॥
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ
।
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः॥८॥
स्तनोद्वहनसंक्षोभान्नम्यमाना पदे पदे
।
त्रिवली दामचित्रेण मध्येनातीवशोभिना॥९॥
अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम्
।
मन्मथायतनं शुभ्रं रसनादामभूषितम्॥१०॥
उन्नतः पीवरश्च नितम्ब एवेति विशेषणं विशेष्येण बहुलमिति बाहुलकात्समासः ॥१०॥
ऋषीणामपि दिव्यानां मनोव्याघातकारणम्
।
सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत्॥११॥
अवद्यवत् दोषवत् तदभावो निरवद्यवत् ॥११॥
गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली
।
कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ॥१२॥
सीधुपानेन चाल्पेन तुष्ट्याथ मदनेन च
।
विलासनैश्च विविधैः प्रेक्षणीयतराभवत्॥१३॥
सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी
।
बह्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः॥१४॥
सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता
।
तनुरभ्रावृता व्योम्नि चन्द्रलेखेव गच्छती॥१५॥
ततः प्राप्ता क्षणेनैव मनःपवनगामिनी
।
भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता॥१६॥
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता
।
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना॥१७॥
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम्
।
स शङ्कितमना राजन्प्रत्युद्गच्छत तां निशि॥१८॥
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः
।
तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्॥१९॥
अर्जुन उवाच।
अभिवादये त्वां शिरसा प्रवराप्सरसां वरे
।
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः॥२०॥
फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी
।
गन्धर्ववचनं सर्वं श्रावयामास तं तदा॥२१॥
उर्वश्युवाच
।
यथा मे चित्रसेनेन कथितं मनुजोत्तम
।
तत्तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता॥२२॥
उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे
।
तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे॥२३॥
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः
।
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम॥२४॥
महर्षीणां च संघेषु राजर्षिप्रवरेषु च
।
सिद्धचारणयक्षेषु महोरगगणेषु च॥२५॥
उपविष्टेषु सर्वेषु स्थानमानप्रभावतः
।
ऋध्द्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु॥२६॥
वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन
।
दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन॥२७॥
सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह
।
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्॥२८॥
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम्
।
तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः॥२९॥
अवभृथो यज्ञान्तस्नानं तत्प्राप्ये ॥२९॥
तथैवाप्सरसः सर्वा विशिष्टाः स्वगृहं गताः
।
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः॥३०॥
ततः शक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकम्
।
प्राप्तः कमलपत्राक्ष स च मामब्रवीदथ॥३१॥
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि
।
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह॥३२॥
शक्रतुल्यं रणे शूरं सदौदार्यगुणान्वितम्
।
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाब्रवीत्॥३३॥
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ
।
तवान्तिकमनुप्राप्ता शुश्रूषितुरिन्दम॥३४॥
तेन चित्रसेनेन तव पित्रा च इन्द्रेण च शुश्रूषितुं सेवितुम् ॥३४॥
त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता
।
चिराभिलषितो वीर ममाप्येष मनोरथः॥३५॥
वैशंपायन उवाच।
तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतोऽर्जुनः
।
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये॥३६॥
दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि
।
गुरुदारैः समाना मे निश्चयेन वरानने॥३७॥
दुःश्रुतं मेस्तु मम श्रवणं व्यर्थमस्तु यत्त्वम् एवंविधदुष्कर्मयोग्यतां मयि संभावयसीत्यर्थः ॥३७॥
यथा कुन्ती महाभागा यथेन्द्राणी शची मम
।
तथा त्वमपि कल्याणी नात्र कार्या विचारणा॥३८॥
यच्चेक्षितासि विस्पष्टं विशेषेण मया शुभे
।
तच्च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते॥३९॥
इयं पौरववंशस्य जननी मुदितेऽति ह
।
त्वामहं दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः॥४०॥
न मामर्हसि कल्याणि अन्यथा ध्यातुमप्सरः
।
गुरोर्गुरुतरा मे त्वं मम त्वं वंशवर्धिनी॥४१॥
अप्सर इत्येकत्वमार्षम् । यद्वास्यादेकत्वेऽप्सरा अपीति शब्दार्णवादेकत्वं साधु ॥४१॥
उर्वश्युवाच
।
अनावृताश्च सर्वाः स्म देवराजाभिनन्दन
।
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि॥४२॥
पुरोर्वंशे हि ये पुत्रा नप्तारो वा त्विहागताः
।
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः॥४३॥
तत्प्रसीद न मामार्तां विसर्जीयतुमर्हसि
।
हृच्छयेन च सन्तप्तां भक्तां च भज मानद॥४४॥
अर्जुन उवाच।
शृणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते
।
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः॥४५॥
यथा कुन्ती च माद्री च शची चैव ममानघे
।
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी॥४६॥
गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते वरवर्णिनि
।
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया॥४७॥
वैशंपायन उवाच।
एवमुक्ता तु पार्थेन उर्वशी क्रोधमूच्छिता
।
वेपन्ती भ्रुकुटीवक्रा शशापाथ धनंजयम्॥४८॥
भ्रुकुट्या वक्रा न तु मनसा हितार्थत्वाच्छापस्येति भावः ॥४८॥
उर्वश्युवाच
।
तव पित्राभ्यनुज्ञातां स्वयं च गृहमागताम्
।
यस्मान्मां नाभिनन्देथाः कामबाणवशङ्गताम्॥४९॥
तस्मात्त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः
।
अपुमानिति विख्यातः षण्ढवद्विचरिष्यसि॥५०॥
एवं दत्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्यथ
।
पुनः प्रत्यागता क्षिप्रमुर्वशी गृहमात्मनः॥५१॥
ततोऽर्जुनस्त्वरमाणश्चित्रसेनमरिन्दमः
।
संप्राप्य रजनीवृत्तं तदुर्वश्या यथातथा॥५२॥
निवेदयामास तदा चित्रसेनाय पाण्डवः
।
तत्र चैवं यथावृत्तं शापं चैव पुनःपुनः॥५३॥
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः
।
तत आनाय्य तनयं विविक्ते हरिवाहनः॥५४॥
सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत
।
सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम॥५५॥
ऋषयोऽपि हि धैर्येण जिता वै ते महाभुज
।
यत्तु दत्तवती शापमुर्वशी तव मानद॥५६॥
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति॥५७॥
अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ
।
वर्षे त्रयोदशे वीर तं तत्र क्षपयिष्यसि॥५८॥
तेन नर्तनवेषेण अपुंस्त्वेन तथैव च
।
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि॥५९॥
एवमुक्तस्तु शक्रेण फाल्गुनः परवीरहा
।
मुदं परमिकां लेभे न च शापं व्यचिन्तयत्॥६०॥
चित्रसेनेन सहितो गन्धर्वेण यशस्विना
।
रेमे स स्वर्गभवने पाण्डुपुत्रो धनञ्जयः॥६१॥
इदं यः शृणुयाद्वृत्तं नित्यं पाण्डुसुतस्य वै
।
न तस्य कामः कामेषु पापकेषु प्रवर्तते॥६२॥
इदममरवरात्मजस्य घोरं शुचि चरितं विनिशम्य फाल्गुनस्य
।
व्यपगतमददम्भरागदोषास्त्रिदिवगता विरमन्ति मानवेन्द्राः॥६३॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि उर्वशीशापो नाम षट्चत्त्वारिंशोऽध्यायः॥४६॥
वैशंपायन उवाच।
कदाचिदटमानस्तु महर्षिरुत लोमशः
।
जगाम शक्रभवनं पुरन्दरदिदृक्षया॥१॥
कदाचिदिति ॥१॥
स समेत्य नमस्कृत्य देवराजं महामुनिः
।
ददर्शार्धासनगतं पाण्डवं वासवस्य हि॥२॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे
।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः॥३॥
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्
।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान्॥४॥
किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः
।
स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम्॥५॥
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः
।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः॥६॥
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्
।
नायं केवलमर्त्यो वै मानुषत्वमुपागतः॥७॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः
।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात्॥८॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्
।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम्॥९॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ
।
ताविमावनुजानीहि हृषीकेशधनञ्जयौ॥१०॥
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी
।
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम्॥११॥
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः
।
तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम्॥१२॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च
।
यतः प्रववृते गङ्गा सिद्धचारणसेविता॥१३॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातो महाद्युती
।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः॥१४॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति
।
विप्रियेषु स्थितास्माकं वरदानेन मोहिताः॥१५॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः
।
देवान्न गणयन्त्येते तथा दत्तवरा हि ते॥१६॥
पातालबासिनो रौद्रा दनोः पुत्रा महाबलाः
।
सर्वदेवनिकाया हि नालं योधयितुं हितान्॥१७॥
देवनिकायाः देवसमूहाः । नालं न समर्थाः ॥१७॥
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः
।
कपिलो नाम देवोऽसौ भगवानजितो हरिः॥१८॥
कपिलः। ‘ऋषिं पुराणं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्’ इति श्रुतिप्रसिद्धः । अग्रे जायमानं पाञ्चरात्रागमेऽनिरुद्धत्वेन वेदे सूत्रात्मत्वेन च व्यवहृतं नारायणम् ॥१८॥
येन पूर्वं महात्मानः खनमाना रसातलम्
।
दर्शनादेव निहताः सगरस्यात्मजा विभो॥१९॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम
।
पार्थेन च महायुद्धे समेताभ्यां न संशयः॥२०॥
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान्
।
निवातकवचान्सर्वान्नागानिव महाह्रदे॥२१॥
किं तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः
।
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत्॥२२॥
प्रबोध्यो विज्ञाप्यः ॥२२॥
अयं तेषां समस्तानां शक्तः प्रतिसमासने
।
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान्॥२३॥
तेषां निवातकवचानाम् । प्रतिसमासने संक्षेपणे ॥२३॥
भवानस्मन्नियोगेन यातु तावन्महीतलम्
।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्॥२४॥
स वाच्यो मम सन्देशाद्धर्मात्मा सत्यसङ्गरः
।
नोऽत्कण्ठा फाल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति॥२५॥
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे
।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्॥२६॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः
।
नृत्यवादित्रगीतानां दिव्यानां पारमीयिवान्॥२७॥
गुडाकेशोऽर्जुनः ॥२७॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वर
।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिन्दम॥२८॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः
।
राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः॥२९॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्
।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः॥३०॥
गिरिदुर्गेषु च सदा देशेषु विषमेषु च
।
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षां विधास्यति॥३१॥
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम्
।
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्॥३२॥
यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम
।
दानं दद्याद्यथा चैव तथा कुरु महामुने॥३३॥
वैशंपायन उवाच।
तथेति सम्प्रतिज्ञाय लोमशः सुमहातपाः
।
काम्यकं वनमुद्दिश्य समुपायान्महीतलम्॥३४॥
संप्रतिज्ञाय अङ्गीकृत्य ॥३४॥
ददर्श तत्र कौन्तेयं धर्मराजमरिन्दमम्
।
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम्॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि लोमशगमने सप्तचत्त्वारिंशोऽध्यायः॥४७॥
जनमेजय उवाच।
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः
।
धृतराष्ट्रो महाप्राज्ञः श्रुत्वा विप्र किमब्रवीत्॥१॥
अत्यद्भुतमिदं कर्मेत्यादेरध्यायद्वयस्य तात्पर्यं परोत्कर्षे श्रुते स्वनाशशङ्कया मूढस्तप्यत इति॥१॥
वैशंपायन उवाच।
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः
।
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत्॥२॥
धृतराष्ट्र उवाच।
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
।
कच्चित्तवापि विदितं याथातथ्येन सारथे॥३॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
।
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति॥४॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः
।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः॥५॥
ऋताः सत्याः ॥५॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्
।
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः॥६॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशानुगाः
।
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम्॥७॥
तथैव च न पश्यामि युधि गाण्डीवधन्वनः
।
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी॥८॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे
।
महान्स्यात्संशयो लोके तत्र पश्यामि नो जयम्॥९॥
प्रतीयातां प्रतिगच्छेताम् ॥९॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
।
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः॥१०॥
घृणी दयालुः । प्रमादी अनवहितः संरम्भी उद्यमी ॥१०॥
सम्भवेत्तुमुलं युद्धं सर्वशोऽप्यपराजितम्
।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः॥११॥
अपि सर्वेश्वरत्वं हि ते वाञ्च्छन्त्यपराजिताः
।
वधे नूनं भवेच्छान्तिरेतेषां फाल्गुनस्य वा॥१२॥
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
।
मन्युस्तस्य कथं शाम्येन्मां चैव प्रतिसंहितः॥१३॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
।
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ॥१४॥
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि सञ्जय
।
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना॥१५॥
यथा हि किरणा भानोस्तपन्तीह चराचरम्
।
तथा पार्थ भुजोत्सृष्टाः शरास्तप्यन्ति मत्सुतान्॥१६॥
अपि तद्रथघोषेण भयार्ताः सव्यसाचिनः
।
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः॥१७॥
अपीति ।सव्यसाचिनः रथघोषेणापि तत् तत्र रणे ॥१७॥
यदुद्वमन्प्रवपंश्चैव बाणान् स्थाताततायी समरे किरीटी
।
सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदपारणीयः॥१८॥
यत् यद्वा उद्वमन् निषङ्गादुद्धरन् । प्रवपन् प्रेरयन् । स्थाता स्थास्यति । आततायी शस्त्रपाणिः । यथोक्तम् ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः॥’ अपारणीयः अनुल्लङ्घनीयः जेतुमशक्यः ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रविलापे अष्टचत्त्वारिंशोऽध्यायः॥४८॥
सञ्जय उवाच।
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति
।
सर्वमेतद्यथातत्त्वं नैतन्मिथ्या महीपते॥१॥
यदेतदिति ॥१॥
मन्युना हि समाविष्टाः पाण्डवास्ते महौजसः
।
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम्॥२॥
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः
।
कर्णस्य च महाराज जुगुप्सन्तीति मे मतिः॥३॥
श्रुतं हि मे महाराज यथा पार्थेन संयुगे
।
एकादशतनुः स्थाणुर्धनुषा परितोषितः॥४॥
कैरातं वेषमास्थाय योधयामास फाल्गुनम्
।
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्॥५॥
तत्रैनं लोकपालास्ते दर्शयामासुरच्युतम्
।
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्॥६॥
नैतदुत्सहते चान्यो लब्धुमन्यत्र फाल्गुनात्
।
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि॥७॥
महेश्वरेण यो राजन्न जीर्णो ह्यष्टमूर्तिना
।
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान्॥८॥
न जीर्णो न क्षीणः । अष्टौ पञ्च भूतानि सूर्यचन्द्रपुरुषाश्च मूर्तयो यस्य ॥८॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम्
।
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्॥९॥
यत्तु प्रस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत्
।
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ॥१०॥
उरू भेत्स्यामि ते पाप गदया भीमवेगया
।
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः॥११॥
दुर्द्यूतदेविनः छद्मद्यूतेन जेतुकामस्य ॥११॥
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः
।
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः॥१२॥
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे
।
अन्तं पार्थाः करिष्यन्ति भार्यामर्षसमन्विताः॥१३॥
अन्तं नाशम् ॥१३॥
धृतराष्ट्र उवाच।
किं कृतं सूत कर्णेन वदता परुषं वचः
।
पर्याप्तवैरमेतावद्यत्कृष्णा सा सभां गता॥१४॥
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः
।
येषां भ्राता गुरुर्ज्येष्ठो विनयेनावतिष्ठते॥१५॥
विनये नीतौ ॥१५॥
ममापि वचनं सूत न शुश्रूषति मन्दभाकू
।
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्॥१६॥
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
।
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः॥१७॥
स्वैरमुक्ता ह्यपि शराः पार्थेनामिततेजसा
।
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः॥१८॥
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
।
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि॥१९॥
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः
।
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्॥२०॥
इदं हि सुमहच्चित्रमर्जुनस्येह सञ्जय
।
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः॥२१॥
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा
।
फाल्गुनेन सहायार्थे वह्नेर्दामोदरेण च॥२२॥
सर्वथा न हि मे पुत्राः सहामात्याः ससौवलाः
।
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते॥२३॥
न हि सन्तीति शेषः ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रखेदे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
जनमेजय उवाच।
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
।
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्॥१॥
यदिदं शोचितमित्यादेरध्यायद्वयस्य तात्पर्यं सत्यसंरक्षणे कृते देवा मानुषाश्चानुगृह्णन्तीति ॥१॥
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम्
।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्॥२॥
किमासीत्पाण्डुपुत्राणां वने मोजनमुच्यताम्
।
वानेयमथवा कृष्टमेतदाख्यातु नो भवान्॥३॥
वानेयं वनमवं नीवारादि कृष्टं कर्षणजं ग्राम्यधान्यम् ॥३॥
वैशंपायन उवाच।
वानेयं च सृगांश्चैव शुद्धैर्बाणैर्निपातितान्
।
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः॥४॥
शुद्धेर्विषालिप्तैः ‘विषलिप्तेन बाणेन यौ हतौ मृगपक्षिणौ । तयोर्मांसं कलंजं तद्भुक्त्वा चान्द्रायणं चरेत्’ इति स्मृतेः । अग्रं हन्तकारप्रदेयम् ॥४॥
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने
।
अन्वयुर्ब्रह्मणा राजन्साग्नयोऽनग्नयस्तथा॥५॥
अनग्नयः परिव्राजकाः ॥५॥
ब्राह्मणानां सहस्त्राणि स्नातकानां महात्मनाम्
।
दशमोक्षविदां तत्र यान्बिभर्ति युधिष्ठिरः॥६॥
रुरून्कृष्णसृगांश्चैव मेध्यांश्चान्यान्वनेचरान्
।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत्॥७॥
न तत्र कश्चिद्दुर्वर्णो व्याधितो वापि दृश्यते
।
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा पुनः॥८॥
पुत्रानिव प्रियान्भ्रातॄञ्ज्ञातीनिव सहोदरान्
।
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः॥९॥
पतींश्च द्रौपदी सर्वान्द्विजातींश्च यशस्विनी
।
मातृवद्भोजयित्वाग्रे शिष्टमाहारयत्तदा॥१०॥
आहारयत् आहारं कृतवती ॥१०॥
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाप्युदीचीम्
।
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य॥११॥
तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्
।
पञ्चैव वर्षाणि तथा व्यतीयुरधीयतां जपतां जुह्वतां च॥१२॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि पार्थाहारकथने पञ्चाशत्तमोऽध्यायः॥५०॥
वैशंपायन उवाच
।
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्
।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः॥१॥
तेषामिति । मन्युना दैन्येन ॥१॥
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः
।
अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ॥२॥
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम्
।
संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत्॥३॥
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्
।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम्॥४॥
देवपुत्रौ महाभागौ देवराजसमद्युती
।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ॥५॥
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ
।
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ॥६॥
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि
।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ॥७॥
निःशेषमिह पश्यामि मम सैन्यस्य संजय
।
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ॥८॥
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ
।
वृष्णयोथ महेष्वासाः पञ्चाला वा महौजसः॥९॥
न क्षंस्येते क्षमां न करिष्यतः ॥९॥
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः
।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्॥१०॥
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन
।
न शक्यः सहितुं वेगः सर्वैस्तैरपि संयुगे॥११॥
सहितुं सोढुम् ॥११॥
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः
।
शैक्यया वीरघातिन्या गदया विचरिष्यति॥१२॥
शैक्यया शिक्यस्थया । भूमिं भित्त्वा पातालं प्रवेक्ष्यतीति भयादन्तरिक्षे एव धृतयेत्यर्थः ॥१२॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥१३॥
ततोहं सुहृदां वाचो दुर्योधनवशानुगः
।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा॥१४॥
संजय उवाच
।
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः
।
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः॥१५॥
पुत्रस्ते त्वया ॥१५॥
श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः
।
त्वरितः काम्यके पार्थान्समभावयदच्युतः॥१६॥
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः
।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः॥१७॥
तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान्
।
चारेण विदितं सर्वं तन्मयावेदितं च ते॥१८॥
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः
।
सारथ्ये फाल्गुनस्याजौ तथेत्याह च तान्हरिः॥१९॥
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तदागतान्
।
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्॥२०॥
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह
।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा॥२१॥
यत्र सर्वान्महीपालाञ्च्छस्त्रतेजोभयार्दितान्
।
सवङ्गाङ्गान्सपौण्ड्रौड्रान्सचोलद्राविडान्ध्रकान्॥२२॥
सागरानूपकांश्चैव ये च प्रान्ताभिवासिनः
।
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः॥२३॥
पश्चिमानि च राष्ट्राणि शतशः सागरान्तिकान्
।
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्च्छकान्॥२४॥
हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा
।
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान्॥२५॥
केकयान्मालवांश्चैव तथा काश्मीरकानपि
।
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान्॥२६॥
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी
।
आदाय जीवितं तेषामाहरिष्यामि तामहम्॥२७॥
प्रतिसारिणी प्रतीपं सरतीति नीचानुमाभिनीत्यर्थः । आहरिष्यामि इदानीमेवेति शेषः । अत एव प्रार्थना सत्यं मां कुर्विति ॥२७॥
रामेण सह कौरव्य भीमार्जुनयमैस्तथा
।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च॥२८॥
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च
।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत॥२९॥
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति
।
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्॥३०॥
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्
।
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे॥३१॥
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च
।
युधिष्ठिर उवाच
।
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन॥३२॥
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि
।
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव॥३३॥
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्
।
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः॥३४॥
धृष्टद्युम्नपुरोगास्ते समयामासुरञ्जसा
।
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्॥३५॥
समयामासुः समं युक्तमित्याचख्युः । समशब्दात्तदाचष्ट इति णिच् लिटि आम् । शमयामासुरिति पाठे स्पष्टोऽर्थः ॥३५॥
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः
।
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्॥३६॥
प्रतिजानीमहे सत्यं मा शुचो वरवर्णिनि
।
ये स्म तेऽक्षजितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा
।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः॥३७॥
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा
।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले॥३८॥
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले
।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्॥३९॥
परिक्लिष्टासि यैस्तत्र यैश्चासि समुपेक्षिता
।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्॥४०॥
एवं बहुविधा वाचस्त ऊचुर्भरतर्षभाः
।
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः॥४१॥
अहतलक्षणाः अखण्डितध्वजाः । आहवलक्षणा इति पाठे आहवयोग्यानि शौर्यद्योतकानि लक्षणानि सामुद्रिकचिह्नानि येषामित्यर्थः ॥४१॥
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्
।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः॥४२॥
रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ
।
माद्रीसुतौ केकयराजपुत्राःपाञ्चालपुत्राः सह मत्स्यराज्ञा॥४३॥
युयुधानः सात्यकिः ॥४३॥
एतान्सर्वान्लोकवीरानजेया-न्महात्मनः सानुबन्धान्ससैन्यान्
।
को जीवितार्थी समरेभ्युदीया-त्क्रुद्धान्सिंहान्केसरिणो यथैव॥४४॥
केसरिणः क्रोधेन उच्छ्रितसटान् ॥४४॥
धृतराष्ट्र उवाच।
यन्माऽब्रवीद्विदुरो द्यूतकालेत्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र
।
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः॥४५॥
मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम्
।
असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम्॥४६॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रविलापे एकपञ्चाशत्तमोऽध्यायः॥५१॥