अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

इन्द्रलोकाभिगमनपर्व

द्विचत्त्वारिंशोऽध्यायः

वैशंपायन उवाच। गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः ।
चिन्तयामास राजेन्द्र देवराजरथं प्रति॥१॥

गतेष्विति ॥१॥

ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः ।
रथो मातलिसंयुक्त आजगाम महाप्रभः॥२॥

नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव ।
दिशः सम्पूरयन्नादैर्महामेघरवोपमैः॥३॥

पाटयन् द्विधाकुर्वन् ॥३॥

असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः ।
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः॥४॥

तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः ।
वायुस्फोटाः सनिर्घाता महामेघस्वनास्तथा॥५॥

तुलागुडाः भाण्डगोलकाः भाण्डानि तु ‘नालबन्द्ख’ इत्यादि म्लेच्छभाषया प्रसिद्धानि आग्नेयौषधबलेन पाषाणगोलकादिनिक्षेपपात्राणि । वायुस्फोटाः वेगवशाद्वायुं जनयन्तः सनिर्घाता अशनिध्वनियुक्ताश्च महामेघस्वनाः ॥५॥

तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः ।
सिताभ्रकूटप्रतिमाः संहताश्च तथोपलाः॥६॥

दशवाजिसहस्राणि हरीणां वातरंहसाम् ।
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्॥७॥

तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् ।
ध्वजमिन्दीवरक्ष्यामं वंशं कनकभूषणम्॥८॥

वैजयन्तं नाम्ना देवेन्द्रध्वजम् ॥८॥

तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् ।
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत्॥९॥

तथा तर्कयतस्तस्य फाल्गुनस्याथ मातलिः ।
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत्॥१०॥

मातलिरुवाच ।
भो भो शक्रात्मज श्रीमाञ्च्छक्रस्त्वां द्रष्टुमिच्छति ।
आरोहतु भवाञ्च्छीघ्रं रथमिन्द्रस्य सम्मतम्॥११॥

आह माममरश्रेष्ठः पिता तव शतक्रतुः ।
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः॥१२॥

एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा ।
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते॥१३॥

अस्मांल्लोकाद्देवलोकं पाकशासनशासनात् ।
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि॥१४॥

अर्जुन उवाच। मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् ।
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्॥१५॥

पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः ।
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम्॥१६॥

नातप्ततपसा शक्य एष दिव्यो महारथः ।
द्रष्टुं वाप्यथवा स्प्रष्टुमारोढुं कुत एव च॥१७॥

त्वायि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि ।
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा॥१८॥

वैशंपायन उवाच। तस्य तद्वचनं श्रुत्वा मातालिः शक्रसारथिः ।
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः॥१९॥

येमे नियमितवान् ॥१९॥

ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि ।
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे॥२१॥

साधू‌नां पुण्यशीलानां मुनीनां पुण्यकर्मणाम् ।
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्॥२२॥

त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः ।
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः॥२३॥

अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्॥२१॥

गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि ।
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च ।
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः॥२५॥

फलानि च सुगन्धीनि भक्षितानि ततस्ततः ।
सुसुगन्धाश्च वार्यौघास्त्वच्छरीरविनिःसृताः॥२६॥

अमृतास्वादनीया मे पीताः प्रस्त्रवणोदकाः ।
शिशुर्यथा पितुरङ्के सुसुखं वर्तते नग॥२७॥

तथा तवाङ्के ललितं शैलराज मया प्रभो ।
अप्सरोगणसङ्कर्णे ब्रह्मघोषानुनादिते॥२७॥

सुखमस्म्युषितः शैल तव सानुषु नित्यदा ।
एवमुक्त्वार्जुनः शैलमामन्व्य परवीरहा॥२९॥

आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ।
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा॥३०॥

ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ।
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्॥३१॥

दृदर्शाद्भुतरूपाणि विमानानि सहस्रशः ।
न तत्र सूर्यः सोमो वा द्योतते न च पावकः॥३२॥

स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ।
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै॥३३॥

दीपवद्विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि ।
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः॥३४॥

विप्रकृष्टत्वात् दूरत्वात् । सुमहान्त्यपि तनूनि सूक्ष्माणि दृश्यन्ते ॥३४॥

ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्तः स्वयार्चिषा ।
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि॥३५॥

धिष्ण्येषु स्थानेषु ॥३५॥

तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः ।
गन्धर्वाणां सहस्राणि सूर्यज्वलिततेजसाम्॥३६॥

गुह्यकानामृषीणां च तथैवाप्सरसां गणान् ।
लोकानात्मप्रभान्पश्यन्फाल्गुनो विस्मयान्वितः॥३७॥

आत्मनैव सूर्यादिवत्प्रभान्ति तान् आत्मप्रभान् ॥३७॥

पप्रच्छ मातालिं प्रीत्या स चाप्येनमुवाच ह ।
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः॥३८॥

तान्दृष्टवानसि विभो तारारूपाणि भूतले ।
ततोऽपश्यत्स्थितं द्वारि शुभं वैजयिनं गजम्॥३९॥

वैजयिनं विजयिनमेव वैजयिनम् । स्वार्थे तद्धितः ॥३९॥

ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ।
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः॥४०॥

व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः ।
अमिचक्राम लोकान्स राज्ञां राजीवलोचनः॥४१॥

एवं स सङ्क्रमंस्तत्र स्वर्गलोके महायशाः ।
ततो ददर्श शक्रस्य पुरीं ताममरावतीम्॥४२॥

संक्रमन् गच्छन् । अमरावतीं नाम्ना ॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि द्विचत्त्वारिंशोऽध्यायः॥४२॥
त्रिचत्त्वारिंशोऽध्यायः

वैशंपायन उवाच। ददर्श स पुरीं रम्यां सिद्धचारणसेविताम् ।
सर्वर्तुकुसुमैः पुण्यैः पाद‌पैरुपशोभिताम्॥१॥

ददर्शेति ॥१॥

तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम् ।
उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना॥२॥

सौगन्धिकानां कल्हाराणां पुष्पाणां च मिश्रेण वायुनेति संबन्धः ॥२॥

नन्दनं च वनं दिव्यमप्सरोगणसेवितम् ।
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः॥३॥

नन्दनं नामतः ॥३॥

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना ।
स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्मुखैः॥४॥

नातप्ततपस इति । तप आदीनां निषेधमुखेन स्वर्गसाधनत्वं विधीयते ॥४॥

नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः ।
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः॥५॥

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन ।
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः॥६॥

यज्ञहनैः द्रव्यं देवता च यज्ञस्वरूपं तत्र यो दक्षिणाहीनं देवतास्वरूपज्ञानहीनं च यज्ञं करोति स वृथापशुबीजघाती यज्ञहन इत्युच्यते । तथा च श्रूयते शतपथे ‘घ्नन्ति वा एतद्यज्ञं यदेनं तन्वते यत्त्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपपलाभ्यां हविर्यज्ञं घ्नन्ति स एष यज्ञो हतो न ददक्षे तं देवा दक्षिणाभिरदक्षयंस्तद्येनं दक्षिणाभिरदक्षयंस्तद्दक्षिणा नामेति’। राजानं सोमवल्लीम् अभिषुण्वन्ति कण्डयन्ति । संज्ञपयन्ति घ्नन्ति। विशासति विशसनं करोति । न ददक्षे दक्षो न बभूव । अदक्षयन् दक्षमकुर्वन् । असंज्ञायामपि हन्तेर्घः। यज्ञहरैरित्यपपाठः । अत एव क्षुद्रेः लुब्धैः। पानशब्दो निरुपपदो मद्यवाची । गुरुतल्पसमधिव्याहाराद्वा पानवैः मद्यपैः मांसादैः वृथामांसभक्षकैः । अन्यत्र तु ‘देवान्पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्’ इति स्मृतेर्न दोषः । अत एव दुरात्मभिः हिंस्त्रैः ॥६॥

स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् ।
प्रविशेश महाबाहुः शक्रस्य दयितां पुरीम्॥७॥

तत्र देवविमानानि कामगानि सहस्त्रशः ।
संस्थितान्यभियातानि ददर्शायुतशस्तदा॥८॥

अभितः यान्ति एतान् देशानित्यभियातानि आपानभूमयः ॥८॥

संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः ।
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः॥९॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम्॥१०॥

आशीर्वादैःस्तूयमानो दिव्यवादित्रनिःस्वनैः ।
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्॥११॥

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् ।
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः॥१२॥

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा ।
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः॥१३॥

राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः ।
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हाहाहुहूः॥१४॥

तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः ।
ततोऽपश्यद्देवराजं शतक्रतुमरिन्दमः॥१९॥

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् ।
ददर्श साक्षाद्देवेशं पितरं पाकशासनम्॥१६॥

पाकशासनं पाकशब्दः प्रशस्ते नीचे च वर्तते । ‘योमापाकेन मनसा चरन्तम् । योऽस्मात्पाकतर’ इत्यादि प्रयोगात् तेन देवादीनामधिपतिरिति वा दुष्टानां दण्डयितेति वा पाकशासनपदस्यावयवार्थः पाकनामा दैत्य इत्यन्ये ॥१६॥

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा ।
दिव्यगन्धाधिवासेन व्यजनेन विधूयता॥१७॥

विश्वावसुप्रभृतिभिर्गन्धर्वैस्तुतिवन्दभिः ।
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसम्भवैः॥१८॥

स्तुतिवन्दिभिः स्तुत्या वन्दमानैः ॥१८॥

ततोऽभिगम्य कौन्तेयः शिरसाभ्यगमद्बली ।
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत॥१९॥

ततः शक्रासने पुण्ये देवर्षिगणसेविते ।
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके॥२०॥

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा ।
अङ्कमारोपयामास प्रश्रयावनतं तदा॥२१॥

प्रश्रयावनतं विनयेन प्रहृीभूतम् ॥२१॥

सहस्राक्षनियोगात्स पार्थः शक्रासनं गतः ।
अध्यक्रामदमेयात्मा द्वितीय इव वासवः॥२२॥

प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ ।
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ॥२४॥

वज्रग्रहणचिह्नेन करेण परिसान्त्वयन् ।
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्च्छनैः॥२५॥

वज्रग्रहणस्य चिह्नं किणो यस्मिन् ॥२५॥

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्त्रदृक् ।
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा॥२६॥

एकासनोऽपविष्टौ तौ शोभयाञ्चक्रतुः सभाम् ।
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ॥२७॥

चतुर्दश्यामिति । यद्यपि दर्शे एव सूर्येन्दोरेकासनगतत्वम् एकनक्षत्रस्थत्वादस्ति न चतुर्दश्यां तथापि सामीप्यलक्षणया एकराशिस्थत्वमत्र ग्राह्यम् । अन्यथाश्विनीस्थे सूर्ये चतुर्दश्यां रेवतीयोगे एकराशिस्थितत्वस्याप्यलाभात् ॥२७॥

तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना ।
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु॥२८॥

साम्ना प्रीत्या । वल्गुना रम्येण । गीतानि अमन्त्रोपरिगानं साममन्त्रोपरिगानम् ॥२८॥

घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा ।
उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी॥२९॥

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा ।
चित्रसेना चित्रलेखा सहा च मधुरस्वरा॥३०॥

एताश्चान्याश्च ननृतुस्तत्र तत्र सहस्रशः ।
चित्तप्रसादने युक्ताः सिद्धानां पद्मलोचनाः॥३१॥

महाकटितटश्रोण्यः कम्पमानैः पयोधरैः ।
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः॥३२॥

चेतः अलोचनात्मिका चित्तवृत्तिः । बुद्धिरध्यवसायरूपा । मनः संकल्पविकल्पात्मकम् । कटाक्षादिभिः चित्तस्य वृत्त्यन्तरं हरन्तीत्यर्थः ॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि इन्द्रसभादर्शने त्रिचत्वारिंशोऽध्यायः॥४३॥
चतुश्चत्वारिंशोऽध्यायः

वैशंपायन उवाच। ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा॥१॥

तत इति ॥१॥

पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।
प्रवेशयामासुरथो पुरन्दरनिवेशनम्॥२॥

एवं संपूजितो जिष्णुरुवास भवने पितुः ।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः॥३॥

शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम् ।
अशनीश्च महानादा मेघबर्हिणलक्षणाः॥४॥

मेघबर्हिणलक्षणाः अकालेऽपि उद्यतेर्मेघैर्नृत्यमानैश्च मयूरैर्यत् अशन्यस्त्रं देशान्तरे प्रयुक्तमिति लक्ष्यते । देशान्तरीयैः ता अशनोर्बह्वीरित्यर्थः ॥४॥

गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।
पुरन्दरनियोगाच्च पञ्चाब्दानवसत्सुखी॥५॥

भ्रातॄन्सस्मार स्वर्गेऽपि दुःखितभ्रातृस्मरणेन दुःखवानेवाभूदित्यर्थः ॥५॥

ततः शक्रोब्रवीत्पार्थं कृतास्त्रं काल आगते ।
नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि॥६॥

वादिंत्रं देवविहितं नृलोके यन्न विद्यते ।
तदर्जस्यस्व कौन्तेय श्रेयो वै ते भविष्यति॥७॥

सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः ।
स तेन सह सङ्गस्य रेमे पार्थो निरामयः॥८॥

गीतवादित्रनृत्यानि भूय एवादिदेश ह ।
तथापि नालभच्छर्म तपस्वी द्यूतकारितम्॥९॥

दुःशासनवधामर्षी शकुनेः सौबलस्य च ।
ततस्तेनातुलां प्रीतिमुपागम्य क्वचित् क्वचित् ।
गान्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान्॥१०॥

स शिक्षितो नृत्यगुणाननेकान् वादित्रगीतार्थगुणांश्च सर्वान् ।
न शर्म लेभे परवीरहन्ता भ्रातॄन्स्मरन्मातरं चैव कुन्तीम्॥११॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्त्वारिंशोऽध्यायः॥४४॥
पञ्चचत्वारिंशोऽध्यायः

वैशंपायन उवाच। आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत् ।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः॥१॥

आदाविति ॥१॥

गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम् ।
उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम्॥२॥

उर्वशीं गच्छ सा च फाल्गुनम् उपातिष्ठतु ॥२॥

यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः ।
तथा त्वया विधातव्यं स्त्रीषु सङ्गविशारदः॥३॥

एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात् ।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम्॥४॥

तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया ।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत्॥५॥

विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः ।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना॥६॥

यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः ।
श्रिया शीलेन रूपेण व्रतेन च दमेन च ।
प्रख्यातो बलवीर्येण सम्मतः प्रतिभानवान्॥७॥

प्रतिभानं समये स्फूर्तिः ॥७॥

वर्चस्वी तेजसा युक्तः क्षमावान्वीतमत्सरः ।
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान्॥८॥

वर्चः शरीरे विद्यैश्वर्यादिजं तेजः तद्वान् वर्चस्वी । तेजः शौर्यं तेन युक्तः । चतुराख्यानपञ्चमान् चतुः चतुःसंख्यान् विभक्तिलोप आर्षः । आख्यानं भारतादि । चतुरप्रियम् आख्यानं चतुराख्यानमिति मध्यमपदलोपेन वा शाकपार्थिवादिवत्समासः ॥८॥

योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् ।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च॥९॥

गुरुशुश्रूषां मेधां च प्रत्येकमष्टगुणाम् अधीते प्राप्नोति । गुणाश्च वाक्यशेषादेव यथायथमूह्याः । ब्रह्मचर्यम् उपस्थनिग्रहः । दाक्ष्यम् अनालस्यं प्रसवैर्द्वैमातुः कुले द्वे पितुस्तैः चतुर्भिः । वयसा तारुण्येन॥९॥

एको वै रक्षिता चैव त्रिदिवं मघवानिव ।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः॥१०॥

रक्षिता पालकः। अकत्थन इति पालकश्चेति श्लाघाराहित्यम् । स्थूलमिव सुज्ञेयं लक्ष्यं लक्षयितुं योग्यं सूक्ष्मं यस्य । सूक्ष्मानप्यर्थान् स्थूलवझ्झटित्येवावगच्छतीत्यर्थः दाता वा ॥१०॥

सुहृदश्चान्नपानेन विविधेनाभिवर्षति ।
सत्यवाक्पूजितो वक्ता रूपवाननहङ्कृतः॥११॥

रूपवान् सुन्दरः ॥११॥

भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसङ्गरः ।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः॥१२॥

कान्तः सुखदः । अत एव प्रियः प्रेमास्पदम् । प्रसववयो व्यतिरिक्त ब्रह्मचर्यादयोऽष्टौ शुश्रूषागुणाः सत्यवाक्त्वादयः पूजितत्वादन्येष्टौ मेधागुणा इति विभागः । यद्वा ‘शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः’ इति धीगुणाष्टकं ग्राह्यम् ॥१२॥

विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात् ।
तव शक्राभ्यनुज्ञातः पादावद्य प्रपद्यताम् ।
तदेवं कुरु कल्याणि प्रपन्नस्त्वां धनञ्जयः॥१३॥

स्वर्गफलं त्वत्संगम् । तव पादाविति प्रपन्न इति च रतार्थिनो दीनता दर्शिता ॥१३॥

एवमुक्ता स्मितं कृत्वा सम्मानं बहुमन्य च ।
प्रत्युवाचोऽर्वशी प्रीता चित्रसेनमनिन्दिता॥१४॥

बहुमन्य मत्वा ॥१४॥

यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम ।
तं श्रुत्वाऽव्यथयं पुंसो वृणुयां किमतोऽर्जुनम्॥१५॥

गुणोद्देशः गुणलेशः । तम् अर्जुनम् । पुंसः यतः कुतश्चित् सकाशाच्छ्रुत्वा अव्यथयं स्वार्थे णिच्। प्रागेव कामव्यथां प्राप्तवत्यस्मि अतो हेतोरर्जुनं किं वृणुयामिति काक्वा प्रागेव वृतत्वं दर्शयति॥१५॥

महेन्द्रस्य नियोगेन त्वत्तः संप्रणयेन च ।
तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा ।
गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम्॥१६॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि चित्रसेनोर्वशीसंवादे पञ्चचत्त्वारिंशोऽध्यायः॥४५॥
षट्चत्त्वारिंशोऽध्यायः

वैशंपायन उवाच। ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता ।
उर्वशी चाकरोत्स्रानं पार्थदर्शनलालसा॥१॥

तत इति ॥१॥

स्नानालङ्करणैर्हृद्यैर्गन्धमाल्यैश्च सुप्रभैः ।
धनञ्जयस्य रूपेण शरैर्मन्मथचोदितैः॥२॥

रूपेण सौन्दर्येण ॥२॥

अतिविद्धेन मनसा मन्मथेन प्रदीपिता ।
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे॥३॥

चित्तसङ्कल्पभावेन सुचित्तानन्यमानसा ।
मनोरथेन सम्प्राप्तं रमन्त्येनं हि फाल्गुनम्॥४॥

रमन्ती रमयन्ती ॥४॥

निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे ।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति॥५॥

मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा ।
केशहस्तेन ललना जगामाथ विराजती॥६॥

केशहस्तेन हस्तः शुण्डादण्डः तेनेव वेण्येत्यर्थः ॥६॥

भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयापि च ।
शशिनं वक्त्रचन्द्रेण साह्वयन्तीव गच्छती॥७॥

आह्वयन्ती स्पर्धया एहि युध्यावहे इति वदन्तीव ॥७॥

दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ ।
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः॥८॥

स्तनोद्वहनसंक्षोभान्नम्यमाना पदे पदे ।
त्रिवली दामचित्रेण मध्येनातीवशोभिना॥९॥

अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम् ।
मन्मथायतनं शुभ्रं रसनादामभूषितम्॥१०॥

उन्नतः पीवरश्च नितम्ब एवेति विशेषणं विशेष्येण बहुलमिति बाहुलकात्समासः ॥१०॥

ऋषीणामपि दिव्यानां मनोव्याघातकारणम् ।
सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत्॥११॥

अवद्यवत् दोषवत् तदभावो निरवद्यवत् ॥११॥

गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली ।
कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ॥१२॥

सीधुपानेन चाल्पेन तुष्ट्याथ मदनेन च ।
विलासनैश्च विविधैः प्रेक्षणीयतराभवत्॥१३॥

सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी ।
बह्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः॥१४॥

सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता ।
तनुरभ्रावृता व्योम्नि चन्द्रलेखेव गच्छती॥१५॥

ततः प्राप्ता क्षणेनैव मनःपवनगामिनी ।
भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता॥१६॥

तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता ।
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना॥१७॥

उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम् ।
स शङ्कितमना राजन्प्रत्युद्गच्छत तां निशि॥१८॥

दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः ।
तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्॥१९॥

अर्जुन उवाच। अभिवादये त्वां शिरसा प्रवराप्सरसां वरे ।
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः॥२०॥

फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी ।
गन्धर्ववचनं सर्वं श्रावयामास तं तदा॥२१॥

उर्वश्युवाच ।
यथा मे चित्रसेनेन कथितं मनुजोत्तम ।
तत्तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता॥२२॥

उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे ।
तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे॥२३॥

रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः ।
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम॥२४॥

महर्षीणां च संघेषु राजर्षिप्रवरेषु च ।
सिद्धचारणयक्षेषु महोरगगणेषु च॥२५॥

उपविष्टेषु सर्वेषु स्थानमानप्रभावतः ।
ऋध्द्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु॥२६॥

वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन ।
दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन॥२७॥

सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह ।
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्॥२८॥

तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम् ।
तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः॥२९॥

अवभृथो यज्ञान्तस्नानं तत्प्राप्ये ॥२९॥

तथैवाप्सरसः सर्वा विशिष्टाः स्वगृहं गताः ।
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः॥३०॥

ततः शक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकम् ।
प्राप्तः कमलपत्राक्ष स च मामब्रवीदथ॥३१॥

त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि ।
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह॥३२॥

शक्रतुल्यं रणे शूरं सदौदार्यगुणान्वितम् ।
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाब्रवीत्॥३३॥

ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ ।
तवान्तिकमनुप्राप्ता शुश्रूषितुरिन्दम॥३४॥

तेन चित्रसेनेन तव पित्रा च इन्द्रेण च शुश्रूषितुं सेवितुम् ॥३४॥

त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता ।
चिराभिलषितो वीर ममाप्येष मनोरथः॥३५॥

वैशंपायन उवाच। तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतोऽर्जुनः ।
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये॥३६॥

दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि ।
गुरुदारैः समाना मे निश्चयेन वरानने॥३७॥

दुःश्रुतं मेस्तु मम श्रवणं व्यर्थमस्तु यत्त्वम् एवंविधदुष्कर्मयोग्यतां मयि संभावयसीत्यर्थः ॥३७॥

यथा कुन्ती महाभागा यथेन्द्राणी शची मम ।
तथा त्वमपि कल्याणी नात्र कार्या विचारणा॥३८॥

यच्चेक्षितासि विस्पष्टं विशेषेण मया शुभे ।
तच्च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते॥३९॥

इयं पौरववंशस्य जननी मुदितेऽति ह ।
त्वामहं दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः॥४०॥

न मामर्हसि कल्याणि अन्यथा ध्यातुमप्सरः ।
गुरोर्गुरुतरा मे त्वं मम त्वं वंशवर्धिनी॥४१॥

अप्सर इत्येकत्वमार्षम् । यद्वास्यादेकत्वेऽप्सरा अपीति शब्दार्णवादेकत्वं साधु ॥४१॥

उर्वश्युवाच ।
अनावृताश्च सर्वाः स्म देवराजाभिनन्दन ।
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि॥४२॥

पुरोर्वंशे हि ये पुत्रा नप्तारो वा त्विहागताः ।
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः॥४३॥

तत्प्रसीद न मामार्तां विसर्जीयतुमर्हसि ।
हृच्छयेन च सन्तप्तां भक्तां च भज मानद॥४४॥

अर्जुन उवाच। शृणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते ।
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः॥४५॥

यथा कुन्ती च माद्री च शची चैव ममानघे ।
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी॥४६॥

गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते वरवर्णिनि ।
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया॥४७॥

वैशंपायन उवाच। एवमुक्ता तु पार्थेन उर्वशी क्रोधमूच्छिता ।
वेपन्ती भ्रुकुटीवक्रा शशापाथ धनंजयम्॥४८॥

भ्रुकुट्या वक्रा न तु मनसा हितार्थत्वाच्छापस्येति भावः ॥४८॥

उर्वश्युवाच ।
तव पित्राभ्यनुज्ञातां स्वयं च गृहमागताम् ।
यस्मान्मां नाभिनन्देथाः कामबाणवशङ्गताम्॥४९॥

तस्मात्त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः ।
अपुमानिति विख्यातः षण्ढवद्विचरिष्यसि॥५०॥

एवं दत्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्यथ ।
पुनः प्रत्यागता क्षिप्रमुर्वशी गृहमात्मनः॥५१॥

ततोऽर्जुनस्त्वरमाणश्चित्रसेनमरिन्दमः ।
संप्राप्य रजनीवृत्तं तदुर्वश्या यथातथा॥५२॥

निवेदयामास तदा चित्रसेनाय पाण्डवः ।
तत्र चैवं यथावृत्तं शापं चैव पुनःपुनः॥५३॥

अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः ।
तत आनाय्य तनयं विविक्ते हरिवाहनः॥५४॥

सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत ।
सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम॥५५॥

ऋषयोऽपि हि धैर्येण जिता वै ते महाभुज ।
यत्तु दत्तवती शापमुर्वशी तव मानद॥५६॥

स चापि तेऽर्थकृत्तात साधकश्च भविष्यति॥५७॥

अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ ।
वर्षे त्रयोदशे वीर तं तत्र क्षपयिष्यसि॥५८॥

तेन नर्तनवेषेण अपुंस्त्वेन तथैव च ।
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि॥५९॥

एवमुक्तस्तु शक्रेण फाल्गुनः परवीरहा ।
मुदं परमिकां लेभे न च शापं व्यचिन्तयत्॥६०॥

चित्रसेनेन सहितो गन्धर्वेण यशस्विना ।
रेमे स स्वर्गभवने पाण्डुपुत्रो धनञ्जयः॥६१॥

इदं यः शृणुयाद्वृत्तं नित्यं पाण्डुसुतस्य वै ।
न तस्य कामः कामेषु पापकेषु प्रवर्तते॥६२॥

इदममरवरात्मजस्य घोरं शुचि चरितं विनिशम्य फाल्गुनस्य ।
व्यपगतमददम्भरागदोषास्त्रिदिवगता विरमन्ति मानवेन्द्राः॥६३॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि उर्वशीशापो नाम षट्चत्त्वारिंशोऽध्यायः॥४६॥
सप्तचत्त्वारिंशोऽधायः

वैशंपायन उवाच। कदाचिदटमानस्तु महर्षिरुत लोमशः ।
जगाम शक्रभवनं पुरन्दरदिदृक्षया॥१॥

कदाचिदिति ॥१॥

स समेत्य नमस्कृत्य देवराजं महामुनिः ।
ददर्शार्धासनगतं पाण्डवं वासवस्य हि॥२॥

ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः॥३॥

तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् ।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान्॥४॥

किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः ।
स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम्॥५॥

तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः ।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः॥६॥

ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।
नायं केवलमर्त्यो वै मानुषत्वमुपागतः॥७॥

महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात्॥८॥

अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् ।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम्॥९॥

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
ताविमावनुजानीहि हृषीकेशधनञ्जयौ॥१०॥

विख्यातौ त्रिषु लोकेषु नरनारायणावृषी ।
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम्॥११॥

यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।
तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम्॥१२॥

स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।
यतः प्रववृते गङ्गा सिद्धचारणसेविता॥१३॥

तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातो महाद्युती ।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः॥१४॥

उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।
विप्रियेषु स्थितास्माकं वरदानेन मोहिताः॥१५॥

तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।
देवान्न गणयन्त्येते तथा दत्तवरा हि ते॥१६॥

पातालबासिनो रौद्रा दनोः पुत्रा महाबलाः ।
सर्वदेवनिकाया हि नालं योधयितुं हितान्॥१७॥

देवनिकायाः देवसमूहाः । नालं न समर्थाः ॥१७॥

योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः ।
कपिलो नाम देवोऽसौ भगवानजितो हरिः॥१८॥

कपिलः। ‘ऋषिं पुराणं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्’ इति श्रुतिप्रसिद्धः । अग्रे जायमानं पाञ्चरात्रागमेऽनिरुद्धत्वेन वेदे सूत्रात्मत्वेन च व्यवहृतं नारायणम् ॥१८॥

येन पूर्वं महात्मानः खनमाना रसातलम् ।
दर्शनादेव निहताः सगरस्यात्मजा विभो॥१९॥

तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम ।
पार्थेन च महायुद्धे समेताभ्यां न संशयः॥२०॥

सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान् ।
निवातकवचान्सर्वान्नागानिव महाह्रदे॥२१॥

किं तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः ।
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत्॥२२॥

प्रबोध्यो विज्ञाप्यः ॥२२॥

अयं तेषां समस्तानां शक्तः प्रतिसमासने ।
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान्॥२३॥

तेषां निवातकवचानाम् । प्रतिसमासने संक्षेपणे ॥२३॥

भवानस्मन्नियोगेन यातु तावन्महीतलम् ।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्॥२४॥

स वाच्यो मम सन्देशाद्धर्मात्मा सत्यसङ्गरः ।
नोऽत्कण्ठा फाल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति॥२५॥

नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे ।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्॥२६॥

गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः ।
नृत्यवादित्रगीतानां दिव्यानां पारमीयिवान्॥२७॥

गुडाकेशोऽर्जुनः ॥२७॥

भवानपि विविक्तानि तीर्थानि मनुजेश्वर ।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिन्दम॥२८॥

तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।
राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः॥२९॥

भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम् ।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः॥३०॥

गिरिदुर्गेषु च सदा देशेषु विषमेषु च ।
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षां विधास्यति॥३१॥

एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम् ।
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्॥३२॥

यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम ।
दानं दद्याद्यथा चैव तथा कुरु महामुने॥३३॥

वैशंपायन उवाच। तथेति सम्प्रतिज्ञाय लोमशः सुमहातपाः ।
काम्यकं वनमुद्दिश्य समुपायान्महीतलम्॥३४॥

संप्रतिज्ञाय अङ्गीकृत्य ॥३४॥

ददर्श तत्र कौन्तेयं धर्मराजमरिन्दमम् ।
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम्॥३५॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि लोमशगमने सप्तचत्त्वारिंशोऽध्यायः॥४७॥
अष्टचत्वारिंशोऽध्यायः

जनमेजय उवाच। अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः ।
धृतराष्ट्रो महाप्राज्ञः श्रुत्वा विप्र किमब्रवीत्॥१॥

अत्यद्भुतमिदं कर्मेत्यादेरध्यायद्वयस्य तात्पर्यं परोत्कर्षे श्रुते स्वनाशशङ्कया मूढस्तप्यत इति॥१॥

वैशंपायन उवाच। शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः ।
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत्॥२॥

धृतराष्ट्र उवाच। श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः ।
कच्चित्तवापि विदितं याथातथ्येन सारथे॥३॥

प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः ।
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति॥४॥

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः॥५॥

ऋताः सत्याः ॥५॥

अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् ।
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः॥६॥

मम पुत्रा दुरात्मानः सर्वे मृत्युवशानुगाः ।
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम्॥७॥

तथैव च न पश्यामि युधि गाण्डीवधन्वनः ।
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी॥८॥

द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे ।
महान्स्यात्संशयो लोके तत्र पश्यामि नो जयम्॥९॥

प्रतीयातां प्रतिगच्छेताम् ॥९॥

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः॥१०॥

घृणी दयालुः । प्रमादी अनवहितः संरम्भी उद्यमी ॥१०॥

सम्भवेत्तुमुलं युद्धं सर्वशोऽप्यपराजितम् ।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः॥११॥

अपि सर्वेश्वरत्वं हि ते वाञ्च्छन्त्यपराजिताः ।
वधे नूनं भवेच्छान्तिरेतेषां फाल्गुनस्य वा॥१२॥

न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते ।
मन्युस्तस्य कथं शाम्येन्मां चैव प्रतिसंहितः॥१३॥

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् ।
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ॥१४॥

शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि सञ्जय ।
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना॥१५॥

यथा हि किरणा भानोस्तपन्तीह चराचरम् ।
तथा पार्थ भुजोत्सृष्टाः शरास्तप्यन्ति मत्सुतान्॥१६॥

अपि तद्रथघोषेण भयार्ताः सव्यसाचिनः ।
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः॥१७॥

अपीति ।सव्यसाचिनः रथघोषेणापि तत् तत्र रणे ॥१७॥

यदुद्वमन्प्रवपंश्चैव बाणान् स्थाताततायी समरे किरीटी ।
सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदपारणीयः॥१८॥

यत् यद्वा उद्वमन् निषङ्गादुद्धरन् । प्रवपन् प्रेरयन् । स्थाता स्थास्यति । आततायी शस्त्रपाणिः । यथोक्तम् ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः॥’ अपारणीयः अनुल्लङ्घनीयः जेतुमशक्यः ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रविलापे अष्टचत्त्वारिंशोऽध्यायः॥४८॥
एकोऽनपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति ।
सर्वमेतद्यथातत्त्वं नैतन्मिथ्या महीपते॥१॥

यदेतदिति ॥१॥

मन्युना हि समाविष्टाः पाण्डवास्ते महौजसः ।
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम्॥२॥

दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः ।
कर्णस्य च महाराज जुगुप्सन्तीति मे मतिः॥३॥

श्रुतं हि मे महाराज यथा पार्थेन संयुगे ।
एकादशतनुः स्थाणुर्धनुषा परितोषितः॥४॥

कैरातं वेषमास्थाय योधयामास फाल्गुनम् ।
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्॥५॥

तत्रैनं लोकपालास्ते दर्शयामासुरच्युतम् ।
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्॥६॥

नैतदुत्सहते चान्यो लब्धुमन्यत्र फाल्गुनात् ।
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि॥७॥

महेश्वरेण यो राजन्न जीर्णो ह्यष्टमूर्तिना ।
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान्॥८॥

न जीर्णो न क्षीणः । अष्टौ पञ्च भूतानि सूर्यचन्द्रपुरुषाश्च मूर्तयो यस्य ॥८॥

आसादितमिदं घोरं तुमुलं लोमहर्षणम् ।
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्॥९॥

यत्तु प्रस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत् ।
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ॥१०॥

उरू भेत्स्यामि ते पाप गदया भीमवेगया ।
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः॥११॥

दुर्द्यूतदेविनः छद्मद्यूतेन जेतुकामस्य ॥११॥

सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः ।
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः॥१२॥

मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे ।
अन्तं पार्थाः करिष्यन्ति भार्यामर्षसमन्विताः॥१३॥

अन्तं नाशम् ॥१३॥

धृतराष्ट्र उवाच। किं कृतं सूत कर्णेन वदता परुषं वचः ।
पर्याप्तवैरमेतावद्यत्कृष्णा सा सभां गता॥१४॥

अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः ।
येषां भ्राता गुरुर्ज्येष्ठो विनयेनावतिष्ठते॥१५॥

विनये नीतौ ॥१५॥

ममापि वचनं सूत न शुश्रूषति मन्दभाकू ।
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्॥१६॥

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः ।
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः॥१७॥

स्वैरमुक्ता ह्यपि शराः पार्थेनामिततेजसा ।
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः॥१८॥

पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः ।
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि॥१९॥

यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः ।
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्॥२०॥

इदं हि सुमहच्चित्रमर्जुनस्येह सञ्जय ।
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः॥२१॥

प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा ।
फाल्गुनेन सहायार्थे वह्नेर्दामोदरेण च॥२२॥

सर्वथा न हि मे पुत्राः सहामात्याः ससौवलाः ।
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते॥२३॥

न हि सन्तीति शेषः ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रखेदे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
पञ्चाशत्तमोऽध्यायः

जनमेजय उवाच। यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने ।
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्॥१॥

यदिदं शोचितमित्यादेरध्यायद्वयस्य तात्पर्यं सत्यसंरक्षणे कृते देवा मानुषाश्चानुगृह्णन्तीति ॥१॥

कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम् ।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्॥२॥

किमासीत्पाण्डुपुत्राणां वने मोजनमुच्यताम् ।
वानेयमथवा कृष्टमेतदाख्यातु नो भवान्॥३॥

वानेयं वनमवं नीवारादि कृष्टं कर्षणजं ग्राम्यधान्यम् ॥३॥

वैशंपायन उवाच। वानेयं च सृगांश्चैव शुद्धैर्बाणैर्निपातितान् ।
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः॥४॥

शुद्धेर्विषालिप्तैः ‘विषलिप्तेन बाणेन यौ हतौ मृगपक्षिणौ । तयोर्मांसं कलंजं तद्भुक्त्वा चान्द्रायणं चरेत्’ इति स्मृतेः । अग्रं हन्तकारप्रदेयम् ॥४॥

तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने ।
अन्वयुर्ब्रह्मणा राजन्साग्नयोऽनग्नयस्तथा॥५॥

अनग्नयः परिव्राजकाः ॥५॥

ब्राह्मणानां सहस्त्राणि स्नातकानां महात्मनाम् ।
दशमोक्षविदां तत्र यान्बिभर्ति युधिष्ठिरः॥६॥

रुरून्कृष्णसृगांश्चैव मेध्यांश्चान्यान्वनेचरान् ।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत्॥७॥

न तत्र कश्चिद्दुर्वर्णो व्याधितो वापि दृश्यते ।
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा पुनः॥८॥

पुत्रानिव प्रियान्भ्रातॄञ्ज्ञातीनिव सहोदरान् ।
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः॥९॥

पतींश्च द्रौपदी सर्वान्द्विजातींश्च यशस्विनी ।
मातृवद्भोजयित्वाग्रे शिष्टमाहारयत्तदा॥१०॥

आहारयत् आहारं कृतवती ॥१०॥

प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाप्युदीचीम् ।
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य॥११॥

तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम् ।
पञ्चैव वर्षाणि तथा व्यतीयुरधीयतां जपतां जुह्वतां च॥१२॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि पार्थाहारकथने पञ्चाशत्तमोऽध्यायः॥५०॥
एकपञ्चाशत्तमोऽध्यायः

वैशंपायन उवाच ।
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम् ।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः॥१॥

तेषामिति । मन्युना दैन्येन ॥१॥

दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ॥२॥

न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम् ।
संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत्॥३॥

तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् ।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम्॥४॥

देवपुत्रौ महाभागौ देवराजसमद्युती ।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ॥५॥

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ ।
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ॥६॥

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि ।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ॥७॥

निःशेषमिह पश्यामि मम सैन्यस्य संजय ।
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ॥८॥

द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ।
वृष्णयोथ महेष्वासाः पञ्चाला वा महौजसः॥९॥

न क्षंस्येते क्षमां न करिष्यतः ॥९॥

युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्॥१०॥

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।
न शक्यः सहितुं वेगः सर्वैस्तैरपि संयुगे॥११॥

सहितुं सोढुम् ॥११॥

तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः ।
शैक्यया वीरघातिन्या गदया विचरिष्यति॥१२॥

शैक्यया शिक्यस्थया । भूमिं भित्त्वा पातालं प्रवेक्ष्यतीति भयादन्तरिक्षे एव धृतयेत्यर्थः ॥१२॥

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥१३॥

ततोहं सुहृदां वाचो दुर्योधनवशानुगः ।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा॥१४॥

संजय उवाच ।
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः॥१५॥

पुत्रस्ते त्वया ॥१५॥

श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः ।
त्वरितः काम्यके पार्थान्समभावयदच्युतः॥१६॥

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः ।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः॥१७॥

तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान् ।
चारेण विदितं सर्वं तन्मयावेदितं च ते॥१८॥

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।
सारथ्ये फाल्गुनस्याजौ तथेत्याह च तान्हरिः॥१९॥

अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तदागतान् ।
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्॥२०॥

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह ।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा॥२१॥

यत्र सर्वान्महीपालाञ्च्छस्त्रतेजोभयार्दितान् ।
सवङ्गाङ्गान्सपौण्ड्रौड्रान्सचोलद्राविडान्ध्रकान्॥२२॥

सागरानूपकांश्चैव ये च प्रान्ताभिवासिनः ।
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः॥२३॥

पश्चिमानि च राष्ट्राणि शतशः सागरान्तिकान् ।
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्च्छकान्॥२४॥

हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा ।
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान्॥२५॥

केकयान्मालवांश्चैव तथा काश्मीरकानपि ।
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान्॥२६॥

सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी ।
आदाय जीवितं तेषामाहरिष्यामि तामहम्॥२७॥

प्रतिसारिणी प्रतीपं सरतीति नीचानुमाभिनीत्यर्थः । आहरिष्यामि इदानीमेवेति शेषः । अत एव प्रार्थना सत्यं मां कुर्विति ॥२७॥

रामेण सह कौरव्य भीमार्जुनयमैस्तथा ।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च॥२८॥

धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत॥२९॥

दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति ।
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्॥३०॥

धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ।
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे॥३१॥

शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च ।
युधिष्ठिर उवाच ।
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन॥३२॥

अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ।
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव॥३३॥

प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ।
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः॥३४॥

धृष्टद्युम्नपुरोगास्ते समयामासुरञ्जसा ।
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्॥३५॥

समयामासुः समं युक्तमित्याचख्युः । समशब्दात्तदाचष्ट इति णिच् लिटि आम् । शमयामासुरिति पाठे स्पष्टोऽर्थः ॥३५॥

पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः ।
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्॥३६॥

प्रतिजानीमहे सत्यं मा शुचो वरवर्णिनि ।
ये स्म तेऽक्षजितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा ।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः॥३७॥

पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा ।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले॥३८॥

तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले ।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्॥३९॥

परिक्लिष्टासि यैस्तत्र यैश्चासि समुपेक्षिता ।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्॥४०॥

एवं बहुविधा वाचस्त ऊचुर्भरतर्षभाः ।
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः॥४१॥

अहतलक्षणाः अखण्डितध्वजाः । आहवलक्षणा इति पाठे आहवयोग्यानि शौर्यद्योतकानि लक्षणानि सामुद्रिकचिह्नानि येषामित्यर्थः ॥४१॥

ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् ।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः॥४२॥

रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ ।
माद्रीसुतौ केकयराजपुत्राःपाञ्चालपुत्राः सह मत्स्यराज्ञा॥४३॥

युयुधानः सात्यकिः ॥४३॥

एतान्सर्वान्लोकवीरानजेया-न्महात्मनः सानुबन्धान्ससैन्यान् ।
को जीवितार्थी समरेभ्युदीया-त्क्रुद्धान्सिंहान्केसरिणो यथैव॥४४॥

केसरिणः क्रोधेन उच्छ्रितसटान् ॥४४॥

धृतराष्ट्र उवाच। यन्माऽब्रवीद्विदुरो द्यूतकालेत्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र ।
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः॥४५॥

मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम् ।
असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम्॥४६॥

इति श्रीमहाभारते आरण्यके पर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रविलापे एकपञ्चाशत्तमोऽध्यायः॥५१॥
समाप्तमिन्द्रलोकाभिगमनपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in