अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

नलोपाख्यानपर्व

द्विपञ्चाशत्तमोऽध्यायः

जनमेजय उवाच ।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः॥१॥

अस्त्रेति ॥१॥

वैशंपायन उवाच ।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः॥२॥

आवसन् आवासं कृतवन्तः ॥२॥

ततः कदाचिदेकान्ते विविक्त इव शाद्वले ।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया॥३॥

धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ।
तद्वियोगार्दितान्सर्वाञ्च्छोकः समभिपुप्लुवे॥४॥

पुप्लुवे प्लावितवान् ॥४॥

धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः ।
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत॥५॥

निदेशात्ते महाराज गतोऽसौ भरतर्षभः ।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः॥६॥

निदेशात् आज्ञातः ॥६॥

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयः॥७॥

योऽसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन् ।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्॥८॥

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्॥९॥

यस्य प्रभावान्न मया सभामध्ये धनुष्मतः ।
नीता लोकमिमं सर्वे धार्तराष्ट्राः ससौबलाः॥१०॥

अमुं लोकं परलोकम् ॥१०॥

ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।
सहामहे भवन्मूलं वासुदेवेन पालिताः॥११॥

वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम्॥१२॥

भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः ।
अहीनपौरुषा बाला बलिभिर्बलवत्तराः॥१३॥

अहीनपौरुषा अपि वयम् उपप्लुताः कृताः । ये बाला मूर्खाः दुर्योधनादयस्ते बलिभिः सामन्तदत्तैर्धनैर्बलवत्तराः कृताः ॥१३॥

क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि ।
ग हि धर्मो महाराज क्षत्रियस्य वनाश्रयः॥१४॥

राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ।
स क्षत्रधर्मविद्राजा मा धर्म्यान्नीनशः पथः॥१५॥

मा नीनशः मा नाशय ॥१५॥

प्राग्द्वादशसमा राजन्धार्तराष्ट्रान्निहन्महि ।
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्॥१६॥

व्यूढानीकान्महाराज जवेनैव महामते ।
धार्तराष्ट्रानमुं लोकं गमयाम विशांपते॥१७॥

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते॥१८॥

मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः ।
एवं कृते न ते दोषा भविष्यन्ति विशांपते॥१९॥

यज्ञैश्च विविधैस्तात कृतं पापमरिंदम ।
अवधूय महाराज गच्छेम स्वर्गमुत्तमम्॥२०॥

एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः॥२१॥

बालिशः बालवद्वृथाहठी दीर्घसूत्रः चिरकारी ॥२१॥

निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः ।
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते॥२२॥

तथा भारतधर्मेषु धर्मज्ञैरिह दृश्यते ।
अहोरात्रं महाराज तुल्यं संवत्सरेण ह॥२३॥

तथैव वेदवचनं श्रूयते नित्यदा विभो ।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः॥२४॥

वेदे श्रूयते । ‘विश्वसृजा सहस्रसंवत्सरम्’ इति । अत्र हि संवत्सरशब्दो दिनपरः कृतः । अन्यथा शतायुर्वै पुरुष इति श्रुतेरनधिकारिकं शास्त्रमप्रमाणं स्यात् । तावदायुषो लोकेऽदर्शनाच्च । कृच्छ्रत इति। द्वादशवार्षिकं प्रायश्चित्तं प्रतिज्ञातं तत् कृच्छ्रतः कृच्छ्रैरपि सद्यो भवति । तथा हि । 'त्रिंशताप्राजापत्यकृच्छ्रैरेकोऽद्बो भवति । एवं मित्रविन्देष्टिपवित्रेष्टिमृगारेष्टिप्रभृतिभिर्दशदश प्राजापत्यस्थाने धर्मशास्त्रे विहिताभिर्द्वादशवार्षिकं व्रतं समापितुं शक्यमित्यर्थः ॥२४॥

यदि वेदाः प्रमाणास्ते दिवसादूर्ध्वमच्युत ।
त्रयोदशसमाःकालो ज्ञायतां परिनिष्ठितः॥२५॥

कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम ।
एकाग्रं पृथिवीं सर्वां पुरा राजन्करोति सः॥२६॥

पुरा अग्रे ॥२६॥

द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम् ।
प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः॥२७॥

न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः ।
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः॥२८॥

अधिगम्य च सर्वान्नो वनवासमिमं ततः ।
प्रव्राजयिष्यति पुनर्निकृत्याधमपूरुषः॥२९॥

यद्यस्मानभिगच्छेत पापः स हि कथंचन ।
अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत्॥३०॥

द्यूतेन ते महाराज पुनर्द्यूतमवर्तत ।
भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति॥३१॥

्यूते द्यूतार्थं पुनराह्वयेत् । नन्वाहूतोऽप्यहं न गमिष्यामीत्याशंक्याह पुनर्द्यूतमवर्तत । पूर्वमप्यनुद्यूतस्य कृतत्वात्पुनरपि द्यूतं करिष्यस्येवेत्यर्थः अपनेष्यति दूरीकरिष्यति । श्रियमिति शेषः ॥३१॥

स तथाक्षेषु कुशलो निश्चितो गतचेतनः ।
चरिष्यसि महाराज वनेषु वसतीः पुनः॥३२॥

यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि ।
यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः॥३३॥

निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ।
अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम्॥३४॥

यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः ।
हनिष्यामि तथा मन्दमनुजानातु मे भवान्॥३५॥

कक्षं तृणम् । अभिलक्ष्येति शेषः ॥३५॥

वैशंपायन उवाच ।
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम्॥३६॥

असंशयं महाबाहो हनिष्यसि सुयोधनम् ।
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना॥३७॥

यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो ।
अनृतं नोत्सहे वक्तुं न ह्येतन्मम विद्यते॥३८॥

अनृतमिति । विश्वसृजां सत्रे संवत्सरशब्दो न कालपरः । किं तु 'पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशा इत्यादि श्रुतौ संवत्सरपदस्य त्रिवृदादिशब्दसामानाधिकरण्यादहः शब्दवाच्यक्रतुपरत्वं दृष्टम् । अतः संवत्सरशब्दो दिनपर इति प्रवादमात्रम् । पञ्चपञ्चाशत इति पञ्चाशदधिकं शतद्वयमुच्यते। न हि कालेन कर्तव्यं व्रतं कर्मणा समापयितुं शक्यमिति भावः ॥३८॥

अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् ।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्॥३९॥

एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।
आजगाम महाभागो बृहदश्वो महानृषिः॥४०॥

तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् ।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्॥४१॥

आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः ।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत॥४२॥

अक्षद्यूते च भगबन्धनं राज्यं च मे हृतम् ।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः॥४३॥

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी॥४४॥

पुनर्द्यूतेन मां जित्वा वनवासं सुदारुणम् ।
प्राव्राजयन्महारण्यमजिनैः परिवारितम्॥४५॥

अहं वने दुर्वसतीर्वसन्परमदुःखितः ।
अक्षद्यूताधिकारे च गिरः शृण्वन्सुदारुणाः॥४६॥

आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् ।
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन्॥४७॥

यस्मिंश्चैव समस्तानां प्राणा गाण्डीवधन्वनि ।
विना महात्मना तेन गतसत्त्व इवाभवम्॥४८॥

कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ।
प्रियवादिनमक्षुद्रं दयायुक्तमतन्द्रितः॥४९॥

अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित् ।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः॥५०॥

अत्रैवार्थे सत्यं सर्वथा न त्याज्यमिति आख्यायिकाद्वारा भीमसेनं बोधयितुं राज्ञा बृहदश्वः प्रवर्त्यते । अस्ति राजा मया कश्चिदित्यादिना ॥५०॥

बृहदश्व उवाच ।
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् ।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव॥५१॥

अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ ।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते॥५२॥

वैशंपायन उवाच ।
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।
इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम्॥५३॥

बृहदश्व उवाच ।
शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते॥५४॥

निषधेषु महीपालो वीरसेन इति श्रुतः ।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थकोविदः॥५५॥

स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् ।
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह॥५६॥

पुष्करेण राज्ञा ॥५६॥

न तस्य दासा न रथो न भ्राता न च बान्धवाः ।
वने निवसतो राजञ्च्छिष्यन्ते स्म कदाचन॥५७॥

शिष्यन्ते अवशिष्टाः । कालस्त्वविवक्षितः ॥५७॥

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम्॥५८॥

युधिष्ठिर उवाच ।
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि॥५९॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥१॥

आसीदिति । उपपन्नः अतियुक्तः ॥१॥

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा॥२॥

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥३॥

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥४॥

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः॥५॥

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः ।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत॥६॥

तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्॥७॥

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः॥८॥

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्॥९॥

दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥१०॥

अथ तां वयसि प्राप्ते दासीनां समलंकृतम् ।
शतं शतं सखीनां च पर्युपासच्छचीमिव॥११॥

तत्र स्म राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा॥१२॥

सौदामनी प्रावृषेण्यमेघसंबन्धिनी सुष्टु जगतो जीवनं ददति ते सुदामानो मेघास्तेषां समूहः सौदामनः प्रावृट्कालस्तत्संबन्धिनी । सा हि अत्यन्तं द्योतमाना भवतीति प्रसिद्धम् ॥१२॥

अतीव रूपसंपन्ना श्रीरिवायतलोचना ।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्॥१३॥

मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता ।
चित्तप्रसादनी बाला देवानामपि सुन्दरी॥१४॥

नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि ।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥१५॥

मूर्तिमान् शरीरी ॥१५॥

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः॥१६॥

प्रशशंसुः वार्ताहरा इति शेषः ॥१६॥

तयोरदृष्टः कामोभूच्छृण्वतोः सततं गुणान् ।
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः॥१७॥

हृच्छयः कामः ॥१७॥

अशक्नुवन्नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः॥१८॥

स ददर्श ततो हंसाञ्जातरूपपरिष्कृतान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम्॥१९॥

जातरूपपरिष्कृतान् सुवर्णपक्षान् ॥१९॥

ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्योऽस्मि न ते राजन्करिष्यामि तव प्रियम्॥२०॥

अन्तरिक्षगः खगः ॥२०॥

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥२१॥

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः॥२२॥

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्श च तान्खगान्॥२३॥

गरुत्मन्तः पक्षवन्तः ॥२३॥

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे॥२४॥

अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन्॥२५॥

दमयन्ती तु यं हंसं समुपाधावदन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥२६॥

दमयन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥२७॥

कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ।
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि॥२८॥

सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ।
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्॥२९॥

दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ।
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः॥३०॥

विशिष्टया विशिष्टेन संग्रामो गुणवान्भवेत् ।
एवमुक्ता तु हंसेन दमयन्ती विशांपते॥३१॥

संग्रामः कामयुद्धं सुरतमित्यर्थः । संगम इति पाठेऽपि स एवार्थः ॥३१॥

अब्रवीत्तत्र तं हंसं त्वमप्येवं नले वद ।
तथेत्युक्त्वाण्डजः कन्यां विदर्भस्य विशांपते ।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥३२॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि हंसदमयन्तीसंवादे त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
चतुःपञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा॥१॥

दमयन्तीति ॥१॥

ततश्चिन्तापरा दीना विवर्णवदना कृशा ।
बभूव दमयन्ती तु निःश्वासपरमा तदा॥२॥

ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना॥३॥

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
न नक्तं न दिवा शेते हाहेति रुदती पुनः॥४॥

तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ।
ततो विदर्भपतये दमयन्त्याः सखीजनः॥५॥

जज्ञुः ज्ञातवत्यः । इङ्गितैः अभिप्रायसूचकैश्चेष्टितैः ॥५॥

न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरे ।
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीं सखीगणात्॥६॥

नरेश्वरे नलनिमित्तम् ॥६॥

चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ।
किमर्थं दुहिता मेद्य नातिस्वस्थेव लक्ष्यते॥७॥

स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्॥८॥

स संनिमन्त्रयामास महीपालान्विशांपतिः ।
अनुभूयतामयं वीराः स्वयंवर इति प्रभो॥९॥

संनिमन्त्रयामास आमन्त्रितवान् अनुभूयतां प्रेक्ष्यतां भवद्भिः ॥९॥

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।
अभिजग्मुस्ततो भीमं राजानो भीमशासनात्॥१०॥

हस्त्यश्वरथघोषेण पूरयन्तो वसुंधराम् ।
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः॥११॥

तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् ।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः॥१२॥

एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ ।
अटमानौ महात्मानाविन्द्रलोकमितो गतौ॥१३॥

नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ ।
देवराजस्य भवनं विविशाते सुपूजितौ॥१४॥

तावर्चयित्वा मघवा ततः कुशलमव्ययम् ।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः॥१५॥

नारद उवाच ।
आवयोः कुशलं देव सर्वत्र गतमीश्वर ।
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो॥१६॥

बृहदश्व उवाच ।
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा ।
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः॥१७॥

शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः ।
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्॥१८॥

क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् ।
आगच्छतो महीपालान्दयितानतिथीन्मम॥१९॥

एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत ।
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः॥२०॥

महीक्षितः पृथ्वीश्वराः ॥२०॥

विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता ।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः॥२१॥

तस्याः स्वयंवरः शक्र भविता न चिरादिव ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥२२॥

तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः ।
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन॥२३॥

एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः ।
आजग्मुर्देवराजस्य समीपममरोत्तमाः॥२४॥

ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत् ।
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत॥२५॥

ततः सर्वे महाराज सगणाः सहवाहनाः ।
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः॥२६॥

नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः॥२७॥

अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् ।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा॥२८॥

तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् ।
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा॥२९॥

विगतो विनष्टः दमयन्तीं प्राप्स्याम इति संकल्पो येषाम् ॥२९॥

ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः ।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्॥३०॥

भो भो निषधराजेन्द्र नल सत्यव्रतो भवान् ।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम॥३१॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि इन्द्रनारदसंवादे चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।
अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः॥१॥

तेभ्य इति ॥१॥

के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ।
किं च तद्वो मया कार्यं कथयध्वं यथातथम्॥२॥

एवमुक्ते नैषधेन मघवानभ्यभाषत ।
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्॥३॥

अहमिन्द्रोऽयमग्निश्च तथैवायमपां पतिः ।
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव॥४॥

त्वं वै समागतानस्मान्दमयन्त्यै निवेदय ।
लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः॥५॥

प्राप्तुमिच्छन्ति देवास्त्वां शक्रोग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतित्वे वरयस्व ह॥६॥

एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् ।
एकार्थं समुपेतं मां न प्रेषयितुमर्हथ॥७॥

एकार्थम् एकप्रयोजनम् । यूयमिवाहमपि दमयन्तीं प्रार्थयामीत्यर्थः ॥७॥

कथ हि जातसंकल्पः स्त्रियमुत्सृजते पुमान् ।
परार्थमीदृशं वक्तं तत्क्षमन्तु मरेश्वराः॥८॥

देवा ऊचुः ।
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध ।
न करिष्यसि कस्मात्त्वं व्रज नैषध मा चिरम्॥९॥

बृहदश्व उवाच ।
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् ।
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे॥१०॥

प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत ।
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्॥११॥

प्रवेक्ष्यसीति । अदर्शनशक्तिस्तुभ्यं दत्तेति भावः ॥११॥

ददर्श तत्र वैदर्भीं सखीगणसमावृताम् ।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्॥१२॥

अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।
आक्षिपन्तीमिव प्रभां शशिनः स्वेन तेजसा॥१३॥

तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् ।
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम्॥१४॥

ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः ।
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः॥१५॥

धर्षिता अभिभूताः ॥१५॥

प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः ।
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन्॥१६॥

अहोरूपमहोकान्तिरहो धैर्यं महात्मनः ।
कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति॥१७॥

न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।
तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः॥१८॥

अथैनं स्मयमानं तु स्मितपूर्वाभिभाषिणी ।
दमयन्ती नलं वीरमभ्यभाषत विस्मिता॥१९॥

कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।
प्राप्तोस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ॥२०॥

कथमागमनं चेह कथं चासि न लक्षितः ।
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः॥२१॥

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
नल उवाच। नलं मां विद्धि कल्याणि देवदूतमिहागतम्॥२२॥

देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतिं वरय शोभने॥२३॥

तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः ।
प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत्॥२४॥

एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः ।
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलस्य देवदौत्ये पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते॥१॥

सेति । यथाश्रद्धं देवेभ्यो नमस्कृत्य प्रणयस्वेति संबन्धः । प्रणयस्व परिणयस्व । मामिति शेषः ॥१॥

अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चना ।
तत्सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर॥२॥

विश्रब्धं सविश्वासं यथा स्यात्तथा प्रणयं परिणयनं विवाहम् ॥२॥

हंसानां वचनं यत्तु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः॥३॥

संनिपातिता मेलिताः ॥३॥

यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्॥४॥

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि॥५॥

येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादराजसा तुल्यो मनस्ते तेषु वर्तताम्॥६॥

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति ।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्॥७॥

विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा ।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै॥८॥

य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः ।
हुताशमीशं देवानां का तं न वरयेत्पतिम्॥९॥

यस्य दण्डभयात्सर्वे भूतग्रामाः समागताः ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम्॥१०॥

धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम्॥११॥

क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु॥१२॥

नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा॥१३॥

देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते॥१४॥

तामुवाच ततो राजा वेपमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम्॥१५॥

कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे॥१६॥

एष धर्मो यदि स्वार्थो ममापि भविता ततः ।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्॥१७॥

ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्॥१८॥

उपायोऽयं मया दृष्टो निरपायो नरेश्वरः ।
येन दोषो न भविता तव राजन्कथञ्चन॥१९॥

त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः ।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः॥२०॥

ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति॥२१॥

एवमुक्तस्तु वैदर्भ्या नलो राजा विशांपते ।
आजगाम पुनस्तत्र यत्र देवाः समागताः॥२२ ।
तमपश्यंस्तथा यान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम्॥२३॥

कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च नः सर्वान्वद भूमिप तेऽनघ॥२४॥

नल उवाच ।
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्॥२५॥

महाकक्षं महान्तं राजद्वारप्रदेशम् ॥२५॥

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।
ऋते तां पार्थिवसुतां भवतामेव तेजसा॥२६॥

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः॥२७॥

वर्ण्यमानेषु च मया भवत्सु रुचिरानना ।
मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः॥२८॥

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः॥२९॥

तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध ।
एवं तव महाबाहो दोषो न भवितेति ह॥३०॥

एतावदेव विबुधा यथावृत्तमुपाहृतम् ।
मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः॥३१॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकर्तृकदेवदूत्ये षट्पञ्चाशत्तमोऽध्यायः॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा ।
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥१॥

अथेति ॥१॥

तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः ।
त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः॥२॥

कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम्॥३॥

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः ।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः॥४॥

तां राजसमितिं पुण्यां नागैर्भोगवतीमिव ।
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव॥५॥

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः ।
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः॥६॥

सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च ।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि॥७॥

दमयन्ती ततो रङ्गं प्रविवेश शुभानना ।
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च॥८॥

मुष्णन्ती हरन्ती ॥८॥

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।
तत्र तत्रैव सक्ताऽभून्न चचाल च पश्यताम्॥९॥

ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत ।
ददर्श भैमी पुरुषान्पञ्चतुल्याकृतीनि ह॥१०॥

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् ।
सन्देहादथ वेदर्भी नाभ्यजानान्नलं नृपम्॥११॥

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ।
सा चिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी॥१२॥

कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ।
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता॥१३॥

श्रुतानि देवलिङ्गानि तर्कयामास भारत ।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे॥१४॥

तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ।
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः॥१५॥

शरणं प्रति देवानां प्राप्तकालममन्यत ।
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा॥१६॥

देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ।
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः ।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥१७॥

मनसा वचसा चैव यथा नाभिचराम्यहम् ।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥१८॥

यथा देवैः स मे भर्ता विहितो निषधाधिषः ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥१९॥

यथेदं व्रतमारब्धं नलस्याराधने मया ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥२०॥

स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः ।
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम्॥२१॥

निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम् ।
निश्चयं परमं तथ्यमनुरागं च नैषधे॥२२॥

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे ।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे॥२३॥

साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्॥२४॥

मनुष्याः सस्वेदाः सनिमेषाम्लायमानस्रजः सरजस्का भूमिस्पृशः देवास्तद्विपरीताः । हृषितस्रजश्चते रजोहीनाश्चेति समासः ॥२४॥

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः ।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः॥२५॥

सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत ।
नैषधं वरयामास भैमी धर्मेण पाण्डव॥२६॥

विलज्जमाना वस्त्रान्तं जग्राहायतलोचना ।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥२७॥

वरयामास चैवैनं पतित्वे वरवर्णिनी ।
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः॥२८॥

देवैर्महर्षिभिस्तत्र साधु साध्विति भारत ।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्॥२९॥

दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः ।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना॥३०॥

यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ ।
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम्॥३१॥

यद्यस्मान्मां भजसि तस्मात्ते तव वचने रतम् इत्येतत् विद्धि ॥३१॥

यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते ।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते॥३२॥

दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ।
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्॥३३॥

तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ।
वृते तु नैषधे भैम्या लोकपाला महौजसः॥३४॥

प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ।
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्॥३५॥

नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ।
अग्निरात्मभवं प्रादाद्यत्र वाञ्च्छति नैषधः॥३६॥

आत्मभवम् आत्मन आविर्भावम् ॥३६॥

लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ।
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्॥३७॥

अन्नरसं यादृशे तादृशेऽप्यन्ने विशिष्टरसवत्ताम् ॥३७॥

अपां पतिरपां भावं यत्र वाञ्च्छति नैषधः ।
स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः ॥३८॥

भावं सत्तां मिथुनम् एकैकेन द्वयं द्वयमपीत्यर्थः ॥३८॥

वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ।
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः॥३९॥

अनुभूय दृष्ट्वा ॥३९॥

दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ।
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः॥४०॥

विवाहं कारयामास दमयन्त्या नलस्य च ।
उष्य तत्र तथाकामं नैषधो द्विपदां वरः॥४१॥

उष्य वासं कृत्वा ॥४१॥

भीमेन समनुज्ञातो जगाम नगरं स्वकम् ।
अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः॥४२॥

रेमे सह तया राजञ्च्छच्येव बलवृत्रहा ।
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव॥४३॥

अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ।
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः॥४४॥

अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः ।
पुगश्च रमणीयेषु वनेषूपवनेषु च॥४५॥

दमयन्त्या सह नलो विजहारामरोपमः ।
जनयामास च ततो दमयन्त्यां महामनाः ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम्॥४६॥

एवं स यजमानश्च विहरंश्च नराधिपः ।
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः॥४७॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीस्वयंवरे सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

बृहदश्व उवाच ।
वृते तु नैषधे भैम्या लोकपाला महौजसः ।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह॥१॥

एवं देवेभ्यो लब्धवरस्य रूपौदार्यादिमतो दमयन्तीलाभजं सुखमुक्त्वा तस्यैव संप्रति दुर्व्यसनजामापदं वक्तुमुपक्रमते । वृते तु नैषधे इत्यादिना ॥१॥

अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा ।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि॥२॥

ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् ।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम्॥३॥

तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः ।
वृतस्तया नलो राजा पतिरस्मत्समीपतः॥४॥

निर्वृत्तः समाप्तः ॥४॥

एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः ।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा॥५॥

देवानां मानुषं मध्ये यत्सा पतिमविन्दत ।
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्॥६॥

एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः ।
अस्माभिः समनुज्ञाते दमयन्त्या नलो वृतः॥७॥

का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम् ।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः॥८॥

योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः ।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः॥९॥

यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः ।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे॥१०॥

यस्मिन्निति । दाक्ष्यं नित्योत्साहः । सत्यमिति पाठे यथार्थभाषणम् । धृतिः वाङ्मनःकायानामवसादप्राप्तौ तदुत्तम्भनार्थे यत्नविशेषो मनोधर्मः । ज्ञानं शब्दतोऽर्थतश्च तपः स्वधर्मनिष्ठा शौचं बाह्यं मुज्जलादिजम् आभ्यन्तरं भावशुद्धिः । दमो बाह्येन्द्रियनिग्रहः शमो मनोनिग्रहः। ध्रुवाणि विघ्नैरप्यबाध्यानि ॥१०॥

एवंरूपं नलं यो वै कामयेच्छपितुं कले ।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना॥११॥

एवंगुणं नलं यो वै कामयेच्छपितुं कले ।
कृच्छ्रे स नरके मज्जेदगाधे विपुले ह्रदे ।
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः॥१२॥

ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ।
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर॥१३॥

भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ।
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि॥१४॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कलिदेवसंवादे अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
एकोनषष्टितमोऽध्यायः

बृहदश्व उवाच ।
एवं स समयं कृत्वा द्वापरेण कलिः सह ।
आजगाम ततस्तत्र यत्र राजा स नैषधः॥१॥

एवमिति । समयं संकेतम्॥१॥

स नित्यमन्तरप्रेप्सुर्निषधेष्ववसच्चिरम् ।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्॥२॥

कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्त नैषधः ।
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्॥३॥

अन्वास्त उपासितवान् । सोस्ते स्मेति पाठे स उपास्ते स्मेत्यर्थः आर्षः संधिः ॥३॥

स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै॥४॥

सः कलिः नलं समाविश्य रूपान्तरेण पुष्करं चाब्रवीत्। दीव्यं द्यूतं कुरु ॥४॥

अक्षद्यूते नलं जेता भवान्हि सहितो मया ।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्॥५॥

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।
कलिश्चैव वृषो भूत्वा गावां पुष्करमभ्ययात्॥६॥

साहाय्यमेवाह कलिश्चेति । गवां वृषः अत्र गोशद्बो लक्षितलक्षणयाऽक्षशद्बवाच्येषु पाशेषु वर्तते। वृषः श्रेष्ठः पाशश्रेष्ठो भूत्वा ॥६॥

आसाद्य तु नलं वीरं पुष्करः परवीरहा ।
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः॥७॥

वृषेण अक्षमुख्येन ॥७॥

न चक्षमे ततो राजा समाह्वानं महामनाः ।
वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत॥८॥

पणकालं द्यूतकालम् ॥८॥

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् ।
आविष्टः कलिना द्यूते जीवते स्म नलस्तदा॥९॥

यानेषु युग्यं युगवहं रथादि तस्य॥९॥

तमक्षमदसम्मत्तं सुहृदां न तु कश्चन ।
निवारणेऽभवच्छक्तो दीव्यमानमरिन्दमम्॥१०॥

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत ।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्॥११॥

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान्॥१२॥

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः॥१३॥

ततः सा बाष्पकलया वाचा दुःखेन कर्षिता ।
उवाच नैषधं भैमी शोकोपहतचेतना॥१४॥

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः॥१५॥

तं द्रष्टुमर्हसीत्येवं पुनःपुनरभाषत ।
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम्॥१६॥

आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ।
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः॥१७॥

नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ।
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च ।
युधिष्ठिरबहून्मासान्पुण्यश्लोकस्त्वजीयत॥१८॥

नायमस्ति नष्टोऽयमित्यर्थः । पुण्यः पावनः श्लोको यशो यस्य । अजीयत जितः ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलद्यूते एकोनषष्टितमोऽध्यायः॥५९॥
षष्टितमोऽध्यायः

बृहदश्व उवाच ।
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।
उन्मत्तवदनुन्मत्ता देवने गतचेतसम्॥१॥

दमयन्तीति ॥१॥

भयशोकसमाविष्टा राजन्भीमसुता ततः ।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति॥२॥

सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्॥३॥

बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्॥४॥

बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।
आचक्ष्व यद्धृतं दिव्यमवशिष्टं च यद्वसु॥५॥

ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा नलमाव्रजन्॥६॥

तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत॥७॥

द्वितीयं द्वितीयवारम् ॥७॥

वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह॥८॥

निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् ।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह॥९॥

बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतमानय कल्याणि महत्कार्यमुपस्थितम्॥१०॥

बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः॥११॥

वार्ष्णेयं तु ततो भैमी सान्त्वयञ्च्छ्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता॥१२॥

जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि॥१३॥

यथायथा हि नृपतिः पुष्करेणैव जीयते ।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते॥१४॥

तथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते॥१५॥

सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति मोहितः॥१६॥

नूनं मन्ये न दोषोऽस्ति नैषधस्य महात्मनः ।
यत्तु मे वचनं राजा नाभिनन्दति मोहितः॥१७॥

शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ।
न हि मे शुध्यते भावः कदाचिद्विनशेदपि॥१८॥

विनशेत् विनश्येत् नल इति शेषः ॥१८॥

नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
इदमारोप्य मिथुनं कुण्डिनं यातुर्महसि॥१९॥

मिथुनं कुमारी कुमारं च । कुण्डिनं भीमस्य नगरम् ॥१९॥

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छ वा॥२०॥

दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः ।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः॥२१॥

मुख्यशः मुख्येषु मुख्येषु ॥२१॥

तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना॥२२॥

वाहिना अश्वरथेन ॥२२॥

हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्॥२३॥

आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा॥२४॥

अटमानः वेतनार्थी पर्यटन् ॥२४॥

ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।
भृतिं चोपययौ तस्य सारथ्येन महीपते॥२५॥

भृतिं वेतनम् ॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कुण्डिनं प्रति कुमारकुमारीप्रस्थापने षष्टितमोऽध्यायः॥६०॥
एकषष्टितमोऽध्यायः

बृहदश्व उवाच ।
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः ।
पुष्करेण हृतं राज्यं यच्चान्यद्वस्तु किंचन॥१॥

तत इति ॥१॥

हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् ।
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव॥२॥

प्रतिपाणः पणनीयं द्रव्यम् ॥२॥

शिष्टा ते दमयन्त्येका सर्वमन्यज्जितं मया ।
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे॥३॥

पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना ।
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्॥४॥

ततः पुष्करमालोक्य नलः परममन्युमान् ।
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥५॥

एकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः ।
निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम्॥६॥

दमयन्त्येकवस्त्राथ गच्छन्तं पृष्ठतोन्वगात् ।
स तया बाह्यतः सार्धं त्रिरात्रं नैषधोवसत्॥७॥

तया सार्धं बाह्यतः बहिः ॥७॥

पुष्करस्तु महाराज घोषयामास वै पुरे ।
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम॥८॥

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर॥९॥

तस्य नलस्य ॥९॥

स तथा नगराभ्यासे सत्कारार्हो न सत्कृतः ।
त्रिरत्रमुषितो राजा जलमात्रेण वर्तयन्॥१०॥

नगराभ्यासे नगरसमीपे ॥१०॥

पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन् ।
प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात्॥११॥

क्षुधया पीड्यमानस्तु नलो बहुतिथेहनि ।
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्॥१२॥

स चिन्तयामास तदा निषधाधिपतिर्बली ।
अस्ति भक्ष्यो ममाद्यायं वसु चेदं भविष्यति॥१३॥

ततस्तान्परिधानेन वाससा स समावृणोत् ।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा॥१४॥

उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम् ।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनममधोमुखम्॥१५॥

वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः ।
आगता न हि नः प्रीतिः सवाससि गते त्वयि॥१६॥

तान्समीपगतानक्षानात्मानं च विवाससम् ।
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत्॥१७॥

येषां प्रकोपादैश्वर्यात्प्रच्युतोहमनिन्दिते ।
प्राणयात्रां न विन्देयं दुःखितः क्षुधयान्वितः॥१८॥

येषां कृते न सत्कारमकुर्वन्मयि नैषधाः ।
इमे ते शकुना भूत्वा वासो भीरु हरन्ति मे॥१९॥

वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः ।
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः॥२०॥

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् ।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्॥२१॥

एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा ।
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः॥२२॥

एष पन्था विदर्भाणामसौ गच्छति कोसलान् ।
अतःपरं च देशोऽयं दक्षिणे दक्षिणापथः॥२३॥

एतद्वाक्यं नलो राजा दमयन्तीं समाहितः ।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत॥२४॥

ततः सा वाष्पकलया वाचा दुःखेन कर्षिता ।
उवाच दमयन्ती तं नैषधं करुणं वचः॥२५॥

उद्वेजते मे हृदयं सीदन्त्यङ्गानि सर्वशः ।
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः॥२६॥

हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम् ।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने॥२७॥

श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम्॥२८॥

न च भार्यासमं किंचिद्विद्यते भिषजां मतम् ।
औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते॥२९॥

नल उवाच ।
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥३०॥

न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे ।
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते॥३१॥

अलम् अत्यर्थम् ॥३१॥

दमयन्त्युवाच ।
यदि मां त्वं महाराज न विहातुमिहेच्छसि ।
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते॥३२॥

अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि ।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते॥३३॥

अपकृष्टेन कलिकर्षितेन ॥३३॥

पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम ।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम॥३४॥

यदि चायमभिप्रायस्तव ज्ञातीन्व्रजेदिति ।
सहितावेव गच्छावो विदर्भान्यदि मन्यसे॥३५॥

विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे॥३६॥

यद्यपि पूजयिष्यति तथापि त्वं सुखं नो वत्स्यसि न वासं करिष्यति। श्वशुरगृहवासस्य नीचतावहत्वात् ॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलवनयात्रायामेकषष्टितमोऽध्यायः॥६१॥
द्विषष्टितमोऽध्यायः

नल उवाच ।
यथा राज्यं तव पितुस्तथा मम न संशयः ।
न तु तत्र गमिष्यामि विषमस्थः कथंचन॥१॥

एतदेव समर्थयन्नल उवाच यथेति ॥१॥

कथं समृद्धो गत्वाहं तव हर्षविवर्धनः ।
परिद्यूतो गमिष्यामि तव शोकविवर्धनः॥२॥

बृहदश्व उवाच ।
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।
सान्त्वयामास कल्याणीं वाससोर्धेन संवृताम्॥३॥

तावेकवस्त्रसंवीतावटमानावितस्ततः ।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः॥४॥

पाठान्तरे उपोषतुः उपेत्य वासं चक्रतुः ॥४॥

तां सभामुपसंप्राप्य तदा स निषधाधिपः ।
वैदर्भ्या सहितो राजा निषसाद महीतले॥५॥

स वै विवस्त्रो विकटो मलिनः पांसुगुण्ठितः ।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले॥६॥

विकटः कटस्तृणासनं तद्रहितः अत एव पांसुगुण्ठितः ॥६॥

दमयन्त्यपि कल्याणी निद्रयापहृता ततः ।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी॥७॥

सुप्तायां दमयन्त्यां तु नलो राजा विशांपते ।
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा॥८॥

स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्॥९॥

परिध्वंसं कलिना वस्त्रापहरणादिक्लेशम् ॥९॥

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा॥१०॥

जनस्य परिशेषाद्भार्यया एव ॥१०॥

मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति॥११॥

मयि निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता ।
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित्॥१२॥

स विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।
उत्सर्गं मन्यते श्रेयो दमयन्त्या नराधिप॥१३॥

न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि ।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता॥१४॥

एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत ।
कलिना दुष्टभावेन दमयन्त्या विसर्जने॥१५॥

दमयन्त्या विषये न्यवर्तत निवृत्ता सती विसर्जनेऽभूदिति शेषः ॥१५॥

सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्॥१६॥

कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया ।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा॥१७॥

परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोशं खङ्गमुत्तमम्॥१८॥

तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः ।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम्॥१९॥

निवस्य परिधाय ॥१९॥

ततो निवृत्तहृदयः पुनरागम्य तां सभाम् ।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः॥२०॥

यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।
सेयमद्य सभामध्ये शेते भूमावनाथवत्॥२१॥

इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति॥२२॥

कथमेका सती भैमी मया विरहिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते॥२३॥

आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता॥२४॥

एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि ।
कलिनापहृतज्ञानो नलः प्रातिष्ठदुद्यतः॥२५॥

गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः ।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते॥२६॥

द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।
दोलेव मुहुरायाति याति चैव सभां प्रति॥२७॥

अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु॥२८॥

नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः ।
जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीपरित्यागे द्विषष्टितमोऽध्यायः॥६२॥
त्रिषष्टितमोऽध्यायः

बृहदश्व उवाच ।
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।
अबुध्यत वरारोहा संत्रस्ता विजने वने॥१॥

अपेति ॥१॥

अपश्यमाना भर्तारं शोकदुःखसमन्विता ।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्॥२॥

हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥३॥

ननु नाम महारज धर्मज्ञः सत्यवागसि ।
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य कानने॥४॥

तथा सत्यं यत्स्वयंवरे उक्तं त्वां न त्यक्ष्यामीति ॥४॥

कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम् ।
विशेषतोऽनपकृते परेणापकृते सति॥५॥

अनपकृते अपकारभावे ॥५॥

शक्यसे ता गिरः सम्यक्कर्तुं मयि नरेश्वर ।
यास्तेषां लोकपालानां सन्निधौ कथिताः पुरा॥६॥

नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति॥७॥

पर्याप्तः परिहासोयमेतावान्पुरुषर्षभ ।
भीताहमिति दुर्धर्ष दर्शयात्मानमीश्वर॥८॥

दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषध ।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे॥९॥

नृशंसां बत राजेन्द्र यन्मामेवंगतामिह ।
विलपन्तीं समागम्य नाश्वासयसि पार्थिव॥१०॥

न शोचाम्यहमात्मानं न चान्यदपि किंचन ।
कथं नु भवितास्येक इति त्वां नृप शोचिमि॥११॥

शोचिमि शोचामि ॥११॥

कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः ।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि॥१२॥

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।
इतश्चेतश्च रुदती पर्यधावत दुःखिता॥१३॥

मन्युना शोकेन ॥१३॥

मुहुरुत्पतते बाला मुहुः पतति विह्वला ।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति॥१४॥

अतीव शोकसंतप्ता मुहुर्निःश्वस्य विह्वला ।
उवाच भैमी निःश्वस्य रुदत्यथ पतिव्रता॥१५॥

यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः ।
तस्य भूतस्य नो दुःखाद्दुःखमप्यधिकं भवेत्॥१६॥

कलिं शपति यस्येति। अभिशापात् वृथाद्वेषात् नो दुःखात् अस्मत्संबन्धिदुःखात् ॥१६॥

अपापचेतसं पापो य एवं कृतवान्नलम् ।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम्॥१७॥

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः ।
अन्वेषमाणा भर्तारं वने श्वापदसेविते॥१८॥

उन्मत्तवद्भीमसुता विलपन्ती इतस्ततः ।
हा हा राजन्निति मुहुरितश्चेतश्च धावति॥१९॥

तां क्रन्दमानामत्यर्थं कुररीमिव वाशतीम् ।
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः॥२०॥

वाशतीं क्रोशन्तीम् ॥२०॥

सहसाभ्यागतां भैमीमभ्यासपरिवर्तिनीम् ।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः॥२१॥

ग्राहः सर्पः अजगरः तद्वत्स्थूलः ॥२१॥

सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता ।
नात्मानं शोचति तथा यथा शोचति नैषधम्॥२२॥

हा नाथ मामिह वने ग्रस्यमानामनाथवत् ।
ग्राहेणानेन विजने किमर्थं नानुधावसि॥२३॥

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध ।
कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो॥२४॥

बुद्धिलाभादूर्ध्वं मां विना कथं भविष्यसि जीविष्यसि कथम् ॥२४॥

पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ।
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध ।
कः श्रमं राजशार्दूल नाशयिष्यति तेनघ॥२५॥

ततः कश्चिन्मृगव्याधो विचरन्गहने वने ।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह॥२६॥

तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् ।
त्वरमाणो मृगव्याधः समभिक्रम्य वेगतः॥२७॥

मुखतः पाटयामास शस्त्रेण निशितेन च ।
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः॥२८॥

विशस्य विदार्य ॥२८॥

मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन ह ।
समाश्वास्य कृताहारामथ पप्रच्छ भारत॥२९॥

कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् ।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि॥३०॥

दमयन्ती तथा तेन पृच्छ्यमाना विशांपते ।
सर्वमेतद्यथावृत्तमाचचक्षेस्य भारत॥३१॥

तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् ।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्॥३२॥

अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्॥३३॥

आरालानि कुटिलानि शोभमानानि वा पक्ष्माणि नयनप्रान्तकेशाः ययोस्तादृशे नयने यस्या इति तथा ॥३३॥

तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।
सान्त्वयामास कामार्तस्तदबुध्यत भाविनी॥३४॥

दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता ।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना॥३५॥

मन्युना क्रोधेन ॥३५॥

स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः ।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव॥३६॥

दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता ।
अतीतवाक्पथे काले शशापैनं रुषान्विता॥३७॥

पतिराज्यविनाकृता पत्या राज्येन च रहिता अतीतवाक्पथे वाचाप्यनिवार्ये सति काले धूम्रवर्णे व्याधे ॥३७॥

यद्यहं नैषधादन्यं मनसापि न चिन्तये ।
तथायं पततां क्षुद्रो परासुर्मृगजीवनः॥३८॥

परासुः गतप्राणः ॥३८॥

उक्तमात्रे तु वचने तथा स मृगजीवनः ।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः॥३९॥

व्यसुर्विगतप्राणः ॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि अजगरग्रस्तदमयन्तीमोचने त्रिषष्टितमोऽध्यायः॥६३॥
चतुःषष्टितमोऽध्यायः

बृहदश्व उवाच ।
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्॥१॥

सेति। प्रतिभयं भीषणं झिल्लिका तीक्ष्णशब्दः पतङ्गविशेषः ॥१॥

सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम् ।
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्॥२॥

शालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः ।
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः॥३॥

जम्ब्वाम्रलोध्रखदिरसालवेत्रसमाकुलम् ।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्॥४॥

बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् ।
प्रियालतालखर्जूरहरीतकिबिभीतकैः॥५॥

नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः॥६॥

नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्॥७॥

पल्वलानि तडागानि गिरिकूटानि सर्वशः ।
सरितो निर्झराश्चैव ददर्शाद्भुतदर्शनान्॥८॥

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।
भहिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान्॥९॥

तेजसा यशसा लक्ष्म्या स्थित्या च परया युता ।
वैदर्भीं विचरत्येका नलमन्वेषती तदा॥१०॥

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।
दारुणामटवीं प्राप्य भर्तृव्यसनपीडिता॥११॥

विदर्भतनया राजन्विललाप सुदुःखिता ।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता॥१२॥

दमयन्त्युवाच ।
व्यूढोरस्क महाबाहो नैषधानां जनाधिपः ।
क्व नु राजन्गतोस्यद्य विसृज्य विजने वने॥१३॥

अश्वमेधादिभिर्वीर क्रतुभिर्भूरिदक्षिणैः ।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे॥१४॥

यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।
स्मर्तुमर्हसि कल्याण वचनं पार्थिवर्षभ॥१५॥

यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप ।
मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि॥१६॥

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः॥१७॥

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर ।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः॥१८॥

हा वीर नल नामाहं नष्टा किल तवानघ ।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे॥१९॥

कर्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि॥२०॥

अरण्यराट् शार्दूलः मां मम चित्तं कर्षयति व्यथयति ॥२०॥

न मे त्वदन्या काचिद्धि प्रियास्तीत्यब्रवीः सदा ।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप॥२१॥

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।
ईप्सितामीप्सितोऽसि त्वं किं मां न प्रतिभाषसे॥२२॥

कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्॥२३॥

यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।
न मानयसि मामार्य रुदन्तीमरिकर्शन॥२४॥

महाराज महारण्ये अहमेकाकिनी सती ।
दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे॥२५॥

कुलशीलोपसंपन्न चारुसर्वाङ्गशोभन ।
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम॥२६॥

वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ।
शयानमुपविष्टं वा स्थितं वा निषधाधिप॥२७॥

प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ।
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता॥२८॥

कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः ।
को नु मे वाथ प्रष्टव्यो वनेऽस्मिन्प्रस्थितं नलम्॥२९॥

अभिरूपं महात्मानं परव्यूहविनाशनम् ।
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्॥३०॥

परव्यूहाः शत्रुसैन्यानि परव्यसनेति पाठे परेषां दुःखस्य नाशनम् ॥३०॥

अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ।
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः॥३१॥

शार्दूलोऽभिमुखोभ्येति व्रजाम्येनमशङ्किता ।
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः॥३२॥

विदर्भराजतनयां दमयन्तीति विद्धि माम् ।
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः॥३३॥

पतिमन्वेषतीमेकां कृपणां शोककर्षिताम् ।
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः॥३४॥

अथवा त्वं वनपते नलं यदि न शंससि ।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय॥३५॥

श्रुत्वारण्ये विलपितं न मामाश्वासयत्ययम् ।
यामिमां स्वादुसलिलामापगां सागरंगमाम्॥३६॥

इमं शिलोच्चयं पृण्यं शृङ्गैर्बहुभिरुच्छ्रितैः ।
विराजद्भिरिवानेकैर्नैकवर्णैर्मनोरमैः॥३७॥

नानाधातुसमाकीर्णं विविधोपलभूषितम् ।
आस्यारण्यस्य महतः केतुभूतमिवोत्थितम्॥३८॥

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्॥३९॥

किंशुकाशोकबकुलपुन्नागैरुपशोभितम् ।
कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम्॥४०॥

सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम् ।
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति॥४१॥

भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत ।
शरण्य बहुकल्याण नमस्तेस्तु महीधर॥४२॥

प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् ।
राज्ञः स्नुषा राजभार्यां दमयन्तीति विश्रुताम्॥४३॥

राजा विदर्भाधिपतिः पिता मम महारथः ।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता॥४४॥

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।
आहर्ता पार्थिवश्रेष्ठः पृथु चार्वञ्चितेक्षणः॥४५॥

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।
शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः॥४६॥

ब्रह्मण्यः ब्रह्मणि ब्राह्मणजातौ वेदे वैदिककर्मणि परमात्मनि वा साधुः ॥४६॥

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्॥४७॥

निषधेषु महाराजः श्वशुरो मे नरोत्तमः ।
गृहीतनामा विख्यातो वीरसेन इति स्म ह॥४८॥

तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः ।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह॥४९॥

नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः ।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोग्निमान्॥५०॥

अग्निमान् । नित्ययोगे मतुप् सर्वदैवाग्निविच्छेदशून्य इत्यर्थः ॥५०॥

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।
तस्य मामबलां श्रेष्ठां विद्धि भार्यामिहागताम्॥५१॥

त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् ।
अन्वेषमाणां भर्तारं त्वं मां पर्वतसत्तम॥५२॥

खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः ।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्वा नलो नृपः॥५३॥

गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः ।
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः॥५४॥

निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ।
किं मां विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम्॥५५॥

गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ।
वीर विक्रान्तधर्मज्ञ सत्यसंध महीपते॥५६॥

यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ।
कदा सुस्निग्धगम्भीरां जीमूतस्वनसन्निभाम्॥५७॥

श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ।
वैदर्भीत्येव विस्पष्टां शुभां राज्ञो महात्मनः॥५८॥

आम्नासारिणीमृद्धां मम शोकविनाशिनीम् ।
भीतामाश्वासयत मां नृपते धर्मवत्सल॥५९॥

आम्नायसारिणीं वेदानुगां सत्यामित्यर्थः । ऋद्धां दीनाम् आश्वासयतेति बहुत्वं वक्तुर्वैक्लव्यान्न दोषावहम् ॥५९॥

इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्॥६०॥

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।
तापसारण्यमतुलं दिव्यकाननशोभितम्॥६१॥

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।
नियतैः संयताहारैर्दमशौचसमन्वितैः॥६२॥

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च ।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः॥६३॥

अब्भक्षैरिति सर्वं वाक्यं सावधारणमिति न्यायेन अम्बुमात्रभक्षैरित्यर्थः ॥६३॥

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः ।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्॥६४॥

नानामृगगणैर्जुष्टं शाखामृगगणायुतम् ।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्॥६५॥

सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना॥६६॥

सुद्विजानना शोभनदन्तयुक्तमुखी वर्चस्विनी धर्मजेन तेजसा युक्ता । सुप्रतिष्ठा सुजघना । प्रतिष्ठत्यस्मिन्निति प्रतिष्ठशब्दो जघनवाची ॥६६॥

सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी॥६७॥

वीरसेनसुतस्य नलस्य प्रिया ॥६७॥

साभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसोत्तमैः॥६८॥

पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः ।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे॥६९॥

तानुवाच वरारोहा कच्चिद्भगवतामिह ।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः॥७०॥

कुशलं वो महाभागाः स्वधर्माचरणेषु च ।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी॥७१॥

ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ।
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह॥७२॥

विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ।
अस्यारण्यस्य देवी त्वमुताहोस्य महीभृतः॥७३॥

अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ।
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता॥७४॥

न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ।
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः॥७५॥

विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ।
विदर्भेषु महीपालो भीमो नाम महीपतिः॥७६॥

तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ।
निषधाधिपतिर्धीमान्नलो नाम महायशाः॥७७॥

वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः ।
देवताभ्यर्चनपरो द्विजातिजनवत्सलः॥७८॥

गोप्ता निषधवंशस्य महातेजा महाबलः ।
सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोरिमर्दनः॥७९॥

ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ।
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः॥८०॥

मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ।
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः॥८१॥

सपत्नानां मृधे हन्ता रविसोमसमप्रभः ।
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः॥८२॥

आहूय पृथिवीपालः सत्यधर्मपरायणः ।
देवने कुशलैर्जिह्मैर्हृतं राज्यं वसूनि च॥८३॥

तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै ।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्॥८४॥

सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।
पल्वलानि च सर्वाणि तथारण्यानि सर्वशः॥८५॥

अन्वेषमाणा भर्तारं नलं रणविशारदम् ।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता॥८६॥

कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः ।
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः॥८७॥

यत्कृतेऽहमिदं ब्रह्मन्प्रपन्ना भृशदारुणम् ।
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्॥८८॥

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्॥८९॥

श्रेयसा मोक्षेण योक्ष्ये योजयिष्ये । योगबलेन देहं त्यक्त्वा मोक्षं प्राप्स्ये इत्यर्थः । अन्यथा आत्महत्यादोषात् श्रेयोयोगो न संभवेत् ॥८९॥

को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता॥९०॥

तथा विलपतीमेकामरण्ये भीमनन्दिनीम् ।
दमयन्तीमथोचुस्ते तापसाः सत्यदर्शिनः॥९१॥

उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्॥९२॥

उदर्कः उत्तरकालः ॥९२॥

निषधानामधिपतिं नलं रिपुनिपातिनम् ।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्॥९३॥

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।
तदेव नगरं श्रेष्ठं प्रशासतमरिंदमम्॥९४॥

प्रशासतं जक्षित्यादयः षडिति नुमभावः ॥९४॥

द्विषतां भयकर्तारं सुहृदां शोकनाशनम् ।
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्॥९५॥

एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।
तापसान्तर्हिताः सर्वे साग्निहोत्राश्रमास्तथा॥९६॥

तापसा इति छेदः सन्धिरार्षः ॥९६॥

सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा ।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा॥९७॥

किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् ।
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्॥९८॥

क्व सा पुण्यजला रम्या नदी द्विजनिषेविता ।
क्व नु ते ह नगा हृद्याः फलपुष्पोपशोभिताः॥९९॥

ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।
भर्तृशोकपरा दीना विवर्णवदनाभवत्॥१००॥

सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा ।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः॥१०१॥

बाष्पो बाष्पवदुष्ण उच्छ्वासवायुस्तेन संदिग्धया अस्फुटाक्षरया ॥१०१॥

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने ।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम्॥१०२॥

पल्लवैः आपीडितं भूषितम् ॥१०२॥

अहो बतायमगमः श्रीमानस्मिन्वनान्तरे ।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव॥१०३॥

अगमः वृक्षः आपीडैः पुष्पफलादिरूपैरलंकारैः ॥१०३॥

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन ।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्॥१०४॥

नलं नामारिदमनं नमयन्त्याः प्रियं पतिम् ।
निषधानामधिपतिं दृष्टवानसि मे प्रियम्॥१०५॥

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।
व्यसनेनार्दितं वीरमरण्यमिदमागतम्॥१०६॥

सुकुमारा दुःखासहा यतस्तनुर्मृद्वी त्वक् यस्य तम् ॥१०६॥

यथा विशोका गच्छेयमशोकनग तत्कुरु ।
सत्यनामा भवाशोक अशोकः शोकनाशनः॥१०७॥

अशोकनग हे वीतशोकवृक्ष ॥१०७॥

एवं साऽशोकवृक्षं तमार्ता वै परिगम्य ह ।
जगाम दारुणतरं देशं भैमी वराङ्गना॥१०८॥

सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः॥१०९॥

कंदरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः ।
ददर्श तान्भीमसुता पतिमन्वेषती तदा॥११०॥

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्॥१११॥

महासार्थं महान्तं जनसमूहम् ॥१११॥

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्॥११२॥

प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् ।
कूर्मग्राहझषाकीर्णां विपुलद्वीपशोभिताम्॥११३॥

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी ।
उपसर्प्य वरारोहा जनमध्यं विवेश ह॥११४॥

उपसर्प उपससर्प अभ्यासलोप आर्षः वरारोहा विस्तीर्णजघना ॥११४॥

उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता ।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा॥११५॥

पांसुयुक्ताः ध्वस्ताः मुक्तबन्धाश्च शिरोरुहाः केशाः यस्याः ॥११५॥

तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः ।
केचिच्चिन्तापरा जग्मुः केचित्तत्र विचुक्रुशुः॥११६॥

प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।
अकुर्वत दयां केचित्पप्रच्छुश्चापि भारत॥११७॥

कासि कस्यासि कल्याणि किं वा मृगयसे वने ।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी॥११८॥

वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः ।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः॥११९॥

यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना ।
सर्वथा कुरु नः स्वस्ति रक्ष वास्माननिन्दिते॥१२०॥

यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् ।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्॥१२१॥

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता॥१२२॥

सार्थवाहं च सार्थं च जना ये चात्र केचन ।
युवस्थविरबालाश्च सार्थस्य च पुरोगमाः॥१२३॥

मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्॥१२४॥

विदर्भराण्मम पिता भर्ता राजा च नैषधः ।
नलो नाम महाभागस्तं मार्गाम्यपराजितम्॥१२५॥

मार्गामि अन्वेषयामि ॥१२५॥

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् ।
नलं पुरुषशार्दूलममित्रगणसूदनम्॥१२६॥

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः ।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः॥१२७॥

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते ।
मनुष्यं नलनामानं न पश्यामि यशस्विनि॥१२८॥

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते॥१२९॥

ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु॥१३०॥

साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।
क्व नु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि॥१३१॥

सार्थवाह उवाच ।
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः ।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे॥१३२॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीसार्थवाहसंगमे चतुःषष्टितमोऽध्यायः॥६४॥
पञ्चषष्टितमोऽध्यायः

बृहृदश्व उवाच ।
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा ।
जगाम सह तेनैव सार्थेन पतिलालसा॥१॥

सेति ॥१॥

अथ काले बहुतिथे वने महति दारुणे ।
तडागं सर्वतो भद्रं पद्मसौगन्धिकं महत्॥२॥

पद्मैः सौगन्धिकैश्च पद्मविशेषैर्युक्तत्वात् पद्मसौगन्धिकं नाम सरः ॥२॥

ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।
बहुपुष्पफलोपेतं नानापक्षिनिषेवितम्॥३॥

यवसं घासः ॥३॥

निर्मलस्वादुसलिलं मनोहारि सुशीतलम् ।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः॥४॥

श्रान्तवाहाः श्रन्तवाहनाः निवेशाय वासाय ॥४॥

संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम्॥५॥

पश्चिमां वेलां संध्यां सरस्तीरभुवं वा ॥५॥

अथार्धरात्रसमये निःशब्दस्तिमिते तदा ।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्॥६॥

पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ।
अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान्॥७॥

ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः॥८॥

तेषामापततां वेगः करिणां दुःसहोभवत् ।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ॥९॥

स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ।
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्॥१०॥

पद्मिन्याः पद्मवत्याः सरस्याः ॥१०॥

ते तं ममर्दुः सहसा चेष्टमानं महीतले ।
हाहाकारं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः॥११॥

वनगुल्मांश्च धावन्तो निद्रान्धा बहवोभवन् ।
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः॥१२॥

निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः ।
भयादाधावमानाश्च परस्परहतास्तदा॥१३॥

घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।
वृक्षेष्वारुह्य संरब्धाः पतिता विषमेषु च॥१४॥

एवं प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः ।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम्॥१५॥

आरावः सुमहांश्चासीत्त्रैलोक्यभयकारकः ।
एषोग्निरुत्थितः कष्टस्त्रायध्वं धावताधुना॥१६॥

रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत ।
सामान्यमेतद्द्रविणं न मिथ्यावचनं मम॥१७॥

एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ।
पुनरेवाभिस्यामि चिन्तयध्वं सकातराः॥१८॥

तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये ।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा॥१९॥

अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् ।
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा॥२०॥

संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ।
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः॥२१॥

तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ।
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः॥२२॥

तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ।
न पूजा विघ्नकर्तॄणामथवा प्रथमं कृता॥२३॥

शकुनानां फलं वाथ विपरीतिमिदं ध्रुवम् ।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम्॥२४॥

अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृताः ।
यासावद्य महासार्थे नारी ह्युन्मत्तदर्शना॥२५॥

प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् ।
तयेयं विहिता पूर्वं माया परमदारुणा॥२६॥

राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी ।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा॥२७॥

यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् ।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः॥२८॥

लोष्ठभिरिति प्रयोगादेव लोष्ठशब्दो नकारान्तोऽप्यस्तीति ज्ञायते ॥२८॥

अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ।
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्॥२९॥

कृत्यैव कृत्यका कुत्सिता कृत्या कृत्यकेति वा ताम् ॥२९॥

ह्रीता भीता च संविग्ना प्राद्रवद्यत्र काननम् ।
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत्॥३०॥

अहो ममोपरि विधेः संरम्भो दारुणो महान् ।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम्॥३१॥

न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि ।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम्॥३२॥

नूनं जन्मान्तरकृतं पापामापतितं महत् ।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम्॥३३॥

अपश्चिमाम् अपरावर्तिनीम् ॥३३॥

भर्तृराज्यापहरणं स्वजनाच्च पराजयः ।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः॥३४॥

निर्नाथता वने वासो बहुव्यालनिषेविते ।
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा॥३५॥

देशात्तस्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् ।
भ्रातरं पितरं पुत्रं सखायं च नराधिप॥३६॥

अशोचत्तत्र वैदर्भी किं नु मे दुष्कतं कृतम् ।
योऽपि मे निर्जनेरण्ये संप्राप्तोऽयं जनार्णवः॥३७॥

स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया॥३८॥

नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता॥३९॥

न ह्यदैवकृतं किंचिन्नराणामिह विद्यते ।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम्॥४०॥

पापकृतं पापं कर्म ॥४०॥

कर्मणा मनसा वाचा यदिदं दुःखमागतम् ।
मन्ये स्वयंवरकृते लोकपालाः समागताः॥४१॥

प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्॥४२॥

एवमादीनि दुःखार्ता सा विलप्य वराङ्गना ।
प्रलापानि तदा तानि दमयन्ती पतिव्रता॥४३॥

हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः ।
अगच्छद्राजशार्दूल चन्द्रलेखेव शारदी॥४४॥

गच्छन्ती साचिराद्बाला पुरमासादयन्महत् ।
सायाह्ने चेदिराजस्य सुबाहोः सत्यदर्शिनः॥४५॥

अथ वस्त्रार्धसंवीता प्रविवेश पुरोत्तमम् ।
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्॥४६॥

अमार्जितां धूसरवेणीम् ॥४६॥

उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ।
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा॥४७॥

अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ।
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः॥४८॥

तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ।
धात्रीमुवाच गच्छैनामानयेह ममान्तिकम्॥४९॥

जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ।
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्॥५०॥

उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ।
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्॥५१॥

प्रासादतलं प्रासादोपरि ॥५१॥

आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ।
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः॥५२॥

भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ।
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्॥५३॥

असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ।
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्॥५४॥

मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ।
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्॥५५॥

सैरन्ध्रीं सीराः प्रतिसीरास्तासां समूहं सैरं धारयित्रीं नेपथ्यधारिणीम् अन्तःपुरचरीमित्यर्थः। भुजिष्यां दासीम्। कामवासिनीं यत्र काम इच्छा तत्रैव वसन्तीम् ॥५५॥

फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ।
असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः॥५६॥

यत्र सायंकालस्तत्रैव प्रतिश्रयो गृहं यस्यास्ताम् ॥५६॥

भक्ताहमपि तं वीरं छायेवानुगता पथि ।
तस्य दैवात्प्रसङ्गोभूदतिमात्रं सुदेवने॥५७॥

द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ।
तमेकवसनं वीरमुन्मत्तमिव विह्वलम्॥५८॥

आश्वासयन्ती भर्तारमहमप्यगमं वनम् ।
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे॥५९॥

क्षुत्परीतस्तु विमनास्तदप्येकं व्यसर्जयत् ।
तमेकवसना नग्नमुन्मत्तवदचेतसम्॥६०॥

अनुव्रजन्ती बहुला न स्वपामि निशास्तदा ।
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्॥६१॥

वाससोर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ।
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्॥६२॥

साहं कमलगर्भाभमपश्यन्ती हृदि प्रियम् ।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम्॥६३॥

तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।
राजमाताब्रवीदार्ता भैमीमार्तस्वरां स्वयम्॥६४॥

वसस्व मयि कल्याणि प्रीतिर्मे परमा त्वयि ।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम॥६५॥

अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः ।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे॥६६॥

राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि॥६७॥

हे वीरप्रजायिनि वीरानेव प्रजावते सूते सा वीरप्रजायिनी ॥६७॥

उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन॥६८॥

प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।
वध्यश्च तेऽसकृन्मन्द इति मे व्रतमाहितम्॥६९॥

भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः॥७०॥

पश्येयं दृष्ट्वा च तान् पृच्छेयमपि ॥७०॥

अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ।
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत्॥७१॥

सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ।
एवमुक्त्वा ततो भैमीं राजमाता विशांपते॥७२॥

उवाचेदं दुहितरं सुनन्दां नाम भारत ।
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्॥७३॥

वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ।
एतया सह मोदस्व निरुद्विग्नमनाः सदा॥७४॥

ततः परमसंहृष्टा सुनन्दा गृहमागमत् ।
दमयन्तीमुपादाय सखीभिः परिवारिता॥७५॥

सा तत्र पूज्यमाना वै दमयन्ती व्यनन्दत ।
सर्वकामैः सुविहितैर्निरुद्वेगावसत्तदा॥७६॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीचेदिराजगृहवासे पञ्चषष्टितमोऽध्यायः॥६५॥
षट्षष्टितमोऽध्यायः

बृहदश्व उवाच ।
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते ।
ददर्श दावं दह्यन्तं महान्तं गहने वने॥१॥

उत्सृज्येति ॥१॥

तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित् ।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्॥२॥

मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।
ददर्श नागराजानं शयानं कुण्डलीकृतम्॥३॥

स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा ।
उवाच मां विद्धि राजन्नागं कर्कोटकं नृप॥४॥

मया प्रलब्धो महर्षिर्नारदः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप॥५॥

मया प्रलब्धो ब्रह्मर्षिर्नारद इति पाठान्तरम् ॥५॥

तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित् ।
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्॥६॥

तत्र काले ॥६॥

तस्य शापान्न शक्तोऽस्मि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्॥७॥

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्॥८॥

लघुः गुरुत्वरहितः ॥८॥

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।
तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्॥९॥

दावविवर्जितं वह्निहीनम् ॥९॥

आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्॥१०॥

पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्र तेऽहं महाबाहो श्रेयो धास्यामि यत्परम्॥११॥

ततः संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत॥१२॥

दशेत्युक्तेऽदशत् आज्ञां विना नागो न दशतीति भावः ॥१२॥

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श स महीपतिः॥१३॥

ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।
मया तेन्तर्हितं रूपं न त्वां विद्युर्जना इति॥१४॥

यत्कृते चासि निकृतो दुःखेन महता नल ।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति॥१५॥

यत्कृते इति। सः कलिः। एतेन यच्छरीरे प्रविशति स तेन शारीरेण सुखं दुःखं वाश्नातीति सूचितम्। दृष्टं चैतद्ग्रहावेशादौ। इदं दमयन्त्या दत्तस्य शापस्य फलं कलिर्भुङ्क्ते इति भावः ॥१५॥

विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति॥१६॥

अनागा येन निकृतस्त्वमनर्हो जनाधिप ।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥१७॥

अनागाः निरपराधः निकृतः वञ्चितः मे मया ॥१७॥

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा ।
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप॥१८॥

राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि॥१९॥

गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।
समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः॥२०॥

अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर ।
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै॥२१॥

अक्षहृदयं द्यूते जयावहम् अश्वहृदयेन विद्यया विद्यां परिवर्तयेदित्यर्थः ॥२१॥

इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा॥२२॥

सममेष्यसि दारैस्त्वं मास्म शोके मनः कृथाः ।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते॥२३॥

स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेहं वासश्चेदं निवासयेः॥२४॥

निवासयेः परिधेहि ॥२४॥

अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा॥२५॥

एवं नलं च संदिश्य वासो दत्त्वा च कौरव ।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत॥२६॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकर्कोटकसंवादे षट्-षष्टितमोऽध्यायः॥६६॥
सप्तषष्टितमोऽध्यायः

बृहदश्व उवाच ।
अतस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि॥१॥

तस्मिन्निति ॥१॥

स राजानमुपातिष्ठद्बाहुकोहमिति ब्रुवन् ।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः॥२॥

अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः॥३॥

यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम् ।
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम्॥४॥

ऋतुपर्ण उवाच। वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि ।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः॥५॥

स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतंशता॥६॥

शतंशता शतानि मासिकं वेतनं दशसहस्रं सुवर्णा इत्यर्थः ॥६॥

त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक॥७॥

बृहदश्व उवाच ।
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः ।
ऋतुपर्णस्य नगरे सह वार्ष्णेयजीवलः॥८॥

स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।
सायं सायं सदा चेमं श्लोकमेकं जगाद ह॥९॥

क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।
स्मरन्ती तस्य मन्दस्य कं वासाद्योपतिष्ठति॥१०॥

तस्य मन्दस्य तं मन्दम् उपतिष्ठति जीवनार्थमिति शेषः ॥१०॥

एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् ।
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक॥११॥

आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ।
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्॥१२॥

आसीद्बहुमता नारी तस्यादृढतरं वचः ।
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत॥१३॥

अदृढतरं दमयन्त्यां मिथ्याप्रतिज्ञात्वं स्वस्यानुसंघायेयमुक्तिः व्ययुज्यत वियुक्तः ॥१३॥

विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ।
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः॥१४॥

निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ।
स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन॥१५॥

वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ।
सा तु तं पुरुषं नारी कृच्छ्रेप्यनुगता वने॥१६॥

त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ।
एका बालानभिज्ञा च मार्गणामतथोचिता॥१७॥

क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ।
श्वापदाचरिते नित्यं वने महति दारुणे॥१८॥

त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ।
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।
अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने॥१९॥

मारिष आर्य ॥१९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलविलापे सप्तषष्टितमोऽध्यायः॥६७॥
अष्टषष्टितमोऽध्यायः

बृहदश्व उवाच ।
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते ।
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया॥१॥

हृतेति। प्रेष्यतां दासताम् ॥१॥

संदिदेश च तान्भीमो वसु दत्वा च पुष्कलम् ।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्॥२॥

अस्मिन्कर्मणि संपन्ने विज्ञाते निषधाधिपे ।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति॥३॥

अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् ।
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा॥४॥

अग्रं ब्राह्मणभोजनं तदर्थं ह्रियन्ते राजधनात्पृथक् क्रियन्ते तेऽग्रहाराः क्षेत्रादयः ॥४॥

ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ।
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम्॥५॥

पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम्॥६॥

ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः ।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि॥७॥

पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ।
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्॥८॥

निबद्धां धूमजालेन प्रभामिव विभावसोः ।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।
तर्कयामास भैमीति कारणैरुपपादयन्॥९॥

कारणैर्लिङ्गैः उपपादयन् इयमेव दमयन्तीति निश्चिन्वन् ॥९॥

सुदेव उवाच ।
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना ।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्॥१०॥

पूर्णचन्द्रानिभां श्यामां चारुवृत्तपयोधराम् ।
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः॥११॥

श्यामां सदा षोडशवार्षिकीम्। ‘शीते चैवोष्मला नित्यं ग्रीष्मे चतीव शीतला। मध्यः क्षीणस्तु यस्यास्तु सा श्यामेत्यभिधीयते’। इत्यन्ये ॥११॥

चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव ।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव॥१२॥

विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् ।
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव चोद्धृताम्॥१३॥

पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् ।
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव॥१४॥

शुष्कस्रोतां शुष्कप्रवाहाम्। छान्दसं टाबन्तत्वम् ॥१४॥

विध्वस्तपर्णकमलां वित्रासितविहंगमाम् ।
हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम्॥१५॥

पद्मिनीं सरसीम् ॥१५॥

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम्॥१६॥

सुजाताङ्गीम् अन्यूनानाधिकाङ्गीम् ॥१६॥

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्॥१७॥

कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च ।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया॥१८॥

भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।
एषा हि रहिता तेन शोभमाना न शोभते॥१९॥

दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः ।
धारयत्यात्मनो देहं न शोकेनापि सीदति॥२०॥

इमामसितकेशान्तां शतपत्रायतेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः॥२१॥

कदा नु खलु दुःखस्य पारं यास्यति वै शुभा ।
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा॥२२॥

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वा च मेदिनीम्॥२३॥

लब्ध्वा च लब्ध्वेव ॥२३॥

तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृताम् ।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा॥२४॥

युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया ।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्॥२५॥

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्॥२६॥

बृहदश्व उवाच ।
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् ।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्॥२७॥

अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा ।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः॥२८॥

कुशली ते पिता राज्ञि जननी भ्रातरश्च ते ।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तौ॥२९॥

त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्॥३०॥

बृहदश्व उवाच ।
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर ।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान्॥३१॥

रुरोद च भृशं राजन्वैदर्भी शोककर्शिता ।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्॥३२॥

ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता ।
सुदेवेन सहैकान्ते कथयन्तीं च भारत॥३३॥

सुनन्दा कथयामासेति संबन्धः ॥३३॥

जनित्र्याः कथयामास सैरन्ध्री रुदते भृशम् ।
ब्राह्मणेन सहागम्य तां वेद यदि मन्यसे॥३४॥

वेद विचारय वेदयतेरिदं रूपं णिजभाव आर्षः ॥३४॥

अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा ।
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्॥३५॥

ततः सुदेवमानाय्य राजमाता विशांपते ।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी॥३६॥

कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।
त्वया च विदिता विप्र कथमेवंगता सती॥३७॥

एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः ।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्॥३८॥

एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः ।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्॥३९॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीसुदेवसंवादे अष्टषष्टितमोऽध्यायः॥६८॥
एकोनषष्टितमोऽध्यायः

सुदेव उवाच ।
विदर्भराजो धर्मात्मा भीमो नाम महाद्युतिः ।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता॥१॥

विदर्भराज इति ॥१॥

राजा तु नैषधो नाम वीरसेनसुतो नलः ।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः॥२॥

स द्यूतेन जितो भ्रात्रा हृतराज्यो महीपतिः ।
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्॥३॥

ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् ।
सेयमासादिता बाला तव पुत्रनिवेशने॥४॥

अस्या रूपेण सदृशी मानुषी न हि विद्यते ।
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः॥५॥

पिप्लुः रक्ततिलकाकृतिलांछनं महाराष्ट्राणां ‘मस’ इति प्रसिद्धम् ॥५॥

श्यामायाः पद्मसंकाशो लक्षितोन्तर्हितो मया ।
मलेन संवृतो ह्यस्याश्छन्नोभ्रेणेव चन्द्रमाः॥६॥

चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ।
प्रतिपत्कलुषस्येन्दोर्लेखा नातिविराजते॥७॥

न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।
असंस्कृतमभिव्यक्तं भाति काञ्चनसन्निभम्॥८॥

अनेन वपुषा बाला पिप्लुनानेन सूचिता ।
लक्षितेयं मया देवी निभृतोऽग्निरिवोष्मणा॥९॥

तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते ।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्॥१०॥

स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत ।
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः॥११॥

अपकृष्टेन दूरीकृतेन ॥११॥

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः॥१२॥

उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ।
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता॥१३॥

अहं च तव माता च राज्ञस्तस्य महात्मनः ।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने॥१४॥

भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे॥१५॥

यथैव ते पितुर्गेहं तथैव मम भाविनि ।
यथैव च ममैश्वर्यं दमयन्ती तथा तव॥१६॥

तां प्रहृष्टेन मनसा दमयन्ती विशांपते ।
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्॥१७॥

अज्ञायमानापि सती सुखमस्म्युषिता त्वयि ।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया॥१८॥

सुखात्सुखतरो वासो भविष्यति न संशयः ।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि॥१९॥

दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ॥२०॥

दारकौ सुतः सुता च। बालकौ अल्पवयस्कौ ॥२०॥

यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश॥२१॥

बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप ।
गुप्तां बलेन महता पुत्रस्यानुमते ततः॥२२॥

प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना ।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्॥२३॥

ततः सा न चिरादेव विदर्भानगमत्पुनः ।
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्॥२४॥

सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।
मातरं पितरं चोभौ सर्वं चैव सखीजनम्॥२५॥

देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।
परेण विधिना देवी दमयन्ती विशांपते॥२६॥

अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च॥२७॥

सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भाविनी ।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्॥२८॥

व्युष्टा वासं कृतवती ॥२८॥

दमयन्त्युवाच ।
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते ।
नरवीरस्य चैतस्य नलस्यानयने यतः॥२९॥

यत यत्नं कुरु। अनुदात्तेत्वलक्षणस्यात्मनेपदस्य चक्षिङो ङित्करणेनानित्यत्वज्ञापनात् ॥२९॥

दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।
बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्॥३०॥

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह॥३१॥

ततो भीमं महाराजं भार्या वचनमब्रवीत् ।
दमयन्ती तव सुता भर्तारमनुशोचति॥३२॥

अपकृष्य च लज्जां सा स्वयमुक्तवती नृप ।
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य मार्गणे॥३३॥

तया प्रदेशितो राजा ब्राह्मणान्वशवर्तिनः ।
प्रास्थापयद्दिशः सर्वा यतध्वं नलमार्गणे॥३४॥

प्रदेशितः प्रकर्षेण प्रेरितः ॥३४॥

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा ।
दमयन्तीमथो सृत्वा प्रस्थितास्ते तथाब्रुवन्॥३५॥

सृत्वा गत्वा ते तथा प्रस्थिताः सन्तः अब्रुवन्नलान्वेषणाय प्रस्थिताः स्म इति शेषः ॥३५॥

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।
ब्रूयास्त जनसंसत्सु तत्र तत्र पुनः पुनः॥३६॥

ब्रूयास्त वदत। ब्रुवध्वमिति पाठे त्वार्षस्तङ् ॥३६॥

क्व नु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय॥३७॥

सा वै यथा त्वया दृष्टा तथास्ते त्वत्प्रतीक्षिणी ।
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता॥३८॥

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै वीर प्रतिवाक्यं वदस्व च॥३९॥

वदस्व। भासनोपसंभाषेत्यादिनावदेस्तङ् ॥३९॥

एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि ।
वायुना धूयमानो हि वनं दहति पावकः॥४०॥

वायुनेति। शोकाग्निः कालवायुना दिने दिने वर्धमानः दमयन्तीशरीरवनं धक्ष्यतीति रूपकेणोक्तम्। दहतीति लट्प्रयोगस्तु वर्तमानसामीप्ये ॥४०॥

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा ।
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव॥४१॥

भर्तव्याऽन्नादिना। रक्षणीया दस्युप्रभृतिभ्यः। पतिनेति पत्या। असमासेऽपि घिसंज्ञाकार्यमार्षम्। उभयं रक्षणभरणात्मकम् ॥४१॥

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान्सदा ।
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥४२॥

सानुक्रोशः सदयः ॥४२॥

तत्कुरुष्व नरव्याघ्र दयां मयि नरर्षभ ।
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः॥४३॥

एवं ब्रुवाणान्यदि वः प्रतिब्रूयात्कथञ्चन ।
स नरः सर्वथा ज्ञेयः कश्चासौ क्व नु वर्तते॥४४॥

यश्चैवं वचनं श्रुत्वा बूयात्प्रतिवचो नरः ।
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः॥४५॥

यथा च वो न जानीयाद्ब्रुवतो मम शासनात् ।
पुनरागमनं चैव तथा कार्यमतन्द्रितैः॥४६॥

मम शासनात् ब्रुवतो वः युष्मान्। यथा वच इति पाठे ब्रुवतो भवत्समुदायस्य वचो न जानीयादिति योज्यम् ॥४६॥

यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् ।
यदि वाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम्॥४७॥

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम् ।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा॥४८॥

ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् ।
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः॥४९॥

तच्च वाक्यं तथा सर्वे तत्र तत्र विशांपते ।
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम्॥५०॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलान्वेषणे एकोनसप्ततितमोऽध्यायः॥६९॥
सप्ततितमोऽध्यायः

बृहदश्व उवाच ।
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्॥१॥

अथेति ॥१॥

नैषधं मृगयाणेन दमयन्ति मया नलम् ।
अयोध्यां नगरीं गत्वा भाङ्गासुरिमुपस्थितः॥२॥

भाङ्गासुरिम् ऋतुपर्णम् ॥२॥

श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि॥३॥

तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः ।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत्॥४॥

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः॥५॥

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने॥६॥

स विनिःश्वस्य बहुशो रुदित्वा च पुनःपुनः ।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत॥७॥

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥८॥

गोपायन्ति पालयन्ति। जितः स्वर्गस्ताभिरिति शेषः ॥८॥

रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥९॥

विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति॥१०॥

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥११॥

सत्कृताऽसत्कृता वापि पतिं दृष्ट्वा तथागतम् ।
भ्रष्टराज्यं श्रियाहीनं क्षुधितं व्यसनाप्लुतम्॥१२॥

तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय॥१३॥

एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशांपते ।
दमयन्ती रहोभ्येत्य मातरं प्रत्यभाषत॥१४॥

अयमर्थो न संवेद्यो भीमे मातः कदाचन ।
त्वत्सन्निधौ नियोक्ष्येहं सुदेवं द्विजसत्तमम्॥१५॥

यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।
तथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि॥१६॥

यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम्॥१७॥

समानेतुं नलं मातरयोध्यां नगरीमितः ।
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्॥१८॥

अर्चयामास वैदर्भी धनेनातीव भामिनी ।
नले चेहागते तत्र भूयो दास्याभि ते वसु॥१९॥

त्वया हि मे बहुकृतं यदन्यो न करिष्यति ।
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम॥२०॥

स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः ।
गृहानुपययौ चापि कृतार्थः सुमहामनाः॥२१॥

ततः सुदेवमाभाष्य दमयन्ती युधिष्ठिर ।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता॥२२॥

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।
ऋतुपर्णं वचो ब्रूहि संपतन्निव कामगः॥२३॥

आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥२४॥

तथा च गणितः कालः श्वोभूते स भविष्यति ।
यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम॥२५॥

संभाविनी संभाविता इयं गतिरिति शेषः ॥२५॥

सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति ।
न हि स ज्ञायते वीरो नलो जीवति वा न वा॥२६॥

एवं तया यथोक्तो वै गत्वा राजानमब्रवीत् ।
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीपुनःस्वयंवरकथने सप्ततितमोऽध्यायः॥७०॥
एकसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः ।
सान्त्वयञ्च्छ्लक्ष्णया वाचा बाहुकं प्रत्यभाषत॥१॥

श्रुत्वेति ॥१॥

विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक॥२॥

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः॥३॥

दमयन्ती वदेदेतत्कुर्याद्दुःखेन मोहिता ।
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्॥४॥

नृशंसं बत वैदर्भी भर्तृकामा तपस्विनी ।
मया क्षुद्रेण निकृता कृपणा पापबुद्धिना॥५॥

स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।
स्यादेवमपि कुर्यात्सा विवासाद्गतसौहृदा॥६॥

मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः॥७॥

सापत्या अपत्यसहिता ॥७॥

यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्॥८॥

इति निश्चित्य मनसा बाहुको दीनमानसः ।
कृताञ्जलिरुवाचेदमृतुपर्णं जनाधिपम्॥९॥

प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप ।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप॥१०॥

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।
अश्वशालामुपागम्य भाङ्गासुरिनृपाज्ञया॥११॥

स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः ।
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः ।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्॥१२॥

तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्॥१३॥

तेजः कान्तिविशेषः बलं शक्तिः कुलं जातिविशेषः । शीलं सादिचित्तानुसारिता हीनैर्लक्षणैः शतपदीप्रभृतिभिर्वर्जितान् । प्रोथं नासिका । हनुः अधरं मुखफलकम् ॥१३॥

शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ।
दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः॥१४॥

शुद्धान् ह्रदावर्तादि दुष्टावर्तहीनान् सिन्धुजान् सिन्धुदेशजान् ॥१४॥

किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वयम् ।
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।
महदध्वानमपि च गन्तव्यं कथमीदृशैः॥१५॥

ते त्वया न विप्रलब्धव्याः न वञ्चनीयाः । बलं भारसाहिष्णुता । प्राणो वेगवत्ता । वक्ष्यन्ति वहनं करिष्यन्ति । अध्वानं निःशब्दं महत् अतिदूरे दमयन्त्याः पुनर्भूत्वात्तद्वरणे महती लज्जा तथा च अवृते महत्तरा लज्जेति प्रच्छन्नतयैव तत्र गतमपि वेगवशादगतमिव यथा भवति तथा गन्तव्यमिति भावः ॥१५॥

बाहुक उवाच। एको ललाटे द्वे मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः ।
द्वौ द्वौ वक्षसि विज्ञेयौ प्रयाणे चैक एव तु॥१६॥

एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामि ते॥१७॥

एते इति । एतेषु स्थलेषु आवर्तवन्त इति शेषः ॥१७॥

ऋतुपर्ण उवाच ।
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक ।
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय॥१८॥

ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान्रथे नलः॥१९॥

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः॥२०॥

ततो नरवरः श्रीमान्नलो राजा विशांपते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्॥२१॥

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्॥२२॥

सूतमिति । आरोप्य सूतस्थानादुपर्युपवेश्य स्वयमेव सूतत्वं चकारेत्यर्थः ॥२२॥

ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः ।
समुत्पेतुरथाकाशं रथिनं मोहयन्निव॥२३॥

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ॥२४॥

रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्॥२५॥

किं नु स्यान्मातलिरयं देवराजस्य सारथिः ।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत्॥२६॥

शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् ।
मानुषं समनुप्राप्तो वपुः परमशोभनम्॥२७॥

शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥२७॥

उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः ।
सोऽयं नृपतिरायात इत्येवं समचिन्तयत्॥२८॥

अथ चेह नलो विद्यां वेत्ति तामेव बाहुकः ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च॥२९॥

अपि चेदं वयस्तुल्यं बाहुकस्य नलस्य च ।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति॥३०॥

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः॥३१॥

भवेन्न मतिभेदो मे गात्रवैरूप्यतां प्रति ।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम॥३२॥

वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः॥३३॥

अन्ततः निर्णयेन ॥३३॥

एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत् ।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः॥३४॥

ऋतुपर्णश्च राजेन्द्रो बाहुकस्य हयज्ञताम् ।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः॥३५॥

ऐकाग्र्यं च तथोत्साहं हयसङ्ग्रहणं च तत् ।
परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह॥३६॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि ऋतुपर्णविदर्भगमने एकसप्ततितमोऽध्यायः॥७१॥
द्विसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
स नदीः पर्वतांश्चैव वनानि च सरांसि च ।
अचिरेणातिचक्राम खेचरः खे चरन्निव॥१॥

स इति ॥१॥

तथा प्रयाते तु रथे तदा भाङ्गासुरिर्नृपः ।
उत्तरीयमधोपश्यद्भ्रष्टं परपुरञ्जयः॥२॥

ततः स त्वरमाणस्तु पटे निपतिते तदा ।
ग्रहीष्यामीति तं राजा नलमाह महामनाः॥३॥

निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।
वार्ष्णेयो यावदेनं मे पटमानयतामिह॥४॥

नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः॥५॥

एवमुक्ते नलेनाथ तदा भाङ्गासुरिर्नृपः ।
आससाद वने राजन्फलवन्तं बिभीतकम्॥६॥

तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत ।
ममापि सूत पश्य त्वं संख्याने परमं बलम्॥७॥

सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्॥८॥

वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।
पतितान्यपि यान्यत्र तत्रैकमधिकं शतम्॥९॥

एकपत्राधिकं चात्र फलमेकं च बाहुक ।
पञ्चकोट्योऽथ पत्राणां द्वयोरपि च शाखयोः॥१०॥

प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च॥११॥

ततो रथमवस्थाप्य राजानं बाहुकोऽब्रवीत् ।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन॥१२॥

प्रत्यक्षमेतत्कर्तास्मि शातयित्वा बिभीतकम् ।
अहं हि नाभिजानामि भवेदेवं न वेति वा॥१३॥

संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्॥१५॥

तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः॥१६॥

प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान् ।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः॥१७॥

अब्रवीदृतुपर्णस्तु सान्त्वयन्कुरुनन्दन ।
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक॥१८॥

त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि॥१९॥

कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे॥२०॥

अथाब्रवीद्बाहुकस्तं संख्याय च बिभीतकम् ।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम॥२१॥

अकाम इव तं राजा गणयस्वेत्युवाच ह ।
एकदेशं च शाखायाः समादिष्टं मयानघ॥२२॥

गणयस्वाश्वतत्त्वज्ञ ततस्त्वं प्रीतिमावह ।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्॥२३॥

ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।
गणयित्वा यथोक्तानि तावन्त्येव फलानि तु॥२४॥

अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप॥२५॥

तमुवाच ततो राजा त्वरितो गमने नृप ।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्॥२६॥

अक्षहृदयज्ञम् अक्षाणाम् अक्षाभिमानिदेवताया हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयं येन ज्ञातेन द्यूतेऽक्षा अनुकूला भवन्ति । संख्याने राशीकृतानां पत्रपुष्पफलधान्यादीनां राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्संख्याकथने ॥२६॥

बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ॥२७॥

ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः॥२८॥

यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् ।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै॥२९॥

अनयोर्मध्येऽक्षाणां हृदयं परं श्रेष्ठम् इतरत्तु त्वयापि ज्ञायत इति भावः । ऋतुः कालः तद्वच्छीघ्रगामि पर्णं प्रियते व्याप्रियते व्यायच्छते देशान्तरमनेनेति पर्णं वाहनं यस्येति ऋतुपर्णनामनिरुक्तिः । अन्ये तु ऋतानि सत्यानि गणितानि पर्णानि यस्येति पाठान्तरं विप्रकल्प्य व्याकुर्वते ॥२९॥

तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्॥३०॥

तस्याक्षहृदयज्ञस्येति सर्वेषां मन्त्राणां तत्त्वं मनोमयकोशाख्यः सूत्रात्माऽत एव तं प्रकृत्य श्रूयते। ‘तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः’ इत्यादि तमजानन्तं हि अत्यन्तं धर्मिष्ठमपि कलिर्बाधते । न तु मन्त्रज्ञमिति भावः ॥३०॥

कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।
स तेन कर्शितो राजा दीर्घकालमनात्मवान्॥३१॥

शापग्निर्दमयन्तीनिसृष्टः स विषरूपः । अनात्मवान् हृदयशून्यो मूढ इत्यर्थः ॥३१॥

ततो विषविमुक्तात्मा स्वं रूपमकरोत्कलिः ।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः॥३२॥

तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्॥३३॥

इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा ।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः॥३४॥

अवसं त्वयि राजेन्द्र सुदुःखमपराजित ।
विषेण नागराजस्य दह्यमानो दिवानिशम्॥३५॥

शरणं त्वां प्रपन्नोऽस्मि शृणु चेदं वचो मम ।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति॥३६॥

भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ।
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः॥३७॥

ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ।
कलिस्त्वन्यैस्तदाऽदृश्यः कथयन्नैषधेन वै॥३८॥

अदृश्य इति च्छेदः । कथयन् कथां कुर्वन् ॥३८॥

ततो गतज्वरो राजा नैषधः परवीरहा ।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत॥३९॥

फलानि संख्याय अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ॥३९॥

मुदा परमया युक्तस्तेजसाऽथ परेण वै ।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः॥४०॥

बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ।
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः॥४१॥

द्विजानिव पक्षिण इव ॥४१॥

नलः सन्नोदयामास प्रहृष्टेनान्तरात्मना ।
विदर्भाभिमुखो राजा प्रययौ स महायशाः॥४२॥

नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ।
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः ।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः॥४३॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कलिनिर्गमे द्विसप्ततितमोऽध्यायः॥७२॥
त्रिसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्॥१॥

तत इति ॥१॥

स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः॥२॥

ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ॥३॥

नलाश्वाः विदर्भनगरे ये दमयन्त्यापत्याभ्यां सह प्रेषिताः ॥३॥

दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे॥४॥

परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् ।
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु ।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः॥५॥

प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः॥६॥

तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रणेदुरुन्मुखा राजन् मेघनाद इवोत्सुकाः॥७॥

शिखिनो मयूराः मेघध्वनितभ्रमात् चुक्रुशुः ॥७॥

दमयन्त्युवाच ।
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
ममाह्लादयते चेतो नल एष महीपतिः॥८॥

अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः॥९॥

यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं न भविष्याम्यसंशयम्॥१०॥

यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्॥११॥

यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः ।
नाभिगच्छति राजेन्द्रो विनङ्क्ष्यामि न संशयः॥१२॥

न स्मराम्यनृतं किञ्चिन्न स्मराम्यपकारताम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि कदाचन॥१३॥

पर्युषितं प्रतिज्ञातकालातिलङ्घि ॥१३॥

प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः ।
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः॥१४॥

जितेन्द्रियत्वमेवाह रह इति । रहसि कर्तव्ये सुरतविषये नीचकर्म पारदार्यादि तदनुवर्तत इति तदन्यः अनीचानुवर्ती परस्त्रीषु क्लीब इत्यर्थः ॥१४॥

गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्॥१५॥

एवं विलपमाना सा नष्टसंज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया॥१६॥

ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्॥१७॥

ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।
हयास्तानवमुच्याथ स्थापयामास वै रथम्॥१८॥

सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराजं भीमं भीमपराक्रमम्॥१९॥

तं भीमः प्रतिजग्राह पूजया परया ततः ।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः॥२०॥

स तत्र कुण्डिने रम्ये वसमानो महीपतिः ।
न च किञ्चित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः ।
स तु राज्ञा समागम्य विदर्भपतिना तदा॥२१॥

अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ।
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत॥२२॥

नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ।
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः॥२३॥

राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ।
नैव स्वयंवरकथां न च विप्रसमागमम्॥२४॥

ततो विगणयद्राजा मनसा कोसलाधिपः ।
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादुकः॥२५॥

राजापि च स्मयन्भीमो मनसा समचिन्तयतन् ।
अधिकं योजनशतं तस्यागमनकारणम्॥२६॥

ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्॥२७॥

पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति ।
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्॥२८॥

नैतदेवं एतत् एतस्मिन् काले एवं विचार्य न व्यसर्जयत् किं तु विश्राम्यतामित्येवोवाचेत्युत्तरेणान्वयः ॥२८॥

विश्राम्यतामित्युवाच क्लान्तोऽसीति पुनःपुनः ।
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः॥२९॥

राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ।
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे॥३०॥

दिष्टं निर्दिष्टम् ॥३०॥

बाहुको रथमादाय रथशालामुपागमत् ।
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः॥३१॥

स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ।
दमयन्त्यपि शोकार्ता दृष्ट्वा भाङ्गासुरिं नृपम्॥३२॥

सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ।
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः॥३३॥

नलस्येव महानासीन्न च पश्यामि नैषधम् ।
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता॥३४॥

तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ।
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा ।
यथाऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते॥३५॥

आहोस्विदित्याश्चर्यार्थे अत एव समानार्थकं वाक्यमावर्तितम् ॥३५॥

एवं सा तर्कयित्वा तु दमयन्ती विशाम्पते ।
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा॥३६॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि भीमपुरप्रवेशे त्रिसप्ततितमोऽध्यायः॥७३॥
चतुःसप्ततितमोऽध्यायः

दमयन्त्युवाच ।
गच्छ केशिनि जानीहि क एष रथवाहकः ।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः॥१॥

गच्छेति ॥१॥

अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता ।
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते॥२॥

अत्र मे महती शङ्का भवेदेष नलो नृपः ।
यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः॥३॥

ब्रूयाश्चैनं कथान्तं त्वं पर्णादवचनं यथा ।
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते॥४॥

पर्णादवचनं क्व नु त्वं कितवच्छित्वा वस्त्रार्धं प्रस्थितो ममेत्यादि श्रुत्वा । विरूपो ह्रस्वबाहुकः कश्चित्प्रत्युत्तरं दत्तवान् तल्लक्षण एवायमिति भावः ॥४॥

ततः समाहिता गत्वा दूती बाहुकमब्रवीत् ।
दमयन्त्यपि कल्याणी प्रासादस्था ह्युपैक्षत॥५॥

केशिन्युवाच ।
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।
दमयन्त्या वचः साधु निबोध पुरुषर्षभ॥६॥

कदा वै प्रस्थिता यूयं किमर्थमिह चागताः ।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति॥७॥

बाहुक उवाच ।
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना ।
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात्॥८॥

श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः ।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः॥९॥

केशिन्युवाच ।
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः ।
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्॥१०॥

बाहुक उवाच ।
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ।
स नले विद्रुते भद्रे भाङ्गासुरिमुपस्थितः॥११॥

अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः ।
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्॥१२॥

केशिन्युवाच ।
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः ।
कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक॥१३॥

बाहुक उवाच ।
इहैव पुत्रौ निक्षिप्य नलस्य शुभकर्मणः ।
गतस्ततो यथाकामं नैष जानाति नैषधम्॥१४॥

न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि ।
गूढश्चरति लोकेऽस्मिन्नष्टरूपे महीपतिः॥१५॥

आत्मैव तु नलं वेद या चास्य तदनन्तरा ।
न हि वै स्वानि लिङ्गानि नलः शंसति कर्हिचित्॥१६॥

केशिन्युवाच ।
योऽसावयोध्यां प्रथमं गतोऽसौ ब्राह्मणस्तदा ।
इमानि नारीवाक्यानि कथयानः पुनःपुनः॥१७॥

क्व नु त्वं कितव च्छित्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥१८॥

सा वै यथा समादिष्टा तथास्ते त्वत्प्रतीक्षिणी ।
दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता॥१९॥

तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव ।
प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च॥२०॥

तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते ।
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता॥२१॥

एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति॥२२॥

बृहदश्व उवाच ।
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने॥२३॥

स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः ।
बाष्पसन्दिग्धया वाचा पुनरेवेदमब्रवीत्॥२४॥

बाहुक उवाच। वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥२५॥

रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥२६॥

विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति॥२७॥

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥२८॥

सत्कृताऽसत्कृता वापि पतिं दृष्ट्वा तथाविधम् ।
राज्यभ्रष्टं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्॥२९॥

एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः ।
न बाष्पमशकत्सोढुं प्ररुरोद च भारत॥३०॥

ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् ।
तत्सर्वं कथितं चैव विकारं तस्य चैव तम्॥३१॥

विकारं हृदयव्यथाऽश्रुनेत्रत्वादिकम् ॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकेशिनिसंवादे चतुःसप्ततितमोऽध्यायः॥७४॥
पञ्चसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्॥१॥

दमयन्तीति ॥१॥

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय॥२॥

यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि ।
तत्र सञ्चेष्टमानस्य लक्षयन्ती विचेष्टितम्॥३॥

पाठान्तरे संलक्ष्यं लक्षणीयं ते त्वया ॥३॥

न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि ।
याचते न जलं देयं सर्वथा त्वरमाणया॥४॥

एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय ।
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्॥५॥

यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ।
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी॥६॥

निशम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ।
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम्॥७॥

केशिन्युवाच ।
दृढं शुच्युपचारोसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः॥८॥

शुच्युपचारः जलस्थलशुद्ध्यादिपरः ॥८॥

ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् ।
तं तु दृष्ट्वा यथा सङ्गमुत्सर्पति यथासुखम्॥९॥

संचारं द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति ॥९॥

सङ्कटेऽप्यस्य सुमहान्विवरो जायतेऽधिकः ।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः॥१०॥

संकटे संकुचिते एतेन भूमिजयो दर्शितः ॥१०॥

प्रेषितं तत्र राज्ञा तु मांसं बहु च पाशवम् ।
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः॥११॥

पाशवं पशुसंबन्धि ॥११॥

ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ।
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः॥१२॥

कुम्भाः पूर्णा एवेति जलधातुजय उक्तः ॥१२॥

तृणमुष्टिं समादाय सवितुस्तं समादधत् ।
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः॥१३॥

वह्निजयमाह तृणेति त्रिभिः । सवितुः सकाशात् समादधत् उद्दीपितवान् ॥१३॥

तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ।
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया॥१४॥

यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ।
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्॥१५॥

अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ।
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः॥१६॥

वायुजयमाह अतीवेति द्वाभ्याम् । पुष्पेषु क्षीणोंऽशो झटिति वायुना अपूर्यत इत्यर्थः ॥१६॥

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा ।
भूय एव सुगन्धीनि हृषितानि भवन्ति हि ।
एतान्यद्भुतलिङ्गानि दृष्ट्वाऽहं द्रुतमागता॥१७॥

बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्॥१८॥

कर्म पाकादिचेष्टा भूतजयादि ॥१८॥

सा शङ्कमाना भर्तारं बाहुकं पुनरिङ्गितैः ।
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्॥१९॥

बाहुकं बाहुकरूपिणामिति रूपभेदात्संशयोऽस्ति न तु क्रियात इत्यर्थः ॥१९॥

पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छ्रितं मांसमानयस्वेह भाविनि॥२०॥

सा गत्वा बाहुकस्याग्रे तन्मांसमपकृष्य च ।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी॥२१॥

दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ।
सा चितानलसिद्धस्य मांसस्य बहुशः पुरा॥२२॥

मांसस्य मांसं बहुशः बहुवारम् ॥२२॥

प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ।
वैक्लव्यं परमं गत्वा प्रक्षाल्य च मुखं ततः॥२३॥

मिथुनं प्रेषयामास केशिन्या सह भारत ।
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः॥२४॥

अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ।
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ॥२५॥

भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ।
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्॥२६॥

इदं च सदृशं भद्रे मिथुनं मम पुत्रयोः ।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्॥२७॥

बहुशः सम्पतन्तीं त्वां जनः सङ्केतदोषतः ।
वयं च देशातिथयो गच्छ भद्रे यथासुखम्॥२८॥

संपतन्तीम् आयान्तीं दोषतः कामदोषेण ॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कन्यापुत्रदर्शने पञ्चसप्ततितमोऽध्यायः॥७५॥
षट्सप्ततितमोऽध्यायः

बृहदश्व उवाच ।
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।
आगत्य केशिनी सर्वं दमयन्त्यै न्यवेदयत्॥१॥

सर्वमिति ॥१॥

दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।
मातुः सकाशं दुःखार्ता नलदर्शनकाङ्क्षया॥२॥

परीक्षितो मे बहुशो बाहुको नलशङ्कया ।
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम्॥३॥

स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि ।
विदितं वाऽथवा ज्ञातं पितुर्मे संविधीयताम्॥४॥

एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः॥५॥

सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ ।
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः॥६॥

प्रतिक्षयः गृहम् ॥६॥

तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः ।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः॥७॥

तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा ।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी॥८॥

ततः काषायवसना जटिला मलपङ्किनी ।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्॥९॥

पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्॥१०॥

अनागसं प्रियां भार्यां विजने श्रममोहिताम् ।
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम्॥११॥

किमु तस्य मया बाल्यादपराद्धं महीपतेः ।
यो मामुत्सृज्य विपिने गतवान्निद्रयार्दिताम्॥१२॥

साक्षाद्देवानपाहाय वृतो यः स पुरा मया ।
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम्॥१३॥

अग्नौ पाणिं गृहीत्वा तु देवानामग्रतस्तथा ।
भविष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम्॥१४॥

दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम ।
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु॥१५॥

अतीव कृष्णसाराभ्यां रक्तान्ताभ्यां जलं तु तत् ।
परिस्रवन्नलो दृष्ट्वा शोकार्तामिदमब्रवीत्॥१६॥

मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम्॥१७॥

यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा ।
वनस्थया दुःखितया शोचन्त्या मां दिवानिशम्॥१८॥

स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः॥१९॥

मम च व्यवसायेन तपसा चैव निर्जितः ।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे॥२०॥

विमुच्य मां गतः पापस्ततोऽहमिह चागतः ।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्॥२१॥

कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्॥२२॥

दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति॥२३॥

स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।
श्रुत्वैव चैवं त्वरितो भाङ्गासुरिरुपस्थितः॥२४॥

दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्॥२५॥

दमयन्त्युवाच ।
न मामर्हसि कल्याण दोषेण परिशङ्कितुम् ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप॥२६॥

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश॥२७॥

ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने॥२८॥

तेन वाक्ये कृते सम्यक्प्रतिवाक्ये तथाहृते ।
उपायोऽयं मया दृष्टो नैषधानयने तव॥२९॥

त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप॥३०॥

स्पृशेयं तेन सत्येन पादावेतौ महीपते ।
यथा नासत्कृतं किञ्चिन्मनसाऽपि चराम्यहम्॥३१॥

अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम्॥३२॥

सदागतिः वायुः ॥३२॥

यथा चरति तिग्मांशुः परितो भुवनं सदा ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्॥३३॥

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्॥३४॥

चन्द्रमाः चित्ताभिमानिनी देवता ॥३४॥

एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम्॥३५॥

एवमुक्तस्तथा वायुरन्तरिक्षादभाषत ।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते॥३६॥

राजञ्च्छीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्॥३७॥

उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह॥३८॥

उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया॥३९॥

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः॥४०॥

तदद्भुतमयं दृष्ट्वा नलो राजाथ भारत ।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिन्दमः॥४१॥

ततस्तद्वस्त्रमजरं प्रावृणोद्वसुधाधिपः ।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः॥४२॥

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता॥४३॥

भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत॥४४॥

ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना ।
परीता तेन दुःखेन निशश्वासायतेक्षणा॥४५॥

तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम् ।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः॥४६॥

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप॥४७॥

ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् ।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्॥४८॥

कल्ये प्रभाते ॥४८॥

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप॥४९॥

गृहे भीमस्य नृपतेः परस्परसुखैषिणौ ।
वसेतां हृष्टसङ्कल्पौ वैदर्भी च नलश्च ह॥५०॥

स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया ।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्॥५१॥

दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम् ।
अर्धसञ्जातसस्येव तोयं प्राप्य वसन्धरा॥५२॥

सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा ।
रराज भैमी समवाप्तकामाशीतांशुना रात्रिरिवोदितेन॥५३॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलदमयन्तीसमागमे षट्सप्ततितमोऽध्यायः॥७६॥
सप्तसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः ।
वैदर्भ्या सहितः काले ददर्श वसुधाधिपम्॥१॥

अथेति ॥१॥

ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।
ततो नु दमयन्ती च ववन्दे पितरं शुभा॥२॥

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः॥३॥

नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ।
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि॥४॥

परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ।
ततो बभूव नगरे सुमहान्हर्षजः स्वनः॥५॥

जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ।
अशोभयच्च नगरं पताकाध्वजमालिनीम्॥६॥

सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलङ्कृताः ।
द्वारि द्वारि च पौराणां पुष्पभृङ्गोपकल्पिताः॥७॥

पुष्पभङ्गः पुष्पसंमर्दः॥७॥

अर्चितानि च सर्वाणि देवतायतनानि च ।
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्॥८॥

दमयन्त्या समायुक्तं जहृषे च नराधिपः ।
तमानाय्य नलं राजा क्षमयामास पार्थिवम्॥९॥

स च तं क्षमयामास हेतुभिर्बुद्धिसम्मितः ।
स सत्कृतो महीपालो नैषधं विस्मिताननः॥१०॥

उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः ।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत॥११॥

किञ्चित्तु नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासे वसतो मद्गृहे वसुधाधिप॥१२॥

यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्यापि कानिचित् ।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि॥१३॥

नल उवाच ।
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव॥१४॥

पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप ।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि॥१५॥

सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहे राजन्यथा तव गृहे सदा॥१६॥

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ।
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः॥१७॥

उपाकर्तुं दातुम् ॥१७॥

स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ।
गृहीत्वा चाश्वहृदयं राजान्भाङ्गासुरिर्नृपः॥१८॥

निषधाधिपतेश्चापि दत्त्वाक्षहृदयं नृपः ।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह॥१९॥

ऋतुपर्णे गते राजन्नलो राजा विशाम्पते ।
नगरे कुण्डिने कालं नातिदीर्घमिवावसत्॥२०॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि ऋतुपर्णस्वदेशगमने सप्तसप्ततितमोऽध्यायः॥७७॥
अष्टसप्ततितमोऽध्यायः

बृहदश्व उवाच ।
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।
पुरादल्पपरीवारो जगाम निषधान्प्रति॥१॥

उष्य वासं कृत्वा ॥१॥

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै ।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः॥२॥

स कम्पयन्निव महीं त्वरमाणो महीपतिः ।
प्रविवेशाथ संरब्धस्तरसैव महामनाः॥३॥

ततः पुष्करमासाद्य वीरसेनसुतो नलः ।
उवाच दीव्याव पुनर्बहुवित्तं मयार्जितम्॥४॥

दमयन्ती च यच्चान्यन्मम किञ्चन विद्यते ।
एष वै मम संन्यासस्तव राज्यं तु पुष्कर॥५॥

राज्यम् एकपाणेनैव मम तु दमयन्त्यादि च ॥५॥

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे॥६॥

प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्थः ॥६॥

जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु ।
प्रतिपाणः प्रदातव्यः परमो धर्म उच्यते॥७॥

न चेद्वाञ्च्छसि त्वं द्यूतं युद्धद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप॥८॥

वंशभोज्यमिदं राज्यमर्थितव्यं यथातथा ।
येन केनाप्युपायेन वृद्धानामिति शासनम्॥९॥

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां तु युद्धे वा नाम्यतां धनुः॥१०॥

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्॥११॥

दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्॥१२॥

दिष्ट्या च ध्रियसे राजन्सदारोद्य महाभुज ।
धनेनानेन वै भैमी जितेन समलङ्कृता॥१३॥

मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ।
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध॥१४॥

देवनेन मम प्रीतिर्न भवत्यसुहृद्गणैः ।
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्॥१५॥

कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ।
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः॥१६॥

इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ।
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः॥१७॥

पणावः किं व्याहरसे जितो न व्याहरिष्यसि ।
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च॥१८॥

एकपाणेन भद्रं ते नलेन स पराजितः ।
स रत्नकोशनिचयैः प्राणेन पणितोऽपि च॥१९॥

जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ।
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम्॥२०॥

वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् ।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः॥२१॥

न त्वया तत्कृतं कर्म येनाहं विजितः पुरा ।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे॥२२॥

नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ।
यथासुखं वै जीवत्वं प्राणानवसृजामि ते॥२३॥

तथैव सर्वसम्भारं स्वमंशं वितरामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः॥२४॥

सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता सञ्जीव शरदः शतम्॥२५॥

एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः॥२६॥

सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः॥२७॥

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव॥२८॥

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।
प्रययौ पुष्करो हृष्टः स्वपुरं स्वजनावृतः॥२९॥

महत्या सेनया सार्धं विनीतैः परिचारकैः ।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ॥३०॥

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्॥३१॥

प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ।
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहा॥३२॥

ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ।
अद्य स्म निर्वृता राजन्पुरे जनपदेऽपि च ।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम्॥३३॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि पुष्करपराभवपूर्वकं राज्यप्रत्यानयने अष्टसप्ततितमोऽध्यायः॥७८॥
ऊनाशीतितमोऽध्यायः

बृहदश्व उवाच ।
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे ।
महत्या सेनया राजा दमयन्तीमुपानयत्॥१॥

प्रशान्ते वीतशोके ॥१॥

दमयन्तीमपि पिता सत्कृत्य परवीरहा ।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः॥२॥

आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।
वर्तयामास मुदितो देवराडिव नन्दने॥३॥

तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु ।
पुनः शशासा तद्राज्यं प्रत्याहृत्य महायशाः॥४॥

ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः ।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्॥५॥

वक्ष्यसे दीव्यसे वशका इत्यस्य रूपम् ॥५॥

दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः ।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ॥६॥

एकाकिनैव सुमहन्नलेन पृथिवीपते ।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः॥७॥

त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्॥८॥

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना॥९॥

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्॥१०॥

इतिहासमिमं चापि कलिनाशनमच्युत ।
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते॥११॥

अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा ।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि॥१२॥

श्रुत्वेतिहासं नृपते समाश्वसिहि मा शुचः ।
व्यसने त्वं महाराज न विषीदितुमर्हसि॥१३॥

विषमावस्थिते दैवे पौरुषेऽफलतां गते ।
विषादयन्ति नात्मानं सत्त्वोपाश्रयिणो नराः॥१४॥

ये चेदं कथयिष्यन्ति नलस्य चरितं महत् ।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति॥१५॥

अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्॥१६॥

पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम् ।
आरोग्यप्रीतिमांश्चैव भविष्यति न संशयः॥१७॥

भयात्त्रास्यसि यच्च त्वमाह्वयिष्यति मां पुनः ।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव॥१८॥

तद्भयम् ॥१८॥

वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम ।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते॥१९॥

पुनर्द्यूतं करिष्यसीति राजानं प्रति पूर्वं भीमेसेनेनोक्तं तत्र परिहारमाह वेदेति । वेद वेद्मि । उपपद्यस्व गृहाण ॥१९॥

वैशम्पायन उवाच। ततो हृष्टमना राजा बृहदश्वमुवाच ह ।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः॥२०॥

ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने ।
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः॥२१॥

अश्वशिरोऽश्वविद्यां यया बृहदश्व इति मुनेर्नाम । उपस्प्रष्टुं स्नानादिकं कर्तुम् ॥२१॥

बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् ।
वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम्॥२२॥

ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः ।
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः॥२३॥

इति पार्थो महाबाहुर्दुरापं तप आस्थितः ।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति॥२४॥

यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः ।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव॥२५॥

तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्॥२६॥

जयं जयभाजम् अर्जुनम् ॥२६॥

दह्यमानेन तु हृदा शरणार्थी महावने ।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि बृहदश्वगमने ऊनाशीतितमोऽध्यायः॥७९॥
समाप्तं नलोपाख्यानपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in