जनमेजय उवाच
।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
।
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः॥१॥
अस्त्रेति ॥१॥
वैशंपायन उवाच
।
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
।
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः॥२॥
आवसन् आवासं कृतवन्तः ॥२॥
ततः कदाचिदेकान्ते विविक्त इव शाद्वले
।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया॥३॥
धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः
।
तद्वियोगार्दितान्सर्वाञ्च्छोकः समभिपुप्लुवे॥४॥
पुप्लुवे प्लावितवान् ॥४॥
धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः
।
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत॥५॥
निदेशात्ते महाराज गतोऽसौ भरतर्षभः
।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः॥६॥
निदेशात् आज्ञातः ॥६॥
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्
।
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयः॥७॥
योऽसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन्
।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्॥८॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्॥९॥
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः
।
नीता लोकमिमं सर्वे धार्तराष्ट्राः ससौबलाः॥१०॥
अमुं लोकं परलोकम् ॥१०॥
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः
।
सहामहे भवन्मूलं वासुदेवेन पालिताः॥११॥
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान्
।
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम्॥१२॥
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः
।
अहीनपौरुषा बाला बलिभिर्बलवत्तराः॥१३॥
अहीनपौरुषा अपि वयम् उपप्लुताः कृताः । ये बाला मूर्खाः दुर्योधनादयस्ते बलिभिः सामन्तदत्तैर्धनैर्बलवत्तराः कृताः ॥१३॥
क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि
।
ग हि धर्मो महाराज क्षत्रियस्य वनाश्रयः॥१४॥
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः
।
स क्षत्रधर्मविद्राजा मा धर्म्यान्नीनशः पथः॥१५॥
मा नीनशः मा नाशय ॥१५॥
प्राग्द्वादशसमा राजन्धार्तराष्ट्रान्निहन्महि
।
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्॥१६॥
व्यूढानीकान्महाराज जवेनैव महामते
।
धार्तराष्ट्रानमुं लोकं गमयाम विशांपते॥१७॥
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्
।
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते॥१८॥
मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः
।
एवं कृते न ते दोषा भविष्यन्ति विशांपते॥१९॥
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम
।
अवधूय महाराज गच्छेम स्वर्गमुत्तमम्॥२०॥
एवमेतद्भवेद्राजन्यदि राजा न बालिशः
।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः॥२१॥
बालिशः बालवद्वृथाहठी दीर्घसूत्रः चिरकारी ॥२१॥
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः
।
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते॥२२॥
तथा भारतधर्मेषु धर्मज्ञैरिह दृश्यते
।
अहोरात्रं महाराज तुल्यं संवत्सरेण ह॥२३॥
तथैव वेदवचनं श्रूयते नित्यदा विभो
।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः॥२४॥
वेदे श्रूयते । ‘विश्वसृजा सहस्रसंवत्सरम्’ इति । अत्र हि संवत्सरशब्दो दिनपरः कृतः । अन्यथा शतायुर्वै पुरुष इति श्रुतेरनधिकारिकं शास्त्रमप्रमाणं स्यात् । तावदायुषो लोकेऽदर्शनाच्च । कृच्छ्रत इति। द्वादशवार्षिकं प्रायश्चित्तं प्रतिज्ञातं तत् कृच्छ्रतः कृच्छ्रैरपि सद्यो भवति । तथा हि । 'त्रिंशताप्राजापत्यकृच्छ्रैरेकोऽद्बो भवति । एवं मित्रविन्देष्टिपवित्रेष्टिमृगारेष्टिप्रभृतिभिर्दशदश प्राजापत्यस्थाने धर्मशास्त्रे विहिताभिर्द्वादशवार्षिकं व्रतं समापितुं शक्यमित्यर्थः ॥२४॥
यदि वेदाः प्रमाणास्ते दिवसादूर्ध्वमच्युत
।
त्रयोदशसमाःकालो ज्ञायतां परिनिष्ठितः॥२५॥
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम
।
एकाग्रं पृथिवीं सर्वां पुरा राजन्करोति सः॥२६॥
पुरा अग्रे ॥२६॥
द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम्
।
प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः॥२७॥
न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः
।
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः॥२८॥
अधिगम्य च सर्वान्नो वनवासमिमं ततः
।
प्रव्राजयिष्यति पुनर्निकृत्याधमपूरुषः॥२९॥
यद्यस्मानभिगच्छेत पापः स हि कथंचन
।
अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत्॥३०॥
द्यूतेन ते महाराज पुनर्द्यूतमवर्तत
।
भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति॥३१॥
्यूते द्यूतार्थं पुनराह्वयेत् । नन्वाहूतोऽप्यहं न गमिष्यामीत्याशंक्याह पुनर्द्यूतमवर्तत । पूर्वमप्यनुद्यूतस्य कृतत्वात्पुनरपि द्यूतं करिष्यस्येवेत्यर्थः अपनेष्यति दूरीकरिष्यति । श्रियमिति शेषः ॥३१॥
स तथाक्षेषु कुशलो निश्चितो गतचेतनः
।
चरिष्यसि महाराज वनेषु वसतीः पुनः॥३२॥
यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि
।
यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः॥३३॥
निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः
।
अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम्॥३४॥
यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः
।
हनिष्यामि तथा मन्दमनुजानातु मे भवान्॥३५॥
कक्षं तृणम् । अभिलक्ष्येति शेषः ॥३५॥
वैशंपायन उवाच
।
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः
।
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम्॥३६॥
असंशयं महाबाहो हनिष्यसि सुयोधनम्
।
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना॥३७॥
यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो
।
अनृतं नोत्सहे वक्तुं न ह्येतन्मम विद्यते॥३८॥
अनृतमिति । विश्वसृजां सत्रे संवत्सरशब्दो न कालपरः । किं तु 'पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशा इत्यादि श्रुतौ संवत्सरपदस्य त्रिवृदादिशब्दसामानाधिकरण्यादहः शब्दवाच्यक्रतुपरत्वं दृष्टम् । अतः संवत्सरशब्दो दिनपर इति प्रवादमात्रम् । पञ्चपञ्चाशत इति पञ्चाशदधिकं शतद्वयमुच्यते। न हि कालेन कर्तव्यं व्रतं कर्मणा समापयितुं शक्यमिति भावः ॥३८॥
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम्
।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्॥३९॥
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे
।
आजगाम महाभागो बृहदश्वो महानृषिः॥४०॥
तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम्
।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्॥४१॥
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः
।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत॥४२॥
अक्षद्यूते च भगबन्धनं राज्यं च मे हृतम्
।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः॥४३॥
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः
।
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी॥४४॥
पुनर्द्यूतेन मां जित्वा वनवासं सुदारुणम्
।
प्राव्राजयन्महारण्यमजिनैः परिवारितम्॥४५॥
अहं वने दुर्वसतीर्वसन्परमदुःखितः
।
अक्षद्यूताधिकारे च गिरः शृण्वन्सुदारुणाः॥४६॥
आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम्
।
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन्॥४७॥
यस्मिंश्चैव समस्तानां प्राणा गाण्डीवधन्वनि
।
विना महात्मना तेन गतसत्त्व इवाभवम्॥४८॥
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम्
।
प्रियवादिनमक्षुद्रं दयायुक्तमतन्द्रितः॥४९॥
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि
।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्
।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः॥५०॥
अत्रैवार्थे सत्यं सर्वथा न त्याज्यमिति आख्यायिकाद्वारा भीमसेनं बोधयितुं राज्ञा बृहदश्वः प्रवर्त्यते । अस्ति राजा मया कश्चिदित्यादिना ॥५०॥
बृहदश्व उवाच
।
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित्
।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव॥५१॥
अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ
।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते॥५२॥
वैशंपायन उवाच
।
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति
।
इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम्॥५३॥
बृहदश्व उवाच
।
शृणु राजन्नवहितः सह भ्रातृभिरच्युत
।
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते॥५४॥
निषधेषु महीपालो वीरसेन इति श्रुतः
।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थकोविदः॥५५॥
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम्
।
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह॥५६॥
पुष्करेण राज्ञा ॥५६॥
न तस्य दासा न रथो न भ्राता न च बान्धवाः
।
वने निवसतो राजञ्च्छिष्यन्ते स्म कदाचन॥५७॥
शिष्यन्ते अवशिष्टाः । कालस्त्वविवक्षितः ॥५७॥
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः
।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम्॥५८॥
युधिष्ठिर उवाच
।
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः
।
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि॥५९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥५२॥
बृहदश्व उवाच
।
आसीद्राजा नलो नाम वीरसेनसुतो बली
।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥१॥
आसीदिति । उपपन्नः अतियुक्तः ॥१॥
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा
।
उपर्युपरि सर्वेषामादित्य इव तेजसा॥२॥
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः
।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥३॥
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः
।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥४॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः
।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः॥५॥
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः
।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत॥६॥
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्
।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्॥७॥
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ
।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः॥८॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्
।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्॥९॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया
।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥१०॥
अथ तां वयसि प्राप्ते दासीनां समलंकृतम्
।
शतं शतं सखीनां च पर्युपासच्छचीमिव॥११॥
तत्र स्म राजते भैमी सर्वाभरणभूषिता
।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा॥१२॥
सौदामनी प्रावृषेण्यमेघसंबन्धिनी सुष्टु जगतो जीवनं ददति ते सुदामानो मेघास्तेषां समूहः सौदामनः प्रावृट्कालस्तत्संबन्धिनी । सा हि अत्यन्तं द्योतमाना भवतीति प्रसिद्धम् ॥१२॥
अतीव रूपसंपन्ना श्रीरिवायतलोचना
।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्॥१३॥
मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता
।
चित्तप्रसादनी बाला देवानामपि सुन्दरी॥१४॥
नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि
।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥१५॥
मूर्तिमान् शरीरी ॥१५॥
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्
।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः॥१६॥
प्रशशंसुः वार्ताहरा इति शेषः ॥१६॥
तयोरदृष्टः कामोभूच्छृण्वतोः सततं गुणान्
।
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः॥१७॥
हृच्छयः कामः ॥१७॥
अशक्नुवन्नलः कामं तदा धारयितुं हृदा
।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः॥१८॥
स ददर्श ततो हंसाञ्जातरूपपरिष्कृतान्
।
वने विचरतां तेषामेकं जग्राह पक्षिणम्॥१९॥
जातरूपपरिष्कृतान् सुवर्णपक्षान् ॥१९॥
ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा
।
हन्तव्योऽस्मि न ते राजन्करिष्यामि तव प्रियम्॥२०॥
अन्तरिक्षगः खगः ॥२०॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध
।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥२१॥
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः
।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः॥२२॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके
।
निपेतुस्ते गरुत्मन्तः सा ददर्श च तान्खगान्॥२३॥
गरुत्मन्तः पक्षवन्तः ॥२३॥
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता
।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे॥२४॥
अथ हंसा विससृपुः सर्वतः प्रमदावने
।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन्॥२५॥
दमयन्ती तु यं हंसं समुपाधावदन्तिके
।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥२६॥
दमयन्ति नलो नाम निषधेषु महीपतिः
।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥२७॥
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्
।
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि॥२८॥
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे
।
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्॥२९॥
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः
।
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः॥३०॥
विशिष्टया विशिष्टेन संग्रामो गुणवान्भवेत्
।
एवमुक्ता तु हंसेन दमयन्ती विशांपते॥३१॥
संग्रामः कामयुद्धं सुरतमित्यर्थः । संगम इति पाठेऽपि स एवार्थः ॥३१॥
अब्रवीत्तत्र तं हंसं त्वमप्येवं नले वद
।
तथेत्युक्त्वाण्डजः कन्यां विदर्भस्य विशांपते
।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि हंसदमयन्तीसंवादे त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
बृहदश्व उवाच
।
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
।
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा॥१॥
दमयन्तीति ॥१॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा
।
बभूव दमयन्ती तु निःश्वासपरमा तदा॥२॥
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना
।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना॥३॥
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
।
न नक्तं न दिवा शेते हाहेति रुदती पुनः॥४॥
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः
।
ततो विदर्भपतये दमयन्त्याः सखीजनः॥५॥
जज्ञुः ज्ञातवत्यः । इङ्गितैः अभिप्रायसूचकैश्चेष्टितैः ॥५॥
न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरे
।
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीं सखीगणात्॥६॥
नरेश्वरे नलनिमित्तम् ॥६॥
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति
।
किमर्थं दुहिता मेद्य नातिस्वस्थेव लक्ष्यते॥७॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्
।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्॥८॥
स संनिमन्त्रयामास महीपालान्विशांपतिः
।
अनुभूयतामयं वीराः स्वयंवर इति प्रभो॥९॥
संनिमन्त्रयामास आमन्त्रितवान् अनुभूयतां प्रेक्ष्यतां भवद्भिः ॥९॥
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्
।
अभिजग्मुस्ततो भीमं राजानो भीमशासनात्॥१०॥
हस्त्यश्वरथघोषेण पूरयन्तो वसुंधराम्
।
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः॥११॥
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम्
।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः॥१२॥
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ
।
अटमानौ महात्मानाविन्द्रलोकमितो गतौ॥१३॥
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ
।
देवराजस्य भवनं विविशाते सुपूजितौ॥१४॥
तावर्चयित्वा मघवा ततः कुशलमव्ययम्
।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः॥१५॥
नारद उवाच
।
आवयोः कुशलं देव सर्वत्र गतमीश्वर
।
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो॥१६॥
बृहदश्व उवाच
।
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा
।
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः॥१७॥
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः
।
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्॥१८॥
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्
।
आगच्छतो महीपालान्दयितानतिथीन्मम॥१९॥
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत
।
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः॥२०॥
महीक्षितः पृथ्वीश्वराः ॥२०॥
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता
।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः॥२१॥
तस्याः स्वयंवरः शक्र भविता न चिरादिव
।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥२२॥
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः
।
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन॥२३॥
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः
।
आजग्मुर्देवराजस्य समीपममरोत्तमाः॥२४॥
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत्
।
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत॥२५॥
ततः सर्वे महाराज सगणाः सहवाहनाः
।
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः॥२६॥
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्
।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः॥२७॥
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्
।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा॥२८॥
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्
।
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा॥२९॥
विगतो विनष्टः दमयन्तीं प्राप्स्याम इति संकल्पो येषाम् ॥२९॥
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः
।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्॥३०॥
भो भो निषधराजेन्द्र नल सत्यव्रतो भवान्
।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि इन्द्रनारदसंवादे चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
बृहदश्व उवाच
।
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत
।
अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः॥१॥
तेभ्य इति ॥१॥
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः
।
किं च तद्वो मया कार्यं कथयध्वं यथातथम्॥२॥
एवमुक्ते नैषधेन मघवानभ्यभाषत
।
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्॥३॥
अहमिन्द्रोऽयमग्निश्च तथैवायमपां पतिः
।
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव॥४॥
त्वं वै समागतानस्मान्दमयन्त्यै निवेदय
।
लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः॥५॥
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोग्निर्वरुणो यमः
।
तेषामन्यतमं देवं पतित्वे वरयस्व ह॥६॥
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्
।
एकार्थं समुपेतं मां न प्रेषयितुमर्हथ॥७॥
एकार्थम् एकप्रयोजनम् । यूयमिवाहमपि दमयन्तीं प्रार्थयामीत्यर्थः ॥७॥
कथ हि जातसंकल्पः स्त्रियमुत्सृजते पुमान्
।
परार्थमीदृशं वक्तं तत्क्षमन्तु मरेश्वराः॥८॥
देवा ऊचुः
।
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध
।
न करिष्यसि कस्मात्त्वं व्रज नैषध मा चिरम्॥९॥
बृहदश्व उवाच
।
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्
।
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे॥१०॥
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत
।
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्॥११॥
प्रवेक्ष्यसीति । अदर्शनशक्तिस्तुभ्यं दत्तेति भावः ॥११॥
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्
।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्॥१२॥
अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम्
।
आक्षिपन्तीमिव प्रभां शशिनः स्वेन तेजसा॥१३॥
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्
।
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम्॥१४॥
ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः
।
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः॥१५॥
धर्षिता अभिभूताः ॥१५॥
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः
।
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन्॥१६॥
अहोरूपमहोकान्तिरहो धैर्यं महात्मनः
।
कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति॥१७॥
न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन
।
तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः॥१८॥
अथैनं स्मयमानं तु स्मितपूर्वाभिभाषिणी
।
दमयन्ती नलं वीरमभ्यभाषत विस्मिता॥१९॥
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन
।
प्राप्तोस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ॥२०॥
कथमागमनं चेह कथं चासि न लक्षितः
।
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः॥२१॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
।
नल उवाच।
नलं मां विद्धि कल्याणि देवदूतमिहागतम्॥२२॥
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः
।
तेषामन्यतमं देवं पतिं वरय शोभने॥२३॥
तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः
।
प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत्॥२४॥
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः
।
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलस्य देवदौत्ये पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
बृहदश्व उवाच
।
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्
।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते॥१॥
सेति । यथाश्रद्धं देवेभ्यो नमस्कृत्य प्रणयस्वेति संबन्धः । प्रणयस्व परिणयस्व । मामिति शेषः ॥१॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चना
।
तत्सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर॥२॥
विश्रब्धं सविश्वासं यथा स्यात्तथा प्रणयं परिणयनं विवाहम् ॥२॥
हंसानां वचनं यत्तु तन्मां दहति पार्थिव
।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः॥३॥
संनिपातिता मेलिताः ॥३॥
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद
।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्॥४॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह
।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि॥५॥
येषामहं लोककृतामीश्वराणां महात्मनाम्
।
न पादराजसा तुल्यो मनस्ते तेषु वर्तताम्॥६॥
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति
।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्॥७॥
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा
।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै॥८॥
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः
।
हुताशमीशं देवानां का तं न वरयेत्पतिम्॥९॥
यस्य दण्डभयात्सर्वे भूतग्रामाः समागताः
।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम्॥१०॥
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्
।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम्॥११॥
क्रियतामविशङ्केन मनसा यदि मन्यसे
।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु॥१२॥
नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत्
।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा॥१३॥
देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते
।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते॥१४॥
तामुवाच ततो राजा वेपमानां कृताञ्जलिम्
।
दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम्॥१५॥
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः
।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे॥१६॥
एष धर्मो यदि स्वार्थो ममापि भविता ततः
।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्॥१७॥
ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता
।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्॥१८॥
उपायोऽयं मया दृष्टो निरपायो नरेश्वरः
।
येन दोषो न भविता तव राजन्कथञ्चन॥१९॥
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः
।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः॥२०॥
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर
।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति॥२१॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशांपते
।
आजगाम पुनस्तत्र यत्र देवाः समागताः॥२२
।
तमपश्यंस्तथा यान्तं लोकपाला महेश्वराः
।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम्॥२३॥
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता
।
किमब्रवीच्च नः सर्वान्वद भूमिप तेऽनघ॥२४॥
नल उवाच
।
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्
।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्॥२५॥
महाकक्षं महान्तं राजद्वारप्रदेशम् ॥२५॥
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः
।
ऋते तां पार्थिवसुतां भवतामेव तेजसा॥२६॥
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः
।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः॥२७॥
वर्ण्यमानेषु च मया भवत्सु रुचिरानना
।
मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः॥२८॥
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः
।
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः॥२९॥
तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध
।
एवं तव महाबाहो दोषो न भवितेति ह॥३०॥
एतावदेव विबुधा यथावृत्तमुपाहृतम्
।
मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकर्तृकदेवदूत्ये षट्पञ्चाशत्तमोऽध्यायः॥५६॥
बृहदश्व उवाच
।
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा
।
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥१॥
अथेति ॥१॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः
।
त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः॥२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम्
।
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम्॥३॥
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः
।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः॥४॥
तां राजसमितिं पुण्यां नागैर्भोगवतीमिव
।
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव॥५॥
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः
।
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः॥६॥
सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च
।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि॥७॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना
।
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च॥८॥
मुष्णन्ती हरन्ती ॥८॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्
।
तत्र तत्रैव सक्ताऽभून्न चचाल च पश्यताम्॥९॥
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत
।
ददर्श भैमी पुरुषान्पञ्चतुल्याकृतीनि ह॥१०॥
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्
।
सन्देहादथ वेदर्भी नाभ्यजानान्नलं नृपम्॥११॥
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्
।
सा चिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी॥१२॥
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्
।
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता॥१३॥
श्रुतानि देवलिङ्गानि तर्कयामास भारत
।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे॥१४॥
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये
।
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः॥१५॥
शरणं प्रति देवानां प्राप्तकालममन्यत
।
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा॥१६॥
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्
।
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः
।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥१७॥
मनसा वचसा चैव यथा नाभिचराम्यहम्
।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥१८॥
यथा देवैः स मे भर्ता विहितो निषधाधिषः
।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥१९॥
यथेदं व्रतमारब्धं नलस्याराधने मया
।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥२०॥
स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः
।
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम्॥२१॥
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम्
।
निश्चयं परमं तथ्यमनुरागं च नैषधे॥२२॥
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे
।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे॥२३॥
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्
।
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्॥२४॥
मनुष्याः सस्वेदाः सनिमेषाम्लायमानस्रजः सरजस्का भूमिस्पृशः देवास्तद्विपरीताः । हृषितस्रजश्चते रजोहीनाश्चेति समासः ॥२४॥
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः
।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः॥२५॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत
।
नैषधं वरयामास भैमी धर्मेण पाण्डव॥२६॥
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना
।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥२७॥
वरयामास चैवैनं पतित्वे वरवर्णिनी
।
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः॥२८॥
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत
।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्॥२९॥
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः
।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना॥३०॥
यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ
।
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम्॥३१॥
यद्यस्मान्मां भजसि तस्मात्ते तव वचने रतम् इत्येतत् विद्धि ॥३१॥
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते
।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते॥३२॥
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः
।
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्॥३३॥
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा
।
वृते तु नैषधे भैम्या लोकपाला महौजसः॥३४॥
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः
।
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्॥३५॥
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः
।
अग्निरात्मभवं प्रादाद्यत्र वाञ्च्छति नैषधः॥३६॥
आत्मभवम् आत्मन आविर्भावम् ॥३६॥
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः
।
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्॥३७॥
अन्नरसं यादृशे तादृशेऽप्यन्ने विशिष्टरसवत्ताम् ॥३७॥
अपां पतिरपां भावं यत्र वाञ्च्छति नैषधः
।
स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः ॥३८॥
भावं सत्तां मिथुनम् एकैकेन द्वयं द्वयमपीत्यर्थः ॥३८॥
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः
।
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः॥३९॥
अनुभूय दृष्ट्वा ॥३९॥
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्
।
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः॥४०॥
विवाहं कारयामास दमयन्त्या नलस्य च
।
उष्य तत्र तथाकामं नैषधो द्विपदां वरः॥४१॥
उष्य वासं कृत्वा ॥४१॥
भीमेन समनुज्ञातो जगाम नगरं स्वकम्
।
अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः॥४२॥
रेमे सह तया राजञ्च्छच्येव बलवृत्रहा
।
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव॥४३॥
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्
।
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः॥४४॥
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः
।
पुगश्च रमणीयेषु वनेषूपवनेषु च॥४५॥
दमयन्त्या सह नलो विजहारामरोपमः
।
जनयामास च ततो दमयन्त्यां महामनाः
।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम्॥४६॥
एवं स यजमानश्च विहरंश्च नराधिपः
।
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः॥४७॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीस्वयंवरे सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
बृहदश्व उवाच
।
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्
।
उन्मत्तवदनुन्मत्ता देवने गतचेतसम्॥१॥
दमयन्तीति ॥१॥
भयशोकसमाविष्टा राजन्भीमसुता ततः
।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति॥२॥
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्
।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्॥३॥
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम्
।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्॥४॥
बृहत्सेने व्रजामात्यानानाय्य नलशासनात्
।
आचक्ष्व यद्धृतं दिव्यमवशिष्टं च यद्वसु॥५॥
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्
।
अपि नो भागधेयं स्यादित्युक्त्वा नलमाव्रजन्॥६॥
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः
।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत॥७॥
द्वितीयं द्वितीयवारम् ॥७॥
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा
।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह॥८॥
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान्
।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह॥९॥
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्
।
सूतमानय कल्याणि महत्कार्यमुपस्थितम्॥१०॥
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम्
।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः॥११॥
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्च्छ्लक्ष्णया गिरा
।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता॥१२॥
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि
।
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि॥१३॥
यथायथा हि नृपतिः पुष्करेणैव जीयते
।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते॥१४॥
तथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः
।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते॥१५॥
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च
।
ममापि च तथा वाक्यं नाभिनन्दति मोहितः॥१६॥
नूनं मन्ये न दोषोऽस्ति नैषधस्य महात्मनः
।
यत्तु मे वचनं राजा नाभिनन्दति मोहितः॥१७॥
शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः
।
न हि मे शुध्यते भावः कदाचिद्विनशेदपि॥१८॥
विनशेत् विनश्येत् नल इति शेषः ॥१८॥
नलस्य दयितानश्वान्योजयित्वा मनोजवान्
।
इदमारोप्य मिथुनं कुण्डिनं यातुर्महसि॥१९॥
मिथुनं कुमारी कुमारं च । कुण्डिनं भीमस्य नगरम् ॥१९॥
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा
।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छ वा॥२०॥
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः
।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः॥२१॥
मुख्यशः मुख्येषु मुख्येषु ॥२१॥
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते
।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना॥२२॥
वाहिना अश्वरथेन ॥२२॥
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्
।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्॥२३॥
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम्
।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा॥२४॥
अटमानः वेतनार्थी पर्यटन् ॥२४॥
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः
।
भृतिं चोपययौ तस्य सारथ्येन महीपते॥२५॥
भृतिं वेतनम् ॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कुण्डिनं प्रति कुमारकुमारीप्रस्थापने षष्टितमोऽध्यायः॥६०॥
बृहदश्व उवाच
।
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः
।
पुष्करेण हृतं राज्यं यच्चान्यद्वस्तु किंचन॥१॥
तत इति ॥१॥
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्
।
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव॥२॥
प्रतिपाणः पणनीयं द्रव्यम् ॥२॥
शिष्टा ते दमयन्त्येका सर्वमन्यज्जितं मया
।
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे॥३॥
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना
।
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्॥४॥
ततः पुष्करमालोक्य नलः परममन्युमान्
।
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥५॥
एकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः
।
निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम्॥६॥
दमयन्त्येकवस्त्राथ गच्छन्तं पृष्ठतोन्वगात्
।
स तया बाह्यतः सार्धं त्रिरात्रं नैषधोवसत्॥७॥
तया सार्धं बाह्यतः बहिः ॥७॥
पुष्करस्तु महाराज घोषयामास वै पुरे
।
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम॥८॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च
।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर॥९॥
तस्य नलस्य ॥९॥
स तथा नगराभ्यासे सत्कारार्हो न सत्कृतः
।
त्रिरत्रमुषितो राजा जलमात्रेण वर्तयन्॥१०॥
नगराभ्यासे नगरसमीपे ॥१०॥
पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन्
।
प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात्॥११॥
क्षुधया पीड्यमानस्तु नलो बहुतिथेहनि
।
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्॥१२॥
स चिन्तयामास तदा निषधाधिपतिर्बली
।
अस्ति भक्ष्यो ममाद्यायं वसु चेदं भविष्यति॥१३॥
ततस्तान्परिधानेन वाससा स समावृणोत्
।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा॥१४॥
उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम्
।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनममधोमुखम्॥१५॥
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः
।
आगता न हि नः प्रीतिः सवाससि गते त्वयि॥१६॥
तान्समीपगतानक्षानात्मानं च विवाससम्
।
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत्॥१७॥
येषां प्रकोपादैश्वर्यात्प्रच्युतोहमनिन्दिते
।
प्राणयात्रां न विन्देयं दुःखितः क्षुधयान्वितः॥१८॥
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः
।
इमे ते शकुना भूत्वा वासो भीरु हरन्ति मे॥१९॥
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः
।
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः॥२०॥
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्
।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्॥२१॥
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा
।
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः॥२२॥
एष पन्था विदर्भाणामसौ गच्छति कोसलान्
।
अतःपरं च देशोऽयं दक्षिणे दक्षिणापथः॥२३॥
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः
।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत॥२४॥
ततः सा वाष्पकलया वाचा दुःखेन कर्षिता
।
उवाच दमयन्ती तं नैषधं करुणं वचः॥२५॥
उद्वेजते मे हृदयं सीदन्त्यङ्गानि सर्वशः
।
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः॥२६॥
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्
।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने॥२७॥
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्
।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम्॥२८॥
न च भार्यासमं किंचिद्विद्यते भिषजां मतम्
।
औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते॥२९॥
नल उवाच
।
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे
।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥३०॥
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे
।
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते॥३१॥
अलम् अत्यर्थम् ॥३१॥
दमयन्त्युवाच
।
यदि मां त्वं महाराज न विहातुमिहेच्छसि
।
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते॥३२॥
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि
।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते॥३३॥
अपकृष्टेन कलिकर्षितेन ॥३३॥
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम
।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम॥३४॥
यदि चायमभिप्रायस्तव ज्ञातीन्व्रजेदिति
।
सहितावेव गच्छावो विदर्भान्यदि मन्यसे॥३५॥
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद
।
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे॥३६॥
यद्यपि पूजयिष्यति तथापि त्वं सुखं नो वत्स्यसि न वासं करिष्यति। श्वशुरगृहवासस्य नीचतावहत्वात् ॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलवनयात्रायामेकषष्टितमोऽध्यायः॥६१॥
नल उवाच
।
यथा राज्यं तव पितुस्तथा मम न संशयः
।
न तु तत्र गमिष्यामि विषमस्थः कथंचन॥१॥
एतदेव समर्थयन्नल उवाच यथेति ॥१॥
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः
।
परिद्यूतो गमिष्यामि तव शोकविवर्धनः॥२॥
बृहदश्व उवाच
।
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः
।
सान्त्वयामास कल्याणीं वाससोर्धेन संवृताम्॥३॥
तावेकवस्त्रसंवीतावटमानावितस्ततः
।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः॥४॥
पाठान्तरे उपोषतुः उपेत्य वासं चक्रतुः ॥४॥
तां सभामुपसंप्राप्य तदा स निषधाधिपः
।
वैदर्भ्या सहितो राजा निषसाद महीतले॥५॥
स वै विवस्त्रो विकटो मलिनः पांसुगुण्ठितः
।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले॥६॥
विकटः कटस्तृणासनं तद्रहितः अत एव पांसुगुण्ठितः ॥६॥
दमयन्त्यपि कल्याणी निद्रयापहृता ततः
।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी॥७॥
सुप्तायां दमयन्त्यां तु नलो राजा विशांपते
।
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा॥८॥
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः
।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्॥९॥
परिध्वंसं कलिना वस्त्रापहरणादिक्लेशम् ॥९॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः
।
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा॥१०॥
जनस्य परिशेषाद्भार्यया एव ॥१०॥
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते
।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति॥११॥
मयि निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता
।
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित्॥१२॥
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः
।
उत्सर्गं मन्यते श्रेयो दमयन्त्या नराधिप॥१३॥
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि
।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता॥१४॥
एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत
।
कलिना दुष्टभावेन दमयन्त्या विसर्जने॥१५॥
दमयन्त्या विषये न्यवर्तत निवृत्ता सती विसर्जनेऽभूदिति शेषः ॥१५॥
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्
।
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्॥१६॥
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया
।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा॥१७॥
परिधावन्नथ नल इतश्चेतश्च भारत
।
आससाद सभोद्देशे विकोशं खङ्गमुत्तमम्॥१८॥
तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः
।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम्॥१९॥
निवस्य परिधाय ॥१९॥
ततो निवृत्तहृदयः पुनरागम्य तां सभाम्
।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः॥२०॥
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्
।
सेयमद्य सभामध्ये शेते भूमावनाथवत्॥२१॥
इयं वस्त्रावकर्तेन संवीता चारुहासिनी
।
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति॥२२॥
कथमेका सती भैमी मया विरहिता शुभा
।
चरिष्यति वने घोरे मृगव्यालनिषेविते॥२३॥
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ
।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता॥२४॥
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि
।
कलिनापहृतज्ञानो नलः प्रातिष्ठदुद्यतः॥२५॥
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः
।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते॥२६॥
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा
।
दोलेव मुहुरायाति याति चैव सभां प्रति॥२७॥
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः
।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु॥२८॥
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः
।
जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीपरित्यागे द्विषष्टितमोऽध्यायः॥६२॥
बृहदश्व उवाच
।
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
।
अबुध्यत वरारोहा संत्रस्ता विजने वने॥१॥
अपेति ॥१॥
अपश्यमाना भर्तारं शोकदुःखसमन्विता
।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्॥२॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्
।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥३॥
ननु नाम महारज धर्मज्ञः सत्यवागसि
।
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य कानने॥४॥
तथा सत्यं यत्स्वयंवरे उक्तं त्वां न त्यक्ष्यामीति ॥४॥
कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम्
।
विशेषतोऽनपकृते परेणापकृते सति॥५॥
अनपकृते अपकारभावे ॥५॥
शक्यसे ता गिरः सम्यक्कर्तुं मयि नरेश्वर
।
यास्तेषां लोकपालानां सन्निधौ कथिताः पुरा॥६॥
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ
।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति॥७॥
पर्याप्तः परिहासोयमेतावान्पुरुषर्षभ
।
भीताहमिति दुर्धर्ष दर्शयात्मानमीश्वर॥८॥
दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषध
।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे॥९॥
नृशंसां बत राजेन्द्र यन्मामेवंगतामिह
।
विलपन्तीं समागम्य नाश्वासयसि पार्थिव॥१०॥
न शोचाम्यहमात्मानं न चान्यदपि किंचन
।
कथं नु भवितास्येक इति त्वां नृप शोचिमि॥११॥
शोचिमि शोचामि ॥११॥
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः
।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि॥१२॥
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
।
इतश्चेतश्च रुदती पर्यधावत दुःखिता॥१३॥
मन्युना शोकेन ॥१३॥
मुहुरुत्पतते बाला मुहुः पतति विह्वला
।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति॥१४॥
अतीव शोकसंतप्ता मुहुर्निःश्वस्य विह्वला
।
उवाच भैमी निःश्वस्य रुदत्यथ पतिव्रता॥१५॥
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः
।
तस्य भूतस्य नो दुःखाद्दुःखमप्यधिकं भवेत्॥१६॥
कलिं शपति यस्येति। अभिशापात् वृथाद्वेषात् नो दुःखात् अस्मत्संबन्धिदुःखात् ॥१६॥
अपापचेतसं पापो य एवं कृतवान्नलम्
।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम्॥१७॥
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
।
अन्वेषमाणा भर्तारं वने श्वापदसेविते॥१८॥
उन्मत्तवद्भीमसुता विलपन्ती इतस्ततः
।
हा हा राजन्निति मुहुरितश्चेतश्च धावति॥१९॥
तां क्रन्दमानामत्यर्थं कुररीमिव वाशतीम्
।
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः॥२०॥
वाशतीं क्रोशन्तीम् ॥२०॥
सहसाभ्यागतां भैमीमभ्यासपरिवर्तिनीम्
।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः॥२१॥
ग्राहः सर्पः अजगरः तद्वत्स्थूलः ॥२१॥
सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता
।
नात्मानं शोचति तथा यथा शोचति नैषधम्॥२२॥
हा नाथ मामिह वने ग्रस्यमानामनाथवत्
।
ग्राहेणानेन विजने किमर्थं नानुधावसि॥२३॥
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध
।
कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो॥२४॥
बुद्धिलाभादूर्ध्वं मां विना कथं भविष्यसि जीविष्यसि कथम् ॥२४॥
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च
।
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
।
कः श्रमं राजशार्दूल नाशयिष्यति तेनघ॥२५॥
ततः कश्चिन्मृगव्याधो विचरन्गहने वने
।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह॥२६॥
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
।
त्वरमाणो मृगव्याधः समभिक्रम्य वेगतः॥२७॥
मुखतः पाटयामास शस्त्रेण निशितेन च
।
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः॥२८॥
विशस्य विदार्य ॥२८॥
मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन ह
।
समाश्वास्य कृताहारामथ पप्रच्छ भारत॥२९॥
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्
।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि॥३०॥
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते
।
सर्वमेतद्यथावृत्तमाचचक्षेस्य भारत॥३१॥
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्
।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्॥३२॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्
।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्॥३३॥
आरालानि कुटिलानि शोभमानानि वा पक्ष्माणि नयनप्रान्तकेशाः ययोस्तादृशे नयने यस्या इति तथा ॥३३॥
तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया
।
सान्त्वयामास कामार्तस्तदबुध्यत भाविनी॥३४॥
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता
।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना॥३५॥
मन्युना क्रोधेन ॥३५॥
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः
।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव॥३६॥
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
।
अतीतवाक्पथे काले शशापैनं रुषान्विता॥३७॥
पतिराज्यविनाकृता पत्या राज्येन च रहिता अतीतवाक्पथे वाचाप्यनिवार्ये सति काले धूम्रवर्णे व्याधे ॥३७॥
यद्यहं नैषधादन्यं मनसापि न चिन्तये
।
तथायं पततां क्षुद्रो परासुर्मृगजीवनः॥३८॥
परासुः गतप्राणः ॥३८॥
उक्तमात्रे तु वचने तथा स मृगजीवनः
।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः॥३९॥
व्यसुर्विगतप्राणः ॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि अजगरग्रस्तदमयन्तीमोचने त्रिषष्टितमोऽध्यायः॥६३॥
बृहदश्व उवाच
।
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्॥१॥
सेति। प्रतिभयं भीषणं झिल्लिका तीक्ष्णशब्दः पतङ्गविशेषः ॥१॥
सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम्
।
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्॥२॥
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः
।
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः॥३॥
जम्ब्वाम्रलोध्रखदिरसालवेत्रसमाकुलम्
।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्॥४॥
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्
।
प्रियालतालखर्जूरहरीतकिबिभीतकैः॥५॥
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्
।
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः॥६॥
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्
।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्॥७॥
पल्वलानि तडागानि गिरिकूटानि सर्वशः
।
सरितो निर्झराश्चैव ददर्शाद्भुतदर्शनान्॥८॥
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
।
भहिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान्॥९॥
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता
।
वैदर्भीं विचरत्येका नलमन्वेषती तदा॥१०॥
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्
।
दारुणामटवीं प्राप्य भर्तृव्यसनपीडिता॥११॥
विदर्भतनया राजन्विललाप सुदुःखिता
।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता॥१२॥
दमयन्त्युवाच
।
व्यूढोरस्क महाबाहो नैषधानां जनाधिपः
।
क्व नु राजन्गतोस्यद्य विसृज्य विजने वने॥१३॥
अश्वमेधादिभिर्वीर क्रतुभिर्भूरिदक्षिणैः
।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे॥१४॥
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते
।
स्मर्तुमर्हसि कल्याण वचनं पार्थिवर्षभ॥१५॥
यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप
।
मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि॥१६॥
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः
।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः॥१७॥
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः॥१८॥
हा वीर नल नामाहं नष्टा किल तवानघ
।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे॥१९॥
कर्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः
।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि॥२०॥
अरण्यराट् शार्दूलः मां मम चित्तं कर्षयति व्यथयति ॥२०॥
न मे त्वदन्या काचिद्धि प्रियास्तीत्यब्रवीः सदा
।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप॥२१॥
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप
।
ईप्सितामीप्सितोऽसि त्वं किं मां न प्रतिभाषसे॥२२॥
कृशां दीनां विवर्णां च मलिनां वसुधाधिप
।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्॥२३॥
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
।
न मानयसि मामार्य रुदन्तीमरिकर्शन॥२४॥
महाराज महारण्ये अहमेकाकिनी सती
।
दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे॥२५॥
कुलशीलोपसंपन्न चारुसर्वाङ्गशोभन
।
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम॥२६॥
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते
।
शयानमुपविष्टं वा स्थितं वा निषधाधिप॥२७॥
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन
।
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता॥२८॥
कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः
।
को नु मे वाथ प्रष्टव्यो वनेऽस्मिन्प्रस्थितं नलम्॥२९॥
अभिरूपं महात्मानं परव्यूहविनाशनम्
।
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्॥३०॥
परव्यूहाः शत्रुसैन्यानि परव्यसनेति पाठे परेषां दुःखस्य नाशनम् ॥३०॥
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्
।
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः॥३१॥
शार्दूलोऽभिमुखोभ्येति व्रजाम्येनमशङ्किता
।
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः॥३२॥
विदर्भराजतनयां दमयन्तीति विद्धि माम्
।
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः॥३३॥
पतिमन्वेषतीमेकां कृपणां शोककर्षिताम्
।
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः॥३४॥
अथवा त्वं वनपते नलं यदि न शंससि
।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय॥३५॥
श्रुत्वारण्ये विलपितं न मामाश्वासयत्ययम्
।
यामिमां स्वादुसलिलामापगां सागरंगमाम्॥३६॥
इमं शिलोच्चयं पृण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
।
विराजद्भिरिवानेकैर्नैकवर्णैर्मनोरमैः॥३७॥
नानाधातुसमाकीर्णं विविधोपलभूषितम्
।
आस्यारण्यस्य महतः केतुभूतमिवोत्थितम्॥३८॥
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्
।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्॥३९॥
किंशुकाशोकबकुलपुन्नागैरुपशोभितम्
।
कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम्॥४०॥
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्
।
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति॥४१॥
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत
।
शरण्य बहुकल्याण नमस्तेस्तु महीधर॥४२॥
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्
।
राज्ञः स्नुषा राजभार्यां दमयन्तीति विश्रुताम्॥४३॥
राजा विदर्भाधिपतिः पिता मम महारथः
।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता॥४४॥
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
।
आहर्ता पार्थिवश्रेष्ठः पृथु चार्वञ्चितेक्षणः॥४५॥
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः
।
शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः॥४६॥
ब्रह्मण्यः ब्रह्मणि ब्राह्मणजातौ वेदे वैदिककर्मणि परमात्मनि वा साधुः ॥४६॥
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्॥४७॥
निषधेषु महाराजः श्वशुरो मे नरोत्तमः
।
गृहीतनामा विख्यातो वीरसेन इति स्म ह॥४८॥
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः
।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह॥४९॥
नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः
।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोग्निमान्॥५०॥
अग्निमान् । नित्ययोगे मतुप् सर्वदैवाग्निविच्छेदशून्य इत्यर्थः ॥५०॥
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता
।
तस्य मामबलां श्रेष्ठां विद्धि भार्यामिहागताम्॥५१॥
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्
।
अन्वेषमाणां भर्तारं त्वं मां पर्वतसत्तम॥५२॥
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्वा नलो नृपः॥५३॥
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः
।
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः॥५४॥
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः
।
किं मां विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम्॥५५॥
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्
।
वीर विक्रान्तधर्मज्ञ सत्यसंध महीपते॥५६॥
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना
।
कदा सुस्निग्धगम्भीरां जीमूतस्वनसन्निभाम्॥५७॥
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्
।
वैदर्भीत्येव विस्पष्टां शुभां राज्ञो महात्मनः॥५८॥
आम्नासारिणीमृद्धां मम शोकविनाशिनीम्
।
भीतामाश्वासयत मां नृपते धर्मवत्सल॥५९॥
आम्नायसारिणीं वेदानुगां सत्यामित्यर्थः । ऋद्धां दीनाम् आश्वासयतेति बहुत्वं वक्तुर्वैक्लव्यान्न दोषावहम् ॥५९॥
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्॥६०॥
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना
।
तापसारण्यमतुलं दिव्यकाननशोभितम्॥६१॥
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
।
नियतैः संयताहारैर्दमशौचसमन्वितैः॥६२॥
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः॥६३॥
अब्भक्षैरिति सर्वं वाक्यं सावधारणमिति न्यायेन अम्बुमात्रभक्षैरित्यर्थः ॥६३॥
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः
।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्॥६४॥
नानामृगगणैर्जुष्टं शाखामृगगणायुतम्
।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्॥६५॥
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना
।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना॥६६॥
सुद्विजानना शोभनदन्तयुक्तमुखी वर्चस्विनी धर्मजेन तेजसा युक्ता । सुप्रतिष्ठा सुजघना । प्रतिष्ठत्यस्मिन्निति प्रतिष्ठशब्दो जघनवाची ॥६६॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया
।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी॥६७॥
वीरसेनसुतस्य नलस्य प्रिया ॥६७॥
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता
।
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसोत्तमैः॥६८॥
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः
।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे॥६९॥
तानुवाच वरारोहा कच्चिद्भगवतामिह
।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः॥७०॥
कुशलं वो महाभागाः स्वधर्माचरणेषु च
।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी॥७१॥
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि
।
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह॥७२॥
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः
।
अस्यारण्यस्य देवी त्वमुताहोस्य महीभृतः॥७३॥
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते
।
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता॥७४॥
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता
।
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः॥७५॥
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः
।
विदर्भेषु महीपालो भीमो नाम महीपतिः॥७६॥
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः
।
निषधाधिपतिर्धीमान्नलो नाम महायशाः॥७७॥
वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः
।
देवताभ्यर्चनपरो द्विजातिजनवत्सलः॥७८॥
गोप्ता निषधवंशस्य महातेजा महाबलः
।
सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोरिमर्दनः॥७९॥
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः
।
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः॥८०॥
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
।
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः॥८१॥
सपत्नानां मृधे हन्ता रविसोमसमप्रभः
।
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः॥८२॥
आहूय पृथिवीपालः सत्यधर्मपरायणः
।
देवने कुशलैर्जिह्मैर्हृतं राज्यं वसूनि च॥८३॥
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्॥८४॥
सा वनानि गिरींश्चैव सरांसि सरितस्तथा
।
पल्वलानि च सर्वाणि तथारण्यानि सर्वशः॥८५॥
अन्वेषमाणा भर्तारं नलं रणविशारदम्
।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता॥८६॥
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः
।
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः॥८७॥
यत्कृतेऽहमिदं ब्रह्मन्प्रपन्ना भृशदारुणम्
।
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्॥८८॥
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्॥८९॥
श्रेयसा मोक्षेण योक्ष्ये योजयिष्ये । योगबलेन देहं त्यक्त्वा मोक्षं प्राप्स्ये इत्यर्थः । अन्यथा आत्महत्यादोषात् श्रेयोयोगो न संभवेत् ॥८९॥
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता॥९०॥
तथा विलपतीमेकामरण्ये भीमनन्दिनीम्
।
दमयन्तीमथोचुस्ते तापसाः सत्यदर्शिनः॥९१॥
उदर्कस्तव कल्याणि कल्याणो भविता शुभे
।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्॥९२॥
उदर्कः उत्तरकालः ॥९२॥
निषधानामधिपतिं नलं रिपुनिपातिनम्
।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्॥९३॥
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्
।
तदेव नगरं श्रेष्ठं प्रशासतमरिंदमम्॥९४॥
प्रशासतं जक्षित्यादयः षडिति नुमभावः ॥९४॥
द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
।
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्॥९५॥
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्
।
तापसान्तर्हिताः सर्वे साग्निहोत्राश्रमास्तथा॥९६॥
तापसा इति छेदः सन्धिरार्षः ॥९६॥
सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा
।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा॥९७॥
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत्
।
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्॥९८॥
क्व सा पुण्यजला रम्या नदी द्विजनिषेविता
।
क्व नु ते ह नगा हृद्याः फलपुष्पोपशोभिताः॥९९॥
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
।
भर्तृशोकपरा दीना विवर्णवदनाभवत्॥१००॥
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः॥१०१॥
बाष्पो बाष्पवदुष्ण उच्छ्वासवायुस्तेन संदिग्धया अस्फुटाक्षरया ॥१०१॥
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने
।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम्॥१०२॥
पल्लवैः आपीडितं भूषितम् ॥१०२॥
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे
।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव॥१०३॥
अगमः वृक्षः आपीडैः पुष्पफलादिरूपैरलंकारैः ॥१०३॥
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्॥१०४॥
नलं नामारिदमनं नमयन्त्याः प्रियं पतिम्
।
निषधानामधिपतिं दृष्टवानसि मे प्रियम्॥१०५॥
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
।
व्यसनेनार्दितं वीरमरण्यमिदमागतम्॥१०६॥
सुकुमारा दुःखासहा यतस्तनुर्मृद्वी त्वक् यस्य तम् ॥१०६॥
यथा विशोका गच्छेयमशोकनग तत्कुरु
।
सत्यनामा भवाशोक अशोकः शोकनाशनः॥१०७॥
अशोकनग हे वीतशोकवृक्ष ॥१०७॥
एवं साऽशोकवृक्षं तमार्ता वै परिगम्य ह
।
जगाम दारुणतरं देशं भैमी वराङ्गना॥१०८॥
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा
।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः॥१०९॥
कंदरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः
।
ददर्श तान्भीमसुता पतिमन्वेषती तदा॥११०॥
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता
।
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्॥१११॥
महासार्थं महान्तं जनसमूहम् ॥१११॥
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्
।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्॥११२॥
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्
।
कूर्मग्राहझषाकीर्णां विपुलद्वीपशोभिताम्॥११३॥
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
।
उपसर्प्य वरारोहा जनमध्यं विवेश ह॥११४॥
उपसर्प उपससर्प अभ्यासलोप आर्षः वरारोहा विस्तीर्णजघना ॥११४॥
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा॥११५॥
पांसुयुक्ताः ध्वस्ताः मुक्तबन्धाश्च शिरोरुहाः केशाः यस्याः ॥११५॥
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः
।
केचिच्चिन्तापरा जग्मुः केचित्तत्र विचुक्रुशुः॥११६॥
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे
।
अकुर्वत दयां केचित्पप्रच्छुश्चापि भारत॥११७॥
कासि कस्यासि कल्याणि किं वा मृगयसे वने
।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी॥११८॥
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः
।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः॥११९॥
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना
।
सर्वथा कुरु नः स्वस्ति रक्ष वास्माननिन्दिते॥१२०॥
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्॥१२१॥
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता॥१२२॥
सार्थवाहं च सार्थं च जना ये चात्र केचन
।
युवस्थविरबालाश्च सार्थस्य च पुरोगमाः॥१२३॥
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्॥१२४॥
विदर्भराण्मम पिता भर्ता राजा च नैषधः
।
नलो नाम महाभागस्तं मार्गाम्यपराजितम्॥१२५॥
मार्गामि अन्वेषयामि ॥१२५॥
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
।
नलं पुरुषशार्दूलममित्रगणसूदनम्॥१२६॥
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः॥१२७॥
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
।
मनुष्यं नलनामानं न पश्यामि यशस्विनि॥१२८॥
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि
।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते॥१२९॥
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने
।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु॥१३०॥
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः
।
क्व नु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि॥१३१॥
सार्थवाह उवाच
।
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः
।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे॥१३२॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीसार्थवाहसंगमे चतुःषष्टितमोऽध्यायः॥६४॥
बृहृदश्व उवाच
।
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा
।
जगाम सह तेनैव सार्थेन पतिलालसा॥१॥
सेति ॥१॥
अथ काले बहुतिथे वने महति दारुणे
।
तडागं सर्वतो भद्रं पद्मसौगन्धिकं महत्॥२॥
पद्मैः सौगन्धिकैश्च पद्मविशेषैर्युक्तत्वात् पद्मसौगन्धिकं नाम सरः ॥२॥
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्
।
बहुपुष्पफलोपेतं नानापक्षिनिषेवितम्॥३॥
यवसं घासः ॥३॥
निर्मलस्वादुसलिलं मनोहारि सुशीतलम्
।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः॥४॥
श्रान्तवाहाः श्रन्तवाहनाः निवेशाय वासाय ॥४॥
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्
।
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम्॥५॥
पश्चिमां वेलां संध्यां सरस्तीरभुवं वा ॥५॥
अथार्धरात्रसमये निःशब्दस्तिमिते तदा
।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्॥६॥
पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम्
।
अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान्॥७॥
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा
।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः॥८॥
तेषामापततां वेगः करिणां दुःसहोभवत्
।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ॥९॥
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः
।
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्॥१०॥
पद्मिन्याः पद्मवत्याः सरस्याः ॥१०॥
ते तं ममर्दुः सहसा चेष्टमानं महीतले
।
हाहाकारं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः॥११॥
वनगुल्मांश्च धावन्तो निद्रान्धा बहवोभवन्
।
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः॥१२॥
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः
।
भयादाधावमानाश्च परस्परहतास्तदा॥१३॥
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले
।
वृक्षेष्वारुह्य संरब्धाः पतिता विषमेषु च॥१४॥
एवं प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः
।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम्॥१५॥
आरावः सुमहांश्चासीत्त्रैलोक्यभयकारकः
।
एषोग्निरुत्थितः कष्टस्त्रायध्वं धावताधुना॥१६॥
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत
।
सामान्यमेतद्द्रविणं न मिथ्यावचनं मम॥१७॥
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा
।
पुनरेवाभिस्यामि चिन्तयध्वं सकातराः॥१८॥
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये
।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा॥१९॥
अपश्यद्वैशसं तत्र सर्वलोकभयंकरम्
।
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा॥२०॥
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला
।
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः॥२१॥
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम्
।
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः॥२२॥
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः
।
न पूजा विघ्नकर्तॄणामथवा प्रथमं कृता॥२३॥
शकुनानां फलं वाथ विपरीतिमिदं ध्रुवम्
।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम्॥२४॥
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृताः
।
यासावद्य महासार्थे नारी ह्युन्मत्तदर्शना॥२५॥
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम्
।
तयेयं विहिता पूर्वं माया परमदारुणा॥२६॥
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी
।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा॥२७॥
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम्
।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः॥२८॥
लोष्ठभिरिति प्रयोगादेव लोष्ठशब्दो नकारान्तोऽप्यस्तीति ज्ञायते ॥२८॥
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम्
।
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्॥२९॥
कृत्यैव कृत्यका कुत्सिता कृत्या कृत्यकेति वा ताम् ॥२९॥
ह्रीता भीता च संविग्ना प्राद्रवद्यत्र काननम्
।
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत्॥३०॥
अहो ममोपरि विधेः संरम्भो दारुणो महान्
।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम्॥३१॥
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि
।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम्॥३२॥
नूनं जन्मान्तरकृतं पापामापतितं महत्
।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम्॥३३॥
अपश्चिमाम् अपरावर्तिनीम् ॥३३॥
भर्तृराज्यापहरणं स्वजनाच्च पराजयः
।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः॥३४॥
निर्नाथता वने वासो बहुव्यालनिषेविते
।
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा॥३५॥
देशात्तस्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्
।
भ्रातरं पितरं पुत्रं सखायं च नराधिप॥३६॥
अशोचत्तत्र वैदर्भी किं नु मे दुष्कतं कृतम्
।
योऽपि मे निर्जनेरण्ये संप्राप्तोऽयं जनार्णवः॥३७॥
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्
।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया॥३८॥
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्
।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता॥३९॥
न ह्यदैवकृतं किंचिन्नराणामिह विद्यते
।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम्॥४०॥
पापकृतं पापं कर्म ॥४०॥
कर्मणा मनसा वाचा यदिदं दुःखमागतम्
।
मन्ये स्वयंवरकृते लोकपालाः समागताः॥४१॥
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः
।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्॥४२॥
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना
।
प्रलापानि तदा तानि दमयन्ती पतिव्रता॥४३॥
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः
।
अगच्छद्राजशार्दूल चन्द्रलेखेव शारदी॥४४॥
गच्छन्ती साचिराद्बाला पुरमासादयन्महत्
।
सायाह्ने चेदिराजस्य सुबाहोः सत्यदर्शिनः॥४५॥
अथ वस्त्रार्धसंवीता प्रविवेश पुरोत्तमम्
।
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्॥४६॥
अमार्जितां धूसरवेणीम् ॥४६॥
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः
।
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा॥४७॥
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात्
।
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः॥४८॥
तां प्रासादगतापश्यद्राजमाता जनैर्वृताम्
।
धात्रीमुवाच गच्छैनामानयेह ममान्तिकम्॥४९॥
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी
।
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम्॥५०॥
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना
।
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्॥५१॥
प्रासादतलं प्रासादोपरि ॥५१॥
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत
।
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः॥५२॥
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा
।
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्॥५३॥
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे
।
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्॥५४॥
मानुषीं मां विजानीहि भर्तारं समनुव्रताम्
।
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्॥५५॥
सैरन्ध्रीं सीराः प्रतिसीरास्तासां समूहं सैरं धारयित्रीं नेपथ्यधारिणीम् अन्तःपुरचरीमित्यर्थः। भुजिष्यां दासीम्। कामवासिनीं यत्र काम इच्छा तत्रैव वसन्तीम् ॥५५॥
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्
।
असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः॥५६॥
यत्र सायंकालस्तत्रैव प्रतिश्रयो गृहं यस्यास्ताम् ॥५६॥
भक्ताहमपि तं वीरं छायेवानुगता पथि
।
तस्य दैवात्प्रसङ्गोभूदतिमात्रं सुदेवने॥५७॥
द्यूते स निर्जितश्चैव वनमेक उपेयिवान्
।
तमेकवसनं वीरमुन्मत्तमिव विह्वलम्॥५८॥
आश्वासयन्ती भर्तारमहमप्यगमं वनम्
।
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे॥५९॥
क्षुत्परीतस्तु विमनास्तदप्येकं व्यसर्जयत्
।
तमेकवसना नग्नमुन्मत्तवदचेतसम्॥६०॥
अनुव्रजन्ती बहुला न स्वपामि निशास्तदा
।
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्॥६१॥
वाससोर्धं परिच्छिद्य त्यक्तवान्मामनागसम्
।
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्॥६२॥
साहं कमलगर्भाभमपश्यन्ती हृदि प्रियम्
।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम्॥६३॥
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु
।
राजमाताब्रवीदार्ता भैमीमार्तस्वरां स्वयम्॥६४॥
वसस्व मयि कल्याणि प्रीतिर्मे परमा त्वयि
।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम॥६५॥
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः
।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे॥६६॥
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्
।
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि॥६७॥
हे वीरप्रजायिनि वीरानेव प्रजावते सूते सा वीरप्रजायिनी ॥६७॥
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्
।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन॥६८॥
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्
।
वध्यश्च तेऽसकृन्मन्द इति मे व्रतमाहितम्॥६९॥
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्
।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः॥७०॥
पश्येयं दृष्ट्वा च तान् पृच्छेयमपि ॥७०॥
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्
।
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत्॥७१॥
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्
।
एवमुक्त्वा ततो भैमीं राजमाता विशांपते॥७२॥
उवाचेदं दुहितरं सुनन्दां नाम भारत
।
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्॥७३॥
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्
।
एतया सह मोदस्व निरुद्विग्नमनाः सदा॥७४॥
ततः परमसंहृष्टा सुनन्दा गृहमागमत्
।
दमयन्तीमुपादाय सखीभिः परिवारिता॥७५॥
सा तत्र पूज्यमाना वै दमयन्ती व्यनन्दत
।
सर्वकामैः सुविहितैर्निरुद्वेगावसत्तदा॥७६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीचेदिराजगृहवासे पञ्चषष्टितमोऽध्यायः॥६५॥
बृहदश्व उवाच
।
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते
।
ददर्श दावं दह्यन्तं महान्तं गहने वने॥१॥
उत्सृज्येति ॥१॥
तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्
।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्॥२॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्
।
ददर्श नागराजानं शयानं कुण्डलीकृतम्॥३॥
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा
।
उवाच मां विद्धि राजन्नागं कर्कोटकं नृप॥४॥
मया प्रलब्धो महर्षिर्नारदः सुमहातपाः
।
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप॥५॥
मया प्रलब्धो ब्रह्मर्षिर्नारद इति पाठान्तरम् ॥५॥
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित्
।
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्॥६॥
तत्र काले ॥६॥
तस्य शापान्न शक्तोऽस्मि पदाद्विचलितुं पदम्
।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्॥७॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः
।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्॥८॥
लघुः गुरुत्वरहितः ॥८॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः
।
तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्॥९॥
दावविवर्जितं वह्निहीनम् ॥९॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना
।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्॥१०॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्
।
तत्र तेऽहं महाबाहो श्रेयो धास्यामि यत्परम्॥११॥
ततः संख्यातुमारब्धमदशद्दशमे पदे
।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत॥१२॥
दशेत्युक्तेऽदशत् आज्ञां विना नागो न दशतीति भावः ॥१२॥
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः
।
स्वरूपधारिणं नागं ददर्श स महीपतिः॥१३॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्
।
मया तेन्तर्हितं रूपं न त्वां विद्युर्जना इति॥१४॥
यत्कृते चासि निकृतो दुःखेन महता नल
।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति॥१५॥
यत्कृते इति। सः कलिः। एतेन यच्छरीरे प्रविशति स तेन शारीरेण सुखं दुःखं वाश्नातीति सूचितम्। दृष्टं चैतद्ग्रहावेशादौ। इदं दमयन्त्या दत्तस्य शापस्य फलं कलिर्भुङ्क्ते इति भावः ॥१५॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति
।
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति॥१६॥
अनागा येन निकृतस्त्वमनर्हो जनाधिप
।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥१७॥
अनागाः निरपराधः निकृतः वञ्चितः मे मया ॥१७॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा
।
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप॥१८॥
राजन्विषनिमित्ता च न ते पीडा भविष्यति
।
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि॥१९॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्
।
समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः॥२०॥
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर
।
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै॥२१॥
अक्षहृदयं द्यूते जयावहम् अश्वहृदयेन विद्यया विद्यां परिवर्तयेदित्यर्थः ॥२१॥
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति
।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा॥२२॥
सममेष्यसि दारैस्त्वं मास्म शोके मनः कृथाः
।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते॥२३॥
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप
।
संस्मर्तव्यस्तदा तेहं वासश्चेदं निवासयेः॥२४॥
निवासयेः परिधेहि ॥२४॥
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे
।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा॥२५॥
एवं नलं च संदिश्य वासो दत्त्वा च कौरव
।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत॥२६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकर्कोटकसंवादे षट्-षष्टितमोऽध्यायः॥६६॥
बृहदश्व उवाच
।
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते
।
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया॥१॥
हृतेति। प्रेष्यतां दासताम् ॥१॥
संदिदेश च तान्भीमो वसु दत्वा च पुष्कलम्
।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्॥२॥
अस्मिन्कर्मणि संपन्ने विज्ञाते निषधाधिपे
।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति॥३॥
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम्
।
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा॥४॥
अग्रं ब्राह्मणभोजनं तदर्थं ह्रियन्ते राजधनात्पृथक् क्रियन्ते तेऽग्रहाराः क्षेत्रादयः ॥४॥
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्
।
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम्॥५॥
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया
।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम्॥६॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः
।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि॥७॥
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्
।
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्॥८॥
निबद्धां धूमजालेन प्रभामिव विभावसोः
।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
।
तर्कयामास भैमीति कारणैरुपपादयन्॥९॥
कारणैर्लिङ्गैः उपपादयन् इयमेव दमयन्तीति निश्चिन्वन् ॥९॥
सुदेव उवाच
।
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्॥१०॥
पूर्णचन्द्रानिभां श्यामां चारुवृत्तपयोधराम्
।
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः॥११॥
श्यामां सदा षोडशवार्षिकीम्। ‘शीते चैवोष्मला नित्यं ग्रीष्मे चतीव शीतला। मध्यः क्षीणस्तु यस्यास्तु सा श्यामेत्यभिधीयते’। इत्यन्ये ॥११॥
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव
।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव॥१२॥
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्
।
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव चोद्धृताम्॥१३॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
।
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव॥१४॥
शुष्कस्रोतां शुष्कप्रवाहाम्। छान्दसं टाबन्तत्वम् ॥१४॥
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्
।
हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम्॥१५॥
पद्मिनीं सरसीम् ॥१५॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम्॥१६॥
सुजाताङ्गीम् अन्यूनानाधिकाङ्गीम् ॥१६॥
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
।
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्॥१७॥
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च
।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया॥१८॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना
।
एषा हि रहिता तेन शोभमाना न शोभते॥१९॥
दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः
।
धारयत्यात्मनो देहं न शोकेनापि सीदति॥२०॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम्
।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः॥२१॥
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
।
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा॥२२॥
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वा च मेदिनीम्॥२३॥
लब्ध्वा च लब्ध्वेव ॥२३॥
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृताम्
।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा॥२४॥
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया
।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्॥२५॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
।
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्॥२६॥
बृहदश्व उवाच
।
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्॥२७॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा
।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः॥२८॥
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते
।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तौ॥२९॥
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते
।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्॥३०॥
बृहदश्व उवाच
।
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर
।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान्॥३१॥
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता
।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्॥३२॥
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता
।
सुदेवेन सहैकान्ते कथयन्तीं च भारत॥३३॥
सुनन्दा कथयामासेति संबन्धः ॥३३॥
जनित्र्याः कथयामास सैरन्ध्री रुदते भृशम्
।
ब्राह्मणेन सहागम्य तां वेद यदि मन्यसे॥३४॥
वेद विचारय वेदयतेरिदं रूपं णिजभाव आर्षः ॥३४॥
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा
।
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्॥३५॥
ततः सुदेवमानाय्य राजमाता विशांपते
।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी॥३६॥
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना
।
त्वया च विदिता विप्र कथमेवंगता सती॥३७॥
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः
।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्॥३८॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः
।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीसुदेवसंवादे अष्टषष्टितमोऽध्यायः॥६८॥
सुदेव उवाच
।
विदर्भराजो धर्मात्मा भीमो नाम महाद्युतिः
।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता॥१॥
विदर्भराज इति ॥१॥
राजा तु नैषधो नाम वीरसेनसुतो नलः
।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः॥२॥
स द्यूतेन जितो भ्रात्रा हृतराज्यो महीपतिः
।
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्॥३॥
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्
।
सेयमासादिता बाला तव पुत्रनिवेशने॥४॥
अस्या रूपेण सदृशी मानुषी न हि विद्यते
।
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः॥५॥
पिप्लुः रक्ततिलकाकृतिलांछनं महाराष्ट्राणां ‘मस’ इति प्रसिद्धम् ॥५॥
श्यामायाः पद्मसंकाशो लक्षितोन्तर्हितो मया
।
मलेन संवृतो ह्यस्याश्छन्नोभ्रेणेव चन्द्रमाः॥६॥
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः
।
प्रतिपत्कलुषस्येन्दोर्लेखा नातिविराजते॥७॥
न चास्या नश्यते रूपं वपुर्मलसमाचितम्
।
असंस्कृतमभिव्यक्तं भाति काञ्चनसन्निभम्॥८॥
अनेन वपुषा बाला पिप्लुनानेन सूचिता
।
लक्षितेयं मया देवी निभृतोऽग्निरिवोष्मणा॥९॥
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते
।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्॥१०॥
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत
।
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः॥११॥
अपकृष्टेन दूरीकृतेन ॥११॥
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
।
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः॥१२॥
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्
।
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता॥१३॥
अहं च तव माता च राज्ञस्तस्य महात्मनः
।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने॥१४॥
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः
।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे॥१५॥
यथैव ते पितुर्गेहं तथैव मम भाविनि
।
यथैव च ममैश्वर्यं दमयन्ती तथा तव॥१६॥
तां प्रहृष्टेन मनसा दमयन्ती विशांपते
।
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्॥१७॥
अज्ञायमानापि सती सुखमस्म्युषिता त्वयि
।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया॥१८॥
सुखात्सुखतरो वासो भविष्यति न संशयः
।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि॥१९॥
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ
।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ॥२०॥
दारकौ सुतः सुता च। बालकौ अल्पवयस्कौ ॥२०॥
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि
।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश॥२१॥
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप
।
गुप्तां बलेन महता पुत्रस्यानुमते ततः॥२२॥
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना
।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्॥२३॥
ततः सा न चिरादेव विदर्भानगमत्पुनः
।
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्॥२४॥
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ
।
मातरं पितरं चोभौ सर्वं चैव सखीजनम्॥२५॥
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी
।
परेण विधिना देवी दमयन्ती विशांपते॥२६॥
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः
।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च॥२७॥
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भाविनी
।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्॥२८॥
व्युष्टा वासं कृतवती ॥२८॥
दमयन्त्युवाच
।
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते
।
नरवीरस्य चैतस्य नलस्यानयने यतः॥२९॥
यत यत्नं कुरु। अनुदात्तेत्वलक्षणस्यात्मनेपदस्य चक्षिङो ङित्करणेनानित्यत्वज्ञापनात् ॥२९॥
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता
।
बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्॥३०॥
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा
।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह॥३१॥
ततो भीमं महाराजं भार्या वचनमब्रवीत्
।
दमयन्ती तव सुता भर्तारमनुशोचति॥३२॥
अपकृष्य च लज्जां सा स्वयमुक्तवती नृप
।
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य मार्गणे॥३३॥
तया प्रदेशितो राजा ब्राह्मणान्वशवर्तिनः
।
प्रास्थापयद्दिशः सर्वा यतध्वं नलमार्गणे॥३४॥
प्रदेशितः प्रकर्षेण प्रेरितः ॥३४॥
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा
।
दमयन्तीमथो सृत्वा प्रस्थितास्ते तथाब्रुवन्॥३५॥
सृत्वा गत्वा ते तथा प्रस्थिताः सन्तः अब्रुवन्नलान्वेषणाय प्रस्थिताः स्म इति शेषः ॥३५॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः
।
ब्रूयास्त जनसंसत्सु तत्र तत्र पुनः पुनः॥३६॥
ब्रूयास्त वदत। ब्रुवध्वमिति पाठे त्वार्षस्तङ् ॥३६॥
क्व नु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम
।
उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय॥३७॥
सा वै यथा त्वया दृष्टा तथास्ते त्वत्प्रतीक्षिणी
।
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता॥३८॥
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव
।
प्रसादं कुरु वै वीर प्रतिवाक्यं वदस्व च॥३९॥
वदस्व। भासनोपसंभाषेत्यादिनावदेस्तङ् ॥३९॥
एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि
।
वायुना धूयमानो हि वनं दहति पावकः॥४०॥
वायुनेति। शोकाग्निः कालवायुना दिने दिने वर्धमानः दमयन्तीशरीरवनं धक्ष्यतीति रूपकेणोक्तम्। दहतीति लट्प्रयोगस्तु वर्तमानसामीप्ये ॥४०॥
भर्तव्या रक्षणीया च पत्नी हि पतिना सदा
।
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव॥४१॥
भर्तव्याऽन्नादिना। रक्षणीया दस्युप्रभृतिभ्यः। पतिनेति पत्या। असमासेऽपि घिसंज्ञाकार्यमार्षम्। उभयं रक्षणभरणात्मकम् ॥४१॥
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान्सदा
।
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥४२॥
सानुक्रोशः सदयः ॥४२॥
तत्कुरुष्व नरव्याघ्र दयां मयि नरर्षभ
।
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः॥४३॥
एवं ब्रुवाणान्यदि वः प्रतिब्रूयात्कथञ्चन
।
स नरः सर्वथा ज्ञेयः कश्चासौ क्व नु वर्तते॥४४॥
यश्चैवं वचनं श्रुत्वा बूयात्प्रतिवचो नरः
।
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः॥४५॥
यथा च वो न जानीयाद्ब्रुवतो मम शासनात्
।
पुनरागमनं चैव तथा कार्यमतन्द्रितैः॥४६॥
मम शासनात् ब्रुवतो वः युष्मान्। यथा वच इति पाठे ब्रुवतो भवत्समुदायस्य वचो न जानीयादिति योज्यम् ॥४६॥
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्
।
यदि वाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम्॥४७॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम्
।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा॥४८॥
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्
।
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः॥४९॥
तच्च वाक्यं तथा सर्वे तत्र तत्र विशांपते
।
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम्॥५०॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलान्वेषणे एकोनसप्ततितमोऽध्यायः॥६९॥
बृहदश्व उवाच
।
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्॥१॥
अथेति ॥१॥
नैषधं मृगयाणेन दमयन्ति मया नलम्
।
अयोध्यां नगरीं गत्वा भाङ्गासुरिमुपस्थितः॥२॥
भाङ्गासुरिम् ऋतुपर्णम् ॥२॥
श्रावितश्च मया वाक्यं त्वदीयं स महाजने
।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि॥३॥
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः
।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत्॥४॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्
।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः॥५॥
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः
।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने॥६॥
स विनिःश्वस्य बहुशो रुदित्वा च पुनःपुनः
।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत॥७॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः
।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥८॥
गोपायन्ति पालयन्ति। जितः स्वर्गस्ताभिरिति शेषः ॥८॥
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन
।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥९॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च
।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति॥१०॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः
।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥११॥
सत्कृताऽसत्कृता वापि पतिं दृष्ट्वा तथागतम्
।
भ्रष्टराज्यं श्रियाहीनं क्षुधितं व्यसनाप्लुतम्॥१२॥
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः
।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय॥१३॥
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशांपते
।
दमयन्ती रहोभ्येत्य मातरं प्रत्यभाषत॥१४॥
अयमर्थो न संवेद्यो भीमे मातः कदाचन
।
त्वत्सन्निधौ नियोक्ष्येहं सुदेवं द्विजसत्तमम्॥१५॥
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्
।
तथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि॥१६॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान्
।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम्॥१७॥
समानेतुं नलं मातरयोध्यां नगरीमितः
।
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम्॥१८॥
अर्चयामास वैदर्भी धनेनातीव भामिनी
।
नले चेहागते तत्र भूयो दास्याभि ते वसु॥१९॥
त्वया हि मे बहुकृतं यदन्यो न करिष्यति
।
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम॥२०॥
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः
।
गृहानुपययौ चापि कृतार्थः सुमहामनाः॥२१॥
ततः सुदेवमाभाष्य दमयन्ती युधिष्ठिर
।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता॥२२॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
।
ऋतुपर्णं वचो ब्रूहि संपतन्निव कामगः॥२३॥
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्
।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥२४॥
तथा च गणितः कालः श्वोभूते स भविष्यति
।
यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम॥२५॥
संभाविनी संभाविता इयं गतिरिति शेषः ॥२५॥
सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति
।
न हि स ज्ञायते वीरो नलो जीवति वा न वा॥२६॥
एवं तया यथोक्तो वै गत्वा राजानमब्रवीत्
।
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि दमयन्तीपुनःस्वयंवरकथने सप्ततितमोऽध्यायः॥७०॥
बृहदश्व उवाच
।
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः
।
सान्त्वयञ्च्छ्लक्ष्णया वाचा बाहुकं प्रत्यभाषत॥१॥
श्रुत्वेति ॥१॥
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम्
।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक॥२॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह
।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः॥३॥
दमयन्ती वदेदेतत्कुर्याद्दुःखेन मोहिता
।
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्॥४॥
नृशंसं बत वैदर्भी भर्तृकामा तपस्विनी
।
मया क्षुद्रेण निकृता कृपणा पापबुद्धिना॥५॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः
।
स्यादेवमपि कुर्यात्सा विवासाद्गतसौहृदा॥६॥
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा
।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः॥७॥
सापत्या अपत्यसहिता ॥७॥
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम्
।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्॥८॥
इति निश्चित्य मनसा बाहुको दीनमानसः
।
कृताञ्जलिरुवाचेदमृतुपर्णं जनाधिपम्॥९॥
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप
।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप॥१०॥
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः
।
अश्वशालामुपागम्य भाङ्गासुरिनृपाज्ञया॥११॥
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः
।
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः
।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्॥१२॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्
।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्॥१३॥
तेजः कान्तिविशेषः बलं शक्तिः कुलं जातिविशेषः । शीलं सादिचित्तानुसारिता हीनैर्लक्षणैः शतपदीप्रभृतिभिर्वर्जितान् । प्रोथं नासिका । हनुः अधरं मुखफलकम् ॥१३॥
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः
।
दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः॥१४॥
शुद्धान् ह्रदावर्तादि दुष्टावर्तहीनान् सिन्धुजान् सिन्धुदेशजान् ॥१४॥
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वयम्
।
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम
।
महदध्वानमपि च गन्तव्यं कथमीदृशैः॥१५॥
ते त्वया न विप्रलब्धव्याः न वञ्चनीयाः । बलं भारसाहिष्णुता । प्राणो वेगवत्ता । वक्ष्यन्ति वहनं करिष्यन्ति । अध्वानं निःशब्दं महत् अतिदूरे दमयन्त्याः पुनर्भूत्वात्तद्वरणे महती लज्जा तथा च अवृते महत्तरा लज्जेति प्रच्छन्नतयैव तत्र गतमपि वेगवशादगतमिव यथा भवति तथा गन्तव्यमिति भावः ॥१५॥
बाहुक उवाच।
एको ललाटे द्वे मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः
।
द्वौ द्वौ वक्षसि विज्ञेयौ प्रयाणे चैक एव तु॥१६॥
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः
।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामि ते॥१७॥
एते इति । एतेषु स्थलेषु आवर्तवन्त इति शेषः ॥१७॥
ऋतुपर्ण उवाच
।
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक
।
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय॥१८॥
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्
।
योजयामास कुशलो जवयुक्तान्रथे नलः॥१९॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः
।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः॥२०॥
ततो नरवरः श्रीमान्नलो राजा विशांपते
।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्॥२१॥
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः
।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्॥२२॥
सूतमिति । आरोप्य सूतस्थानादुपर्युपवेश्य स्वयमेव सूतत्वं चकारेत्यर्थः ॥२२॥
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः
।
समुत्पेतुरथाकाशं रथिनं मोहयन्निव॥२३॥
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः
।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ॥२४॥
रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत्
।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्॥२५॥
किं नु स्यान्मातलिरयं देवराजस्य सारथिः
।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत्॥२६॥
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्
।
मानुषं समनुप्राप्तो वपुः परमशोभनम्॥२७॥
शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥२७॥
उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः
।
सोऽयं नृपतिरायात इत्येवं समचिन्तयत्॥२८॥
अथ चेह नलो विद्यां वेत्ति तामेव बाहुकः
।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च॥२९॥
अपि चेदं वयस्तुल्यं बाहुकस्य नलस्य च
।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति॥३०॥
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्
।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः॥३१॥
भवेन्न मतिभेदो मे गात्रवैरूप्यतां प्रति
।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम॥३२॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः
।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः॥३३॥
अन्ततः निर्णयेन ॥३३॥
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्
।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः॥३४॥
ऋतुपर्णश्च राजेन्द्रो बाहुकस्य हयज्ञताम्
।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः॥३५॥
ऐकाग्र्यं च तथोत्साहं हयसङ्ग्रहणं च तत्
।
परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि ऋतुपर्णविदर्भगमने एकसप्ततितमोऽध्यायः॥७१॥
बृहदश्व उवाच
।
स नदीः पर्वतांश्चैव वनानि च सरांसि च
।
अचिरेणातिचक्राम खेचरः खे चरन्निव॥१॥
स इति ॥१॥
तथा प्रयाते तु रथे तदा भाङ्गासुरिर्नृपः
।
उत्तरीयमधोपश्यद्भ्रष्टं परपुरञ्जयः॥२॥
ततः स त्वरमाणस्तु पटे निपतिते तदा
।
ग्रहीष्यामीति तं राजा नलमाह महामनाः॥३॥
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्
।
वार्ष्णेयो यावदेनं मे पटमानयतामिह॥४॥
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव
।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः॥५॥
एवमुक्ते नलेनाथ तदा भाङ्गासुरिर्नृपः
।
आससाद वने राजन्फलवन्तं बिभीतकम्॥६॥
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत
।
ममापि सूत पश्य त्वं संख्याने परमं बलम्॥७॥
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन
।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित्॥८॥
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक
।
पतितान्यपि यान्यत्र तत्रैकमधिकं शतम्॥९॥
एकपत्राधिकं चात्र फलमेकं च बाहुक
।
पञ्चकोट्योऽथ पत्राणां द्वयोरपि च शाखयोः॥१०॥
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः
।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च॥११॥
ततो रथमवस्थाप्य राजानं बाहुकोऽब्रवीत्
।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन॥१२॥
प्रत्यक्षमेतत्कर्तास्मि शातयित्वा बिभीतकम्
।
अहं हि नाभिजानामि भवेदेवं न वेति वा॥१३॥
संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप
।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्॥१५॥
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्
।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः॥१६॥
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्
।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः॥१७॥
अब्रवीदृतुपर्णस्तु सान्त्वयन्कुरुनन्दन
।
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक॥१८॥
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद
।
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि॥१९॥
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक
।
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे॥२०॥
अथाब्रवीद्बाहुकस्तं संख्याय च बिभीतकम्
।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम॥२१॥
अकाम इव तं राजा गणयस्वेत्युवाच ह
।
एकदेशं च शाखायाः समादिष्टं मयानघ॥२२॥
गणयस्वाश्वतत्त्वज्ञ ततस्त्वं प्रीतिमावह
।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्॥२३॥
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्
।
गणयित्वा यथोक्तानि तावन्त्येव फलानि तु॥२४॥
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्
।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप॥२५॥
तमुवाच ततो राजा त्वरितो गमने नृप
।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्॥२६॥
अक्षहृदयज्ञम् अक्षाणाम् अक्षाभिमानिदेवताया हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयं येन ज्ञातेन द्यूतेऽक्षा अनुकूला भवन्ति । संख्याने राशीकृतानां पत्रपुष्पफलधान्यादीनां राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्संख्याकथने ॥२६॥
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम
।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ॥२७॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्
।
हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः॥२८॥
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्
।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक
।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै॥२९॥
अनयोर्मध्येऽक्षाणां हृदयं परं श्रेष्ठम् इतरत्तु त्वयापि ज्ञायत इति भावः । ऋतुः कालः तद्वच्छीघ्रगामि पर्णं प्रियते व्याप्रियते व्यायच्छते देशान्तरमनेनेति पर्णं वाहनं यस्येति ऋतुपर्णनामनिरुक्तिः । अन्ये तु ऋतानि सत्यानि गणितानि पर्णानि यस्येति पाठान्तरं विप्रकल्प्य व्याकुर्वते ॥२९॥
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः
।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्॥३०॥
तस्याक्षहृदयज्ञस्येति सर्वेषां मन्त्राणां तत्त्वं मनोमयकोशाख्यः सूत्रात्माऽत एव तं प्रकृत्य श्रूयते। ‘तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः’ इत्यादि तमजानन्तं हि अत्यन्तं धर्मिष्ठमपि कलिर्बाधते । न तु मन्त्रज्ञमिति भावः ॥३०॥
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः
।
स तेन कर्शितो राजा दीर्घकालमनात्मवान्॥३१॥
शापग्निर्दमयन्तीनिसृष्टः स विषरूपः । अनात्मवान् हृदयशून्यो मूढ इत्यर्थः ॥३१॥
ततो विषविमुक्तात्मा स्वं रूपमकरोत्कलिः
।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः॥३२॥
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः
।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्॥३३॥
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा
।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः॥३४॥
अवसं त्वयि राजेन्द्र सुदुःखमपराजित
।
विषेण नागराजस्य दह्यमानो दिवानिशम्॥३५॥
शरणं त्वां प्रपन्नोऽस्मि शृणु चेदं वचो मम
।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः
।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति॥३६॥
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे
।
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः॥३७॥
ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम्
।
कलिस्त्वन्यैस्तदाऽदृश्यः कथयन्नैषधेन वै॥३८॥
अदृश्य इति च्छेदः । कथयन् कथां कुर्वन् ॥३८॥
ततो गतज्वरो राजा नैषधः परवीरहा
।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत॥३९॥
फलानि संख्याय अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ॥३९॥
मुदा परमया युक्तस्तेजसाऽथ परेण वै
।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः॥४०॥
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्
।
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः॥४१॥
द्विजानिव पक्षिण इव ॥४१॥
नलः सन्नोदयामास प्रहृष्टेनान्तरात्मना
।
विदर्भाभिमुखो राजा प्रययौ स महायशाः॥४२॥
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम्
।
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः
।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः॥४३॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कलिनिर्गमे द्विसप्ततितमोऽध्यायः॥७२॥
बृहदश्व उवाच
।
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्
।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्॥१॥
तत इति ॥१॥
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्
।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः॥२॥
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः
।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ॥३॥
नलाश्वाः विदर्भनगरे ये दमयन्त्यापत्याभ्यां सह प्रेषिताः ॥३॥
दमयन्ती तु शुश्राव रथघोषं नलस्य तम्
।
यथा मेघस्य नदतो गम्भीरं जलदागमे॥४॥
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्
।
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु
।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः॥५॥
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः
।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः॥६॥
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा
।
प्रणेदुरुन्मुखा राजन् मेघनाद इवोत्सुकाः॥७॥
शिखिनो मयूराः मेघध्वनितभ्रमात् चुक्रुशुः ॥७॥
दमयन्त्युवाच
।
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम्
।
ममाह्लादयते चेतो नल एष महीपतिः॥८॥
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि
।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः॥९॥
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्
।
प्रविशामि सुखस्पर्शं न भविष्याम्यसंशयम्॥१०॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः
।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्॥११॥
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः
।
नाभिगच्छति राजेन्द्रो विनङ्क्ष्यामि न संशयः॥१२॥
न स्मराम्यनृतं किञ्चिन्न स्मराम्यपकारताम्
।
न च पर्युषितं वाक्यं स्वैरेष्वपि कदाचन॥१३॥
पर्युषितं प्रतिज्ञातकालातिलङ्घि ॥१३॥
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः
।
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः॥१४॥
जितेन्द्रियत्वमेवाह रह इति । रहसि कर्तव्ये सुरतविषये नीचकर्म पारदार्यादि तदनुवर्तत इति तदन्यः अनीचानुवर्ती परस्त्रीषु क्लीब इत्यर्थः ॥१४॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्
।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्॥१५॥
एवं विलपमाना सा नष्टसंज्ञेव भारत
।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया॥१६॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम्
।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्॥१७॥
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्
।
हयास्तानवमुच्याथ स्थापयामास वै रथम्॥१८॥
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः
।
उपतस्थे महाराजं भीमं भीमपराक्रमम्॥१९॥
तं भीमः प्रतिजग्राह पूजया परया ततः
।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः॥२०॥
स तत्र कुण्डिने रम्ये वसमानो महीपतिः
।
न च किञ्चित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः
।
स तु राज्ञा समागम्य विदर्भपतिना तदा॥२१॥
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति
।
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत॥२२॥
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्
।
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः॥२३॥
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन
।
नैव स्वयंवरकथां न च विप्रसमागमम्॥२४॥
ततो विगणयद्राजा मनसा कोसलाधिपः
।
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादुकः॥२५॥
राजापि च स्मयन्भीमो मनसा समचिन्तयतन्
।
अधिकं योजनशतं तस्यागमनकारणम्॥२६॥
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्
।
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्॥२७॥
पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति
।
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्॥२८॥
नैतदेवं एतत् एतस्मिन् काले एवं विचार्य न व्यसर्जयत् किं तु विश्राम्यतामित्येवोवाचेत्युत्तरेणान्वयः ॥२८॥
विश्राम्यतामित्युवाच क्लान्तोऽसीति पुनःपुनः
।
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः॥२९॥
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्
।
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे॥३०॥
दिष्टं निर्दिष्टम् ॥३०॥
बाहुको रथमादाय रथशालामुपागमत्
।
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः॥३१॥
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्
।
दमयन्त्यपि शोकार्ता दृष्ट्वा भाङ्गासुरिं नृपम्॥३२॥
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम्
।
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः॥३३॥
नलस्येव महानासीन्न च पश्यामि नैषधम्
।
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता॥३४॥
तेनाद्य रथनिर्घोषो नलस्येव महानभूत्
।
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा
।
यथाऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते॥३५॥
आहोस्विदित्याश्चर्यार्थे अत एव समानार्थकं वाक्यमावर्तितम् ॥३५॥
एवं सा तर्कयित्वा तु दमयन्ती विशाम्पते
।
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि भीमपुरप्रवेशे त्रिसप्ततितमोऽध्यायः॥७३॥
दमयन्त्युवाच
।
गच्छ केशिनि जानीहि क एष रथवाहकः
।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः॥१॥
गच्छेति ॥१॥
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता
।
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते॥२॥
अत्र मे महती शङ्का भवेदेष नलो नृपः
।
यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः॥३॥
ब्रूयाश्चैनं कथान्तं त्वं पर्णादवचनं यथा
।
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते॥४॥
पर्णादवचनं क्व नु त्वं कितवच्छित्वा वस्त्रार्धं प्रस्थितो ममेत्यादि श्रुत्वा । विरूपो ह्रस्वबाहुकः कश्चित्प्रत्युत्तरं दत्तवान् तल्लक्षण एवायमिति भावः ॥४॥
ततः समाहिता गत्वा दूती बाहुकमब्रवीत्
।
दमयन्त्यपि कल्याणी प्रासादस्था ह्युपैक्षत॥५॥
केशिन्युवाच
।
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्
।
दमयन्त्या वचः साधु निबोध पुरुषर्षभ॥६॥
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः
।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति॥७॥
बाहुक उवाच
।
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना
।
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात्॥८॥
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः
।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः॥९॥
केशिन्युवाच
।
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः
।
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्॥१०॥
बाहुक उवाच
।
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः
।
स नले विद्रुते भद्रे भाङ्गासुरिमुपस्थितः॥११॥
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः
।
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्॥१२॥
केशिन्युवाच
।
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः
।
कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक॥१३॥
बाहुक उवाच
।
इहैव पुत्रौ निक्षिप्य नलस्य शुभकर्मणः
।
गतस्ततो यथाकामं नैष जानाति नैषधम्॥१४॥
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि
।
गूढश्चरति लोकेऽस्मिन्नष्टरूपे महीपतिः॥१५॥
आत्मैव तु नलं वेद या चास्य तदनन्तरा
।
न हि वै स्वानि लिङ्गानि नलः शंसति कर्हिचित्॥१६॥
केशिन्युवाच
।
योऽसावयोध्यां प्रथमं गतोऽसौ ब्राह्मणस्तदा
।
इमानि नारीवाक्यानि कथयानः पुनःपुनः॥१७॥
क्व नु त्वं कितव च्छित्वा वस्त्रार्धं प्रस्थितो मम
।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥१८॥
सा वै यथा समादिष्टा तथास्ते त्वत्प्रतीक्षिणी
।
दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता॥१९॥
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव
।
प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च॥२०॥
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते
।
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता॥२१॥
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल
।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति॥२२॥
बृहदश्व उवाच
।
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन
।
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने॥२३॥
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः
।
बाष्पसन्दिग्धया वाचा पुनरेवेदमब्रवीत्॥२४॥
बाहुक उवाच।
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः
।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥२५॥
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन
।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥२६॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च
।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति॥२७॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः
।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥२८॥
सत्कृताऽसत्कृता वापि पतिं दृष्ट्वा तथाविधम्
।
राज्यभ्रष्टं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्॥२९॥
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः
।
न बाष्पमशकत्सोढुं प्ररुरोद च भारत॥३०॥
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्
।
तत्सर्वं कथितं चैव विकारं तस्य चैव तम्॥३१॥
विकारं हृदयव्यथाऽश्रुनेत्रत्वादिकम् ॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलकेशिनिसंवादे चतुःसप्ततितमोऽध्यायः॥७४॥
बृहदश्व उवाच
।
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा
।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्॥१॥
दमयन्तीति ॥१॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके
।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय॥२॥
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि
।
तत्र सञ्चेष्टमानस्य लक्षयन्ती विचेष्टितम्॥३॥
पाठान्तरे संलक्ष्यं लक्षणीयं ते त्वया ॥३॥
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि
।
याचते न जलं देयं सर्वथा त्वरमाणया॥४॥
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय
।
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्॥५॥
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम
।
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी॥६॥
निशम्याथ हयज्ञस्य लिङ्गानि पुनरागमत्
।
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्
।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम्॥७॥
केशिन्युवाच
।
दृढं शुच्युपचारोसौ न मया मानुषः क्वचित्
।
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः॥८॥
शुच्युपचारः जलस्थलशुद्ध्यादिपरः ॥८॥
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित्
।
तं तु दृष्ट्वा यथा सङ्गमुत्सर्पति यथासुखम्॥९॥
संचारं द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति ॥९॥
सङ्कटेऽप्यस्य सुमहान्विवरो जायतेऽधिकः
।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः॥१०॥
संकटे संकुचिते एतेन भूमिजयो दर्शितः ॥१०॥
प्रेषितं तत्र राज्ञा तु मांसं बहु च पाशवम्
।
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः॥११॥
पाशवं पशुसंबन्धि ॥११॥
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः
।
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः॥१२॥
कुम्भाः पूर्णा एवेति जलधातुजय उक्तः ॥१२॥
तृणमुष्टिं समादाय सवितुस्तं समादधत्
।
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः॥१३॥
वह्निजयमाह तृणेति त्रिभिः । सवितुः सकाशात् समादधत् उद्दीपितवान् ॥१३॥
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता
।
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया॥१४॥
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे
।
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्॥१५॥
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्
।
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः॥१६॥
वायुजयमाह अतीवेति द्वाभ्याम् । पुष्पेषु क्षीणोंऽशो झटिति वायुना अपूर्यत इत्यर्थः ॥१६॥
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा
।
भूय एव सुगन्धीनि हृषितानि भवन्ति हि
।
एतान्यद्भुतलिङ्गानि दृष्ट्वाऽहं द्रुतमागता॥१७॥
बृहदश्व उवाच
।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्
।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्॥१८॥
कर्म पाकादिचेष्टा भूतजयादि ॥१८॥
सा शङ्कमाना भर्तारं बाहुकं पुनरिङ्गितैः
।
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्॥१९॥
बाहुकं बाहुकरूपिणामिति रूपभेदात्संशयोऽस्ति न तु क्रियात इत्यर्थः ॥१९॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्
।
महानसाच्छ्रितं मांसमानयस्वेह भाविनि॥२०॥
सा गत्वा बाहुकस्याग्रे तन्मांसमपकृष्य च
।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी॥२१॥
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन
।
सा चितानलसिद्धस्य मांसस्य बहुशः पुरा॥२२॥
मांसस्य मांसं बहुशः बहुवारम् ॥२२॥
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता
।
वैक्लव्यं परमं गत्वा प्रक्षाल्य च मुखं ततः॥२३॥
मिथुनं प्रेषयामास केशिन्या सह भारत
।
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः॥२४॥
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्
।
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ॥२५॥
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
।
नैषधो दर्शयित्वा तु विकारमसकृत्तदा
।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्॥२६॥
इदं च सदृशं भद्रे मिथुनं मम पुत्रयोः
।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्॥२७॥
बहुशः सम्पतन्तीं त्वां जनः सङ्केतदोषतः
।
वयं च देशातिथयो गच्छ भद्रे यथासुखम्॥२८॥
संपतन्तीम् आयान्तीं दोषतः कामदोषेण ॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि कन्यापुत्रदर्शने पञ्चसप्ततितमोऽध्यायः॥७५॥
बृहदश्व उवाच
।
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः
।
आगत्य केशिनी सर्वं दमयन्त्यै न्यवेदयत्॥१॥
सर्वमिति ॥१॥
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्
।
मातुः सकाशं दुःखार्ता नलदर्शनकाङ्क्षया॥२॥
परीक्षितो मे बहुशो बाहुको नलशङ्कया
।
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम्॥३॥
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि
।
विदितं वाऽथवा ज्ञातं पितुर्मे संविधीयताम्॥४॥
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्
।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः॥५॥
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ
।
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः॥६॥
प्रतिक्षयः गृहम् ॥६॥
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः
।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः॥७॥
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा
।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी॥८॥
ततः काषायवसना जटिला मलपङ्किनी
।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्॥९॥
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक
।
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्॥१०॥
अनागसं प्रियां भार्यां विजने श्रममोहिताम्
।
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम्॥११॥
किमु तस्य मया बाल्यादपराद्धं महीपतेः
।
यो मामुत्सृज्य विपिने गतवान्निद्रयार्दिताम्॥१२॥
साक्षाद्देवानपाहाय वृतो यः स पुरा मया
।
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम्॥१३॥
अग्नौ पाणिं गृहीत्वा तु देवानामग्रतस्तथा
।
भविष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम्॥१४॥
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम
।
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु॥१५॥
अतीव कृष्णसाराभ्यां रक्तान्ताभ्यां जलं तु तत्
।
परिस्रवन्नलो दृष्ट्वा शोकार्तामिदमब्रवीत्॥१६॥
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्
।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम्॥१७॥
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा
।
वनस्थया दुःखितया शोचन्त्या मां दिवानिशम्॥१८॥
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः
।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः॥१९॥
मम च व्यवसायेन तपसा चैव निर्जितः
।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे॥२०॥
विमुच्य मां गतः पापस्ततोऽहमिह चागतः
।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्॥२१॥
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्
।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्॥२२॥
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्
।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति॥२३॥
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः
।
श्रुत्वैव चैवं त्वरितो भाङ्गासुरिरुपस्थितः॥२४॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्
।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्॥२५॥
दमयन्त्युवाच
।
न मामर्हसि कल्याण दोषेण परिशङ्कितुम्
।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप॥२६॥
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः
।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश॥२७॥
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव
।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने॥२८॥
तेन वाक्ये कृते सम्यक्प्रतिवाक्ये तथाहृते
।
उपायोऽयं मया दृष्टो नैषधानयने तव॥२९॥
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते
।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप॥३०॥
स्पृशेयं तेन सत्येन पादावेतौ महीपते
।
यथा नासत्कृतं किञ्चिन्मनसाऽपि चराम्यहम्॥३१॥
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः
।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम्॥३२॥
सदागतिः वायुः ॥३२॥
यथा चरति तिग्मांशुः परितो भुवनं सदा
।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्॥३३॥
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्
।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम्॥३४॥
चन्द्रमाः चित्ताभिमानिनी देवता ॥३४॥
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै
।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम्॥३५॥
एवमुक्तस्तथा वायुरन्तरिक्षादभाषत
।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते॥३६॥
राजञ्च्छीलनिधिः स्फीतो दमयन्त्या सुरक्षितः
।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्॥३७॥
उपायो विहितश्चायं त्वदर्थमतुलोऽनया
।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह॥३८॥
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते
।
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया॥३९॥
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह
।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः॥४०॥
तदद्भुतमयं दृष्ट्वा नलो राजाथ भारत
।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिन्दमः॥४१॥
ततस्तद्वस्त्रमजरं प्रावृणोद्वसुधाधिपः
।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः॥४२॥
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा
।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता॥४३॥
भैमीमपि नलो राजा भ्राजमानो यथा पुरा
।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत॥४४॥
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना
।
परीता तेन दुःखेन निशश्वासायतेक्षणा॥४५॥
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्
।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः॥४६॥
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च
।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप॥४७॥
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्
।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्॥४८॥
कल्ये प्रभाते ॥४८॥
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्
।
वने विचरितं सर्वमूषतुर्मुदितौ नृप॥४९॥
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ
।
वसेतां हृष्टसङ्कल्पौ वैदर्भी च नलश्च ह॥५०॥
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया
।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्॥५१॥
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्
।
अर्धसञ्जातसस्येव तोयं प्राप्य वसन्धरा॥५२॥
सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा
।
रराज भैमी समवाप्तकामाशीतांशुना रात्रिरिवोदितेन॥५३॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि नलदमयन्तीसमागमे षट्सप्ततितमोऽध्यायः॥७६॥
बृहदश्व उवाच
।
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
।
पुरादल्पपरीवारो जगाम निषधान्प्रति॥१॥
उष्य वासं कृत्वा ॥१॥
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै
।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः॥२॥
स कम्पयन्निव महीं त्वरमाणो महीपतिः
।
प्रविवेशाथ संरब्धस्तरसैव महामनाः॥३॥
ततः पुष्करमासाद्य वीरसेनसुतो नलः
।
उवाच दीव्याव पुनर्बहुवित्तं मयार्जितम्॥४॥
दमयन्ती च यच्चान्यन्मम किञ्चन विद्यते
।
एष वै मम संन्यासस्तव राज्यं तु पुष्कर॥५॥
राज्यम् एकपाणेनैव मम तु दमयन्त्यादि च ॥५॥
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः
।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे॥६॥
प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्थः ॥६॥
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु
।
प्रतिपाणः प्रदातव्यः परमो धर्म उच्यते॥७॥
न चेद्वाञ्च्छसि त्वं द्यूतं युद्धद्यूतं प्रवर्तताम्
।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप॥८॥
वंशभोज्यमिदं राज्यमर्थितव्यं यथातथा
।
येन केनाप्युपायेन वृद्धानामिति शासनम्॥९॥
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर
।
कैतवेनाक्षवत्यां तु युद्धे वा नाम्यतां धनुः॥१०॥
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव
।
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्॥११॥
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध
।
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्॥१२॥
दिष्ट्या च ध्रियसे राजन्सदारोद्य महाभुज
।
धनेनानेन वै भैमी जितेन समलङ्कृता॥१३॥
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः
।
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध॥१४॥
देवनेन मम प्रीतिर्न भवत्यसुहृद्गणैः
।
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्॥१५॥
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि
।
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः॥१६॥
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः
।
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः॥१७॥
पणावः किं व्याहरसे जितो न व्याहरिष्यसि
।
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च॥१८॥
एकपाणेन भद्रं ते नलेन स पराजितः
।
स रत्नकोशनिचयैः प्राणेन पणितोऽपि च॥१९॥
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
।
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम्॥२०॥
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्
।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः॥२१॥
न त्वया तत्कृतं कर्म येनाहं विजितः पुरा
।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे॥२२॥
नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन
।
यथासुखं वै जीवत्वं प्राणानवसृजामि ते॥२३॥
तथैव सर्वसम्भारं स्वमंशं वितरामि ते
।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः॥२४॥
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति
।
पुष्कर त्वं हि मे भ्राता सञ्जीव शरदः शतम्॥२५॥
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः
।
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः॥२६॥
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्
।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः॥२७॥
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी
।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव॥२८॥
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः
।
प्रययौ पुष्करो हृष्टः स्वपुरं स्वजनावृतः॥२९॥
महत्या सेनया सार्धं विनीतैः परिचारकैः
।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ॥३०॥
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्
।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्॥३१॥
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः
।
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहा॥३२॥
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः
।
अद्य स्म निर्वृता राजन्पुरे जनपदेऽपि च
।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम्॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि पुष्करपराभवपूर्वकं राज्यप्रत्यानयने अष्टसप्ततितमोऽध्यायः॥७८॥
बृहदश्व उवाच
।
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे
।
महत्या सेनया राजा दमयन्तीमुपानयत्॥१॥
प्रशान्ते वीतशोके ॥१॥
दमयन्तीमपि पिता सत्कृत्य परवीरहा
।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः॥२॥
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः
।
वर्तयामास मुदितो देवराडिव नन्दने॥३॥
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु
।
पुनः शशासा तद्राज्यं प्रत्याहृत्य महायशाः॥४॥
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः
।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्॥५॥
वक्ष्यसे दीव्यसे वशका इत्यस्य रूपम् ॥५॥
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः
।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ॥६॥
एकाकिनैव सुमहन्नलेन पृथिवीपते
।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः॥७॥
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव
।
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्॥८॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना॥९॥
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च
।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्॥१०॥
इतिहासमिमं चापि कलिनाशनमच्युत
।
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते॥११॥
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा
।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि॥१२॥
श्रुत्वेतिहासं नृपते समाश्वसिहि मा शुचः
।
व्यसने त्वं महाराज न विषीदितुमर्हसि॥१३॥
विषमावस्थिते दैवे पौरुषेऽफलतां गते
।
विषादयन्ति नात्मानं सत्त्वोपाश्रयिणो नराः॥१४॥
ये चेदं कथयिष्यन्ति नलस्य चरितं महत्
।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति॥१५॥
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति
।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्॥१६॥
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम्
।
आरोग्यप्रीतिमांश्चैव भविष्यति न संशयः॥१७॥
भयात्त्रास्यसि यच्च त्वमाह्वयिष्यति मां पुनः
।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव॥१८॥
तद्भयम् ॥१८॥
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम
।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते॥१९॥
पुनर्द्यूतं करिष्यसीति राजानं प्रति पूर्वं भीमेसेनेनोक्तं तत्र परिहारमाह वेदेति । वेद वेद्मि । उपपद्यस्व गृहाण ॥१९॥
वैशम्पायन उवाच।
ततो हृष्टमना राजा बृहदश्वमुवाच ह
।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः॥२०॥
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने
।
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः॥२१॥
अश्वशिरोऽश्वविद्यां यया बृहदश्व इति मुनेर्नाम । उपस्प्रष्टुं स्नानादिकं कर्तुम् ॥२१॥
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्
।
वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम्॥२२॥
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः
।
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः॥२३॥
इति पार्थो महाबाहुर्दुरापं तप आस्थितः
।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति॥२४॥
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः
।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव॥२५॥
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने
।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्॥२६॥
जयं जयभाजम् अर्जुनम् ॥२६॥
दह्यमानेन तु हृदा शरणार्थी महावने
।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि नलोपाख्यानपर्वणि बृहदश्वगमने ऊनाशीतितमोऽध्यायः॥७९॥