अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

तीर्थयात्रापर्व

अशीतितमोऽध्यायः

जनमेजय उवाच। भगवान्काम्यकात्पार्थे गते मे प्रपितामहे ।
पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम्॥१॥

भगवन्काम्यकात्पार्थे गते मे प्रपितामहे इत्यादिरध्यायस्तीर्थयात्राप्रस्तावार्थः। यज्ञदानाद्यसमर्थस्य हि तीर्थयात्रैवावश्यकी यथोक्तम् । ‘द्वाविमौ ग्रसते भूमिः सर्पा बिलशयानिव । राजानं चाविरोद्धारं दरिद्रं चाप्रवासिनम्’ इति तत्रापि बन्धुवियोगः सर्वेषां दुःखदः तेन च चित्तस्यानवस्थितत्वं भवतीत्यवान्तरतात्पर्यम् ॥१॥

स हि तेषां महेष्वासो गतिरासीदनीकजित् ।
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे॥२॥

तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना ।
विनाभूता वने वीराः कथमासन्पितामहाः॥३॥

वैशंपायन उवाच। गते तु पाण्डवे तात काम्यकात्सत्यविक्रमे ।
बभूवुः पाण्डवेयास्ते दुःखशोकपरायणाः॥४॥

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः ।
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः॥५॥

आक्षिप्तसूत्राः छिन्नसूत्राः द्विजाः पक्षिणः ॥५॥

वनं तु तदभूत्तेन हीनमक्लिष्टकर्मणा ।
कुबेरेण यथा हीनं वनं चैत्ररथं तथा॥६॥

तमृते ते नरव्याघ्राः पाण्डवा जनमेजय ।
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा॥७॥

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्वाणैर्महारथाः ।
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्॥८॥

मेध्यान् यज्ञार्हान् ॥८॥

नित्यं हि पुरुषव्याघ्रा वन्याहारमरिन्दमाः ।
उपाकृत्य उपाहृत्य ब्राह्मणेभ्यो न्यवेदयन्॥९॥

उपाकृत्य हिंसित्वा उपाहृत्य यज्ञार्थं समाहृत्य ॥९॥

सर्वे संन्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः ।
अहृष्टमनसः सर्वे गते राजन्धनञ्जये॥१०॥

विशेषतस्तु पाञ्चाली स्मरन्ती मध्यमं पतिम् ।
उद्विग्नं पाण्डवश्रेष्ठमिदं वचनमब्रवीत्॥११॥

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे॥१२॥

शून्यामिव प्रपश्यामि तत्र तत्र महीमिमाम् ।
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्॥१३॥

न तथा रमणीयं वै तमृते सव्यसाचिनम् ।
नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम्॥१४॥

तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ।
यस्य वा धनुषो घोषः श्रूयते चाशनिस्वनः ।
न लभे शर्म वै राजन्स्मरन्ती सव्यसाचिनम्॥१५॥

तथा लालप्यमानां तां निशम्य परवीरहा ।
भीमसेनो महाराज द्रौपदीमिदमब्रवीत्॥१६॥

भीम उवाच। मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे ।
तन्म प्रीणाति हृदयममृतप्राशनोपमम्॥१७॥

यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ ।
मौर्वीकृतकिणौ वृत्तौ खड्गायुधधनुर्धरौ॥१८॥

मौर्वीकृतकिणौ किणम् आघातचिह्नम् ॥१८॥

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।
तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम्॥१९॥

निष्काङ्गदकृतापीडौ साष्टशतं सुवर्णाः निष्कः तत्कृतेनाङ्गदेन कृतभूषणौ ॥१९॥

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।
सुराणामपि मत्तानां पृतनासु न बिभ्यति॥२०॥

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्॥२१॥

तमृते फाल्गुनं वीरं न लभे काम्यके धृतिम् ।
पश्यामि च दिशः सर्वास्तिमिरेणावृता इव ।
ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः॥२२॥

नकुल उवाच। यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे ।
देवा अपि युधां श्रेष्ठं तमृते का रतिर्वने॥२३॥

उदीचीं चो दिशं गत्वा जित्वा युधि महाबलान् ।
गन्धर्वमुख्याञ्च्छतशो हयांल्लेभे महाद्युतिः॥२४॥

राज्ञे तित्तिरिकल्माषाञ्च्छ्रीमतोऽनिलरंहसः ।
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ॥२५॥

तमृते भीमधन्वानं भीमादवरजं वने ।
कामये काम्यके वासं नेदानीममरोपमम्॥२६॥

सहदेव उवाच। यो धनानि च कन्याश्च युधि जित्वा महारथः ।
आजहार पुरा राज्ञे राजसूये महाक्रतौ॥२७॥

यः समेतान्मृधे जित्वा यादवानमितद्युतिः ।
सुभद्रामाजहारैको वासुदेवस्य सम्मते॥२८॥

तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामिव निवेशने ।
हृदयं मे महाराज न शाम्यति कदाचन॥२९॥

बृसीम् आसनम् ॥२९॥

वनादस्माद्विवासं तु रोचयेऽहमरिन्दम ।
न हि नस्तमृते वीरं रमणीयमिदं वनम्॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि अर्जुनानुशोचने अशीतितमोऽध्यायः॥८०॥
एकाशीतितमोऽध्यायः

वैशंपायन उवाच। धनंजयोत्सुकानां तु भ्रातॄणां कृष्णया सह ।
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत॥१॥

धनंजयेति ॥१॥

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।
दीप्यमानं श्रिया ब्राह्म्या हुतार्चिषमिवानलम्॥२॥

तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् ।
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने॥३॥

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः॥४॥

यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन् ।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा॥५॥

प्रतिगृह्य च तां पूजां नारदो भगवानृषिः ।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ॥६॥

उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते॥७॥

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।
उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम्॥८॥

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येहं प्रसादात्तव सुव्रत॥९॥

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
संदेहं मे मुनिश्रेष्ठ तत्त्वतश्छेत्तुमर्हसि॥१०॥

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः ।
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति॥११॥

नारद उवाच। शृणु राजन्नवहितो यथा भीष्मेण धीमता ।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्॥१२॥

पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः ।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह॥१३॥

शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते ।
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते॥१४॥

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा॥१५॥

कस्यचित्त्वथ कालस्य जपन्नेव महायशाः ।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्॥१६॥

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ॥१७॥

उपस्थितं महाभागं पूजयामास भारत ।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा॥१८॥

शिरसा चार्घमादाय शुचिः प्रयतमानसः ।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे॥१९॥

भीष्मोहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वषैः॥२०॥

एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः ।
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिरः॥२१॥

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत्॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पार्थनारदसंवादे एकाशीतितमोऽध्यायः॥८१॥
द्व्यशीतितमोऽध्यायः

पुलस्त्य उवाच। अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोऽस्मि तव सुव्रत॥१॥

अनेनेति ॥१॥

यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ ।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि॥२॥

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ॥३॥

भीष्म उवाच। प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमितावता मन्ये यदहं दृष्टवान्प्रभुम्॥४॥

यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर ।
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि॥५॥

अस्ति मे हृदये कश्चित्तीर्थेभ्यो धर्मसंशयः ।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति॥६॥

प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि सुनिश्चितम्॥७॥

पुलस्त्य उवाच। हन्त ते कथयिष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनाः पुत्र शृणु तीर्थेषु यत्फलम्॥८॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥९॥

यस्य हस्तौ चेति । दुष्प्रतिग्रहपरपीडादिभ्यो निवृत्तिर्हस्तसंयमः । दृष्टिपूते देशे पादन्यासः पादसंयमः। परानिष्टचिन्तनाभावो मनःसंयमः । विद्यासंयमः अभिचारराहित्यम् । तपःसंयमः दम्भराहित्यम् । कीर्तिसंयमः पापकीर्तिराहित्यम् ॥९॥

प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित् ।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते॥१०॥

अस्यैव श्लोकस्य व्याख्यानं प्रतिग्रहादित्यादि त्रितयम् अपावृत्तो निवृत्तः संतोषोऽलंबुद्धिः ॥१०॥

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते॥११॥

अकल्ककः दम्भादिहीनः । ‘कल्कः शाठ्ये च दम्भे च’ इति विश्वः ॥११॥

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥१२॥

आत्मोपमः दयावान् ॥१२॥

ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम् ।
फलं चैव यथातथ्यं प्रेत्य चेह च सर्वशः॥१३॥

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः॥१४॥

प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् ।
नार्थन्यूनैर्नावगणैरेकात्मभिरसाधनैः॥१५॥

अवगणैः असहायैर्नीचसहायैर्वा एकात्मभिः असहायैः असाधनैः पत्न्यादिरहितैः ॥१५॥

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर॥१६॥

ऋषीणां परमं गुह्यमिदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते॥१७॥

अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते॥१८॥

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्॥१९॥

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं नाम विख्यातं महाभागः समाविशेत्॥२०॥

दशकोटिसहस्राणि तीर्थानां वै महामते ।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन॥२१॥

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो॥२२॥

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।
दिव्ययोगा महाराज पुण्येन महतान्विताः॥२३॥

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते॥२४॥

तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः ।
उवास परमप्रीतो भगवान्कमलासनः॥२५॥

पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा ।
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः॥२६॥

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।
अश्वमेधाद्दशगुणं फलं प्राहुर्मनीषिणः॥२७॥

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते॥२८॥

शाकैर्मूलैः फलैर्वापि येन वर्तयते स्वयम् ।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः॥२९॥

तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम॥३०॥

न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ।
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम्॥३१॥

प्राप्नुयात्स नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः॥३२॥

उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा॥३३॥

उपस्पृष्टं स्नातं भवेत् ॥३३॥

पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ।
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः॥३४॥

तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ।
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः॥३५॥

उष्ट्वा वासं कृत्वा ॥३५॥

ऋतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ।
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते॥३६॥

ऋतून्सर्वान्प्राप्नोति संवत्सरात्मकप्रजापतिसायुज्यं प्राप्नोतीत्यर्थः । ‘ऋतुर्भूत्वा संवत्सरमप्येति संवत्सरः प्रजापतिः प्रजापतिर्वा वैषः’ इति श्रुतेः क्रतूनित्यपि पाठः ॥३६॥

कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्॥३७॥

त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च ।
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्॥३८॥

अत्र पुष्करस्तुतिप्रस्तावे विषमश्लोकव्याख्यायां ‘त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्’ इति श्लोकः पठितो व्याख्यातश्च । इदानीं मन्दबुद्धिभिर्दुर्व्याख्येयतया परित्यक्त इति न पुस्तकान्तरेषु दृश्यते । अत्र प्राचां व्याख्या । श्रयतेः शृणातेर्वा शृङ्गाणि मुमुक्षुभिराश्रयणीयानि पापहिंसकानि वा । शुभ्राणि भ्राजिष्णूनि त्रीणि पुष्कराणि तेषां मध्ये सरस्वती प्रस्रवतीति तान्येव त्रीणि प्रस्रवणानि आदिसिद्धानि तीर्थान्तरवदुत्पत्तिरहितानि । अत एव तत्र तीर्थत्वापादकं कारणं न विद्म इति । वस्तुतस्तु ‘वेदारण्यं पञ्चनदं गौरीमायूरमार्जुनम् । श्रीवाञ्छं कुम्भकोणं च काशीक्षेत्रसमानि षट्’ इत्यादिवदिह काशीसाम्येन पुष्करं स्तूयते । तथा चायमर्थः पुराणान्तरेषु वाराणस्यास्त्रिकोणत्वस्मरणात् त्रयः कोणा एव त्रीणि शृङ्गाणि शुभ्राणि रजस्तमो मलहीनत्वेन शुद्धसत्त्वमयानि ज्ञानप्रदत्वात् । तथा च श्रुतिरविमुक्तं प्रकृत्याह । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवतीति। त्रीणि प्रस्रवणानि त्रयः प्रवाहाः असीवरणयोर्गङ्गायाश्च । अथवानेन त्रिवेण्येव ग्राह्या तथा त्रीणि पुष्कराणि एतानि त्रीणि काशीप्रयागपुष्कराणि आदिसिद्धानीत्यादि प्राग्वत् तेन । काश्या काशीप्रयागाभ्यां वा समानमिदं पुष्करं त्रित्वसाम्यादिति पुरस्तुतिः कृता भवति ॥३८॥

दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्॥३९॥

उष्य द्वादशरात्रं तु नियतो नियताशनः ।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत्॥४०॥

जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥४१॥

तत्रोष्य रजनीः पञ्च पूतात्मा जायते नरः ।
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्॥४२॥

जम्बूमार्गादुपावृत्य गच्छेत्तन्दुलिकाश्रमम् ।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति॥४३॥

आगस्त्यं सर आसाद्य पितृदेवार्चने रतः ।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्॥४४॥

शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् ।
कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकपूजितम्॥४५॥

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते॥४६॥

अर्चयित्वा पितॄन्देवान्नियतो नियताशनः ।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥४७॥

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै॥४८॥

महाकालं ततो गच्छेन्नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्॥४९॥

ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः ।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्॥५०॥

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।
महादेवप्रसादाच्च गाणपत्यं च विन्दति॥५१॥

समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः ।
नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम्॥५२॥

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ।
दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः॥५३॥

अग्निष्टोममवाप्नोति विमानं चाधिरोहति ।
चर्मण्वतीं समासाद्य नियतो नियताशनः ।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत्॥५४॥

ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम् ।
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर॥५५॥

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥५६॥

पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।
कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते॥५७॥

ततो गच्छेत राजेन्द्र प्रभासं तीर्थमुत्तमम् ।
तत्र संनिहितो नित्यं स्वयमेव हुताशनः॥५८॥

देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ।
तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः॥५९॥

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ।
ततो गत्वा सरस्वत्याः सागरस्य च संगमे॥६०॥

गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति ।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ॥६१॥

तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ।
त्रिरात्रमुषितः स्नातस्तर्पयेत्पितृदेवताः॥६२॥

प्रभासते यथा सोमः सोश्वमेधं च विन्दति ।
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम॥६३॥

विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत्॥६४॥

ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्॥६५॥

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम॥६६॥

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ॥६७॥

सागरस्य च सिन्धोश्च संगमं प्राप्य दुर्लभम् ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः॥६८॥

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा॥६९॥

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः॥७०॥

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्॥७१॥

दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् ।
तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्॥७२॥

तत्र स्नात्वा च पीत्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृति यत्पापं तत्स्नातस्य प्रणश्यति॥७३॥

दमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः ।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्॥७४॥

गत्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।
पुरा शौचं कृतं राजन्हत्वा दैतेयदानवान्॥७५॥

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।
गमनादेव तस्यां हि हयमेधफलं लभेत्॥७६॥

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः ।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते॥७७॥

तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्॥७८॥

सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम्॥७९॥

भद्रतुङ्गं समासाद्य शुचिः शीलसमन्वितः ।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्॥८०॥

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात्॥८१॥

रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा॥८२॥

अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्चयज्ञानवाप्नोति क्रमशो येनुकीर्तिताः॥८३॥

ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम् ।
तत्र स्नात्वा न योऽन्यां वै नरो भरतसत्तम॥८४॥

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः ।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः॥८५॥

श्रीकुण्डं तु समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्॥८६॥

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः॥८७॥

तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥८८॥

वितस्तां च समासाद्य संतर्प्य पितृदेवताः ।
नरः फलमवाप्नोति वाजपेयस्य भारत॥८९॥

काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च ।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्॥९०॥

तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्॥९१॥

ततो गच्छेत वडवां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि॥९२॥

चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः॥९३॥

ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः ।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः॥९४॥

राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप ।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम्॥९५॥

विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा ।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम्॥९६॥

ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः ।
यथाभिलषितानन्यान्कामान्दत्त्वा महीपते॥९७॥

तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा ।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत॥९८॥

गवां शतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः॥९९॥

ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत् ।
अर्चयित्वा महादेवमश्वमेधफलं लभेत्॥१००॥

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्॥१०१॥

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ॥१०२॥

त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥१०३॥

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्॥१०४॥

कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत॥१०५॥

यजनं याजनं चैव तथैव ब्रह्मबालुकम् ।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः॥१०६॥

अर्धयोजनविस्तारा पञ्चयोजनमायता ।
एतावती हि देविका तु पुण्या देवर्षिसेविता॥१०७॥

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः॥१०८॥

दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः॥१०९॥

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत॥११०॥

ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती॥१११॥

चमसेथ शिवोद्भेदे नागोद्भेदे च दृश्यते ।
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्॥११२॥

शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत् ।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्॥११३॥

शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत॥११४॥

सरस्वत्यां महाराज अनुसंवत्सरं च ते ।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा॥११५॥

तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ॥११६॥

कुमारकोटीमासाद्य नियतः कुरुनन्दन ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥११७॥

गवामयुतमाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः॥११८॥

पुरा यत्र महाराज मुनिकोटिः समागता ।
हर्षेण महताविष्टा रुद्रदर्शनकाङ्क्षया॥११९॥

अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् ।
एवं संप्रस्थिता राजन्नृषयः किल भारत॥१२०॥

ततो योगीश्वरेणापि योगमास्थाय भूपते ।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्॥१२१॥

सृष्टा कोटीति रुद्राणामृषीणामग्रतः स्थिता ।
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्॥१२२॥

तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम् ।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान्॥१२३॥

अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ।
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः॥१२४॥

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्॥१२५॥

सरस्वत्या महापुण्यं केशवं समुपासते ।
यत्र ब्रह्माहयो देवा ऋषयश्च तपोधनाः॥१२६॥

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ।
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति॥१२७॥

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।
तत्रावसानमासाद्य गोसहस्रफलं लभेत्॥१२८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां द्व्यशीतितमोऽध्यायः॥८२॥
त्र्यशीतितमोऽध्यायः

पुलस्त्य उवाच। ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् ।
पापेभ्यो यत्र मुच्यन्ते दर्शनात्सर्वजन्तवः॥१॥

तत इति ॥१॥

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते॥२॥

पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥३॥

दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च ।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे॥४॥

तत्र मासं वसेद्धीरः सरस्वत्यां युधिष्ठिर ।
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः॥५॥

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत॥६॥

ततो गच्छेत राजेन्द्र कुरुक्षेत्रमिति कुरुक्षेत्रप्रस्तावे बृहस्पतिरुवाच याज्ञवल्क्यं ‘यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्’ इति जाबालोपनिषत्सु प्रसिद्धमनुकुरुक्षेत्रं स्तौति ब्रह्मक्षेत्रमिति ॥६॥

मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर ।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति॥७॥

‘कुत्सितं रौतीति कुरु पापं तस्य क्षेपणात्त्रायत’ इति कुरुक्षेत्रं पापनिवर्तकम् । ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मसदनमिति श्रौतपदद्वयार्थं संगृह्णाति अर्धेन । ‘पापानि च प्रणश्यन्ति ब्रह्मलोकं च गच्छति’ ब्रह्मैव लोकस्तं ब्रह्मविद्भूत्वा ब्रह्मैव भवतीत्यर्थः ॥७॥

गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह ।
फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः॥८॥

श्रौतस्य देवयजनपदस्यार्थं संगृह्णाति राजसूयेति ॥८॥

ततो मचक्रुकं नाम द्वारपालं महाबलम् ।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्॥९॥

ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् ।
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः॥१०॥

तत्र स्नात्वा च नत्वा च त्रिलोकप्रभवं हरिम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥११॥

ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत॥१२॥

पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत् ।
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप॥१३॥

दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात् ।
सर्पदेवीं समासाद्य नागानां तीर्थमुत्तमम्॥१४॥

अग्निष्टोममवाप्नोति नागलोकं च विन्दति ।
ततो गच्छेत धर्मज्ञ द्वारपालं तरुन्तुकम्॥१५॥

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततः पञ्चनदं गत्वा नियतो नियताशनः॥१६॥

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते॥१७॥

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत्॥१८॥

तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत्॥१९॥

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्॥२०॥

कृतशौचं समासाद्य तीर्थसेवी नराधिप ।
पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः॥२१॥

ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः ।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्॥२२॥

तत्रैव च महाराज यक्षिणीं लोकविश्रुताम् ।
स्नात्वाभिगम्य राजेन्द्र सर्वान्कामानवाप्नुयात्॥२३॥

कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः॥२४॥

कुरुक्षेत्रस्य प्रस्तुतस्य तत् यक्षाभिवन्दनादिकं द्वारं प्रापकं तच्चेदं कुरुक्षेत्रमविमुक्ताख्यम् ‘अविमुक्तं वै कुरुक्षेत्रम्’ इति श्रुतेः । स्मृतिश्च ‘इमानि तु पवित्राणि काशीप्राप्तिकराणि च’ इति । अत एवानुकुरुक्षेत्रमिति श्रुत्या निर्दिष्टं कुरुक्षेत्रादि सेवनप्राप्यत्वात् ॥२४॥

संमितं पुष्कराणां च स्नात्वार्च्य पितृदेवताः ।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना॥२५॥

कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः॥२६॥

तत्र रामेण राजेनद्र तरसा दीप्ततेजसा ।
क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः॥२७॥

पूरयित्वा नरव्याघ्र रुधिरेणेति विश्रुतम् ।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः॥२८॥

ततस्ते पितरः प्रीता राममूचुर्नराधिप ।
पितर ऊचुः ।
राम राम महाभाग प्रीताः स्म तव भार्गव॥२९॥

अनया पितृभक्त्या च विक्रमेण च ते विभो ।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते॥३०॥

एवमुक्तः स राजेन्द्र राम प्रहरतां वरः ।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्॥३१॥

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ।
पितृप्रसादमिच्छेयं तपः आप्यायनं पुनः॥३२॥

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ।
ततश्च पापान्मुच्येयं युष्माकं तेजसाप्यहम्॥३३॥

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा॥३४॥

प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः॥३५॥

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ।
ततश्च पापान्मुक्तस्त्वं पतितास्ते स्वकर्मभिः॥३६॥

ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति॥३७॥

पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम्॥३८॥

एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा ।
आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्हितास्ततः॥३९॥

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः॥४०॥

राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह॥४१॥

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ।
कायशोधनमासाद्य तीर्थं भरतसत्तम॥४२॥

शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।
शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान्॥४३॥

ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना॥४४॥

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम् ।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान्॥४५॥

श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः ।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम्॥४६॥

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।
तत्र स्नात्वार्चयित्वा च पितॄन्स्वान्दैवतान्यपि॥४७॥

कपिलानां सहस्रस्य फलंविन्दति मानवः ।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः॥४८॥

अर्चयित्वा पितॄन्देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति॥४९॥

गवां भवनमासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्॥५०॥

शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह ।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्॥५१॥

ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम् ।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः॥५२॥

तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः॥५३॥

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम्॥५४॥

तत्र सन्निहिता नित्यं पितरो दैवतैः सह ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥५५॥

अश्वमेधमावाप्नोति पितृलोकं च गच्छति ।
ततोऽम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम्॥५६॥

काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते॥५७॥

काशीश्वरस्य तीर्थेषु मणिकर्णिकादिषु स्नानमात्राद्ब्रह्मलोके क्रममुक्तिस्थाने महीयते ॥५७॥

मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत ।
प्रजा विवर्धते राजन्नतन्वीं श्रियमश्नुते॥५८॥

ततः सीतवनं गच्छेन्नियतो नियताशनः ।
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्॥५९॥

पुनाति गमनादेव दृष्टमेकं नराधिप ।
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत॥६०॥

तीर्थं तत्र महाराज श्वाविल्लोमापहं स्मृतम् ।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः॥६१॥

प्रीतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ।
श्वाविल्लोमापनयने तीर्थे भरतसत्तम॥६२॥

प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्॥६३॥

दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्॥६४॥

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ।
यत्र कृष्णमृगा राजन्व्याधेन शरपीडिताः॥६५॥

विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः॥६६॥

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते॥६७॥

आपगा नाम विख्याता नदी सिद्धनिषेविता ।
श्यामाकं भोजने तत्र यः प्रयच्छति मानवः॥६८॥

देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता॥६९॥

तत्र स्नात्वाऽर्चयित्वा च पितॄन्वै दैवतानि च ।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्॥७०॥

ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् ।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत॥७१॥

तत्र सप्तर्षिकुण्डेषु स्नातस्य नरपुङ्गव ।
केदारे चैव राजेन्द्र कपिलस्य महात्मनः॥७२॥

ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥७३॥

कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः॥७४॥

ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम् ।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्॥७५॥

लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति ।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन॥७६॥

रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते ।
इलास्पदं च तत्रैव तीर्थं भरतसत्तम॥७७॥

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनथ ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति॥७८॥

किंदाने च नरः स्नात्वा किंजप्ये च महीपते ।
अप्रमेयमवाप्नोति दानं जप्यं च भारत॥७९॥

कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥८०॥

सरकस्य तु पूर्वेण नारदस्य महात्मनः ।
तीर्थं कुरुकुलश्रेष्ठ अम्बाजन्मेति विश्रुतम्॥८१॥

तत्र तीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत ।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन्॥८२॥

शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत् ।
तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत्॥८३॥

ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी॥८४॥

तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥८५॥

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः॥८६॥

तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः॥८७॥

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम॥८८॥

गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः ।
पाणिखाते नरः स्नात्त्वा तर्पयित्वा च देवताः॥८९॥

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति॥९०॥

ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् ।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना॥९१॥

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः॥९२॥

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्॥९३॥

गत्वा मधुवटीं चैव देव्यास्तीर्थे नरः शुचिः ।
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च पूरुषः॥९४॥

स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत॥९५॥

स्नाति वै नियताहार सर्वपापैः प्रमुच्यते ।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता॥९६॥

पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः ।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा॥९७॥

अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत् ।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च॥९८॥

गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥९९॥

अहश्च सुदिनं चैव द्वे तीर्थे लोकविश्रुते ।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्॥१००॥

मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम॥१०१॥

अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥१०२॥

ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्॥१०३॥

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
कुलंपुने नरः स्नात्वा पुनाति स्वकुलं ततः॥१०४॥

पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम् ।
तत्र स्नात्वा नरव्याघ्र विष्णुलोके महीयते॥१०५॥

अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् ।
अमराणां प्रभावेन स्वर्गलोके महीयते॥१०६॥

शालिहोत्रस्य तीर्थे च शालिसूर्ये यथाविधि ।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्॥१०७॥

श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्॥१०८॥

ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह ।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः॥१०९॥

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ।
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम॥११०॥

ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ।
तस्मिन्कुञ्जे नरः स्नात्वा अग्निष्टोमफलं लभेत्॥१११॥

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥११२॥

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः॥११३॥

ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम्॥११४॥

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप॥११५॥

यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ।
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम्॥११६॥

क्षतः किल करे राजंस्तस्य शाकरसोस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्॥११७॥

ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्॥११८॥

ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप॥११९॥

नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा ।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत॥१२०॥

भो भो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव॥१२१॥

ऋषिरुवाच। तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्॥१२२॥

यं दृष्ट्वा संप्रनृत्तोहं हर्षेण महतान्वितः ।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम्॥१२३॥

अहं तु विस्मयं विप्र न गच्छामीति पश्य माम् ।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता॥१२४॥

अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोनघ ।
ततो भस्मक्षताद्राजन्निर्गतं हिमसन्निभम्॥१२५॥

हिमसंनिभम् अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ॥१२५॥

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत्॥१२६॥

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम्॥१२७॥

त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये ।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया॥१२८॥

त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोनघ ।
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह॥१२९॥

त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत्॥१३०॥

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्॥१३१॥

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सह महामुने॥१३२॥

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ।
न तेषां दुर्लभं किंचिदिह लोके परत्र च॥१३३॥

सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत॥१३४॥

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥१३५॥

कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत ।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया॥१३६॥

कपालमोचनं तीर्थं सर्वपापप्रमोचनम् ।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते॥१३७॥

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत्॥१३८॥

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति॥१३९॥

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते॥१४०॥

पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥१४१॥

पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥१४२॥

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना॥१४३॥

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति॥१४४॥

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्॥१४५॥

उत्तमं सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत्॥१४६॥

पृथूदके जप्यपरो यस्तनुं त्यजेत् तं श्वो मरणं पुनर्मरणं न तपेत् । यद्वा पूर्वेद्युरेव कृतजपं श्वोऽपि जीवितान्तं मरणं न तपेत् । एकरात्रेणैव सर्वपापविमोको भवतीत्यर्थः ॥१४६॥

गीतं सनत्कुमारेण व्यासेन च महात्मना ।
एवं स नियतं राजन्नभिगच्छेत्पृथूदकम्॥१४७॥

पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह ।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः॥१४८॥

तत्र स्नात्वा दिवं यान्ति येऽपि पापकृतो नराः ।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः॥१४९॥

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्॥१५०॥

ततो गच्छेत राजेन्द्र तीर्थं मेध्यं यथाक्रमम् ।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते॥१५१॥

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः॥१५२॥

आसप्तमं कुलं चैव पुनाति भरतर्षभ ।
अर्धकीलं च तत्रैव तीर्थं कुरुकुलोद्वह॥१५३॥

विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मितं पुरा ।
व्रतोपनयनाभ्यां चाप्युपवासेन वाप्युत॥१५४॥

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ।
क्रियामन्त्रविहीनोपि तत्र स्नात्वा नरर्षभ ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः॥१५५॥

समुद्राश्चापि चत्त्वारः समानीताश्च दर्भिणा ।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात्॥१५६॥

फलानि गोसहस्राणां चतुर्णां विन्दते च सः ।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम्॥१५७॥

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ।
उभयोर्हि नरः स्नात्वा गोसहस्रफंल लभेत्॥१५८॥

दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्॥१५९॥

तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः ।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्॥१६०॥

विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः ।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते॥१६१॥

ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पुण्येन महता युक्तः सतां लोके महीयते॥१६२॥

यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः ।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति॥१६३॥

तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा ।
यत्र ब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः॥१६४॥

सैनापत्येन देवानामभिषिक्तो गुहस्तदा ।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह॥१६५॥

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥१६६॥

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति॥१६७॥

ततो गच्छेदनरकं तीर्थसेवी नराधिप ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्॥१६८॥

तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ।
अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः॥१६९॥

सन्निध्यं तत्र राजेन्द्र रुद्रपत्न्याः कुरूद्वह ।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्॥१७०॥

तत्रैव च महाराज विश्वेश्वरमुमापतिम् ।
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः॥१७१॥

नारायणं चाभिगम्य पद्मनाभमरिंदम ।
राजमानो महाराज विष्णुलोकं च गच्छति॥१७२॥

तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः॥१७३॥

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप ।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत्॥१७४॥

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत॥१७५॥

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते॥१७६॥

तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ।
आपगानां नरः स्नात्वा अर्चयित्वा महेश्वरम्॥१७७॥

गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत् ।
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम्॥१७८॥

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः॥१७९॥

बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः॥१८०॥

त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप ।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप॥१८१॥

अहोरात्रोपवासेन शक्रलोके महीयते ।
एकरात्रं समासाद्य एकरात्रोषितो नरः॥१८२॥

नियतः सत्यवादी च ब्रह्मलोके महीयते ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥१८३॥

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं॥१८४॥

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप॥१८५॥

सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः॥१८६॥

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः॥१८७॥

तस्मिंस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ।
सारस्वतीं गतिं चैव लभते नात्र संशयः॥१८८॥

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् ।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः॥१८९॥

लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि॥१९०॥

तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
मासि मासि समायान्ति पुण्येन महातान्विताः॥१९१॥

सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत्॥१९२॥

संनिहत्यां कुरुक्षेत्रे अस्यैव नामान्तरं संनिहतीति ॥१९२॥

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च॥१९३॥

तन्निर्वक्ति पृथिव्यामित्यादिना । अत्र उपक्रमोपसंहारयोः कुरुक्षेत्रमात्रपरत्वात्तदेव अङ्गितीर्थान्तराणि तु फलवत्संनिधावफलं तदङ्गमिति न्यायेन तत्प्राप्तौ अङ्गभूतानि । तेषामपि पृथक् फलश्रवणं तु गुणफलन्यायेन ज्ञेयम्। यथायोगाङ्गानामपि यमनियमादीनाम् अहिंसाप्रतिष्ठादीनां तत्संनिधौ वैरत्याग इत्यादिना पृथक् फलं स्मर्यते तद्वदिति भावः ॥१९३॥

उदपानानि वाप्यश्च तीर्थान्यायतनानि च ।
निःसंशयममावास्यां समेष्यन्ति नराधिप॥१९४॥

मासि मासि नरव्याघ्र सन्निहत्यां न संशयः ।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता॥१९५॥

तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ।
अमावास्यां तु तत्रैव राहुग्रस्ते दिवाकरे॥१९६॥

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्॥१९७॥

स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः ।
यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषेण वा॥१९८॥

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥१९९॥

अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम् ।
कोटितीर्थमुपस्पृश्य लभेद्बहु सुवर्णकम्॥२००॥

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः॥२०१॥

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्॥२०२॥

पृथिव्यामिति । नैमिषं नैमिषारण्ये कृतं पुण्यं पृथिव्यामेव संततिसंपत्तिसार्वभौमादिपदप्राप्तिहेतुरित्यर्थः । अन्तरिक्षे सूर्यचन्द्रादिमार्गे नक्षत्रादिचक्रे पुष्करं प्रापयतीत्यर्थः ॥२०२॥

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः॥२०३॥

त्रयाणाम् इन्द्रादिलोकेन सह त्रयाणामुपरि ब्रह्मलोके । कुरुक्षेत्रसेवी क्रममुक्तिस्थानं प्राप्नोतीत्यर्थः । नयन्ति परमां गतिमिति मुक्तिफलदर्शकवाक्यशेषात् । अत्र कुरुक्षेत्रपदेन ’काश्येव । ‘काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम। सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते’ इत्यनेन समानार्थत्वात् । तथा च पाठक्रमादर्थक्रमस्य बलवत्त्वात् ‘पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम्’ इत्यतः परं ‘ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे’ इत्ययं ग्रन्थो द्रष्टव्यः । अन्यथा तृतीयलोकस्यानुक्तेस्त्रयाणामित्यसंगतं स्यात् । त्रिविष्टपे इत्यध्याहारेण वा वाक्यपूरणं स्यात् । तच्चायुक्तम् । श्रौतार्थसंभवे दर्शिता चाविमुक्तेऽपि कुरुक्षेत्रपदस्य श्रौतीरूढिरविमुक्तं वै कुरुक्षेत्रमिति जाबालोपनिषदि न चोपक्रमोपसंहारैकरूपेण प्रसिद्धकुरुक्षेत्रस्य प्राकरणिकत्वेन तीर्थान्तरवद्वाराणस्यास्तत्प्रकरणपठितत्वात्तदङ्गत्वं स्यादिति वाच्यम् । प्रकरणाल्लिङ्गस्य बलीयस्त्वात्। तथा हि । ‘ते वसन्ति त्रिविष्टपे स्वर्गे लोके महीयते‘ इत्यादिवाक्यशेषात्स्वर्गप्राप्तिरेव कुरुक्षेत्रफलमवगम्यते । न चात्रत्यं त्रिविष्टपादिपदं ब्रह्मलोकपरं कर्तुं शक्यम् । ब्रह्मवेदी कुरुक्षेत्रमिति वाक्यशेषविरोधात् । तत्र च वेदीशब्देन तस्य कर्मभूमित्वावगमात् तेषां कुरुक्षेत्रं वेदिरासीत्’ इति तैत्तिरीयकब्राह्मणात् । ‘तेषां कुरुक्षेत्रं देवयजनमास’ इति शतपथश्रुतेश्च न च कर्मभूमेर्विद्याफलप्रदत्वं युज्यते । ‘कर्मणा पितृलोको विद्यया देवलोकः’ इति तयोः फलभेदश्रवणात् । पितृलोकः स्वर्गलोकः देवलोको ब्रह्मलोकः । वाराणस्यास्तु ज्ञानभूमित्वं सर्वश्रुतिप्रसिद्धम् । एतदेवात्र । ‘पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः । अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्’ इति प्रदर्श्य ‘दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् । ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे’ इत्यनन्तरश्लोकेन प्रसिद्धकुरुक्षेत्रफलं प्रदर्श्यते । न चैतदेव पूर्वश्लोकेन स्तूयत इति वाच्यम् । श्रुतिस्मृतिप्रसिद्धिबलात्तस्य भूतार्थवादत्वे संभवत्यभूर्ताथवादत्वोपगमस्यायोगात् वाल्मीकीये मोक्षोपायेषु । ‘छायासूची तापसूची मुख्यसूचीति च त्रिकम् । त्रिकोणं तपसा पूतं वाराणस्याः समं कृतम् । गतास्तेन त्रिकोणेन ये केचिदिह जंतवः । वायवः पांसवो वापि तेऽपि मुक्तिं परंगता:’ इति भंग्यंतरेण पूर्वश्लोकार्थस्य प्रत्यभिज्ञानात् तथा च यद्यपि काश्याः कुरुक्षेत्राङ्गत्वं प्रकरणात्प्रसक्तं तथापि योग्यतया फलतारतम्यलिङ्गान्न तत्संभवति । सांनिध्यात्तु परस्पराकांक्षादिकमुत्थाप्य तीर्थान्तरशेषीभूतस्यापि कुरुक्षेत्रस्य काशीशेषत्वं ज्ञेयम् । तथा च वाक्यात् दुर्बलोऽपि संनिधिः ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेन बलवत्तया स्वर्गलोके महीयत इति वाक्यावगतमपि कुरुक्षेत्रफलं तिरोधाय ‘प्रतितिष्ठन्ति वै य एता रात्रीरुपयन्ति’ इत्यादौ रात्रिसत्रस्य प्रतिष्टाशेषितामिव पांसवोऽपि कुरुक्षेत्र इत्यर्थवादेन मुक्तिफलशेषिताम् अविमुक्तसंज्ञस्य कुरुक्षेत्रस्य व्यवस्थापयन् सहैकवाक्यतां गत्वा प्रसिद्ध कुरुक्षेत्रस्याविमुक्तशेषतां गमयति । तथा चायं पांसवोपीत्यादिश्लोकद्वयार्थः । ये परमगतिप्रदां काशीं गन्तुमिच्छन्ति ते कुरुक्षेत्रे वसेयुरिति । ते वसन्ति त्रिविष्टपे इति तु योगाङ्गफलवद्गुणवफलमिति प्रागुक्तं न विस्मर्तव्यम् । तत्सिद्धं सर्वेषां तीर्थानां कुरुक्षेत्रप्रापकत्वं कुरुक्षेत्रस्य तु काशीप्रापकत्वमिति ॥२०३॥

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्॥२०४॥

ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ।
कुरुक्षेत्रे गमिष्यामि कुरुक्षेत्रे वसाम्यहम्॥२०५॥

अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ।
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्॥२०६॥

तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन॥२०७॥

तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च ।
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते॥२०८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां त्र्यशीतितमोऽध्यायः॥८३॥
चतुरशीतितमोऽध्यायः

पुलस्त्य उवाच। ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम् ।
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः॥१॥

तत इति ॥१॥

तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम् ।
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः॥२॥

आसप्तमं कुलं चैव पुनीते नात्र संशयः ।
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम्॥३॥

अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ।
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः॥४॥

तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः॥५॥

तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ।
ततश्चापि सरिच्छ्रेष्ठा नदीनामुत्तमा नदी॥६॥

प्लक्षादेवी स्मृता राजन्पुण्यादेवी सरस्वती ।
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले॥७॥

अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ।
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्॥८॥

षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ।
कपिलानां सहस्रं च वाजिमेधं च विन्दति॥९॥

शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स बलवता क्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु । संपेति पाठे संपतत्यनयेति यष्टिः संपा ॥९॥

तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ।
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत॥१०॥

पुरातने भविष्यपुराणादौ ॥१०॥

अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ।
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत॥११॥

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः॥१२॥

ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् ।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता॥१३॥

दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता ।
आहारं सा कृतवती मासि मासि नराधिप॥१४॥

ऋषयोभ्यागतास्तत्र देव्या भक्त्या तपोधनाः ।
आतिथ्यं च कृतं तेषां शाकेन किल भारत॥१५॥

ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ।
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः॥१६॥

त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ।
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम्॥१७॥

तत्फलं तस्य भवति देव्याश्छन्देन भारत ।
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम्॥१८॥

छन्देन इच्छया ॥१८॥

तत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ।
वरांश्च सुबहूंल्लेभे दैवतेषु सुदुर्लभान्॥१९॥

उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ।
अपि च त्वं प्रियतरो लोके कृष्ण भविष्यसि॥२०॥

त्वन्मुखं च जगत्सर्वं भविष्यति न संशयः ।
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्॥२१॥

त्वन्मुखं त्वत्प्रधानम् ॥२१॥

अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ।
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः॥२२॥

मनसा प्रार्थितान्कामांल्लभते नात्र संशयः ।
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप॥२३॥

तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ।
महादेवप्रसादाद्धि गच्छेत परमां गतिम्॥२४॥

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
धारां नाम महाप्राज्ञः सर्वपापप्रमोचनीम्॥२५॥

तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ।
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम्॥२६॥

स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः॥२७॥

पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्॥२८॥

सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् ।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते॥२९॥

ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥३०॥

कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप ।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत्॥३१॥

नागराजस्य राजेन्द्र कपिलस्य महात्मनः ।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्॥३२॥

तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप ।
कपिलानां सहस्रस्य फलं विन्दति मानवः॥३३॥

ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्॥३४॥

गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः ।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्॥३५॥

ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते॥३६॥

रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।
तत्र स्नात्वा नरो राजन्स्वर्गलोके च गच्छति॥३७॥

गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।
स्नात्वाश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति॥३८॥

भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि ।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते॥३९॥

ततः कुब्जाम्रके गच्छेत्तीर्थसेवी नराधिप ।
गोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति॥४०॥

अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप ।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः॥४१॥

अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत्॥४२॥

ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति॥४३॥

यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् ।
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते॥४४॥

दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम् ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥४५॥

सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम्॥४६॥

अथ वेदीं समासाद्य नरः परमदुर्गमाम् ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥४७॥

ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत ।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः॥४८॥

ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः ।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते॥४९॥

यदि तत्र वसेन्मासं शाकाहारो नराधिप ।
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्॥५०॥

गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ।
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत॥५१॥

अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ।
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम्॥५२॥

उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ।
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने॥५३॥

एककालं निराहारो लोकानावसते शुभान् ।
षष्ठकालोपवासेन मासमुष्य महालये॥५४॥

सर्वपापविशुद्दात्मा विन्देद्बहुसुवर्णकम् ।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम्॥५५॥

अथ वेतसिकां गत्वा पितामहनिषेविताम् ।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम्॥५६॥

औशनसीं गतिं शुक्रत्वम् ॥५६॥

अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् ।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः॥५७॥

ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥५८॥

ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् ।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह॥५९॥

नैमिषं मृगयानस्य पापस्यार्धं प्रणश्यति ।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते॥६०॥

तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः ।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैमिषे॥६१॥

कृताभिषेकस्तत्रैव नियतो नियताशनः ।
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत॥६२॥

पुनात्यासप्तमं चैव कुलं भरतसत्तम ।
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः॥६३॥

स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ।
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम॥६४॥

गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा॥६५॥

सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः ।
सारस्वतेषु लोकेषु मोदते नात्र संशयः॥६६॥

ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः ।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते॥६७॥

देवसत्रस्य यज्ञस्य फलं प्राप्नोति कौरव ।
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम्॥६८॥

पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ।
विमलांशोकमासाद्य ब्रह्मचारी समाहितः॥६९॥

तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ।
गोप्रतारं ततो गच्छेत्सरय्वातीर्थमुत्तमम्॥७०॥

यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा॥७१॥

रामस्य च प्रसादेन व्यवसायाच्च भारत ।
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप॥७२॥

व्यवसायात् निश्चयात् ॥७२॥

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ।
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन॥७३॥

अश्वमेधमवाप्नोति पुनाति च कुलं नरः ।
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ॥७४॥

तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ॥७५॥

ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः॥७६॥

कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः॥७७॥

ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् ।
कपिलाह्रदे नरः स्नात्वा राजसूयमवाप्नुयात्॥७८॥

अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह ।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया॥७९॥

प्राणानुत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः ।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम्॥८०॥

गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते ।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्॥८१॥

ततो गयां समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥८२॥

तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते॥८३॥

महानद्यामुपस्पृश्य तपयेत्पितृदेवताः ।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत्॥८४॥

ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम्॥८५॥

ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्॥८६॥

ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् ।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम्॥८७॥

सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम्॥८८॥

कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम् ।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत॥८९॥

तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम ।
यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत॥९०॥

ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्॥९१॥

ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति॥९२॥

उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम् ।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ॥९३॥

तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः ।
तेन ह्युपास्ता भवति संध्या द्वादशवार्षिकी॥९४॥

योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात्॥९५॥

कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः ।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः॥९६॥

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥९७॥

ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्॥९८॥

ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः ।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर॥९९॥

तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा ।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत्॥१००॥

मतङ्गस्याश्रमस्तत्र महर्षेर्भावितात्मनः ।
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम्॥१०१॥

गवामयनयज्ञस्य फलं प्राप्नोति मानवः ।
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात्॥१०२॥

ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम् ।
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ॥१०३॥

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप॥१०४॥

उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते ।
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः॥१०५॥

नित्यकं नैवेद्यं नैत्यकं च तदेव ॥१०५॥

यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया ।
मणिनागं ततो गत्वा गोसहस्रफलं लभेत्॥१०६॥

तैर्थिकं भुञ्जते यस्तु मणिनागस्य भारत ।
दष्टस्याशीविषेणापि न तस्य क्रमते विषम्॥१०७॥

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं प्रियम्॥१०८॥

अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ।
अभिगम्याश्रमं राजन्विन्दते श्रियमात्मनः॥१०९॥

तत्रोदपानं धर्मज्ञ त्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात्॥११०॥

जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात्॥१११॥

ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् ।
वाजपेयमवाप्नोति सोमलोकं च गच्छति॥११२॥

गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् ।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति॥११३॥

कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम् ।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति॥११४॥

ततोधिवङ्गं धर्मज्ञ समाविश्य ततो वनम् ।
गुह्यकेषु महाराज मोदते नात्र संशयः॥११५॥

कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम् ।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति॥११६॥

अथ माहेश्वरीं धारां समासाद्य धराधिप ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥११७॥

दिवौकसां पुष्करिणीं समासाद्य नराधिप ।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति॥११८॥

अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः ।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्॥११९॥

तत्र कोटी तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना॥१२०॥

ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर॥१२१॥

पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च॥१२२॥

सदा सन्निहितो यत्र विष्णुर्वसति भारत ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥१२३॥

आदित्या वसवो रुद्रा जनार्दनमुपासते ।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः॥१२४॥

अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥१२५॥

तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम् ।
समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा॥१२६॥

तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ।
अभिगम्य महादेवं वरदं रुद्रमव्ययम्॥१२७॥

विराजति यथा सोमो मेघैर्मुक्तो नराधिप ।
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः॥१२८॥

जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ।
माहेश्वरपुरं गत्वा अर्चयित्वा वृषध्वजम्॥१२९॥

ईप्सिताँल्लभते कामानुपवासान्न संशयः ।
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्॥१३०॥

अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ।
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम्॥१३१॥

कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम् ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः॥१३२॥

ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥१३३॥

अथ जेष्ठिलमासाद्य तीर्थं परमदुर्लभम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥१३४॥

तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ।
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ॥१३५॥

त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ।
कन्यासंवेद्यमासाद्य नियतो नयिताशनः॥१३६॥

मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ।
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत॥१३७॥

तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ।
ततो निर्वीरमासाद्य त्रिषु लोकेपु विश्रुतम्॥१३८॥

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।
ये तु दानं प्रयच्छन्ति निर्वीरासंगमे नराः॥१३९॥

ते यान्ति नरशार्दूल शक्रलोकमनामयम् ।
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः॥१४०॥

तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ।
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्॥१४१॥

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्॥१४२॥

यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ।
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ॥१४३॥

अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ।
सर्वतीर्थवरे चैव यो वसेत महाह्रदे॥१४४॥

न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ।
कुमारमभिगम्याथ वीराश्रमनिवासिनम्॥१४५॥

अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ।
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्॥१४६॥

तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ।
अभिगम्य महादेवं वरदं विष्णुमव्ययम्॥१४७॥

पितामहसरो गत्वा शैलराजसमीपतः ।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात्॥१४८॥

पितामहस्य सरसः प्रस्रुता लोकपावनी ।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता॥१४९॥

यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति ।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया॥१५०॥

ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः ।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम्॥१५१॥

समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत् ।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत्॥१५२॥

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
हयमेधमवाप्नोति शक्रलोकं च गच्छति॥१५३॥

ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेधवाप्नोति ब्रह्मलोकं च गच्छति॥१५४॥

नन्दिन्यां च समासाद्य कूपं देवनिषेवितम् ।
नरमेधस्य यत्पुण्यं तदाप्नोति नराधिप॥१५५॥

कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः ।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते॥१५६॥

उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः ।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुवि मानवः॥१५७॥

कोकामुखमुपस्पृश्य ब्रह्मचारी यतव्रतः ।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः॥१५८॥

प्राङ्नदीं च समासाद्य कृतात्मा भवति द्विजः ।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति॥१५९॥

ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम् ।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते॥१६०॥

औद्दालकं महाराज तीर्थं मुनिनिषेवितम् ।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते॥१६१॥

धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते॥१६२॥

अथ चम्पां समासाद्य भागीरथ्यां कृतोदकः ।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत्॥१६३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां चतुरशीतितमोऽध्यायः॥८४॥
पञ्चाशीतितमोऽध्यायः

पुलस्त्य उवाच। अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् ।
उपस्पृश्य नरो विद्यां लभते नात्र संशयः॥१॥

अथेति ॥१॥

रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा ।
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्॥२॥

करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः॥३॥

गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे ।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः॥४॥

गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः ।
त्रिरात्रमुषितो राजन्सर्वापापैः प्रमुच्यते॥५॥

ततो वैतरणीं गच्छेत्सर्वपापप्रमोचनीम् ।
विरजं तीर्थमासाद्य विराजति यथा शशी॥६॥

प्रतरेच्च कुलं पुण्यं सर्वपापं व्यपोहति ।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः॥७॥

शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्॥८॥

शोणस्य नर्मदायाश्च प्रभेदे कुरुनन्दन ।
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्॥९॥

ऋषभं तीर्थमासाद्य कोशलायां नराधिप ।
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः॥१०॥

गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ।
कोशलां तु समासाद्य कालतीर्थमुपस्पृशेत्॥११॥

वृषभैकादशफलं लभते नात्र संशयः ।
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः॥१२॥

गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ।
ततो बदरिकातीर्थं स्नात्वा भरतसत्तम॥१३॥

दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ।
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः॥१४॥

दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् ।
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम्॥१५॥

वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते ।
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्॥१६॥

रामतीर्थे नरः स्नात्वा अश्वमेधफलं लभेत् ।
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन॥१७॥

तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत् ।
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्॥१८॥

अश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम् ।
श्रीपर्वते महादेवो देव्या सह महाद्युतिः॥१९॥

न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह ।
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः॥२०॥

अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ।
ऋषभं पर्वतं गत्वा पाण्ड्ये दैवतपूजितम् ।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते॥२१॥

ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्॥२२॥

ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत् ।
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते॥२३॥

अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् ।
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्॥२४॥

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः॥२५॥

सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा ।
सरितः सागराः शैला उपासन्त उमापतिम्॥२६॥

तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति॥२७॥

उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः ।
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्॥२८॥

त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप॥२९॥

निदर्शनमुदाहरणम् ॥२९॥

गायत्रीं पठते यस्तु योनिसंकरजस्तथा ।
गाथा च गाथिका चापि तस्य संपद्यते नृप॥३०॥

तदेवाह गायत्रीमिति । यो योनिसंकरजः स चेत्तत्र गायत्रीं पठति तस्य सम्यक् पठतोऽपि तीर्थमहात्म्यात्सा गायत्री गाथास्वरनियमहीना गद्यवन्मुखान्निःसरति । गाथिका ग्राम्यगीतवत् स्वरवर्णविकृता गीतिकेति पाठेऽपि स एवार्थः ॥३०॥

अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ।
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्॥३१॥

अब्राह्मणस्य तु प्राक् सिद्धापि तत्र न स्फुरतीति भावः ॥३१॥

रूपस्य भागी भवति सुभगश्च प्रजापते ।
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः॥३२॥

मयूरहंससंयुक्तं विमानं लभते नरः ।
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्॥३३॥

गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम् ।
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्॥३४॥

वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ।
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः॥३५॥

गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ।
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः॥३६॥

त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ।
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे॥३७॥

जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः ।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः॥३८॥

अग्निष्टोमफलं विन्द्याद्गमनादेव भारत ।
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत्॥३९॥

ततो वापीं महापुण्यां पयोष्णीं सरितां वराम् ।
पितृदेवार्चनरतो गोसहस्रफलं लभेत्॥४०॥

दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत् ।
गोसहस्रफलं तस्य स्नातमात्रस्य भारत॥४१॥

शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ।
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः॥४२॥

ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् ।
रामतीर्थे नरः स्नात्वा विन्द्याद्बहुसुवर्णकम्॥४३॥

सप्तगोदावरे स्नात्वा नियतो नियताशनः ।
महत्पुण्यमवाप्नोति देवलोकं च गच्छति॥४४॥

ततो देवपथं गत्वा नियतो नियताशनः ।
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः॥४५॥

तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः ।
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा॥४६॥

तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः ।
ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम्॥४७॥

ओंकारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम्॥४८॥

ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।
हरिर्नारायणस्तत्र महादेवस्तथैव च॥४९॥

पितामहश्च भगवान्देवैः सह महाद्युतिः ।
भृगुं नियोजयामास याजनार्थे महाद्युतिम्॥५०॥

ततः स चक्रे भगवानृषीणां विधिवत्तदा ।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा॥५१॥

आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि ।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम्॥५२॥

तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ।
पापं प्रणश्यत्यखिलं स्त्रियो वा पुरुषस्य वा॥५३॥

तत्र मासं वसेद्धीरो नियतो नियताशनः ।
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत्॥५४॥

मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् ।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति॥५५॥

अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् ।
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्॥५६॥

यो स्नातः स्नापयेत्तत्र गिरौ कालञ्जरे नृप ।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः॥५७॥

ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ।
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम्॥५८॥

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्॥५९॥

ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम् ।
यत्र नित्यं महासेनो गुहः सन्निहितो नृप॥६०॥

तत्र गत्वा नृपश्रेष्ठ गमनादेव सिद्ध्यति ।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥६१॥

प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः ।
अभिगम्य महादेवं विराजति यथा शशी॥६२॥

तत्र कूपे महाराज विश्रुता भरतर्षभ ।
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर॥६३॥

तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः ।
नियतात्मा नरः पूतो गच्छेत परमां गतिम्॥६४॥

ततो गच्छेत राजेन्द्र शृङ्गवेरपुरं महत् ।
यत्र तीर्णो महाराज रामो दाशरथिः पुरा॥६५॥

तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते ।
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः॥६६॥

विधूतपाप्मा भवति वाजपेयं च विन्दति ।
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः॥६७॥

अभिगम्य महादेवमभिवाद्य च भारत ।
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्॥६८॥

तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते ।
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्॥६९॥

यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः॥७०॥

सनत्कुमारप्रमुखास्तथैव परमर्षयः ।
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोमलाः॥७१॥

तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा ।
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च॥७२॥

चक्रचराः सूर्यादयः ॥७२॥

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी॥७३॥

वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता॥७४॥

यमुना गङ्गया सार्धं संगता लोकपावनी ।
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्॥७५॥

गङ्गायमुनयोरिति स्त्रीरूपायाः पृथिव्याः मेरुपृष्ठशीर्षायाः । हरिद्वारादारभ्य जघनं नाभेरधोभागः ॥७५॥

प्रयागं जघनस्थानमुपस्थमृषयो विदुः ।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा॥७६॥

जघनस्य स्थानमवस्थानं समाप्तिरन्त इति यावत् तदेवोपस्थम् । तथा च पृथिव्या अपत्यभूतानि तीर्थानि तत्फलभूताः स्वर्गाश्च तानि सर्वाणि प्रयागादुत्पन्नानीति प्रयागस्य तीर्थराजत्वमुक्तम् ॥७६॥

तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः ।
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर॥७७॥

प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः ।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः॥७८॥

ततः पुण्यतमं नाम त्रिषु लोकेषु भारत ।
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो॥७९॥

गमनात्तस्य तीर्थस्य नामसंकीर्तनादपि ।
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते॥८०॥

तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते ।
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः॥८१॥

एषा यजनभूमिर्हि देवानामभिसंस्कृता ।
तत्र दत्तं सूक्ष्ममपि महद्भवति भारत॥८२॥

न वेदवचनात्तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति॥८३॥

न वेदवचनादिति । लोकवेदविरुद्धस्य हठमरणस्यापवादोऽयम् अहिंसाविधेरिव पश्वालम्भविधिरिति प्राञ्चः । वस्तुतस्तु वाराणसीमरणवद्यादृच्छिकमरणविषय एवायं ग्रन्थो न हठमरणप्रतिपादकः ‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति । ये वै तन्वं विसृजन्ति धीरास्तेजनासो अमृतत्वं भजन्ते । ब्रह्मज्ञानेन मुच्यन्ते प्रयागमरणेन च‘ इत्यादि श्रुतयः स्मृतयश्च तादृशा एव। हठमरणे ’जले वापि स्थले वापि शस्त्रेणोद्बध्य वा पुनः। नरकं ते प्रयान्त्याशु आत्मानं घातयन्ति ये‘ इति दोषस्मरणात् । न चास्यैवापवादः प्रयागमरणविधिरिति वाच्यम्। तस्य हठमरणपरत्वासिद्धेः। सिद्धौ वा अचिकित्स्यरोगादिदोषवतां भृगुपतनादिनापि मरणे प्राप्तेऽपि प्रयागमरणनियमविधिरयं भविष्यति न च काम्योऽयं मरणविधिर्नित्यस्य मरणनिषेधविधेर्बाधकः । काम्यत्वाच्च नायमुल्लङ्घने प्रत्यवायावह इति वाच्यम् । उक्तेऽर्थे बाधकाभावेऽपि वाक्यस्य हठमरणपरत्वमपूर्वविध्यर्थत्वं च कल्पयतो गौरवापत्तेः । अभ्युपगमे वा ब्राह्मणव्यतिरिक्तविषय एवायं विधिः । भृग्वादिपतनेन मरणमन्यत्र ब्राह्मणादिति स्मृतेः। युक्तं तु शुद्धशबलब्रह्मज्ञानयोरिव काशीप्रयागमरणयोः सद्योमुक्तिक्रममुक्तिपरत्वम्। तथा हि तीर्थमाहात्म्योपसंहारे ‘यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । सिद्धिक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम्’ इति गङ्गायास्तदाश्रितस्य सिद्धिक्षेत्रस्य च विज्ञेयत्वोक्त्या तयोरेव महत्तरत्वं दर्शितं तत्र यमुनया संगताया एव गङ्गाया अत्र ग्रहणं प्रयागप्रशंसाधिकारात् । प्रतिष्ठाने प्रतिष्ठिता तीर्थयात्रेत्युपसंहाराच्च । प्रतिष्ठाने प्रयागे सिद्धिक्षेत्रपदेन वाराणस्येव सिद्धिशब्दस्य निरुपपदस्य मुक्तिवाचित्वात् काश्याश्च मुक्तिक्षेत्रत्वप्रसिद्धेः । तदेवमध्यायचतुष्टयेऽपि भंग्यन्तरेण साक्षाद्वा काशीकीर्तनादुक्तविधोपसंहाराच्च पुष्करगङ्गाप्रयागादीनां सेवनं काशीप्राप्तिकरमिति । ‘अन्यानि तु पवित्राणि काशीप्राप्तिकराणि हि । काशीं प्राप्य विमुच्यन्ते नान्यथा कल्पकोटिभिः’ इत्यादिपूर्वोदाहृतपुराणान्तरसंवादेन सिद्धम् ॥८३॥

दश तीर्तसहस्राणि षष्टिः कोट्यस्तथापराः ।
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन॥८४॥

चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् ।
स्नात एव तदाप्नोति गङ्गायमुनसंगमे॥८५॥

चतुर्विद्ये चतस्रो विद्याः वेदत्रयम् आत्मविद्या चेति विद्यन्तेऽस्मिन्स चतुर्विद्यस्तस्मिन् ॥८५॥

तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।
तत्राभिषेकं यः कुर्यात्सोश्वमेधफलं लभेत्॥८६॥

तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन॥८७॥

कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता ।
विशेषो वै कनखले प्रयागे परमं महत्॥८८॥

यद्यकार्यशतं कृत्वा कृतं गङ्गावसेचनम् ।
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम्॥८९॥

सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ।
द्वापरेपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता॥९०॥

पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ।
मलये त्वग्निमारोहेद्भृगुतुङ्गे त्वनाशनम्॥९१॥

पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च ।
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा॥९२॥

पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति ।
अवगाढा च पीता च पुनात्यासप्तमं कुलम्॥९३॥

यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् ।
तावत्स पुरुषो राजन्स्वर्गलोके महीपते॥९४॥

यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक्॥९५॥

न गङ्गासदृशं तीर्थं न देवः केशवात्परः ।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः॥९६॥

यत्र गङ्गा महाराज स देशस्तत्तपोकवनम् ।
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम्॥९७॥

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च॥९८॥

इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमनुत्तमम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम्॥९९॥

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अधीत्य द्विजमध्ये च निर्मलः स्वर्गमाप्नुयात्॥१००॥

श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् ।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम्॥१०१॥

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
महीं विजयते राजा वैश्यो धनमवाप्नुयात्॥१०२॥

शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन् ।
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः॥१०३॥

जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ।
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च॥१०४॥

अगमानि अगम्यानि ॥१०४॥

मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ।
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥१०५॥

समीक्षया दर्शनेच्छया ॥१०५॥

ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः ।
एवं त्वमपि कौरव्य विधिनानेन सुव्रत॥१०६॥

व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन् ।
भावितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्॥१०७॥

भावितैः शुद्धैः करणैः इन्द्रियैः ॥१०७॥

प्राप्यन्ते तानि तीर्थानि सद्भिः शास्त्रानुदर्शिभिः ।
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः॥१०८॥

अकृतात्मा अवशीकृतचित्तः ॥१०८॥

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ।
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना॥१०९॥

पिता पितामहश्चैव सर्वे च प्रपितामहाः ।
पितामहपुरोगाश्च देवाः सर्षिगणा नृप॥११०॥

तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ।
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम ।
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुवि शाश्वतीम्॥१११॥

नारद उवाच ।
एवमुक्त्वाभ्यनुज्ञाय पुलस्त्यो भगवानृषिः ।
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत॥११२॥

भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् ।
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे॥११३॥

एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता ।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी॥११४॥

प्रतिष्ठाने प्रयागे प्रतिष्ठिता समाप्ता ॥११४॥

अनेन विधिना यस्तु पृथिवीं संचरिष्यति ।
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति॥११५॥

अश्वमेधेति अग्र्यम् । फलं क्रममुक्तिस्थानम् ‘उषा वा अश्वस्य शिरः’ इत्यादिश्रुतेः सोपानस्याश्वमेधस्य तत्प्रापकत्वावगमात् । सामान्यफलं तु ऐन्द्रपदप्राप्तिरिति प्रसिद्धम् ॥११५॥

ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।
भीष्मः कुरूणां प्रवरो यथापूर्वमवाप्तवान्॥११६॥

अष्टगुणम् अणिमाद्यष्टगुणयुक्तं धर्मं धर्मफलम् ॥११६॥

नेता च त्वमृषीन्यस्मात्तेन तेष्टगुणं फलम् ।
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत ।
न गतानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन॥११७॥

हेतुमाह नेता चेति । गणफलेन तुल्यफलत्वान्नेतुरनन्तं फलमित्यर्थः ॥११७॥

इदं देवर्षिचरितं सर्वतीर्थाभिसंवृतम् ।
यः पठेत्कुल्यमुत्थाय सर्वपापैः प्रमुच्यते॥११८॥

ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः ।
आत्रेयः कुण्डजठरो विश्वामित्रोथ गौतमः॥११९॥

असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ।
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा॥१२०॥

शौनकः सह पुत्रेण व्यासश्च तपतां वरः ।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः॥१२१॥

एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः ।
एभिः सह महाराज तीर्थान्येतान्यनुव्रज॥१२२॥

एष ते लोमशो नाम महर्षिरमितद्युतिः ।
समेष्यति महाराज तेन सार्धमनुव्रज॥१२३॥

मयापि सह धर्मज्ञ तीर्थान्येतान्यनुक्रमात् ।
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः॥१२४॥

महाभिषः शान्तनुरूपेणावतीर्णः ॥१२४॥

यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।
तथा त्वं राजशार्दूल स्वेन धर्मेण शोभसे॥१२५॥

यथा भगीरथो राजा यथा रामश्च विश्रुतः ।
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव॥१२६॥

रश्मिवान् सूर्यः ॥१२६॥

यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः ।
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः॥१२७॥

यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा ।
त्रैलोक्यं पालयामास देवराड्विगतज्वरः॥१२८॥

तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि ।
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन॥१२९॥

ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा॥१३०॥

वैशंपायन उवाच ।
एवमाश्वास्य राजानं नारदो भगवानृषिः ।
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत॥१३१॥

युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् ।
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत्॥१३२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां नारदवाक्ये पञ्चाशीतितमोऽध्यायः॥८५॥
षडशीतितमोऽध्यायः

वैशंपायन उवाच ।
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः॥१॥

भ्रातॄणामिति ॥१॥

मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः॥२॥

अमितात्मा अमितधैर्यः। ‘आत्मा बुद्धौ धृतौ देहे’ इति कोशात् ॥२॥

स हि वीरोनुरक्तश्च समर्थश्च तपोधनः ।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः॥३॥

अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ ।
अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान्॥४॥

त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ।
नारदोऽपि तथा वेद योऽप्यशंसत्सदा मम॥५॥

त्रियुगौ धर्मस्य भार्यायां मूर्तिसंज्ञायां कृतयुगेऽवतीर्णौ नरनारायणौ । तावेव द्वापरान्तेऽपि केशवार्जुनाविति पुराणपुरुषावेतौ नास्मदादिवन्मानुषाविति भावः । पुण्डरीकाक्षौ साक्षाद्विष्णू । यद्वा त्रीणि युगानि युगलानि षडैश्वर्याणि भगसंज्ञानि वा षडङ्गानि वा ययोस्तौ त्रियुगौ तानि च पुराणान्तरे स्मर्यन्ते । ‘ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः । वैराग्यस्य च धर्मस्य षण्णां भग इतीङ्गना’ | इङ्गना संज्ञा । ‘सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विभुज्ञाः षडाहुरङ्गानि महेश्वरस्य’ इति । अन्ये तु ज्ञानैश्वर्ये वीर्यबले तेजःपराक्रमौ चेति त्रीणि युगलानीत्याहुः तत्र ज्ञानम् अनपरोधं त्रैकालिकार्थस्फुरणम् । ऐश्वर्यम् इच्छानभिघातः । बलमुपक्रान्तनिर्वाहः । वीर्यं काममन्त्रशक्तिः । तेजः पराभिघातः । पराक्रमो यथाकालमुत्थानमिति तद्व्याचक्षते च तन्निर्मूलं पुनरुक्तिदोषादयुक्तं च ॥५॥

तथाहमपि जानामि नरनारायणावृषी ।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोर्जुनः॥६॥

इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम् ।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः॥७॥

अनवरः अन्यूनः ॥७॥

भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।
धृतराष्ट्रस्य पुत्रेण वृता युधि महारथाः॥८॥

सर्वे वेदविदः शूराः सर्वास्त्रविदुषस्तथा ।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ।
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः॥९॥

अस्त्रविदुषः अस्त्रविद्वांसः ॥९॥

योस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः ।
रजोधूमोस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः॥१०॥

रज इति । रजः कार्यं क्रोधः स एव धूमो यस्य । धार्तराष्ट्रैरनिलैरिव उद्धत उद्दीपितः ॥१०॥

निसृष्ट इव कालेन युगान्ते ज्वलनो महान् ।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः॥११॥

कक्षं तृणवनम् ॥११॥

तं स कृष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान् ।
श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोल्बणः॥१२॥

उल्बणः दुःसहः ॥१२॥

संरब्धः शरधाराभिः सुदीप्तं कर्णपावकम् ।
अर्जुनोदीरितो मेघः शमयिष्यति संयुगे॥१३॥

अर्जुनोदीरितोऽर्जुननामा ॥१३॥

स साक्षादेव सर्वाणि शक्रात्परपुरंजयः ।
दिव्यान्यस्त्राणि बीभत्सुस्ततश्च प्रतिपत्स्यते॥१४॥

अलं स तेषां सर्वेषामिति मे धीयते मतिः ।
नास्ति त्वनिकृतार्थानां रणेऽरीणां प्रतिक्रिया॥१५॥

अलं जेतुं पर्याप्तः तुशब्दः पक्षान्तरे प्रतिक्रिया जयोपायः अर्जुनं विनाऽरयो दुर्जया इत्यर्थः॥१५॥

ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम् ।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति॥१६॥

द्रष्टारः द्रक्ष्यामः ॥१६॥

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर ।
अवधानं न गच्छामः काम्यके सह कृष्णया॥१७॥

अवधानं स्वास्थ्यम् ॥१७॥

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः॥१८॥

यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम् ।
प्रतीक्षामोऽर्जुनं वीरं वृष्टिकामा इवाम्बुदम्॥१९॥

विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान् ।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान्॥२०॥

आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम् ।
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति॥२१॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्यतीर्थयात्रायां षडशीतितमोऽध्यायः॥८६॥
सप्ताशीतितमोऽध्यायः

वैशंपायन उवाच ।
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोब्रवीत्॥१॥

तानिति ॥१॥

ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोनघ॥२॥

याच्छ्रुत्वा गदतो राजन्विशोको भवितासि ह ।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर॥३॥

श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव ।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम॥४॥

पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् ।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति॥५॥

तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत ।
यत्र तीर्थानि देवानां पुण्यानि च पृथक् पृथक्॥६॥

यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः॥७॥

शामित्रं शमितुः कर्म यज्ञे पशुमारणं विवस्वतः पुत्रस्य यमस्येति शेषः ॥७॥

तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः॥८॥

तीर्थान्तरमाह तस्यामिति । तस्यां प्राच्यां दिशि राजर्षिरपि गयसंज्ञः ॥८॥

यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्॥९॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
उत्तारयति संतत्या दशपूर्वान्दशावरान्॥१०॥

महानदी च तत्रैव तथा गयशिरो नृप ।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः॥११॥

यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ।
सा च पुण्यजला तत्र फल्गु नामा महानदी॥१२॥

बहुमूलफला चापि कौशिकी भरतर्षभ ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः॥१३॥

गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः ।
अयजत्तत्र बहुभिः क्रतुभिर्भूरिदक्षिणैः॥१४॥

पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।
विश्वामित्रोयजद्यत्र शक्रेण सह कौशिकः॥१५॥

यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ।
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम्॥१६॥

कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।
ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत्॥१७॥

पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम्॥१८॥

पवित्रमिति । पविःवज्रं तत्तुल्यं जन्ममरणादिदुःखं तस्मात् त्रायत इति पवित्रम् अत एव ऋषिभिर्जुष्टं सेवितं पुण्यं धर्मवृद्धिहेतुः पावनं पापनाशनम् ॥१८॥

यत्रायजत भूतात्मा पूर्वमेव पितामहः ।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम॥१९॥

अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप ।
तत्तथा तापसारण्यं तापसैरुपशोभितम्॥२०॥

हिरण्यबिन्दुः कथितो गिरौ कालंजरे महान् ।
आगस्त्यपर्वतो रम्यः पुण्यो गिरिवरः शिवः॥२१॥

महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ।
अयजत्तत्र कौन्तेय पूर्वमेव पितामहः॥२३॥

यत्र भागीरथीति । सरसि मणिकर्णिकाख्ये प्रविष्टा आसीत् । ब्रह्मशाला ब्रह्मोपलब्धिसदृशं वाराणस्याख्यम् ‘अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्’ इति श्रुतिप्रसिद्धम्॥२३॥

यत्र भागीरथी पुण्या सरस्यासीद्युधिष्ठिर ।
यत्र सा ब्रह्मशालेति पुण्या ख्याता विशांपते॥२३॥

यत्र भागीरथीति । सरसि मणिकर्णिकाख्ये प्रविष्टा आसीत् । ब्रह्मशाला ब्रह्मोपलब्धिसदृशं वाराणस्याख्यम् ‘अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्’ इति श्रुतिप्रसिद्धम्॥२३॥

धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ।
पवित्रो मङ्गलीयश्च ख्यातो लोके महात्मनः॥२४॥

आकीर्णा व्याप्ता मङ्गलीयः मङ्गलावहः ॥२४॥

केदारश्च मतङ्गस्य महानाश्रम उत्तमः ।
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः॥२५॥

केदारोऽपि काश्यामेव ॥२५॥

नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ।
यत्र देववनं पुण्यं तापसैरुपशोभितम्॥२६॥

नैषधो नलः तत्रैव लोलार्कदक्षिणे नलग्रामस्य दर्शनात् । तीर्थान्तरमाह यत्र देववनमिति॥२६॥

बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ।
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च॥२७॥

प्राच्यां दिशि महाराज कीर्तितानि मया तव ।
तिसृष्वन्यानि पुण्यानि दिक्षु तीर्थानि मे शृणु ।
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्यतीर्थयात्रायां सप्ताशीतितमोऽध्यायः॥८७॥
अष्टाशीतितमोऽध्यायः

धौम्य उवाच ।
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत ।
विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै॥१॥

दक्षिणस्यामिति ॥१॥

यस्यामाख्यायते पुण्या दिशि गोदावरी नदी ।
बह्वारामा बहुजला तापसाचरिता शिवा॥२॥

वेणा भीमरथी चैव नद्यौ पापभयापहे ।
मृगद्विजसमाकीर्णे तापसालयभूषिते॥३॥

राजर्षेस्तस्य च सरिन्नृगस्य भरतर्षभ ।
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता॥४॥

अपि चात्र महायोगी मार्कण्डेयो महायशाः ।
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः॥५॥

अनुवंश्यां वंशानुरूपां न तु मृगमात्रानुरूपाम् ॥५॥

नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः॥६॥

पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे ।
उद्धृतं भूतलस्थं वा वायुना समुदीरितम् ।
पयोष्ण्या हरते तोयं पापमामरणान्तिकम्॥७॥

स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः ।
स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत्॥८॥

एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः ।
पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम॥९॥

माठरस्य वनं पुण्यं बहुमूलफलं शिवम् ।
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ॥१०॥

प्रवेण्युत्तरमार्गे तु पुण्ये कण्वाश्रमे तथा ।
तापसानामरण्यानि कीर्तितानि यथाश्रुति॥११॥

वेदी शूर्पारके तात जमदग्नेर्महात्मनः ।
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत॥१२॥

अशोकतीर्थं तत्रैव कौन्तेय बहुलाश्रमम् ।
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर॥१३॥

कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ ।
ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु॥१४॥

कुमार्यः कुमारीव आचरन्तः बाल्याद्रागादिहीना अपि परमेव पतिं प्रार्थयन्तो भगवद्भक्ता इत्यर्थः । अत एव श्रीभागवते द्रविडेष्वेव भगवद्भक्तभूयस्त्वं स्मर्यते । पाण्ड्येषु द्रविडविशेषेषु ॥१४॥

यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे ।
गोकर्ण इति विख्यातस्त्रिषु लोकेषु भारत॥१५॥

महत् मोक्षफलम् ॥१५॥

शीततोयो बहुजलः पुण्यस्तात शिवः शुभः ।
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः॥१६॥

तत्र वृक्षतृणाद्यैश्च संपन्नः फलमूलवान् ।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसमो गिरिः॥१७॥

वैढूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः ।
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः॥१८॥

सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च ।
आश्रमान्सरितश्चैव सरांसि च नराधिप॥१९॥

चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत ।
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर॥२०॥

तत्र पिण्डारकं नाम तापसाचरितं शिवम् ।
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान्॥२१॥

तत्र देवर्षिवीरेण नारदेनानुकीर्तितः ।
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर॥२२॥

पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते ।
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते॥२३॥

तप्ताङ्गः कृततपस्कः ॥२३॥

पुण्या द्वारवती तत्र यत्रासौ मधुसूदनः ।
साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः॥२४॥

सनातन धर्मः । ‘इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्’ इति याज्ञवल्क्योक्तः । तत्रात्मदर्शनाख्यस्य धर्मस्यात्मनोऽनन्यत्वात्स हि धर्म इति सामानाधिकरण्यम् ॥२४॥

ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्॥२५॥

एतदेव स्पष्टयति ये चेत्यादिना ॥२५॥

पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ।
पुण्यानामपि पुण्योऽसौ मङ्गालानां च मङ्गलम् ।
त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः॥२६॥

अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः ।
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः॥२७॥

अव्ययात्मा अक्षरस्वरूपी व्ययात्मा क्षरस्वरूपी क्षेत्रज्ञः जीवः स एव परमेश्वरः । ‘क्षेत्रज्ञं चापि मां विद्धि’ इति भगद्ववचनात् । क्षेत्रं जीवः ईशश्च त्रयमप्यव्ययाख्यं ब्रह्मैवेत्यर्थः ।‘ भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म वैतत्’ इति श्रुतेः ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्यतीर्थयात्रायाम् अष्टाशीतितमोऽष्यायः॥८८॥
ऊननवतितितमोऽध्यायः

धौम्य उवाच ।
आनर्तेषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च॥१॥

आनर्तेषु पश्चिमाश्रितेषु । अवन्तिष्विति पाठे अवन्तिषु प्रतीच्यां चेति वै शब्दश्चार्थः ॥१॥

प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत॥२॥

प्रत्यक्स्रोता पश्चिमवाहिनी ॥२॥

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः॥३॥

नर्मदायां कुरुश्रेष्ठ सह सिद्धर्षिचारणैः ।
स्नातुमायान्ति पुण्यौघैः सदा वारिषु भारत॥४॥

निकेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः ।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः॥५॥

वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥६॥

तस्य शैलस्य शिखरे सरः पुण्यं महीपते ।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम्॥७॥

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते॥८॥

बह्वाश्चर्यं वेदध्वनिश्रवणादि ॥८॥

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।
विश्वामित्रनदी राजन्पुण्या परपुरंजय॥९॥

यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः ।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्॥१०॥

तत्र पुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः ।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः॥११॥

आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर ।
च्यवनस्याश्रमश्चैव विख्यातस्तत्र पाण्डव॥१२॥

तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ।
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्॥१३॥

आश्रमः शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ।
ततः पुण्यतमा राजन्सततं तापसैर्युता॥१४॥

शाम्यतां शमवताम् ॥१४॥

केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप ।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्॥१५॥

पितामहसरः पुण्यं पुष्करं नाम नामतः ।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः॥१६॥

वैखानसानां हैरण्यगर्भाणां कर्ममार्गं त्यक्त्वा ध्यानपराणामित्यर्थः ॥१६॥

अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर॥१७॥

संश्रयार्थाय वासार्थम् ॥१७॥

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।
विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते॥१८॥

अभिकामस्य गन्तुमिच्छोः ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्ययात्रायाम् ऊननवतितितमोऽध्यायः॥८९॥
नवतितमोऽध्यायः

धौम्य उवाच ।
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै ।
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च॥१॥

उदीच्यामिति ॥१॥

शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो ।
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम्॥२॥

मन्त्रयतः कथयतः कथाप्रतिग्रहः कथाया मनसि धारणम् ॥२॥

सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी ।
समुद्रगा महावेगा यमुना यत्र पाण्डव॥३॥

यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम् ।
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथैर्द्विजाः॥४॥

सारस्वतैः सरस्वत्यां प्राप्तैः ॥४॥

पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत॥५॥

सहदेवः सृंजयपुत्रः शम्याक्षेपेण बलवता क्षिप्ता शम्या लगुडविशेषो यावद्दूरं पतेत्तावान् यज्ञमण्डपो यस्मिन्यज्ञे स शम्याक्षेपस्तेन ॥५॥

एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर ।
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः॥६॥

अग्नयः सहदेवेन ये चिता यमुनामनु ।
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः॥७॥

तत्रैव भरतो राजा चक्रवर्ती महायशाः ।
विंशतिः सप्त चाष्टौ च हयमेधानुपाहरत्॥८॥

विंशतिः विंशतिवारमावर्तिताः सप्त अष्टौ चेति अष्टाचत्वारिंशदधिकं शतम् । त्रयस्त्रिंशच्छतं राजेति तु श्रुतिः । विंशतिमिति पाठेत्यन्तहीनसंख्यत्वात् पञ्चत्रिंशत् ॥८॥

कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा ।
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः॥९॥

सरस्वती नदी सद्भिः सततं पार्थ पूजिता ।
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा॥१०॥

दृषद्वती महापुण्या यत्र ख्याता युधिष्ठिर ।
न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्यो द्विपदां वर॥११॥

दाल्भ्यघोषश्च दाल्भ्याश्च धरणीस्थो महात्मनः ।
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः॥१२॥

आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ।
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप॥१३॥

एता कृष्णमृगी तद्वर्णौ कृष्णौ नरनारायणावित्यर्थः । वस्तुतस्त्ववर्णौ वर्णा लोहितशुक्लकृष्णाः रजःसत्त्वतमांसि तद्रहितौ ॥१३॥

वेदज्ञौ वेदविद्वांसौ वेदविद्याविदावुभौ ।
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम॥१४॥

समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा ।
विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः॥१५॥

ऋषिर्महान्महाभागो जमदग्निर्महायशाः ।
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः॥१६॥

यत्र सर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम् ।
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे॥१७॥

अपि चात्र महाराज स्वयं विश्वावसुर्जगौ ।
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः॥१८॥

यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः ।
आगम्य सरितो विप्रान्मधुना समतर्पयन्॥१९॥

गन्धर्वयक्षरक्षोभिरप्सरोभिश्च सेवितम् ।
किरातकिन्नरावासं शैलं शिखरिणां वरम्॥२०॥

बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर ।
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्॥२१॥

सनत्कुमारः कौरव्य पुण्यं कनखलं तथा ।
पर्वतश्च पुरुर्नाम यत्र यातः पुरूरवाः॥२२॥

भृगुर्यत्र तपस्तेपे महर्षिगणसेविते ।
राजन्स आश्रमः ख्यातो भृगुतुङ्गो महागिरिः॥२३॥

यः स भूतं भविष्यच्च भवच्च भरतर्षभ ।
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः॥२४॥

तस्यातियशसः पुण्यां विशालां बदरीमनु ।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः॥२५॥

विशालां नामतः बवदरीमनु बदरीसमीपे ॥२५॥

उष्णतोयवहा गङ्गा शीततोयवहा पुरा ।
सुवर्णसिकता राजन्विशालां बदरीमनु॥२६॥

ऋषयो यत्र देवाश्च महाभागा महौजसः ।
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम्॥२७॥

यत्र नाराजणो देवः परमात्मा सनातनः ।
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च॥२८॥

तत्पुण्यं परमं ब्रह्म तत्तीर्थं तत्तपोवनम् ।
तत्परं परमं देवं भूतानां परमेश्वरम्॥२९॥

शाश्वतं परमं चैव धातारं परमं पदम् ।
यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः॥३०॥

तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः॥३१॥

पुण्यानामपि तत्पुण्यमत्र ते संशयोऽस्तु मा ।
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते॥३२॥

कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ।
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥३३॥

ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः ।
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः ।
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि॥३४॥

विहरिष्यसि परिहरिष्यसि ॥३४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्यतीर्थयात्रायां नवतितमोऽध्यायः॥९०॥
एकनवतितमोऽध्यायः

वैशंपायन उवाच ।
एवं संभाषमाणे तु धौम्ये कौरवनन्दन ।
लोमशः स महातेजा ऋषिस्तत्राजगाम ह॥१॥

एवमिति ॥१॥

तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः॥२॥

समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः ।
पप्रच्छागमने हेतुमटने च प्रयोजनम्॥३॥

स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान्॥४॥

संचरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया ।
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम्॥५॥

तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान्॥६॥

आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ।
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति॥७॥

सोहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ।
वचनात्पुरुहूतस्य पार्थस् च महात्मनः॥८॥

आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ।
ऋषिभिः सहितो राजन्कृष्णया चैव तच्छृणु॥९॥

यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ ।
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो॥१०॥

यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत् ।
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना॥११॥

तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ।
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर॥१२॥

समन्त्रं प्रयोगादौ मन्त्रसहितम् । संहारस्त्यक्तस्याकर्षणम् । प्रायश्चित्तम् अस्त्राग्निना निरपराधानां दाहे यो दोषस्तस्य शोधनम् । मङ्गलं दग्धानामेवारामादीनां पुनर्विकसनम् । वज्रं वज्रवदप्रतीकार्यं रौद्रमेव ॥१२॥

यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः॥१३॥

विश्वावसोऽस्तु तनयाद्गीतं नृत्यं च साम च ।
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि॥१४॥

गीतं लौकिकं गानं साम ऋक्षु गानम् ॥१४॥

एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् ।
सुखं वसति बीभत्सुरनुजस्यानुजस्तव॥१५॥

अनुजस्य भीमस्यानुजः॥१५॥

यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् ।
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे॥१६॥

भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः ।
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम॥१७॥

आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः ।
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः॥१८॥

सुरकार्यं निवातकवचादीनां वधः । दिवौकसैरिति बहुलं छन्दसीत्यैस् ॥१८॥

तपसापि त्वमात्मानं योजय भ्रातृभिः सह ।
तपसो हि परं नास्ति तपसा विन्दते महत्॥१९॥

अहं च कर्णं जानामि यथावद्भरतर्षभ ।
सत्यसन्धं महोत्साहं महावीर्यं महाबलम्॥२०॥

सत्यसन्धं सत्यप्रतिज्ञम् ॥२०॥

महाहवेष्वप्रतिमं महायुद्धविशारदम् ।
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम्॥२१॥

वरवर्णिनम् अतिसुन्दरम् ॥२१॥

महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् ।
तथार्जुनमतिस्कन्धं सहजोल्वणपौरुषम्॥२२॥

महेश्वरसुतप्रख्यं स्कन्दतुल्यम् अतिस्कन्धम् उन्नतांसम् । ज्ञानगतिस्कन्धमिति पाठे योगिश्रेष्ठम् ॥२२॥

न स पार्थस्य संग्रामे कलामर्हति षोडशीम् ।
यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम॥२३॥

तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ।
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम्॥२४॥

अपहरिष्यामि कवचकुण्डलापहरणे इन्द्रेण कृते सति तदपि इन्द्रस्यान्तः प्रविश्य सम्पादयिष्यामि आर्षेण अभेददर्शनेन अहं मनुरभवमित्यादिवदहमेवेन्द्ररूपी करिष्यामीति ॥२४॥

यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत ।
ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा॥२५॥

तत् श्रद्धेयं न त्वन्यथा गृहीतव्यमित्यर्थः ॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशसंवादे एकनवतितमोऽध्यायः॥९१॥
द्विनवतितमोऽध्यायः

लोमश उवाच ।
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर ।
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया॥१॥

धनञ्जयेनेति । योजयेः योजय धर्म्यया धर्मादनपेतया ॥१॥

त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन ।
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम्॥२॥

स भवान्परमं वेद पावनं पुरुषं प्रति ।
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान्॥३॥

पुरुषं प्रति पुरुषस्येत्यर्थः ॥३॥

यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः ।
तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत्॥४॥

भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः ।
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च॥५॥

दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् ।
तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम॥६॥

यातुधाना हि बहवो राक्षसाः पर्वतोपमाः ।
त्वयाभिगुप्तं कौन्तेयं न विवर्तेयुरन्तिकम्॥७॥

सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च ।
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह॥८॥

द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन ।
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह॥९॥

द्विः द्विवारं तृतीयं तृतीयवारम् ॥९॥

इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर ।
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा॥१०॥

नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत् ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः॥११॥

त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः ।
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि॥१२॥

सत्यसङ्गरः सत्ययज्ञः । यान्येव सङ्ग्रामनामानि तानि यज्ञनामानीति यास्कवचनात् ॥१२॥

यथा भगीरथो राजा राजानश्च गयादयः ।
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव॥१३॥

युधिष्ठिर उवाच ।
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् ।
सरेद्धि देवराजोऽयं को नामाभ्यधिकस्ततः॥१४॥

भवता संगमो यस्य भ्राता चैव धनंजयः ।
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः॥१५॥

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति ।
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे॥१६॥

तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने ।
तदैव गन्तास्मि तीर्थान्नेष मे निश्चयः परः॥१७॥

वैशंपायन उवाच ।
गमने कृतबुद्धिं तु पाण्डवं लोमशोऽब्रवीत् ।
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि॥१८॥

लघुः अल्पपरिवारः ॥१८॥

युधिष्ठिर उवाच ।
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ।
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः॥१९॥

ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः ।
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः॥२०॥

विकल्पकाः मृष्टामृष्टविभाजकाः ॥२०॥

तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः ।
मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः॥२१॥

आजीवैः भृत्यादिभिः वृत्तिभिर्जीवनहेतुभिरन्नादिभिः ॥२१॥

ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः ।
धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै॥२२॥

स दास्यति यथाकालमुचिता यस्य या भृतिः ।
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः॥२३॥

अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति॥२४॥

पाञ्चाल्यो द्रुपदः वः युष्मभ्यम् ॥२४॥

वैशंपायन उवाच ।
ततो भूयिष्ठशः पौरा गुरुभारप्रपीडिताः ।
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति॥२५॥

तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः ।
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्॥२६॥

ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह ।
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां द्विनवतितमोऽध्यायः॥९२॥
त्रिनवतितमोऽध्यायः

वैशंपायन उवाच ।
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।
अभिगम्य तदा राजन्निदं वचनमब्रुवन्॥१॥

तत इति ॥१॥

राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।
ऋषिणा चैव सहितो लोमशेन महात्मना॥२॥

अस्मानपि महाराज नेतुमर्हसि पाण्डव ।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव॥३॥

श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च ।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर॥४॥

दुर्गाणि कण्टकाद्याक्रान्तत्वात् विषमाणि हिंस्रव्याघ्राद्यावृतत्वात् ॥४॥

भवतो भ्रातरः शूरा धनुर्धरवराः सदा ।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत॥५॥

भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् ।
तीर्थानां पृथिवीपाल वनानां च विशांपते॥६॥

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः ।
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप॥७॥

भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।
अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह॥८॥

भरतस्य च वीरस्य सार्वभौमस्य पार्तिव ।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः॥९॥

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन्॥१०॥

त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ।
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप॥११॥

कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोभिपत्स्यसे ।
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा॥१२॥

अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ।
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता॥१३॥

अनुकीर्णानि व्याप्तानि । नः अस्मान् ॥१३॥

यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ।
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप॥१४॥

धूतपाप्मा सहास्माभिर्लोमशेनाभिपालितः ।
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः॥१५॥

भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ।
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः॥१६॥

लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ।
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी॥१७॥

द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ।
अथ व्यासो महाभागस्तथा पर्वतनारदौ॥१८॥

काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ।
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन्॥१९॥

ऋषयः ऊचुः ।
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् ।
मनसा कृतशौचा वै शुद्धास्तीर्थानि यास्यथ॥२०॥

आर्जवम् ऋजुबुद्धिं श्रद्धामित्यर्थः ॥२०॥

शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् ।
मनो विशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः॥२१॥

मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप ।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि द्रक्ष्यथ॥२२॥

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ॥२३॥

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः॥२४॥

लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च ।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च॥२५॥

धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः ।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः॥२६॥

कठिनानि समादाय चीराजिनजटाधराः ।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः॥२७॥

कठिनानि यष्टीः ‘काठी’ इति महाराष्ट्रप्रसिद्धेः । अन्ये तु शिक्यानि करण्डानि वेति व्याचख्युः॥२७॥

इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।
महानसव्यापृतैश्च तथान्यैः परिचारकैः॥२८॥

परिचतुर्दशैः पञ्चदशभिः । चतुर्दशभ्यः परि उपरीति व्युत्पत्तेः । सङ्ख्ययाव्ययासन्नेति समासः । बहुव्रीहौ सङ्ख्येये डजिति डच् ॥२८॥

सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः ।
प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रां त्रिनवतितमोऽध्यायः॥९३॥
चतुर्नवतितमोऽध्यायः

युधिष्ठिर उवाच ।
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः॥१॥

न वा इति । निर्गुणम् उत्तमगुणहीनम् ॥१॥

परांश्च निर्गुणान्मन्ये न च धर्मगतानपि ।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन हेतुना॥२॥

परान् शत्रून् ॥२॥

लोमश उवाच ।
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन ।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः॥३॥

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति॥४॥

समूलः पुत्रपौत्रादिवंशवृद्धिमूलं तत्सहितः ॥४॥

मया हि दृष्टा दैतेया दानवाश्च महीपते ।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः॥५॥

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः॥६॥

तीर्थानि देवा विविशुर्नाविशन्भारतासुराः ।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत्॥७॥

विविशुः स्नानार्थमिति शेषः । अधर्मस्तीर्थयात्राऽप्रवेशजस्तत्कर्तॄन् अधर्मकृतः । अधर्मेण कृत उत्पादितो वा दर्पः गर्वः ततो मानः पूज्योऽस्मीति बुद्धिः ॥७॥

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।
क्रोधादह्रीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत्॥८॥

ततः पूजाया अलाभे प्रतिघाते वा क्रोधः ततः अह्रीः अकार्ये प्रवृत्तिः ततः अलज्जा लज्जानिन्द्यतादोषाद्भयं तस्य नाशः ॥८॥

तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् ।
क्षमा लक्ष्मीः स्वधर्मश्च न चिरात्प्रजहुस्ततः॥९॥

न चिरात् शीघ्रमेव ॥९॥

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ।
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः॥१०॥

दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ।
तानलक्ष्मीसमाविष्टान्दानवान्कलिना हतान्॥११॥

दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ।
मानाभिभूतानचिराद्विनाशः समपद्यत॥१२॥

निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः ।
देवास्तु सागरांश्चैव सरितश्च सरांसि च॥१३॥

अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ।
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव॥१४॥

प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ।
एवमादानवन्तश्च निरादानाश्च सर्वशः॥१५॥

आदानवन्तः आर्जवादिनियमग्रहणवन्तः निरादानाः अप्रतिबद्धाः सर्वशः देवादिभिरपि ॥१५॥

तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ।
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः॥१६॥

पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ।
यथैव हि नृगो राजा शिबिरौशीनरो यथा॥१७॥

वेत्स्यसि लप्स्यसे ॥१७॥

भगीरथो वसुमना गयः पूरुः पुरूरवाः ।
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते॥१८॥

तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ।
अलभन्त यशः पुण्यं धनानि च विशांपते॥१९॥

तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ।
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः॥२०॥

मुचुकुन्दोथ मांधाता मरुत्तश्च महीपतिः ।
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्॥२१॥

देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ।
धार्तराष्ट्रास्त्वधर्मेण मोहेन च वशीकृताः ।
न चिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां चतुर्नवतितमोऽध्यायः॥९४॥
पञ्चनवतितमोऽध्यायः

वैशंपायन उवाच ।
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह ।
क्रमेण पृथिवीपाल नैमिषारण्यमागताः॥१॥

ते तथेति ॥१॥

ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप ।
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत॥२॥

तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः ।
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ।
कालकोट्यां विषप्रस्थे गिरावुष्य च कौरवाः॥३॥

बाहुदायां महीपाल चक्रुः सर्वेभिषेचनम् ।
प्रयागे देवयजने देवानां पृथिवीपते॥४॥

ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ।
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः॥५॥

विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ।
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः॥६॥

जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ।
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्॥७॥

संतर्पयन्तः सततं वन्येन हविषा द्विजान् ।
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्॥८॥

राजर्षिणा पुण्यकृता गयेनानुपमद्युते ।
नगो गयशिरो यत्र पुण्या चैव महानदी॥९॥

वानीरमालिनी रम्या नदी पुलिनशोभिता ।
दिव्यं पवित्रकूटं च पवित्रं धरणीधरम्॥१०॥

वानीरमालिनी वेत्रपङ्क्तियुक्ता ॥१०॥

ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ।
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति॥११॥

उवास च स्वयं तत्र धर्मराजः सनातनः ।
सर्वासां सरितां चैव समुद्भेदो विशांपते॥१२॥

यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ।
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे॥१३॥

ऋषियज्ञेन महता यत्राक्षयवटो महान् ।
अक्षये देवयजने अक्षयं यत्र वै फलम्॥१४॥

ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः ।
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः॥१५॥

चातुर्मास्येनायजन्त आर्षेण विधिना तदा ।
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः ।
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम्॥१६॥

तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः ।
शमठोकथयद्राजन्नामूर्तरयसं गयम्॥१७॥

शमठ उवाच ।
आमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः ।
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत॥१८॥

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः ।
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः॥१९॥

घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा ।
व्यंजनानां प्रवाहाश्च महार्हाणां सहस्रशः॥२०॥

अहन्यहनि चाप्येवं याचतां संप्रदीयते ।
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम्॥२१॥

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः ।
न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत॥२२॥

ब्रह्मशब्देन वेदध्वनिना ॥२२॥

पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा ।
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्॥२३॥

यत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ ।
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः॥२४॥

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः ।
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः॥२५॥

न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः॥२६॥

कथं तु देवा हविषा गयेन परितर्पिताः ।
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्॥२७॥

सिकता वा यथा लोके यथा वा दिवि तारकाः ।
यथा वा वर्षतो धारा असंख्येयाः स्म केनचित् ।
तथा गणयितुं शक्या गययज्ञेन दक्षिणाः॥२८॥

सिकतादिवद्यज्ञे दक्षिणाः न गणयितुं शक्या इत्यन्वयः ॥२८॥

एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः ।
बभूवुरस्य सरसः समीपे कुरुनन्दन॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गययज्ञकथने पञ्चनवतितमोऽध्यायः॥९५॥
षण्णवतितमोऽध्यायः

वैशंपायन उवाच ।
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह॥१॥

तत इति । दुर्जयायां वातापिपुर्यां मणिमतीसंज्ञायाम् ॥१॥

तत्रैव लोमशं राजा पप्रच्छ वदतां वरः ।
अगस्त्येनेह वातापिः किमर्थमुपशामितः॥२॥

आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः॥३॥

लोमश उवाच ।
इल्वलो नाम दैतेय आसीत्कौरवनन्दना ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः॥४॥

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु॥५॥

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।
चुक्रोध सोसुरस्तस्य ब्राह्मणस्य ततो भृशम्॥६॥

नादात् न दत्तवान् ॥६॥

तदाप्रभृति राजेन्द्र इल्वलो ब्रह्महाऽसुरः ।
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः॥७॥

मेषरूपी च वातापिः कामरूप्यभवत्क्षणात् ।
संस्कृत्य च भोजयति ततो विप्रं जिधांसति॥८॥

कामरूपी यथाकामं रूपाणि कर्तुं समर्थः संस्कृत्य पक्त्वा ॥८॥

स चाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत॥९॥

स च इल्वलश्च ॥९॥

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्॥१०॥

तामिल्वलेन महता स्वरेण वाचमीरिताम् ।
श्रुत्वातिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः॥११॥

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।
वातापिः प्रहसन्राजन्निश्चक्राम विशांपते॥१२॥

एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः ।
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः॥१३॥

अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु ।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्॥१४॥

सोपृच्छल्लम्बमानांस्तान्भगवन्तश्च कम्पिताः ।
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः॥१५॥

सोऽपृच्छदिति । तान् भवं लम्बमानेन रूपेण तेषामुद्भवम् अपृच्छत् । पृच्छतिर्द्विकर्मा । किमर्थं यूयं लम्बध्वमित्यपृच्छदित्यर्थः । ते ऋषयः कम्पिता इव सन्तस्ते तव सन्तानहेतोरयमस्माकं भव इति प्रत्यूचुरिति सम्बन्धः ॥१५॥

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः ।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः॥१६॥

एतस्यैव विवरणं ते तस्मा इति ॥१६॥

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्॥१७॥

स तानुवाच तेजस्वी सत्यधर्मपरायणः ।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः॥१८॥

वः युष्माकं कामम् ईप्सितं करिष्ये ॥१८॥

ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः ।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्॥१९॥

प्रसवसन्तानं सन्ततेरविच्छेदम् ॥१९॥

स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् ।
संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्॥२०॥

तस्य तस्य सिंहमृगादेः अङ्गं कटिदृष्ट्यादि । सर्वगुणवतीमित्यर्थः ॥२०॥

स तां विदर्भराजाय पुत्रार्थं तप्यतस्तपः ।
निर्मितामात्मनोर्थाय मुनिः प्रादान्महातपाः॥२१॥

सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा ।
विभ्राजमाना वपुषा व्यवर्धत शुभानना॥२२॥

जज्ञे जाता । सौदामनीति विशेष्यम् । विद्युदिति विशेषणं द्युतिविशेषोपपादनार्थम् । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोन्ये' इत्यादौ पिनाकपाणिपदम् ऊर्जितचापवत्त्वद्योतनार्थमुपक्षीणं सन्न विशेष्यसमर्पणायालमिति हरस्येति पृथक्प्रयुक्तं तद्वदिहापि ध्येयम् ॥२२॥

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत॥२३॥

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः॥२४॥

मुद्राणां तत्तन्मृगादिजातिगतानामसाधारणानां चिह्नानां कमनीयचक्षुष्ट्वादीनां लोप इव लोपस्तिरस्कारो यया सा लोपामुद्रा । आहिताग्न्यादिवत्पूर्वनिपातः । अन्येष्वपि दृश्यन्त इति दीर्घः । प्रकारान्तरेण योगे तु वेदे पदपाठलोप आमुद्रेत्यवग्रहः स्यात्स च न दृश्यते त उक्तविधैव व्युत्पत्तिर्युक्ता ॥२४॥

ववृधे सा महाराज बिभ्रती रूपमुत्तमम् ।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा॥२५॥

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः ।
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः॥२६॥

वशानुगाः इच्छानुरूपाः ॥२६॥

सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभा॥२७॥

यौवनस्थामपि च तां शीलाचारसमन्विताम् ।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः॥२८॥

सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति ।
तोषयामास पितरं शीलेन स्वजनं तथा॥२९॥

वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता ।
मनसा चिन्तयामास कस्मै दद्यामिमां सुताम्॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने षण्णवतितमोऽध्यायः॥९६॥
सप्तनवतितमोऽध्यायः

लोमश उवाच ।
यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति ।
तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्॥१॥

यदेति ॥१॥

राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् ।
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे॥२॥

निवेशे विवाहे ॥२॥

एवमुक्तः स मुनिना महीपालो विचेतनः ।
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत॥३॥

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः ।
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्॥४॥

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् ।
लोपामुद्राभिगम्येदं काले वचनमब्रवीत्॥५॥

न मत्कृते महीपाल पीडामभ्येतुमर्हसि ।
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः॥६॥

दुहितुर्वचनाद्राजा सोगस्त्याय महात्मने ।
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशांपते॥७॥

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत ।
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च॥८॥

ततः सा दर्शनीयानि महार्हाणि तनूनि च ।
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा॥९॥

ततश्चीराणि जग्राह वल्कलान्यजिनानि च ।
समानव्रतचर्या च बभूवायतलोचना॥१०॥

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः ।
उग्रमातिष्ठत तपः सह पत्न्यानुकूलया॥११॥

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा ।
अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः॥१२॥

ततो बहुतिथे काले लोपामुद्रां विशांपते ।
तपसा द्योतितां स्नातां ददर्श भगवानृषिः॥१३॥

स्नाताम् ऋताविति शेषः ॥१३॥

स तस्याः परिचारेण शौचेन च दमेन च ।
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्॥१४॥

परिचारेण सेवया ॥१४॥

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भाविनी ।
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्॥१५॥

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत ।
यातु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि॥१६॥

यथा पितुर्गृहे विप्र प्रासादे शयनं मम ।
तथाविधे त्वं शयने मामुपैतुमिहार्हसि॥१७॥

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् ।
उपसर्तुं यथाकामं दिव्याभरणभूषिता॥१८॥

अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी ।
नैवापवित्रो विप्रर्षे भूषणोऽयं कथंचन॥१९॥

भूषणोऽयं चीरकाषायादिस्तपस्विनाम् । श्लाघ्योऽयं सामग्रीकलापो भोगसम्पर्केणापवित्रो नैव भवत्विति शेषः ॥१९॥

अगस्त्य उवाच ।
न ते धनानि विद्यन्ते लोपामुद्रे तथा मम ।
यथाविधानि कल्याणि पितुस्तव सुमध्यमे॥२०॥

लोपामुद्रोवाच ।
ईशोऽसि तपसा सर्वं समाहर्तुं तपोधन ।
क्षणेन जीवलोके यद्वसु किंचन विद्यते॥२१॥

अगस्त्य उवाच ।
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु तत् ।
यथा तु मे न नश्येत तपस्तन्मां प्रयोदय॥२२॥

लोपामुद्रोवाच ।
अल्पावशिष्टः कालोयमृतोर्मम तपोधन ।
न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन॥२३॥

ऋतोः कालः षोडशदिनानि तेषु अल्पोऽवशिष्टः ॥२३॥

न चापि धर्ममिच्छामि विलोप्तुं ते कथंचन ।
एवं तु मे यथाकामं संपादयितुमर्हसि॥२४॥

अगस्त्य उवाच ।
यद्येष काम सुभगे तव बुद्ध्या विनिश्चितः ।
हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने सप्तनवतितमोऽध्यायः॥९७॥
अष्टनवतितमोऽध्यायः

लोमश उवाच ।
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः॥१॥

तत इति । यं वेद वेत्ति ॥१॥

स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम् ।
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्॥२॥

विषयान्ते देशसीमान्ते ॥२॥

तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः ।
प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम्॥३॥

आगमने निमित्तभूताम् अर्थिताम् । किमिच्छन्नागतोऽसीति पप्रच्छेत्यर्थः ॥३॥

अगस्त्य उवाच ।
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे॥४॥

लोमश उवाच ।
तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् ।
अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यते॥५॥

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत॥६॥

उपादानात् धनग्रहणात् ॥६॥

स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः ।
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि॥७॥

तयोरर्घ्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत् ।
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे॥८॥

उपक्रमे आगमने ॥८॥

अगस्त्य उवाच ।
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ॥९॥

नौ आवाभ्याम् ॥९॥

लोमश उवाच ।
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।
अतो ज्ञात्वा तु गृह्णीतं यदत्रव्यतिरिच्यते॥१०॥

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत॥११॥

पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।
अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः॥१२॥

त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि ।
अभिगम्य महाराज विषयान्ते महामनाः॥१३॥

अर्चयित्वा यथान्यायमैक्ष्वाकू राजसत्तमः ।
समस्तांश्च ततोऽपृच्छत्प्रयोजनमुपक्रमे॥१४॥

अगस्त्य उवाच ।
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः॥१५॥

लोमश उवाच ।
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।
एतज्ज्ञात्वा ह्युपादध्वं यदत्र व्यतिरिच्यते॥१६॥

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत॥१७॥

ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।
इदमूचुर्महाराज समवेक्ष्य परस्परम्॥१८॥

अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।
तमतिक्रम्य सर्वेऽद्य वयं चार्थामहे वसु॥१९॥

वसुमान् धनवान् ॥१९॥

लोमश उवाच ।
तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम् ।
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्॥२०॥

अध्यायतात्पर्यं ब्राह्मणेनापि हिंसापूर्वकं भिक्षा न कर्तव्येति ॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने अष्टनवतितमोऽध्यायः॥९८॥
एकोनशततमोऽध्यायः

लोमश उवाच ।
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत्॥१॥

इल्वल इति ॥१॥

तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा ।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना यदा॥२॥

ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्॥३॥

अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः ।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम्॥४॥

धुर्यासनमथासाद्य निषसाद महानृषिः ।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव॥५॥

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।
भुक्तवत्यसुरोह्वानमकरोत्तस्य चेल्वलः॥६॥

ततो वायुः प्रादुरभूदधस्तस्य महात्मनः ।
शब्देन महता तात गर्जन्निव यथा घनः॥७॥

वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह ।
तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः॥८॥

कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः ।
इल्वलस्तु विषण्णोभूद्दृष्ट्वा जीर्णं महासुरम्॥९॥

प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् ।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः॥१०॥

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।
ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्॥११॥

एते च नातिधनिनो धनार्थश्च महान्मम ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः॥१२॥

ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् ।
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु॥१३॥

दित्सितं मया युष्मभ्यं दातुमिष्टम् । एतेन परचित्ताभिज्ञत्वमगस्त्यस्य परीक्षितम् ॥१३॥

अगस्त्य उवाच ।
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर ।
तावदेव सुवर्णस्य दित्सितं ते महासुर॥१४॥

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।
मनोजवौ वाजिनौ च दित्सितं ते महासुर॥१५॥

जिज्ञास्यतां रथः सद्यो व्यक्त एष हिरण्मयः ।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु॥१६॥

विरावश्च सुरावश्च तस्मिन्युक्तौ रथे हयौ ।
ऊहतुः सवसूनाशु तावगस्त्याश्रमं प्रति॥१७॥

सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ।
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम्॥१८॥

लोपामुद्रोवाच ।
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् ।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्॥१९॥

अगस्त्य उवाच ।
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु॥२०॥

सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् ।
दश वा शततुल्याः स्युरेको वापि सहस्रजित्॥२१॥

दशसम्मितं दशशतसम्मितम् ॥२१॥

लोपामुद्रोवाच ।
सहस्रसंमितः पुत्र एकोऽप्यस्तु तपोधन ।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः॥२२॥

लोमश उवाच ।
स तथेति प्रतिज्ञाय तया समभवन्मुनिः ।
समये समशीलिन्या श्रद्धावाञ्च्छ्रद्दधानया॥२३॥

समभवत्सङ्गमं चकार ॥२३॥

तत आधाय गर्भं तमगमद्वनमेव सः ।
तस्मिन्वनगते गर्भो ववृधे सप्तशारदान्॥२४॥

शारदान् शरदा ऋतुना युक्तान् संवत्सरानित्यर्थः ॥२४॥

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।
ज्वलन्निव प्रभावेण दृढस्युर्नाम भारत॥२५॥

प्राच्यवत् उदरान्निर्गतोऽभवदित्यर्थः ॥२५॥

साङ्गोपनिषदान्वेदाञ्जपन्निव महातपाः ।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः॥२६॥

स बाल एव तेजस्वी पितुस्तस्य निवेशने ।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्॥२७॥

तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा ।
एवं स जनयामास भारतापत्यमुत्तमम्॥२८॥

युक्तम् अध्ययनेध्मवाहनादौ ॥२८॥

लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ।
तत ऊर्ध्वमयं ख्यातस्त्वगस्त्यस्याश्रमो भुवि॥२९॥

प्राह्लादिरेवं वातापिरगस्त्येनोपशामितः ।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः॥३०॥

प्राह्रादिः प्रह्रादगोत्रोद्भवः ॥३०॥

एषा भागीरथी पुण्या देवगन्धर्वसेविता ।
वातेरिता पताकेव विराजति नभस्तले॥३१॥

प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः ।
शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव॥३२॥

शिलानां तलेषु अधोभागेषु सन्त्रस्ता लीना तेन पातालगामित्वमुक्तम् । शेषेण स्वर्गभूगतत्वमिति त्रिपथगात्वमुक्तं गङ्गायाः ॥३२॥

दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् ।
पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया ।
अस्यां नद्यां सुपुण्यायां यथेष्टमवगाह्यताम्॥३३॥

युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् ।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम्॥३४॥

यत्रोपस्पृष्टवान्रामो हृतं तेजस्तदाप्तवान् ।
अत्र त्वं भ्रातृभिः सार्धं कृष्णया चैव पाण्डव॥३५॥

रामः जामदग्न्यः हृतं दाशरथिरामेण ॥३५॥

दुर्योधनहृतं तेजः पुनरादातुमर्हसि ।
कृतवैरेण रामेण यथा कचोपहृतं पुनः॥३६॥

वैशंपायन उवाच ।
स तत्र भ्रातृभिश्चैव कृष्णया चैव पाण्डवः ।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत॥३७॥

तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ ।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ॥३८॥

तस्य युधिष्ठिरस्य । तीर्थस्य तीर्थे स्नातस्य ॥३८॥

अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः ।
भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो ।
कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः॥३९॥

वपुः तेजः ॥३९॥

लोमश उवाच ।
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः ।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः॥४०॥

विष्णुः स्वेन शरीरेण रावणस्य वधाय वै ।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः॥४१॥

ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः ।
तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः॥४२॥

दाशरथेः श्रुत्वा धनुर्भञ्जनादिपराक्रममिति शेषः कर्मणि वा षष्ठी ॥४२॥

कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः ।
धनुरादाय तद्दिव्यं क्षत्रियाणां निबर्हणम्॥४३॥

जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ।
तं वै दशरथः श्रुत्वा विषयान्तमुपागतम्॥४४॥

प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ।
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम्॥४५॥

प्रहसन्निव कौन्तेय रामो वचनमब्रवीत् ।
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो॥४६॥

कृतकालं कृताः हिंसिताः कालतुल्याः क्षत्रिया येन तद्धनुः। कृ हिंसायां स्वादेरिदं रूपम्॥४६॥

समारोपय यत्नेन यदि शक्नोषि पार्थिव ।
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि॥४७॥

नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु ।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम्॥४८॥

बाहुवीर्ये विषये न कत्थनं श्लाघनं नास्ति ॥४८॥

तमेवंवादिनं तत्र रामो वचनमब्रवीत् ।
अलं वै व्यपदेशेन धनुरायच्छ राघव॥४९॥

व्यपदेशेन उक्त्या ॥४९॥

ततो जग्राह रोषेण क्षत्रियर्षभमूदनम् ।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम्॥५०॥

धनुरारोपयामास सलील इव भारत ।
ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्॥५१॥

तस्य शब्दस्य भूतानि वित्रसन्त्यशनेरिव ।
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा॥५२॥

इदमारोपितं ब्रह्मन्किमन्यत्करवाणि ते ।
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः ।
शरमाकर्णदेशान्तमयमाकृष्यतामिति॥५३॥

लोमश उवाच ।
एतच्छ्रुत्वाब्रवीद्रामः प्रदीप्त इव मन्युना ।
श्रूयते क्षम्यते चैव दर्पपूर्णोऽसि भार्गव॥५४॥

श्रूयते चकाराद्दृश्यते च । तव दर्पयुक्तत्वमिति शेषः। अथापि क्षम्यते ॥५४॥

त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः ।
पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम्॥५५॥

क्षत्रियेभ्यः क्षत्रियान् जित्वा ॥५५॥

पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ।
ततो रामशरीरे वै रामः पश्यति भार्गवः॥५६॥

आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ।
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा॥५७॥

गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ।
ऋषयो वालखिल्याश्च ब्रह्मभूताः सनातनाः॥५८॥

देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ।
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः॥५९॥

चेतोमन्ति च सामानि धनुर्वेदश्च भारत ।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर॥६०॥

चेतोमन्ति चेतनावन्ति । आर्षं पदत्वप्रयुक्तं रुत्वम् । चेतस्वन्तीत्यपेक्षितम् ॥६०॥

ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह ।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत॥६१॥

पांसुवर्षेण महता मेघवर्षैश्च भूतलम् ।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि॥६२॥

स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् ।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः॥६३॥

स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् ।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम्॥६४॥

विष्णुना सोऽभ्यनुज्ञातो महेन्द्रमगमत्पुनः ।
भीतस्तु तत्र न्यवसद्व्रीडितस्तु महातपाः॥६५॥

ततः संवत्सरेऽतीते हृतौजसमवस्थितम् ।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन्॥६६॥

पितर ऊचुः ।
न वै सम्यगिदं पुत्र विष्णुमासाद्य वै कृतम् ।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा॥६७॥

गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम् ।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि॥६८॥

दीप्तोदं नाम तत्तीर्थं यत्र ते प्रतितामहः ।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः॥६९॥

तत्तथा कृतवान्रामः कौन्तेयवचनात्पितुः ।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन॥७०॥

एतदीदृशकं तात रामेणाक्लिष्टकर्मणा ।
प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा॥७१॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां जामदग्न्यतेजोहानिकथने एकोनशततमोऽध्यायः॥९९॥
शततमोऽध्यायः

युधिष्ठिर उवाच ।
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः ।
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम॥१॥

भूय इति ॥१॥

लोमश उवाच ।
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् ।
अगस्त्यस्य महाराज प्रभावममितौजसः॥२॥

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः ।
कालकेया इति ख्याता गणाः परमदारुणाः॥३॥

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः ।
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्॥४॥

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा ।
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे॥५॥

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह ।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम्॥६॥

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ ।
दधीच इति विख्यातो महानृषिरुदारधीः॥७॥

तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत ।
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना॥८॥

स वो दास्यति ईप्सितमिति शेषः ॥८॥

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः ।
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै॥९॥

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ।
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम्॥१०॥

महच्छत्रुहणं घोरं षडस्रि भीमनिःस्वनम् ।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः॥११॥

षडस्रि षट्‌कोणम् ॥११॥

एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्॥१२॥

नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ।
सरस्वत्याः परे पारे नानाद्रुमलतावृतम्॥१३॥

षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ।
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्॥१४॥

जीवं जीववदिवेति लुप्तोपमा । यतो जीवकैः क्षुद्रजीवैः पश्वादिभिर्नादितमतश्चेतनमिवेत्यर्थः॥१४॥

महिषैश्च वराहैश्च सृमरैश्चमरैरपि ।
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः॥१५॥

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ।
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम्॥१६॥

करेणुभिर्हस्तिनीभिः । प्रभिन्नं 'मदस्राविकरटा मदोद्भेदस्थानं गण्डस्थलैकदेशस्तस्य मुखम् उपरिभागो येषां तैः ॥१६॥

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् ।
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः॥१७॥

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् ।
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्॥१८॥

त्रिविष्टपसमप्रख्यं स्वर्गतुल्यप्रकाशम् ॥१८॥

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् ।
जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम्॥१९॥

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च ।
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना॥२०॥

ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच ।
करोमि यद्वो हितमद्य देवाः स्वं चापि देहं स्वयमुत्सृजामि॥२१॥

स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज ।
ततः सुरास्ते जगृहुः परासो- रस्थीनि तस्याथ यथोपदेशम्॥२२॥

परासोः गतप्राणस्य ॥२२॥

प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः ।
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्॥२३॥

चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः ।
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम्॥२४॥

ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः ।
त्वष्ट्रा तथोक्तस्तु पुरंदरस्तद्वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां वज्रनिर्माणकथने शततमोऽध्यायः॥१००॥
एकाधिकशततमोऽध्यायः

लोमश उवाच। ततः स वज्री बलिभिर्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी॥१॥

तत इति । रोदसी द्यावापृथिव्यौ ॥१॥

कालकेयैर्महाकायैः समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः॥२॥

ततो युद्धं समभवद्देवानां दानवैः सह ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्॥३॥

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम्॥४॥

वीरबाहुभिः सार्धम् । आदौ उद्यताः पश्चादन्यैः प्रतिपिष्टाः तेषाम् ॥४॥

शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम् ।
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत॥५॥

तालैस्तालफलैः ॥५॥

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः॥६॥

तेषां वेगवतां वेगं साभिमानं प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात्॥७॥

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत्॥८॥

कालेयभयसंत्रस्तो देवः साक्षात्पुरन्दरः ।
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम्॥९॥

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन्॥१०॥

व्यदधत् निहितवान् ॥१०॥

विष्णुना गोपितं शक्रं दृष्ट्वा देवगणास्ततः ।
सर्वे तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः॥११॥

स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत॥१२॥

ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम्॥१३॥

बलस्थं बलवन्तम् ॥१३॥

ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन्॥१४॥

स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।
यथा महाशैलवरः पुरस्तात्स मन्दो विष्णुकराद्विमुक्तः॥१५॥

माल्यधारी मालाधारी ॥१५॥

तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं स मेने न कराद्विमुक्तं वृत्रं भयाच्चापि हतं न मेने॥१६॥

हतमपि वृत्रं भयात् न हतमिव मेने ॥१६॥

सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः ।
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्॥१७॥

तैस्त्रास्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः ।
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च॥१८॥

तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिस्मयन्तः ।
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायानुपवर्णयन्ति॥१९॥

तेषां तु तत्र क्रमकालयोगाद्धोरा मतिश्चिन्तयतां बभूव ।
ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः॥२०॥

लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ।
ये सन्ति केचिच्च वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः॥२१॥

ध्रियन्त जीवन्ति ॥२१॥

तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ।
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः॥२२॥

गतबुद्धिभावाः प्राप्तधीनिश्चयाः ॥२२॥

दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म॥२३॥

वरुणस्यालयं समुद्रम् ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां वृत्रवधोपाख्याने एकाधिकशततमोऽध्यायः॥१०१॥
द्व्यधिकशततमोऽध्यायः

लोमश उवाच। समुद्रं ते समाश्रित्य वरुणं निधिमम्भसः ।
कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने॥१॥

समुद्रमिति। कालेयाः कालायाः कश्यपभार्यायाः पुत्राः ॥१॥

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च॥२॥

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।
अशीतिः शतमष्टौ च नव चान्ये तपखिनः॥३॥

च्यवनस्याश्रमे गत्वा पुण्यं द्विजनिषेवितम् ।
फलमूलाशनानां हि मुनीनां भक्षितं शतम्॥४॥

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।
भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः॥५॥

वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः ।
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा॥६॥

निशायां परिबाधन्ते मत्ता भुजबलाश्रयात् ।
कालोपसृष्टाः कालेया घ्नन्तो द्विज गणान्बहून्॥७॥

कालोपसृष्टाः मृत्युना ग्रस्ताः ॥७॥

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु॥८॥

तापसेषु प्रवृत्तान् दैत्यांस्तापसा एव तपसा कुतो न वारयन्ति इत्याशङ्क्याह । तपस्विषु इति । तपसैव धनवत्सु । देहनाशेऽपि तपोनाशो माभूदिति भावः ॥८॥

प्रभाते समदृश्यन्त नियताहारकर्शिताः ।
महीतलस्था मुनयः शरीरैर्गतजीवितैः॥९॥

शरीरैर्मांसादिरहितत्वादस्थिमात्रैरित्यर्थः ॥९॥

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः ।
आकीर्णैराबभौ भूमिः शङ्खानामिव राशिभिः॥१०॥

अत एव शङ्खराशितुल्यैः ॥१०॥

कलशैर्विप्रविद्धेश्च स्रुवैर्भग्नैस्तथैव च ।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता॥११॥

कलशैः शिरोघटैः ॥११॥

निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् ।
जगदासीन्निरुत्साहं कालेयभयपीडितम्॥१२॥

एवं संक्षीयमाणाश्च मानवा मनुजेश्वर ।
आत्मत्राणपराभीताः प्राद्रवन्त दिशो भयात्॥१३॥

केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे तथा ।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन्॥१४॥

केचिदत्र महेष्वासाः शूराः परमहर्षिताः ।
मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे॥१५॥

दानवानां वधायेति शेषः ॥१५॥

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च॥१६॥

क्षयं गृहं नाशं वा ॥१६॥

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर॥१७॥

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ।
शरण्यं शरणं देवं नारायणमजं विभुम्॥१८॥

तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम् ।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम्॥१९॥

त्वं नः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो ।
त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति॥२०॥

इङ्गति चलतीति इङ्गं पचाद्यच् जङ्गमं नेङ्गति स्थावरम् ॥२०॥

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।
वाराहं वपुराश्रित्य जगदर्थे समुद्धता॥२१॥

आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा ।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम॥२२॥

अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।
वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया॥२३॥

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः॥२४॥

एवमादीनि कर्माणि येषां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन॥२५॥

तस्मात्त्वां देवदेवेश लोकार्थं शापयामहे ।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्॥२६॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां विष्णुस्तवे द्व्यधिकशततमोऽध्यायः॥१०२॥
त्र्यधिकशततमोऽध्यायः

देवा ऊचुः ।
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः ।
ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः॥१॥

तवेति । चतुर्विधाः सुरनरतिर्यक्स्थावराः दिवौकसः देवान् ॥१॥

लोका ह्येवं विवर्धन्ते ह्यन्योऽन्यं समुपाश्रिताः ।
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः॥२॥

इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।
न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः॥३॥

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति॥४॥

त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः॥५॥

विष्णुरुवाच। विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः॥६॥

कालेय इति विख्यातो गणः परमदारुणः ।
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम्॥७॥

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्॥८॥

ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह॥९॥

न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते ।
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्॥१०॥

अगस्त्येन विना को हि शक्तोऽन्योर्णवशोषणे ।
अन्यथा हि न शक्यास्ते विना सागरशोषणम्॥११॥

एतच्छ्रुत्वा तदा देवा विष्णुना समुदाहृतम् ।
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः॥१२॥

तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।
उपास्यमानमृषिभिर्देवैरिव पितामहम्॥१३॥

वारुणिं मैत्रावरुणपुत्रम् ॥१३॥

तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।
आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन्॥१४॥

अभिष्टुवन् अस्तुवन् । अडभाव आर्षः ॥१४॥

देवा ऊचुः ।
नाहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा ।
भ्रंशितश्च सुरैश्वर्यात्स्वर्लोकाल्लोककण्टकः॥१५॥

क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः ।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते॥१६॥

नगोत्तमः पर्वतेषु श्रेष्ठः विन्ध्यो नाम्ना ॥१६॥

तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः ।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः॥१७॥

तमसा विन्ध्यवृद्ध्या आवृते ग्रस्तालोके लोके जगति सति ॥१७॥

अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि॥१८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्यमाहात्म्यकथने त्र्यधिकशततमोऽध्यायः॥१०३॥
चतुरधिकशततमोऽध्यायः

युधिष्ठिर उवाच। किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने॥१॥

किमर्थमिति ॥१॥

लोमश उवाच। अद्रिराजं महाशैलं मेरुं कनकपर्वतम् ।
उदयास्तमने भानुः प्रदक्षिणमवर्तत॥२॥

तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् ।
यथा हि मेरुर्भवता नित्यशः परिगम्यते॥३॥

प्रदक्षिणश्च क्रियते मामेवं कुरु भास्कर ।
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत॥४॥

नाहमात्मच्छया शैलं करोम्येनं प्रदक्षिणम् ।
एष मार्गः प्रदिष्टो मे यैरिदं निर्मितं जगत्॥५॥

एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः ।
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप॥६॥

ततो देवाः सहिताः सर्व एव विन्ध्यं समागम्य महाद्रिराजम् ।
निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार॥७॥

अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम् ।
अगस्त्यमत्यद्भुतवीर्यवन्तं तं चार्थमूचुः सहिताः सुरास्ते॥८॥

देवा ऊचुः ।
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा ।
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः॥९॥

तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम ।
ऋते त्वां हि महाभाग तस्मादेनं निवारय॥१०॥

तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ।
सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितम् ॥११॥

मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ।
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ॥१२॥

यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः॥१३॥

एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन ।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते॥१४॥

एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते ।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि॥१५॥

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः ।
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु॥१६॥

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् ।
किमर्थमभियाताः स्थ वरं मत्तः कमिच्छथ ।
एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन्॥१७॥

एवं त्वयेच्छाम कृतं हि कार्यं महार्णवं पीयमानं महात्मन् ।
ततो वधिष्याम सहानुबन्धान् कालेयसंज्ञान्सुरविद्विषस्तान्॥१८॥

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् ।
करिष्ये भवतां कामं लोकानां च महत्सुखम्॥१९॥

एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् ।
ऋषिभिश्च तपः सिद्धैः सार्धं देवैश्च सुव्रत॥२०॥

मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा ।
अनुजग्मुर्महात्मानं द्रष्टुकामास्तद‌द्भुतम्॥२१॥

ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःस्वनम् ।
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना॥२२॥

हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च ।
नानाग्राहसमाकीर्णं नानाद्विजगणान्वितम्॥२३॥

अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः ।
ऋषयश्च महाभागाः समासेदुर्महोदधिम्॥२४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योदधिगमने चतुरधिकशततमोऽध्यायः॥१०४॥
पञ्चाधिकशततमोऽध्यायः

लोमश उवाच। समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।
उवाच सहितान्देवानृषींश्चैव समागतान्॥१॥

समुद्रमिति ॥१॥

अहं लोकहितार्थं वै पिबामि वरुणालयम् ।
भवद्भिर्यद‌नुष्ठेयं तच्छीघ्रं संविधीयताम्॥२॥

एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः ।
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः॥३॥

त्वं नस्त्राता विधाता च लोकानां लोकभावन ।
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत्॥५॥

स पूज्यमानस्त्रिद‌शैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः ।
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार॥६॥

दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः ।
प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्त्वाः॥७॥

ते वध्यमानास्त्रिदशैर्महात्माभिर्महाबलैर्वेगिभिरुन्नदद्भिः ।
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्॥८॥

ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः ।
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत॥९॥

ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः ।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः॥१०॥

ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः ।
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः॥११॥

हतशेषास्ततः केचित्कालेया मनुजोत्तम ।
विदार्य वसुधां देवीं पातालतलमास्थिताः॥१२॥

निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् ।
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन्॥१६॥

त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम् ।
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः॥१४॥

पूरयस्व महाबाहो समुद्रं लोकभावन ।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज॥१५॥

एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः ।
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम्॥१६॥

पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ।
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः॥१७॥

विस्मिताश्च विषण्णाच बभूवुः सहिताः सुराः ।
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम्॥१८॥

प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ।
त्रिदशा विष्णुना सार्थमुपजग्मुः पितामहम्॥१९॥

पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ।
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम्॥२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने पञ्चाधिकशततमोऽध्यायः॥१०५॥
षडधिकशततमोऽध्यायः

लोमश उवाच। तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः ।
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्॥१॥

तानिति ॥१॥

महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ।
ज्ञातींश्च कारणं कृत्वा महाराज्ञो भगीरथात्॥२॥

पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः ।
कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम्॥३॥

युधिष्ठिर उवाच। कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने ।
कथं समुद्रः पूर्णश्च भगीरथप्रतिश्रयात्॥४॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम्॥५॥

वैशंपायन उवाच। एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।
कथयामास माहात्म्यं सगरस्य महात्मनः॥६॥

लोमश उवाच। इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।
रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान्॥७॥

स हैहयान्समुत्साद्य तालजङ्घांश्च भारत ।
वशे च कृत्वा राजन्यान्स्वराज्यमन्वशासत॥८॥

तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ॥९॥

स पुत्रकामो नृपतिस्तप्यते स्म महत्तपः ।
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः॥१०॥

स तप्यमानः सुमहत्तपो योगसमन्वितः ।
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम्॥११॥

शङ्करं भवमीशानं पिनाकिं शूलपाणिनम् ।
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम्॥१२॥

स तं दृष्ट्वै वरदं पत्नीभ्यां सहितो नृपः ।
प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत॥१३॥

तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम्॥१४॥

षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः ।
एकस्यां संभविष्यन्ति पत्न्यां नरवरोत्तम॥१५॥

ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।
एको वंशधरः शूर एकस्यां संभविष्यति॥१६॥

एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ।
स चापि सगरो राजा जगाम स्वं निवेशनम्॥१७॥

पत्नीभ्यां सहितस्तत्र सोऽतिहृष्टमनास्तदा ।
तस्य ते मनुजश्रेष्ठ भार्ये कमललोचने॥१८॥

वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ।
ततः कालेन वैदर्भी गर्मालाबुं व्यजायत॥१९॥

शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ।
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः॥२०॥

अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिःस्वनाम् ।
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि॥२१॥

अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ।
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः॥२२॥

ततः पुत्रसहस्त्राणि षष्टिं प्राप्स्यसि भारत ।
महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सगरसंततिकथने षडधिकशततमोऽध्यायः॥१०६॥
सप्ताधिकशततमोऽध्यायः

लोमश उवाच। एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः ।
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ॥१॥

एतच्छ्रुत्वेति ॥१॥

एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः ।
घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः॥२॥

धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः ।
ततः कालेन महता समुत्तस्थुर्महाबलाः॥३॥

षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः ।
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव॥४॥

ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः ।
बहुत्वाच्चावजानन्तः सर्वांल्लोकान्सहामरान्॥५॥

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।
सर्वाणि चैव भूतानि शूराः समरशालिनः॥६॥

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः ।
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः॥७॥

तानुवाच महाभागः सर्वलोकपितामहः ।
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्॥८॥

नातिदीर्धेण कालेन सागराणां क्षयो महान् ।
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः॥९॥

एवमुक्तास्तु ते देवा लोकाश्च मनुजेश्वर ।
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्॥१०॥

ततः काले बहुतिथे व्यतीते भरतर्षभ ।
दीक्षितः सगरो राजा हयमेधेन वीर्यवान्॥११॥

तस्याश्वो व्यचरद्भूमिं पुत्रैः स परिरक्षितः ।
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्॥१२॥

रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ।
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्॥१३॥

आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ।
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्॥१४॥

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।
अमार्गन्त महाराज सर्वं च पृथिवीतलम्॥१५॥

ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च॥१६॥

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ।
ससमुद्रवनद्वीपा सनदीनदकन्दरा॥१७॥

सपर्वतवनोद्देशा निखिलेन मही नृप ।
अस्माभिर्विचिता राजञ्च्छासनात्तव पार्थिव॥१८॥

न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ।
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्च्छितः॥१९॥

उवाच वचनं सर्वांस्तदा दैववशान्नृप ।
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्॥२०॥

यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ।
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः॥२१॥

भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ।
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्॥२२॥

समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः ।
कुद्दालैर्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः॥२३॥

ह्रेषुकैः ह्रेषयति सर्पयत्येभिरिति मृत्तिकोत्क्षेपणैः सदण्डैर्लोहपत्रैः । ह्रेषृ प्रसर्पणेऽस्य रूपम् ॥२३॥

स खन्यमानः सहितैः सागरैर्वरुणालयः ।
अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः॥२४॥

सागरैः सगरसमूहैः ॥२४॥

असुरोरगरक्षांसि सत्त्वानि विविधानि च ।
आर्तनादमकुर्वन्त वध्यमानानि सागरैः॥२५॥

छिन्नशीर्षा विदेहाश्च भिन्नत्वगस्थिसंधयः ।
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः॥२६॥

एवं हि खनतां तेषां समुद्रं वरुणालयम् ।
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत॥२७॥

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः॥२८॥

पूर्वोत्तरे ऐशान्याम् ॥२८॥

अपश्यन्त हयं तत्र विचरन्तं महीतले ।
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ।
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम्॥२९॥

ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।
अनादृत्य महात्मानं कपिलं कालचोदिताः॥३०॥

संक्रुद्धाः संप्रधावन्त अश्वग्रहणकाङ्क्षिणः ।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः॥३१॥

वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् ।
स चक्षुर्विकृतं कृत्वा तेजस्तेषु समुत्सृजन्॥३२॥

ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ।
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः॥३३॥

सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ।
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्॥३४॥

मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ।
अंशुमन्तं समाहूय असमञ्जः सुतं तदा॥३५॥

पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ।
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्॥३६॥

कापिलं तेज आसाद्य मत्कृते निधनं गताः ।
तव चापि पिता तात परित्यक्तो मयानघ ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता॥३७॥

युधिष्ठिर उवाच। किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन॥३८॥

लोमश उवाच। असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् ।
यं शैब्या जनयामास पौराणां स हि दारकान्॥३९॥

गलेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ।
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः॥४०॥

सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ।
त्वं नस्राता महाराज परचक्रादिभिर्भयात्॥४१॥

असमञ्जो भयाद्धोरात्ततो नस्त्रातुमर्हसि ।
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः॥४२॥

मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ।
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्॥४३॥

यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ।
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप॥४४॥

यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ।
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना॥४५॥

पौराणां हितकामेन सगरेण विवासितः ।
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि ।
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे॥४६॥

सगर उवाच। पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च ।
अलाभेन तथाश्वस्य परितप्यामि पुत्रक॥४७॥

तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् ।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर॥४८॥

अंशुमानेवमुक्तस्तु सगरेण महात्मना ।
जगाम दुःखात्तं देशं यत्र वै दारिता मही॥४९॥

स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।
अपश्यच्च महात्मानं कपिलं तुरगं च तम्॥५०॥

स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् ।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्॥५१॥

ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत् ।
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत॥५२॥

स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्वितीयं वरकं वव्रे पितॄणां पावनेच्छया॥५३॥

तमुवाच महातेजाः कपिलो मुनिपुङ्गवः ।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ॥५४॥

त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता॥५५॥

तव चैव प्रभावेण स्वर्गं यास्यन्ति सागराः ।
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिप्यति॥५६॥

पावनार्थं सागराणां तोषयित्वा महेश्वरम् ।
हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव॥५७॥

यज्ञः समाप्यतां तात सगरस्य महात्मनः ।
अंशुमानेवमुक्तस्तु कपिलेन महात्मना॥५८॥

आजगाम हयं गृह्य यज्ञवाटं महात्मनः ।
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः॥५९॥

मूर्ध्नि तेनाऽप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ।
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा॥६०॥

तं चास्मै हयमाचष्ट यक्षवाटमुपागतम् ।
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्॥६१॥

अंशुमन्तं च संपूज्य समापयत तं क्रतुम् ।
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः॥६२॥

पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ।
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः॥६३॥

पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ।
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्॥६४॥

प्रशशास महाराज यथैवास्य पितामहः ।
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्॥६५॥

तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ।
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्॥६६॥

पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ।
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः॥६७॥

न चावतारयामास चेष्टमानो यथाबलम् ।
तस्य पुत्रः समभवछ्रीमान्धर्मपरायणः॥६८॥

भगीरथ इति ख्यातः सत्यवागनसूयकः ।
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः॥६९॥

तपःसिद्धिसमायोगात्स राजा भरतर्षभ ।
वनाज्जगाम त्रिदिवं कालयोगेन भारत॥७०॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्यमाहात्म्यकथने सप्ताधिकशततमोऽध्यायः॥१०७॥
अष्टाधिकशततमोऽध्यायः

लोमश उवाच। स तु राजा महेष्वासश्चक्रवर्ती महारथः ।
बभूव सर्वलोकस्य मनोनयननन्दनः॥१॥

स त्विति ॥१॥

स शुश्राव महाबाहुः कपिलेन महात्मना ।
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च॥२॥

स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वर॥३॥

आरिराधयिपुर्गङ्गां तपसा दग्धकिल्विषः ।
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्॥४॥

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् ।
पवनालम्बिभिर्मेधैः परिषिक्तं समन्ततः॥५॥

नदीकुञ्जनितम्बैश्च प्रासादैरुपशोभितम् ।
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम्॥६॥

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः॥७॥

मयूरैः शतपत्रैश्च जीवं जीवककोकिलैः ।
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि॥८॥

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् ।
सारसानां च मधुरैर्व्याहृतैः समलंकृतम्॥९॥

किन्नरैरप्सरोभिश्च निषेवितशिलातलम् ।
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम्॥१०॥

विद्याधरानुचरितं नानारत्नसमाकुलम् ।
विषोल्बणभुजङ्गैश्च दीप्तजिह्वैर्निषेवितम्॥११॥

क्वचित्कनकसङ्काशं क्वचिद्रजतसंनिभम् ।
क्वचिदञ्जनपुञ्जभं हिमवन्तमुपागमत्॥१२॥

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः ।
फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान्॥१३॥

संवत्सरसहस्त्रे तु गते दिव्ये महानदी ।
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्॥१४॥

गङ्गोवाच ।
किमिच्छसि महाराज मत्तः किं च ददानि ते ।
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव॥१५॥

एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा ।
पितामहा मे वरदे कपिलेन महानदि॥१६॥

अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ।
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्॥१७॥

कपिलं देवमासाद्य क्षणेन निधनं गताः ।
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते॥१८॥

यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ।
तावत्तेषां गतिर्नास्ति सागराणां महानदि॥१९॥

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।
तेषामर्थेन याचामि त्वामहं वै महानदि॥२०॥

लोमश उवाच। एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता ।
भगीरथमिदं वाक्यं सुप्रीता समभाषत॥२१॥

करिष्यामि महाराज वचस्ते नात्र संशयः ।
वेगं तु मम दुर्धार्यं पतन्त्या गगनाद्भुवम्॥२२॥

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्॥२३॥

त तोषय महाबाहो तपसा वरदं हरम् ।
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति॥२४॥

स करिष्यति ते कामं पितॄणां हितकाम्यया ।
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः॥२५॥

कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ।
तपस्तीव्रमुपागम्य कालयोगेन केनचित्॥२६॥

अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप ।
स्वर्गे वासं समुद्दिश्य पितॄणां स नरोत्तमः॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने अष्टाधिकशततमोऽध्यायः॥१०८॥
नवाधिकशततमोऽध्यायः

लोमश उवाच। भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् ।
एवमस्त्विति राजानं भगवान्प्रत्यभाषत॥१॥

भगीरथवच इति ॥१॥

धारयिष्ये महाभाग गगनात्प्रच्युतां शिवाम् ।
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम॥२॥

एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् ।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः॥३॥

तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह ।
प्रयाचस्व महाबाहो शैलराजसुतां नदीम्॥४॥

पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ।
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम्॥५॥

प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ।
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता॥६॥

ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ।
तां प्रच्युतामथो दृष्ट्वा देवाः सार्धं महर्षिभिः॥७॥

गन्धर्वोरगयक्षाश्च समाजग्मुर्दिदृक्षवः ।
ततः पपात गगनागङ्गा हिमवतः सुता॥८॥

समुद्धृतमहावर्ता मीनग्राहसमाकुला ।
तां द‌धार हरो राजन्गङ्गां गगनमेखलाम्॥९॥

ललाटदेशे पतितां मालां मुक्तामयीमिव ।
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा॥१०॥

फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ।
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित् क्वचित्॥११॥

सा फेनपटसंवीता मत्तेव प्रमदाव्रजत् ।
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम्॥१२॥

एवंप्रकारान्सुबहून्कुर्वती गगनाच्च्युता ।
पृथिवीतलमासाद्य भगीरथमथाब्रवीत्॥१३॥

दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् ।
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते॥१४॥

एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः ।
यत्र तानि शरीराणि सागराणां महात्मनाम्॥१५॥

प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च ।
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः॥१६॥

कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ।
समासाद्य समुद्रं च गङ्गया सहितो नृपः॥१७॥

पूरयामास वेगेन समुद्रं वरुणालयम् ।
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत्॥१८॥

पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ।
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगां यथा॥१९॥

पूरणार्थं समुद्रस्य पृथिवीमवतारिता ।
समुद्रश्च यथा पीतः कारणार्थं महात्मना॥२०॥

वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ।
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि॥२१॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्यमाहात्म्यकथने नवाधिकशततमोऽध्यायः॥१०९॥
दशाधिकशततमोऽध्यायः

वैशंपायन उवाच। ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ ।
नन्दामपरनन्दां च नद्यौ पापभयापहे॥१॥

तत इति ॥१॥

पर्वतं स समासाद्य हेमकूटमनामयम् ।
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः॥२॥

भावान्पदार्थान् ॥२॥

वाताबद्धा भवन्मेघा उपलाश्च सहस्रशः ।
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः॥३॥

वाताबद्धा वातेनाबद्धाः मेघाः उपलाश्च भवन् । वातं विनैव सहसा मेघाः शिलाश्च प्रयुज्यन्ते इत्यर्थः। भवन्नित्यडभाव आर्षः । वाचा यत्र भवन्निति पाठे शब्दोच्चारणेनैव यत्र मेधा उपलाश्च हे भवन् भासमान आविर्भवन्तीति शेषः ॥३॥

वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति ।
स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते॥४॥

न च दृश्यतेऽध्येता ॥४॥

सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ।
मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः॥५॥

निर्वेदो जायते तत्र गृहाणि स्मरते जनः ।
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः ।
लोमशं पुनरेवाथ पर्यपृच्छत्तद‌द्भुतम्॥६॥

निर्वेदो गिरिदर्शने वैराग्यम् । गृहाणि स्त्र्यादीनि ॥६॥

लोमश उवाच। यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन ।
तदेकाग्रमना राजन्निबोध गदतो मम॥७॥

पृष्टश्च लोमश उवाच यथाश्रुतमिति ॥७॥

अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः ।
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्॥८॥

ऋषभकू‌टे ऋषभाश्रिते शैलशृङ्गे ॥८॥

स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह ।
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तथा॥९॥

वातं चाहूय मा शब्द‌मित्युवाच स तापसः ।
व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते॥१०॥

मा शब्दं कुरु इति शेषः ॥१०॥

एवमेतानि कर्माणि राजंस्तेन महर्षिणा ।
कृतानि कानिचित्क्रोधात्प्रतिषिद्धानि कानिचित्॥११॥

नन्दां त्वभिगता देवाः पुरा राजन्निति श्रुतिः ।
अन्वपद्यन्त सहसा पुरुषा देवदार्शनः॥१२॥

अन्वपद्यन्त अनुगतवन्तः । देवदर्शिनः देवदर्शनार्थिनः ॥१२॥

ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः ।
दुर्गं चक्रुरिमं देशं गिरिं प्रत्यूहरूपकम्॥१३॥

प्रत्यूहरूपकं दर्शने विघ्नरूपम् ॥१३॥

तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा ।
नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्॥१४॥

नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः ।
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव॥१५॥

नियतावाङ् मौनवान् ॥१५॥

इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान् ।
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत॥१६॥

कुशाकारेव दूर्वेयं संस्तीर्णव च भूरियम् ।
यूपप्रकारा बहवो वृक्षाश्चेमे विशांपते॥१७॥

देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत ।
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः॥१८॥

इहाप्लुतानां कौन्तेय सद्यः पाप्माभिहन्यते ।
कुरुश्रेष्ठाभिषेकं वै तस्मात्त्कुरु सहानुजः॥१९॥

हे कुरुश्रेष्ठ ॥१९॥

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि ।
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्॥२०॥

वैशंपायन उवाच। ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः ।
जगाम कौशिकीं पुण्यां रम्यां शीतजलां शुभाम्॥२१॥

लोमश उवाच। एषा देवनदी पुण्या कौशिकी भरतर्षभ ।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते॥२२॥

आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ।
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः॥२३॥

काश्यपस्य विभाण्डकस्य । ऋश्येति तालव्यादिः । मूर्धन्यादिपाठः प्रामादिकः । ऋश्यो मृगस्तस्येव शृङ्गमस्यास्तीति ऋश्यशृङ्गः । ऋश्यो न तुष्यन्निति मन्त्रवर्णात् ॥२३॥

तपसो यः प्रभावेण वर्षयामास वासवम् ।
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा॥२४॥

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।
विषये लोमपादस्य यश्चकाराद्भुतं महत्॥२५॥

निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।
लोमपादो दुहितरं सावित्रीं सविता यथा॥२६॥

युधिष्ठिर उवाच। ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।
विरुद्धे योनिसंसर्गे कथं च तपसा युतः॥२७॥

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा॥२८॥

कथंरूपा च सा शान्ता राजपुत्री यतव्रता ।
लोभयामास या चेतो मृगभूतस्य तस्य वै॥२९॥

लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः ।
कथं वै विषये तस्य नावर्षत्पाकशासनः॥३०॥

एतन्मे भगवन्सर्वं विस्तरेण यथातथम् ।
वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम्॥३१॥

शुश्रूषोर्मे इति संबन्धः ॥३१॥

लोमश उवाच। विभाण्डकस्य विप्रर्षेस्तपसा भावितात्मनः ।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः॥३२॥

शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् ।
महार्हस्य महातेजा बालः स्थविरसंमतः॥३३॥

महार्हस्य अतिपूज्यस्य ॥३३॥

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।
दीर्घकालं परिश्रान्त ऋषिः स देवसम्मितः॥३४॥

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् ।
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा॥३५॥

सह तोयेन तृषिता गर्भिणी चाभवत्ततः ।
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा॥३६॥

तोयेन सहापिबदित्यन्वयः ॥३६॥

देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ।
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्॥३७॥

सूय प्रसूय । विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ॥३७॥

तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः ।
ऋश्यशृङ्गस्तपो नित्यो वन एवाभ्यवर्तत॥३८॥

तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महात्मनः ।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्॥३९॥

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः ।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप॥४०॥

एतस्मिन्नेव काले तु सखा दशरथस्य वै ।
लोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥४१॥

अङ्गानां देशानाम् ॥४१॥

तेन कामात्कृतं मिथ्या ब्राह्मणस्येति नः श्रुतिः ।
स ब्राह्मणैः परित्यक्तस्ततो वै जगतः पतिः॥४२॥

तेन कामात् बुद्धिपूर्वम् । ब्राह्मणस्य प्रतिश्रुत्येति शेषः । मिथ्या कृतं मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ॥४२॥

पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया ।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः॥४३॥

तत्र हेतुः पुरोहितस्य अपचारो दोषः सोऽपि यदृच्छया ब्राह्मणापराधाभावेऽपि स्वेच्छया कृतः ॥४३॥

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते॥४४॥

कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् ।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः॥४५॥

तत्र त्वेको मुनिवरस्तं राजानमुवाच ह ।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर॥४६॥

निष्कृतिं प्रायश्चित्तम् ॥४६॥

ऋश्यश्रृङ्गं मुनिसुतमानयस्व च पार्थिव ।
वानेयमनभिज्ञं च नारीणामार्जवे रतम्॥४७॥

वानेयं वनभवम् ॥४७॥

स चेदवतरेद्राजन्विषयं ते महातपाः ।
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः॥४८॥

एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु॥४९॥

राजानमागतं श्रुत्वा प्रतिसंजहृषुः प्रजाः ।
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्॥५०॥

ऋश्यश्रृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ।
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः॥५१॥

शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ।
ततश्चानाययामास वारमुख्या महीपतिः॥५२॥

वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ।
ऋश्यश्रृङ्गमृषेः पुत्रमानयध्वमुपायतः॥५३॥

सर्वत्र परवञ्चनादौ । निष्णाताः कुशलाः ॥५३॥

लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ।
ता राजभयभीताश्च शापभीताश्च योषितः॥५४॥

अशक्यमुचुस्तत्कार्यं विवर्णा गतचेतसः ।
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्॥५५॥

जरद्योषा वृद्धा स्त्री ॥५५॥

प्रयतिष्ये महाराज तमानेतुं तपोधनम् ।
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि॥५६॥

ततः शक्ष्याम्यानयितुम्मृश्यशूङ्गमृषेः सुतम् ।
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः॥५७॥

अन्वजानात् अनुज्ञातवान् ॥५७॥

धनं च प्रददौ भूरि रत्नानि विविधानि च ।
ततो रूपेण संपन्ना वयसा च महीपते ।
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा॥५८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् ऋश्यशृङ्गोपाख्याने दशाधिकशततमोऽध्यायः॥११०॥
एकदशाधिकशततमोऽध्यायः

लोमश उवाच। सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत॥१॥

सा त्विति । नाव्याश्रमं नावा तार्यमाश्रमम् ॥१॥

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः ।
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः॥२॥

अतीव रमणीयं तदतीव च मनोहरम् ।
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्॥३॥

ततो निबध्य तां नावमदूरे काश्यपाश्रमात् ।
चारयामास पुरुषैर्विहारं तस्य वै मुनेः॥४॥

मुनेर्विभाण्डकस्य विहारं बहिर्गमनम् । चारयामास चारैरधिगतवती ॥४॥

ततो दुहितरं वेश्यां समाधायेतिकार्यताम् ।
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम्॥५॥

समाधाय बोधयित्वा । इतिकार्यताम् इतिकर्तव्यताम् । अन्तरम् असान्निध्यम् ॥५॥

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्॥६॥

वेश्योवाच। कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् ।
कच्चिद्भवान्रमते चाश्रमेऽस्मिंस्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि॥७॥

कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः ।
कच्चित्त्वया प्रीयते चैव विप्र कञ्चित्स्वाध्यायः क्रियते चर्श्यशृङ्ग॥८॥

ऋश्यशृङ्ग उवाच। ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम् ।
पाद्यं वै ते संप्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव॥९॥

कौश्यां बृस्यामास्स्व यथापजाष कृष्णाजिनेनावृतायां सुखायाम् ।
क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि हि देववत्त्वम्॥१०॥

कौश्यां बृस्यामास्वकुशासने उपविश । यथोपजोषं यथासुखम् । सुखायां सुखकर्याम् ॥१०॥

वेश्योवाच। ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण ।
तत्र स्वधर्मो नाभिवादनं मे न चोदकं पाद्यमुपस्पृशामि॥११॥

भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया ।
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया॥१२॥

ऋश्यशृङ्ग उवाच। फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव ।
करूषकानीङ्गुदधन्वनानि पिप्पलानां कामकारं कुरुष्व॥१३॥

लोमश उवाच। सा तानि सर्वाणि विवर्जयित्वा भक्ष्याण्यनर्हाणि ददौ ततोऽस्य ।
तान्पृश्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि॥१४॥

अनर्हाणि अत्युत्तमत्वादमूल्यानि ॥१४॥

ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति ।
पेयानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव॥१५॥

सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव ।
गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम्॥१६॥

मूले समीपे । विभज्यमाना अङ्गमोटनादीनि कुर्वाणा । निषेवमाणा सूचीवदभ्यन्तरं प्रविशन्ती। ‘षिवु तन्तुसंताने’ इति धातुः ॥१६॥

सर्जानशोकांस्तिलकांश्च वृक्षान्सुपुष्पितानवनाम्यावभज्य ।
विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः॥१७॥

अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य ।
अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम्॥१८॥

कायं देहं पीड्य आलिंङ्गनेन निपीड्य । अपदेशं छलम् ॥१८॥

तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः ।
तामेव भावेन गतेन शून्ये विनिःश्वसन्नार्तरूपो बभूव॥१९॥

भावेन अभिप्रायेण ॥१९॥

ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरानखाग्रात् ।
स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत्॥२०॥

प्रवेष्ठितः व्याप्तः ॥२०॥

सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम् ।
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम्॥२१॥

न कल्प्यन्ते समिधः किं नु तात कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य ।
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्साद्य कृता त्वया च॥२२॥

कल्प्यन्ते सिद्धाः क्रियन्ते । निर्णिक्तं प्रक्षालितम् । सवत्सा कृता दोहनायेति शेषः ॥२२॥

न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च ।
दीनोऽतिमात्रं त्वमिहाद्य किं तु पृच्छामि त्वां क इहाद्यागतोऽभूत्॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् ऋश्यशृङ्गोपाख्याने एकादशाधिकशततमोऽध्यायः॥१११॥
द्वादशाधिकशततमोऽध्यायः

ऋश्यशृङ्ग उवाच। इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी ।
सुवर्णवर्णः कमलायताक्षः स्वतः सुराणामिव शोभमानः॥१॥

इहागत इति । स्वत एव नालङ्कारादिना ॥१॥

समृद्धरूपः सवितेव दीप्तः सुश्लक्ष्णकृष्णाक्षिरतीव गौरः ।
नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः॥२॥

आधाररूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे ।
द्वौ चास्य पिण्डावधरेण कण्ठादजातरोमौ सुमनोहरौ च॥३॥

आधाररूपा आलवालसदृशी कण्ठाभरणविशेषः । ‘आधारश्चाधिकरणेऽप्यालवालेऽम्बुधारणे’ इति विश्वः ॥३॥

विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा ।
तथास्य चीरान्तरतः प्रभाति हिरण्मयी मेखला मे यथेयम्॥४॥

विलग्न इवेति कृशत्वं लक्ष्यते । अतिकृतप्रमाणा अतिकृशा ॥४॥

अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति ।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम्॥५॥

कलापकौ भूषणविशेषौ । स्वार्थे ‘कः’ ‘कलापः संहते बर्हे तूणीरे भूषणे हरे’ इति विश्वः । कङ्कणावित्यर्थः ॥५॥

विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसीव मत्ताः ।
चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति॥६॥

वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः ।
पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा॥७॥

यथा वनं माधवमासि मध्ये समीरितं श्वसनेनेव भाति ।
तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात॥८॥

सुसंयताश्चापि जटा विषक्ता द्वैधीकृता नातिसमा ललाटे ।
कर्णौ च चित्रैरिव चक्रवाकैः समावृतौ तस्य सुरूपवद्भिः॥९॥

तथा फलं वृत्तमथो विचित्रं समाहरत्पाणिना दक्षिणेन ।
तद्भूमिमासाद्य पुनः पुनश्च समुत्पतत्यद्भुतरूपमुच्चैः॥१०॥

तथा फलं फलसदृशं कन्दुकम् ॥१०॥

तच्चाभिहत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णन् ।
तं प्रेक्षतः पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता॥११॥

प्रीतिराह्लादः । रतिरासक्तिः ॥११॥

स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम् ।
वक्त्रणं वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम्॥१२॥

न चापि पाद्यं बहु मन्यतेऽसौ फलानि चेमानि मयाऽऽहृतानि ।
एवंव्रतोऽस्मीति च मामवोचत् फलानि चान्यानि समाददन्मे॥१३॥

मयोपयुक्तानि फलानि यानि नेमानि तुल्यानि रसेन तेषाम् ।
न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम्॥१४॥

तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः ।
पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत्॥१५॥

भूश्चलितेवेति मधुपानजा भ्रांन्तिः सूचिता ॥१५॥

इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः ।
यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः॥१६॥

गतेन तेनाऽस्मि कृतो विचेता गात्रं च मे संपरिदह्यतीव ।
इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम्॥१७॥

गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्य ।
इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्यार्यधर्मा॥१८॥

चर्तुं तथेच्छा हृदये ममास्ति दुनोति चित्तं यदि तं न पश्ये॥१९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् ऋश्यशृङ्गोपाख्याने द्वादशाधिकशततमोऽध्यायः॥११२॥
त्रयोदशाधिकशततमोऽध्यायः

विभाण्डक उवाच। रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन ।
अतुल्यवीर्याण्यभिरूपवन्ति विघ्नं सदा तपसश्चिन्तयन्ति॥१॥

रक्षांसीति ॥१॥

सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः ।
सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन्वनेषु॥२॥

न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथंचित् ।
कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तापसस्तान्न पश्येत्॥३॥

असज्जनेनाचरितानि पुत्र पापान्यपेयानि मधूनि तानि ।
माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति॥४॥

रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयांबभूव ।
नासादयामास यदा त्र्यहेण तदा स पर्याववृते श्रमाय॥५॥

श्रमाय आश्रमाय ॥५॥

यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिनाश्रावणेन ।
तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृश्यशृङ्गम्॥६॥

अश्रावणेन अपाखण्डेन वैदिकेन । ‘श्रावणो मासि पाखण्डे’ इति विश्वः । आश्रावणेनेति प्रश्लेषे तु इष्ट्याद्यर्थं तत्राश्रयावेयत्यादिशब्दप्रयोगात् । वेशयोषा वेश्या ॥६॥

दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।
प्रोवाच चैनां भवतः श्रमाय गच्छाव यावन्न पिता ममैति॥७॥

ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य योगेन विमुच्य नावम् ।
प्रमोदयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम्॥८॥

संस्थाप्य तामाश्रमदर्शने तु संतारितां नावमथातिशुभ्राम् ।
नीरादुपादाय तथैव चक्रे नाव्याश्रमं नाम वनं विचित्रम्॥९॥

आश्रमो यत्रस्थैर्दृश्यते तावति देशे आश्रमदर्शने ॥९॥

अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् ।
ददर्श देवं सहसा प्रविष्टमापूर्यमाणं च जगज्जलेन॥१०॥

स लोमपादः परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् ।
क्रोधप्रतीकारकरं च चक्रे गाश्चैव मार्गेषु च कर्षणानि॥११॥

विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् ।
समादिशत्पुत्रगृद्धी महर्षिर्विभाण्डकः परिपृच्छेद्यदा वः॥१२॥

स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च ।
किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः॥१३॥

अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा ।
अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः॥१४॥

ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् ।
जगाम चम्पां प्रति धक्ष्यमाणस्तमङ्गराजं सपुरं सराष्ट्रम्॥१५॥

स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान् ।
गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र॥१६॥

अवाप्य सत्कारमतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ गोपाः ।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य॥१७॥

देशेषु देशेषु स पूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम्॥१८॥

स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।
शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव॥१९॥

ग्रामांश्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः ।
चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेर्नरेन्द्र॥२०॥

स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावः ।
जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा॥२१॥

स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव ।
शान्ता चैनं पर्यचरन्नरेन्द्र खे रोहिणी सोममिवानुकूला॥२२॥

अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वा यथा ह्यगस्त्यम् ।
नलस्य वै दमयन्ती यथाभूद्यथा शची वज्रधरस्य चैव॥२३॥

नारायणी चेन्द्रसेना बभूव वश्या नित्यं मुद्गलस्याजमीढ ।
तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र॥२४॥

तस्याश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन्पुण्यकीर्तिः ।
अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुसंयाहि राजन्॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् ऋश्यशृङ्गोपाख्याने त्रयोदशाधिकशततमोऽध्यायः॥११३॥
चतुर्दशाधिकशततमोऽध्यायः

वैशंपायन उवाच। ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय ।
आनुपूर्व्येण सर्वाणि जगामायतनान्यथ॥१॥

तत इति ॥१॥

स सागरं समासाद्य गङ्गायाः सङ्गमे नृप ।
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्॥२॥

ततः समुद्रतीरेण जगाम वसुधाधिपः ।
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत॥३॥

लोमश उवाच। एते कलिङ्गाः कौन्तेय तत्र वैतरणी नदी ।
यत्रायजत धर्मोऽपि देवाञ्छरणमेत्य वै॥४॥

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् ।
उत्तरं तीरमेतद्धि सततं द्विजसेवितम्॥५॥

उत्तरं तीरं वैतरण्याः ॥५॥

समानं देवयानेन पथा स्वर्गमुपेयुषः ।
अत्र वै ऋषयोऽन्येऽपि पुरा ऋतुभिरीजिरे॥६॥

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे ।
पशुमादाय राजेन्द्र भागोऽयमिति चाब्रवीत्॥७॥

हृते पशौ तदा देवास्तमूचुर्भरतर्षभ ।
मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्वशीः॥८॥

मा परस्वमभिद्रोग्धा परभागस्य नाशं मा कुर्वित्यर्थः । धर्मान्मा वशीः धर्मसाधनान्यज्ञभागान्सर्वान्कामयेथाः । ‘वश कान्तौ’ अस्य लुङि रूपम् ॥८॥

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् ।
इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा॥९॥

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् ।
तत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर॥१०॥

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् ।
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्॥११॥

अयातयामं तात्कालिकम् ॥११॥

इमां गाथामत्र गायन्नपः स्पृशति यो नरः ।
देवयानोऽस्य पन्थाश्च चक्षुषाभिप्रकाशते॥१२॥

वैशंपायन उवाच। ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा ।
अवतीर्य महाभागास्तर्पयांचक्रिरे पितॄन्॥१३॥

युधिष्ठिर उवाच। उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात् ।
मानुषा‌दस्मि विषयादपेतः पश्य लोमश॥१४॥

सर्वाल्लोंकान्प्रपश्यामि प्रसादात्तव सुव्रत ।
वैखानसानां जपतामेष शब्दो महात्मनाम्॥१५॥

लोमश उवाच। त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर ।
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्व विशांपते॥१६॥

एतत्स्वयंभुवो राजन्वनं दिव्यं प्रकाशते ।
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान्॥१७॥

यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने ।
सपर्वतवनोद्देशा दक्षिणार्थे स्वयंभुवा॥१८॥

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा ।
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्॥१९॥

न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि ।
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्॥२०॥

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः ।
प्रसादयाम्बभूवाथ ततो भूमिं विशांपते॥२१॥

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव ।
पुनरुन्नह्य सलिलाद्वेदीरूपा स्थिता बभौ॥२२॥

सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा ।
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि॥२३॥

सैषा सागरमासाद्य राजन्वेदी समाश्रिता ।
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम्॥२४॥

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्य ।
स्पृष्टा हि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ॥२५॥

ॐ नमो विश्वगुप्ताय नमो विश्वपराय ते ।
सांनिध्यं कुरु देवेश सागरे लवणाम्भसि॥२६॥

स्नानाद्यर्थं समुद्रप्रार्थनामन्त्रमाह ॐ नम इति । ‘विश्वं गुप्तं लीनमस्मिन् प्रलये’ इति विश्वगुप्तः । विश्वस्मात्पराय श्रेष्ठाय विष्णवे इत्यर्थः । लवणाम्भसि क्षारोदके ॥२६॥

अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णोरेतस्त्वममृतस्य नाभिः ।
एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह॥२७॥

अग्निर्मित्रश्च तेजस्त्वादग्निवत्सूर्योऽपि अपां योनिः । अपामिति शेषः । विष्णोर्व्यापकस्यात्मनो रेतः शरीराकारपरिणतम् अभिव्यक्तिस्थानं त्वं हे समुद्र अमृतस्य नाभिः सुधाया गर्भस्थानम् ॥२७॥

अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः ।
एवं जपन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्॥२८॥

इडा यज्ञः विष्णोः रेतोधाः विष्णो रेतः जीवः स धीयतेऽस्मिन् देहे । अमृतस्य नाभिः मोक्षस्य साधनम् ॥२८॥

अन्यथा हि कुरुश्रेष्ठ देवयोनिरपां पतिः ।
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः॥२९॥

देवयोनिः देवस्थानम् ॥२९॥

वैशंपायन उवाच। ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत् ।
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां महेन्द्राचलगमने चतुर्दशाधिकशततमोऽध्यायः॥११४॥
पञ्चदशाधिकशततमोऽध्यायः

वैशंपायन उवाच। स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ।
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह॥१॥

स इति ॥१॥

लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान् ।
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान्॥२॥

तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः ।
रामस्यानुचरं वीरमपृच्छदकृतव्रणम्॥३॥

कदा तु रामो भगवांस्तापसान्दर्शयिष्यति ।
तेनैवाहं प्रसंगेन द्रष्टुमिच्छामि भार्गवम्॥४॥

अकृतव्रण उवाच। आयानेवासि विदितो रामस्य विदितात्मनः ।
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति॥५॥

आयान् आगच्छन् ॥५॥

चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः ।
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी॥६॥

युधिष्ठिर उवाच। भवाननुगतो रामं जामदग्न्यं महाबलम् ।
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः॥७॥

स भवान्कथयत्वद्य यथा रामेण निर्जिताः ।
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना॥८॥

अकृतव्रण उवाच। हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
भृगूणां राजशार्दूल वंशे जातस्य भारत॥९॥

रामस्य जामदग्न्यस्य चरितं देवसंमितम् ।
हैहयाधिपतेश्चैव कार्तवीर्यस्य भारत॥१०॥

रामेण चार्जुनो नाम हैहयाधिपतिर्हतः ।
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव॥११॥

दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा ।
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते॥१२॥

अव्याहतगतिश्चैव रथस्तस्य महात्मनः ।
रथेन तेन तु सदा वरदानेन वीर्यवान्॥१३॥

ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः ।
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः॥१४॥

ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः ।
देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम्॥१५॥

भगवन्भूतरक्षार्थमर्जुनं जहि वै प्रभो ।
विमानेन च दिव्येन हैहयाधिपतिः प्रभुः॥१६॥

शचीसहायं क्रीडन्तं धर्षयामास वासवम् ।
ततस्तु भगवान्देवः शक्रेण सहितस्तदा ।
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत॥१७॥

यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम् ।
संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः॥१८॥

जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् ।
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः॥१९॥

कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः ।
गाधीति विश्रुतो लोके वनवासं जगाम ह॥२०॥

वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा ।
ऋचीको भार्गवस्तां च वरयामास भारत॥२१॥

तमुवाच ततो गाधिर्बाह्मणं संशितव्रतम् ।
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम्॥२२॥

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम॥२३॥

न चापि भगवान्वाच्यो दीयतामिति भार्गव ।
देया मे दुहिता चैव त्वद्विधाय महात्मने॥२४॥

ऋचीक उवाच। एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् ।
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते॥२५॥

एकत इति । बहिः श्यामाः अन्तरा रक्ताः कर्णा येषां ते एकतः श्यामकर्णास्तेषाम् ॥२५॥

अकृतव्रण उवाच। स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् ।
एकतः श्मामकर्णानां पाण्डुराणां तरस्विनाम्॥२६॥

सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम् ।
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा॥२७॥

तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ।
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा॥२८॥

ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा ।
लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः॥२९॥

जन्याः वरपक्षीयाः ॥२९॥

धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः ।
यथाकामं यथाजोषं तया रेमे सुमध्यया॥३०॥

तं विवाहे कृते राजन्सभार्यमवलोककः ।
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननर्द ह॥३१॥

अवलोककः अवलोकनार्थी ॥३१॥

भार्यापती तमासीनं गुरुं सुरगणार्चितम् ।
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा॥३२॥

ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् ।
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्॥३३॥

सा वै प्रसादयामास तं गुरुं पुत्रकारणात् ।
आत्मनश्चैव मातुश्च प्रसादं च चकार सः॥३४॥

भृगुरुवाच। ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै ।
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम्॥३५॥

चरुद्वयमिदं भद्रे जनन्याश्च तवैव च ।
विश्वमावर्तयित्वा तु मया यत्नेन साधितम्॥३६॥

विश्वं विराट्‌पुरुषम् आवर्तयित्वा मुहुर्मुहुरनुसंधाय एतयोश्चर्वोर्भक्षणेन विश्वस्त्रष्टृतुल्यौ पुत्रौ भविष्यत इति भावः ॥३६॥

प्राशितव्यं प्रयत्नेन तेत्युक्त्वादर्शनं गतः ।
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम्॥३७॥

ते उभे प्रति इत्युक्त्वेतीकारलोपः सन्धिर्वा आर्षः । आलिङ्गने अश्वत्थोदुम्बरयोः ॥३७॥

ततः पुनः स भगवान्काले बहुतिथे गते ।
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः॥३८॥

अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् ।
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्॥३९॥

विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता ।
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति॥४०॥

क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् ।
भविष्यति महावीर्यः साधूनां मार्गमास्थितः॥४१॥

ततः प्रसादयामास श्वशुरं सा पुनः पुनः ।
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति॥४२॥

एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता ।
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते॥४३॥

तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ।
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च॥४४॥

बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ।
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ ।
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्॥४५॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कार्तवीर्योपाख्याने पञ्चदशाधिकशततमोऽध्यायः॥११५॥
षोडशाधिकशततमोऽध्यायः

अकृतव्रण उवाच। स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।
तपस्तेपे ततो वेदान्नियमाद्वशमानयत्॥१॥

स वेदेति ॥१॥

स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।
रेणुकां वरयामास स च तस्मै ददौ नृपः॥२॥

रेणुकां त्वथ संप्राप्य भार्या भार्गवनन्दनः ।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया॥३॥

तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः॥४॥

फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता॥५॥

सा तु चित्ररथं नाम मार्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया॥६॥

क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका॥७॥

ततस्तस्य स्पृहयामास तमैच्छत् ॥७॥

व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना ।
प्रविवेशाश्रमं तत्र तां वै भर्तान्वबुध्यत॥८॥

अम्भसि सरस्येव क्लिन्ना द्रुता । तथा चोक्तम् । ‘सुन्दरं पुरुषं दृष्ट्वा भ्रातरं पितरं सुतम् । योनिर्द्रवति नारीणां सत्यं सत्यं जनार्दन’ इति ॥८॥

स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।
धिक्शब्देन महातेजा गर्हयामास वीर्यवान्॥९॥

ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा॥१०॥

तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।
न च ते जातसंस्नेहाः किंचिदूचुर्विचेतसः॥११॥

ततः शशाप तान्क्रोधात्ते शप्ताश्चेतनां जहुः ।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः॥१२॥

ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा ।
तमुवाच महाबाहुर्जमद‌ग्निर्महातपाः॥१३॥

जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।
तत आदाय परशुं रामो मातुः शिरोऽहरत्॥१४॥

ततस्तस्य महाराज जमदग्नेर्महात्मनः ।
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम्॥१५॥

ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा॥१६॥

स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा॥१७॥

अप्रतिद्वंद्वतां युद्धे दीर्घमायुश्च भारत ।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः॥१८॥

कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत॥१९॥

तमाश्रमपदं प्राप्तमृषेर्भार्या समाचर्यत् ।
स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम्॥२०॥

प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्तथा बलात् ।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान्॥२१॥

आगताय च रामाय तदाचष्ट पिता स्वयम् ।
गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्॥२२॥

स मृत्युवशमापन्नं कार्तवीर्यमुपाद्रवत् ।
तस्याथ युधि विक्रम्य भार्गवः परवीरहा॥२३॥

चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ।
सहस्त्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः॥२४॥

अभिभूतः स रामेण संयुक्तः कालधर्मणा ।
अर्जुनस्याथ दायादा रामेण कृतमन्यवः॥२५॥

कालधर्मणा मृत्युना ॥२५॥

आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ।
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्॥२६॥

असकृद्रामरामेति विक्रोशन्तमनाथवत् ।
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर॥२७॥

पीडयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ।
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते॥२८॥

समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ।
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् ।
अनर्हन्तं तथाभूतं विललाप सुदुःखितः॥२९॥

भार्यावधदोषात्स्वयमपि तादृशमेव मरणं प्रापेत्याशयः ॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कार्तवीर्योपाख्याने जमदग्निवधे षोडशाधिकशततमोऽध्यायः॥११६॥
सप्तदशाधिकशततमोऽध्यायः

राम उवाच। ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः ।
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः॥१॥

ममेति ॥१॥

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे ।
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः॥२॥

किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः ।
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः॥३॥

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहत्सु च ।
अयुध्यमानं धर्मज्ञमेकं हत्त्वाऽनपत्रपाः॥४॥

लालप्यैवं सकरुणं बहु नानाविधं नृप ।
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः॥५॥

ददाह पितरं चाग्नौ रामः परपुरंजयः ।
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत॥६॥

संक्रुद्धोऽतिबलः संख्ये शस्त्रमादाय वीर्यवान् ।
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः॥७॥

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ ।
तांश्च सर्वानवामृद्गाद्रामः प्रहरतां वरः॥८॥

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्॥९॥

स तेषु तर्पयामास भृगून्भृगुकुलोद्वहः ।
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत्॥१०॥

ततो यज्ञेन महता जामदग्न्यः प्रतापवान् ।
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम्॥११॥

वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने ।
दशव्यामायतां कृत्वा नवोत्सेधां विशांपते॥१२॥

दशव्यामायतां व्यामो हस्तचतुष्टयम् । चत्वारिंशद्धस्तायामविस्ताराम् । नवोत्सेधां षट्‌त्रिंशद्धस्तोछ्रायां चेत्यर्थः । व्यायामेति प्रमादपाठः ॥१२॥

तां कश्यपस्यानुमते ब्राह्मणाः खाण्डशस्तदा ।
व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः॥१३॥

खण्डशः खण्डानि खण्डानि कृत्वा व्यभजन् ॥१३॥

स प्रदाय महीं तस्मै कश्यपाय महात्मने ।
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः॥१४॥

एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः ।
पृथिवी चापि विजिता रामेणामिततेजसा॥१५॥

वैशंपायन उवाच। ततश्चतुर्दशीं रामः समयेन महामनाः ।
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम्॥१६॥

स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः ।
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः॥१७॥

आनर्च अर्चितवान् ॥१७॥

अर्चित्वा जामदग्न्यं स पूजितस्तेन चोदितः ।
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः॥१८॥

तेन च उदित इति च्छेदः । उष्य उषित्वा ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कार्तवीर्योपाख्याने सप्तदशाधिकशततमोऽध्यायः॥११७॥
अष्टदशाधिकशततमोऽध्यायः

वैशंपायन उवाच। गच्छन्स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा ।
सर्वाणि विप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरस्य॥१॥

गच्छन्निति ॥१॥

स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः ।
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः॥२॥

वृत्तवान् सद्वृत्तः । पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात् । प्रशस्तां नाम नदीम् ॥२॥

तत्रापि चाप्लुत्य महानुभावः संतर्पयामास पितॄन्सुरांश्च ।
द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत्॥३॥

ततो विपाप्मा द्रविडेषु राजन्समुद्रमासाद्य च लोकपुण्यम् ।
अगस्त्यतीर्थं च महापवित्रं नारीतीर्थान्यथ वीरो ददर्श॥४॥

नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशात् यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ॥४॥

तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म नरैरशक्यम् ।
संपूज्यमानः परमर्षिसङ्घैः परां मुदं पाण्डुसुतः स लेभे॥५॥

स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च ।
संपूजयन्विक्रममर्जुनस्य रेमे महीपाल पतिः पृथिव्याः॥६॥

ततः सहस्त्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य ।
हृष्टः सह भ्रातृभिरर्जुनस्य संकीर्तयामास गवां प्रदानम्॥७॥

अम्बुधरोत्तमस्य समुद्रस्य ॥७॥

स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् ।
क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श॥८॥

तत्रोदधेः कंचिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद ।
तप्तं सुरैरत्र तपः पुरस्तादिष्टं तथा पुण्यपरैर्नरेन्द्रैः॥९॥

स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः ।
ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम्॥१०॥

ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च ।
वैवस्वतादित्यधनेश्वराणामिन्द्रस्य विष्णोः सवितुर्विभोश्च॥११॥

भवस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव ।
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव॥१२॥

सरस्वत्याः सिद्धगणस्य चैव पुण्याश्च ये चाप्यमरास्तथान्ये ।
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि॥१३॥

तेषूपवासान्विबुधानुपोष्य दत्त्वा च रत्नानि महान्ति राजा ।
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम॥१४॥

तेषु तीर्थेषु । उपवासान् समीपवासिनः । विबुधान् पण्डितान् उपोष्य वस्त्रैरावास्य रत्नानि च तेभ्य एव दत्त्वा ॥१४॥

स तेन तीर्थेन तु सागरस्य पुनः प्रयातः सह सोदरीयैः ।
द्विजैः पृथिव्यां प्रथितं महाद्भिस्तीर्थं प्रभासं समुपाजगाम॥१५॥

तेन तीर्थेन सिन्धुतीरमार्गेण ॥१५॥

तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च ।
संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन॥१६॥

स द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाभिषेकम् ।
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतां वरिष्ठः॥१७॥

तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च ।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम्॥१८॥

ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् ।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादम्॥१९॥

ततः स रामं च जनार्दनं च कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् ।
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्त्वः॥२०॥

कार्ष्णिं प्रद्युम्नम् । पौत्रं सात्यकिम् ॥२०॥

ते चापि सर्वान्प्रतिपूज्य पार्थांस्तैः सत्कृताः पाण्डुसुतैस्तथैव ।
युधिष्ठिरं संपरिवार्य राजन्नुपाविशन्देवगणा यथेन्द्रम्॥२१॥

तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः ।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं निवेशनं हृष्टमनाः शशंस॥२२॥

श्रुत्वा तु ते तस्य वचः प्रतीतास्तांश्चापि दृष्ट्वा सुकृशानतीव ।
नेत्रोद्भवं संमुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां प्रभासे यादवपाण्डवसमागमे अष्टादशाधिकशततमोऽध्यायः॥११८॥
ऊनविंशाधिकशततमोऽध्यायः

जनमेजय उवाच। प्रभासतीर्थमासाद्य पाण्डवा वृष्णयस्तथा ।
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन॥१॥

प्रभासेति ॥१॥

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम्॥२॥

वैशंपायन उवाच। प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः ।
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे॥३॥

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः ।
वनमाली हली रामो बभाषे पुष्करेक्षणम्॥४॥

हलीति । हलधरत्वाद्धर्मस्यापि निन्दां करिष्यतीति ध्वनितम् ॥४॥

बलदेव उवाच। न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय ।
युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः॥५॥

भवाय अभ्युदयाय ॥५॥

दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति ।
धर्मादधर्मश्चरितो वरीयानितीव मन्येत नरोऽल्पबुद्धिः॥६॥

विवरं शरीरगूहनाय न ददातीत्यर्थः ॥६॥

दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुखमात्तराज्ये ।
किं त्वत्र कर्तव्यमिति प्रजाभिः शङ्का मिथः संजनिता नराणाम्॥७॥

मिथः शङ्का धर्माधर्मयोः किं बलीय इति शास्त्रानुभवयोर्विरोधात्संशयः ॥७॥

अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता ।
चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत्॥८॥

राज्याच्च सुखाच्च चलेत् न तु धर्मादिति शेषः । तत्र हेतुः धर्मादिति । कथमित्युपहासार्थम् ॥८॥

कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः ।
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान्॥९॥

किं नाम वक्ष्यत्यवनिप्रधानः पितॄन्समागम्य परत्र पापः ।
पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात्॥१०॥

अवनिप्रधानो धृतराष्ट्रः ॥१०॥

नासौ धिया संप्रति पश्यति स्म किं नाम कृत्वाहमचक्षुरेवम् ।
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमिति स्म राज्यात्॥११॥

नासाविति । किं नाम पापं कृत्वाऽहमचक्षुर्जातः कौन्तेयं प्रव्राज्य कीदृशो भविष्यामीति धिया नासौ पश्यतीत्यध्याहृत्य योज्यम् ॥११॥

नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् ।
विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म॥१२॥

चामीकराभान् कनकप्रभान् । एतन्मरणचिह्नम् । नृशंसं निन्द्यं कर्म ॥१२॥

व्यूढोत्तरांसान्पृथुलोहिताक्षानिमान्स्म पृच्छन्स शृणाति नूनम् ।
प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम्॥१३॥

इमान्भीष्मादीन् शृणाति हिनस्ति शृणोतीति लेखकप्रमादः । न शृणोतीति गौडपाठे तु ‘अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति । यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति’ इति श्रुत्यर्थोऽनुसंधेयः ॥१३॥

योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् ।
श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम्॥१४॥

स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः ।
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे॥१५॥

शेषं न कुर्यात् निःशेषमेव नाशयेदित्यर्थः ॥१५॥

न ह्यस्य वीर्येण बलेन कश्चित्समः पृथिव्यामपि विद्यतेऽन्यः ।
स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्स कुर्यात्॥१६॥

प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु ।
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः॥१७॥

स्वस्ति क्षेमेण आगमत् आगतः ॥१७॥

यः सिन्धुकूले व्यजयन्नृदेवान्समागतान्दाक्षिणात्यान्महीपान् ।
तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम्॥१८॥

यः पार्थिवानेकरथेन जिग्ये दिशं प्रतीचीं प्रति युद्धशौण्डः ।
सोऽयं वने मूलफलेन जीवञ्जटी चरत्यद्य मलाचिताङ्गः॥१९॥

सोऽयं नकुलः ॥१९॥

सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या ।
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा॥२०॥

राज्ञः द्रुपदस्य ॥२०॥

त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथवाश्विनोश्च ।
एषां सुराणां तनयाः कथं नु वनेऽचरन्ह्यस्तसुखाः सुखार्हाः॥२१॥

त्रिवर्गमुख्यस्य धर्मस्य । ‘त्रिवर्गो धर्मकामार्थैः’ इत्यमरः । वने अचरन् हि अस्तसुखा इति च्छेदः ॥२१॥

जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते ।
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां बलरामवाक्ये ऊनविंशाधिकशततमोऽध्यायः॥११९॥
विंशत्यधिकशततमोऽध्यायः

सात्यकिरुवाच। न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित्॥१॥

न रामेति ॥१॥

ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्त ।
तेषां तु कार्येषु भवन्ति नाथाः शिब्यादयो राम यथा ययातेः॥२॥

नाथवन्तः ऐश्वर्यवन्तः । ‘भावे घञ्’ । नात्मना न स्वयम् । नाथाः कार्यसाधकाः । शिष्यादय इत्येव पाठः । शैब्यादय इति पाठे तु स्वार्थे ष्यञ् ॥२॥

येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके ।
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति॥३॥

तस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ ।
वसन्त्यरण्ये सहसोदरीयैस्त्रैलोक्यनाथानाभिगम्य पार्थाः॥४॥

निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः॥५॥

त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा ।
सधार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः॥६॥

भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः ।
यदर्थमैच्छन्मनुजाः सुपुत्रं शिष्यं गुरुं चाप्रतिकूलवादम्॥७॥

स पार्थोऽपि तिष्ठत्विति पूर्वेणान्वयः । यदर्थं शत्रुवधार्थम् ॥७॥

यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् ।
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय॥८॥

तत् सुपुत्रादिकम् । अस्माकमस्तीति शेषः ॥८॥

कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम ।
खड्गेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य॥९॥

ततोऽस्य सर्वाननुगाह्ननिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् ।
आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः॥१०॥

भैमाः भीमकर्मकर्तारः भीमवंशजा वा ॥१०॥

निघ्नन्तमेकं कुरुयोधमुख्यानग्निं महाकक्षमिवान्तकाले ।
प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः॥११॥

जानामि वीर्यं च जयात्मजस्य कार्ष्णिर्भवत्येव यथा रणस्थः ।
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य॥१२॥

जयात्मजस्याभिमन्योः ॥१२॥

न विद्यते जाम्बवतीसुतस्य रणे विषह्यं हि रणोत्कटस्य ।
एतेन बालेन हि शंबरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्॥१३॥

वृत्तोरुरत्यायतपीनबाहुरेतेन संख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात्॥१४॥

यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन्पुनराव्रजेच्च॥१५॥

द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः॥१६॥

किं नाम लोकेषु विषह्यमस्ति कृष्णस्य सर्वेषु सदेवकेषु ।
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे॥१७॥

ततो निरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु॥१८॥

गदोल्मुकौ बाहुकभानुनीथाः शूरश्च संख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म॥१९॥

सवृष्णिभोजान्धकयोधमुख्या समागता सात्वतशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्राल्लोके यशः स्फीतमुपाकरोतु॥२०॥

ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः ।
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन॥२१॥

अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम्॥२२॥

वासुदेव उवाच। असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित्॥२३॥

माधव मधुदेशो मथुराप्रदेशस्तत्र जातः ॥२३॥

न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम्॥२४॥

उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम्॥२५॥

यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च ।
युध्येम विक्रम्य रणे समेतास्तदैव सर्वे रिपवो हि न स्युः॥२६॥

युधिष्ठिर उवाच। नेदं चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्॥२७॥

यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च॥२८॥

प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोऽस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान्॥२९॥

तेऽन्योऽन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशुंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मुस्ते चापि तीर्थान्यनुसंविचेरुः॥३०॥

विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम् ।
जगाम पुण्यां सरितं पयोष्णीं सभ्रातृभृत्यः सह लोमशेन॥३१॥

सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोऽध्युवास ।
द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः॥३२॥

सुतेन अभिषुतेन । यज्ञे सोमपानतुल्यं तज्जलपानमित्यर्थः । पयोष्णी प्रति पयोष्ण्यां पयोमात्रम् अध्युवास भक्षितवान् ॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां यादवगमने विंशत्यधिकशततमोऽध्यायः॥१२०॥
एकविंशत्यधिकशततमोऽध्यायः

लोमश उवाच। नृगेण यजमानेन सोमेनेह पुरन्दरः ।
तर्पितः श्रूयते राजन्स तृप्तो मुदमभ्यगात्॥१॥

नृगेणेति ॥१॥

इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च ।
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः॥२॥

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुः ।
तर्पयामास सोमेन हयमेधेषु सप्तसु॥३॥

आमूर्तरयसः गयनामा ॥३॥

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् ।
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे॥४॥

वानस्पत्यं वृक्षजं चषालादि । भौमं मृन्मयं स्थाल्यादि ॥४॥

चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ।
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः॥५॥

चषालो यूपकटकः । यूपः यज्ञस्तम्भः । चमसाः सोमपानपात्राणि । पात्र्यः हविःस्थापनार्थानि मृन्मयानि स्रुचः हविःप्रदानार्थाः । स्रुवाः हविरवदानार्थाः ॥५॥

सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ।
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्॥६॥

स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ।
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः॥७॥

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
प्रसंख्यानानसंख्येयान्प्रत्यगृह्णन्द्विजातयः॥८॥

प्रसंख्यानान् एकयत्नेन भूयः स्वर्णमुद्रादेर्मापकान् खारीद्रोणादीन् ॥८॥

सिकता वा यथा लोके यथा वा दिवि तारकाः ।
यथा वा वर्षतो धारा असंख्येयाः स्म केनचित्॥९॥

तथैव तदसंख्येयं धनं यत्प्रददौ गयः ।
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु॥१०॥

भवेत्संख्येयमेतद्धि यदेतत्परिकीर्तितम् ।
न तस्य शक्याः संख्यातुं दक्षिणा दक्षिणावतः॥११॥

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्॥१२॥

अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः ।
गयस्य यजमानस्य तत्र तत्र विशांपते॥१३॥

स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत ।
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्॥१४॥

तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽच्युत ।
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि॥१५॥

वैशंपायन उवाच। स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।
वैदूर्यपर्वतं चैव नर्मदां च महानदीम्॥१६॥

समागमत तेजस्वी भ्रातृभिः सहितोऽनघ ।
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः॥१७॥

तीर्थानि रमणीयानि पुण्यान्यायतनानि च ।
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ।
तत्र तत्रा‌ददद्वित्तं ब्राह्मणेभ्यः सहस्त्रशः॥१८॥

लोमश उवाच। देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।
वैदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च॥१९॥

संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते॥२०॥

एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः॥२१॥

चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः ।
संस्तम्भयामास च तं वासवं च्यवनः प्रभु ।
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्॥२२॥

युधिष्ठिर उवाच। कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः॥२३॥

नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ ।
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम॥२४॥

सोमस्य पीथःपानं तद्वन्तौ सोमपीथिनौ ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौकन्ये एकविंशाधिकशततमोऽध्यायः॥१२१॥
द्वाविंशाधिकशततमोऽध्यायः

लोमश उवाच। भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भारत ।
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः॥१॥

भृगोरिति ॥१॥

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।
अतिष्ठत चिरं कालमेकदेशे विशांपते॥२॥

वीरस्थानेन वीरासनेन ॥२॥

सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः ।
कालेन महता राजन्समाकीर्णः पिपीलिकैः॥३॥

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।
तप्यते स्म तपो घोरं वल्मीकेन समावृतः॥४॥

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्॥५॥

तस्य स्त्रीणां सहस्राणि चत्त्वार्यासन्परिग्रहः ।
एकैव च सुता सुभ्रूः सुकन्या नाम भारत॥६॥

सा सखीभिः परिवृता दिव्याभरणभूषिता ।
चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत्॥७॥

सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम् ।
वनस्पतीन्विचिन्वन्ती विजहार सखीव्रता॥८॥

रूपेण वयसा चैव मदनेन मदेन च ।
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः॥९॥

तां सखीरहितामेकामेकवस्त्रामलंकृताम् ।
ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम्॥१०॥

तां पश्यमानो विजने स रेमे परमद्युतिः ।
क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः॥११॥

क्षामकण्ठः क्षीणध्वनिः ॥११॥

तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ।
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी॥१२॥

अत एव सा तद्वचनं न शृणोति ॥१२॥

कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ।
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने॥१३॥

अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ।
ततः शर्यातिसैन्यस्य शकृन्सूत्रे समावृणोत्॥१४॥

ततो रुद्धे शकुन्सूत्रे सैन्यमानाहदुःखितम् ।
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः॥१५॥

आनाहो मलविष्टम्भः ॥१५॥

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ।
केनापकृतमद्येह भार्गवस्य महात्मनः॥१६॥

ज्ञातं वा यदि वाज्ञातं तद्द्रुतं ब्रूत माचिरम् ।
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्॥१७॥

सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ।
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्॥१८॥

पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ।
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्॥१९॥

पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ।
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्॥२०॥

खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ।
एतच्छ्रुत्वा एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात्॥२१॥

तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ।
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः॥२२॥

अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ।
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा॥२३॥

अपमानादहं विद्धो ह्यनया दर्पपूर्णया ।
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्॥२४॥

तामेव प्रतिगृह्याहं राजन्दुहितरं तव ।
क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते॥२५॥

लोमश उवाच। ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।
ददौ दुहितरं तस्मै च्यवनाय महात्मने॥२६॥

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ।
प्राप्तप्रसादो राजा वै ससैन्यः पुरमाव्रजत्॥२७॥

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च॥२८॥

अग्नीनामतिथीनां च शुश्रूषुरनसूयिका ।
समाराधयत क्षिप्रं च्यवनं सा शुभानना॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौकन्ये द्वाविंशाधिकशततमोऽध्यायः॥१२२॥
त्रयोविंशाधिकशततमोऽध्यायः

लोमश उवाच। कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ नृप ।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्॥१॥

कस्यचिदिति । विवृताम् अनाच्छादिताम् ॥१॥

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्॥२॥

कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च ।
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने॥३॥

ततः सुकन्या सव्रीडा तावुवाच सुरोत्तमौ ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च॥४॥

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने॥५॥

गताध्वने अतीतवयसे इत्यर्थः ॥५॥

भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा ।
न देवेष्वपि तुल्यां हि त्वया पश्याव भाविनि॥६॥

अनाभरणसंपन्ना परमाम्बरवर्जिता ।
शोभयस्यधिकं भद्रे वनमप्यनलंकृता॥७॥

सर्वाभरणसंपन्ना परमाम्बरधारिणी ।
शोभसे त्वनवद्याङ्गि न त्वेवं मलपङ्किनी॥८॥

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्॥९॥

असमर्थं परित्राणे पोषणे तु शुचिस्मिते ।
सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः॥१०॥

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।
एवमुक्ता सुकन्यापि सुरौ ताविदमदब्रवीत्॥११॥

रताहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम् ।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ॥१२॥

युवानं रूपसंपन्नं करिष्यावः पतिं तव ।
ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्॥१३॥

एतेन समयेनैनमामन्त्रय पतिं शुभे ।
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्॥१४॥

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ।
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति॥१५॥

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।
ततोम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह॥१६॥

अश्विनावपि तद्राजन्सरः प्राविशतां तदा ।
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्तदा॥१७॥

दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः॥१८॥

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि॥१९॥

यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ।
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्॥२०॥

निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ।
लब्ध्वा तु च्यवनो भार्यां वयो रूपं च वाञ्छितम्॥२१॥

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।
यथाहं रूपसंपन्नो वयसा च समन्वितः॥२२॥

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ।
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्॥२३॥

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः ।
च्यवनश्च सुकन्या च सुराविव विजह्रतुः॥२४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौकन्ये त्रयोविंशाधिकशततमोऽध्यायः॥१२३॥
चतुर्विंशत्यधिकशततमोऽध्यायः

लोमश उवाच। ततः शुश्राव शर्यातिर्वयस्थं च्यवनं कृतम् ।
सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम्॥१॥

तत इति । वयस्थं युवानम् । ‘युवं च्यवानमाश्विना जरन्तं पुनर्युवानं चरथाय चक्रथुः’ इति मन्त्रलिङ्गात् । च्यवानं च्यवनम् । चरथाय धर्माचरणार्थम् ॥१॥

च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव ।
रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव॥२॥

ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।
उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः॥३॥

अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् ।
याजयिष्यामि राजंस्त्वां संभारानवकल्पय॥४॥

संभारान् यज्ञोपकरणानि ॥४॥

ततः परमसंहृष्टः शर्यातिरवनीपतिः ।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्॥५॥

प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम्॥६॥

तत्रैनं च्यवनो राजन्याजयामास भार्गवः ।
अद्भुतानि च तत्रासन्यानि तानि निबोध मे॥७॥

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।
तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम्॥८॥

ग्रहं सोमस्य गृह्णानं तयोरर्थे ॥८॥

इन्द्र उवाच। उभावेतौ न सोमर्हौ नासत्याविति मे मतिः ।
भिषजौ दिवि देवानां कर्मणा तेन नार्हतः॥९॥

च्यवन उवाच। महोत्साहौ महात्मानौ रूपद्रविणवत्तरौ ।
यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम्॥१०॥

ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर॥११॥

सवं सोमम् ॥११॥

इन्द्र उवाच। चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः॥१२॥

लोमश उवाच। एतदेव यदा वाक्यमाम्रेडयति देवराट् ।
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः॥१३॥

आम्रेडयति पुनःपुनरावर्तयति ॥१३॥

ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्॥१४॥

आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ।
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्॥१५॥

एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ।
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्॥१६॥

ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः ।
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः॥१७॥

तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् ।
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः॥१८॥

मदो नाम महावीर्यो बृहत्कायो महासुरः॥१९॥

शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ।
तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत्॥२०॥

हनुरेका स्थिता त्वस्य भूमावेका दिवं गता ।
चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम्॥२१॥

इतरे तस्य दशना बभूवुर्दशयोजनाः ।
प्रासादशिखराकाराः शूलाग्रसमदर्शनाः॥२२॥

बाहू पर्वतसंकाशावायतावयुतं समौ ।
नेत्रे रविशशिप्रख्ये वक्त्रं कालाग्निसंनिभम्॥२३॥

लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया ।
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्॥२४॥

स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।
महता घोररूपेण लोकाञ्छब्देन नादयन्॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौकन्ये चतुर्विंशत्यधिकशततमोऽध्यायः॥१२४॥
पञ्चविंशत्यधिकशततमोऽध्यायः

लोमश उवाच। तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्॥१॥

तं दृष्ट्वेति ॥१॥

भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः ।
ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः॥२॥

सृक्किणी गल्लगर्भौ ॥२॥

सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे॥३॥

न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि॥४॥

सोमार्हावश्विनावेतौ यथा वाद्य कृतौ त्वया ।
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव॥५॥

सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ।
अतो मयैतद्विहितं तव वीर्यप्रकाशनम्॥६॥

तस्मात्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ।
एवमुक्तस्य शक्रेण भार्गवस्य महात्मनः॥७॥

स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ।
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्॥८॥

मदं चेति । सुरापानस्त्रीद्यूतमृगयाव्यसनानि मदकरत्वात्त्याज्यानीति भावः ॥८॥

अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ।
तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना॥९॥

अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ।
विख्याप्य वीर्यं लोकेषु सर्वेषु वदतां वरः॥१०॥

सुकन्यया सहारण्ये विजहारानुकूलया ।
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते॥११॥

अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ।
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत॥१२॥

सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ।
पुष्करेषु महाराज सर्वेषु च जलं स्पृश॥१३॥

स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ।
संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च॥१४॥

सन्धिर्द्वयोरिति । संप्रति कलिद्वापरसन्धावपि अत्र तीर्थे त्रेताद्वापरसन्धितुल्यः कालोऽस्ति अत्र स्नातानां कलिस्पर्शो नास्तीति भावः ॥१४॥

अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः ।
अत्रोपस्पृश्य चैव त्वं सर्वपापप्रणाशने॥१५॥

आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् ।
सदाफलः सदास्त्रोतो मरुतां स्थानमुत्तमम्॥१६॥

सदास्रोतः सदाप्रवाहयुक्तम् ॥१६॥

चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर ।
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ।
वैखानसा वालखिल्याः पावका वायुभोजनाः॥१७॥

पावका इव दीप्यमानाः पावकाः ॥१७॥

शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रस्रवणानि च ।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश॥१८॥

त्रीणि शृङ्गाणीति । प्राग्व्याख्यातरीत्या त्रिकोणं वाराणसीक्षेत्रम् । त्रीणि प्रस्रवणानीति च प्रयागम् । एतानि सर्वाणि अनुपरिक्रम्य प्रदक्षिणीकृत्य यथाकाममिह स्नाहि । यथाकाममित्यस्य काशीप्रयागसेविनां चन्द्रतीर्थसेवनमैच्छिकम् इतरेषामत्यावश्यकमिति भावः । गौडास्तु ‘त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्’ इति श्लोकमत्रापि पठन्ति स च प्रागेव व्याख्यातः । अत्र पाठस्तु काश्यादिस्तुत्या पूर्वोक्तार्थस्य दृढीकारार्थः ॥१८॥

शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः ।
नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम्॥१९॥ ।
इह नित्यशया देवाः पितरश्च महर्षिभिः ।
आर्चीकपर्वते तेषुस्तान्यजस्व युधिष्ठिर॥२०॥

नित्यशयाः नित्यं शयानाः संनिहिता इत्यर्थः । तेपुस्तपश्चक्रुः ॥२०॥

इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते ।
यमुना चाक्षयस्स्रोता कृष्णश्चेह तपोरतः॥२१॥

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव॥२२॥

एतत्प्रस्त्रवणं पुण्यमिन्द्रस्य मनुजेश्वर ।
यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः॥२३॥

इह तेऽप्यवसन्राजन्क्षान्ताः परमधर्मिणः ।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः॥२४॥

एषा सा यमुना राजन्महर्षिगणसेविता ।
नानायज्ञचिता राजन्पुण्या पापभयापहा॥२५॥

अत्र राजा महेष्वासो मांधातायजत स्वयम् ।
साहदेविश्च कौन्तेय सोमको ददतां वरः॥२६॥

साहदेविः सृञ्जयपुत्रस्य पुत्रः ॥२६॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौकन्ये पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
षड्विंशत्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। मांधाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः॥१॥

यौवनाश्वः युवनाश्वपुत्रः ॥१॥

कथं चैनां परां काष्ठां प्राप्तवानमितद्युतिः ।
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः॥२॥

परां काष्ठां स्वर्गिष्वेव श्रेष्ठं स्थानम् ॥२॥

एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ।
यथा मांधातृशब्दश्च तस्य शक्रसमद्युतेः ।
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्॥३॥

लोमश उवाच। शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः ।
यथा मांधातृशब्दो वै लोकेषु परिगीयते॥४॥

इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः ।
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः॥५॥

अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः ।
अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः॥६॥

अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः ।
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह॥७॥

शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् ।
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः॥८॥

आत्मानं चित्तम् । आत्मवान् जितचित्तः । संयोज्य इष्टदेवतया ऐक्यं नीत्वा ॥८॥

पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ।
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः॥९॥

इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ।
संभृतो मन्त्रपूतेन वारिणा कलशो महान्॥१०॥

सौद्युम्नेः युवनाश्वस्य ॥१०॥

तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ।
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्॥११॥

तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ।
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान्॥१२॥

शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः ।
तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत॥१३॥

तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा ।
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः॥१४॥

वाशतः शब्दं कुर्वतः ॥१४॥

ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः ।
अभ्यद्रवतं वेगेन पीत्वा चाम्भो व्यवासृजत्॥१५॥

स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ।
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा॥१६॥

निर्वाणं तपः फलम् ॥१६॥

ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः ।
निस्तोयं तं च कलशं ददृशुः सर्व एव ते॥१७॥

कस्य कर्मेद‌मिति ते पर्यपृच्छन्समागताः ।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यत॥१८॥

न युक्तमिति तं प्राह भगवान्भार्गवस्तदा ।
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः॥१९॥

मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् ।
पुत्रार्थं तव राजर्षे महाबलपराक्रम॥२०॥

महाबलो महावीर्यस्तपोबलसमन्वितः ।
यः शक्रमपि वीर्येण गमयेद्यमसादनम्॥२१॥

अनेन विधिना राजन्मयैतदुपपादितम् ।
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै॥२२॥

न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा ।
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि॥२३॥

पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः ।
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः॥२४॥

ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि ।
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्॥२५॥

इष्टिम् इच्छितम् ॥२५॥

यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ।
गर्भधारणजं वापि न खेदं समवाप्स्यसि॥२६॥

ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः॥२७॥

निश्चक्राम महातेजा न च तं मृत्युराविशत् ।
युवनाश्वं नरपतिं तद‌द्भुतमिवाभवत्॥२८॥

ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् ।
ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥२९॥

किं धास्यति पास्यति स्तन्याभावात् ॥२९॥

प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ।
मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा॥३०॥

मां धास्यति मांधाता । धातेति लुडन्तस्य व्याख्यानं धास्यतीति । प्रदेशिनीं तर्जनीम् ॥३०॥

मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ।
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा ।
अवर्धत महातेजाः किष्कून्राजंस्त्रयोदश॥३१॥

वेदास्तं स धनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् ।
उपतस्थुर्महाराज ध्यातमात्रस्य सर्वशः॥३२॥

किष्कून् हस्तान् वितस्तीन्वा । ‘किष्कुर्हस्ते वितस्तौ च’ इत्यमरः ॥३२॥

आजगवं नाम धनुः शराः शृङ्गोद्भवाश्च ये ।
अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः॥३३॥

ध्यातमात्रस्य इन्द्रेण अयमेवंविधो भवत्विति सङ्कल्पितस्य ॥३३॥

सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत ।
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः॥३४॥

शृङ्गोद्भवाः स्वर्गजाः । ‘शृङ्गप्रभुत्वे शिखरे’ इत्यादि । ‘स्वर्गमीनविशेषयोः’ इति विश्वः । दिव्या इत्यर्थः ॥३४॥

तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः ।
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे॥३५॥

तस्येवं वसुसंपूर्णा वसुधा वसुधाधिप ।
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः॥३६॥

चक्रम् आज्ञा ॥३६॥

चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान् ।
शक्रस्यार्धासनं राजँल्लुब्धवानमितद्युतिः॥३७॥

एकाहात्पृथिवी तेन धर्मनित्येन धीमता ।
विजिता शासनादेव सरत्नाकरपत्तना॥३८॥

चितचैत्यः कृतचयनक्रतुः ॥३८॥

तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम् ।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्॥३९॥

तेन पद्मसहस्राणि गवां दश महात्मना ।
ब्राह्मणानां महाराज दत्तानीति प्रचक्षते॥४०॥

तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ।
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः॥४१॥

पद्मं शतकोटयः तेषामपि सहस्राणि दश ॥४१॥

तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् ।
गर्जन्निव महामेघः प्रमथ्य निहतः शरैः॥४२॥

प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना ।
तेनात्मतपसा लोकास्तापिताश्चातितेजसा॥४३॥

तस्यैतद्देवयजनं स्थानमादित्यवर्चसः ।
यस्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः॥४४॥

चतुर्विधाः सुरनरतिर्यक्स्थावराः ॥४४॥

एतत्ते सर्वमाख्यातं मांधातुश्चरितं महत् ।
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि॥४५॥

वैशंपायन उवाच। एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा ।
पप्रच्छानन्तरं भूयः सोमकं प्रति भारत॥४६॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां मांधातोपाख्याने षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
सप्तविंशत्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। कथंवीर्यः स राजाभूत्सोमको वदतां वर ।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः॥१॥

कथमिति ॥१॥

लोमश उवाच। युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः ।
तस्य भार्याशतं राजन्सदृशीनामभृत्तदा॥२॥

स वै यत्नेन महता तासु पुत्रं महीपतिः ।
कंचिन्नासादयामास कालेन महता ह्यपि॥३॥

कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः ।
जन्तुर्नाम सुतस्तस्मिन्त्रीशते समजायत॥४॥

तं जातं मातरः सर्वाः परिवार्य समासते ।
सततं पृष्ठतः कृत्वा कामभोगान्विशांपते॥५॥

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि ।
स दष्टो व्यनदन्नादं तेन दुःखेन बालकः॥६॥

स्फिचि कट्याम् ॥६॥

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।
प्रवार्य जन्तुं सहसा स शब्दस्तुमुलोऽभवत्॥७॥

तमार्तनादं सहसा शुश्राव स महीपतिः ।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा॥८॥

अमात्यपर्षदो मध्ये मन्त्रिसभान्तः ॥८॥

ततः प्रस्थापयामास किमेतदिति पार्थिवः ।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति॥९॥

क्षत्ता दौवारिकः ॥९॥

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिन्दमः॥१०॥

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥११॥

सोमक उवाच। धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता॥१२॥

इदं भार्याशतं ब्रह्मन्परीक्ष्य सदृशं प्रभो ।
पुत्रार्थिना मया वोढं न तासां निद्यते प्रजा॥१३॥

एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम ।
यतमानासु सर्वासु किं नु दुःखमतः परम्॥१४॥

वयश्च समतीतं मे सभार्यस्य द्विजोत्तम ।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके॥१५॥

स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।
महता लघुना वापि कर्मणा दुष्करेण वा॥१६॥

ऋत्विगुवाच। अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत् ।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक॥१७॥

सोमक उवाच। कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् ।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे॥१८॥

ऋत्विगुवाच ।
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते॥१९॥

जन्तुना पशुभूतेन । ‘स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा’ इति । इति पुत्रस्यापि पशूकरणं बह्वृचब्राह्मणे परामृष्टं ततो न शास्त्रविरोधः ॥१९॥

वपायां हूयमानायां धूममाघ्राय मातरः ।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्॥२०॥

तस्यामेव तु ते जन्तुर्भविता पुनरात्मज ।
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति॥२१॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां जन्तूपाख्याने सप्तविंशत्यधिकशततमोऽध्यायः॥१२७॥
अष्टाविंशाधिकशततमोऽध्यायः

सोमक उवाच। ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथा तथा ।
पुत्रकामतया सर्वं करिष्यामि वचस्तव॥१॥

ब्रह्मन्निति ॥१॥

लोमश उवाच। ततः स याजयामास सोमकं तेन जन्तुना ।
मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः॥२॥

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः ।
रुदन्त्यः करुणं वापि गृहीत्वा दक्षिणे करे॥३॥

वाशन्त्यः क्रोशन्त्यः ॥३॥

सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ।
कुररीणामिवार्तानां समाकृष्य तु तं सुतम्॥४॥

विशस्य चैनं विधिवद्वपामस्य जुहाव सः ।
वपायां हूयमानायां गन्धमाघ्राय मातरः॥५॥

वपां देहान्तर्गतमपूपाकारं मांसम् ॥५॥

आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ।
सर्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः॥६॥

ततो दशसु मासेषु सोमकस्य विशांपते ।
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत॥७॥

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पार्थिव ।
स तासामिष्ट एवासीन्न तथा ते निजाः सुताः॥८॥

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे ।
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि॥९॥

लक्षणं चिह्नम् ॥९॥

ततः स लोकमगमत्सोमकस्य गुरुः परम् ।
अथ काले व्यतीते तु सोमकोऽप्यगमत्परम्॥१०॥

सोमकस्य ऋत्विगिति शेषः ॥१०॥

अथ तं नरके घोरे पच्यमानं ददर्श सः ।
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज॥११॥

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् ।
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्॥१२॥

एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् ।
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः॥१३॥

मत्कृते हि महाभागः पच्यते नरकाग्निना ।
धर्म उवाच। नान्यः कर्तुः फलं राजन्नुपभुङ्गे कदाचन ।
इमानि तव दृश्यन्ते फलानि वदतां वर॥१४॥

सोमक उवाच। पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् ।
इच्छाम्यहमनेनेव सह वस्तुं सुरालये॥१५॥

नरके वा धर्मराज कर्मणास्य समो ह्यहम् ।
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्॥१६॥

धर्मराज उवाच। यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् ।
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम्॥१७॥

लोमश उवाच। स चकार तथा सर्वं राजा राजीवलोचनः ।
क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह॥१८॥

लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम् ।
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः॥१९॥

एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते ।
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः॥२०॥

क्षान्तः क्षमावान् । उष्य उषित्वा ॥२०॥

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः ।
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह॥२१॥

अभिचारपापं कुमार्गोपदेष्टृषु याजकेष्वेव । याज्यस्य निपातस्तु गुरौ करुणा प्रयुक्तः स्वयं कृतो न तु न्याय्य इति अध्यायतात्पर्यम् ॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां जन्तूपाख्याने अष्टाविंशाधिकशततमोऽध्यायः॥१२८॥
एकोनत्रिंशाधिकशततमोऽध्यायः

लोमश उवाच। अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः ।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्त्रिकम्॥१॥

अस्मिन्निति ॥१॥

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु ।
यत्रेष्ट्वा दश पद्मानि सदस्येभ्योऽमिसृष्टवान्॥२॥

दश पद्मानि । गवामिति शेषः । तस्य द्वादशशतं दक्षिणा इति यागीयदक्षिणादौ सर्वत्र गोपदस्यैवाध्याहारदर्शनात् । अभिसृष्टवान् दत्तवान् ॥२॥

यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ।
देशश्च नाहुषस्यायं यज्वनः पुण्यकर्मणः॥३॥

सार्वभौमस्य कौन्तेय ययातेरमितौजसः ।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह॥४॥

यज्ञवास्तु यज्ञभूमिः । इह अस्मिन् वास्तुनि । इदमुत्तरान्वयि ॥४॥

पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः॥५॥

अग्निभिः अग्निस्थापनार्थैरिष्टकारचितैः स्थण्डिलैः ॥५॥

एषा शम्येकपत्रा या सरकं चैतदुत्तमम् ।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम्॥६॥

शमी आभिक्षार्थं दध्युत्पादनार्थमानीता शमीशाखा । एकपत्रा शातितपत्रा । अन्तर्वेदिशाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोतीति सूत्रात् । या पूर्वम् एकपत्रशाखाभूत्सैषा उपवेषरूपेणावशिष्टा दृश्यते अग्रभागस्य वह्नौ प्रहृतत्वात् । परिवास्य छित्त्वा । सरकं सुराग्रह‌पात्रम् । ‘सरकोऽस्त्री सीधुपात्रे’ इति मेदिनी ॥६॥

एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम् ।
प्रसर्पणं महीपाल रौप्यायाममितौजसः॥७॥

प्रसर्पणं सञ्चारभूमिः रौप्यायां रूप्यवत् श्वेतवर्णायां स्थल्यां नद्यां वा । सामीप्ये सप्तमी । प्रसर्पणं तीर्थमित्यन्ये ॥७॥

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन ।
उलूखलैराभरणैः पिशाची यदभाषत॥८॥

अनुवंशं परम्परागतमाख्यानश्लोकम् । उलूखलैरिति । उलूखलसदृशानि स्त्रीणां कर्णाभरणानि भवन्तीति स्वयमुलूखलैरेवाभरणैर्युक्ता सतीति शेषः । एतेन विकृतवेषत्वं पिशाच्याः ॥८॥

युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हास॥९॥

उक्तं भाषणमेवाह द्वाभ्यां युगन्धर इति । अत्र प्राञ्चः । आस्मिंस्तीर्थे सपुत्रा ब्राह्मणी स्नातुमागता तां प्रति पिशाची वदति । त्वया युगन्धरे पर्वते देशे वा दधिप्राशनं कृतम् । तत्र उष्ट्रीक्षीरं गर्दभ्यादिक्षीरं च दधी क्रियते । तथा अच्युतस्थलाख्ये सङ्करजानां ग्रामे वासश्च कृतः । तथा भूतिलयाख्ये दस्युग्रामेऽग्निदग्धानां मृतानां क्षेपणं यस्यां नद्यां क्रियते तस्यां स्नातासि । अतो दोषत्रयवती त्वम् । एतत्करणे हि प्रायश्चित्तं धर्मशास्त्रे प्रसिद्धम् । ‘औष्ट्रमैकशफं क्षीरं सुरातुल्यम्’ इति । ‘संसृज्य सङ्करैः सार्धं प्राजापत्यं व्रतं चरेत्’ इति । ‘प्रोष्य भूतिलये विप्रः प्राजापत्यं व्रतं चरेत्’ इति च । तच्च त्वया न कृतम् अतः कथमत्र वस्तुमिच्छसि । दोषवतामिह तीर्थे वासो दुर्लभ इत्यर्थः । एवं पिशाचीवाक्यं श्रुत्वापि सा ब्राह्मणी तत्र स्नानादिकं कृतवती । ततस्तया राक्षस्या तस्याः घटपिठरादिकं नाशितम् । उक्तं च । ‘एतत्तव दिवावृत्तं रात्रौ वृत्तं तु द्रक्ष्यसि’ इति वृत्तं जातम् । रात्रौ तु तव पुत्रमपि नाशयिष्यामीति भावः । अथापि द्वितीयां रात्रिं वस्तुमिच्छसि चेत्तव भूयांसमपकारं करिष्यामीति युगन्धरादिदेशत्रयनिन्दापरत्वेन व्याचख्युः । अर्वाञ्चस्तु युगन्धरादौ दधिप्राशनादिकं त्रयम् अधिकारकारणं कृत्वा एकरात्रम् इह यदि वस्तुमिच्छसि चेद्वस । अत्र पिशाचीवचनव्याजेनैकरात्रवासो नियम्यते । यदि तु द्वितीयं दिवारात्रं वत्स्यसि तर्हि एतत्तव दिवाकाले वृत्तं भविष्यति । एतदिति वस्त्रपात्राहारताडनादिकमभिनीय दर्शयति । रात्रौ तु इतोऽन्यथा प्राणापहारान्तमित्यर्थ इति । ब्रह्मज्ञानिवंशावतंसलक्ष्मणानुचरास्तु । द्वारमेतत्कुरुक्षेत्रस्येत्युपसंहारात् अस्य क्षेत्रस्य द्विविधकुरुक्षेत्रप्रापकत्वमवगतम् । कुरुक्षेत्रद्वयं च । एकं शतपथे प्रवर्ग्यकाण्डे तेषां कुरुक्षेत्रं देवयजनमास तस्मादाहुः कुरुक्षेत्रं देवानां देवयजनमिति कर्माङ्गं कुरुदेशान्तर्गतं प्रसिद्धम् । अपरं च अविमुक्तं वै कुरुक्षेत्रमित्यादिना ज्ञानाङ्गमविमुक्ताख्यं जाबालरामतापनीयोपनिषदोः प्रसिद्धम् । ततश्चास्य क्षेत्रस्य क्रममुक्तौ सद्यो मुक्तौ परंपरया हेतुत्वादत्र वासे देवा विघ्नमाचरन्ति । मुक्तो हि देवपशुत्वान्निवर्तत इति । तथा बृहदारण्यके ‘आत्मेत्येवोपासीतेत्यैकात्म्यं ज्ञेयम्’ इत्युक्त्वाथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमिति न स वेद यथा पशुरेव स देवानामिति भेददर्शिनो देवपशुत्वमुक्त्वा तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युरित्यैकात्म्यज्ञानं देवानामप्रियं पशुनाश इव पशुपतेरित्युक्तम् । ज्ञातैकात्म्यस्य तु देवा अप्रियं कर्तुमसमर्थास्तथा च तत्रैव श्रूयते । ‘तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति’ इति । देवाश्च न देवा अपि अभूत्यै अनैश्वर्याय । एवं सति यदि ब्रह्मिष्ठासि तर्ह्यत्र चिरकालं वस्तुमर्हसीति पिशाची कांचित्सपुत्रां स्त्रियम् इह वस्तुमिच्छन्तीं प्रति प्रब्रवीति युगन्धर इति । युगानि कृतत्रेताद्वापरकलिसंज्ञानि धारयतीति युगन्धरः स्थूलशरीराभिमानी जीवः । तथा हि श्रुतिः । ‘कलिः शयानो भवति सञ्जिहानस्तु द्वापरः । उत्तिष्ठंस्त्रेता भवति कृतं संपद्यते चरन्’ इति । शयानो धर्ममाचार्यादिमुखादजानन्पुरुषः कलिः । स एव सञ्जिहानस्तं जानन् द्वापरो भवति । उत्तिष्ठन् धर्मानुष्ठानार्थं यतमानस्त्रेता भवति । धर्मं चरन् अनुतिष्ठंस्तु कृतं भवतीति पुंस एव युगन्धरत्वमाह । दधिप्राशनशब्देन धर्मप्रजासंपत्त्यर्थो दारसंयोग उच्यते । तथा हि गृह्यसूत्रे । ‘समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्रतिप्रयच्छेत्’ इति विवाहान्ते दंपत्योर्हृदयसंधानार्थं दधिप्राशनं विधीयते । तत्र ‘समापो हृदयानिनौ सं मातरिश्वा सं धाता समुदेष्ट्री दधातु नौ’ इति मन्त्रशेषः । मन्त्रार्थस्तु विश्वेदेवाः नौ आवयोहृदयानि । वृत्तिबहुत्वात् बहुवचनं समञ्जन्तु स्निग्धानि कुर्वन्तु । संशब्दावृत्त्या समञ्जन्त्वित्यस्याप्यावृत्तिर्ज्ञेया । आपो नौ हृदयानि समञ्जन्त्वित्यर्थः । स्निग्धयोर्हि द्वयोः संधानं भवतीति । मातरिश्वा प्राणवायुः नौ हृदयानि संदधातु । एवं धाता संदधातु । उ निश्चितं देष्ट्री अन्तर्यामिणी देवता च संदधातु । व्यवहिताश्चेति छन्दसि व्यवहितोपसर्गेणापि क्रियायाः संबन्धः । पूर्ववदुपसर्गावृत्त्या क्रियापदस्यावृत्तिरिति । तथा च ‘क्षौमे वसानौ जायापती सहोभौ चरतां धर्मं प्रजां प्रजनयावहा’ इति श्रुतिलिङ्गाभ्यां धर्मप्रजोत्पादने सहाधिकारात् । ‘जायमानो वै ब्राह्मणास्त्रिभिरृणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति च श्रुतानामृणानामपाकरणं दारसंयोगं विना न भवतीति दधिप्राशनशब्देन लक्षितलक्षणया आनृण्यं ग्राह्यम् । तेन स्वधर्मनिष्ठः प्रजावान् एतत्तीर्थं सेवितुमर्हतीति पूर्वपादार्थः । अच्युतस्थले च्युतियोग्यस्थूलशरीरापेक्षया अच्युतं स्थलं लिङ्गशरीरं तत्र उषित्वा सूत्रात्मानम् उपास्येत्यर्थः । भूतानि वियदादीनि लीयन्तेऽस्मिन्निति कारणं ब्रह्मभूतलयः । भूतिलय इति पाठे भूतिरैश्वर्यम् । तस्यापि च लयोऽस्मिन्निति शुद्धं ब्रह्म । तयोरन्यतरत्र स्नात्वा मलं त्यक्त्वा ‘यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ इति तज्ज्ञानफलश्रवणात् । तद्वदिति तच्छब्देन पूर्वार्धोक्ते कर्मोपास्ती उच्येते । ताभ्यां युक्तं यथास्यात्तथा भूतलये स्नानम् । तेन दैनंदिनसुषुप्तेर्निवृत्तिः । तत्रापि प्रत्यहं ब्रह्मप्राप्तिः श्रूयते । ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति’ इति । सता ब्रह्मणा तथा च कर्मोपास्तिपूर्वकं यो ब्रह्म जानाति सोऽत्र वस्तुमर्हति इति । तस्य पिशाचादिबाधा नास्तीत्यर्थः ॥९॥

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि ।
एतद्वै ते दिवावृत्तं रात्रौ वृत्तमितोऽन्यथा॥१०॥

त्वं तु अब्रह्मवित् एकरात्रमेवात्र वस्तुं योग्या । यदि द्वितीयां वस्तुमिच्छसि तर्हि ते तव एतत् मदीयं वृत्तं भविष्यति । मद्वत् पिशाची भूत्वात्र स्नानं न लप्स्यसे । एतदिति स्ववृत्तस्याभिनीय प्रदर्शनम् । द्वितीयदिनवासस्यैवैतत्फलं द्वितीयरात्रिवासे तु इतोऽन्यथा अहल्यादिवन्मोहप्राप्त्या शिलाभावो भविष्यति तेन तीर्थदर्शनमपि न लप्स्यसे इति ॥१०॥

अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम ।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत॥११॥

अतोऽत्र क्षपां रात्रिमेव एकां वत्स्यामः प्रातरेव प्रस्थास्याम इति भावः । द्वारमित्यर्धं तु उक्तार्थमस्ति ॥११॥

अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् ।
ययातिर्बहुरत्नौघैर्यत्रेन्द्रो मुदमभ्यगात्॥१२॥

अत्रैव कुरुक्षेत्रद्वारे ॥१२॥

एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम् ।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः॥१३॥

अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः ।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम्॥१४॥

सारस्वतैर्बाह्मणैः ऋत्विग्भिर्यज्ञैरीजानाः यूपोलूखलिकाः यूपान् उलूखलानि च यज्ञसाधनान्याददते यूपोलूखलिकाः । पशुभिः पुरोडाशैश्च इष्टवन्त इत्यर्थः ॥१४॥

अत्र वै भरतो राजा राजन्क्रतुभिरिष्टवान् ।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत्॥१५॥

असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम् ।
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्॥१६॥

कृष्णसारङ्गं कृष्णहरिणसदृशम् एकदेशे कृष्णवर्णं श्यामकर्णमित्यर्थः ॥१६॥

प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ।
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोंकान्प्रपश्यति ।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश॥१७॥

वैशंपायन उवाच। तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः ।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्॥१८॥

सर्वाल्लोंकान्प्रपश्यामि तपसा सत्यविक्रम ।
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्॥१९॥

इहस्थः यमुनान्तर्गतप्लक्षावतरणस्थः ॥१९॥

लोमश उवाच। एवमेतन्महाबाहो पश्यन्ति परमर्षयः ।
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्॥२०॥

तीर्थान्तरमाह सरस्वतीमिति ॥२०॥

यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ।
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ।
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च॥२१॥

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना ।
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् एकोनत्रिंशाधिकशततमोऽध्यायः॥१२९॥
त्रिंशाधिकशततमोऽध्यायः

लोमश उवाच। इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत ।
मर्तुकामा नरा राजन्निहायान्ति सहस्त्रशः॥१॥

इहेति ॥१॥

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा ।
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः॥२॥

एषा सरस्वती रम्या दिव्या चौघवती नदी ।
एतद्विनशनं नाम सरस्वत्या विशांपते॥३॥

द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती ।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः॥४॥

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती ।
यत्रैनामभ्यवर्तन्त सर्वाः पुण्याः समुद्रगाः॥५॥

एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम ।
लोपामुद्रा समागम्य भर्तारमवृणीत वै॥६॥

एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते ।
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्॥७॥

एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् ।
एषा रम्या विपाशा च नदी परमपावनी॥८॥

अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः ।
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः॥९॥

बद्ध्वा पाशैरिति शेषः । विपाशः पाशहीनः । अत एव विपाशा नाम ॥९॥

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम ।
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह॥१०॥

यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च ।
अग्नेश्चैवात्र संवादः काश्यपस्य च भारत॥११॥

औत्तराणाम् औदीच्यानाम् ॥११॥

एतद्द्वारं महाराज मानसस्य प्रकाशते ।
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्॥१२॥

वर्षं वसतिस्थानम् ॥१२॥

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः ।
नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः॥१३॥

एष इति । यो रामः प्रख्यातः सत्यविक्रमश्च विदेहादुत्तरं च यद्वारं यद्वर्षस्य द्वारम् एषोऽनुभूयमानो वातिकषण्डो वातानीतः पद्मादिसमूहो नात्यवर्तत तेन रामेण कृतमिति पूर्वेणान्वयः । अनेन वायोरप्यस्मिन्वर्षे प्रवेशो नास्ति किमुतेतरस्येति पद्मादेर्वातानीतस्यात्राप्रवेशाद्रामसामर्थ्यं प्रत्यक्षमाश्चर्यमित्यर्थः ॥१३॥

इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ ।
क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः॥१४॥

युगं पञ्चसंवत्सरात्मकं तस्मिन्क्षीणे समाप्ते सति यदा सौरसावनबार्हस्पत्यनाक्षत्रचान्द्राः संवत्सरा एककालं समाप्यन्ते स युगक्षयकालस्तस्मिन्नित्यर्थः । युगे क्षीणे इत्यस्य संवत्सरान्त इति वार्थः । चैत्रप्रतिपत् युगादिरिति व्यवहारात् ॥१४॥

सहोमया च भवति दर्शनं कामरूपिणः ।
अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्॥१५॥

अत एव पूर्वदिने शिवं दृष्ट्वा प्रतिपदमारभ्य मासमात्रं पिनाकिनं यजन्त इति संगच्छते ॥१५॥

यजन्ते याजकाः सम्यक्परिवारं शुभार्थिनः ।
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः॥१६॥

क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः ।
एष उज्जानको नाम पावकिर्यत्र शान्तवान् ।
अरुंधतीसहायश्च वसिष्ठो भगवानृषिः॥१७॥

पावकिः स्कन्दः शान्तवान् शमं प्राप । वसिष्ठोऽपि शान्तवान् ॥१७॥

ह्रदश्च कुशवानेष यत्र पद्म कुशेशयम् ।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना॥१८॥

कुशवान् जलवान् । ‘शरं वनं कुशं नीरम्’ इति धनंजयः । अकोपना जितक्रोधा ॥१८॥

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया ।
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम्॥१९॥

समासः संक्षेपः । यस्मिन्दृष्टे समाधिफलं भवतीत्यर्थः ॥१९॥

वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् ।
महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम्॥२०॥

जलां चोपजलां चैव यमुनामभितो नदीम् ।
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत॥२१॥

तां देवसमितिं तस्य वासवश्च विशांपते ।
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत॥२२॥

देवसमितिं राजसभाम् ॥२२॥

जिज्ञासमानौ वरदौ महात्मानमुशीनरम् ।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः॥२३॥

ऊरू राज्ञः समासाद्य कपोतः श्येनजाद्भयात् ।
शरणार्थी तदा राजन्निलिल्ये भयपीडितः॥२४॥

निलिल्ये लीनः ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां श्येनकपोतीये त्रिंशदधिकशततमोऽध्यायः॥१३०॥
एकत्रिंशदधिकशततमोऽध्यायः

श्येन उवाच। धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।
सर्वधर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि॥१॥

धर्मात्मानमिति ॥१॥

विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।
आ रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि॥२॥

राजोवाच। संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।
मत्सकाशमनुप्राप्तः प्राणगृधुरयं द्विजः॥३॥

एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।
अप्रदाने परं धर्मं कथं श्येन न पश्यसि॥४॥

प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः॥५॥

यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च त्यजते तुल्यं तेषां हि पातकम्॥६॥

श्येन उवाच। आहारात्सर्वभूतानि संभवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः॥७॥

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्॥८॥

भक्ष्याद्वियोजितस्याद्य मम प्राणा विशांपते ।
विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम् ॥९॥

प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति ।
रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि॥१०॥

धर्मं यो बाधते धर्मो न स धर्मः कुवर्त्म तत् ।
अविरोधात्तु यो धर्मः स धर्मः सत्यविक्रम॥११॥

विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत्॥१२॥

गुरुलाघवमादाय धर्माधर्मविनिश्चये ।
यतो भूयांस्ततो राजन्कुरुष्व धर्मनिश्चयम्॥१३॥

राजोवाच। बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।
सुपर्णः पक्षिराट् किं त्वं धर्मज्ञश्चास्य संशयम्॥१४॥

तथा हि धर्मसंयुक्तं बहु चित्रं च भाषसे ।
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्॥१५॥

शरणैषिपरित्यागं कथं साध्विति मन्यसे ।
आहारार्थं समारम्भस्तव चायं विहंगम॥१६॥

शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ।
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा ।
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि॥१७॥

श्येन उवाच। न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।
भक्षयामि महाराज किं ममान्येन केनचित्॥१८॥

यस्तु मे देवविहितो भक्षः क्षत्रियपुङ्गव ।
तमुत्सृज महीपाल कपोतमिममेव मे॥१९॥

श्येनः कपोतानत्तीति स्थितिरेषा सनातनी ।
मा राजन्सारमज्ञात्वा कद‌लीस्कन्धमासज॥२०॥

कदलीस्कन्धमासजेति कदलीस्कन्धतुल्ये निःसारेऽस्मिन् धर्मे मा सज्जो भवेत्यर्थः ॥२०॥

राजोवाच। राष्ट्रं शिबीनामृद्धं वै ददानि तव खेचर ।
यं वा कामयसे कामं श्येन सर्वं ददानि ते॥२१॥

विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ।
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम ।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्॥२२॥

श्येन उवाच। उशीनर कपोते ते यदि स्नेहो नराधिप ।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्॥२३॥

यदा समं कपोतेन तव मांसं नृपोत्तम ।
तदा देयं तु तन्मह्यं सा मे तुष्टिर्भविष्यति॥२४॥

राजोवाच ।
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्॥२५॥

लोमश उवाच। उत्कृत्य स स्वयं मांसं राजा परमधर्मवित् ।
तुलयामास कौन्तेय कपोतेन समं विभो॥२६॥

ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते ।
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः॥२७॥

न विद्यते यदा मांसं कपोतेन समं धृतम् ।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्॥२८॥

श्येन उवाच। इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।
जिज्ञासमानौ धर्मं त्वां यज्ञवाटमुपागतौ॥२९॥

यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशांपते ।
एषा ते भास्वती कीर्तिर्लोकानभिभविष्यति॥३०॥

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः॥३१॥

इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः ।
उशीनरोऽपि धर्मात्मा धर्मेणावृत्य रोदसी॥३२॥

विभ्राजमानो वपुषाप्यारुरोह त्रिविष्टपम् ।
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः॥३३॥

पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ।
तत्र वै सततं देवा मुनयश्च सनातनाः ।
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः॥३४॥

स्वदेहत्यागेनापि शरणागतो रक्षणीय इति अध्यायतात्पर्यम् ॥३४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां श्येनकपोतीये एकत्रिंशदधिकशततमोऽध्यायः॥१३१॥
द्वात्रिंशदधिकशततमोऽध्यायः

लोमश उवाच। यः कथ्यते मन्त्रविदग्धबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् ।
तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः॥१॥

यः कथ्यते इति ॥१॥

साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।
वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे॥२॥

अस्मिन्युगे ब्रह्मकृतां वरिष्ठावास्तां मुनी मातुलभागिनेयौ ।
अष्टावक्रश्चैव कहोडसूनुरौद्दालकिः श्वेतकेतुः पृथिव्याम्॥३॥

विदेहराजस्य महीपतेस्तौ विप्रावुभौ मातुलभागिनेयौ ।
प्रविश्य यज्ञायतनं विवादे बन्दिं निजग्राहतुरप्रमेयौ॥४॥

बन्दिं बन्दिनम् । निजग्राहतुः निजगृहतुः । सम्प्रसारणाभावाद्यार्षम्। नितरां ग्राहवत् आचरतुरिति वा ॥४॥

उपास्स्व कौन्तेय सहानुजस्त्वं तस्याश्रमं पुण्यतमं प्रविश्य ।
अष्टावक्रं यस्य दौहित्रमाहुर्योऽसौ बन्दिं जनकस्याथ यज्ञे॥५॥

वादी विप्राग्र्यो बाल एवाभिगम्य वादे भङ्क्त्वा मज्जयामास नद्याम्॥६॥

युधिष्ठिर उवाच। कथं प्रभावः स बभूव विप्रस्तथाभूतं यो निजग्राह बन्दिम् ।
अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम्॥७॥

लोमश उवाच। उद्दालकस्य नियतः शिष्य एको नाम्ना कहोड इति विश्रुतोऽभूत् ।
शुश्रूषुराचार्यवशानुवर्ती दीर्धं कालं सोऽध्ययनं चकार॥८॥

तं वै विप्रः पर्यचरत्सशिष्यस्तां च ज्ञात्वा परिचर्यां गुरुः सः ।
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम्॥९॥

तस्या गर्भः समभवद‌ग्निकल्पः सोऽधीयानं पितरं चाप्युवाच ।
सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते॥१०॥

उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।
यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टकृत्वः॥११॥

अष्टकृत्वः अष्टवारम् अष्टसु स्थानेष्वित्यर्थः ॥११॥

स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः ।
अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव॥१२॥

संपीड्यमाना तु तदा सुजाता सा वर्धमानेन सुतेन कुक्षौ ।
उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुना धनार्थिनी॥१३॥

कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे ।
नैवास्ति ते वसु किंचित्प्रजाता येनाहमेतामापदं निस्तरेयम्॥१४॥

प्रजाता प्रसूता॥१४॥

उक्तस्त्वेवं भार्यया चै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।
स वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः॥१५॥

उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा ।
उवाच तां तत्र ततः सुजातामष्टावक्रे गूहितव्योऽयमर्थः॥१६॥

ररक्ष सा चापि तमस्य मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः ।
उद्दालकं पितृवच्चापि मेने तथाष्टावक्रो भ्रातृवच्छ्वेतकेतुम्॥१७॥

ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् ।
अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च॥१८॥

यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।
गृहं गत्वा मातरं सोऽभिगम्य पप्रच्छेदं क्व नु तातो ममेति॥१९॥

ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे ।
तद्वै तत्त्वं सर्वमाज्ञाय रात्रावित्यब्रवीच्छ्वेतकेतुं स विप्रः॥२०॥

गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।
श्रोष्यावोऽत्र ब्राह्मणानां विवादमर्थं चाग्र्यं तत्र भोक्ष्यावहे च॥२१॥

विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः॥२२॥

तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जनकस्य राज्ञः ।
अष्टावक्रः पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अष्टावक्रीये द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥
त्रयस्त्रिंशदधिकशततमोऽध्यायः

अष्टावक्र उवाच। अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः ।
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः॥१॥

अन्धस्येति । अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः । असमेत्य समीपम् अप्राप्य ॥१॥

राजोवाच ।
पन्था अयं तेऽद्य मयातिदिष्टो येनेच्छसि तेन कामं व्रजस्व ।
न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्॥२॥

अष्टावक्र उवाच। प्राप्तौ स्वयज्ञं नृप संदिदृक्षू कौतूहलं नौ बलवन्नरेन्द्र ।
प्राप्ताविहावामतिथी प्रवेशं काङ्क्षावहे द्वारपतेस्तवाज्ञाम्॥३॥

ऐन्द्रद्युम्ने यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू ।
तौ वै क्रोधव्याधिना दह्यमानावयं च नौ द्वारपालो रुणद्धि॥४॥

ऐन्द्रद्युम्ने हे जनक ॥४॥

द्वारपाल उवाच। वन्दे समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम् ।
न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्त्यत्र विप्राः॥५॥

अष्टावक्र उवाच। यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं प्रबेष्टुं मम द्वारपाल ।
वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च॥६॥

शुश्रूषवश्वापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम् ।
न बाल इत्येव मन्तव्यमाहुर्बालोऽप्यग्निर्दहति स्पृश्यमानः॥७॥

ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः । निष्ठां निश्चयम्॥७॥

द्वारपाल उवाच। सरस्वतीमीरय वेदजुष्टामेकाक्षरां बहुरूपां विराजम् ।
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभो वै मनीषी॥८॥

वेद जानीते यदि तर्हि ईरय। जुष्टां मुनिसेविताम् । एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां ताम् एकाक्षरां बहुरूपां मन्त्रार्थवादादिरूपाम् । विराजं विशेषेण कर्मकाण्डादाधिक्येन राजमानाम् । अङ्गेति सम्बोधने ॥८॥

अष्टावक्र उवाच। न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाष्ठीला शाल्मलेः संप्रवृद्धा ।
ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः॥९॥

शाल्मलेरष्ठीलाशाल्मलिफलान्तर्गतग्रन्थिः । स हि केवलतूलमयत्वान्निःसारः। अतो देहवृद्धिर्व्यर्था । अल्पकायः कृशः ॥९॥

द्वारपाल उवाच। वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः ।
न हि ज्ञानमल्पकालेन शक्यं कस्माद्बालः स्थविर इव प्रभाषसे॥१०॥

अष्टावक्र उवाच। न तेन स्थविरो भवति येनास्य पलितं शिरः ।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥११॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥१२॥

अनूचानः साङ्गवेदाध्यायी ॥१२॥

दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि ।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने॥१३॥

पुष्करमालिने स्वर्णमालाधारिणे ॥१३॥

द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः ।
सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम्॥१४॥

पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः ।
उताहो वाप्युच्चतां नीचतां वा तूष्णीं भूतेष्वेव सर्वेष्वथाद्य॥१५॥

द्वारपाल उवाच। कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम् ।
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्॥१६॥

उपायतः प्रयतिष्ये इत्युक्त्वा यज्ञवाटादन्यत्र तस्य राजदर्शनं कारयित्वा आह प्रवेशने कुरु यत्नमिति । राज्ञः पुरस्तात्किंचित् ज्ञानं प्रकाशयेत्यर्थः ॥१६॥

अष्टावक्र उवाच। भो भो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम् ।
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्॥१७॥

सम्राट् सार्वभौमः॥१७॥

वृद्धान्बन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः ।
त्वयाभिसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नः श्रुतम्॥१८॥

सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्वैतं कथयितुमागतोऽस्मि ।
क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि॥१९॥

सः अहम् अद्वैतं ब्रह्म कथयितुम् आगतोऽस्मि। एतेन कृत्स्नस्यास्य प्रबन्धस्य तात्पर्यमुपन्यस्तम् ॥१९॥

राजोवाच ।
आशंससे बन्दिनं वै विजेतुमविज्ञाय त्वं वाक्यबलं परस्य ।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वेदशीलैः॥२०॥

आशंससे त्वं बन्दिनं वै विजेतुमविज्ञात्वा तु बलं बन्दिनोऽस्य ।
समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः॥२१॥

आशंसन्तो बन्दिनं जेतुकामास्तस्यान्तिकं प्राप्य विलुप्तशोभाः ।
विज्ञानमत्ता निःसृताश्चैव तात कथं सदस्यैर्वचनं विस्तरेयुः॥२२॥

विज्ञानमत्ता अपि पराजयं प्राप्य सभातः निःसृताः ॥२२॥

अष्टावक्र उवाच। विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः ।
समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाचलाक्षम्॥२३॥

निहतः निर्जितः शेष्यते प्रसुप्तपुरुषवज्जडो भविष्यति ॥२३॥

राजोवाच। त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वणः ।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः॥२४॥

ब्रह्माद्वैतं कथयितुमागतोऽस्मीति प्रतिजानानमष्टावक्रं प्रति पृच्छति राजा त्रिंशकेति । उभयतस्तीक्ष्णाग्राभिः षड्भिः शलाकाभिरेकस्मिन् शङ्कौ प्रोतमध्याभिः पृथगन्ताभिर्द्वादशारं षण्नाभिचक्रं जायते । तत्र द्वादशराशयः अराः राशिद्वयात्मानः षडृतवो नाभयः एकैकस्मिन् राशौ त्रिंशस्त्रिंशदंशाः तदेतद्भचक्रं षष्ट्या नाडीभिः परिवर्तते । अस्य षष्ट्यधिकशतत्रयपरिवर्तैः सावनः संवत्सरो भवति । अस्मिंश्चक्रे कुलालचक्रवत् प्रदक्षिणमावर्तमाने पिपीलिकापङ्क्तिवत् प्रतीपं सूर्यादयः परिभ्रमन्ति । तत्र चन्द्रस्य सप्तविंशत्यहोरात्रैर्भगणभोगः । सूर्यस्य सपादपञ्चषष्ट्यधिकेनाह्नां शतत्रयेण स एव सौरः संवत्सरः । अस्मिन् चक्रे स्वस्वगत्या गच्छतोः सूर्यचन्द्रयोर्यदात्यन्तं विप्रकर्षस्तदा पौर्णमासी । यदात्यन्तं संनिकर्षस्तदा दर्शः ते द्वे पर्वणी । एवं चतुर्विंशत्या पर्वभिः चतुःपञ्चादशदधिकेनाह्नां शतत्रयेण चान्द्रः संवसरः तत्रायं पृच्छति त्रयाणामपि पृथक्कर्मसु विनियोगात् । तथा चोक्तं माधवे ‘अब्दः पञ्चविधश्चान्द्रो व्रतादौ तिलकादिके । सुजन्मादिव्रते सौरो गोसत्रादिषु सावनः’ इति । त्रिंशकद्वादशांशस्य त्रिंशतो गणस्त्रिंशकः ते एव द्वादशसङ्ख्याका अंशा यस्येति सौरसंवत्सरप्रश्नः । चतुर्विंशतिपर्वण इति चान्द्रस्य । त्रीणि षष्ट्या सहितानि शतान्यरा यस्येति सावनस्य । त्रिविधस्यास्य कालचक्रस्य योऽर्थं प्रयोजनं वेद स परः कविः उत्कृष्टः क्रान्तदर्शी ॥२४॥

अष्टावक्र उवाच। चतुर्विंशतिपर्व त्वां षण्नाभि द्वादशप्रधि ।
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति॥२५॥

इति पृष्टोऽपर आह उत्तरं षण्नाभीति । विशेषार्थोक्त्या विद्वत्ताप्रकाशः शेषोऽनुवादः। प्रधयो मासाः राशयो वा । तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते । चक्रं पातु अस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः । एतेन धर्मस्य श्रेयः साधनत्वं विधीयते। केवलकालज्ञानस्यापुरुषार्थत्वात् । मानान्तरानवगतं प्रयोजनवदर्थं प्रतिपादयद्धि शास्त्रं भवति । अन्यथा शास्त्रत्वव्याघातः । एवमन्यत्रापि विधानं द्रष्टव्यम्। ‘राशिस्त्रिंशल्लवस्तान् द्विषडनुपततार्केण सौरोब्द इष्टः सोमेष्विष्टौ तु चान्द्री शरदपि च चतुर्विंशकात्पर्वणां स्यात् । गोसत्रे सावनोऽब्दो गगनरसगुणै रात्र्यहैराशियुग्मादृत्वाख्यश्चर्तुयाजां स्वसमयविहिताः श्रेयसे स्युर्मखाग्य्राः’॥२५॥

राजोवाच। वडवे इव संयुक्ते श्येनपाते दिवौकसाम् ।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्॥२६॥

रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तते । दिवौकसां देवानां मध्ये तयोः सम्बन्धिनं गर्भं को धत्ते । कस्य गर्भे ते उत्पद्येते कं च जनयत इत्यर्थः॥२६॥

अष्टावक्र उवाच। मा स्म ते ते गृहे राजञ्छात्रवाणामपि ध्रुवम् ।
वातसारथिरागन्ता गर्भं सुषुवतुश्च तम्॥२७॥

उत्तरं तयोर्नामाप्यमङ्गलमिति मत्वापरोक्षेण निर्दिशति । ते उभे अधिदैवं विद्युदशनी । अध्यात्मं दुःखमृत्यू । विद्युदर्चिरशनिरङ्गारा इति पञ्चाग्निविद्यायां तयोर्भेदेन व्यपदेशात् । क्रमादाकाशेन देहेन च रथेन वडवे इव नित्यसंयुक्ते श्येनपाते च ते तव गृहे मा स्म स्यातां राजन् तव शात्रवाणामपि गृहे मा स्म स्यातामित्यत्यन्तामङ्गलत्वं तयोर्दर्शितम् । वातसारथिर्मेघो मनश्च आगन्ता-आकाशाद्वृष्ट्यर्थं सुषुप्त्याख्यात्कारणात् कर्मफलभोगार्थम् उदेष्यन् ते उभे पूर्वोक्ते विद्युदशनी दुःखमृत्यू च गर्भे धत्त इत्येकमुत्तरम् । ते च तमेव वातसारथिं वैद्युतमग्निं मनश्च सुषुचतुरित्यपरम् । यथा धूमज्योतिरादिसंनिपातरूपत्वादग्निरूपो मेघोऽग्निमेव विद्युदादिद्वारा सूते । एवं मनःप्रभवौ दुःखमृत्यू स्ववासनारूपेण मनसः कारणे भवतः । तथा च बीजाङ्कुरवन्मनसः दुःखादेश्च हेतुहेतुमद्भावान्मनसो लयो दुःखाभावार्थमभ्यसनीय इत्यर्थः । एतेन ‘अश्ना पिनद्धं मधुपर्यपश्यन्मत्स्यं न दीन उदनिक्षियन्तम्’ इति मन्त्रवर्ण उपबृंहितः । अश्ना अशनवता जलं शोषयता मेघेन विषयान् भुञ्जानेन मनसा वा मधुसलिलं तद्वदेकरसं ब्रह्म वा पिनद्धमाच्छादितम्। मनसो दुःखहेतुत्वं दृष्टान्तमुखेनाह मत्स्यमिति । नेत्युपमार्थो निपातः । दीनेऽल्पे उदनि उदके क्षियन्तं निवसन्तं मत्स्यं न मीनमिवाकुलमित्यर्थः । क्षियन्तमित्यस्यैव वा क्लिश्यमानमित्यर्थः। ‘हृन्मेघो दुःखमृत्यू तडिदशनिसमे श्येनवच्छीघ्रपाते नित्योद्बद्धे रथेश्वे इव करणसुराधीश्वरः प्राज्ञ खोत्थः । स्वे गर्भे धत्त एनं सुषुवतुरितरे वासनातन्तुजन्यां चेतः शाटीं निरुन्ध्यादसुपवनवशां विश्वाचित्रां मुमुक्षुः’ ॥२७॥

राजोवाच। किं स्वित्स्वप्नङ् न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते॥२८॥

स्वप्नङिति स्वपितृषोर्नजिङिति । जकरान्तस्य स्वप्नजशब्दस्य स्वप्नावस्थावद्वाचित्वम् । सुषुप्त्यवस्थां प्राप्तं किं न निमिषति लुप्तदृङ् न भवतीति प्रश्नार्थः ॥२८॥

अष्टावक्र उवाच। मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥२९॥

तद्यथा महान्मत्स्य उभे कूले अनुसञ्चरतीत्यादिश्रुत्या मत्स्योपमितश्चिद्रूपः पुरुषो जाग्रत्स्वप्नयोरिह परलोकयोश्च सञ्चरणेन श्रान्तः मत्स्य इव कूलद्वयसञ्चारेण सुप्तिप्रलययोः कार्यकारणसङ्घातस्य निखिलप्राणनादिशक्त्युपरमेऽनुपरतदृक्शक्तिरेक एवास्ते । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते विनाशित्वादिति श्रुतेः । तदुपरमाभ्युपगमे कृतहानादिदोषप्राप्तिः सुखमहमेतावन्तं कालमस्वाप्समिति परामर्शानुपपत्तिश्च अस्य अविनाशित्वादजातत्वम् । यत्तु जातमण्डं ब्रह्माण्डं भूतभौतिकात्मकं तत् न चोपति चुपमन्दायां गतौ । न चेष्टते किं त्वयमेव तच्चेष्टयते इत्यर्थः । अश्मनोऽशरीरस्य हृदयं शोकायतनं नास्ति । श्मशरीरमिति यास्कः अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः। ‘तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ इति श्रुत्योस्तद्दृष्टेर्देहाद्यसङ्गे योगी निर्मनस्को जीवन्मुक्तो भवतीत्यर्थः । नदी चित्तनदी योगिनो व्युत्थितस्य वेगेन सद्यः कृत्स्नप्रपञ्चरूपेण वर्धते । योगिदृष्ट्या स्वाप्नवद्व्यावहारिकोऽपि प्रपञ्चो दृष्टिसमसमयोत्पत्तिक इत्यर्थः । एवं दृगलोपो दृश्यस्य जाड्यं देहासङ्गिनो मुक्तिः संसारस्य मनोमात्रत्वं चात्र दर्शितम् । 'पुम्मीनो निर्निमेषः स्वपिति भवनदीचारखिन्नः स्वरूपे । जातं ब्रह्माण्डपिण्डं जडमपि जवते येन लोहाश्मनीत्या । यस्याकायस्य नास्ति क्वचिदपि हृदयं शोकनीडं समाधौ। यत्स्था मायानदीयं द्रुतमहमिदमाद्यात्मनोदेति सोऽस्मि ॥२९॥

राजोवाच। न त्वां मन्ये मानुषं देवसत्वं न त्वं बालः स्थविरः संमतो मे ।
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष बन्दी॥३०॥

वाक्प्रलापे वाचां प्रकृष्टे संलापे एष बन्दी दृश्यतामिति शेषः ॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अष्टावक्रीये त्रयस्त्रिंशदधिकशततमोऽध्यायः॥१३३॥
चतुस्त्रिंशदधिकशततमोऽध्यायः

अष्टावक्र उवाच। अत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु ।
नावैमि बन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि॥१॥

अत्रेति ॥१॥

न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः सरितामिवागमः ।
हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन्॥२॥

ग्लहं पराजितस्य जले निपातनरूपं पणम् । प्रपन्नः स्वीकृतवान् । मे मम पुरतः न वक्ष्यसि प्रत्युत्तरमति शेषः । समिद्धतेजसः प्रलयकालेऽत्यन्तं प्रदीप्तस्याग्नेः पुरो यथा नदीवेगः शुष्यति तथा शुष्को भविष्यसीत्यर्थः ॥२॥

व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्किणी संलिहानम् ।
पदाहतस्येह शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध॥३॥

मा मां प्रबोध जानीहि । भौवादिकस्य बुधेर्लोटि रूपम् । असन्धिरार्षः। पदाहतस्य मत्पितुर्निग्रहणादहं पूर्वमेव त्वया पदाहतस्तस्य मे शिरोऽभिहत्य त्वं न मुच्यसे अदष्टः सन् ॥३॥

यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति ।
तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः॥४॥

संहननेन देहेन दृढकायत्वेन उपपन्नः ॥४॥

सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा॥५॥

यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव ।
तथा नृपाणां प्रवरस्त्वमेको बन्दिं समभ्यानय मत्सकाशम्॥६॥

बन्दिं बन्दिनम् । विभक्त्यलोपे नकारलोप आर्षः ॥६॥

लोमश उवाच। एवमष्टावक्रः समितौ हि गर्जञ्जातक्रोधो बन्दिनमाह राजन् ।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि॥७॥

बन्द्युवाच ।
एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति ।
एको वीरो देवराजोऽरिहन्ता यमः पितॄणामीश्वरश्चैक एव॥८॥

पूर्वं प्रतिज्ञातं ब्रह्माद्वैतमेव वादकथामुखेन प्रपञ्चयन् बन्दिमुखेन बौद्धपक्षमुत्थापयति एक एवेति । यथा एकोऽग्निः सूर्यो वा इतराप्रकाश्योऽन्यप्रकाशकश्च । एवं देवानां इन्द्रियाणां राजा प्रधानभूतो धीधातुरहमिदमाद्याकारेण प्रकाशमानो वीरोऽरिहन्तेऽतिपराभिमततत्त्वान्तराभिभावको यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहारद्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्ता च प्रधानभूतः एक एव नान्यत्तत्त्वं पृथगस्ति । स्वप्ने सर्वेषां क्रियाकारकादीनां बुद्धिमात्रत्वोपलम्भादित्यर्थः । ‘धीर्देवेन्द्राग्निवत्सा तदिदमहमिति व्यक्तनानास्वरूपा स्वं चान्यं च स्वयं सा प्रथयति रविवत्सा रिपुः सा च मृत्युः॥ सा श्रोत्रादेः प्रयोक्त्री सकलमिदमिह स्वप्नवद्धीमयं स्यात्॥१॥’ इत्येवं तार्किकेण प्रथममुपगतो बन्दिना बौद्धपक्षः॥८॥

अष्टावक्र उवाच। द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च ।
द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा॥९॥

अष्टावक्रो द्वासुपर्णेति मन्त्रे तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिपश्यति ज्ञ इति पैङ्गिरहस्यव्याख्यातेन प्रकारेण बुद्धिचैतन्ययोः सखायावित्युक्तेरिन्द्राग्न्यादिवत्तौ सहैव चरतः । न हि दृश्याया बुद्धेर्द्रष्टृत्वं सम्भवति प्रकाश्यस्येव प्रकाशकत्वमिति परिहरति । द्वाविन्द्राग्नी इति । स्वप्नेऽपि बाधिताद्बोद्धव्यादबाधितो बोद्धान्योऽस्तीति भावः। ‘स्वातन्त्र्यादिन्द्र आत्मा नलवदिह पराधीनसिद्धिश्च बुद्धिर्दृग्दृश्येते ज्ञसत्त्वे इति खलु विवृते पैङ्गिना द्वेति मन्त्रे । भिन्ने देवर्षिदस्रप्रभृतिवदपि ते सूर्यचित्रांशुकभे । अन्योऽन्यापेक्षया च व्यवहृतिपथगे चक्रवद्दम्पतीवत् ॥२॥’ ॥९॥

बन्द्युवाच। त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति ।
अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः॥१०॥

बन्दी बोद्धुः कर्माधीनत्वमिति मीमांसकमतमाह त्रिरिति । पुण्येन देवस्थावरमानुषरूपं जन्मत्रयं सुकृतेनैव लभते । पापेन नारकस्थावरतिर्यग्रूपं स्वर्गान्नरकाद्वा च्युतस्यौषधिभावपूर्वकमेव रेतोद्वारा नृपशुतिर्यग्योनिसम्भवस्य श्रौतप्रसिद्धेः । अत एव त्रयो वेदाः युक्तास्तात्पर्येण सन्नद्धा इव वाजपेयोपलक्षितमाश्रमत्रयोचितं कृत्स्नं कर्मजातं वहन्ति । वेदस्यापि कर्ममात्रपरत्वमित्यर्थः । अध्वर्यवो यज्ञस्य योक्तारस्त्रैवर्णिकास्त्रीण्येव प्रातः सवनादीनि तन्वते । तेन यथाकालं कृतस्य कर्मणः फलं कालानुरोध्येव अनुभवन्तीत्यर्थः । त्रयो लोकाः स्वर्गो नरको भूश्चेति भोगभूमयः । त्रीण्येव वेदे ज्योतिष्मतां ज्योतींषि सुखमार्गप्रकाशकानि जाग्रदादीनि ।‘ तस्य त्रय आवसथास्त्रयः स्वप्ना’ इति श्रुतेः । नास्ति ततोऽन्यत्तत्त्वमित्यर्थः। ‘देवः स्थाणुर्नरः स्यात्सुकृतकृदितरो नारकस्थाणुतिर्यग्जन्मा त्रैवर्णिकः स्याच्छ्रुतियुगधिकृतो वाजपेयादियज्ञे। काले काले यजन्ते फलमपि च तथा भुञ्जते यज्ञभाजः सत्त्वाद्यैर्यान्ति लोकान् स्वरवनिनरकान्स्वप्नजाग्रत्सुषुप्तीः ॥३॥’ ॥१०॥

अष्टावक्र उवाच। चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति ।
दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता॥११॥

अष्टावक्र एतद्दूषयति चतुष्टयामिति । ब्राह्मणानां ब्रह्मविदां निकेतं ज्ञानोपलब्धिस्थानं चतुष्टयं चतुःसङ्ख्यावयवोपेतम् । आश्रमत्रयादन्योऽस्ति मोक्षाश्रमो यदहरेव विरजेत्तदहरेव प्रव्रजेदिति श्रुतिसिद्ध इत्यर्थः । यज्ञं ज्ञानयज्ञं शूद्रस्याप्यस्त्यत्राधिकारोऽकर्मरूपत्वादित्यर्थः दिशः दिश्यन्तः इति दिशः उपदिष्टाः सन्ति चतस्रोऽवस्थाः विराट् सूत्रान्तर्यामितुर्यसाक्षात्काररूपाः विश्वतैजसप्राज्ञेभ्यः सर्वप्राणिप्रसिद्धेभ्योऽन्या इत्यर्थः । अत एव तासां वाचकं चतुष्टयमकारउकारमकारार्धमात्रारूपमुपनिषत्प्रसिद्धम् । न चार्धमात्राया अप्रसिद्धत्वं वाच्यम् । यस्मात् चतुष्पदा परापश्यन्तीमध्यमावैखरीति पादचतुष्टयवती गौर्वाणी शश्वत् सदैव उक्ता । चत्वारिवाक्परिमितापदानीति मन्त्रे इति शेषः । ‘जिज्ञास्यं ब्रह्म सद्मिव्रतिवनियतिभिर्ज्ञानयज्ञेधिकारि चातुर्वर्ण्यं चतुष्पात्तदुपदिशति वागण्डसूत्रेशशुद्धम् । चत्वारो वाचि वर्णा अउमदलकला वैखरीमध्यमाख्यौ पश्यन्त्याख्यः पराख्यः स चतुरवयवः प्रत्ययोऽस्याः प्रसिद्धः ॥४॥’॥११॥

बन्द्युवाच। पञ्चाग्नयः पञ्चपदा च पङ्किर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि ।
दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम्॥१२॥

तुरीयमपलपन् बन्दी उवाच। पञ्चाग्नयः गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याः । पञ्चपदाऽष्टाक्षरैः पादैः पङ्क्तिश्छन्दः । यज्ञाः पञ्च अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इति श्रुताः । एते त्रयः पञ्चका यथा एवं पश्चैवेन्द्रियाणि शब्दादिपञ्चकग्राहकाणि । न षष्ठो विषय इन्द्रियं वास्तीत्यर्थः । दृष्टा वेदे । अप्सरा ‘आपः पुरुषवचसो भवन्तीति श्रुतेः ।’ शरीराकारपरिणतेषु जलप्रधानेषु भूतेषु सरति अनुगच्छतीत्यप्सराः चितिः पञ्चचूडा पञ्चैव तत्तद्विषयाकारतया प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण शिखा पञ्चकवत्येव दृष्टा। वृत्तिनिरोधस्य समाधेरपि निद्रायामेवान्तर्भाव इति भावः । लोकेऽपि पञ्चानां विषयस्रोतसां समाहारः पञ्चनदमुपेयम् एवमेव चितिशक्तेरेव कर्तृत्वभोक्तृत्वे इत्युत्तरार्धार्थः । ‘अग्निश्छन्दः क्रतूनामिव खलु मनसः खानि पञ्चैव भागा भ्रान्तिर्निद्राविकल्पः स्मृतिरमलमतिर्वृत्तयः पञ्च तस्य । ताभिः शाखावतीवस्वरिह जलपरीणामकायानुकर्त्री शुद्धाशुद्धप्रवाहा भवति चितिनदी तज्जसौख्यादिभोक्त्री ॥५॥’ ॥१२॥

अष्टावक्र उवाच। षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम् ।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः॥१३॥

कर्तृत्वादिधर्मकमस्ति षष्ठमिन्द्रियं मनः । सुषुप्तावितरवत्तल्लयस्याप्यनुभूयमानत्वात् । कर्तृत्वादेस्तत्सहभावनियतत्वदृष्टेश्च । चित्ताभावसाक्षी त्वात्मा ततः पृथक्कर्त्रादिरूपः सप्तमोऽस्तीत्याहाष्टावक्रः । षडाधाने इति षट् गाः इति शेषः । दक्षिणादयो मनसश्चक्षुरादिसाजात्ये दृष्टान्ताः । साद्यस्काः यज्ञविशेषाः । ‘गोनक्षत्रर्तुयज्ञा इव समवपुषः षट् षडेवं सचित्ताः श्रोत्राद्या दुःखशब्दाद्यनुभविन इतोऽन्यानुभूतिः स साक्षी । धीयोगात्सप्तभिस्तैरनुभवकरणैरत्र सप्तर्षिसंज्ञैर्भुङ्क्ते छन्दोभिधानानपरिमितवपुश्छादकानष्टमोऽर्थान् ॥६॥’ ॥१३॥

बन्द्युवाच। सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि ऋतुमेकं वहन्ति ।
सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा॥१४॥

अथ तर्कमतेन बन्दी प्रत्यवतिष्ठते । सप्त ग्राम्याः मनः षष्ठैरिन्द्रियैर्बुद्ध्या चात्मगुणभूतया समर्पिताः मन्तव्यबोद्धव्यशब्दादयो विषयास्तेष्वेकैकस्मिन्नासक्त एकैकः पुरुषपशुः ते च ग्राम्या ऐहिकाः वन्या आमुष्मिका विषयास्तेष्वासक्ततया प्रत्येकं सप्त सप्त पुरुषपशवः सप्त छन्दांसि छादयन्ति स्वस्वरूपार्पणजातसुखलेशेन परमात्मानं गूहयन्तीति तान्सप्तविषयान् । एकम् ऋतुं कर्तारमात्मानं वहन्ति प्रापयन्ति । के सप्तर्षयः । प्राणा वा ऋषय इति श्रुतेः । सप्तैवोक्ता मन आदयस्तदुपनीतानि सप्त चैवार्हणानि अर्हणीयानि सुखानि । यथा सप्तभिस्तन्त्रीभिर्वाद्यमाना एका वीणा शब्दं निर्वर्तयति । एवम् एतैः सप्तभिरात्मा सुखमनुभवति । अन्यथाऽकरणात्वात्सुप्तौ जड एव न्यस्तवास्यतक्षवत् अवादितवीणावच्च तिष्ठति । न तावतास्य कर्तृत्वापगम इत्यर्थः ॥ ‘भौमेष्वर्थेषु दिव्येष्वपि नरपशवः सप्त सप्तैवबद्धा भोक्तारं प्रापयन्ति क्रतुपदविदितं सप्त तान्सप्त खानि । सप्तैवैषां सुखानि प्रतिविषयभवान्येकवीणेव देही भोगं तन्त्रीन्द्रियाढ्यो रवमिव कुरुते योऽत्र कर्ता स भोक्ता ॥७॥’॥१४॥

अष्टावक्र उवाच। अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती ।
अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्त्रिर्विहितः सर्वयज्ञे॥१५॥

उक्तानेव सप्त कर्तृत्वादिधर्मवताहङ्कारेण सार्धम् अष्टौ विवक्षन्नष्टावक्रोऽष्टौ ग्रहा अष्टावतिग्रहा इति श्रुतेन्द्रियविषयरूपग्रहातिग्रहरूपं बन्धनमुपन्यस्य तदन्यमात्मानं पृथक्करोति अष्टौ शाणा इति । शाणाः शणसूत्रेण निर्वृत्ताः गोण्य आवपनविशेषाः ता इव इन्द्रियप्रवेशयोग्याः विषयाः अष्टौ ते शतमानम् अनन्तं प्रमाणं धारयन्ति । संक्षेपेणाष्टावप्यनन्ता विषया इत्यर्थः । अष्टौ पादाः विषयदेशं प्रति गतिसाधनानि इन्द्रियाणि यस्य सः शरभः शं लभन्तेऽस्मात् । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः परमानन्दरूपः परमात्मा सोऽयं ज्ञातः सन् सिंहघाती हिनस्ति दुःखं ददातीति सिंहो द्वैतम्। द्वितीयाद्वै भयं भवतीति श्रुतेः। तस्य द्वैतस्य घातकः । सुषुप्तौ जडत्वे सुखमहमस्वाप्समिति व्युत्थितस्य स्वरूपसुखपरामर्शानुपपत्तिः। न च दुःखाभावस्यैवैष परामर्शः । तत्प्रकाशकस्य साक्षिणः सत्त्वे तस्य तदानीं जडत्वोक्त्ययोगात् । अत एवाष्टौ वसून्वासनाः । देवतास्वेव तत्तदिन्द्रियाधिष्ठात्रीषु लिङ्गात्मनीति यावत् । शुश्रुम वेदे न त्वात्मनीत्यर्थः। यूपश्च योपयति मोहयतीति यूपो नृपशोर्बन्धनस्थांनं ज्ञानं तदेव अष्टास्त्रिरष्टकोणम् अष्टधारं सत् सर्वयज्ञेषु ग्रहातिग्रहसंज्ञकविषयेन्द्रियसंयोगेषु वर्तत इति शेषः ॥ ‘शाणा गोण्योऽष्ट तेऽर्थाः शतमथ शरभः प्रत्यगानन्द एतैः पूर्वोक्तैः साहमर्थैर्व्रजति स विषयान्खानितान्यंघ्रयोऽस्य। सिंहघ्नो हिंस्रभेदद्विडिति वसुपदं भेदसंस्कारजातं लिङ्गस्थे देवतौघे वसति स नृपशोर्बन्धने मोहयूपे ॥८॥’ ॥१५॥

बन्द्युवाच। नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् ।
नवाक्षरा बृहती संप्रदिष्टा नवैव योगो गणनामेति शश्वत्॥१६॥

तत्र द्वैतघातित्वं शरभस्यानुपपन्नं सर्वेषां युगपत्संसारोच्छेदापत्तेरित्याशङ्कते बन्दी नवैवेति । यथा पितॄणामिष्टौ एकैव उशंतस्त्वानि धीमहीति ऋकू त्रिरभ्यस्ता प्रत्येकं त्रिसमित्का नवसामिधेन्योऽग्निसमिन्धनार्था ऋचःसम्पद्यन्ते तथा एका प्रकृतिरेव त्रयो गुणाः स्वस्वेतरप्रधानगुणभावेन प्रत्येकं त्रिविधाः सन्तो नवैव संयुज्यमाना अंशानां बहुत्वाल्पत्वतारतम्येन विविधं खर्गं कुर्वन्ति । यथा नवाक्षरैश्चतुर्भिः पादैर्बृहतीसंज्ञकं छन्दो भवति । यथा वा नवेवाङ्काः क्रमभेदेन स्थिता यथेष्टं सङ्ख्यावाचिनो भवन्त्येवं गुणा नवैवोक्तविधया सन्तोनेकधाभावं भजन्ते तस्मात् प्रधाननित्यताया अवश्याभ्युपगन्तव्यत्वाद्द्वैतं सत्यमवेति भावः । ‘त्रिः पाठेनानुपाठं त्रिसमिदिति यथा सामिधेन्यृक् नवत्वं प्राप्नोत्येवं प्रधानं त्रिगुणमनुगुणं त्रिप्रवेशान्नवत्वम्। गत्वानन्तं नवाङ्कीगणितमिव महन्मुख्यमेतत्प्रसूते तस्मान्नैतत्प्रधानाधिकामिह बृहती वाक्षरेभ्यो नवभ्यः ॥९॥’॥१६॥

अष्टावक्र उवाच। दिशो दशोक्ताः पुरुषस्य लोके सहस्त्रमाहुर्दशपूर्णं शतानि ।
दशैव मासान्बिभ्रति गर्भवत्यो दशैरका दश दासा दशार्हाः॥१७॥

तदेतदिन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति श्रुत्यनुसाराद्द्वैतस्यानिर्वचनीयमायासहाये ब्रह्मण्येव भानोपपत्तौ न सत्या प्रकृतिरभ्युपेयेत्याशयवानष्टावक्रः परिहरन्नाह दिश इति । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतमिति तस्य वाचा सृष्टौ पृथिवी चाग्निश्चेति च कौषीतकीयैतरेयकयोर्दर्शनाद्दशैव वागाद्याः प्रज्ञामात्रा अग्न्यादीनां भूतमात्राणां स्रष्ट्र्यः । दिशन्ति विषयस्वरूपमतिसृजन्ति ताः दिशः वागाद्या दशैव पुरुषस्य देहाख्ये पुरे वसतो जीवस्य पूर्णं परं ब्रह्मैव दश शतानि सहस्रं च विभूतिभेदेन मायया बहुरूपं भूत्वास्तीत्याहुर्वेदाः । एतेनायं वै हरयोयं वै दश च सहस्राणि प्रयुतान्यर्बुदानीति युक्ता ह्यस्य हरयः शतादशेत्येवमन्त्यपादस्य श्रौती व्याख्या दर्शिता । तथा च रज्जूरगवन्मायाबुद्धस्य बाधितापीतरस्यातीति वक्तुं शक्यम् । परमते तु विभोरलुप्तदृशः पुरुषस्य मुक्तौ तददर्शनोक्तिरनुपपन्ना दृष्टान्ताभावादिति भावः । परा पूर्वेषां सङ्ख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रविचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश इति दाशतय्याम् । ४ । ७ ॥ अष्टकाध्यायवर्गे ऋचौ ऐन्द्र्यौ आम्नायेते । अनयोरर्थः । द्वयाह प्राजापत्या देवाश्चासुराश्च तत्र कानीयसा एव देवा ज्यायांसो असुरा इति श्रुतिप्रसिद्धाः पूर्वदेवाः स्वाभाविकासङ्गपाप्मरूपाः कामक्रोधादयः तेषां सख्यासख्यानि परावृणक्ति दूराद्वर्जयति । वितर्तुराणः ततारेति तर्तुराणःतर्णिवान् । तरतेर्लिंडादेशःकानच् द्वित्वं बहुलं छन्दसीत्युकारोन्तादेशोरपरः । तीव्रवैराग्याभ्यासादिमान् । अपरेभिः अपरैः देवैः शास्त्रीयैः शमदमादिभिः एति प्राप्नोति । सख्येत्यनुषज्यते । कामादीन् जित्वाऽत्यादरेण शमादिपरो भवतीत्यर्थः । एवम्भूतः अनानुभूतीः अननुभवान् भ्रान्तिज्ञानानि शुक्तिरजतज्ञानतुल्यानि देहाद्यात्मज्ञानानि अवधून्वानोऽपनुदन् आत्मनस्तत्तदुपाद्ध्याकारतां निषेधन् इन्द्रः परमेश्वरोऽप्यविद्यया जीवभावमापन्नः सन् लब्धात्मत्तत्त्वो विद्वान्पूर्वीः शरदः अनादिकालप्रवृत्तकर्मवासनास्तर्तरीति अतिशयेन तरति । बीतबन्धो भवतीत्यर्थः । अत्र अननुभूतिपदेन शुक्तौ रजतं पश्यन् रजतं वा शुक्ति वा नानुभवतीति लौकिकप्रयत्नेन देहाद्यात्मज्ञानस्याननुभूतित्वं वदन्ती श्रुतिर्देहादेर्मिथ्यात्वं सूचयति । तद्व्युत्पादनाय मन्त्रो रूपं रूपमित्यादिस्तत्र माययेति अनृतेनाज्ञानेनेत्यर्थः । सत्त्यत्वे तत्कार्यपदार्थदर्शनस्याननुभूतित्वायोगादिति। शेषं स्पष्टार्थम् । अनानुभूतीरित्यत्र श्रावयादीन् प्रकृत्य आद्याक्षरं प्लुतं तेषामनन्वित्यस्य मध्यमित्यनेनाननु इति वर्णत्रयस्य मध्यं प्लुतं दीर्घं भवतीति प्रातिशाख्ये दीर्घत्वविधानादननुभूतीरित्यर्थः । पदपाठश्चैवमेवेति दिक् । दशैव मासानिति । यथा स्त्रियो गर्भेणान्तरालिकः सम्बन्धो बीजकुसूलन्यायेनैवमसङ्गस्य चिदात्मनोऽहङ्कारेणेत्यर्थः । दशैरकाः । आसमन्तादीरयन्ति उपदिशन्ति तत्त्वमित्येरकास्तत्त्वदर्शिन उपदेष्टारः । दशमासाः तत्त्वस्य क्षेपकाः । दश अर्हास्तत्त्वविद्याधिकारिणः । एवमुक्तविधं ब्रह्माद्वैतं बुधानामनुभवसिद्धं मूढानां विद्वेष्यं चित्तशुद्धिमतां श्रद्धेयमित्यर्थः । ‘खोत्थप्रज्ञादिशोऽस्मिन्दशपुरि वसतः पूरविद्याष्टकात्मा ताः पूर्णं वस्त्वनन्ताः स्रगहिसमपुरां व्यापनात्पूर्णतास्य । पुम्पुर्योर्गर्भमात्रोरिव पृथगपृथक्त्त्वेन सत्यानृते स्तः केऽप्यारूढाः पदं तत्कतिचन विमुखाः केऽपि तत्प्राप्तियोग्याः ॥१०॥’॥१७॥

बन्द्युवाच। एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः ।
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः॥१८॥

एकादशेति । प्राणभृतां पशूनां जीवपशूनाम् । एकादशिनः एकादशेन्द्रियाणि प्रकाशकानि येषु ते विषयाः शब्दादयस्ते एकादशैव सङ्ख्याताः । त एव सर्वेऽपि प्रत्येकं यूपाः बन्धकाः रागादयः । नैषां कश्चिदप्यबन्धकोऽस्तीति वक्तुं पुनरेकादशग्रहणम् । अतोऽत्र अविमृष्टविधेयांशता दोषो नास्तीति ज्ञेयम् । विकाराः शब्दादिग्रहजाः हर्षविषादाः । त एते दिवि स्वर्गेऽपि रुद्राः रोदयितारो देवानामपि सन्ति किमुत मनुष्याणाम् । तथा च सत्यात्मनोऽसङ्गत्वं कथं स्यात् प्रत्यक्षेण दुःखानुभवादित्याक्षेपः । ‘रुद्रा एकादशोक्ताः स्वरपिसुरपशून् रोदयन्तीन्द्रियाणि तेषामेकादशार्था नृपशुनिगडने यूपभूता भवन्ति । रागद्वेषद्वयानि प्रतिविषयममी तद्युजांस्युर्विकारास्तद्वन्तस्तेऽपि चैकादश यदिह सिनोत्येक एकैकमेषाम्॥११॥’ ॥१८॥

अष्टावक्र उवाच। संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि ।
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह धीराः॥१९॥

दृष्टान्तमुखेनैव दार्ष्टान्तिकं निर्दिशन्परिहरत्यष्टावक्रः । यद्यपि अत्र संवत्सरजगत्यौ मासाक्षरेभ्योऽनतिरिक्ते एवं सङ्घातादन्यः शुद्धश्चेतनो मूढानामप्रसिद्धस्तथापि आनन्दाद्ध्येव खल्विमानि भूतानि जायन्त इति श्रुतेर्यथा अहर्गणानां द्वादशाह एवं सङ्घातस्य कृत्स्नस्य शुद्धं ब्रह्मैव प्रकृतिः । एतदेव कुत इत्यपेक्षायां चित्तशुद्ध्यैकगम्योऽयमर्थो न शुष्कतर्कगम्य इत्याह द्वादशादित्यानिति धीराः ध्यानवन्तो योगिनः । आदित्यान् आददते इन्द्रियाणि स्वस्वविषयेभ्यो व्यावर्तयन्ति तद्वारा प्रत्यक् तत्त्वमधिगमयन्ति तान् द्वादशसङ्ख्याकान् आहुः सनत्सुजाताद्याः उद्योगादौ । ‘धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया। यज्ञश्च दानं च धृतिर्यमो महान्व्रतानि वै द्वादश ब्राह्मणस्य’ इति । ‘बन्धप्रत्यक्षमेत दृढमथ जगती वर्षवद्वर्णमासात्सङ्घातात्प्रत्यगात्मानधिक इति यदप्यस्ति लोके तथापि । वागारभ्यो विकारः प्रकृतिरविकृतिर्द्वादशाहादिवत्कोऽप्यस्त्येषां भान आत्मा शमिभिरधिगतो वैकृतानैनमीयुः॥१२॥’ ॥१९॥

बन्द्युवाच। त्रयोदशी तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च ।
लोमश उवाच। एतावदुक्त्वा विरराम बन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः ।
अष्टावक्र उवाच। त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः॥२०॥

ब्रह्मलोकं गतानामेव ज्ञानं भवतीति केषाञ्चिन्निर्बन्धः कृतयुगादावेव ज्ञानं भवति न कलावित्यपि केचित्तान्निराचष्टे त्रयोदशीति । देशकालापेक्षा चित्तशुद्धिर्न पुरुषयत्नसाध्येत्याक्षेपो बन्दिप्रोक्तपूर्वार्धेन ॥ न त्रेतादौ सधर्मः सकलुषसमयेनापि भूरादिषट्‌के नो पातालेषु सप्तस्वपि तु कृतयुगे सत्यलोके च सोऽस्ति । तस्माद्या सर्वसिद्धातिथिरियमपि न स्वाप्तयेतीव शस्ता नो वा लोकास्तपोन्ता इति मखतपसी श्रेयसे नात्मचर्चा उत्तरार्धे तु केशी अग्निर्वायुः सूर्यश्च केशिन इति वैदिकप्रसिद्धेरग्न्यादिवदसङ्ग आत्मा । त्रयोदशसङ्ख्यानि दशेन्द्रियाणि बुद्धिमनोऽहङ्काराख्यानि । अहःशब्दोऽत्र क्रतुवाच्यपि लक्षणया विषयेन्द्रियसम्बन्धरूपभोगाख्ये यज्ञे वर्तते । असङ्गस्याप्यात्मनो बुध्यादिसङ्गात् ध्यायतीव लेलायतीवेत्त्यादिश्रुतेः सङ्गित्वमिव भाति । अतो बुध्यादयः शोधनीया एव न तूदासीत । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति श्रुत्यवष्टम्भेन इहैव देशे काले च मुक्तिरस्तीति भावः । यतः अतिच्छन्दांसि छादकमज्ञानमतिक्रान्तानि धर्मादीनि द्वादश । त्रयोदशादीनि त्रयोदशानां बुध्यादीनाम् आदीनि अदनशीलानि । धर्मादिबलादुत्पन्ने ज्ञाने बुध्यादयो निवर्तन्त इत्यर्थः । तेषु बुद्ध्यादिषु निवृत्तेषु ब्रह्माद्वैतं कथयितुमागतोऽस्मीति प्राक्प्रतिज्ञातं तदिह स्वयमेव प्रकाशत इत्युक्तमिति भावः । एतर्ह्यत्रैव देवा इव मुनिमनुजा यान्ति सार्वात्म्यमित्याद्युक्तेः साहं मनोधीखदशकमनुयन्नाग्निवाय्वर्कतुल्यः । सङ्गी वासङ्ग्यपि स्यात्त्रिदशगणमदन्त्येव धर्मादयस्ते । येतिच्छन्दोऽभिधानांस्तिभिरमतिगता एवमद्वैतसिद्धिः । तदयं सङ्ग्रहः।। ‘तत्त्वन्धीः साक्षिसाक्ष्ये श्रुतिषु कृतिपरोऽस्त्यत्र कर्तापि सोऽत्ता पञ्चानां षष्ठमेतत्खमथ समतिकैस्तैः करोत्यष्टमोऽन्यः । सोऽहं साक्षी ततोऽन्ये गुणमयमखिलं चिन्मयास्ते सदुःखा चित्स्यात् दुःखीतरा सा शमयुगिह चिदद्वैतभागष्टवक्रः॥१५॥’ ग्रन्थविस्तरभयादुदाहृतोपक्रमाननुगुण्यात् क्लिष्टत्वात् प्रयोजनवर्यापर्यवसायित्वाच्च टीकान्तरोक्ता अर्था नेह प्रदर्शिताः ॥२०॥

ततो महानुदतिष्ठन्निनादस्तूष्णींभूतं सूतपुत्रं निशम्य ।
अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव॥२१॥

सूतपुत्रं शोभनः ऊतः पटस्तद्वत्प्रकृतिविकृत्यात्मैकस्तुन्तुभिरोतुभिश्च प्रोतत्वात् ऊतः क्रतुरपि सूतः शोभनयज्ञो वरुणस्तस्य पुत्रम् । स इत्तन्तु स विजानात्योमिति मन्त्रवर्णात्तन्त्वाद्यात्मकस्य क्रतोरूतशब्दवाच्यत्वम् । उदीर्यन्तम् उदीर्यमाणं स्तूयमानमित्यर्थः ॥२१॥

तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः ।
अष्टावक्रं पूजयन्तोभ्युपेयुर्विप्राः सर्वे प्राञ्जलयः प्रतीताः॥२२॥

अष्टावक्र उवाच। अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक् ।
तानेव धर्मानयमद्य बन्दी प्राप्नोतु गृह्याशु निमज्जयैनम्॥२३॥

शुश्रुवांसः पण्डिताः ॥२३॥

बन्द्युवाच। अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै ।
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः॥२४॥

ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इम आयान्ति भूयः ।
अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये॥२५॥

जनितारं वरुणम् ॥२५॥

अष्टावक्र उवाच। विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः ।
तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः॥२६॥

विप्रा इति । वाचा उच्चैः पाठेनैव । उत मेधया ऊहापोहकौशलेन । विप्राः विदानाः पण्डिता अपि जिताः मज्जिताश्च तां प्रसिद्धां वाचं वेदमयीं मेधया सहितां बन्दिना कुतर्कार्णवे मज्जिताम् अहं यथा उज्जहार उद्धृतवानस्मि तथा सन्तः सदसद्वचनविवेककुशलाः अवचिन्वन्ति परीक्षयन्ति । लोडर्थे लट् । परीक्षयन्त्वित्यर्थः ॥२६॥

अग्निर्दहञ्जातवेदाः सतां गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत् ।
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः॥२७॥

ननु बन्दिनोद्धृतां वाचं त्वमेव कुतर्कार्णवे मज्जितवानसि तत्र किं सद्भिः परीक्षणीयमित्याशङ्क्याह अग्निर्दहन्निति । अग्निः दहन् स्वभावेन दाहकोऽपि जातवेदाः जातानि सतामसतां च वृत्तानि वेद जानातीति जातवेदाः । सतां सत्याभिसन्धीनां गृहान् शरीराणि विसर्जयन् वर्जयन् तेजसा यथा अधाक्षीत्स्म अर्थादनृताभिसन्धिगृहान् । न शब्द उपमार्थे । अपो न नावादुरितातरेमेत्यादिवत् । यथा तप्तपरशुग्रहणे वह्निः सत्याभिसन्धिं न दहति सत्यपक्षपाती न तु जातिवयोविद्यादिपक्षपाती एवं सन्तोऽपि बालादिषु । अतो बालवचनमिति मद्वाक्यं नावमन्तव्यमिति भावः ॥२७॥

श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति ।
हस्तीव त्वं जनक बिनुद्यमानो न मामिकां वाचमिमां शृणोषि॥२८॥

श्लेष्मातकीशब्दितस्तरुविशेषस्तस्य पत्रेषु भोजनं तत्फलभक्षणं च बुद्धिघ्नं दोषकरं चेति प्रसिद्धम् ॥२८॥

जनक उवाच। शृणोमि वाचं तव दिव्यरूपाममानुषीं दिव्यरूपोऽसि साक्षात् ।
अजैषीर्यद्वन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी॥२९॥

अद्य तव कामो निसृष्टः एष बन्दी दृश्यतामिति शेषः ॥२९॥

अष्टावक्र उवाच। नानेन जीवता कश्चिद‌र्थो मे बन्दिना नृप ।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये॥३०॥

बन्द्युवाच ।
अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य ।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोडम्॥३१॥

लोमश उवाच। ततस्ते पूजिता विप्रा वरुणेन महात्मना ।
उद‌तिष्ठंस्ततः सर्वे जनकस्य समीपतः॥३२॥

कहोड उवाच। इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा ।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम॥३३॥

इत्यर्थम् एतदर्थम् ॥३३॥

उताबलस्य बलवानुत बालस्य पण्डितः ।
उत वाविदुषो विद्वान्पुत्रो जनक जायते॥३४॥

शितेन ते परशुना स्वयमेवान्तको नृप ।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते॥३५॥

शितेन तीक्ष्णेन ते तव रिपूणामित्यन्वयः । यमादपि तव शत्रुसंहरणशक्तिरधिकेति भावः ॥३५॥

महदौक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे ।
शुचीन्मार्गान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्योत राज्ञः॥३६॥

औक्थ्यम् उक्थ्याख्यक्रतुविशेषे गेयम् । साक्षादित्यपरोक्षं देवतासानिध्यमुच्यते ॥३६॥

लोमश उवाच। समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु ।
अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी॥३७॥

अष्टावक्रः पितरं पूजयित्वा संपूजितो ब्राह्मणैस्तैर्यथावत् ।
प्रत्याजगामाश्रममेव चाग्र्यं जित्वा सौतिं सहितो मातुलेन॥३८॥

सौर्ति सूतस्य वरुणस्य पुत्रम् ॥३८॥

ततोऽष्टावक्रं मातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व ।
प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव सद्यः॥३९॥

समानि अङ्गानि करोतीति समङ्गेति योगो दर्शितः शकन्ध्वादित्वात् पररूपम् ॥३९॥

नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धि ।
त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशस्व॥४०॥

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः ।
पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ॥४१॥

प्रतीतो विश्रब्धः ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अष्टावक्रीये चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
पञ्चत्रिंशदधिकशततमोऽध्यायः

लोमश उवाच। एषा मधुविला राजन्समङ्गा संप्रकाशते ।
एतत्कर्दमिलं नाम भरतस्याभिषेचनम्॥१॥

एषेति । मधुविलेति अष्टावक्राङ्गसमीकरणात्पूर्वं समङ्गाया एव नाम ॥१॥

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः ।
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत॥२॥

एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ ।
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा॥३॥

अन्नं ब्रह्मौदनम् । आदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचदिति श्रुतेः ॥३॥

एनं पर्वतराजानमारुह्य भरतर्षभाः ।
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ॥४॥

अयशस्याम् अयशस्करीम् असंशब्द्याम् अकीर्तनीयाम् ॥४॥

एते कनखला राजन्नृषीणां दयिता नगाः ।
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी॥५॥

सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा ।
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे॥६॥

अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् ।
उष्णीगङ्गे च कौन्तेय सामात्यः समुपस्पृश॥७॥

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते ।
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय॥८॥

एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते ।
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत॥९॥

युधिष्ठिर उवाच। कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् ।
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः॥१०॥

एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः ।
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे॥११॥

लोमश उवाच। भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः ।
तावूषतुरिहात्यन्तं प्रीयमाणावनन्तरम्॥१२॥

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू ।
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत॥१३॥

रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् ।
तयोश्चाप्यतुला कीर्तिर्बाल्यात्प्रभृति भारत॥१४॥

इतरो भरद्वाजस्तपस्व्येव न तु शिष्यादिसम्पन्नः ॥१४॥

यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् ।
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः॥१५॥

पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः ।
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव॥१६॥

स समिद्धे महत्यग्नौ शरीरमुपतापयन् ।
जनयामास संतापमिन्द्रस्य सुमहातपाः॥१७॥

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर ।
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्॥१८॥

यवक्रीत उवाच। द्विजानामनधीता वै वेदाः सुरगणार्चित ।
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः॥१९॥

स्वाध्यायार्थं समारम्भो ममायं पाकशासन ।
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक॥२०॥

सर्वज्ञानानि सर्वशास्त्राणि ॥२०॥

कालेन महता वेदाः शक्या गुरुमुखाद्विभो ।
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः॥२१॥

इन्द्र उवाच। अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि ।
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्॥२२॥

विघातेन आत्मनाशनेन ॥२२॥

लोमश उवाच। एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत ।
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः॥२३॥

घोरेण तपसा राजंस्तप्यमानो महत्तपः ।
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्॥२४॥

तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् ।
उपेत्य बलभिद्देवो वारयामास वै पुनः॥२५॥

अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव ।
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते॥२६॥

न प्रतिभास्यन्तीति नकारावृत्त्या योज्यम् ॥२६॥

यवक्रीत उवाच। न चैतदेवं क्रियते देवराज ममेप्सितम् ।
महता नियमेनाहं तप्स्ये घोरतरं तपः॥२७॥

समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध ।
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्॥२८॥

लोमश उवाच। निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः ।
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्॥२९॥ ।
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः ।
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः॥३०॥

यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि ।
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः॥३१॥

यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः ।
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्॥३२॥

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् ।
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन्॥३३॥

तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने ।
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः॥३४॥

किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् ।
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः॥३५॥

इन्द्र उवाच। बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति ।
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः॥३६॥

यवक्रीत उवाच। नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन ।
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ॥३७॥

इन्द्र उवाच। यथैव भवता चेदं तपो वेदार्थमुद्यतम् ।
अशक्यं तद्वदस्माभिरयं भारः समाहितः॥३८॥

यवक्रीत उवाच। यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर ।
तथा यदि ममापीदं मन्यसे पाकशासन॥३९॥

क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर ।
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति॥४०॥

लोमश उवाच। तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः ।
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः॥४१॥

यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति ।
स लब्धकामः पितरं समेत्याथेद‌मब्रवीत्॥४२॥

यवक्रीत उवाच। प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः ।
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया॥४३॥

भरद्वाज उवाच। दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् ।
स दर्पपूर्णः कृपणः क्षिप्रमेव विनङ्ख्यास॥४४॥

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः ।
मुनिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्॥४५॥

स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुष्करम् ।
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः॥४६॥

अमर्त्य इति च्छेदः अमर इत्यर्थः ॥४६॥

तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः ।
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति॥४७॥

बालधिरुवाच। यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः ।
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भविष्यति॥४८॥

भरद्वाज उवाच। तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा ।
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत॥४९॥

विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम् ।
आससाद महावीर्यं धनुषाक्षं मनीषिणम्॥५०॥

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् ।
भव भस्मेति चोक्तः स न भस्म समपद्यत॥५१॥

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् ।
निमित्तमस्य महिषैर्भेदयामास वीर्यवान्॥५२॥

निमित्तं पर्वतान् भेदयामास खण्डयामास ॥५२॥

स निमित्ते विनष्टे तु ममार सहसा शिशुः ।
तं मृतं पुत्रमादाय विललाप ततः पिता॥५३॥

लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत् ।
ऊचुर्वेदविदः सर्वे गाथां यां तां निबोध मे॥५४॥

न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन ।
महिषैर्भेदयामास धनुषाक्षो महीधरान्॥५५॥

दिष्टं दैवविहितम् ॥५५॥

एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः ।
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्॥५६॥

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ ।
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः॥५७॥

स हि क्रुद्धः समर्थश्च पुत्रं पीडयितुं रुषा ।
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः॥५८॥

यवक्रीत उवाच। एवं करिष्ये मा तापं तात कार्षीः कथंचन ।
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम॥५९॥

लोमश उवाच। उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः ।
विप्रकुर्वनृषीनन्यानतुष्यत्परया मुदा॥६०॥

इति श्रीमहाभारते आरण्यके पर्वणि लोमशतीर्थयात्रायां यवक्रीतोपाख्याने पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
षट्त्रिंशदधिकशततमोऽध्यायः

लोमश उवाच। चंक्रम्यमाणः स तदा यवक्रीरकुतोभयः ।
जगाम माधवे मासि रैभ्याश्रमपदं प्रति॥१॥

चङ्क्रम्यमाणः भृशं पर्यटन् । माधवे वैशाखे ॥१॥

स ददर्शाश्रमे रम्ये पुष्पितद्रुमभूषिते ।
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत॥२॥

यवक्रीस्तामुवाचेदमुपातिष्ठस्व मामिति ।
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः॥३॥

हृतचेतनः वशीकृतचित्तः ॥३॥

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती ।
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम ह॥४॥

तत एकान्तमुन्नीय मज्जयामास भारत ।
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम॥५॥

एकान्तम् उन्नीय एकान्ते कार्यं रतं समाप्य । मज्जयामास शोकसमुद्रे इति शेषः । सज्जयामासेति पाठे स्वशत्रुमपकर्तुं रैभ्यं सन्नद्धं चकार । तदेवाह आजगामेत्यादिना ॥५॥

रुदतीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः ।
सान्त्वयन्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर॥६॥

सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा ।
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथात्मना॥७॥

प्रत्युक्तं प्रत्याख्यातम् । मदुपरि बलात्कारं कृतवानित्युक्तवतीत्यर्थः ॥७॥

शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम् ।
दहन्निव तदा चेतः क्रोधः समभवन्महान्॥८॥

स तदा मन्युनाविष्टस्तपस्वी कोपनो भृशम् ।
अवलुच्य जटामेकां जुहावाग्नौ सुसंस्कृतैः॥९॥

सुसंस्कृतैः स्वरवर्णादिसंस्कारयुक्तैर्मन्त्रैः ॥९॥

ततः समभवन्नारी तस्या रूपेण संमिता ।
बहुः या परां चापि जुहावाग्नौ जटां पुनः॥१०॥

नारी कृत्या ॥१०॥

ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् ।
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे॥११॥

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति ।
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया॥१२॥

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना ।
कमण्डलुं जहारास्य मोहयित्वेव भारत॥१३॥

उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् ।
तत उद्यतशूलः स राक्षसः समुपाद्रवत्॥१४॥

तमाद्रवन्तं संप्रेक्ष्य शूलहस्तं जिघांसया ।
यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः॥१५॥

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः ।
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः॥१६॥

स काल्यमानो घोरेण शूलहस्तेन रक्षसा ।
अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह॥१७॥

काल्यमानः सर्वतो निषिध्यमानः । अग्निहोत्रे अग्निहोत्रशालायाम् ॥१७॥

स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा ।
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव॥१८॥

अवातिष्ठत बहिरेव ॥१८॥

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ।
ताडयामास शूलेन स भिन्नहृ‌दयोऽपतत्॥१९॥

यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् ।
अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत्॥२०॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां यवक्रीतोपाख्याने षट्त्रिंशदधिकशततमोऽध्यायः॥१३६॥
सप्तत्रिंशद‌धिकशततमोऽध्यायः

लोमश उवाच। भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् ।
समित्कलापमादाय प्रविवेश स्वमाश्रमम्॥१॥

भरद्वाज इति । आह्निकं स्वाध्यायं प्रत्यहं कर्तव्यं ब्रह्मयज्ञम् ॥१॥

तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः ।
न त्वेतमुपतिष्ठन्ति हतपुत्रं तदाग्नयः॥२॥

हतपुत्रत्वेन आशौचयुक्तत्वात्॥२॥

वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः ।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्॥३॥

किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् ।
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे॥४॥

कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः ।
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः॥५॥

शुद्ध्यति निःसन्देहं भवति ॥५॥

शुद्र उवाच। रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः ।
तथा हि निहतः शेते राक्षसेन बलीयसा॥६॥

प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा ।
अग्न्यगारं प्रति द्वारि मया दोर्भ्यां निवारितः॥७॥

अग्न्यगारं प्रविष्टस्य रक्षोभयं न भवेदिति भावः ॥७॥

ततः स विहताशोऽत्र जलकामोऽशुचिर्ध्रुवम् ।
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा॥८॥

भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत् ।
गतासुं पुत्रमादाय विललाप सुदुःखितः॥९॥

शूद्रस्य शूद्रकृतं विप्रियं पुत्रनिरोधेन कृतम् ॥९॥

भरद्वाज उवाच। ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः ।
द्विजानामनधीता वै वेदाः संप्रति भान्त्विति॥१०॥

तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु ।
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्॥११॥

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् ।
गतवानेव तं द्रष्टुं कालान्तकयमोपमम्॥१२॥

यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् ।
गतवानेव कोपस्य वशं परमदुर्मतिः॥१३॥

पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा ।
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि॥१४॥

यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी ।
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्॥१५॥

किल्विषी शोकाक्रान्तः ॥१५॥

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते ।
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम्॥१६॥

ये तु पुत्रकृताच्छोकाद्भ्रृशं व्याकुलचेतसः ।
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः॥१७॥

परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया ।
ईदृशीमापदं कोऽत्र द्वितीयोऽनुऽभविष्यति॥१८॥

लोमश उवाच। विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् ।
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम्॥१९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां यवक्रीतोपाख्याने सप्तत्रिंशद‌धिकशततमोऽध्यायः॥१३७॥
अष्टत्रिंशद‌धिकशततमोऽध्यायः

लोमश उवाच। एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः ।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान्॥१॥

एतस्मिन्निति ॥१॥

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू ।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता॥२॥

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः॥३॥

अथावलोककोऽगच्छद्गृहानेकः परावसुः ।
कृप्णाजिनेन संवीतं ददर्श पितरं वने॥४॥

अवलोककः अवलोकनार्थी । गृहान्भार्याम् ॥४॥

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि ।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्॥५॥

मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।
अकामयानेन तदा शरीरत्राणमिच्छता॥६॥

तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत ।
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः॥७॥

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन ।
मया च हिंसितस्तातो मन्यमानेन तं मृगम्॥८॥

सोऽस्मर्थे व्रतं तात चर त्वं ब्रह्महिंसनम् ।
समर्थोऽप्यहमेकाकी कर्म कर्तुमिदं मुने॥९॥

अर्वावसुरुवाच। करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।
ब्रह्मवध्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः॥१०॥

लोमश उवाच। स तस्य ब्रह्मवध्यायाः पारं गत्वा युधिष्ठिर ।
अर्वावसुस्तदासत्रमाजगाम पुनर्मुनिः॥११॥

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् ।
वृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम्॥१२॥

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम्॥१३॥

लोमश उवाच। तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते ।
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा॥१४॥

विट्पते हे प्रजाधीश ॥१४॥

न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ।
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत॥१५॥

नैव स्म प्रतिजानाति ब्रह्मवध्यां स्वयंकृताम् ।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः॥१६॥

स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः ।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः॥१७॥

प्रभाषितः मिथ्यावाद्यसीति अधिक्षिप्तः ॥१७॥

उग्रं तपः समास्थाय दिवाकरमथाश्रितः ।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः॥१८॥

रहस्यवेदं सूर्यमन्त्रप्रकाशकं वेदम् । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि । ‘एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तम्’ इति काठब्राह्मणम् कृतवान् ददर्श ॥१८॥

मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ।
लोमश उवाच। प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप॥१९॥

मूर्तिमान्सूर्यस्तं द्विजं ददर्श आत्मानं दर्शयामास ॥१९॥

तं ते प्रवरयामासुर्निरासुश्च परावसुम् ।
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः॥२०॥

तं देवाः प्रकर्षेण वरयामासुः । निरासुर्निराचक्रुर्यज्ञादिति शेषः ॥२०॥

स चापि वरयामास पितुरुत्थानमात्मनः ।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे॥२१॥

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ।
एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः॥२२॥

प्रतिष्ठां सम्प्रदायप्रवृत्तिम् । सौरो वेदः पूर्वमुक्तः ॥२२॥

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ।
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्॥२३॥

समधीतं मया ब्रह्म व्रतानि चरितानि च ।
कथं च रैभ्यः शक्तो मामधीयानं तपस्विनम्॥२४॥

समधीतं सम्यक्प्राप्तम् । ब्रह्म वेदः॥२४॥

तथायुक्तेन विधिना निहन्तुममरोत्तमाः ।
देवा ऊचुः ।
मैवं कृथा यवक्रीत तथा वदसि वै मुने ।
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा॥२५॥

अनेन तु गुरून्दुःखात्तोषयित्वात्मकर्मणा ।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्॥२६॥

लोमश उवाच। यवक्रीतमथोक्त्वैवं देवाः सेन्द्रपुरोगमाः ।
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्॥२७॥

आश्रमस्तस्य पुण्योऽयं सदा पुष्पफलद्रुमः ।
अत्रोष्य राजशार्दूल सर्वं पापं प्रमोक्ष्यसि॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां यवक्रीतोपाख्याने अष्टत्रिंशद‌धिकशततमोऽध्यायः॥१३८॥
ऊनचत्त्वारिंशदधिकशततमोऽध्यायः

लोमश उवाच। उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव॥१॥

उशीरेति ॥१॥

एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते॥२॥

यत्राग्निर्नित्यमिध्यत इति । त्रियोगिनारायणाख्यं हरिद्वारात् परतः स्थानमस्ति ॥२॥

एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् ।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ॥३॥

एतद्द्रक्ष्यसि देवानामाक्रीडं चरणाङ्कितम् ।
अतिक्रान्तोऽसि कौन्तेय कालशैलं च पर्वतम्॥४॥

श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट्॥५॥

अष्टाशीतिसहस्त्राणि गन्धर्वाः शीघ्रगामिनः ।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः॥६॥

अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते॥७॥

तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते ।
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्॥८॥

तैस्तातबलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु॥९॥

कुबेरसचिवाश्चान्ये रौद्रामैत्राश्च राक्षसाः ।
तैः समेष्याम कौन्तेय संयतो विक्रमेण च॥१०॥

कैलासः पर्वतो राजन्षड्योजनसमुच्छ्रितः ।
यत्र देवाः समायान्ति विशाला यत्र भारत॥११॥

विशाला बदरी ॥११॥

असंख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः ।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति॥१२॥

तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च॥१३॥

स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।
गङ्गा च यमुना चैव पर्वतश्च दधातु ते॥१४॥

मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च ।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश्च महाद्युते॥१५॥

इन्द्रस्य जाम्बूनदपर्वताद्वै शृणोमि घोषं तव देवि गङ्गे ।
गोपाययेमं सुभगे गिरिभ्यः सर्वाजमीढोपचितं नरेन्द्रम्॥१६॥

इन्द्रस्य इन्द्रसम्बन्धिनः जाम्बूनदं सुवर्णं तन्मयात्पर्वतान्मेरोः । गोपाययेति णिजन्तस्य रूपम्। देवैरिति शेषः । स्वार्थे वा णिच् । आजमीढवंशे अपचितं पूजितं श्रेष्टमित्यर्थः ॥१६॥

ददस्व शर्म प्रविविक्षतोऽस्य शैलानिमाञ्छैलसुते नृपस्य ।
उक्त्वा तथा सागरगां स विप्रो यत्तो भवस्वेति शशास पार्थम्॥१७॥

ददस्व देहि ॥१७॥

युधिष्ठिर उवाच। अपूर्वोऽयं संभ्रमो लोमशस्य कृष्णां च सर्वे रक्षत मा प्रमादम् ।
देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात्परं शौचमिहाचरध्वम्॥१८॥

शौचं वाङ्मनःकायशुद्धिम् ॥१८॥

वैशंपायन उवाच। ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन ।
शून्येऽर्जुनेऽसंनिहिते च तात त्वामेव कृष्णा भजते भयेषु॥१९॥

ततो महात्मा स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे ।
उवाच तो बाष्पकलं स राजा मा भैष्ट मा गच्छतमप्रमत्तौ॥२०॥

भैष्टमिति च्छेदः ॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कैलासादिगिरिप्रवेशे ऊनचत्त्वारिंशदधिकशततमोऽध्यायः॥१३९॥
चत्त्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। अन्तर्हितानि भूतानि बलवन्ति महान्ति च ।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर॥१॥

अन्तर्हितानीति ॥१॥

संनिवर्तय कौन्तेय श्रुत्पिपासे बलाश्रयात् ।
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर॥२॥

ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति॥३॥

अथवा सहदेवेन धौम्येन च समं विभो ।
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः॥४॥

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण॥५॥

त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः ।
अहं च नकुलश्चैव लोमशश्च महातपाः॥६॥

ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः ।
वसेह द्रौपदीं रक्षन्यावदागमनं मम॥७॥

भीम उवाच। राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया॥८॥

तव चाप्यरतिस्तीव्रा वर्तते तमपश्यतः ।
गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्॥९॥

किं पुनः सहदेवं च मां च कृष्णां च भारत ।
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः॥१०॥

सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ।
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्॥११॥

शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ।
इयं चापि महाभागा राजपुत्री पतिव्रता॥१२॥

त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ।
तथैव सहदेवोऽयं सततं त्वामनुव्रतः॥१३॥

न जातु विनिवर्तेत मनोज्ञो ह्यहमस्य वै ।
अपि चात्र महाराज सव्यसाचिदिदृक्षया॥१४॥

सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ।
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकंदरः॥१५॥

पद्भिरेव गमिष्यामो मा राजन्विमना भव ।
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति॥१६॥

इति मे वर्तते बुद्धिर्मा राजान्विमना भव ।
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः॥१७॥

युधिष्ठिर उवाच। एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।
यत्त्वमुत्सहसे वोढुं पाञ्चालीं च यशस्विनीम्॥१८॥

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।
बलं तव यशश्चैव धर्मः कीर्तिश्च वर्धताम्॥१९॥

यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः॥२०॥

वैशंपायन उवाच। ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।
गमिष्यामि न संतापः कार्यो मां प्रति भारत॥२१॥

लोमश उवाच। तपसा शक्यते गन्तुं पर्वतं गन्धमादनम् ।
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्॥२२॥

नकुलः सहदेवश्च भीमसेनश्च पार्थिव ।
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्॥२३॥

वैशंपायन उवाच। एवं संभाषमाणास्ते सुबाहुविषयं महत् ।
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्॥२४॥

किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम् ।
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ।
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत॥२५॥

विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् ।
ततस्ते पूजितास्तेन सर्व एव सुखोषिताः॥२६॥

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ।
इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा॥२७॥

सूदांश्र पारिबर्हांश्च द्रौपद्याः सर्वशो नृप ।
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः॥२८॥

परिदाय रक्षार्थं समर्प्य ॥२८॥

पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ।
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे चत्त्वारिंशदधिकशततमोऽध्यायः॥१४०॥
एकचत्त्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। भीमसेनयमौ चोभौ पाञ्चालि च निबोधत ।
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्॥१॥

भीमसेनेति । भूतस्य प्राक्तनकर्मणः ॥१॥

दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम् ।
अशक्येऽपि व्रजामो यद्धनंजयदिदृक्षया॥२॥

तन्मे दहति गात्राणि तूलराशिमिवानलः ।
यच्च वीरं न पश्यामि धनंजयमुपान्तिकात्॥३॥

तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् ।
याज्ञसेन्याः परामर्शः स च वीर दहत्युत॥४॥

परामर्शः केशेषु ग्रहणम् ॥४॥

नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर॥५॥

तीर्थानि चैव रम्याणि वनानि च सरांसि च ।
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया॥६॥

पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनंजयम् ।
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर॥७॥

तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।
न पश्यामि महाबाहुं तेन तप्ये वृकोदर॥८॥

कृतास्त्रं निपुणं युद्धेऽप्रतिमानं धनुष्मताम् ।
न पश्याभि कुरुश्रेष्ठ तेन तप्ये वृकोदर॥९॥

अप्रतिमानं नास्ति प्रतिमानं सादृश्यं यस्य सोऽप्रतिमानस्तम् ॥९॥

चरन्तमरिसंघेषु काले क्रुद्धमिवान्तकम् ।
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम्॥१०॥

प्रभिन्नं स्त्रवन्मदम् ॥१०॥

यः स शक्रादनवरो वीर्येण द्रविणेन च ।
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः॥११॥

अनवरः अहीनः ॥११॥

दुःखेन महताविष्टस्तन्न पश्यामि फाल्गुनम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर॥१२॥

सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।
ऋजुमार्गप्रपन्नस्य शर्म दाताभयस्य च॥१३॥

स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः ।
अपि वज्रधरस्यापि भवेत्कालविषोपमः॥१४॥

शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।
दाताभयस्य बीभत्सुरमितात्मा महाबलः॥१५॥

अभयस्य च दाता अमितात्मा महामनाः ॥१५॥

सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः॥१६॥

रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम ।
बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः॥१७॥

यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम ।
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव॥१८॥

वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि ।
अजेयममितं युद्धे तं न पश्यामि फाल्गुनम्॥१९॥

अमितमहिंसितमजितमिति यावत् ॥१९॥

संकर्षणं महावीर्यं त्वां च भीमापराजितम् ।
अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा॥२०॥

हे भीम ॥२०॥

यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः ।
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः॥२१॥

सोम इति मधुरवाक्यत्वं लक्ष्यते ॥२१॥

ते वयं तं नरव्याघ्रं सर्वे वीरदिदृक्षवः ।
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्॥२२॥

विशाला बदरी यत्र नरनारायणाश्रमः ।
तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम्॥२३॥

कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम् ।
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः॥२४॥

नलिनीं पुष्करिणीम् ॥२४॥

न च यानवता शक्यो गन्तुं देशो वृकोदर ।
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत॥२५॥

तत्र सर्वे गमिष्यामो भीमार्जुनगवेषिणः ।
सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः॥२६॥

मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान् ।
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति॥२७॥

अनियतः अशुचिः ॥२७॥

ते वयं नियतात्मानः पर्वतं गन्धमादनम् ।
प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे एकचत्त्वारिंशदधिकशततमोऽध्यायः॥१४१॥
द्विचत्वारिंशद‌धिकशततमोऽध्यायः

लोमश उवाच। द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः ।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः॥१॥

भो द्रष्टारः सर्वे मन्दरादन्ये पर्वताः दृष्टा इति शेषः ॥१॥

पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति ।
समाहिता निरुद्विग्नाः सर्वे भवत पाण्डवाः॥२॥

अयं देवनिवासो वै गन्तव्यो वो भविष्यति ।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणाम्॥३॥

एषा शिवजला पुण्या याति सौम्य महानदी ।
बदरीप्रभवा राजन्देवर्षिगणसेविता॥४॥

महानदी गङ्गा अलकन्दा वा ॥४॥

एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः ।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः॥५॥

उपयाता इष्टसिद्ध्यर्थं प्रार्थिता ॥५॥

अत्र साम स्म गायन्ति सामगाः पुण्यनिःस्वनाः ।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा॥६॥

सामगाः तैत्तिरीयके ब्रह्मविद्गेयं साम श्रूयते । ‘एतत्साम गायन्नास्ते हा ३ वुहा ३ वुहा ३ वु अहमन्नम्’ इत्यादि । मरीच्यादयोऽत्र सार्वात्म्यं स्वस्य पश्यन्तो गायन्तीत्यर्थः ॥६॥

अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः ।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा॥७॥

आह्निकं नैयमिकं जपम् । परिधावन्ति परिचरन्ति । तम् इन्द्रम् ॥७॥

चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः सह ।
अहोरात्रविभागेन नदीमेनामनुव्रजन्॥८॥

एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत् ।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत्॥९॥

एतां भगवतीं देवीं भवन्तः सर्व एव हि ।
प्रयतेनात्मना तात प्रतिगम्याभिवादत॥१०॥

वादत वादयत । अक्षरलोप आर्षः ॥१०॥

तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः ।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन्॥११॥

अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः ।
पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह॥१२॥

ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम् ।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतो दिशम्॥१३॥

पाण्डुरं श्वेतम् । अस्थ्नां राशिमिति शेषः ॥१३॥

तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः ।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः॥१४॥

एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् ।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम्॥१५॥

एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः ।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम्॥१६॥

नरकस्य भौमासुरस्य ॥१६॥

पुरातनेन देवेन विष्णुना परमात्मना ।
दैत्यो विनिहतस्तेन सुरराजहितैषिणा॥१७॥

दशवर्षसहस्राणि तपस्तप्यन्महामनाः ।
ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात्॥१८॥

तपोबलेन महता बाहुवेगबलेन च ।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः॥१९॥

स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् ।
भयाभिभूतः संविग्नः शक्र आसीत्तदानघ॥२०॥

तेन संचिन्तितो देवो मनसा विष्णुरव्ययः ।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ॥२१॥

ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ।
तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः॥२२॥

नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ।
तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्॥२३॥

प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् ।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत्॥२४॥

विष्णुरुवाच। जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः ।
ऐन्द्रं प्रार्थयते स्थानं तपः सिद्धेन कर्मणा॥२५॥

सोऽहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् ।
वियुनज्मि देहाद्देवेन्द्र मुहूर्तं प्रतिपालय॥२६॥

तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् ।
स पपात ततो भूमौ गिरिराज इवाहतः॥२७॥

पाणिना चपेटाघातेन चेतनां हरत्प्राणान्जहार ॥२७॥

तस्यैतदस्थिसंघातं मायाविनिहतस्य वै ।
इदं द्वितीयमपरं विष्णोः कर्म प्रकाशते॥२८॥

नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता ।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा॥२९॥

युधिष्ठिर उवाच। भगवन्विस्तरेणेमां कथां कथय तत्त्वतः ।
कथं तेन सुरेशेन नष्टा वसुमती तदा॥३०॥

योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ।
केन चैव प्रकारेण जगतो धरणी ध्रुवा॥३१॥

केन च प्रकारेण उद्धरिता पुनः उद्धृतेति शेषः ॥३१॥

शिवा देवी महाभागा सर्वसस्यप्ररोहिणी ।
कस्य चैव प्रभावाद्धि योजनानां शतं गता॥३२॥

गता अधस्तादिति शेषः ॥३२॥

केन तद्वीर्यसर्वस्वं दर्शितं परमात्मनः ।
एतत्सर्वं यथातत्त्वमिच्छामि द्विजसत्तम ।
श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः॥३३॥

लोमश उवाच। यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर ।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः॥३४॥

पुरा कृतयुगे तात वर्तमाने भयंकरे ।
यमत्वं कारयामास आदिदेवः पुरातनः॥३५॥

यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः ।
न तत्र म्रियते कश्चिज्ञायते वा तथाच्युत॥३६॥

वर्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम् ।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः॥३७॥

पशवश्च गावश्च एडका मेषाश्च पशुगवेडकम् ॥३७॥

तथा पुरुषशार्दुल मानुषाश्च परंतप ।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा॥३८॥

एतस्मिन्संकुले तात वर्तमाने भयंकरे ।
अतिभाराद्वसुमती योजनानां शतं गता॥३९॥

सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना ।
नारायणं वरं देवं प्रपन्ना शरणं गता॥४०॥

पृथिव्युवाच। भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह ।
भारेणास्मि समाक्रान्ता न शक्नोमि स्म वर्तितुम्॥४१॥

ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि ।
शरणागतास्मि ते देव प्रसादं कुरु मे विभो॥४२॥

तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः ।
प्रोवाच वचनं हृष्टः श्रव्याक्षरसमीरितम्॥४३॥

विष्णुरुवाच। न ते महि भयं कार्यं भारार्ते वसुधारिणि ।
अयमेवं तथा कुर्मि यथा लघ्वी भविष्यसि॥४४॥

न ते त्वया। हे महि । कुर्मि करोमि ॥४४॥

लोमश उवाच। स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् ।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः॥४५॥

रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव ।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत॥४६॥

धूमम् धूपम् । ज्वलयन्निति हेतौ शतृप्रत्ययः । यथायथा धूमो ज्वलति तथातथा अवर्धत इत्यर्थः ॥४६॥

स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता ।
योजनानां शतं वीर समुद्धरति सोऽक्षरः॥४७॥

अक्षरः वेदात्मा ॥४७॥

तस्यां चोद्धार्तमाणायां संक्षोभः समजायत ।
देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः॥४८॥

हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा ।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोऽपि वा॥४९॥

ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया ।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः॥५०॥

उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् ।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा॥५१॥

वाक्यम् उच्चारयन् उच्चारितवन्तः ॥५१॥

लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम् ।
समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते॥५२॥

सैषा वसुमती कृत्स्ना योजनानां शतं गता ।
किमेतत्किं प्रभावेण येनेदं व्याकुलं जगत् ।
आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः॥५३॥

ब्रह्मोवाच। असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित् ।
श्रूयतां यत्कृतेष्वेष संक्षोभो जायतेऽमराः॥५४॥

योऽसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः ।
तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते॥५५॥

येषा वसुमती कृत्स्ना योजनानां शतं गता ।
समुद्धृता पुनस्तेन विष्णुना परमात्मना॥५६॥

तस्यामुद्धार्यमाणायां संक्षोभः समजायत ।
एवं भवन्तो जानन्तु छिद्यतां संशयश्च वः॥५७॥

देवा ऊचुः ।
क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् ।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम्॥५८॥

ब्रह्मोवाच। हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम् ।
एषोऽत्र भगवाञ्श्रीमान्सुपर्णः संप्रकाशते॥५९॥

नन्दने इन्द्रवने। अत्र एतत्समीपे ॥५९॥

वाराहेणैव रूपेण भगवाँल्लोकभावनः ।
कालानल इवाभाति पृथिवीतलमुद्धरन्॥६०॥

एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते ।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम्॥६१॥

लोमश उवाच। ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः ।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम्॥६२॥

वैशंपायन उवाच। श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय ।
लोमशादेशितेनाशु पथा जग्मुः प्रहृष्टवत्॥६३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे द्विचत्त्वारिंशद‌धिकशततमोऽध्यायः॥१४२॥
त्रिचत्त्वारिंशद‌धिकशततमोऽध्यायः

वैशंपायन उवाच। ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः ।
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः॥१॥

ते शूरा इति ॥१॥

परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम् ।
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्॥२॥

सरांसि सरितश्चैव पर्वतांश्च वनानि च ।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि॥३॥

नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ।
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः॥४॥

चेरुरुच्चावचाकारान्देशान्विषमसंकटान् ।
पश्यन्तो मृगजातानि बहूनि विविधानि च॥५॥

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् ।
विविशुस्ते महात्मानः किन्नराचरितं गिरिम्॥६॥

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् ।
चण्डवातं महद्वर्षं प्रादुरासीद्विशांपते॥७॥

ततो रेणुः समुद्भूतः सपत्रबहुलो महान् ।
पृथिवीं चान्तरिक्षं च द्यां चैव सहसावृणोत्॥८॥

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना ।
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम्॥९॥

न चापश्यंस्ततोऽन्योन्यं तमसावृतचक्षुषः ।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत॥१०॥

द्रुमाणां वातभग्नानां पततां भूतलेऽनिशम् ।
अन्येषां च महीजानां शब्दः समभवन्महान्॥११॥

द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतो नु किम् ।
इति ते मेनिरे सर्वे पवनेनापि मोहिताः॥१२॥

ते पथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च ।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे॥१३॥

पथा मार्गेण । अनन्तरान् संनिहितान् । निलिल्यिरे निलीनाः ॥१३॥

ततः कार्मुकमादाय भीमसेनो महाबलः ।
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम्॥१४॥

संगम्यादायेत्यन्वयः । गत्वा गृहीत्वेत्यर्थः ॥१४॥

धर्मराजश्च धौम्यश्च निलिल्याते महावने ।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते॥१५॥

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः ।
वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे॥१६॥

मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति ।
महद्भिर्जलधारौघैर्वर्षमभ्याजगाम ह॥१७॥

भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव ।
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः॥१८॥

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः ।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः॥१९॥

अश्मसहिताः करकासहिताः ॥१९॥

तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः ।
प्रादुरासन्सकलुषाः फेनवन्त्यो विशांपते॥२०॥

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् ।
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्॥२१॥

वारि वहन्त्यो नद्यः ॥२१॥

तस्मिन्नुपरते शब्दे वाते च समतां गते ।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे॥२२॥

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत ।
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम्॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे त्रिचत्त्वारिंशद‌धिकशततमोऽध्यायः॥१४३॥
चतुश्चत्त्वारिंशदधिकशततमोऽध्यायः

वैशंपायन उवाच। क्रोशमात्रं प्रयातेषु पाण्डवेषु महात्मसु ।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्॥१॥

क्रोशमात्रमिति ॥१॥

श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।
सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी॥२॥

सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा ।
वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत॥३॥

आलम्बमाना सहितावूरू गजकरोपमौ ।
पपात सहसा भूमौ वेपन्ती कदली यथा॥४॥

तां पतन्तीं वरारोहां भज्यमानां लतामिव ।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्॥५॥

नकुल उवाच। राजन्पञ्चालराजस्य सुतेयमसितेक्षणा ।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत॥६॥

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।
आश्वासय महाराज तामिमां श्रमकर्शिताम्॥७॥

वैशंपायन उवाच। राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।
भीमश्च सहदेवश्च सहसा समुपाद्रवन्॥८॥

तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् ।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः॥९॥

युधिष्ठिर उवाच। कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।
भूमौ निपतिता शेते सुखार्हा वरवर्णिनी॥१०॥

सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्॥११॥

किमिदं द्यूतकामेन मया कृतमबुद्धिना ।
आदाय कृष्णां चरता वने मृगगणायुते॥१२॥

सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन् ।
इति द्रुपदराजेन पित्रा दत्तायतेक्षणा॥१३॥

तत्सर्वमनवाप्येयं श्रमशोकाध्वकर्शिता ।
शेते निपतिता भूमौ पापस्य मम कर्मभिः॥१४॥

वैशंपायन उवाच। तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे ।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः॥१५॥

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।
रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः॥१६॥

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः॥१७॥

सेव्यमाना च शीतेन जलमिश्रेण वायुना ।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः॥१८॥

परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे ।
पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम्॥१९॥

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः॥२०॥

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः॥२१॥

बहवः पर्वता भीम विषमा हिमदुर्गमाः ।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति॥२२॥

भीमसेन उवाच। त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ ।
स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः॥२३॥

हैडिम्बश्च महावीर्यो विहगो मद्बलोपमः ।
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः॥२४॥

विहग इव विहगः खेचरः ॥२४॥

वैशंपायन उवाच। अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् ।
घटोत्कचस्तु धर्मात्मा स्मृतमात्रः पितुस्तदा॥२५॥

कृताञ्जलिरुपातिष्ठद‌भिवाद्याथ पाण्डवान् ।
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः॥२६॥

उवाच भीमसेनं स पितरं भीमविक्रमम् ।
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः॥२७॥

आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ।
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे चतुश्चत्त्वारिंशदधिकशततमोऽध्यायः॥१४४॥
पञ्चचत्त्वारिंशदधिकशततमोऽध्यायः

युधिष्ठिर उवाच। धर्मज्ञो बलवाञ्शूरः सत्यो राक्षसपुङ्गवः ।
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु माचिरम्॥१॥

धर्मज्ञ इति ॥१॥

तव बाहुबलेनाहमतिभीमपराक्रम ।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्॥२॥

वैशंपायन उवाच। भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्॥३॥

भीमसेन उवाच। हैडिम्बेय परिश्रान्ता तव मातापराजिता ।
त्वं च कामगमस्तात बलवान्वह तां खग॥४॥

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः॥५॥

घटोत्कच उवाच। धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा ।
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्॥६॥

अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः ।
सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ॥७॥

एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे॥८॥

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।
स्वेनैव स प्रभावेण द्वितीय इव भास्करः॥९॥

ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः॥१०॥

एवं सुरमणीयानि वनान्युपवनानि च ।
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति॥११॥

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः ।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत्॥१२॥

देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान् ।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्॥१३॥

रत्नाकरैः आसमन्तात् युतान् ॥१३॥

विद्याधरसमाकीर्णान्युतान्वानरकिन्नरैः ।
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः॥१४॥

मयूरैश्चमरैश्चैव वानरै रुरुभिस्तथा ।
वराहैर्गवयैश्चैव महिषैश्च समावृतान्॥१५॥

नदीजालसमाकीर्णान्नानापक्षियुतान्बहुन् ।
नानाविधमृगैर्जुष्टान्वानरैश्चोपशोभितान्॥१६॥

समदैश्चापि विहगैः पाद‌पैरन्वितास्तथा ।
तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि॥१७॥

ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ।
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्॥१८॥

अभ्याशे समीपे ॥१८॥

उपेतं पाद‌पैर्दिव्यैः सदापुष्पफलोपगैः ।
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्॥१९॥

स्निग्धामविरलच्छायां श्रिया परमया युताम् ।
पत्रैः स्रिग्धैरविरलैरुपेतां मृदुभिः शुभाम्॥२०॥

विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ।
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्॥२१॥

मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्॥२२॥

अदंशमशके देशे बहुमूलफलोदके ।
नीलशाद्वलसंच्छन्ने देवगन्धर्वसेविते॥२३॥

सुसमीकृतभूभागे स्वभावविहिते शुभे ।
जातां हिमसुदुस्पर्शे देशेऽपहतकण्टके॥२४॥

स्वभावत एव विशेषेण हिते स्वभावविहिते । जातां वदरीम् ॥२४॥

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः॥२५॥

ततस्तमाश्रमं रम्यं नरनारायणाश्रितम् ।
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः॥२६॥

तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्॥२७॥

महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् ।
दुष्प्रवेशं महाराज नरेर्धर्मबहिष्कृतैः॥२८॥

महर्षिगणसंबाधम् ऋषिगणव्याप्तम् बाह्या लक्ष्म्या ऋग्यजुःसामात्मिकया। ‘ऋचः सामानि यजूंषि सा हि श्रीरमृता सताम्’ इति श्रुतेः ॥२८॥

बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् ।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्॥२९॥

सुष्ठु संमृष्टं संमार्जनम् अनुलेपनं च यत्र तत् ॥२९॥

विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्॥३०॥

अग्निशरणैः अग्न्यगारैः आचितम् व्याप्तम् । कठिनैः शिक्यैः करण्डैर्वा ॥३०॥

शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ।
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्॥३१॥

श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ।
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः॥३२॥

देवचर्या सत्यसंकल्पत्वादिका तया उपशोभितम् ॥३२॥

सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ।
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः॥३३॥

ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ।
सोऽभ्यगच्छन्महातेजास्तानृषीन्प्रयतः शुचिः॥३४॥

ब्रह्मभूतैः ब्रह्मवित्त्वेन ब्रह्मभावंगतैः । तथा च श्रुतिः । ‘ब्रह्मविद्ब्रह्मैव भवति’ इति ॥३४॥

भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ।
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्॥३५॥

अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ।
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम्॥३६॥

प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः ।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि॥३७॥

सत्कारं चक्रुरिति शेषः ॥३७॥

स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः ।
प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः॥३८॥

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया॥३९॥

विवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहस्रशः॥४०॥

तत्रापश्यत धर्मात्मा देवदेवर्षिपूजितम् ।
नरनारायणस्थानं भागीरथ्योपशोभितम्॥४१॥

पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः ।
मधुस्त्रवफलं दिव्यं ब्रह्मर्षिगणसेवितम्॥४२॥

तदुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ।
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा॥४३॥

तदुपेत्य स्थानं प्राप्य ॥४३॥

आलोकयन्तो मैनाकं नानाद्विजगणायुतम् ।
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्॥४४॥

तस्मिन्विहरमाणाश्च पाण्डवाः सह कृष्णया ।
मनोज्ञे काननवरे सर्वर्तुकुसुमोज्ज्वले॥४५॥

पादपैः पुष्पविकचैः फलभारावनामिभिः ।
शोभिते सर्वतो रम्यैः पुंस्कोकिलगणायुतैः॥४६॥

पुष्पविकचैः विकसितकुसुमैः ॥४६॥

स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ।
सरांसि च विचित्राणि प्रसन्नसलिलानि च॥४७॥

कमलैः सोत्पलैश्चैव भ्राजमानानि सर्वशः ।
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः॥४८॥

पुण्यगन्धसुखस्पर्शो ववौ तत्र समीरणः ।
ह्लादयन्पाण्डवान्सर्वान्द्रौपद्या सहितान्प्रभो॥४९॥

भागीरथीं सुतीर्थां च सीतां विमलपङ्कजाम् ।
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्॥५०॥

सीतां नामतः । प्रस्तारः सोपानपादगणादिरूपः घट्ट इत्यर्थः ॥५०॥

दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम् ।
वीक्षमाणा महात्मानो विशालां वदरीमनु॥५१॥

तस्मिन्देवर्षिचरिते देशे परमदुर्गमे ।
भागीरथीपुण्यजले तर्पयाञ्चक्रिरे तदा॥५२॥

देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः ।
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः॥५३॥

ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुषर्षभाः ।
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः ।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः॥५४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे पञ्चचत्त्वारिंशदधिकशततमोऽध्यायः॥१४५॥
षट्चत्त्वारिंशद‌धिकशततमोऽध्यायः

वैशंपायन उवाच। तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षवः॥१॥

तत्रेति ॥१॥

ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया ।
सहस्त्रपत्रमर्काभं दिव्यं पद्ममुपाहरत्॥२॥

पूर्वोत्तरे ऐशानकोणे ॥२॥

तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम् ।
अनिलेनाहृतं भूमौ पतितं जलजं शुचि॥३॥

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्॥४॥

शुभा कल्याणी । शुभं शोभायुतम् । सौगन्धिकं पद्मजातिभेदः ॥४॥

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्॥५॥

गन्धेति । संस्थानम् आकारः ॥५॥

इदं च धर्मराजाय प्रदास्यामि परंतप ।
हरेदं मम कामाय काम्यके पुनराश्रमे॥६॥

हर आहर । इदम् एतज्जातीयम् ॥६॥

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्॥७॥

एवमुक्त्वा शुभापाङ्गी भीमसेनमनिन्दिता ।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥८॥

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः॥९॥

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि॥१०॥

रुक्मपृष्ठं धनुर्गुह्य शरांश्चाशीविषोपमान् ।
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः॥११॥

प्रभिन्नः मत्तः ॥११॥

ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ।
न ग्लानिर्न च वैक्लव्यं न भयं न च संभ्रमः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥१२॥

ग्लानिवैक्लव्ये देहाचित्तयोरवसादौ । भयं तत्कारणं स्वोच्छेदबुद्धिः । भयाभावादेव मया यत्नेन गन्तव्यमित्यादरः संभ्रमः सोऽपि तं न जुषते सेवते तत्र हेतुः आत्मजमिति । मातरिश्वनः वायोः सार्धः ॥१२॥

द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः॥१३॥

व्यपेतभयसंमोहः शैलमभ्यपतद्बली ।
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्॥१४॥

गिरिं चचारारिहरः किन्नराचरितं शुभम् ।
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः॥१५॥

सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ।
सर्वत्र रमणीयेषु गन्धमादनसानुषु॥१६॥

सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ।
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च॥१७॥

अभिप्रायान् देवऋषिगन्धर्वादिलीलोन्नयनहेतून् पुष्पकुशादिसंस्तरान् ॥१७॥

बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ।
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्॥१८॥

गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ।
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना॥१९॥

पितुः संस्पर्शशीतेन गन्धमादनवायुना ।
क्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः॥२०॥

पितुर्यथा पुत्रस्पर्शः शीतस्तादृक्स्पर्शवता वायुनेत्यर्थः । पित्रा वायुना ॥२०॥

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।
विलोकयामास तदा पुष्पहेतोररिंदमः॥२१॥

विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः ।
वलिभिर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ।
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः॥२२॥

धातुविच्छेदैः धातुभेदैः । अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः रचितैः । वलिभिः त्रिपुण्ड्राकारैरनुलिप्त इवेत्यर्थः । आञ्जनेति कृष्णधातुग्रहणम् । पीतकृष्णश्वेतधातुभिरित्यर्थः । पयोधरैर्मेघैः ॥२२॥

मुक्ताहारैरिव चितं च्युतैः प्रस्त्रवणोदकैः ।
अभिरामदीकुञ्जनिर्झरोदककन्दरम्॥२३॥

दरी बिलगृहम् कन्दरं महाप्रपातः अभिरामाः दरीप्रभृतयो यस्मिन् ॥२३॥

अप्सरो नूपुररवैः प्रनृत्तवरबर्हिणम् ।
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्॥२४॥

विषाणाग्रैर्दन्ताग्रैः । ‘विषाणं कुष्ठके क्लीबं त्रिषु शृङ्गेभदन्तयोः’ इति मेदिनी । शिलाः समपाषाणाः शयनासनयोग्या । उपलास्तदन्ये ॥२४॥

स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ।
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः॥२५॥

शष्पं बालतृणम् । कवलो ग्रासः तद्युक्तैः ॥२५॥

भयानभिज्ञैर्हरिणैः कौतूहलनिरीक्षितः ।
चालयानः स्ववेगेन लताजालान्यनेकशः॥२६॥

आक्रीडमानो हृष्टात्मा श्रीमान्वायुसुतो ययौ ।
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः॥२७॥

प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ।
मत्तवारणविक्रान्तो मत्तवारणवेगवान्॥२८॥

कनकवर्णाभः पतिदीप्तिः । सिंहसंहननः सिंहवत् दृढाङ्गः ॥२८॥

मत्तवारणताम्राक्षो मत्तवारणवारणः ।
प्रियपाश्वर्थोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः॥२९॥

वारणानामपि वारणः निवारकः संग्रामादौ । विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥२९॥

यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ।
नवावतारं रूपस्य विक्रीडन्निव पाण्डवः॥३०॥

रूपस्य सौन्दर्यस्य । ‘रूपं स्वभावे सौन्दर्ये’ इति मेदिनी ॥३०॥

चचार रमणीयेषु गन्धमादनसानुषु ।
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्॥३१॥

द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ।
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते॥३२॥

पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ।
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च॥३३॥

नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ।
कथं तु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्॥३४॥

प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ।
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु॥३५॥

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ।
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु॥३६॥

निर्घात उत्पातः । पर्वसु उत्सवेषु ॥३६॥

त्रासयन्गजयूथानि वातरंहा वृकोदरः ।
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः॥३७॥

उन्मूलयन्महावृक्षान्पोथयंस्तरसा बली ।
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः॥३८॥

पोथयन् मर्दयन् । लता भूचरा । वल्ली वृक्षचरेति भेदः ॥३८॥

विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ।
तेन शब्देन महता भीमस्य प्रतिबोधिताः॥३९॥

गुहां सन्तत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ।
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः॥४०॥

ऋक्षाश्चोत्ससृजुर्वृक्षांस्तत्यजुर्हरयो गुहाम् ।
व्यजृम्भन्त महासिंहा महिषाश्चावलोकयन्॥४१॥

अवलोकयन् व्यलोकयन् ॥४१॥

तेन वित्रासिता नागाः करेणुपरिवारिताः ।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम्॥४२॥

वराहमृगसंघाश्च महिषाश्च वनेचराः ।
व्याघ्रगोमायुसंघाश्च प्रणेदुर्गवयैः सह॥४३॥

रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः ।
शुकाः पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ।
तथान्ये दर्पिता नागाः करेणुशरपीडिताः ।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन्॥४५॥

करेणुशरेण हस्तिनीकृतेनोत्तेजनेन पीडिताः । ‘शरस्तूत्तेजने बाणे’ इति मेदिनी ॥४५॥

शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः ।
व्यादितास्या महारौद्रा व्यनदन्भीषणान्रवान्॥४६॥

ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः ।
गजेनान्यान्गजाञ्छ्रीमान्सिंहं सिंहेन वा विभुः॥४७॥

तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ।
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः॥४८॥

भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ।
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः॥४९॥

वनं पाण्डुसुतः श्रीमाञ्छब्देनापूरयन्दिशः ।
अथापश्यन्महाबाहुर्गन्धमादनसानुषु॥५०॥

सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ।
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महावलः॥५१॥

महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ।
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान्॥५२॥

आस्रावी मत्तगज इवेत्यर्थः । कदलीस्तम्भान् मृगविशेषपादान् । ‘रम्भावृक्षेऽथ कदली पताका मृगभेदयोः’ इति मेदिनी । उत्तरश्लोकाद्वलिनामित्यपकृष्य बलिनां यक्षादीनां पताका स्तम्भान् वा ॥५२॥

चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ।
विनदन्सुमहातेजा नृसिंह इव दर्पितः॥५३॥

ततः सत्त्वान्युपाक्रामद्बहूनि सुमहान्ति च ।
रुरुवानरसिंहांश्च महिषांश्च जलाशयान्॥५४॥

तेन शब्देन चैवाथ भीमसेनरवेण च ।
वनान्तरगताश्चापि वित्रेसुर्मृगपक्षिणः॥५५॥

तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् ।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः॥५६॥

तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः॥५७॥

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः॥५८॥

तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम् ।
महागज इवोद्दामश्चिक्रीड बलवद्बली॥५९॥

नलिनोत्पलं पद्मपुष्पम्। ‘उत्पली तुषपर्पट्यां क्लीबं कुष्ठप्रसूनयोः’ इति मेदिनी । उद्दामः बन्धनशून्यः ॥५९॥

विक्रीड्य तस्मिन्रुचिरमुत्ततारामितद्युतिः ।
ततोऽध्यगन्तुं वेगेन तद्वनं बहुपादपम्॥६०॥

अध्यगन्तुं पर्वतोपरि वनं गन्तुमुद्यतः सन्निति शेषः ॥६०॥

दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ।
आस्फोटयच्च बलवान्भीमः संनादयन्दिशः॥६१॥

तस्य शङ्खस्य शब्देन भीमसेनरवेण च ।
बाहुशब्देन चोग्रेण नदन्तीव गिरेर्गुहाः॥६२॥

तं वज्रनिष्पेषसममास्फोटितमहारवम् ।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः॥६३॥

आस्फोटित उद्भावितः बाहुघातो वा ॥६३॥

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः॥६४॥

तं तु नादं ततः श्रुत्वा मुक्तं वारणपुङ्गवैः ।
भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः॥६५॥

दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् ।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः॥६६॥

दिवंगमं मार्गं स्वर्गमार्गम् ॥६६॥

आस्त एकायने मार्गे कदलीषण्डमण्डिते ।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै॥६७॥

एकायने अतिसंकुचिते ॥६७॥

माऽत्र प्राप्स्यति शापं वा घर्षणां वेति पाण्डवः ।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः॥६८॥

वानरः कपिः वानानि शुष्कफलानि राति आदत्ते इति वानरः । अहिंस्र इत्यर्थः ॥६८॥

प्राजृम्भत महाकायो हनूमान्नाम वानरः ।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा॥६९॥

जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ।
आस्फोटयच्च लाङ्गूलमिन्द्राशनिसमस्वनम्॥७०॥

तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः ।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः॥७१॥

उद्गारं प्रतिशब्दं गौरिव उत्ससर्ज ॥७१॥

लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः ।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत॥७२॥

स लाङ्गूलरवस्तस्य मत्तवारणनिःस्वनम् ।
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु॥७३॥

स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः ।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्॥७४॥

कदलीवनमध्यस्थमथ पीने शिलातले ।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा॥७५॥

विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिञ्चलम् ।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम्॥७६॥

बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् ।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्॥७७॥

बाहोः स्वस्तिकं चतुरस्रं मूलम् अंस इति यावत् । तत्र न्यस्तकन्धरमित्यर्थः । तत्र हेतुः स्कन्धेति विपुलांसत्वादित्यर्थः ॥७७॥

किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्॥७८॥

अभुग्नं द्विगुणीकृतम् ॥७८॥

ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तवर्णं चलद्भ्रुवम् ।
विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम्॥७९॥

अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ।
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्॥८०॥

उडुपं चन्द्रम् ॥८०॥

केसरोत्करसंमिश्रमशोकानामिवोत्करम् ।
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्॥८१॥

अशोकानाम् अशोकपुष्पाणाम् ॥८१॥

दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम् ।
निरीक्षन्तममित्रघ्नं लोचनैर्मधुपिङ्गलैः॥८२॥

तं वानरवरं धीमानतिकायं महाबलम् ।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम्॥८३॥

दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने ।
अथोपसृत्य तरसा विभीर्भीमस्ततो बली॥८४॥

सिंहनादं चकारोग्रं वज्राशनिसमं बली ।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः॥८५॥

हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ।
स्मितेन चैनमासाद्य हनूमानिदमब्रवीत्॥८६॥

हनुमानुवाच। किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ।
ननु नाम त्वया कार्या दया भूतेषु जानता॥८७॥

सरुजः सपीडः ते त्वया ॥८७॥

वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः ।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु॥८८॥

क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥८९॥

न त्वं धर्मं विजानासि बुधा नोपासितास्त्वया ।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्॥९०॥

ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः ।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि॥९१॥

क्व च त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ ।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः॥९२॥

विना सिद्धगतिं वीर गतिरत्र न विद्यते ।
देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा॥९३॥

कारुण्यात्त्वामहं वीर वारयामि निबोध मे ।
नातःपरं त्वया शक्यं गन्तुमाश्वसिहि प्रभो॥९४॥

आश्वसिहि विश्वासं कुरु ॥९४॥

स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ ।
इमान्यमृतकल्पानि मूलानि च फलानि॥९५॥

भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम् ।
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव॥९६॥

मह्यं मम ॥९६॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां भीमकदलीखण्डप्रवेशे षट्चत्त्वारिंशद‌धिकशततमोऽध्यायः॥१४६॥
सप्तचत्त्वारिंशदधिकशततमोऽध्यायः

वैशंपायन उवाच। एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः ।
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्षणः॥१॥

एतदिति ॥१॥

भीम उवाच। को भवान्किं निमित्तं वा वानरं वपुरास्थितः ।
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वां तु पृच्छति॥२॥

कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः ।
पाण्डवो वायुतनयो भीमसेन इति श्रुतः॥३॥

स वाक्यं कुरुवीरस्य स्मितेन प्रतिगृह्य तत् ।
हनूमान्वायुतनयो वायुपुत्रमभाषत॥४॥

हनूमानुवाच ।
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् ।
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्॥५॥

वैशसं विरोधम् ॥५॥

भीमसेन उवाच। वैशसं वास्तु यद्वान्यन्न त्वां पृच्छामि वानर ।
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम्॥६॥

हनुमानुवाच। नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् ।
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्॥७॥

भीम उवाच। निर्गुणः परमात्मा तु देहं व्याप्यावतिष्ठते ।
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये॥८॥

निर्गुण इति । गुणाः सत्त्वादयो रूपादयश्च तैर्वर्जितः। अत एव परमः । कोशपञ्चके हि अनात्मन्यात्मत्वम् अमुख्यं आध्यासिकत्वात्तस्य । ततोऽन्यस्तु निरुपाधिचिन्मात्रो मुख्य आत्मा प्रत्यग्भूतः आकाशो घटमिव देहं व्याप्य स्थितः । एतेन शुद्धस्त्वं पदार्थ उक्तः । अस्य निर्गुणत्वेऽनुभवं प्रमाणयति । ज्ञानविज्ञेयमिति । ज्ञानं शास्त्रार्थध्यानजप्रमा तेन ज्ञेयम् । ज्ञातविज्ञेयमिति पाठे सर्वप्रकाशकम् अहंकारादि साक्षिणमित्यर्थः । तस्यावमानना शालग्रामादिवत्तदुपाधिभूतस्य शरीरस्य लङ्घनेन भवति अतस्तद्द्वयं न कुर्वे इत्यर्थः ॥८॥

यद्यागमैर्न विद्यां च तमहं भूतभावनम् ।
क्रमेयं त्वां गिरिं चैव हनूमानिव सागरम्॥९॥

भूतभावनं भूतानां वियदादीनां जरायुजादीनां च भावनं रचनं यस्मात्तम् । ‘आत्मन आकाशः संभूतः । आत्मनः सर्व एव आत्मानो व्युच्चरन्ति’ इत्यादिश्रुतिभ्यः । एतेन तत्पदार्थ उक्तः । तयोः सामानाधिकरण्यादभेदे ब्रह्माद्वैतं च दर्शितम् ॥९॥

हनुमानुवाच। क एष हनुमान्नाम सागरो येन लङ्घितः ।
पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते॥१०॥

भीम उवाच। भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः ।
रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः॥११॥

रामपत्नीकृते येन शतयोजनविस्तृतः ।
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः॥१२॥

क्रमेण पादविक्षेपेण ॥१२॥

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा ।
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे॥१३॥

उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम् ।
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम्॥१४॥

वैशंपायन उवाच। विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् ।
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्॥१५॥

हनूमानुवाच। प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ ।
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्॥१६॥

वैशंपायन उवाच। एवमुक्ते हनुमता हीनवीर्यपराक्रमम् ।
मनसाचिन्तयद्भीमः स्वबाहुबलदर्पितः॥१७॥

एवमुक्ते सति । तमित्यध्याहारः । तं हीनवीर्यपराक्रमम् मनसाचिन्तयन्मेने ॥१७॥

पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् ।
सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम्॥१८॥

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना ।
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः॥१९॥

उच्चिक्षेप पुनदर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् ।
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः॥२०॥

उत्क्षिप्तर्भूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः ।
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक तम्॥२१॥

यत्नवानपि तु श्रीमाल्लाङ्गूलोद्धरणोद्धुरः ।
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडानताननः॥२२॥

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् ।
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम॥२३॥

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः ।
पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक्॥२४॥

न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम ।
शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ॥२५॥

हनूमानुवाच। यत्ते मम परिज्ञाने कौतूहलमरिंदम ।
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन॥२६॥

अहं केसरिणः क्षेत्रे वायुना जगदायुना ।
जातः कमलपत्राक्ष हनूमान्नाम वानरः॥२७॥

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
सव वानरराजानस्तथा वानरयूथपाः॥२८॥

उपतस्थुर्महावीर्या मम चामित्रकर्षण ।
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा॥२९॥

उपतस्थुर्वालिनम् । मम च सुग्रीवेण प्रीतिरभवत् ॥२९॥

निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ।
ऋष्यमूके मया सार्धं सुग्रीवो न्यवसञ्चिरम्॥३०॥

निकृतः निरस्तः ॥३०॥

अथ दाशरथिर्वीरो रामो नाम महाबलः ।
विष्णुर्मानुषरूपेण चचार वसुधातलम्॥३१॥

स पितुः प्रियमन्विच्छन्सभार्यः सहानुजः ।
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः॥३२॥

तस्य भार्या जनस्थानाच्छलेनापहृता बलात् ।
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना॥३३॥

सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा ।
वञ्चयित्वा नरव्याघ्रं मारीचेन तदानघ॥३४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां हनुमद्भीमसंवादे सप्तचत्त्वारिंशद‌धिकशततमोऽध्यायः॥१४७॥
अष्टचत्त्वारिंशदधिकशततमोऽध्यायः

हनूमानुवाच। हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।
दृष्टवान्शैलशिखरे सुग्रीवं वानरर्षभम्॥१॥

हृतदार इति ॥१॥

तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।
स हत्वा वालिनं राज्ये सुग्रीवमभिषिक्तवान्॥२॥

स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे ।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः॥३॥

ततो वानरकोटीभिः सहितोऽहं नरर्षभ ।
सीतां मार्गन्महाबाहो प्रयातो दक्षिणां दिशम्॥४॥

ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना ।
संपातिना समाख्याता रावणस्य निवेशने॥५॥

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।
शतयोजनविस्तारमर्णवं सहसाप्लुतः॥६॥

अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् ।
सुतां जनकराजस्य सीतां सुरसुतोपमाम्॥७॥

दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने ।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम्॥८॥

समेत्य विदित्वा संभाषणादिना निश्चित्येत्यर्थः ॥८॥

दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम् ।
प्रत्यागतश्चास्य पुनर्नाम तत्र प्रकाश्य वै॥९॥

अस्य रामस्य । तत्र लङ्कायाम् ॥९॥

मद्वाक्यं चावधार्याशु रामो राजीवलोचनः ।
स बुद्धिपूर्वं सैन्यस्य बध्वा सेतुं भहोदधौ॥१०॥

अवधार्य निश्चित्य॥१०॥

वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ।
ततो रामेण वीर्येण हत्वा तान्सर्वराक्षसान्॥११॥

रणे तु राक्षसगणं रावणं लोकरावणम् ।
निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम्॥१२॥

लोकरावणं लोकपीडाकरम् ॥१२॥

राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ।
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलम्॥१३॥

ततः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ।
तयैव सहितः साध्व्या पत्न्या रामो महायशाः॥१४॥

गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः ।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः॥१५॥

अयोध्यां योद्धुमशक्याम् ॥१५॥

ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः ।
वरं मया याचितोऽसौ रामो राजीवलोचनः॥१६॥

यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन् ।
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्॥१७॥

सीताप्रसादाच्च सदा मामिहस्थमरिंदम ।
उपतिष्ठन्ति दिव्या हि भोगा भीमयथेप्सिताः॥१८॥

दशवर्षसहस्त्राणि दशवर्षशतानि च ।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः॥१९॥

कारितवान् कृतवान् । स्वार्थे णिच् । स्वभवनं वैकुण्ठम् ॥१९॥

तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ ।
तस्य वीरस्य चरितं गायन्तो रमयन्ति माम्॥२०॥

अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम्॥२१॥

धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ।
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः ।
यदर्थमागतश्चासि अत एव सरश्च तत्॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां हनुमद्भीमसंवादे अष्टचत्त्वारिंशदधिकशततमोऽध्यायः॥१४८॥
ऊनपञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। एवमुक्तो महावाहुर्भीमसेनः प्रतापवान् ।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः॥१॥

एवमिति ॥१॥

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ।
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्॥२॥

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ।
एवं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः॥३॥

यत्त्वेतदासीत्प्लवतः सागरं मकरालयम् ।
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्॥४॥

एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः ।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्॥५॥

हरिर्वानरः ॥५॥

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् ।
कालावस्था तदा ह्यन्या न सा वर्तति सांप्रतम्॥६॥

अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः ।
अयं प्रध्वंसनः काला नाद्य तद्रूपमस्ति म॥७॥

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।
कालं समनुवर्तन्ते यथा भावा युगे युगे॥८॥

बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ।
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह ।
युगं समनुवर्तामि कालो हि दुरतिक्रमः॥९॥

वर्ष्म शरीरम् ॥९॥

भीम उवाच। युगसंख्यां समाचक्ष्व आचारं च युगे युगे ।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ॥१०॥

भावान् तत्त्वानि । कर्म शुभाशुभम् । वीर्यं फलोदयपर्यन्तं शक्तिः । भवाभवौ उत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ॥१०॥

हनूमानुवाच। कृतं नाम युगं तात यत्र धर्मः सनातनः ।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे॥११॥

कृतमेव सर्वे कृतकृत्या एवेत्यर्थः । तत एव हेतोः कृतयुगं नाम ॥११॥

न तत्र धर्माः सीद‌न्ति क्षीयन्ते न च वै प्रजाः ।
ततः कृतयुगं नाम कालेन गुणतां गतम्॥१२॥

गुणतां मुख्यमपि अमुख्यतां गतम् ॥१२॥

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
नासन्कृतयुगे तात तदा न क्रयविक्रयः॥१३॥

न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी ।
अभिध्याय फलं तत्र धर्मः संन्यास एव च॥१४॥

न सामेति । त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं स्वभावसिद्धत्वान्न सामादीन्यासन् । मानवी क्रिया कृष्याद्यारम्भरूपा । किं तु अभिध्याय फलं संकल्पादेव सर्वं संपद्यत इत्यर्थः ॥१४॥

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।
नासूया नापि रुदितं न दर्पो नापि वैकृतम्॥१५॥

वैकृतं कपटम् ॥१५॥

न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम् ।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः॥१६॥

विग्रहो वैरम् । तन्द्री आलस्यम् । द्वेषः परानिष्टचिन्तनम् । पैशुनं तद्भाषणम् । ईर्ष्या अक्षमा । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥१६॥

ततः परमकं ब्रह्म सा गतिर्योगिनां परा ।
आत्माः च सर्वभूतानां शुक्लो नारायणस्तदा॥१७॥

ततः असूयादित्यागात् परमकं परमानन्दात्मकं ब्रह्म प्राप्यत इति शेषः । गतिः प्राप्यम् । आत्मेति श्वेतरक्तपीतकृष्णरूपाणि क्रमेण कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ॥१७॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः॥१८॥

कृतलक्षणाः कृतानि स्वतः सिद्धानि लक्षणानि शमो दमस्तप इत्यादीनि येषां ते ॥१८॥

समाश्रयं समाचारं समज्ञानं च केवलम् ।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्॥१९॥

समं ब्रह्म तदेव आश्रयादिर्यस्य तत्तथा । ब्रह्मैव फलप्राप्तये श्रयेत् । तत्प्राप्त्यर्थ एव आचारो यस्य । तस्यैव च ज्ञानं केवलं निरुपाधिविषयम् । ब्रह्मैव कर्माणि गत्यागत्यादीनि येषां ते। ‘अहमग्निरहं हुतम्’ इत्यादिवचनात् ॥१९॥

एकदेवलदायुक्ता एकमन्त्रविधिक्रियाः ।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः॥२०॥

एको देवः प्रत्यगात्मा तत्रैव सदा युक्ता योगवन्तः। एको मन्त्रः प्रणवः । एको विधिर्वेदान्तश्रवणादिः । एका क्रिया ध्यानादिः । एक एव तत्त्वप्रतिपादको वेदो येषाम् । सर्वेऽपि ज्ञाननिष्ठा एव न तु केवलकर्मठा व्यसनिनो वा ॥२०॥

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।
अकाम फलसंयोगात्प्राप्नुवन्ति परां गतिम्॥२१॥

कालो दर्शादिः तद्युक्तेन कर्मणा कामफलेन इच्छितफलेन स्त्र्यादिना स्वर्गादिना वा संयोगस्तदभावात् ॥२१॥

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः॥२२॥

आत्मनि ब्रह्मणि योग ऐक्यं तेन समायुक्तोऽयं धर्मो योगाख्यः कृतलक्षणः कृतयुगसूचकः । यदैव यत्रैव पुंसि ईदृग्धर्मो वर्धते तदैव कृतयुगमित्यर्थः । चतुष्पादः अविकलः ॥२२॥

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते॥२३॥

त्रैगुण्यं प्रवृत्तिप्रकाशमोहात्मकरजः सत्त्वतमसां समाहारस्तेन वर्जितम् । सत्रं यज्ञक्रिया रजोमिश्रत्वात् ॥२३॥

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः॥२४॥

सत्येनैव प्रवृत्ताः ॥२४॥

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ।
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः॥२५॥

भावसंकल्पाः भावो भावना क्रिया अहमनेन कर्मणा इदं फलम् अनेन प्रकारेण करिष्यामीत्येवंरूपा तद्विषय एव संकल्पो येषाम् । अत एव क्रियादिभिः फलोपगाः फलभुजो न तु कृतवत्संकल्पसिद्धाः ॥२५॥

प्रचलन्ति न वै धर्मात्तपोदानपरायणाः ।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन्॥२६॥

द्वापरे च युगे धर्मो द्विभागोनः प्रवर्तते ।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च॥२७॥

द्विभागोनः पादद्वयहीनः । चतुर्धा वेदः कृतः । कृत्नस्यैकेन धारायितुमशक्यत्वात् ॥२७॥

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे ।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे॥२८॥

अनृचः ऋङ्मात्रेणापि हीना अतिमान्द्यात् । यद्वा चतुर्वेदा इति वेदत्रयोक्तं कर्म ज्योतिष्टोमादिकम् । अथर्वणोपनिषदुक्तं ध्यानं च सहैव वानुतिष्ठन्तीति कर्मोपास्तिसमुच्चय उक्तः । त्रिवेदा इति केवलकर्मठाः । द्विवेदा इति स्वशाखोक्तं संध्यावन्दनादिकर्म ध्यानं चानुतिष्ठन्ति । एकवेदा ध्यानैकानष्ठाः । अनृचः कृतकृत्याः । ‘विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये’ इत्युक्तेर्ध्यानादपि विरक्ताः ॥२८॥

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया ।
तपोदानप्रवृत्ता च राजसी भवति प्रजा॥२९॥

एकदेवस्य चाज्ञानाद्वेदास्ते बहवः कृताः ।
सत्त्वस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः॥३०॥

सत्त्वस्य बुद्धेः । विभ्रंशात् क्षयात् ॥३०॥

सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः॥३१॥

यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे॥३२॥

यैः व्याधिभिः कामैश्च ॥३२॥

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।
पादैनैकेन कौन्तेय धर्मः कलियुगे स्थितः॥३३॥

तामसं युगमासाद्य कृष्णो भवति केशवः ।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा॥३४॥

तामसं तमोगुणप्रधानं कलिम् ॥३४॥

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा ।
उपद्रवाः प्रवर्तन्ते आधयः क्षुद्भयं तथा॥३५॥

ईतयः अतिवृष्ट्यादयः ॥३५॥

युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः ।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः॥३६॥

व्यावर्तते नश्यति ॥३६॥

लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः ।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते॥३७॥

भावाः धर्मज्ञानादयः । प्रार्थनानि विकुर्वते । अन्यत्प्रार्थ्यतेऽन्यत् जायते । पौष्टिकमपि कर्मविधिलोपान्नाशकं भवतीति भावः ॥३७॥

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः॥३८॥

चिरजीविनो मादृशा अपि युगानुवर्तिनः कालानुसारिणो भवन्ति ॥३८॥

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम ।
अनर्थकेषु को भावः पुरुषस्य विजानतः॥३९॥

अनर्थकेषु निष्प्रयोजनेषु । भावोऽभिनिवेशः ॥३९॥

एत्तते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्॥४०॥

स्वस्ति कल्याणम् ॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कदलीषण्डे हनूमद्भीमसंवादे ऊनपञ्चाशदधिकशततमोऽध्यायः॥१४९॥
पञ्चाशदधिकशततमोऽध्यायः

भीमसेन उवाच। पूर्वरूप‌मदृष्ट्वा ते न यास्यामि कथंचन ।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना॥१॥

पूर्वरूपमिति ॥१॥

वैशंपायन उवाच। एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः ।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने॥२॥

भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः ।
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः॥३॥

सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ।
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः॥४॥

गिरिश्च विन्ध्यगिरिरिव । इवार्थे चः॥४॥

समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ।
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकुटिलाननः॥५॥

दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ।
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः॥६॥

विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ।
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्॥७॥

प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ।
आबभाषे च हनुमान्भीमसेनं स्मयन्निव॥८॥

एतावदिह शक्तस्त्वं द्रष्टुं रूपं ममानघ ।
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसि स्थितम् ।
भीमशत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा॥९॥

वैशंपायन उवाच। तद‌द्भुतं महारौद्रं विन्ध्यपर्वतसंनिभम् ।
दृष्ट्वा हनूमतो वर्ष्म संम्रान्तः पवनात्मजः॥१०॥

प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः ।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्॥११॥

दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो ।
संहरस्व महावीर्य स्वयमात्मानमात्मना॥१२॥

न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् ।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्॥१३॥

विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै ।
यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात्॥१४॥

त्वमेव शक्तस्तां लङ्कां सुयोधां सहवाहनाम् ।
स्वबाहुबलमाश्रित्य विनाशयितुमञ्जसा॥१५॥

न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते ।
तव नैकस्य पर्याप्तो रावणः सगणो युधि॥१६॥

पर्याप्तः समर्थः ॥१६॥

वैशंपायन उवाच। एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा॥१७॥

हनूमानुवाच। एवमेतन्महाबाहो यथा वदसि भारत ।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः॥१८॥

मया तु निहते तस्मिन्रावणे लोककण्टके ।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्॥१९॥

तेन वीरेण तं हत्वा सगणं राक्षसाधमम् ।
आनीता स्वपुरं सीता कीर्तिश्चाख्यापिता नृषु॥२०॥

तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः ।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः॥२१॥

अरिष्टं निर्विघ्नम् ॥२१॥

एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते ।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः॥२२॥

न च ते तरसा कार्यः कुसुमावचयः स्वयम् ।
दैवतानि हि मान्यानि पुरुषेण विशेषतः॥२३॥

पुरुषेण मर्त्येन ॥२३॥

बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ ।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत॥२४॥

मा तात साहसं कार्षीः स्वधर्मं परिपालय ।
स्वधर्मस्थः परं धर्मं बुध्यस्व गमयस्व च॥२५॥

गमयस्व बोधपूर्वकमनुतिष्ठ । स्वार्थे णिच् ॥२५॥

न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च ।
धर्मार्थै वेदितुं शक्यौ वृहस्पतिसमैरपि॥२६॥

अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः ।
स विज्ञेयो विभागेन यत्र मुह्यन्त्यबुद्धयः॥२७॥

दुर्जनवधोऽधर्मोऽपि धर्म एव । परोपघातकं सत्यं धर्मोऽपि अधर्म एव ॥२७॥

आचारसंभवो धर्मो धर्मे वेदाः प्रतिष्ठिताः ।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः॥२८॥

आचारः शौचादिस्तेन धर्मः प्राप्यते ततो वेदाधिगमस्ततो यज्ञानुष्ठानं ततो देवताप्रसाद इत्यर्थः ॥२८॥

वेदाचारविधानोक्तैर्यशैर्धार्यन्ति देवताः ।
बृहस्पत्युशनःप्रोक्तैर्नयैर्धायन्ति मानवाः॥२९॥

वेदेति । यज्ञैर्देवानां नीत्या मनुष्याणां च स्थितिरित्यर्थः ॥२९॥

पण्याकरवणिज्याभिः कृष्यागोजाविपोषणैः ।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः॥३०॥

पणो भृतिस्तामर्हतीति पण्या सेवा। ‘पणो वराटमाने स्यात्’ इत्युपक्रम्य ‘व्यवहारे भृतौ धने ’इति मेदिनी । वार्ता जीविकार्थावृत्तिः ॥३०॥

त्रयी वार्ता दण्डनीतिस्तिस्त्रो विद्या विजानताम् ।
ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते॥३१॥

सा च क्रमेण ब्राह्मणस्य त्रयी याजनाध्यापनादिः । वैश्यस्य वार्तापण्यादिः । क्षत्रियस्य दण्डादिः ॥३१॥

सा चेद्धर्मकृता न स्यात्त्रयीधर्ममृते भुवि ।
दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत्॥३२॥

सा लोकयात्रा ॥३२॥

वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः ।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मं सूयन्ति वै प्रजाः॥३३॥

द्विजातीनामृतं धर्मो ह्येकश्चैवैकवर्णिकः ।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः॥३४॥

ऋतं सत्यम् आत्मज्ञानाख्यम् । एको वर्णः शुक्लः केवलसात्त्विकः धर्मो योगाख्यः ॥३४॥

याजनाध्यापनं विप्रे धर्मश्चैव प्रतिग्रहः ।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्॥३५॥

शुश्रूषा च द्विजातीनां शूद्राणां धर्म उच्यते ।
भैक्ष्यहोमव्रतैर्हीनास्तथैव गुरुवासिताः॥३६॥

भैक्ष्येति । गुरौ त्रिवर्णे वासितं वासो येषां ते शूद्राः । भैक्ष्यादिभिर्हीनाः भवन्ति ॥३६॥

क्षत्रधमर्मोऽत्र कौन्तेय तव धर्मोऽत्र रक्षणम् ।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः॥३७॥

क्षत्रधर्मोऽत्र प्रकरणे उच्यते । स च तव धर्मोऽत्र लोके ॥३७॥

वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः ।
आस्थितः शास्ति दण्डेन व्यसनी परिभूयते॥३८॥

आस्थितः अनुगृहीतः ॥३८॥

निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते ।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः॥३९॥

तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च ।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा॥४०॥

स्थानं सिद्धसंरक्षणम् ॥४०॥

राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः ।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम्॥४१॥

साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।
साधनीयानि कर्माणि समासव्यासयोगतः॥४२॥

समासः सामादिपञ्चके एकेन द्वित्रैर्वा कार्यसाधनं व्यासः सर्वैस्तत्सिद्धिः ॥४२॥

मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ ।
सुमन्त्रितेन या सिद्धिस्तां द्विजैः सह मन्त्रयेत्॥४३॥

स्त्रिया मूढेन बालेन लुब्धेन लघुनापि वा ।
न मन्त्रयीत गुह्यानि येषु चोन्मादलक्षणम्॥४४॥

मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् ।
स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत्॥४५॥

स्निग्धैः हितेप्युभिः नीतेः प्रजादारापत्यादेर्विन्यासाः स्थापनानि ॥४५॥

धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु॥४६॥

स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा ।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्॥४७॥

स्वेभ्यश्चारेभ्यः उत्कोचादिना लोभितेभ्यः ॥४७॥

बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम् ।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्॥४८॥

बुद्ध्या जीवनाशया प्रतिपन्नेषु शरणागतेषु ॥४८॥

निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते ।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता॥४९॥

एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः ।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय॥५०॥

घोरो धर्मो राजधर्मः ॥५०॥

तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् ।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्॥५१॥

क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ।
सम्यक्प्रणीतदण्डा हि कामद्वेषविवर्जिताः ।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम्॥५२॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां हनूमद्भीमसेनसंवादे पञ्चाशद‌धिकशततमोऽध्यायः॥१५०॥
एकपञ्चाशद‌धिकशततमोऽध्यायः

वैशंपायन उवाच। ततः संहृत्य विपुलं तद्वपुः कामतः कृतम् ।
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः॥१॥

तत इति ॥१॥

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत ।
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्॥२॥

बलं चातिबलो मेने न मेऽस्ति सदृशो महान् ।
ततः पुनरथोवाच पर्यश्रुनयनो हरिः॥३॥

भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ।
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे॥४॥

देशकाल इहायातुं देवगन्धर्वयोषिताम् ।
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्॥६॥

रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम् ।
सीतावक्त्रारविन्दार्कं दशास्यध्वान्तभास्करम्॥७॥

मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ।
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते॥८॥

भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ।
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्॥९॥

धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ।
शिलया नगरं वापि मर्दितव्यं मया यदि॥१०॥

बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् ।
यावदेतत्करोम्यद्य कामे तव महाबल॥११॥

वैशंपायन उवाच। भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः ।
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना॥१२॥

कृतमेव त्वया सर्वं मम वानरपुङ्गव ।
स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीद मे॥१३॥

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ।
तवैव तेजसा सर्वान्विजेष्यामो वयं परान्॥१४॥

एवमुक्तस्तु हनुमान्भीमसेनमभाषत ।
भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव॥१५॥

चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम् ।
यदा सिंहरवं वीर करिष्यसि महाबल॥१६॥

तदाहं बृंहयिष्यामि स्वरवेण रवं तव ।
विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान्॥१७॥

शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ ।
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्॥१८॥

मार्गमाख्याय भीमाय तत्रैवान्तरधीयत॥१९॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां हनूमद्भीमसेनसंवादे एकपञ्चाशद‌धिकशततमोऽध्यायः॥१५१॥
द्विपञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः ।
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्॥१॥

गते इति ॥१॥

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि ।
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ॥२॥

स तानि रमणीयानि वनान्युपवनानि च ।
विलोकयामास तदा सौगन्धिकवनेप्सया॥३॥

फुल्लद्रुमविचित्राणि सरांसि सरितस्तथा ।
नानाकुसुमचित्राणि पुष्पितानि वनानि च॥४॥

मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ।
वर्षतामिव मेघानां वृन्दानि ददृशे तदा॥५॥

हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम् ।
सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ॥६॥

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् ।
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत॥७॥

कुसुमानन्तगन्धैश्च ताम्रपल्लवकोमलैः ।
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः॥८॥

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः ।
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्॥९॥

मज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ॥१०॥

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।
काञ्चनैर्विमलैः पद्यैर्ददर्श विपुलां नदीम्॥११॥

हंसकारण्डवयुतां चक्रवाकोपशोभिताम् ।
रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम्॥१२॥

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् ।
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति॥१३॥

तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः ।
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्॥१४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौगन्धिकाहरणे द्विपञ्चाशदधिकशततमोऽध्यायः॥१५२॥
त्रिपञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिखराभ्याशे ददर्श शुभकाननाम्॥१॥

स गत्वेति ॥१॥

कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः ।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम्॥२॥

हरिताम्बुजसंच्छन्नां दिव्यां कनकपुष्कराम् ।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्॥३॥

सूपतीर्थो शोभनानि उपतीर्थानि तीराणि यस्यां सा ॥३॥

अतीव रम्यां सुजलां जातां पर्वतसानुषु ।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्॥४॥

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्श विमलं तोयं पिबंश्च बहु पाण्डवः॥५॥

लघु आरोग्यकरम् ॥५॥

तां तु पुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम्॥ जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥६॥

जातरूपं स्वर्णम् ॥६॥

वैदूर्यवरनालैश्च बहुचित्रैर्मनोरमैः ।
हंसकारण्डवोद्भूतैः सृजद्भिरमलं रजः ॥७॥

हंसादुपोतैः हंसाद्युद्भूतैर्वा ॥७॥

आक्रीडं राजराजस्य कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥८॥

आक्रीडं क्रीडास्थानम् ॥८॥

सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा ।
राक्षसैः किन्नरैश्चापि गुप्तां वैश्रवणेन च ॥९॥

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः ।
बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः ॥१०॥

तच्च क्रोधवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥११॥

ते तु दृष्ट्वैव कौन्तेयमजिनैः प्रतिवासितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥१२॥

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥१३॥

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥१४॥

ततः सर्वे महाबाहुं समासाद्य वृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि॥१५॥

मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे ।
यदर्थमभिसंप्राप्तस्तदाचक्ष्व महामते ॥१६॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौगन्धिकाहरणे त्रिपञ्चाशदधिकशततमोऽध्यायः॥१५३॥
चतुःपञ्चाशदधिकशततमोऽध्यायः

भीम उवाच। ाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥१॥

पाण्डव इति ॥१॥

अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥२॥

अनिलोढं वायुना आनीतम् ॥२॥

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ ३॥

अनिलोढं वायुना आनीतम् ॥२॥

राक्षसा ऊचुः। आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥४॥

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
आमन्त्र्य यक्षप्रवरं पिबन्ति रमयन्ति च ।
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥५॥

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥६॥

तमनादृत्य पद्मानि जिहीर्षसि बलादृतः ।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥७॥

आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च ।
नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुम्॥८॥

भीमसेन उवाच। राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
दृष्टापि च महाराजं नाहं याचितुमुत्सहे ॥९॥

न हि याचन्ति राजान एष धर्मः सनातनः ।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥१०॥

इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥११॥

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥१२॥

वैशंपायन उवाच । इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो ह्यमर्षणः ।
व्यगाहत महाबाहुर्नलिनीं तां महाबलः ॥१३॥

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥१४॥

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ।
व्यगाहत महातेःस्ते तं सर्वे न्यवारयन् ॥१५॥

गृह्णीत प्रध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम् ।
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृततनेत्राः ॥१६॥

ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम् ।
प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥१७॥

ते तं तदा तोभरपट्टिशाद्यैर्व्याविद्धशस्त्रैः सहसा निपेतुः ।
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात् परिववुरुग्राः ॥१८॥

घातेन कुन्त्यां बलवान् सुजातः शूरस्तरस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥१९॥

तेषां स मार्गान् विविधान् महात्मा विहन्य शस्त्राणि च शात्रवाणाम् ।
यथा प्रवीरान्निजघान भीमः परं शतं पुष्करिणीसमीपे ॥२०॥

विहन्य विनाश्य । ’वा ल्यपि’ इत्यनुनासिकालोपपक्षे इदं रूपम् ॥२०॥

ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ।
अशक्नुवन्तः सहितं समन्ताद्द्रुतं प्रवीराः सहसा निवृत्ताः ॥२१॥

सहितमेकीभूयाप्यशक्नुवन्तः ॥२१॥

विदीर्यमाणास्तत एव हन्तुमाकाशमास्थाय विमूढसंज्ञाः ।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः॥२२॥

स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान् ।
विगाह्य तां पुष्करिणीं जितारिः कामाय जग्राह ततोऽम्बुजानि ॥२३॥

विक्रम्य जित्वा च अभिभूय वशीकृक्त्य चेत्यर्थः ॥२३॥

ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः ।
उत्पाट्य जग्राह च सोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥२४॥

ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः ।
भीमस्य वीर्यं च बलं च सङ्ख्ये यथावदाचख्युरतीव भीताः ॥२५॥

तेषां वचस्तत्तु निशम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच ।
गृह्णातु भीमो जलजानि कामात् कृष्णानिमित्तं विदितं ममैतत् ॥२६॥

कामात् कामाय स्वेष्टदिद्ध्यर्थम् ॥२६॥

ततोऽभ्यनुज्ञाप्य धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः ।
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौगन्धिकाहरणे चतुष्पञ्चाशदधिकशततमोऽध्यायः॥१५४॥
पञ्चपञ्चाशदधिकशततमोऽध्यायः

वैशम्पायन उवाच । ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।
बहूनि बहुरूपाणि विरजांसि समाददे ॥१॥

तत इति ॥१॥

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन् ॥२॥

पपात महती चोल्का सनिर्घाता महाभया ।
निष्प्रभश्चाभवत् सूर्यश्छन्नरश्मिस्तमोवृतः ॥३॥

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।
चचाल पृथिवी चापि पांसुवर्षं पपात च ॥४॥

सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः ।
तमोवृतमभूत् सर्वं न प्राज्ञायत किंचन ॥५॥

अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ।
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः॥६॥

उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ।
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः॥७॥

यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ।
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः॥८॥

स्वभ्यग्रः सुतरामासन्नः । पराक्रमः पराक्रमकालः ॥८॥

अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ।
ततः कृष्णां यमौ चापि समीपस्थावरिंदमः॥९॥

पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ।
कच्चित्क्व भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति ।
कृतवानपि वा वीरः साहसं साहसप्रियः ।
इमे ह्यकस्मादुत्पाता महासमरदर्शनाः॥११॥

दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ।
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी ।
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी॥१२॥

द्रौपद्युवाच। यत्तत् सौगन्धिकं राजन्नाहृतं मातरिश्वना ।
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्॥१३॥

अपि चोक्तो मया वीरो यदि पश्येर्बहून्यपि ।
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति॥१४॥

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः॥१५॥

उक्तस्त्वेवं तया राजा यमाविद‌मथाब्रवीत् ।
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः॥१६॥

वहन्तु राक्षसा विप्रान् यथाश्रान्तान् यथाकृशान् ।
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच॥१७॥

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः ।
चिरं च तस्य कालोऽयं स च वायुसमो जवे॥१८॥

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्॥१९॥

तमन्वियाम भवतां प्रभावाद्रजनीचराः ।
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्॥२०॥

तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा ।
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ॥२१॥

उद्देशज्ञाः स्थलज्ञाः ॥२१॥

आदाय पाण्डवाश्चैव तांश्च विप्राननेकशः ।
लोमशेनैव सहिताः प्रययुः प्रतिमानसाः॥२२॥

ते सर्वे त्वरिता गत्वा ददृशुः शुभकाननाम् ।
पद्मसौगन्धिकवतीं नलिनीं सुमनोरमाम्॥२३॥

तं च भीमं महात्मानं तस्यास्तीरे मनस्विनम् ।
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान्॥२४॥

भिन्नकायाक्षिबाहूरून् संचूर्णितशिरोधरान् ।
तं च भीमं महात्मानं तस्यास्तीरेव्यवस्थितम्॥२५॥

सक्रोधं स्तब्धनयनं संदष्टदशनच्छदम् ।
उद्यम्य च गदां दोर्भ्यां नदीतीरेष्ववस्थितम्॥२६॥

प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् ।
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः॥२७॥

उवाच लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ।
साहसं वत भद्रं ते देवानामथ चाप्रियम्॥२८॥

पुनरेवं न कर्तव्यं मम चेदिच्छास प्रियम् ।
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च॥२९॥

तस्यामेव नलिन्यां तु विजह्रुरमरोपमाः ।
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः॥३०॥

प्रादुरासन् महाकायास्तस्योद्यानस्य रक्षिणः ।
ते दृष्ट्वा धर्मराजानं महर्षिं चापि लोमशम्॥३१॥

नकुलं सहदेवं च तथान्यान् ब्राह्मणर्षभान् ।
विनयेन नताः सर्वे प्रणिपत्य च भारत॥३२॥

सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ।
विदिताश्च कुबेरस्य तत्र ते कुरुपुङ्गवाः॥३३॥

ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ।
प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु॥३४॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां सौगन्धिकाहरणे पञ्चपञ्चाशदधिकशततमोऽध्यायः॥१५५॥
षट्पञ्चाशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः ।
कृष्णया सहितान् भ्रातॄनित्युवाच सहद्विजान्॥१॥

तस्मिन्निति ॥१॥

दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च ।
मनसो ह्लादनीयानि वनानि च पृथक्पृथक्॥२॥

देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः ।
यथाक्रमविशेषेण द्विजैः संपूजितानि च॥३॥

ऋषीणां पूर्वचरितं तथा कर्म विचेष्टितम् ।
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः॥४॥

शृण्वानास्तत्र तत्र स्म आश्रमेषु शिवेषु च ।
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः॥५॥

अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः ।
यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः॥६॥

पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च ।
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः॥७॥

इला सरस्वती सिन्धुर्यमुना नर्मदा तथा ।
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः॥८॥

गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः ।
हिमवान् पर्वतश्चैव नानाद्विजगणायुतः॥९॥

विशाला बदरी दृष्टा नरनारायणाश्रमः ।
दिव्या पुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता॥१०॥

यथाक्रमविशेषेण सर्वाण्यायतनानि च ।
दर्शितानि द्विजश्रेष्ठा लोमशेन महात्मना॥११॥

इमं वैश्रवणावासं पुण्यं सिद्धनिषेवितम् ।
कथं भीम गमिष्यामो गतिरन्प्तरधीयताम्॥१२॥

गतिरन्तरधीयताम् - अन्तर्गतिः कुबेरभवने प्रवेशः कथं भवेदित्यधीयतां विचार्यताम् ॥१२॥

वैशम्पायन उवाच। एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी ।
न शक्यो दुर्गमो गन्तुमितो वैश्रवणाश्रमात्॥१३॥

इतो हेतोर्वैश्रवणाश्रमात् । प्रतिगच्छ परावतस्व ॥१३॥

अनेनैव पथा राजन् प्रतिगच्छ यथागतम् ।
नरनारायणस्थानं बदरीत्यभिविश्रुतम्॥१४॥

तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् ।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः॥१५॥

अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः ।
ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च॥१६॥

एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुचिः ।
सुखप्रह्लादनः शीतः पुण्यवर्षं ववर्ष च॥१७॥

श्रुत्वा तु दिव्यामाकाशाद्वाचं सर्वे विसिस्मियुः ।
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः॥१८॥

श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्योऽब्रवीत्तदा ।
न शक्यमुत्तरं वक्तुमेवं भवतु भारत॥१९॥

ततो युधिष्ठिरो राजा प्रतिजग्राह तद्वचः ।
प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम्॥२०॥

भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः ।
पाञ्चाल्या ब्राह्मणाश्चैव न्यवसन्त सुखं तदा॥२१॥

इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां पुनर्नारायणाश्रमागमने षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
समाप्तं तीर्थयात्रापर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in