पुलस्त्य उवाच।
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
।
सत्येन च महाभाग तुष्टोऽस्मि तव सुव्रत॥१॥
अनेनेति ॥१॥
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ
।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि॥२॥
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ॥३॥
भीष्म उवाच।
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
।
कृतमितावता मन्ये यदहं दृष्टवान्प्रभुम्॥४॥
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
।
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि॥५॥
अस्ति मे हृदये कश्चित्तीर्थेभ्यो धर्मसंशयः
।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति॥६॥
प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ
।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि सुनिश्चितम्॥७॥
पुलस्त्य उवाच।
हन्त ते कथयिष्यामि यदृषीणां परायणम्
।
तदेकाग्रमनाः पुत्र शृणु तीर्थेषु यत्फलम्॥८॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥९॥
यस्य हस्तौ चेति । दुष्प्रतिग्रहपरपीडादिभ्यो निवृत्तिर्हस्तसंयमः । दृष्टिपूते देशे पादन्यासः पादसंयमः। परानिष्टचिन्तनाभावो मनःसंयमः । विद्यासंयमः अभिचारराहित्यम् । तपःसंयमः दम्भराहित्यम् । कीर्तिसंयमः पापकीर्तिराहित्यम् ॥९॥
प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित्
।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते॥१०॥
अस्यैव श्लोकस्य व्याख्यानं प्रतिग्रहादित्यादि त्रितयम् अपावृत्तो निवृत्तः संतोषोऽलंबुद्धिः ॥१०॥
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते॥११॥
अकल्ककः दम्भादिहीनः । ‘कल्कः शाठ्ये च दम्भे च’ इति विश्वः ॥११॥
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥१२॥
आत्मोपमः दयावान् ॥१२॥
ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम्
।
फलं चैव यथातथ्यं प्रेत्य चेह च सर्वशः॥१३॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
।
बहूपकरणा यज्ञा नानासंभारविस्तराः॥१४॥
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित्
।
नार्थन्यूनैर्नावगणैरेकात्मभिरसाधनैः॥१५॥
अवगणैः असहायैर्नीचसहायैर्वा एकात्मभिः असहायैः असाधनैः पत्न्यादिरहितैः ॥१५॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर॥१६॥
ऋषीणां परमं गुह्यमिदं भरतसत्तम
।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते॥१७॥
अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते॥१८॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्॥१९॥
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
।
पुष्करं नाम विख्यातं महाभागः समाविशेत्॥२०॥
दशकोटिसहस्राणि तीर्थानां वै महामते
।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन॥२१॥
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः
।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो॥२२॥
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
।
दिव्ययोगा महाराज पुण्येन महतान्विताः॥२३॥
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते॥२४॥
तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः
।
उवास परमप्रीतो भगवान्कमलासनः॥२५॥
पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा
।
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः॥२६॥
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
।
अश्वमेधाद्दशगुणं फलं प्राहुर्मनीषिणः॥२७॥
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
।
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते॥२८॥
शाकैर्मूलैः फलैर्वापि येन वर्तयते स्वयम्
।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः॥२९॥
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः
।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम॥३०॥
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः
।
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम्॥३१॥
प्राप्नुयात्स नरो लोकान्ब्रह्मणः सदनेऽक्षयान्
।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः॥३२॥
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
।
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा॥३३॥
उपस्पृष्टं स्नातं भवेत् ॥३३॥
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति
।
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः॥३४॥
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते
।
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः॥३५॥
उष्ट्वा वासं कृत्वा ॥३५॥
ऋतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति
।
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते॥३६॥
ऋतून्सर्वान्प्राप्नोति संवत्सरात्मकप्रजापतिसायुज्यं प्राप्नोतीत्यर्थः । ‘ऋतुर्भूत्वा संवत्सरमप्येति संवत्सरः प्रजापतिः प्रजापतिर्वा वैषः’ इति श्रुतेः क्रतूनित्यपि पाठः ॥३६॥
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्॥३७॥
त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च
।
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्॥३८॥
अत्र पुष्करस्तुतिप्रस्तावे विषमश्लोकव्याख्यायां ‘त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्’ इति श्लोकः पठितो व्याख्यातश्च । इदानीं मन्दबुद्धिभिर्दुर्व्याख्येयतया परित्यक्त इति न पुस्तकान्तरेषु दृश्यते । अत्र प्राचां व्याख्या । श्रयतेः शृणातेर्वा शृङ्गाणि मुमुक्षुभिराश्रयणीयानि पापहिंसकानि वा । शुभ्राणि भ्राजिष्णूनि त्रीणि पुष्कराणि तेषां मध्ये सरस्वती प्रस्रवतीति तान्येव त्रीणि प्रस्रवणानि आदिसिद्धानि तीर्थान्तरवदुत्पत्तिरहितानि । अत एव तत्र तीर्थत्वापादकं कारणं न विद्म इति । वस्तुतस्तु ‘वेदारण्यं पञ्चनदं गौरीमायूरमार्जुनम् । श्रीवाञ्छं कुम्भकोणं च काशीक्षेत्रसमानि षट्’ इत्यादिवदिह काशीसाम्येन पुष्करं स्तूयते । तथा चायमर्थः पुराणान्तरेषु वाराणस्यास्त्रिकोणत्वस्मरणात् त्रयः कोणा एव त्रीणि शृङ्गाणि शुभ्राणि रजस्तमो मलहीनत्वेन शुद्धसत्त्वमयानि ज्ञानप्रदत्वात् । तथा च श्रुतिरविमुक्तं प्रकृत्याह । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवतीति। त्रीणि प्रस्रवणानि त्रयः प्रवाहाः असीवरणयोर्गङ्गायाश्च । अथवानेन त्रिवेण्येव ग्राह्या तथा त्रीणि पुष्कराणि एतानि त्रीणि काशीप्रयागपुष्कराणि आदिसिद्धानीत्यादि प्राग्वत् तेन । काश्या काशीप्रयागाभ्यां वा समानमिदं पुष्करं त्रित्वसाम्यादिति पुरस्तुतिः कृता भवति ॥३८॥
दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः
।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्॥३९॥
उष्य द्वादशरात्रं तु नियतो नियताशनः
।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत्॥४०॥
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्
।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥४१॥
तत्रोष्य रजनीः पञ्च पूतात्मा जायते नरः
।
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्॥४२॥
जम्बूमार्गादुपावृत्य गच्छेत्तन्दुलिकाश्रमम्
।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति॥४३॥
आगस्त्यं सर आसाद्य पितृदेवार्चने रतः
।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्॥४४॥
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम्
।
कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकपूजितम्॥४५॥
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ
।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते॥४६॥
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः
।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥४७॥
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
।
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै॥४८॥
महाकालं ततो गच्छेन्नियतो नियताशनः
।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्॥४९॥
ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः
।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्॥५०॥
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
।
महादेवप्रसादाच्च गाणपत्यं च विन्दति॥५१॥
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः
।
नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम्॥५२॥
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
।
दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः॥५३॥
अग्निष्टोममवाप्नोति विमानं चाधिरोहति
।
चर्मण्वतीं समासाद्य नियतो नियताशनः
।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत्॥५४॥
ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम्
।
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर॥५५॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥५६॥
पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः
।
कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते॥५७॥
ततो गच्छेत राजेन्द्र प्रभासं तीर्थमुत्तमम्
।
तत्र संनिहितो नित्यं स्वयमेव हुताशनः॥५८॥
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः
।
तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः॥५९॥
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
।
ततो गत्वा सरस्वत्याः सागरस्य च संगमे॥६०॥
गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति
।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ॥६१॥
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
।
त्रिरात्रमुषितः स्नातस्तर्पयेत्पितृदेवताः॥६२॥
प्रभासते यथा सोमः सोश्वमेधं च विन्दति
।
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम॥६३॥
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत्॥६४॥
ततो द्वारवतीं गच्छेन्नियतो नियताशनः
।
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्॥६५॥
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम॥६६॥
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
।
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ॥६७॥
सागरस्य च सिन्धोश्च संगमं प्राप्य दुर्लभम्
।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः॥६८॥
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा॥६९॥
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः॥७०॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्॥७१॥
दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम्
।
तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्॥७२॥
तत्र स्नात्वा च पीत्वा च रुद्रं देवगणैर्वृतम्
।
जन्मप्रभृति यत्पापं तत्स्नातस्य प्रणश्यति॥७३॥
दमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः
।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्॥७४॥
गत्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
।
पुरा शौचं कृतं राजन्हत्वा दैतेयदानवान्॥७५॥
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्
।
गमनादेव तस्यां हि हयमेधफलं लभेत्॥७६॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः
।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते॥७७॥
तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ
।
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्॥७८॥
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम्॥७९॥
भद्रतुङ्गं समासाद्य शुचिः शीलसमन्वितः
।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्॥८०॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात्॥८१॥
रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम्
।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा॥८२॥
अथ पञ्चनदं गत्वा नियतो नियताशनः
।
पञ्चयज्ञानवाप्नोति क्रमशो येनुकीर्तिताः॥८३॥
ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम्
।
तत्र स्नात्वा न योऽन्यां वै नरो भरतसत्तम॥८४॥
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः
।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः॥८५॥
श्रीकुण्डं तु समासाद्य त्रिषु लोकेषु विश्रुतम्
।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्॥८६॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
।
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः॥८७॥
तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात्
।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥८८॥
वितस्तां च समासाद्य संतर्प्य पितृदेवताः
।
नरः फलमवाप्नोति वाजपेयस्य भारत॥८९॥
काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च
।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्॥९०॥
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात्
।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्॥९१॥
ततो गच्छेत वडवां त्रिषु लोकेषु विश्रुताम्
।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि॥९२॥
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत्
।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः॥९३॥
ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः
।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः॥९४॥
राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप
।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम्॥९५॥
विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा
।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम्॥९६॥
ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः
।
यथाभिलषितानन्यान्कामान्दत्त्वा महीपते॥९७॥
तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा
।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत॥९८॥
गवां शतसहस्रेण राजसूयशतेन च
।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः॥९९॥
ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत्
।
अर्चयित्वा महादेवमश्वमेधफलं लभेत्॥१००॥
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
।
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्॥१०१॥
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ॥१०२॥
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम्
।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥१०३॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्॥१०४॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम्
।
तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत॥१०५॥
यजनं याजनं चैव तथैव ब्रह्मबालुकम्
।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः॥१०६॥
अर्धयोजनविस्तारा पञ्चयोजनमायता
।
एतावती हि देविका तु पुण्या देवर्षिसेविता॥१०७॥
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
।
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः॥१०८॥
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः॥१०९॥
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम
।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत॥११०॥
ततो विनशनं गच्छेन्नियतो नियताशनः
।
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती॥१११॥
चमसेथ शिवोद्भेदे नागोद्भेदे च दृश्यते
।
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्॥११२॥
शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत्
।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्॥११३॥
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत॥११४॥
सरस्वत्यां महाराज अनुसंवत्सरं च ते
।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा॥११५॥
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा
।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ॥११६॥
कुमारकोटीमासाद्य नियतः कुरुनन्दन
।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥११७॥
गवामयुतमाप्नोति कुलं चैव समुद्धरेत्
।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः॥११८॥
पुरा यत्र महाराज मुनिकोटिः समागता
।
हर्षेण महताविष्टा रुद्रदर्शनकाङ्क्षया॥११९॥
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्
।
एवं संप्रस्थिता राजन्नृषयः किल भारत॥१२०॥
ततो योगीश्वरेणापि योगमास्थाय भूपते
।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्॥१२१॥
सृष्टा कोटीति रुद्राणामृषीणामग्रतः स्थिता
।
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्॥१२२॥
तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम्
।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान्॥१२३॥
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
।
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः॥१२४॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
।
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्॥१२५॥
सरस्वत्या महापुण्यं केशवं समुपासते
।
यत्र ब्रह्माहयो देवा ऋषयश्च तपोधनाः॥१२६॥
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्
।
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्
।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति॥१२७॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
।
तत्रावसानमासाद्य गोसहस्रफलं लभेत्॥१२८॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां द्व्यशीतितमोऽध्यायः॥८२॥
पुलस्त्य उवाच।
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
।
पापेभ्यो यत्र मुच्यन्ते दर्शनात्सर्वजन्तवः॥१॥
तत इति ॥१॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते॥२॥
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः
।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥३॥
दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च
।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे॥४॥
तत्र मासं वसेद्धीरः सरस्वत्यां युधिष्ठिर
।
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः॥५॥
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते
।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत॥६॥
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमिति कुरुक्षेत्रप्रस्तावे बृहस्पतिरुवाच याज्ञवल्क्यं ‘यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्’ इति जाबालोपनिषत्सु प्रसिद्धमनुकुरुक्षेत्रं स्तौति ब्रह्मक्षेत्रमिति ॥६॥
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर
।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति॥७॥
‘कुत्सितं रौतीति कुरु पापं तस्य क्षेपणात्त्रायत’ इति कुरुक्षेत्रं पापनिवर्तकम् । ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मसदनमिति श्रौतपदद्वयार्थं संगृह्णाति अर्धेन । ‘पापानि च प्रणश्यन्ति ब्रह्मलोकं च गच्छति’ ब्रह्मैव लोकस्तं ब्रह्मविद्भूत्वा ब्रह्मैव भवतीत्यर्थः ॥७॥
गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह
।
फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः॥८॥
श्रौतस्य देवयजनपदस्यार्थं संगृह्णाति राजसूयेति ॥८॥
ततो मचक्रुकं नाम द्वारपालं महाबलम्
।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्॥९॥
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम्
।
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः॥१०॥
तत्र स्नात्वा च नत्वा च त्रिलोकप्रभवं हरिम्
।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥११॥
ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत॥१२॥
पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्
।
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप॥१३॥
दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्
।
सर्पदेवीं समासाद्य नागानां तीर्थमुत्तमम्॥१४॥
अग्निष्टोममवाप्नोति नागलोकं च विन्दति
।
ततो गच्छेत धर्मज्ञ द्वारपालं तरुन्तुकम्॥१५॥
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
।
ततः पञ्चनदं गत्वा नियतो नियताशनः॥१६॥
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते॥१७॥
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्
।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत्॥१८॥
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्
।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत्॥१९॥
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः
।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्॥२०॥
कृतशौचं समासाद्य तीर्थसेवी नराधिप
।
पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः॥२१॥
ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः
।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्॥२२॥
तत्रैव च महाराज यक्षिणीं लोकविश्रुताम्
।
स्नात्वाभिगम्य राजेन्द्र सर्वान्कामानवाप्नुयात्॥२३॥
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः॥२४॥
कुरुक्षेत्रस्य प्रस्तुतस्य तत् यक्षाभिवन्दनादिकं द्वारं प्रापकं तच्चेदं कुरुक्षेत्रमविमुक्ताख्यम् ‘अविमुक्तं वै कुरुक्षेत्रम्’ इति श्रुतेः । स्मृतिश्च ‘इमानि तु पवित्राणि काशीप्राप्तिकराणि च’ इति । अत एवानुकुरुक्षेत्रमिति श्रुत्या निर्दिष्टं कुरुक्षेत्रादि सेवनप्राप्यत्वात् ॥२४॥
संमितं पुष्कराणां च स्नात्वार्च्य पितृदेवताः
।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना॥२५॥
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति
।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः॥२६॥
तत्र रामेण राजेनद्र तरसा दीप्ततेजसा
।
क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः॥२७॥
पूरयित्वा नरव्याघ्र रुधिरेणेति विश्रुतम्
।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः॥२८॥
ततस्ते पितरः प्रीता राममूचुर्नराधिप
।
पितर ऊचुः
।
राम राम महाभाग प्रीताः स्म तव भार्गव॥२९॥
अनया पितृभक्त्या च विक्रमेण च ते विभो
।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते॥३०॥
एवमुक्तः स राजेन्द्र राम प्रहरतां वरः
।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्॥३१॥
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि
।
पितृप्रसादमिच्छेयं तपः आप्यायनं पुनः॥३२॥
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
।
ततश्च पापान्मुच्येयं युष्माकं तेजसाप्यहम्॥३३॥
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा॥३४॥
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः
।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः॥३५॥
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
।
ततश्च पापान्मुक्तस्त्वं पतितास्ते स्वकर्मभिः॥३६॥
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः
।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति॥३७॥
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम्
।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम्॥३८॥
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा
।
आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्हितास्ततः॥३९॥
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः
।
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः॥४०॥
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्
।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह॥४१॥
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके
।
कायशोधनमासाद्य तीर्थं भरतसत्तम॥४२॥
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः
।
शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान्॥४३॥
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्
।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना॥४४॥
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्
।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान्॥४५॥
श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः
।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम्॥४६॥
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः
।
तत्र स्नात्वार्चयित्वा च पितॄन्स्वान्दैवतान्यपि॥४७॥
कपिलानां सहस्रस्य फलंविन्दति मानवः
।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः॥४८॥
अर्चयित्वा पितॄन्देवानुपवासपरायणः
।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति॥४९॥
गवां भवनमासाद्य तीर्थसेवी यथाक्रमम्
।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्॥५०॥
शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह
।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्॥५१॥
ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम्
।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः॥५२॥
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः॥५३॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्
।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम्॥५४॥
तत्र सन्निहिता नित्यं पितरो दैवतैः सह
।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥५५॥
अश्वमेधमावाप्नोति पितृलोकं च गच्छति
।
ततोऽम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम्॥५६॥
काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम
।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते॥५७॥
काशीश्वरस्य तीर्थेषु मणिकर्णिकादिषु स्नानमात्राद्ब्रह्मलोके क्रममुक्तिस्थाने महीयते ॥५७॥
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत
।
प्रजा विवर्धते राजन्नतन्वीं श्रियमश्नुते॥५८॥
ततः सीतवनं गच्छेन्नियतो नियताशनः
।
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्॥५९॥
पुनाति गमनादेव दृष्टमेकं नराधिप
।
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत॥६०॥
तीर्थं तत्र महाराज श्वाविल्लोमापहं स्मृतम्
।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः॥६१॥
प्रीतिं गच्छन्ति परमां स्नात्वा भरतसत्तम
।
श्वाविल्लोमापनयने तीर्थे भरतसत्तम॥६२॥
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः
।
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्॥६३॥
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते
।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्॥६४॥
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्
।
यत्र कृष्णमृगा राजन्व्याधेन शरपीडिताः॥६५॥
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः
।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः॥६६॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते॥६७॥
आपगा नाम विख्याता नदी सिद्धनिषेविता
।
श्यामाकं भोजने तत्र यः प्रयच्छति मानवः॥६८॥
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्
।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता॥६९॥
तत्र स्नात्वाऽर्चयित्वा च पितॄन्वै दैवतानि च
।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्॥७०॥
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्
।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत॥७१॥
तत्र सप्तर्षिकुण्डेषु स्नातस्य नरपुङ्गव
।
केदारे चैव राजेन्द्र कपिलस्य महात्मनः॥७२॥
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः
।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥७३॥
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्
।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः॥७४॥
ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम्
।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्॥७५॥
लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति
।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन॥७६॥
रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते
।
इलास्पदं च तत्रैव तीर्थं भरतसत्तम॥७७॥
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनथ
।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति॥७८॥
किंदाने च नरः स्नात्वा किंजप्ये च महीपते
।
अप्रमेयमवाप्नोति दानं जप्यं च भारत॥७९॥
कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः
।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥८०॥
सरकस्य तु पूर्वेण नारदस्य महात्मनः
।
तीर्थं कुरुकुलश्रेष्ठ अम्बाजन्मेति विश्रुतम्॥८१॥
तत्र तीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत
।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन्॥८२॥
शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत्
।
तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत्॥८३॥
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्
।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी॥८४॥
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्
।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥८५॥
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्
।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः॥८६॥
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्
।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः॥८७॥
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
।
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम॥८८॥
गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः
।
पाणिखाते नरः स्नात्त्वा तर्पयित्वा च देवताः॥८९॥
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति॥९०॥
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्
।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना॥९१॥
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्
।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः॥९२॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः
।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्॥९३॥
गत्वा मधुवटीं चैव देव्यास्तीर्थे नरः शुचिः
।
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च पूरुषः॥९४॥
स देव्या समनुज्ञातो गोसहस्रफलं लभेत्
।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत॥९५॥
स्नाति वै नियताहार सर्वपापैः प्रमुच्यते
।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता॥९६॥
पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः
।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा॥९७॥
अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत्
।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च॥९८॥
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह
।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥९९॥
अहश्च सुदिनं चैव द्वे तीर्थे लोकविश्रुते
।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्॥१००॥
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम्
।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम॥१०१॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत्
।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥१०२॥
ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम्
।
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्॥१०३॥
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति
।
कुलंपुने नरः स्नात्वा पुनाति स्वकुलं ततः॥१०४॥
पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम्
।
तत्र स्नात्वा नरव्याघ्र विष्णुलोके महीयते॥१०५॥
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम्
।
अमराणां प्रभावेन स्वर्गलोके महीयते॥१०६॥
शालिहोत्रस्य तीर्थे च शालिसूर्ये यथाविधि
।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्॥१०७॥
श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम
।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्॥१०८॥
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह
।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः॥१०९॥
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा
।
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम॥११०॥
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान्
।
तस्मिन्कुञ्जे नरः स्नात्वा अग्निष्टोमफलं लभेत्॥१११॥
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्
।
कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥११२॥
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्
।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः॥११३॥
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्
।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम्॥११४॥
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप॥११५॥
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः
।
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम्॥११६॥
क्षतः किल करे राजंस्तस्य शाकरसोस्रवत्
।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्॥११७॥
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत्
।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्॥११८॥
ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः
।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप॥११९॥
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा
।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत॥१२०॥
भो भो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्
।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव॥१२१॥
ऋषिरुवाच।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम
।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्॥१२२॥
यं दृष्ट्वा संप्रनृत्तोहं हर्षेण महतान्वितः
।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम्॥१२३॥
अहं तु विस्मयं विप्र न गच्छामीति पश्य माम्
।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता॥१२४॥
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोनघ
।
ततो भस्मक्षताद्राजन्निर्गतं हिमसन्निभम्॥१२५॥
हिमसंनिभम् अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ॥१२५॥
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत्॥१२६॥
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम्॥१२७॥
त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये
।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया॥१२८॥
त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोनघ
।
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह॥१२९॥
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः
।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत्॥१३०॥
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै
।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्॥१३१॥
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा
।
आश्रमे चेह वत्स्यामि त्वया सह महामुने॥१३२॥
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्
।
न तेषां दुर्लभं किंचिदिह लोके परत्र च॥१३३॥
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः
।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत॥१३४॥
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्
।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥१३५॥
कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत
।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया॥१३६॥
कपालमोचनं तीर्थं सर्वपापप्रमोचनम्
।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते॥१३७॥
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ
।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत्॥१३८॥
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम
।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति॥१३९॥
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः
।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते॥१४०॥
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥१४१॥
पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप
।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥१४२॥
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा
।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना॥१४३॥
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत
।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति॥१४४॥
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती
।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्॥१४५॥
उत्तमं सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्
।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत्॥१४६॥
पृथूदके जप्यपरो यस्तनुं त्यजेत् तं श्वो मरणं पुनर्मरणं न तपेत् । यद्वा पूर्वेद्युरेव कृतजपं श्वोऽपि जीवितान्तं मरणं न तपेत् । एकरात्रेणैव सर्वपापविमोको भवतीत्यर्थः ॥१४६॥
गीतं सनत्कुमारेण व्यासेन च महात्मना
।
एवं स नियतं राजन्नभिगच्छेत्पृथूदकम्॥१४७॥
पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह
।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः॥१४८॥
तत्र स्नात्वा दिवं यान्ति येऽपि पापकृतो नराः
।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः॥१४९॥
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम
।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्॥१५०॥
ततो गच्छेत राजेन्द्र तीर्थं मेध्यं यथाक्रमम्
।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते॥१५१॥
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया
।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः॥१५२॥
आसप्तमं कुलं चैव पुनाति भरतर्षभ
।
अर्धकीलं च तत्रैव तीर्थं कुरुकुलोद्वह॥१५३॥
विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मितं पुरा
।
व्रतोपनयनाभ्यां चाप्युपवासेन वाप्युत॥१५४॥
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः
।
क्रियामन्त्रविहीनोपि तत्र स्नात्वा नरर्षभ
।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः॥१५५॥
समुद्राश्चापि चत्त्वारः समानीताश्च दर्भिणा
।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात्॥१५६॥
फलानि गोसहस्राणां चतुर्णां विन्दते च सः
।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम्॥१५७॥
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते
।
उभयोर्हि नरः स्नात्वा गोसहस्रफंल लभेत्॥१५८॥
दानं वाप्युपवासो वा सहस्रगुणितं भवेत्
।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्॥१५९॥
तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः
।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्॥१६०॥
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः
।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते॥१६१॥
ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः
।
पुण्येन महता युक्तः सतां लोके महीयते॥१६२॥
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः
।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति॥१६३॥
तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा
।
यत्र ब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः॥१६४॥
सैनापत्येन देवानामभिषिक्तो गुहस्तदा
।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह॥१६५॥
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः
।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥१६६॥
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः
।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति॥१६७॥
ततो गच्छेदनरकं तीर्थसेवी नराधिप
।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्॥१६८॥
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते
।
अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः॥१६९॥
सन्निध्यं तत्र राजेन्द्र रुद्रपत्न्याः कुरूद्वह
।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्॥१७०॥
तत्रैव च महाराज विश्वेश्वरमुमापतिम्
।
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः॥१७१॥
नारायणं चाभिगम्य पद्मनाभमरिंदम
।
राजमानो महाराज विष्णुलोकं च गच्छति॥१७२॥
तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ
।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः॥१७३॥
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप
।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत्॥१७४॥
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः
।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत॥१७५॥
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ
।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते॥१७६॥
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते
।
आपगानां नरः स्नात्वा अर्चयित्वा महेश्वरम्॥१७७॥
गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत्
।
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम्॥१७८॥
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः॥१७९॥
बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः
।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः॥१८०॥
त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप
।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप॥१८१॥
अहोरात्रोपवासेन शक्रलोके महीयते
।
एकरात्रं समासाद्य एकरात्रोषितो नरः॥१८२॥
नियतः सत्यवादी च ब्रह्मलोके महीयते
।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥१८३॥
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः
।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं॥१८४॥
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप॥१८५॥
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः
।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः॥१८६॥
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः॥१८७॥
तस्मिंस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्
।
सारस्वतीं गतिं चैव लभते नात्र संशयः॥१८८॥
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्
।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः॥१८९॥
लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति
।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि॥१९०॥
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
।
मासि मासि समायान्ति पुण्येन महातान्विताः॥१९१॥
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत्॥१९२॥
संनिहत्यां कुरुक्षेत्रे अस्यैव नामान्तरं संनिहतीति ॥१९२॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च
।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च॥१९३॥
तन्निर्वक्ति पृथिव्यामित्यादिना । अत्र उपक्रमोपसंहारयोः कुरुक्षेत्रमात्रपरत्वात्तदेव अङ्गितीर्थान्तराणि तु फलवत्संनिधावफलं तदङ्गमिति न्यायेन तत्प्राप्तौ अङ्गभूतानि । तेषामपि पृथक् फलश्रवणं तु गुणफलन्यायेन ज्ञेयम्। यथायोगाङ्गानामपि यमनियमादीनाम् अहिंसाप्रतिष्ठादीनां तत्संनिधौ वैरत्याग इत्यादिना पृथक् फलं स्मर्यते तद्वदिति भावः ॥१९३॥
उदपानानि वाप्यश्च तीर्थान्यायतनानि च
।
निःसंशयममावास्यां समेष्यन्ति नराधिप॥१९४॥
मासि मासि नरव्याघ्र सन्निहत्यां न संशयः
।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता॥१९५॥
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते
।
अमावास्यां तु तत्रैव राहुग्रस्ते दिवाकरे॥१९६॥
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु
।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्॥१९७॥
स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः
।
यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषेण वा॥१९८॥
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः
।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥१९९॥
अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम्
।
कोटितीर्थमुपस्पृश्य लभेद्बहु सुवर्णकम्॥२००॥
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम
।
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः॥२०१॥
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः
।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्॥२०२॥
पृथिव्यामिति । नैमिषं नैमिषारण्ये कृतं पुण्यं पृथिव्यामेव संततिसंपत्तिसार्वभौमादिपदप्राप्तिहेतुरित्यर्थः । अन्तरिक्षे सूर्यचन्द्रादिमार्गे नक्षत्रादिचक्रे पुष्करं प्रापयतीत्यर्थः ॥२०२॥
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
।
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः॥२०३॥
त्रयाणाम् इन्द्रादिलोकेन सह त्रयाणामुपरि ब्रह्मलोके । कुरुक्षेत्रसेवी क्रममुक्तिस्थानं प्राप्नोतीत्यर्थः । नयन्ति परमां गतिमिति मुक्तिफलदर्शकवाक्यशेषात् । अत्र कुरुक्षेत्रपदेन ’काश्येव । ‘काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम। सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते’ इत्यनेन समानार्थत्वात् । तथा च पाठक्रमादर्थक्रमस्य बलवत्त्वात् ‘पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम्’ इत्यतः परं ‘ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे’ इत्ययं ग्रन्थो द्रष्टव्यः । अन्यथा तृतीयलोकस्यानुक्तेस्त्रयाणामित्यसंगतं स्यात् । त्रिविष्टपे इत्यध्याहारेण वा वाक्यपूरणं स्यात् । तच्चायुक्तम् । श्रौतार्थसंभवे दर्शिता चाविमुक्तेऽपि कुरुक्षेत्रपदस्य श्रौतीरूढिरविमुक्तं वै कुरुक्षेत्रमिति जाबालोपनिषदि न चोपक्रमोपसंहारैकरूपेण प्रसिद्धकुरुक्षेत्रस्य प्राकरणिकत्वेन तीर्थान्तरवद्वाराणस्यास्तत्प्रकरणपठितत्वात्तदङ्गत्वं स्यादिति वाच्यम् । प्रकरणाल्लिङ्गस्य बलीयस्त्वात्। तथा हि । ‘ते वसन्ति त्रिविष्टपे स्वर्गे लोके महीयते‘ इत्यादिवाक्यशेषात्स्वर्गप्राप्तिरेव कुरुक्षेत्रफलमवगम्यते । न चात्रत्यं त्रिविष्टपादिपदं ब्रह्मलोकपरं कर्तुं शक्यम् । ब्रह्मवेदी कुरुक्षेत्रमिति वाक्यशेषविरोधात् । तत्र च वेदीशब्देन तस्य कर्मभूमित्वावगमात् तेषां कुरुक्षेत्रं वेदिरासीत्’ इति तैत्तिरीयकब्राह्मणात् । ‘तेषां कुरुक्षेत्रं देवयजनमास’ इति शतपथश्रुतेश्च न च कर्मभूमेर्विद्याफलप्रदत्वं युज्यते । ‘कर्मणा पितृलोको विद्यया देवलोकः’ इति तयोः फलभेदश्रवणात् । पितृलोकः स्वर्गलोकः देवलोको ब्रह्मलोकः । वाराणस्यास्तु ज्ञानभूमित्वं सर्वश्रुतिप्रसिद्धम् । एतदेवात्र । ‘पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः । अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्’ इति प्रदर्श्य ‘दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् । ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे’ इत्यनन्तरश्लोकेन प्रसिद्धकुरुक्षेत्रफलं प्रदर्श्यते । न चैतदेव पूर्वश्लोकेन स्तूयत इति वाच्यम् । श्रुतिस्मृतिप्रसिद्धिबलात्तस्य भूतार्थवादत्वे संभवत्यभूर्ताथवादत्वोपगमस्यायोगात् वाल्मीकीये मोक्षोपायेषु । ‘छायासूची तापसूची मुख्यसूचीति च त्रिकम् । त्रिकोणं तपसा पूतं वाराणस्याः समं कृतम् । गतास्तेन त्रिकोणेन ये केचिदिह जंतवः । वायवः पांसवो वापि तेऽपि मुक्तिं परंगता:’ इति भंग्यंतरेण पूर्वश्लोकार्थस्य प्रत्यभिज्ञानात् तथा च यद्यपि काश्याः कुरुक्षेत्राङ्गत्वं प्रकरणात्प्रसक्तं तथापि योग्यतया फलतारतम्यलिङ्गान्न तत्संभवति । सांनिध्यात्तु परस्पराकांक्षादिकमुत्थाप्य तीर्थान्तरशेषीभूतस्यापि कुरुक्षेत्रस्य काशीशेषत्वं ज्ञेयम् । तथा च वाक्यात् दुर्बलोऽपि संनिधिः ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेन बलवत्तया स्वर्गलोके महीयत इति वाक्यावगतमपि कुरुक्षेत्रफलं तिरोधाय ‘प्रतितिष्ठन्ति वै य एता रात्रीरुपयन्ति’ इत्यादौ रात्रिसत्रस्य प्रतिष्टाशेषितामिव पांसवोऽपि कुरुक्षेत्र इत्यर्थवादेन मुक्तिफलशेषिताम् अविमुक्तसंज्ञस्य कुरुक्षेत्रस्य व्यवस्थापयन् सहैकवाक्यतां गत्वा प्रसिद्ध कुरुक्षेत्रस्याविमुक्तशेषतां गमयति । तथा चायं पांसवोपीत्यादिश्लोकद्वयार्थः । ये परमगतिप्रदां काशीं गन्तुमिच्छन्ति ते कुरुक्षेत्रे वसेयुरिति । ते वसन्ति त्रिविष्टपे इति तु योगाङ्गफलवद्गुणवफलमिति प्रागुक्तं न विस्मर्तव्यम् । तत्सिद्धं सर्वेषां तीर्थानां कुरुक्षेत्रप्रापकत्वं कुरुक्षेत्रस्य तु काशीप्रापकत्वमिति ॥२०३॥
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्॥२०४॥
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे
।
कुरुक्षेत्रे गमिष्यामि कुरुक्षेत्रे वसाम्यहम्॥२०५॥
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते
।
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्॥२०६॥
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन॥२०७॥
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च
।
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते॥२०८॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां त्र्यशीतितमोऽध्यायः॥८३॥
पुलस्त्य उवाच।
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम्
।
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः॥१॥
तत इति ॥१॥
तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम्
।
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः॥२॥
आसप्तमं कुलं चैव पुनीते नात्र संशयः
।
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम्॥३॥
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति
।
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः॥४॥
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
।
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः॥५॥
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते
।
ततश्चापि सरिच्छ्रेष्ठा नदीनामुत्तमा नदी॥६॥
प्लक्षादेवी स्मृता राजन्पुण्यादेवी सरस्वती
।
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले॥७॥
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्
।
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्॥८॥
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः
।
कपिलानां सहस्रं च वाजिमेधं च विन्दति॥९॥
शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स बलवता क्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु । संपेति पाठे संपतत्यनयेति यष्टिः संपा ॥९॥
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने
।
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत॥१०॥
पुरातने भविष्यपुराणादौ ॥१०॥
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
।
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत॥११॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः॥१२॥
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्
।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता॥१३॥
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता
।
आहारं सा कृतवती मासि मासि नराधिप॥१४॥
ऋषयोभ्यागतास्तत्र देव्या भक्त्या तपोधनाः
।
आतिथ्यं च कृतं तेषां शाकेन किल भारत॥१५॥
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम्
।
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः॥१६॥
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः
।
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम्॥१७॥
तत्फलं तस्य भवति देव्याश्छन्देन भारत
।
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम्॥१८॥
छन्देन इच्छया ॥१८॥
तत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा
।
वरांश्च सुबहूंल्लेभे दैवतेषु सुदुर्लभान्॥१९॥
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
।
अपि च त्वं प्रियतरो लोके कृष्ण भविष्यसि॥२०॥
त्वन्मुखं च जगत्सर्वं भविष्यति न संशयः
।
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्॥२१॥
त्वन्मुखं त्वत्प्रधानम् ॥२१॥
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
।
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः॥२२॥
मनसा प्रार्थितान्कामांल्लभते नात्र संशयः
।
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप॥२३॥
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः
।
महादेवप्रसादाद्धि गच्छेत परमां गतिम्॥२४॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
।
धारां नाम महाप्राज्ञः सर्वपापप्रमोचनीम्॥२५॥
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप
।
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम्॥२६॥
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः
।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः॥२७॥
पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्
।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्॥२८॥
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्
।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते॥२९॥
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः
।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥३०॥
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप
।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत्॥३१॥
नागराजस्य राजेन्द्र कपिलस्य महात्मनः
।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्॥३२॥
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप
।
कपिलानां सहस्रस्य फलं विन्दति मानवः॥३३॥
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम्
।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्॥३४॥
गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः
।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्॥३५॥
ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम्
।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते॥३६॥
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप
।
तत्र स्नात्वा नरो राजन्स्वर्गलोके च गच्छति॥३७॥
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे
।
स्नात्वाश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति॥३८॥
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि
।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते॥३९॥
ततः कुब्जाम्रके गच्छेत्तीर्थसेवी नराधिप
।
गोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति॥४०॥
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप
।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः॥४१॥
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः
।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत्॥४२॥
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः
।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति॥४३॥
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम्
।
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते॥४४॥
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्
।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥४५॥
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्
।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम्॥४६॥
अथ वेदीं समासाद्य नरः परमदुर्गमाम्
।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥४७॥
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत
।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः॥४८॥
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः
।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते॥४९॥
यदि तत्र वसेन्मासं शाकाहारो नराधिप
।
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्॥५०॥
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते
।
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत॥५१॥
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः
।
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम्॥५२॥
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते
।
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने॥५३॥
एककालं निराहारो लोकानावसते शुभान्
।
षष्ठकालोपवासेन मासमुष्य महालये॥५४॥
सर्वपापविशुद्दात्मा विन्देद्बहुसुवर्णकम्
।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम्॥५५॥
अथ वेतसिकां गत्वा पितामहनिषेविताम्
।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम्॥५६॥
औशनसीं गतिं शुक्रत्वम् ॥५६॥
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्
।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः॥५७॥
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः
।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥५८॥
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम्
।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह॥५९॥
नैमिषं मृगयानस्य पापस्यार्धं प्रणश्यति
।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते॥६०॥
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः
।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैमिषे॥६१॥
कृताभिषेकस्तत्रैव नियतो नियताशनः
।
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत॥६२॥
पुनात्यासप्तमं चैव कुलं भरतसत्तम
।
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः॥६३॥
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः
।
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम॥६४॥
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः
।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा॥६५॥
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः
।
सारस्वतेषु लोकेषु मोदते नात्र संशयः॥६६॥
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः
।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते॥६७॥
देवसत्रस्य यज्ञस्य फलं प्राप्नोति कौरव
।
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम्॥६८॥
पितृदेवार्चनपरो वाजपेयमवाप्नुयात्
।
विमलांशोकमासाद्य ब्रह्मचारी समाहितः॥६९॥
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते
।
गोप्रतारं ततो गच्छेत्सरय्वातीर्थमुत्तमम्॥७०॥
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः
।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा॥७१॥
रामस्य च प्रसादेन व्यवसायाच्च भारत
।
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप॥७२॥
व्यवसायात् निश्चयात् ॥७२॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
।
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन॥७३॥
अश्वमेधमवाप्नोति पुनाति च कुलं नरः
।
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ॥७४॥
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः
।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ॥७५॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्
।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः॥७६॥
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप
।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः॥७७॥
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम्
।
कपिलाह्रदे नरः स्नात्वा राजसूयमवाप्नुयात्॥७८॥
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह
।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया॥७९॥
प्राणानुत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः
।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम्॥८०॥
गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते
।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्॥८१॥
ततो गयां समासाद्य ब्रह्मचारी समाहितः
।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥८२॥
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः
।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते॥८३॥
महानद्यामुपस्पृश्य तपयेत्पितृदेवताः
।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत्॥८४॥
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्
।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम्॥८५॥
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः
।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्॥८६॥
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्
।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम्॥८७॥
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम्॥८८॥
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम्
।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत॥८९॥
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम
।
यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत॥९०॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः
।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्॥९१॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्
।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति॥९२॥
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम्
।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ॥९३॥
तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः
।
तेन ह्युपास्ता भवति संध्या द्वादशवार्षिकी॥९४॥
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात्॥९५॥
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः
।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः॥९६॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥९७॥
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप
।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्॥९८॥
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः
।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर॥९९॥
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा
।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत्॥१००॥
मतङ्गस्याश्रमस्तत्र महर्षेर्भावितात्मनः
।
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम्॥१०१॥
गवामयनयज्ञस्य फलं प्राप्नोति मानवः
।
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात्॥१०२॥
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम्
।
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ॥१०३॥
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः
।
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप॥१०४॥
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते
।
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः॥१०५॥
नित्यकं नैवेद्यं नैत्यकं च तदेव ॥१०५॥
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया
।
मणिनागं ततो गत्वा गोसहस्रफलं लभेत्॥१०६॥
तैर्थिकं भुञ्जते यस्तु मणिनागस्य भारत
।
दष्टस्याशीविषेणापि न तस्य क्रमते विषम्॥१०७॥
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
।
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं प्रियम्॥१०८॥
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम्
।
अभिगम्याश्रमं राजन्विन्दते श्रियमात्मनः॥१०९॥
तत्रोदपानं धर्मज्ञ त्रिषु लोकेषु विश्रुतम्
।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात्॥११०॥
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः
।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात्॥१११॥
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम्
।
वाजपेयमवाप्नोति सोमलोकं च गच्छति॥११२॥
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम्
।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति॥११३॥
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम्
।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति॥११४॥
ततोधिवङ्गं धर्मज्ञ समाविश्य ततो वनम्
।
गुह्यकेषु महाराज मोदते नात्र संशयः॥११५॥
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम्
।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति॥११६॥
अथ माहेश्वरीं धारां समासाद्य धराधिप
।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥११७॥
दिवौकसां पुष्करिणीं समासाद्य नराधिप
।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति॥११८॥
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः
।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्॥११९॥
तत्र कोटी तु तीर्थानां विश्रुता भरतर्षभ
।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना॥१२०॥
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना
।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर॥१२१॥
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति
।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च॥१२२॥
सदा सन्निहितो यत्र विष्णुर्वसति भारत
।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥१२३॥
आदित्या वसवो रुद्रा जनार्दनमुपासते
।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः॥१२४॥
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्
।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥१२५॥
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम्
।
समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा॥१२६॥
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात्
।
अभिगम्य महादेवं वरदं रुद्रमव्ययम्॥१२७॥
विराजति यथा सोमो मेघैर्मुक्तो नराधिप
।
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः॥१२८॥
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः
।
माहेश्वरपुरं गत्वा अर्चयित्वा वृषध्वजम्॥१२९॥
ईप्सिताँल्लभते कामानुपवासान्न संशयः
।
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्॥१३०॥
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात्
।
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम्॥१३१॥
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम्
।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः॥१३२॥
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम्
।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥१३३॥
अथ जेष्ठिलमासाद्य तीर्थं परमदुर्लभम्
।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥१३४॥
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्
।
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ॥१३५॥
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत्
।
कन्यासंवेद्यमासाद्य नियतो नयिताशनः॥१३६॥
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ
।
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत॥१३७॥
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः
।
ततो निर्वीरमासाद्य त्रिषु लोकेपु विश्रुतम्॥१३८॥
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
।
ये तु दानं प्रयच्छन्ति निर्वीरासंगमे नराः॥१३९॥
ते यान्ति नरशार्दूल शक्रलोकमनामयम्
।
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः॥१४०॥
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्
।
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्॥१४१॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
।
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्॥१४२॥
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः
।
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ॥१४३॥
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति
।
सर्वतीर्थवरे चैव यो वसेत महाह्रदे॥१४४॥
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम्
।
कुमारमभिगम्याथ वीराश्रमनिवासिनम्॥१४५॥
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः
।
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्॥१४६॥
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात्
।
अभिगम्य महादेवं वरदं विष्णुमव्ययम्॥१४७॥
पितामहसरो गत्वा शैलराजसमीपतः
।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात्॥१४८॥
पितामहस्य सरसः प्रस्रुता लोकपावनी
।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता॥१४९॥
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति
।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया॥१५०॥
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः
।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम्॥१५१॥
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत्
।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत्॥१५२॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
।
हयमेधमवाप्नोति शक्रलोकं च गच्छति॥१५३॥
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः
।
अश्वमेधवाप्नोति ब्रह्मलोकं च गच्छति॥१५४॥
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम्
।
नरमेधस्य यत्पुण्यं तदाप्नोति नराधिप॥१५५॥
कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः
।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते॥१५६॥
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः
।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुवि मानवः॥१५७॥
कोकामुखमुपस्पृश्य ब्रह्मचारी यतव्रतः
।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः॥१५८॥
प्राङ्नदीं च समासाद्य कृतात्मा भवति द्विजः
।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति॥१५९॥
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम्
।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते॥१६०॥
औद्दालकं महाराज तीर्थं मुनिनिषेवितम्
।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते॥१६१॥
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्
।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते॥१६२॥
अथ चम्पां समासाद्य भागीरथ्यां कृतोदकः
।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत्॥१६३॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां चतुरशीतितमोऽध्यायः॥८४॥
पुलस्त्य उवाच।
अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम्
।
उपस्पृश्य नरो विद्यां लभते नात्र संशयः॥१॥
अथेति ॥१॥
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा
।
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्॥२॥
करतोयां समासाद्य त्रिरात्रोपोषितो नरः
।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः॥३॥
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे
।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः॥४॥
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः
।
त्रिरात्रमुषितो राजन्सर्वापापैः प्रमुच्यते॥५॥
ततो वैतरणीं गच्छेत्सर्वपापप्रमोचनीम्
।
विरजं तीर्थमासाद्य विराजति यथा शशी॥६॥
प्रतरेच्च कुलं पुण्यं सर्वपापं व्यपोहति
।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः॥७॥
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः
।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्॥८॥
शोणस्य नर्मदायाश्च प्रभेदे कुरुनन्दन
।
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्॥९॥
ऋषभं तीर्थमासाद्य कोशलायां नराधिप
।
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः॥१०॥
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्
।
कोशलां तु समासाद्य कालतीर्थमुपस्पृशेत्॥११॥
वृषभैकादशफलं लभते नात्र संशयः
।
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः॥१२॥
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप
।
ततो बदरिकातीर्थं स्नात्वा भरतसत्तम॥१३॥
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति
।
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः॥१४॥
दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत्
।
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम्॥१५॥
वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते
।
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्॥१६॥
रामतीर्थे नरः स्नात्वा अश्वमेधफलं लभेत्
।
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन॥१७॥
तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत्
।
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्॥१८॥
अश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम्
।
श्रीपर्वते महादेवो देव्या सह महाद्युतिः॥१९॥
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह
।
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः॥२०॥
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
।
ऋषभं पर्वतं गत्वा पाण्ड्ये दैवतपूजितम्
।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते॥२१॥
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः
।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्॥२२॥
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्
।
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते॥२३॥
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्
।
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्॥२४॥
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
।
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः॥२५॥
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा
।
सरितः सागराः शैला उपासन्त उमापतिम्॥२६॥
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः
।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति॥२७॥
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः
।
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्॥२८॥
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्
।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप॥२९॥
निदर्शनमुदाहरणम् ॥२९॥
गायत्रीं पठते यस्तु योनिसंकरजस्तथा
।
गाथा च गाथिका चापि तस्य संपद्यते नृप॥३०॥
तदेवाह गायत्रीमिति । यो योनिसंकरजः स चेत्तत्र गायत्रीं पठति तस्य सम्यक् पठतोऽपि तीर्थमहात्म्यात्सा गायत्री गाथास्वरनियमहीना गद्यवन्मुखान्निःसरति । गाथिका ग्राम्यगीतवत् स्वरवर्णविकृता गीतिकेति पाठेऽपि स एवार्थः ॥३०॥
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति
।
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्॥३१॥
अब्राह्मणस्य तु प्राक् सिद्धापि तत्र न स्फुरतीति भावः ॥३१॥
रूपस्य भागी भवति सुभगश्च प्रजापते
।
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः॥३२॥
मयूरहंससंयुक्तं विमानं लभते नरः
।
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्॥३३॥
गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम्
।
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्॥३४॥
वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्
।
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः॥३५॥
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
।
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः॥३६॥
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्
।
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे॥३७॥
जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः
।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः॥३८॥
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत
।
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत्॥३९॥
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम्
।
पितृदेवार्चनरतो गोसहस्रफलं लभेत्॥४०॥
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत्
।
गोसहस्रफलं तस्य स्नातमात्रस्य भारत॥४१॥
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः
।
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः॥४२॥
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्
।
रामतीर्थे नरः स्नात्वा विन्द्याद्बहुसुवर्णकम्॥४३॥
सप्तगोदावरे स्नात्वा नियतो नियताशनः
।
महत्पुण्यमवाप्नोति देवलोकं च गच्छति॥४४॥
ततो देवपथं गत्वा नियतो नियताशनः
।
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः॥४५॥
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः
।
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा॥४६॥
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः
।
ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम्॥४७॥
ओंकारेण यथान्यायं सम्यगुच्चारितेन ह
।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम्॥४८॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः
।
हरिर्नारायणस्तत्र महादेवस्तथैव च॥४९॥
पितामहश्च भगवान्देवैः सह महाद्युतिः
।
भृगुं नियोजयामास याजनार्थे महाद्युतिम्॥५०॥
ततः स चक्रे भगवानृषीणां विधिवत्तदा
।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा॥५१॥
आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि
।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम्॥५२॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम
।
पापं प्रणश्यत्यखिलं स्त्रियो वा पुरुषस्य वा॥५३॥
तत्र मासं वसेद्धीरो नियतो नियताशनः
।
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत्॥५४॥
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्
।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति॥५५॥
अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम्
।
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्॥५६॥
यो स्नातः स्नापयेत्तत्र गिरौ कालञ्जरे नृप
।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः॥५७॥
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते
।
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम्॥५८॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्॥५९॥
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम्
।
यत्र नित्यं महासेनो गुहः सन्निहितो नृप॥६०॥
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिद्ध्यति
।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥६१॥
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः
।
अभिगम्य महादेवं विराजति यथा शशी॥६२॥
तत्र कूपे महाराज विश्रुता भरतर्षभ
।
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर॥६३॥
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः
।
नियतात्मा नरः पूतो गच्छेत परमां गतिम्॥६४॥
ततो गच्छेत राजेन्द्र शृङ्गवेरपुरं महत्
।
यत्र तीर्णो महाराज रामो दाशरथिः पुरा॥६५॥
तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते
।
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः॥६६॥
विधूतपाप्मा भवति वाजपेयं च विन्दति
।
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः॥६७॥
अभिगम्य महादेवमभिवाद्य च भारत
।
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्॥६८॥
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते
।
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्॥६९॥
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः
।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः॥७०॥
सनत्कुमारप्रमुखास्तथैव परमर्षयः
।
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोमलाः॥७१॥
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा
।
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च॥७२॥
चक्रचराः सूर्यादयः ॥७२॥
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
।
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी॥७३॥
वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता
।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता॥७४॥
यमुना गङ्गया सार्धं संगता लोकपावनी
।
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्॥७५॥
गङ्गायमुनयोरिति स्त्रीरूपायाः पृथिव्याः मेरुपृष्ठशीर्षायाः । हरिद्वारादारभ्य जघनं नाभेरधोभागः ॥७५॥
प्रयागं जघनस्थानमुपस्थमृषयो विदुः
।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा॥७६॥
जघनस्य स्थानमवस्थानं समाप्तिरन्त इति यावत् तदेवोपस्थम् । तथा च पृथिव्या अपत्यभूतानि तीर्थानि तत्फलभूताः स्वर्गाश्च तानि सर्वाणि प्रयागादुत्पन्नानीति प्रयागस्य तीर्थराजत्वमुक्तम् ॥७६॥
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः
।
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर॥७७॥
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः
।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः॥७८॥
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत
।
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो॥७९॥
गमनात्तस्य तीर्थस्य नामसंकीर्तनादपि
।
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते॥८०॥
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते
।
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः॥८१॥
एषा यजनभूमिर्हि देवानामभिसंस्कृता
।
तत्र दत्तं सूक्ष्ममपि महद्भवति भारत॥८२॥
न वेदवचनात्तात न लोकवचनादपि
।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति॥८३॥
न वेदवचनादिति । लोकवेदविरुद्धस्य हठमरणस्यापवादोऽयम् अहिंसाविधेरिव पश्वालम्भविधिरिति प्राञ्चः । वस्तुतस्तु वाराणसीमरणवद्यादृच्छिकमरणविषय एवायं ग्रन्थो न हठमरणप्रतिपादकः ‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति । ये वै तन्वं विसृजन्ति धीरास्तेजनासो अमृतत्वं भजन्ते । ब्रह्मज्ञानेन मुच्यन्ते प्रयागमरणेन च‘ इत्यादि श्रुतयः स्मृतयश्च तादृशा एव। हठमरणे ’जले वापि स्थले वापि शस्त्रेणोद्बध्य वा पुनः। नरकं ते प्रयान्त्याशु आत्मानं घातयन्ति ये‘ इति दोषस्मरणात् । न चास्यैवापवादः प्रयागमरणविधिरिति वाच्यम्। तस्य हठमरणपरत्वासिद्धेः। सिद्धौ वा अचिकित्स्यरोगादिदोषवतां भृगुपतनादिनापि मरणे प्राप्तेऽपि प्रयागमरणनियमविधिरयं भविष्यति न च काम्योऽयं मरणविधिर्नित्यस्य मरणनिषेधविधेर्बाधकः । काम्यत्वाच्च नायमुल्लङ्घने प्रत्यवायावह इति वाच्यम् । उक्तेऽर्थे बाधकाभावेऽपि वाक्यस्य हठमरणपरत्वमपूर्वविध्यर्थत्वं च कल्पयतो गौरवापत्तेः । अभ्युपगमे वा ब्राह्मणव्यतिरिक्तविषय एवायं विधिः । भृग्वादिपतनेन मरणमन्यत्र ब्राह्मणादिति स्मृतेः। युक्तं तु शुद्धशबलब्रह्मज्ञानयोरिव काशीप्रयागमरणयोः सद्योमुक्तिक्रममुक्तिपरत्वम्। तथा हि तीर्थमाहात्म्योपसंहारे ‘यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । सिद्धिक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम्’ इति गङ्गायास्तदाश्रितस्य सिद्धिक्षेत्रस्य च विज्ञेयत्वोक्त्या तयोरेव महत्तरत्वं दर्शितं तत्र यमुनया संगताया एव गङ्गाया अत्र ग्रहणं प्रयागप्रशंसाधिकारात् । प्रतिष्ठाने प्रतिष्ठिता तीर्थयात्रेत्युपसंहाराच्च । प्रतिष्ठाने प्रयागे सिद्धिक्षेत्रपदेन वाराणस्येव सिद्धिशब्दस्य निरुपपदस्य मुक्तिवाचित्वात् काश्याश्च मुक्तिक्षेत्रत्वप्रसिद्धेः । तदेवमध्यायचतुष्टयेऽपि भंग्यन्तरेण साक्षाद्वा काशीकीर्तनादुक्तविधोपसंहाराच्च पुष्करगङ्गाप्रयागादीनां सेवनं काशीप्राप्तिकरमिति । ‘अन्यानि तु पवित्राणि काशीप्राप्तिकराणि हि । काशीं प्राप्य विमुच्यन्ते नान्यथा कल्पकोटिभिः’ इत्यादिपूर्वोदाहृतपुराणान्तरसंवादेन सिद्धम् ॥८३॥
दश तीर्तसहस्राणि षष्टिः कोट्यस्तथापराः
।
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन॥८४॥
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्
।
स्नात एव तदाप्नोति गङ्गायमुनसंगमे॥८५॥
चतुर्विद्ये चतस्रो विद्याः वेदत्रयम् आत्मविद्या चेति विद्यन्तेऽस्मिन्स चतुर्विद्यस्तस्मिन् ॥८५॥
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्
।
तत्राभिषेकं यः कुर्यात्सोश्वमेधफलं लभेत्॥८६॥
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्
।
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन॥८७॥
कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता
।
विशेषो वै कनखले प्रयागे परमं महत्॥८८॥
यद्यकार्यशतं कृत्वा कृतं गङ्गावसेचनम्
।
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम्॥८९॥
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम्
।
द्वापरेपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता॥९०॥
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये
।
मलये त्वग्निमारोहेद्भृगुतुङ्गे त्वनाशनम्॥९१॥
पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च
।
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा॥९२॥
पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति
।
अवगाढा च पीता च पुनात्यासप्तमं कुलम्॥९३॥
यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम्
।
तावत्स पुरुषो राजन्स्वर्गलोके महीपते॥९४॥
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च
।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक्॥९५॥
न गङ्गासदृशं तीर्थं न देवः केशवात्परः
।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः॥९६॥
यत्र गङ्गा महाराज स देशस्तत्तपोकवनम्
।
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम्॥९७॥
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च
।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च॥९८॥
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमनुत्तमम्
।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम्॥९९॥
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्
।
अधीत्य द्विजमध्ये च निर्मलः स्वर्गमाप्नुयात्॥१००॥
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम्
।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम्॥१०१॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्
।
महीं विजयते राजा वैश्यो धनमवाप्नुयात्॥१०२॥
शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन्
।
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः॥१०३॥
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते
।
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च॥१०४॥
अगमानि अगम्यानि ॥१०४॥
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
।
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥१०५॥
समीक्षया दर्शनेच्छया ॥१०५॥
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः
।
एवं त्वमपि कौरव्य विधिनानेन सुव्रत॥१०६॥
व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन्
।
भावितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्॥१०७॥
भावितैः शुद्धैः करणैः इन्द्रियैः ॥१०७॥
प्राप्यन्ते तानि तीर्थानि सद्भिः शास्त्रानुदर्शिभिः
।
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः॥१०८॥
अकृतात्मा अवशीकृतचित्तः ॥१०८॥
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
।
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना॥१०९॥
पिता पितामहश्चैव सर्वे च प्रपितामहाः
।
पितामहपुरोगाश्च देवाः सर्षिगणा नृप॥११०॥
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः
।
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम
।
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुवि शाश्वतीम्॥१११॥
नारद उवाच
।
एवमुक्त्वाभ्यनुज्ञाय पुलस्त्यो भगवानृषिः
।
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत॥११२॥
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्
।
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे॥११३॥
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता
।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी॥११४॥
प्रतिष्ठाने प्रयागे प्रतिष्ठिता समाप्ता ॥११४॥
अनेन विधिना यस्तु पृथिवीं संचरिष्यति
।
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति॥११५॥
अश्वमेधेति अग्र्यम् । फलं क्रममुक्तिस्थानम् ‘उषा वा अश्वस्य शिरः’ इत्यादिश्रुतेः सोपानस्याश्वमेधस्य तत्प्रापकत्वावगमात् । सामान्यफलं तु ऐन्द्रपदप्राप्तिरिति प्रसिद्धम् ॥११५॥
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्
।
भीष्मः कुरूणां प्रवरो यथापूर्वमवाप्तवान्॥११६॥
अष्टगुणम् अणिमाद्यष्टगुणयुक्तं धर्मं धर्मफलम् ॥११६॥
नेता च त्वमृषीन्यस्मात्तेन तेष्टगुणं फलम्
।
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत
।
न गतानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन॥११७॥
हेतुमाह नेता चेति । गणफलेन तुल्यफलत्वान्नेतुरनन्तं फलमित्यर्थः ॥११७॥
इदं देवर्षिचरितं सर्वतीर्थाभिसंवृतम्
।
यः पठेत्कुल्यमुत्थाय सर्वपापैः प्रमुच्यते॥११८॥
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः
।
आत्रेयः कुण्डजठरो विश्वामित्रोथ गौतमः॥११९॥
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः
।
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा॥१२०॥
शौनकः सह पुत्रेण व्यासश्च तपतां वरः
।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः॥१२१॥
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः
।
एभिः सह महाराज तीर्थान्येतान्यनुव्रज॥१२२॥
एष ते लोमशो नाम महर्षिरमितद्युतिः
।
समेष्यति महाराज तेन सार्धमनुव्रज॥१२३॥
मयापि सह धर्मज्ञ तीर्थान्येतान्यनुक्रमात्
।
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः॥१२४॥
महाभिषः शान्तनुरूपेणावतीर्णः ॥१२४॥
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः
।
तथा त्वं राजशार्दूल स्वेन धर्मेण शोभसे॥१२५॥
यथा भगीरथो राजा यथा रामश्च विश्रुतः
।
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव॥१२६॥
रश्मिवान् सूर्यः ॥१२६॥
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः
।
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः॥१२७॥
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा
।
त्रैलोक्यं पालयामास देवराड्विगतज्वरः॥१२८॥
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि
।
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन॥१२९॥
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा॥१३०॥
वैशंपायन उवाच
।
एवमाश्वास्य राजानं नारदो भगवानृषिः
।
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत॥१३१॥
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन्
।
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत्॥१३२॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां नारदवाक्ये पञ्चाशीतितमोऽध्यायः॥८५॥
धौम्य उवाच
।
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै
।
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च॥१॥
उदीच्यामिति ॥१॥
शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो
।
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम्॥२॥
मन्त्रयतः कथयतः कथाप्रतिग्रहः कथाया मनसि धारणम् ॥२॥
सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी
।
समुद्रगा महावेगा यमुना यत्र पाण्डव॥३॥
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम्
।
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथैर्द्विजाः॥४॥
सारस्वतैः सरस्वत्यां प्राप्तैः ॥४॥
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ
।
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत॥५॥
सहदेवः सृंजयपुत्रः शम्याक्षेपेण बलवता क्षिप्ता शम्या लगुडविशेषो यावद्दूरं पतेत्तावान् यज्ञमण्डपो यस्मिन्यज्ञे स शम्याक्षेपस्तेन ॥५॥
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर
।
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः॥६॥
अग्नयः सहदेवेन ये चिता यमुनामनु
।
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः॥७॥
तत्रैव भरतो राजा चक्रवर्ती महायशाः
।
विंशतिः सप्त चाष्टौ च हयमेधानुपाहरत्॥८॥
विंशतिः विंशतिवारमावर्तिताः सप्त अष्टौ चेति अष्टाचत्वारिंशदधिकं शतम् । त्रयस्त्रिंशच्छतं राजेति तु श्रुतिः । विंशतिमिति पाठेत्यन्तहीनसंख्यत्वात् पञ्चत्रिंशत् ॥८॥
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा
।
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः॥९॥
सरस्वती नदी सद्भिः सततं पार्थ पूजिता
।
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा॥१०॥
दृषद्वती महापुण्या यत्र ख्याता युधिष्ठिर
।
न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्यो द्विपदां वर॥११॥
दाल्भ्यघोषश्च दाल्भ्याश्च धरणीस्थो महात्मनः
।
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः॥१२॥
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः
।
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप॥१३॥
एता कृष्णमृगी तद्वर्णौ कृष्णौ नरनारायणावित्यर्थः । वस्तुतस्त्ववर्णौ वर्णा लोहितशुक्लकृष्णाः रजःसत्त्वतमांसि तद्रहितौ ॥१३॥
वेदज्ञौ वेदविद्वांसौ वेदविद्याविदावुभौ
।
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम॥१४॥
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा
।
विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः॥१५॥
ऋषिर्महान्महाभागो जमदग्निर्महायशाः
।
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः॥१६॥
यत्र सर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम्
।
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे॥१७॥
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ
।
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः॥१८॥
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः
।
आगम्य सरितो विप्रान्मधुना समतर्पयन्॥१९॥
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च सेवितम्
।
किरातकिन्नरावासं शैलं शिखरिणां वरम्॥२०॥
बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर
।
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्॥२१॥
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा
।
पर्वतश्च पुरुर्नाम यत्र यातः पुरूरवाः॥२२॥
भृगुर्यत्र तपस्तेपे महर्षिगणसेविते
।
राजन्स आश्रमः ख्यातो भृगुतुङ्गो महागिरिः॥२३॥
यः स भूतं भविष्यच्च भवच्च भरतर्षभ
।
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः॥२४॥
तस्यातियशसः पुण्यां विशालां बदरीमनु
।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः॥२५॥
विशालां नामतः बवदरीमनु बदरीसमीपे ॥२५॥
उष्णतोयवहा गङ्गा शीततोयवहा पुरा
।
सुवर्णसिकता राजन्विशालां बदरीमनु॥२६॥
ऋषयो यत्र देवाश्च महाभागा महौजसः
।
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम्॥२७॥
यत्र नाराजणो देवः परमात्मा सनातनः
।
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च॥२८॥
तत्पुण्यं परमं ब्रह्म तत्तीर्थं तत्तपोवनम्
।
तत्परं परमं देवं भूतानां परमेश्वरम्॥२९॥
शाश्वतं परमं चैव धातारं परमं पदम्
।
यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः॥३०॥
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः
।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः॥३१॥
पुण्यानामपि तत्पुण्यमत्र ते संशयोऽस्तु मा
।
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते॥३२॥
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च
।
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥३३॥
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः
।
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः
।
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि॥३४॥
विहरिष्यसि परिहरिष्यसि ॥३४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि धौम्यतीर्थयात्रायां नवतितमोऽध्यायः॥९०॥
वैशंपायन उवाच
।
ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः
।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह॥१॥
तत इति । दुर्जयायां वातापिपुर्यां मणिमतीसंज्ञायाम् ॥१॥
तत्रैव लोमशं राजा पप्रच्छ वदतां वरः
।
अगस्त्येनेह वातापिः किमर्थमुपशामितः॥२॥
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः
।
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः॥३॥
लोमश उवाच
।
इल्वलो नाम दैतेय आसीत्कौरवनन्दना
।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः॥४॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः
।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु॥५॥
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्
।
चुक्रोध सोसुरस्तस्य ब्राह्मणस्य ततो भृशम्॥६॥
नादात् न दत्तवान् ॥६॥
तदाप्रभृति राजेन्द्र इल्वलो ब्रह्महाऽसुरः
।
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः॥७॥
मेषरूपी च वातापिः कामरूप्यभवत्क्षणात्
।
संस्कृत्य च भोजयति ततो विप्रं जिधांसति॥८॥
कामरूपी यथाकामं रूपाणि कर्तुं समर्थः संस्कृत्य पक्त्वा ॥८॥
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्
।
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत॥९॥
स च इल्वलश्च ॥९॥
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्
।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्॥१०॥
तामिल्वलेन महता स्वरेण वाचमीरिताम्
।
श्रुत्वातिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः॥११॥
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः
।
वातापिः प्रहसन्राजन्निश्चक्राम विशांपते॥१२॥
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः
।
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः॥१३॥
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु
।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्॥१४॥
सोपृच्छल्लम्बमानांस्तान्भगवन्तश्च कम्पिताः
।
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः॥१५॥
सोऽपृच्छदिति । तान् भवं लम्बमानेन रूपेण तेषामुद्भवम् अपृच्छत् । पृच्छतिर्द्विकर्मा । किमर्थं यूयं लम्बध्वमित्यपृच्छदित्यर्थः । ते ऋषयः कम्पिता इव सन्तस्ते तव सन्तानहेतोरयमस्माकं भव इति प्रत्यूचुरिति सम्बन्धः ॥१५॥
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः
।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः॥१६॥
एतस्यैव विवरणं ते तस्मा इति ॥१६॥
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्
।
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्॥१७॥
स तानुवाच तेजस्वी सत्यधर्मपरायणः
।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः॥१८॥
वः युष्माकं कामम् ईप्सितं करिष्ये ॥१८॥
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः
।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्॥१९॥
प्रसवसन्तानं सन्ततेरविच्छेदम् ॥१९॥
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्
।
संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्॥२०॥
तस्य तस्य सिंहमृगादेः अङ्गं कटिदृष्ट्यादि । सर्वगुणवतीमित्यर्थः ॥२०॥
स तां विदर्भराजाय पुत्रार्थं तप्यतस्तपः
।
निर्मितामात्मनोर्थाय मुनिः प्रादान्महातपाः॥२१॥
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा
।
विभ्राजमाना वपुषा व्यवर्धत शुभानना॥२२॥
जज्ञे जाता । सौदामनीति विशेष्यम् । विद्युदिति विशेषणं द्युतिविशेषोपपादनार्थम् । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोन्ये' इत्यादौ पिनाकपाणिपदम् ऊर्जितचापवत्त्वद्योतनार्थमुपक्षीणं सन्न विशेष्यसमर्पणायालमिति हरस्येति पृथक्प्रयुक्तं तद्वदिहापि ध्येयम् ॥२२॥
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत॥२३॥
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप
।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः॥२४॥
मुद्राणां तत्तन्मृगादिजातिगतानामसाधारणानां चिह्नानां कमनीयचक्षुष्ट्वादीनां लोप इव लोपस्तिरस्कारो यया सा लोपामुद्रा । आहिताग्न्यादिवत्पूर्वनिपातः । अन्येष्वपि दृश्यन्त इति दीर्घः । प्रकारान्तरेण योगे तु वेदे पदपाठलोप आमुद्रेत्यवग्रहः स्यात्स च न दृश्यते त उक्तविधैव व्युत्पत्तिर्युक्ता ॥२४॥
ववृधे सा महाराज बिभ्रती रूपमुत्तमम्
।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा॥२५॥
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः
।
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः॥२६॥
वशानुगाः इच्छानुरूपाः ॥२६॥
सा स्म दासीशतवृता मध्ये कन्याशतस्य च
।
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभा॥२७॥
यौवनस्थामपि च तां शीलाचारसमन्विताम्
।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः॥२८॥
सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति
।
तोषयामास पितरं शीलेन स्वजनं तथा॥२९॥
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता
।
मनसा चिन्तयामास कस्मै दद्यामिमां सुताम्॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्योपाख्याने षण्णवतितमोऽध्यायः॥९६॥
लोमश उवाच
।
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्
।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत्॥१॥
इल्वल इति ॥१॥
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा
।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना यदा॥२॥
ततो राजर्षयः सर्वे विषण्णा गतचेतसः
।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्॥३॥
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः
।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम्॥४॥
धुर्यासनमथासाद्य निषसाद महानृषिः
।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव॥५॥
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः
।
भुक्तवत्यसुरोह्वानमकरोत्तस्य चेल्वलः॥६॥
ततो वायुः प्रादुरभूदधस्तस्य महात्मनः
।
शब्देन महता तात गर्जन्निव यथा घनः॥७॥
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह
।
तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः॥८॥
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः
।
इल्वलस्तु विषण्णोभूद्दृष्ट्वा जीर्णं महासुरम्॥९॥
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्
।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः॥१०॥
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा
।
ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्॥११॥
एते च नातिधनिनो धनार्थश्च महान्मम
।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः॥१२॥
ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत्
।
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु॥१३॥
दित्सितं मया युष्मभ्यं दातुमिष्टम् । एतेन परचित्ताभिज्ञत्वमगस्त्यस्य परीक्षितम् ॥१३॥
अगस्त्य उवाच
।
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर
।
तावदेव सुवर्णस्य दित्सितं ते महासुर॥१४॥
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः
।
मनोजवौ वाजिनौ च दित्सितं ते महासुर॥१५॥
जिज्ञास्यतां रथः सद्यो व्यक्त एष हिरण्मयः
।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु॥१६॥
विरावश्च सुरावश्च तस्मिन्युक्तौ रथे हयौ
।
ऊहतुः सवसूनाशु तावगस्त्याश्रमं प्रति॥१७॥
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत
।
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा
।
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम्॥१८॥
लोपामुद्रोवाच
।
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्
।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्॥१९॥
अगस्त्य उवाच
।
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने
।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु॥२०॥
सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम्
।
दश वा शततुल्याः स्युरेको वापि सहस्रजित्॥२१॥
दशसम्मितं दशशतसम्मितम् ॥२१॥
लोपामुद्रोवाच
।
सहस्रसंमितः पुत्र एकोऽप्यस्तु तपोधन
।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः॥२२॥
लोमश उवाच
।
स तथेति प्रतिज्ञाय तया समभवन्मुनिः
।
समये समशीलिन्या श्रद्धावाञ्च्छ्रद्दधानया॥२३॥
समभवत्सङ्गमं चकार ॥२३॥
तत आधाय गर्भं तमगमद्वनमेव सः
।
तस्मिन्वनगते गर्भो ववृधे सप्तशारदान्॥२४॥
शारदान् शरदा ऋतुना युक्तान् संवत्सरानित्यर्थः ॥२४॥
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः
।
ज्वलन्निव प्रभावेण दृढस्युर्नाम भारत॥२५॥
प्राच्यवत् उदरान्निर्गतोऽभवदित्यर्थः ॥२५॥
साङ्गोपनिषदान्वेदाञ्जपन्निव महातपाः
।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः॥२६॥
स बाल एव तेजस्वी पितुस्तस्य निवेशने
।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्॥२७॥
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा
।
एवं स जनयामास भारतापत्यमुत्तमम्॥२८॥
युक्तम् अध्ययनेध्मवाहनादौ ॥२८॥
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान्
।
तत ऊर्ध्वमयं ख्यातस्त्वगस्त्यस्याश्रमो भुवि॥२९॥
प्राह्लादिरेवं वातापिरगस्त्येनोपशामितः
।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः॥३०॥
प्राह्रादिः प्रह्रादगोत्रोद्भवः ॥३०॥
एषा भागीरथी पुण्या देवगन्धर्वसेविता
।
वातेरिता पताकेव विराजति नभस्तले॥३१॥
प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः
।
शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव॥३२॥
शिलानां तलेषु अधोभागेषु सन्त्रस्ता लीना तेन पातालगामित्वमुक्तम् । शेषेण स्वर्गभूगतत्वमिति त्रिपथगात्वमुक्तं गङ्गायाः ॥३२॥
दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत्
।
पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया
।
अस्यां नद्यां सुपुण्यायां यथेष्टमवगाह्यताम्॥३३॥
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम्
।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम्॥३४॥
यत्रोपस्पृष्टवान्रामो हृतं तेजस्तदाप्तवान्
।
अत्र त्वं भ्रातृभिः सार्धं कृष्णया चैव पाण्डव॥३५॥
रामः जामदग्न्यः हृतं दाशरथिरामेण ॥३५॥
दुर्योधनहृतं तेजः पुनरादातुमर्हसि
।
कृतवैरेण रामेण यथा कचोपहृतं पुनः॥३६॥
वैशंपायन उवाच
।
स तत्र भ्रातृभिश्चैव कृष्णया चैव पाण्डवः
।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत॥३७॥
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ
।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ॥३८॥
तस्य युधिष्ठिरस्य । तीर्थस्य तीर्थे स्नातस्य ॥३८॥
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः
।
भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो
।
कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः॥३९॥
वपुः तेजः ॥३९॥
लोमश उवाच
।
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः
।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः॥४०॥
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै
।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः॥४१॥
ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः
।
तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः॥४२॥
दाशरथेः श्रुत्वा धनुर्भञ्जनादिपराक्रममिति शेषः कर्मणि वा षष्ठी ॥४२॥
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः
।
धनुरादाय तद्दिव्यं क्षत्रियाणां निबर्हणम्॥४३॥
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा
।
तं वै दशरथः श्रुत्वा विषयान्तमुपागतम्॥४४॥
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम्
।
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम्॥४५॥
प्रहसन्निव कौन्तेय रामो वचनमब्रवीत्
।
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो॥४६॥
कृतकालं कृताः हिंसिताः कालतुल्याः क्षत्रिया येन तद्धनुः। कृ हिंसायां स्वादेरिदं रूपम्॥४६॥
समारोपय यत्नेन यदि शक्नोषि पार्थिव
।
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि॥४७॥
नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु
।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम्॥४८॥
बाहुवीर्ये विषये न कत्थनं श्लाघनं नास्ति ॥४८॥
तमेवंवादिनं तत्र रामो वचनमब्रवीत्
।
अलं वै व्यपदेशेन धनुरायच्छ राघव॥४९॥
व्यपदेशेन उक्त्या ॥४९॥
ततो जग्राह रोषेण क्षत्रियर्षभमूदनम्
।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम्॥५०॥
धनुरारोपयामास सलील इव भारत
।
ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्॥५१॥
तस्य शब्दस्य भूतानि वित्रसन्त्यशनेरिव
।
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा॥५२॥
इदमारोपितं ब्रह्मन्किमन्यत्करवाणि ते
।
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः
।
शरमाकर्णदेशान्तमयमाकृष्यतामिति॥५३॥
लोमश उवाच
।
एतच्छ्रुत्वाब्रवीद्रामः प्रदीप्त इव मन्युना
।
श्रूयते क्षम्यते चैव दर्पपूर्णोऽसि भार्गव॥५४॥
श्रूयते चकाराद्दृश्यते च । तव दर्पयुक्तत्वमिति शेषः। अथापि क्षम्यते ॥५४॥
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः
।
पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम्॥५५॥
क्षत्रियेभ्यः क्षत्रियान् जित्वा ॥५५॥
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम्
।
ततो रामशरीरे वै रामः पश्यति भार्गवः॥५६॥
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान्
।
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा॥५७॥
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च
।
ऋषयो वालखिल्याश्च ब्रह्मभूताः सनातनाः॥५८॥
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा
।
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः॥५९॥
चेतोमन्ति च सामानि धनुर्वेदश्च भारत
।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर॥६०॥
चेतोमन्ति चेतनावन्ति । आर्षं पदत्वप्रयुक्तं रुत्वम् । चेतस्वन्तीत्यपेक्षितम् ॥६०॥
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह
।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत॥६१॥
पांसुवर्षेण महता मेघवर्षैश्च भूतलम्
।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि॥६२॥
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम्
।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः॥६३॥
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम्
।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम्॥६४॥
विष्णुना सोऽभ्यनुज्ञातो महेन्द्रमगमत्पुनः
।
भीतस्तु तत्र न्यवसद्व्रीडितस्तु महातपाः॥६५॥
ततः संवत्सरेऽतीते हृतौजसमवस्थितम्
।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन्॥६६॥
पितर ऊचुः
।
न वै सम्यगिदं पुत्र विष्णुमासाद्य वै कृतम्
।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा॥६७॥
गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम्
।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि॥६८॥
दीप्तोदं नाम तत्तीर्थं यत्र ते प्रतितामहः
।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः॥६९॥
तत्तथा कृतवान्रामः कौन्तेयवचनात्पितुः
।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन॥७०॥
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा
।
प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा॥७१॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां जामदग्न्यतेजोहानिकथने एकोनशततमोऽध्यायः॥९९॥
लोमश उवाच।
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः
।
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ॥१॥
एतच्छ्रुत्वेति ॥१॥
एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः
।
घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः॥२॥
धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः
।
ततः कालेन महता समुत्तस्थुर्महाबलाः॥३॥
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः
।
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव॥४॥
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः
।
बहुत्वाच्चावजानन्तः सर्वांल्लोकान्सहामरान्॥५॥
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्
।
सर्वाणि चैव भूतानि शूराः समरशालिनः॥६॥
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः
।
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः॥७॥
तानुवाच महाभागः सर्वलोकपितामहः
।
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्॥८॥
नातिदीर्धेण कालेन सागराणां क्षयो महान्
।
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः॥९॥
एवमुक्तास्तु ते देवा लोकाश्च मनुजेश्वर
।
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्॥१०॥
ततः काले बहुतिथे व्यतीते भरतर्षभ
।
दीक्षितः सगरो राजा हयमेधेन वीर्यवान्॥११॥
तस्याश्वो व्यचरद्भूमिं पुत्रैः स परिरक्षितः
।
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्॥१२॥
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत
।
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्॥१३॥
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्
।
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्॥१४॥
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्
।
अमार्गन्त महाराज सर्वं च पृथिवीतलम्॥१५॥
ततस्ते सागराः सर्वे समुपेत्य परस्परम्
।
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च॥१६॥
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
।
ससमुद्रवनद्वीपा सनदीनदकन्दरा॥१७॥
सपर्वतवनोद्देशा निखिलेन मही नृप
।
अस्माभिर्विचिता राजञ्च्छासनात्तव पार्थिव॥१८॥
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च
।
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्च्छितः॥१९॥
उवाच वचनं सर्वांस्तदा दैववशान्नृप
।
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्॥२०॥
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः
।
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः॥२१॥
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः
।
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्॥२२॥
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः
।
कुद्दालैर्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः॥२३॥
ह्रेषुकैः ह्रेषयति सर्पयत्येभिरिति मृत्तिकोत्क्षेपणैः सदण्डैर्लोहपत्रैः । ह्रेषृ प्रसर्पणेऽस्य रूपम् ॥२३॥
स खन्यमानः सहितैः सागरैर्वरुणालयः
।
अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः॥२४॥
सागरैः सगरसमूहैः ॥२४॥
असुरोरगरक्षांसि सत्त्वानि विविधानि च
।
आर्तनादमकुर्वन्त वध्यमानानि सागरैः॥२५॥
छिन्नशीर्षा विदेहाश्च भिन्नत्वगस्थिसंधयः
।
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः॥२६॥
एवं हि खनतां तेषां समुद्रं वरुणालयम्
।
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत॥२७॥
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते
।
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः॥२८॥
पूर्वोत्तरे ऐशान्याम् ॥२८॥
अपश्यन्त हयं तत्र विचरन्तं महीतले
।
कपिलं च महात्मानं तेजोराशिमनुत्तमम्
।
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम्॥२९॥
ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः
।
अनादृत्य महात्मानं कपिलं कालचोदिताः॥३०॥
संक्रुद्धाः संप्रधावन्त अश्वग्रहणकाङ्क्षिणः
।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः॥३१॥
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्
।
स चक्षुर्विकृतं कृत्वा तेजस्तेषु समुत्सृजन्॥३२॥
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्
।
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः॥३३॥
सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत्
।
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्॥३४॥
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्
।
अंशुमन्तं समाहूय असमञ्जः सुतं तदा॥३५॥
पौत्रं भरतशार्दूल इदं वचनमब्रवीत्
।
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्॥३६॥
कापिलं तेज आसाद्य मत्कृते निधनं गताः
।
तव चापि पिता तात परित्यक्तो मयानघ
।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता॥३७॥
युधिष्ठिर उवाच।
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्
।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन॥३८॥
लोमश उवाच।
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्
।
यं शैब्या जनयामास पौराणां स हि दारकान्॥३९॥
गलेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान्
।
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः॥४०॥
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः
।
त्वं नस्राता महाराज परचक्रादिभिर्भयात्॥४१॥
असमञ्जो भयाद्धोरात्ततो नस्त्रातुमर्हसि
।
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः॥४२॥
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्
।
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्॥४३॥
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्
।
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप॥४४॥
यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः
।
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना॥४५॥
पौराणां हितकामेन सगरेण विवासितः
।
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि
।
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे॥४६॥
सगर उवाच।
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च
।
अलाभेन तथाश्वस्य परितप्यामि पुत्रक॥४७॥
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्
।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर॥४८॥
अंशुमानेवमुक्तस्तु सगरेण महात्मना
।
जगाम दुःखात्तं देशं यत्र वै दारिता मही॥४९॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह
।
अपश्यच्च महात्मानं कपिलं तुरगं च तम्॥५०॥
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्
।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्॥५१॥
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत्
।
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत॥५२॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्
।
द्वितीयं वरकं वव्रे पितॄणां पावनेच्छया॥५३॥
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः
।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ॥५४॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्
।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता॥५५॥
तव चैव प्रभावेण स्वर्गं यास्यन्ति सागराः
।
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिप्यति॥५६॥
पावनार्थं सागराणां तोषयित्वा महेश्वरम्
।
हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव॥५७॥
यज्ञः समाप्यतां तात सगरस्य महात्मनः
।
अंशुमानेवमुक्तस्तु कपिलेन महात्मना॥५८॥
आजगाम हयं गृह्य यज्ञवाटं महात्मनः
।
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः॥५९॥
मूर्ध्नि तेनाऽप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्
।
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा॥६०॥
तं चास्मै हयमाचष्ट यक्षवाटमुपागतम्
।
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्॥६१॥
अंशुमन्तं च संपूज्य समापयत तं क्रतुम्
।
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः॥६२॥
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
।
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः॥६३॥
पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा
।
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्॥६४॥
प्रशशास महाराज यथैवास्य पितामहः
।
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्॥६५॥
तस्मै राज्यं समाधाय अंशुमानपि संस्थितः
।
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्॥६६॥
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्
।
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः॥६७॥
न चावतारयामास चेष्टमानो यथाबलम्
।
तस्य पुत्रः समभवछ्रीमान्धर्मपरायणः॥६८॥
भगीरथ इति ख्यातः सत्यवागनसूयकः
।
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः॥६९॥
तपःसिद्धिसमायोगात्स राजा भरतर्षभ
।
वनाज्जगाम त्रिदिवं कालयोगेन भारत॥७०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अगस्त्यमाहात्म्यकथने सप्ताधिकशततमोऽध्यायः॥१०७॥
वैशंपायन उवाच।
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
।
नन्दामपरनन्दां च नद्यौ पापभयापहे॥१॥
तत इति ॥१॥
पर्वतं स समासाद्य हेमकूटमनामयम्
।
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः॥२॥
भावान्पदार्थान् ॥२॥
वाताबद्धा भवन्मेघा उपलाश्च सहस्रशः
।
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः॥३॥
वाताबद्धा वातेनाबद्धाः मेघाः उपलाश्च भवन् । वातं विनैव सहसा मेघाः शिलाश्च प्रयुज्यन्ते इत्यर्थः। भवन्नित्यडभाव आर्षः । वाचा यत्र भवन्निति पाठे शब्दोच्चारणेनैव यत्र मेधा उपलाश्च हे भवन् भासमान आविर्भवन्तीति शेषः ॥३॥
वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति
।
स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते॥४॥
न च दृश्यतेऽध्येता ॥४॥
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः
।
मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः॥५॥
निर्वेदो जायते तत्र गृहाणि स्मरते जनः
।
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः
।
लोमशं पुनरेवाथ पर्यपृच्छत्तदद्भुतम्॥६॥
निर्वेदो गिरिदर्शने वैराग्यम् । गृहाणि स्त्र्यादीनि ॥६॥
लोमश उवाच।
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन
।
तदेकाग्रमना राजन्निबोध गदतो मम॥७॥
पृष्टश्च लोमश उवाच यथाश्रुतमिति ॥७॥
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः
।
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्॥८॥
ऋषभकूटे ऋषभाश्रिते शैलशृङ्गे ॥८॥
स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह
।
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तथा॥९॥
वातं चाहूय मा शब्दमित्युवाच स तापसः
।
व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते॥१०॥
मा शब्दं कुरु इति शेषः ॥१०॥
एवमेतानि कर्माणि राजंस्तेन महर्षिणा
।
कृतानि कानिचित्क्रोधात्प्रतिषिद्धानि कानिचित्॥११॥
नन्दां त्वभिगता देवाः पुरा राजन्निति श्रुतिः
।
अन्वपद्यन्त सहसा पुरुषा देवदार्शनः॥१२॥
अन्वपद्यन्त अनुगतवन्तः । देवदर्शिनः देवदर्शनार्थिनः ॥१२॥
ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः
।
दुर्गं चक्रुरिमं देशं गिरिं प्रत्यूहरूपकम्॥१३॥
प्रत्यूहरूपकं दर्शने विघ्नरूपम् ॥१३॥
तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा
।
नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्॥१४॥
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः
।
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव॥१५॥
नियतावाङ् मौनवान् ॥१५॥
इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान्
।
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत॥१६॥
कुशाकारेव दूर्वेयं संस्तीर्णव च भूरियम्
।
यूपप्रकारा बहवो वृक्षाश्चेमे विशांपते॥१७॥
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत
।
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः॥१८॥
इहाप्लुतानां कौन्तेय सद्यः पाप्माभिहन्यते
।
कुरुश्रेष्ठाभिषेकं वै तस्मात्त्कुरु सहानुजः॥१९॥
हे कुरुश्रेष्ठ ॥१९॥
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि
।
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्॥२०॥
वैशंपायन उवाच।
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः
।
जगाम कौशिकीं पुण्यां रम्यां शीतजलां शुभाम्॥२१॥
लोमश उवाच।
एषा देवनदी पुण्या कौशिकी भरतर्षभ
।
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते॥२२॥
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः
।
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः॥२३॥
काश्यपस्य विभाण्डकस्य । ऋश्येति तालव्यादिः । मूर्धन्यादिपाठः प्रामादिकः । ऋश्यो मृगस्तस्येव शृङ्गमस्यास्तीति ऋश्यशृङ्गः । ऋश्यो न तुष्यन्निति मन्त्रवर्णात् ॥२३॥
तपसो यः प्रभावेण वर्षयामास वासवम्
।
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा॥२४॥
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः
।
विषये लोमपादस्य यश्चकाराद्भुतं महत्॥२५॥
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः
।
लोमपादो दुहितरं सावित्रीं सविता यथा॥२६॥
युधिष्ठिर उवाच।
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः
।
विरुद्धे योनिसंसर्गे कथं च तपसा युतः॥२७॥
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः
।
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा॥२८॥
कथंरूपा च सा शान्ता राजपुत्री यतव्रता
।
लोभयामास या चेतो मृगभूतस्य तस्य वै॥२९॥
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः
।
कथं वै विषये तस्य नावर्षत्पाकशासनः॥३०॥
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्
।
वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम्॥३१॥
शुश्रूषोर्मे इति संबन्धः ॥३१॥
लोमश उवाच।
विभाण्डकस्य विप्रर्षेस्तपसा भावितात्मनः
।
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः॥३२॥
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्
।
महार्हस्य महातेजा बालः स्थविरसंमतः॥३३॥
महार्हस्य अतिपूज्यस्य ॥३३॥
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः
।
दीर्घकालं परिश्रान्त ऋषिः स देवसम्मितः॥३४॥
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्
।
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा॥३५॥
सह तोयेन तृषिता गर्भिणी चाभवत्ततः
।
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा॥३६॥
तोयेन सहापिबदित्यन्वयः ॥३६॥
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे
।
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्॥३७॥
सूय प्रसूय । विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ॥३७॥
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः
।
ऋश्यशृङ्गस्तपो नित्यो वन एवाभ्यवर्तत॥३८॥
तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महात्मनः
।
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्॥३९॥
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः
।
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप॥४०॥
एतस्मिन्नेव काले तु सखा दशरथस्य वै
।
लोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥४१॥
अङ्गानां देशानाम् ॥४१॥
तेन कामात्कृतं मिथ्या ब्राह्मणस्येति नः श्रुतिः
।
स ब्राह्मणैः परित्यक्तस्ततो वै जगतः पतिः॥४२॥
तेन कामात् बुद्धिपूर्वम् । ब्राह्मणस्य प्रतिश्रुत्येति शेषः । मिथ्या कृतं मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ॥४२॥
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया
।
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः॥४३॥
तत्र हेतुः पुरोहितस्य अपचारो दोषः सोऽपि यदृच्छया ब्राह्मणापराधाभावेऽपि स्वेच्छया कृतः ॥४३॥
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः
।
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते॥४४॥
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम्
।
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः॥४५॥
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह
।
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर॥४६॥
निष्कृतिं प्रायश्चित्तम् ॥४६॥
ऋश्यश्रृङ्गं मुनिसुतमानयस्व च पार्थिव
।
वानेयमनभिज्ञं च नारीणामार्जवे रतम्॥४७॥
वानेयं वनभवम् ॥४७॥
स चेदवतरेद्राजन्विषयं ते महातपाः
।
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः॥४८॥
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः
।
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु॥४९॥
राजानमागतं श्रुत्वा प्रतिसंजहृषुः प्रजाः
।
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्॥५०॥
ऋश्यश्रृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये
।
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः॥५१॥
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः
।
ततश्चानाययामास वारमुख्या महीपतिः॥५२॥
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः
।
ऋश्यश्रृङ्गमृषेः पुत्रमानयध्वमुपायतः॥५३॥
सर्वत्र परवञ्चनादौ । निष्णाताः कुशलाः ॥५३॥
लोभयित्वाभिविश्वास्य विषयं मम शोभनाः
।
ता राजभयभीताश्च शापभीताश्च योषितः॥५४॥
अशक्यमुचुस्तत्कार्यं विवर्णा गतचेतसः
।
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्॥५५॥
जरद्योषा वृद्धा स्त्री ॥५५॥
प्रयतिष्ये महाराज तमानेतुं तपोधनम्
।
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि॥५६॥
ततः शक्ष्याम्यानयितुम्मृश्यशूङ्गमृषेः सुतम्
।
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः॥५७॥
अन्वजानात् अनुज्ञातवान् ॥५७॥
धनं च प्रददौ भूरि रत्नानि विविधानि च
।
ततो रूपेण संपन्ना वयसा च महीपते
।
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा॥५८॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् ऋश्यशृङ्गोपाख्याने दशाधिकशततमोऽध्यायः॥११०॥
वैशंपायन उवाच।
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः
।
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह॥१॥
स इति ॥१॥
लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान्
।
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान्॥२॥
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः
।
रामस्यानुचरं वीरमपृच्छदकृतव्रणम्॥३॥
कदा तु रामो भगवांस्तापसान्दर्शयिष्यति
।
तेनैवाहं प्रसंगेन द्रष्टुमिच्छामि भार्गवम्॥४॥
अकृतव्रण उवाच।
आयानेवासि विदितो रामस्य विदितात्मनः
।
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति॥५॥
आयान् आगच्छन् ॥५॥
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः
।
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी॥६॥
युधिष्ठिर उवाच।
भवाननुगतो रामं जामदग्न्यं महाबलम्
।
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः॥७॥
स भवान्कथयत्वद्य यथा रामेण निर्जिताः
।
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना॥८॥
अकृतव्रण उवाच।
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्
।
भृगूणां राजशार्दूल वंशे जातस्य भारत॥९॥
रामस्य जामदग्न्यस्य चरितं देवसंमितम्
।
हैहयाधिपतेश्चैव कार्तवीर्यस्य भारत॥१०॥
रामेण चार्जुनो नाम हैहयाधिपतिर्हतः
।
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव॥११॥
दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा
।
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते॥१२॥
अव्याहतगतिश्चैव रथस्तस्य महात्मनः
।
रथेन तेन तु सदा वरदानेन वीर्यवान्॥१३॥
ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः
।
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः॥१४॥
ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः
।
देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम्॥१५॥
भगवन्भूतरक्षार्थमर्जुनं जहि वै प्रभो
।
विमानेन च दिव्येन हैहयाधिपतिः प्रभुः॥१६॥
शचीसहायं क्रीडन्तं धर्षयामास वासवम्
।
ततस्तु भगवान्देवः शक्रेण सहितस्तदा
।
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत॥१७॥
यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम्
।
संप्रतिश्रुत्य तत्सर्वं भगवाँल्लोकपूजितः॥१८॥
जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम्
।
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः॥१९॥
कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः
।
गाधीति विश्रुतो लोके वनवासं जगाम ह॥२०॥
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा
।
ऋचीको भार्गवस्तां च वरयामास भारत॥२१॥
तमुवाच ततो गाधिर्बाह्मणं संशितव्रतम्
।
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम्॥२२॥
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्
।
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम॥२३॥
न चापि भगवान्वाच्यो दीयतामिति भार्गव
।
देया मे दुहिता चैव त्वद्विधाय महात्मने॥२४॥
ऋचीक उवाच।
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्
।
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते॥२५॥
एकत इति । बहिः श्यामाः अन्तरा रक्ताः कर्णा येषां ते एकतः श्यामकर्णास्तेषाम् ॥२५॥
अकृतव्रण उवाच।
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्
।
एकतः श्मामकर्णानां पाण्डुराणां तरस्विनाम्॥२६॥
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम्
।
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा॥२७॥
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः
।
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा॥२८॥
ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा
।
लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः॥२९॥
जन्याः वरपक्षीयाः ॥२९॥
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः
।
यथाकामं यथाजोषं तया रेमे सुमध्यया॥३०॥
तं विवाहे कृते राजन्सभार्यमवलोककः
।
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननर्द ह॥३१॥
अवलोककः अवलोकनार्थी ॥३१॥
भार्यापती तमासीनं गुरुं सुरगणार्चितम्
।
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा॥३२॥
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्
।
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्॥३३॥
सा वै प्रसादयामास तं गुरुं पुत्रकारणात्
।
आत्मनश्चैव मातुश्च प्रसादं च चकार सः॥३४॥
भृगुरुवाच।
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै
।
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम्॥३५॥
चरुद्वयमिदं भद्रे जनन्याश्च तवैव च
।
विश्वमावर्तयित्वा तु मया यत्नेन साधितम्॥३६॥
विश्वं विराट्पुरुषम् आवर्तयित्वा मुहुर्मुहुरनुसंधाय एतयोश्चर्वोर्भक्षणेन विश्वस्त्रष्टृतुल्यौ पुत्रौ भविष्यत इति भावः ॥३६॥
प्राशितव्यं प्रयत्नेन तेत्युक्त्वादर्शनं गतः
।
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम्॥३७॥
ते उभे प्रति इत्युक्त्वेतीकारलोपः सन्धिर्वा आर्षः । आलिङ्गने अश्वत्थोदुम्बरयोः ॥३७॥
ततः पुनः स भगवान्काले बहुतिथे गते
।
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः॥३८॥
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम्
।
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्॥३९॥
विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता
।
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति॥४०॥
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्
।
भविष्यति महावीर्यः साधूनां मार्गमास्थितः॥४१॥
ततः प्रसादयामास श्वशुरं सा पुनः पुनः
।
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति॥४२॥
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता
।
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते॥४३॥
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्
।
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च॥४४॥
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत
।
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ
।
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्॥४५॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कार्तवीर्योपाख्याने पञ्चदशाधिकशततमोऽध्यायः॥११५॥
सात्यकिरुवाच।
न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे
।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित्॥१॥
न रामेति ॥१॥
ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्त
।
तेषां तु कार्येषु भवन्ति नाथाः शिब्यादयो राम यथा ययातेः॥२॥
नाथवन्तः ऐश्वर्यवन्तः । ‘भावे घञ्’ । नात्मना न स्वयम् । नाथाः कार्यसाधकाः । शिष्यादय इत्येव पाठः । शैब्यादय इति पाठे तु स्वार्थे ष्यञ् ॥२॥
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके
।
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति॥३॥
तस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ
।
वसन्त्यरण्ये सहसोदरीयैस्त्रैलोक्यनाथानाभिगम्य पार्थाः॥४॥
निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा
।
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः॥५॥
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा
।
सधार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः॥६॥
भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः
।
यदर्थमैच्छन्मनुजाः सुपुत्रं शिष्यं गुरुं चाप्रतिकूलवादम्॥७॥
स पार्थोऽपि तिष्ठत्विति पूर्वेणान्वयः । यदर्थं शत्रुवधार्थम् ॥७॥
यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम्
।
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय॥८॥
तत् सुपुत्रादिकम् । अस्माकमस्तीति शेषः ॥८॥
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम
।
खड्गेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य॥९॥
ततोऽस्य सर्वाननुगाह्ननिष्ये दुर्योधनं चापि कुरूंश्च सर्वान्
।
आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः॥१०॥
भैमाः भीमकर्मकर्तारः भीमवंशजा वा ॥१०॥
निघ्नन्तमेकं कुरुयोधमुख्यानग्निं महाकक्षमिवान्तकाले
।
प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः॥११॥
जानामि वीर्यं च जयात्मजस्य कार्ष्णिर्भवत्येव यथा रणस्थः
।
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य॥१२॥
जयात्मजस्याभिमन्योः ॥१२॥
न विद्यते जाम्बवतीसुतस्य रणे विषह्यं हि रणोत्कटस्य
।
एतेन बालेन हि शंबरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्॥१३॥
वृत्तोरुरत्यायतपीनबाहुरेतेन संख्ये निहतोऽश्वचक्रः
।
को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात्॥१४॥
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत
।
तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन्पुनराव्रजेच्च॥१५॥
द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम्
।
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः॥१६॥
किं नाम लोकेषु विषह्यमस्ति कृष्णस्य सर्वेषु सदेवकेषु
।
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे॥१७॥
ततो निरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः
।
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु॥१८॥
गदोल्मुकौ बाहुकभानुनीथाः शूरश्च संख्ये निशठः कुमारः
।
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म॥१९॥
सवृष्णिभोजान्धकयोधमुख्या समागता सात्वतशूरसेना
।
हत्वा रणे तान्धृतराष्ट्रपुत्राल्लोके यशः स्फीतमुपाकरोतु॥२०॥
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः
।
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन॥२१॥
अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः
।
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम्॥२२॥
वासुदेव उवाच।
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व
।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित्॥२३॥
माधव मधुदेशो मथुराप्रदेशस्तत्र जातः ॥२३॥
न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम्
।
भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम्॥२४॥
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च
।
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम्॥२५॥
यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च
।
युध्येम विक्रम्य रणे समेतास्तदैव सर्वे रिपवो हि न स्युः॥२६॥
युधिष्ठिर उवाच।
नेदं चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम्
।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्॥२७॥
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य
।
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च॥२८॥
प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोऽस्मि नाथैर्नरलोकनाथैः
।
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान्॥२९॥
तेऽन्योऽन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशुंश्च सर्वान्
।
यदुप्रवीराः स्वगृहाणि जग्मुस्ते चापि तीर्थान्यनुसंविचेरुः॥३०॥
विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम्
।
जगाम पुण्यां सरितं पयोष्णीं सभ्रातृभृत्यः सह लोमशेन॥३१॥
सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोऽध्युवास
।
द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः॥३२॥
सुतेन अभिषुतेन । यज्ञे सोमपानतुल्यं तज्जलपानमित्यर्थः । पयोष्णी प्रति पयोष्ण्यां पयोमात्रम् अध्युवास भक्षितवान् ॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां यादवगमने विंशत्यधिकशततमोऽध्यायः॥१२०॥
युधिष्ठिर उवाच।
मांधाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः
।
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः॥१॥
यौवनाश्वः युवनाश्वपुत्रः ॥१॥
कथं चैनां परां काष्ठां प्राप्तवानमितद्युतिः
।
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः॥२॥
परां काष्ठां स्वर्गिष्वेव श्रेष्ठं स्थानम् ॥२॥
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः
।
यथा मांधातृशब्दश्च तस्य शक्रसमद्युतेः
।
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्॥३॥
लोमश उवाच।
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः
।
यथा मांधातृशब्दो वै लोकेषु परिगीयते॥४॥
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः
।
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः॥५॥
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः
।
अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः॥६॥
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः
।
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह॥७॥
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान्
।
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः॥८॥
आत्मानं चित्तम् । आत्मवान् जितचित्तः । संयोज्य इष्टदेवतया ऐक्यं नीत्वा ॥८॥
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः
।
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः॥९॥
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्
।
संभृतो मन्त्रपूतेन वारिणा कलशो महान्॥१०॥
सौद्युम्नेः युवनाश्वस्य ॥१०॥
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
।
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्॥११॥
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
।
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान्॥१२॥
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः
।
तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत॥१३॥
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा
।
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः॥१४॥
वाशतः शब्दं कुर्वतः ॥१४॥
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः
।
अभ्यद्रवतं वेगेन पीत्वा चाम्भो व्यवासृजत्॥१५॥
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः
।
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा॥१६॥
निर्वाणं तपः फलम् ॥१६॥
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः
।
निस्तोयं तं च कलशं ददृशुः सर्व एव ते॥१७॥
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः
।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यत॥१८॥
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा
।
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः॥१९॥
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्
।
पुत्रार्थं तव राजर्षे महाबलपराक्रम॥२०॥
महाबलो महावीर्यस्तपोबलसमन्वितः
।
यः शक्रमपि वीर्येण गमयेद्यमसादनम्॥२१॥
अनेन विधिना राजन्मयैतदुपपादितम्
।
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै॥२२॥
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा
।
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि॥२३॥
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः
।
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः॥२४॥
ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि
।
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्॥२५॥
इष्टिम् इच्छितम् ॥२५॥
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्
।
गर्भधारणजं वापि न खेदं समवाप्स्यसि॥२६॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः
।
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः॥२७॥
निश्चक्राम महातेजा न च तं मृत्युराविशत्
।
युवनाश्वं नरपतिं तदद्भुतमिवाभवत्॥२८॥
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्
।
ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥२९॥
किं धास्यति पास्यति स्तन्याभावात् ॥२९॥
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे
।
मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा॥३०॥
मां धास्यति मांधाता । धातेति लुडन्तस्य व्याख्यानं धास्यतीति । प्रदेशिनीं तर्जनीम् ॥३०॥
मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः
।
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा
।
अवर्धत महातेजाः किष्कून्राजंस्त्रयोदश॥३१॥
वेदास्तं स धनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्
।
उपतस्थुर्महाराज ध्यातमात्रस्य सर्वशः॥३२॥
किष्कून् हस्तान् वितस्तीन्वा । ‘किष्कुर्हस्ते वितस्तौ च’ इत्यमरः ॥३२॥
आजगवं नाम धनुः शराः शृङ्गोद्भवाश्च ये
।
अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः॥३३॥
ध्यातमात्रस्य इन्द्रेण अयमेवंविधो भवत्विति सङ्कल्पितस्य ॥३३॥
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत
।
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः॥३४॥
शृङ्गोद्भवाः स्वर्गजाः । ‘शृङ्गप्रभुत्वे शिखरे’ इत्यादि । ‘स्वर्गमीनविशेषयोः’ इति विश्वः । दिव्या इत्यर्थः ॥३४॥
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः
।
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे॥३५॥
तस्येवं वसुसंपूर्णा वसुधा वसुधाधिप
।
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः॥३६॥
चक्रम् आज्ञा ॥३६॥
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान्
।
शक्रस्यार्धासनं राजँल्लुब्धवानमितद्युतिः॥३७॥
एकाहात्पृथिवी तेन धर्मनित्येन धीमता
।
विजिता शासनादेव सरत्नाकरपत्तना॥३८॥
चितचैत्यः कृतचयनक्रतुः ॥३८॥
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम्
।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्॥३९॥
तेन पद्मसहस्राणि गवां दश महात्मना
।
ब्राह्मणानां महाराज दत्तानीति प्रचक्षते॥४०॥
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना
।
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः॥४१॥
पद्मं शतकोटयः तेषामपि सहस्राणि दश ॥४१॥
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्
।
गर्जन्निव महामेघः प्रमथ्य निहतः शरैः॥४२॥
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना
।
तेनात्मतपसा लोकास्तापिताश्चातितेजसा॥४३॥
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः
।
यस्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः॥४४॥
चतुर्विधाः सुरनरतिर्यक्स्थावराः ॥४४॥
एतत्ते सर्वमाख्यातं मांधातुश्चरितं महत्
।
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि॥४५॥
वैशंपायन उवाच।
एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा
।
पप्रच्छानन्तरं भूयः सोमकं प्रति भारत॥४६॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां मांधातोपाख्याने षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
अष्टावक्र उवाच।
अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः
।
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः॥१॥
अन्धस्येति । अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः । असमेत्य समीपम् अप्राप्य ॥१॥
राजोवाच
।
पन्था अयं तेऽद्य मयातिदिष्टो येनेच्छसि तेन कामं व्रजस्व
।
न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्॥२॥
अष्टावक्र उवाच।
प्राप्तौ स्वयज्ञं नृप संदिदृक्षू कौतूहलं नौ बलवन्नरेन्द्र
।
प्राप्ताविहावामतिथी प्रवेशं काङ्क्षावहे द्वारपतेस्तवाज्ञाम्॥३॥
ऐन्द्रद्युम्ने यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू
।
तौ वै क्रोधव्याधिना दह्यमानावयं च नौ द्वारपालो रुणद्धि॥४॥
ऐन्द्रद्युम्ने हे जनक ॥४॥
द्वारपाल उवाच।
वन्दे समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम्
।
न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्त्यत्र विप्राः॥५॥
अष्टावक्र उवाच।
यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं प्रबेष्टुं मम द्वारपाल
।
वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च॥६॥
शुश्रूषवश्वापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम्
।
न बाल इत्येव मन्तव्यमाहुर्बालोऽप्यग्निर्दहति स्पृश्यमानः॥७॥
ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः । निष्ठां निश्चयम्॥७॥
द्वारपाल उवाच।
सरस्वतीमीरय वेदजुष्टामेकाक्षरां बहुरूपां विराजम्
।
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभो वै मनीषी॥८॥
वेद जानीते यदि तर्हि ईरय। जुष्टां मुनिसेविताम् । एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां ताम् एकाक्षरां बहुरूपां मन्त्रार्थवादादिरूपाम् । विराजं विशेषेण कर्मकाण्डादाधिक्येन राजमानाम् । अङ्गेति सम्बोधने ॥८॥
अष्टावक्र उवाच।
न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाष्ठीला शाल्मलेः संप्रवृद्धा
।
ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः॥९॥
शाल्मलेरष्ठीलाशाल्मलिफलान्तर्गतग्रन्थिः । स हि केवलतूलमयत्वान्निःसारः। अतो देहवृद्धिर्व्यर्था । अल्पकायः कृशः ॥९॥
द्वारपाल उवाच।
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः
।
न हि ज्ञानमल्पकालेन शक्यं कस्माद्बालः स्थविर इव प्रभाषसे॥१०॥
अष्टावक्र उवाच।
न तेन स्थविरो भवति येनास्य पलितं शिरः
।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥११॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः
।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥१२॥
अनूचानः साङ्गवेदाध्यायी ॥१२॥
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि
।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने॥१३॥
पुष्करमालिने स्वर्णमालाधारिणे ॥१३॥
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः
।
सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम्॥१४॥
पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः
।
उताहो वाप्युच्चतां नीचतां वा तूष्णीं भूतेष्वेव सर्वेष्वथाद्य॥१५॥
द्वारपाल उवाच।
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम्
।
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्॥१६॥
उपायतः प्रयतिष्ये इत्युक्त्वा यज्ञवाटादन्यत्र तस्य राजदर्शनं कारयित्वा आह प्रवेशने कुरु यत्नमिति । राज्ञः पुरस्तात्किंचित् ज्ञानं प्रकाशयेत्यर्थः ॥१६॥
अष्टावक्र उवाच।
भो भो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्
।
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्॥१७॥
सम्राट् सार्वभौमः॥१७॥
वृद्धान्बन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः
।
त्वयाभिसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नः श्रुतम्॥१८॥
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्वैतं कथयितुमागतोऽस्मि
।
क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि॥१९॥
सः अहम् अद्वैतं ब्रह्म कथयितुम् आगतोऽस्मि। एतेन कृत्स्नस्यास्य प्रबन्धस्य तात्पर्यमुपन्यस्तम् ॥१९॥
राजोवाच
।
आशंससे बन्दिनं वै विजेतुमविज्ञाय त्वं वाक्यबलं परस्य
।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वेदशीलैः॥२०॥
आशंससे त्वं बन्दिनं वै विजेतुमविज्ञात्वा तु बलं बन्दिनोऽस्य
।
समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः॥२१॥
आशंसन्तो बन्दिनं जेतुकामास्तस्यान्तिकं प्राप्य विलुप्तशोभाः
।
विज्ञानमत्ता निःसृताश्चैव तात कथं सदस्यैर्वचनं विस्तरेयुः॥२२॥
विज्ञानमत्ता अपि पराजयं प्राप्य सभातः निःसृताः ॥२२॥
अष्टावक्र उवाच।
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः
।
समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाचलाक्षम्॥२३॥
निहतः निर्जितः शेष्यते प्रसुप्तपुरुषवज्जडो भविष्यति ॥२३॥
राजोवाच।
त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वणः
।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः॥२४॥
ब्रह्माद्वैतं कथयितुमागतोऽस्मीति प्रतिजानानमष्टावक्रं प्रति पृच्छति राजा त्रिंशकेति । उभयतस्तीक्ष्णाग्राभिः षड्भिः शलाकाभिरेकस्मिन् शङ्कौ प्रोतमध्याभिः पृथगन्ताभिर्द्वादशारं षण्नाभिचक्रं जायते । तत्र द्वादशराशयः अराः राशिद्वयात्मानः षडृतवो नाभयः एकैकस्मिन् राशौ त्रिंशस्त्रिंशदंशाः तदेतद्भचक्रं षष्ट्या नाडीभिः परिवर्तते । अस्य षष्ट्यधिकशतत्रयपरिवर्तैः सावनः संवत्सरो भवति । अस्मिंश्चक्रे कुलालचक्रवत् प्रदक्षिणमावर्तमाने पिपीलिकापङ्क्तिवत् प्रतीपं सूर्यादयः परिभ्रमन्ति । तत्र चन्द्रस्य सप्तविंशत्यहोरात्रैर्भगणभोगः । सूर्यस्य सपादपञ्चषष्ट्यधिकेनाह्नां शतत्रयेण स एव सौरः संवत्सरः । अस्मिन् चक्रे स्वस्वगत्या गच्छतोः सूर्यचन्द्रयोर्यदात्यन्तं विप्रकर्षस्तदा पौर्णमासी । यदात्यन्तं संनिकर्षस्तदा दर्शः ते द्वे पर्वणी । एवं चतुर्विंशत्या पर्वभिः चतुःपञ्चादशदधिकेनाह्नां शतत्रयेण चान्द्रः संवसरः तत्रायं पृच्छति त्रयाणामपि पृथक्कर्मसु विनियोगात् । तथा चोक्तं माधवे ‘अब्दः पञ्चविधश्चान्द्रो व्रतादौ तिलकादिके । सुजन्मादिव्रते सौरो गोसत्रादिषु सावनः’ इति । त्रिंशकद्वादशांशस्य त्रिंशतो गणस्त्रिंशकः ते एव द्वादशसङ्ख्याका अंशा यस्येति सौरसंवत्सरप्रश्नः । चतुर्विंशतिपर्वण इति चान्द्रस्य । त्रीणि षष्ट्या सहितानि शतान्यरा यस्येति सावनस्य । त्रिविधस्यास्य कालचक्रस्य योऽर्थं प्रयोजनं वेद स परः कविः उत्कृष्टः क्रान्तदर्शी ॥२४॥
अष्टावक्र उवाच।
चतुर्विंशतिपर्व त्वां षण्नाभि द्वादशप्रधि
।
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति॥२५॥
इति पृष्टोऽपर आह उत्तरं षण्नाभीति । विशेषार्थोक्त्या विद्वत्ताप्रकाशः शेषोऽनुवादः। प्रधयो मासाः राशयो वा । तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते । चक्रं पातु अस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः । एतेन धर्मस्य श्रेयः साधनत्वं विधीयते। केवलकालज्ञानस्यापुरुषार्थत्वात् । मानान्तरानवगतं प्रयोजनवदर्थं प्रतिपादयद्धि शास्त्रं भवति । अन्यथा शास्त्रत्वव्याघातः । एवमन्यत्रापि विधानं द्रष्टव्यम्। ‘राशिस्त्रिंशल्लवस्तान् द्विषडनुपततार्केण सौरोब्द इष्टः सोमेष्विष्टौ तु चान्द्री शरदपि च चतुर्विंशकात्पर्वणां स्यात् । गोसत्रे सावनोऽब्दो गगनरसगुणै रात्र्यहैराशियुग्मादृत्वाख्यश्चर्तुयाजां स्वसमयविहिताः श्रेयसे स्युर्मखाग्य्राः’॥२५॥
राजोवाच।
वडवे इव संयुक्ते श्येनपाते दिवौकसाम्
।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्॥२६॥
रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तते । दिवौकसां देवानां मध्ये तयोः सम्बन्धिनं गर्भं को धत्ते । कस्य गर्भे ते उत्पद्येते कं च जनयत इत्यर्थः॥२६॥
अष्टावक्र उवाच।
मा स्म ते ते गृहे राजञ्छात्रवाणामपि ध्रुवम्
।
वातसारथिरागन्ता गर्भं सुषुवतुश्च तम्॥२७॥
उत्तरं तयोर्नामाप्यमङ्गलमिति मत्वापरोक्षेण निर्दिशति । ते उभे अधिदैवं विद्युदशनी । अध्यात्मं दुःखमृत्यू । विद्युदर्चिरशनिरङ्गारा इति पञ्चाग्निविद्यायां तयोर्भेदेन व्यपदेशात् । क्रमादाकाशेन देहेन च रथेन वडवे इव नित्यसंयुक्ते श्येनपाते च ते तव गृहे मा स्म स्यातां राजन् तव शात्रवाणामपि गृहे मा स्म स्यातामित्यत्यन्तामङ्गलत्वं तयोर्दर्शितम् । वातसारथिर्मेघो मनश्च आगन्ता-आकाशाद्वृष्ट्यर्थं सुषुप्त्याख्यात्कारणात् कर्मफलभोगार्थम् उदेष्यन् ते उभे पूर्वोक्ते विद्युदशनी दुःखमृत्यू च गर्भे धत्त इत्येकमुत्तरम् । ते च तमेव वातसारथिं वैद्युतमग्निं मनश्च सुषुचतुरित्यपरम् । यथा धूमज्योतिरादिसंनिपातरूपत्वादग्निरूपो मेघोऽग्निमेव विद्युदादिद्वारा सूते । एवं मनःप्रभवौ दुःखमृत्यू स्ववासनारूपेण मनसः कारणे भवतः । तथा च बीजाङ्कुरवन्मनसः दुःखादेश्च हेतुहेतुमद्भावान्मनसो लयो दुःखाभावार्थमभ्यसनीय इत्यर्थः । एतेन ‘अश्ना पिनद्धं मधुपर्यपश्यन्मत्स्यं न दीन उदनिक्षियन्तम्’ इति मन्त्रवर्ण उपबृंहितः । अश्ना अशनवता जलं शोषयता मेघेन विषयान् भुञ्जानेन मनसा वा मधुसलिलं तद्वदेकरसं ब्रह्म वा पिनद्धमाच्छादितम्। मनसो दुःखहेतुत्वं दृष्टान्तमुखेनाह मत्स्यमिति । नेत्युपमार्थो निपातः । दीनेऽल्पे उदनि उदके क्षियन्तं निवसन्तं मत्स्यं न मीनमिवाकुलमित्यर्थः । क्षियन्तमित्यस्यैव वा क्लिश्यमानमित्यर्थः। ‘हृन्मेघो दुःखमृत्यू तडिदशनिसमे श्येनवच्छीघ्रपाते नित्योद्बद्धे रथेश्वे इव करणसुराधीश्वरः प्राज्ञ खोत्थः । स्वे गर्भे धत्त एनं सुषुवतुरितरे वासनातन्तुजन्यां चेतः शाटीं निरुन्ध्यादसुपवनवशां विश्वाचित्रां मुमुक्षुः’ ॥२७॥
राजोवाच।
किं स्वित्स्वप्नङ् न निमिषति किं स्विज्जातं न चोपति
।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते॥२८॥
स्वप्नङिति स्वपितृषोर्नजिङिति । जकरान्तस्य स्वप्नजशब्दस्य स्वप्नावस्थावद्वाचित्वम् । सुषुप्त्यवस्थां प्राप्तं किं न निमिषति लुप्तदृङ् न भवतीति प्रश्नार्थः ॥२८॥
अष्टावक्र उवाच।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति
।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥२९॥
तद्यथा महान्मत्स्य उभे कूले अनुसञ्चरतीत्यादिश्रुत्या मत्स्योपमितश्चिद्रूपः पुरुषो जाग्रत्स्वप्नयोरिह परलोकयोश्च सञ्चरणेन श्रान्तः मत्स्य इव कूलद्वयसञ्चारेण सुप्तिप्रलययोः कार्यकारणसङ्घातस्य निखिलप्राणनादिशक्त्युपरमेऽनुपरतदृक्शक्तिरेक एवास्ते । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते विनाशित्वादिति श्रुतेः । तदुपरमाभ्युपगमे कृतहानादिदोषप्राप्तिः सुखमहमेतावन्तं कालमस्वाप्समिति परामर्शानुपपत्तिश्च अस्य अविनाशित्वादजातत्वम् । यत्तु जातमण्डं ब्रह्माण्डं भूतभौतिकात्मकं तत् न चोपति चुपमन्दायां गतौ । न चेष्टते किं त्वयमेव तच्चेष्टयते इत्यर्थः । अश्मनोऽशरीरस्य हृदयं शोकायतनं नास्ति । श्मशरीरमिति यास्कः अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः। ‘तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ इति श्रुत्योस्तद्दृष्टेर्देहाद्यसङ्गे योगी निर्मनस्को जीवन्मुक्तो भवतीत्यर्थः । नदी चित्तनदी योगिनो व्युत्थितस्य वेगेन सद्यः कृत्स्नप्रपञ्चरूपेण वर्धते । योगिदृष्ट्या स्वाप्नवद्व्यावहारिकोऽपि प्रपञ्चो दृष्टिसमसमयोत्पत्तिक इत्यर्थः । एवं दृगलोपो दृश्यस्य जाड्यं देहासङ्गिनो मुक्तिः संसारस्य मनोमात्रत्वं चात्र दर्शितम् । 'पुम्मीनो निर्निमेषः स्वपिति भवनदीचारखिन्नः स्वरूपे । जातं ब्रह्माण्डपिण्डं जडमपि जवते येन लोहाश्मनीत्या । यस्याकायस्य नास्ति क्वचिदपि हृदयं शोकनीडं समाधौ। यत्स्था मायानदीयं द्रुतमहमिदमाद्यात्मनोदेति सोऽस्मि ॥२९॥
राजोवाच।
न त्वां मन्ये मानुषं देवसत्वं न त्वं बालः स्थविरः संमतो मे
।
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष बन्दी॥३०॥
वाक्प्रलापे वाचां प्रकृष्टे संलापे एष बन्दी दृश्यतामिति शेषः ॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अष्टावक्रीये त्रयस्त्रिंशदधिकशततमोऽध्यायः॥१३३॥
अष्टावक्र उवाच।
अत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु
।
नावैमि बन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि॥१॥
अत्रेति ॥१॥
न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः सरितामिवागमः
।
हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन्॥२॥
ग्लहं पराजितस्य जले निपातनरूपं पणम् । प्रपन्नः स्वीकृतवान् । मे मम पुरतः न वक्ष्यसि प्रत्युत्तरमति शेषः । समिद्धतेजसः प्रलयकालेऽत्यन्तं प्रदीप्तस्याग्नेः पुरो यथा नदीवेगः शुष्यति तथा शुष्को भविष्यसीत्यर्थः ॥२॥
व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्किणी संलिहानम्
।
पदाहतस्येह शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध॥३॥
मा मां प्रबोध जानीहि । भौवादिकस्य बुधेर्लोटि रूपम् । असन्धिरार्षः। पदाहतस्य मत्पितुर्निग्रहणादहं पूर्वमेव त्वया पदाहतस्तस्य मे शिरोऽभिहत्य त्वं न मुच्यसे अदष्टः सन् ॥३॥
यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति
।
तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः॥४॥
संहननेन देहेन दृढकायत्वेन उपपन्नः ॥४॥
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः
।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा॥५॥
यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव
।
तथा नृपाणां प्रवरस्त्वमेको बन्दिं समभ्यानय मत्सकाशम्॥६॥
बन्दिं बन्दिनम् । विभक्त्यलोपे नकारलोप आर्षः ॥६॥
लोमश उवाच।
एवमष्टावक्रः समितौ हि गर्जञ्जातक्रोधो बन्दिनमाह राजन्
।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि॥७॥
बन्द्युवाच
।
एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति
।
एको वीरो देवराजोऽरिहन्ता यमः पितॄणामीश्वरश्चैक एव॥८॥
पूर्वं प्रतिज्ञातं ब्रह्माद्वैतमेव वादकथामुखेन प्रपञ्चयन् बन्दिमुखेन बौद्धपक्षमुत्थापयति एक एवेति । यथा एकोऽग्निः सूर्यो वा इतराप्रकाश्योऽन्यप्रकाशकश्च । एवं देवानां इन्द्रियाणां राजा प्रधानभूतो धीधातुरहमिदमाद्याकारेण प्रकाशमानो वीरोऽरिहन्तेऽतिपराभिमततत्त्वान्तराभिभावको यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहारद्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्ता च प्रधानभूतः एक एव नान्यत्तत्त्वं पृथगस्ति । स्वप्ने सर्वेषां क्रियाकारकादीनां बुद्धिमात्रत्वोपलम्भादित्यर्थः । ‘धीर्देवेन्द्राग्निवत्सा तदिदमहमिति व्यक्तनानास्वरूपा स्वं चान्यं च स्वयं सा प्रथयति रविवत्सा रिपुः सा च मृत्युः॥ सा श्रोत्रादेः प्रयोक्त्री सकलमिदमिह स्वप्नवद्धीमयं स्यात्॥१॥’ इत्येवं तार्किकेण प्रथममुपगतो बन्दिना बौद्धपक्षः॥८॥
अष्टावक्र उवाच।
द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च
।
द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा॥९॥
अष्टावक्रो द्वासुपर्णेति मन्त्रे तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिपश्यति ज्ञ इति पैङ्गिरहस्यव्याख्यातेन प्रकारेण बुद्धिचैतन्ययोः सखायावित्युक्तेरिन्द्राग्न्यादिवत्तौ सहैव चरतः । न हि दृश्याया बुद्धेर्द्रष्टृत्वं सम्भवति प्रकाश्यस्येव प्रकाशकत्वमिति परिहरति । द्वाविन्द्राग्नी इति । स्वप्नेऽपि बाधिताद्बोद्धव्यादबाधितो बोद्धान्योऽस्तीति भावः। ‘स्वातन्त्र्यादिन्द्र आत्मा नलवदिह पराधीनसिद्धिश्च बुद्धिर्दृग्दृश्येते ज्ञसत्त्वे इति खलु विवृते पैङ्गिना द्वेति मन्त्रे । भिन्ने देवर्षिदस्रप्रभृतिवदपि ते सूर्यचित्रांशुकभे । अन्योऽन्यापेक्षया च व्यवहृतिपथगे चक्रवद्दम्पतीवत् ॥२॥’ ॥९॥
बन्द्युवाच।
त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति
।
अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः॥१०॥
बन्दी बोद्धुः कर्माधीनत्वमिति मीमांसकमतमाह त्रिरिति । पुण्येन देवस्थावरमानुषरूपं जन्मत्रयं सुकृतेनैव लभते । पापेन नारकस्थावरतिर्यग्रूपं स्वर्गान्नरकाद्वा च्युतस्यौषधिभावपूर्वकमेव रेतोद्वारा नृपशुतिर्यग्योनिसम्भवस्य श्रौतप्रसिद्धेः । अत एव त्रयो वेदाः युक्तास्तात्पर्येण सन्नद्धा इव वाजपेयोपलक्षितमाश्रमत्रयोचितं कृत्स्नं कर्मजातं वहन्ति । वेदस्यापि कर्ममात्रपरत्वमित्यर्थः । अध्वर्यवो यज्ञस्य योक्तारस्त्रैवर्णिकास्त्रीण्येव प्रातः सवनादीनि तन्वते । तेन यथाकालं कृतस्य कर्मणः फलं कालानुरोध्येव अनुभवन्तीत्यर्थः । त्रयो लोकाः स्वर्गो नरको भूश्चेति भोगभूमयः । त्रीण्येव वेदे ज्योतिष्मतां ज्योतींषि सुखमार्गप्रकाशकानि जाग्रदादीनि ।‘ तस्य त्रय आवसथास्त्रयः स्वप्ना’ इति श्रुतेः । नास्ति ततोऽन्यत्तत्त्वमित्यर्थः। ‘देवः स्थाणुर्नरः स्यात्सुकृतकृदितरो नारकस्थाणुतिर्यग्जन्मा त्रैवर्णिकः स्याच्छ्रुतियुगधिकृतो वाजपेयादियज्ञे। काले काले यजन्ते फलमपि च तथा भुञ्जते यज्ञभाजः सत्त्वाद्यैर्यान्ति लोकान् स्वरवनिनरकान्स्वप्नजाग्रत्सुषुप्तीः ॥३॥’ ॥१०॥
अष्टावक्र उवाच।
चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति
।
दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता॥११॥
अष्टावक्र एतद्दूषयति चतुष्टयामिति । ब्राह्मणानां ब्रह्मविदां निकेतं ज्ञानोपलब्धिस्थानं चतुष्टयं चतुःसङ्ख्यावयवोपेतम् । आश्रमत्रयादन्योऽस्ति मोक्षाश्रमो यदहरेव विरजेत्तदहरेव प्रव्रजेदिति श्रुतिसिद्ध इत्यर्थः । यज्ञं ज्ञानयज्ञं शूद्रस्याप्यस्त्यत्राधिकारोऽकर्मरूपत्वादित्यर्थः दिशः दिश्यन्तः इति दिशः उपदिष्टाः सन्ति चतस्रोऽवस्थाः विराट् सूत्रान्तर्यामितुर्यसाक्षात्काररूपाः विश्वतैजसप्राज्ञेभ्यः सर्वप्राणिप्रसिद्धेभ्योऽन्या इत्यर्थः । अत एव तासां वाचकं चतुष्टयमकारउकारमकारार्धमात्रारूपमुपनिषत्प्रसिद्धम् । न चार्धमात्राया अप्रसिद्धत्वं वाच्यम् । यस्मात् चतुष्पदा परापश्यन्तीमध्यमावैखरीति पादचतुष्टयवती गौर्वाणी शश्वत् सदैव उक्ता । चत्वारिवाक्परिमितापदानीति मन्त्रे इति शेषः । ‘जिज्ञास्यं ब्रह्म सद्मिव्रतिवनियतिभिर्ज्ञानयज्ञेधिकारि चातुर्वर्ण्यं चतुष्पात्तदुपदिशति वागण्डसूत्रेशशुद्धम् । चत्वारो वाचि वर्णा अउमदलकला वैखरीमध्यमाख्यौ पश्यन्त्याख्यः पराख्यः स चतुरवयवः प्रत्ययोऽस्याः प्रसिद्धः ॥४॥’॥११॥
बन्द्युवाच।
पञ्चाग्नयः पञ्चपदा च पङ्किर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि
।
दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम्॥१२॥
तुरीयमपलपन् बन्दी उवाच। पञ्चाग्नयः गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याः । पञ्चपदाऽष्टाक्षरैः पादैः पङ्क्तिश्छन्दः । यज्ञाः पञ्च अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इति श्रुताः । एते त्रयः पञ्चका यथा एवं पश्चैवेन्द्रियाणि शब्दादिपञ्चकग्राहकाणि । न षष्ठो विषय इन्द्रियं वास्तीत्यर्थः । दृष्टा वेदे । अप्सरा ‘आपः पुरुषवचसो भवन्तीति श्रुतेः ।’ शरीराकारपरिणतेषु जलप्रधानेषु भूतेषु सरति अनुगच्छतीत्यप्सराः चितिः पञ्चचूडा पञ्चैव तत्तद्विषयाकारतया प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण शिखा पञ्चकवत्येव दृष्टा। वृत्तिनिरोधस्य समाधेरपि निद्रायामेवान्तर्भाव इति भावः । लोकेऽपि पञ्चानां विषयस्रोतसां समाहारः पञ्चनदमुपेयम् एवमेव चितिशक्तेरेव कर्तृत्वभोक्तृत्वे इत्युत्तरार्धार्थः । ‘अग्निश्छन्दः क्रतूनामिव खलु मनसः खानि पञ्चैव भागा भ्रान्तिर्निद्राविकल्पः स्मृतिरमलमतिर्वृत्तयः पञ्च तस्य । ताभिः शाखावतीवस्वरिह जलपरीणामकायानुकर्त्री शुद्धाशुद्धप्रवाहा भवति चितिनदी तज्जसौख्यादिभोक्त्री ॥५॥’ ॥१२॥
अष्टावक्र उवाच।
षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम्
।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः॥१३॥
कर्तृत्वादिधर्मकमस्ति षष्ठमिन्द्रियं मनः । सुषुप्तावितरवत्तल्लयस्याप्यनुभूयमानत्वात् । कर्तृत्वादेस्तत्सहभावनियतत्वदृष्टेश्च । चित्ताभावसाक्षी त्वात्मा ततः पृथक्कर्त्रादिरूपः सप्तमोऽस्तीत्याहाष्टावक्रः । षडाधाने इति षट् गाः इति शेषः । दक्षिणादयो मनसश्चक्षुरादिसाजात्ये दृष्टान्ताः । साद्यस्काः यज्ञविशेषाः । ‘गोनक्षत्रर्तुयज्ञा इव समवपुषः षट् षडेवं सचित्ताः श्रोत्राद्या दुःखशब्दाद्यनुभविन इतोऽन्यानुभूतिः स साक्षी । धीयोगात्सप्तभिस्तैरनुभवकरणैरत्र सप्तर्षिसंज्ञैर्भुङ्क्ते छन्दोभिधानानपरिमितवपुश्छादकानष्टमोऽर्थान् ॥६॥’ ॥१३॥
बन्द्युवाच।
सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि ऋतुमेकं वहन्ति
।
सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा॥१४॥
अथ तर्कमतेन बन्दी प्रत्यवतिष्ठते । सप्त ग्राम्याः मनः षष्ठैरिन्द्रियैर्बुद्ध्या चात्मगुणभूतया समर्पिताः मन्तव्यबोद्धव्यशब्दादयो विषयास्तेष्वेकैकस्मिन्नासक्त एकैकः पुरुषपशुः ते च ग्राम्या ऐहिकाः वन्या आमुष्मिका विषयास्तेष्वासक्ततया प्रत्येकं सप्त सप्त पुरुषपशवः सप्त छन्दांसि छादयन्ति स्वस्वरूपार्पणजातसुखलेशेन परमात्मानं गूहयन्तीति तान्सप्तविषयान् । एकम् ऋतुं कर्तारमात्मानं वहन्ति प्रापयन्ति । के सप्तर्षयः । प्राणा वा ऋषय इति श्रुतेः । सप्तैवोक्ता मन आदयस्तदुपनीतानि सप्त चैवार्हणानि अर्हणीयानि सुखानि । यथा सप्तभिस्तन्त्रीभिर्वाद्यमाना एका वीणा शब्दं निर्वर्तयति । एवम् एतैः सप्तभिरात्मा सुखमनुभवति । अन्यथाऽकरणात्वात्सुप्तौ जड एव न्यस्तवास्यतक्षवत् अवादितवीणावच्च तिष्ठति । न तावतास्य कर्तृत्वापगम इत्यर्थः ॥ ‘भौमेष्वर्थेषु दिव्येष्वपि नरपशवः सप्त सप्तैवबद्धा भोक्तारं प्रापयन्ति क्रतुपदविदितं सप्त तान्सप्त खानि । सप्तैवैषां सुखानि प्रतिविषयभवान्येकवीणेव देही भोगं तन्त्रीन्द्रियाढ्यो रवमिव कुरुते योऽत्र कर्ता स भोक्ता ॥७॥’॥१४॥
अष्टावक्र उवाच।
अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती
।
अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्त्रिर्विहितः सर्वयज्ञे॥१५॥
उक्तानेव सप्त कर्तृत्वादिधर्मवताहङ्कारेण सार्धम् अष्टौ विवक्षन्नष्टावक्रोऽष्टौ ग्रहा अष्टावतिग्रहा इति श्रुतेन्द्रियविषयरूपग्रहातिग्रहरूपं बन्धनमुपन्यस्य तदन्यमात्मानं पृथक्करोति अष्टौ शाणा इति । शाणाः शणसूत्रेण निर्वृत्ताः गोण्य आवपनविशेषाः ता इव इन्द्रियप्रवेशयोग्याः विषयाः अष्टौ ते शतमानम् अनन्तं प्रमाणं धारयन्ति । संक्षेपेणाष्टावप्यनन्ता विषया इत्यर्थः । अष्टौ पादाः विषयदेशं प्रति गतिसाधनानि इन्द्रियाणि यस्य सः शरभः शं लभन्तेऽस्मात् । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः परमानन्दरूपः परमात्मा सोऽयं ज्ञातः सन् सिंहघाती हिनस्ति दुःखं ददातीति सिंहो द्वैतम्। द्वितीयाद्वै भयं भवतीति श्रुतेः। तस्य द्वैतस्य घातकः । सुषुप्तौ जडत्वे सुखमहमस्वाप्समिति व्युत्थितस्य स्वरूपसुखपरामर्शानुपपत्तिः। न च दुःखाभावस्यैवैष परामर्शः । तत्प्रकाशकस्य साक्षिणः सत्त्वे तस्य तदानीं जडत्वोक्त्ययोगात् । अत एवाष्टौ वसून्वासनाः । देवतास्वेव तत्तदिन्द्रियाधिष्ठात्रीषु लिङ्गात्मनीति यावत् । शुश्रुम वेदे न त्वात्मनीत्यर्थः। यूपश्च योपयति मोहयतीति यूपो नृपशोर्बन्धनस्थांनं ज्ञानं तदेव अष्टास्त्रिरष्टकोणम् अष्टधारं सत् सर्वयज्ञेषु ग्रहातिग्रहसंज्ञकविषयेन्द्रियसंयोगेषु वर्तत इति शेषः ॥ ‘शाणा गोण्योऽष्ट तेऽर्थाः शतमथ शरभः प्रत्यगानन्द एतैः पूर्वोक्तैः साहमर्थैर्व्रजति स विषयान्खानितान्यंघ्रयोऽस्य। सिंहघ्नो हिंस्रभेदद्विडिति वसुपदं भेदसंस्कारजातं लिङ्गस्थे देवतौघे वसति स नृपशोर्बन्धने मोहयूपे ॥८॥’ ॥१५॥
बन्द्युवाच।
नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम्
।
नवाक्षरा बृहती संप्रदिष्टा नवैव योगो गणनामेति शश्वत्॥१६॥
तत्र द्वैतघातित्वं शरभस्यानुपपन्नं सर्वेषां युगपत्संसारोच्छेदापत्तेरित्याशङ्कते बन्दी नवैवेति । यथा पितॄणामिष्टौ एकैव उशंतस्त्वानि धीमहीति ऋकू त्रिरभ्यस्ता प्रत्येकं त्रिसमित्का नवसामिधेन्योऽग्निसमिन्धनार्था ऋचःसम्पद्यन्ते तथा एका प्रकृतिरेव त्रयो गुणाः स्वस्वेतरप्रधानगुणभावेन प्रत्येकं त्रिविधाः सन्तो नवैव संयुज्यमाना अंशानां बहुत्वाल्पत्वतारतम्येन विविधं खर्गं कुर्वन्ति । यथा नवाक्षरैश्चतुर्भिः पादैर्बृहतीसंज्ञकं छन्दो भवति । यथा वा नवेवाङ्काः क्रमभेदेन स्थिता यथेष्टं सङ्ख्यावाचिनो भवन्त्येवं गुणा नवैवोक्तविधया सन्तोनेकधाभावं भजन्ते तस्मात् प्रधाननित्यताया अवश्याभ्युपगन्तव्यत्वाद्द्वैतं सत्यमवेति भावः । ‘त्रिः पाठेनानुपाठं त्रिसमिदिति यथा सामिधेन्यृक् नवत्वं प्राप्नोत्येवं प्रधानं त्रिगुणमनुगुणं त्रिप्रवेशान्नवत्वम्। गत्वानन्तं नवाङ्कीगणितमिव महन्मुख्यमेतत्प्रसूते तस्मान्नैतत्प्रधानाधिकामिह बृहती वाक्षरेभ्यो नवभ्यः ॥९॥’॥१६॥
अष्टावक्र उवाच।
दिशो दशोक्ताः पुरुषस्य लोके सहस्त्रमाहुर्दशपूर्णं शतानि
।
दशैव मासान्बिभ्रति गर्भवत्यो दशैरका दश दासा दशार्हाः॥१७॥
तदेतदिन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति श्रुत्यनुसाराद्द्वैतस्यानिर्वचनीयमायासहाये ब्रह्मण्येव भानोपपत्तौ न सत्या प्रकृतिरभ्युपेयेत्याशयवानष्टावक्रः परिहरन्नाह दिश इति । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतमिति तस्य वाचा सृष्टौ पृथिवी चाग्निश्चेति च कौषीतकीयैतरेयकयोर्दर्शनाद्दशैव वागाद्याः प्रज्ञामात्रा अग्न्यादीनां भूतमात्राणां स्रष्ट्र्यः । दिशन्ति विषयस्वरूपमतिसृजन्ति ताः दिशः वागाद्या दशैव पुरुषस्य देहाख्ये पुरे वसतो जीवस्य पूर्णं परं ब्रह्मैव दश शतानि सहस्रं च विभूतिभेदेन मायया बहुरूपं भूत्वास्तीत्याहुर्वेदाः । एतेनायं वै हरयोयं वै दश च सहस्राणि प्रयुतान्यर्बुदानीति युक्ता ह्यस्य हरयः शतादशेत्येवमन्त्यपादस्य श्रौती व्याख्या दर्शिता । तथा च रज्जूरगवन्मायाबुद्धस्य बाधितापीतरस्यातीति वक्तुं शक्यम् । परमते तु विभोरलुप्तदृशः पुरुषस्य मुक्तौ तददर्शनोक्तिरनुपपन्ना दृष्टान्ताभावादिति भावः । परा पूर्वेषां सङ्ख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रविचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश इति दाशतय्याम् । ४ । ७ ॥ अष्टकाध्यायवर्गे ऋचौ ऐन्द्र्यौ आम्नायेते । अनयोरर्थः । द्वयाह प्राजापत्या देवाश्चासुराश्च तत्र कानीयसा एव देवा ज्यायांसो असुरा इति श्रुतिप्रसिद्धाः पूर्वदेवाः स्वाभाविकासङ्गपाप्मरूपाः कामक्रोधादयः तेषां सख्यासख्यानि परावृणक्ति दूराद्वर्जयति । वितर्तुराणः ततारेति तर्तुराणःतर्णिवान् । तरतेर्लिंडादेशःकानच् द्वित्वं बहुलं छन्दसीत्युकारोन्तादेशोरपरः । तीव्रवैराग्याभ्यासादिमान् । अपरेभिः अपरैः देवैः शास्त्रीयैः शमदमादिभिः एति प्राप्नोति । सख्येत्यनुषज्यते । कामादीन् जित्वाऽत्यादरेण शमादिपरो भवतीत्यर्थः । एवम्भूतः अनानुभूतीः अननुभवान् भ्रान्तिज्ञानानि शुक्तिरजतज्ञानतुल्यानि देहाद्यात्मज्ञानानि अवधून्वानोऽपनुदन् आत्मनस्तत्तदुपाद्ध्याकारतां निषेधन् इन्द्रः परमेश्वरोऽप्यविद्यया जीवभावमापन्नः सन् लब्धात्मत्तत्त्वो विद्वान्पूर्वीः शरदः अनादिकालप्रवृत्तकर्मवासनास्तर्तरीति अतिशयेन तरति । बीतबन्धो भवतीत्यर्थः । अत्र अननुभूतिपदेन शुक्तौ रजतं पश्यन् रजतं वा शुक्ति वा नानुभवतीति लौकिकप्रयत्नेन देहाद्यात्मज्ञानस्याननुभूतित्वं वदन्ती श्रुतिर्देहादेर्मिथ्यात्वं सूचयति । तद्व्युत्पादनाय मन्त्रो रूपं रूपमित्यादिस्तत्र माययेति अनृतेनाज्ञानेनेत्यर्थः । सत्त्यत्वे तत्कार्यपदार्थदर्शनस्याननुभूतित्वायोगादिति। शेषं स्पष्टार्थम् । अनानुभूतीरित्यत्र श्रावयादीन् प्रकृत्य आद्याक्षरं प्लुतं तेषामनन्वित्यस्य मध्यमित्यनेनाननु इति वर्णत्रयस्य मध्यं प्लुतं दीर्घं भवतीति प्रातिशाख्ये दीर्घत्वविधानादननुभूतीरित्यर्थः । पदपाठश्चैवमेवेति दिक् । दशैव मासानिति । यथा स्त्रियो गर्भेणान्तरालिकः सम्बन्धो बीजकुसूलन्यायेनैवमसङ्गस्य चिदात्मनोऽहङ्कारेणेत्यर्थः । दशैरकाः । आसमन्तादीरयन्ति उपदिशन्ति तत्त्वमित्येरकास्तत्त्वदर्शिन उपदेष्टारः । दशमासाः तत्त्वस्य क्षेपकाः । दश अर्हास्तत्त्वविद्याधिकारिणः । एवमुक्तविधं ब्रह्माद्वैतं बुधानामनुभवसिद्धं मूढानां विद्वेष्यं चित्तशुद्धिमतां श्रद्धेयमित्यर्थः । ‘खोत्थप्रज्ञादिशोऽस्मिन्दशपुरि वसतः पूरविद्याष्टकात्मा ताः पूर्णं वस्त्वनन्ताः स्रगहिसमपुरां व्यापनात्पूर्णतास्य । पुम्पुर्योर्गर्भमात्रोरिव पृथगपृथक्त्त्वेन सत्यानृते स्तः केऽप्यारूढाः पदं तत्कतिचन विमुखाः केऽपि तत्प्राप्तियोग्याः ॥१०॥’॥१७॥
बन्द्युवाच।
एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः
।
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः॥१८॥
एकादशेति । प्राणभृतां पशूनां जीवपशूनाम् । एकादशिनः एकादशेन्द्रियाणि प्रकाशकानि येषु ते विषयाः शब्दादयस्ते एकादशैव सङ्ख्याताः । त एव सर्वेऽपि प्रत्येकं यूपाः बन्धकाः रागादयः । नैषां कश्चिदप्यबन्धकोऽस्तीति वक्तुं पुनरेकादशग्रहणम् । अतोऽत्र अविमृष्टविधेयांशता दोषो नास्तीति ज्ञेयम् । विकाराः शब्दादिग्रहजाः हर्षविषादाः । त एते दिवि स्वर्गेऽपि रुद्राः रोदयितारो देवानामपि सन्ति किमुत मनुष्याणाम् । तथा च सत्यात्मनोऽसङ्गत्वं कथं स्यात् प्रत्यक्षेण दुःखानुभवादित्याक्षेपः । ‘रुद्रा एकादशोक्ताः स्वरपिसुरपशून् रोदयन्तीन्द्रियाणि तेषामेकादशार्था नृपशुनिगडने यूपभूता भवन्ति । रागद्वेषद्वयानि प्रतिविषयममी तद्युजांस्युर्विकारास्तद्वन्तस्तेऽपि चैकादश यदिह सिनोत्येक एकैकमेषाम्॥११॥’ ॥१८॥
अष्टावक्र उवाच।
संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि
।
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह धीराः॥१९॥
दृष्टान्तमुखेनैव दार्ष्टान्तिकं निर्दिशन्परिहरत्यष्टावक्रः । यद्यपि अत्र संवत्सरजगत्यौ मासाक्षरेभ्योऽनतिरिक्ते एवं सङ्घातादन्यः शुद्धश्चेतनो मूढानामप्रसिद्धस्तथापि आनन्दाद्ध्येव खल्विमानि भूतानि जायन्त इति श्रुतेर्यथा अहर्गणानां द्वादशाह एवं सङ्घातस्य कृत्स्नस्य शुद्धं ब्रह्मैव प्रकृतिः । एतदेव कुत इत्यपेक्षायां चित्तशुद्ध्यैकगम्योऽयमर्थो न शुष्कतर्कगम्य इत्याह द्वादशादित्यानिति धीराः ध्यानवन्तो योगिनः । आदित्यान् आददते इन्द्रियाणि स्वस्वविषयेभ्यो व्यावर्तयन्ति तद्वारा प्रत्यक् तत्त्वमधिगमयन्ति तान् द्वादशसङ्ख्याकान् आहुः सनत्सुजाताद्याः उद्योगादौ । ‘धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया। यज्ञश्च दानं च धृतिर्यमो महान्व्रतानि वै द्वादश ब्राह्मणस्य’ इति । ‘बन्धप्रत्यक्षमेत दृढमथ जगती वर्षवद्वर्णमासात्सङ्घातात्प्रत्यगात्मानधिक इति यदप्यस्ति लोके तथापि । वागारभ्यो विकारः प्रकृतिरविकृतिर्द्वादशाहादिवत्कोऽप्यस्त्येषां भान आत्मा शमिभिरधिगतो वैकृतानैनमीयुः॥१२॥’ ॥१९॥
बन्द्युवाच।
त्रयोदशी तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च
।
लोमश उवाच।
एतावदुक्त्वा विरराम बन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः
।
अष्टावक्र उवाच।
त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः॥२०॥
ब्रह्मलोकं गतानामेव ज्ञानं भवतीति केषाञ्चिन्निर्बन्धः कृतयुगादावेव ज्ञानं भवति न कलावित्यपि केचित्तान्निराचष्टे त्रयोदशीति । देशकालापेक्षा चित्तशुद्धिर्न पुरुषयत्नसाध्येत्याक्षेपो बन्दिप्रोक्तपूर्वार्धेन ॥ न त्रेतादौ सधर्मः सकलुषसमयेनापि भूरादिषट्के नो पातालेषु सप्तस्वपि तु कृतयुगे सत्यलोके च सोऽस्ति । तस्माद्या सर्वसिद्धातिथिरियमपि न स्वाप्तयेतीव शस्ता नो वा लोकास्तपोन्ता इति मखतपसी श्रेयसे नात्मचर्चा उत्तरार्धे तु केशी अग्निर्वायुः सूर्यश्च केशिन इति वैदिकप्रसिद्धेरग्न्यादिवदसङ्ग आत्मा । त्रयोदशसङ्ख्यानि दशेन्द्रियाणि बुद्धिमनोऽहङ्काराख्यानि । अहःशब्दोऽत्र क्रतुवाच्यपि लक्षणया विषयेन्द्रियसम्बन्धरूपभोगाख्ये यज्ञे वर्तते । असङ्गस्याप्यात्मनो बुध्यादिसङ्गात् ध्यायतीव लेलायतीवेत्त्यादिश्रुतेः सङ्गित्वमिव भाति । अतो बुध्यादयः शोधनीया एव न तूदासीत । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति श्रुत्यवष्टम्भेन इहैव देशे काले च मुक्तिरस्तीति भावः । यतः अतिच्छन्दांसि छादकमज्ञानमतिक्रान्तानि धर्मादीनि द्वादश । त्रयोदशादीनि त्रयोदशानां बुध्यादीनाम् आदीनि अदनशीलानि । धर्मादिबलादुत्पन्ने ज्ञाने बुध्यादयो निवर्तन्त इत्यर्थः । तेषु बुद्ध्यादिषु निवृत्तेषु ब्रह्माद्वैतं कथयितुमागतोऽस्मीति प्राक्प्रतिज्ञातं तदिह स्वयमेव प्रकाशत इत्युक्तमिति भावः । एतर्ह्यत्रैव देवा इव मुनिमनुजा यान्ति सार्वात्म्यमित्याद्युक्तेः साहं मनोधीखदशकमनुयन्नाग्निवाय्वर्कतुल्यः । सङ्गी वासङ्ग्यपि स्यात्त्रिदशगणमदन्त्येव धर्मादयस्ते । येतिच्छन्दोऽभिधानांस्तिभिरमतिगता एवमद्वैतसिद्धिः । तदयं सङ्ग्रहः।। ‘तत्त्वन्धीः साक्षिसाक्ष्ये श्रुतिषु कृतिपरोऽस्त्यत्र कर्तापि सोऽत्ता पञ्चानां षष्ठमेतत्खमथ समतिकैस्तैः करोत्यष्टमोऽन्यः । सोऽहं साक्षी ततोऽन्ये गुणमयमखिलं चिन्मयास्ते सदुःखा चित्स्यात् दुःखीतरा सा शमयुगिह चिदद्वैतभागष्टवक्रः॥१५॥’ ग्रन्थविस्तरभयादुदाहृतोपक्रमाननुगुण्यात् क्लिष्टत्वात् प्रयोजनवर्यापर्यवसायित्वाच्च टीकान्तरोक्ता अर्था नेह प्रदर्शिताः ॥२०॥
ततो महानुदतिष्ठन्निनादस्तूष्णींभूतं सूतपुत्रं निशम्य
।
अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव॥२१॥
सूतपुत्रं शोभनः ऊतः पटस्तद्वत्प्रकृतिविकृत्यात्मैकस्तुन्तुभिरोतुभिश्च प्रोतत्वात् ऊतः क्रतुरपि सूतः शोभनयज्ञो वरुणस्तस्य पुत्रम् । स इत्तन्तु स विजानात्योमिति मन्त्रवर्णात्तन्त्वाद्यात्मकस्य क्रतोरूतशब्दवाच्यत्वम् । उदीर्यन्तम् उदीर्यमाणं स्तूयमानमित्यर्थः ॥२१॥
तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः
।
अष्टावक्रं पूजयन्तोभ्युपेयुर्विप्राः सर्वे प्राञ्जलयः प्रतीताः॥२२॥
अष्टावक्र उवाच।
अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक्
।
तानेव धर्मानयमद्य बन्दी प्राप्नोतु गृह्याशु निमज्जयैनम्॥२३॥
शुश्रुवांसः पण्डिताः ॥२३॥
बन्द्युवाच।
अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै
।
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः॥२४॥
ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इम आयान्ति भूयः
।
अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये॥२५॥
जनितारं वरुणम् ॥२५॥
अष्टावक्र उवाच।
विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः
।
तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः॥२६॥
विप्रा इति । वाचा उच्चैः पाठेनैव । उत मेधया ऊहापोहकौशलेन । विप्राः विदानाः पण्डिता अपि जिताः मज्जिताश्च तां प्रसिद्धां वाचं वेदमयीं मेधया सहितां बन्दिना कुतर्कार्णवे मज्जिताम् अहं यथा उज्जहार उद्धृतवानस्मि तथा सन्तः सदसद्वचनविवेककुशलाः अवचिन्वन्ति परीक्षयन्ति । लोडर्थे लट् । परीक्षयन्त्वित्यर्थः ॥२६॥
अग्निर्दहञ्जातवेदाः सतां गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत्
।
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः॥२७॥
ननु बन्दिनोद्धृतां वाचं त्वमेव कुतर्कार्णवे मज्जितवानसि तत्र किं सद्भिः परीक्षणीयमित्याशङ्क्याह अग्निर्दहन्निति । अग्निः दहन् स्वभावेन दाहकोऽपि जातवेदाः जातानि सतामसतां च वृत्तानि वेद जानातीति जातवेदाः । सतां सत्याभिसन्धीनां गृहान् शरीराणि विसर्जयन् वर्जयन् तेजसा यथा अधाक्षीत्स्म अर्थादनृताभिसन्धिगृहान् । न शब्द उपमार्थे । अपो न नावादुरितातरेमेत्यादिवत् । यथा तप्तपरशुग्रहणे वह्निः सत्याभिसन्धिं न दहति सत्यपक्षपाती न तु जातिवयोविद्यादिपक्षपाती एवं सन्तोऽपि बालादिषु । अतो बालवचनमिति मद्वाक्यं नावमन्तव्यमिति भावः ॥२७॥
श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति
।
हस्तीव त्वं जनक बिनुद्यमानो न मामिकां वाचमिमां शृणोषि॥२८॥
श्लेष्मातकीशब्दितस्तरुविशेषस्तस्य पत्रेषु भोजनं तत्फलभक्षणं च बुद्धिघ्नं दोषकरं चेति प्रसिद्धम् ॥२८॥
जनक उवाच।
शृणोमि वाचं तव दिव्यरूपाममानुषीं दिव्यरूपोऽसि साक्षात्
।
अजैषीर्यद्वन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी॥२९॥
अद्य तव कामो निसृष्टः एष बन्दी दृश्यतामिति शेषः ॥२९॥
अष्टावक्र उवाच।
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप
।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये॥३०॥
बन्द्युवाच
।
अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य
।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोडम्॥३१॥
लोमश उवाच।
ततस्ते पूजिता विप्रा वरुणेन महात्मना
।
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः॥३२॥
कहोड उवाच।
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा
।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम॥३३॥
इत्यर्थम् एतदर्थम् ॥३३॥
उताबलस्य बलवानुत बालस्य पण्डितः
।
उत वाविदुषो विद्वान्पुत्रो जनक जायते॥३४॥
शितेन ते परशुना स्वयमेवान्तको नृप
।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते॥३५॥
शितेन तीक्ष्णेन ते तव रिपूणामित्यन्वयः । यमादपि तव शत्रुसंहरणशक्तिरधिकेति भावः ॥३५॥
महदौक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे
।
शुचीन्मार्गान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्योत राज्ञः॥३६॥
औक्थ्यम् उक्थ्याख्यक्रतुविशेषे गेयम् । साक्षादित्यपरोक्षं देवतासानिध्यमुच्यते ॥३६॥
लोमश उवाच।
समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु
।
अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी॥३७॥
अष्टावक्रः पितरं पूजयित्वा संपूजितो ब्राह्मणैस्तैर्यथावत्
।
प्रत्याजगामाश्रममेव चाग्र्यं जित्वा सौतिं सहितो मातुलेन॥३८॥
सौर्ति सूतस्य वरुणस्य पुत्रम् ॥३८॥
ततोऽष्टावक्रं मातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व
।
प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव सद्यः॥३९॥
समानि अङ्गानि करोतीति समङ्गेति योगो दर्शितः शकन्ध्वादित्वात् पररूपम् ॥३९॥
नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धि
।
त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशस्व॥४०॥
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः
।
पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ॥४१॥
प्रतीतो विश्रब्धः ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायाम् अष्टावक्रीये चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
लोमश उवाच।
एषा मधुविला राजन्समङ्गा संप्रकाशते
।
एतत्कर्दमिलं नाम भरतस्याभिषेचनम्॥१॥
एषेति । मधुविलेति अष्टावक्राङ्गसमीकरणात्पूर्वं समङ्गाया एव नाम ॥१॥
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः
।
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत॥२॥
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ
।
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा॥३॥
अन्नं ब्रह्मौदनम् । आदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचदिति श्रुतेः ॥३॥
एनं पर्वतराजानमारुह्य भरतर्षभाः
।
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ॥४॥
अयशस्याम् अयशस्करीम् असंशब्द्याम् अकीर्तनीयाम् ॥४॥
एते कनखला राजन्नृषीणां दयिता नगाः
।
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी॥५॥
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा
।
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे॥६॥
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्
।
उष्णीगङ्गे च कौन्तेय सामात्यः समुपस्पृश॥७॥
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते
।
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय॥८॥
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते
।
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत॥९॥
युधिष्ठिर उवाच।
कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्
।
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः॥१०॥
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः
।
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे॥११॥
लोमश उवाच।
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः
।
तावूषतुरिहात्यन्तं प्रीयमाणावनन्तरम्॥१२॥
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू
।
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत॥१३॥
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्
।
तयोश्चाप्यतुला कीर्तिर्बाल्यात्प्रभृति भारत॥१४॥
इतरो भरद्वाजस्तपस्व्येव न तु शिष्यादिसम्पन्नः ॥१४॥
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्
।
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः॥१५॥
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः
।
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव॥१६॥
स समिद्धे महत्यग्नौ शरीरमुपतापयन्
।
जनयामास संतापमिन्द्रस्य सुमहातपाः॥१७॥
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर
।
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्॥१८॥
यवक्रीत उवाच।
द्विजानामनधीता वै वेदाः सुरगणार्चित
।
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः॥१९॥
स्वाध्यायार्थं समारम्भो ममायं पाकशासन
।
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक॥२०॥
सर्वज्ञानानि सर्वशास्त्राणि ॥२०॥
कालेन महता वेदाः शक्या गुरुमुखाद्विभो
।
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः॥२१॥
इन्द्र उवाच।
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि
।
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्॥२२॥
विघातेन आत्मनाशनेन ॥२२॥
लोमश उवाच।
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत
।
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः॥२३॥
घोरेण तपसा राजंस्तप्यमानो महत्तपः
।
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्॥२४॥
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्
।
उपेत्य बलभिद्देवो वारयामास वै पुनः॥२५॥
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव
।
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते॥२६॥
न प्रतिभास्यन्तीति नकारावृत्त्या योज्यम् ॥२६॥
यवक्रीत उवाच।
न चैतदेवं क्रियते देवराज ममेप्सितम्
।
महता नियमेनाहं तप्स्ये घोरतरं तपः॥२७॥
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध
।
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्॥२८॥
लोमश उवाच।
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः
।
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्॥२९॥
।
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः
।
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः॥३०॥
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि
।
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः॥३१॥
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः
।
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्॥३२॥
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्
।
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन्॥३३॥
तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने
।
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः॥३४॥
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम्
।
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः॥३५॥
इन्द्र उवाच।
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति
।
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः॥३६॥
यवक्रीत उवाच।
नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन
।
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ॥३७॥
इन्द्र उवाच।
यथैव भवता चेदं तपो वेदार्थमुद्यतम्
।
अशक्यं तद्वदस्माभिरयं भारः समाहितः॥३८॥
यवक्रीत उवाच।
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर
।
तथा यदि ममापीदं मन्यसे पाकशासन॥३९॥
क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर
।
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति॥४०॥
लोमश उवाच।
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः
।
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः॥४१॥
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति
।
स लब्धकामः पितरं समेत्याथेदमब्रवीत्॥४२॥
यवक्रीत उवाच।
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः
।
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया॥४३॥
भरद्वाज उवाच।
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्
।
स दर्पपूर्णः कृपणः क्षिप्रमेव विनङ्ख्यास॥४४॥
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः
।
मुनिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्॥४५॥
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुष्करम्
।
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः॥४६॥
अमर्त्य इति च्छेदः अमर इत्यर्थः ॥४६॥
तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः
।
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति॥४७॥
बालधिरुवाच।
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः
।
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भविष्यति॥४८॥
भरद्वाज उवाच।
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा
।
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत॥४९॥
विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम्
।
आससाद महावीर्यं धनुषाक्षं मनीषिणम्॥५०॥
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्
।
भव भस्मेति चोक्तः स न भस्म समपद्यत॥५१॥
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्
।
निमित्तमस्य महिषैर्भेदयामास वीर्यवान्॥५२॥
निमित्तं पर्वतान् भेदयामास खण्डयामास ॥५२॥
स निमित्ते विनष्टे तु ममार सहसा शिशुः
।
तं मृतं पुत्रमादाय विललाप ततः पिता॥५३॥
लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत्
।
ऊचुर्वेदविदः सर्वे गाथां यां तां निबोध मे॥५४॥
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन
।
महिषैर्भेदयामास धनुषाक्षो महीधरान्॥५५॥
दिष्टं दैवविहितम् ॥५५॥
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः
।
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्॥५६॥
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ
।
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः॥५७॥
स हि क्रुद्धः समर्थश्च पुत्रं पीडयितुं रुषा
।
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः॥५८॥
यवक्रीत उवाच।
एवं करिष्ये मा तापं तात कार्षीः कथंचन
।
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम॥५९॥
लोमश उवाच।
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः
।
विप्रकुर्वनृषीनन्यानतुष्यत्परया मुदा॥६०॥
इति श्रीमहाभारते आरण्यके पर्वणि लोमशतीर्थयात्रायां यवक्रीतोपाख्याने पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
लोमश उवाच।
द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः
।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः॥१॥
भो द्रष्टारः सर्वे मन्दरादन्ये पर्वताः दृष्टा इति शेषः ॥१॥
पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति
।
समाहिता निरुद्विग्नाः सर्वे भवत पाण्डवाः॥२॥
अयं देवनिवासो वै गन्तव्यो वो भविष्यति
।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणाम्॥३॥
एषा शिवजला पुण्या याति सौम्य महानदी
।
बदरीप्रभवा राजन्देवर्षिगणसेविता॥४॥
महानदी गङ्गा अलकन्दा वा ॥४॥
एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः
।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः॥५॥
उपयाता इष्टसिद्ध्यर्थं प्रार्थिता ॥५॥
अत्र साम स्म गायन्ति सामगाः पुण्यनिःस्वनाः
।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा॥६॥
सामगाः तैत्तिरीयके ब्रह्मविद्गेयं साम श्रूयते । ‘एतत्साम गायन्नास्ते हा ३ वुहा ३ वुहा ३ वु अहमन्नम्’ इत्यादि । मरीच्यादयोऽत्र सार्वात्म्यं स्वस्य पश्यन्तो गायन्तीत्यर्थः ॥६॥
अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः
।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा॥७॥
आह्निकं नैयमिकं जपम् । परिधावन्ति परिचरन्ति । तम् इन्द्रम् ॥७॥
चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः सह
।
अहोरात्रविभागेन नदीमेनामनुव्रजन्॥८॥
एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत्
।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत्॥९॥
एतां भगवतीं देवीं भवन्तः सर्व एव हि
।
प्रयतेनात्मना तात प्रतिगम्याभिवादत॥१०॥
वादत वादयत । अक्षरलोप आर्षः ॥१०॥
तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः
।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन्॥११॥
अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः
।
पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह॥१२॥
ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम्
।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतो दिशम्॥१३॥
पाण्डुरं श्वेतम् । अस्थ्नां राशिमिति शेषः ॥१३॥
तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः
।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः॥१४॥
एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम्
।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम्॥१५॥
एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः
।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम्॥१६॥
नरकस्य भौमासुरस्य ॥१६॥
पुरातनेन देवेन विष्णुना परमात्मना
।
दैत्यो विनिहतस्तेन सुरराजहितैषिणा॥१७॥
दशवर्षसहस्राणि तपस्तप्यन्महामनाः
।
ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात्॥१८॥
तपोबलेन महता बाहुवेगबलेन च
।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः॥१९॥
स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम्
।
भयाभिभूतः संविग्नः शक्र आसीत्तदानघ॥२०॥
तेन संचिन्तितो देवो मनसा विष्णुरव्ययः
।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ॥२१॥
ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः
।
तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः॥२२॥
नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः
।
तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्॥२३॥
प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्
।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत्॥२४॥
विष्णुरुवाच।
जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः
।
ऐन्द्रं प्रार्थयते स्थानं तपः सिद्धेन कर्मणा॥२५॥
सोऽहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम्
।
वियुनज्मि देहाद्देवेन्द्र मुहूर्तं प्रतिपालय॥२६॥
तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत्
।
स पपात ततो भूमौ गिरिराज इवाहतः॥२७॥
पाणिना चपेटाघातेन चेतनां हरत्प्राणान्जहार ॥२७॥
तस्यैतदस्थिसंघातं मायाविनिहतस्य वै
।
इदं द्वितीयमपरं विष्णोः कर्म प्रकाशते॥२८॥
नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता
।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा॥२९॥
युधिष्ठिर उवाच।
भगवन्विस्तरेणेमां कथां कथय तत्त्वतः
।
कथं तेन सुरेशेन नष्टा वसुमती तदा॥३०॥
योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा
।
केन चैव प्रकारेण जगतो धरणी ध्रुवा॥३१॥
केन च प्रकारेण उद्धरिता पुनः उद्धृतेति शेषः ॥३१॥
शिवा देवी महाभागा सर्वसस्यप्ररोहिणी
।
कस्य चैव प्रभावाद्धि योजनानां शतं गता॥३२॥
गता अधस्तादिति शेषः ॥३२॥
केन तद्वीर्यसर्वस्वं दर्शितं परमात्मनः
।
एतत्सर्वं यथातत्त्वमिच्छामि द्विजसत्तम
।
श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः॥३३॥
लोमश उवाच।
यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर
।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः॥३४॥
पुरा कृतयुगे तात वर्तमाने भयंकरे
।
यमत्वं कारयामास आदिदेवः पुरातनः॥३५॥
यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः
।
न तत्र म्रियते कश्चिज्ञायते वा तथाच्युत॥३६॥
वर्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम्
।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः॥३७॥
पशवश्च गावश्च एडका मेषाश्च पशुगवेडकम् ॥३७॥
तथा पुरुषशार्दुल मानुषाश्च परंतप
।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा॥३८॥
एतस्मिन्संकुले तात वर्तमाने भयंकरे
।
अतिभाराद्वसुमती योजनानां शतं गता॥३९॥
सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना
।
नारायणं वरं देवं प्रपन्ना शरणं गता॥४०॥
पृथिव्युवाच।
भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह
।
भारेणास्मि समाक्रान्ता न शक्नोमि स्म वर्तितुम्॥४१॥
ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि
।
शरणागतास्मि ते देव प्रसादं कुरु मे विभो॥४२॥
तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः
।
प्रोवाच वचनं हृष्टः श्रव्याक्षरसमीरितम्॥४३॥
विष्णुरुवाच।
न ते महि भयं कार्यं भारार्ते वसुधारिणि
।
अयमेवं तथा कुर्मि यथा लघ्वी भविष्यसि॥४४॥
न ते त्वया। हे महि । कुर्मि करोमि ॥४४॥
लोमश उवाच।
स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम्
।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः॥४५॥
रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव
।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत॥४६॥
धूमम् धूपम् । ज्वलयन्निति हेतौ शतृप्रत्ययः । यथायथा धूमो ज्वलति तथातथा अवर्धत इत्यर्थः ॥४६॥
स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता
।
योजनानां शतं वीर समुद्धरति सोऽक्षरः॥४७॥
अक्षरः वेदात्मा ॥४७॥
तस्यां चोद्धार्तमाणायां संक्षोभः समजायत
।
देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः॥४८॥
हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा
।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोऽपि वा॥४९॥
ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया
।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः॥५०॥
उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम्
।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा॥५१॥
वाक्यम् उच्चारयन् उच्चारितवन्तः ॥५१॥
लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम्
।
समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते॥५२॥
सैषा वसुमती कृत्स्ना योजनानां शतं गता
।
किमेतत्किं प्रभावेण येनेदं व्याकुलं जगत्
।
आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः॥५३॥
ब्रह्मोवाच।
असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित्
।
श्रूयतां यत्कृतेष्वेष संक्षोभो जायतेऽमराः॥५४॥
योऽसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः
।
तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते॥५५॥
येषा वसुमती कृत्स्ना योजनानां शतं गता
।
समुद्धृता पुनस्तेन विष्णुना परमात्मना॥५६॥
तस्यामुद्धार्यमाणायां संक्षोभः समजायत
।
एवं भवन्तो जानन्तु छिद्यतां संशयश्च वः॥५७॥
देवा ऊचुः
।
क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत्
।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम्॥५८॥
ब्रह्मोवाच।
हन्त गच्छत भद्रं वो नन्दने पश्यत स्थितम्
।
एषोऽत्र भगवाञ्श्रीमान्सुपर्णः संप्रकाशते॥५९॥
नन्दने इन्द्रवने। अत्र एतत्समीपे ॥५९॥
वाराहेणैव रूपेण भगवाँल्लोकभावनः
।
कालानल इवाभाति पृथिवीतलमुद्धरन्॥६०॥
एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते
।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम्॥६१॥
लोमश उवाच।
ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः
।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम्॥६२॥
वैशंपायन उवाच।
श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय
।
लोमशादेशितेनाशु पथा जग्मुः प्रहृष्टवत्॥६३॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे द्विचत्त्वारिंशदधिकशततमोऽध्यायः॥१४२॥
युधिष्ठिर उवाच।
धर्मज्ञो बलवाञ्शूरः सत्यो राक्षसपुङ्गवः
।
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु माचिरम्॥१॥
धर्मज्ञ इति ॥१॥
तव बाहुबलेनाहमतिभीमपराक्रम
।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्॥२॥
वैशंपायन उवाच।
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्
।
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्॥३॥
भीमसेन उवाच।
हैडिम्बेय परिश्रान्ता तव मातापराजिता
।
त्वं च कामगमस्तात बलवान्वह तां खग॥४॥
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा
।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः॥५॥
घटोत्कच उवाच।
धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा
।
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्॥६॥
अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः
।
सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ॥७॥
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः
।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे॥८॥
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः
।
स्वेनैव स प्रभावेण द्वितीय इव भास्करः॥९॥
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः
।
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः॥१०॥
एवं सुरमणीयानि वनान्युपवनानि च
।
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति॥११॥
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः
।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत्॥१२॥
देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान्
।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्॥१३॥
रत्नाकरैः आसमन्तात् युतान् ॥१३॥
विद्याधरसमाकीर्णान्युतान्वानरकिन्नरैः
।
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः॥१४॥
मयूरैश्चमरैश्चैव वानरै रुरुभिस्तथा
।
वराहैर्गवयैश्चैव महिषैश्च समावृतान्॥१५॥
नदीजालसमाकीर्णान्नानापक्षियुतान्बहुन्
।
नानाविधमृगैर्जुष्टान्वानरैश्चोपशोभितान्॥१६॥
समदैश्चापि विहगैः पादपैरन्वितास्तथा
।
तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि॥१७॥
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम्
।
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्॥१८॥
अभ्याशे समीपे ॥१८॥
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः
।
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्॥१९॥
स्निग्धामविरलच्छायां श्रिया परमया युताम्
।
पत्रैः स्रिग्धैरविरलैरुपेतां मृदुभिः शुभाम्॥२०॥
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्
।
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्॥२१॥
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्
।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्॥२२॥
अदंशमशके देशे बहुमूलफलोदके
।
नीलशाद्वलसंच्छन्ने देवगन्धर्वसेविते॥२३॥
सुसमीकृतभूभागे स्वभावविहिते शुभे
।
जातां हिमसुदुस्पर्शे देशेऽपहतकण्टके॥२४॥
स्वभावत एव विशेषेण हिते स्वभावविहिते । जातां वदरीम् ॥२४॥
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः
।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः॥२५॥
ततस्तमाश्रमं रम्यं नरनारायणाश्रितम्
।
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः॥२६॥
तमसा रहितं पुण्यमनामृष्टं रवेः करैः
।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्॥२७॥
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम्
।
दुष्प्रवेशं महाराज नरेर्धर्मबहिष्कृतैः॥२८॥
महर्षिगणसंबाधम् ऋषिगणव्याप्तम् बाह्या लक्ष्म्या ऋग्यजुःसामात्मिकया। ‘ऋचः सामानि यजूंषि सा हि श्रीरमृता सताम्’ इति श्रुतेः ॥२८॥
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्
।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्॥२९॥
सुष्ठु संमृष्टं संमार्जनम् अनुलेपनं च यत्र तत् ॥२९॥
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः
।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्॥३०॥
अग्निशरणैः अग्न्यगारैः आचितम् व्याप्तम् । कठिनैः शिक्यैः करण्डैर्वा ॥३०॥
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्
।
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्॥३१॥
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्
।
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः॥३२॥
देवचर्या सत्यसंकल्पत्वादिका तया उपशोभितम् ॥३२॥
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः
।
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः॥३३॥
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः
।
सोऽभ्यगच्छन्महातेजास्तानृषीन्प्रयतः शुचिः॥३४॥
ब्रह्मभूतैः ब्रह्मवित्त्वेन ब्रह्मभावंगतैः । तथा च श्रुतिः । ‘ब्रह्मविद्ब्रह्मैव भवति’ इति ॥३४॥
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः
।
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्॥३५॥
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः
।
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम्॥३६॥
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः
।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि॥३७॥
सत्कारं चक्रुरिति शेषः ॥३७॥
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः
।
प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः॥३८॥
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्
।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया॥३९॥
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ
।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहस्रशः॥४०॥
तत्रापश्यत धर्मात्मा देवदेवर्षिपूजितम्
।
नरनारायणस्थानं भागीरथ्योपशोभितम्॥४१॥
पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः
।
मधुस्त्रवफलं दिव्यं ब्रह्मर्षिगणसेवितम्॥४२॥
तदुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह
।
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा॥४३॥
तदुपेत्य स्थानं प्राप्य ॥४३॥
आलोकयन्तो मैनाकं नानाद्विजगणायुतम्
।
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्॥४४॥
तस्मिन्विहरमाणाश्च पाण्डवाः सह कृष्णया
।
मनोज्ञे काननवरे सर्वर्तुकुसुमोज्ज्वले॥४५॥
पादपैः पुष्पविकचैः फलभारावनामिभिः
।
शोभिते सर्वतो रम्यैः पुंस्कोकिलगणायुतैः॥४६॥
पुष्पविकचैः विकसितकुसुमैः ॥४६॥
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
।
सरांसि च विचित्राणि प्रसन्नसलिलानि च॥४७॥
कमलैः सोत्पलैश्चैव भ्राजमानानि सर्वशः
।
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः॥४८॥
पुण्यगन्धसुखस्पर्शो ववौ तत्र समीरणः
।
ह्लादयन्पाण्डवान्सर्वान्द्रौपद्या सहितान्प्रभो॥४९॥
भागीरथीं सुतीर्थां च सीतां विमलपङ्कजाम्
।
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्॥५०॥
सीतां नामतः । प्रस्तारः सोपानपादगणादिरूपः घट्ट इत्यर्थः ॥५०॥
दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम्
।
वीक्षमाणा महात्मानो विशालां वदरीमनु॥५१॥
तस्मिन्देवर्षिचरिते देशे परमदुर्गमे
।
भागीरथीपुण्यजले तर्पयाञ्चक्रिरे तदा॥५२॥
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः
।
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः॥५३॥
ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुषर्षभाः
।
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः
।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां गन्धमादनप्रवेशे पञ्चचत्त्वारिंशदधिकशततमोऽध्यायः॥१४५॥
वैशंपायन उवाच।
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षवः॥१॥
तत्रेति ॥१॥
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया
।
सहस्त्रपत्रमर्काभं दिव्यं पद्ममुपाहरत्॥२॥
पूर्वोत्तरे ऐशानकोणे ॥२॥
तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्
।
अनिलेनाहृतं भूमौ पतितं जलजं शुचि॥३॥
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्॥४॥
शुभा कल्याणी । शुभं शोभायुतम् । सौगन्धिकं पद्मजातिभेदः ॥४॥
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्॥५॥
गन्धेति । संस्थानम् आकारः ॥५॥
इदं च धर्मराजाय प्रदास्यामि परंतप
।
हरेदं मम कामाय काम्यके पुनराश्रमे॥६॥
हर आहर । इदम् एतज्जातीयम् ॥६॥
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्॥७॥
एवमुक्त्वा शुभापाङ्गी भीमसेनमनिन्दिता
।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥८॥
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः॥९॥
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
।
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि॥१०॥
रुक्मपृष्ठं धनुर्गुह्य शरांश्चाशीविषोपमान्
।
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः॥११॥
प्रभिन्नः मत्तः ॥११॥
ददृशुः सर्वभूतानि महाबाणधनुर्धरम्
।
न ग्लानिर्न च वैक्लव्यं न भयं न च संभ्रमः
।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥१२॥
ग्लानिवैक्लव्ये देहाचित्तयोरवसादौ । भयं तत्कारणं स्वोच्छेदबुद्धिः । भयाभावादेव मया यत्नेन गन्तव्यमित्यादरः संभ्रमः सोऽपि तं न जुषते सेवते तत्र हेतुः आत्मजमिति । मातरिश्वनः वायोः सार्धः ॥१२॥
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः॥१३॥
व्यपेतभयसंमोहः शैलमभ्यपतद्बली
।
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्॥१४॥
गिरिं चचारारिहरः किन्नराचरितं शुभम्
।
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः॥१५॥
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्
।
सर्वत्र रमणीयेषु गन्धमादनसानुषु॥१६॥
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन्
।
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च॥१७॥
अभिप्रायान् देवऋषिगन्धर्वादिलीलोन्नयनहेतून् पुष्पकुशादिसंस्तरान् ॥१७॥
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
।
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्॥१८॥
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः
।
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना॥१९॥
पितुः संस्पर्शशीतेन गन्धमादनवायुना
।
क्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः॥२०॥
पितुर्यथा पुत्रस्पर्शः शीतस्तादृक्स्पर्शवता वायुनेत्यर्थः । पित्रा वायुना ॥२०॥
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
।
विलोकयामास तदा पुष्पहेतोररिंदमः॥२१॥
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः
।
वलिभिर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
।
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः॥२२॥
धातुविच्छेदैः धातुभेदैः । अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः रचितैः । वलिभिः त्रिपुण्ड्राकारैरनुलिप्त इवेत्यर्थः । आञ्जनेति कृष्णधातुग्रहणम् । पीतकृष्णश्वेतधातुभिरित्यर्थः । पयोधरैर्मेघैः ॥२२॥
मुक्ताहारैरिव चितं च्युतैः प्रस्त्रवणोदकैः
।
अभिरामदीकुञ्जनिर्झरोदककन्दरम्॥२३॥
दरी बिलगृहम् कन्दरं महाप्रपातः अभिरामाः दरीप्रभृतयो यस्मिन् ॥२३॥
अप्सरो नूपुररवैः प्रनृत्तवरबर्हिणम्
।
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्॥२४॥
विषाणाग्रैर्दन्ताग्रैः । ‘विषाणं कुष्ठके क्लीबं त्रिषु शृङ्गेभदन्तयोः’ इति मेदिनी । शिलाः समपाषाणाः शयनासनयोग्या । उपलास्तदन्ये ॥२४॥
स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः
।
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः॥२५॥
शष्पं बालतृणम् । कवलो ग्रासः तद्युक्तैः ॥२५॥
भयानभिज्ञैर्हरिणैः कौतूहलनिरीक्षितः
।
चालयानः स्ववेगेन लताजालान्यनेकशः॥२६॥
आक्रीडमानो हृष्टात्मा श्रीमान्वायुसुतो ययौ
।
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः॥२७॥
प्रांशुः कनकवर्णाभः सिंहसंहननो युवा
।
मत्तवारणविक्रान्तो मत्तवारणवेगवान्॥२८॥
कनकवर्णाभः पतिदीप्तिः । सिंहसंहननः सिंहवत् दृढाङ्गः ॥२८॥
मत्तवारणताम्राक्षो मत्तवारणवारणः
।
प्रियपाश्वर्थोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः॥२९॥
वारणानामपि वारणः निवारकः संग्रामादौ । विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥२९॥
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
।
नवावतारं रूपस्य विक्रीडन्निव पाण्डवः॥३०॥
रूपस्य सौन्दर्यस्य । ‘रूपं स्वभावे सौन्दर्ये’ इति मेदिनी ॥३०॥
चचार रमणीयेषु गन्धमादनसानुषु
।
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्॥३१॥
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
।
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते॥३२॥
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः
।
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च॥३३॥
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः
।
कथं तु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्॥३४॥
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
।
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु॥३५॥
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ
।
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु॥३६॥
निर्घात उत्पातः । पर्वसु उत्सवेषु ॥३६॥
त्रासयन्गजयूथानि वातरंहा वृकोदरः
।
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः॥३७॥
उन्मूलयन्महावृक्षान्पोथयंस्तरसा बली
।
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः
।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः॥३८॥
पोथयन् मर्दयन् । लता भूचरा । वल्ली वृक्षचरेति भेदः ॥३८॥
विनर्दमानोऽतिभृशं सविद्युदिव तोयदः
।
तेन शब्देन महता भीमस्य प्रतिबोधिताः॥३९॥
गुहां सन्तत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः
।
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः॥४०॥
ऋक्षाश्चोत्ससृजुर्वृक्षांस्तत्यजुर्हरयो गुहाम्
।
व्यजृम्भन्त महासिंहा महिषाश्चावलोकयन्॥४१॥
अवलोकयन् व्यलोकयन् ॥४१॥
तेन वित्रासिता नागाः करेणुपरिवारिताः
।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम्॥४२॥
वराहमृगसंघाश्च महिषाश्च वनेचराः
।
व्याघ्रगोमायुसंघाश्च प्रणेदुर्गवयैः सह॥४३॥
रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः
।
शुकाः पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः
।
तथान्ये दर्पिता नागाः करेणुशरपीडिताः
।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन्॥४५॥
करेणुशरेण हस्तिनीकृतेनोत्तेजनेन पीडिताः । ‘शरस्तूत्तेजने बाणे’ इति मेदिनी ॥४५॥
शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः
।
व्यादितास्या महारौद्रा व्यनदन्भीषणान्रवान्॥४६॥
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः
।
गजेनान्यान्गजाञ्छ्रीमान्सिंहं सिंहेन वा विभुः॥४७॥
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली
।
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः॥४८॥
भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः
।
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः॥४९॥
वनं पाण्डुसुतः श्रीमाञ्छब्देनापूरयन्दिशः
।
अथापश्यन्महाबाहुर्गन्धमादनसानुषु॥५०॥
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम्
।
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महावलः॥५१॥
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान्
।
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान्॥५२॥
आस्रावी मत्तगज इवेत्यर्थः । कदलीस्तम्भान् मृगविशेषपादान् । ‘रम्भावृक्षेऽथ कदली पताका मृगभेदयोः’ इति मेदिनी । उत्तरश्लोकाद्वलिनामित्यपकृष्य बलिनां यक्षादीनां पताका स्तम्भान् वा ॥५२॥
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः
।
विनदन्सुमहातेजा नृसिंह इव दर्पितः॥५३॥
ततः सत्त्वान्युपाक्रामद्बहूनि सुमहान्ति च
।
रुरुवानरसिंहांश्च महिषांश्च जलाशयान्॥५४॥
तेन शब्देन चैवाथ भीमसेनरवेण च
।
वनान्तरगताश्चापि वित्रेसुर्मृगपक्षिणः॥५५॥
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम्
।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः॥५६॥
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः
।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः॥५७॥
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः
।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः॥५८॥
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्
।
महागज इवोद्दामश्चिक्रीड बलवद्बली॥५९॥
नलिनोत्पलं पद्मपुष्पम्। ‘उत्पली तुषपर्पट्यां क्लीबं कुष्ठप्रसूनयोः’ इति मेदिनी । उद्दामः बन्धनशून्यः ॥५९॥
विक्रीड्य तस्मिन्रुचिरमुत्ततारामितद्युतिः
।
ततोऽध्यगन्तुं वेगेन तद्वनं बहुपादपम्॥६०॥
अध्यगन्तुं पर्वतोपरि वनं गन्तुमुद्यतः सन्निति शेषः ॥६०॥
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः
।
आस्फोटयच्च बलवान्भीमः संनादयन्दिशः॥६१॥
तस्य शङ्खस्य शब्देन भीमसेनरवेण च
।
बाहुशब्देन चोग्रेण नदन्तीव गिरेर्गुहाः॥६२॥
तं वज्रनिष्पेषसममास्फोटितमहारवम्
।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः॥६३॥
आस्फोटित उद्भावितः बाहुघातो वा ॥६३॥
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत
।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः॥६४॥
तं तु नादं ततः श्रुत्वा मुक्तं वारणपुङ्गवैः
।
भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः॥६५॥
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात्
।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः॥६६॥
दिवंगमं मार्गं स्वर्गमार्गम् ॥६६॥
आस्त एकायने मार्गे कदलीषण्डमण्डिते
।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै॥६७॥
एकायने अतिसंकुचिते ॥६७॥
माऽत्र प्राप्स्यति शापं वा घर्षणां वेति पाण्डवः
।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः॥६८॥
वानरः कपिः वानानि शुष्कफलानि राति आदत्ते इति वानरः । अहिंस्र इत्यर्थः ॥६८॥
प्राजृम्भत महाकायो हनूमान्नाम वानरः
।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा॥६९॥
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्
।
आस्फोटयच्च लाङ्गूलमिन्द्राशनिसमस्वनम्॥७०॥
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः
।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः॥७१॥
उद्गारं प्रतिशब्दं गौरिव उत्ससर्ज ॥७१॥
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः
।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत॥७२॥
स लाङ्गूलरवस्तस्य मत्तवारणनिःस्वनम्
।
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु॥७३॥
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः
।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्॥७४॥
कदलीवनमध्यस्थमथ पीने शिलातले
।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा॥७५॥
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिञ्चलम्
।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम्॥७६॥
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्
।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्॥७७॥
बाहोः स्वस्तिकं चतुरस्रं मूलम् अंस इति यावत् । तत्र न्यस्तकन्धरमित्यर्थः । तत्र हेतुः स्कन्धेति विपुलांसत्वादित्यर्थः ॥७७॥
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च
।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्॥७८॥
अभुग्नं द्विगुणीकृतम् ॥७८॥
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तवर्णं चलद्भ्रुवम्
।
विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम्॥७९॥
अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम्
।
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्॥८०॥
उडुपं चन्द्रम् ॥८०॥
केसरोत्करसंमिश्रमशोकानामिवोत्करम्
।
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्॥८१॥
अशोकानाम् अशोकपुष्पाणाम् ॥८१॥
दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्
।
निरीक्षन्तममित्रघ्नं लोचनैर्मधुपिङ्गलैः॥८२॥
तं वानरवरं धीमानतिकायं महाबलम्
।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम्॥८३॥
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने
।
अथोपसृत्य तरसा विभीर्भीमस्ततो बली॥८४॥
सिंहनादं चकारोग्रं वज्राशनिसमं बली
।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः॥८५॥
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने
।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः
।
स्मितेन चैनमासाद्य हनूमानिदमब्रवीत्॥८६॥
हनुमानुवाच।
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः
।
ननु नाम त्वया कार्या दया भूतेषु जानता॥८७॥
सरुजः सपीडः ते त्वया ॥८७॥
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः
।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु॥८८॥
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु
।
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥८९॥
न त्वं धर्मं विजानासि बुधा नोपासितास्त्वया
।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्॥९०॥
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः
।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि॥९१॥
क्व च त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ
।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः॥९२॥
विना सिद्धगतिं वीर गतिरत्र न विद्यते
।
देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा॥९३॥
कारुण्यात्त्वामहं वीर वारयामि निबोध मे
।
नातःपरं त्वया शक्यं गन्तुमाश्वसिहि प्रभो॥९४॥
आश्वसिहि विश्वासं कुरु ॥९४॥
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ
।
इमान्यमृतकल्पानि मूलानि च फलानि॥९५॥
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्
।
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव॥९६॥
मह्यं मम ॥९६॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां भीमकदलीखण्डप्रवेशे षट्चत्त्वारिंशदधिकशततमोऽध्यायः॥१४६॥
वैशंपायन उवाच।
एवमुक्तो महावाहुर्भीमसेनः प्रतापवान्
।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः॥१॥
एवमिति ॥१॥
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
।
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्॥२॥
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्
।
एवं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः॥३॥
यत्त्वेतदासीत्प्लवतः सागरं मकरालयम्
।
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्॥४॥
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्॥५॥
हरिर्वानरः ॥५॥
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्
।
कालावस्था तदा ह्यन्या न सा वर्तति सांप्रतम्॥६॥
अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः
।
अयं प्रध्वंसनः काला नाद्य तद्रूपमस्ति म॥७॥
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः
।
कालं समनुवर्तन्ते यथा भावा युगे युगे॥८॥
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च
।
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह
।
युगं समनुवर्तामि कालो हि दुरतिक्रमः॥९॥
वर्ष्म शरीरम् ॥९॥
भीम उवाच।
युगसंख्यां समाचक्ष्व आचारं च युगे युगे
।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ॥१०॥
भावान् तत्त्वानि । कर्म शुभाशुभम् । वीर्यं फलोदयपर्यन्तं शक्तिः । भवाभवौ उत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ॥१०॥
हनूमानुवाच।
कृतं नाम युगं तात यत्र धर्मः सनातनः
।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे॥११॥
कृतमेव सर्वे कृतकृत्या एवेत्यर्थः । तत एव हेतोः कृतयुगं नाम ॥११॥
न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः
।
ततः कृतयुगं नाम कालेन गुणतां गतम्॥१२॥
गुणतां मुख्यमपि अमुख्यतां गतम् ॥१२॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
।
नासन्कृतयुगे तात तदा न क्रयविक्रयः॥१३॥
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी
।
अभिध्याय फलं तत्र धर्मः संन्यास एव च॥१४॥
न सामेति । त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं स्वभावसिद्धत्वान्न सामादीन्यासन् । मानवी क्रिया कृष्याद्यारम्भरूपा । किं तु अभिध्याय फलं संकल्पादेव सर्वं संपद्यत इत्यर्थः ॥१४॥
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः
।
नासूया नापि रुदितं न दर्पो नापि वैकृतम्॥१५॥
वैकृतं कपटम् ॥१५॥
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्
।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः॥१६॥
विग्रहो वैरम् । तन्द्री आलस्यम् । द्वेषः परानिष्टचिन्तनम् । पैशुनं तद्भाषणम् । ईर्ष्या अक्षमा । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥१६॥
ततः परमकं ब्रह्म सा गतिर्योगिनां परा
।
आत्माः च सर्वभूतानां शुक्लो नारायणस्तदा॥१७॥
ततः असूयादित्यागात् परमकं परमानन्दात्मकं ब्रह्म प्राप्यत इति शेषः । गतिः प्राप्यम् । आत्मेति श्वेतरक्तपीतकृष्णरूपाणि क्रमेण कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ॥१७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः
।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः॥१८॥
कृतलक्षणाः कृतानि स्वतः सिद्धानि लक्षणानि शमो दमस्तप इत्यादीनि येषां ते ॥१८॥
समाश्रयं समाचारं समज्ञानं च केवलम्
।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्॥१९॥
समं ब्रह्म तदेव आश्रयादिर्यस्य तत्तथा । ब्रह्मैव फलप्राप्तये श्रयेत् । तत्प्राप्त्यर्थ एव आचारो यस्य । तस्यैव च ज्ञानं केवलं निरुपाधिविषयम् । ब्रह्मैव कर्माणि गत्यागत्यादीनि येषां ते। ‘अहमग्निरहं हुतम्’ इत्यादिवचनात् ॥१९॥
एकदेवलदायुक्ता एकमन्त्रविधिक्रियाः
।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः॥२०॥
एको देवः प्रत्यगात्मा तत्रैव सदा युक्ता योगवन्तः। एको मन्त्रः प्रणवः । एको विधिर्वेदान्तश्रवणादिः । एका क्रिया ध्यानादिः । एक एव तत्त्वप्रतिपादको वेदो येषाम् । सर्वेऽपि ज्ञाननिष्ठा एव न तु केवलकर्मठा व्यसनिनो वा ॥२०॥
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
।
अकाम फलसंयोगात्प्राप्नुवन्ति परां गतिम्॥२१॥
कालो दर्शादिः तद्युक्तेन कर्मणा कामफलेन इच्छितफलेन स्त्र्यादिना स्वर्गादिना वा संयोगस्तदभावात् ॥२१॥
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः
।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः॥२२॥
आत्मनि ब्रह्मणि योग ऐक्यं तेन समायुक्तोऽयं धर्मो योगाख्यः कृतलक्षणः कृतयुगसूचकः । यदैव यत्रैव पुंसि ईदृग्धर्मो वर्धते तदैव कृतयुगमित्यर्थः । चतुष्पादः अविकलः ॥२२॥
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
।
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते॥२३॥
त्रैगुण्यं प्रवृत्तिप्रकाशमोहात्मकरजः सत्त्वतमसां समाहारस्तेन वर्जितम् । सत्रं यज्ञक्रिया रजोमिश्रत्वात् ॥२३॥
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः
।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः॥२४॥
सत्येनैव प्रवृत्ताः ॥२४॥
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः
।
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः॥२५॥
भावसंकल्पाः भावो भावना क्रिया अहमनेन कर्मणा इदं फलम् अनेन प्रकारेण करिष्यामीत्येवंरूपा तद्विषय एव संकल्पो येषाम् । अत एव क्रियादिभिः फलोपगाः फलभुजो न तु कृतवत्संकल्पसिद्धाः ॥२५॥
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः
।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन्॥२६॥
द्वापरे च युगे धर्मो द्विभागोनः प्रवर्तते
।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च॥२७॥
द्विभागोनः पादद्वयहीनः । चतुर्धा वेदः कृतः । कृत्नस्यैकेन धारायितुमशक्यत्वात् ॥२७॥
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे
।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे॥२८॥
अनृचः ऋङ्मात्रेणापि हीना अतिमान्द्यात् । यद्वा चतुर्वेदा इति वेदत्रयोक्तं कर्म ज्योतिष्टोमादिकम् । अथर्वणोपनिषदुक्तं ध्यानं च सहैव वानुतिष्ठन्तीति कर्मोपास्तिसमुच्चय उक्तः । त्रिवेदा इति केवलकर्मठाः । द्विवेदा इति स्वशाखोक्तं संध्यावन्दनादिकर्म ध्यानं चानुतिष्ठन्ति । एकवेदा ध्यानैकानष्ठाः । अनृचः कृतकृत्याः । ‘विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये’ इत्युक्तेर्ध्यानादपि विरक्ताः ॥२८॥
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
।
तपोदानप्रवृत्ता च राजसी भवति प्रजा॥२९॥
एकदेवस्य चाज्ञानाद्वेदास्ते बहवः कृताः
।
सत्त्वस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः॥३०॥
सत्त्वस्य बुद्धेः । विभ्रंशात् क्षयात् ॥३०॥
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्
।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः॥३१॥
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः
।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे॥३२॥
यैः व्याधिभिः कामैश्च ॥३२॥
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः
।
पादैनैकेन कौन्तेय धर्मः कलियुगे स्थितः॥३३॥
तामसं युगमासाद्य कृष्णो भवति केशवः
।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा॥३४॥
तामसं तमोगुणप्रधानं कलिम् ॥३४॥
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा
।
उपद्रवाः प्रवर्तन्ते आधयः क्षुद्भयं तथा॥३५॥
ईतयः अतिवृष्ट्यादयः ॥३५॥
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः
।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः॥३६॥
व्यावर्तते नश्यति ॥३६॥
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः
।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते॥३७॥
भावाः धर्मज्ञानादयः । प्रार्थनानि विकुर्वते । अन्यत्प्रार्थ्यतेऽन्यत् जायते । पौष्टिकमपि कर्मविधिलोपान्नाशकं भवतीति भावः ॥३७॥
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते
।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः॥३८॥
चिरजीविनो मादृशा अपि युगानुवर्तिनः कालानुसारिणो भवन्ति ॥३८॥
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम
।
अनर्थकेषु को भावः पुरुषस्य विजानतः॥३९॥
अनर्थकेषु निष्प्रयोजनेषु । भावोऽभिनिवेशः ॥३९॥
एत्तते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
।
युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्॥४०॥
स्वस्ति कल्याणम् ॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां कदलीषण्डे हनूमद्भीमसंवादे ऊनपञ्चाशदधिकशततमोऽध्यायः॥१४९॥
भीमसेन उवाच।
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन
।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना॥१॥
पूर्वरूपमिति ॥१॥
वैशंपायन उवाच।
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः
।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने॥२॥
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः
।
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः॥३॥
सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः
।
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः॥४॥
गिरिश्च विन्ध्यगिरिरिव । इवार्थे चः॥४॥
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः
।
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकुटिलाननः॥५॥
दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः
।
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः॥६॥
विसिष्मिये तदा भीमो जहृषे च पुनः पुनः
।
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्॥७॥
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्
।
आबभाषे च हनुमान्भीमसेनं स्मयन्निव॥८॥
एतावदिह शक्तस्त्वं द्रष्टुं रूपं ममानघ
।
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसि स्थितम्
।
भीमशत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा॥९॥
वैशंपायन उवाच।
तदद्भुतं महारौद्रं विन्ध्यपर्वतसंनिभम्
।
दृष्ट्वा हनूमतो वर्ष्म संम्रान्तः पवनात्मजः॥१०॥
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः
।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्॥११॥
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो
।
संहरस्व महावीर्य स्वयमात्मानमात्मना॥१२॥
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्
।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्॥१३॥
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै
।
यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात्॥१४॥
त्वमेव शक्तस्तां लङ्कां सुयोधां सहवाहनाम्
।
स्वबाहुबलमाश्रित्य विनाशयितुमञ्जसा॥१५॥
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते
।
तव नैकस्य पर्याप्तो रावणः सगणो युधि॥१६॥
पर्याप्तः समर्थः ॥१६॥
वैशंपायन उवाच।
एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः
।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा॥१७॥
हनूमानुवाच।
एवमेतन्महाबाहो यथा वदसि भारत
।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः॥१८॥
मया तु निहते तस्मिन्रावणे लोककण्टके
।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्॥१९॥
तेन वीरेण तं हत्वा सगणं राक्षसाधमम्
।
आनीता स्वपुरं सीता कीर्तिश्चाख्यापिता नृषु॥२०॥
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः
।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः॥२१॥
अरिष्टं निर्विघ्नम् ॥२१॥
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते
।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः॥२२॥
न च ते तरसा कार्यः कुसुमावचयः स्वयम्
।
दैवतानि हि मान्यानि पुरुषेण विशेषतः॥२३॥
पुरुषेण मर्त्येन ॥२३॥
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ
।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत॥२४॥
मा तात साहसं कार्षीः स्वधर्मं परिपालय
।
स्वधर्मस्थः परं धर्मं बुध्यस्व गमयस्व च॥२५॥
गमयस्व बोधपूर्वकमनुतिष्ठ । स्वार्थे णिच् ॥२५॥
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च
।
धर्मार्थै वेदितुं शक्यौ वृहस्पतिसमैरपि॥२६॥
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः
।
स विज्ञेयो विभागेन यत्र मुह्यन्त्यबुद्धयः॥२७॥
दुर्जनवधोऽधर्मोऽपि धर्म एव । परोपघातकं सत्यं धर्मोऽपि अधर्म एव ॥२७॥
आचारसंभवो धर्मो धर्मे वेदाः प्रतिष्ठिताः
।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः॥२८॥
आचारः शौचादिस्तेन धर्मः प्राप्यते ततो वेदाधिगमस्ततो यज्ञानुष्ठानं ततो देवताप्रसाद इत्यर्थः ॥२८॥
वेदाचारविधानोक्तैर्यशैर्धार्यन्ति देवताः
।
बृहस्पत्युशनःप्रोक्तैर्नयैर्धायन्ति मानवाः॥२९॥
वेदेति । यज्ञैर्देवानां नीत्या मनुष्याणां च स्थितिरित्यर्थः ॥२९॥
पण्याकरवणिज्याभिः कृष्यागोजाविपोषणैः
।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः॥३०॥
पणो भृतिस्तामर्हतीति पण्या सेवा। ‘पणो वराटमाने स्यात्’ इत्युपक्रम्य ‘व्यवहारे भृतौ धने ’इति मेदिनी । वार्ता जीविकार्थावृत्तिः ॥३०॥
त्रयी वार्ता दण्डनीतिस्तिस्त्रो विद्या विजानताम्
।
ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते॥३१॥
सा च क्रमेण ब्राह्मणस्य त्रयी याजनाध्यापनादिः । वैश्यस्य वार्तापण्यादिः । क्षत्रियस्य दण्डादिः ॥३१॥
सा चेद्धर्मकृता न स्यात्त्रयीधर्ममृते भुवि
।
दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत्॥३२॥
सा लोकयात्रा ॥३२॥
वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः
।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मं सूयन्ति वै प्रजाः॥३३॥
द्विजातीनामृतं धर्मो ह्येकश्चैवैकवर्णिकः
।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः॥३४॥
ऋतं सत्यम् आत्मज्ञानाख्यम् । एको वर्णः शुक्लः केवलसात्त्विकः धर्मो योगाख्यः ॥३४॥
याजनाध्यापनं विप्रे धर्मश्चैव प्रतिग्रहः
।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्॥३५॥
शुश्रूषा च द्विजातीनां शूद्राणां धर्म उच्यते
।
भैक्ष्यहोमव्रतैर्हीनास्तथैव गुरुवासिताः॥३६॥
भैक्ष्येति । गुरौ त्रिवर्णे वासितं वासो येषां ते शूद्राः । भैक्ष्यादिभिर्हीनाः भवन्ति ॥३६॥
क्षत्रधमर्मोऽत्र कौन्तेय तव धर्मोऽत्र रक्षणम्
।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः॥३७॥
क्षत्रधर्मोऽत्र प्रकरणे उच्यते । स च तव धर्मोऽत्र लोके ॥३७॥
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः
।
आस्थितः शास्ति दण्डेन व्यसनी परिभूयते॥३८॥
आस्थितः अनुगृहीतः ॥३८॥
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते
।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः॥३९॥
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च
।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा॥४०॥
स्थानं सिद्धसंरक्षणम् ॥४०॥
राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः
।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम्॥४१॥
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च
।
साधनीयानि कर्माणि समासव्यासयोगतः॥४२॥
समासः सामादिपञ्चके एकेन द्वित्रैर्वा कार्यसाधनं व्यासः सर्वैस्तत्सिद्धिः ॥४२॥
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ
।
सुमन्त्रितेन या सिद्धिस्तां द्विजैः सह मन्त्रयेत्॥४३॥
स्त्रिया मूढेन बालेन लुब्धेन लघुनापि वा
।
न मन्त्रयीत गुह्यानि येषु चोन्मादलक्षणम्॥४४॥
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत्
।
स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत्॥४५॥
स्निग्धैः हितेप्युभिः नीतेः प्रजादारापत्यादेर्विन्यासाः स्थापनानि ॥४५॥
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्
।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु॥४६॥
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा
।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्॥४७॥
स्वेभ्यश्चारेभ्यः उत्कोचादिना लोभितेभ्यः ॥४७॥
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम्
।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्॥४८॥
बुद्ध्या जीवनाशया प्रतिपन्नेषु शरणागतेषु ॥४८॥
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते
।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता॥४९॥
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः
।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय॥५०॥
घोरो धर्मो राजधर्मः ॥५०॥
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्
।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम्॥५१॥
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः
।
सम्यक्प्रणीतदण्डा हि कामद्वेषविवर्जिताः
।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम्॥५२॥
इति श्रीमहाभारते आरण्यके पर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां हनूमद्भीमसेनसंवादे पञ्चाशदधिकशततमोऽध्यायः॥१५०॥