वैशम्पायन उवाच।
ततस्तान् परिविश्वस्तान् वसतस्तत्र पाण्डवान्
।
पर्वतेन्द्रे द्विजैः सार्धं पार्थाऽऽगमनकाङ्क्षया॥१॥
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च
।
रहितान् भीमसेनेन कदाचित्तान् यदृच्छया॥२॥
जहार धर्मराजानं यमौ कृष्णां च राक्षसः
।
ब्राह्मणो मन्त्रकुशलः सर्वशास्त्रविदुत्तमः॥३॥
इति ब्रुवन्पाण्डवेयान् पर्युपास्ते स्म नित्यदा
।
परीप्समानः पार्थानां कलापानि धनूंषि च॥४॥
अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति
।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः॥५॥
पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः
।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम्॥६॥
स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दम
।
घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः॥७॥
लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान्
।
स्नातुं विनिर्गतान् दृष्ट्वा पुष्पार्थं च तपोधनान्॥८॥
रूपमन्यत् समास्थाय विकृतं भैरवं महत्
।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च॥९॥
प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान्
।
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः॥१०॥
विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः
।
आक्रन्दद्भीमसेनं वै येन यातो महाबलः॥११॥
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः
।
धर्मस्ते हीयते मूढ न तत्त्वं समवेक्षसे॥१२॥
येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये
।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः॥१३॥
धर्मस्य राक्षसा मूलं धर्मं ते विदुरुत्तमम्
।
एतत् परीक्ष्य सर्वं त्वं समीपे स्थातुमर्हसि॥१४॥
देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस
।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा॥१५॥
तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः
।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि॥१६॥
समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति
।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः॥१७॥
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
।
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस॥१८॥
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्
।
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि॥१९॥
अणुरप्यपचारश्च नास्त्यस्माकं नराशन
।
विघसाशान् यथाशक्त्या कुर्महे देवतादिषु॥२०॥
गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा
।
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्॥२१॥
येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः
।
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः॥२२॥
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्मान् जिहीर्षसि
।
एवमेव वृथाचारो वृथावृद्धो वृथामतिः॥२३॥
वृथामरणमर्हश्च वृथाऽद्य न भविष्यसि
।
अथ चद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः॥२४॥
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर
।
अथ चेत्त्वमविज्ञानादिदं कर्म करिष्यसि॥२५॥
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम्
।
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्॥२६॥
विषमेतत् समालोड्य कुम्भेन प्राशितं त्वया
।
ततो युधिष्ठिरस्तस्य गुरुकः समपद्यत॥२७॥
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्
।
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः॥२८॥
मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता
।
नातिदूरे महाबाहुर्भविता पवनात्मजः॥२९॥
अस्मिन् मुहूर्ते संप्राप्ते न भविष्यति राक्षसः
।
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतनम्॥३०॥
उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम्
।
राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्॥३१॥
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा
।
एष चास्मान् वयं चैनं युद्ध्यमानाः परन्तप॥३२॥
सुदयेम महाबाहो देशकालो ह्ययं नृप
।
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रमः॥३३॥
जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम्
।
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि॥३४॥
नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत
।
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः॥३५॥
हत्वा वा मां नयस्वैनां हतो वाद्येऽह स्वप्स्यसि
।
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया॥३६॥
प्रत्यदृश्यद्गदाहस्तः सवज्र इव वासवः
।
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्॥३७॥
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा
।
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्॥३८॥
भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम्
।
भ्रातॄंस्तान् ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः॥३९॥
क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत्
।
विज्ञातोऽसि मया पूर्वं पापः शस्त्रपरीक्षणे॥४०॥
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा
।
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्॥४१॥
प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्
।
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम्॥४२॥
राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत्
।
अपक्वस्य च कालेन वधस्तव न विद्यते॥४३॥
नूनमद्यासि संपक्को यथा ते मतिरीदृशी
।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा॥४४॥
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः
।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य भविष्यसि॥४५॥
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते
।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः॥४६॥
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः
।
भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः॥४७॥
अब्रवीच्च पुनर्भीमं रोषात् प्रस्फुरिताधरः
।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बितम्॥४८॥
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे
।
तेषामद्य करिष्यामि तवास्त्रेणोदकक्रियाम्॥४९॥
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन्
।
स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः॥५०॥
बाहुसंरम्भमेवैक्षन्नभिदुद्राव राक्षसम्
।
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्॥५१॥
मुहुर्मुहुर्व्याददानः सृक्किणी परिसंलिहन्
।
अभिदुद्राव संरब्धो बलिर्वज्रधरं यथा॥५२॥
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे
।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम्॥५३॥
न्यवारयत्तौ प्रहसन् कुन्तीपुत्रो वृकोदरः
।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत॥५४॥
आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च
।
इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम्॥५५॥
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्
।
बाहुभ्यां समसज्जेतामुभौ रक्षोवृकोदरौ॥५६॥
तयोरासीत् संप्रहारः क्रुद्धयोर्भीमरक्षसोः
।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव॥५७॥
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः
।
जीमूताविव गर्जन्तौ निनदन्तौ महाबलौ॥५८॥
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ
।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ॥५९॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
।
वालिसुग्रीवयोर्भ्रात्रोः पुरा स्त्रीकाङ्क्षिणोर्यथा॥६०॥
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्
।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः॥६१॥
तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः
।
मुञ्जीकृताश्च शतशः परस्परवधेप्सया॥६२॥
ततः शिलाः समादाय मुहूर्तमिव भारत
।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ॥६३॥
शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम्
।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ॥६४॥
अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ
।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव॥६५॥
मुष्टिभिश्च महाघोरैरन्योन्यमभिजघ्नतुः
।
ततः कटकटाशब्दो बभूव सुमहात्मनोः॥६६॥
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्
।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्॥६७॥
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्
।
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत॥६८॥
तत एनं महाबाहुर्बाहुभ्याममरोपमः
।
समुत्क्षिप्य बलाद्भीमो विनिष्पिष्य महीतले॥६९॥
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः
।
अरत्निना चाभिहत्य शिरः कायादपाहरत्॥७०॥
संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्
।
जटासुरस्य तु शिरो भीमसेनबलाद्धतम्॥७१॥
पपात रुधिरादिग्धं संदष्टदशनच्छदम्
।
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्
।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः॥७२॥