अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

जटासुरवधपर्व

सप्तपञ्चाशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततस्तान् परिविश्वस्तान् वसतस्तत्र पाण्डवान् ।
पर्वतेन्द्रे द्विजैः सार्धं पार्थाऽऽगमनकाङ्क्षया॥१॥

ततस्तानिति ॥१॥

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ।
रहितान् भीमसेनेन कदाचित्तान् यदृच्छया॥२॥

जहार धर्मराजानं यमौ कृष्णां च राक्षसः ।
ब्राह्मणो मन्त्रकुशलः सर्वशास्त्रविदुत्तमः॥३॥

जहार धर्मादीनां मनो हृतवान् । उत्तमोऽस्मीति ब्रुवन् ॥३॥

इति ब्रुवन्पाण्डवेयान् पर्युपास्ते स्म नित्यदा ।
परीप्समानः पार्थानां कलापानि धनूंषि च॥४॥

कलापानि निषङ्गादीनि ॥४॥

अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति ।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः॥५॥

पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः ।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम्॥६॥

स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दम ।
घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः॥७॥

लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान् ।
स्नातुं विनिर्गतान् दृष्ट्वा पुष्पार्थं च तपोधनान्॥८॥

रूपमन्यत् समास्थाय विकृतं भैरवं महत् ।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च॥९॥

प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान् ।
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः॥१०॥

कौशिकं कोशादागतम् । ग्रहं ग्रहणम् ॥१०॥

विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः ।
आक्रन्दद्भीमसेनं वै येन यातो महाबलः॥११॥

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः ।
धर्मस्ते हीयते मूढ न तत्त्वं समवेक्षसे॥१२॥

येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये ।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः॥१३॥

धर्मस्य राक्षसा मूलं धर्मं ते विदुरुत्तमम् ।
एतत् परीक्ष्य सर्वं त्वं समीपे स्थातुमर्हसि॥१४॥

देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस ।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा॥१५॥

तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः ।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि॥१६॥

समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति ।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः॥१७॥

युष्माकं देवासुरादीनाम् । ऋध्यति । ‘ऋच्छति’ इति पाठे वृद्धिं गच्छति ॥१७॥

पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ।
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस॥१८॥

राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ।
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि॥१९॥

अणुरप्यपचारश्च नास्त्यस्माकं नराशन ।
विघसाशान् यथाशक्त्या कुर्महे देवतादिषु॥२०॥

विघसाशान् देवासुरब्राह्मणादिशेषान्नं विघसं तस्य आशो भोजनं येषां तान् ॥२०॥

गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ।
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्॥२१॥

येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः ।
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः॥२२॥

प्रतिश्रयो गृहम् ॥२२॥

भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्मान् जिहीर्षसि ।
एवमेव वृथाचारो वृथावृद्धो वृथामतिः॥२३॥

वृथामरणमर्हश्च वृथाऽद्य न भविष्यसि ।
अथ चद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः॥२४॥

न भविष्यसि मरिष्यसि ॥२४॥

प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ।
अथ चेत्त्वमविज्ञानादिदं कर्म करिष्यसि॥२५॥

अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ।
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्॥२६॥

विषमेतत् समालोड्य कुम्भेन प्राशितं त्वया ।
ततो युधिष्ठिरस्तस्य गुरुकः समपद्यत॥२७॥

स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ।
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः॥२८॥

मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ।
नातिदूरे महाबाहुर्भविता पवनात्मजः॥२९॥

अस्मिन् मुहूर्ते संप्राप्ते न भविष्यति राक्षसः ।
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतनम्॥३०॥

उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम् ।
राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्॥३१॥

सत्कृत्यं साधुकार्यम् ॥३१॥

यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ।
एष चास्मान् वयं चैनं युद्ध्यमानाः परन्तप॥३२॥

सुदयेम महाबाहो देशकालो ह्ययं नृप ।
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रमः॥३३॥

जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ।
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि॥३४॥

राक्षसे इति सूर्यास्तात्प्राक् अयं मरिष्यतीत्यर्थः ॥३४॥

नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ।
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः॥३५॥

तिष्ठस्व स्थिरो भव ॥३५॥

हत्वा वा मां नयस्वैनां हतो वाद्येऽह स्वप्स्यसि ।
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया॥३६॥

प्रत्यदृश्यद्गदाहस्तः सवज्र इव वासवः ।
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्॥३७॥

क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ।
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्॥३८॥

भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ।
भ्रातॄंस्तान् ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः॥३९॥

ह्रियतः ह्रियमाणान् ॥३९॥

क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ।
विज्ञातोऽसि मया पूर्वं पापः शस्त्रपरीक्षणे॥४०॥

आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ।
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्॥४१॥

आस्था त्वन्मारणे आदरः ॥४१॥

प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम् ।
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम्॥४२॥

राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत् ।
अपक्वस्य च कालेन वधस्तव न विद्यते॥४३॥

नूनमद्यासि संपक्को यथा ते मतिरीदृशी ।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा॥४४॥

बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः ।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य भविष्यसि॥४५॥

वडिशो मत्स्यवेधनम्। भविष्यसि जीविष्यसि ॥४५॥

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः॥४६॥

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।
भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः॥४७॥

अब्रवीच्च पुनर्भीमं रोषात् प्रस्फुरिताधरः ।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बितम्॥४८॥

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।
तेषामद्य करिष्यामि तवास्त्रेणोदकक्रियाम्॥४९॥

अस्त्रेण लोहितेन ॥४९॥

एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् ।
स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः॥५०॥

बाहुसंरम्भमेवैक्षन्नभिदुद्राव राक्षसम् ।
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्॥५१॥

बाहू संरभ्येते आस्फोट्येते यस्यां क्रियायां यथा स्यात् तथा बाहुसंरम्भम् ॥५१॥

मुहुर्मुहुर्व्याददानः सृक्किणी परिसंलिहन् ।
अभिदुद्राव संरब्धो बलिर्वज्रधरं यथा॥५२॥

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे ।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम्॥५३॥

न्यवारयत्तौ प्रहसन् कुन्तीपुत्रो वृकोदरः ।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत॥५४॥

आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च ।
इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम्॥५५॥

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।
बाहुभ्यां समसज्जेतामुभौ रक्षोवृकोदरौ॥५६॥

तयोरासीत् संप्रहारः क्रुद्धयोर्भीमरक्षसोः ।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव॥५७॥

आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः ।
जीमूताविव गर्जन्तौ निनदन्तौ महाबलौ॥५८॥

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ॥५९॥

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोः पुरा स्त्रीकाङ्क्षिणोर्यथा॥६०॥

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः॥६१॥

आविध्य भ्रामयित्वा ॥६१॥

तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः ।
मुञ्जीकृताश्च शतशः परस्परवधेप्सया॥६२॥

मुञ्जीकृताः रज्ज्वर्थं मुञ्जवज्जर्जरीकृताः ॥६२॥

ततः शिलाः समादाय मुहूर्तमिव भारत ।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ॥६३॥

महाभ्रैरिवेत्यभूतोपमा ॥६३॥

शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम् ।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ॥६४॥

अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ ।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव॥६५॥

मुष्टिभिश्च महाघोरैरन्योन्यमभिजघ्नतुः ।
ततः कटकटाशब्दो बभूव सुमहात्मनोः॥६६॥

ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् ।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्॥६७॥

शिरोधरां ग्रीवाम् ॥६७॥

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् ।
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत॥६८॥

अभ्यवर्तत अधिकोत्साहवानभूत् ॥६८॥

तत एनं महाबाहुर्बाहुभ्याममरोपमः ।
समुत्क्षिप्य बलाद्भीमो विनिष्पिष्य महीतले॥६९॥

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः ।
अरत्निना चाभिहत्य शिरः कायादपाहरत्॥७०॥

अरत्निना तलप्रहारेणेत्यर्थः ॥७०॥

संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम् ।
जटासुरस्य तु शिरो भीमसेनबलाद्धतम्॥७१॥

पपात रुधिरादिग्धं संदष्टदशनच्छदम् ।
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् ।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः॥७२॥

इति श्रीमहाभारते आरण्यके पर्वणि जटासुरवधपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः॥१५७॥
समाप्तं जटासुरवधपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in