वैशम्पायन उवाच।
निहते राक्षसे तस्मिन् पुनर्नारायणाश्रमम्
।
अभ्येत्य राजा कौन्तेयो निवासमकरोत् प्रभुः॥१॥
निहते इति ॥१॥
स समानीय तान् सर्वान् भ्रातॄनित्यब्रवीद्वचः
।
द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम्॥२॥
जयमर्जुनम् ॥२॥
समाश्चतस्रोऽभिगताः शिवेन चरतां वने
।
कृतोद्देशः स बीभत्सुः पञ्चमीमभितः समाम्॥३॥
कृतोद्देशः पञ्चमे वर्षे मयाऽवश्यमागन्तव्यमिति कृतसङ्केतः ॥३॥
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्
।
पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलषट्पदैः॥४॥
श्वेतं कैलासम् ॥४॥
मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्
।
व्याघ्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा॥५॥
श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्
।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः॥६॥
प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि
।
महापुण्यं पवित्रं च सुरासुरनिषेवितम्॥७॥
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
।
कृतश्च समयस्तेन पार्थेनामिततेजसा॥८॥
तत्रापि देशे अस्माभिरिति शेषः । उद्देशः कृतः सन्धिरार्षः ॥८॥
पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि
।
अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्॥९॥
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्
।
इत्युक्त्वा ब्राह्मणान् सर्वानामन्त्रयत पाण्डवः॥१०॥
कारणं चैव तत्तेषामाचचक्षे तपस्विनाम्
।
तानुग्रतपसः प्रीतान् कृत्वा पार्थाः प्रदक्षिणाम्॥११॥
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च
।
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ॥१२॥
सुखोदर्कं सुखोदयम् ॥१२॥
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि
।
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्॥१३॥
प्रतस्थे सह विप्रैस्तैर्भातृभिश्च परन्तपः
।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः॥१४॥
क्वचित्पद्भ्यां ततोऽगच्छेद्राक्षस रुह्यते क्वचित्
।
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः॥१५॥
ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन्
।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्॥१६॥
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्
।
गन्धमादनपादांश्च श्वेतं चापि शिलोच्चयम्॥१७॥
श्वेतं हिमाचलम् ॥१७॥
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः
।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि॥१८॥
ददृशुः पाण्डवा राजन् गन्धमादनमन्तिकात्
।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृत्ते॥१९॥
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः
।
समावृतं पुण्यतममाश्रमं वृषपर्वणः॥२०॥
तमुपागम्य राजर्षिं धर्मात्मानमरिन्दमाः
।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः॥२१॥
अभ्यनन्दत् स राजर्षिः पुत्रवद्भरतर्षभान्
।
पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः॥२२॥
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्
।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्॥२३॥
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि
।
न्यासभूतान् यथाकालं बन्धूनिव सुसत्कृतान्॥२४॥
पारिबर्हं च तं शेषं परिदाय महात्मने
।
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च॥२५॥
न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः
।
अतीतानागते विद्वान् कुशलः सर्वधर्मवित्॥२६॥
अन्वशासत् स धर्मज्ञः पुत्रवद्भरतर्षभान्
।
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्॥२७॥
तान् प्रस्थितानभ्यगच्छद्वृषपर्वा महीपतिः
।
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा॥२८॥
उपन्यस्य निवेद्य ॥२८॥
अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च
।
वृषपर्वा निववृते पन्थानमुपदिश्य च॥२९॥
अनुसंसार्य - अनुगम्य ॥२९॥
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः
।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः॥३०॥
जानाद्रुमनिरोधेषु वसन्तः शैलसानुषु
।
पर्वतं विविशुस्ते तं चतुर्थेऽहाने पाण्डवाः॥३१॥
महाभ्रघनसंकाशं सलिलोपहितं शुभम्
।
मणिकाञ्चनरूपस्य शिलानां च समुच्चयान्॥३२॥
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा
।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्॥३३॥
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः
।
सुदुर्गमांस्ते सुबहून् सुखेनैवाभिचक्रमुः॥३४॥
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः
।
अगच्छन् सहितास्तत्र न कश्चिदवहीयते॥३५॥
ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम्
।
शाखामृगगणैश्चैव सेवितं सुमनोरमम्॥३६॥
पुण्यं पद्मसरोयुक्तं सपल्वलमहावनम्
।
उपतस्थुर्महाभागा माल्यवन्तं महागिरिम्॥३७॥
ततः किंपुरुषावासं सिद्धचारणसेवितम्
।
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्॥३८॥
विद्याधरानुचरितं किन्नरीभिस्तथैव च
।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्॥३९॥
शरभोन्नादसंघुष्टं नानामृगनिषेवितम्
।
ते गन्धमादनवनं तन्नन्दनवनोपमम्॥४०॥
मुदिताः पाण्डुतनया मनोहृदयनन्दनम्
।
विविशुः क्रमशो वीराः शरण्यं शुभकाननम्॥४१॥
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः
।
शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ्छुभान्॥४२॥
श्रोत्ररम्यान् सुमधुराञ्छब्दान् खगमुखेरितान्
।
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्॥४३॥
पश्यन्तः पादपांश्चापि फलभारावनामितान्
।
आम्रानाम्रातकान् भव्यान्नारिकेलान्सतिन्दुकान्
।
मुञ्जातकांस्तथाञ्जीरान् दाडिमान् बीजपूरकान्
।
पनसाँल्लकुचान् मोचान् खर्जूरानम्लवेतसान्॥४५॥
परावतांस्तथा क्षौद्रान्नीषांश्चापि मनोरमान्
।
बिल्वान् कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा॥४६॥
काश्मरी गम्भारी ॥४६॥
प्लक्षानुदुम्बरवटानश्वत्थान् क्षीरिकांस्तथा
।
भल्लातकानामलकीर्हरीतकबिभीतकान्॥४७॥
क्षीरिका राजादना ॥४७॥
इङ्गुदान् करमर्दांश्च तिन्दुकांश्च महाबलान्
।
एतानन्यांश्च विविधान् गन्धमादनसानुषु॥४८॥
फलैरमृतकल्पैस्तानाचितान् स्वादुभिस्तरून्
।
तथैव चम्पकाशोकान् केतकान् बकुलांस्तथा॥४९॥
पुन्नागान् सप्तपर्णांश्च कर्णिकारान् सकेतकान्
।
पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस्तथा॥५०॥
पारिजातान् कोविदारान् देवदारुद्रुमांस्तथा
।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा॥५१॥
शाल्मलीः किंशुकाशोकाञ्छिशपाः सरलांस्तथा
।
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः॥५२॥
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीविकैः
।
प्रियकैश्चातकैश्चैव तथान्यैर्विविधैः खगैः॥५३॥
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान्
।
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः॥५४॥
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः
।
कह्लारैः कमलैश्चैव आचितानि समन्ततः॥५५॥
कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः
।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च॥५६॥
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः
।
हृष्टैस्तथा तामरसरसासवमदालसैः॥५७॥
तामरसानां रक्तोत्पलानां रस एव आसवो मद्यं तज्जेन मदेन अलसाः ॥५७॥
पद्मोदरच्युतरजःकिंजल्कारुणरञ्जितैः
।
मञ्जुस्वरैर्मधुकरैर्विरुतान् कमलाकरान्॥५८॥
अपश्यंस्त नरव्याघ्रा गन्धमादनसानुषु
।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः॥५९॥
विरुतान् विशिष्टशब्दयुतान् ॥५९॥
शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च
।
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्॥६०॥
कृत्वैव केकामधुरं संगीतं मधुरस्वरम्
।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान्॥६१॥
मयूरान् ददृशुर्हृष्टान्नृत्यतो वनलालसान्
।
कांश्चित्प्रियाभिः सहितान् रममाणान्कलापिनः॥६२॥
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा
।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव॥६३॥
कुटजेषु वृक्षविशेषेषु । वल्लीनां लताप्रतानानि तैः सङ्कटेषु कुञ्जीकृतेषु ॥६३॥
कलापरुचिराटोपनिचितान् मुकुटानिव
।
विवरेषु तरूणां च रुचिरान् ददृशुश्च ते॥६४॥
सिन्धुवारांस्तथोदारान् मन्मथस्येव तोमरान्
।
सुवर्णवर्णकुसुमान् गिरीणां शिखरेषु च॥६५॥
सिन्धुवारान् पद्मविशेषान् ॥६५॥
कर्णिकारान् विकसितान् कर्णपूरानिवोत्तमान्
।
तथापश्यन् कुरबकान् वनराजिषु पुष्पितान्॥६६॥
कामवश्यौत्सुक्यकरान् कामस्येव शरोत्करान्
।
तथैव वनराजीनामुदारान् रचितानिव॥६७॥
कामवश्यानां नराणामौत्सुक्यकरान् ॥६७॥
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव
।
तथानङ्गशराकारान् सहकारान् मनोरमान्॥६८॥
अपश्यन् भ्रमरारावान् मञ्जरीभिर्विराजितान्
।
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि॥६९॥
लोहितैरञ्जनामैश्च वैदूर्यसदृशैरपि
।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु॥७०॥
तथा शालांस्तमालांश्च पाटलान् बकुलानपि
।
माला इव समासक्ताः शैलानां शिखरेषु च॥७१॥
विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः
।
कलहंसैरुपेतानि सारसाभिरुतानि च॥७२॥
स्फाटिकाभानि निर्मलानि । सारसानामभिरुतं च येषु तानि सरांसि इत्युत्तरेणान्वयः ॥७२॥
सरांसि बहुशः पार्थाः पश्यन्तः शैलसानुषु
।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च॥७३॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः
।
गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च॥७४॥
सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्
।
विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः॥७५॥
कमलोत्पलकह्लारपुण्डरीकसुगन्धिना
।
सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना॥७६॥
ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः
।
अहो श्रीमदिदं भीम गन्धमादनकाननम्॥७७॥
हे भीम ॥७७॥
वने ह्यस्मिन् मनोरम्ये दिव्याः काननजा द्रुमाः
।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः॥७८॥
भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः
।
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः॥७९॥
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु
।
भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः॥८०॥
विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः
।
पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम्॥८१॥
नलिनीं सरसीम् कमलोत्पलयोरवान्तरजातिभेदः ॥८१॥
स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम्
।
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे॥८२॥
विग्रहवतीं शरीरवतीम् । तस्य शैलस्य ॥८२॥
उपगीयमाना भ्रमरै राजन्ते वनराजयः
।
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः॥८३॥
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर
।
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः॥८४॥
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु
।
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्॥८५॥
नदतां शृणु निर्घोषं भीम पर्वतसानुषु
।
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः॥८६॥
पत्रिणः पुष्पितानेतान् संपतन्ति महाद्रुमान्
।
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः॥८७॥
परस्परमुदीक्षन्ते बहवो जीवजीवकाः
।
हरितारुणवर्णानां शाद्वलानां समीपतः॥८८॥
सारसाः प्रतिदृश्यन्ते शैलप्रस्त्रवणेष्वपि
।
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः॥८९॥
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः
।
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः॥९०॥
भृङ्गराजादयः पक्षिविशेषाः । चतुर्विषाणाश्चतुर्दन्ताः । पद्माभाः श्वेताः ॥९०॥
एते वैदूर्यवर्णाभं क्षोभयन्ति महत्सरः
।
बहुतालसमुत्सेधाः शैलशृङ्गपरिच्युताः॥९१॥
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च
।
भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः॥९२॥
शोभयन्ति महाशैलं नानारजतधातवः
।
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः॥९३॥
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च
।
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः॥९४॥
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः
।
सितासिताम्रप्रतिमा बालसूर्यसमप्रभाः॥९५॥
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः
।
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा॥९६॥
यथोक्तं वृषपर्वणा निमित्तभूतेनोक्तं मयासुरेण । तथाहि सभापर्वणि मयेन वृषपर्वकथा युधिष्ठिरं प्रति सभाकरणप्रसङ्गादुक्तेत्युक्तम् । ‘स पूर्वदेवचरितं तदा तत्र विशांपते । कथयामास दैतेयः पाण्डुपुत्रेषु भारत’ इति समयः । पूर्वदेवोऽसुरः वृषपर्वा ॥९६॥
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह
।
गीतानां समतालानां तथा साम्नां च निःस्वनः॥९७॥
श्रूयते बहुधा भीम सर्वभूतमनोहरः
।
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम्॥९८॥
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम्
।
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः॥९९॥
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः
।
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः॥१००॥
उपेतं पश्य कौन्तेय शैलराजमरिन्दम
।
वैशंपायन उवाच।
ते प्रीतमनसः शूराः प्राप्ता गतिमनुन्तमाम्॥१०१॥
नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परत्तपाः
।
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः॥१०२॥
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा
।
ततस्ते तिग्मतपसं कृशं धमनिसंततम्
।
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन्॥१०३॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि गन्धमादनप्रवेशे अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
वैशम्पायन उवाच।
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्
।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्॥१॥
युधिष्ठिर इति । नाम कीर्तयन् ‘युधिष्ठिरोऽहं त्वामभिवादये’ इति वदन् ॥१॥
ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ
।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे॥२॥
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः
।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम्॥३॥
अन्वजानात् स धर्मज्ञो मुनिर्दिव्येन चक्षुषा
।
पाण्डोः पुत्रान् कुरुश्रेष्ठानास्यतामिति चाब्रवीत्
।
कुरूणामृषभं पार्थं पूजयित्वा महातपाः
।
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्॥५॥
नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे
।
माता पित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति॥६॥
वृत्तिर्यथायोग्यमाज्ञापालनश्राद्धकरणादिरूपा ॥६॥
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः
।
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु॥७॥
वैद्याः विद्यया विदिताः ॥७॥
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्
।
यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे॥८॥
सुष्ठु कृतमस्य तम् उपकारिणम् । दुष्कृतम् अपकारिणं हातुं त्यक्तुं न विकत्थसे ‘ज्ञातास्मि’ इति न श्लाघसे ॥८॥
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः
।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवतसे॥९॥
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते
।
दानधर्मतपःशौचैरार्जवेन तितिक्षया॥१०॥
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे
।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव॥११॥
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः
।
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च॥१२॥
किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति
।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम्॥१३॥
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः
।
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ॥१४॥
युधिष्ठिर उवाच।
भगवानार्य माहैतद्यथावद्धर्मनिश्चयम्
।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया॥१५॥
यथावत् माह यथा मामाह ॥१५॥
आर्ष्टिषेण उवाच।
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा
।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु॥१६॥
पर्वसन्धिषु प्रतिपत्पञ्चदश्योरन्तराले ॥१६॥
कामिनः सह कान्ताभिः परस्परमनुव्रताः
।
दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप॥१७॥
अरजांसि च वासांसि वसानाः कौशिकानि च
।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः॥१८॥
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः
।
महोरगगणाश्चैव सुपर्णाश्चोरगादयः॥१९॥
अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु
।
भेरी पणवशङ्खानां मृदङ्गानां च निःस्वनः॥२०॥
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः
।
न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः॥२१॥
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः
।
विहारो ह्यत्र देवानाममानुषगतिस्तु सा॥२२॥
ईषच्चपलकर्माणां मनुष्यमिह भारत
।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः॥२३॥
अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर
।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते॥२४॥
चापलादिह गच्छन्तं पार्थ यानमितः परम्
।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन॥२५॥
यानं मार्गम् ॥२५॥
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः
।
इह वैश्रवणस्तात पर्वसंधिषु दृश्यते॥२६॥
शिखरस्थं समासीनमधिपं यक्षरक्षसाम्
।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्॥२७॥
देवदानवसिद्धानां तथा वैश्रवणस्य च
।
गिरेः शिखरमुद्यानमिदं भरतसत्तम॥२८॥
उद्यानं क्रीडावनयुतम् ॥२८॥
उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु
।
गीतसामस्वनस्तात श्रूयते गन्धमादने॥२९॥
एतदेवंविधं चित्रमिह तात युधिष्ठिर
।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु॥३०॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च
।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात्॥३१॥
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन
।
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च
।
ततः शस्त्रजितां तात पृथिवीं पालयिष्यसि॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि आर्ष्टिषेणयुधिष्ठिरसंवादे ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
जनमेजय उवाच।
आर्ष्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः
।
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः॥१॥
आर्ष्टिषेणेति ॥१॥
कियन्तं कालमवसन् पर्वते गन्धमादने
।
किं च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः॥२॥
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्
।
वसतां लोकवीराणामासंस्तद्बूहि सत्तम॥३॥
विस्तरेण च मे शंस भीमसेनपराक्रमम्
।
यद्यच्चके महाबाहुस्तस्मिन् हैमवते गिरौ॥४॥
न खल्वासीत् पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम
।
कच्चित् समागमस्तेषामासीद्वैश्रवणस्य च॥५॥
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत्
।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्॥६॥
वैशम्पायन उवाच।
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः
।
शासनं सततं चक्रुस्तथैव भरतर्षभाः॥७॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च
।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि॥८॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च
।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः॥९॥
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्
।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत॥१०॥
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः
।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो॥११॥
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्
।
अगच्छन् बहवो मासाः पश्यतां महदद्भुतम्॥१२॥
तैस्तत्र विहरद्भिश्च रममाणैश्च पाण्डवैः
।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा॥१३॥
आजग्मुः पाण्डवान् द्रष्टुं शुद्धात्मानो यतव्रताः
।
ते तैः सह कथां चक्रुर्दिव्यां भरतसत्तमाः॥१४॥
ततः कतिपयाहस्य महाह्रदनिवासिनम्
।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽऽहरत्॥१५॥
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः
।
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम्॥१६॥
ततः शैलोत्तमस्याग्रात् पाण्डवान् प्रति मारुतः
।
अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च॥१७॥
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः
।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी॥१८॥
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्
।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्॥१९॥
सुपर्णानिलवेगेन श्वसनेन महाबलात्
।
पञ्चवर्णा निपात्यन्ते पुष्पाणि भरतर्षभ॥२०॥
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति
।
खाण्डवे सत्यसंधेन भ्रात्रा तव महात्मना॥२१॥
गन्धर्वोरगरक्षांसि वासवश्च निवारितः
।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम्॥२२॥
तवापि सुमहत्तेजो महद्बाहुबलं च ते
।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम॥२३॥
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः
।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश॥२४॥
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्
।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव॥२५॥
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः
।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलपालिता॥२६॥
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः
।
नामृष्यत महाबाहुः प्रहारमिव सद्गवः॥२७॥
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः
।
मनस्वी बलवान् दृप्तो मानी शुरश्च पाण्डवः॥२८॥
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः
।
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः॥२९॥
पृथू विशिष्टौ अंसौ यस्य स पृथुव्यंसः ॥२९॥
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः
।
रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत्॥३०॥
स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः
।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली॥३१॥
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्
।
ददृशुः सर्वभूतानि बाणकार्मुकधारिणम्॥३२॥
द्रौपद्या वर्धयन् हर्षं गदामादाय पाण्डवः
।
व्यपेतभयसंमोहः शैलराजं समाश्रितः॥३३॥
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः
।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥३४॥
ग्लानिः श्रमः । कातर्यं भयम् । वैक्लव्यमनुत्साहः । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥३४॥
तदेकायनमासाद्य विषमं भीमदर्शनम्
।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः॥३५॥
एकायनं वामदक्षिणसंचारशून्यम् ॥३५॥
सकिन्नरमहानागमुनिगन्धर्वराक्षसान्
।
हर्षयन् पर्वतस्याग्रमारुह्य स महाबलः॥३६॥
ततो वैश्रवणावासं ददर्श भरतर्षभः
।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम्॥३७॥
प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः
।
सर्वरत्नधुतिमता सर्वोद्यानवता तथा॥३८॥
परिक्षिप्तं परित आवृतम् ॥३८॥
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना
।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना॥३९॥
चयाट्टालकशोभिना । चयः - प्राकारस्य मूलबन्धः, अट्टालकः - उपरिगृहम् । चयः समूहे प्राकारमूलबन्धे समाहिते‘ इति मेदिनी । तोरणं बहिर्द्वारं निर्व्यूहो नागदन्ताख्यं गृहान्निर्गतं दारु । ‘निर्व्यूहो नागदन्ते स्यात्’ इति विश्वः ॥३९॥
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः
।
वायुना धूयमानाभिः पताकाभिरलंकृतम्॥४०॥
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना
।
पश्यमानः स खेदेन द्रविणाधिपतेः पुरम्॥४१॥
वक्रभावेन वक्रेण बाहुना उपलक्षितः । एतेऽस्मान्न प्रत्युद्गच्छन्तीति वा वक्रबुद्ध्या खेदेन तद्दर्शनात् स्वसंपत्स्मरण तेन । द्रविणाधिपतेः - धनाधिपतेः ॥४१॥
मोदयन् सर्वभूतानि गन्धमादनसंभवः
।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ॥४२॥
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः
।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः॥४३॥
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम्
।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः॥४४॥
ददृशे ददर्श ॥४४॥
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः
।
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः॥४५॥
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम्
।
ज्याघोषतलशब्दं च कृत्वा भूतान्यमोहयत्॥४६॥
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः
।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः॥४७॥
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वधाः
।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः॥४८॥
ततः प्रववृते युद्धं तेषां तस्य च भारत
।
तैः प्रयुक्तान् महामायैः शूलशक्तिपरश्वधान्॥४९॥
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः
।
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्॥५०॥
शरैर्विव्याध गात्राणि राक्षसानां महाबलः
।
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम्॥५१॥
गदापरिघपाणीनां रक्षसां कायसंभवाः
।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः॥५२॥
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम्
।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च॥५३॥
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्
।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव॥५४॥
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः
।
सर्वानार्छन्महाबाहुर्बलवान् सत्यविक्रमः॥५५॥
अभितर्जयमानाश्च रुवन्तश्च महारवान्
।
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः॥५६॥
यक्षा विकृतसर्वाङ्गा भीमसेनभयार्दिताः
।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः॥५७॥
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान्
।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना॥५८॥
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः
।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः॥५९॥
अदर्शयदधीकारं पौरुषं च महाबलः
।
स तान् दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत्॥६०॥
अदर्शयत् अधीकारं स्वाम्यं प्राग्दर्शितवान् यः स मणिमानिति यत्तदोरध्याहारेण योज्यम् ॥६०॥
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः
।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम्॥६१॥
संख्ये संग्रामे ॥६१॥
एवमाभाष्य तान् सर्वानभ्यवर्तत राक्षसः
।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम्॥६२॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत्॥६३॥
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्
।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः॥६४॥
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्
।
शरैर्बहुभिरानर्च्छद्भीमसेनः शिलाशितैः॥६५॥
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः
।
न वेगं धारयामासुर्गदावेगस्य वेगिताः॥६६॥
प्रत्यहन्यन्त प्रतिहताः । वेगिताः वेगवन्तोऽपि । गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥६६॥
गदायुद्धसमाचारं बुद्ध्यमानः स वीर्यवान्
।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः॥६७॥
सः भीमः व्यंसयामास व्यर्थीचकार ॥६७॥
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्
।
तस्मिन्नेवान्तरे धीमान् प्रजहाराथ राक्षसः॥६८॥
अयस्मयीं छान्दसं ’भत्वम्’ अयोमयीम् ॥६८॥
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दाक्षणम्
।
साग्निज्वाला महारौद्रा पपात सहसा भुवि॥६९॥
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः
।
गदां जग्राह कौन्तेयः क्रोधपर्याकुलेक्षणः॥७०॥
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्
।
प्रगृह्याथ नदन् भीमः शैक्यां सर्वायसीं गदाम्॥७१॥
शैक्यां शीकयति शत्रून् पराभवतीति शैक्या । शीकयतेः ‘ऋहलोर्ण्यत्’ इति ‘ण्यत्’ । ततः स्वार्थिकोऽण् ॥७१॥
तरसा चाभिदुद्राव मणिमन्तं महाबलम्
।
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि॥७२॥
प्राहिणोद्भीमसेनाय वेगेन महता नदन्
।
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः॥७३॥
अभिदुद्राव तं हन्तुं गरुत्मानिव पन्नगम्
।
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्॥७४॥
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि
।
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा॥७५॥
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह
।
तं राक्षसं भीमबलं भीमसेनेन पातितम्॥७६॥
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम्
।
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः
।
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति॥७७॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि मणिमद्वधे षष्ट्यधिकशततमोऽध्यायः॥१६०॥
वैशम्पायन उवाच।
श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम्
।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि॥१॥
श्रुत्वेति ॥१॥
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा
।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्॥२॥
द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः
।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा॥३॥
संप्रधार्य रक्षार्थं समर्प्य ॥३॥
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः
।
ददृशुस्ते महेष्वासा भीमसेनमरिंदमाः॥४॥
स्फुरतश्च महाकायान् गतसत्त्वांश्च राक्षसान्
।
महाबलान् महासत्त्वान् भीमसेनेन पातितान्॥५॥
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः
।
निहत्य समरे सर्वान् दानवान् मघवानिव॥६॥
ततस्ते भ्रातरं दृष्ट्वा परिष्वज्य महारथाः
।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्॥७॥
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत
।
लोकपालैर्महाभागैर्दिवं देववरैरिव॥८॥
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्
।
भ्राता भ्रातरमासीनमब्रवीत् पृथिवीपतिः॥९॥
युधिष्ठिर उवाच।
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम्
।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधः॥१०॥
मुनेरिव वनवासिनस्ते तवैतत् न सदृशं नोचितम् । यत् मृषा निर्निमित्तं वधो रक्षसां हिंसा ॥१०॥
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः
।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्॥११॥
अर्थधर्मावनादृत्य यः पापे कुरुते मनः
।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम्
।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्॥१२॥
वैशंपायन उवाच।
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम्
।
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः॥१३॥
विरराम महातेजास्तमेवार्थं विचिन्तयन्
।
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः॥१४॥
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति
।
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्॥१५॥
सहिताः मिलिताः ॥१५॥
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः
।
न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्ततनुच्छदाः॥१६॥
तनुच्छदः कवचादिः ॥१६॥
प्रकीर्णमूर्धजा राजन् यक्षाधिपतिमब्रुवन्
।
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः॥१७॥
राक्षसा निहताः सर्वे तव देव पुरःसराः
।
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर॥१८॥
एकेन सहिताः सङ्ख्ये रणे क्रोधवशा गणाः
।
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप॥१९॥
शेरते निहता देव गतसत्त्वाः परासवः
।
लब्धशेषा वयं मुक्ता मणिमांस्ते सखा हतः॥२०॥
लब्धशेषाः लब्धप्रसादाः । ‘शेषः सङ्कर्षणे वधे । अनन्ते ना प्रसादे च’ इति मेदिनी ।’लब्धशैलः’ इति गौडपाठे तु लब्धो भीमेन जितः शैलः शैलस्थराक्षसगणः ॥२०॥
मानुषेण कृतं कर्म विधत्स्व यदनन्तरम्
।
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः॥२१॥
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः
।
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः॥२२॥
द्वितीयमिव द्वितीयं भयहेतुम् । ‘द्वितीयाद्वै भयं भवति’ इति श्रुतेः ॥२२॥
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत्
।
अथाभ्रघनसंकाशं गिरिशृङ्गमिवोछ्रितम्॥२३॥
युज्यतां रथ इति शेषः । अभ्रघनः सजलमेघः । ‘अभ्रं मेघे च गगने धातुभेदे च काञ्चने’ इति मेदिनीकोशात् काञ्चनमेघसङ्काशमिति वा ॥२३॥
रथं संयोजयामासुर्गन्धर्वैर्हेममालिभिः
।
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः॥२४॥
गन्धर्वैर्हयैर्योजयामासुः । यक्षा इति शेषः । विमलाक्षाः दशावर्तशुद्धाः ॥२४॥
तेजोबलगुणोपेता नानारत्नविभूषिताः
।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः॥२५॥
ह्रेषयामासुरन्योऽन्यं ह्रेषितैर्विजयावहैः
।
स तमास्याय भगवान् राजराजो महारथम्॥२६॥
प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः
।
तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम्॥२७॥
रक्ताक्षा हेमसंकाशा महाकाया महाबलाः
।
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतावराः॥२८॥
ते जवेन महावेगाः प्लवमाना विहायसा
।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्॥२९॥
तत् केसरिमहाजालं धनाधिपतिपालितम्
।
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्॥३०॥
केसरिमहाजालमश्वानां महत् वृन्दम् ॥३०॥
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
।
कुबेरस्तु महासत्त्वान् पाण्डोः पुत्रान्महारथान्॥३१॥
आत्तकार्मुकनिस्त्रिंशान् दृष्ट्वा प्रीतोऽभवत्तदा
।
देवकार्यं चिकीर्षन् स हृदयेन तुतोष ह॥३२॥
ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः
।
तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः॥३३॥
ततस्तं हृष्टमनसं पाण्डवान् प्रति भारत
।
समीक्ष्य यक्षगन्धर्वा निर्विकारमवस्थिताः॥३४॥
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्
।
नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित्॥३५॥
अपराद्धमिवात्मानं मन्यमाना महारथाः
।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम्॥३६॥
स ह्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा
।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः॥३७॥
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः
।
उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः॥३८॥
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः
।
परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम्॥३९॥
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम्
।
पाशखड्गधनुष्पाणिरुदैक्षत धनाधिपम्॥४०॥
भीमसेनस्य न ग्लानिर्विक्षतस्यापि राक्षसैः
।
आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः॥४१॥
आददानं शितान्बाणान् योद्धुकाममवास्थतम्
।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः॥४२॥
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्
।
निर्भयश्चापि शैलाग्रे वस त्वं भ्रातृभिः सह॥४३॥
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव
।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव॥४४॥
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम्
।
दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम्॥४५॥
दृष्टो ज्ञातः ॥४५॥
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ
।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा॥४६॥
वैशम्पायन उवाच।
एवमुक्त्वा तु राजानं भीमसेनमभाषत
।
नैतन्मनसि मे तात वर्तते कुरुसत्तम॥४७॥
यदिदं साहसं भीम कृष्णार्थे कृतवानसि
।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम्॥४८॥
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि
।
शापादद्य विनिर्मुक्तो घोरादस्मि वृकोदर॥४९॥
अहं पूर्वमगस्त्येन कुद्धेन परमर्षिणा
।
शप्तोऽपराधे कस्मिश्चित्तस्यैषा निष्कृतिः कृता॥५०॥
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन
।
न तवात्रापराधोऽस्ति कथंचिदपि पाण्डव॥५१॥
मम मया । सङ्क्लेशो भावि दुःखम् ॥५१॥
युधिष्ठिर उवाच।
कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना
।
श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम्॥५२॥
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः
।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः॥५३॥
धनेश्वर उवाच।
देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर
।
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः॥५४॥
कुशवत्यां ‘कुशस्थली’ संज्ञे देशविशेषे ॥५४॥
यक्षाणां घोररूपाणां विविधायुधधारिणाम्
।
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम्॥५५॥
उग्रं तपस्तप्यमानं यमुनातीरमाश्रितम्
।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम्॥५६॥
तमूर्ध्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम्
।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम्॥५७॥
एधितं समिद्धम् ॥५७॥
राक्षसाधिपतिः श्रीमान् मणिमान्नाम मे सखा
।
मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव॥५८॥
मौर्ख्यात् विचाराक्षमत्वात् । अत एव अगस्त्योऽयमित्यज्ञानभावात् । मौर्ख्यमपि दर्पात् संपत्तिगर्वात् सोऽपि मोहात् संपत्तेर्नश्वरत्वाज्ञानात् ॥५८॥
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि
।
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव॥५९॥
न्यष्ठीवत् थूकृतवान् ॥५९॥
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव
।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर॥६०॥
तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात्
।
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्येह दुर्मतिः
।
तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे॥६१॥
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्
।
न शापं प्राप्यते घोरं तत्तवाज्ञां करिष्यति॥६२॥
सैन्यानामिति । तव सैन्यानां मध्ये यत्तव आज्ञां करिष्यति तत् घोरं शापं मानुषात् मरणरूपं न प्राप्स्यते । घोरत्वे हेतुः। पुत्रेति । पुत्रपौत्राः, वलानि-सैन्यानि च तेषु अन्वितम् । ‘राक्षसाः सर्वे पुत्रादियुक्ता मानुषवध्या भवन्तु’ इत्येकस्यापराधे बहूनां दण्डरूप इति घोरत्वं शापस्येत्यर्थः ॥६२॥
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात्
।
स भीमेन महाराज भ्रात्रा तव विमोक्षितः॥६३॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि कुबेरदर्शने एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
धनद उवाच।
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः
।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः॥१॥
एवं शापकीर्तनव्याजेन महतामवज्ञा न कर्तव्येति सूचितमर्थं कण्ठतोऽपि वक्तुं प्राह युधिष्ठिरेत्यादिना । धृतिः सङ्कटेष्वविक्लवता । दाक्ष्यं यत्नशीलता । पराक्रमः शत्रूणामभिभवनहेतुः क्रिया । देशकालयोरानुकूल्यं चेति विधानानां कार्याणां विधिरभ्युदयहेतुः । अदेशेऽकाले च कृतं धृत्यादिकमभिभवहेतुरित्यर्थः ॥१॥
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत
।
पराक्रमविधानज्ञा नरा कृतयुगेऽभवन्॥३॥
क्षत्रियाणां तु सर्वदैवैतत्पञ्चकमावश्यकमित्याह धृतिमानिति ॥३॥
धृतिमान् देशकालज्ञः सर्वधर्मविधानवित्
।
क्षत्रियः क्षत्रियश्रेष्ठ प्रशास्ति पृथिवीं चिरम्॥३॥
क्षत्रियाणां तु सर्वदैवैतत्पञ्चकमावश्यकमित्याह धृतिमानिति ॥३॥
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु
।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम्॥४॥
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्
।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह॥५॥
वृत्रहेति पराक्रमं निर्दिशति ॥५॥
यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते
।
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते॥६॥
संरम्भात् कोपात् ॥६॥
कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति
।
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्॥७॥
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति
।
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्॥८॥
निकृतीनां वञ्चनापराणाम् ॥८॥
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः
।
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः॥९॥
इममुपदेशं प्रकृते योजयति अधर्मज्ञ इति । अवलिप्तो गर्वितः ॥९॥
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ
।
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्॥१०॥
तामिस्त्रं प्रथमं पक्ष वीतशोकभयो वस
।
अलकाः सह गन्धर्वैर्यक्षाश्च सह किन्नरैः॥११॥
प्रथमं प्रथमोत्पन्नानि रक्षांसि तत्संबन्धित्वात्पक्षोऽपि प्रथमः । रक्षोभयहेतावपि तामिस्त्रपक्षे त्वं तत्र निर्भयो वसेत्यर्थः । केचित्तु इत एव प्रथमशब्दान्मासारम्भे कृष्णपक्षस्य प्राथम्यमिच्छन्ति तदसत् । पूर्वपक्षापरपक्षशब्दयोः क्रमेण शुक्लकृष्णयोरेव रूढत्वात् । श्रौतेऽपि पौर्णमासत एवेष्ट्यारम्भात् । न च ‘पूर्णो मासोऽस्यामिति योगात् पौर्णमास्यन्तो मास’ इति वाच्यम् । तत्र मासशब्दस्य चन्द्रवाचित्वात् । ‘सूर्यामासा विचरन्ता दिवि’ इति मन्त्रवर्णात् । सूर्यामासा सूर्याचन्द्रमसावित्यर्थः । निपुणतरमुपपादितमेतदस्माभिः ‘काण्वशतपथभाष्ये’ एकपादीकाण्डे । अलकाः अलकावासिनः ॥११॥
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः
।
रक्षिष्यन्ति महाबाहो सहितं द्विजसत्तमैः॥१२॥
मन्नियुक्ताः रक्षिष्यन्ति सहितं त्वामिति शेषः ॥१२॥
साहसादनुसंप्राप्तः प्रतिबुध्य वृकोदरः
।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर॥१३॥
साहसादनुसंप्राप्त इति प्रतिबुद्ध्य वार्यताम् ॥१३॥
अतः परं च वो राजन् द्रक्ष्यन्ति वनगोचराः
।
उपस्थास्यन्ति वो राजन् रक्षिष्यन्ते च वः सदा॥१४॥
तथैव चान्नपानानि स्वादूनि च बहूनि च
।
आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः॥१५॥
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः
।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः॥१६॥
यथेति । इन्द्रादीनामौरसपुत्रत्वाद्यथा यूयं रक्ष्यास्तथा ममापीति श्लोकद्वयार्थः ॥१६॥
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः
।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर॥१७॥
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित्
।
भीमसेनादवरजः फाल्गुनः कुशली दिवि॥१८॥
अर्थेति । तत्त्वं याथात्म्यम् । विधानं प्राप्त्युपायम् ॥१८॥
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः
।
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये॥१९॥
स्वर्ग्याः स्वर्गाय हिताः संपदः ॥१९॥
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
।
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि॥२०॥
ता एवाह । दम इति। तेजः शौर्यं पराभिभवसामर्थ्यम् ॥२०॥
न मोहात् कुरुते जिष्णुः कर्म पाण्डव गर्हितम्
।
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु॥२१॥
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः
।
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत॥२२॥
कुरुते अभ्यस्यति ॥२२॥
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्
।
स शान्तनुर्महातेजाः पितुस्तव पितामहः॥२३॥
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना
।
सम्यक्चासौ महावीर्यः कुलधुर्येण पार्थिवः॥२४॥
पितॄन् देवानृषीन्विप्रान् पूजयित्वा महातपाः
।
सप्त मुख्यान् महामेधानाहरद्यमुनां प्रति॥२५॥
महामेधान् अश्वमेधान् ॥२५॥
अधिराजः स राजंस्त्वां शान्तनुः प्रपितामहः
।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति॥२६॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम्
।
पाण्डवाश्च ततस्तेन बभूवुः संप्रहर्षिताः॥२७॥
ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभः
।
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः॥२८॥
प्राध्वं कृत्वा वध्वा उपसंहृत्येत्यर्थः । ‘प्राध्वं बन्धने’ इति गतिसंज्ञायां ‘कुगतिप्रायः’ इति प्राप्तोऽपि समासो महाविभाषयाऽनादृतः । नमश्चक्रे स्वदोषानर्जुनगुणांश्च श्रुत्वा लज्जितः स्वापराधं क्षमापयितुमित्यर्थः । ‘प्राज्यं कृत्वा’ इत्यपि पाठः । प्रकर्षेण अज्यं प्राज्यं ज्यारहितमित्यर्थः ॥२८॥
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्
।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः॥२९॥
नन्दिः समृद्धिः ॥२९॥
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः
।
कामान्न परिहास्यन्ति यक्षा वो भरतर्षभाः॥३०॥
स्वेषु वेश्मसु अस्मदीयेषु वः युष्मत्संबन्धिनः कामान् काम्यमानान् अर्थान् न परिहास्यन्ति किं तु साधयिष्यन्त्येवेत्यर्थः ॥३०॥
शीघ्रमेव गुडाकेशः कृतास्त्रः पुनरेष्यति
।
साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः॥३१॥
सृष्टः विसर्जितः संप्राप्स्यति युष्मान् ॥३१॥
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्
।
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः॥३२॥
अस्तं गृहम् । ‘अपाः सोममस्तमिन्द्र प्रयाहि’ इति मन्त्रवर्णात् ॥३२॥
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः
।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः॥३३॥
परिस्तोमाश्चित्रकम्बला हस्त्यादीनां पल्याणभूताः ॥३३॥
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति
।
बभूव परमाश्वानामैरावतपथे यथा॥३४॥
ऐरावतपथे इन्द्रपुरीप्रदेशे ॥३४॥
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः
।
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम्॥३५॥
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम्
।
अपाकृप्यन्त शैलाग्राद्धनाधिपतिशासनात्॥३६॥
अपाकृष्यन्त अपाकृतानि ॥३६॥
तेषां हि शापकालः स कृतोऽगस्त्येन धीमता
।
समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा॥३७॥
पाण्डवाश्च महात्मानस्तेषु वेश्मसु ताः क्षपाः
।
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः॥३८॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि कुबेरवाक्ये द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
वैशम्पायन उवाच।
ततः सूर्योदये धौम्यः कृत्वाऽऽह्निकमरिन्दम
।
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत॥१॥
अर्जुनेन तपोबलाद्देवेभ्योऽस्त्राणि लब्धानीति विस्मयो न कर्तव्य एतदर्थं कर्मफलोर्जितिं विष्णुलोकप्राप्त्यन्तां वर्णयत्यध्यायेन धौम्यो युधिष्ठिरगर्वपरिहारार्थं तत इत्यादिना ॥१॥
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह
।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्॥२॥
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे
।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्॥३॥
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति
।
शैलराजो महाराज मन्दरोऽतिविराजते॥४॥
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः
।
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभिताम्॥५॥
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च
।
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः॥६॥
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः
।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः॥७॥
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः
।
प्रेतसत्त्वगतिं ह्येनां दक्षिणामाश्रितो दिशम्॥८॥
प्रेतसत्त्वगतिं मृतानां प्राणिनां गम्याम् ॥८॥
एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम्
।
प्रेतराजस्य भवनमृद्ध्या परमया युतम्॥९॥
संयमनं नामतः ॥९॥
तं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति
।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः॥१०॥
एतं पर्वतराजानं समुद्रं च महोदधिम्
।
आवसन् वरुणो राजा भूतानि परिरक्षति॥११॥
आवसन् अधितिष्ठन् ॥११॥
उदीचीं दीपयन्नेष दिशं तिष्ठति वीर्यवान्
।
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः॥१२॥
यस्मिन् ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते
।
प्रजापतिः सृजन् सर्वं यत्किञ्चिज्जङ्गमागमम्॥१३॥
भूतात्मा सर्वेषां भूतानामात्मा । सम्पूर्णब्रह्माण्डपिण्डाभिमानित्वात् ॥१३॥
यानाहुर्ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान्
।
तेषामपि महामेरुः शिवं स्थानमनामयम्॥१४॥
अत्रैव प्रतितिष्ठन्ति पुनरेवोदयन्ति च
।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा॥१५॥
अत्रैव प्रजापतौ ॥१५॥
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्
।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः॥१६॥
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्
।
अनादिनिधनं देवं प्रभुं नारायणं परम्॥१७॥
यमिति प्रकृतेः पञ्चभूतात्मिकायाः प्रकृतिमुपादानम् ॥१७॥
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते
।
देवाऽपि यं न पश्यन्ति सर्वतेजोमयं शुभम्॥१८॥
ब्रह्मणः - चतुर्मुखस्य ॥१८॥
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः
।
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः॥१९॥
प्राच्यां नारायणस्थानं मेरावतिविराजते
।
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः॥२०॥
ननु सर्वं सोपाधिककार्यं ब्रह्मणोन्तःपातीति वैदिकसिद्धान्तस्तत्कथं विष्णोः स्थानं ततः परमित्युच्यते अत आह प्राच्यामिति । मेरावेवायं तारतम्येन देशविशेषविभागो न तु सोपाधिकमपि किञ्चिदजातमस्ति । इममेव स्थानभेदमाश्रित्य ‘ब्रह्मलोकादावर्तते न तु विष्णुलोकात्’ इति पौराणिकी व्यवस्था ज्ञेया ॥२०॥
भासयन् सर्वभूतानि सुश्रियाऽभिविराजते
।
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः॥२१॥
प्राप्नुवन्ति गतिं ह्येतां यतीनां कुरुसत्तम
।
न तं ज्योतींषि सर्वाणि प्राप्य भासन्ति पाण्डव॥२२॥
स्वयं प्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते
।
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्॥२३॥
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः
।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः॥२४॥
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत
।
स्वयम्भुवं महात्मानं देवदेवं सनातनम्॥२५॥
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम्
।
ईश्वरस्य सदा ह्येतत् प्रणमात्र युधिष्ठिर॥२६॥
ध्रुवमक्षयमव्ययमिति । उत्पत्तिह्रासनाशशून्यमित्यर्थः । एतच्च यथा घटाकाशयोर्मिथ्यात्वाविशेषेऽपि व्यवहारमाश्रित्य घटोऽनित्यः, आकाशोऽनित्य इति विभागः । एवं ब्रह्मलोकान्तमनित्यं वैकुण्ठं नित्यमिति । परमार्थतस्तु क्रममुक्तिस्थानत्वादौपचारिकं ध्रुवत्वादि ज्ञेयम् । प्रणम नमस्कुरु ॥२६॥
एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम्
।
प्रदक्षिणमुपावृत्य कुरुतः कुरुनन्दन॥२७॥
उपावृत्य - अप्रदक्षिणं गत्वैव । भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपालिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥२७॥
ज्योतींषि चाप्यशेषेण सवाण्यनघ सर्वतः
।
परियान्ति महाराज गिरिराजं प्रदक्षिणम्॥२८॥
एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवानपि
।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्॥२९॥
प्रकर्षन् अभिभवन् । प्रदक्षिणं कुरुत इत्यनुवाद उत्तरार्धार्थः ॥२९॥
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः
।
उदीचीं भजते काष्ठां दिशमेष विभावसुः॥३०॥
अस्तमदर्शनम् । अयमर्थः - मेरुं प्रदक्षिणं कुर्वन्नादित्यो यत्रस्थो न दृश्यते तदेवास्तस्थानम् । तत उदीचीं काष्ठां - दिशां मध्येऽतिश्रेष्ठां दिशं भजते । अत्र सन्ध्योत्तरमुदङ्मुखः ॥३०॥
स मेरुमनुवृत्तः स पुनर्गच्छति पाण्डव
।
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः॥३१॥
तत उदीच्याः परां काष्ठां प्राप्य प्राङ्मुख इति वदता मेरोश्चतुष्कोणत्वं सूचितं भवति । एतदेव तत्त्वमित्यास्थिताः पाखण्डिनो ‘द्वौ सूर्यौ’ इति कल्पयन्ति। वस्तुतोऽत्र परभ्रान्तिरनूद्यते । आकारे तात्पर्याभावादिति ज्ञेयम् ॥३१॥
स मासान् विभजन् काले बहुधा पर्वसन्धिषु
।
तथैव भगवान् सोमो नक्षत्रैः सह गच्छति॥३२॥
स सोमो मासान् विभजन्निति सम्बन्धः । तत्र मासविभागप्रकारोऽष्टावक्रीय उक्तः ॥३२॥
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः
।
भावयन् सर्वभूतानि पुनर्गच्छति मन्दरम्॥३३॥
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्
।
मार्गमेतदसम्बाधमादित्यः परिवर्तते॥३४॥
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्
।
ततः सर्वाणि भूतानि कालोऽभ्यर्च्छति शैशिरः॥३५॥
शिशिराणि शीतानि ॥३५॥
स्थावराणां च भूतानां जङ्गमानां च तेजसा
।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः॥३६॥
तेजांसि समुपादत्ते ग्रीष्मे ॥३६॥
ततः स्वेदक्लमौ तन्द्री ग्लानिश्च भजते नरान्
।
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते॥३७॥
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान्
।
पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः॥३८॥
अनिर्देश्यं मार्गमन्तरिक्षम् ॥३८॥
वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान्
।
वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते॥३९॥
वह्निवायू परस्परं वर्धयन्तौ जलमुत्क्षिपत इति प्रसिद्धम् । सजलस्थाल्यां वायूद्दीपितोऽग्निर्बाष्पवायुं वर्धयति । वायुश्च स्थालीजलमुत्क्षिपतीति वृष्टिमारुतसन्तापान् प्रतिसूर्यस्यैव हेतुत्वं युक्तमिति भावः ॥३९॥
एवमेष चरन् पार्थ कालचक्रमतन्द्रितः
।
प्रकर्षन् सर्वभूतानि सविता परिवर्तते॥४०॥
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव
।
आदायैव तु भूतानां तेजो विसृजते पुनः॥४१॥
विभजन् सर्वभूतानामायुः कर्म च भारत
।
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि मेरुदर्शने त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
वैशम्पायन उवाच।
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सङ्गतमास्थितानाम्
।
रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य॥१॥
तास्मन्निति ॥१॥
तान् वीर्ययुक्तान् सुविशुद्धकामांस्तेजस्विनः सत्यधृतिप्रधानान्
।
सम्प्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसङ्घाश्च महर्षयश्च॥२॥
तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम्
।
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्॥३॥
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य
।
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः॥४॥
महती चला लक्ष्मीः शोभा यस्य महाचलस्य । ‘चला लक्ष्म्यां पुमान् कम्पे’ इति मोदनी । सानून्येव तीक्ष्णाग्राणि पुंसञ्चारायोग्यानि श्रृङ्गाणीत्युच्यन्ते ॥४॥
साक्षात् कुबेरेण कृताश्च तस्मिन् नगोत्तमे संवृतकूलरोधसः
।
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन्॥५॥
रोधसः - रोधस्वत्यः । नवशैवालादिनाऽऽच्छादितनीरा इत्यर्थः ॥५॥
क्रीडाप्रदेशांश्च समृद्धरूपान् सुचित्रमाल्यावृतजातशोभान्
।
मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्धनदस्य राज्ञः॥६॥
अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैः सन्ततमभ्रजालैः
।
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः॥७॥
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्
।
विभक्तभावो न बभूव कश्चिदहोनिशानां पुरुषप्रवीर॥८॥
विभक्तभावो न बभूव - अहोरात्रविभागो नासीत् । नित्यमौषधिप्रभोपेतत्वात् । अहो इति रुत्वमार्षम् ॥८॥
यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः
।
तस्योदयं चास्तमनं च र्वारास्तत्र स्थितास्ते ददृशुर्नृसिंहाः॥९॥
यं सूर्यम् । विभावसुर्वाह्निरास्थितः । ‘आदित्यो वा अस्तं यन्नग्निमनुप्रविशति’ इति श्रुतेः । यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ॥९॥
रवेस्तमिस्त्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः
।
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च॥१०॥
तमिस्रागमनिर्गमा अस्तोदयस्थानानि । बहुत्वं लोकान्तराभिप्रायम् । तथा हि । यत् दाक्षिणात्यानामुदयस्थानं तदुदीच्यानामस्तस्थानम् । पाश्चात्त्यानां निशीथस्थानं प्राच्यानां मध्याह्नस्थानमिति क्रमेणोदयादिस्थानानां बहुत्वं गम्यते । उदयमुदयाचलम् । अस्तमिति मान्तमव्ययमदर्शनवाचि । तदर्थमनिति चेष्टतेऽस्मिन्नित्यस्तंमनमस्तमयस्थानम् । अस्ताचलमित्यादौ त्वस्तपदं गृहवाचि । प्रदिशो दिशामन्तरालानि ॥१०॥
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च
।
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः॥११॥
सततक्रिया अविच्छिन्नधर्माचरणाः ॥११॥
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन
।
इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः॥१२॥
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयन्तामभीक्ष्णम्
।
बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः॥१३॥
यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः
।
तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम्॥१४॥
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी
।
यत्काम्यकात् प्रव्रजितः स जिष्णुस्तदैव ते शोकहता बभूवुः॥१५॥
यत्काम्यकात् यदा काम्यकाख्यवनात् ॥१५॥
तथैव तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम्
।
मासोऽथ कृच्छ्रेण तदा व्यतीतस्तस्मिन्नगे भारत भारतानाम्॥१६॥
उषित्त्वा पञ्चवर्षाणि सहस्राक्षनिवेशने
।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्॥१७॥
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्
।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः॥१८॥
यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य च
।
तानि प्राप्य सहस्त्राक्षादभिवाद्य शतक्रतुम्॥१९॥
अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्
।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम्॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वण्यर्जुनाभिगमने चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥