अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

यक्षयुद्धपर्व

अष्टपञ्चाशदधिकशततमोऽध्यायः

वैशम्पायन उवाच। निहते राक्षसे तस्मिन् पुनर्नारायणाश्रमम् ।
अभ्येत्य राजा कौन्तेयो निवासमकरोत् प्रभुः॥१॥

निहते इति ॥१॥

स समानीय तान् सर्वान् भ्रातॄनित्यब्रवीद्वचः ।
द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम्॥२॥

जयमर्जुनम् ॥२॥

समाश्चतस्रोऽभिगताः शिवेन चरतां वने ।
कृतोद्देशः स बीभत्सुः पञ्चमीमभितः समाम्॥३॥

कृतोद्देशः पञ्चमे वर्षे मयाऽवश्यमागन्तव्यमिति कृतसङ्केतः ॥३॥

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् ।
पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलषट्पदैः॥४॥

श्वेतं कैलासम् ॥४॥

मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम् ।
व्याघ्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा॥५॥

श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम् ।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः॥६॥

प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि ।
महापुण्यं पवित्रं च सुरासुरनिषेवितम्॥७॥

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ।
कृतश्च समयस्तेन पार्थेनामिततेजसा॥८॥

तत्रापि देशे अस्माभिरिति शेषः । उद्देशः कृतः सन्धिरार्षः ॥८॥

पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ।
अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्॥९॥

देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ।
इत्युक्त्वा ब्राह्मणान् सर्वानामन्त्रयत पाण्डवः॥१०॥

कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ।
तानुग्रतपसः प्रीतान् कृत्वा पार्थाः प्रदक्षिणाम्॥११॥

ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ।
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ॥१२॥

सुखोदर्कं सुखोदयम् ॥१२॥

क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ।
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्॥१३॥

प्रतस्थे सह विप्रैस्तैर्भातृभिश्च परन्तपः ।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः॥१४॥

क्वचित्पद्भ्यां ततोऽगच्छेद्राक्षस रुह्यते क्वचित् ।
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः॥१५॥

ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन् ।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्॥१६॥

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् ।
गन्धमादनपादांश्च श्वेतं चापि शिलोच्चयम्॥१७॥

श्वेतं हिमाचलम् ॥१७॥

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः ।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि॥१८॥

ददृशुः पाण्डवा राजन् गन्धमादनमन्तिकात् ।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृत्ते॥१९॥

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः ।
समावृतं पुण्यतममाश्रमं वृषपर्वणः॥२०॥

तमुपागम्य राजर्षिं धर्मात्मानमरिन्दमाः ।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः॥२१॥

अभ्यनन्दत् स राजर्षिः पुत्रवद्भरतर्षभान् ।
पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः॥२२॥

अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् ।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्॥२३॥

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि ।
न्यासभूतान् यथाकालं बन्धूनिव सुसत्कृतान्॥२४॥

पारिबर्हं च तं शेषं परिदाय महात्मने ।
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च॥२५॥

न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः ।
अतीतानागते विद्वान् कुशलः सर्वधर्मवित्॥२६॥

अन्वशासत् स धर्मज्ञः पुत्रवद्भरतर्षभान् ।
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्॥२७॥

तान् प्रस्थितानभ्यगच्छद्वृषपर्वा महीपतिः ।
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा॥२८॥

उपन्यस्य निवेद्य ॥२८॥

अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च ।
वृषपर्वा निववृते पन्थानमुपदिश्य च॥२९॥

अनुसंसार्य - अनुगम्य ॥२९॥

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः ।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः॥३०॥

जानाद्रुमनिरोधेषु वसन्तः शैलसानुषु ।
पर्वतं विविशुस्ते तं चतुर्थेऽहाने पाण्डवाः॥३१॥

महाभ्रघनसंकाशं सलिलोपहितं शुभम् ।
मणिकाञ्चनरूपस्य शिलानां च समुच्चयान्॥३२॥

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा ।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्॥३३॥

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः ।
सुदुर्गमांस्ते सुबहून् सुखेनैवाभिचक्रमुः॥३४॥

धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः ।
अगच्छन् सहितास्तत्र न कश्चिदवहीयते॥३५॥

ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम् ।
शाखामृगगणैश्चैव सेवितं सुमनोरमम्॥३६॥

पुण्यं पद्मसरोयुक्तं सपल्वलमहावनम् ।
उपतस्थुर्महाभागा माल्यवन्तं महागिरिम्॥३७॥

ततः किंपुरुषावासं सिद्धचारणसेवितम् ।
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्॥३८॥

विद्याधरानुचरितं किन्नरीभिस्तथैव च ।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्॥३९॥

शरभोन्नादसंघुष्टं नानामृगनिषेवितम् ।
ते गन्धमादनवनं तन्नन्दनवनोपमम्॥४०॥

मुदिताः पाण्डुतनया मनोहृदयनन्दनम् ।
विविशुः क्रमशो वीराः शरण्यं शुभकाननम्॥४१॥

द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ।
शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ्छुभान्॥४२॥

श्रोत्ररम्यान् सुमधुराञ्छब्दान् खगमुखेरितान् ।
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्॥४३॥

पश्यन्तः पादपांश्चापि फलभारावनामितान् ।
आम्रानाम्रातकान् भव्यान्नारिकेलान्सतिन्दुकान् ।
मुञ्जातकांस्तथाञ्जीरान् दाडिमान् बीजपूरकान् ।
पनसाँल्लकुचान् मोचान् खर्जूरानम्लवेतसान्॥४५॥

परावतांस्तथा क्षौद्रान्नीषांश्चापि मनोरमान् ।
बिल्वान् कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा॥४६॥

काश्मरी गम्भारी ॥४६॥

प्लक्षानुदुम्बरवटानश्वत्थान् क्षीरिकांस्तथा ।
भल्लातकानामलकीर्हरीतकबिभीतकान्॥४७॥

क्षीरिका राजादना ॥४७॥

इङ्गुदान् करमर्दांश्च तिन्दुकांश्च महाबलान् ।
एतानन्यांश्च विविधान् गन्धमादनसानुषु॥४८॥

फलैरमृतकल्पैस्तानाचितान् स्वादुभिस्तरून् ।
तथैव चम्पकाशोकान् केतकान् बकुलांस्तथा॥४९॥

पुन्नागान् सप्तपर्णांश्च कर्णिकारान् सकेतकान् ।
पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस्तथा॥५०॥

पारिजातान् कोविदारान् देवदारुद्रुमांस्तथा ।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा॥५१॥

शाल्मलीः किंशुकाशोकाञ्छिशपाः सरलांस्तथा ।
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः॥५२॥

कोकिलैः कलविङ्कैश्च हारितैर्जीवजीविकैः ।
प्रियकैश्चातकैश्चैव तथान्यैर्विविधैः खगैः॥५३॥

श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ।
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः॥५४॥

कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ।
कह्लारैः कमलैश्चैव आचितानि समन्ततः॥५५॥

कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च॥५६॥

एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ।
हृष्टैस्तथा तामरसरसासवमदालसैः॥५७॥

तामरसानां रक्तोत्पलानां रस एव आसवो मद्यं तज्जेन मदेन अलसाः ॥५७॥

पद्मोदरच्युतरजःकिंजल्कारुणरञ्जितैः ।
मञ्जुस्वरैर्मधुकरैर्विरुतान् कमलाकरान्॥५८॥

अपश्यंस्त नरव्याघ्रा गन्धमादनसानुषु ।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः॥५९॥

विरुतान् विशिष्टशब्दयुतान् ॥५९॥

शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च ।
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्॥६०॥

कृत्वैव केकामधुरं संगीतं मधुरस्वरम् ।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान्॥६१॥

मयूरान् ददृशुर्हृष्टान्नृत्यतो वनलालसान् ।
कांश्चित्प्रियाभिः सहितान् रममाणान्कलापिनः॥६२॥

वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा ।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव॥६३॥

कुटजेषु वृक्षविशेषेषु । वल्लीनां लताप्रतानानि तैः सङ्कटेषु कुञ्जीकृतेषु ॥६३॥

कलापरुचिराटोपनिचितान् मुकुटानिव ।
विवरेषु तरूणां च रुचिरान् ददृशुश्च ते॥६४॥

सिन्धुवारांस्तथोदारान् मन्मथस्येव तोमरान् ।
सुवर्णवर्णकुसुमान् गिरीणां शिखरेषु च॥६५॥

सिन्धुवारान् पद्मविशेषान् ॥६५॥

कर्णिकारान् विकसितान् कर्णपूरानिवोत्तमान् ।
तथापश्यन् कुरबकान् वनराजिषु पुष्पितान्॥६६॥

कामवश्यौत्सुक्यकरान् कामस्येव शरोत्करान् ।
तथैव वनराजीनामुदारान् रचितानिव॥६७॥

कामवश्यानां नराणामौत्सुक्यकरान् ॥६७॥

विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ।
तथानङ्गशराकारान् सहकारान् मनोरमान्॥६८॥

अपश्यन् भ्रमरारावान् मञ्जरीभिर्विराजितान् ।
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि॥६९॥

लोहितैरञ्जनामैश्च वैदूर्यसदृशैरपि ।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु॥७०॥

तथा शालांस्तमालांश्च पाटलान् बकुलानपि ।
माला इव समासक्ताः शैलानां शिखरेषु च॥७१॥

विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः ।
कलहंसैरुपेतानि सारसाभिरुतानि च॥७२॥

स्फाटिकाभानि निर्मलानि । सारसानामभिरुतं च येषु तानि सरांसि इत्युत्तरेणान्वयः ॥७२॥

सरांसि बहुशः पार्थाः पश्यन्तः शैलसानुषु ।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च॥७३॥

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ।
गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च॥७४॥

सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान् ।
विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः॥७५॥

कमलोत्पलकह्लारपुण्डरीकसुगन्धिना ।
सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना॥७६॥

ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः ।
अहो श्रीमदिदं भीम गन्धमादनकाननम्॥७७॥

हे भीम ॥७७॥

वने ह्यस्मिन् मनोरम्ये दिव्याः काननजा द्रुमाः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः॥७८॥

भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ।
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः॥७९॥

स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ।
भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः॥८०॥

विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः ।
पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम्॥८१॥

नलिनीं सरसीम् कमलोत्पलयोरवान्तरजातिभेदः ॥८१॥

स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ।
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे॥८२॥

विग्रहवतीं शरीरवतीम् । तस्य शैलस्य ॥८२॥

उपगीयमाना भ्रमरै राजन्ते वनराजयः ।
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः॥८३॥

अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ।
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः॥८४॥

संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ।
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्॥८५॥

नदतां शृणु निर्घोषं भीम पर्वतसानुषु ।
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः॥८६॥

पत्रिणः पुष्पितानेतान् संपतन्ति महाद्रुमान् ।
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः॥८७॥

परस्परमुदीक्षन्ते बहवो जीवजीवकाः ।
हरितारुणवर्णानां शाद्वलानां समीपतः॥८८॥

सारसाः प्रतिदृश्यन्ते शैलप्रस्त्रवणेष्वपि ।
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः॥८९॥

भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः ।
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः॥९०॥

भृङ्गराजादयः पक्षिविशेषाः । चतुर्विषाणाश्चतुर्दन्ताः । पद्माभाः श्वेताः ॥९०॥

एते वैदूर्यवर्णाभं क्षोभयन्ति महत्सरः ।
बहुतालसमुत्सेधाः शैलशृङ्गपरिच्युताः॥९१॥

नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ।
भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः॥९२॥

शोभयन्ति महाशैलं नानारजतधातवः ।
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः॥९३॥

धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ।
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः॥९४॥

शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ।
सितासिताम्रप्रतिमा बालसूर्यसमप्रभाः॥९५॥

एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ।
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा॥९६॥

यथोक्तं वृषपर्वणा निमित्तभूतेनोक्तं मयासुरेण । तथाहि सभापर्वणि मयेन वृषपर्वकथा युधिष्ठिरं प्रति सभाकरणप्रसङ्गादुक्तेत्युक्तम् । ‘स पूर्वदेवचरितं तदा तत्र विशांपते । कथयामास दैतेयः पाण्डुपुत्रेषु भारत’ इति समयः । पूर्वदेवोऽसुरः वृषपर्वा ॥९६॥

दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ।
गीतानां समतालानां तथा साम्नां च निःस्वनः॥९७॥

श्रूयते बहुधा भीम सर्वभूतमनोहरः ।
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम्॥९८॥

कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ।
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः॥९९॥

गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ।
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः॥१००॥

उपेतं पश्य कौन्तेय शैलराजमरिन्दम ।
वैशंपायन उवाच। ते प्रीतमनसः शूराः प्राप्ता गतिमनुन्तमाम्॥१०१॥

नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परत्तपाः ।
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः॥१०२॥

आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ।
ततस्ते तिग्मतपसं कृशं धमनिसंततम् ।
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन्॥१०३॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि गन्धमादनप्रवेशे अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
ऊनषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्॥१॥

युधिष्ठिर इति । नाम कीर्तयन् ‘युधिष्ठिरोऽहं त्वामभिवादये’ इति वदन् ॥१॥

ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ ।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे॥२॥

तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम्॥३॥

अन्वजानात् स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।
पाण्डोः पुत्रान् कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ।
कुरूणामृषभं पार्थं पूजयित्वा महातपाः ।
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्॥५॥

नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे ।
माता पित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति॥६॥

वृत्तिर्यथायोग्यमाज्ञापालनश्राद्धकरणादिरूपा ॥६॥

कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु॥७॥

वैद्याः विद्यया विदिताः ॥७॥

सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।
यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे॥८॥

सुष्ठु कृतमस्य तम् उपकारिणम् । दुष्कृतम् अपकारिणं हातुं त्यक्तुं न विकत्थसे ‘ज्ञातास्मि’ इति न श्लाघसे ॥८॥

यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवतसे॥९॥

कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।
दानधर्मतपःशौचैरार्जवेन तितिक्षया॥१०॥

पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे ।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव॥११॥

स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च॥१२॥

किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति ।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम्॥१३॥

पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ॥१४॥

युधिष्ठिर उवाच। भगवानार्य माहैतद्यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया॥१५॥

यथावत् माह यथा मामाह ॥१५॥

आर्ष्टिषेण उवाच। अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु॥१६॥

पर्वसन्धिषु प्रतिपत्पञ्चदश्योरन्तराले ॥१६॥

कामिनः सह कान्ताभिः परस्परमनुव्रताः ।
दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप॥१७॥

अरजांसि च वासांसि वसानाः कौशिकानि च ।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः॥१८॥

विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।
महोरगगणाश्चैव सुपर्णाश्चोरगादयः॥१९॥

अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु ।
भेरी पणवशङ्खानां मृदङ्गानां च निःस्वनः॥२०॥

इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।
न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः॥२१॥

न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।
विहारो ह्यत्र देवानाममानुषगतिस्तु सा॥२२॥

ईषच्चपलकर्माणां मनुष्यमिह भारत ।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः॥२३॥

अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर ।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते॥२४॥

चापलादिह गच्छन्तं पार्थ यानमितः परम् ।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन॥२५॥

यानं मार्गम् ॥२५॥

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।
इह वैश्रवणस्तात पर्वसंधिषु दृश्यते॥२६॥

शिखरस्थं समासीनमधिपं यक्षरक्षसाम् ।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्॥२७॥

देवदानवसिद्धानां तथा वैश्रवणस्य च ।
गिरेः शिखरमुद्यानमिदं भरतसत्तम॥२८॥

उद्यानं क्रीडावनयुतम् ॥२८॥

उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु ।
गीतसामस्वनस्तात श्रूयते गन्धमादने॥२९॥

एतदेवंविधं चित्रमिह तात युधिष्ठिर ।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु॥३०॥

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात्॥३१॥

न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन ।
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ।
ततः शस्त्रजितां तात पृथिवीं पालयिष्यसि॥३२॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि आर्ष्टिषेणयुधिष्ठिरसंवादे ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
षष्ट्यधिकशततमोऽध्यायः

जनमेजय उवाच। आर्ष्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः ।
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः॥१॥

आर्ष्टिषेणेति ॥१॥

कियन्तं कालमवसन् पर्वते गन्धमादने ।
किं च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः॥२॥

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।
वसतां लोकवीराणामासंस्तद्बूहि सत्तम॥३॥

विस्तरेण च मे शंस भीमसेनपराक्रमम् ।
यद्यच्चके महाबाहुस्तस्मिन् हैमवते गिरौ॥४॥

न खल्वासीत् पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ।
कच्चित् समागमस्तेषामासीद्वैश्रवणस्य च॥५॥

तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्॥६॥

वैशम्पायन उवाच। एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।
शासनं सततं चक्रुस्तथैव भरतर्षभाः॥७॥

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि॥८॥

मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः॥९॥

तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् ।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत॥१०॥

कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः ।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो॥११॥

आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् ।
अगच्छन् बहवो मासाः पश्यतां महदद्भुतम्॥१२॥

तैस्तत्र विहरद्भिश्च रममाणैश्च पाण्डवैः ।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा॥१३॥

आजग्मुः पाण्डवान् द्रष्टुं शुद्धात्मानो यतव्रताः ।
ते तैः सह कथां चक्रुर्दिव्यां भरतसत्तमाः॥१४॥

ततः कतिपयाहस्य महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽऽहरत्॥१५॥

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम्॥१६॥

ततः शैलोत्तमस्याग्रात् पाण्डवान् प्रति मारुतः ।
अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च॥१७॥

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी॥१८॥

भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्॥१९॥

सुपर्णानिलवेगेन श्वसनेन महाबलात् ।
पञ्चवर्णा निपात्यन्ते पुष्पाणि भरतर्षभ॥२०॥

प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ।
खाण्डवे सत्यसंधेन भ्रात्रा तव महात्मना॥२१॥

गन्धर्वोरगरक्षांसि वासवश्च निवारितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम्॥२२॥

तवापि सुमहत्तेजो महद्बाहुबलं च ते ।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम॥२३॥

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश॥२४॥

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव॥२५॥

एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः ।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलपालिता॥२६॥

ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः ।
नामृष्यत महाबाहुः प्रहारमिव सद्गवः॥२७॥

सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान् दृप्तो मानी शुरश्च पाण्डवः॥२८॥

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः॥२९॥

पृथू विशिष्टौ अंसौ यस्य स पृथुव्यंसः ॥२९॥

महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः ।
रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत्॥३०॥

स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः ।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली॥३१॥

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।
ददृशुः सर्वभूतानि बाणकार्मुकधारिणम्॥३२॥

द्रौपद्या वर्धयन् हर्षं गदामादाय पाण्डवः ।
व्यपेतभयसंमोहः शैलराजं समाश्रितः॥३३॥

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥३४॥

ग्लानिः श्रमः । कातर्यं भयम् । वैक्लव्यमनुत्साहः । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥३४॥

तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः॥३५॥

एकायनं वामद‌क्षिणसंचारशून्यम् ॥३५॥

सकिन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन् पर्वतस्याग्रमारुह्य स महाबलः॥३६॥

ततो वैश्रवणावासं ददर्श भरतर्षभः ।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम्॥३७॥

प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः ।
सर्वरत्नधुतिमता सर्वोद्यानवता तथा॥३८॥

परिक्षिप्तं परित आवृतम् ॥३८॥

शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना॥३९॥

चयाट्टालकशोभिना । चयः - प्राकारस्य मूलबन्धः, अट्टालकः - उपरिगृहम् । चयः समूहे प्राकारमूलबन्धे समाहिते‘ इति मेदिनी । तोरणं बहिर्द्वारं निर्व्यूहो नागदन्ताख्यं गृहान्निर्गतं दारु । ‘निर्व्यूहो नागदन्ते स्यात्’ इति विश्वः ॥३९॥

विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलंकृतम्॥४०॥

धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना ।
पश्यमानः स खेदेन द्रविणाधिपतेः पुरम्॥४१॥

वक्रभावेन वक्रेण बाहुना उपलक्षितः । एतेऽस्मान्न प्रत्युद्गच्छन्तीति वा वक्रबुद्ध्या खेदेन तद्दर्शनात् स्वसंपत्स्मरण तेन । द्रविणाधिपतेः - धनाधिपतेः ॥४१॥

मोदयन् सर्वभूतानि गन्धमादनसंभवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ॥४२॥

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः॥४३॥

रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः॥४४॥

ददृशे ददर्श ॥४४॥

गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः॥४५॥

ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् ।
ज्याघोषतलशब्दं च कृत्वा भूतान्यमोहयत्॥४६॥

ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः॥४७॥

गदापरिघनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः॥४८॥

ततः प्रववृते युद्धं तेषां तस्य च भारत ।
तैः प्रयुक्तान् महामायैः शूलशक्तिपरश्वधान्॥४९॥

भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ।
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्॥५०॥

शरैर्विव्याध गात्राणि राक्षसानां महाबलः ।
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम्॥५१॥

गदापरिघपाणीनां रक्षसां कायसंभवाः ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः॥५२॥

भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च॥५३॥

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव॥५४॥

स रश्मिभिरिवादित्यः शरैररिनिघातिभिः ।
सर्वानार्छन्महाबाहुर्बलवान् सत्यविक्रमः॥५५॥

अभितर्जयमानाश्च रुवन्तश्च महारवान् ।
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः॥५६॥

यक्षा विकृतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः॥५७॥

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् ।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना॥५८॥

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः॥५९॥

अदर्शयदधीकारं पौरुषं च महाबलः ।
स तान् दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत्॥६०॥

अदर्शयत् अधीकारं स्वाम्यं प्राग्दर्शितवान् यः स मणिमानिति यत्तदोरध्याहारेण योज्यम् ॥६०॥

एकेन बहवः सङ्ख्ये मानुषेण पराजिताः ।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम्॥६१॥

संख्ये संग्रामे ॥६१॥

एवमाभाष्य तान् सर्वानभ्यवर्तत राक्षसः ।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम्॥६२॥

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत्॥६३॥

मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् ।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः॥६४॥

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।
शरैर्बहुभिरानर्च्छद्भीमसेनः शिलाशितैः॥६५॥

प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः ।
न वेगं धारयामासुर्गदावेगस्य वेगिताः॥६६॥

प्रत्यहन्यन्त प्रतिहताः । वेगिताः वेगवन्तोऽपि । गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥६६॥

गदायुद्धसमाचारं बुद्ध्यमानः स वीर्यवान् ।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः॥६७॥

सः भीमः व्यंसयामास व्यर्थीचकार ॥६७॥

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।
तस्मिन्नेवान्तरे धीमान् प्रजहाराथ राक्षसः॥६८॥

अयस्मयीं छान्दसं ’भत्वम्’ अयोमयीम् ॥६८॥

सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दाक्षणम् ।
साग्निज्वाला महारौद्रा पपात सहसा भुवि॥६९॥

सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः ।
गदां जग्राह कौन्तेयः क्रोधपर्याकुलेक्षणः॥७०॥

रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् ।
प्रगृह्याथ नदन् भीमः शैक्यां सर्वायसीं गदाम्॥७१॥

शैक्यां शीकयति शत्रून् पराभवतीति शैक्या । शीकयतेः ‘ऋहलोर्ण्यत्’ इति ‘ण्यत्’ । ततः स्वार्थिकोऽण् ॥७१॥

तरसा चाभिदुद्राव मणिमन्तं महाबलम् ।
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि॥७२॥

प्राहिणोद्भीमसेनाय वेगेन महता नदन् ।
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः॥७३॥

अभिदुद्राव तं हन्तुं गरुत्मानिव पन्नगम् ।
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्॥७४॥

प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ।
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा॥७५॥

हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ।
तं राक्षसं भीमबलं भीमसेनेन पातितम्॥७६॥

ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ।
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः ।
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति॥७७॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि मणिमद्वधे षष्ट्यधिकशततमोऽध्यायः॥१६०॥
एकषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम् ।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि॥१॥

श्रुत्वेति ॥१॥

धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा ।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्॥२॥

द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः ।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा॥३॥

संप्रधार्य रक्षार्थं समर्प्य ॥३॥

ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ।
ददृशुस्ते महेष्वासा भीमसेनमरिंदमाः॥४॥

स्फुरतश्च महाकायान् गतसत्त्वांश्च राक्षसान् ।
महाबलान् महासत्त्वान् भीमसेनेन पातितान्॥५॥

शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः ।
निहत्य समरे सर्वान् दानवान् मघवानिव॥६॥

ततस्ते भ्रातरं दृष्ट्वा परिष्वज्य महारथाः ।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्॥७॥

तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।
लोकपालैर्महाभागैर्दिवं देववरैरिव॥८॥

कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् ।
भ्राता भ्रातरमासीनमब्रवीत् पृथिवीपतिः॥९॥

युधिष्ठिर उवाच। साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् ।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधः॥१०॥

मुनेरिव वनवासिनस्ते तवैतत् न सदृशं नोचितम् । यत् मृषा निर्निमित्तं वधो रक्षसां हिंसा ॥१०॥

राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्॥११॥

अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्॥१२॥

वैशंपायन उवाच। एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः॥१३॥

विरराम महातेजास्तमेवार्थं विचिन्तयन् ।
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः॥१४॥

सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ।
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्॥१५॥

सहिताः मिलिताः ॥१५॥

भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ।
न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्ततनुच्छदाः॥१६॥

तनुच्छदः कवचादिः ॥१६॥

प्रकीर्णमूर्धजा राजन् यक्षाधिपतिमब्रुवन् ।
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः॥१७॥

राक्षसा निहताः सर्वे तव देव पुरःसराः ।
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर॥१८॥

एकेन सहिताः सङ्ख्ये रणे क्रोधवशा गणाः ।
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप॥१९॥

शेरते निहता देव गतसत्त्वाः परासवः ।
लब्धशेषा वयं मुक्ता मणिमांस्ते सखा हतः॥२०॥

लब्धशेषाः लब्धप्रसादाः । ‘शेषः सङ्कर्षणे वधे । अनन्ते ना प्रसादे च’ इति मेदिनी ।’लब्धशैलः’ इति गौडपाठे तु लब्धो भीमेन जितः शैलः शैलस्थराक्षसगणः ॥२०॥

मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ।
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः॥२१॥

कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ।
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः॥२२॥

द्वितीयमिव द्वितीयं भयहेतुम् । ‘द्वितीयाद्वै भयं भवति’ इति श्रुतेः ॥२२॥

चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ।
अथाभ्रघनसंकाशं गिरिशृङ्गमिवोछ्रितम्॥२३॥

युज्यतां रथ इति शेषः । अभ्रघनः सजलमेघः । ‘अभ्रं मेघे च गगने धातुभेदे च काञ्चने’ इति मेदिनीकोशात् काञ्चनमेघसङ्काशमिति वा ॥२३॥

रथं संयोजयामासुर्गन्धर्वैर्हेममालिभिः ।
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः॥२४॥

गन्धर्वैर्हयैर्योजयामासुः । यक्षा इति शेषः । विमलाक्षाः दशावर्तशुद्धाः ॥२४॥

तेजोबलगुणोपेता नानारत्नविभूषिताः ।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः॥२५॥

ह्रेषयामासुरन्योऽन्यं ह्रेषितैर्विजयावहैः ।
स तमास्याय भगवान् राजराजो महारथम्॥२६॥

प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ।
तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम्॥२७॥

रक्ताक्षा हेमसंकाशा महाकाया महाबलाः ।
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतावराः॥२८॥

ते जवेन महावेगाः प्लवमाना विहायसा ।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्॥२९॥

तत् केसरिमहाजालं धनाधिपतिपालितम् ।
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्॥३०॥

केसरिमहाजालमश्वानां महत् वृन्दम् ॥३०॥

ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ।
कुबेरस्तु महासत्त्वान् पाण्डोः पुत्रान्महारथान्॥३१॥

आत्तकार्मुकनिस्त्रिंशान् दृष्ट्वा प्रीतोऽभवत्तदा ।
देवकार्यं चिकीर्षन् स हृदयेन तुतोष ह॥३२॥

ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः ।
तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः॥३३॥

ततस्तं हृष्टमनसं पाण्डवान् प्रति भारत ।
समीक्ष्य यक्षगन्धर्वा निर्विकारमवस्थिताः॥३४॥

पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।
नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित्॥३५॥

अपराद्धमिवात्मानं मन्यमाना महारथाः ।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम्॥३६॥

स ह्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा ।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः॥३७॥

तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।
उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः॥३८॥

शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः ।
परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम्॥३९॥

काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।
पाशखड्गधनुष्पाणिरुदैक्षत धनाधिपम्॥४०॥

भीमसेनस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।
आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः॥४१॥

आददानं शितान्बाणान् योद्धुकाममवास्थतम् ।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः॥४२॥

विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।
निर्भयश्चापि शैलाग्रे वस त्वं भ्रातृभिः सह॥४३॥

न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव ।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव॥४४॥

व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् ।
दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम्॥४५॥

दृष्टो ज्ञातः ॥४५॥

न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ ।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा॥४६॥

वैशम्पायन उवाच। एवमुक्त्वा तु राजानं भीमसेनमभाषत ।
नैतन्मनसि मे तात वर्तते कुरुसत्तम॥४७॥

यदिदं साहसं भीम कृष्णार्थे कृतवानसि ।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम्॥४८॥

स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।
शापादद्य विनिर्मुक्तो घोराद‌स्मि वृकोदर॥४९॥

अहं पूर्वमगस्त्येन कुद्धेन परमर्षिणा ।
शप्तोऽपराधे कस्मिश्चित्तस्यैषा निष्कृतिः कृता॥५०॥

दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन ।
न तवात्रापराधोऽस्ति कथंचिदपि पाण्डव॥५१॥

मम मया । सङ्क्लेशो भावि दुःखम् ॥५१॥

युधिष्ठिर उवाच। कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना ।
श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम्॥५२॥

इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः ।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः॥५३॥

धनेश्वर उवाच। देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर ।
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः॥५४॥

कुशवत्यां ‘कुशस्थली’ संज्ञे देशविशेषे ॥५४॥

यक्षाणां घोररूपाणां विविधायुधधारिणाम् ।
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम्॥५५॥

उग्रं तपस्तप्यमानं यमुनातीरमाश्रितम् ।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम्॥५६॥

तमूर्ध्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम् ।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम्॥५७॥

एधितं समिद्धम् ॥५७॥

राक्षसाधिपतिः श्रीमान् मणिमान्नाम मे सखा ।
मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव॥५८॥

मौर्ख्यात् विचाराक्षमत्वात् । अत एव अगस्त्योऽयमित्यज्ञानभावात् । मौर्ख्यमपि दर्पात् संपत्तिगर्वात् सोऽपि मोहात् संपत्तेर्नश्वरत्वाज्ञानात् ॥५८॥

न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ।
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव॥५९॥

न्यष्ठीवत् थूकृतवान् ॥५९॥

मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर॥६०॥

तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ।
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्येह दुर्मतिः ।
तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे॥६१॥

सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् ।
न शापं प्राप्यते घोरं तत्तवाज्ञां करिष्यति॥६२॥

सैन्यानामिति । तव सैन्यानां मध्ये यत्तव आज्ञां करिष्यति तत् घोरं शापं मानुषात् मरणरूपं न प्राप्स्यते । घोरत्वे हेतुः। पुत्रेति । पुत्रपौत्राः, वलानि-सैन्यानि च तेषु अन्वितम् । ‘राक्षसाः सर्वे पुत्रादियुक्ता मानुषवध्या भवन्तु’ इत्येकस्यापराधे बहूनां दण्डरूप इति घोरत्वं शापस्येत्यर्थः ॥६२॥

एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् ।
स भीमेन महाराज भ्रात्रा तव विमोक्षितः॥६३॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि कुबेरदर्शने एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
द्विषष्ट्यधिकशततमोऽध्यायः

धनद उवाच। युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः ।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः॥१॥

एवं शापकीर्तनव्याजेन महतामवज्ञा न कर्तव्येति सूचितमर्थं कण्ठतोऽपि वक्तुं प्राह युधिष्ठिरेत्यादिना । धृतिः सङ्कटेष्वविक्लवता । दाक्ष्यं यत्नशीलता । पराक्रमः शत्रूणामभिभवनहेतुः क्रिया । देशकालयोरानुकूल्यं चेति विधानानां कार्याणां विधिरभ्युदयहेतुः । अदेशेऽकाले च कृतं धृत्यादिकमभिभवहेतुरित्यर्थः ॥१॥

धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।
पराक्रमविधानज्ञा नरा कृतयुगेऽभवन्॥३॥

क्षत्रियाणां तु सर्वदैवैतत्पञ्चकमावश्यकमित्याह धृतिमानिति ॥३॥

धृतिमान् देशकालज्ञः सर्वधर्मविधानवित् ।
क्षत्रियः क्षत्रियश्रेष्ठ प्रशास्ति पृथिवीं चिरम्॥३॥

क्षत्रियाणां तु सर्वदैवैतत्पञ्चकमावश्यकमित्याह धृतिमानिति ॥३॥

य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु ।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम्॥४॥

देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह॥५॥

वृत्रहेति पराक्रमं निर्दिशति ॥५॥

यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते ।
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते॥६॥

संरम्भात् कोपात् ॥६॥

कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ।
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्॥७॥

वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ।
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्॥८॥

निकृतीनां वञ्चनापराणाम् ॥८॥

सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ।
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः॥९॥

इममुपदेशं प्रकृते योजयति अधर्मज्ञ इति । अवलिप्तो गर्वितः ॥९॥

निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ।
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्॥१०॥

तामिस्त्रं प्रथमं पक्ष वीतशोकभयो वस ।
अलकाः सह गन्धर्वैर्यक्षाश्च सह किन्नरैः॥११॥

प्रथमं प्रथमोत्पन्नानि रक्षांसि तत्संबन्धित्वात्पक्षोऽपि प्रथमः । रक्षोभयहेतावपि तामिस्त्रपक्षे त्वं तत्र निर्भयो वसेत्यर्थः । केचित्तु इत एव प्रथमशब्दान्मासारम्भे कृष्णपक्षस्य प्राथम्यमिच्छन्ति तदसत् । पूर्वपक्षापरपक्षशब्दयोः क्रमेण शुक्लकृष्णयोरेव रूढत्वात् । श्रौतेऽपि पौर्णमासत एवेष्ट्यारम्भात् । न च ‘पूर्णो मासोऽस्यामिति योगात् पौर्णमास्यन्तो मास’ इति वाच्यम् । तत्र मासशब्दस्य चन्द्रवाचित्वात् । ‘सूर्यामासा विचरन्ता दिवि’ इति मन्त्रवर्णात् । सूर्यामासा सूर्याचन्द्रमसावित्यर्थः । निपुणतरमुपपादितमेतदस्माभिः ‘काण्वशतपथभाष्ये’ एकपादीकाण्डे । अलकाः अलकावासिनः ॥११॥

मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।
रक्षिष्यन्ति महाबाहो सहितं द्विजसत्तमैः॥१२॥

मन्नियुक्ताः रक्षिष्यन्ति सहितं त्वामिति शेषः ॥१२॥

साहसादनुसंप्राप्तः प्रतिबुध्य वृकोदरः ।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर॥१३॥

साहसादनुसंप्राप्त इति प्रतिबुद्ध्य वार्यताम् ॥१३॥

अतः परं च वो राजन् द्रक्ष्यन्ति वनगोचराः ।
उपस्थास्यन्ति वो राजन् रक्षिष्यन्ते च वः सदा॥१४॥

तथैव चान्नपानानि स्वादूनि च बहूनि च ।
आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः॥१५॥

यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः ।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः॥१६॥

यथेति । इन्द्रादीनामौरसपुत्रत्वाद्यथा यूयं रक्ष्यास्तथा ममापीति श्लोकद्वयार्थः ॥१६॥

आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर॥१७॥

अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित् ।
भीमसेनादवरजः फाल्गुनः कुशली दिवि॥१८॥

अर्थेति । तत्त्वं याथात्म्यम् । विधानं प्राप्त्युपायम् ॥१८॥

याः काश्चन मता लोके स्वर्ग्याः परमसंपदः ।
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये॥१९॥

स्वर्ग्याः स्वर्गाय हिताः संपदः ॥१९॥

दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि॥२०॥

ता एवाह । दम इति। तेजः शौर्यं पराभिभवसामर्थ्यम् ॥२०॥

न मोहात् कुरुते जिष्णुः कर्म पाण्डव गर्हितम् ।
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु॥२१॥

स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः ।
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत॥२२॥

कुरुते अभ्यस्यति ॥२२॥

योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् ।
स शान्तनुर्महातेजाः पितुस्तव पितामहः॥२३॥

प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ।
सम्यक्चासौ महावीर्यः कुलधुर्येण पार्थिवः॥२४॥

पितॄन् देवानृषीन्विप्रान् पूजयित्वा महातपाः ।
सप्त मुख्यान् महामेधानाहरद्यमुनां प्रति॥२५॥

महामेधान् अश्वमेधान् ॥२५॥

अधिराजः स राजंस्त्वां शान्तनुः प्रपितामहः ।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति॥२६॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम् ।
पाण्डवाश्च ततस्तेन बभूवुः संप्रहर्षिताः॥२७॥

ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभः ।
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः॥२८॥

प्राध्वं कृत्वा वध्वा उपसंहृत्येत्यर्थः । ‘प्राध्वं बन्धने’ इति गतिसंज्ञायां ‘कुगतिप्रायः’ इति प्राप्तोऽपि समासो महाविभाषयाऽनादृतः । नमश्चक्रे स्वदोषानर्जुनगुणांश्च श्रुत्वा लज्जितः स्वापराधं क्षमापयितुमित्यर्थः । ‘प्राज्यं कृत्वा’ इत्यपि पाठः । प्रकर्षेण अज्यं प्राज्यं ज्यारहितमित्यर्थः ॥२८॥

ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् ।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः॥२९॥

नन्दिः समृद्धिः ॥२९॥

स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः ।
कामान्न परिहास्यन्ति यक्षा वो भरतर्षभाः॥३०॥

स्वेषु वेश्मसु अस्मदीयेषु वः युष्मत्संबन्धिनः कामान् काम्यमानान् अर्थान् न परिहास्यन्ति किं तु साधयिष्यन्त्येवेत्यर्थः ॥३०॥

शीघ्रमेव गुडाकेशः कृतास्त्रः पुनरेष्यति ।
साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः॥३१॥

सृष्टः विसर्जितः संप्राप्स्यति युष्मान् ॥३१॥

एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् ।
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः॥३२॥

अस्तं गृहम् । ‘अपाः सोममस्तमिन्द्र प्रयाहि’ इति मन्त्रवर्णात् ॥३२॥

तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः॥३३॥

परिस्तोमाश्चित्रकम्बला हस्त्यादीनां पल्याणभूताः ॥३३॥

पक्षिणामिव निर्घोषः कुबेरसदनं प्रति ।
बभूव परमाश्वानामैरावतपथे यथा॥३४॥

ऐरावतपथे इन्द्रपुरीप्रदेशे ॥३४॥

ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम्॥३५॥

ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् ।
अपाकृप्यन्त शैलाग्राद्धनाधिपतिशासनात्॥३६॥

अपाकृष्यन्त अपाकृतानि ॥३६॥

तेषां हि शापकालः स कृतोऽगस्त्येन धीमता ।
समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा॥३७॥

पाण्डवाश्च महात्मानस्तेषु वेश्मसु ताः क्षपाः ।
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः॥३८॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि कुबेरवाक्ये द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
त्रिषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः सूर्योदये धौम्यः कृत्वाऽऽह्निकमरिन्दम ।
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत॥१॥

अर्जुनेन तपोबलाद्देवेभ्योऽस्त्राणि लब्धानीति विस्मयो न कर्तव्य एतदर्थं कर्मफलोर्जितिं विष्णुलोकप्राप्त्यन्तां वर्णयत्यध्यायेन धौम्यो युधिष्ठिरगर्वपरिहारार्थं तत इत्यादिना ॥१॥

तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्॥२॥

ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे ।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्॥३॥

असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति ।
शैलराजो महाराज मन्दरोऽतिविराजते॥४॥

इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः ।
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभिताम्॥५॥

एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च ।
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः॥६॥

अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः॥७॥

यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः ।
प्रेतसत्त्वगतिं ह्येनां दक्षिणामाश्रितो दिशम्॥८॥

प्रेतसत्त्वगतिं मृतानां प्राणिनां गम्याम् ॥८॥

एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम् ।
प्रेतराजस्य भवनमृद्ध्या परमया युतम्॥९॥

संयमनं नामतः ॥९॥

तं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति ।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः॥१०॥

एतं पर्वतराजानं समुद्रं च महोदधिम् ।
आवसन् वरुणो राजा भूतानि परिरक्षति॥११॥

आवसन् अधितिष्ठन् ॥११॥

उदीचीं दीपयन्नेष दिशं तिष्ठति वीर्यवान् ।
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः॥१२॥

यस्मिन् ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते ।
प्रजापतिः सृजन् सर्वं यत्किञ्चिज्जङ्गमागमम्॥१३॥

भूतात्मा सर्वेषां भूतानामात्मा । सम्पूर्णब्रह्माण्डपिण्डाभिमानित्वात् ॥१३॥

यानाहुर्ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान् ।
तेषामपि महामेरुः शिवं स्थानमनामयम्॥१४॥

अत्रैव प्रतितिष्ठन्ति पुनरेवोदयन्ति च ।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा॥१५॥

अत्रैव प्रजापतौ ॥१५॥

देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः॥१६॥

यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।
अनादिनिधनं देवं प्रभुं नारायणं परम्॥१७॥

यमिति प्रकृतेः पञ्चभूतात्मिकायाः प्रकृतिमुपादानम् ॥१७॥

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।
देवाऽपि यं न पश्यन्ति सर्वतेजोमयं शुभम्॥१८॥

ब्रह्मणः - चतुर्मुखस्य ॥१८॥

अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः॥१९॥

प्राच्यां नारायणस्थानं मेरावतिविराजते ।
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः॥२०॥

ननु सर्वं सोपाधिककार्यं ब्रह्मणोन्तःपातीति वैदिकसिद्धान्तस्तत्कथं विष्णोः स्थानं ततः परमित्युच्यते अत आह प्राच्यामिति । मेरावेवायं तारतम्येन देशविशेषविभागो न तु सोपाधिकमपि किञ्चिदजातमस्ति । इममेव स्थानभेदमाश्रित्य ‘ब्रह्मलोकादावर्तते न तु विष्णुलोकात्’ इति पौराणिकी व्यवस्था ज्ञेया ॥२०॥

भासयन् सर्वभूतानि सुश्रियाऽभिविराजते ।
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः॥२१॥

प्राप्नुवन्ति गतिं ह्येतां यतीनां कुरुसत्तम ।
न तं ज्योतींषि सर्वाणि प्राप्य भासन्ति पाण्डव॥२२॥

स्वयं प्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ।
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्॥२३॥

परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः॥२४॥

तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ।
स्वयम्भुवं महात्मानं देवदेवं सनातनम्॥२५॥

स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् ।
ईश्वरस्य सदा ह्येतत् प्रणमात्र युधिष्ठिर॥२६॥

ध्रुवमक्षयमव्ययमिति । उत्पत्तिह्रासनाशशून्यमित्यर्थः । एतच्च यथा घटाकाशयोर्मिथ्यात्वाविशेषेऽपि व्यवहारमाश्रित्य घटोऽनित्यः, आकाशोऽनित्य इति विभागः । एवं ब्रह्मलोकान्तमनित्यं वैकुण्ठं नित्यमिति । परमार्थतस्तु क्रममुक्तिस्थानत्वादौपचारिकं ध्रुवत्वादि ज्ञेयम् । प्रणम नमस्कुरु ॥२६॥

एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम् ।
प्रदक्षिणमुपावृत्य कुरुतः कुरुनन्दन॥२७॥

उपावृत्य - अप्रदक्षिणं गत्वैव । भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपालिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥२७॥

ज्योतींषि चाप्यशेषेण सवाण्यनघ सर्वतः ।
परियान्ति महाराज गिरिराजं प्रदक्षिणम्॥२८॥

एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवानपि ।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्॥२९॥

प्रकर्षन् अभिभवन् । प्रदक्षिणं कुरुत इत्यनुवाद उत्तरार्धार्थः ॥२९॥

अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः ।
उदीचीं भजते काष्ठां दिशमेष विभावसुः॥३०॥

अस्तमदर्शनम् । अयमर्थः - मेरुं प्रदक्षिणं कुर्वन्नादित्यो यत्रस्थो न दृश्यते तदेवास्तस्थानम् । तत उदीचीं काष्ठां - दिशां मध्येऽतिश्रेष्ठां दिशं भजते । अत्र सन्ध्योत्तरमुदङ्मुखः ॥३०॥

स मेरुमनुवृत्तः स पुनर्गच्छति पाण्डव ।
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः॥३१॥

तत उदीच्याः परां काष्ठां प्राप्य प्राङ्मुख इति वदता मेरोश्चतुष्कोणत्वं सूचितं भवति । एतदेव तत्त्वमित्यास्थिताः पाखण्डिनो ‘द्वौ सूर्यौ’ इति कल्पयन्ति। वस्तुतोऽत्र परभ्रान्तिरनूद्यते । आकारे तात्पर्याभावादिति ज्ञेयम् ॥३१॥

स मासान् विभजन् काले बहुधा पर्वसन्धिषु ।
तथैव भगवान् सोमो नक्षत्रैः सह गच्छति॥३२॥

स सोमो मासान् विभजन्निति सम्बन्धः । तत्र मासविभागप्रकारोऽष्टावक्रीय उक्तः ॥३२॥

एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः ।
भावयन् सर्वभूतानि पुनर्गच्छति मन्दरम्॥३३॥

तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् ।
मार्गमेतदसम्बाधमादित्यः परिवर्तते॥३४॥

सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम् ।
ततः सर्वाणि भूतानि कालोऽभ्यर्च्छति शैशिरः॥३५॥

शिशिराणि शीतानि ॥३५॥

स्थावराणां च भूतानां जङ्गमानां च तेजसा ।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः॥३६॥

तेजांसि समुपादत्ते ग्रीष्मे ॥३६॥

ततः स्वेदक्लमौ तन्द्री ग्लानिश्च भजते नरान् ।
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते॥३७॥

एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् ।
पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः॥३८॥

अनिर्देश्यं मार्गमन्तरिक्षम् ॥३८॥

वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् ।
वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते॥३९॥

वह्निवायू परस्परं वर्धयन्तौ जलमुत्क्षिपत इति प्रसिद्धम् । सजलस्थाल्यां वायूद्दीपितोऽग्निर्बाष्पवायुं वर्धयति । वायुश्च स्थालीजलमुत्क्षिपतीति वृष्टिमारुतसन्तापान् प्रतिसूर्यस्यैव हेतुत्वं युक्तमिति भावः ॥३९॥

एवमेष चरन् पार्थ कालचक्रमतन्द्रितः ।
प्रकर्षन् सर्वभूतानि सविता परिवर्तते॥४०॥

सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव ।
आदायैव तु भूतानां तेजो विसृजते पुनः॥४१॥

विभजन् सर्वभूतानामायुः कर्म च भारत ।
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः॥४२॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वणि मेरुदर्शने त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
चतुःषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सङ्गतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य॥१॥

तास्मन्निति ॥१॥

तान् वीर्ययुक्तान् सुविशुद्धकामांस्तेजस्विनः सत्यधृतिप्रधानान् ।
सम्प्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसङ्घाश्च महर्षयश्च॥२॥

तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्॥३॥

मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः॥४॥

महती चला लक्ष्मीः शोभा यस्य महाचलस्य । ‘चला लक्ष्म्यां पुमान् कम्पे’ इति मोदनी । सानून्येव तीक्ष्णाग्राणि पुंसञ्चारायोग्यानि श्रृङ्गाणीत्युच्यन्ते ॥४॥

साक्षात् कुबेरेण कृताश्च तस्मिन् नगोत्तमे संवृतकूलरोधसः ।
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन्॥५॥

रोधसः - रोधस्वत्यः । नवशैवालादिनाऽऽच्छादितनीरा इत्यर्थः ॥५॥

क्रीडाप्रदेशांश्च समृद्धरूपान् सुचित्रमाल्यावृतजातशोभान् ।
मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्धनदस्य राज्ञः॥६॥

अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैः सन्ततमभ्रजालैः ।
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः॥७॥

स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् ।
विभक्तभावो न बभूव कश्चिदहोनिशानां पुरुषप्रवीर॥८॥

विभक्तभावो न बभूव - अहोरात्रविभागो नासीत् । नित्यमौषधिप्रभोपेतत्वात् । अहो इति रुत्वमार्षम् ॥८॥

यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः ।
तस्योदयं चास्तमनं च र्वारास्तत्र स्थितास्ते ददृशुर्नृसिंहाः॥९॥

यं सूर्यम् । विभावसुर्वाह्निरास्थितः । ‘आदित्यो वा अस्तं यन्नग्निमनुप्रविशति’ इति श्रुतेः । यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ॥९॥

रवेस्तमिस्त्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च॥१०॥

तमिस्रागमनिर्गमा अस्तोदयस्थानानि । बहुत्वं लोकान्तराभिप्रायम् । तथा हि । यत् दाक्षिणात्यानामुदयस्थानं तदुदीच्यानामस्तस्थानम् । पाश्चात्त्यानां निशीथस्थानं प्राच्यानां मध्याह्नस्थानमिति क्रमेणोदयादिस्थानानां बहुत्वं गम्यते । उदयमुदयाचलम् । अस्तमिति मान्तमव्ययमदर्शनवाचि । तदर्थमनिति चेष्टतेऽस्मिन्नित्यस्तंमनमस्तमयस्थानम् । अस्ताचलमित्यादौ त्वस्तपदं गृहवाचि । प्रदिशो दिशामन्तरालानि ॥१०॥

स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः॥११॥

सततक्रिया अविच्छिन्नधर्माचरणाः ॥११॥

इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन ।
इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः॥१२॥

दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयन्तामभीक्ष्णम् ।
बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः॥१३॥

यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः ।
तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम्॥१४॥

भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी ।
यत्काम्यकात् प्रव्रजितः स जिष्णुस्तदैव ते शोकहता बभूवुः॥१५॥

यत्काम्यकात् यदा काम्यकाख्यवनात् ॥१५॥

तथैव तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम् ।
मासोऽथ कृच्छ्रेण तदा व्यतीतस्तस्मिन्नगे भारत भारतानाम्॥१६॥

उषित्त्वा पञ्चवर्षाणि सहस्राक्षनिवेशने ।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्॥१७॥

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः॥१८॥

यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य च ।
तानि प्राप्य सहस्त्राक्षाद‌भिवाद्य शतक्रतुम्॥१९॥

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् ।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम्॥२०॥

इति श्रीमहाभारते आरण्यके पर्वणि यक्षयुद्धपर्वण्यर्जुनाभिगमने चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥
समाप्तं यक्षयुद्धपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in