वैशम्पायन उवाच।
ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम्
।
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव॥१॥
तत इति । हरिभिरश्वैः सम्प्रयुक्तम् । महेन्द्रस्य वाहं रथम् ॥१॥
स दीप्यमानः सहसाऽन्तरिक्षं प्रकाशयन् मातलिसङ्गृहीतः
।
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा॥२॥
तमास्थितः सन्ददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत्
।
धनञ्जयो वज्रधरप्रभावः श्रिया ज्वलन् पर्वतमाजगाम॥३॥
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्
।
धौम्यस्य पादावभिवाद्य धीमानजातशत्रोस्तदनन्तरं च॥४॥
वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च
।
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः॥५॥
प्रह्वो नम्रः । उपह्वरे समीपे ॥५॥
बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समागतानाम्
।
स चापि तान् प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्॥६॥
यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेर्निहन्ता
।
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः॥७॥
पूगान्यूथानि ॥७॥
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम्
।
सर्वान् यथावच्च दिवौकसस्ते पप्रच्छुरेनं कुरुराजपुत्राः॥८॥
एनं मातलिम् ॥८॥
तानप्यसौ मातलिरभ्यनन्दत् पितेव पुत्राननुशिष्य पार्थान्
।
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य॥९॥
गते तु तस्मिन् नरदेववर्यः शक्रात्मजः शक्ररिपुप्रमाथी
।
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति॥१०॥
दिवाकराभाणि विभूषणानि प्रियः प्रियायै सुतसोममात्रे
।
ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्॥११॥
सुतसोमो भीमात् द्रौपद्यां जातः ॥११॥
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत् कथयांबभूव
।
एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात्॥१२॥
तथैव शीलेन समाधिनाऽथ प्रीताः सुरा मे सहिताः सहेन्द्राः
।
सङ्क्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवासम्॥१३॥
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः॥१४॥
आवसतिं रात्रिम् । प्रतीतो हृष्टः ॥१४॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वण्यर्जुनसमागमे पञ्चषष्ट्यधिकशततमोऽध्यायः॥१६५॥
वैशम्पायन उवाच।
ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम्
।
भ्रातृभिः सहितः सर्वैरवन्दत धनञ्जयः॥१॥
तत इति ॥१॥
एतस्मिन्नेव काले तु सर्ववादित्रनिःस्वनः
।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्॥२॥
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत
।
पृथग्व्यालमृगाणां च पक्षिणामिव सर्वशः॥३॥
ते समन्तादनुययुर्गन्धर्वाप्सरसां गणाः
।
विमानैः सूर्यसङ्काशैर्देवराजमरिन्दमम्॥४॥
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्
।
मेघनादिनमारुह्य श्रिया परमया ज्वलन्॥५॥
हरिभिर्युक्तं रथम् ॥५॥
पार्थानभ्याजगामाथ देवराजः पुरन्दरः
।
आगत्य च सहस्राक्षो रथादवरुरोह वै॥६॥
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः
।
भ्रातृभिः सहितः श्रीमान् देवराजमुपागमत्॥७॥
पूजयामास चैवाऽथ विधिवद्भूरिदक्षिणः
।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा॥८॥
अमितात्मा – अमितबुद्धिः ॥८॥
धनञ्जयश्च तेजस्वी प्रणिपत्य पुरन्दम्
।
भृत्यवत् प्रणतस्तस्थौ देवराजसमीपतः॥९॥
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः
।
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके॥१०॥
जटिलं देवराजस्य तपोयुक्तमकल्मषम्
।
हर्षेण महताऽऽविष्टः फाल्गुनस्याथ दर्शनात्॥११॥
बभूव परमप्रीतो देवराजं च पूजयन्
।
तं तथाऽदीनमनसं राजानं हर्षसम्प्लुतम्॥१२॥
अदीनेति च्छेदः ॥१२॥
उवाच वचनं धीमान् देवराजः पुरन्दरः
।
त्वमिमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव
।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्॥१३॥
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन्
।
कृतप्रियश्चास्मि धनञ्जयेन जेतुं न शक्यस्त्रिभिरेष लोकैः॥१४॥
कृतप्रियः शत्रुवधेन ॥१४॥
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्
।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः॥१५॥
धनेश्वरगृहस्थानां पाण्डवानां समागमम्
।
शक्रेण य इदं विद्वानधीयीत समाहितः॥१६॥
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः
।
स जीवेद्धि निराबाधः स सुखी शरदां शतम्॥१७॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि इन्द्रागमने षट्षष्ट्यधिकशततमोऽध्यायः॥१६६॥
वैशम्पायन उवाच।
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः
।
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्॥१॥
यथेति ॥१॥
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम्
।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्॥२॥
प्रहृष्टो धर्मपुत्रः ॥२॥
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव
।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः॥३॥
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव
।
कच्चित् सुराधिपः प्रीतो रुद्रो वाऽस्त्राण्यदात्तव॥४॥
यथा दृष्टश्च ते शक्रो भगवान् वा पिनाकधृक्
।
यथैवास्त्राण्यवाप्तानि यथैवाराधितश्च ते॥५॥
यथोक्तवांस्त्वां भगवान् शतक्रतुररिन्दम
।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम्॥६॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते
।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ॥७॥
यच्चापि वज्रपाणेस्तु प्रियं कृतमरिन्दम
।
एतदाख्याहि मे सर्वमखिलेन धनञ्जय॥८॥
अर्जुन उवाच।
शृणु हन्त महाराज विधिना येन दृष्टवान्
।
शतक्रतुमहं देवं भगवन्तं च शङ्करम्॥९॥
हन्तेत्यव्ययं वाक्यारम्भे हर्षे वा । ‘हन्तवाक्यारम्भहर्षविवादे खेदसम्भ्रमे’ इति मेदिनी ॥९॥
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन
।
भवता च समादिष्टस्तपसे प्रस्थितो वनम्॥१०॥
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः
।
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि॥११॥
स मामपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे
।
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन॥१२॥
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम
।
अपूजयत मां राजन् प्रीतिमांश्चाऽभवन्मयि॥१३॥
ततो मामब्रवीत् प्रीतस्तप आतिष्ठ भारत
।
तपस्वी न चिरेण त्वं द्रक्ष्यसे विबुधाधिपम्॥१४॥
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्
।
तपोऽतप्यं महाराज मासं मूलफलाशनः॥१५॥
शैशिरं हिममयम् ॥१५॥
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः
।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन॥१६॥
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा
।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत्॥१७॥
प्राणो बलम् ॥१७॥
पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते
।
वराहसंस्थितं भूतं मत्समीपं समागमत्॥१८॥
वराहवत् संस्थितमाकारो यस्य ॥१८॥
निघ्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि
।
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः॥१९॥
प्रोथेन मुखाग्रेण पोत्राख्येन । विवर्तन् विषमेण भावेन वर्तमानः । इतस्ततः पर्यटन् वा ॥१९॥
अनु तस्यापरं भूतं महत् कैरातसंस्थितम्
।
धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा॥२०॥
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी
।
अताडयं शरेणाथ तद्भुतं लोमहर्षणम्॥२१॥
युगपत्तं किरातस्तु विकृष्य बलवद्धनुः
।
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः॥२२॥
स तु मामब्रवीद्राजन् मम पूर्वपरिग्रहः
।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया॥२३॥
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव
।
स धनुष्मान् महाकायस्ततो मामभ्यभाषत॥२४॥
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः
।
तं चाहं शरवर्षेण महता समवाकिरम्॥२५॥
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनुमन्त्रितैः
।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्॥२६॥
अनु पश्चात् । यन्त्रितैः दृढाकृष्टैः ॥२६॥
तस्य तच्छतधा रूपमभवच्च सहस्रधा
।
तानि चास्य शरीराणि शरैरहमताडयम्॥२७॥
पुनस्तानि शरीराणि एकीभूतानि भारत
।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः॥२८॥
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः
।
एकीभूतस्तदा राजन् सोऽभ्यवर्तत मां युधि॥२९॥
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे
।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ॥३०॥
न चैनमशकं हन्तुं तदद्भुतमिवाऽभवत्
।
तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महानभूत्॥३१॥
भूय एव महाराज सविशेषमहं ततः
।
अस्त्रपूगेन महता रणे भूतमवाकिरम्॥३२॥
स्थूणाकर्णमथो जालं शरवर्षमथोल्बणम्
।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम्॥३३॥
स्थूणाकर्ण इति शङ्कुकर्णाख्यो रुद्रावतारभेदस्तद्दैवत्यमस्त्रम् । जालं जलमयं वारुणम् ॥३३॥
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप
।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्॥३४॥
ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयते
।
उपचीयमानश्च मया महास्त्रेण व्यवर्धत॥३५॥
ततः सन्तापिता लोका मत्प्रसूतेन तेजसा
।
क्षणेन हि दिशः खं च सर्वतो हि विदीपितम्॥३६॥
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्
।
ब्रह्मास्त्रे तु हते राजन् भयं मां महदाविशत्॥३७॥
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी
।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्॥३८॥
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च
।
मम तस्य च भूतस्य बाहुयुद्धमवर्तत॥३९॥
व्यायामं मुष्टिभिः कृत्वा तलैरपि समागतैः
।
अपारयंश्च तद्भूतं निश्चेष्टमगमं महीम्॥४०॥
व्यायामं सङ्घटनम् । अपारयन् अशक्नुवन् ॥४०॥
ततः प्रहस्य तद्भुतं तत्रैवान्तरधीयत
।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्॥४१॥
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमास्थितः
।
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्॥४२॥
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः
।
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः॥४३॥
अदृश्यत ततः साक्षाद्भगवान् गोवृषध्वजः
।
उमासहायो व्यालधृग्बहुरूपः पिनाकधृक्॥४४॥
गोवृषो बलीवर्दश्रेष्ठः ॥४४॥
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्
।
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप॥४५॥
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ
।
प्रादान्ममैव भगवान् वरयस्वेति चाब्रवीत्॥४६॥
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते
।
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्॥४७॥
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्
।
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः॥४८॥
प्रणम्य मनसा शर्वं ततो वचनमाददे
।
भगवान् मे प्रसन्नश्चेदीप्सितोऽयं वरो मम॥४९॥
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
।
ददानीत्येव भगवानब्रवीत् त्र्यम्बकश्च माम्॥५०॥
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
।
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं महत्॥५१॥
उवाच च महादेवो दत्वा मेऽस्त्रं सनातनम्
।
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन॥५२॥
जगद्विनिर्दहेदेवमल्पतेजसि पातितम्
।
पीड्यमानेन बलवत् प्रयोज्यं स्याद्धनञ्जय॥५३॥
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेत्
।
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्॥५४॥
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे
।
उत्सादनममित्राणां परसेनानिकर्तनम्॥५५॥
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः
।
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्॥५६॥
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत॥५७॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवधपर्वणि गन्धमादनवासे युधिष्ठिरार्जुनसंवादे सप्तषष्ट्यधिकशततमोऽध्यायः॥१६७॥
अर्जुन उवाच।
ततस्तामवसं प्रीतो रजनीं तत्र भारत
।
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः॥१॥
तत इति ॥१॥
व्युषितो रजनीं चाहं कृत्वा पौर्वाह्णिकीः क्रियाः
।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा॥२॥
तस्मै चाऽहं यथावृत्तं सर्वमेव न्यवेदयम्
।
भगवन्तं महादेवं समेतोऽस्मीति भारत॥३॥
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः
।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्॥४॥
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः
।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति॥५॥
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः
।
अगच्छत् स यथाकामं ब्राह्मणः सूर्यसन्निभः॥६॥
अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः
।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्॥७॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
।
शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः॥८॥
वादित्राणि च दिव्यानि सुघोराणि समन्ततः
।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः॥९॥
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च
।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः॥१०॥
मरुतां च गणास्तत्र देवयानैरुपागमन्
।
महेन्द्रानुचरा ये च ये च सद्मनिवासिनः॥११॥
देवयानैर्विमानैः । सद्मनिवासिनः स्त्रीबालादयः शचीजयन्तादय इत्यर्थः ॥११॥
ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः
।
शचीसहायस्तत्राऽऽयात् सह सर्वैस्तदामरैः॥१२॥
एतस्मिन्नेव काले तु कुबेरो नरवाहनः
।
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः॥१३॥
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्
।
वरुणं देवराजं च यथास्थानमवस्थितम्॥१४॥
यथास्थानं प्राच्यामिन्द्रं, प्रतीच्यां वरुणमित्यादि ॥१४॥
ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ
।
सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान्॥१५॥
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्
।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः॥१६॥
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्
।
प्रत्यगृह्णं तदाऽस्त्राणि महान्ति विधिवद्विभो॥१७॥
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत
।
अथ देवा ययुः सर्वे यथागतमरिन्दम॥१८॥
मघवानपि देवेशो रथमारुह्य सुप्रभम्
।
उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया॥१९॥
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय
।
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ॥२०॥
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्
।
तपश्चेदं महत्तप्तं स्वर्गं गन्तासि पाण्डव॥२१॥
भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्
।
स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन॥२२॥
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति
।
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम्॥२३॥
ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम
।
आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर॥२४॥
इन्द्र उवाच।
क्रूरकर्मास्त्रवित्तात भविष्यसि परन्तप
।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाऽऽप्नुहि॥२५॥
त्वं क्रूरकर्मा भविष्यसीति संबन्धः ॥२५॥
ततोऽहमब्रुवं नाऽहं दिव्यान्यस्त्राणि शत्रुहन्
।
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात्॥२६॥
अस्त्रस्यैव प्रतिघातार्थमस्त्रं मोक्ष्ये न त्वन्यत्र मानुषे ॥२६॥
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप
।
लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुङ्गव॥२७॥
इन्द्र उवाच।
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय
।
ममात्मजस्य वचनं सूपपन्नमिदं तव॥२८॥
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत
।
वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्गणात्॥२९॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्
।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च॥३०॥
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह
।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत॥३१॥
अथाऽपश्यं हरियुजं रथमैन्द्रमुपस्थितम्
।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप॥३२॥
मायामयमिवात्यद्भुतम् ॥३२॥
लोकपालेषु यातेषु मामुवाचाथ मातलिः
।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते॥३३॥
संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्
।
पश्य पुण्यकृताँल्लोकान् सशरीरो दिवं व्रज॥३४॥
देवराजः सहस्त्राक्षस्त्वां दिदृक्षति भारत
।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्॥३५॥
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्
।
चोदयामास स हयान् मनोमारुतरंहसः॥३६॥
मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः
।
अवैक्षत च मे वक्त्रं स्थितस्याऽथ स सारथिः॥३७॥
तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्
।
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे॥३८॥
यदास्थितो रथं दिव्यं पदान्न चलितः पदम्
।
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः॥३९॥
पदात् स्थानात् न चालितः । रथस्य भ्रमणेऽपि दृढासन इत्यर्थः ॥३९॥
विचलन् प्रथमोत्पाते हयानां भरतर्षभ
।
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह॥४०॥
अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे
।
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्॥४१॥
दर्शयामास मे राजन् विमानानि च भारत
।
स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः॥४२॥
ऋपयो देवताश्चैव पूजयन्ति नरोत्तम
।
ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम्॥४३॥
सुरर्षिणामिति दैर्ध्याभाव आर्षः । समाहारबहुत्वं वा बहुसमुदायाभिप्रायेण ॥४३॥
गन्धर्वाप्सरसां चैव प्रभावममितौजसाम्
।
नन्दनादीनि देवानां वनान्युपवनानि च॥४४॥
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः
।
ततः शक्रस्य भवनमपश्यममरावतीम्॥४५॥
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम्
।
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥४६॥
न बाधते तत्र रजस्तत्रास्ति न जरा नृप
।
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते॥४७॥
दिवौकसां महाराज न ग्लानिररिमर्दन
।
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते॥४८॥
नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि
।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥४९॥
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः
।
शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः॥५०॥
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता
।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः॥५१॥
विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे
।
ततोऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान्॥५२॥
आदित्यानश्विनौ चैव तान् सर्वान् प्रत्यपूजयम्
।
ते मां वीर्येण यशसा तेजसा च बलेन च॥५३॥
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामे विजयेन च
।
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्॥५४॥
अन्वजानन्त ‘वीर्यादिमान् भव’ इत्याशीर्वादान् ददुरित्यर्थः ॥५४॥
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः
।
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः॥५५॥
बहुमानाच्च गात्राणि पस्पर्श मम वासवः
।
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः॥५६॥
अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत
।
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा॥५७॥
स च गान्धर्वमखिलं ग्राहयामास मां नृप
।
तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः॥५८॥
सुखं शक्रस्य भवने सर्वकामसमन्वितः
।
शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्
।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ॥५९॥
तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत
।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः॥६०॥
तत्सर्वमिति । अनवज्ञाय आदृत्य आदरपूर्वकं तथ्यं यथावदत्यर्थं पुरुषार्थ इति विज्ञाय प्रतिगृह्य रागशून्येन मनसा अङ्गीकृत्याप्यहमस्त्रेष्वेव व्यवस्थितोऽभूवं न गीतादिषु ॥६०॥
ततोऽतुष्यत् सहस्त्राक्षस्तेन कामेन मे विभुः
।
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि॥६१॥
तेन कामेन अस्त्रेच्छया न तु भोगेच्छया ॥६१॥
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः
।
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्॥६२॥
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि
।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः॥६३॥
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा
।
अथाऽब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः॥६४॥
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति
।
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः॥६५॥
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह
।
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च॥६६॥
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः
।
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय॥६७॥
पञ्चभिः प्रयोगादिभिः । आवृत्तिः - पुनः पुनः प्रयोगोपसंहारौ ॥६७॥
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः
।
ततो गुर्वर्थकालोऽयं समुत्पन्नः परन्तप॥६८॥
प्रायश्चित्तमस्त्राग्निना दग्धानामनागसां पुनरुज्जीवनम् । प्रतीघातं परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनम् । गुर्वर्थो दक्षिणा ॥६८॥
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्
।
ततोऽहमब्रुवं राजन् देवराजमिदं वचः॥६९॥
वेत्स्यामि वेदयिष्यामि परं कार्यमिति शेषः ॥६९॥
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्
।
ततो मामब्रवीद्राजन् प्रहसन् बलवृत्रहा॥७०॥
विषह्यं शक्यम् ॥७०॥
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत
।
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः॥७२॥
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति
।
ततो मातलिसंयुक्तं मयूरसमरोमभिः॥७३॥
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्
।
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्॥७४॥
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्
।
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्॥७५॥
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्
।
ततः प्रायामहं तेन स्यन्दनेन विराजता॥७६॥
प्रायां प्रयाणं कृतवान् ॥७६॥
येनाऽजयद्देवपतिर्बलिं वैरोचनिं पुरा
।
ततो देवाः सर्व एव तेन घोषेण बोधिताः॥७७॥
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते
।
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फाल्गुन॥७८॥
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे
।
निवातकवचानां तु प्रस्थितं तां वधैषिणम्॥७९॥
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः
।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम्॥८०॥
आशास्त आशाध्वम् ॥८०॥
रथेनानेन मघवा जितवान् शम्बरं युधि
।
नमुचिं बलवृत्रौ च प्रह्रादनरकावपि॥८१॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि
।
रथेनानेन दैत्यानां जितवान् मघवा युधि॥८२॥
त्वमप्यनेन कौन्तेय निवातकवचान् रणे
।
विजेता युधि विक्रम्य पुरेव मघवा वशी॥८३॥
अयं च शङ्खप्रवरो येन जेताऽसि दानवान्
।
अनेन विजिता लोकाः शक्रेणापि महात्मना॥८४॥
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्
।
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः॥८५॥
स शङ्खी कवची बाणी प्रगृहीतशरासनः
।
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया॥८६॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वण्यर्जुनवाक्ये अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥
अर्जुन उवाच।
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः
।
अपश्यमुदधिं भीममपां पतिमथाव्ययम्॥१॥
ततोऽहमिति ॥१॥
फेनवत्यः प्रकीर्णाश्च संहताश्च समुत्थिताः
।
ऊर्मयश्चात्र दृश्यन्ते वल्गन्त इव पर्वताः॥२॥
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः
।
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः॥३॥
तिमिर्मत्स्यस्तं गिलति महामत्स्यस्तिमिङ्गिलः । तमपि गिलतीति तिमितिमिङ्गिलः । तिमिरिव गिलनीयस्तिमिङ्गिलो यस्येति विग्रहः ॥३॥
मकराश्चात्र दृश्यन्ते जले मग्ना इवाऽद्रयः
।
शङ्खानां च सहस्त्राणि मग्नान्यप्सु समन्ततः॥४॥
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः
।
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत॥५॥
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्
।
तमुदीक्ष्य महावेगं सर्वाम्भोनिधिमुत्तमम्॥६॥
घूर्णते भ्रमति ॥६॥
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात्
।
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले॥७॥
निपत्य गत्वा पृथिवीतले पाताले ॥७॥
रथं तं तु समालक्ष्य प्राद्रवद्रथयोगवित्
।
त्रासयन् रथघोषेण तत् पुरं समुपाद्रवत्॥८॥
आलक्ष्य सर्वसम्पदुपेतामिति शेषः । आश्लिष्येति पाठे भूमाववतीर्य निम्नस्थं रथचक्रं दृढमाश्लिष्य उन्नीतवानित्यर्थः । प्राद्रवत् प्रकर्षेण वेगवानभूत् ॥८॥
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे
।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन्॥९॥
सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः
।
तथाऽसि-शूल-परशु-गदा-मुसल-पाणयः॥१०॥
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः
।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते॥११॥
ततः शङ्खमुपादाय देवदत्तं महास्वनम्
।
परमां सुदमाश्रित्य प्राधमं तं शनैरहम्॥१२॥
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्
।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि॥१३॥
दिवं स्तब्ध्वा आकाशं व्याप्य ॥१३॥
ततो निवातकवचाः सर्व एव खलंकृताः
।
दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः॥१४॥
दंशिताः सन्नद्धाः । त्राणैः कवचैः ॥१४॥
आयसेश्च महाशूलैर्गदाभिर्मुसलैरपि
।
पट्टिशैः करवालैश्च रथचक्रैश्च भारत॥१५॥
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः
।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन् सहस्त्रशः॥१६॥
ततो विचार्य बहुशो रथमार्गेषु तान् हयान्
।
प्राचोदयत् समे देशे मातलिर्भरतर्षभ॥१७॥
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्
।
नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाऽभवत्॥१८॥
ततस्ते दानवास्तत्र वादित्राणि सहस्रशः
।
विकृतस्वररूपाणि भृशं सर्वाण्यनादयन्॥१९॥
तेन शब्देन सहसा समुद्रे पर्वतोपमाः
।
आप्लवन्त गतैः सत्यैर्मत्स्याः शतसहस्रशः॥२०॥
आप्लवन्त पलायनं कृतवन्तः । गतैः सत्त्वैः विगताभिर्बुद्धिभिरुपलक्षिता भ्रान्ता इत्यर्थः ॥२०॥
ततो वेगेन महता दानवा मामुपाद्रवन्
।
विमुञ्चन्तः शितान् बाणान् शतशोऽथ सहस्रशः॥२१॥
स सम्प्रहारस्तुमुलस्तेषां च मम भारत
।
अवर्तत महाघोरो निवातकवचान्तकः॥२२॥
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये
।
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे॥२३॥
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः
।
अस्तुवन् मुनयो वाग्भिर्यथेन्द्रं तारकामये॥२४॥
तारकामय तारार्थे सङ्ग्रामे ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि युद्धारम्भे ऊनसप्तत्यधिकशततमोऽध्यायः॥१६९॥
अर्जुन उवाच।
ततो निवातकवचाः सर्वे वेगेन भारत
।
अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे॥१॥
तत इति ॥१॥
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः
।
आवृत्य सर्वतस्त मां शरवर्षैरवाकिरन्॥२॥
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः
।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि॥३॥
तच्छुलवर्षं सुमहद्गदाशक्तिसमाकुलम्
।
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि॥४॥
अन्ये मामभ्यधावन्त निवातकवचा युधि
।
जितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः॥५॥
तानहं विविधैर्बाणैवैगवद्भिरजिह्मगैः
।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मुधे॥६॥
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः
।
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः॥७॥
मार्गान् बहुविधांस्तत्र विचेरुर्वातरंहसः
।
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्॥८॥
शतं शतास्ते हरयस्तस्मिन् युक्ता महारथे
।
शान्ता मातलिना यत्ता व्यचरन्नल्पका इव॥९॥
शताः शतानि अयुतमित्यर्थः । हरयोऽश्वाः । शान्ताः परीक्षिताः । शमेरालोचनार्थान्निष्ठा ॥९॥
तेषां चरणपातेन रथनेमिस्वनेन च
।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः॥१०॥
गतासवस्तथैवाऽन्ये प्रगृहीतशरासनाः
।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः॥११॥
ते दिशो विदिशः सर्वे प्रतिरुथ्य प्रहारिणः
।
अभ्यघ्नन् विविधैः शस्त्रस्ततो मे व्यथितं मनः॥१२॥
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम्
।
अश्वांस्तथा वेगवतो यदयत्नादधारयत्॥१३॥
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान् रणे
।
चिच्छेद सायुधान् राजन् शतशोऽथ सहस्रशः॥१४॥
चिच्छेद अहमिति शेषः । परोक्षार्थलिट्प्रयोगेण अजानतैव मया एतत् कृतमिति शत्रूणामत्यन्तापकर्षः सूचितः ॥१४॥
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्
।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः॥१५॥
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च
।
अगमन् प्रक्षयं केचिन्न्यवर्तन्त तथा परे॥१६॥
स्पर्धमाना इवास्माभिर्निवातकवचा रणे
।
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन्॥१७॥
अस्माभिः पूजायां बहुत्वम् । अश्वाद्यपेक्षया वा ॥१७॥
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः
।
व्यधमं सायकैराशु शतशोऽथ सहस्रशः॥१८॥
लघुभिः शीघ्रगैः ॥१८॥
ततः सम्पीड्यमानास्ते क्रोधाविष्टा महारथाः
।
अपीडयन् मां सहिताः शक्तिशूलासिवृष्टिभिः॥१९॥
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतैजसम्
।
दयितं देवराजस्य माधवं नाम भारत॥२०॥
तिग्मतैजसं तीक्ष्णदाहकम् । माधवं नाम मधोर्दैत्यस्य वधार्थं निर्मितत्वात् ॥२०॥
ततः खड्गत्रिशूलेन तोमरांश्च सहस्रशः
।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम्॥२१॥
ततो माधवास्त्रात् उत्पन्नेन खड्गसहितेन त्रिशूलेन । खड्गांश्च शूलांश्चेति पाठे शरैरित्युत्तरश्लोकादपकर्षणीयम् ॥२१॥
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः
।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः॥२२॥
गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः
।
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत्॥२३॥
तेषामपि तु बाणास्ते तन्मातलिरपूजयत्
।
अवाकिरन् मां बलवत्तानहं व्यधमं शरैः॥२४॥
तेषां ते बाणाः माम् अवाकिरन्निति सम्बन्धः । तदपि मातलिरपूजयत् ॥२४॥
वध्यमानास्ततस्ते तु निवातकवचाः पुनः
।
शरवर्षैर्महद्भिर्मां समन्तात् पर्यवारयन्॥२५॥
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः
।
ज्वलद्भिः परमैः शीघैस्तानविध्यं सहस्रशः॥२६॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्
।
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम्॥२७॥
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः
।
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः॥२८॥
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः
।
ततो निवातकवचा मामयुध्यन्त मायया॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि सप्तत्यधिकशततमोऽध्यायः॥१७०॥
अर्जुन उवाच।
ततोऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः
।
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत्॥१॥
ततोऽश्मेति । नगमात्रैः वृक्षप्रमाणैः ॥१॥
तदहं वज्रसङ्काशैर्महेन्द्रास्त्रप्रचोदितैः
।
अचूर्णयं वेगवद्भिः शरजालैर्महाहवे॥२॥
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत
।
तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव॥३॥
पावकप्रकाराः वह्निराशयः ॥३॥
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम्
।
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके॥४॥
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः
।
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा॥५॥
धाराणां च निपातेन वायोर्विस्फूर्जितेन च
।
गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन॥६॥
धारा दिवि च संबद्धा वसुधायां च सर्वशः
।
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि॥७॥
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्
।
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्॥८॥
हतेऽश्मवर्षे च मया जलवर्षे च शोषिते
।
मुमुचुर्दानवा मायामग्निं वायुं च भारत॥९॥
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः
।
शैलेन च महास्त्रेण वायोर्वेगमधारयम्॥१०॥
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः
।
प्राकुर्वन् विविधां मायां यौगपद्येन भारत॥११॥
ततो वर्षं प्रादुरभूत् सुमहल्लोमहर्षणम्
।
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम्॥१२॥
सा तु मायामयी वृष्टिः पीडयामास मां युधि
।
अथ घोरं तमस्तीव्रं प्रादुरासीत् समन्ततः॥१३॥
तमसा संवृते लोके घोरेण परुषेण च
।
हरयो विमुखाश्चासन् प्रास्खलच्चापि मातलिः॥१४॥
हस्ताद्धि रश्मयश्चास्य प्रतोदः प्रापतद्भुवि
।
असकृच्चाह मां भीतः क्वासीति भरतर्षभ॥१५॥
मां च भीराविशत्तीव्रा तस्मिन् विगतचेतसि
।
स च मां विगतज्ञानः सन्त्रस्तमिदमब्रवीत्॥१६॥
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत्
।
अमृतार्थं पुरा पार्थ स च दृष्टो मयाऽनघ॥१७॥
शम्बरस्य वधे घोरः सङ्ग्रामः सुमहानभूत्
।
सारथ्यं देवराजस्य तत्रापि कृतवानहम्॥१८॥
तथैव वृत्रस्य वधे सङ्गृहीता हया मया
।
वैरोचनेर्महायुद्धं दृष्टुं चापि सुदारुणम्॥१९॥
वैरोचनेः बलेः ॥१९॥
एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः
।
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव॥२०॥
पितामहेन संहारः प्रजानां विहितो ध्रुवम्
।
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्॥२१॥
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना
।
मोहयिष्यन् दानवानामहं मायाबलं महत्॥२२॥
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्
।
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च॥२३॥
अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्
।
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव॥२४॥
एवमुक्त्वाऽहमसृजमस्त्रमायां नराधिप
।
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम्॥२५॥
पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः
।
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः॥२६॥
मोहनास्त्रेण पीड्यमानासु नश्यमानासु ॥२६॥
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः
।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति॥२७॥
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः
।
व्यचरत् स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे॥२८॥
ततः पर्यपतन्नुग्रा निवातकवचा मयि
।
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्॥२९॥
वर्तमाने तथा युद्धे निवातकवचान्तके
।
नापश्यं सहसा सर्वान् दानवान् माययाऽऽवृतान्॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि मायायुद्धे एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥
अर्जुन उवाच।
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया
।
अदृश्येनास्त्रवीर्येण तानप्यहमयोधयम्॥१॥
अदृश्यमाना इति ॥१॥
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः
।
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्॥२॥
ततो निवातकवचा वध्यमाना मया युधि
।
संहृत्य मायां सहसा प्राविशन् पुरमात्मनः॥३॥
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने
।
अपश्यं दानवांस्तत्र हतान् शतसहस्रशः॥४॥
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च
।
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च॥५॥
हयानां नान्तरं ह्यासीत् पदाद्विचलितुं पदम्
।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः॥६॥
ततो निवातकवचा व्योम सञ्छाद्य केवलम्
।
अदृश्या ह्यत्यवर्तन्त विसृजन्तः शिलोच्चयान्॥७॥
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ
।
व्यगृह्णन् दानवा घोरा रथचक्रे च भारत॥८॥
विनिगृह्य हरीनश्वान् रथं च मम युध्यतः
।
सर्वतो मामविध्यन्त सरथं धरणीधरैः॥९॥
हरीन् अत्यन्तं हरणशीलान् । अविध्यन्त व्याप्तवन्तः । अचिन्वन्तेति पाठेऽपि स एवार्थः ॥९॥
पर्वतैरुपचीयद्भिः पतमानैस्तथाऽपरैः
।
स देशो यत्र वर्ताम गुहेव समपद्यत॥१०॥
पर्वतैश्छाद्यमानोऽहं निगृहीतश्च वाजिभिः
।
अगच्छं परमामार्तिं मातालिस्तदलक्षयत्॥११॥
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्
।
अर्जुनार्जुन मा भैस्त्वं बज्रमस्त्रमुदीरय॥१२॥
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्
।
देवराजस्य दयितं भीममस्त्रं नराधिप॥१३॥
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च
।
अमुञ्चं वज्रसंस्पर्शानायसान्निशितान् शरान्॥१४॥
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान्
।
ते वज्रचोदिता बाणा वज्रभूताः समाविशन्॥१५॥
ते वज्रवेगविहता दानवाः पर्वतोपमाः
।
इतरेतरमाश्लिष्य न्यपतन् पृथिवीतले॥१६॥
अन्तर्भूमौ च येऽगृह्णन् दानवा रथवाजिनः
।
अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम्॥१७॥
हतैर्निवातकचैर्निरस्तैः पर्वतोपमैः
।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः॥१८॥
न हयानां कृतिः काचिन्न रथस्य न मातलेः
।
मम चादृश्यत तदा तदद्भुतमिवाभवत्॥१९॥
ततो मां प्रहसन् राजन् मातोलः प्रत्यभाषत
।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते॥२०॥
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः
।
प्राक्रोशन्नगरे तस्मिन् यथा शरदि सारखाः॥२१॥
सारसाः हंसाः । लक्ष्मणा इति पाठे सारस्यः ॥२१॥
ततो मातलिना सार्धमहं तत् पुरमभ्ययाम्
।
त्रासयन् रथघोषेण निवातकवचस्त्रियः॥२२॥
तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान्
।
रथं च रविसङ्काशं प्राद्रवन् गणशः स्त्रियः॥२३॥
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः
।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा॥२४॥
वित्ररता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्
।
बहुरत्नविचित्राणि शातकुम्भमयानि च॥२५॥
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्
।
विशिष्टं देवनगरादपृच्छं मातलिं ततः॥२६॥
इदमेवंविधं कस्माद्देवा नावासयन्त्युत
।
पुरन्दरपुराद्धीदं विशिष्टमिति लक्षये॥२७॥
न आवासयन्ति नाध्यासन्ते ॥२७॥
मातलिरुवाच।
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्
।
ततो निवातकवचैरितः प्रच्याविताः सुराः॥२८॥
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्
।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि॥२९॥
ततः शक्रेण भगवान् स्वयंभूरिति चोदितः
।
विधत्तां भगवानन्तमात्मनो हितकाम्यया॥३०॥
अन्तं नाशं निवातकवचानामिति शेषः ॥३०॥
तत उक्तो भगवता दिष्टमत्रेति भारत
।
भविताऽन्तस्त्वमप्येषां देहेनान्येन शत्रुहन्॥३१॥
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव
।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया॥३२॥
कालस्य परिणामेन ततस्त्वमिह भारत
।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा॥३३॥
दानवानां विनाशाय अस्त्राणां परमं बलम्
।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्॥३४॥
अर्जुन उवाच।
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्
।
पुनर्मातलिना सार्थमगच्छं देवसद्म तत्॥३५॥
प्रशाम्य प्रकर्षेण आलोच्य ॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि निवातकवचयुद्धे द्विसप्तत्यधिकशततमोऽध्यायः॥१७२॥
अर्जुन उवाच।
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्
।
पुरं कामचरं दिव्यं पावकार्कसमप्रभम्॥१॥
निवर्तमानेनेति ॥१॥
रत्नद्रुममयैश्चित्रैः सुस्वरैश्च पतत्त्रिभिः
।
पौलोमैः कालकञ्जैश्च नित्यहृष्टैरधिष्ठितम्॥२॥
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्
।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्॥३॥
द्रुमैः पुष्पफलोपेतैः सर्वरत्नमयैर्वृतम्
।
तथा पतत्त्रिभिर्दिव्यैरुपेतं सुमनोहरैः॥४॥
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः
।
चापमुद्गरहस्तैश्च स्त्रग्विभिः सर्वतो वृतम्॥५॥
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम्
।
अपृच्छं मातलिं राजन् किमिदं वर्ततेऽद्भुतम्॥६॥
मातलिरुवाच।
पुलोमा नाम दैतेयी कालका व महासुरी
।
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः॥७॥
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम्
।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्॥८॥
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः
।
पुरं सुरमणीयं च खचरं सुमहाप्रभम्॥९॥
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि
।
महर्षि-यक्ष-गन्धर्व-पन्नगासुरराक्षसैः॥१०॥
सर्वकामगुणोपेतं वीतशोकमनामयम्
।
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम्॥११॥
तदेतन् खपुरं दिव्यं चरत्यमरवर्जितम्
।
पौलोमाध्युषितं वीर कालकञ्जैश्च दानवैः॥१२॥
खपुरं खचरत्वात् ॥१२॥
हिरण्यपुरमित्येवं ख्यायते नगरं महत्
।
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः॥१३॥
त एते मुदिता राजन्नवध्याः सर्वदैवतैः
।
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः॥१४॥
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा
।
एतानपि रणे पार्थ कालकञ्जान् दुरासदान्
।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्॥१५॥
अर्जुन उवाच।
सुरासुरैरवध्यं तदहं ज्ञात्वा विशाम्पते
।
अब्रुवं मातलिं हृष्टो याह्येतत् पुरमञ्जसा॥१६॥
त्रिदशेशद्विषो यावत् क्षयमस्त्रैर्नयाम्यहम्
।
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः॥१७॥
न वध्या इति न अपि तु वध्या एव ॥१७॥
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्
।
रथेन तेन दिव्येन हरियुक्तेन मातलिः॥१८॥
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः
।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः॥१९॥
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः
।
प्रत्यघ्नन् दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः॥२०॥
तदहं शरवर्षेण महता प्रत्यवारयम्
।
शस्त्रवर्षं महद्राजन् विद्याबलमुपाश्रितः॥२१॥
व्यामोहयं च तान् सर्वान् रथमार्गैश्चरन् रणे
।
तेऽन्योऽन्यमभिसम्मूढाः पातयन्ति स्म दानवान्॥२२॥
तेषामेवं विमूढानामन्योऽन्यमभिधावताम्
।
शिरांसि विशिखैर्दीप्तैर्न्यहनं शतसङ्घशः॥२३॥
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः
।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम्॥२४॥
ततोऽहं शरवर्षेण महता कुरुनन्दन
।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्॥२५॥
तत्पुरं खचरं दिव्यं कामगं सूर्यसप्रभम्
।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम्॥२६॥
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते
।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति॥२७॥
अमरावतिसङ्काशं तत् पुरं कामगं महत्
।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं परन्तप॥२८॥
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च
।
व्यगृह्णं सह दैतेयैस्तत्पुरं पुरुषर्षभ॥२९॥
व्यगृह्यं विशेषेण गृहीतवान् । बाणवृष्ट्या रुद्धवानित्यर्थः ॥२९॥
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः
।
महीमभ्यपतद्राजन् प्रभग्नं पुरमासुरम्॥३०॥
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः
।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः॥३१॥
ततो मातलिरारुह्य पुरस्तान्निपतन्निव
।
महीमवातरत् क्षिप्रं रथेनाऽऽदित्यवर्चसा॥३२॥
आरुह्य गगनमुत्पत्य । अवातरत् - अवतीर्णः । पाठान्तरे मातलिमारुह्य - आलम्ब्य । महीमवातरमवतीर्णोऽभवमिति शेषः ॥३२॥
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्
।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत
।
तान्यहं निशितैर्बाणैर्व्यधमं गार्धराजितैः॥३३॥
पर्यवर्तन्त परिवार्य अवर्तन्त । गार्ध्रराजितैः गृध्रपत्रशोभितैः ॥३३॥
ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः
।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत्॥३४॥
युद्धे निमित्ते सति सन्न्यवर्तन्त इमे वयमिति शेषः । युद्धेन जेतुमिति शेषः ॥३४॥
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम्
।
ततस्तानि सहस्त्राणि रथिनां चित्रयोधिनाम्॥३५॥
अस्त्राणि मम दिव्यानि प्रत्यघ्नन् शनकैरिव
।
रथमार्गान् विचित्रांस्ते विचरन्तो महाबलाः॥३६॥
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः
।
विचित्रमुकुटापीडा विचित्रकवचध्वजाः॥३७॥
विचित्राभरणाश्चैव नन्दयन्तीव मे मनः
।
अहं तु शरवर्षैस्तानस्त्रप्रचुदितै रणे॥३८॥
अन्नप्रचुदितैः। अस्त्राणां प्रचुदितं प्रेरणं यदर्थं तैः । ‘उदुपधाद्भावादिकर्मणोः-’ इति भावे निष्ठायाः कित्त्वम् ॥३८॥
नाशक्नुवं पीडयितुं ते तु मां प्रत्यपीडयन्
।
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि॥३९॥
व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम
।
ततोऽहं देवदेवाय रुद्राय प्रयतो रणे॥४०॥
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समचोदयम्
।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्॥४१॥
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्
।
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम्॥४२॥
लेलिहानैर्महानागैः कृतचीरममित्रहन्
।
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्॥४३॥
कृतं पीडितं निगृहीतं चीरं वस्त्रं येन ॥४३॥
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ
।
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे॥४४॥
मुक्तवान् दानवेन्द्राणां पराभावाय भारत
।
मुक्तमात्रे ततस्तस्मिन् रूपाण्यालन् सहस्रशः॥४५॥
पराभावाय अत्यन्ताभावाय ॥४५॥
मृगाणामथ सिंहानां व्याघ्राणां च विशाम्पते
।
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्॥४६॥
शरमाणां गजानां च वानराणां च सङ्घशः
।
ऋषभाणां वराहाणां मार्जाराणां तथैव च॥४७॥
शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः
।
गृध्राणां गरुडानां च चमराणां तथैव च॥४८॥
देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः
।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्॥४९॥
गुह्यकानां च सङ्ग्रामे नैर्ऋतानां तथैव च
।
झषाणां गजवक्त्राणामुलूकानां तथैव च॥५०॥
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्
।
तथैव यातुधानानां गदामुद्गरधारिणाम्॥५१॥
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा
।
सर्वमासीज्जगद्व्याप्तं तास्मन्नस्त्रे विसर्जिते॥५२॥
त्रिशिरोभिश्चतुर्दंष्ट्रेश्चतुरास्यैश्चतुर्भुजैः
।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्थिभिः॥५३॥
मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥५३॥
अभीक्ष्णं वध्यमानास्ते दानवा नाशमागताः
।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः॥५४॥
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः
।
न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत॥५५॥
निबर्हणैः नाशकरैः ॥५५॥
गाण्डीवास्त्रप्रणुन्नांस्तान् गतासून्नभसश्च्युतान्
।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे॥५६॥
तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान्
।
निशम्य परमं हर्षमगमद्देवसारथिः॥५७॥
निशम्य दृष्ट्वा ॥५७॥
तदसह्यं कृतं कर्म देवैरपि दुरासदम्
।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः॥५८॥
उवाच वचनं चेदं प्रीयमाणः कृताञ्जलिः
।
सुरासुरैरसह्यं हि कर्म यत् साधितं त्वया॥५९॥
न ह्येतत् संयुगे कर्तुमपि शक्तः सुरेश्वरः
।
सुरासुरैरवध्यं हि पुरमेतत् खगं महत्॥६०॥
त्वया विमाथतं वीर स्ववीर्यतपसो बलात्
।
विध्वस्ते खपुरे तस्मिन् दानवेषु हतेषु च॥६१॥
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः
।
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः॥६२॥
पेतुः पुत्रान् पितॄन् भ्रातॄन् शोचमाना महीतले
।
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः॥६३॥
उरांसि परिनिघ्नन्त्यो विस्रस्तस्रग्विभूषणाः
।
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्॥६४॥
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम्
।
गन्धर्वनगराकारं हृतनागमिव हृदम्॥६५॥
शुष्कवृक्षमिवारण्यमदृश्यमभवत् पुरम्
।
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्॥६६॥
देवराजस्य भवनं कृतकर्माणमाहवात्
।
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्॥६७॥
निवातकवचांश्चैव ततोऽहं शक्रमागमम्
।
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्॥६८॥
सर्वं विश्रावयामास यथाभूतं महाद्युते
।
हिरण्यपुरधातं च मायानां च निवारणम्॥६९॥
निवातकवचानां च वधं संख्ये महौजसाम्
।
तत्श्रुत्वर भगवान् प्रीतः सहस्राक्षः पुरन्दरः॥७०॥
मरुद्भिः सहितः श्रीमान् साधु साध्वित्यथाब्रवीत्
।
ततो मां देवराजो वै समाश्वास्य पुनः पुनः॥७१॥
अब्रवीद्विबुधैः सार्धमिदं स मधुरं वचः
।
अतिदेवासुरं कर्म कृतमेव त्वया रणे॥७२॥
गुर्वर्थश्च कृतः पार्थ महाशत्रून् घ्नता मम
।
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय॥७३॥
असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्
।
अविषह्यो रणे हि त्वं देवदानवराक्षसैः॥७४॥
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः
।
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्
।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥७५॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि हिरण्यपुरदैत्यवधे त्रिसप्तत्यधिकशततमोऽध्यायः॥१७३॥
अर्जुन उवाच।
ततो ममितविश्वस्तं संरूढशरविक्षतम्
।
देवराजो विगृह्येदं काले वचनमब्रवीत्॥१॥
तत इति । अतिविश्वस्तमति - अत्यन्तं विश्वस्तं शत्रून् जेष्यतीति विश्वासो यस्मिंस्तम् । संरूढाः देहे निमग्नाः शरास्तैर्विक्षतम् । विगृह्य विशेषेण गृहीत्वा स्वीयत्वेन अङ्गीकृत्येर्थः ॥१॥
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत
।
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन॥२॥
त्वा त्वाम् ॥२॥
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः
।
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्॥३॥
इदं च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः
।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्॥४॥
देवदत्तं च मे शङ्खं पुनः प्रादान्महारवम्
।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह॥५॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च॥६॥
रुचिराणि दीप्तिमन्ति । अत एव बृहन्ति बहुमूल्यानि ॥६॥
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप
।
इन्द्रस्य भवने पुण्ये गन्धवंशिशुभिः सह॥७॥
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह
।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते॥८॥
एवमिन्द्रस्य भत्रने पञ्च वर्षाणि भारत
।
उषितानि मया राजन् स्मरता द्यूतजं कलिम्॥९॥
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्
।
गन्धमादनपादस्य पर्वतस्यास्य मूर्धनि॥१०॥
युधिष्ठिर उवाच।
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत
।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः॥११॥
देवानां राजा इन्द्रः ॥११॥
दिष्ट्या च भगवान् स्थाणुर्देव्या सह परन्तप
।
साक्षाद्दृष्टः स्वयुद्धेन तोषितश्च त्वयाऽनघ॥१२॥
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ
।
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः॥१३॥
अद्य कृत्स्नां महीं देवीं विजितां पुरमालिनीम्
।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्॥१४॥
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत
।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः॥१५॥
ते त्वया हताः ॥१५॥
अर्जुन उवाच।
श्वः प्रभाते भवान् द्रष्टा दिव्यान्यस्त्राणि सर्वशः
।
निवातकवचा घोरा यैर्मया विनिपातिताः॥१६॥
वैशम्पायन उवाच।
एवमागमनं तत्र कथयित्वा धनञ्जयः
।
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह॥१७॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि अस्त्रदर्शनसङ्केते चतुःसप्तत्यधिकशततमोऽध्यायः॥१७४॥
वैशम्पायन उवाच।
तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः
।
उत्थायावश्यकार्याणि कृतवान् भ्रातृभिः सह॥१॥
तस्यामिति ॥१॥
ततः सञ्चोदयामास सोर्जुनं मातृनन्दनम्
।
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया॥२॥
मातृनन्दनं मातुः सुखकरम् ॥२॥
ततो धनञ्जयो राजन् देवैर्दत्तानि पाण्डवः
।
अस्त्राणि तानि दिव्यानि दर्शयामास भारत॥३॥
यथान्यायं महातेजाः शौचं परममास्थितः
।
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत्॥४॥
अस्त्राणि दर्शयितुमिच्छोरर्जुनस्य भावनामाह गिरीति । गिरय एव कूबरादयस्तद्वन्तम् । कूबरो यस्मिन् युगं ध्रियते तद्दारु । पादौ चक्रे । अक्षः तयोः सन्धानदारु । शुभाः वेणव इव वेणवो यस्मिन् तत् शुभवेणु । त्रिवेणु - अक्षकूबरयोः सन्धानार्थं त्रिशिखं दारु तद्वन्तम् । ‘सुपां सुलुक्-’ इति द्वितीयाया आर्षो लुक्। रथपदे वा क्लीबत्वं ध्येयम् ॥४॥
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः
।
दिव्येन संवृतस्तेन कवचेन सुवर्चसा॥५॥
पृथिवीमेव पार्थिवं मानसं भूमिरूपं रथम् । राक्षसवायसादिवत् स्वार्थे तद्धितः । आस्थाय ध्यानबलेन आरुह्य । दिव्येन इन्द्रदत्तेन ॥५॥
धनुरादाय गाण्डीवं देवदत्तं स वारिजम्
।
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः॥६॥
वारिजं शङ्खं देवदत्तं नामतः ॥६॥
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे
।
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै॥७॥
दर्शनाय दर्शयितुम् ॥७॥
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा
।
क्षुभिताः सरितश्चैव तथैव च महोदधिः॥८॥
अर्जुनेन अनेकब्रह्माण्डगर्भस्य महादेवस्य साम्यं भावनाबलाद्गतेन समाक्रान्ता पृथिवी समकम्पत॥८॥
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः
।
न बभासे सहस्रांशुर्न जज्वाल च पावकः॥९॥
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन
।
अन्तर्भूमिगता ये च प्राणिनो जनमेजय॥१०॥
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्
।
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः॥११॥
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनञ्जयम्
।
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः॥१२॥
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे
।
देवर्षयश्च प्रवरास्तथैव च दिवौकसः॥१३॥
यक्षराक्षसगन्धर्वास्तथैव च पतत्त्रिणः
।
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे॥१४॥
ततः पितामहश्चैव लोकपालाश्च सर्वशः
।
भगवांश्च महादेवः सगणोऽभ्याययौ तदा॥१५॥
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः
।
अभितः पाण्डवं चित्रैरवचक्रे समन्ततः॥१६॥
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः
।
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः॥१७॥
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः
।
आगम्याह वचः पार्थं श्रवणीयमिदं नृप॥१८॥
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत
।
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथञ्चन॥१९॥
निरधिष्ठाने लक्ष्याभावे सति ॥१९॥
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन
।
प्रयोगेषु महान् दोषो ह्यस्त्राणां कुरुनन्दन॥२०॥
अधिष्ठानेऽपि वा अनार्तो न प्रयुञ्जीत ॥२०॥
एतानि रक्ष्यमाणानि धनञ्जय यथागमम्
।
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः॥२१॥
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव
।
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्॥२२॥
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे
।
योज्यमानानि पार्थेन द्विषतामवमर्दने॥२३॥
वैशम्पायन उवाच।
निवार्याथ ततः पार्थं सर्वे देवा यथागतम्
।
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ॥२४॥
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः
।
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया॥२५॥
इति श्रीमहाभारते आरण्यके पर्वाण निवातकवचयुद्धपर्वणि अस्त्रदर्शने पञ्चसप्तत्यधिकशततमोऽध्यायः॥१७५॥