अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

निवातकवचयुद्धपर्व

पञ्चषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम् ।
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव॥१॥

तत इति । हरिभिरश्वैः सम्प्रयुक्तम् । महेन्द्रस्य वाहं रथम् ॥१॥

स दीप्यमानः सहसाऽन्तरिक्षं प्रकाशयन् मातलिसङ्गृहीतः ।
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा॥२॥

तमास्थितः सन्ददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत् ।
धनञ्जयो वज्रधरप्रभावः श्रिया ज्वलन् पर्वतमाजगाम॥३॥

स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् ।
धौम्यस्य पादावभिवाद्य धीमानजातशत्रोस्तदनन्तरं च॥४॥

वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च ।
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः॥५॥

प्रह्वो नम्रः । उपह्वरे समीपे ॥५॥

बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समागतानाम् ।
स चापि तान् प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्॥६॥

यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेर्निहन्ता ।
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः॥७॥

पूगान्यूथानि ॥७॥

ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् ।
सर्वान् यथावच्च दिवौकसस्ते पप्रच्छुरेनं कुरुराजपुत्राः॥८॥

एनं मातलिम् ॥८॥

तानप्यसौ मातलिरभ्यनन्दत् पितेव पुत्राननुशिष्य पार्थान् ।
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य॥९॥

गते तु तस्मिन् नरदेववर्यः शक्रात्मजः शक्ररिपुप्रमाथी ।
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति॥१०॥

दिवाकराभाणि विभूषणानि प्रियः प्रियायै सुतसोममात्रे ।
ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्॥११॥

सुतसोमो भीमात् द्रौपद्यां जातः ॥११॥

विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत् कथयांबभूव ।
एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात्॥१२॥

तथैव शीलेन समाधिनाऽथ प्रीताः सुरा मे सहिताः सहेन्द्राः ।
सङ्क्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवासम्॥१३॥

माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः॥१४॥

आवसतिं रात्रिम् । प्रतीतो हृष्टः ॥१४॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वण्यर्जुनसमागमे पञ्चषष्ट्यधिकशततमोऽध्यायः॥१६५॥
षट्षष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् ।
भ्रातृभिः सहितः सर्वैरवन्दत धनञ्जयः॥१॥

तत इति ॥१॥

एतस्मिन्नेव काले तु सर्ववादित्रनिःस्वनः ।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्॥२॥

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत ।
पृथग्व्यालमृगाणां च पक्षिणामिव सर्वशः॥३॥

ते समन्तादनुययुर्गन्धर्वाप्सरसां गणाः ।
विमानैः सूर्यसङ्काशैर्देवराजमरिन्दमम्॥४॥

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् ।
मेघनादिनमारुह्य श्रिया परमया ज्वलन्॥५॥

हरिभिर्युक्तं रथम् ॥५॥

पार्थानभ्याजगामाथ देवराजः पुरन्दरः ।
आगत्य च सहस्राक्षो रथादवरुरोह वै॥६॥

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान् देवराजमुपागमत्॥७॥

पूजयामास चैवाऽथ विधिवद्भूरिदक्षिणः ।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा॥८॥

अमितात्मा – अमितबुद्धिः ॥८॥

धनञ्जयश्च तेजस्वी प्रणिपत्य पुरन्दम् ।
भृत्यवत् प्रणतस्तस्थौ देवराजसमीपतः॥९॥

आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके॥१०॥

जटिलं देवराजस्य तपोयुक्तमकल्मषम् ।
हर्षेण महताऽऽविष्टः फाल्गुनस्याथ दर्शनात्॥११॥

बभूव परमप्रीतो देवराजं च पूजयन् ।
तं तथाऽदीनमनसं राजानं हर्षसम्प्लुतम्॥१२॥

अदीनेति च्छेदः ॥१२॥

उवाच वचनं धीमान् देवराजः पुरन्दरः ।
त्वमिमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव ।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्॥१३॥

अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन् ।
कृतप्रियश्चास्मि धनञ्जयेन जेतुं न शक्यस्त्रिभिरेष लोकैः॥१४॥

कृतप्रियः शत्रुवधेन ॥१४॥

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् ।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः॥१५॥

धनेश्वरगृहस्थानां पाण्डवानां समागमम् ।
शक्रेण य इदं विद्वानधीयीत समाहितः॥१६॥

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः ।
स जीवेद्धि निराबाधः स सुखी शरदां शतम्॥१७॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि इन्द्रागमने षट्षष्ट्यधिकशततमोऽध्यायः॥१६६॥
सप्तषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः ।
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्॥१॥

यथेति ॥१॥

अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम् ।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्॥२॥

प्रहृष्टो धर्मपुत्रः ॥२॥

कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव ।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः॥३॥

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव ।
कच्चित् सुराधिपः प्रीतो रुद्रो वाऽस्त्राण्यदात्तव॥४॥

यथा दृष्टश्च ते शक्रो भगवान् वा पिनाकधृक् ।
यथैवास्त्राण्यवाप्तानि यथैवाराधितश्च ते॥५॥

यथोक्तवांस्त्वां भगवान् शतक्रतुररिन्दम ।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम्॥६॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ॥७॥

यच्चापि वज्रपाणेस्तु प्रियं कृतमरिन्दम ।
एतदाख्याहि मे सर्वमखिलेन धनञ्जय॥८॥

अर्जुन उवाच। शृणु हन्त महाराज विधिना येन दृष्टवान् ।
शतक्रतुमहं देवं भगवन्तं च शङ्करम्॥९॥

हन्तेत्यव्ययं वाक्यारम्भे हर्षे वा । ‘हन्तवाक्यारम्भहर्षविवादे खेदसम्भ्रमे’ इति मेदिनी ॥९॥

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।
भवता च समादिष्टस्तपसे प्रस्थितो वनम्॥१०॥

भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः ।
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि॥११॥

स मामपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे ।
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन॥१२॥

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।
अपूजयत मां राजन् प्रीतिमांश्चाऽभवन्मयि॥१३॥

ततो मामब्रवीत् प्रीतस्तप आतिष्ठ भारत ।
तपस्वी न चिरेण त्वं द्रक्ष्यसे विबुधाधिपम्॥१४॥

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।
तपोऽतप्यं महाराज मासं मूलफलाशनः॥१५॥

शैशिरं हिममयम् ॥१५॥

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन॥१६॥

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।
न च मे हीयते प्राणस्तद‌द्भुतमिवाभवत्॥१७॥

प्राणो बलम् ॥१७॥

पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते ।
वराहसंस्थितं भूतं मत्समीपं समागमत्॥१८॥

वराहवत् संस्थितमाकारो यस्य ॥१८॥

निघ्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः॥१९॥

प्रोथेन मुखाग्रेण पोत्राख्येन । विवर्तन् विषमेण भावेन वर्तमानः । इतस्ततः पर्यटन् वा ॥१९॥

अनु तस्यापरं भूतं महत् कैरातसंस्थितम् ।
धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा॥२०॥

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अताडयं शरेणाथ तद्भुतं लोमहर्षणम्॥२१॥

युगपत्तं किरातस्तु विकृष्य बलवद्धनुः ।
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः॥२२॥

स तु मामब्रवीद्राजन् मम पूर्वपरिग्रहः ।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया॥२३॥

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।
स धनुष्मान् महाकायस्ततो मामभ्यभाषत॥२४॥

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।
तं चाहं शरवर्षेण महता समवाकिरम्॥२५॥

ततः शरैर्दीप्तमुखैर्यन्त्रितैरनुमन्त्रितैः ।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्॥२६॥

अनु पश्चात् । यन्त्रितैः दृढाकृष्टैः ॥२६॥

तस्य तच्छतधा रूपमभवच्च सहस्रधा ।
तानि चास्य शरीराणि शरैरहमताडयम्॥२७॥

पुनस्तानि शरीराणि एकीभूतानि भारत ।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः॥२८॥

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।
एकीभूतस्तदा राजन् सोऽभ्यवर्तत मां युधि॥२९॥

यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे ।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ॥३०॥

न चैनमशकं हन्तुं तद‌द्भुतमिवाऽभवत् ।
तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महानभूत्॥३१॥

भूय एव महाराज सविशेषमहं ततः ।
अस्त्रपूगेन महता रणे भूतमवाकिरम्॥३२॥

स्थूणाकर्णमथो जालं शरवर्षमथोल्बणम् ।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम्॥३३॥

स्थूणाकर्ण इति शङ्कुकर्णाख्यो रुद्रावतारभेदस्तद्दैवत्यमस्त्रम् । जालं जलमयं वारुणम् ॥३३॥

जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप ।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्॥३४॥

ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयते ।
उपचीयमानश्च मया महास्त्रेण व्यवर्धत॥३५॥

ततः सन्तापिता लोका मत्प्रसूतेन तेजसा ।
क्षणेन हि दिशः खं च सर्वतो हि विदीपितम्॥३६॥

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् ।
ब्रह्मास्त्रे तु हते राजन् भयं मां महदाविशत्॥३७॥

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्॥३८॥

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च ।
मम तस्य च भूतस्य बाहुयुद्धमवर्तत॥३९॥

व्यायामं मुष्टिभिः कृत्वा तलैरपि समागतैः ।
अपारयंश्च तद्भूतं निश्चेष्टमगमं महीम्॥४०॥

व्यायामं सङ्घटनम् । अपारयन् अशक्नुवन् ॥४०॥

ततः प्रहस्य तद्भुतं तत्रैवान्तरधीयत ।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्॥४१॥

एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमास्थितः ।
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्॥४२॥

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः॥४३॥

अदृश्यत ततः साक्षाद्भगवान् गोवृषध्वजः ।
उमासहायो व्यालधृग्बहुरूपः पिनाकधृक्॥४४॥

गोवृषो बलीवर्दश्रेष्ठः ॥४४॥

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप॥४५॥

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।
प्रादान्ममैव भगवान् वरयस्वेति चाब्रवीत्॥४६॥

तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते ।
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्॥४७॥

अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ।
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः॥४८॥

प्रणम्य मनसा शर्वं ततो वचनमाददे ।
भगवान् मे प्रसन्नश्चेदीप्सितोऽयं वरो मम॥४९॥

अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ।
ददानीत्येव भगवानब्रवीत् त्र्यम्बकश्च माम्॥५०॥

रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ।
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं महत्॥५१॥

उवाच च महादेवो दत्वा मेऽस्त्रं सनातनम् ।
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन॥५२॥

जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ।
पीड्यमानेन बलवत् प्रयोज्यं स्याद्धनञ्जय॥५३॥

अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेत् ।
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्॥५४॥

मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ।
उत्सादनममित्राणां परसेनानिकर्तनम्॥५५॥

दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ।
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्॥५६॥

प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत॥५७॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवधपर्वणि गन्धमादनवासे युधिष्ठिरार्जुनसंवादे सप्तषष्ट्यधिकशततमोऽध्यायः॥१६७॥
अष्टषष्ट्यधिकशततमोऽध्यायः

अर्जुन उवाच। ततस्तामवसं प्रीतो रजनीं तत्र भारत ।
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः॥१॥

तत इति ॥१॥

व्युषितो रजनीं चाहं कृत्वा पौर्वाह्णिकीः क्रियाः ।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा॥२॥

तस्मै चाऽहं यथावृत्तं सर्वमेव न्यवेदयम् ।
भगवन्तं महादेवं समेतोऽस्मीति भारत॥३॥

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्॥४॥

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति॥५॥

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः ।
अगच्छत् स यथाकामं ब्राह्मणः सूर्यसन्निभः॥६॥

अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः ।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्॥७॥

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।
शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः॥८॥

वादित्राणि च दिव्यानि सुघोराणि समन्ततः ।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः॥९॥

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च ।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः॥१०॥

मरुतां च गणास्तत्र देवयानैरुपागमन् ।
महेन्द्रानुचरा ये च ये च सद्मनिवासिनः॥११॥

देवयानैर्विमानैः । सद्मनिवासिनः स्त्रीबालादयः शचीजयन्तादय इत्यर्थः ॥११॥

ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः ।
शचीसहायस्तत्राऽऽयात् सह सर्वैस्तदामरैः॥१२॥

एतस्मिन्नेव काले तु कुबेरो नरवाहनः ।
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः॥१३॥

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् ।
वरुणं देवराजं च यथास्थानमवस्थितम्॥१४॥

यथास्थानं प्राच्यामिन्द्रं, प्रतीच्यां वरुणमित्यादि ॥१४॥

ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ ।
सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान्॥१५॥

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः॥१६॥

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।
प्रत्यगृह्णं तदाऽस्त्राणि महान्ति विधिवद्विभो॥१७॥

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।
अथ देवा ययुः सर्वे यथागतमरिन्दम॥१८॥

मघवानपि देवेशो रथमारुह्य सुप्रभम् ।
उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया॥१९॥

पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय ।
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ॥२०॥

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।
तपश्चेदं महत्तप्तं स्वर्गं गन्तासि पाण्डव॥२१॥

भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम् ।
स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन॥२२॥

मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ।
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम्॥२३॥

ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम ।
आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर॥२४॥

इन्द्र उवाच। क्रूरकर्मास्त्रवित्तात भविष्यसि परन्तप ।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाऽऽप्नुहि॥२५॥

त्वं क्रूरकर्मा भविष्यसीति संबन्धः ॥२५॥

ततोऽहमब्रुवं नाऽहं दिव्यान्यस्त्राणि शत्रुहन् ।
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात्॥२६॥

अस्त्रस्यैव प्रतिघातार्थमस्त्रं मोक्ष्ये न त्वन्यत्र मानुषे ॥२६॥

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।
लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुङ्गव॥२७॥

इन्द्र उवाच। परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय ।
ममात्मजस्य वचनं सूपपन्नमिदं तव॥२८॥

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत ।
वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्गणात्॥२९॥

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च॥३०॥

मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह ।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत॥३१॥

अथाऽपश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप॥३२॥

मायामयमिवात्यद्भुतम् ॥३२॥

लोकपालेषु यातेषु मामुवाचाथ मातलिः ।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते॥३३॥

संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम् ।
पश्य पुण्यकृताँल्लोकान् सशरीरो दिवं व्रज॥३४॥

देवराजः सहस्त्राक्षस्त्वां दिदृक्षति भारत ।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्॥३५॥

प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ।
चोदयामास स हयान् मनोमारुतरंहसः॥३६॥

मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः ।
अवैक्षत च मे वक्त्रं स्थितस्याऽथ स सारथिः॥३७॥

तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत् ।
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे॥३८॥

यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ।
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः॥३९॥

पदात् स्थानात् न चालितः । रथस्य भ्रमणेऽपि दृढासन इत्यर्थः ॥३९॥

विचलन् प्रथमोत्पाते हयानां भरतर्षभ ।
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह॥४०॥

अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे ।
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्॥४१॥

दर्शयामास मे राजन् विमानानि च भारत ।
स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः॥४२॥

ऋपयो देवताश्चैव पूजयन्ति नरोत्तम ।
ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम्॥४३॥

सुरर्षिणामिति दैर्ध्याभाव आर्षः । समाहारबहुत्वं वा बहुसमुदायाभिप्रायेण ॥४३॥

गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ।
नन्दनादीनि देवानां वनान्युपवनानि च॥४४॥

दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः ।
ततः शक्रस्य भवनमपश्यममरावतीम्॥४५॥

दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ।
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥४६॥

न बाधते तत्र रजस्तत्रास्ति न जरा नृप ।
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते॥४७॥

दिवौकसां महाराज न ग्लानिररिमर्दन ।
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते॥४८॥

नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥४९॥

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ।
शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः॥५०॥

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः॥५१॥

विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे ।
ततोऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान्॥५२॥

आदित्यानश्विनौ चैव तान् सर्वान् प्रत्यपूजयम् ।
ते मां वीर्येण यशसा तेजसा च बलेन च॥५३॥

अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामे विजयेन च ।
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्॥५४॥

अन्वजानन्त ‘वीर्यादिमान् भव’ इत्याशीर्वादान् ददुरित्यर्थः ॥५४॥

देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ।
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः॥५५॥

बहुमानाच्च गात्राणि पस्पर्श मम वासवः ।
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः॥५६॥

अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत ।
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा॥५७॥

स च गान्धर्वमखिलं ग्राहयामास मां नृप ।
तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः॥५८॥

सुखं शक्रस्य भवने सर्वकामसमन्वितः ।
शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् ।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ॥५९॥

तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत ।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः॥६०॥

तत्सर्वमिति । अनवज्ञाय आदृत्य आदरपूर्वकं तथ्यं यथावदत्यर्थं पुरुषार्थ इति विज्ञाय प्रतिगृह्य रागशून्येन मनसा अङ्गीकृत्याप्यहमस्त्रेष्वेव व्यवस्थितोऽभूवं न गीतादिषु ॥६०॥

ततोऽतुष्यत् सहस्त्राक्षस्तेन कामेन मे विभुः ।
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि॥६१॥

तेन कामेन अस्त्रेच्छया न तु भोगेच्छया ॥६१॥

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्॥६२॥

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः॥६३॥

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
अथाऽब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः॥६४॥

अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ।
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः॥६५॥

ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ।
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च॥६६॥

पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ।
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय॥६७॥

पञ्चभिः प्रयोगादिभिः । आवृत्तिः - पुनः पुनः प्रयोगोपसंहारौ ॥६७॥

प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ।
ततो गुर्वर्थकालोऽयं समुत्पन्नः परन्तप॥६८॥

प्रायश्चित्तमस्त्राग्निना दग्धानामनागसां पुनरुज्जीवनम् । प्रतीघातं परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनम् । गुर्वर्थो दक्षिणा ॥६८॥

प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ।
ततोऽहमब्रुवं राजन् देवराजमिदं वचः॥६९॥

वेत्स्यामि वेदयिष्यामि परं कार्यमिति शेषः ॥६९॥

विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ।
ततो मामब्रवीद्राजन् प्रहसन् बलवृत्रहा॥७०॥

विषह्यं शक्यम् ॥७०॥

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ।
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः॥७२॥

तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ।
ततो मातलिसंयुक्तं मयूरसमरोमभिः॥७३॥

हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ।
बबन्ध चैव मे मूर्ध्नि किरीटमिद‌मुत्तमम्॥७४॥

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ।
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्॥७५॥

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ।
ततः प्रायामहं तेन स्यन्दनेन विराजता॥७६॥

प्रायां प्रयाणं कृतवान् ॥७६॥

येनाऽजयद्देवपतिर्बलिं वैरोचनिं पुरा ।
ततो देवाः सर्व एव तेन घोषेण बोधिताः॥७७॥

मन्वाना देवराजं मां समाजग्मुर्विशाम्पते ।
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फाल्गुन॥७८॥

तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ।
निवातकवचानां तु प्रस्थितं तां वधैषिणम्॥७९॥

निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम्॥८०॥

आशास्त आशाध्वम् ॥८०॥

रथेनानेन मघवा जितवान् शम्बरं युधि ।
नमुचिं बलवृत्रौ च प्रह्रादनरकावपि॥८१॥

बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि ।
रथेनानेन दैत्यानां जितवान् मघवा युधि॥८२॥

त्वमप्यनेन कौन्तेय निवातकवचान् रणे ।
विजेता युधि विक्रम्य पुरेव मघवा वशी॥८३॥

अयं च शङ्खप्रवरो येन जेताऽसि दानवान् ।
अनेन विजिता लोकाः शक्रेणापि महात्मना॥८४॥

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम् ।
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः॥८५॥

स शङ्खी कवची बाणी प्रगृहीतशरासनः ।
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया॥८६॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वण्यर्जुनवाक्ये अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥
ऊनसप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः ।
अपश्यमुदधिं भीममपां पतिमथाव्ययम्॥१॥

ततोऽहमिति ॥१॥

फेनवत्यः प्रकीर्णाश्च संहताश्च समुत्थिताः ।
ऊर्मयश्चात्र दृश्यन्ते वल्गन्त इव पर्वताः॥२॥

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ।
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः॥३॥

तिमिर्मत्स्यस्तं गिलति महामत्स्यस्तिमिङ्गिलः । तमपि गिलतीति तिमितिमिङ्गिलः । तिमिरिव गिलनीयस्तिमिङ्गिलो यस्येति विग्रहः ॥३॥

मकराश्चात्र दृश्यन्ते जले मग्ना इवाऽद्रयः ।
शङ्खानां च सहस्त्राणि मग्नान्यप्सु समन्ततः॥४॥

दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ।
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत॥५॥

वायुश्च घूर्णते भीमस्तद‌द्भुतमिवाभवत् ।
तमुदीक्ष्य महावेगं सर्वाम्भोनिधिमुत्तमम्॥६॥

घूर्णते भ्रमति ॥६॥

अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ।
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले॥७॥

निपत्य गत्वा पृथिवीतले पाताले ॥७॥

रथं तं तु समालक्ष्य प्राद्रवद्रथयोगवित् ।
त्रासयन् रथघोषेण तत् पुरं समुपाद्रवत्॥८॥

आलक्ष्य सर्वसम्पदुपेतामिति शेषः । आश्लिष्येति पाठे भूमाववतीर्य निम्नस्थं रथचक्रं दृढमाश्लिष्य उन्नीतवानित्यर्थः । प्राद्रवत् प्रकर्षेण वेगवानभूत् ॥८॥

रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे ।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन्॥९॥

सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः ।
तथाऽसि-शूल-परशु-गदा-मुसल-पाणयः॥१०॥

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः ।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते॥११॥

ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।
परमां सुदमाश्रित्य प्राधमं तं शनैरहम्॥१२॥

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि॥१३॥

दिवं स्तब्ध्वा आकाशं व्याप्य ॥१३॥

ततो निवातकवचाः सर्व एव खलंकृताः ।
दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः॥१४॥

दंशिताः सन्नद्धाः । त्राणैः कवचैः ॥१४॥

आयसेश्च महाशूलैर्गदाभिर्मुसलैरपि ।
पट्टिशैः करवालैश्च रथचक्रैश्च भारत॥१५॥

शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः ।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन् सहस्त्रशः॥१६॥

ततो विचार्य बहुशो रथमार्गेषु तान् हयान् ।
प्राचोदयत् समे देशे मातलिर्भरतर्षभ॥१७॥

तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् ।
नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाऽभवत्॥१८॥

ततस्ते दानवास्तत्र वादित्राणि सहस्रशः ।
विकृतस्वररूपाणि भृशं सर्वाण्यनादयन्॥१९॥

तेन शब्देन सहसा समुद्रे पर्वतोपमाः ।
आप्लवन्त गतैः सत्यैर्मत्स्याः शतसहस्रशः॥२०॥

आप्लवन्त पलायनं कृतवन्तः । गतैः सत्त्वैः विगताभिर्बुद्धिभिरुपलक्षिता भ्रान्ता इत्यर्थः ॥२०॥

ततो वेगेन महता दानवा मामुपाद्रवन् ।
विमुञ्चन्तः शितान् बाणान् शतशोऽथ सहस्रशः॥२१॥

स सम्प्रहारस्तुमुलस्तेषां च मम भारत ।
अवर्तत महाघोरो निवातकवचान्तकः॥२२॥

ततो देवर्षयश्चैव दानवर्षिगणाश्च ये ।
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे॥२३॥

ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः ।
अस्तुवन् मुनयो वाग्भिर्यथेन्द्रं तारकामये॥२४॥

तारकामय तारार्थे सङ्ग्रामे ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि युद्धारम्भे ऊनसप्तत्यधिकशततमोऽध्यायः॥१६९॥
सप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। ततो निवातकवचाः सर्वे वेगेन भारत ।
अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे॥१॥

तत इति ॥१॥

आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।
आवृत्य सर्वतस्त मां शरवर्षैरवाकिरन्॥२॥

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः ।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि॥३॥

तच्छुलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अनिशं सृज्यमानं तैरपतन्मद्र‌थोपरि॥४॥

अन्ये मामभ्यधावन्त निवातकवचा युधि ।
जितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः॥५॥

तानहं विविधैर्बाणैवैगवद्भिरजिह्मगैः ।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मुधे॥६॥

ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ।
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः॥७॥

मार्गान् बहुविधांस्तत्र विचेरुर्वातरंहसः ।
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्॥८॥

शतं शतास्ते हरयस्तस्मिन् युक्ता महारथे ।
शान्ता मातलिना यत्ता व्यचरन्नल्पका इव॥९॥

शताः शतानि अयुतमित्यर्थः । हरयोऽश्वाः । शान्ताः परीक्षिताः । शमेरालोचनार्थान्निष्ठा ॥९॥

तेषां चरणपातेन रथनेमिस्वनेन च ।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः॥१०॥

गतासवस्तथैवाऽन्ये प्रगृहीतशरासनाः ।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः॥११॥

ते दिशो विदिशः सर्वे प्रतिरुथ्य प्रहारिणः ।
अभ्यघ्नन् विविधैः शस्त्रस्ततो मे व्यथितं मनः॥१२॥

ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् ।
अश्वांस्तथा वेगवतो यदयत्ना‌दधारयत्॥१३॥

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान् रणे ।
चिच्छेद सायुधान् राजन् शतशोऽथ सहस्रशः॥१४॥

चिच्छेद अहमिति शेषः । परोक्षार्थलिट्प्रयोगेण अजानतैव मया एतत् कृतमिति शत्रूणामत्यन्तापकर्षः सूचितः ॥१४॥

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः॥१५॥

वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च ।
अगमन् प्रक्षयं केचिन्न्यवर्तन्त तथा परे॥१६॥

स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन्॥१७॥

अस्माभिः पूजायां बहुत्वम् । अश्वाद्यपेक्षया वा ॥१७॥

ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः ।
व्यधमं सायकैराशु शतशोऽथ सहस्रशः॥१८॥

लघुभिः शीघ्रगैः ॥१८॥

ततः सम्पीड्यमानास्ते क्रोधाविष्टा महारथाः ।
अपीडयन् मां सहिताः शक्तिशूलासिवृष्टिभिः॥१९॥

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतैजसम् ।
दयितं देवराजस्य माधवं नाम भारत॥२०॥

तिग्मतैजसं तीक्ष्णदाहकम् । माधवं नाम मधोर्दैत्यस्य वधार्थं निर्मितत्वात् ॥२०॥

ततः खड्गत्रिशूलेन तोमरांश्च सहस्रशः ।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम्॥२१॥

ततो माधवास्त्रात् उत्पन्नेन खड्गसहितेन त्रिशूलेन । खड्गांश्च शूलांश्चेति पाठे शरैरित्युत्तरश्लोकादपकर्षणीयम् ॥२१॥

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः॥२२॥

गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः ।
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत्॥२३॥

तेषामपि तु बाणास्ते तन्मातलिरपूजयत् ।
अवाकिरन् मां बलवत्तानहं व्यधमं शरैः॥२४॥

तेषां ते बाणाः माम् अवाकिरन्निति सम्बन्धः । तदपि मातलिरपूजयत् ॥२४॥

वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।
शरवर्षैर्महद्भिर्मां समन्तात् पर्यवारयन्॥२५॥

शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः ।
ज्वलद्भिः परमैः शीघैस्तानविध्यं सहस्रशः॥२६॥

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम्॥२७॥

इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः॥२८॥

शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः ।
ततो निवातकवचा मामयुध्यन्त मायया॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि सप्तत्यधिकशततमोऽध्यायः॥१७०॥
एकसप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। ततोऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः ।
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत्॥१॥

ततोऽश्मेति । नगमात्रैः वृक्षप्रमाणैः ॥१॥

तदहं वज्रसङ्काशैर्महेन्द्रास्त्रप्रचोदितैः ।
अचूर्णयं वेगवद्भिः शरजालैर्महाहवे॥२॥

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत ।
तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव॥३॥

पावकप्रकाराः वह्निराशयः ॥३॥

ततोऽश्मवर्षे विहते जलवर्षं महत्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके॥४॥

नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा॥५॥

धाराणां च निपातेन वायोर्विस्फूर्जितेन च ।
गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन॥६॥

धारा दिवि च संबद्धा वसुधायां च सर्वशः ।
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि॥७॥

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्॥८॥

हतेऽश्मवर्षे च मया जलवर्षे च शोषिते ।
मुमुचुर्दानवा मायामग्निं वायुं च भारत॥९॥

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।
शैलेन च महास्त्रेण वायोर्वेगमधारयम्॥१०॥

तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः ।
प्राकुर्वन् विविधां मायां यौगपद्येन भारत॥११॥

ततो वर्षं प्रादुरभूत् सुमहल्लोमहर्षणम् ।
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम्॥१२॥

सा तु मायामयी वृष्टिः पीडयामास मां युधि ।
अथ घोरं तमस्तीव्रं प्रादुरासीत् समन्ततः॥१३॥

तमसा संवृते लोके घोरेण परुषेण च ।
हरयो विमुखाश्चासन् प्रास्खलच्चापि मातलिः॥१४॥

हस्ताद्धि रश्मयश्चास्य प्रतोदः प्रापतद्भुवि ।
असकृच्चाह मां भीतः क्वासीति भरतर्षभ॥१५॥

मां च भीराविशत्तीव्रा तस्मिन् विगतचेतसि ।
स च मां विगतज्ञानः सन्त्रस्तमिदमब्रवीत्॥१६॥

सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् ।
अमृतार्थं पुरा पार्थ स च दृष्टो मयाऽनघ॥१७॥

शम्बरस्य वधे घोरः सङ्ग्रामः सुमहानभूत् ।
सारथ्यं देवराजस्य तत्रापि कृतवानहम्॥१८॥

तथैव वृत्रस्य वधे सङ्गृहीता हया मया ।
वैरोचनेर्महायुद्धं दृष्टुं चापि सुदारुणम्॥१९॥

वैरोचनेः बलेः ॥१९॥

एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः ।
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव॥२०॥

पितामहेन संहारः प्रजानां विहितो ध्रुवम् ।
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्॥२१॥

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।
मोहयिष्यन् दानवानामहं मायाबलं महत्॥२२॥

अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् ।
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च॥२३॥

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् ।
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव॥२४॥

एवमुक्त्वाऽहमसृजमस्त्रमायां नराधिप ।
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम्॥२५॥

पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः ।
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः॥२६॥

मोहनास्त्रेण पीड्यमानासु नश्यमानासु ॥२६॥

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति॥२७॥

सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः ।
व्यचरत् स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे॥२८॥

ततः पर्यपतन्नुग्रा निवातकवचा मयि ।
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्॥२९॥

वर्तमाने तथा युद्धे निवातकवचान्तके ।
नापश्यं सहसा सर्वान् दानवान् माययाऽऽवृतान्॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि मायायुद्धे एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥
द्विसप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।
अदृश्येनास्त्रवीर्येण तानप्यहमयोधयम्॥१॥

अदृश्यमाना इति ॥१॥

गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः ।
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्॥२॥

ततो निवातकवचा वध्यमाना मया युधि ।
संहृत्य मायां सहसा प्राविशन् पुरमात्मनः॥३॥

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।
अपश्यं दानवांस्तत्र हतान् शतसहस्रशः॥४॥

विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च ।
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च॥५॥

हयानां नान्तरं ह्यासीत् पदाद्विचलितुं पदम् ।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः॥६॥

ततो निवातकवचा व्योम सञ्छाद्य केवलम् ।
अदृश्या ह्यत्यवर्तन्त विसृजन्तः शिलोच्चयान्॥७॥

अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ ।
व्यगृह्णन् दानवा घोरा रथचक्रे च भारत॥८॥

विनिगृह्य हरीनश्वान् रथं च मम युध्यतः ।
सर्वतो मामविध्यन्त सरथं धरणीधरैः॥९॥

हरीन् अत्यन्तं हरणशीलान् । अविध्यन्त व्याप्तवन्तः । अचिन्वन्तेति पाठेऽपि स एवार्थः ॥९॥

पर्वतैरुपचीयद्भिः पतमानैस्तथाऽपरैः ।
स देशो यत्र वर्ताम गुहेव समपद्यत॥१०॥

पर्वतैश्छाद्यमानोऽहं निगृहीतश्च वाजिभिः ।
अगच्छं परमामार्तिं मातालिस्तदलक्षयत्॥११॥

लक्षयित्वा च मां भीतमिदं वचनमब्रवीत् ।
अर्जुनार्जुन मा भैस्त्वं बज्रमस्त्रमुदीरय॥१२॥

ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।
देवराजस्य दयितं भीममस्त्रं नराधिप॥१३॥

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।
अमुञ्चं वज्रसंस्पर्शानायसान्निशितान् शरान्॥१४॥

ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् ।
ते वज्रचोदिता बाणा वज्रभूताः समाविशन्॥१५॥

ते वज्रवेगविहता दानवाः पर्वतोपमाः ।
इतरेतरमाश्लिष्य न्यपतन् पृथिवीतले॥१६॥

अन्तर्भूमौ च येऽगृह्णन् दानवा रथवाजिनः ।
अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम्॥१७॥

हतैर्निवातकचैर्निरस्तैः पर्वतोपमैः ।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः॥१८॥

न हयानां कृतिः काचिन्न रथस्य न मातलेः ।
मम चादृश्यत तदा तदद्भुतमिवाभवत्॥१९॥

ततो मां प्रहसन् राजन् मातोलः प्रत्यभाषत ।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते॥२०॥

हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः ।
प्राक्रोशन्नगरे तस्मिन् यथा शरदि सारखाः॥२१॥

सारसाः हंसाः । लक्ष्मणा इति पाठे सारस्यः ॥२१॥

ततो मातलिना सार्धमहं तत् पुरमभ्ययाम् ।
त्रासयन् रथघोषेण निवातकवचस्त्रियः॥२२॥

तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान् ।
रथं च रविसङ्काशं प्राद्रवन् गणशः स्त्रियः॥२३॥

ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा॥२४॥

वित्ररता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।
बहुरत्नविचित्राणि शातकुम्भमयानि च॥२५॥

तद‌द्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।
विशिष्टं देवनगरादपृच्छं मातलिं ततः॥२६॥

इदमेवंविधं कस्माद्देवा नावासयन्त्युत ।
पुरन्दरपुराद्धीदं विशिष्टमिति लक्षये॥२७॥

न आवासयन्ति नाध्यासन्ते ॥२७॥

मातलिरुवाच। आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।
ततो निवातकवचैरितः प्रच्याविताः सुराः॥२८॥

तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि॥२९॥

ततः शक्रेण भगवान् स्वयंभूरिति चोदितः ।
विधत्तां भगवानन्तमात्मनो हितकाम्यया॥३०॥

अन्तं नाशं निवातकवचानामिति शेषः ॥३०॥

तत उक्तो भगवता दिष्टमत्रेति भारत ।
भविताऽन्तस्त्वमप्येषां देहेनान्येन शत्रुहन्॥३१॥

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया॥३२॥

कालस्य परिणामेन ततस्त्वमिह भारत ।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा॥३३॥

दानवानां विनाशाय अस्त्राणां परमं बलम् ।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्॥३४॥

अर्जुन उवाच। ततः प्रशाम्य नगरं दानवांश्च निहत्य तान् ।
पुनर्मातलिना सार्थमगच्छं देवसद्म तत्॥३५॥

प्रशाम्य प्रकर्षेण आलोच्य ॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि निवातकवचयुद्धे द्विसप्तत्यधिकशततमोऽध्यायः॥१७२॥
त्रिसप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
पुरं कामचरं दिव्यं पावकार्कसमप्रभम्॥१॥

निवर्तमानेनेति ॥१॥

रत्नद्रुममयैश्चित्रैः सुस्वरैश्च पतत्त्रिभिः ।
पौलोमैः कालकञ्जैश्च नित्यहृष्टैरधिष्ठितम्॥२॥

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्॥३॥

द्रुमैः पुष्पफलोपेतैः सर्वरत्नमयैर्वृतम् ।
तथा पतत्त्रिभिर्दिव्यैरुपेतं सुमनोहरैः॥४॥

असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्त्रग्विभिः सर्वतो वृतम्॥५॥

तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् ।
अपृच्छं मातलिं राजन् किमिदं वर्ततेऽद्भुतम्॥६॥

मातलिरुवाच। पुलोमा नाम दैतेयी कालका व महासुरी ।
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः॥७॥

तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्॥८॥

अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ।
पुरं सुरमणीयं च खचरं सुमहाप्रभम्॥९॥

सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
महर्षि-यक्ष-गन्धर्व-पन्नगासुरराक्षसैः॥१०॥

सर्वकामगुणोपेतं वीतशोकमनामयम् ।
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम्॥११॥

तदेतन् खपुरं दिव्यं चरत्यमरवर्जितम् ।
पौलोमाध्युषितं वीर कालकञ्जैश्च दानवैः॥१२॥

खपुरं खचरत्वात् ॥१२॥

हिरण्यपुरमित्येवं ख्यायते नगरं महत् ।
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः॥१३॥

त एते मुदिता राजन्नवध्याः सर्वदैवतैः ।
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः॥१४॥

मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ।
एतानपि रणे पार्थ कालकञ्जान् दुरासदान् ।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्॥१५॥

अर्जुन उवाच। सुरासुरैरवध्यं तदहं ज्ञात्वा विशाम्पते ।
अब्रुवं मातलिं हृष्टो याह्येतत् पुरमञ्जसा॥१६॥

त्रिदशेशद्विषो यावत् क्षयमस्त्रैर्नयाम्यहम् ।
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः॥१७॥

न वध्या इति न अपि तु वध्या एव ॥१७॥

उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।
रथेन तेन दिव्येन हरियुक्तेन मातलिः॥१८॥

ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः॥१९॥

ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः ।
प्रत्यघ्नन् दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः॥२०॥

तदहं शरवर्षेण महता प्रत्यवारयम् ।
शस्त्रवर्षं महद्राजन् विद्याबलमुपाश्रितः॥२१॥

व्यामोहयं च तान् सर्वान् रथमार्गैश्चरन् रणे ।
तेऽन्योऽन्यमभिसम्मूढाः पातयन्ति स्म दानवान्॥२२॥

तेषामेवं विमूढानामन्योऽन्यमभिधावताम् ।
शिरांसि विशिखैर्दीप्तैर्न्यहनं शतसङ्घशः॥२३॥

ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम्॥२४॥

ततोऽहं शरवर्षेण महता कुरुनन्दन ।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्॥२५॥

तत्पुरं खचरं दिव्यं कामगं सूर्यसप्रभम् ।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम्॥२६॥

अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते ।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति॥२७॥

अमरावतिसङ्काशं तत् पुरं कामगं महत् ।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं परन्तप॥२८॥

ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च ।
व्यगृह्णं सह दैतेयैस्तत्पुरं पुरुषर्षभ॥२९॥

व्यगृह्यं विशेषेण गृहीतवान् । बाणवृष्ट्या रुद्धवानित्यर्थः ॥२९॥

विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।
महीमभ्यपतद्राजन् प्रभग्नं पुरमासुरम्॥३०॥

ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः॥३१॥

ततो मातलिरारुह्य पुरस्तान्निपतन्निव ।
महीमवातरत् क्षिप्रं रथेनाऽऽदित्यवर्चसा॥३२॥

आरुह्य गगनमुत्पत्य । अवातरत् - अवतीर्णः । पाठान्तरे मातलिमारुह्य - आलम्ब्य । महीमवातरमवतीर्णोऽभवमिति शेषः ॥३२॥

ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ।
तान्यहं निशितैर्बाणैर्व्यधमं गार्धराजितैः॥३३॥

पर्यवर्तन्त परिवार्य अवर्तन्त । गार्ध्रराजितैः गृध्रपत्रशोभितैः ॥३३॥

ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः ।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत्॥३४॥

युद्धे निमित्ते सति सन्न्यवर्तन्त इमे वयमिति शेषः । युद्धेन जेतुमिति शेषः ॥३४॥

ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ।
ततस्तानि सहस्त्राणि रथिनां चित्रयोधिनाम्॥३५॥

अस्त्राणि मम दिव्यानि प्रत्यघ्नन् शनकैरिव ।
रथमार्गान् विचित्रांस्ते विचरन्तो महाबलाः॥३६॥

प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ।
विचित्रमुकुटापीडा विचित्रकवचध्वजाः॥३७॥

विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ।
अहं तु शरवर्षैस्तानस्त्रप्रचुदितै रणे॥३८॥

अन्नप्रचुदितैः। अस्त्राणां प्रचुदितं प्रेरणं यदर्थं तैः । ‘उदुपधाद्भावादिकर्मणोः-’ इति भावे निष्ठायाः कित्त्वम् ॥३८॥

नाशक्नुवं पीडयितुं ते तु मां प्रत्यपीडयन् ।
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि॥३९॥

व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ।
ततोऽहं देवदेवाय रुद्राय प्रयतो रणे॥४०॥

स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समचोदयम् ।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्॥४१॥

ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम्॥४२॥

लेलिहानैर्महानागैः कृतचीरममित्रहन् ।
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्॥४३॥

कृतं पीडितं निगृहीतं चीरं वस्त्रं येन ॥४३॥

दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ।
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे॥४४॥

मुक्तवान् दानवेन्द्राणां पराभावाय भारत ।
मुक्तमात्रे ततस्तस्मिन् रूपाण्यालन् सहस्रशः॥४५॥

पराभावाय अत्यन्ताभावाय ॥४५॥

मृगाणामथ सिंहानां व्याघ्राणां च विशाम्पते ।
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्॥४६॥

शरमाणां गजानां च वानराणां च सङ्घशः ।
ऋषभाणां वराहाणां मार्जाराणां तथैव च॥४७॥

शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ।
गृध्राणां गरुडानां च चमराणां तथैव च॥४८॥

देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः ।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्॥४९॥

गुह्यकानां च सङ्ग्रामे नैर्ऋतानां तथैव च ।
झषाणां गजवक्त्राणामुलूकानां तथैव च॥५०॥

मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् ।
तथैव यातुधानानां गदामुद्गरधारिणाम्॥५१॥

एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा ।
सर्वमासीज्जगद्व्याप्तं तास्मन्नस्त्रे विसर्जिते॥५२॥

त्रिशिरोभिश्चतुर्दंष्ट्रेश्चतुरास्यैश्चतुर्भुजैः ।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्थिभिः॥५३॥

मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥५३॥

अभीक्ष्णं वध्यमानास्ते दानवा नाशमागताः ।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः॥५४॥

अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः ।
न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत॥५५॥

निबर्हणैः नाशकरैः ॥५५॥

गाण्डीवास्त्रप्रणुन्नांस्तान् गतासून्नभसश्च्युतान् ।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे॥५६॥

तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान् ।
निशम्य परमं हर्षमगमद्देवसारथिः॥५७॥

निशम्य दृष्ट्वा ॥५७॥

तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः॥५८॥

उवाच वचनं चेदं प्रीयमाणः कृताञ्जलिः ।
सुरासुरैरसह्यं हि कर्म यत् साधितं त्वया॥५९॥

न ह्येतत् संयुगे कर्तुमपि शक्तः सुरेश्वरः ।
सुरासुरैरवध्यं हि पुरमेतत् खगं महत्॥६०॥

त्वया विमाथतं वीर स्ववीर्यतपसो बलात् ।
विध्वस्ते खपुरे तस्मिन् दानवेषु हतेषु च॥६१॥

विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ।
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः॥६२॥

पेतुः पुत्रान् पितॄन् भ्रातॄन् शोचमाना महीतले ।
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः॥६३॥

उरांसि परिनिघ्नन्त्यो विस्रस्तस्रग्विभूषणाः ।
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्॥६४॥

न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ।
गन्धर्वनगराकारं हृतनागमिव हृदम्॥६५॥

शुष्कवृक्षमिवारण्यमदृश्यमभवत् पुरम् ।
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्॥६६॥

देवराजस्य भवनं कृतकर्माणमाहवात् ।
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्॥६७॥

निवातकवचांश्चैव ततोऽहं शक्रमागमम् ।
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्॥६८॥

सर्वं विश्रावयामास यथाभूतं महाद्युते ।
हिरण्यपुरधातं च मायानां च निवारणम्॥६९॥

निवातकवचानां च वधं संख्ये महौजसाम् ।
तत्श्रुत्वर भगवान् प्रीतः सहस्राक्षः पुरन्दरः॥७०॥

मरुद्भिः सहितः श्रीमान् साधु साध्वित्यथाब्रवीत् ।
ततो मां देवराजो वै समाश्वास्य पुनः पुनः॥७१॥

अब्रवीद्विबुधैः सार्धमिदं स मधुरं वचः ।
अतिदेवासुरं कर्म कृतमेव त्वया रणे॥७२॥

गुर्वर्थश्च कृतः पार्थ महाशत्रून् घ्नता मम ।
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय॥७३॥

असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ।
अविषह्यो रणे हि त्वं देवदानवराक्षसैः॥७४॥

सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ।
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् ।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥७५॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि हिरण्यपुरदैत्यवधे त्रिसप्तत्यधिकशततमोऽध्यायः॥१७३॥
चतुःसप्तत्यधिकशततमोऽध्यायः

अर्जुन उवाच। ततो ममितविश्वस्तं संरूढशरविक्षतम् ।
देवराजो विगृह्येदं काले वचनमब्रवीत्॥१॥

तत इति । अतिविश्वस्तमति - अत्यन्तं विश्वस्तं शत्रून् जेष्यतीति विश्वासो यस्मिंस्तम् । संरूढाः देहे निमग्नाः शरास्तैर्विक्षतम् । विगृह्य विशेषेण गृहीत्वा स्वीयत्वेन अङ्गीकृत्येर्थः ॥१॥

दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत ।
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन॥२॥

त्वा त्वाम् ॥२॥

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः ।
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्॥३॥

इदं च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः ।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्॥४॥

देवदत्तं च मे शङ्खं पुनः प्रादान्महारवम् ।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह॥५॥

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च॥६॥

रुचिराणि दीप्तिमन्ति । अत एव बृहन्ति बहुमूल्यानि ॥६॥

एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप ।
इन्द्रस्य भवने पुण्ये गन्धवंशिशुभिः सह॥७॥

ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह ।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते॥८॥

एवमिन्द्रस्य भत्रने पञ्च वर्षाणि भारत ।
उषितानि मया राजन् स्मरता द्यूतजं कलिम्॥९॥

ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् ।
गन्धमादनपादस्य पर्वतस्यास्य मूर्धनि॥१०॥

युधिष्ठिर उवाच। दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत ।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः॥११॥

देवानां राजा इन्द्रः ॥११॥

दिष्ट्या च भगवान् स्थाणुर्देव्या सह परन्तप ।
साक्षाद्दृष्टः स्वयुद्धेन तोषितश्च त्वयाऽनघ॥१२॥

दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ ।
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः॥१३॥

अद्य कृत्स्नां महीं देवीं विजितां पुरमालिनीम् ।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्॥१४॥

इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत ।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः॥१५॥

ते त्वया हताः ॥१५॥

अर्जुन उवाच। श्वः प्रभाते भवान् द्रष्टा दिव्यान्यस्त्राणि सर्वशः ।
निवातकवचा घोरा यैर्मया विनिपातिताः॥१६॥

वैशम्पायन उवाच। एवमागमनं तत्र कथयित्वा धनञ्जयः ।
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह॥१७॥

इति श्रीमहाभारते आरण्यके पर्वणि निवातकवचयुद्धपर्वणि अस्त्रदर्शनसङ्केते चतुःसप्तत्यधिकशततमोऽध्यायः॥१७४॥
पञ्चसप्तत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः ।
उत्थायावश्यकार्याणि कृतवान् भ्रातृभिः सह॥१॥

तस्यामिति ॥१॥

ततः सञ्चोदयामास सोर्जुनं मातृनन्दनम् ।
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया॥२॥

मातृनन्दनं मातुः सुखकरम् ॥२॥

ततो धनञ्जयो राजन् देवैर्दत्तानि पाण्डवः ।
अस्त्राणि तानि दिव्यानि दर्शयामास भारत॥३॥

यथान्यायं महातेजाः शौचं परममास्थितः ।
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत्॥४॥

अस्त्राणि दर्शयितुमिच्छोरर्जुनस्य भावनामाह गिरीति । गिरय एव कूबरादयस्तद्वन्तम् । कूबरो यस्मिन् युगं ध्रियते तद्दारु । पादौ चक्रे । अक्षः तयोः सन्धानदारु । शुभाः वेणव इव वेणवो यस्मिन् तत् शुभवेणु । त्रिवेणु - अक्षकूबरयोः सन्धानार्थं त्रिशिखं दारु तद्वन्तम् । ‘सुपां सुलुक्-’ इति द्वितीयाया आर्षो लुक्। रथपदे वा क्लीबत्वं ध्येयम् ॥४॥

पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ।
दिव्येन संवृतस्तेन कवचेन सुवर्चसा॥५॥

पृथिवीमेव पार्थिवं मानसं भूमिरूपं रथम् । राक्षसवायसादिवत् स्वार्थे तद्धितः । आस्थाय ध्यानबलेन आरुह्य । दिव्येन इन्द्रदत्तेन ॥५॥

धनुरादाय गाण्डीवं देवदत्तं स वारिजम् ।
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः॥६॥

वारिजं शङ्खं देवदत्तं नामतः ॥६॥

अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ।
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै॥७॥

दर्शनाय दर्शयितुम् ॥७॥

समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ।
क्षुभिताः सरितश्चैव तथैव च महोदधिः॥८॥

अर्जुनेन अनेकब्रह्माण्डगर्भस्य महादेवस्य साम्यं भावनाबलाद्गतेन समाक्रान्ता पृथिवी समकम्पत॥८॥

शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः ।
न बभासे सहस्रांशुर्न जज्वाल च पावकः॥९॥

न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ।
अन्तर्भूमिगता ये च प्राणिनो जनमेजय॥१०॥

पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ।
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः॥११॥

दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनञ्जयम् ।
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः॥१२॥

जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ।
देवर्षयश्च प्रवरास्तथैव च दिवौकसः॥१३॥

यक्षराक्षसगन्धर्वास्तथैव च पतत्त्रिणः ।
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे॥१४॥

ततः पितामहश्चैव लोकपालाश्च सर्वशः ।
भगवांश्च महादेवः सगणोऽभ्याययौ तदा॥१५॥

ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः ।
अभितः पाण्डवं चित्रैरवचक्रे समन्ततः॥१६॥

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः॥१७॥

तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः ।
आगम्याह वचः पार्थं श्रवणीयमिदं नृप॥१८॥

अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत ।
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथञ्चन॥१९॥

निरधिष्ठाने लक्ष्याभावे सति ॥१९॥

अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन ।
प्रयोगेषु महान् दोषो ह्यस्त्राणां कुरुनन्दन॥२०॥

अधिष्ठानेऽपि वा अनार्तो न प्रयुञ्जीत ॥२०॥

एतानि रक्ष्यमाणानि धनञ्जय यथागमम् ।
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः॥२१॥

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्॥२२॥

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।
योज्यमानानि पार्थेन द्विषतामवमर्दने॥२३॥

वैशम्पायन उवाच। निवार्याथ ततः पार्थं सर्वे देवा यथागतम् ।
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ॥२४॥

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः ।
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया॥२५॥

इति श्रीमहाभारते आरण्यके पर्वाण निवातकवचयुद्धपर्वणि अस्त्रदर्शने पञ्चसप्तत्यधिकशततमोऽध्यायः॥१७५॥
समाप्तं निवातकवचयुद्धपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in