अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

आजगरपर्व

षट्‌सप्तत्यधिकशततमोऽध्यायः

जनमेजय उवाच। तस्मिन् कृतास्त्रे रथिनां प्रवीरे प्रत्यागते भवनाद्वृत्रहन्तुः ।
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनञ्जयेन॥१॥

तस्मिन्निति । वृत्रहन्तुरिन्द्रस्य ॥१॥

वैशम्पायन उवाच। वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः ।
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः॥२॥

आक्रीडमुद्यानम् ॥२॥

वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः ।
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी॥३॥

अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः ।
न प्राणिनां ते स्पृहयन्ति राजन् शिवश्च कालः स बभूव तेषाम्॥४॥

वासं स्थानम् । प्राणिनां भूमिस्थानामैश्वर्यमिति शेषः ॥४॥

समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तदा चतस्त्रः ।
पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु॥५॥

पूर्वाश्च षट् समाः ॥५॥

ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य ।
यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च॥६॥

तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्तदनु प्रियं च ।
ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्॥७॥

एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः ।
तं वञ्चयित्वाऽधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयाम॥८॥

तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरन् वनानि ।
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्॥९॥

विचरन् विचरन्तः । अपकृष्टदेशान् दूरस्थान् न ज्ञास्यन्ति अपि तु समीपस्थानेव एत इति ज्ञास्यन्तीत्यर्थः। ज्ञास्यन्त्यनाथानिति पाठे अनाथानिति देशविशेषणम् । अप्रसिद्धान् देशान् तेषु संवत्सरं गूढं विहृत्येति सम्बन्धः ॥९॥

संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम ।
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय॥१०॥

तत्र युद्धे । उद्धरेम कण्टकवत् दूरीकरवाम निर्यात्य प्रत्यर्प्य । अपकारिणेऽपकारं कृत्वेत्यर्थः । फलं राज्यप्राप्तिः । पुष्पं शत्रुवधः । निर्यात्य उद्धरेमेत्यन्वयः ॥१०॥

सुयोधनायानुचरैर्वृताय ततो महीमावस धर्मराज ।
स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः॥११॥

ततो हेतोर्महीमावस अधितिष्ठ । ननु इहैव सुखं महदस्ति किं महीवासेनेत्याशङ्क्याह स्वर्गेति ॥११॥

कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु ।
तत् प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत् प्राप्तुमथ क्रियाश्च॥१२॥

इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् ।
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च॥१३॥

निग्रहे च बन्धने वा । भ्रातृत्वाद्वधेऽप्रवृत्तिश्चेदिति भावः ॥१३॥

तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः ।
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज॥१४॥

समेत्य युद्धं प्राप्य ॥१४॥

तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शितेश्च नप्ता ।
तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेववर्य॥१५॥

सुपर्णकेतुः कृष्णः । शिनेर्नप्ता सात्यकिः । एतयोर्वीर्यं हितकारित्वं चाह तथैवेति । कृष्णोऽर्जुनः । अहं भीमसेनः ॥१५॥

तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः ।
तथैव चाहं नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे॥१६॥

प्रयोगेऽस्त्रप्रयोगे । कृतिनौ कुशलौ ॥१६॥

त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान् समेत्य ।
वैशम्पायन उवाच। ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः॥१७॥

त्वदर्थयोगप्रभवप्रधानाः तत्र अर्थयोगो धनलाभः । प्रभव ऐश्वर्योत्कर्षः । तत् द्वयं प्रधानं येषां ते तथा । शमं साम शत्रुनाशेन क्षेमं वा समेत्य साम्ना युद्धेन वा ॥१७॥

प्रदक्षिणं वैश्रवणाधिवासं चकार धर्मार्थविदुत्तमौजाः ।
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः॥१८॥

यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः ।
ततो महात्मा स विशुद्धबुद्धिः सम्प्रार्थयामास नगेन्द्रवर्यम्॥१९॥

समाप्तकर्मा सहितः सुहृद्भिर्जित्वा सपत्नान् प्रतिलभ्य राज्यम् ।
शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार॥२०॥

इति प्रार्थयामासेति पूर्वेण सम्बन्धः । मतिं चकार। गमने इति शेषः ॥२०॥

वृतश्च सर्वैरनुजौर्द्ध्वजैश्च तेनैव मार्गेण पतिः कुरूणाम् ।
उवाह चैतान् गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु॥२१॥

तान् प्रस्थितान् प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् ।
स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम्॥२२॥

तेनार्ष्टिषेणेन तथानुशिष्टास्तीर्थानि रम्याणि तपोवनानि ।
महान्ति चान्यानि सरांसि पार्थाः सम्पश्यमानाः प्रययुर्नराग्र्याः॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि गन्धमादनप्रस्थाने षट्सप्तत्यधिकशततमोऽध्यायः॥१७६॥
सप्तसप्तत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। नगोत्तमं प्रस्त्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च ।
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम्॥१॥

एवं तीर्थयात्रादिप्रभवेन देवताप्रसादादुत्तमलोकप्राप्तिरद्भुतसामर्थ्यप्राप्तिश्चेति दर्शितम् । प्राप्तमपि चैतद्दर्पवतामनर्थकरं भवतीति दर्पजयार्थं नहुषभीमसेनयोर्दुरवस्थां वर्णयति नगोत्तमं प्रस्त्रवणैरुपेतमित्यादिना । नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥१॥

ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान् बभूव ।
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम्॥२॥

कुबेरस्य कान्तं प्रियम् ॥२॥

समुच्छ्रयान् पर्वतसन्निरोधान् गोष्ठान् हरीणां गिरिसेतुमालाः ।
बहून् प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र॥३॥

समुच्छ्रयान् उच्चैस्त्वानि । सन्निरोधान् सङ्कीर्णत्वानि । गोष्ठान् स्थानानि हरीणां सिंहानाम्‌ । गिरिषु नद्युत्तारणार्थाः सेतवो मालाश्च । महत्सु प्रवाहेषु तत्रैव देवप्रयागादौ साङ्गा इति प्रसिद्धाः । प्रपातान् भृगून्॥३॥

तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि ।
आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः॥४॥

अनेकपाः द्विपाः ॥४॥

वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि ।
एते निवासाः सततं बभूवुर्निशानिशं प्राप्य नरर्षभाणाम्॥५॥

गुहा अल्पप्रमाणा दरी । गह्वरं महती दरी । निशानिशं रात्रिदिनम् ॥५॥

ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् ।
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु॥६॥

समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः ।
शशंसिरे विस्तरशः प्रवासं गिरौ यथावद्वृषपर्वणस्ते॥७॥

सुखोषितास्तस्य त एकरात्रं पुण्याश्रमं देवमहर्षिजुष्टे ।
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम्॥८॥

ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः ।
कुबेरकान्तां नलिनीं विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम्॥९॥

नलिनीं सरसीम् ॥९॥

तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः ।
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव॥१०॥

नन्दनमिन्द्रवनम् ॥१०॥

ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः ।
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः॥११॥

चीनांस्तुषारान् दरदांश्च सर्वान् देशान् कुलिन्दस्य च भूमिरत्नान् ।
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृ‌वीराः॥१२॥

श्रुत्वा च तान् पार्थिव पुत्रपौत्रान् प्राप्तान् सुबाहुर्विषये समग्रान् ।
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन् वृषभाः कुरूणाम्॥१३॥

समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे ।
सहेन्द्रसेनैः परिचारकैश्च पौरीगवैर्ये च महानसस्थाः॥१४॥

पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहैः ॥१४॥

सुखोषितास्तत्र त एकरात्रं सूतान् समादाय रथांश्च सर्वान् ।
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम्॥१५॥

यामुनं यमुनोद्गमम् ॥१५॥

तस्मिन् गिरौ प्रस्त्रवणोपपन्नहिमोत्तरीयारुणपाण्डुसानौ ।
विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः॥१६॥

पुंसि यथा श्वेतमुतरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्त्रवणानि अरुणपाण्डुसानूनि च भान्तीत्युत्प्रेक्षा । विशाखयूपं स्थानविशेषः ॥१६॥

वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम् ।
शिवेन पार्था मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः॥१७॥

तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम् ।
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा॥१८॥

विषादस्तेजः प्रतिघातजः क्षोभः। मोहो वैचित्यम् ॥१८॥

द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः ।
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम्॥१९॥

द्वीपो द्वीपवदाश्रयो ग्राहेण सर्पेण ॥१९॥

ते द्वादशं वर्षमुपोपयातं वने विहर्तुं कुरवः प्रतीताः ।
तस्माद्वनाच्चैत्ररथप्रकाशात् श्रिया ज्वलन्तस्तपसा च युक्ताः॥२०॥

ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः ।
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः॥२१॥

समीक्ष्य तान् द्वैतवने निविष्टान् निवासिनस्तत्र ततोऽभिजग्मुः ।
तपोद‌माचारसमाधियुक्तास्तृणोदपात्रावरणाश्मकुट्टाः॥२२॥

तृणोदपात्रावरणाः - आसनार्थं तृणेन पाद्यार्थमुरकपात्रेण च आवृण्वन्ति । पाठान्तरे आहरन्ति । प्रत्येकमानीतेन वरयन्ति ते तथाभूताः । अश्मकुट्टा वानप्रस्थाः । दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥२२॥

प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः ।
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः॥२३॥

बभूवुः शोभावन्त इति शेषः ॥२३॥

तां यक्षगन्धर्वमहर्षिकान्तामागारभूतामिव देवतानाम् ।
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः॥२४॥

इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि पुनर्द्वैतवनप्रवेशे सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
अष्टसप्तत्यधिकशततमोऽध्यायः
जनमेजय उवाच।

पौलस्त्यं धनदं युद्धे य आह्वयति दर्पितः ।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम्॥२॥

तं शंससि भयाविष्टमापन्नमरिसूदनम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥३॥

वैशम्पायन उवाच। बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमाद्राजन् राजर्षेर्वृषपर्वणः॥४॥

यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः ।
ददर्श तद्वनं रम्यं दवेगन्धर्वसेवितम्॥५॥

स ददर्श शुभान् देशान् गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान्॥६॥

चकोरैरुपचक्रैश्च पक्षिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान्॥७॥

नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान् बहुलच्छायैर्मनोनयननन्दनैः॥८॥

स सम्पश्यन् गिरिनदीर्वैदूर्यमणिसन्निभैः ।
सलिलैर्हिमसङ्काशैर्हंसकारण्डवायुतैः॥९॥

वनानि देवदारूणां मेधानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि॥१०॥

तुङ्गं कालीयकं च काष्ठविशेषौ ॥१०॥

मृगयां परिधावन् स समेषु मरुधन्वसु ।
विध्यन् मृगान् शरैः शुद्वैश्चचार स महाबलः॥११॥

मरुधन्वसु गिरेर्निर्जलप्रदेशेषु । ‘मरुर्ना गिरिधन्वनोः’ इति मेदिनी ॥११॥

भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् ।
निघ्नन् नागशतप्राणो वने तस्मिन् महाबलः॥१२॥

मृगाणां स वराहाणां महिषाणां महाभुजः ।
विनिघ्नंस्तत्र तत्रैव भीमो भीमपराक्रमः॥१३॥

स मातङ्गशतप्राणो मनुष्यशतवारणः ।
सिंहशार्दूलविक्रान्तो वने तस्मिन् महाबलः॥१४॥

वृक्षानुत्पाटयामास तरसा वै बभञ्ज च ।
पृथिव्याश्च प्रदेशान् वै नादयंस्तु वनानि च॥१५॥

पर्वताग्राणि वै मृदूनन् नादयानश्च विज्वरः ।
प्रक्षिपन् पादपांश्चापि नादेनापूरयन् महीम्॥१६॥

वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः ।
आस्फोटयन् क्ष्वेडयंश्च तलतालांश्च वादयन्॥१७॥

चिरसम्बद्धदर्पस्तु भीमसेनो वने तदा ।
गजेन्द्राश्च महासत्त्वा मृगेन्द्राश्च महाबलाः॥१८॥

भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ।
क्वचित् प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा॥१९॥

मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ।
स तत्र मनुजव्याघ्रो वने वनचरोपमः॥२०॥

पद्भ्यामभिसमापेदे भीमसेनो महाबलः ।
स प्रविष्टो महारण्ये नादान् नदति चाद्भुतान्॥२१॥

त्रासयन् सर्वभूतानि महासत्त्वपराक्रमः ।
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः॥२२॥

अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः ।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः॥२३॥

स ददर्श महाकायं भुजङ्गं लोमहर्षणम् ।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्॥२४॥

पर्वताभोगवर्ष्माणमतिकायं महाबलम् ।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम्॥२५॥

पर्वतस्याभोगो विस्तीर्णता तत् परिमाणं वर्ष्म शरीरं यस्य तम् ॥२५॥

गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्किणी मुहुः॥२६॥

त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम्॥२७॥

स भीमं सहसाऽभ्येत्य पृदाकुः कुपितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्॥२८॥

पृदाकुः सर्पः ॥२८॥

तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा ।
संज्ञा मुमोह सहसा वरदानेन तस्य हि॥२९॥

दशनागसहस्राणि धारयन्ति हि यद्बलम् ।
तद्बलं भीमसेनस्य भुजयोरसमं परैः॥३०॥

स तेजस्वी तथा तेन भुजगेन वशीकृतः ।
विस्फुरन् शनकैर्भीमो न शशाक विचेष्टितुम्॥३१॥

नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात् सत्त्वं वरदानविमोहितः॥३२॥

सत्त्वं बुद्धिम् ॥३२॥

स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे ।
न चैनमशकद्वीरः कथञ्चित् प्रतिबाधितुम्॥३३॥

इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि अजगरग्रहणे अष्टसप्तत्यधिकशततमोऽध्यायः॥१७८॥
ऊनाशीत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। स भीमसेनस्तेजस्वी तथा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्॥१॥

स भीमसेन इति ॥१॥

उवाच च महासर्पं कामया ब्रूहि पन्नग ।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यति॥२॥

कामया इच्छातः ॥२॥

पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम्॥३॥

सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।
समागताश्च शतशो निहताश्च मया युधि॥४॥

राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम॥५॥

किं नु विद्याबलं किं नु वरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया॥६॥

असत्यो विक्रमो नॄणामिति मे धीयते मतिः ।
यथेदं मे त्वया नाग बलं प्रतिहतं महत्॥७॥

वैशम्पायन उवाच। इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।
भोगेन महता गृह्य समन्तात् पर्यवेष्टयत्॥८॥

भोगेन देहेन ॥८॥

निगृह्यैनं महाबाहुं ततः स भुजगस्तदा ।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्॥९॥

विमुच्य तस्य बाहुबलं जिज्ञासितुमित्याशयः ॥९॥

विष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्॥१०॥

यथा त्विदं मया प्राप्तं सर्परूपमरिन्दम ।
तथाऽवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम॥११॥

इमामवस्थां सम्प्राप्तो ह्यहं कोपान्महर्षिणाम् ।
शापस्यान्तं परिप्रेप्सुः सर्वं तत् कथयामि ते॥१२॥

नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः॥१३॥

सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम॥१४॥

त्वां चेदवध्यं दायादमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्॥१५॥

दायादं स्ववंश्यं पुत्रम् । अत एवावध्यम् । अमेध्यमिति पाठे वैश्वदेवाद्यनर्हत्वादभक्ष्यं नरमांसमित्यर्थः । उपयोक्ष्यामि भक्षितुमिच्छामि । विधानं दैवम् ॥१५॥

न हि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः ।
गजो वा महिषो वाऽपि षष्ठे काले नरोत्तम॥१६॥

षष्ठे कालेऽष्टधाविभक्तस्याह्नो भागे ॥१६॥

नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम॥१७॥

पतता हि विमानाग्रान्मया शक्रासनाद्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान् मुनिसत्तमः॥१८॥

स मामुवाच तेजस्वी कृपयाऽभिपरिप्लुतः ।
मोक्षस्ते भविता राजन् कस्माच्चित् कालपर्ययात्॥१९॥

ततोऽस्मि पतितो भूमौ न च मामजहात् स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा॥२०॥

स्मार्तं स्मृतिविषयम् । पुराणं चिरकालीनमपि स्मरामीत्यर्थः ॥२०॥

यस्तु ते व्याहृतान् प्रश्नान् प्रतिब्रूयाद्विभागवित् ।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः॥२१॥

विभागवित् - आत्मानात्मविवेकवित् ॥२१॥

गृहीतस्य त्वया राजन् प्राणिनोऽपि बलीयसः ।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति॥२२॥

इति चाप्यहमश्रौषं वचस्तेषां दयावताम् ।
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः॥२३॥

सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते॥२४॥

तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् ।
न च कुप्ये महासर्प न चात्मानं विगर्हये॥२५॥

यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः॥२६॥

यस्मान्मनुष्यः पुण्यपापसाम्येनोपात्तजन्मा सुखस्यागमे कदाचिदभावी सामर्थ्यहीनः कदाचित् भावी सामर्थ्यवान् अवश्यं भवति । एवं सुखस्यापाये दुःखस्याप्यागमेऽपाये च । तस्मादवश्यं भावित्वादन्यतरस्य सुखापाये दुःखागमे वा मनो न ग्लपयेन्न ग्लानिं नयेत् ॥२६॥

दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः॥२७॥

पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम्॥२८॥

किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् ।
यथा तु विपिने न्यस्तान् भ्रातॄन् राज्यपरिच्युतान्॥२९॥

हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्‌कुलः ।
मां समुद्वीक्षमाणास्ते प्रपतिष्यन्ति विह्वलाः॥३०॥

विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना॥३१॥

मया राज्यगृद्धिना राज्यकामेन धर्मशीलाः सत्यप्रतिज्ञाः बाध्यन्ते । परुषोक्तिभिरिति शेषः ॥३१॥

अथवा नार्जुनो धीमान् विषादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः॥३२॥

समर्थः स महाबाहुरेकोऽपि सुमहाबलः ।
देवराजमपि स्थानात् प्रच्यावयितुमञ्जसा॥३३॥

किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम्॥३४॥

मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः॥३५॥

तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम ।
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः॥३६॥

नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ ।
मद्बाहुबलसङ्गुप्तौ नित्यं पुरुषमानिनौ॥३७॥

भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात् परिद्यूनाविति मे वर्तते मतिः॥३८॥

एवंविधं बहु तदा विललाप वृकोद्रः ।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम्॥३९॥

युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः ।
अनिष्टदर्शनान् घोरानुत्पातान् परिचिन्तयन्॥४०॥

दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह॥४१॥

एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा॥४२॥

वर्तिका पक्षिविशेषः ॥४२॥

प्रववौ चानिलो रूक्षश्चण्डः शर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च॥४३॥

पृष्ठतो वायसः कृष्णो याहि यासीति शंसति ।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा॥४४॥

दक्षिणो भुजः स्फुरतीति भविष्यतोऽनिष्टप्रशमनस्य लिङ्गम् ॥४४॥

हृदयं चरणश्चापि वामोऽस्य परितप्यति ।
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत॥४५॥

विकारः स्फुरणम् ॥४५॥

धर्मराजोऽपि मेधावी मन्यमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत॥४६॥

शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः॥४७॥

द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान् प्रति॥४८॥

स तस्य पदमुन्नीय तस्मादेवाश्रमात् प्रभुः ।
मृगयामास कौन्तेयो भीमसेनं महावने॥४९॥

स प्राचीं दिशमास्थाय महतो गजयूथपान् ।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्॥५०॥

यूथपान् पतितान् ददर्शेत्यन्वयः ॥५०॥

ततो मृगसहस्राणि मृगेन्द्राणां शतानि च ।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः॥५१॥

धावतस्तस्य वीरस्य मृगार्थं वातरंहसः ।
ऊरुवातविनिर्भग्ना द्रुमा व्यावर्जिताः पथि॥५२॥

स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।
रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसङ्कुले॥५३॥

ईरिणे निर्जले देशे कण्टकिद्रुमसंङ्कुले ।
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे ।
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा॥५४॥

ईरिणे ऊषरे । क्षुपा ह्रस्ववृक्षाः । ‘ह्रस्वशाखा शिफः क्षुपः’ इत्यमरः ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि युधिष्ठिरभीमदर्शने ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
अशीत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत्॥१॥

युधिष्ठिर इति ॥१॥

कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः॥२॥

स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।
कथयामास तत् सर्वं ग्रहणादि विचेष्टितम्॥३॥

भीम उवाच। अयमार्य महासत्त्वो भक्षार्थं मां गृहीतवान् ।
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः॥४॥

प्राणवान् वायुभक्षः सर्प इव न तु सर्पः ॥४॥

युधिष्ठिर उवाच। मुच्यतामयमायुष्मन् भ्राता मेऽमितविक्रमः ।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्॥५॥

सर्प उवाच। आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः ।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्॥६॥

व्रतमेतन्महाबाहो विषयं मम यो व्रजेत् ।
स मे भक्षो भवेत् तात त्वं चापि विषये मम॥७॥

चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये॥८॥

युधिष्ठिर उवाच। देवो वा यदि वा दैत्य उरगो वा भवान् यदि ।
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ।
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजङ्गम॥९॥

किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम ।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्॥१०॥

किमाहृत्य विदित्वा वेति स्वस्य सर्वशक्तिमत्त्वं सर्वज्ञत्वं च सूचयति ॥१०॥

सर्प उवाच। नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप॥११॥

क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहं विक्रमेण च॥१२॥

तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिबिकां मम॥१३॥

ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् ।
इमामगस्त्येन दशामानीतः पृथिवीपते॥१४॥

न तु मामजहात् प्रज्ञा यावदद्येति पाण्डव ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः॥१५॥

षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये॥१६॥

प्रश्नानुच्चारितानद्य व्याहरिष्यास चेन्मम ।
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्॥१७॥

नहुषस्तु ज्ञानमेव पुरुषार्थ इति मत्वा ‘न चान्यदपि कामये’ इति स्वस्य ज्ञानादन्यत्र वैराग्यप्रदर्शनकामः प्रश्नमेव वृणोति प्रश्नानिति ॥१७॥

युधिष्ठिर उवाच। ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
आप चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम॥१८॥

वेद्यं च ब्राह्मणेनेह तद्भवान् वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः॥१९॥

ब्राह्मणेनेति घटं करोतीतिवद्भाविनीं वृत्तिमाश्रित्य अब्राह्मणेऽपि मुमुक्षौ ब्रह्मविद्वाचिब्राह्मणशब्दप्रयोगः । श्रुतौ ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इति श्रवणमननात्मकममौनं निदिध्यासनात्मकं मौनं च निर्विद्य निष्पाद्य ब्राह्मणो ब्रह्मविद्भवतीति दर्शनात् । केवलं निर्विशेषं वेत्ति पुरुषार्थत्वेन जानाति चेत्तर्हि तद्वक्ष्यामि मतिसंवादाय ॥१९॥

सर्प उवाच। ब्राह्मणः को भवेद्राजन् वेद्यं किं च युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुभिमीमहे॥२०॥

तत्र यान्येव ब्रह्मविलक्षणानि तानि ब्रह्मविद्यासाधकानीति मन्वानो ब्रह्मविदो लक्षणं ब्रह्मस्वरूपं च पृच्छति । ब्राह्मण इति ॥२०॥

युधिष्ठिर उवाच। सत्यं दानं क्षमा क्षीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः॥२१॥

सत्यं यथार्थमहिंस्रं च वचनम् । आनृशंस्यमनैष्टुर्यम् । तपः स्वधर्माचरणम् । घृणा कृपा ॥२१॥

वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् ।
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्॥२२॥

परं निर्विशेषम् । सविशेषस्य वाङ्मनसगोचरस्य श्रुत्यैवाब्रह्मत्वोक्तेः । ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादिना । ब्रह्म त्रिविधपरिच्छेदशून्यं वस्तु । तत्र परमते परमाणोर्नित्यत्वात् कालतः परिच्छेदाभावेऽपि देशतो वस्तुतश्च परिच्छेदोऽस्ति । तथाऽऽकाशस्य नित्यत्वाद्विभुत्वाच्च कालतो देशतश्च तद‌भावेऽपि वस्तुतः परिच्छेदोऽस्त्येव । अयमपि त्रिविधः । ‘वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादितः । वृक्षान्तरात् सजातीयो विजातीयः शिलादितः’ इत्युक्त लक्षणः । स एव परमते ईश्वरस्य नित्यज्ञानादिभ्य आत्मान्तराकाशादिभ्यश्चास्तीति तस्याप्यभावोऽत्राभिप्रेतः । अत एव सुखादिधर्मवन्न भवति । यत्र अखण्डैकरसे गत्वा न शोचति शोकायतनस्य हृदयस्यैवाभावात् । पुनः संसारं न प्राप्नोतीत्यर्थः । एवं स्वमतमुक्त्वा परमतं जिज्ञासते भवतः किं विवक्षितमिति ॥२२॥

सर्प उवाच। चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
शुद्रेष्वपि च सत्यं च दानमक्रोध एव च ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर॥२३॥

सर्पस्तु ब्राह्मणपदेन जातिमात्रं विवक्षित्वा शुद्रे तल्लक्षणं व्यभिचारयति । चातुर्वर्ण्यमिति सार्द्धेन । चतुर्णां वर्णानां हितम् । सत्यं प्रमाणं च धर्मव्यवस्थापकं ब्रह्म शूद्रवेदः । शूद्राचारस्मृतेरपि वेदमूलत्वात् सर्वोऽप्याचारादिः श्रुतिमूलक इत्यर्थः । एवं च सत्यादिकं यदि शूद्रेऽप्यस्ति तर्हि सोऽपि ब्राह्मण एव स्यादित्याह । शूहेष्वपीति ॥२३॥

वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये॥२४॥

सुखदुःखातीतं पदमेव नास्तीत्युक्तरूपं ब्रह्माप्याक्षिपति । वेद्यमिति । पदं पदनीयं प्राप्यस्थानम् ॥२४॥

युधिष्ठिर उवाच। शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः॥२५॥

इतरस्तु ब्राह्मणपदेन ब्रह्मविदं विवक्षित्वा शुद्रादेरपि ब्राह्मणत्वमभ्युपगम्य परिहरति शुद्रेत्विति । शूद्रलक्ष्म कामादिकं न ब्राह्मणेऽस्ति, नापि ब्राह्मणलक्ष्म शमादिकं शूद्रेऽस्तीत्यर्थः । शूद्रोऽपि शमाद्युपेतो ब्राह्मण एव । ब्राह्मणोऽपि कामाद्युपेतः शूद्र एवेत्यर्थः ॥२५॥

यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।
यत्रैतन्न भवेत् सर्प तं शुद्धमिति निर्दिशेत्॥२६॥

यत् पुनर्भवता प्रोक्तं न वेद्यं विद्यतीति च ।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि॥२७॥

यदप्युक्तं सुखदुःखातीतं पदं नास्ति तदपि अनुवादपूर्वकमभ्युपगमेनैव परिहरति सार्धेन यत्पुनरति । पदं पदनीयं प्रागप्राप्तं सत्कर्मणा प्राप्यं स्थानं तत् सुखदुःखाभ्यां हीनं नास्ति । ब्रह्मलोकस्थानामप्यैश्वर्यतारतम्यकृतं दुःखमस्त्येव किं पुनर्लोकान्तरस्थानाम् ॥२७॥

एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता॥२८॥

एतदेव दृष्टान्तेनापवद‌ति । यथेति । यथा शीतलस्य जलस्य मध्येऽभ्यन्तरे उष्णमग्निर्नास्ति । नाप्युष्णेऽग्नौ शीततायुक्तं जलं तयोः परस्परविरोधेन संयोगायोगात् ॥२८॥

एवं वै सुखदुःखाभ्यां हीनं नास्ति पदं क्वचित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान्॥२९॥

एवं पदं पदनीयं ज्ञेयं वस्तु क्वचिद्देशे काले वा सुखदुःखाभ्यां हीनं प्राप्तं नास्ति । आध्यासिकयोः सुखदुःखयोरधिष्ठानेन ज्ञेयवस्तुना सह सर्पस्य रज्ज्वेव कालत्रयेऽपि संबन्धो नास्तीत्यर्थः । ‘ओहाङ् गतौ’ अस्य ‘ओदितश्च’ इति निष्ठातस्य नः । ‘घुमास्था-’ इति सूत्रेण आत ईत्वम् । हाङः पद्यतेश्च गत्यर्थत्वात् ज्ञानार्थत्वाच्च हीनं प्राप्तमिति पदं ज्ञेयमिति च व्याख्यातम् । अन्यथा तु प्रश्नोत्तरयोरेकरूपत्वादेषा मम मतिरिति वाक्यशेषे स्वमतेः पृथक्करणं नोपपद्यते । अन्ये तु सिद्धान्ते ताभ्यां हीनं पदं किं नास्ति ? अपि तु अस्त्येवेति काक्वा व्याचक्षते । अयं भावः - यत् कर्मप्राप्यं स्थानं तत् सुखदुःखवर्जितं कदाचिदपि नास्ति । यत्तु ज्ञेयं वस्तु नित्यप्राप्तं प्रमाणसामर्थ्यात् कण्ठगतविस्मृतचामीकरवत् तत्र कण्ठे चामीकरं त्वमेव ब्रह्मेति च वाक्यैकसिद्धमज्ञानापनयनमात्रमपेक्षते । न तत्र सुखदुःखसम्बन्धोऽस्ति । अकर्मजत्वात्तत्प्रातेः । अत एव च तस्यानित्यत्वमपि न अजन्यत्वादिति ॥२९॥

सर्प उवाच। यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः ।
वृथा जातिस्तदाऽऽयुष्मन् कृतिर्यावन्न विद्यते॥३०॥

प्रथमप्रश्नस्योत्तरमाक्षिपति यदीति ॥३०॥

युधिष्ठिर उवाच। जातिरत्र महासर्प मनुष्यत्वे महामते ।
सङ्करात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः॥३१॥

उत्तरमाह । जातिरिति ॥३१॥

सर्वे सर्वास्वपत्यानि जनयन्ति सदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्॥३२॥

वागादीनामिव मैथुनस्त्यापि साधारण्याज्जातिदुर्ज्ञेया । तथा च श्रुतिः - ‘न चैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा’ इति ब्राह्मण्ये संशयमुपन्यस्यति ॥३२॥

इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः॥३३॥

ननु जात्यनिश्चये कथं ब्राह्मणोऽहमित्याद्यभिमानपुरःसरं यागादौ प्रवर्तेतेत्याशङ्क्याह । इदमार्षमिति । अत्र ‘ये यजामह’ इत्यनेन च ये वयं स्मो ब्राह्मणा अन्ये वा ते वयं यजामहे इति ब्राह्मण्येऽनवधारणं दर्शितम् । मन्त्रलिङ्गमपि - ‘य एवास्मि स सन्यजे’ इति । नन्वेवं स्वस्याब्राह्मणत्वपक्षे यज्ञस्यानिष्टकरत्वमापततीत्याशङ्क्य तत्परिहाराय यागे यजमानस्य प्रवरवरणं क्रियते याज्ञिकैः । तच्चाग्निर्होतेति मन्त्रे गौतमवदयास्यवद‌ङ्गिरोवद्ब्राह्मणवदिति कुर्वन्ति । तस्य च प्रयोजनमब्राह्मणस्यापि यजमानस्य ब्राह्मणत्वसम्पादनं तस्मादाचार एव ब्राह्मण्यनिश्चये हेतुर्वेदप्रामाण्यादित्युपसंहरति । तस्मादिति । प्रधानं च तदिष्टं चेति कर्मधारयः ॥३३॥

प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥३४॥

कर्मैव ब्राह्मण्यहेतुरित्याह प्रागिति । नाभिवर्धनात् नालच्छेदनात् ॥३४॥

तावच्छूद्रसमो ह्येष यावद्वेदे न जायते ।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्॥३५॥

जायते संयुज्यते । वेदसंयोगानन्तरमेव ब्राह्मण्यमुदेति । तद्वत्प्रत्ररणेनापीति भावः । द्वैधे जातौ संशये सति ॥३५॥

कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते ।
सङ्करस्त्वत्र नागेन्द्र बलवान् प्रसमीक्षितः॥३६॥

वृत्तं वैदिकसंस्कारो यदि न विद्यते तर्हि सर्वाः प्रजाः कृतकृत्याः शूद्रतुल्याः। तथा च स्मृतिः - ’न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इति तेषां संस्कारानर्हत्वनिष्पापत्वाभिधानात् कृतकृत्यत्वं दर्शयति । तद्वत् त्रैवर्णिका अपि स्युरित्यर्थः । अत्र वृत्ताभावे ॥३६॥

यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान् भुजगोत्तम॥३७॥

उपसंहरति यत्रेति ॥३७॥

सर्प उवाच। श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्॥३८॥

इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि युधिष्ठिरसंवादे अशीत्यधिकशततमोऽध्यायः॥१८०॥
एकाशीत्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा॥१॥

एवं युधिष्ठिरमुखेन ब्रह्मविल्लक्षणानि ब्रह्म च निरूप्य सर्पमुखेन चित्तशुद्धिद्वारा आत्मविविदिषोत्पादनद्वारा वा ब्रह्मप्राप्त्युपायान् दानादीन् विधातुमयमध्याय आरभ्यते । भवानेतादृश इति । अनुत्तमा गतिः स्वर्गावाप्तिः ॥१॥

सर्प उवाच। पात्रे दत्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम॥२॥

युधिष्ठिर उवाच। दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्॥३॥

सर्प उवाच। दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्॥४॥

गुरुलाघवं गौरवं लाघवं चेत्यर्थः ॥४॥

कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते॥५॥

कार्यगरीयस्त्वमेव सामान्यतो विवृणोति कस्माच्चिदिति । अयमत्र निर्णयः ‘पिशुनायाभयं दातुं न सत्यं मतिमांस्त्यजेत् साधूनामभयायेह त्यजेत् सत्यमपि ध्रुवम् । स्तेनेषु च प्रियाख्यानादहिंसा श्रेयसी मता । अहिंसातः परात्माख्यप्रियाख्यानं विशिष्यते’ । एतच्च पुत्रांस्तत्त्वोपदेशेन प्रव्राज्य पितरं दुःखयता नारदेन मदालसया च कृतम् ॥५॥

एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते॥६॥

तदेतदाह । ततश्च प्रियमिष्यते । अहिंसातोऽपि प्रियं गुरुतरमित्यर्थः ॥६॥

एवमेतद्भवेद्राजन् कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्॥७॥

युधिष्ठिर उवाच। कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे॥८॥

देहातिरिक्तमात्मानं साधयितुं प्राक्कर्मसद्भावं दर्शयिष्यन् कर्मणां निष्फलत्वं तावदाशङ्कते कथमिति । अशरीरस्य नष्टदेहस्य कथं स्वर्गतिः कथं वा तत्र विषयोपभोगः कथं वा कर्मफलस्य ध्रुवत्वमप्रत्याख्येयत्वमित्यर्थः । सदेहस्य ह्येतत्त्रयं युज्यते न तु देहहीनस्येति भावः ॥८॥

सर्प उवाच। तिस्रो वै गतयो राजन् परिदृष्टाः स्वकर्मभिः ।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा॥९॥

अत्रोत्तरमाह । तिस्र इति । यथा मृद्विकारेष्वपि घटशरावोदञ्चनादिषु कुलालगतौ सङ्कल्पक्रियाभेदौ वैषम्यहेतू भवतः । एवं भौतिकेष्वपि सुरनरतिर्यक्शरीरेषु तदन्यकर्त्रात्मगतसङ्कल्पक्रियाभेदौ वैषम्यहेतू भवत इति भावः । तथा च श्रुतयः । ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’। ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ इत्याद्याः । तं त्यक्तदेहम् विद्या उपासना, कर्म यज्ञादि, पूर्वप्रज्ञा प्राग्भवीयसंस्कारः, समन्वारभेते अनुगच्छत इति श्रुतिपदानामर्थः । स्थाणुं स्थाणुत्वम् । योनिं सुरनरतिर्यग्रूपाम् । तद्गतित्रयं त्रिधा प्रत्येकमुत्तममध्यमाधमभावेन त्रिप्रकारम् ॥९॥

तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते॥१०॥

एतदेव विवृणोति तत्रेत्यादिना। कारणैः कर्मभिः ॥१०॥

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते॥११॥

विपरीतैरिति । अयमर्थः - पुण्यपापयोः साम्येन मानुषत्वं प्राप्य पुण्याधिक्ये स्वर्गं गच्छति पापाधिक्ये नरकम् । तत्र च तदधिकांशयोर्भोगेन क्षये जाते सति पुण्यपापयोः साम्ये स्वर्गादधस्तनं तिर्यग्योनेरुपरितनं च पुनर्मानुषत्वं गच्छतीति ॥११॥

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः ।
मनुष्यत्वात् परिभ्रष्टस्तिर्यग्योनौ प्रसूयते॥१२॥

तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते॥१३॥

तत्रापि तिर्यग्योनौ विशेषमाह । तिर्यग्योन्या इति। पृथग्भावस्ततो मुक्तिर्मनुष्यार्थे मनुष्यजन्मलाभाय विधीयते वेदेन बोध्यते । यतो गवादिभ्यो गोजातित एव यज्ञे उपयुक्ताद्देवत्वमपि दृश्यते । प्रत्यक्षमुपलभ्यते बह्वृचब्राह्मणे - ‘पशुर्वै नीयमानः स मृत्युं प्रापश्यत् । स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्यामः’ इति ॥१३॥

सोऽयमेता गतीस्तात जन्तुश्चरति कार्यवान् ।
नित्ये महति चात्मानमवस्थापयते द्विजः॥१४॥

सोऽयमिति । यथा लोके कार्यवांश्चरति इतस्ततः पर्यटनं करोति । तद्रहितस्तु स्वस्थाने सुखमास्ते । एवमिहापि संसारमोक्षाविति भावः । महति ब्रह्मणि आत्मानं जीवमवस्थापयते उपाधित्यागेन महाकाशे घटाकाशमिव प्रलीनं करोति ॥१४॥

जातो जातश्च बलवान् भुङ्क्ते चात्मा स देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः॥१५॥

एतदकरणे दोषमाह । जात इति । स च देहवान् देहाभिमानी । आत्मा जीवः । बलवान् अदृष्टोपगृहीतः। जातो जातः पुनः पुनर्लब्धजन्मा । फलार्थः सुखकामः । भुङ्क्ते देहयोगजं फलमिति शेषः । एतेन फलार्थिनः प्रवृत्तिस्ततः कर्म। ततो जन्म । ततः फलभोगस्ततो रागः। अभुक्ते रागानुदयात् ततः फलार्थितेति संसाराविच्छेदो दर्शितः । यस्तु निष्पृक्तो निर्गतं पृक्तं फलसंयोगो यस्मात् स फलासङ्गीत्यर्थः । स प्रजानां लक्षणं ज्ञापकं जन्ममरणादिकमसाधारणं धर्मं भावयतीति तथा। निष्कामकर्मकर्ता चित्तशुद्ध्यतिशयाज्जन्ममरणादीन् दोषान् पश्यतीत्यर्थः । यद्वा । प्रजानां कार्यमात्रस्य लक्षणमनिर्वचनीयत्वं भावयतीति तथा । असङ्गः पुमान् अधिष्ठानज्ञानेन तत्राध्यस्तस्य संसारस्य मिथ्यात्वं शुक्तिरजतस्येव पश्यतीत्यर्थः ॥१५॥

युधिष्ठिर उवाच। शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम्॥१६॥

इदमाक्षिपति । शब्दे इति । तस्य प्रजालक्षणलक्ष्यस्यानिर्वचनीयस्य अहमर्थप्रसिद्धप्रजारूपकार्यस्य किमधिष्ठानम् । तद- इदमर्थप्रसिद्धे शब्दादौ विषये ग्राह्ये सति किं तस्याधिष्ठानम् । यथा प्रकाश्यप्रकाशकयोर्घटसूर्ययोरराधिष्ठाने भूनभसी भिन्नेद्दे तद्वदहमिदमर्थयोरप्यधिष्ठाने पृथक् वाच्ये इति भावः ॥१६॥

किं न गृह्णासि विषयान् युगपत् त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम॥१७॥

यदि तु तर्कमते इव प्रकाश्यप्रकाशकयोः सुखज्ञानयोरेकात्माधिष्ठानत्वमिष्टं तर्हि तद्वदेव युगपज्ज्ञानानुपलब्धिलिङ्गेन सिद्धं मनोनामकमात्मातिरिक्तं द्रव्यान्तरमभ्युपेयम् । तेन विना आत्मनि तत्संयोगवैजात्यसिद्धस्य कार्यवैजात्यस्योदयासम्भवादिति शङ्कते । किं नेति ॥१७॥

सर्प उवाच। यदात्मद्रव्यमायुष्मन् देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि॥१८॥

उत्तरमाह । यदिति । यत् परमतप्रसिद्धमात्मरूपं द्रव्यं सुखदुःखादि गुणानामाश्रयभूतम् । तत् देहसंश्रयणेन स्थूलसूक्ष्मशरीररूपोपाध्यालम्बनेन हेतुना अन्वितं बुध्यादियुक्तं भवति । आत्मनि सुखादिभानमवस्थात्रयोपाधिकम् । न स्वाभाविकमवस्थान्तरगतस्य सुखादेरवस्थान्तरे दर्शनाभावात् । तत उपाधिविशिष्टमात्मद्रव्यं करणैर्वक्ष्यमाणैरधिष्ठितं सत् भोगान् भुङ्क्ते । तथा च श्रुतिः - ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति । यथाविधि कर्मानुरूपम् ॥१८॥

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे॥१९॥

ज्ञानं रूपाद्याकारा धीवृत्तिस्तेन । तत्साधनानीन्द्रियाणि गृह्यन्ते । बुद्धिः कर्त्रादिधर्मकं विज्ञानम्। ‘विज्ञानं यज्ञं तनुते’ इति श्रुतेः । मनः सर्वबाह्यकरणानुग्राहकमन्तःकरणम् । भोगाधिकरणे देहे । एतेन विकारभाजां कर्त्रादीनां करणत्ववचनेन तदितरकर्त्रात्मकमधिष्ठानं विवेचितम् ॥१९॥

मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः॥२०॥

द्वितीयप्रश्नोत्तरमाह । मनसेति । विषयस्य ग्राहकत्वेनायतनं स्थानमिन्द्रियं तत्स्थेन मनसा करणेन भूतात्मा जीवः क्षेत्रात् तेन तेन द्वारेण निःसृतः क्रमश इमान् रूपादीन् पर्येति । अनेन अन्यत्रमना अभूवं नाश्रौषमन्यत्रमना अभूवं नापश्यमित्याद्यनुभवस्य श्रुत्यैव प्रदर्शितत्वान्मनो नाम व्यापकं करणं सिद्धम् ॥२०॥

तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते॥२१॥

तत्रेति । तच्च मनस्तत्र विषयग्रहणे कर्तव्ये सति विधीयते । बुद्ध्या कर्त्र्या व्यापाराविष्टं क्रियतेऽतो व्यापारकालभेदान्मनो युगपद्विषयान्न गृह्णातीत्यर्थः ॥२१॥

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्॥२२॥

बुद्धेरपि परप्रेर्यत्वमाह स इति । यो बुद्धिमनइन्द्रियैः करणैरुपेतः सन् भोक्ता स्वतस्त्वभोक्तेत्युक्तः स आत्मा भ्रुवोरन्तरमाश्रित इति गुरूक्युक्त्या तदुपासकस्य तदुपलब्धिस्थानमुक्तम् । बुद्धिं द्रव्येषु रूपादिमत्सु ग्राह्येषु सृजति प्रेरयति । अयस्कान्त इव लोहम् । परावरामात्मानात्मविषयत्वेनोत्तमाधमाम् । कुलालश्चक्रमिव बुद्धिर्व्यापाराविष्टैव मनो व्यापारयति आत्मा तु न तथेत्यर्थः ॥२२॥

बुद्धेरुत्तरकाला च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः॥२३॥

ननु बुद्धेरेव कर्तृत्वेन सर्वव्यवहारनिर्वाहे सति किं क्लीबसदृशेनात्मान्तरेणेत्याशङ्क्याह । बुद्धेरिति । बुद्धितदभावयोर्या वेदना ज्ञानं साक्षिरूपं बुधैर्योगिभिर्बुद्धेः सकाशाद्विविक्ततया दृश्यते युक्त्याऽनुभवेन च गृह्यते । एष तदेव ज्ञानं क्षेत्रज्ञभावन आत्म प्रकाशको विधिरज्ञातज्ञापनं स्वप्रकाशमित्यर्थः । न हि लयोदयवत्या बुद्धेरात्मत्वं सम्भवति । कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः ॥२३॥

युधिष्ठिर उवाच। मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते॥२४॥

मनस इति । बुद्धिमनसोरन्यतरस्य कर्तृत्वं करणत्वं वाऽस्तु किमुभयकल्पनयेत्याशयः ॥२४॥

सर्प उवाच। बुद्धिरात्मानुगातीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्॥२५॥

कार्यभेदात् द्वयं कल्प्यत इत्याह । बुद्धिरिति । बुद्धिरतीवात्मानुगा अत्यन्तमात्मना सह तादात्म्यं प्राप्ता लोहपिण्ड इवाग्निना । अतः सा आत्मचैतन्यानुविद्धा । उत्पातेन उत्क्रान्त्यादिना । विधीयते वशीक्रियते । तथा चोत्पातवत्या अनुगत आत्माऽपि उत्पातवान् जलचन्द्रचाञ्चल्यन्यायेन भवति । एतेन बुद्ध्यात्मनोरन्योन्याध्यासो दर्शितः । इममेवाश्रित्य तार्किकास्तयोर्धर्मधर्मिभावमुपयन्ति । ननु अध्यस्यन्तामुपहितेषूपाधिधर्माः घटाकाशे इव घटगतिर्न तु विपरीतमपि घटे आकाशगतस्यास्पर्शत्वादेरदर्शनादित्याशङ्क्याह । तदाश्रिता हि सा ज्ञेयेति । प्रासद्धं हि आत्मचैतन्यं बुद्ध्याश्रितमत एव बौद्धा बुद्धिरेव चेतनेति वद‌न्ति । घटशब्दोऽयमिति दृष्टान्तेऽपि शब्दवत्त्वस्याकाशधर्मस्य घटेऽध्यासदर्शनात् । ननु अत्रान्योऽन्यस्मिन्नन्योऽन्यधर्मयोरेवाध्यास उत धर्मिणोरपि । आद्ये धर्मिणोः समसत्वेन द्वैतापात्तः । अन्त्ये द्वयोरपि मिथ्यात्वात्पत्त्या शून्यशेषतापत्तिरित्याशङ्क्याह बुद्धिस्तस्यैषिणी भवेदिति । बुद्धिः स्वरूपसिध्यर्थमात्मानमधिष्ठानमिच्छति । रज्जूरग इव रज्जुम् । तथा च धर्माणामेवान्योन्याध्यासो न तु धर्मिणोः शुक्तौ रजतस्येव रजते शुक्तेरध्यासाभावात् । अतो नोक्तदोषाद्वयप्रसङ्गः ॥२५॥

बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि ।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत्॥२६॥

ननु आपद्यतां द्वैतं न तु सर्वप्रमाणसिद्धाया बुद्धेर्मिथ्यात्वं वक्तुं शक्यामत्याशङ्क्याह बुद्धिरुत्पद्यते कार्यादिति । विषयेन्द्रियसंयोगादेः कार्यात् बुद्धिरुत्पद्यते तन्निवृत्तौ निवर्तत इति बुद्धेरनित्यत्वं प्रसिद्धम् । नित्यानित्ययोश्चात्मबुध्योर्न धर्मधर्मिभावः सिद्ध्यति । घटे यावद्रूपाभावस्यादर्शनेनात्मनि यावद्दुःखाभावलक्षणस्य मोक्षस्यासिद्धेः। नापि संयोगः। स हि उभयकर्मजो वाऽन्यतरकर्मजो वा मल्लयोः पक्षिवृक्षयोर्वा दृष्टो न च विभुनाऽऽत्मना तादृशः संयोगो बुद्धेरस्ति । आकाशेनेव घटस्य । यत्तु तयोरपि संयोगमभ्युपगच्छन्ति तद्युक्तिशून्यं परिभाषामात्रम् । तस्माद्रज्जूरगयोरिवानिर्वचनीयस्तयोः सम्बन्ध इति रज्जुवदात्मा नित्यो रज्जूरगवदाविर्भावतिरोभाववती बुद्धिर्मिथ्येति युक्तमुत्पश्यामः। नन्वेवं बुद्धेराकस्मिकत्वे तद्धर्माणां दुःखादीनामप्याकस्मिकत्वापातात् कृतनाशाकृताभ्यागमस्तदवस्थ एवेत्याशङ्क्याह मनस्तूत्पन्नमेव हीति । बुद्धेर्नाशेऽपि तज्जन्यवासनातन्तुसन्तानात्मकं मनोऽस्त्येव। ततश्च पूर्ववासनया बुद्धिरुत्पद्यते बुद्ध्या च वासना विवर्धत इति अनादिरनन्ता चैषा बुद्धिवासनयोर्बीजाङ्कुरवत् सन्ततिः। तदेतदाह बुद्धेरिति । गुणविधानेन सुखाद्याकारपरिणामधारणेन । गुणविधिर्नास्तीति पाठे गुणविधिरुपादानत्वे नास्ति किं तूपादेयत्वमेव । मनस्तूपादानम् । पटतन्तुवदनयोर्भेद इत्यर्थः । तद्गुणवत् तद्वासनायुक्तम् ॥२६॥

एतद्विशेषणं तात मनोबुद्ध्योर्यदन्तरम् ।
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान्॥२७॥

विशेषणं व्यावर्तकम्। तस्मात्कार्यभेदान्मनोबुद्ध्योर्भेदस्तेन च वासनाबीजनाशात् संसाराङ्कुरो न जायत इति सिद्धम् ॥२७॥

युधिष्ठिर उवाच। अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान् समनुपृच्छसि॥२८॥

सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान्॥२९॥

सर्प उवाच। सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥३०॥

सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्॥३१॥

जातमपि ज्ञानमैश्वर्यजाद्दर्पान्नश्यतीति ज्ञाततत्त्वोऽपि शमादीनाश्रयेदिति शेषग्रन्थतात्पर्यम्॥३१॥

कृतं कार्यं महाराज त्वया मम परन्तप ।
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना॥३२॥

अहं हि दिवि दिव्येन विमानेन चरन् पुरा ।
अभिमानेन मत्तः सन् कञ्चिन्नान्यमचिन्तयम्॥३३॥

ब्रह्मर्षि-देव-गन्धर्व-यक्ष-राक्षस-पन्नगाः ।
करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः॥३४॥

चक्षुषा यं प्रपद्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम॥३५॥

ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम ।
स मामपनयो राजन् भ्रंशयामास वै श्रियः॥३६॥

तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः ।
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा॥३७॥

ततस्तस्माद्विमानाग्र्यात् प्रच्युतश्च्युतलक्षणः ।
प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ।
आयाचन्तमहं विप्रं शापस्यान्तो भवेदिति॥३८॥

सर्प उवाच। प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि ।
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः॥३९॥

युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ।
अभिमानस्य घोरस्य पापस्य च नराधिप॥४०॥

फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ।
ततो मे विस्मयो जातस्तदृष्ट्वा तपसो बलम्॥४१॥

ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ।
सत्यं दमस्तपो दानमहिंसा धर्मनित्यता॥४२॥

ब्राह्मणत्वं ब्रह्मविल्लक्षणम्। स्पष्टार्थमन्यत्॥४२॥

साधकानि सदा पुंसां न जातिर्न कुलं नृप ।
अरिष्ट एष ते भ्राता भीमसेनो महाबलः ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः॥४३॥

वैशम्पायन उवाच। इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह॥४४॥

युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्॥४५॥

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत् सर्वं धर्मराजो युधिष्ठिरः॥४६॥

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी॥४७॥

ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन् भीमं गर्हयन्तोऽस्य साहसम्॥४८॥

पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य र्भामं महाबलम् ।
हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः॥४९॥

इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि भीममोचने एकाशीत्यधिकशततमोऽध्यायः॥१८१॥
आजगरपर्व समाप्तम्

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in