जनमेजय उवाच।
तस्मिन् कृतास्त्रे रथिनां प्रवीरे प्रत्यागते भवनाद्वृत्रहन्तुः
।
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनञ्जयेन॥१॥
तस्मिन्निति । वृत्रहन्तुरिन्द्रस्य ॥१॥
वैशम्पायन उवाच।
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः
।
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः॥२॥
आक्रीडमुद्यानम् ॥२॥
वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः
।
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी॥३॥
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः
।
न प्राणिनां ते स्पृहयन्ति राजन् शिवश्च कालः स बभूव तेषाम्॥४॥
वासं स्थानम् । प्राणिनां भूमिस्थानामैश्वर्यमिति शेषः ॥४॥
समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तदा चतस्त्रः
।
पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु॥५॥
पूर्वाश्च षट् समाः ॥५॥
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य
।
यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च॥६॥
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्तदनु प्रियं च
।
ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्॥७॥
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः
।
तं वञ्चयित्वाऽधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयाम॥८॥
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरन् वनानि
।
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्॥९॥
विचरन् विचरन्तः । अपकृष्टदेशान् दूरस्थान् न ज्ञास्यन्ति अपि तु समीपस्थानेव एत इति ज्ञास्यन्तीत्यर्थः। ज्ञास्यन्त्यनाथानिति पाठे अनाथानिति देशविशेषणम् । अप्रसिद्धान् देशान् तेषु संवत्सरं गूढं विहृत्येति सम्बन्धः ॥९॥
संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम
।
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय॥१०॥
तत्र युद्धे । उद्धरेम कण्टकवत् दूरीकरवाम निर्यात्य प्रत्यर्प्य । अपकारिणेऽपकारं कृत्वेत्यर्थः । फलं राज्यप्राप्तिः । पुष्पं शत्रुवधः । निर्यात्य उद्धरेमेत्यन्वयः ॥१०॥
सुयोधनायानुचरैर्वृताय ततो महीमावस धर्मराज
।
स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः॥११॥
ततो हेतोर्महीमावस अधितिष्ठ । ननु इहैव सुखं महदस्ति किं महीवासेनेत्याशङ्क्याह स्वर्गेति ॥११॥
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु
।
तत् प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत् प्राप्तुमथ क्रियाश्च॥१२॥
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात्
।
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च॥१३॥
निग्रहे च बन्धने वा । भ्रातृत्वाद्वधेऽप्रवृत्तिश्चेदिति भावः ॥१३॥
तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः
।
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज॥१४॥
समेत्य युद्धं प्राप्य ॥१४॥
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शितेश्च नप्ता
।
तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेववर्य॥१५॥
सुपर्णकेतुः कृष्णः । शिनेर्नप्ता सात्यकिः । एतयोर्वीर्यं हितकारित्वं चाह तथैवेति । कृष्णोऽर्जुनः । अहं भीमसेनः ॥१५॥
तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः
।
तथैव चाहं नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे॥१६॥
प्रयोगेऽस्त्रप्रयोगे । कृतिनौ कुशलौ ॥१६॥
त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान् समेत्य
।
वैशम्पायन उवाच।
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः॥१७॥
त्वदर्थयोगप्रभवप्रधानाः तत्र अर्थयोगो धनलाभः । प्रभव ऐश्वर्योत्कर्षः । तत् द्वयं प्रधानं येषां ते तथा । शमं साम शत्रुनाशेन क्षेमं वा समेत्य साम्ना युद्धेन वा ॥१७॥
प्रदक्षिणं वैश्रवणाधिवासं चकार धर्मार्थविदुत्तमौजाः
।
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः॥१८॥
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः
।
ततो महात्मा स विशुद्धबुद्धिः सम्प्रार्थयामास नगेन्द्रवर्यम्॥१९॥
समाप्तकर्मा सहितः सुहृद्भिर्जित्वा सपत्नान् प्रतिलभ्य राज्यम्
।
शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार॥२०॥
इति प्रार्थयामासेति पूर्वेण सम्बन्धः । मतिं चकार। गमने इति शेषः ॥२०॥
वृतश्च सर्वैरनुजौर्द्ध्वजैश्च तेनैव मार्गेण पतिः कुरूणाम्
।
उवाह चैतान् गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु॥२१॥
तान् प्रस्थितान् प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान्
।
स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम्॥२२॥
तेनार्ष्टिषेणेन तथानुशिष्टास्तीर्थानि रम्याणि तपोवनानि
।
महान्ति चान्यानि सरांसि पार्थाः सम्पश्यमानाः प्रययुर्नराग्र्याः॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि गन्धमादनप्रस्थाने षट्सप्तत्यधिकशततमोऽध्यायः॥१७६॥
वैशम्पायन उवाच।
नगोत्तमं प्रस्त्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च
।
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम्॥१॥
एवं तीर्थयात्रादिप्रभवेन देवताप्रसादादुत्तमलोकप्राप्तिरद्भुतसामर्थ्यप्राप्तिश्चेति दर्शितम् । प्राप्तमपि चैतद्दर्पवतामनर्थकरं भवतीति दर्पजयार्थं नहुषभीमसेनयोर्दुरवस्थां वर्णयति नगोत्तमं प्रस्त्रवणैरुपेतमित्यादिना । नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥१॥
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान् बभूव
।
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम्॥२॥
कुबेरस्य कान्तं प्रियम् ॥२॥
समुच्छ्रयान् पर्वतसन्निरोधान् गोष्ठान् हरीणां गिरिसेतुमालाः
।
बहून् प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र॥३॥
समुच्छ्रयान् उच्चैस्त्वानि । सन्निरोधान् सङ्कीर्णत्वानि । गोष्ठान् स्थानानि हरीणां सिंहानाम् । गिरिषु नद्युत्तारणार्थाः सेतवो मालाश्च । महत्सु प्रवाहेषु तत्रैव देवप्रयागादौ साङ्गा इति प्रसिद्धाः । प्रपातान् भृगून्॥३॥
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि
।
आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः॥४॥
अनेकपाः द्विपाः ॥४॥
वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि
।
एते निवासाः सततं बभूवुर्निशानिशं प्राप्य नरर्षभाणाम्॥५॥
गुहा अल्पप्रमाणा दरी । गह्वरं महती दरी । निशानिशं रात्रिदिनम् ॥५॥
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम्
।
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु॥६॥
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः
।
शशंसिरे विस्तरशः प्रवासं गिरौ यथावद्वृषपर्वणस्ते॥७॥
सुखोषितास्तस्य त एकरात्रं पुण्याश्रमं देवमहर्षिजुष्टे
।
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम्॥८॥
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः
।
कुबेरकान्तां नलिनीं विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम्॥९॥
नलिनीं सरसीम् ॥९॥
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः
।
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव॥१०॥
नन्दनमिन्द्रवनम् ॥१०॥
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः
।
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः॥११॥
चीनांस्तुषारान् दरदांश्च सर्वान् देशान् कुलिन्दस्य च भूमिरत्नान्
।
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः॥१२॥
श्रुत्वा च तान् पार्थिव पुत्रपौत्रान् प्राप्तान् सुबाहुर्विषये समग्रान्
।
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन् वृषभाः कुरूणाम्॥१३॥
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे
।
सहेन्द्रसेनैः परिचारकैश्च पौरीगवैर्ये च महानसस्थाः॥१४॥
पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहैः ॥१४॥
सुखोषितास्तत्र त एकरात्रं सूतान् समादाय रथांश्च सर्वान्
।
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम्॥१५॥
यामुनं यमुनोद्गमम् ॥१५॥
तस्मिन् गिरौ प्रस्त्रवणोपपन्नहिमोत्तरीयारुणपाण्डुसानौ
।
विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः॥१६॥
पुंसि यथा श्वेतमुतरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्त्रवणानि अरुणपाण्डुसानूनि च भान्तीत्युत्प्रेक्षा । विशाखयूपं स्थानविशेषः ॥१६॥
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम्
।
शिवेन पार्था मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः॥१७॥
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम्
।
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा॥१८॥
विषादस्तेजः प्रतिघातजः क्षोभः। मोहो वैचित्यम् ॥१८॥
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः
।
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम्॥१९॥
द्वीपो द्वीपवदाश्रयो ग्राहेण सर्पेण ॥१९॥
ते द्वादशं वर्षमुपोपयातं वने विहर्तुं कुरवः प्रतीताः
।
तस्माद्वनाच्चैत्ररथप्रकाशात् श्रिया ज्वलन्तस्तपसा च युक्ताः॥२०॥
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः
।
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः॥२१॥
समीक्ष्य तान् द्वैतवने निविष्टान् निवासिनस्तत्र ततोऽभिजग्मुः
।
तपोदमाचारसमाधियुक्तास्तृणोदपात्रावरणाश्मकुट्टाः॥२२॥
तृणोदपात्रावरणाः - आसनार्थं तृणेन पाद्यार्थमुरकपात्रेण च आवृण्वन्ति । पाठान्तरे आहरन्ति । प्रत्येकमानीतेन वरयन्ति ते तथाभूताः । अश्मकुट्टा वानप्रस्थाः । दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥२२॥
प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः
।
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः॥२३॥
बभूवुः शोभावन्त इति शेषः ॥२३॥
तां यक्षगन्धर्वमहर्षिकान्तामागारभूतामिव देवतानाम्
।
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि पुनर्द्वैतवनप्रवेशे सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
जनमेजय उवाच।पौलस्त्यं धनदं युद्धे य आह्वयति दर्पितः
।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम्॥२॥
तं शंससि भयाविष्टमापन्नमरिसूदनम्
।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥३॥
वैशम्पायन उवाच।
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्
।
प्राप्तानामाश्रमाद्राजन् राजर्षेर्वृषपर्वणः॥४॥
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः
।
ददर्श तद्वनं रम्यं दवेगन्धर्वसेवितम्॥५॥
स ददर्श शुभान् देशान् गिरेर्हिमवतस्तदा
।
देवर्षिसिद्धचरितानप्सरोगणसेवितान्॥६॥
चकोरैरुपचक्रैश्च पक्षिभिर्जीवजीवकैः
।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान्॥७॥
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः
।
उपेतान् बहुलच्छायैर्मनोनयननन्दनैः॥८॥
स सम्पश्यन् गिरिनदीर्वैदूर्यमणिसन्निभैः
।
सलिलैर्हिमसङ्काशैर्हंसकारण्डवायुतैः॥९॥
वनानि देवदारूणां मेधानामिव वागुराः
।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि॥१०॥
तुङ्गं कालीयकं च काष्ठविशेषौ ॥१०॥
मृगयां परिधावन् स समेषु मरुधन्वसु
।
विध्यन् मृगान् शरैः शुद्वैश्चचार स महाबलः॥११॥
मरुधन्वसु गिरेर्निर्जलप्रदेशेषु । ‘मरुर्ना गिरिधन्वनोः’ इति मेदिनी ॥११॥
भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात्
।
निघ्नन् नागशतप्राणो वने तस्मिन् महाबलः॥१२॥
मृगाणां स वराहाणां महिषाणां महाभुजः
।
विनिघ्नंस्तत्र तत्रैव भीमो भीमपराक्रमः॥१३॥
स मातङ्गशतप्राणो मनुष्यशतवारणः
।
सिंहशार्दूलविक्रान्तो वने तस्मिन् महाबलः॥१४॥
वृक्षानुत्पाटयामास तरसा वै बभञ्ज च
।
पृथिव्याश्च प्रदेशान् वै नादयंस्तु वनानि च॥१५॥
पर्वताग्राणि वै मृदूनन् नादयानश्च विज्वरः
।
प्रक्षिपन् पादपांश्चापि नादेनापूरयन् महीम्॥१६॥
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः
।
आस्फोटयन् क्ष्वेडयंश्च तलतालांश्च वादयन्॥१७॥
चिरसम्बद्धदर्पस्तु भीमसेनो वने तदा
।
गजेन्द्राश्च महासत्त्वा मृगेन्द्राश्च महाबलाः॥१८॥
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात्
।
क्वचित् प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा॥१९॥
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः
।
स तत्र मनुजव्याघ्रो वने वनचरोपमः॥२०॥
पद्भ्यामभिसमापेदे भीमसेनो महाबलः
।
स प्रविष्टो महारण्ये नादान् नदति चाद्भुतान्॥२१॥
त्रासयन् सर्वभूतानि महासत्त्वपराक्रमः
।
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः॥२२॥
अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः
।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः॥२३॥
स ददर्श महाकायं भुजङ्गं लोमहर्षणम्
।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्॥२४॥
पर्वताभोगवर्ष्माणमतिकायं महाबलम्
।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम्॥२५॥
पर्वतस्याभोगो विस्तीर्णता तत् परिमाणं वर्ष्म शरीरं यस्य तम् ॥२५॥
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता
।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्किणी मुहुः॥२६॥
त्रासनं सर्वभूतानां कालान्तकयमोपमम्
।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम्॥२७॥
स भीमं सहसाऽभ्येत्य पृदाकुः कुपितो भृशम्
।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्॥२८॥
पृदाकुः सर्पः ॥२८॥
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा
।
संज्ञा मुमोह सहसा वरदानेन तस्य हि॥२९॥
दशनागसहस्राणि धारयन्ति हि यद्बलम्
।
तद्बलं भीमसेनस्य भुजयोरसमं परैः॥३०॥
स तेजस्वी तथा तेन भुजगेन वशीकृतः
।
विस्फुरन् शनकैर्भीमो न शशाक विचेष्टितुम्॥३१॥
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः
।
गृहीतो व्यजहात् सत्त्वं वरदानविमोहितः॥३२॥
सत्त्वं बुद्धिम् ॥३२॥
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे
।
न चैनमशकद्वीरः कथञ्चित् प्रतिबाधितुम्॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि अजगरग्रहणे अष्टसप्तत्यधिकशततमोऽध्यायः॥१७८॥
वैशम्पायन उवाच।
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः
।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्॥१॥
स भीमसेन इति ॥१॥
उवाच च महासर्पं कामया ब्रूहि पन्नग
।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यति॥२॥
कामया इच्छातः ॥२॥
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः
।
नागायुतसमप्राणस्त्वया नीतः कथं वशम्॥३॥
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा
।
समागताश्च शतशो निहताश्च मया युधि॥४॥
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः
।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम॥५॥
किं नु विद्याबलं किं नु वरदानमथो तव
।
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया॥६॥
असत्यो विक्रमो नॄणामिति मे धीयते मतिः
।
यथेदं मे त्वया नाग बलं प्रतिहतं महत्॥७॥
वैशम्पायन उवाच।
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्
।
भोगेन महता गृह्य समन्तात् पर्यवेष्टयत्॥८॥
भोगेन देहेन ॥८॥
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा
।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्॥९॥
विमुच्य तस्य बाहुबलं जिज्ञासितुमित्याशयः ॥९॥
विष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज
।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्॥१०॥
यथा त्विदं मया प्राप्तं सर्परूपमरिन्दम
।
तथाऽवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम॥११॥
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्महर्षिणाम्
।
शापस्यान्तं परिप्रेप्सुः सर्वं तत् कथयामि ते॥१२॥
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः॥१३॥
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च
।
इमामवस्थामापन्नः पश्य दैवमिदं मम॥१४॥
त्वां चेदवध्यं दायादमतीव प्रियदर्शनम्
।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्॥१५॥
दायादं स्ववंश्यं पुत्रम् । अत एवावध्यम् । अमेध्यमिति पाठे वैश्वदेवाद्यनर्हत्वादभक्ष्यं नरमांसमित्यर्थः । उपयोक्ष्यामि भक्षितुमिच्छामि । विधानं दैवम् ॥१५॥
न हि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः
।
गजो वा महिषो वाऽपि षष्ठे काले नरोत्तम॥१६॥
षष्ठे कालेऽष्टधाविभक्तस्याह्नो भागे ॥१६॥
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता
।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम॥१७॥
पतता हि विमानाग्रान्मया शक्रासनाद्रुतम्
।
कुरु शापान्तमित्युक्तो भगवान् मुनिसत्तमः॥१८॥
स मामुवाच तेजस्वी कृपयाऽभिपरिप्लुतः
।
मोक्षस्ते भविता राजन् कस्माच्चित् कालपर्ययात्॥१९॥
ततोऽस्मि पतितो भूमौ न च मामजहात् स्मृतिः
।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा॥२०॥
स्मार्तं स्मृतिविषयम् । पुराणं चिरकालीनमपि स्मरामीत्यर्थः ॥२०॥
यस्तु ते व्याहृतान् प्रश्नान् प्रतिब्रूयाद्विभागवित्
।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः॥२१॥
विभागवित् - आत्मानात्मविवेकवित् ॥२१॥
गृहीतस्य त्वया राजन् प्राणिनोऽपि बलीयसः
।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति॥२२॥
इति चाप्यहमश्रौषं वचस्तेषां दयावताम्
।
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः॥२३॥
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ
।
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते॥२४॥
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्
।
न च कुप्ये महासर्प न चात्मानं विगर्हये॥२५॥
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः
।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः॥२६॥
यस्मान्मनुष्यः पुण्यपापसाम्येनोपात्तजन्मा सुखस्यागमे कदाचिदभावी सामर्थ्यहीनः कदाचित् भावी सामर्थ्यवान् अवश्यं भवति । एवं सुखस्यापाये दुःखस्याप्यागमेऽपाये च । तस्मादवश्यं भावित्वादन्यतरस्य सुखापाये दुःखागमे वा मनो न ग्लपयेन्न ग्लानिं नयेत् ॥२६॥
दैवं पुरुषकारेण को वञ्चयितुमर्हति
।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः॥२७॥
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्
।
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम्॥२८॥
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम्
।
यथा तु विपिने न्यस्तान् भ्रातॄन् राज्यपरिच्युतान्॥२९॥
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः
।
मां समुद्वीक्षमाणास्ते प्रपतिष्यन्ति विह्वलाः॥३०॥
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः
।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना॥३१॥
मया राज्यगृद्धिना राज्यकामेन धर्मशीलाः सत्यप्रतिज्ञाः बाध्यन्ते । परुषोक्तिभिरिति शेषः ॥३१॥
अथवा नार्जुनो धीमान् विषादमुपयास्यति
।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः॥३२॥
समर्थः स महाबाहुरेकोऽपि सुमहाबलः
।
देवराजमपि स्थानात् प्रच्यावयितुमञ्जसा॥३३॥
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम्
।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम्॥३४॥
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्
।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः॥३५॥
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम
।
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः॥३६॥
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ
।
मद्बाहुबलसङ्गुप्तौ नित्यं पुरुषमानिनौ॥३७॥
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ
।
मद्विनाशात् परिद्यूनाविति मे वर्तते मतिः॥३८॥
एवंविधं बहु तदा विललाप वृकोद्रः
।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम्॥३९॥
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः
।
अनिष्टदर्शनान् घोरानुत्पातान् परिचिन्तयन्॥४०॥
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता
।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह॥४१॥
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना
।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा॥४२॥
वर्तिका पक्षिविशेषः ॥४२॥
प्रववौ चानिलो रूक्षश्चण्डः शर्करकर्षणः
।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च॥४३॥
पृष्ठतो वायसः कृष्णो याहि यासीति शंसति
।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा॥४४॥
दक्षिणो भुजः स्फुरतीति भविष्यतोऽनिष्टप्रशमनस्य लिङ्गम् ॥४४॥
हृदयं चरणश्चापि वामोऽस्य परितप्यति
।
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत॥४५॥
विकारः स्फुरणम् ॥४५॥
धर्मराजोऽपि मेधावी मन्यमानो महद्भयम्
।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत॥४६॥
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम्
।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः॥४७॥
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम्
।
नकुलं सहदेवं च व्यादिदेश द्विजान् प्रति॥४८॥
स तस्य पदमुन्नीय तस्मादेवाश्रमात् प्रभुः
।
मृगयामास कौन्तेयो भीमसेनं महावने॥४९॥
स प्राचीं दिशमास्थाय महतो गजयूथपान्
।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्॥५०॥
यूथपान् पतितान् ददर्शेत्यन्वयः ॥५०॥
ततो मृगसहस्राणि मृगेन्द्राणां शतानि च
।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः॥५१॥
धावतस्तस्य वीरस्य मृगार्थं वातरंहसः
।
ऊरुवातविनिर्भग्ना द्रुमा व्यावर्जिताः पथि॥५२॥
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे
।
रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसङ्कुले॥५३॥
ईरिणे निर्जले देशे कण्टकिद्रुमसंङ्कुले
।
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे
।
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा॥५४॥
ईरिणे ऊषरे । क्षुपा ह्रस्ववृक्षाः । ‘ह्रस्वशाखा शिफः क्षुपः’ इत्यमरः ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि युधिष्ठिरभीमदर्शने ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
वैशम्पायन उवाच।
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्
।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत्॥१॥
युधिष्ठिर इति ॥१॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्
।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः॥२॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्
।
कथयामास तत् सर्वं ग्रहणादि विचेष्टितम्॥३॥
भीम उवाच।
अयमार्य महासत्त्वो भक्षार्थं मां गृहीतवान्
।
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः॥४॥
प्राणवान् वायुभक्षः सर्प इव न तु सर्पः ॥४॥
युधिष्ठिर उवाच।
मुच्यतामयमायुष्मन् भ्राता मेऽमितविक्रमः
।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्॥५॥
सर्प उवाच।
आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः
।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्॥६॥
व्रतमेतन्महाबाहो विषयं मम यो व्रजेत्
।
स मे भक्षो भवेत् तात त्वं चापि विषये मम॥७॥
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव
।
नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये॥८॥
युधिष्ठिर उवाच।
देवो वा यदि वा दैत्य उरगो वा भवान् यदि
।
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
।
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजङ्गम॥९॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम
।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्॥१०॥
किमाहृत्य विदित्वा वेति स्वस्य सर्वशक्तिमत्त्वं सर्वज्ञत्वं च सूचयति ॥१०॥
सर्प उवाच।
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ
।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप॥११॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च
।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहं विक्रमेण च॥१२॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा
।
सहस्रं हि द्विजातीनामुवाह शिबिकां मम॥१३॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्
।
इमामगस्त्येन दशामानीतः पृथिवीपते॥१४॥
न तु मामजहात् प्रज्ञा यावदद्येति पाण्डव
।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः॥१५॥
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव
।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये॥१६॥
प्रश्नानुच्चारितानद्य व्याहरिष्यास चेन्मम
।
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्॥१७॥
नहुषस्तु ज्ञानमेव पुरुषार्थ इति मत्वा ‘न चान्यदपि कामये’ इति स्वस्य ज्ञानादन्यत्र वैराग्यप्रदर्शनकामः प्रश्नमेव वृणोति प्रश्नानिति ॥१७॥
युधिष्ठिर उवाच।
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः
।
आप चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम॥१८॥
वेद्यं च ब्राह्मणेनेह तद्भवान् वेत्ति केवलम्
।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः॥१९॥
ब्राह्मणेनेति घटं करोतीतिवद्भाविनीं वृत्तिमाश्रित्य अब्राह्मणेऽपि मुमुक्षौ ब्रह्मविद्वाचिब्राह्मणशब्दप्रयोगः । श्रुतौ ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इति श्रवणमननात्मकममौनं निदिध्यासनात्मकं मौनं च निर्विद्य निष्पाद्य ब्राह्मणो ब्रह्मविद्भवतीति दर्शनात् । केवलं निर्विशेषं वेत्ति पुरुषार्थत्वेन जानाति चेत्तर्हि तद्वक्ष्यामि मतिसंवादाय ॥१९॥
सर्प उवाच।
ब्राह्मणः को भवेद्राजन् वेद्यं किं च युधिष्ठिर
।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुभिमीमहे॥२०॥
तत्र यान्येव ब्रह्मविलक्षणानि तानि ब्रह्मविद्यासाधकानीति मन्वानो ब्रह्मविदो लक्षणं ब्रह्मस्वरूपं च पृच्छति । ब्राह्मण इति ॥२०॥
युधिष्ठिर उवाच।
सत्यं दानं क्षमा क्षीलमानृशंस्यं तपो घृणा
।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः॥२१॥
सत्यं यथार्थमहिंस्रं च वचनम् । आनृशंस्यमनैष्टुर्यम् । तपः स्वधर्माचरणम् । घृणा कृपा ॥२१॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्
।
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्॥२२॥
परं निर्विशेषम् । सविशेषस्य वाङ्मनसगोचरस्य श्रुत्यैवाब्रह्मत्वोक्तेः । ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादिना । ब्रह्म त्रिविधपरिच्छेदशून्यं वस्तु । तत्र परमते परमाणोर्नित्यत्वात् कालतः परिच्छेदाभावेऽपि देशतो वस्तुतश्च परिच्छेदोऽस्ति । तथाऽऽकाशस्य नित्यत्वाद्विभुत्वाच्च कालतो देशतश्च तदभावेऽपि वस्तुतः परिच्छेदोऽस्त्येव । अयमपि त्रिविधः । ‘वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादितः । वृक्षान्तरात् सजातीयो विजातीयः शिलादितः’ इत्युक्त लक्षणः । स एव परमते ईश्वरस्य नित्यज्ञानादिभ्य आत्मान्तराकाशादिभ्यश्चास्तीति तस्याप्यभावोऽत्राभिप्रेतः । अत एव सुखादिधर्मवन्न भवति । यत्र अखण्डैकरसे गत्वा न शोचति शोकायतनस्य हृदयस्यैवाभावात् । पुनः संसारं न प्राप्नोतीत्यर्थः । एवं स्वमतमुक्त्वा परमतं जिज्ञासते भवतः किं विवक्षितमिति ॥२२॥
सर्प उवाच।
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि
।
शुद्रेष्वपि च सत्यं च दानमक्रोध एव च
।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर॥२३॥
सर्पस्तु ब्राह्मणपदेन जातिमात्रं विवक्षित्वा शुद्रे तल्लक्षणं व्यभिचारयति । चातुर्वर्ण्यमिति सार्द्धेन । चतुर्णां वर्णानां हितम् । सत्यं प्रमाणं च धर्मव्यवस्थापकं ब्रह्म शूद्रवेदः । शूद्राचारस्मृतेरपि वेदमूलत्वात् सर्वोऽप्याचारादिः श्रुतिमूलक इत्यर्थः । एवं च सत्यादिकं यदि शूद्रेऽप्यस्ति तर्हि सोऽपि ब्राह्मण एव स्यादित्याह । शूहेष्वपीति ॥२३॥
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप
।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये॥२४॥
सुखदुःखातीतं पदमेव नास्तीत्युक्तरूपं ब्रह्माप्याक्षिपति । वेद्यमिति । पदं पदनीयं प्राप्यस्थानम् ॥२४॥
युधिष्ठिर उवाच।
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते
।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः॥२५॥
इतरस्तु ब्राह्मणपदेन ब्रह्मविदं विवक्षित्वा शुद्रादेरपि ब्राह्मणत्वमभ्युपगम्य परिहरति शुद्रेत्विति । शूद्रलक्ष्म कामादिकं न ब्राह्मणेऽस्ति, नापि ब्राह्मणलक्ष्म शमादिकं शूद्रेऽस्तीत्यर्थः । शूद्रोऽपि शमाद्युपेतो ब्राह्मण एव । ब्राह्मणोऽपि कामाद्युपेतः शूद्र एवेत्यर्थः ॥२५॥
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः
।
यत्रैतन्न भवेत् सर्प तं शुद्धमिति निर्दिशेत्॥२६॥
यत् पुनर्भवता प्रोक्तं न वेद्यं विद्यतीति च
।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि॥२७॥
यदप्युक्तं सुखदुःखातीतं पदं नास्ति तदपि अनुवादपूर्वकमभ्युपगमेनैव परिहरति सार्धेन यत्पुनरति । पदं पदनीयं प्रागप्राप्तं सत्कर्मणा प्राप्यं स्थानं तत् सुखदुःखाभ्यां हीनं नास्ति । ब्रह्मलोकस्थानामप्यैश्वर्यतारतम्यकृतं दुःखमस्त्येव किं पुनर्लोकान्तरस्थानाम् ॥२७॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते
।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता॥२८॥
एतदेव दृष्टान्तेनापवदति । यथेति । यथा शीतलस्य जलस्य मध्येऽभ्यन्तरे उष्णमग्निर्नास्ति । नाप्युष्णेऽग्नौ शीततायुक्तं जलं तयोः परस्परविरोधेन संयोगायोगात् ॥२८॥
एवं वै सुखदुःखाभ्यां हीनं नास्ति पदं क्वचित्
।
एषा मम मतिः सर्प यथा वा मन्यते भवान्॥२९॥
एवं पदं पदनीयं ज्ञेयं वस्तु क्वचिद्देशे काले वा सुखदुःखाभ्यां हीनं प्राप्तं नास्ति । आध्यासिकयोः सुखदुःखयोरधिष्ठानेन ज्ञेयवस्तुना सह सर्पस्य रज्ज्वेव कालत्रयेऽपि संबन्धो नास्तीत्यर्थः । ‘ओहाङ् गतौ’ अस्य ‘ओदितश्च’ इति निष्ठातस्य नः । ‘घुमास्था-’ इति सूत्रेण आत ईत्वम् । हाङः पद्यतेश्च गत्यर्थत्वात् ज्ञानार्थत्वाच्च हीनं प्राप्तमिति पदं ज्ञेयमिति च व्याख्यातम् । अन्यथा तु प्रश्नोत्तरयोरेकरूपत्वादेषा मम मतिरिति वाक्यशेषे स्वमतेः पृथक्करणं नोपपद्यते । अन्ये तु सिद्धान्ते ताभ्यां हीनं पदं किं नास्ति ? अपि तु अस्त्येवेति काक्वा व्याचक्षते । अयं भावः - यत् कर्मप्राप्यं स्थानं तत् सुखदुःखवर्जितं कदाचिदपि नास्ति । यत्तु ज्ञेयं वस्तु नित्यप्राप्तं प्रमाणसामर्थ्यात् कण्ठगतविस्मृतचामीकरवत् तत्र कण्ठे चामीकरं त्वमेव ब्रह्मेति च वाक्यैकसिद्धमज्ञानापनयनमात्रमपेक्षते । न तत्र सुखदुःखसम्बन्धोऽस्ति । अकर्मजत्वात्तत्प्रातेः । अत एव च तस्यानित्यत्वमपि न अजन्यत्वादिति ॥२९॥
सर्प उवाच।
यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः
।
वृथा जातिस्तदाऽऽयुष्मन् कृतिर्यावन्न विद्यते॥३०॥
प्रथमप्रश्नस्योत्तरमाक्षिपति यदीति ॥३०॥
युधिष्ठिर उवाच।
जातिरत्र महासर्प मनुष्यत्वे महामते
।
सङ्करात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः॥३१॥
उत्तरमाह । जातिरिति ॥३१॥
सर्वे सर्वास्वपत्यानि जनयन्ति सदा नराः
।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्॥३२॥
वागादीनामिव मैथुनस्त्यापि साधारण्याज्जातिदुर्ज्ञेया । तथा च श्रुतिः - ‘न चैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा’ इति ब्राह्मण्ये संशयमुपन्यस्यति ॥३२॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि
।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः॥३३॥
ननु जात्यनिश्चये कथं ब्राह्मणोऽहमित्याद्यभिमानपुरःसरं यागादौ प्रवर्तेतेत्याशङ्क्याह । इदमार्षमिति । अत्र ‘ये यजामह’ इत्यनेन च ये वयं स्मो ब्राह्मणा अन्ये वा ते वयं यजामहे इति ब्राह्मण्येऽनवधारणं दर्शितम् । मन्त्रलिङ्गमपि - ‘य एवास्मि स सन्यजे’ इति । नन्वेवं स्वस्याब्राह्मणत्वपक्षे यज्ञस्यानिष्टकरत्वमापततीत्याशङ्क्य तत्परिहाराय यागे यजमानस्य प्रवरवरणं क्रियते याज्ञिकैः । तच्चाग्निर्होतेति मन्त्रे गौतमवदयास्यवदङ्गिरोवद्ब्राह्मणवदिति कुर्वन्ति । तस्य च प्रयोजनमब्राह्मणस्यापि यजमानस्य ब्राह्मणत्वसम्पादनं तस्मादाचार एव ब्राह्मण्यनिश्चये हेतुर्वेदप्रामाण्यादित्युपसंहरति । तस्मादिति । प्रधानं च तदिष्टं चेति कर्मधारयः ॥३३॥
प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते
।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥३४॥
कर्मैव ब्राह्मण्यहेतुरित्याह प्रागिति । नाभिवर्धनात् नालच्छेदनात् ॥३४॥
तावच्छूद्रसमो ह्येष यावद्वेदे न जायते
।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्॥३५॥
जायते संयुज्यते । वेदसंयोगानन्तरमेव ब्राह्मण्यमुदेति । तद्वत्प्रत्ररणेनापीति भावः । द्वैधे जातौ संशये सति ॥३५॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते
।
सङ्करस्त्वत्र नागेन्द्र बलवान् प्रसमीक्षितः॥३६॥
वृत्तं वैदिकसंस्कारो यदि न विद्यते तर्हि सर्वाः प्रजाः कृतकृत्याः शूद्रतुल्याः। तथा च स्मृतिः - ’न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इति तेषां संस्कारानर्हत्वनिष्पापत्वाभिधानात् कृतकृत्यत्वं दर्शयति । तद्वत् त्रैवर्णिका अपि स्युरित्यर्थः । अत्र वृत्ताभावे ॥३६॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते
।
तं ब्राह्मणमहं पूर्वमुक्तवान् भुजगोत्तम॥३७॥
उपसंहरति यत्रेति ॥३७॥
सर्प उवाच।
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर
।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्॥३८॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि युधिष्ठिरसंवादे अशीत्यधिकशततमोऽध्यायः॥१८०॥
युधिष्ठिर उवाच।
भवानेतादृशो लोके वेदवेदाङ्गपारगः
।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा॥१॥
एवं युधिष्ठिरमुखेन ब्रह्मविल्लक्षणानि ब्रह्म च निरूप्य सर्पमुखेन चित्तशुद्धिद्वारा आत्मविविदिषोत्पादनद्वारा वा ब्रह्मप्राप्त्युपायान् दानादीन् विधातुमयमध्याय आरभ्यते । भवानेतादृश इति । अनुत्तमा गतिः स्वर्गावाप्तिः ॥१॥
सर्प उवाच।
पात्रे दत्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत
।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम॥२॥
युधिष्ठिर उवाच।
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते
।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्॥३॥
सर्प उवाच।
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च
।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्॥४॥
गुरुलाघवं गौरवं लाघवं चेत्यर्थः ॥४॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते
।
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते॥५॥
कार्यगरीयस्त्वमेव सामान्यतो विवृणोति कस्माच्चिदिति । अयमत्र निर्णयः ‘पिशुनायाभयं दातुं न सत्यं मतिमांस्त्यजेत् साधूनामभयायेह त्यजेत् सत्यमपि ध्रुवम् । स्तेनेषु च प्रियाख्यानादहिंसा श्रेयसी मता । अहिंसातः परात्माख्यप्रियाख्यानं विशिष्यते’ । एतच्च पुत्रांस्तत्त्वोपदेशेन प्रव्राज्य पितरं दुःखयता नारदेन मदालसया च कृतम् ॥५॥
एवमेव महेष्वास प्रियवाक्यान्महीपते
।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते॥६॥
तदेतदाह । ततश्च प्रियमिष्यते । अहिंसातोऽपि प्रियं गुरुतरमित्यर्थः ॥६॥
एवमेतद्भवेद्राजन् कार्यापेक्षमनन्तरम्
।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्॥७॥
युधिष्ठिर उवाच।
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्
।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे॥८॥
देहातिरिक्तमात्मानं साधयितुं प्राक्कर्मसद्भावं दर्शयिष्यन् कर्मणां निष्फलत्वं तावदाशङ्कते कथमिति । अशरीरस्य नष्टदेहस्य कथं स्वर्गतिः कथं वा तत्र विषयोपभोगः कथं वा कर्मफलस्य ध्रुवत्वमप्रत्याख्येयत्वमित्यर्थः । सदेहस्य ह्येतत्त्रयं युज्यते न तु देहहीनस्येति भावः ॥८॥
सर्प उवाच।
तिस्रो वै गतयो राजन् परिदृष्टाः स्वकर्मभिः
।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा॥९॥
अत्रोत्तरमाह । तिस्र इति । यथा मृद्विकारेष्वपि घटशरावोदञ्चनादिषु कुलालगतौ सङ्कल्पक्रियाभेदौ वैषम्यहेतू भवतः । एवं भौतिकेष्वपि सुरनरतिर्यक्शरीरेषु तदन्यकर्त्रात्मगतसङ्कल्पक्रियाभेदौ वैषम्यहेतू भवत इति भावः । तथा च श्रुतयः । ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’। ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ इत्याद्याः । तं त्यक्तदेहम् विद्या उपासना, कर्म यज्ञादि, पूर्वप्रज्ञा प्राग्भवीयसंस्कारः, समन्वारभेते अनुगच्छत इति श्रुतिपदानामर्थः । स्थाणुं स्थाणुत्वम् । योनिं सुरनरतिर्यग्रूपाम् । तद्गतित्रयं त्रिधा प्रत्येकमुत्तममध्यमाधमभावेन त्रिप्रकारम् ॥९॥
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः
।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते॥१०॥
एतदेव विवृणोति तत्रेत्यादिना। कारणैः कर्मभिः ॥१०॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्
।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते॥११॥
विपरीतैरिति । अयमर्थः - पुण्यपापयोः साम्येन मानुषत्वं प्राप्य पुण्याधिक्ये स्वर्गं गच्छति पापाधिक्ये नरकम् । तत्र च तदधिकांशयोर्भोगेन क्षये जाते सति पुण्यपापयोः साम्ये स्वर्गादधस्तनं तिर्यग्योनेरुपरितनं च पुनर्मानुषत्वं गच्छतीति ॥११॥
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः
।
मनुष्यत्वात् परिभ्रष्टस्तिर्यग्योनौ प्रसूयते॥१२॥
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते
।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते॥१३॥
तत्रापि तिर्यग्योनौ विशेषमाह । तिर्यग्योन्या इति। पृथग्भावस्ततो मुक्तिर्मनुष्यार्थे मनुष्यजन्मलाभाय विधीयते वेदेन बोध्यते । यतो गवादिभ्यो गोजातित एव यज्ञे उपयुक्ताद्देवत्वमपि दृश्यते । प्रत्यक्षमुपलभ्यते बह्वृचब्राह्मणे - ‘पशुर्वै नीयमानः स मृत्युं प्रापश्यत् । स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्यामः’ इति ॥१३॥
सोऽयमेता गतीस्तात जन्तुश्चरति कार्यवान्
।
नित्ये महति चात्मानमवस्थापयते द्विजः॥१४॥
सोऽयमिति । यथा लोके कार्यवांश्चरति इतस्ततः पर्यटनं करोति । तद्रहितस्तु स्वस्थाने सुखमास्ते । एवमिहापि संसारमोक्षाविति भावः । महति ब्रह्मणि आत्मानं जीवमवस्थापयते उपाधित्यागेन महाकाशे घटाकाशमिव प्रलीनं करोति ॥१४॥
जातो जातश्च बलवान् भुङ्क्ते चात्मा स देहवान्
।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः॥१५॥
एतदकरणे दोषमाह । जात इति । स च देहवान् देहाभिमानी । आत्मा जीवः । बलवान् अदृष्टोपगृहीतः। जातो जातः पुनः पुनर्लब्धजन्मा । फलार्थः सुखकामः । भुङ्क्ते देहयोगजं फलमिति शेषः । एतेन फलार्थिनः प्रवृत्तिस्ततः कर्म। ततो जन्म । ततः फलभोगस्ततो रागः। अभुक्ते रागानुदयात् ततः फलार्थितेति संसाराविच्छेदो दर्शितः । यस्तु निष्पृक्तो निर्गतं पृक्तं फलसंयोगो यस्मात् स फलासङ्गीत्यर्थः । स प्रजानां लक्षणं ज्ञापकं जन्ममरणादिकमसाधारणं धर्मं भावयतीति तथा। निष्कामकर्मकर्ता चित्तशुद्ध्यतिशयाज्जन्ममरणादीन् दोषान् पश्यतीत्यर्थः । यद्वा । प्रजानां कार्यमात्रस्य लक्षणमनिर्वचनीयत्वं भावयतीति तथा । असङ्गः पुमान् अधिष्ठानज्ञानेन तत्राध्यस्तस्य संसारस्य मिथ्यात्वं शुक्तिरजतस्येव पश्यतीत्यर्थः ॥१५॥
युधिष्ठिर उवाच।
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः
।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम्॥१६॥
इदमाक्षिपति । शब्दे इति । तस्य प्रजालक्षणलक्ष्यस्यानिर्वचनीयस्य अहमर्थप्रसिद्धप्रजारूपकार्यस्य किमधिष्ठानम् । तद- इदमर्थप्रसिद्धे शब्दादौ विषये ग्राह्ये सति किं तस्याधिष्ठानम् । यथा प्रकाश्यप्रकाशकयोर्घटसूर्ययोरराधिष्ठाने भूनभसी भिन्नेद्दे तद्वदहमिदमर्थयोरप्यधिष्ठाने पृथक् वाच्ये इति भावः ॥१६॥
किं न गृह्णासि विषयान् युगपत् त्वं महामते
।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम॥१७॥
यदि तु तर्कमते इव प्रकाश्यप्रकाशकयोः सुखज्ञानयोरेकात्माधिष्ठानत्वमिष्टं तर्हि तद्वदेव युगपज्ज्ञानानुपलब्धिलिङ्गेन सिद्धं मनोनामकमात्मातिरिक्तं द्रव्यान्तरमभ्युपेयम् । तेन विना आत्मनि तत्संयोगवैजात्यसिद्धस्य कार्यवैजात्यस्योदयासम्भवादिति शङ्कते । किं नेति ॥१७॥
सर्प उवाच।
यदात्मद्रव्यमायुष्मन् देहसंश्रयणान्वितम्
।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि॥१८॥
उत्तरमाह । यदिति । यत् परमतप्रसिद्धमात्मरूपं द्रव्यं सुखदुःखादि गुणानामाश्रयभूतम् । तत् देहसंश्रयणेन स्थूलसूक्ष्मशरीररूपोपाध्यालम्बनेन हेतुना अन्वितं बुध्यादियुक्तं भवति । आत्मनि सुखादिभानमवस्थात्रयोपाधिकम् । न स्वाभाविकमवस्थान्तरगतस्य सुखादेरवस्थान्तरे दर्शनाभावात् । तत उपाधिविशिष्टमात्मद्रव्यं करणैर्वक्ष्यमाणैरधिष्ठितं सत् भोगान् भुङ्क्ते । तथा च श्रुतिः - ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति । यथाविधि कर्मानुरूपम् ॥१८॥
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ
।
तस्य भोगाधिकरणे करणानि निबोध मे॥१९॥
ज्ञानं रूपाद्याकारा धीवृत्तिस्तेन । तत्साधनानीन्द्रियाणि गृह्यन्ते । बुद्धिः कर्त्रादिधर्मकं विज्ञानम्। ‘विज्ञानं यज्ञं तनुते’ इति श्रुतेः । मनः सर्वबाह्यकरणानुग्राहकमन्तःकरणम् । भोगाधिकरणे देहे । एतेन विकारभाजां कर्त्रादीनां करणत्ववचनेन तदितरकर्त्रात्मकमधिष्ठानं विवेचितम् ॥१९॥
मनसा तात पर्येति क्रमशो विषयानिमान्
।
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः॥२०॥
द्वितीयप्रश्नोत्तरमाह । मनसेति । विषयस्य ग्राहकत्वेनायतनं स्थानमिन्द्रियं तत्स्थेन मनसा करणेन भूतात्मा जीवः क्षेत्रात् तेन तेन द्वारेण निःसृतः क्रमश इमान् रूपादीन् पर्येति । अनेन अन्यत्रमना अभूवं नाश्रौषमन्यत्रमना अभूवं नापश्यमित्याद्यनुभवस्य श्रुत्यैव प्रदर्शितत्वान्मनो नाम व्यापकं करणं सिद्धम् ॥२०॥
तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते
।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते॥२१॥
तत्रेति । तच्च मनस्तत्र विषयग्रहणे कर्तव्ये सति विधीयते । बुद्ध्या कर्त्र्या व्यापाराविष्टं क्रियतेऽतो व्यापारकालभेदान्मनो युगपद्विषयान्न गृह्णातीत्यर्थः ॥२१॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः
।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्॥२२॥
बुद्धेरपि परप्रेर्यत्वमाह स इति । यो बुद्धिमनइन्द्रियैः करणैरुपेतः सन् भोक्ता स्वतस्त्वभोक्तेत्युक्तः स आत्मा भ्रुवोरन्तरमाश्रित इति गुरूक्युक्त्या तदुपासकस्य तदुपलब्धिस्थानमुक्तम् । बुद्धिं द्रव्येषु रूपादिमत्सु ग्राह्येषु सृजति प्रेरयति । अयस्कान्त इव लोहम् । परावरामात्मानात्मविषयत्वेनोत्तमाधमाम् । कुलालश्चक्रमिव बुद्धिर्व्यापाराविष्टैव मनो व्यापारयति आत्मा तु न तथेत्यर्थः ॥२२॥
बुद्धेरुत्तरकाला च वेदना दृश्यते बुधैः
।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः॥२३॥
ननु बुद्धेरेव कर्तृत्वेन सर्वव्यवहारनिर्वाहे सति किं क्लीबसदृशेनात्मान्तरेणेत्याशङ्क्याह । बुद्धेरिति । बुद्धितदभावयोर्या वेदना ज्ञानं साक्षिरूपं बुधैर्योगिभिर्बुद्धेः सकाशाद्विविक्ततया दृश्यते युक्त्याऽनुभवेन च गृह्यते । एष तदेव ज्ञानं क्षेत्रज्ञभावन आत्म प्रकाशको विधिरज्ञातज्ञापनं स्वप्रकाशमित्यर्थः । न हि लयोदयवत्या बुद्धेरात्मत्वं सम्भवति । कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः ॥२३॥
युधिष्ठिर उवाच।
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्
।
एतदध्यात्मविदुषां परं कार्यं विधीयते॥२४॥
मनस इति । बुद्धिमनसोरन्यतरस्य कर्तृत्वं करणत्वं वाऽस्तु किमुभयकल्पनयेत्याशयः ॥२४॥
सर्प उवाच।
बुद्धिरात्मानुगातीव उत्पातेन विधीयते
।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्॥२५॥
कार्यभेदात् द्वयं कल्प्यत इत्याह । बुद्धिरिति । बुद्धिरतीवात्मानुगा अत्यन्तमात्मना सह तादात्म्यं प्राप्ता लोहपिण्ड इवाग्निना । अतः सा आत्मचैतन्यानुविद्धा । उत्पातेन उत्क्रान्त्यादिना । विधीयते वशीक्रियते । तथा चोत्पातवत्या अनुगत आत्माऽपि उत्पातवान् जलचन्द्रचाञ्चल्यन्यायेन भवति । एतेन बुद्ध्यात्मनोरन्योन्याध्यासो दर्शितः । इममेवाश्रित्य तार्किकास्तयोर्धर्मधर्मिभावमुपयन्ति । ननु अध्यस्यन्तामुपहितेषूपाधिधर्माः घटाकाशे इव घटगतिर्न तु विपरीतमपि घटे आकाशगतस्यास्पर्शत्वादेरदर्शनादित्याशङ्क्याह । तदाश्रिता हि सा ज्ञेयेति । प्रासद्धं हि आत्मचैतन्यं बुद्ध्याश्रितमत एव बौद्धा बुद्धिरेव चेतनेति वदन्ति । घटशब्दोऽयमिति दृष्टान्तेऽपि शब्दवत्त्वस्याकाशधर्मस्य घटेऽध्यासदर्शनात् । ननु अत्रान्योऽन्यस्मिन्नन्योऽन्यधर्मयोरेवाध्यास उत धर्मिणोरपि । आद्ये धर्मिणोः समसत्वेन द्वैतापात्तः । अन्त्ये द्वयोरपि मिथ्यात्वात्पत्त्या शून्यशेषतापत्तिरित्याशङ्क्याह बुद्धिस्तस्यैषिणी भवेदिति । बुद्धिः स्वरूपसिध्यर्थमात्मानमधिष्ठानमिच्छति । रज्जूरग इव रज्जुम् । तथा च धर्माणामेवान्योन्याध्यासो न तु धर्मिणोः शुक्तौ रजतस्येव रजते शुक्तेरध्यासाभावात् । अतो नोक्तदोषाद्वयप्रसङ्गः ॥२५॥
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि
।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत्॥२६॥
ननु आपद्यतां द्वैतं न तु सर्वप्रमाणसिद्धाया बुद्धेर्मिथ्यात्वं वक्तुं शक्यामत्याशङ्क्याह बुद्धिरुत्पद्यते कार्यादिति । विषयेन्द्रियसंयोगादेः कार्यात् बुद्धिरुत्पद्यते तन्निवृत्तौ निवर्तत इति बुद्धेरनित्यत्वं प्रसिद्धम् । नित्यानित्ययोश्चात्मबुध्योर्न धर्मधर्मिभावः सिद्ध्यति । घटे यावद्रूपाभावस्यादर्शनेनात्मनि यावद्दुःखाभावलक्षणस्य मोक्षस्यासिद्धेः। नापि संयोगः। स हि उभयकर्मजो वाऽन्यतरकर्मजो वा मल्लयोः पक्षिवृक्षयोर्वा दृष्टो न च विभुनाऽऽत्मना तादृशः संयोगो बुद्धेरस्ति । आकाशेनेव घटस्य । यत्तु तयोरपि संयोगमभ्युपगच्छन्ति तद्युक्तिशून्यं परिभाषामात्रम् । तस्माद्रज्जूरगयोरिवानिर्वचनीयस्तयोः सम्बन्ध इति रज्जुवदात्मा नित्यो रज्जूरगवदाविर्भावतिरोभाववती बुद्धिर्मिथ्येति युक्तमुत्पश्यामः। नन्वेवं बुद्धेराकस्मिकत्वे तद्धर्माणां दुःखादीनामप्याकस्मिकत्वापातात् कृतनाशाकृताभ्यागमस्तदवस्थ एवेत्याशङ्क्याह मनस्तूत्पन्नमेव हीति । बुद्धेर्नाशेऽपि तज्जन्यवासनातन्तुसन्तानात्मकं मनोऽस्त्येव। ततश्च पूर्ववासनया बुद्धिरुत्पद्यते बुद्ध्या च वासना विवर्धत इति अनादिरनन्ता चैषा बुद्धिवासनयोर्बीजाङ्कुरवत् सन्ततिः। तदेतदाह बुद्धेरिति । गुणविधानेन सुखाद्याकारपरिणामधारणेन । गुणविधिर्नास्तीति पाठे गुणविधिरुपादानत्वे नास्ति किं तूपादेयत्वमेव । मनस्तूपादानम् । पटतन्तुवदनयोर्भेद इत्यर्थः । तद्गुणवत् तद्वासनायुक्तम् ॥२६॥
एतद्विशेषणं तात मनोबुद्ध्योर्यदन्तरम्
।
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान्॥२७॥
विशेषणं व्यावर्तकम्। तस्मात्कार्यभेदान्मनोबुद्ध्योर्भेदस्तेन च वासनाबीजनाशात् संसाराङ्कुरो न जायत इति सिद्धम् ॥२७॥
युधिष्ठिर उवाच।
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव
।
विदितं वेदितव्यं ते कस्मान् समनुपृच्छसि॥२८॥
सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम्
।
एवमद्भुतकर्माणमिति मे संशयो महान्॥२९॥
सर्प उवाच।
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्
।
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥३०॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर
।
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्॥३१॥
जातमपि ज्ञानमैश्वर्यजाद्दर्पान्नश्यतीति ज्ञाततत्त्वोऽपि शमादीनाश्रयेदिति शेषग्रन्थतात्पर्यम्॥३१॥
कृतं कार्यं महाराज त्वया मम परन्तप
।
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना॥३२॥
अहं हि दिवि दिव्येन विमानेन चरन् पुरा
।
अभिमानेन मत्तः सन् कञ्चिन्नान्यमचिन्तयम्॥३३॥
ब्रह्मर्षि-देव-गन्धर्व-यक्ष-राक्षस-पन्नगाः
।
करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः॥३४॥
चक्षुषा यं प्रपद्यामि प्राणिनं पृथिवीपते
।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम॥३५॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम
।
स मामपनयो राजन् भ्रंशयामास वै श्रियः॥३६॥
तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः
।
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा॥३७॥
ततस्तस्माद्विमानाग्र्यात् प्रच्युतश्च्युतलक्षणः
।
प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्
।
आयाचन्तमहं विप्रं शापस्यान्तो भवेदिति॥३८॥
सर्प उवाच।
प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि
।
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः॥३९॥
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति
।
अभिमानस्य घोरस्य पापस्य च नराधिप॥४०॥
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि
।
ततो मे विस्मयो जातस्तदृष्ट्वा तपसो बलम्॥४१॥
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्
।
सत्यं दमस्तपो दानमहिंसा धर्मनित्यता॥४२॥
ब्राह्मणत्वं ब्रह्मविल्लक्षणम्। स्पष्टार्थमन्यत्॥४२॥
साधकानि सदा पुंसां न जातिर्न कुलं नृप
।
अरिष्ट एष ते भ्राता भीमसेनो महाबलः
।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः॥४३॥
वैशम्पायन उवाच।
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः
।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह॥४४॥
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः
।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्॥४५॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्
।
कथयामास तत् सर्वं धर्मराजो युधिष्ठिरः॥४६॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः
।
आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी॥४७॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया
।
मैवमित्यब्रुवन् भीमं गर्हयन्तोऽस्य साहसम्॥४८॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य र्भामं महाबलम्
।
हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः॥४९॥
इति श्रीमहाभारते आरण्यके पर्वणि आजगरपर्वणि भीममोचने एकाशीत्यधिकशततमोऽध्यायः॥१८१॥