वैशम्पायन उवाच।
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः
।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया॥१॥
काम्यकमिति ॥१॥
ततस्तान् परिविश्वस्तान् वसतः पाण्डुनन्दनान्
।
ब्राह्मणा बहवस्तत्र समन्तात् पर्यवारयन्॥२॥
अथाऽब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा
।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः॥३॥
शौरिः कृष्णः ॥३॥
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः
।
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः॥४॥
आयाता विदिता इत्यन्वयः । वः युष्माकं श्रेयोऽन्वेषी ॥४॥
बहुवत्सरजीवी च मार्कण्डेयो महातपाः
।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान् समेष्यति॥५॥
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः
।
शैब्यसुग्रीवयुक्तेन रथेन रथिनां वरः॥६॥
मघवानिव पौलोम्या सहितः सत्यभामया
।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्॥७॥
अवतीर्य रथात् कृष्णो धर्मराजं यथाविधि
।
ववन्दे मुदितो धीमान् भीमं च बलिनां वरम्॥८॥
पूजयामास धौम्यं च यमाभ्यामभिवादितः
।
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत्॥९॥
स दृष्ट्वा फाल्गुनं वीरं चिरस्य प्रियमागतम्
।
पर्यष्वजत दाशार्हः पुनः पुनररिन्दमः॥१०॥
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे
।
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया॥११॥
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः
।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः॥१२॥
कृष्णस्तु पार्थेन समेत्य विद्वान् धनञ्जयेनासुरतर्जनेन
।
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षात् भगवान् गुहेन॥१३॥
भूतपती रुद्रः । गुहेन कार्तिकेयेन ॥१३॥
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय
।
उक्त्वा यथावत् पुनरन्वपृच्छत् कथं सुभद्रा च स चाभिमन्युः॥१४॥
स पूजयित्वा मधुहा यथावत् पार्थं च कृष्णां च पुरोहितं च
।
उवाच राजानभिप्रशंसन् युधिष्ठिरं तत्र सहोपविश्य॥१५॥
मधुहा मधुसूदनः ॥१५॥
धर्मः परः पाण्डवराज्यलाभात् तस्यार्थमाहुस्तप एव राजन्
।
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽयं च परश्च लोकः॥१६॥
तस्यार्थं धर्मस्य वृद्ध्यर्थम् ॥१६॥
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
।
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः॥१७॥
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किञ्चित् कुरुषे नरेन्द्र
।
न चार्थलोभात् प्रजहासि धर्मं तस्मात् प्रभावादसि धर्मराजः॥१८॥
दानं च सत्यं च तपश्च राजन् श्रद्धा च बुद्धिश्च क्षमा धृतिश्च
।
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते॥१९॥
एषा दानादिरूपा सदा रतिः नित्यं प्रीतिविषयः ॥१९॥
यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत्
।
अपेतधर्मव्यवहारवृत्तं सहेत तत् पाण्डव कस्त्वदन्यः॥२०॥
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयिताऽसि सम्यक्
।
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता॥२१॥
निग्रहणे यत्ताः स्म इति शेषः ॥२१॥
धौम्यं च भीमं च युधिष्ठिरं च यमौ च कृष्णां च दशार्हसिंहः
।
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः॥२२॥
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः
।
दिष्ट्या समग्राऽसि धनंजयेन समागतेत्येवमुवाच कृष्णः॥२३॥
कृष्णे धनुर्वेदरतिप्रधानास्तवात्मजास्ते शिशवः सुशीलाः
।
सद्भिः सदैवाचरितं सुहृद्भिश्चरन्ति पुत्रास्तव याज्ञसेनि॥२४॥
तवात्मजाः प्रतिविन्ध्यादयः ॥२४॥
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च
।
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति॥२५॥
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः
।
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे॥२६॥
आनर्तं द्वारकादेशम् ॥२६॥
यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती
।
तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा॥२७॥
यथा त्वमर्हसि तथा सुभद्राऽर्हति । यथा कुन्ती प्रयोक्तुमर्हति तथा सुभद्राऽप्यर्हति । यथा चार्हति तथैव करोति चेति सम्बन्धः ॥२७॥
यथाऽनिरुद्धस्य यथाऽभिमन्योर्यथा सुनीथस्य यथैव भानोः
।
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः॥२८॥
विनेता शिक्षयिता । रौक्मिणेयः प्रद्युम्नः ॥२८॥
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने
।
सम्यग्विनेता विनयेदतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः॥२९॥
स चापि सम्यक् प्रणिधाय शिक्षां शस्त्राणि चैषां विधिवत् प्रदाय
।
तवात्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः॥३०॥
यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि
।
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च॥३१॥
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च
।
एते निदेशं तव पालयन्तस्तिष्ठन्तु यत्रेच्छसि तत्र राजन्॥३२॥
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम्
।
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा॥३३॥
मधूनां माथुराणाम् । हलायुधः प्रग्रहणो नियन्ता यस्याः सा सेना । यत्ता सन्नद्धा ॥३३॥
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः
।
स सानुबन्धः स सुहृद्गणश्च भौमस्य सौभाधिपतेश्च मार्गम्॥३४॥
कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम्
।
दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं भवन्तम्॥३५॥
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम्
।
ततः प्रसिद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम्॥३६॥
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन
।
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच॥३७॥
असंशयं केशव पाण्डवानां भवान् गतिस्त्वच्छरणा हि पार्थाः
।
कालोदये तच्च ततश्च भूयः कर्ता भवान् कर्म न संशयोऽस्ति॥३८॥
यथाप्रतिक्षं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु
।
अज्ञातचर्यां विधिवत् समाप्य भवद्गताः केशव पाण्डवेयाः॥३९॥
एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः
।
सदानधर्माः सजनाः सदाराः सबाधवास्त्वच्छरणा हि पार्थाः॥४०॥
वैशम्पायन उवाच।
तथा वदति वार्ष्णेये धर्मराजे च भारत
।
अथ पश्चात् तपोवृद्धो बहुवर्षसहस्रधृक्॥४१॥
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः
।
अजरश्चामरश्चैव रूपौदार्यगुणान्वितः॥४२॥
व्यदृश्यत तथा युक्तो यथा स्यात् पञ्चविंशकः
।
तमागतमृषिं वृद्धं बहुवर्षसहस्त्रिणम्॥४३॥
भौमस्य नरकासुरस्य सौभाधिपतेः शाल्वस्य पञ्चाविंशकः वर्षैरिति शेषः ॥४३॥
आनर्चुर्बाह्मणाः सर्वे कृष्णश्च सह पाण्डवैः
।
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्
।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः॥४४॥
सुविश्वस्तं भगवन्मायादौ दृढनिश्चयम् ॥४४॥
कृष्ण उवाच।
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः
।
द्रौपदी सत्यभामा च तथाऽहं परमं वचः॥४५॥
पुरावृत्ताः कथाः पुण्याः सदाचारान् सनातनान्
।
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः॥४६॥
वैशम्पायन उवाच।
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः
।
आजगाम विशुद्धात्मा पाण्डवानवलोककः॥४७॥
अवलोककः अवलोकनार्थी ॥४७॥
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः
।
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः॥४८॥
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्
।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत॥४९॥
उवाच चैनं कालज्ञः स्मयन्निव सनातनः
।
ब्रह्मर्षे कथ्यतां यत् ते पाण्डवेषु विवक्षितम्॥५०॥
सनातनः कृष्णः ॥५०॥
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः
।
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति॥५१॥
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः
।
मध्यन्दिने यथाऽऽदित्यं प्रेक्षन्तस्ते महामुनिम्॥५२॥
वैशम्पायन उवाच।
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्
।
कथासञ्जननार्थाय चोदयामास पाण्डवः॥५३॥
भवान् दैवतदैत्यानामृषीणां च महात्मनाम्
।
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः॥५४॥
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम्
।
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः॥५५॥
भवत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्
।
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः॥५६॥
भवत्येव हीति । धर्माधर्मफलयोर्विपर्ययं दृष्ट्वा पुरुषः कर्मणः फलं कथंस्विदश्नाति ईश्वरो वा कथंस्वित् कर्ताऽस्तीति धर्मेश्वरयोराक्षेपः। ऋद्ध्यतः समृद्धियुतान् ॥५६॥
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा
।
स फलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः॥५७॥
कथंस्विदित्यस्योभयत्र सम्बन्धः ॥५७॥
कुतो वा सुखदुःखेषु नृणां ब्रह्मविदां वर
।
इह वा कृतमन्वेति परदेहेऽथ वा पुनः॥५८॥
कुतो वेति । स्वभावात् कर्मणो वा । अन्त्ये इहैव परत्रापि वा । कृतं कर्मणा साधितं सुखमन्वेतीत्यर्थः ॥५८॥
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः
।
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम॥५९॥
शुभाशुभैः कर्मभिः सद्यो विनाशिभिरिह वा कारीर्यादिभिर्वृष्ट्याद्यर्थे विहितैः । परत्र वा देहत्यागे सति कथं संयुज्यते किमाश्रित्य च कर्माणि तिष्ठन्तीति फलस्य व्यभिचारादाशुविनाशित्वादाश्रयाभावाच्चेति त्रेधा प्राक्कर्मसद्भावाक्षेपः ॥५९॥
ऐहलौकिकमेवेह उताहो पारलौकिकम्
।
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव॥६०॥
मार्कण्डेय उवाच।
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर
।
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि॥६१॥
स्थित्यर्थं लोकरक्षार्थम् ॥६१॥
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु
।
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते॥६२॥
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्
।
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः॥६३॥
अमोघफलसङ्कल्पाः सुव्रताः सत्यवादिनः
।
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम॥६४॥
तत्र धर्माधर्मफलयोस्तावदव्यभिचारं दर्शयन् प्रथमं दोषं निरस्यति निर्मलानीत्यादिना ॥६४॥
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्
।
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः॥६५॥
स्वच्छन्दमरणाश्चासन् नराः स्वच्छन्दचारिणः
।
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः॥६६॥
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम्
।
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः॥६७॥
आसन् वर्षसहस्त्रीयास्तथा पुत्रसहस्रिणः
।
ततः कालान्तरेऽन्यस्मिन् पृथिवीतलचारिणः॥६८॥
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः
।
लोभमोहाभिभूताश्च त्यक्ता देहैस्ततो नराः॥६९॥
माया कूटकार्षापणादिः । व्याजं दम्भः तदेवोपजीवन्ति न तु धर्मम् । ते मायाव्याजोपजीविनः ॥६९॥
अशुभैः कर्मभिः पापास्तिर्यङ्निरयगामिनः
।
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः॥७०॥
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः
।
सर्वाभिशङ्किनश्चैव संवृत्ताः क्लेशदायिनः॥७१॥
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः
।
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः॥७२॥
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः
।
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः॥७३॥
नाथन्तः प्रार्थयमानाः । कामानां कामान् ॥७३॥
जन्तोः प्रेतस्य कौन्तय गतिः स्वैरिह कर्मभिः
।
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति॥७४॥
अन्त्यं प्रश्नमनुवदति जन्तोः प्रेतस्येति द्वाभ्याम् ॥७४॥
क्वस्थस्तत् समुपाश्नाति सुकृतं यदि वेतरत्
।
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु॥७५॥
अनुनयं सिद्धान्तम् ॥७५॥
अयमादिशरीरेण देवसृष्टेन मानवः
।
शुभानामशुभानां च कुरुते सञ्चयं महत्॥७६॥
तस्योत्तरेणैवार्थात् कर्मणामाशुविनाशित्वदोषो निरस्तो भवतीत्यभिसन्धायाह अयमादीति । आदिशरीरेण लिङ्गदेहेन यावन्मोक्षं स्थायिना देवसृष्टेन धर्माधर्मसंसृष्टेन । यद्वा । धर्माद्यनुरोधिना ईश्वरेण वा सृष्टेन आविष्कृतेन सर्ववासनामयं लिङ्गमेव कर्मणामाश्रय इत्यर्थः ॥७६॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
।
सम्भवत्येव युगपद्योनौ नास्त्यन्तराऽभवः॥७७॥
कलेवरं स्थूलदेहम् । युगपत् देहद्वयेन । सम्भवति संयुज्यते पूर्वत्यागात् प्रागेव तृणजलौकान्यायेनापरमादत्ते न तु तदनन्तरम् । अत एव अन्तरा मध्ये क्षणमात्रमपि अभवोऽसंसारो नास्ति ॥७७॥
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा
।
फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते॥७८॥
तत्र स्थूलदेहान्तरे । यत्तु मरणानन्तरं मध्ये यावद्गर्भवासमातिवाहिकशरीरारूढो दिवि भुव्यन्तरिक्षे बरके वा भवतीति तत् स्थूलदृष्ट्यैव ज्ञेयम् । उभयत्र भोगसाम्येन स्थूलातिवाहिकयोर्भेदाभावात् । यथोक्तं वसिष्ठेन ‘आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः । आधिभौतिकया बुद्ध्या गृहीतश्चिरभावनात्’ इति ॥७८॥
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः
।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः॥७९॥
कृतान्तो यमस्तत्सम्बन्धी विधिः पुण्यपापफलभोगे नियोगस्तेन संयुक्तस्तमनुतिष्ठन् निरादानः प्राप्तं सुखं दुःखं वा दूरीकर्तुमशक्तः । ‘दोऽवखण्डने ’ इत्यस्य रूपम् ॥७९॥
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर
।
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्॥८०॥
अबुद्धीनां तत्त्वज्ञानहीनानां गतिः स्वर्गनरकरूपा । उत्तमां पुनरावृत्तिवर्जिताम् ॥८०॥
मनुष्यास्तप्ततपसः सर्वागमपरायणाः
।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः॥८१॥
सुशीलाः शुक्लजातीया क्षान्ता दान्ताः सुतेजसः
।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः॥८२॥
शुक्लजातीयाः शुक्लो योगजो धर्मस्तत्प्रकारास्तदेकार्जनपराः ‘प्रकारवचने जातीयर्’ । योन्यन्तरमातिवाहिकयोन्यपेक्षयाऽन्यामाधिभौतिकीं योनिम् ॥८२॥
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः
।
अल्पाबाधपरित्रासाद्भवन्ति निरुपद्रवाः॥८३॥
वशिन ईश्वराः । मन्दरोगिणो नीरोगाः ‘न तत्र शोको न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ इति श्रुतेः। प्रारब्धकर्मप्राबल्यात् कदाचित् प्राप्तमेव चापक्वयोगिनां रोगादिकं चेत्तत्राह अल्पेति । अल्पं द्वैतदर्शनम् ‘अथ यत्रान्यत् पश्यत्यन्यच्छृणोति तदल्पम्’ इति श्रुतेः । तस्मात् आबाधो दुःखं ततस्त्रासात् निरुपद्रवा उप समीपे स्थित्वा द्रवति स्वीयं धर्ममासिञ्चतीत्युपद्रवोऽन्तःकरणम्। तद्रहिताः एतेन प्रारब्धस्यापि प्रतिघाताय निर्बीजः समाधिः प्रभवतीति दर्शितम् ॥८३॥
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः
।
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषा॥८४॥
ननु तादृशोऽप्यपान्तरतमा नाम वेदाचार्यः कलिद्वापरयोः सन्धौ सत्यवत्यां व्यासतया समजनि इति मोक्षधर्मेषु । अतः शुक्लजातीयानामपि उत्क्रान्तिगत्या गतयोऽपरिहार्या इत्याशङ्क्याह च्यवन्तमिति । अधिकारिणां तेषां लोकानुग्रहार्थं स्वेच्छया गृहाद्गृहान्तरप्रवेशवदिह परत्र च सञ्चारो न कर्माधीनतयाऽस्माकभित्र दुःखाय भवतीत्याशयः । तथा निर्णीतं यावदधिकारमवस्थितिराधिकारिकाणामित्यत्र ॥८४॥
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः
।
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्॥८५॥
किञ्चिद्दैवाद्धठात् किञ्चित् किञ्चिदेव स्वकर्मभिः
।
प्राप्नुवन्ति नरा राजन् मा तेऽस्त्वन्या विचारणा॥८६॥
दैवात् मूढोन्मत्तजडभरतादिभिर्यल्लभ्यते तद्दैवादेव । हठात् योगसिद्धैर्विश्वामित्रादिभिरितरैः स्वकर्मभिः । अन्या तेषामन्यतमा एकैव काचित् स्थितिरस्तीति विचारणा ते तव माऽस्तु ॥८६॥
इमामत्रोपमां चापि निबोध वदतां वर
।
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर॥८७॥
एवमात्मविदां स्वातन्त्र्यमुक्त्वा इतरेषां स्थितिचातुर्विध्यमाह इमामिति ॥८७॥
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह
।
इह वाऽमुत्र चैकस्य नामुत्रैकस्य नो इह॥८८॥
इह वेति । परं श्रेय इत्यनुकृष्यते । वाशब्द एवार्थे द्विरावर्तते । एकस्य इहैव परं श्रेयोऽस्ति नामुत्र परलोके । एकस्याऽमुत्रैवास्ति नत्विह । इह चामुत्र च एकस्य श्रेयोऽस्ति । एकस्य तूभयत्रापि नास्तीति ॥८८॥
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः
।
तेषामयं शत्रुवरघ्नलोको नासौ सदा देहसुखे रतानाम्॥८९॥
इममेव श्लोकं व्याचष्टे धनानीत्यादिना ॥८९॥
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान्
।
जितेन्द्रियाः प्राणिवधे निवृत्तास्तेषामसौ नायमरिघ्नलोकः॥९०॥
ये इति । तेषामसौ लोक एव नत्वयम् ॥९०॥
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले
।
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः॥९१॥
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ति
।
न चानुगच्छन्ति सुखान्नभोगांस्तेषामयं चैव परश्च लोकः॥९२॥
प्रजने पुत्रोत्पादने ॥९२॥
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः
।
लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः॥९३॥
भवन्तस्तु लोकद्वयेऽपि श्रेयांस इत्याह सर्वे भवन्त इति ॥९३॥
कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः
।
देवानृषीन् प्रेतगणांश्च सर्वान् सन्तर्पयित्वा विधिना परेण॥९४॥
स्वर्गं परं पुण्यकृतो निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः
।
माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्हम्॥९५॥
तस्मात् धर्माधर्मफलयोर्वैपरीत्यं यत्त्वया प्रागुक्तं तत्तथा न मन्तव्यमित्युपसंहरति माभूदिति ॥९५॥ मार्कण्डेयसमास्यायां सहासने इत्यर्थः ‘आस उपवेशने’ऽस्मात् ‘ण्यत्’ ।
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि त्र्यशीत्यधिकशततमोऽध्यायः॥१८३॥
वैशम्पायन उवाच।
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा
।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्॥१॥
ब्रह्मविदां शुक्लजातीयानां स्वच्छन्दमरणं तेषामित्यादिना प्रोक्तं महाभाग्यं प्रश्नपूर्वकं विवरीतुमयमध्याय आरभ्यते मार्कण्डेयमिति । कथ्यतां त्वया ॥१॥
एवमुक्तः स भगवान् मार्कण्डेयो महातपाः
।
उवाच सुमहातेजाः सर्वशास्त्रविशारदः॥२॥
मार्कण्डेय उवाच।
हैहयानां कुलकरो राजा परपुरञ्जयः
।
कुमारो रूपसम्पन्नो मृगयां व्यचरद्बली॥३॥
कुमारत्वादविवेक्तृत्वं सूचितम् ॥३॥
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते
।
कृष्णाजिनोत्तरासङ्गं ददर्श सुनिमन्तिके॥४॥
उत्तरासङ्गः प्रावरणम् ॥४॥
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम्
।
व्यथितः कर्म तत् कृत्वा शोकोपहतचेतनः॥५॥
जगाम हैहयानां वै सकाशं प्रथितात्मनाम्
।
राज्ञां राजीवनेत्रोऽसौ कुमारः पृथिवीपतिः
।
तेषां च तद्यथावृत्तं कथयामास वै तदा॥६॥
तं चापि हिंसितं तात मुनिं मूलफलाशिनम्
।
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः॥७॥
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः
।
जग्मुश्चारिष्टनेम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा॥८॥
अरिष्टनेमिशब्द इकारान्तोऽप्यत्र मन्नन्तोऽपि ज्ञेयः ॥८॥
तेऽभिवाद्य महात्मानं तं मुनिं नियतव्रतम्
।
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्॥९॥
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने
।
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः॥१०॥
तानब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः
।
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम्॥११॥
ते तु तत् सर्वमखिलमाख्यायास्मै यथातथम्
।
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः॥१२॥
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतचेतनाः
।
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः॥१३॥
तार्क्ष्यः तृक्षस्य कश्यपस्यापत्यम् ॥१३॥
स्यादयं ब्राह्मणः सोऽथ युष्माभिर्यो विनाशितः
।
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः॥१४॥
स्यादयमित्यङ्गुल्या निर्दिशति ॥१४॥
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः
।
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते॥१५॥
मृतो ह्ययमुपानीतः कथं जीवितमाप्तवान्
।
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः॥१६॥
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत
।
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः॥१७॥
कारणं वः प्रवक्ष्यामि हेतुयोगसमासतः
।
सत्यमेवाभिजानीमो नानृते कुर्महे मनः
।
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः॥१८॥
हेतुयोगो मुक्तिसम्बन्धः । समासः संक्षेपः। ताभ्यामिति पञ्चम्यर्थे तसिः। सत्यमेवाभिजानीम इत्यादिना सत्यादीनि मृत्युजयसाधनान्युच्यन्ते ॥१८॥
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे
।
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः॥१९॥
यदिति ब्राह्मणनिन्दाशून्याः स्तुतिपराश्च स्म इत्यर्थः ॥१९॥
अतिथीनन्नपानेन भृत्यानत्यशनेन च
।
सम्भोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः॥२०॥
भृत्यान् भार्यादीन् अत्यशनेन अशनादधिकेन दानमानादिना ॥२०॥
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः
।
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः
।
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः॥२१॥
पुण्यदेशो गङ्गातीरादिः। तेजस्विनां योगसिद्धानां देशः सामीप्यम् । तत्सङ्गादित्यर्थः ॥२१॥
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः
।
गच्छध्वं सहिताः सर्वे न पाणद्भयमस्ति वः॥२२॥
एतद्वै इति । यौष्माकीणम् हत्यादोषमपि संलापमात्राद्वयं हन्तुं समर्थाः स्म इत्यर्थः ॥२२॥
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्
।
स्वदेशमगमन् हृष्टा राजानो भरतर्षभ॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणमाहात्म्यकथने चतुरशीत्यधिकशततमोऽध्यायः॥१८४॥
मार्कण्डेय उवाच।
भूय एव महाभाग्यं ब्राह्मणानां निबोध मे
।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः॥१॥
मृत्युजयहेतुः पूर्वोक्तः सत्यादिर्धर्मो वनस्थानामेव युज्यते न तु गृहस्थानाम् । तेषां दुष्प्रतिग्रहब्रह्मविद्वेषादिना दोषप्रसक्त्या तादृशधर्मसम्भवादित्याशयवानध्यायमारभते भूय इति ॥१॥
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्
।
भूयोऽर्थं नानुरुध्यत् स धर्मव्यक्तिनिदर्शनात्॥२॥
सोऽत्रिरर्थं भूयो नानुरुध्यत् अत्यन्तमर्थार्थ न बभूव । कुतः धर्मव्यक्तिर्धर्मस्य फलद्वाराऽभिव्यक्तिः । फलव्यक्त्या हि धर्मो नश्यति अतस्तद्रक्षणार्थं नैच्छदित्यर्थः ॥२॥
स विचिन्त्य महातेजा वनमेवान्वरोचयत्
।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह॥३॥
वनं गन्तुमिति शेषः ॥३॥
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्
।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्॥४॥
निरुपद्रवमक्षयं मोक्षाख्यम् ॥४॥
तं भार्या प्रत्युवाचाथ धर्ममेवानुतन्वती
।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु॥५॥
धर्मे यज्ञादिकमनुतन्वती विस्तारयन्ती । हेतौ शतृप्रत्ययः । धर्मार्थे धनमेवार्जयस्वेत्युवाचेत्यर्थः ॥५॥
स ते दास्यति राजर्षिर्यजमानोऽर्थितो धनम्
।
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु॥६॥
भृत्यान् सुतान् संविभज्य ततो व्रज यथेप्सितम्
।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः॥७॥
भृत्यानित्यतिथिदेवतादीनां सुतानिति भार्यार्दानां चोपलक्षणम् । धर्मविद्भिर्मन्वादिभिः । ‘अनधीत्य द्विजो वेदाननुत्पाद्य सुतानपि । अनिष्ट्वा विधिवद्यज्ञैर्मोक्षमिच्छन् व्रजत्यधः’ इति वदद्भिः॥७॥
अत्रिरुवाच।
कथितो मे महाभागे गौतमेन महात्मना
।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः॥८॥
किन्त्वस्ति तत्र द्वेष्टारो विवसन्ति हि मे द्विजाः
।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्॥९॥
व्यवसामि उद्यमं करोमि ॥९॥
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्
।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम्॥१०॥
निरर्थिकामपि वाचं वदतां पराजयोऽपि पापावह इति भावः । तथा च स्मृतिः ‘गुरुं त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः’ इति ॥१०॥
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव
।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम्॥११॥
एवं जानन्नपि स्नेहदोषात्तत् कर्तुं प्रतिजानीते - गमिष्यामीति॥११॥
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः
।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्॥१२॥
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः
।
अत्रिरुवाच।
राजन् धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः॥१३॥
पूजयान इति । ‘तङ्’ कर्तृगामित्वात् स्तुतिफलस्य युक्तः । धन्यो धनार्हः। ईश ईशिता नियन्ता प्रथमः हिरण्यगर्भ इव अग्रजो नृपो मनुष्याणां रक्षकः ॥१३॥
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्
।
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः॥१४॥
गौतम उवाच।
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता
।
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः॥१५॥
अत्र परलोकमेव बहु मन्वानो गौतम आह - मैवमिति ॥१५॥
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत
।
अयमेव विधाता हि यथैवेन्द्रः प्रजापतिः
।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह॥१६॥
तत्रेन्द्र इवात्र राजैव महेन्द्र इति वित्तार्थी अत्रिः परपक्षं दूषयति - अथेति ॥१६॥
गौतम उवाच।
जानामि नाहं मुह्यामि त्वमेवात्र विमुह्यसे
।
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि॥१७॥
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम्
।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना॥१८॥
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ
।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ॥१९॥
दर्शने दृष्टिपथे ॥१९॥
प्रवेशः केन दत्तोऽयमुभयोर्वैन्यसंसदि
।
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ॥२०॥
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्
।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत्॥२१॥
अथाब्रवीत् सदस्यांस्तु गौतमो मुनिसत्तमान्
।
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः॥२२॥
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान्
।
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् द्रुतम्॥२३॥
नौ आवयोः ॥२३॥
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै
।
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः
।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः॥२४॥
सनत्कुमार उवाच।
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह
।
संयुक्तौ दहतः शत्रून् वनानीवाग्निमारुतौ॥२५॥
ब्राह्मण बलेन राज्ञो बलं न तु स्वकीयमिति समाधानग्रन्थार्थस्तेन गौतमोक्ता निन्दाऽपि व्यर्था । नाप्यत्रिप्रोक्ता स्तुतिरपि निर्मूलेति ज्ञेयम् । यद्यपि लोभमूलकत्वं स्तुतिपक्षे स्पष्टमप्रामाप्यकारणं तथाऽप्यविद्यमानैरपि विशेषणैर्धनार्थिना राजा स्तोतव्य इति सनत्कुमाराशयः ॥२५॥
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च
।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः॥२६॥
प्रथितः प्रथां गतः । धर्मो धर्मस्थापकः । शक्रो रक्षिता । शुक्रो नीतिवित् । धाता अत एव जनकः । बृहस्पतिः हितोपदेष्टा ॥२६॥
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नुपः
।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥२७॥
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः
।
स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते॥२८॥
पुरायोनिः - धर्मप्रवर्तकत्वेन प्रथमं कारणम् । युधाजित् - सङ्ग्रामे जयकर्तृत्वेनोपद्रवनाशकः । अभियाः - अभितो याति यामिकवद्रक्षणार्थामत्यभियाः। मुदितो भवः - ईश्वरः । स्वर्णेता - स्वर्गं प्रति गमयिता । सहजित् सद्यो जयशीलः। बभ्रुर्विष्णुः। ‘बभ्रुर्ना नकुले विष्णौ विपुले पिङ्गले त्रिषु’ इति बलशर्मा ॥२८॥
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः
।
अधर्मादृषयो भीता बलं क्षत्रे समादधन्॥२९॥
अधर्मादिति । सर्वं ब्राह्मं बलं क्षत्रेऽस्तीत्यर्थः ॥२९॥
आदित्यो दिवि देवेषु तमो नुदति तेजसा
।
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम्॥३०॥
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्
।
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम्॥३१॥
मार्कण्डेय उवाच।
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः
।
तमत्रिमब्रवीत् प्रीतः पूर्वं येनाभिसंस्तुतः॥३२॥
यस्मात् पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः
।
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च॥३३॥
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च
।
दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम्॥३४॥
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश
।
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे॥३५॥
तदत्रिर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः
।
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः॥३६॥
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्
।
तपः समभिसन्धाय वनमेवान्वपद्यत॥३७॥
सत्यादिधर्मफलं वने एव सिद्ध्यतीत्याख्यायिकावसानमुखेनोपसंहरति - प्रदाय चेति ॥३७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणमाहात्म्ये पञ्चाशीत्यधिकशततमोऽध्यायः॥१८५॥
मार्कण्डेय उवाच।
अत्रैव च सरस्वत्या गीतं परपुरञ्जय
।
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता॥१॥
वने सत्यादिधर्मवता यत् कर्तव्यं यत् प्राप्यं यच्च ज्ञेयं तदाहाध्यायेन - अत्रैव च सरस्वत्येत्यादिना । सरस्वती यज्ञभोक्त्त्री यज्ञफलदात्री च देवता । अग्निहोत्रादहमभ्यागताऽस्माति वाक्यशेषात् ॥१॥
तार्थ्य उवाच।
किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात्
।
आचक्ष्व मे चारुसर्वाङ्गि कुर्यात् त्वया शिष्टो न च्यवेयं स्वधर्मात्॥२॥
कथं कुर्यात् श्रेय इत्यावर्तते ॥२॥
कथं वाऽग्निं जुहुयां पूजये वा कस्मिन् काले केन धर्मो न नश्येत्
।
एतत् सर्वं सुभगे प्रब्रवीहि यथा लोकान् विरजाः सञ्चरेयम्॥३॥
लोकान् कामान् । विरजा आसक्तिहीनः । चरेयमुपलभेयम् । तेषां सर्वेषु कामचारो भवतीति श्रुतिप्रसिद्धसर्वकामभाक्तृत्वरूपं फलं केनोपायेन प्राप्नुयादित्यर्थः ॥३॥
मार्कण्डेय उवाच।
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्
।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे॥४॥
सरस्वत्युवाच
।
यो ब्रह्म जानाति यथा प्रदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः
।
स वै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात् प्रीतियोगम्॥५॥
ब्रह्म सगुणं हार्दाकाशाख्यम् । यथाप्रदेशं देशभेदमनतिक्रान्तमर्चिरादिमार्गेण लभ्यमित्यर्थः । निर्गुणविदो न तस्य प्राणा उत्क्रामन्ति इति गतिनिषेधात् । स्वाध्यायः प्रणवजपः । देवलोकस्य पारं कार्यब्रह्मलोकम् ॥५॥
तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः
।
अकर्दमा मनिवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः॥६॥
एनमेव स्तौति द्वाभ्यां तत्रेति ॥६॥
तासां तीरेष्वासते पुण्यभाजो न हीयमानाः पृथगप्सरोभिः
।
सुपुण्यगन्धाभिरलङ्कृताभिर्हिरण्यवर्णाभिरतीव हृष्टाः॥७॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वाऽनडुहं सूर्यलोकं व्रजन्ति
।
वासो दत्वा चान्द्रमसं तु लोकं दत्वा हिरण्यममरत्वमेति॥८॥
देवलोकस्य पारस्तावत् दूरेऽस्तु । स एव तु कथं प्राप्यत इत्यत आह - परमित्यादिना । अनडुहमनड्वाहं शकटवहनसमर्थं बलीवर्दम् ॥८॥
धेनुं दत्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च
।
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यासते देवलोके॥९॥
धेनुं दोग्ध्रीं गाम् ॥९॥
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्
।
धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान् दश धेनुदस्य॥१०॥
ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयैः
।
तैस्तैर्गुणैः कामदुहाऽथ भूत्वा नरं प्रदातारमुपैति सा गौः॥११॥
उत्तरीयैः पश्चाद्भवैर्दक्षिणादिभिर्द्रव्यैः सहिताम् ॥११॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावत् फलं भवति गोप्रदाने
।
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र॥१२॥
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः
।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति॥१३॥
तिलधेनुर्दानकाण्डे प्रसिद्धा ॥१३॥
स्वकर्मभिर्दानवसन्निरुद्धे तीव्रान्धकारे नरके सम्पतन्तम्
।
महार्णवे नौरिव वातयुक्तादानं गवां तारयते परत्र॥१४॥
दानवैः कामक्रोधादिभिः सन्निरुद्धे व्याप्ते तीव्रान्धकारेऽन्धे तमसि देहाभिनिवेशाख्ये तारयते योगविघ्नान्नाशयति ॥१४॥
यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे
।
ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरन्दरस्य॥१५॥
ब्राह्मदेयां ब्राह्मेण ‘अलङ्कृत्य कन्यामुदकपूर्वी दद्यादेष ब्राह्मो विवाहः’ इति गृह्योक्तेन विधिना देयाम् ॥१५॥
यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशीलः
।
सप्तावरान् सप्त पूर्वान् पुनाति पितामहानात्मना कर्मभिः स्वैः॥१६॥
यः सप्तेति । श्रौतं धर्ममनुतिष्ठन्नात्मना सह पूर्वानपरांश्च तारयतीत्यर्थः ॥१६॥
तार्थ्य उवाच।
किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चानुरूपे
।
त्वयाऽनुशिष्टोऽह मिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम्॥१७॥
अभिहोत्रं जुह्वानो लोभजालं भिनक्त्यतः सम्मोहं छित्त्वेत्यादिना मैत्रायणीयोपनिषद्यग्निहोत्रस्य ज्ञानान्तरङ्गत्वमुक्तमतस्तदाश्रितमेव विशेषं व्रतादिकं पृच्छति - किमिति । पुराणं वेदोदितम् ॥१७॥
सरस्वत्युवाच
।
न वा शुचिर्नाप्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित्
।
बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति॥१८॥
अनिर्णिक्तपादोऽप्रक्षालितपाणिपादोऽनाचान्तश्च । अब्रह्मवित् वेदं पाठतोऽर्थतश्चाविद्वान् । अविपश्चित् - वेदादधिगतस्यार्थस्यानुभवहीनः । बुभुत्सवः परचित्तं ज्ञातुमिच्छवः यस्मात् शुचिकामाः जुषन्ति सेवन्ते ॥१८॥
नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं पुरा सिञ्चति तादृशो हि
।
अपूर्वमश्रोत्रियमाह तार्क्ष्य न वै तादृक् जुहुयादग्निहोत्रम्॥१९॥
ऋत्विगप्येवंविध एव कर्तव्य इत्याह - नाश्रोत्रियमिति । देवहव्ये देवानां हव्यदानादौ मोघं निष्फलम् । पुरेति शीलगोत्रादिज्ञानात् प्राक् । अपूर्वमज्ञातकुलशीलमाह वेद इति शेषः ॥१९॥
कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च
।
गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम्॥२०॥
कृशाः धनादिप्रभवेण दर्पेण हीनाः ऋत्विजो यजमाना वा गवां लोकं कार्यब्रह्मलोकसमीपस्थं परमं च देवं ब्रह्माणं ततः क्रमेण सत्यं च परमं ब्रह्माख्यं पश्यन्ति । एतेन सर्वगुणयुक्तस्याग्निहोत्रस्य परम्परया कैवल्यजनकत्वमुक्तम् ॥२०॥
तार्थ्य उवाच।
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतिप्रविष्टाम्
।
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे॥२१॥
क्षेत्रज्ञभूतां परमात्मरूपां त्वां प्रज्ञां पृच्छामि । त्वं च काऽसीति पृच्छामि । प्रज्ञां विशिनष्टि परो लोक आत्मा तस्य भावे स्वरूपे विषये कर्मोदये कर्मफले ब्रह्मलोकान्ते च विषये बुद्धिम् अति-उत्कृष्टतरां बुद्धिं प्रविष्टां कर्मब्रह्मतत्त्वयोर्निविष्टामित्यर्थः । किं कृत्वा त्वां देवीम् उभयतत्त्वं द्योतयन्तीम् विमृश्य ज्ञात्वा ॥२१॥
सरस्वत्युवाच।
अग्निहोत्रादहमभ्यागताऽस्मि विप्रर्षभाणां संशयच्छेदनाय
।
त्वत्संयोगादहमेतमब्रुवं भावे स्थिता तथ्यमर्थं यथावत्॥२२॥
अग्निहोत्रात् सत्कर्मणः सकाशादहं परापरविद्यारूपा सरस्वत्यभ्यागता आविर्भूताऽस्मि । त्वत्संयोगात् त्वत्सन्निधिं प्राप्य एतमर्थं कर्मणां पारम्पर्येण कैवल्यहेतुत्वं सगुणब्रह्मविद्यां चाब्रुवम् । यतोऽहं भावे स्थिता श्रद्धावानग्निहोत्रादिना देवताप्रसादं प्राप्य कर्मोपास्तिज्ञानफलानि विन्दतीत्यर्थः ॥२२॥
तार्क्ष्य उवाच।
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः
।
रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि॥२३॥
न हि त्वयेतिश्लोकत्रयतात्पर्यं सोपासनेन कर्मणा विद्या समुल्लसतीति ॥२३॥
सरस्वत्युवाच।
श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति
।
तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र॥२४॥
यज्ञेषु श्रेष्ठानि कर्माङ्गावबद्धोपासनानि । उपासनास्वरूपं च ‘अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्’ इति भगवदुपदिष्टं सर्वेषु यज्ञाङ्गेषु ब्रह्मदृष्टिकरणम् ॥२४॥
यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा
।
दिव्येन रूपेण च प्रज्ञया च तवैव सिद्धिरिति विद्धि विद्वन्॥२५॥
वानस्पत्यं समिज्जुह्वादि । आयसं सौवर्णादि । पार्थिवं व्रीह्यादि । दिव्येन दिवे स्वार्गाय हितेन रूपेण । प्रज्ञया ‘अहं क्रतुः-’ इत्यादिना उक्तविधप्रज्ञात्मकेन तवैव प्रत्यगात्मनः सिद्धिः प्राप्तिर्मुक्तिर्वा न त्वनात्मभूतस्थानान्तरसिद्धिरिति विद्धि ॥२५॥
तार्क्ष्य उवाच।
इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः सम्प्रतीताः
।
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः॥
साङ्ख्या योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि॥२६॥
इदं तवैव सिद्धिरित्यनेनोपक्षिप्तं प्रत्यग्रूपं व्यायच्छन्ते निगृह्णन्ति । इन्द्रियादीनीति शेषः। सम्प्रतीताः साम्यग्विश्वासयुक्ताः ॥२६॥
सरस्वत्युवाच।
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्
।
स्वाध्यायवन्तो व्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः॥२७॥
वेदविद एव प्रपन्ना न त्ववैदिकाः । ‘नावेदविन्मनुते तं बृहन्तम्’ इति श्रुतेः । परं ब्रह्म परेभ्यो विराट्सूत्रान्तर्यामिभ्यः सोपाधिकेभ्यः परं निरुपाधिकत्वात् श्रेष्ठं प्रथितं सच्चिदानन्दरूपेण सर्वत्र प्रथां गतम्। यथोक्तम् - ‘अस्ति भाति प्रियं रूपं नाम चेत्यर्थपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततोऽद्वयम्’ इति । पुराणं पुराऽपि नवम् । तेन सोपाधिकानामुत्पत्तिः सूचिता । व्रतमहिंसादि । पुण्यं जपादि । योगश्चित्तवृत्तिनिरोधस्तैः । तपः स्वधर्माचरणमेव धनं येषां ते प्राप्नुवन्तीति शेषः ॥२७॥
तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विपुलो विभाति
।
तस्य मूलात् सरितः प्रस्त्रवन्ति मधूदकप्रस्त्रवणाः सुपुण्याः॥२८॥
अस्य प्रत्यग्वस्तुनोऽद्वयत्वसिद्ध्यर्थमित एवान्तर्याम्यादिना समुत्थानमाह तस्येति । तस्य चिदात्मनः । मध्ये वेतसो वञ्जुलतरुरिव सबीजाङ्कुरो ब्रह्माण्डवृक्षश्चिता परिच्छेद्यत्वात् तन्मध्यस्थः । पुण्यो रमणीयो गन्ध इव गन्धादिर्विषयो धर्मज्ञानवैराग्यैश्वर्यवति यस्मिन्नस्तीति पुण्यगन्धः । सहस्त्रमनन्तं शाखा इव भोगस्थानानि यस्मिन् ‘विपुलोऽपरिच्छिन्नो विभाति । तस्य मूलादविद्यारूपात् सरित इव सन्ततप्रवाहवत्यो भोगवासनाः प्रस्रवन्ति उत्तिष्ठन्ति । मधुवन्मृष्टमुदकवदाप्यायनकरं भोगजं सुखं प्रस्त्रवन्ति ताः मधूदकप्रस्रवणाः । ‘भोगवासना हि उत्तरकालीनं भोगसुखं प्रवृत्तिजननादिद्वारा प्रस्त्रवति’ इति प्रसिद्धम् ॥२८॥
शाखां शाखां महानद्यः संयान्ति सिकताशयाः
।
धानापूपा मांसशाकाः सदा पायसकर्दमाः ॥२९॥
शाखामिति । महानद्यो वासनाः । पुरा शाखां शाखां तत्तद्भोगस्थानं संयान्ति । स्वप्रवाहपतितं पुरुषं नयन्तीत्यर्थः । पुण्यवासनया पुण्यमाचरन् स्वर्गं गच्छति । एवमन्यत्रापि । सिकता इव परस्परमसंश्लिष्टाः पुत्रपश्वादयस्तासु शेरते । ताः सिकताशयाः पुत्रादिविषया इत्यर्थः । धानाः भृष्टयवा अपूपाः सच्छिद्रं भक्ष्यम् । शेषं प्रसिद्धम् । धानादिकं मधूदकस्थानीयस्य सुखस्य विशेषणम् । विषयसुखं हि धानावन्न स्वसजातीयं प्रसूते। अपूपवदनेकच्छिद्रयुक्तं मांसवत् हिंसालभ्यम्। ‘नानुपहत्य भूतानि भोगः सम्भवति’ इति प्रसिद्धेः। शाकवदल्पसारं पायसत्रन्मुखमधुरं पाके गुरुतरं च । कर्दमवत् चित्तपटस्य मलिनीकरणं चेति परचैतन्यभूमौ अनाद्यविद्यामूलादुत्थितोऽयं संसारवृक्षोऽतिविरसफलो विद्ययाऽविद्यानाशात् समूलमुन्मूलनीय इत्यर्थः। तथाच चिदद्वैतमव्याहतम् ॥२९॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः
।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मम॥३०॥
यस्मिन् यत्प्राप्तिनिमितं श्रेष्ठैः क्रतुभिर्योगयज्ञैरग्न्यादयो यत् गच्छन्ति तत् मम विद्यारूपायाः सरस्वत्याः पदं पदनीयं प्रापणीयं स्थानं परमं सर्वोत्कृष्टं ज्ञातृज्ञानज्ञेयभानशून्यं ब्रह्माद्वैतम् ॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि सरस्वतीतार्क्ष्यसंवादे षडशीत्यधिकशततमोऽध्यायः॥१८६॥
वैशम्पायन उवाच।
ततः स पाण्डवो विप्रं मार्कण्डेयमुवाच ह
।
कथयस्वेति चरितं मनोर्वैवस्वतस्य च॥१॥
पूर्वत्र चिद्धूमौ अविद्यामूलो जगद्वृक्ष उत्थितः । सोऽविद्याक्षये भूमावेव लीयत इति दर्शितम्। तत्र सकृदविद्याक्षये संसारभानं न स्यात्। दृश्यते च क्षीणाविद्यानामपि मार्कण्डेयादीनां संसारभानमस्मादिवदिति जीवन्मुक्तौ सन्दिहानो राजा मार्कण्डेयमुवाचेत्याह ततः स इति। मनोः मनुते इति अभिमानात्मकोऽहङ्कारो मनुः । विशेषेण वस्ते आच्छादयति चित्प्रकाशमिति विवोऽज्ञानं तद्वान् विवस्वान् मायावी ईश्वरः । ‘मायिनं तु महेश्वरम्’ इतिश्रुतेः । स एव वैवस्वतः । तस्य वैवस्वतस्य चरितं सञ्चरणमविद्यानाशे सत्याविद्यकोऽहङ्कारः कथं सञ्चरति न हि तन्तुदाहे पटस्तिष्ठतीत्याक्षेपः ॥१॥
मार्कण्डेय उवाच।
विवस्वतः सुतो राजन् महर्षिः सुप्रतापवान्
।
बभूव नरशार्दूल प्रजापतिसमद्युतिः॥२॥
अपरस्त्वाख्यायिकामनुसृत्यैव उत्तरमाह विवस्वत इत्यादिना । अत्र परब्रह्मण एव रूपान्तरं मत्स्याख्यो जीवः सोऽहङ्कारेण मनुना उत्तरोत्तरश्रेष्ठेषु अलिञ्जजरादिरूपेषु स्थूलदेहेषु तपोबलान्निपात्यते । स च समुद्राख्ये वैराजे देहे निपतितश्च कल्पान्तेऽविद्यानाशरूपे सत्यपि दग्धपटन्यायेनानुवर्तमानमहङ्कारं सप्तार्षिसंज्ञकैः प्राणादिभिर्बीजसंज्ञैः प्रारब्धकर्मभिश्च सहितं चरमदेहनाव्यारूढं वासनावरत्रयाजीवमत्स्येन प्रलयकालेऽप्यूह्यमानं मेरुशृङ्गसमेऽचले भगवतो रूपे सद्वासनया लब्धास्पदं विलीनमनुलक्ष्य जीवमत्स्योऽदर्शनं प्राप्नोति । विलीने ह्यहङ्कारे जीवत्वं नश्यति । स पुनर्निरस्तजीवभावोऽहङ्कारो ब्रह्मरूपतामापन्नो यथापूर्वं वासनया जगत् सृजति । नष्टेऽप्यविद्याख्ये कारणे संसारभानलक्षणं कार्यं चक्रभ्रमिवत् कञ्चित्कालमनुवर्तत इत्यध्यायतात्पर्यम् ॥२॥
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः
।
अतिचक्राम पितरं मनुः स्वं च पितामहम्॥३॥
अक्षरार्थस्तु पितरमीश्वरं पितामहं शुद्धं ब्रह्मातिचक्राम देहादावावेशबलात् न मनुत इत्यर्थः॥३॥
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिप
।
एकपादस्थितस्तीव्रं चकार सुमहत्तपः॥४॥
एवमहङ्कारस्य ईशाद्यज्ञानात् बन्धे प्रसक्ते तपसस्तन्निवृत्त्युपायत्वमाह उर्ध्वबाहुरित्यादिना ॥४॥
अवाक्शिरास्तथाचापि नेत्रैरनिमिषैर्दृढम्
।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा॥५॥
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्
।
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्॥६॥
चीरिणी नदीविशेषः ॥६॥
भगवन् क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम
।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत॥७॥
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः
।
आस्वदन्ति सदा वृत्तिर्विहिता नः सनातनी॥८॥
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः
।
त्रातुमर्हास कर्ताऽस्मि कृते प्रतिकृतं तव॥९॥
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः
।
मनुर्वैवस्वतो गृह्णात्तं मत्स्यं पाणिना स्वयम्॥१०॥
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः
।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभे॥११॥
अलिञ्जरे मणिकाख्यपात्रे ॥११॥
स तत्र ववृधे राजन् मत्स्यः परमसत्कृतः
।
पुत्रवत् स्वीकरोत् तस्मै मनुर्भावं विशेषतः॥१२॥
अथ कालेन महता स मत्स्यः सुमहानभूत्
।
अलिञ्जरे यथा चैव नासौ समभवत् किल॥१३॥
न समभवत् स्थूलत्वेन न ममावित्यर्यः ॥१३॥
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाऽभ्यभाषत
।
भगवन् साधु मेऽद्यान्यत् स्थानं सम्प्रतिपादय॥१४॥
उद्धृत्यालिञ्जरात्तस्मात् ततः स भगवान् मनुः
।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा॥१५॥
तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय
।
अथावर्धत मत्स्यः स पुनर्वर्षगणान् बहून्॥१६॥
द्वियोजनायता वापी विस्तृता चापि योजनम्
।
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन॥१७॥
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशाम्पते
।
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत॥१८॥
नय मां भगवन् साधो समुद्रमहिषीं प्रियाम्
।
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे॥१९॥
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता
।
वृद्धिर्हिपरमा प्राप्ता त्वत्कृते हि मयाऽनघ॥२०॥
एवमुक्तो मनुर्मत्स्यमनयद्भगवान् वशी
।
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः॥२१॥
स मत्स्योऽच्युत इति सम्बन्धः ॥२१॥
स तत्र ववृधे मत्स्यः किञ्चित्कालमरिन्दम
।
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्॥२२॥
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो
।
समुद्रं नय मामाशु प्रसीद भगवन्निति॥२३॥
उद्धृत्य गङ्गासलिलात् ततो मत्स्यं मनुः स्वयम्
।
समुद्रमनयत् पार्थ तत्र चैनमवासृजत्॥२४॥
सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा
।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखस्य वै॥२५॥
मत्स्यस्पर्शगन्धजं चिदाभाससम्पर्कजं सुखं यस्यास्तीति तस्य मनोः ॥२५॥
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा
।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्॥२६॥
भगवन् हि कृता रक्षा त्वया सर्वा विशेषतः
।
प्राप्तकालं तु यत् कार्यं त्वया तच्छूयतां मम॥२७॥
अचिराद्भगवन् भौममिदं स्थावरजङ्गमम्
।
सर्वमेव महाभाग प्रलयं वै गमिष्यति॥२८॥
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः
।
तस्मात् त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम्॥२९॥
सम्प्रक्षालनमेकीभावेन शुक्तिरजतस्येव प्रपञ्चमलस्य दूरीकरणम् ॥२९॥
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति
।
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः॥३०॥
त्रसानां जङ्गमानामङ्ग चलनशालं वृक्षादि। नेङ्गति पाषाणादि। कालोऽन्तः ॥३०॥
नौश्च कारयितव्या ते दृढा युक्तवटारका
।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने॥३१॥
वटारका रज्जुः । 'वट वेष्टनेऽस्यरूपम् । सप्तर्षिभिः प्राणेन्द्रियैः ॥३१॥
बीजानि चैव सर्वाणि यथोक्तानि द्विजैः पुरा
।
तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः॥३२॥
बीजानि कर्माणि सुसङ्गुप्तानि दर्शनायोग्यान्यदृष्टानीत्यर्थः ॥३२॥
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय
।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस॥३३॥
मामन्तरात्मानं प्रतीक्षेथाः प्रतीपं जडानृतादिप्रातिकूल्येन ईक्षेथाः आलोचय । आगमिष्याम्याविर्भविष्यामि । शृङ्गी श्रृणाति हिनस्ति जीवोपाधीन् बाधते इति श्रृङ्गं मूर्तिस्तद्वान् । कथापक्षे सुगममेव ॥३३॥
एवमेतत् त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्
।
ता न शक्या महत्यो वे आपस्तर्तुं मया विना॥३४॥
आपः संसारः मया विना मदीयं ज्ञानं विना ॥३४॥
नाभिशङ्क्यमिदं चापि वचनं मे त्वया विभो
।
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत॥३५॥
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्
।
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह॥३६॥
बीजान्यादाय सर्वाणि सागरं पुप्लवे तदा
।
नौकया शुभया वीर महोर्मिणमरिन्दम॥३७॥
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते
।
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय॥३८॥
शृङ्गी तत्राजगामाशु तदा भरतसत्तम
।
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे॥३९॥
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम्
।
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि॥४०॥
मनुर्मनुजशार्दुल तस्मिन् शृङ्गे न्यवेशयत्
।
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय॥४१॥
वेगेन महता नावं प्राकर्षल्लवणाम्भसि
।
स च तांस्तारयन्नावा समुद्रं मनुजेश्वर॥४२॥
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा
।
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन् महोदधौ॥४३॥
धूर्णते चपलेव स्त्री मत्ता परपुरञ्जय
।
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे॥४४॥
सर्वमाम्भसमेवासीत् खं द्यौश्च नरपुङ्गव
।
एवंभूते तदा लोके सङ्कुले भरतर्षभ॥४५॥
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च
।
एवं बहून् वर्षगणांस्तां नावं सोऽथ मत्स्यकः॥४६॥
चकर्षातन्द्रितो राजंस्तस्मिन् सलिलसञ्चये
।
ततो हिमवतः शृङ्गं यत्परं भरतर्षभ॥४७॥
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन
।
अथाब्रवीत्तदा मत्स्यस्तानृषीन् प्रहसन् शनैः॥४८॥
अस्मिन् हिमवतः शृङ्गे नावं बघ्नीत मा चिरम्
।
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ॥४९॥
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा
।
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्॥५०॥
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ
।
अथाब्रवीदनिमिषस्तानृषीन् सहितस्तदा॥५१॥
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते
।
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात्॥५२॥
अहमिति । अचलेऽमूर्ते कारणात्मनि शृङ्गे बन्धनस्य फलमीश्वरानुग्रहादहं ब्रह्माऽस्मीति ज्ञानमित्यर्थः । तथा चान्यत्र पूर्वं मूर्तौ धृतं चित्तं मूर्तेरेकैकावयवत्यागेनैकदेशे स्थितमात्रे च धारयेदित्युक्त्वा । ‘तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् । तच्च त्यक्त्वा मदारोहे न किञ्चिदपि चिन्तयेत्’ इति व्योमाख्यामूर्तद्वारा मूर्तामूर्तेतरे शुद्धे आरोह उक्तः । अत्र हिमवतः श्रृङ्गे नावं बध्नीतेत्यहं प्रजापतिर्ब्रह्मेति च श्लोकाभ्यां मूर्त्याराधनादेव कारणं ब्रह्म निर्विशेषं च ब्रह्म क्रमेण प्राप्यत इति दर्शितम् । मत्स्यरूपेण ज्ञातेन यूयं भयान्मोक्षिता इति । भयमहङ्कारादेरेव धर्म इत्युक्तम् । शेषं स्पष्टम् ॥५२॥
मनुना च प्रजाः सर्वाः सदेवासुरमानुषाः
।
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति॥५३॥
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति
।
मत्प्रसादात् प्रजासर्गे न च मोहं गमिष्यति॥५४॥
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
।
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्॥५५॥
प्रमूढोऽभूत् प्रजासर्गे तपस्तेपे महत् ततः
।
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे॥५६॥
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ
।
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्॥५७॥
आख्यानमिदमाख्यातं सर्वपापहरं मया
।
य इदं शृणुयान्नित्यं मनोश्चरितमादितः
।
स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः॥५८॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि मत्स्योपाख्याने सप्ताशीत्यधिकशततमोऽध्यायः॥१८७॥
वैशम्पायन उवाच।
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम्
।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः॥१॥
एवं जीवन्मुक्तिं प्रसाध्य तस्याथमध्ये वेतसः पुण्यगन्धा इत्यादिना निर्गुणे ब्रह्मण्येव सगुणस्य मायिकौ भावाभावावुक्तौ। तत्प्रपञ्चार्थं ततः स पुनरेवाथेत्यादिना मन्यमानो यथाविधीत्यन्तमध्यायद्वयमारभ्यतेऽद्वैतसिध्यर्थे ॥१॥
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने
।
न चापीह समः कश्चिदायुष्मान् दृश्यते तव॥२॥
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्
।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मवित्तम॥३॥
अनन्तरिक्षे लोकेऽस्मिन् देवदानववर्जिते
।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे॥४॥
अनन्तरिक्षे स्थूलवियदाद्यभाववत्यस्मिन् लोके प्रत्यगात्मनि । प्रलये स्थूलप्रपञ्चस्य लये सति । ब्रह्माणं सूत्रात्मानं सूक्ष्मभूतमयहिरण्यगर्भम् ॥४॥
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे
।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि॥५॥
इह हृदयपुण्डरीके ॥५॥
चतुर्विधानि विप्रर्षे यथावत् परमेष्ठिना
।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः॥६॥
चतुर्विधानि वासनामयानि जरायुजाण्डजस्वेदजोद्भिज्जानि अस्य प्रलयस्य पुरुषयत्नसाध्यतामाह वायुभूता इति । दिशः स्थूलं जगत् प्राणनिरोधेन वायुमात्रतामापाद्य ततस्ततस्तेनतेनोपायेनापो देहाकारपरिणता विक्षिप्य परित्यज्य ब्रह्माण्डं स्थूलदेहे तं च लिङ्गे प्रविलाप्येत्यर्थः ॥६॥
त्वया लोकगुरुः साक्षात् सर्वलोकपितामहः
।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना॥७॥
लोकगुरुः सूत्रात्मा । समाधिना मनःप्रणिधानेन ॥७॥
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः
।
घोरेणाविश्य तपसा वेधसी निर्जितास्त्वया॥८॥
अनेकशोऽनेकैरुपायैः कृतं कार्यं सर्वं ब्रह्माण्डं स्वप्रमाणमात्मसम्मितं कृत्वा सार्वात्म्यं प्राप्येत्यर्थः । यद्वा । स्वं प्रत्यक्चितिरेव प्रमाणं यस्मिन् स्वसंवेद्यं कृत्वा सार्वज्ञ्यं प्राप्येत्यर्थः । घोरेण तीव्रेण तपसा ऐकाग्र्येण । ‘मनसश्चेन्द्रियाणां च ऐकाग्य्रैं परमं तपः’ इतिस्मृतेः । वेधसो विराजो मरीच्यादयो वा निर्जिताः स्वात्मसात्कृताः ॥८॥
नारायणाङ्कप्रख्यस्त्वं साम्परायेऽतिपठ्यसे
।
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्॥९॥
नारायणस्याङ्कः स्थानं समीपं वा । ‘अङ्कः स्थानेऽन्तिके’ इति विश्वः । तत्र प्रख्यः प्रख्यातो भगवद्भक्तेषूत्तमः साम्पराये परलोके स्थूलदेहत्यागे वा कर्तव्ये सत्यतिपठ्यसेऽत्यन्तं स्तूयसे लोकैरितिशेषः । भगवानित्यादिसार्धः । अक्षराधिक्यमार्षम् । विष्णोर्ब्रह्मण उपलब्धिस्थानत्वेन तत्सम्बन्धिकर्णिकोद्धरणं कृत्वा योगकलया हृदयपुण्डरीकमुद्धाट्येत्यर्थः । त्वया दृग्भ्यां भगवाननेकशोऽनेकवारं दृष्ट इत्यन्वयः। रत्नानि तत्तज्जात्युत्कृष्टवस्तूनि । तेषामलङ्कारो निवारणक्रिया । परं वैराग्यमिति यावत् । योगोऽभियोगोऽभ्यासः वैराग्याभ्यासाभ्यामित्यर्थः । दृग्भ्यामिति द्वित्वमन्तर्दृष्ट्या हार्दाकाशे दृष्टो बहिर्दृष्ट्याऽपि योगजधर्भसंस्कृतया व्यवहितादिदर्शिन्या कृत्स्नब्रह्माण्डरूपी करतलामलकवद्दृष्ट इत्यभिप्रायेण ॥९॥
कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः
।
रत्नालङ्कारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा॥१०॥
तस्मात् तवान्तको मृत्युर्जरा वा देहनाशिनी
।
न त्वां विशति विप्रर्षे प्रसादात् परमेष्ठिनः॥११॥
तव त्वां न विशतीत्यपकृष्यते ॥११॥
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः
।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन॥१२॥
शेषमवशिष्टं पञ्चमहाभूतप्रलये सतीत्यर्थः ॥१२॥
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे
।
नष्टे देवासुरगणे समुत्सन्नमहोरगे॥१३॥
एकार्णवसदृशे एकरसे लोके आत्मनि ‘सलिल एको द्रष्टाऽद्वैतो भवति’ ‘आत्मानमेव लोकमुपासीत’ इत्यादौ निर्विशेषे आत्मनि सलिललोकशब्दयोः प्रयोगदर्शनात् । स्थावरादौ नष्टे बाधिते सति ॥१३॥
शयानममितात्मानं पद्मोत्पलनिकेतनम्
।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि॥१४॥
स्वयमपि तत्र शयानं समुद्रे वीचिवल्लीनं पद्मोत्पलनिकेतनं हृत्पद्मवल्लीपुष्पस्थमात्मानं मायाविनं ब्रह्माणं ब्रह्म । अनुवाद्यापेक्षया पुंस्त्वम् ॥१४॥
एतत् प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम
।
तस्मादिच्छाम्यहं श्रोतुं सर्वहेत्वात्मिकां कथाम्॥१५॥
एतत् सर्वं त्वया दृष्टमिति शेषः ॥१५॥
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम
।
न तेऽस्त्यविदितं किञ्चित् सर्वलोकेषु नित्यदा॥१६॥
मार्कण्डेय उवाच।
हन्त ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे
।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च॥१७॥
स्वयम्भुवे अजन्मने । अस्यापि जन्यत्वे तस्य तस्यापीत्यनवस्थापातः। पुरुषाय पूर्णाय । पुराणाय नित्यैकरूपाय । शाश्वतायानादयेऽव्ययाय नित्याय ॥१७॥
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने
।
स एष पुरुषव्याघ्र पीतवासा जनार्दनः॥१८॥
अव्यक्ताय रूपादीहीनाय । सुसूक्ष्माय दुर्लक्ष्याय । गुणात्मने मायोपाधये । स एष इत्यङ्गुल्या निर्दिशति ॥१८॥
एष कर्ता विकर्ता च भूतात्मा भूतकृत् प्रभुः
।
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते॥१९॥
विकर्ता विविधरूपत्वकर्ता । महत् ब्रह्म ॥१९॥
अनादिनिधनं भूतं विश्वमव्ययमक्षयम्
।
एष कर्ता न क्रियते कारणं चापि पौरुषे॥२०॥
विश्वं विश्वात्मकमप्यव्ययमपरिणामि । अत एवाक्षयमविनाशि । एष पीतवासाः। कर्तैव न तु क्रियते । एतेन कृष्णमूर्तेर्व्यवहारापेक्षया नित्यत्वमनादित्वं च दर्शितम् । तच्च व्युत्पादितमादिसभापर्वटीकयोः । पौरुषे कारणं चायमेव । तस्मात् प्रार्थनीय इतिः भावः ॥२०॥
यद्येष पुरुषो वेद वेदा अपि न तं विदुः
।
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम॥२१॥
य एनमिति वक्तव्ये यद्येष इत्युक्तिर्वेद्यवेदित्रोरत्यन्ताभेदप्रदर्शनार्था तथा च श्रुतिः - ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तदिदं सर्वमभवत्‘ इति । ’ब्रह्मैव पश्यति ब्रह्म नाब्रह्म पश्यति' इति स्मृतिश्च । वेदा अपि न तं विदुरवाङ्मनसगोचरत्वात् । सर्वमिति । आदितः परमात्मनो निर्वृत्तं निष्पन्नमेतत्प्रत्यक्षादिगम्यं सर्वं जगदाश्चर्यमेव । स्वप्नमायेन्द्रजालवदसम्भावनीयोत्पत्तिस्थितिकमेव। कदा। जगतः क्षये दृष्टे सति । अधिष्ठानसाक्षात्कारात् प्रागेव वादिभिः प्रधानपरमाण्वादिकं जगत्कारणमनुमीयते । तस्मिन् सति तु प्रधानादेरभावावधारणात् कथमेकस्मादपरिणामिनोऽसहायाद्विचित्ररचनात्मकं जगज्जातं रज्ज्वाः सर्प इवेत्यत्यन्ताश्चर्यमिति भावः । तथा च ब्रह्मैव संसरति तदेव च जगदात्मना निर्वर्तत इति श्लोकद्वयतात्पर्यम् ॥२१॥
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये
।
चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम्॥२२॥
अयमेव पुरुषः स्वाज्ञानोत्थमाश्चर्यरूपं जगत् पश्यंस्तत्र रागादिमान् भूत्वा युगचतुष्टयात्मा भवति । तथा च श्रुतिः‘ कलिः शयानो भवति सञ्जिहानस्तु द्वापारः । उत्तिष्टंस्त्रेता भवति कृतं सम्पद्यते चरन्’ इति धर्मात् पराङ्मुखः पुरुष एव कलिः । धर्मं शास्त्राचार्याद्विजानन् द्वापरः । तमनुष्ठातुमिच्छंस्त्रेता। अनुतिष्ठन् कृतं भवति । एतेषां व्युत्क्रमेण कालप्रमाणमाह । कलेर्बीभत्सत्वप्रदर्शनार्थं - चत्वार्याहुरित्यादिना ॥२२॥
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः
।
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते॥२३॥
तावच्छती चतुःशती। सन्ध्या - पूर्वस्मिन् युगे उत्तरयुगधर्माणामुपसर्जनतया सङ्क्रमः । सन्ध्यांशस्तूत्तरस्मिन् पूर्वयुगधर्माणाम्। तथाविध उत्तरप्रकारस्त्रिशतीमितोऽयमेव पूर्वयुगापेक्षया सन्ध्यांश उत्तरयुगापेक्षया सन्ध्येति चोच्यते । तथा च कृतत्रेतयोः सन्ध्यासन्धांशौ सप्तशती । त्रेताद्वापरयोः पञ्चशती । द्वापारकल्योस्त्रिशती । कलिकृतयोस्तु पञ्चशतीति विज्ञेयम् । एवं च कृतस्यादौ चतुःशती कल्यपेक्षया सन्ध्यांशोऽपि कृतापेक्षया सन्ध्या। एवं सर्वत्र । तेन सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणं भवति ॥२३॥
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम्
।
तथा वर्षसहस्त्रे द्वे द्वापरं परिमाणतः॥२४॥
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः
।
सहस्त्रमेकं वर्षाणां ततः कलियुगं स्मृतम्॥२५॥
तस्य वर्षशतं सन्धिः सन्ध्यांशश्च ततः परम्
।
सन्धिसन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय॥२६॥
क्षीणे कलियुगे चैव प्रवर्त्तति कृतं युगम्
।
एषा द्वादशसाहस्त्री युगाख्या परिकीर्त्तिता॥२७॥
एतत् सहस्त्रपर्यन्तमहो ब्राह्ममुदाहृतम्
।
विश्वं हि ब्रह्म भवने सर्वतः परिवर्त्तते॥२८॥
लोकानां मुनजव्याघ्र प्रलयं तं विदुर्बुधाः
।
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ॥२९॥
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः
।
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा॥३०॥
कलेर्दोषान् वर्णयति प्रहाणाय यन्त्रासेन मोक्षमार्गे प्रीतिजननाय च सहस्त्रान्त इति । सहस्रस्य चतुर्धाकृतस्यान्तेऽन्तिमपादे ॥३०॥
व्रतप्रतिनिधिश्चैव तस्मिन् काले प्रवर्त्तते
।
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः॥३१॥
क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे
।
निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः॥३२॥
ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे
।
अजपा ब्राह्मणास्तात शुद्रा जपपरायणाः॥३३॥
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत्
।
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप॥३४॥
मृषानुशासिनः पापा मृषावादपरायणाः
।
अन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः॥३५॥
काम्बोजा बाह्लिकाः शूरास्तथाऽऽभीरा नरोत्तम
।
न तदा ब्राह्मणः कश्चित् स्वधर्ममुपजीवति॥३६॥
स्वधर्मम् याजनप्रतिग्रहादि ॥३६॥
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप
।
अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः॥३७॥
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः
।
बहुशून्या जनपदा मृगव्यालावृता दिशः॥३८॥
सत्येऽल्पं सत्याल्पम् । सत्यवादोऽत्यन्तमल्प इत्यर्थः ॥३८॥
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः
।
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः॥३९॥
वृथा अनुभवाभावात् ॥३९॥
युगान्तमनुजव्याघ्र भवन्ति बहुजन्तवः
।
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशाम्पते॥४०॥
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः
।
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः
।
मुखेभगाः स्त्रियो राजन् भविष्यन्ति युगक्षये॥४१॥
मुखेभगाः स्त्रियो वङ्गेषु प्रसिद्धाः । प्रथमम् मुखेनैव भगकार्यं कृत्वा पुरुषस्य काममुद्दीपयन्त्यः । अत्यन्तं रतार्तत्वात् ॥४१॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः
।
केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये॥४२॥
अट्टशूला इति । ‘अट्टमन्नं शिवो वेदो ब्राह्मणाश्च चतुष्पथाः । केशो भगं समाख्यातं शूलंत्तद्विक्रयं विदुः’ इति पूर्वेषां व्याख्यासङ्क्षेपः । अट्टमन्नं तदेव शूलं दुःखदं येषां ते क्षुद्व्याधिग्रस्ता इत्यर्थः । शिवाः सर्वपुरुषप्रार्थनीयतया कल्याणवत्यः । शूलाः पण्यस्त्रियो येषु ते शिवशूलाः । विटवाराङ्गनापूर्णाश्चतुष्पथा इत्यर्थः । स्त्रियः पाणिग्रहणवत्योऽपि केशोपलक्षितं सौभाग्यं लज्जामूलं शीलं शूलमिव दुःखदं त्याज्यं च यासाम् ताः केशशूलाः । भर्तृद्वेषिण्यस्त्यक्तलज्जाश्च इत्यर्थः । ‘ अट्टं भक्ते च शुष्के च शूलं स्याद्रोग आयुधे । योगे शूला तु पण्यस्त्री शिवं क्षेमे जले सुखे । चतुष्पथश्चतुर्मार्गे सङ्गमे ब्राह्मणेऽपि च । केशः स्यात् पुंसि वरुणे ह्रीवेरे कुन्तलेऽपि च’ इति मेदिनी । ह्रीवेरं लज्जामूलं शीलमित्यर्थः । वेरशब्दः कर्णाटेषु मूले प्रसिद्धः ॥४२॥
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप
।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः॥४३॥
ब्रह्मवध्यानुलिप्तानां तथा मिथ्याऽभिशंसिनाम्
।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः॥४४॥
लोभमोहपरीताश्च मिथ्याधर्मध्वजाऽऽवृताः
।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः॥४५॥
मिथ्याधर्मः कपटधर्मः स एव ध्वज इव ख्यात्यर्थं ज्ञाप्यो येषां ते तथा । चञ्चूर्यन्ते पीड्यन्ते । दिशः दिक्थाः जनाः ॥४५॥
करभारभयाद्भीता गृहस्थाः परिमोषकाः
।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवनः॥४६॥
मिथ्या च नखरोमाणि धारयन्ति तदा द्विजाः
।
अर्थलोभान्नरव्याघ्र तथा च ब्रह्मचारिणः॥४७॥
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः
।
इह लौकिकमीहन्ते मांसशोणितवर्धनम्॥४८॥
पानपा मद्यपाः ॥४८॥
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः
।
आश्रमा मनुजव्याघ्र भविष्यन्ति युगक्षये॥४९॥
यथर्तुवर्षी भगवान्न तथा पाकशासनः
।
न चापि सर्वबीजानि सम्यग्रोहन्ति भारत॥५०॥
हिंसाभिरामश्च जनस्तथा सम्पद्यतेऽशुचिः
।
अधर्मफलमत्यर्थं तदा भवति चानघ॥५१॥
शुचिर्ब्राह्मणपरिव्राजकादिः । अशुचिरिति वा छेदः ॥५१॥
तदाः च पृथिवीपाल यो भवेद्धर्मसंयुतः
।
अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन॥५२॥
भूयिष्ठं कूटमानैश्च पण्यं विक्रीडते जनः
।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत॥५३॥
धर्मिष्ठाः परिहीयन्ते पापीयान् वर्धते जनः
।
धर्मस्य बलहानिः स्यादधर्मश्च बली तथा॥५४॥
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा
।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये॥५५॥
विधर्माणस्त्यक्तधर्माः ॥५५॥
नगराणां विहारेषु विधर्माणो युगक्षये
।
अधर्मिष्ठैरुपायैश्च प्रजाव्यवहरन्त्युत॥५६॥
नगराणां नगरस्थानाम् । विहारेषु क्रिडासु । विधर्माणो व्यभिचारिणः ॥५६॥
सञ्चयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः
।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः॥५७॥
आढ्योऽहमिति मदः आढ्यमदः ॥५७॥
हर्तुं व्यवसिता राजन् पापाचारसमन्विताः
।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः॥५८॥
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा
।
नगराणां विहारेषु चैत्येष्वपि च शेरते॥५९॥
पुरुषादानि वृकव्याघ्रादीनि । चैत्यैषु देवतास्थानेषु ॥५९॥
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप
।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते॥६०॥
गर्भधरा अतिकामातुरा इत्यर्थः ॥६०॥
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा
।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते॥६१॥
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः
।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते॥६२॥
विपरीतास्तदा नार्यो वञ्चयित्वार्हतः पतीन्
।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च॥६३॥
अर्हतो योग्यान् ॥६३॥
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान् नृप
।
भर्तारमपि जीवन्तमन्यान् व्यभिचरन्त्युत॥६४॥
तस्मिन् युगसहस्त्रान्ते सम्प्राप्ते चायुषः क्षये
।
अनावृष्टिर्महाराज जायते बहुवार्षिकी॥६५॥
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि वै
।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते॥६६॥
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप
।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च॥६७॥
ततो दिनकरैर्दीप्तैरित्यतः प्राक्तनेन ग्रन्थेन कलिरूपः स्त्रीपुंसङ्धो दुराचारबाहुल्यादनन्तं नरकं प्राप्नोतीति दर्शितम् । तत्परिहारार्थं योगमनुतिष्ठेदिति विधीयते स्वानुभवकथनप्रकारेण –ततो दिनकरैरित्यादिना। सोऽयं ग्रन्थो बहिर्दृष्टीनां कल्पान्तप्रतिपादनपरतया भासमानोऽपि योगपर एवास्ति । अनन्तरिक्षे लोकेऽस्मिन्नितिवाक्यशेषे आकाशाभावस्याप्युक्तत्वेन निराश्रयस्य जलधातुमात्रस्य सत्त्वायोगात् समान प्रकारे पुष्करप्रादुर्भावे च । ‘नष्टानलानिले लोके नष्टाकाशमहीतले’ इति स्पष्टं भूतपञ्चकनाशस्य प्रतिपादनात् । तथापि कथापक्षे स्पष्टोऽर्थ इति योगपक्ष एव व्याख्यायते । कथापक्षे दिनकरैर्द्वादशादित्यैः पीयते सप्तभिर्दीप्तैः सप्तज्वालाभिः कल्पान्ताग्निना च भस्मसात् दृश्यत इति द्वयोः सम्बन्धः ॥६७॥
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत
।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ॥६८॥
ततः संवर्तको वह्निर्वायुना सह भारत
।
लोकमाविशते पूर्वमादित्यैरुपशोषितम्॥६९॥
तस्यैव विवरणं ततः संवर्तक इति ॥६९॥
ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम्
।
देव-दानव-यक्षाणां भयं जनयते महत्॥७०॥
ततः स वह्निः ॥७०॥
निर्दहन्नागलोकं च यच्च किञ्चित् क्षिताविह
।
अधस्तात् पृथिवीपाल सर्वं नाशयते क्षणात्॥७१॥
ततो योजनविंशानां सहस्राणि शतानि च
।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः॥७२॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्
।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः॥७३॥
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः
।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः॥७४॥
गजकुलप्रख्या गजसमुदाया इव कृष्णाः ॥७४॥
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः
।
केचित्किञ्जल्कसङ्काशाः केचित् पीताः पयोधराः॥७५॥
केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा
।
केचित् कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः॥७६॥
केचित् पुरवराकाराः केचिद्गजकुलोपमाः
।
केचिदञ्जनसङ्काशाः केचिन्मकरसन्निभाः॥७७॥
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः
।
घोररूपा महाराज घोरस्वननिनादिताः
।
ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम्॥७८॥
तैरियं पृथिवी सर्वा सपर्वतवनाकरा
।
आपूर्यते महाराज सलिलौघपरिप्लुता॥७९॥
ततस्ते जलदा घोरा राविणः पुरुषर्षभ
।
सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना॥८०॥
राविणः शब्दवन्तः ॥८०॥
वर्षमाणा महत् तोयं पूरयन्तो वसुन्धराम्
।
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम्॥८१॥
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे
।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना॥८२॥
ततः समुद्रः स्वां वेलामतिक्रामति भारत
।
पर्वताश्च विदीर्यन्ते मही चाप्सु निमज्जति॥८३॥
योगपक्षे तु दिनकरैः सूर्यनाडी इडा तया । बहुवचनं तदीयावयवाभिप्रायेण । सलिलं चैतन्यगर्भिता चित्तवृत्तिः । समुद्रेषु कामेषु । ‘कामं समुद्रमाविश’ इति मन्त्रवर्णात् सरित्सुनाडीषु प्रसृता पीयते संह्रीयते । सप्तभिः प्राणैरुद्दीपितया नाड्या वायुमाकृष्य चित्तवृत्तिर्निरुध्यत इत्यर्थः । तदा काष्टादितुल्यं शरीरं भस्मसाद्भूतमदर्शनं गतं दृश्यते - अनुभूयते । तदानीं जाठरोऽग्निरपि लोकदृष्ट्या स्थितं देहं न बाधते । वायुना तस्यापि लोकमिष्टं स्थानं भ्रूघ्राणसन्धिरूपं प्रति नीतत्वादित्याह तत इति । पूर्वमादित्यैरिडानाडीरूपैरुपशोषितमित्येतदेव प्रपञ्चयति चतुर्भिस्ततः स इत्यादिभिः । वायुरनलश्च नाड्यन्तर्गतो दहति । तत्तदवयवमभिमानत्यागादसत्कल्पं करोतीत्यर्थः । अत्र उपाध्यन्तराश्रयं विना पूर्वोपाधिनिर्मोको न भवतीत्याशङ्क्य तदानीमेव रेचकाभ्यासाज्जलधातुमालम्ब्य भूधातुं सर्वात्मना त्यजतीत्याह ‘ततो गजकुलप्रख्याः’ इत्यादिना ‘मही चाप्सु निमज्जति ’इत्यन्तेन। ततः समुद्र इति । समुद्रो देहविषयः कामः । स्वां वेलाम् देहानुल्लङ्घनमतिक्रामति । स कामः सर्वथा निवर्तत इत्यर्थः ॥८३॥
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्
।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः॥८४॥
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप
।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत॥८५॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे
।
नष्टे देवासुरगणे यक्षराक्षसवर्जिते॥८६॥
वाय्वग्न्योः साहचर्यात् अग्निसहितं वायुमालम्ब्य जलधातुमपि त्यजतीत्याह सर्वत इति । पयोदा इति तन्नाशेन तद्दत्तस्य जलस्यापि नाशो लक्ष्यते । तत्र वायुवेगपराहताः पयोदा नश्यन्ति स्वयम्भूर्नभस्तलं संवेष्टयित्वाऽऽकाशं संहृत्य मारुतं पीत्वाऽऽकाशनाशेनैव तत्कार्यस्य मारुतस्य नाशं कृत्वा स्वपिति स्वं प्रत्यगात्मानमपिति गच्छति । तथा च स्वपिति शब्दनिर्वचनं श्रूयते ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति तस्मादेनं स्वपितीत्याचक्षते’ । स्वं ह्यपीतो भवतीति स्वयम्भूः सूत्रात्मा सता शुद्धेन ब्रह्मणा सम्पन्ने ऐक्यं गतः स्वप्रत्यगात्मना ॥८४॥ भौतिकप्रपञ्चप्रलयमाह तस्मिन्निति ॥८६॥
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे
।
अनन्तरिक्षे लोकेऽस्मिन् भ्रमाम्येकोऽहमाहतः॥८७॥
अनन्तरिक्षे इति पञ्चमहाभूतलय उक्तः । एकोऽहं स्थूलप्रपञ्चातीतस्तैजसं सूक्ष्मं प्रपञ्चं प्राप्तः सन् भ्रमामीति ॥८७॥
एकार्णवे जले घोरे विचरन् पार्थिवोत्तम
।
अपश्यन् सर्वभूतानि वैक्लव्यमगमं ततः॥८८॥
भ्रमहेतुमाह एकेति । एकार्णवे निर्विशेषे ब्रह्मणि तमश्छन्नतया घोरे जले सति पारावारशून्यजलात्मना विवर्तमाने सति शुक्ताविव रूप्यात्मना तस्माच्च जलभ्रमाद्वैक्लव्यं मूर्च्छामगमं प्राप्तवानस्मि ॥८८॥
ततः सुदीर्घं गत्वाऽहं प्लवमानो नराधिप
।
श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः॥८९॥
ततः कदाचित् पश्यामि तस्मिन् सलिलसञ्चये
।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते॥९०॥
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप
।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तुते॥९१॥
उपविष्टं महाराज पद्मेन्दुसदृशाननम्
।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत॥९२॥
ततो मे पृथिवीपाल विस्मयः सुमहानभूत्
।
कथं त्वयं शिशुः शेते लोके नाशमुपागते॥९३॥
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्ष्ये
।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप॥९४॥
अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः
।
साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे॥९५॥
ततो मामब्रवीद्बालः स पद्मनिभलोचनः
।
श्रीवत्सधारी द्युतिमान् वाक्यं श्रुतिसुखावहम्॥९६॥
जानामि त्वां परिश्रान्तं ततो विश्रामकाङ्क्षिणम्
।
मार्कण्डेय इहास्व त्वं यावदिच्छसि भार्गव॥९७॥
अभ्यन्तरं शरीरे मे प्रविश्य मुनिसत्तम
।
आस्व भो विहितो वासः प्रसादस्ते कृतो मया॥९८॥
ततो बालेन तेनैवमुक्तस्यासीत् तदा मम
।
निर्वेदो जीविते दीर्धे मनुष्यत्वे च भारत॥९९॥
ततो बालेनेति । निर्वेदो वैराग्यम्। धिङ्मम दीर्घजीवित्वं मानुषत्वं च । यन्मां बालोऽपि ‘प्रसादस्ते कृतो मया’ इति वदतीति स्वाज्ञानप्रकाशनं भगवन्मायायाः प्राबल्यख्यापनार्थम् ॥९९॥
ततो बालेन तेनास्यं सहसा विवृतं कृतम्
।
तस्याहमवशो वक्त्रे दैवयोगात् प्रवेशितः॥१००॥
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप
।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्॥१०१॥
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्
।
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम्॥१०२॥
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि
।
वस्वोकसारां नलिनीं नर्मदां चैव भारत॥१०३॥
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्
।
सुवेणां कृष्णवेणां च इरामां च महानदीम्॥१०४॥
वितस्तां च महाराज कावेरीं च महानदीम्
।
शोणं च पुरुषव्याघ्र विशल्यां किम्पुनामपि॥१०५॥
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम
।
परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः॥१०६॥
ततः समुद्रं पश्यामि यादोगणनिषेवितम्
।
रत्नाकरममित्रघ्न पयसो निधिमुत्तमम्॥१०७॥
तत्र पश्यामि गगनं चन्द्रसूर्यविराजितम्
।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम्॥१०८॥
पश्यामि च महीं राजन् काननैरुपशोभिताम्
।
यजन्ते हि तदा राजन् ब्राह्मणा बहुभिर्मखैः॥१०९॥
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जनैः
।
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप॥११०॥
शुश्रूषायां च निरता द्विजानां वृषलास्तदा
।
ततः परिपतन् राजंस्तस्य कुक्षौ महात्मनः॥१११॥
हिमवन्तं च पक्ष्यामि हेमकूटं च पर्वतम्
।
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्॥११२॥
पक्ष्यामि च महीपाल पर्वतं गन्धमादनम्
।
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्॥११३॥
पश्यामि च महाराज मेरुं कनकपर्वतम्
।
महेन्द्रं चैव पक्ष्यामि विन्ध्यं च गिरिमुत्तमम्॥११४॥
मलयं चापि पश्यामि पारियात्रं च पर्वतम्
।
एते चान्ये च बहवो यावन्तः पृथिवीधराः॥११५॥
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः
।
सिंहान् व्याघ्रान् वराहांश्च पक्ष्यामि मनुजाधिप॥११६॥
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते
।
तानि सर्वाण्यहं तत्र पश्यन् पर्यचरं तदा॥११७॥
कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन् दिशः
।
शक्रादींश्चापि पक्ष्यामि कृत्स्नान् देवगणानहम्॥११८॥
साध्यान्रुद्रांस्तथाऽऽदित्यान् गुह्यकान्पितरस्तथा
।
सर्पान् नागान् सुपर्णांश्च वसूनप्यश्विनावपि॥११९॥
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते
।
दैत्यदानवसद्धांश्च नागांश्च मनुजाधिप॥१२०॥
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः
।
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम्॥१२१॥
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः
।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो॥१२२॥
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्
।
न च पश्यामि तस्याहं देहस्यान्तं कदाचन ॥१२३॥
सततं धावमानश्च चिन्तयानो विशाम्पते
।
आसादयामि नैवान्तं तस्य राजन् महात्मनः॥१२४॥
ततस्तमेव शरणं गतोऽस्मि विधिवत् तदा
।
वरेण्यं वरदं देवं मनसा कर्मणैव च॥१२५॥
ततोऽहं सहसा राजन् वायुवेगेन निःसृतः
।
महात्मनो मुखात् तस्य विवृतात् पुरुषोत्तम॥१२६॥
ततस्तस्यैव शाखायां न्यग्रोधस्य विशाम्पते
।
आस्ते मनुजशार्दुल कृत्स्नमादाय वै जगत् ॥१२७॥
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम्
।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्॥१२८॥
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव
।
श्रीवत्सधारी द्युतिमान् पीतवासा महाद्युतिः॥१२९॥
अपीदानीं शरीरेऽस्मिन् मामके मुनिसत्तम
।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीमि ते॥१३०॥
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा
।
यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम्॥१३१॥
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ
।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजिततौ॥१३२॥
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ
।
दृष्ट्वाऽपरिमितं तस्य प्रभावममितौजसः॥१३३॥
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य ह
।
दृष्टो मया स भूतात्मा देवः कमललोचनः॥१३४॥
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम्
।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम्॥१३५॥
आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव
।
दृष्टवानखिलान् सर्वान् समस्तान् जठरे हि ते॥१३६॥
तव देव शरीरस्था देव-दानव-राक्षसाः
।
यक्ष-गन्धर्व-नागाश्च जगत् स्थावरजङ्गमम्॥१३७॥
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते
।
द्रुतमन्तःशरीरे ते सततं परिवर्तीनः॥१३८॥
निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो
।
इच्छामि पुण्डरीकाक्षं ज्ञातुं त्वाऽहमनिन्दितम्॥१३९॥
इह भूत्वा शिशुः साक्षात् किं भवानवतिष्ठते
।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥१४०॥
किमर्थं च जगत् सर्वं शरीरस्थं तवानघ
।
कियन्तं च त्वया कालमिह स्थेयमरिन्दम॥१४१॥
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया
।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्॥१४२॥
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान् प्रभो
।
इत्युक्तः स मया श्रीमान् देवदेवो महाद्युतिः
।
सान्त्वयन् मामिदं वाक्यमुवाच वदतां वरः॥१४३॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाशीत्यधिकशततमोऽध्यायः॥१८८॥
देव उवाच।
कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः
।
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥१॥
काममिति ॥१॥
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः
।
ततो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्॥२॥
अपां नारा इति पुरा संज्ञाकर्म कृतं मया
।
तेन नारायणोऽप्युक्तो मम तत् त्वयनं सदा॥३॥
अपां नारा इति । अपामबुपलक्षितस्य पाञ्चभौतिकस्य सङ्घातस्य नारा इति यौगिकं नाम । ‘आपो वै नरसूनवः’ इति प्रदेशान्तरे विवरणात् । नरेण अविद्यावच्छिन्नरूपेणानादिना जीवेनानुपाधौ ब्रह्मणि शुक्तौ रजतमिव कल्पितत्वात् । मम तत्त्वयनमिति ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेरहमेव सङ्घातस्य स्रष्टा तदभिमानी चेति जीवेश्वरयोरभेदो दर्शितः ॥३॥
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः
।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥४॥
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः
।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥५॥
अहं विष्णुरहं ब्रह्मेत्यादिना तत्पदार्थमनूद्य तस्य ब्रह्मादिजीवाभिन्नत्वं द्युप्रभृतिजडवर्गाभिन्नत्वं चेतनाचेतनस्थितिकर्तृत्वं च प्रतिपाद्यते ॥५॥
अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः
।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥६॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने
।
द्यौर्मूर्धा खं दिशः श्रोत्रे तथाऽऽपः स्वेदसम्भवाः॥७॥
सदिशं च नभः कायो वायुर्मनसि मे स्थितः
।
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः॥८॥
यजन्ते वेदविदुषो मां देवयजने स्थितम्
।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः॥९॥
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया
।
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥१०॥
शेषो भूत्वाऽहमेवैतां धारयामि वसुन्धराम्
।
वाराहं रूपमास्थाय मयेयं जगती पुरा॥११॥
मज्जमाना जले विप्र वीर्येणासीत् समुद्धृता
।
अग्निश्च वडवावक्त्रो भूत्वाऽहं द्विजसत्तम॥१२॥
पिबाम्यपः सदा विद्वंस्ताश्चैवं विसृजाम्यहम्
।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संस्थिता विशः॥१३॥
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च
।
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः॥१४॥
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च
।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥१५॥
काम-क्रोध-द्वेषमुक्ता निःसंज्ञा वीतकल्मषाः
।
सत्त्वस्या निरहङ्कारा नित्यमध्यात्मकोविदाः॥१६॥
मामेव सततं विप्राश्चिन्तयन्त उपासते
।
अहं संवर्तको वह्निरहं संवर्तकोऽनलः॥१७॥
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः
।
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले॥१८॥
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम
।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम्॥१९॥
वसनं शयनं चैव विलयं चैव विद्धि मे
।
मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये॥२०॥
कामं क्रोधं च हर्षं च भयं मोहं तथैव च
।
ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम॥२१॥
प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम्
।
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु॥२२॥
मद्विधानेन विहिता मम देहविहारिणः
।
मयाऽभिभूतविज्ञाना विचेष्टन्ते न कामतः॥२३॥
सम्यग्वेदमधीयाना यजन्ते विविधैर्मखैः
।
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः॥२४॥
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः
।
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः॥२५॥
तस्मान्महाफलं विद्धि नराणां भावितात्मनाम्
।
सुदुष्प्रापं विमूढानां मार्गं योगैर्निषेवितम्॥२६॥
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम
।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥२७॥
तदाऽऽत्मानं कृष्णादिविग्रहं सृजामि सूर्यवदाविर्भावयामि । यथा सूर्य आविर्भवंस्तिरोभवंश्चास्तोदयाभ्यां न स्पृश्यते किं तु अस्माभिरेव तत्र तौ कल्पितौ। एवं नन्दनन्दनेऽपि जन्मनाशौ मूढदृष्ट्यैव कल्पितावित्यर्थः॥२७॥
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः
।
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः॥२८॥
तदाऽहं सम्प्रसूयामि गृहेषु शुभकर्मणाम्
।
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्॥२९॥
सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान्
।
स्थावराणि च भूतानि संहराम्यात्ममायया॥३०॥
कर्मकाले पुनर्देहमविचिन्त्यं सृजाम्यहम्
।
आविश्य मानुषं देहं मर्यादाबन्धकारणात्॥३१॥
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम
।
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा॥३२॥
त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च
।
अन्तकाले च सम्प्राप्ते कालो भूत्वाऽतिदारुणः॥३३॥
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्
।
अहं त्रिवर्त्मा विश्वात्मा सर्वलोकसुखावहः॥३४॥
आविर्भूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः
।
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम्॥३५॥
शमनं सर्वभूतानां सर्वलोककृतोद्यमम्
।
एवं प्रणिहितः सम्यङ्ममात्मा मुनिसत्तम
।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥३६॥
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः
।
यच्च किञ्चित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज॥३७॥
सुखोदयाय तत् सर्वं श्रेयसे च तवानघ
।
यच्च किञ्चित् त्वया लोके दृष्टं स्थावरजङ्गमम्॥३८॥
विहितः सर्वथवासौ ममात्मा भूतभावनः
।
अर्धं मम शरीरस्य सर्वलोकपितामहः॥३९॥
अर्धं ममेति । पितामहो ब्रह्माण्डात्मा। अर्धं ममेति स्वस्वरूपं विकारान्तर्वर्ति तदवर्ति चेति दर्शितम्। यथा मृत् घटादिकायमध्यवर्तिनी तद्बहिर्भूता च तद्वत्। अत एव सूत्रं विकारावर्ति च तथा स्थितिमाह‘ इति । ’जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च‘ । ’भोगमात्रसाम्यलिङ्गाच्च‘ इति सूत्राभ्यां नित्यसिद्धेश्वरस्य उपासनासिद्धानामीश्वराणां चाद्यस्य जगत्सृष्टौ स्वातन्त्र्यम् । इतरेषां भूतसृष्टिकाले सन्निधानादसामर्थ्यं च । उभयेषां गीतवादित्रादिभोगे साम्यं चास्तीति प्रदर्श्य आद्यस्य स्वरूपं महदादिविकाराद्बहिर्भूतं चकारात्तदन्तर्वर्ति च । ’स भूमिं सर्वतो वृत्त्वाऽत्यतिष्ठद्दशाङ्गुलम्' इति वेद एवाविकारस्य रूपस्य स्थितिमाह । तस्मात् कृष्णमूर्तिर्व्यवहारतो वियदादिवन्नित्येति युक्तमुत्पश्यामः। श्रुतिविरोधस्त्वत्र प्रागेव निरस्तः ॥३९॥
अहं नारायणो नाम शङ्खचक्रगदाधरः
।
यावद्युगानां विप्रर्षे सहस्त्रपरिवर्तनात्॥४०॥
तावत् स्वपिमि विश्वात्मा सर्वभूतानि मोहयन्
।
एवं सर्वमहं कालभिहासे मुनिसत्तम॥४१॥
आशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते
।
मया च दत्तो विप्राग्र्य वरस्ते ब्रह्मरूपिणा॥४२॥
असकृत् परितुष्टेन विप्रर्षिगणपूजित
।
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्॥४३॥
विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत्
।
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम॥४४॥
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे
।
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया॥४५॥
आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः॥४६॥
यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः
।
तावत् त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्॥४७॥
यावदिति। ब्रह्मा विराट्। इह लिङ्गात्मनि स्थूलाध्यासोदयादर्वाक् सूक्ष्मे एव स्थातव्यमित्यर्थः । स्पष्टार्थमन्यत् ॥४७॥
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे
।
एकीभूतो हि स्रक्ष्यामि शरीराणि द्विजोत्तम॥४८॥
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च
।
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्॥४९॥
मार्कण्डेय उवाच।
इत्युक्त्वाऽन्तर्हितस्तात स देवः परमाद्भुतः
।
प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः॥५०॥
एवं दृष्टं मया राजंस्तस्मिन् प्राप्ते युगक्षये
।
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर॥५१॥
यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः
।
स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः॥५२॥
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्
।
दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं मम॥५३॥
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः
।
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः॥५४॥
एष धाता विधाता च संहर्ता चैव शाश्वतः
।
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः॥५५॥
दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता
।
आदिदेवमयं जिष्णुं पुरुषं पीतवाससम्॥५६॥
सर्वेषामेव भूतानां पिता माता च माधवः
।
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः॥५७॥
वैशम्पायन उवाच।
एवमुक्ताश्च ते पार्था यमौ च पुरुषर्षभौ
।
द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम्॥५८॥
स चैतान् पुरुषव्याघ्र साम्ना परमवल्गुना
।
सान्त्वयामास मानार्हो मन्यमानो यथाविधि॥५९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि भविष्यकथने एकोननवत्यधिकशततमोऽध्यायः॥१८९॥
वैशम्पायन उवाच।
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्
।
पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम्॥१॥
एवं कृष्णाद्वैतं प्रसाध्य तत्र प्रीतिहेतोर्विषयवैराग्यस्योत्पादनाय पुनर्भविष्यमेवाध्यायद्वयेन प्रश्नपूर्वकमाह युधिष्ठिरस्त्वित्यादिना । साम्राज्ये कर्तव्ये सति ॥१॥
युधिष्ठिर उवाच।
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर
।
मुने भार्गव यद्वृत्तं युगादौ प्रभवात्ययम्॥२॥
अस्मिन् कलियुगे त्वस्ति पुनः कौतूहलं मम
।
समाकुलेषु धर्मेषु किं तु शेषं भविष्यति॥३॥
किं तु कथं तु शेषं जगद्भविष्यति उत्कर्षं प्राप्स्यति ॥३॥
किंवीर्या मानवास्तत्र किमाहारविहारिणः
।
किमायुषः किंवसना भविष्यन्ति युगक्षये॥४॥
काञ्च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम्
।
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे॥५॥
काष्ठामवधिम् । कृतं कृतयुगम् ॥५॥
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत
।
रमयन् वृष्णिशार्दूलं पाण्डवांश्च महानृषिः॥६॥
मार्कण्डेय उवाच।
शृणु राजन् मया दृष्टं यत् पुरा श्रुतमेव च
।
अनुभूतं च राजेन्द्र देवदेवप्रसादजम्॥७॥
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ
।
कलुषं कालमासाद्य कथ्यमानं निबोध मे॥८॥
कलुषं कलिम् ॥८॥
कृते चतुष्पात् सकलो निर्व्याजोपाधिवर्जितः
।
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ॥९॥
निर्व्याजश्छद्महीनः । उपाधिवर्जितो लोभादिहीनः । वृष इव चतुष्पात्॥९॥
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः
।
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते॥१०॥
अर्धेनाधर्मेण ॥१०॥
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति
।
तामसं युगमासाद्य तदा भरतसत्तम॥११॥
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति
।
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव॥१२॥
मनुष्याणामनुयुगं ह्रसतीति निबोध मे
।
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर॥१३॥
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः
।
सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः॥१४॥
धर्मवैतंसिकाः धर्मजालिकाः । ‘वीतंसो बन्धनोपाये पशूनां पक्षिणामपि’ इति मेदिनी । धर्मजालं विस्तार्य लोकान् वञ्चयन्तीत्यर्थः ॥१४॥
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति
।
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपजीवितुम्॥१५॥
विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति
।
लोभक्रोधपरा मूढाः कामासक्ताश्च मानवाः॥१६॥
वैरबद्धा भविष्यन्ति परस्परवधैषिणः
।
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्॥१७॥
शूद्रतुल्या भविष्यन्ति तपःसत्यविवार्जताः
।
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः॥१८॥
अन्त्या इति । चाण्डालाः क्षत्रियादिकर्म क्षत्रियादयश्चाण्डालकर्म करिष्यन्तीत्यर्थः ॥१८॥
ईदृशो भविता लोको युगान्ते पर्युपस्थिते
।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः॥१९॥
शाणी शणसूत्रजा ॥१९॥
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये
।
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्॥२०॥
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः
।
तेऽपि लोभसमायुक्ता भविष्यन्ति युगक्षये॥२१॥
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः
।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये॥२२॥
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः
।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये॥२३॥
श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृतव्रताः
।
तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम्॥२४॥
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च
।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये॥२५॥
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः
।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः
।
निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः॥२६॥
निम्नेषु हीनेषु कर्मसु ॥२६॥
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः
।
एकहायनवत्सांश्च योजयिष्यन्ति मानवाः॥२७॥
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा
।
निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते॥२८॥
बृहद्वादी अकर्ता ब्रह्माऽहमिति वदनशीलः ॥२८॥
म्लेच्छभूतं जगत् सर्वं निष्क्रियं यज्ञवर्जितम्
।
भविष्यति निरानन्दमनुत्सवमथो तथा॥२९॥
प्रायशः कृपणानां हि तथा बन्धुमतामपि
।
विधवानां च वित्तानि हरिष्यन्तीह मानवाः॥३०॥
स्वल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः
।
तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः॥३१॥
परिग्रहं करिष्यन्ति मायाचारपरिग्रहाः
।
समाह्वयन्तः कौन्तेय राजानः पापबुद्धयः॥३२॥
परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः
।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः॥३३॥
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः
।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये॥३४॥
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च
।
भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत॥३५॥
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते
।
स्वयंग्राहा भविष्यन्ति युगान्ते समुपस्थिते॥३६॥
राजानश्चाप्यसन्तुष्टाः परार्थान् मूढचेतसः
।
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते॥३७॥
म्लेच्छीभूतं जगत् सर्वं भविष्यति न संशयः
।
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते॥३८॥
परार्थान् परधनानि ॥३७॥ हस्तो हस्तं परिमुषेद्धस्तवदेकोदरजोऽविभ्राता भ्रातरं वञ्चयेदेव ॥३८॥
सत्यं सङ्क्षिप्यते लोके नरैः पण्तितमानिभिः
।
स्थविरा बालमतयो बालाः स्थविरबुद्धयः॥३९॥
भीरुस्तथा शूरमानी शूरा भीरुविषादिनः
।
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते॥४०॥
एकाहार्यं युगं सर्वं लोभमोहव्यवस्थितम्
।
अधर्मो वर्द्धते तत्र न तु धर्मः प्रवर्तते॥४१॥
एकाहार्यमेकविधमेव मांसशाकादिकमाहारमर्हतीति तथा । भक्ष्याभक्ष्यविभागो नास्तीत्यर्थः ॥४१॥
ब्राह्मणाः क्षत्रिया वैश्या न शिप्यन्ति जनाधिप
।
एकवर्णस्तदा लोको भविष्यति युगक्षये॥४२॥
एकवर्णः वर्णविभागनाशनात् ॥४२॥
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा
।
भार्याश्च पतिशुश्रुषां न करिष्यन्ति सङ्क्षये॥४३॥
ये यवान्ना जनपदा गोधूमान्नास्तथैव च
।
तान् देशान् संश्रयिष्यन्ति युगान्ते पर्युपस्थिते॥४४॥
स्वैराचाराश्च पुरुषा योषितश्च विशाम्पते
।
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते॥४५॥
म्लेच्छभूतं जगत् सर्वं भविष्यति युधिष्ठिर
।
न श्राद्धैस्तर्पयिष्यन्ति दैवतानीह मानवाः॥४६॥
न कश्चित् कस्यचिच्छ्रोता न कश्चित् कस्यचिद्गुरुः
।
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप॥४७॥
परमायुश्च भविता तदा वर्षाणि षोडश
।
ततः प्राणान् विमोक्ष्यन्ति युगान्ते समुपस्थिते॥४८॥
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते
।
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा॥४९॥
प्रजास्यन्ति प्रजाः जनयिष्यन्ति ॥४९॥
पत्यौ स्त्री तु तदा राजन् पुरुषो वा स्त्रियं प्रति
।
युगान्ते राजशार्दुल न तोषमुपयास्यति॥५०॥
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति
।
न कश्चित् कस्यचिद्दाता भविष्यति युगक्षये॥५१॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः
।
केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये॥५२॥
म्लेच्छाचाराः सर्वभक्षा दारुणाः सर्वकर्मसु
।
भाविनः पश्चिमे काले मनुष्या नात्र संशयः॥५३॥
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्
।
युगान्ते भरतश्रेष्ठ वित्तलोभात् करिष्यति॥५४॥
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा
।
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते॥५५॥
ज्ञानानि ज्ञेयस्वरूपाणि ॥५५॥
स्वभावात् क्रूरकर्माणश्चान्योन्यमभिशंसिनः
।
भवितारो जनाः सर्वे सम्प्राप्ते तु युगक्षये॥५६॥
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः
।
भविता संशयो लोके जीवितस्य हि देहिनाम्॥५७॥
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप
।
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः॥५८॥
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः
।
त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम्॥५९॥
वृषलार्दिताः शूद्रपीडिताः॥५९॥
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसिकाः
।
यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम्॥६०॥
सङ्क्षेप्स्यते नाशं गमिष्यति ॥६०॥
आश्रयिष्यन्ति च नदीः पर्वतान् विषमाणि च
।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह॥६१॥
दस्युभिः पीडिता राजन् काका इव द्विजोत्तमाः
।
कुराजभिश्च सततं करभारप्रपीडिताः॥६२॥
काका इव सर्वतः शङ्किनः नचिवृत्त्युपजीविनो वा ॥६२॥
धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये
।
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः॥६३॥
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः
।
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः॥६४॥
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः
।
एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः॥६५॥
एडूकान् - अस्थ्याङ्कितानि कुड्यानि। ‘भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्’ इत्यमरः ॥६५॥
शूद्राः परिचरिष्यन्ति न द्विजान् युगसङ्क्षये
।
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च॥६६॥
देवस्थानेषु चैत्येषु नागानामालयेषु च
।
एडूकचिह्ना पृथिवी न देवगृहभूषिता॥६७॥
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम्
।
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा॥६८॥
भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम्
।
पुष्पं पुष्पे यदा राजन् फले वा फलमाश्रितम्॥६९॥
प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम्
।
अकालवर्षी पर्जन्यो भविष्यति गते युगे॥७०॥
अक्रमेण मनुष्याणां भविष्यन्ति तदा क्रियाः
।
विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह॥७१॥
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात्
।
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश॥७२॥
निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः
।
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः॥७३॥
निर्विशेषाः तुल्याचारवेषाः। विष्टिकराः भृतिमदत्वा कार्यं कारयन्ति ते ॥७३॥
एवं पर्याकुले लोके मर्यादा न भविष्यति
।
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः॥७४॥
आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम्
।
अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः॥७५॥
आचार्योऽपि अपनिधिः निर्धनः भर्त्स्यते । धिक्क्रियते अर्थयुक्त्या धनयोगेन न तु स्नेहेन धर्मेण वा ॥७५॥
अभावः सर्वभूतानां युगान्ते सम्भविष्यति
।
दिशः प्रज्वलिताः सर्वा नक्षत्राण्यप्रभाणि च॥७६॥
ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा
।
उल्कापाताश्च बहवो महाभयनिदर्शकाः॥७७॥
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति
।
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः॥७८॥
कबन्धान्तर्हितो भानुरुदयास्तमने तदा
।
अकालवर्षी भगवान् भविष्यति सहस्रदृक्॥७९॥
कबन्धान्तर्हितः राह्वन्तर्हितः ॥७९॥
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते
।
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः॥८०॥
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः
।
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये॥८१॥
सूदयिष्यन्ति च पतीन् स्त्रियः पुत्रानपाश्रिताः
।
अपर्वणि महाराज सूर्यं राहुरुपैष्यति॥८२॥
युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति
।
पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः॥८३॥
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते
।
निर्घातवायसा नागाः शकुनाः समृगद्विजाः॥८४॥
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
।
मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा॥८५॥
जनं परिजनं चापि युगान्ते पर्युपस्थिते
।
अथ देशान् दिशश्चापि पत्तनानि पुराणि च॥८६॥
क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
।
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः॥८७॥
विक्रोशमानश्वान्योन्यं जनो गां पर्यटिष्यति
।
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये॥८८॥
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति
।
ततः कालान्तरेऽन्यस्मिन् पुनर्लोकविवृद्धये॥८९॥
भविष्यति पुनर्दैवमनुकूलं यदृच्छया
।
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती॥९०॥
यदेति । गुरुसूर्यचन्द्राः यदा युगपत् पुष्यनक्षत्रमेष्यन्ति तदा कृतयुगप्रवृत्तिरित्यर्थः ॥९०॥
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम्
।
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च॥९१॥
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः
।
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्॥९२॥
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः
।
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः॥९३॥
सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे
।
मनसा तस्य सर्वाणि वाहनान्यायुधानि च॥९४॥
उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च
।
स धर्मविजयी राजा चक्रवर्ती भविष्यति॥९५॥
स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति
।
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः॥९६॥
सङ्क्षेपको हि सर्वस्य युगस्य परिवर्तकः
।
स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः
।
उत्सादयिष्यति तदा सर्वम्लेच्छगणान् द्विजः॥९७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेय-समास्यापर्वणि भविष्यकथने नवत्यधिकशततमोऽध्यायः॥१९०॥
मार्कण्डेय उवाच।
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्
।
वाजिमेधे महायज्ञे विधिवत् कल्पयिष्यति॥१॥
तत इति । कल्पयिष्यति दास्यति ॥१॥
स्थापयित्वा च मर्यादाः स्वयम्भुविहिताः शुभाः
।
वनं पुण्ययशःकर्मा रमणीयं प्रवेक्ष्यति॥२॥
तच्छीलमनुवर्त्स्यन्ति मनुष्या लोकवासिनः
।
विप्रैश्चोरक्षयश्चैव कृते क्षेमं भविष्यति॥३॥
विप्रैर्हेतुभिः कृते युगे ॥३॥
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च
।
स्थापयन् द्विजशार्दुलो देशेषु विजितेषु च॥४॥
कृष्णजिनानि ब्रह्मचारिपरिधेयानि । तेन सर्वाणि ब्राह्मणकर्माणि लक्ष्यन्ते । शक्तीरित्यादिना राजधर्माः स्थापयन् ब्रह्मक्षत्रयोर्धर्मव्यवस्थां चक्रे इति भावः ॥४॥
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्
।
कल्की चरिष्यति महीं सदा दस्युवधे रतः॥५॥
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः
।
विक्रोशमानान् सुभृशं दस्यून्नेष्यति सङ्क्षयम्॥६॥
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत
।
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा॥७॥
अधर्मविनाश इति छेदः ॥७॥
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा
।
पुष्करिण्यश्च विविधा देवतायतनानि च॥८॥
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे
।
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः॥९॥
आश्रमाः सहपाषण्डाः स्थिताः सत्यजनाः प्रजाः
।
प्रयन्ति सर्वबीजानि रोष्यमाणानि चैव ह॥१०॥
ये आश्रमाः सहपाषण्डाः प्राक् स्थितास्ते प्रजाश्च सत्यजना भविष्यन्तीति सम्बन्धः । प्रयन्ति नश्यन्ति । बीजानि संस्काराः रोप्यमाणानि क्रियमाणैः कर्मभिर्दृढं सम्पाद्यमानान्यपि ज्ञानबलान्नश्यन्तीत्यर्थः ॥१०॥
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति
।
नरा दानेषु निरता व्रतेषु नियमेषु च॥११॥
जप्ययज्ञपरा विप्रा धर्मकामा मुदा युताः
।
पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम्॥१२॥
व्यवहाररता वैश्या भविष्यन्ति कृते युगे
।
षट्कर्मनिरता विप्राः क्षत्रिया विक्रमे रताः॥१३॥
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च
।
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा॥१४॥
पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः
।
सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव॥१५॥
एतत् ते सर्वमाख्यातमतीतानागतं तथा
।
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम्॥१६॥
एवं संसारमार्गा मे बहुशश्चिरजीविना
।
दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम्॥१७॥
इदं चैवापरं भूयः सह भ्रातृभिरच्युत
।
धर्मसंशयमोक्षार्थं निबोध वचनं मम॥१८॥
धर्मे त्वयाऽऽत्मा संयोज्यो नित्यं धर्मभृतां वर
।
धर्मात्मा हि सुखं राजन् प्रेत्य चेह च नन्दति॥१९॥
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ
।
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन॥२०॥
ब्राह्मणः कुपितो हन्यादपि लोकान् प्रतिज्ञया
।
वैशम्पायन उवाच।
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः॥२१॥
उवाच वचनं धीमान् परमं परमद्युतिः
।
कस्मिन् धर्मे मया स्थेयं प्रजाः संरक्षता मुने॥२२॥
कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः
।
मार्कण्डेय उवाच।
दयावान् सर्वभूतेषु हितो रक्तोऽनसूयकः॥२३॥
सत्यवादी मृदुर्दान्तः प्रजानां रक्षणे रतः
।
चर धर्मं त्यजाधर्मं पितॄन् देवांश्च पूजय॥२४॥
प्रमादाद्यत् कृतं तेऽभूत् सम्यग्दानेन तज्जय
।
अलं ते मानमाश्रित्य सततं परवान् भव॥२५॥
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव
।
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः॥२६॥
न तेऽस्त्यविदितं किञ्चिदतीतानागतं युधि
।
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः॥२७॥
प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः
।
एष कालो महाबाहो अपि सर्वदिवौकसाम्॥२८॥
मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः
।
मा च तत्र विशङ्काऽभूद्यन्मयोक्तं तवानघ॥२९॥
अशङ्क्यं मद्वचो ह्येतद्धर्मलोपो भवेत् तव
।
जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ॥३०॥
कर्मणा मनसा वाचा सर्वमेतत् समाचर
।
युधिष्ठिर उवाच।
यत् त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्॥३१॥
तथा करिष्ये यत्नेन भवतः शासनं विभो
।
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः॥३२॥
करिष्यामि हि तत् सर्वमुक्तं यत् ते मयि प्रभो
।
वैशम्पायन उवाच।
श्रुत्वा तु वचनं तस्य मार्कण्डेयस्य धीमतः॥३३॥
संहृष्टाः पाण्डवा राजन् सहिताः शार्ङ्गधन्वना
।
विप्रर्षभाश्च ते सर्वे ये तत्रासन् समागताः॥३४॥
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः
।
विस्मिताः समपद्यन्त पुराणस्य निवेदनात्॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि युधिष्ठिरानुशासने एकनवत्यधिकशततमोऽध्यायः॥१९१॥
वैशम्पायन उवाच।
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत् पाण्डवेयो मार्कण्डेयम्॥१॥
मारणस्तम्भनाद्यान्यपि कर्माणि कृष्णाद्वैतविद्याबलेनैव सिद्ध्यन्तीति मण्डूकाख्यायिकयैवाह भूय इति ॥१॥
अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम्॥२॥
अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परिक्षिन्नाम मृगयामगमत्॥३॥
तमेकाश्वेनमृगमनुसरन्तं मृगो दूरमपाहरत्॥४॥
अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन् देशे नीलं गहनं वनखण्डमपश्यत्॥५॥
तच्च विवेश ततस्तस्य वनखण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत॥६॥
अथाश्वस्थः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश
।
ततः शयानो मधुरं गीतमशृणोत्॥७॥
स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति॥८॥
अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च
।
अथ सा राज्ञः समीपे पर्यक्रामत्॥९॥
तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति
।
सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति॥१०॥
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत्
।
कन्योवाच नोदकं मे दर्शयितव्यमिति॥११॥
स राजा तां बाढमित्युक्त्वा तामुपयेमे कृतोद्वाहश्च राजा परीक्षित् क्रीडमानो मुदा परमया युक्तस्तूष्णीं सङ्गम्य तया सहास्ते॥१२॥
ततस्तत्रैवासीने राजनि सेनाऽन्वगच्छत्॥१३॥
सा सेनोपविष्टं राजानं परिवार्यातिष्ठत्
।
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादवघोटितया स स्वं नगरमनुप्राप्य रहसि तया सहास्ते॥१४॥
अवघोटितया श्लक्ष्णीकृतया ॥१४॥
तत्राभ्याशस्थोऽपि कश्चिन्नापश्यदथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत्॥१५॥
अभ्याशस्थोऽपि निकटस्थोऽपि । नापश्यत् क्रीडासक्तं राजानामिति शेषः ॥१५॥
किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः॥१६॥
प्रयोजनं कर्तव्यम् ॥१६॥
अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधासलिललिप्तां स रहस्युपगम्यराजानमब्रवीत्॥१७॥
वनमिदसुदारकं साध्यत्र रम्यतामिति॥१८॥
स तस्य वचनात् तयैव सह देव्या तद्वनं प्राविशत्
।
स कदाचित् तस्मिन् कानने रम्ये तयैव सह व्यवाहादथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तकागारमपश्यत्॥१९॥
अतिमुक्तकागारं वासन्तीगृहम् ॥१९॥
तत् प्रविश्य राजा सह प्रियया सुधाकृतां विमलां सलिलपूर्णां वापीमपश्यत्॥२०॥
दृष्टैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत्॥२१॥
अथ तां देवीं स राजाऽब्रवीत् साध्ववतर वापीसलिलामति
।
सा तद्वचः श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदमज्जत्॥२२॥
तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्त्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा॥२३॥
सर्वत्र मण्डूकवधः क्रियतामिति यो मयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति॥२४॥
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयमाविवेश
।
ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन्॥२५॥
ततो मण्डुकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच॥२६॥
मा राजन् क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति
।
श्लोकौचात्र भवतः॥२७॥
मा मण्डूकान् जिघांस त्वं कोपं सन्धारयाच्युत
।
प्रक्षीयते धनोद्रेको जनानामविजानताम्॥२८॥
धनोद्रेकः श्रीतपसोरुत्कर्षः ॥२८॥
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसि
।
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते॥२९॥
प्रतिजानीहि निश्चयं कुरु । प्राप्य प्रापय्य मृत्युं क्रोधं स्त्रीशोकजम् अलं कृत्वा मा कुरु ॥२९॥
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजाऽथोवाच॥३०॥
न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन् मामुपरोद्धुमिति॥३१॥
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम
।
तया हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धाः पूर्वा इति॥३२॥
विप्रलब्धाः वञ्चिताः ॥३२॥
तमब्रवीद्राजा तया समर्थी सा मे दियतामिति॥३३॥
अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति॥३४॥
स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात् त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात् तवेति॥३५॥
ब्रह्मण्यं ब्राह्मणहितं तेन रहितानि अब्रह्मण्यानि ॥३५॥
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षेण बाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोऽस्मीति॥३६॥
स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत्॥३७॥
अथ कस्यचित् कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति
।
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम॥३८॥
अथ कदाचिच्छलो मृगयामनुचरन् मृगमासाद्य रथेनान्वधावत्॥३९॥
सूतं चोवाच शीघ्रं मां वहस्वेति स तथोक्तः सूतो राजानमब्रवीत्॥४०॥
न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति
।
ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाम्यौ हन्मि च त्वामिति
।
स एवमुक्तो राजभयभीतः सुतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे
।
ततः पुनः स राजा खड्गमुद्यम्य शीघ्रं कथयस्वेति तमाह हनिष्ये त्वामिति
।
स तदाऽऽह राजभयभीतः सूतो वामदेवस्याश्वौ वाम्यौ मनोजवाविति॥४१॥
वाम्यौ वामदेवीयौ रथे युक्तौ अश्वौ अश्वतरौ । वामीप्रयुक्तेनेति वाक्यशेषात् ॥४१॥
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयाहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्॥४२॥
भगवन् मृगो मे विद्धः पलायते सम्भावयितुमर्हसि वाम्यौ दातुमिति
।
तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यात्यौ क्षिप्रमिति
।
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वामीप्रयुक्तेन रथेन मृगं प्रतिगच्छंश्चाब्रवीत् सूतमश्वरत्नाविमावयोग्यौ ब्राह्मणानां नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत्॥४३॥
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न प्रतिनिर्यातयत्यहो कष्टमिति॥४४॥
पत्रं वाहनम् ॥४४॥
स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत्॥४४॥
पत्रं वाहनम् ॥४४॥
गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति
।
स गत्वैवं तं राजानमब्रवीत् तं राजा प्रत्युवाच राज्ञामेतद्वाहनमनहा ब्राह्मणा रत्नानामेवंविधानां किं ब्राह्मणानामश्वैः कार्यं साधु गम्यताम्॥४६॥
स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा॥४७॥
वामदेव उवाच।
प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम्
।
मा त्वा वधीद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानम्॥४८॥
अन्तरे भेदे ॥४८॥
राजोवाच
।
अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव
।
ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति॥४९॥
वामदेव उवाच।
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन् पार्थिव यानि सन्ति
।
अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन्॥५०॥
राजोवाच
।
चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः
।
तैस्त्वं याहि क्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि॥५१॥
वाहो वाहनम् ॥५१॥
वामदेव उवाच।
घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन् यदिहाजीवमानः
।
अयस्मया घोररूपा महान्तश्चत्वारो वा यातुधानाः सुरौद्राः
।
मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतुर्धा॥५२॥
यदेतत् ब्राह्मणस्य स्वमाजीवमानोऽस्येतदिह घोरमनिष्टपाकं व्रतं कर्माहुरित्यन्वयः । वहन्तु चतुर्दिक्षु प्रापयन्तु चतुर्धा कृत्वेति शेषः ॥५२॥
राजोवाच
।
ये त्वां विदुर्ब्राह्मणं वामदव वाचा हन्तुं मनसा कर्मणा वा
।
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः॥५३॥
ये त्वां मां हन्तुमुद्युक्तं ते मदीयास्त्वामेव पातयन्त्वित्यर्थः ॥५३॥
वामदेव उवाच।
ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य मे त्वम्
।
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात्॥५४॥
राजोवाच
।
न ब्राह्मणेभ्यो मृगया प्रसूता न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम्
।
तवैवाज्ञां सम्प्रणिधाय सर्वान्स्तथा ब्रह्मन् पुण्यलोकं लभेयम्॥५५॥
असत्यं मिथ्यावादिनमपि त्वा त्वां नानुशास्मि न दण्डयामि । अद्यप्रभृति तवाज्ञामिति सम्बन्धः । तवापराधान् क्षमिष्ये आज्ञया च वर्तिष्ये इति वरद्वयं ज्ञेयम् ॥५५॥
वामदेव उवाच।
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन् मनसा कर्मणा वा
।
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः॥५६॥
एतत् प्रत्याचष्टे नेति । अनुयोगः शासनम् । अदण्ड्या ब्राह्मणा इत्यर्थः । ब्रह्म ब्राह्मणजातिं यो ब्राह्मणसेवी स जीवत्यन्यो नश्यतीत्यर्थः । वरद्वयमपि निरर्थकमिति भावः ॥५६॥
मार्कण्डेय उवाच।
एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः
।
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम्॥५७॥
इक्ष्वाकवो यदि ब्रह्मन् दलो वा विधेया मे यदि चेमे विशोऽपि
।
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधाः कर्मशीला भवन्ति॥५८॥
दलः कनिष्ठो भ्राता । विधेया आज्ञाकारिणः ॥५८॥
एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाशु महीं क्षितीशः
।
ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन्॥५९॥
निपातितं मृतम् ॥५९॥
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः
।
दलं राजानं ब्राह्मणानां हि देयमेवं राजन् सर्वधर्मेषु दृष्टम्॥६०॥
बिभेषि चेत् त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ
।
एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात्॥६१॥
एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर सङ्गृहीतम्
।
येन विद्धो वामदेवः शयीत सन्दश्यमानः श्वभिरार्तरूपः॥६२॥
वामदेव उवाच।
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र
।
तं जहि त्वं मद्वचनात् प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः॥६३॥
तं जहि तव सायकस्त्वत्पुत्रमेव हिंसिष्यति न तु मामित्यर्थः ॥६३॥
मार्कण्डेय उवाच।
एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान
।
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे॥६४॥
राजोवाच
।
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य
।
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः॥६५॥
वामदेव उवाच।
यत् त्वमेनं सायकं घोररूपं विषेण दिग्धं मम सन्दधासि
।
न त्वेतं त्वं शरवर्षं विमोक्तुं सन्धातुं वा शक्यसे मानवेन्द्र॥६६॥
राजोवाच।
इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्
।
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान् वै जीवतु वामदेवः॥६७॥
एवमुक्त्वा वामदेवेन स्तम्भितहस्तपादो राजोवाच इक्ष्वाकव इति ॥६७॥
वामदेव उवाच।
संस्पृश्यैनां महिषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम्
।
ततस्तथा कृतवान् पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे॥६८॥
संस्पृश्य हत्वा एनसो ब्रह्महत्याध्यवसायजात् पापात् ॥६८॥
राजपुत्र्युवाच।
यथा युक्ता वामदेवाहमेनं दिने दिने सन्दिशन्ती नृशंसम्
।
ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन् पुण्यलोकं लभेयम्॥६९॥
एनं नृशंसं भर्तारं दिने दिने सूनृतानि कल्याणकराणि वाक्यानि सन्दिशन्तीति सम्बन्धः । ब्राह्मणेभ्यो मृगयती ब्राह्मणान् सेवितुमिच्छन्ती ॥६९॥
वामदेव उवाच।
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते
।
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये॥७०॥
राजपुत्र्युवाच।
वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्बिषादद्य भर्ता
।
शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य॥७१॥
मार्कण्डेय उवाच।
श्रुत्वा वचः स मुनी राजपुत्र्यास्तथाऽस्त्विति प्राह कुरुप्रवीर
।
ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य॥७२॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि मण्डूकोपाख्याने द्विनवत्यधिकशततमोऽध्यायः॥१९२॥
वैशम्पायन उवाच।
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान् सर्वानुवाच॥१॥
मार्कण्डेयमृषय इत्यादेरध्यायस्य तात्पर्यं ब्रह्मविद्यालब्धं चिरजीवित्वमपि दुःखमिश्रमतो विदेहकैवल्यमेव श्रेष्ठमिति ॥१॥
महातपा दीर्घायुश्च बको राजर्षिर्नात्र कार्या विचारणा॥२॥
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत
।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः॥३॥
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ
।
सखायौ देवराजस्य तावृषी लोकसम्मतौ॥४॥
एतदिच्छामि भगवन् बकशक्रसमागमम्
।
सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे॥५॥
मार्कण्डेय उवाच।
वृत्ते देवासुरे राजन् सङ्ग्रामे लोमहर्षणे
।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत्॥६॥
सम्यग्वर्षति पर्जन्ये सस्यसम्पद उत्तमाः
।
निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः॥७॥
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः
।
ताः प्रजा मुदिताः सर्वा दृष्ट्वा बलनिषूदनः॥८॥
ततस्तु मुदितो राजन् देवराजः शतक्रतुः
।
ऐरावतं समास्थाय ताः पश्यन् मुदिताः प्रजाः॥९॥
आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः
।
नगराणि समृद्धानि खेटान् जनपदांस्तथा॥१०॥
प्रजापालनदक्षांश्च नरेन्द्रान् धर्मचारिणः
।
उदपानं प्रपा वापी तडागानि सरांसि च॥११॥
नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः
।
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः॥१२॥
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले
।
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप॥१३॥
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्
।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट्॥१४॥
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत्
।
पाद्यासनार्घदानेन फलमूलैरथार्चयत्॥१५॥
सुखोपविष्टो वरदस्ततस्तु बलसूदनः
।
ततः प्रश्नं बकं देव उवाच त्रिदशेश्वरः॥१६॥
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ
।
समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम्॥१७॥
बक उवाच।
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः
।
असद्भिः सम्प्रयोगश्च तद्दुःखं चिरजीविनाम्॥१८॥
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि
।
परेष्वायत्तता कृच्छ्रं किं नु दुःखतरं ततः॥१९॥
नान्यद्दुःखतरं किञ्चिल्लोकेषु प्रतिभाति मे
।
अथैर्विहीनः पुरुषः परैः सम्परिभूयते॥२०॥
अकुलानां कुले भावं कुलीनानां कुलक्षयम्
।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः॥२१॥
अपि प्रत्यक्षमेवैतत् तव देव शतक्रतो
।
अकुलानां समृद्धानां कथं कुलविपर्ययः॥२२॥
देव-दानव-गन्धर्व-मनुष्योरग-राक्षसाः
।
प्राप्नुवन्ति विपर्यासं किं नु दुःखतरं ततः॥२३॥
कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः
।
आढ्यैर्दरिद्राऽवमताः किं नु दुःखतरं ततः॥२४॥
लोके वैधर्म्यमेतत् तु दृश्यते बहुविस्तरम्
।
हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः॥२५॥
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते
।
इन्द्र उवाच।
पुनरेव महाभाग देवर्षिगणसेवित॥२६॥
समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम्
।
बक उवाच।
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे॥२७॥
कुभित्राण्यनपाश्रित्य किं वै सुखतरं ततः
।
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम्॥२८॥
अपि शाकं पचानस्य सुखं वै मघवन् गृहे
।
अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन॥२९॥
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे
।
परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः॥३०॥
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम्
।
श्ववत् कीलालपो यस्तु परान्नं भोक्तुमिच्छति॥३१॥
धिगस्तु तस्य तद्भुक्तं कृपणस्य दुरात्मनः
।
यो दत्वाऽतिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः॥३२॥
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः
।
अतो मृष्टतरं नान्यत् पूतं किञ्चिच्छतक्रतो॥३३॥
दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः
।
यावतो ह्यन्धसः पिण्डानश्नाति सततं द्विजः॥३४॥
तावतां गोसहस्त्राणां फलं प्राप्नोति दायकः
।
यदेनो यौवनकृतं तत् सर्वं नश्यते ध्रुवम्॥३५॥
सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम्
।
यद्वारि वारिणा सिञ्चेत् तद्ध्येनस्तरते क्षणात्॥३६॥
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः
।
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः॥३७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणमहाभाग्ये बकशक्रसंवादे त्रिनवत्यधिकशततमोऽध्यायः॥१९३॥
मार्कण्डेय उवाच।
देवानां कथा सञ्जाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति
।
एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम्॥१॥
देवानामिति ॥१॥
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण॥२॥
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत्॥३॥
अथ पुरोहितो राजानमब्रवीत्
।
प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते॥४॥
वसु ददातु अन्तवान् पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः॥५॥
घोरं निन्दितमनिष्टसूचकमित्यर्थः । मृत्युदूतत्वात् कपोतस्य । अन्तवान् दिगन्तानामीश्वरः ॥५॥
अथ कपोतो राजानमब्रवीत्
।
प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये॥६॥
अङ्गैरिति । मुनिरहं स्वशरीरेण कपोतशरीरं प्रविष्टोऽस्मीत्यर्थः । प्राणान् प्राणरक्षकत्वेन त्वमेव मम प्राणा इत्यर्थः ॥६॥
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि
।
तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम्
।
एवं युक्तमपापं मां विद्धि॥७॥
गदामि वेदान् विचिनोमि छन्दः सर्वे वेदा अक्षरशो मे अधीताः
।
न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि॥८॥
श्रोत्रियस्य मे श्येनाय त्वत्कर्तृकं प्रदानं न साधुदानम् ॥८॥
अथ श्येनो राजानमब्रवीत्॥९॥
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात् कपोतात्
।
त्वमाददानोऽथ कपोतमेनं भो त्वं राजन् विघ्नकर्ता भवेथाः॥१०॥
पर्यायेणेति । पितृपुत्रभार्यामातृप्रभृतीनामाधरोत्तर्येण या जाया सैव भवान्तरे माता । यः पुत्रः स एव पिता । एवं शत्रुर्मित्रं भवति । मित्रं वा शत्रुरिति भवेषु जन्मसु पर्यायेण वसतिः स्थितिर्भवति । अतस्त्वं सर्गे सृष्टौ अस्मात् कपोतात् जातोऽसि । अतस्त्वं तव जन्मान्तरीयं पितरं कपोतम् आददानो रक्षन् मम आहारे विघ्नं मा कुर्वित्यर्थः ॥१०॥
राजोवाच।
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकुनेन संस्कृता
।
यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु॥११॥
शकुनेनेत्यकारान्तोऽपि । एतयोः स्वरूपं ज्ञात्वा साधु कर्म कथं कुर्यामिति विमृशतीत्यर्थः ॥११॥
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम्
।
भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत् त्राणमिच्छन् स काले॥१२॥
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते
।
भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम्॥१३॥
ह्रस्वा शैशवे एव प्रजा प्रमीयते म्रियते ॥१३॥
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्भ्रश्यति शीघ्रमेव
।
भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्॥१४॥
मोघं निष्फलं सोऽन्नं विन्दति लभते । अप्रचेताः अनुदारः ॥१४॥
उक्षाणं पक्त्वा सह ओदनेन अस्मात् कपोतात् प्रति ते नयन्तु
।
यस्मिन् देशे रमसेऽतीव श्येन तत्र मांसं शिबयस्ते वहन्तु॥१५॥
अस्मात् कपोतात् एनं कपोतं मोचयित्वा ते तुभ्यं प्रतिनयन्तु प्रतिनिधित्वेन समर्पयन्तु ॥१५॥
श्येन उवाच।
नोक्षाणो राजन् प्रार्थयेयं न चान्यदस्मान्मांसमधिकं वा कपोतात्
।
देवैर्दत्तः सोऽद्य ममैष भक्षस्तन्मे ददस्व शकुनानामभावात्॥१६॥
ददस्व ‘दद दाने’ इत्यस्य रूपम् । शकुनानामेकस्मिन्नेव बहुत्वमभावात् नाशेन ॥१६॥
राजोवाच।
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव
।
भयाहितस्य दायं ममान्तिकात् त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः॥१७॥
उक्षाणं बलीवर्दं वेहतं वन्ध्यां गां वा अनूनं सर्वाङ्गसम्पूर्णं यथा स्यात् तथा । भयाहितस्य भीग्रस्तस्य कपोतस्य दायं प्रतिधनं प्रत्याम्नायं नयन्तु प्रापयन्तु पश्यन्तु आलोचयन्तु च । सन्तः एनं कपोतं मा हिंसीरिति ॥१७॥
त्यजे प्राणान्नैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन
।
यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथञ्चित्॥१८॥
सौम्यो ह्ययं सोमसंयुक्तक्रतुवन्नित्यं परिपाल्यो ह्ययं हे सौम्य सोमवत् प्रियदर्शन ॥१८॥
यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु
।
यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत् करोमि॥१९॥
श्येन उवाच।
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन् यावन्मांसं कपोतेन समम्
।
तथा तस्मात् साधु त्रातः कपोतः प्रशंसेयुश्च शिबयः कृतं च प्रियं स्यान्ममेति॥२०॥
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाऽऽधारयत्
।
गुरुतर एव कपोत आसीत्॥२१॥
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः
।
एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास
।
तत् तथापि गुरुतर एव कपोत आसीत्॥२२॥
अधिकृत्य छित्वा ॥२२॥
अथ राजा स्वयमेव तुलामारुरोह
।
न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्ट्वा त्रात इत्युक्त्वा प्रालीयत श्येनोऽथ राजा अब्रवीत्॥२३॥
अपर्याप्तौ स्वयमेव तुलामाविवेश व्यलीकमप्रियं त्रातस्त्वया कपोत इत्युक्त्वा ॥२३॥
कपोतं विद्युः शिबयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः
।
नानीश्वर ईदृशं जातु कुर्यादेतं प्रश्नं भगवन् मे विचक्ष्व॥२४॥
कपोत उवाच।
वैश्वानरोऽहं ज्वलनो धूमकेतुरथैव श्येनो वज्रहस्तः शचीपतिः
।
साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशं प्रपन्नौ॥२५॥
हे सौरथेय सुरथायाः पुत्र नौ आवां विद्धीति शेषः ॥२५॥
यामेतां पेशीं मम निष्कयाय प्रादाद्भवानसिनोत्कृत्य राजन्
।
एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्॥२६॥
असिना खड्गेन एतन्मांसं वः नृपाणां लक्ष्म चिह्नं करोमि ॥२६॥
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ संमतो भृशम्
।
एतस्मात् पार्श्वात् पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम॥२७॥
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम्॥२८॥
शिबिना शिथिलशरीरेण जातमौद्भिदमुद्भेदेन जातं यशसा दीप्यमानम् ॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि शिबिचरिते सप्तनवत्यधिकशततमोऽध्यायः॥१९७॥
वैशम्पायन उवाच।
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवो मार्कण्डेयम्
।
अथाचष्ट मार्कण्डेयः
।
अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन्॥१॥
भूय इति ॥१॥
भ्रातरश्चास्य प्रतर्दनो वसुमनाः शिबिरौशीनर इति
।
स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान् रथमित्यब्रुवन्॥२॥
तांस्तथेत्युक्त्वा रथमारुरोह
।
अथ तेषामेकः सुरर्षिं नारदमब्रवीत्
।
प्रसाद्य भगवन्तं किञ्चिदिच्छेयं प्रष्टुमिति॥३॥
पृच्छेत्यब्रवीदृषिः
।
सोऽब्रवीदायुष्मन्तः सर्वगुणप्रमुदिताः
।
अथायुष्मन्तं स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात् कोऽवतरेत्
।
अयमष्टकोऽवतरेदित्यब्रवीदृषिः॥४॥
आयुष्मन्तं चिरकालभोग्यं स्वर्गस्थानम् पुंस्त्वमार्षम् । अवतरेत् स्वर्गात् भूमौ प्रथममिति शेषः ॥४॥
किं कारणमित्यपृच्छत्
।
अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमा गाव इति सोऽब्रवीत्
।
मया निस्सृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन
।
एषोऽवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत्॥५॥
प्रतर्दन इत्यब्रवीदृषिः
।
तत्र किं कारणं प्रतर्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत्॥६॥
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान्निवृत्तो दास्यामीत्यब्रवीद्ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद्ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत्॥७॥
पार्श्वरथचक्रप्रदेशस्थमश्वम् ॥७॥
अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत्
।
तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात् पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोऽथ तस्मै अपनह्य वामं धुर्यमददत्॥८॥
अथ प्रायात् पुनरन्य आगच्छदश्वार्थी ब्राह्मणस्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद्ब्राह्मणस्तस्मै दत्वाऽश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किञ्चिदिति॥९॥
अतियातोऽतिवेगवान् । अश्वचतुष्टयस्यापि दानात् धुरं स्वहस्तेनैव गृह्णता साम्प्रतं युक्तायुक्तविचारः ॥९॥
य एष ददाति चासूयति च तेन व्याहृतेन तथाऽवतरेत्
।
अथ द्वाभ्यां यातव्यमिति कोऽवतरेत्॥१०॥
वसुमना अवतरेदित्यब्रवीदृषिः॥११॥
किं कारणमित्यपृच्छदथाचष्ट नारदः
।
अहं परिभ्रमन् वसुमनसो गृहमुपस्थितः॥१२॥
स्वस्तिवचनमासीत् पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः॥१३॥
पुष्परथस्य गिरिगगनसागरेष्वप्रतिषिद्धमार्गस्य प्रयोजनेन तदर्थमित्यर्थः ॥१३॥
तमहं रथं प्राशंसमथ राजाऽब्रवीद्भगवता रथः प्रशस्तः
।
एष भगवतो भगवतो रथ इति॥१४॥
रथः स्तुत एव न तु याचितः । राजाऽपि ममाशयं बुद्ध्वापि रथं न दत्तवान् रथस्तुतिं चानुमोदितवानिति प्रघट्टकार्थः ॥१४॥
अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत्
।
सम्यगयमेष भगवत इत्येवंराजाऽब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभिप्रेक्ष्याब्रवीत्
।
अथो भगवता पुष्परथस्य स्वस्तिवाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत्॥१५॥
द्रोहवचनेन अदत्वा वृथास्तवेन ॥१५॥
अथैकेन यातव्यं स्यात् कोऽवतरेत् पुनर्नारद आह
।
शिबिर्यायादहमवतरेयमत्र किं कारणमित्यब्रवीत्
।
असावहं शिबिना समो नास्मि यतो ब्राह्मणः कश्चिदेनमब्रवीत्॥१६॥
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिबिः किं क्रियतामाज्ञापयतु भवानिति॥१७॥
अथैनं ब्राह्मणोऽब्रवीत् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोपपादय ततोऽहं प्रतीक्ष्य इति
।
ततः पुत्रं प्रमाथ्य संस्कृत्य विधिना साधयित्वा पात्र्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत्॥१८॥
अथास्य मृगयमाणस्य कश्चिदाचष्ट एष ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति॥१९॥
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत् सिद्धं भगवन्नन्नमिति ब्राह्मणो न किञ्चिद्व्याजहार विस्मयादधोमुखश्चासीत्॥२०॥
ततः प्रासादयद्ब्राह्मणं भगवन् भुज्यतामिति
।
मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत्॥२१॥
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवाविमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत्॥२२॥
महित्वा पूजयित्वा । कपालं शीर्षास्थिपात्रम् ॥२२॥
अथास्य ब्राह्मणो हस्तमगृह्णात्
।
अब्रवीच्चैनं जितक्रोधोऽसि न ते किञ्चिदपरित्याज्यं ब्राह्मण्यार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत्॥२३॥
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत॥२४॥
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमूचुः
।
किं प्रेप्सुना भवता इदमेवं जानता कृतमिति॥२५॥
शिबिरुवाच
।
नैवाहमेतद्यशसे ददानि न चार्थहेतोर्न च भोगतृष्णया
।
पापैरनासेवित एष मार्ग इत्येवमेतत् सकलं करोमि॥२६॥
सद्भिः सदाऽध्यासितं तु प्रशस्तं तस्मात् प्रशस्तं श्रयते मतिर्मे
।
एतन्महाभाग्यवरं शिबेस्तु तस्मादहं वेद यथावदेतत्॥२७॥
यो दत्वा श्लाघते यश्चासूयेत् यश्चार्थिनो लिप्सितमिङ्गित्तैर्ज्ञात्वाऽपि तं स्तुतिमात्रेणैव सम्भावयति न त्वर्थेन । यश्च ब्राह्मणेनार्थितः श्रद्धाक्षमापूर्वकमदेयमपि ददाति अकर्तव्यमपि करोति ते उत्तरोत्तरं श्रेष्ठाः । तत्राऽप्यन्त्यो नारदादपि श्रेष्ठ इति दातुर्गुणदोषविधानपरोऽयमध्यायः ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि राजन्यमहाभाग्ये शिबिचरिते अष्टनवत्यधिकशततमोऽध्यायः॥१९८॥
वैशम्पायन उवाच।
श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत् तदा
।
मार्कण्डेयान्महाभागात् स्वर्गस्य प्रतिपादनम्॥१॥
अतः परं स्वर्गप्रदान् साधारणान् धर्मानाहाध्यायेन श्रुत्वा स राजा राजर्षिरित्यादिना वदन्ति लोकेषु विशिष्टबुद्धय इत्यन्तेन ॥१॥
युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम्
।
कीदृशीषु ह्यवस्थासु दत्वा दानं महामुने॥२॥
इन्द्रलोकं त्वनुभवेत् पुरुषस्तद्ब्रवीहि मे
।
गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा
।
यथा फलं समश्नाति तथा त्वं कथयस्व मे॥३॥
मार्कण्डेय उवाच।
वृथा जन्मानि चत्वारि वृथा दानानि षोडश
।
वृथा जन्म ह्यपुत्रस्य ये च धर्मबहिष्कृताः॥४॥
परपाकेषु येऽश्नन्ति आत्मार्थं च पचेत् तु यः
।
पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते॥५॥
पर्यश्नन्ति बालवृद्धातिथिभ्यः पूर्वमश्रन्ति । यत्र जन्मनि असत्यं वृथा गोब्राह्मणादित्राणं विना कीर्त्यते तदपि वृथेत्यर्थः ॥५॥
आरूढपतिते दत्तमन्यायोपहृतं च यत्
।
व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा॥६॥
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके
।
वेदविक्रयिणे दत्तं तथा वृषलयाजके॥७॥
गुरावप्यानृतिकेऽनृतप्रिये वृषलः शुद्रः ॥७॥
ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ
।
स्त्रीजनेषु च यद्दत्तं व्यालग्राहे तथैव च॥८॥
आरूढश्चासौ पतितः ॥८॥
ब्रह्मबन्धवो जातिमात्रब्राह्मणा वृत्ताध्ययनशून्याः ॥८॥
परिचारकेषु यद्दत्तं वृथादानानि षोडश
।
तमोवृतस्तु यो दद्याद्भयात् क्रोधात् तथैव च॥९॥
भुङ्क्ते च दानं तत् सर्वं गर्भस्थस्तु नरः सदा
।
ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः॥१०॥
दानं दानफलम् । अन्यत्तु दानं वृद्धभावेन जरया भुङ्क्ते ॥१०॥
तस्मात् सर्वास्ववस्थासु सर्वदानानि पार्थिव
।
दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया॥११॥
युधिष्ठिर उवाच।
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे
।
केन विप्रा विशेषेण तारयन्ति तरन्ति च॥१२॥
मार्कण्डेय उवाच।
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्ययनेन च
।
नावं वेदमयीं कृत्वा तारयन्ति तरन्ति च॥१३॥
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः
।
वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात्॥१४॥
पितृदैवतपूजा भिर्ब्राह्मणाभ्यर्चनेन च
।
अनन्तं पुण्यलोकं तु गन्ताऽसि त्वं न संशयः॥१५॥
श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽचिचेतनः
।
ब्राह्मणा एव सम्पूज्याः पुण्यं स्वर्गमभीप्सता॥१६॥
श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः
।
दुर्वर्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ॥१७॥
अजुगुप्सिताः अभिशस्तपतितवर्जिताः दुर्वर्णः अतिगौरोऽतिकृष्णो बीभत्सवर्णः ॥१७॥
वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः
।
जुगुप्सितं हि यछ्राद्धं दहत्यग्निरिवेन्धनम्॥१८॥
काण्डपृष्ठाः बाणनिषङ्गधराः क्षात्रवृत्तय इत्यर्थः ॥१८॥
ये ये श्राद्धे न युज्यन्ते मूकान्धबधिरादयः
।
तेऽपि सर्वे नियोक्तव्या मिश्रिता वेदपारगैः॥१९॥
प्रतिग्रहश्च वै देयः शृणु यस्य युधिष्ठिर
।
प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान्॥२०॥
तस्मिन् देयं द्विजे दानं सर्वागमविजानता
।
प्रदातारं तथाऽऽत्मानं तारयेद्यः स शक्तिमान्॥२१॥
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः
।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने॥२२॥
तस्मात् त्वं सर्वयत्नेन यतस्वातिथिभोजने
।
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्॥२३॥
सा बहुभ्यो दत्ता ॥२३॥
प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम्
।
देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम्॥२४॥
माल्यं निर्माल्यम् ॥२४॥
आकल्पपरिचर्या च मात्रसंवाहनानि च
।
अत्रैकैकं नृपश्रेष्ठ गोदानाद्द्यतिरिच्यते॥२५॥
आकल्पः गन्धादिनाऽलङ्करणम् ॥२५॥
कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः
।
तस्मादलङ्कृतां दद्यात् कपिलां तु द्विजातये॥२६॥
श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे
।
पुत्रदाराभिभूताय तथा ह्यनुपकारिणे॥२७॥
अभिभूताय दारिद्र्यादेव ॥२७॥
एवंविधेषु दातव्या न समृद्धेषु भारत
।
को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम्॥२८॥
अभिवर्जितं दत्तम् ॥२८॥
एकस्यैका प्रदातव्या न बहूनां कदाचन
।
सा गौर्विक्रयमापन्ना हन्यात् त्रिपुरुषं कुलम्॥२९॥
न तारयति दातारं ब्राह्मणं नैव नैव तु
।
सुवर्णस्य विशुद्धस्य सुवर्णं यः प्रयच्छति॥३०॥
सुवर्णानां शतं तेन दत्तं भवति शाश्वतम्
।
अनड्वाहं तु यो दद्याद्बलवन्तं धुरन्धरम्॥३१॥
स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति
।
वसुन्धरां तु यो दद्याद्द्विजाय विदुषात्मने॥३२॥
दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः
।
पृच्छन्ति चात्र दातारं वदन्ति पुरुषा भुवि॥३३
।
अध्वनि क्षीणगात्राश्च पांसुपादावगुण्ठिताः
।
तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः॥३४॥
अन्नदातृसमः सोऽपि कीर्त्यते नात्र संशयः
।
तस्मात् त्वं सर्वदानानि हित्वाऽन्नं सम्प्रयच्छ ह॥३५॥
न हीदृशं पुण्यफलं विचित्रमिह विद्यते
।
यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम्॥३६॥
स तेन कर्मणाऽऽप्नोति प्रजापतिसलोकताम्
।
अन्नमेव विशिष्टं हि तस्मात् परतरं न च॥३७॥
अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः
।
संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम्॥३८॥
प्रजापतिः विराट् ‘अन्नं विराट्र’ इति श्रुतेः ॥३८॥
तस्मात् सर्वाणि भूतानि स्थावराणि चराणि च
।
तस्मादन्नं विशिष्टं हि सर्वेभ्य इति विश्रुतम्॥३९॥
येषां तटाकानि महोदकानि वाप्यश्च कूपाश्च प्रतिश्रयाश्च
।
अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति॥४०॥
प्रतिश्रयाः गृहाः येषाम् । यैः उत्सृष्टा इति शेषः। निर्वचनाः यमवार्तामपि न श्रृण्वन्तीत्यर्थः ॥४०॥
धान्यं श्रमेणार्जितवित्तसञ्चितं विप्रे सुशीले च प्रयच्छते यः
।
वसुन्धरा तस्य भवेत् सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव॥४१॥
वसूनां घनानाम् ॥४१॥
अन्नदाः प्रथमं यान्ति सत्यवाक्तदनन्तरम्
।
अयाचितप्रदाता च समं यान्ति त्रयो जनाः॥४२॥
वैशम्पायन उवाच।
कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः
।
मार्कण्डेयं महात्मानं पुनरेव सहानुजः॥४३॥
यमलोकस्य चाध्वानमन्तरं मानुषस्य च
।
कीदृशं किंप्रमाणं वा कथं वा तन्महामुने
।
तरन्ति पुरुषाश्चैव येनोपायेन शंस मे॥४४॥
मार्कण्डेय उवाच।
सर्वगृह्यतमं प्रश्नं पवित्रमृषिसंस्तुतम्
।
कथयिष्यामि ते राजन् धर्मं धर्मभृतां वर॥४५॥
षडशीतिसहस्राणि योजनानां नराधिप
।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च॥४६॥
आकाशं तदपानीयं घोरं कान्तारदर्शनम्
।
न तत्र वृक्षच्छाया वा पानीयं केतनानि च॥४७॥
विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः
।
नीयते यमदूतैस्तु यमस्याज्ञाकरैर्बलात्॥४८॥
नरास्त्रियस्तथैवाऽन्ये पृथिव्यां जीवसंज्ञिताः
।
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव॥४९॥
हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः
।
सन्निवार्यातपं यान्ति छत्रेणैव हि छत्रदाः॥५०॥
तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः
।
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः॥५१॥
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलङ्कृताः
।
भूमिदास्तु सुखं यान्ति सर्वैः कामैः सुतर्पिताः॥५२॥
यान्ति चैवापरिक्लिष्टा नराः सस्यप्रदायकाः
।
नराः सुखतरं यान्ति विमानेषु गृहप्रदाः॥५३॥
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः
।
पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम्॥५४॥
गोप्रदास्तु सुखं यान्ति निर्भुक्ताः सर्वपातकैः
।
विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः॥५५॥
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः
।
त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव॥५६॥
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः
।
पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः॥५७॥
तत्र पुष्पोदका नाम नदी तेषां विधीयते
।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम्॥५८॥
ये च दुष्कृतकर्माणः पूयं तेषां विधीयते
।
एवं नदी महाराज सर्वकामप्रदा हि सा॥५९॥
तस्मात् त्वमपि राजेन्द्र पूजयैनान् यथाविधि
।
अध्वनि क्षीणगात्रश्च पथि पांसुसमन्वितः॥६०॥
पृच्छते ह्यन्नदातारं गृहमायाति चाशया
।
तं पूजयाथ यत्नेन सोऽतिथिर्बाह्मणश्च सः॥६१॥
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः
।
तस्मिन् सम्पूजिते प्रीता निराशा यान्त्यपूजिते॥६२॥
तस्मात् त्वमपि राजेन्द्र पूजयैनं यथाविधि
।
एतत् ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि॥६३॥
युधिष्ठिर उवाच।
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम्
।
पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो॥६४॥
मार्कण्डेय उवाच।
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप
।
सर्वपापहरां नित्यं शृणुष्वावहितो मम॥६५॥
कपिलायां तु दत्तायां यत् फलं ज्येष्ठपुष्करे
।
तत् फलं भरतश्रेष्ठ विप्राणां पादधावने॥६६॥
द्विजपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी
।
तावत् पुष्करपर्णेन पिबन्ति पितरो जलम्॥६७॥
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः
।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः॥६८॥
यावद्वत्सस्य वै पादौ शिरश्चैव प्रदृश्यते
।
तस्मिन् काले प्रदातव्या प्रयत्नेनान्तरात्मना॥६९॥
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते
।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति॥७०॥
यावन्ति तस्या रोमाणि वत्सस्य च युधिष्ठिर
।
तावद्युगसहस्राणि स्वर्गलोके महीयते॥७१॥
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम्
।
तिलैः प्रच्छादितां दद्यात् सर्वरत्तैरलङ्कृताम्॥७२॥
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे
।
फलानां फलमश्नाति तदा दत्त्वा च भारत॥७३॥
ससमुद्रगुहा तेन सशैलवनकानना
।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः॥७४॥
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः
।
यो द्विजः शब्दरहितं स क्षमस्तारणाय वै॥७५॥
अपानपानगदितास्तथाऽन्ये ये द्विजातयः
।
जपन्ति संहितां सम्यक् ते नित्यं तारणक्षमाः॥७६॥
अपानपाः अमद्यपाः न गदिताः न केनचिद्दोषवत्तया कीर्तिताः ॥७६॥
हव्यं कव्यं च यत् किञ्चित् सर्वं तच्छ्रोत्रियोऽर्हति
।
दत्तं हि श्रोत्रिये साधौ ज्वलितेऽग्नौ यथा हुतम्॥७७॥
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः
।
निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान्॥७८॥
धर्माश्रितेयं तु कथा कथितेयं तवानघ
।
यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः॥७९॥
वीतशोकभयक्रोधा विपाप्मानस्तथैव च
।
श्रुत्वेमां तु कथां राजन् न भवन्तीह मानवाः॥८०॥
न भवन्तीह मानवाः स्वर्गं प्राप्योपर्युपरिगच्छन्तो मुक्तिमेव प्राप्नुवन्तीत्यर्थः ॥८०॥
युधिष्ठिर उवाच।
किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत्
।
तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतां वर॥८१॥
मार्कण्डेय उवाच।
वाक्शौचं कर्मशौचं च यच्च शौचं जलात्मकम्
।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः॥८२॥
सायं प्रातश्च सन्ध्यां यो ब्राह्मणोऽभ्युपसेवते
।
प्रजपन् पावनीं देवीं गायत्रीं वेदमातरम्॥८३॥
स तया पावितो देव्या ब्राह्मणो नष्टकिल्विषः
।
न सीदेत् प्रतिगृह्णानो महीमपि ससागराम्॥८४॥
ये चास्य दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि
।
ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा॥८५॥
सर्वे नानुगतं चैनं दारुणाः पिशिताशनाः
।
घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम्॥८६॥
नाध्यापनाद्याजनाद्वा अन्यस्माद्वा प्रतिग्रहात्
।
दोषो भवति विप्राणां ज्वलिताग्निसमा द्विजाः॥८७॥
दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा
।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥८८॥
यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति
।
एवं विद्वानविद्वान् वा ब्राह्मणो दैवतं महत्॥८९॥
प्राकारैश्च पुरद्वारैः प्रासादेश्च पृथग्विधैः
।
नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः॥९०॥
वेदाढ्या वृत्तसम्पन्ना ज्ञानवन्तस्तपस्विनः
।
यत्र तिष्ठन्ति वै विप्रास्तन्नाम नगरं नृप॥९१॥
व्रजे वाऽप्यथवाऽरण्ये यत्र सन्ति बहुश्रुताः
।
तत् तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत्॥९२॥
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम्
।
अभिगम्याभिपूज्याथ सद्यः पापात् प्रमुच्यते॥९३॥
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम्
।
सद्भिः सम्भाषणं चैव प्रशस्तं कीर्त्यते बुधैः॥९४॥
पवित्राणां त्रिसुपर्णादिमन्त्राणाम् ॥९४॥
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा
।
पवित्रीकृतमात्मानं सन्तो मन्यन्ति नित्यशः॥९५॥
त्रिदण्डधारणं मौनं जटाभारोऽथ सुण्डनम्
।
चल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम्॥९६॥
अभिषेचनं तीर्थेषु यज्ञान्तेऽवभृथे वा स्नानम् ॥९६॥
अग्निहोत्रं वने वासः शरीरपरिशोषणम्
।
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः॥९७॥
भावश्चित्तम् ॥९७॥
ज दुष्करमनाशित्वं सुकरं ह्यशनं विना
।
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम्॥९८॥
न दुष्करमिति । इन्द्रियगामिनां विषयाणां विशुद्धिं विना अशनं भोगः सुकरं भोगो विषयशुद्धिं नापेक्षते पण्याङ्गनासङ्गादिनापि तत्सिद्धेः । किं तु अनाशित्वम् अमृतत्वं भोगवर्जनं वा तां विना न सुकरम् । यतो दुष्करं स्वभावतो दुःसम्पादमिति योजना । दुष्करत्वे हेतुमाहार्धेन विकारीति । सुदुष्करतरं दुर्जयम् ॥९८॥
विकारि तेषां राजेन्द्र सुदुष्करतरं मनः॥९८॥
न दुष्करमिति । इन्द्रियगामिनां विषयाणां विशुद्धिं विना अशनं भोगः सुकरं भोगो विषयशुद्धिं नापेक्षते पण्याङ्गनासङ्गादिनापि तत्सिद्धेः । किं तु अनाशित्वम् अमृतत्वं भोगवर्जनं वा तां विना न सुकरम् । यतो दुष्करं स्वभावतो दुःसम्पादमिति योजना । दुष्करत्वे हेतुमाहार्धेन विकारीति । सुदुष्करतरं दुर्जयम् ॥९८॥
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः
।
ते तपन्ति महात्मानो न शरीरस्य शोषणम्॥९९॥
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः
।
हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम्॥१००॥
ज्ञातिभ्यः पुत्राद्यर्थे शुक्लदेहः शुक्लवृत्त्युपजीवी अविकल्मषः शुक्लवृत्त्या यः कुटुम्बं पीडयति स निष्कल्मषो न भवतीत्यर्थः । तस्योपपादनमुत्तरार्धेन हिंसेति । अनाशित्वमशनत्यागः ॥१००॥
तिष्ठन् गृहे चैव सुनिर्नित्यं शुचिरलङ्कृतः
।
यावज्जीवं दयावांश्च सर्वपापैः प्रमुच्यते॥१०१॥
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः
।
सीदत्यनशनादेव मांसशोणितलेपनैः॥१०२॥
मांसशोणितलेपनः देहः ॥१०२॥
अज्ञातं कर्म कृत्वा च क्लेशो नान्यत् प्रहीयते
।
नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः॥१०३॥
अज्ञातं शास्त्रात् किं तु स्वयमेव कल्पितं तप्तशिलारोहणादि तेन क्लेश एव न तु अन्यत् पापं प्रहीयते । भावशून्यस्येति । तदपि भावश्चेत् शुद्धिहेतुरिति भावः ॥१०३॥
पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च
।
न मूलफलभक्षित्वान्न मौनान्नानिलाशनात्॥१०४॥
पुण्या देवदयारूपात् वाङ्मनःकायशुद्धिरूपाच्च वैराग्यशुद्धिमोक्षाः स्युर्न तु फलाद्यशनादिनेत्यर्थः ॥१०४॥
शिरसो मुण्डनाद्वापि न स्थानकुटिकासनात्
।
न जटाधारणाद्वापि न तु स्थण्डिलशय्यया॥१०५॥
स्थानकुटिकासनात् स्थावरगृहत्यागात् ॥१०५॥
नित्यं ह्यनशनाद्वापि नाग्निशुश्रूषणादपि
।
न चोदकप्रवेशेन न च क्ष्माशयनादपि॥१०६॥
ज्ञानेन कर्मणा वाऽपि जरामरणमेव च
।
व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम्॥१०७॥
विधित्सितमाह ज्ञानेनेति ॥१०७॥
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा
।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संयुज्यते पुनः॥१०८॥
क्लेशैः अविद्यादिभिः ॥१०८॥
आत्मना विप्रहीणानि काष्ठकुड्योपमानि च
।
विनश्यन्ति न सन्देहः फेनानीव महार्णवे॥१०९॥
आत्मनेति शरीराणीति शेषः । आत्मना विप्रहीणानि निरात्मकानि रज्जूरगादिवत् । यतः काष्ठादिसमानि जडानि दृश्यानीत्यर्थः एतेन यद्दृश्यं तन्मिथ्येति नियमो दर्शितः । मूढदृष्ट्याऽपि नियमान्तरमाह विनश्यन्तीति । यद्दृश्यं तद्विनाशि अतो वियदादिकमहङ्कारश्च साक्षिभास्यत्वात् घटवद्विनाश्येवेत्यर्थः ॥१०९॥
आत्मानं विन्दते येन सर्वभूतगुहाशयम्
।
श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम्॥११०॥
नास्मि देहादिदृश्यरूय इति वा । नाहमहङ्काराख्यद्रष्टृरूपो वा । न मे मत्सम्बन्धिदेहाहङ्कारादिकमिति वाऽऽत्मानं विन्दते ॥११०॥
द्व्यक्षरादभिसन्धाय केचिच्छ्लोकपदाङ्कितैः
।
शतैरन्यैः सहस्त्रैश्च प्रत्ययो मोक्षलक्षणम्॥१११॥
द्व्यक्षरात् तत्त्वमिति वाक्यात् । अभिसन्धाय शास्त्राशयं प्रत्यगात्मनः केवलीभावं ज्ञात्वा श्लोकपदैः ‘सत्यं ज्ञानमनन्तम्’ इत्यादिभिर्मन्त्रपदैः अङ्कितानि चिह्नितानि ब्राह्मणानि ‘ब्रह्मविदाप्नोति परम्’ इत्यादीनि तैः उपनिषदां शतैः सहस्रैर्वेत्यर्थः । प्रत्ययोऽहं ब्रह्मास्मीत्यनुभवः स्वसाक्षिकः अद्वेष्टृत्वादिश्च लोकसाक्षिकः । मोक्षस्य लक्षणं ज्ञापकम् ॥१११॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः
।
ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम्॥११२॥
विदितार्थस्तु वेदानां परिवेद प्रयोजनम्
।
उद्विजेत् स तु वेदेभ्यो दावाग्नेरिव मानवः॥११३॥
परिवेद साकल्येन वेद विदितार्थो ज्ञातात्मतत्त्वः वेदेभ्यः वेदोक्तकर्मभ्यः ॥११३॥
शुष्कं तर्कं परित्यज्य आश्रयस्व श्रुतिं स्मृतिम्
।
एकाक्षराभिसम्बद्धं तत्त्वं हेतुभिरिच्छसि
।
बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात्॥११४॥
शुष्कतर्कं प्रपञ्चः सत्योऽबाध्यत्वात् आत्मवत् व्यतिरेकेण शुक्तिरजतवद्वेत्यादिरूपम् । श्रुतिम् - ‘नेह नानास्ति किञ्चन’ इति । स्मृतिम् - ‘अज्ञानप्रभवा लोका वेदाश्चाज्ञानसम्भवाः । विदितात्मसतत्त्वस्य नेह नानास्ति किञ्चन’ इत्यादिकां जगद्बाधप्रदर्शिनीम् आश्रयस्व ‘नैषा तर्केण मतिरापनेया । नावेदविन्मनुते तं बृहन्तम्’ इति श्रुतिभ्यामेकं च तत् अक्षरं व्यापकं त्रिविधभेदशून्यं वस्तु तत्सम्बद्धं श्रुतिस्मृतितत्त्वं हेतुभिः श्रौतयुक्तिभिः ‘अन्नेन सोम्य शुङ्गेनापो मलमान्विच्छ अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः’ इत्यादिभिः कार्यलिङ्गकेनानुमानेन परमकारणं दर्शयन्तीभिः शुङ्गेन कार्येण मूलं कारणम् इच्छसि यदीति शेषः । बुद्धिस्तत्त्वज्ञानं साधनस्य शमादेः शास्त्रादेर्विपर्ययात् अभावात् अवैदिकत्वाद्वा ॥११४॥
वेदपूर्वं वेदितव्यं प्रयत्नात् तद्वै वेदस्तस्य वेदः शरीरम्
।
वेदस्तत्त्वं तत् समासोपलब्धौ क्लीबस्त्वात्मा तत् स वेद्यस्य वेद्यम्॥११५॥
वेदेति । तत् अक्षरं तत्त्वं वेदः प्रणवः वाच्यवाचकयोरभेदात् शरीरं प्रति प्रमाप्रणवद्वारैव तदधिगमस्य सर्वत्र दर्शनात् । तथा च श्रुतिः - ‘एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’ इत्यादिका वेदस्तत्त्वं तत्त्वाधिगमहेतुः तत्समासोपलब्धौ तस्य वेदस्य समासः सङ्क्षेपः प्रलयो यत्र स तत्समास आत्मा । ‘यत्र वेदा अवेदा’ इति श्रुतेः । तस्योपलब्धौ आत्मा क्लीबः स्वप्रकाश आत्मा न घटवत् स्वात्मानं प्रकाशयति स्वात्मनिवृत्तिविरोधात् । कथं तर्हि तज्ज्ञानस्य साध्यत्वमुच्यत इत्याशङ्क्याह तत्सवेद्यस्य वेद्यमिति । तत्तस्मात् सः आत्मा वेद्यस्य बुद्धिसत्त्वस्य वेद्यं ज्ञेयम् ’दृश्यते त्वग्र्यया बुद्ध्या-’ ’मनसैवानुद्रष्टव्यम्’ इत्यादिश्रुतिभ्यः । कथं तर्हि ‘यन्मनसा न मनुत’ इत्यादिश्रवणम् । उच्यते । ‘चक्षुःसन्निहितं कुम्भं यथा सूर्योऽवभासयेत् । चित्तवृत्त्या तथा व्याप्तं चिदात्मैव प्रकाशयेत् । स्वप्रकाशं चिदात्मानं वृत्तिरात्मान्तरं विना । भासयेद्भास्करमिव चक्षुः सूर्यान्तरं विना । वृत्तिव्याप्तिमपेक्ष्यैव वेद्यत्वं प्राहुरात्मनः । चिदन्तरानपेक्षत्वादवेद्यत्वं तथागमाः’ आगमाः - ‘यन्मनसा न मनुते मनसैवानुद्रष्टव्यम्’ इत्याद्याः । ‘विज्ञातारमरे न विजानीयात्’ इति श्रुतिः । निराकरोति वेद्यत्वमनवस्थाभयादिति ॥११५॥
वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम्
।
फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम्॥११६॥
इन्द्रियाणां प्रसादेन तदेतत् परिवर्जयेत्
।
तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम्॥११७॥
प्रसादेन नैर्मल्येन अनशनं नाम चित्तेन्द्रियनिरोधो न त्वाहारत्याग इत्याह तस्मादिति ॥११७॥
तपसा स्वर्गगमनं भोगो दानेन जायते
।
ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः॥११८॥
उक्तमर्थं पिण्डीकृत्याह तपसेति । तपसा स्वधर्माचरणेन ॥११८॥
वैशम्पायन उवाच।
एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः
।
भगवन् श्रोतुमिच्छामि प्रधानविधिमुत्तमम्॥११९॥
मार्कण्डेय उवाच।
यत् त्वमिच्छसि राजेन्द्र दानधर्मं युधिष्ठिर
।
इष्टं चेदं सदा मह्यं राजन् गौरवतस्तथा॥१२०॥
श्रृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च
।
छायायां करिणः श्राद्धं तत् कर्णपरिवीजिते
।
दश कल्पायुतानीह न क्षीयेत युधिष्ठिर॥१२१॥
छायायां करिणः गुर्वमायोगेऽश्वत्थच्छायागजच्छायाख्यं पर्व देशकालयोगजं कर्णा इव कर्णा अश्वत्थपल्लवास्तैर्वीजिते देशे जलोपान्ते ॥१२१॥
जीवनाय समाक्लिन्नं वसु दत्वा महीयते
।
वैश्यं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान्॥१२२॥
समाक्लिन्नम् आर्द्रं वसु अन्नादिद्रव्यं वैश्यं विशन्त्यस्मिन्निति वेशो धर्मगृहं तदधिकारिणं वैश्यम् ‘वृद्ध्यौषधारव्यान्नधने त्रिषु रत्ने वसु स्मृतम्’ इति । ‘वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके’ इति च विश्वः ॥१२२॥
प्रतिस्त्रोऽतश्चित्रवाहाः पर्जन्योन्नानुसञ्चरन्
।
महाधुरि यथा नावा महापापैः प्रमुच्यते॥१२३॥
प्रतितोश्चस्त्रित्रवाहा इति सार्धः श्लोकः। प्रति प्रतीपं पूर्ववाहिन्या नद्याः पश्चिमाभिमुखं स्रोतः प्रवाहो यत्र तत् तीर्थं प्रतिस्रोतः । तत्र पात्रेऽर्पिताश्चित्रवाहा उत्तमाश्वाः। विपरिणम्य अक्षया इत्यपकृष्यते अक्षयफला इत्यर्थः । पर्जन्योऽन्नानुसञ्चरन् - अन्नार्थमनुसञ्चरन् पर्जन्य इन्द्रोऽप्यक्षयः । अतिथिरूपेण तृप्त इन्द्रोप्यक्षयस्वर्गप्रद इत्यर्थः। ‘पर्जन्यो मघवा वृषा’ इति हलायुधः। महाधुरि महति धूः सदृशे प्रवाहे विप्लवे राहूपरागे विप्रदत्तानि विप्रेभ्यो दत्तानि । दधिमस्तु दन्नो मण्डम् ‘मण्डं दधिभवमस्तु’ इत्यमरः । चकारात् पूर्वोक्तानि नापुरुषो वा यथा महाधुरि योगभारे यथा सर्वपापैः प्रमुच्यते तथैव गजच्छायाश्राद्धादिकर्तारोऽपि मुच्यन्त इत्यर्थः ॥१२३॥
विप्लवे विप्रदत्तानि दधिमस्त्वक्षयाणि च
।
पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत्॥१२४॥
पर्वसु दर्शादिषु ॥१२४॥
अयने विषुवे चैव षडशीतिमुखेषु च
।
चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते॥१२५॥
विषुवे तुलामेषसङ्क्रान्त्योः । षडशीतिमुखे मिथुनकन्यामीनसङ्क्रान्तिषु ॥१२५॥
ऋतुषु दशगुणं वदन्ति दत्तं शतगुणभृत्वयनादिषु ध्रुवम्
।
भवति सहस्त्रगुणं दिनस्य राहोर्विषुवति चाक्षयमश्नुते फलम्॥१२६॥
नाभूमिदो भूमिमश्नाति राजन् नायानदो यानमारुह्य याति
।
यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तान् कामान् जायमानः स भुङ्क्ते॥१२७॥
कामान् काम्यमानान् विषयान् ॥१२७॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः
।
लोकास्त्रयस्ते न भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात्॥१२८॥
परं हि दानान्न बभूव शाश्वतं भव्यं त्रिलोके भवते कुतः पुनः
।
तस्मात् प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः॥१२९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि दानमाहात्म्ये द्विशततमोऽध्यायः॥२००॥
वैशम्पायन उवाच।
श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत् तथा
।
मार्कण्डेयान्महाभागात् स्वर्गस्य प्रतिपादनम्॥१॥
श्रुत्वेति । ऋषीणां राज्ञां च लोककण्टकोद्धरणं परमेश्वरप्रीतिकरमिति धुन्धुमारोपाख्यानतात्पर्य्यम् । पदार्थः स्पष्टः ॥१॥
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ
।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्॥२॥
विदितास्तव धर्मज्ञ देवदानवराक्षसाः
।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः॥३॥
न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम
।
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम्॥४॥
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा
।
इदमिच्छाम्यहं श्रोतुं तत्त्वेन द्विजसत्तम॥५॥
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः
।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः॥६॥
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम
।
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः॥७॥
वैशम्पायन उवाच।
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः
।
धौन्धुमारमुपाख्यानं कथयामास भारत॥८॥
मार्कण्डेय उयाच
।
हन्त ते कथयिष्यामि श्रृणु राजन् युधिष्ठिर
।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु॥९॥
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः
।
धुन्धुमारत्वमगमत् तत्च्छृणुष्व महीपते॥१०॥
महर्षिर्विश्रृतस्तात उत्तङ्क इति भारत
।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव॥११॥
उत्तङ्कस्तु महाराज तपोऽतप्यत् सुदुश्चरम्
।
आरिराधयिषुर्विष्णुं बहून् वर्षगणान् विभुः॥१२॥
तस्य प्रीतः स भगवान् साक्षाद्दर्शनमेयिवान्
।
दृष्ट्वैव चार्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः॥१३॥
उत्तङ्क उवाच।
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः
।
स्थावराणि च भूतानि जङ्गमानि तथैव च॥१४॥
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते
।
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ॥१५॥
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत
।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः॥१६॥
ऊरू ते पर्वता देव खं जङ्घे मधुसूदन
।
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा॥१७॥
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः
।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैस्तवैः॥१८॥
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर
।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः॥१९॥
त्वयि तुष्टे जगत्स्वास्थ्यं त्वयि क्रुद्धे महद्भयम्
।
भयानामपनेताऽसि त्वमेकः पुरुषोत्तम॥२०॥
देवानां मानुषाणां च सर्वभूतसुखावहः
।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया हृताः॥२१॥
असुराणां समृद्धानां विनाशश्च त्वया कृतः
।
तव विक्रमणर्देवा निर्वाणमगमन् परम्॥२२॥
पराभूताश्च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते
।
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः॥२३॥
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः
।
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना॥२४॥
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु
।
उत्तङ्क उवाच।
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान् हरिम्॥२५॥
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम्
।
विष्णुरुवाच
।
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम॥२६॥
अवश्यं हि त्वया ब्रहान् मत्तो ग्राह्यो वरो द्विज
।
एवं स छन्द्यमानस्तु वरेण हरिणा तदा॥२७॥
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम
।
यदि मे भगवन् प्रीतः पुण्डरीकनिभेक्षण॥२८॥
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा
।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर॥२९॥
भगवानुवाच।
सर्वमेतद्धि भविता मत्प्रसादात् तव द्विज
।
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्॥३०॥
त्रयाणामपि लोकानां महत् कार्यं करिष्यसि
।
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः॥३१॥
तपस्यति तपो घोरं श्रृणु यस्तं हनिष्यति
।
राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः॥३२॥
बृहदश्व इति ख्यातो भविष्यति महीपतिः
।
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः॥३३॥
स योगबलमास्थाय मामकं पार्थिवोत्तमः
।
शासनात् तव विप्रर्षे धुन्धुमारो भविष्यति
।
एवमुक्त्वा तु तं विप्रं विष्णुरन्तरधीयत॥३४॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि धुन्धुमारोपाख्याने एकाधिकद्विशततमोऽध्यायः॥२०१॥
मार्कण्डेय उवाच।
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः
।
स तपोऽतप्यत महन्महावीर्यपराक्रमः॥१॥
धुन्धुरिति ॥१॥
अतिष्ठदेकपादेन कृशो धमनिसन्ततः
।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्॥२॥
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्
।
अवध्योऽहं भवेयं वै वर एष वृतो मया॥३॥
एवं भवतु गच्छेति तमुवाच पितामहः
।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह॥४॥
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः
।
अनुस्मरन् पितृवधं द्रुतं विष्णुमुपागमत्॥५॥
स तु देवान् सगन्धर्वान् जित्वा धुन्धुरमर्षणः
।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम्॥६॥
समुद्रे वालुकापूर्णे उज्जालक इति स्मृते
।
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ॥७॥
बाधति स्म परं शक्त्या तमुत्तङ्काश्रमं विभो
।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा॥८॥
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
।
शेते लोकविनाशाय तपोबलमुपाश्रितः॥९॥
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन् पावकार्चिषः
।
एतस्मिन्नेव काले तु राजा सबलवाहनः॥१०॥
उत्तङ्कविप्रसहितः कुवलाश्वो महीपतिः
।
पुत्रैः सह महीपालः प्रययौ भरतर्षभ॥११॥
सहस्त्रैरेकविंशत्या पुत्राणामरिमर्दनः
।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम्॥१२॥
तमाविशत् ततो विष्णुर्भगवांस्तेजसा प्रभुः
।
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया॥१३॥
तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
।
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति॥१४॥
दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्यवारयन्
।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः॥१५॥
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः
।
विपांसुलां महीं कुर्वन् ववर्ष च सुरेश्वरः॥१६॥
अन्तरिक्षे विमानादि देवतानां युधिष्ठिर
।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः॥१७॥
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः
।
देवगन्धर्वसहिताः समवैक्षन् महर्षयः॥१८॥
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा
।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्॥१९॥
अर्णवं खानयामास कुवलाश्वो महीपतिः
।
कुवलाश्वस्य पुत्रैश्च तस्मिन् वै वालुकार्णवे॥२०॥
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः
।
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत्॥२१॥
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ
।
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्॥२२॥
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः
।
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः॥२३॥
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
।
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः॥२४॥
स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः
।
क्रुद्धश्चाभक्षयत् तेषां शस्त्राणि विविधानि च॥२५॥
आस्याद्वमन् पावकं स संवर्तकसमं तदा
।
तान् सर्वान् नृपतेः पुत्रानदहत् स्वेन तेजसा॥२६॥
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
।
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः॥१७॥
सगरस्यात्मजान् क्रुद्धस्तदद्भुतमिवाभवत्
।
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम॥१८॥
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्
।
आससाद महातेजाः कुवलाश्वो महीपतिः॥२९॥
तस्य वारि महाराज सुस्राव बहु देहतः
।
तदापीय ततस्तेजो राजा वारिमयं नृप॥३०॥
योगी योगेन वह्निं च शमयामास वारिणा
।
ब्रह्मास्त्रेण च राजेन्द्र दैत्यं क्रूरपराक्रमम्॥३१॥
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै
।
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्॥३२॥
सुरशत्रुममित्रघ्नं त्रैलोक्येश इवापरः
।
धुन्धोर्वधात् तदा राजा कुवलाश्वो महामनाः॥३३॥
धुन्धुमार इति ख्यातो नाम्नाऽप्रतिरथोऽभवत्
।
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा॥३४॥
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा
।
अतीव मुदितो राजन्निदं वचनमब्रवीत्॥३५॥
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः
।
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च॥३६॥
धर्मे रतिश्च सततं स्वर्गे वासस्तथाऽक्षयः
।
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः॥३७॥
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता
।
सम्भाष्य चैनं विविधैराशीर्वादैस्ततो नृप॥३८॥
देवा महर्षयश्चापि स्वानि स्थानानि भेजिरे
।
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन्॥३९॥
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत
।
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्॥४०॥
वंशस्य सुमहाभाग राज्ञाममिततेजसाम्
।
एवं स निहतस्तेन कुवलाश्वेन सत्तम॥४१॥
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः
।
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः॥४२॥
नाम्ना च गुणसंयुक्तस्तदाप्रभृति सोऽभवत्
।
एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥४३॥
धौन्धुमारमुपाख्यातं प्रथितं यस्य कर्मणा
।
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्॥४४॥
शृणुयाद्यः स धर्मात्मा पुत्रावांश्च भवेन्नरः
।
आयुष्मान् भूतिमांश्चैव श्रुत्वा भवति पर्वसु
।
न च व्याधिभयं किञ्चित् प्राप्नोति विगतज्वरः॥४५॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि धुन्धुमारोपाख्याने चतुरधिकद्विशततमोऽध्यायः॥२०४॥
मार्कण्डेय उवाच।
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः
।
तपस्वी धर्मशीलश्च कौशिको नाम भारत॥१॥
कश्चिदिति ॥१॥
साङ्गोपनिषदो वेदानधीते द्विजसत्तमः
।
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन् स्थितः॥२॥
उपरिष्ठाच्च वृक्षस्य बलाका सन्न्यलीयत
।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि॥३॥
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः
।
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता॥४॥
अपध्याता च विप्रेण न्यपतद्धरणीतले
।
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम्॥५॥
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः
।
अकार्यं कृतवानस्मि रोषरागबलात्कृतः॥६॥
मार्कण्डेय उवाच।
इत्युक्त्वा बहुशो विद्वान् ग्रामं भैक्ष्याय संश्रितः
।
ग्रामे शुचीनि प्रचरन् कुलानि भरतर्षभ॥७॥
प्रविष्टस्तत् कुलं यत्र पूर्वं चरितवांस्तु सः
।
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः॥८॥
शौचं तु यावत् कुरुते भाजनस्य कुटुम्बिनी
।
एतस्मिन्नन्तरे राजन् क्षुधासम्पीडितो भृशम्॥९॥
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम
।
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यवहाय तम्॥१०॥
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम्
।
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा॥११॥
आहारेणाथ भक्ष्यैश्च भोज्यैः सुमधुरैस्तथा
।
उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर॥१२॥
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी
।
कर्मणा मनसा वाचा नान्यचित्ताऽभ्यगात् पतिम्॥१३॥
तं सर्वभावोपगता पतिशुश्रूषणे रता
।
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी॥१४॥
भर्तुश्चापि हितं यत् तत् सततं साऽनुवर्तते
।
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा॥१५॥
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया
।
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्ष्यकाङ्क्षिणम्॥१६॥
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा
।
व्रीडिता साऽभवत् साध्वी तदा भरतसत्तम
।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी॥१७॥
ब्राह्मण उवाच।
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने
।
उपरोधं कृतवती न विसर्जितवत्यसि॥१८॥
मार्कण्डेय उवाच।
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा
।
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत्॥१९॥
ब्राह्मण उवाच।
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः
।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे॥२१॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि
।
अवलिप्तेन जानीषे वृद्धानां न श्रुतं त्वया॥२२॥
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि
।
स्त्र्युवाच।
नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन॥२३॥
अनया क्रुद्धया दृष्ट्या कुद्धः किं मां करिष्यसि
।
नावजानाम्यहं विप्रान् देवैस्तुल्यान् मनस्विनः॥२४॥
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ
।
जानामि तेजो विप्राणां महाभाग्यं च धीमताम्॥२५॥
अपेयः सागरः क्रोधात् कृतो हि लवणोदकः
।
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्॥२६॥
येषां क्रोधाग्निरद्यापि दण्डकेनोपशाम्यति
।
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान्॥२७॥
दण्डके दण्डकारण्ये ॥२७॥
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः
।
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम्॥२८॥
क्रोधः सुविपलो ब्रह्मन् प्रसादश्च महात्मनाम्
।
अस्मिंस्त्वतिक्रमे ब्रह्मन् क्षन्तुमर्हसि मेऽनघ॥२९॥
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज
।
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्॥३०॥
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम
।
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम्॥३१॥
शुश्रूषाया इति । भर्तृशुश्रूषया सार्वज्ञ्यप्राप्तिर्दर्शिता ॥३१॥
बलाका हि त्वया दग्धा रोषात् तद्विदितं मया
।
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम॥३२॥
सा च ब्राह्मणानां ब्रह्मविदामेवास्तीति तल्लक्षणान्याह क्रोध इति ॥३२॥
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः
।
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च॥३३॥
अत्र लक्षणकथनं निष्प्रयोजनमिति यान्येव विद्वल्लक्षणानि तानि विद्यासाधनानीति न्यायेन ब्राह्मण्यकामस्य क्रोधादित्यागो गुर्वाराधनादि च कर्तव्यत्वेन विधीयते । य इति । सत्यवाक् गुरुभक्तः क्षमावांश्च भवेदित्यर्थः ॥३३॥
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः
।
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः॥३४॥
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः
।
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः॥३५॥
सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः
।
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा॥३६॥
दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः
।
ब्रह्मचारी वदान्यो योऽप्यधीयाद्द्विजपुङ्गवः॥३७॥
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः
।
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्॥३८॥
सत्यं तथा व्याहरतां नानृते रमते मनः
।
धर्मं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्॥३९॥
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम
।
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः॥४०॥
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः
।
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्॥४१॥
शाश्वतो धर्म आत्मदर्शनम् । यदाह याज्ञवल्क्यः तु इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्' इति । सत्ये त्रैकालिकबाधशून्ये वस्तुनि प्रतिष्ठितः पर्यवसितः । अन्यो धर्मस्त्वसत्ये प्रतिष्ठित इत्यर्थात् सिद्धम् ॥४१॥
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम
।
भगवानपि धर्मज्ञः स्वाध्यायनिरतः शुचिः॥४२॥
न तु तत्त्वेन भगवन् धर्मं वेत्सीति मे मतिः
।
यदि विप्र न जानीषे धर्मं परमकं द्विज॥४३॥
धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम्
।
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः॥४४॥
मिथिलायां वसेद्व्याधः स ते धर्मान् प्रवक्ष्यति
।
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम॥४५॥
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित
।
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते॥४६॥
ब्राह्मण उवाच।
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने
।
उपालम्भस्त्वयाऽत्युक्तो मम निःश्रेयसं परम्
।
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने॥४७॥
साधयिष्यामि स्वकार्यमिति शेषः ॥४७॥
मार्कण्डेय उवाच।
तथा विसृष्टो निर्गम्य स्वमेव भवनं ययौ
।
विनिन्दन् स स्वमात्मानं कौशिको द्विजसत्तमः॥४८॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि पतिव्रतोपाख्याने षडधिकद्विशततमोऽध्यायः॥२०६॥
मार्कण्डेय उवाच।
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः
।
विनिन्दन् स स्वमात्मानमागस्कृत इवाबभौ॥१॥
चिन्तयित्वेति । आगोऽपराधः कृतमनेनेत्यागस्कृत : ॥१॥
चिन्तयानः स्वधर्मस्य सूक्ष्मां गतिमथाब्रवीत्
।
श्रद्दधानेन वै भाव्यं गच्छामि मिथिलामहम्॥२॥
कृतात्मा धर्मवित् तस्यां व्याधो निवसते किल
।
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्॥३॥
इति सञ्चित्य मनसा श्रद्दधानः स्त्रिया वचः
।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः॥४॥
सम्प्रतस्थे स मिथिलां कौतुहलसमन्वितः
।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च॥५॥
ततो जगाम मिथिलां जनकेन सुरक्षिताम्
।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम्॥६॥
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम्
।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम्॥७॥
विमानैः साप्तभौमिकगृहैः ॥७॥
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्
।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम्॥८॥
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्
।
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन्॥९॥
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः
।
अपश्यत् तत्र गत्वा तं सूनामध्ये व्यवस्थितम्॥१०॥
सूना वधस्थानं तन्मध्ये ॥१०॥
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम्
।
आकुलत्वाच्च क्रेतॄणामेकान्ते संस्थितो द्विजः॥११॥
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः
।
आजगाम यतो विप्रः स्थित एकान्तदर्शने॥१२॥
व्याध उवाच।
अभिवादये त्वां भगवन् स्वागतं ते द्विजोत्तम
।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम्॥१३॥
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति
।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः॥१४॥
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः
।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः॥१५॥
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीदिदम्
।
गृहं गच्छाव भगवन् यदि ते रोचतेऽनघ॥१६॥
अदेशस्थमयोग्यदेशस्थम् ॥१६॥
मार्कण्डेय उवाच।
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्
।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति॥१७॥
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः
।
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः॥१८॥
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत्
।
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे
।
अनुतप्ये भृशं तात तव घोरेण कर्मणा॥२९॥
न ग्लाति न ग्लानिं नयति ॥२९॥
व्याध उवाच।
कुलोचितमिदं कर्म पितृपैतामहं परम्
।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज॥२०॥
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन्
।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम॥२१॥
गुरू मातापितरौ ॥२१॥
सत्यं वदे नाभ्यसूये यथाशक्ति ददानि च
।
देवतातिथिभृत्यानामवशिष्टेन वर्तये॥२२॥
नाभ्यसूये परगुणेषु दोषं नाविष्कुर्वे । वर्तये जीवामि ॥२२॥
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम्
।
कृतमन्वेति कर्तारं पुराकर्म द्विजोत्तम॥२३॥
कुत्सा विद्यमानदोषसङ्कीर्तनम् । गर्हा अविद्यमानदोषारोपः । पुराकृतं कर्मेति सम्बन्धः ॥२३॥
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्
।
दण्डनीतिस्त्रयी विद्या तेन लोको भवत्युत्त॥२४॥
लोकः परलोकः ॥२४॥
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः
।
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा॥२५॥
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः
।
विकर्माणश्च ये केचित् तान् युनक्ति स्वकर्मसु॥२६॥
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते
।
वारयन्ति विकर्मस्थं नृपा मृगमिवेषुभिः॥२७॥
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते
।
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम॥२८॥
स एष जनको राजा दुर्वृत्तमपिचेत् सुतम्
।
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम्॥२९॥
न ग्लाति न ग्लानिं नयति ॥२९॥
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति
।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम॥३०॥
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्
।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत॥३१॥
परेण हि हतान् ब्रह्मन् वराहमहिषानहम्
।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम्॥३२॥
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम्
।
सदोपवासी च तथा नक्तभोजी सदा द्विज॥३३॥
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्
।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः॥३४॥
अभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान्
।
अधर्मो वर्तते चापि सङ्कीर्यन्ते ततः प्रजाः॥३५॥
अभिचारात् स्वैरगतेः ॥३५॥
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च
।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः॥३६॥
भेरुण्डाः भयानकाः ॥३६॥
पार्थिवानामधर्मत्वात् प्रजानामभवः सदा
।
स एष राजा जनकः प्रजा धर्मेण पश्यति॥३७॥
अनुगृह्णन् प्रजाः सर्वाः स्वधर्मनिरताः सदा
।
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः॥३८॥
सर्वान् सुपरिणीतेन कर्मणा तोषयाम्यहम्
।
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः॥३९॥
सुपरिणीतेन साधुना ये संयुञ्जन्ति सम्यग्योगं सेनानिवेशं कुर्वन्ति त एव पार्थिवाः। अन्ये चोरा इत्यर्थः ॥३९॥
न किञ्चिदुपजीवन्ति दान्ता उत्थानशीलिनः
।
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता॥४०॥
यथार्हं प्रति पूजा च सर्वभूतेषु वै सदा
।
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे॥४१॥
मृषा वादं परिहरेत् कुर्यात् प्रियमयाचितः
।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्॥४२॥
संरम्भाद्भयात् ॥४२॥
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत्
।
न मुह्योदर्थकृच्छ्रेषु न च धर्मं परित्यजेत्॥४३॥
कर्म चेत्किञ्चिदन्यत् स्यादितरन्न तदाचरेत्
।
यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥४४॥
अन्यत् विपरीतं स्यात् इतरत् तादृशं द्वितीयं कल्याणमेवात्मनः परस्य चाभिध्यायेत् जानीयात् ॥४४॥
न पापे प्रतिपापः स्यात् साधुरेव सदा भवेत्
।
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति॥४५॥
पापे पापिनि प्रतिपापः प्रतिपापी न स्यात् ॥४५॥
कर्म चैतदसाधूनां वृजिनानामसाधुवत्
।
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये॥४६॥
वृजिनानां व्यसनवताम् । असाधुश्चोरादिस्तद्वत् ॥४६॥
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः
।
महादृतिरिवाध्मातः पापो भवति नित्यदा॥४७॥
दृतिर्भस्त्रा आध्मातः सन्नसारोऽपि पुष्टो भवेत् ॥४७॥
मूढानामवलिप्तानामसारं भावितं भवेत्
।
दर्शयत्यन्तरात्मा तं दिवा रूपमिवांशुमान्॥४८॥
तद्वन्मूढानां भावितं चिन्तितम् । अन्तरात्मैव तं मूढं दर्शयति मूढस्य मौढ्यमेव स्वरूपज्ञापकम् ॥४८॥
न लोके राजते मूर्खः केवलात्मप्रशंसया
।
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते॥४९॥
मृजा हीनः मलिनदेहः। श्रियेति पाठान्तरे स्पष्टोऽर्थः ॥४९॥
अब्रुवन् कस्यच्चिन्निन्दामात्मापूजामवर्णयन्
।
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते॥५०॥
मूढमतमाह अब्रुवन्निति ॥५०॥
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते
।
न तत् कुर्यां पुनरिति द्वितीयात् परिमुच्यते॥५१॥
पापात् प्राक् कृतात् द्वितीयात् करिष्यमाणात् ॥५१॥
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम
।
एवं श्रुतिरियं ब्रह्मन् धर्मेषु प्रतिदृश्यते॥५२॥
कर्मणेति । येन तेनेति जपतपस्तीर्थाद्यन्यतमेन येन केनचिदपि पापात् ‘परिमुच्यत इत्यनुषज्यते । ’स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव स्यात्‘ इति श्रुतिर्हि धर्मेषु धर्मोत्पत्तिविषया । ज्ञानोत्पत्तौ त्वेक एव श्रवणादिमार्गो ’नान्यः पन्था विद्यतेऽयनाय' इति श्रूयते ॥५२॥
पापान्यबुद्ध्वेह पुरा कृतानि प्राग्धर्मशीलोऽपि विहन्ति पश्चात्
।
धर्मो राजन्नुदते पूरुषाणां यत् कुर्वते पापमिह प्रमादात्॥५३॥
प्राक् कृतानीति सम्बन्धः ॥५३॥
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः
।
तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः॥५४॥
चिकीर्षे देवकल्याणं श्रद्दधानोऽनसूयकः
।
वसनस्येव छिद्राणि साधूनां विवृणोति यः॥५५॥
चिकीर्षेदिति यः । साधूनां छिद्राणि धनादिहीनतया रिक्तानि श्राद्धादीनि यः विवृणोति धनादिदानेन विवृणोति विशेषतः पिदधाति ॥५५॥
पापञ्चेत् पुरुषः कृत्वा कल्याणमभिपद्यते
।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः॥५६॥
सः कल्याणं मोक्षोपायं कर्तुमिच्छेदेव । साधुसेवनजात् पुष्यान्मुमुक्षा उदेतीत्यर्थः ॥५६॥
यथाऽऽदित्यः समुद्यन् वै तमः पूर्वं व्यपोहति
।
एवं कल्याणमातिष्ठन् सर्वपापैः प्रमुच्यते॥५७॥
यथेति । मुमुक्षा पापनाशपूर्विकैवोदेतीति भावः ॥५७॥
पापानां विद्ध्व्यधिष्ठानं लोभमेव द्विजोत्तम
।
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः॥५८॥
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
।
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः
।
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः॥५९॥
अधर्मा इति । लुब्धाः धर्मशून्या अपि धर्मस्य रूपमिव रूपं यस्य तेन दम्भेन आवृताः तेषां दम्भिनामम् । अत एव दम्भिनां साधूनां च विशेषानवगमात् तेषु दम्भिषु शिष्टाचारः सुदुर्लभः दुर्बोध इत्यर्थः ॥५९॥
मार्कण्डेय उवाच।
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत
।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम॥६०॥
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतां वर
।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम्॥६१॥
व्याध उवाच।
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम
।
पञ्चैतानि पवित्राणि शिष्टाचारेषु सर्वदा॥६२॥
शिष्टाचारमाह यज्ञ इति ॥६२॥
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्
।
धर्ममित्येव सन्तुष्ठास्ते शिष्टाः शिष्टसम्मताः॥६३॥
शिष्टलक्षणमाह कामेति ॥६३॥
न तेषां विद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्
।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम्॥६४॥
वृत्तं वृतं स्वेच्छोपात्तमिति यावत् । ‘वृत्तोऽधीतेऽप्यतीतेति वर्तुलेऽपि मृते वृते’ इति मेदिनी ॥६४॥
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च
।
एतच्चतुष्टयं ब्रह्मन् शिष्टाचारेषु नित्यदा॥६५॥
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः
।
यामयं लभते वृत्तिं सा न शक्या ह्यतोऽन्यथा॥६६॥
अतोऽन्यथा गुरुशुश्रूषणाद्यभावे ॥६६॥
वेदस्योपनिषत् सत्यं सत्यस्योपनिषद्दमः
।
दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा॥६७॥
वेदस्येति । उपनिषद्रहस्यं सत्यं ब्रह्म तदज्ञाने वेदो निष्फल इत्यर्थः। एवं दमाभावे सत्यं नास्ति। त्यागाभावे दमोऽपि नास्तीत्यर्थः ॥६७॥
ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः
।
अपथा गच्छतां तेषामनुयाता च पीड्यते॥६८॥
अपथा अमार्गेण अनुयाता अनुगन्ता ॥६८॥
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः
।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः॥६९॥
श्रुतिश्च त्यागश्च ते द्वे परमयनं स्थानं येषां ते श्रुतित्यागपरायणाः ॥६९॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः
।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदार्शिनः॥७०॥
परां बुद्धिमात्माकारां वृत्तिमपि नियच्छन्ति निगृह्णन्ति परं वैराग्यवन्त इत्यर्थः ॥७०॥
नास्तिकान् भिन्नमर्यादान् क्रूरान्पापमतौ स्थितान्
।
त्यज तान् ज्ञानमाश्रित्य धार्मिकानुपसेव्य च॥७१॥
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम्
।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर॥७२॥
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान्
।
शिष्टाचारे भवेत् साधू रागः शुक्लेव वाससि॥७३॥
शिष्टाचारवति शुक्लपटोपमे योगधर्मः राग इव साधुर्भवेत् शुक्लेव । वेति इवार्थे । ‘व वा यथा तथैवैवम्’ इत्यमरः ॥७३॥
आहिंसा सत्यवचनं सर्वभूतहितं परम्
।
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः
।
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः॥७४॥
अहिंसां सत्यं च स्तौति अहिंसेति । प्रतिष्ठां स्थैर्यम् ॥७४॥
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्
।
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः॥७५॥
यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते
।
पापात्मा क्रोधकामादीन् दोषानाप्नोत्यनात्मवान्॥७६॥
यो यथेत्यर्द्धं व्याचष्टे पापात्मेत्यादिना । अनात्मवान् अजितचित्तः ॥७६॥
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः
।
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम्॥७७॥
अक्रुद्ध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः
।
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते॥७८॥
अहङ्कारो दर्पः । मत्सरः परदोषासाहष्णुत्वं तद्वर्जिताः । शिष्टं गुरुशास्त्रोक्तमाचरन्तः शिष्टाचाराः ॥७८॥
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः
।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत॥७९॥
त्रैविद्यवृद्धाः तिस्रो विद्या ऋग्यजुःसामात्मिका यत्र स त्रिविद्यो यज्ञस्तत्र साधवस्त्रैविद्या याज्ञिकाः । वृत्तं शीलं तद्वन्तः । मनस्विनः जितचित्ताः ॥७९॥
तेषामहीनसत्त्वानां दुष्कराचारकर्मणाम्
।
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति॥८०॥
दुष्कराचारकर्मणामन्यैर्दुष्करः आचारः शीलं कर्म यज्ञादि येषां तेषाम् । घोरत्वं हिंसादिदोषवत्त्वम् ॥८०॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्
।
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः॥८१॥
आश्चर्यमसतां दुरनुष्ठेयत्वात् । सदाचारं सद्भिराचीर्णं पुराणमनादिं शाश्वतमनवछिन्नं ध्रुवं नित्यमत्याज्यमित्यर्थः ॥८१॥
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः
।
श्रुतवृत्तोपसम्पन्नाः सन्तः स्वर्गनिवासिनः॥८२॥
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः
।
शिष्टाचारश्च शिष्टानां त्रिविधं धर्मलक्षणम्
।
पारणं चापि विद्यानां तीर्थानामवगाहनम्॥८३॥
वेदोक्तोऽग्निहोत्रादिः धर्मशास्त्रोक्तः अष्टकाश्राद्धादिः । शिष्टाचारः होलकादिः । शिष्टानां तुष्टिरिति शेषः । तदुक्तमभियुक्तैः - ‘सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः’ इति । अस्यापि शिष्टाचारे एवान्तर्भावात् त्रिविधमित्युक्तम् । पारणं समापनम् ॥८३॥
क्षमा सत्यार्जवं शौचं सतामाचारदर्शनम्
।
सर्वभूतदयावन्तो आहिंसानिरताः सदा॥८४॥
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः
।
शुभानामशुभानां च कर्मणां फलसञ्चये॥८५॥
विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः
।
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः॥८६॥
विपाकं क्रमेण पुण्यपापयोः क्षयम् । तेन पुण्यह्रासहेतुः सुखं नेष्टव्यं पापह्रसहेतुर्दुःखं सोढव्यमिति भावः । न्यायो युक्तिः । गुणाः शमादयस्तदुपेताः ॥८६॥
सन्तः स्वर्गजितः शुक्लाः सन्निविष्टाश्च सत्पथे
।
दातारः संविभक्तारो दीनानुग्रहकारिणः॥८७॥
शुक्लाः हिंसाशून्यधर्मवन्तः सत्पथे ब्रह्ममार्गे संविभक्तारः कुटुम्बेषु ॥८७॥
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः
।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसम्मताः॥८८॥
श्रुतधनाः विद्याधनाः ॥८८॥
दीनशिष्टाः सुखाँल्लोकानाप्नुवन्तीह च श्रियम्
।
पीडया च कलत्रस्य भृत्यानां च समाहिताः॥८९॥
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः
।
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च॥९०॥
एवं सन्तो वर्तमानास्त्वेधन्ते शाश्वतीः समाः
।
अहिंसा सत्यवचनमानृशंस्यमथार्जवम्॥९१॥
एधन्ते वर्द्धन्ते ॥९१॥
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः
।
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः॥९२॥
नाभिमानः निरभिमानः ॥९२॥
अकामद्वेषसंयुक्तास्ते सन्तो लोकसाक्षिणः
।
त्रीण्येव तु सतामाहुः सन्तः पदमनुत्तमम्॥९३॥
सतां पदं पदनीयं प्रार्थनीयम् ॥९३॥
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत्
।
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः॥९४॥
करुणाः करुणावन्तश्च ते वेदनशीलाश्च मत्वर्थीयोऽच् ॥९४॥
गच्छन्तीह सुसन्तुष्टा धर्मपन्थानमुत्तमम्
।
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः॥९५॥
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता
।
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्॥९६॥
कर्म च श्रुतसम्पन्नं सतां मार्गमनुत्तमम्
।
शिष्टाचारं निषेवन्ते नित्यं धर्ममनुव्रताः॥९७॥
कर्म च कर्मैव । कर्मणेति गौडपाठे कर्मणा श्रुतेन च सम्पन्नमित्यर्थः ॥९७॥
प्रज्ञाप्रासादमारुह्य मुच्यन्ते महतो भयात्
।
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम॥९८॥
प्रज्ञा ऋतम्भराख्या वस्तुयाथात्म्यविषयं ज्ञानं तदेव उच्चत्वात् प्रासादं भयात् संसारात् लोकानां वृत्तानि अतीतानागतादीनि ॥९८॥
अतिपुण्यानि पापानि तानि द्विजवरोत्तम
।
एतत् ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्
।
शिष्टाचारगुणं ब्रह्मन् पुरस्कृत्य द्विजर्षभ॥९९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणव्याधसंवादे सप्ताधिकद्विशततमोऽध्यायः॥२०७॥
मार्कण्डेय उवाच।
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
।
यदहमाचरे कर्म घोरमेतदसंशयम्॥१॥
स त्विति । एतन्मांसविक्रयात्मकम् ॥१॥
विधिस्तु बलवान् ब्रह्मन् दुस्तरं हि पुरा कृतम्
।
पुरा कृतस्य पापस्य कर्मदोषो भवत्ययम्॥२॥
दोषस्यैतस्य वै ब्रह्मन् विघाते यत्नवानहम्
।
विधिना हि हते पूर्वं निमित्तं घातको भवेत्॥३॥
दोषस्येति यत्नवानपि न परिहर्तुं शक्नोमि विधेः प्राबल्यादित्यर्थः ॥३॥
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
।
येषां हतानां मांसानि विक्रीणामीह वै द्विज॥४॥
निमित्तेति । शरवान्निमित्तभूता वयम् । सन्धातृवत् कर्ता तु विधिरेवेत्यर्थः ॥४॥
तेषामपि भवेद्धर्म उपयोगेन भक्षणे
।
देवतातिथिभृत्यानां पितॄणां चापि पूजनम्॥५॥
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः
।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः॥६॥
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः
।
स्वर्गं सुदुर्गमं प्राप्तः क्षमावान् द्विजसत्तम॥७॥
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज
।
द्वे सहस्त्रे तु वध्येते पशूनामन्वहं तदा॥८॥
अहन्यहनि वध्येते द्वे सहस्रे गवां तथा
।
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः॥९॥
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम
।
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः॥१०॥
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः
।
यज्ञेषु पशवो ब्रह्मन् वध्यन्ते सततं द्विजैः॥११॥
अन्नाद्यभूताः अन्नं च तदद्यं च भोग्यम् भक्ष्यं चेत्यर्थः । ‘सर्वमस्यान्नं भवति’ इति श्रुतेः ॥६॥ ‘येऽस्याग्नयो जुह्वतो मांसकामा’ इति मन्त्रलिङ्गमपि श्रुतिरेव ॥११॥
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन्
।
यदि नैवाग्नयो ब्रह्मन् मांसकामाऽभवन् पुरा॥१२॥
भक्ष्यं नैवाभवन्मांसं कस्यच्चिद्द्विजसत्तम॥१३॥
अत्रापीत्यादिसार्धः श्लोकः । कलौ तु मांसेन पैतृकस्य निषेधाद्देवताशेषाद्यज्ञियमांसादन्यत्र मांसभक्षणं दुष्यत्येवेति भावः ॥१३॥
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे
।
देवतानां पितॄणां च भुङ्क्ते दत्वाऽपि यः सदा
।
यथाविधि यथाश्रद्धं न प्रदुष्यति भक्षणात्॥१४॥
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः
।
भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः॥१५॥
अमांसाशीति । यज्ञियमांसभुजोऽपि ऋतुगामिनो ब्रह्मचर्यमिव औपचारिकममांसाशित्वमिति भावः ॥१५॥
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते
।
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज
।
शापाभिभूतेन भृशमत्र किं प्रतिभाति मे॥१६॥
सत्यानृते ज्ञानकर्ममार्गौ । अत्रापि यज्ञियमांसभक्षणे विधिर्विशेषः । तमेवाह परकृतिमुखेन सौदासेनेति । कर्तृत्वाद्यभिमानवता मूढेन कर्मठेन यज्ञियमपि मांसं भक्षणीयं न ज्ञानमार्गस्थेनेति भावः । रन्तिदेवानदर्शनं तु युगान्तराभिप्रायम् । अत्र किं प्रतिभाति मे । किंशब्दः कुत्सायाम् । अत्र मांसे भक्षणीये मम निन्दा प्रतिभाति । अत एव न हन्मि न भक्षयामीति प्रागेवोक्तं मयेत्यर्थः ॥१६॥
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम
।
पुरा कृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा॥१७॥
कुतस्तर्हि त्वं मांसविक्रयं करोषि । तत्कर्तुरपि प्रयोजकत्वाद्धिंसादोषोऽस्तीत्याशङ्क्याह स्वेति । स्वकर्म इत्यस्य व्याख्या - पुरा कृतमित्यादि ॥१७॥
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते
।
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः॥१८॥
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
।
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये
।
द्रष्टव्या तु भवेत् प्रज्ञा क्रूरे कर्मणि वर्तता
।
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्॥२०॥
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्
।
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा॥२१॥
द्विजातिपूजने चाहं धर्मे च निरतः तदा
।
अभिमानातिवादाभ्यां निवृत्तोऽस्मि द्विजोत्तम॥२२॥
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता
।
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान् बहून्॥२३॥
तथापि हिंसामिश्र कर्म तवाप्ययोग्यामित्याशङ्क्य सर्वत्र हिंसाया अपरिहार्यत्वमाह कृषिं साध्वीतीत्यादिना । के नरा जीवान्न हिंसन्त्यपि तु सर्वेऽपि हिंसन्त्येवेत्यर्थः ॥२३॥
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति मे
।
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम॥२४॥
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति मे
।
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च॥२५॥
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज
।
जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च॥२६॥
उदके बहवश्चापि तत्र किं प्रतिभाति मे
।
सर्वं व्याप्तमिदं ब्रह्मन् प्राणिनिः प्राणिजीवनैः॥२७॥
मत्स्यान् ग्रसन्ते मत्स्याश्च तत्र किं प्रतिभाति मे
।
सत्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम॥२८॥
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति मे
।
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान् बहून्॥२९॥
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति मे
।
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः॥३०॥
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति मे
।
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा॥३१॥
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति मे
।
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा॥३२॥
के न हिंसान्ति जीवान् वै लोकेऽस्मिन् द्विजसत्तम
।
बहु सञ्चित्य इति वै नास्ति कश्चिदहिंसकः॥३३॥
अहिंसायां तु निरता यतयो द्विजसत्तम
।
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्॥३४॥
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः
।
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च॥३५॥
सहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः
।
सम्यक्प्रवृत्तान् पुरुषान्नसम्यगनुपश्यतः॥३६॥
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि
।
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः॥३७॥
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम
।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति मे॥३८॥
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु
।
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत्॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि पतिव्रतोपाख्याने ब्राह्मणव्याधसंवादे अष्टाधिकद्विशततमोऽध्यायः॥२०८॥
मार्कण्डेय उवाच।
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर
।
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः॥१॥
शान्त्यादयो ज्ञानाङ्गभूता धर्माः प्रोक्ताः । सम्प्रति ज्ञानं विना कृतकृत्यता नास्तीति वक्तुं धर्मतत्त्वस्य दुरवगाहत्वं प्रपञ्चस्य निःसारत्वं चोच्यते धर्मव्याधस्त्वित्यादिना ॥१॥
व्याध उवाच।
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्
।
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका॥२॥
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्
।
अनृतेन भवेत् सत्यं सत्येनैवानृतं भवेत्॥३॥
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा
।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्॥४॥
धारणावधारणं निश्चय इत्यर्थः ॥४॥
यत् करोत्यशुभं कर्म शुभं वा यदि सत्तम
।
अवश्यं तत् समाप्नोति पुरुषो नात्र संशयः॥५॥
विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्
।
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः॥६॥
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम
।
सुखदुःखविपर्यासान् सदा समुपपद्यते॥७॥
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्
।
योऽयमिच्छेद्यथा कामं तं तं कामं स आप्नुयात्॥८॥
सुनीतं गुरुशिक्षा ॥८॥
यदि स्यादपराधीनं पौरुषस्य क्रियाफलम्
।
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः॥९॥
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः
।
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः॥१॥
शान्त्यादयो ज्ञानाङ्गभूता धर्माः प्रोक्ताः । सम्प्रति ज्ञानं विना कृतकृत्यता नास्तीति वक्तुं धर्मतत्त्वस्य दुरवगाहत्वं प्रपञ्चस्य निःसारत्वं चोच्यते धर्मव्याधस्त्वित्यादिना ॥१॥
वञ्चनायां च लोकस्य स सुखी जीवते सदा
।
अचेष्टमपि चासीनं श्रीः कञ्चिदुपतिष्ठति॥११॥
कश्चित् कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति
।
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः॥१२॥
पुत्रगृद्धिभिः पुत्रकामैः ॥१२॥
दशमासधृता गर्भे जायन्ते कुलपांसनाः
।
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः॥१३॥
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः
।
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः॥१४॥
व्याधयो विनिवार्यन्ते व्याधैः क्षुद्रमृगा इव
।
ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः॥१५॥
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज
।
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः॥१६॥
ग्रहणी विष्टम्भरोगः ॥१६॥
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर
।
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः॥१७॥
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम
।
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्॥१८॥
अनाक्रन्दमसहायम् । ‘आक्रन्दः क्रन्दनेऽऽह्वाने मित्रदारुणयुद्धयोः’ इति मेदिनी ॥१८॥
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा
।
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सर्वकामिकाः॥१९॥
स्रोतसा कर्मप्रवाहेण । असकृत् आक्षिप्तम् आधिव्याधिभिस्ताडितम् । ह्रियमाणमवशम्॥१९॥
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत्
।
उपर्युपरि लोकस्य सवों गन्तुं समीहते
।
यतते च यथाशक्ति न च तद्वर्तते तथा॥२०॥
ननु सर्वेऽपि स्ववशा एव दृश्यन्ते नेत्याह नेति ॥२०॥
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः
।
महत् तु फलवैषम्यं दृश्यते कर्मसन्धिषु॥२१॥
बहव इति दैवज्ञशास्त्रमपि व्यभिचारिफलमित्याशयः ॥२१॥
न केचिदीशते ब्रह्मन् स्वयंग्राह्यस्य सत्तम
।
कर्मणा प्राकृतानां वै इह सिद्धिः प्रदृश्यते॥२२॥
नेति स्वीयमपि वस्तु स्वस्यानधीनं प्राक्कर्मवशाद्भवतीत्यर्थः । तत्रापि दृष्टसामग्रीवैकल्यामति लोकायतमतमाशङ्क्याह कर्मणेति । प्राकृतानां देहात्मवादिनां कृतहानाकृताभ्यागमादिदोषदर्शिनां तु प्राक्कर्मैव प्रधानमिति भावः ॥२२॥
ययाश्रुतिरियं ब्रह्मन् जीवः किल सनातनः
।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह॥२३॥
एतदेव वक्तुं जीवस्य नित्यत्वमाह यथेति ॥२३॥
वध्यमाने शरीरे तु देहनाशो भवत्युत
।
जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः॥२४॥
ब्राह्मण उवाच।
कथं कर्मविदां श्रेष्ठ जीवो भवति शाश्वतः
।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर॥२५॥
व्याध उवाच।
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतीति मूढाः
।
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः॥२६॥
दशार्धता पञ्चत्वम् ॥२६॥
अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित्
।
यत् तेन किञ्चिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः॥२७॥
ननु कृतनाशोऽपि कृष्यादिफलेषु दृश्यतेऽतः कृतं कर्म न देहान्तरेऽनुवर्तिष्यते । देहादन्यस्यात्मनोऽभावादित्याशङ्क्याह अन्यो हीति । भोजनफलवत् कृतस्य कर्मणः फलमपरिहार्यम् । यत्र तु सद्यः फलं न दृष्टं तत्रापि जन्मान्तरे भविष्यतीत्यनुमेयम् । यत्र चाकृतमपि फलं निधिलाभादि उपैति तन्त्र जन्मान्तरीयं साधनं कल्प्यमित्यर्थः ॥२७॥
सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति
।
नरोऽनुयातास्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः॥२८॥
उत्पद्यति जन्मान्तरं लभते यतस्तैः प्राचीनैः कर्मभिर्भावितो रञ्जितः अत एव क्रममाणं प्रकृत्य भूयते ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ इति । तस्मात् स्वकृतमेव स्वयं भुङ्क्ते न त्वन्यकृतमन्योऽतो नास्ति कृतस्य नाश इत्युक्तम् ॥२८॥
ब्राह्मण उवाच।
कथं सम्भवते योनौ कथं वा पुण्यपापयोः
।
जातीः पुण्यास्त्वपुण्याश्च कथं गच्छति सत्तम॥२९॥
व्याध उवाच।
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते
।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम॥३०॥
एवं स्थूलशरीरादन्यत्वमात्मनः प्रसाध्य लिङ्गशरीरादपि व्यतिरेकं साधयितुं वैराग्योत्पत्त्यर्थं जन्मादीनां दुःखरूपत्वमाह गर्भेत्यादिना । गर्भाधानेन पिण्डोत्पत्तिप्रकाशकेन ग्रन्थेन । एतत् सर्वं समायुक्तं समाहितम् । तदेव सङ्क्षिप्याह इदं यत् सम्प्रदृश्यते स्थूलदेहादिघटान्तं तत् सर्वं कर्मैवेति । अयमर्थः – म्रियमाणो जन्तुर्विद्याकर्मपूर्वप्रज्ञाभिः पञ्चप्राणमनोबुद्धिदशेन्द्रियरूपसप्तदशकात्मकेन लिङ्गेन इत उत्क्रम्य यथाकर्म स्वर्गं नरकं वा गत्वा तत्र भोगान् भुक्त्वा कर्मशेषेण वृष्टिद्वारेण पुनर्बीजभावं प्राप्य शुक्रशोणितरूपेण परिणमते । बीजे पुनर्लिङ्गशरीरेणाविश्य तैरेव पूर्वैर्विद्यादिसंस्कारैर्युक्तो जायते । तत्केन कर्मणा कुत्र जायत इत्येतत् प्रवक्ष्यामीत्यर्थः ॥३०॥
यथा सम्भृतसंभारः पुनरेव प्रजायते
।
शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु॥३१॥
सम्भृताः सम्भाराः कर्मबीजानि येन ॥३१॥
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत्
।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्विषी॥३२॥
मोहनीयैस्तामसैः अधः नरकतिर्यक्षु ॥३२॥
जातिमृत्युजरादुःखैः सततं समभिद्रुतः
।
सञ्चरे पच्यमानश्च दोषैरात्मकृतैर्नरः॥३३॥
जातिर्जन्म सञ्चरे योनिसञ्चरे उत्कान्त्यादिषु च ॥३३॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च
।
जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः॥३४॥
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः
।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते॥३५॥
प्रेत्य मृत्वा दुःखात्मकः प्रतीघातः दुःखं भोक्तुमित्यर्थः ॥३५॥
ततः कर्म समादत्ते पुनरन्यं नवं बहु
।
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः॥३६॥
अपथ्यमिति छेदः ॥३६॥
अजस्त्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञकः
।
ततो निवृत्तबन्धत्वात् कर्मणामुदयादपि॥३७॥
अदुःखित इति छेदः । दुःखाभावस्य च सुखमिति संज्ञा । नतु संसारे स्वरूपतः सुखमस्ति । तथा चाहुः भारेऽपनीते सुखिनः संवृत्ताः स्म इति । ततः अदुःखे सुखाध्यासात् अनिवृत्तेति छेदः॥३७॥
परिक्रामति संसारे चक्रवद्बहुवेदनः
।
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः॥३८॥
निवृत्तबन्धो वीतरागः तत्र हेतुः विशुद्धश्चेति ॥३८॥
तपोयोगसमारम्भं कुरुते द्विजसत्तम
।
कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः॥३९॥
तस्य फलं तपोयोगयोः आलोचनध्यानयोः समारम्भम् ॥३९॥
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः
।
प्राप्नोति सुकृताँल्लोकान् यत्र गत्वा न शोचति॥४०॥
पापं कुर्वन् पापवृत्तः पापस्यान्तं न गच्छति
।
तस्मात् पुण्यं यतेत् कर्तुं वर्जयीत च पापकम्॥४१॥
यतेत् यतेत ॥४१॥
अनसूयुः कृतज्ञश्च कल्याणानि च सेवते
।
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः॥४२॥
पुण्यफलमाह अनसूयुरिति ॥४२॥
संस्कृतस्य च दान्तस्य नियतस्य यतात्मनः
।
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च॥४३॥
संस्कृतस्य अष्टाचत्वारिंशत्संस्कारयुक्तस्य दान्तस्य जितबाह्येन्द्रियस्य नियतस्य शौचादिपरस्य यतात्मनः जितचित्तस्य अनन्तरा सुलभा वृत्तिर्जीवनं विषयसुखमिति यावत् ॥४३॥
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्
।
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः॥४४॥
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः
।
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः॥४५॥
स्वधर्मेणेति । यतः शिष्टा उपदेष्टारः सन्ति अतः । कर्मणः कर्मणि षष्ठी । कर्म स्वधर्मेण स्वोचितेनाचारेण क्रियाः कुरुष्व । आशीर्लिङ्मध्यमैकवचनम् । सोऽपि असङ्करः धर्माणामिति शेषः॥४५॥
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति
।
तस्माद्धर्मादवाप्तेन धनेन द्विजसत्तम॥४६॥
तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै
।
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति॥४७॥
यत्र धर्मे ॥४७॥
स मित्रजनसन्तुष्ट इह प्रेत्य च नन्दति
।
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम॥४८॥
प्रभुत्वं लभते चापि धर्मस्यैतत् फलं विदुः
।
धर्मस्य च फलं लब्ध्वा न तुष्यति महाद्विज॥४९॥
अतृप्यमाणो निर्वेदमापेदे ज्ञानचक्षुषा
।
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते॥५०॥
प्रभुत्वमप्रतिहतेच्छत्वं धर्मस्येति चित्तशुद्ध्या भोगेच्छायां क्षीणायां स्वर्गेऽपि वैराग्यं जायते इत्यर्थः । अतृप्यमाणः प्रीतिमलभमानः। निर्वेदं वैराग्यम् । आपेदे आप्नोति । लकारव्यत्यय आर्षः । दोषं रागद्वेषादिकं नानुरुध्यते तद्वशो न भवतीत्यर्थः ॥५०॥
विरज्यते यथाकामं न च धर्मं विमुञ्चति
।
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्॥५१॥
ततो मोक्षे प्रयतते नानुपायादुपायतः
।
एवं निर्वेदमादत्ते पापं कर्म जहाति च॥५२॥
उपायत एव मोक्षे प्रयतते न त्वनुपायाद्दैवमात्राश्रयादिति योजना ॥५२॥
धार्मिकश्चापि भवति मोक्षं च लभते परम्
।
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः॥५३॥
तपः ज्ञानं निःश्रेयसं मोक्षसाधनम् ॥५३॥
तेन सर्वानवाप्नोति कामान् यान् मनसेच्छति
।
इन्द्रियाणां निरोधेन सत्येन च दमेन च
।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम॥५४॥
तेन तपसा ॥५४॥
ब्राह्मण उवाच।
इन्द्रियाणि तु यान् याहुः कानि तानि यतव्रत
।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम्॥५५॥
तेषां निग्रहस्य फलं च किं कथं च फलमाप्नोतीति सम्बन्धः ॥५५॥
कथं च फलमाप्नोति तेषां धर्मभृतां वर
।
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं निबोध मे॥५६॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणव्याधसंवादे नवाधिकद्विशततमोऽध्यायः॥२०९॥
मार्कण्डेय उवाच।
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर
।
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप॥१॥
एवमिति ॥१॥
व्याध उवाच।
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते
।
तत् प्राप्य कामं भजते क्रोधं च द्विजसत्तम॥२॥
सूक्ष्मशरीरादप्यात्मानं विवोचतुमिन्द्रियाणामजये दोषमाह विज्ञानार्थमित्यादिना । महान्धकारे विद्यमानानां घटादीनां विज्ञानार्थं घटच्छिद्राद्बहिर्गतदीपप्रभेव ब्रह्मणि विद्यमानरूपादीनां विज्ञानार्थमिन्द्रियच्छिद्रद्वारा बहिर्गतं तैजसं मनः प्रथमं प्रवर्तते । तत् रूपादिविज्ञानं प्राप्य ज्ञातेऽर्थे कामं रागं क्रोधं द्वेषं च भजते ॥२॥
ततस्तदर्थं यतते कर्म चारभते महत्
।
इष्टानां रूपगन्धानामभ्यासं च निषेवते॥३॥
तत्र रागकार्यमाह सपादश्लोकेन तत इति ॥३॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
।
ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥४॥
प्रभवति स्वकार्यसाधनेन कृतकृत्यो भवति । द्वेषकार्यमाह पादोनश्लोकेन द्वेषश्चेति ॥४॥
ततो लोभाभिभूतस्य रागद्वेषहतस्य च
।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च॥५॥
उभयोः कार्यमाह ततो लोभेति । व्याजात् दम्भात् ॥५॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते
।
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम॥६॥
व्याजेन कौटिल्येन । अर्थं धनम् ॥६॥
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति
।
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम॥७॥
उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम्
।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः॥८॥
श्रुतिसम्बद्धमसङ्गोऽहमुदासीनोऽहमित्यादि । अश्रुतियोजितं श्रुतिपथे शान्त्यादौ योजितं योगः तद्रहितं यथास्यात्तथा । शमादिशून्योऽपि असङ्गत्वं शास्त्रीयं शब्देनैव दर्शयतीत्यर्थः ॥८॥
पापं चिन्तयते चैव ब्रवीति च करोति च
।
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः॥९॥
मनोवाक्कायजत्वेन त्रैविध्यमेवाह पापमिति । साधवः शमादयः ॥९॥
एकशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः
।
स तेन दुःखमाप्नोति परत्र च विपद्यते॥१०॥
पापकर्मिणः भावप्रधानो निर्देशः । पापकर्मकरत्वादित्यर्थः ॥१०॥
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु
।
यस्त्वेतान् प्रज्ञया दोषान् पूर्वमेवानुपश्यति॥११॥
धर्मलाभोपायमेवाह सार्धेन यस्त्विति ॥११॥
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते
।
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते॥१२॥
ब्राह्मण उवाच।
ब्रवीषि सूनृतं धर्म्यं यस्य वक्ता न विद्यते
।
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे॥१३॥
सूनृतं प्रियं धर्म्यं च ॥१३॥
व्याध उवाच।
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा
।
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा॥१४॥
यत् तेषां च प्रियं तत् ते वक्ष्यामि द्विजसत्तम
।
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे॥१५॥
ब्राह्मीं ब्राह्मणानां स्वभूताम् ॥१५॥
इदं विश्वं जगत् सर्वमजय्यं चापि सर्वशः
।
महाभूतात्मकं ब्रह्म नातः परतरं भवेत्॥१६॥
विद्यामेवाह इदमित्यादिना । इदं प्रत्यक्षादिप्रमाणसिद्धं विश्वं कृत्स्नं जगत् स्थावरजङ्गमात्मकं सर्वं सर्वमपि अजय्यं कर्मणा न लभ्यं सर्वशः सर्वप्रकारेण ‘इदं सर्व यदयमात्मा’ ‘आत्मैवेदं सर्वम्’ इत्यादिश्रुतिभ्यः । सर्वस्यात्ममात्रत्वादिति भावः । ननु पशुबन्धयाजी सर्वान् लोकानभिजयतीति कर्मजय्यत्वं जगतः कथं श्रूयते तत्राह महाभूतात्मकमिति । यतः ब्रह्म त्रिविधपरिच्छेदशून्यं वस्तु तदेव । महाभूतानि आकाशादीनि । आत्मा जीवः। कमानन्दरूप ईश्वर एतत्त्रितयात्मकम् । तथा च श्रुतिः - ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म वै तत्’ इति नातः परतरं भवेत् अतो ब्रह्मणोऽन्यत् श्रेष्ठतरं प्राप्यं नास्ति । जयश्रुतिस्तु अविद्यावद्विषयकर्मकाण्डाभिप्राया ॥१६॥
महाभूतानि खं वायुरग्निरापस्तथा च भूः
।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः॥१७॥
ननु केयं विद्या नाम आत्मैकत्वप्रतिपत्तिरिति ब्रूमः । किं शालग्रामे विष्णुत्वमिव प्रत्यगात्मनि सार्वात्म्यं भावनात्मकं कुर्यादिति विधित एव इह प्रतिपत्तव्यमुत वह्नावौष्ण्यमिव तात्त्विकं तत्त्वमस्यादिशब्दप्रमाणात् प्रतिपत्तव्यम् । आद्येऽजय्यवचनव्याकोपः ॥ द्वितीये तात्त्विकाद्वैते कर्मोपास्तिकाण्डयोरप्रामाण्यम् । न चेष्टापत्तिः । तद्वदेव ज्ञानकाण्डस्याप्यप्रामाण्यापत्तेः । भेदग्राहिप्रत्यक्षादिप्रमाणान्तरविरोधस्तु स्पष्ट एवेत्याशङ्क्याह महाभूतानीति । खादयः शब्दादयश्च तद्गुणाः तस्मिन् ब्रह्मणि आश्रिता गुणाः त्रिगुणात्मकमायाकार्यत्वात् मायायाश्चाश्रयो ब्रह्मैव। ‘देवात्मशक्तिं स्वगुणैर्निंगूडां-’ ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इत्यादिश्रुतिभ्यः । अयमर्थः - चन्द्रेणासंस्पृष्टमपि जलं चन्द्रे चञ्चलत्वानेकत्वाधःस्थत्वाद्यारोपहेतुर्भवति । एवं प्रत्यगात्मनाऽसंसृष्टाऽपि माया तत्र दुःखित्वानेकत्वाद्यारोपहेतुर्भवतीति । तथा च श्रुतयः - ‘एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।’ ‘स समानः सन्नुभौ लौकावनुसञ्चरति ध्यायतीव लेलायतीव ।’ ‘घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः’ इत्याद्याः । समानः बुद्धितादात्म्यं प्राप्तः। लेलायति लोलुपो भवति ब्रह्मैव स्वप्नादिष्विव स्वाज्ञानात् स्वस्मिन्ननेकभेदभिन्नं प्रपञ्चं पश्यति । प्रमाणतश्च तद्बाधे एकमेव शिष्यते । अतो रज्जूरगन्यायेन प्रपञ्चस्याधिष्ठानादनन्यत्वादात्ममात्रत्वम् । अविद्यावस्थायां कर्मोपास्तिज्ञानकाण्डानां प्रामाण्यम् । उत्पन्ने तु ज्ञाने वेदा अवेदा इति श्रुत्यैव स्वस्य प्रामाण्यं निषिद्धमिति न किंचिद्दुःस्थम् । यदाहुः सम्प्रदायविदः ‘देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्’ इति । आ आत्मनिश्चयादिति छेदः । तस्माद्युक्तमुक्तं खादयस्तद्गुणा इति ॥१७॥
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्
।
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु॥१८॥
अत्र तार्किकाः खादयः शब्दादिगुणवन्तो आत्मा च गुणवानन्यो न तु तेषां परस्परं गुणगुणिभावोऽस्तीत्याहुस्तन्निरस्यति तेषामपीति । तेषामव्यवधानात् शब्दादीनां खादिगुणानामपि सतां गुणास्तारत्वमन्द्रत्वादयः सन्ति सर्वे दृश्यमानाः। अनेन साक्षात् परम्परया वा ग्राह्यमात्रं पाञ्चभौतिकमित्युक्तम् । फलितमाह गुणवृत्तिः परस्परमिति । अयसि दग्धृत्वं वह्नौ चतुष्कोणत्वमित्यन्योन्यसङ्क्रमो दृष्टः । तद्वदात्मानात्मधर्माणामपि आत्मन्यपि आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मास्ते चापृथक्त्वेऽपि चैतन्यात् पृथगिवावभासमाना अन्तःकरणे दृश्यन्ते । एवमन्तःकरणधर्मा दुःखित्वादयोऽपीतरत्रेति तयोः परस्पराश्रितत्वमाविद्यकं युज्यतेऽतो नात्मनः पृथग्भूताः खादयः किं तु रज्जूरगवत् तत्रैवाध्यस्ता इति भावः । त्रिषु ईशसूत्रविराट्सु । सर्वे इति । एतेषां उपर्युपरि परस्पराध्यासेऽपि पूर्वस्य सर्वे गुणा उत्तरस्मिन् भवन्ति । उत्तरस्य तु केचिदेव पूर्वस्मिन् भवन्तीत्युक्तम् । अयमर्थः - यथा शुद्धे स्फटिके जपाकुसुमसान्निध्याद्रक्तत्वाध्यासस्तत्रैव स्फटिकधीप्रमोषे सति पद्मरागत्वाध्यासस्तत्रैव चन्द्रिकायामिन्द्रनीलत्वाध्यास इति चतू रूपे स्फटिके गुणवत्सु सोपाधिकेषु त्रिषु पूर्वपूर्वगुणस्य सर्वस्याप्युत्तरोत्तरत्राध्यासो दृश्यते । तथा हि । स्फटिकगता सत्ताऽनिर्वचनीये लौहित्येऽध्यस्ता न तु स्फटिके लौहित्यधर्मोऽनिर्वचनीयत्वमध्यस्तम् । एवं ब्रह्मधर्माः सच्चिदानन्दाः स्थूलेऽपि काये दृश्यन्ते । यथोक्तम् - ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततोऽद्वयम्’ इति । एवं च रज्जुसर्पभ्रमे भीषणत्वादय एवं सर्पधर्मा रज्ज्वामध्यस्यन्ते न तु मिथ्यात्वादयस्तद्वत् । ननु सर्पेऽपि अभिगम्यत्वादयो रज्जुधर्मा न दृश्यन्ते इति सर्वे इत्युक्तिरसङ्गतेति चेत्सत्यम् । अखण्डेकरसे ब्रह्मणि सच्चिदानन्दाः स्वरूपानतिरिक्ता अपि अनृतजडदुःखप्रतियोगित्वेन कल्प्यन्ते न तु रूपरसादिवदकल्पिताः सन्ति । अतः कल्पितानां तेषां कार्येऽनुवृत्तिर्नानुपपन्ना । ये तु ईशादौ अकल्पिता ईशनत्वादयो न ते सूत्रादिष्वनुवर्तन्ते किं तु कर्तृत्वसत्त्वादय एव । तस्मात् कल्पितधर्माभिप्रायेण सर्वे पूर्वस्य धर्मा उत्तरस्मिन् सन्तीत्युक्तम् । तेन दृश्यं सर्वं भौतिकं तच्च ब्रह्मण्यभेदेनाध्यस्तमिति पूर्वार्धार्थः । तत्रापि स्थूलं शुद्धेशसूत्रैरनुगतं सूत्रं शुद्धेशाभ्यामीशः शुद्धेन शुद्धं तु न केनचिदनुगतमिति उत्तरार्धेऽर्थाद्दर्शितम् । श्रौतार्थस्तु तस्य स्पष्ट एवेति निष्कर्षः । तथा च न द्रव्याणां प्रत्यक्स्वरूपात् पृथक् सिद्धिरस्तीति तद्विरुद्धं तर्कमतं निरस्तम् ॥१८॥
षष्ठस्तु चेतना नाम मन इत्यभिधीयते
।
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम्॥१९॥
अत्रानुभवमेव प्रमाणयति षष्ठ इति । चेतना धीवृत्तिस्तथा कामसङ्कल्पादयोऽप्युपलक्ष्यन्ते । षष्ठं शब्दादिपञ्चकापेक्षया । अयं भावः - मनो विषयं कल्पयति स्वप्ने तथा दर्शनात् । बुद्धिस्तं प्रकाशयति । अहङ्कारोऽभिमन्यते मयायं ज्ञात इति । तस्मात् मनोमात्रं जगत् मनसोऽभावे तत्सत्त्वे प्रमाणाभावादिति ॥१९॥
इन्द्रियाणि च पञ्चात्मा रजः सत्त्वं तमस्तथा
।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः॥२०॥
ननु प्रत्यक्षमेव तत्र प्रमाणमित्याशङ्क्याह इन्द्रियाणीति । आत्मा जीवः । अव्यक्तं माया । तत्संज्ञकः प्रमाता प्रमाणं प्रमेयं च स्वप्नदृष्टान्तेन मायामात्रामित्यवगन्तव्यमिति भावः ॥२०॥
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः
।
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः
।
एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥२१॥
इन्द्रियाणि मनोबुद्धिभ्यां सह सप्त । तेषामर्थाः मन्तव्यबोद्धव्याभ्यां सह शब्दादयः सप्त । व्यक्ताव्यक्तैः बाह्येन्द्रियग्राह्याः व्यक्ताः अन्येऽव्यक्ताः । तैः सह सुसंवृतैरिति बुद्धिगुहायां लीनैरित्युक्तम् । ते चतुर्दश आकाशादयः पञ्च । आत्मा अहङ्कारो गुणत्रयं चेति चतुर्विंशतेर्गणः व्यक्ताव्यक्तरूपः गुणः भोग्यवर्गः । एतेभ्यो विविक्तं यत्तदेव सर्वं सर्वात्मत्वात् सर्वशब्दाभिधेयं भोक्तृ ब्रह्मेत्यर्थः ॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणमाहात्म्ये दशाधिकद्विशततमोऽध्यायः॥२१०॥
मार्कण्डेय उवाच।
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत
।
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्॥१॥
एवं पूर्वत्र इदं जगन्महाभूतात्मकं ब्रह्मेत्युक्तं तद्व्याख्यातुं भूतगुणान् विभजते । सर्वात्मकत्वं ब्रह्मणो व्याचष्टे एवमुक्तः स इत्यादिनाऽध्यायेन ॥१॥
ब्राह्मण उवाच।
महाभूतानि यान्याहुः पञ्च धर्मभृतां वर
।
एकैकस्य गुणान् सम्यक् पञ्चानामपि मे वद॥२॥
व्याध उवाच।
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
।
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्॥३॥
गुणोत्तराणि उत्तरोत्तरगुणाः पूर्वपूर्वस्मिन् वर्तन्त इत्यर्थः ॥३॥
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्
।
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः॥४॥
एतदेवाह भूमिरिति । त्रय इति । आकाशे एकः वाते द्वावित्यर्थः ॥४॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
।
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः॥५॥
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम
।
अपामेते गुणा ब्रह्मन् कीर्तितास्तव सुव्रत॥६॥
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
।
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु॥७॥
एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु
।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः॥८॥
सर्वभूतेषु जरायुजादिषु लोकाश्चिदात्मोपाधिभूतानि पञ्चभूतानि ॥८॥
अन्योन्यं नातिवर्तन्ते सम्यक्च भवति द्विज
।
यदा तु विषयीभावमाचरन्ति चराचराः॥९॥
नातिवर्तन्ते पञ्चस्वेकेन विना इतराणि भूतानि न तिष्ठन्तीत्यर्थः । सम्यक् च भवति एकीभावेन प्रकाशन्ते । एकत्वमार्षं सम्पूर्वादञ्चु गतिपूजनयोरित्यस्माद्धातो ऋत्विगादिना क्विनि समः समिरादेशः । ‘समित्येकीभावे’ इति यास्कः । ननु भूतानां परस्परमवियोगे मरणं न स्यात् तत्सङ्घातो हि चेतन आत्मेति लोकायतमतमाशङ्क्याह यदेति । अविषयं विषयमिव यत्र भावयति स सङ्कल्पो विषयीभावः । ते जीवास्तीव्रसङ्कल्पावेशाद्यं देहं भावयन्ति तदभिमानदार्ढ्येन पूर्वदेहस्यात्यन्तविस्मृतौ सत्यां मृता इत्युच्यन्ते न तु मृतदेहेऽपि भूतानां मिथो वियोगोऽस्तीत्यर्थः । पाठान्तरे भावं सङ्कल्पं विषमं स्वदेहविलक्षणं देहान्तरविषयम् ॥९॥
तदा देही देहमन्यं व्यतिरोहति कालतः
।
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः॥१०॥
विनश्यन्ति तिरोभवन्ति । जायन्ते आविर्भवन्ति ॥१०॥
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
।
यैरावृतमिदं सर्वं जगत् स्थावरजङ्गमम्॥११॥
धातवो रेत आदयः । प्रत्येकं पाञ्चभौतिकाः सन्तोऽपि ॥११॥
इन्द्रियैः सृज्यते यद्यत् तत् तद्व्यक्तमिति स्मृतम्
।
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्॥१२॥
सृज्यते । संसृज्यते । यद्वा । प्राणेभ्यो देवादेवेभ्यो लोका इति श्रूयमाणदृष्टिसृष्ट्यभिप्रायेण चक्षुरादिभिः सूर्यादिसृष्टिद्वारा लोकः सृज्यत इति यथाश्रुतमेव व्यक्तं घटादि । अव्यक्तमिन्द्रियादि । लिङ्गं रूपादिप्रकाशस्तेन ग्राह्यमनुमेयम् ॥१२॥
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु
।
इन्द्रियाणि यदा देही धारयन्निव तप्यते॥१३॥
यथास्वं स्वविषयानतिक्रमेण इमानि इन्द्रियाणि धारयन् निगृह्णन् तप्यत इव आत्मानमविषयमप्यालोचयत इव । मनआदीनां निग्रह एव आत्मा लोचनमित्यर्थः ॥१३॥
लोके विततमात्मानं लोकं चात्मनि पश्यति
।
परापरज्ञः सक्तः सन् स तु भूतानि पश्यति॥१४॥
आत्मनः सोपाधिकं रूपमपेक्ष्याह लोके इति । विततं कुण्डले कनकमिव उपादानत्वेन व्यापकं निरुपाधिकं रूपमपेक्ष्याह लोकमिति । लोकं च सैन्धवखिल्यवदात्मनि चिदेकरसे विलीनं पश्यति । तथाच श्रुती ब्रह्मविदां द्वे अवस्थे निरूपयतः - ‘य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति’ । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति । उक्तं चाभियुक्तैः - ‘सोपाधिर्निरुपाधिश्च द्वेधा ब्रह्मविदुच्यते । सोपाधिकः स्यात् सर्वात्मा निरुपाख्योऽनुपाधिकः’ इति । परापरज्ञः । परं निरुपाधि । अपरं सोपाधि । सक्तः प्रारब्धकर्मणा बद्धः सन् यावद्देहपातमेव समाधौ सोपाधिकावस्थामनुभवति न तु विदेहकैवल्येऽपीत्यर्थः ॥१४॥
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
।
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते॥१५॥
विद्याफलमाह पश्यत इति । ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतं ब्रह्मभूतस्य उपाधित्यागादित्यर्थः । अशुभेन पुण्यपापयोः फलेन सम्प्रज्ञातसमाधाविवैकात्म्यधीदार्ढ्याज्जाग्रत्स्वप्नयोरपि तदेव पश्यन् कर्मणा न लिप्यत इत्यर्थः ॥१५॥
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य पौरुषम्
।
लोकवृत्तिप्रकाशेन ज्ञानमार्गेण गम्यते॥१६॥
ज्ञानमूलेति । ज्ञानं विद्या । तस्याः मूलं माया ब्रह्माकारान्तःकरणवृत्तेरपि मायाकार्यत्वात् । मायात्मकं मिथ्यारूपं क्लेशमविद्यादिरूपम् । अतिवृत्तस्य अतिक्रम्य गतस्य योगिनः लोकसम्बन्धिन्याः वृत्तेर्वर्तनजीवनात्मिकायाः प्रकाशो येन तादृशेन ज्ञानरूपेण ज्ञानमार्गेण पौरुषं परमपुरुषार्थरूपो मोक्षो गम्यते प्रकाशते मायिक्येवाविद्या मायिक्यैव विद्यया नष्टा चेन्मुच्यते इत्यर्थः । यथोक्तं श्रीभागवते - ‘विद्याविद्ये मम तनू विध्युद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते’ इति ज्ञानपूर्वात्मकमिति पाठेऽपि स एवार्थः ॥१६॥
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्
।
अनौपम्यममूर्तं च भगवानाह बुद्धिमान्॥१७॥
मुक्तजीवस्य स्वरूपमाह अनादीति । आद्यविशेषणेन लोकायतसम्मतं देहस्यात्मत्वं निरस्तम् । जन्तुं पुत्तिकादिब्रह्मान्तं जीवमात्मयोनिं जीवस्यात्मयोनित्वं वदता जीवत्वहेतोरविद्यादेः पृथक्सत्ता सांख्याद्यभिमता निरस्ता । अव्ययमिति । तार्किकाभिमतं सुखदुःखादिविकारवत्त्वं निरस्तं सदेति आगन्तुकविकारास्पर्शित्वमुक्तम् । एतेनैव क्षणिकशून्यवादावपि निरस्तौ । अमूर्तमिति । अत एवात्मवादो देहसम्मितात्मवादश्च परास्तः । अनौपम्यं तर्कागम्यमित्यर्थः । भगवानाह स्वनिःश्वसितरूपेण वेदेन हेतुदृष्टान्तवर्जितम् - ‘नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनिं परिपश्यन्ति धीराः’ इत्यादिना । बुद्धिमान् बुद्धिः नियम्यत्वेनास्यास्तीति सन्तथा ॥१७॥
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि
।
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा॥१८॥
तपो ध्यानम् ॥१८॥
इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ
।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च॥१९॥
इन्द्रियाणि निगृहीतानि स्वर्गाय विसृष्टानि नरकायेति योजनया पूर्वार्धस्यैव व्याख्या ॥१९॥
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्
।
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च॥२०॥
इन्द्रियाणां प्रसङ्गेन दोषमार्च्छन्त्यसंशयम्
।
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात्॥२१॥
एतन्मूलमित्येतद्व्याचष्टे इन्द्रियाणामिति । दोषं रागविद्वेषादिरूपम् आर्च्छन्ति प्राप्नुवन्ति ॥२१॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति
।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥२२॥
षण्णां मनःषष्ठानामिन्द्रियाणां नित्यानामात्मनि कल्पितत्वेन रज्जुभुजङ्गवदाद्यन्तशून्यानाम् । ऐश्वर्यं नियन्तृत्वमनर्थैः प्रमातृत्वादिकर्तव्यभोक्तृत्वरूपैः ॥२२॥
रथः शरीरं पुरुषस्य दृष्टमात्मा नियन्तेन्द्रियाण्याहुरश्वान्
।
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः॥२३॥
उक्तेऽर्थे प्रमाणसूचनार्थम् - ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च’ इत्यादि कठवल्लीनामर्थं सङ्गृह्णाति रथ इत्यादिना ॥२३॥
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथितम्
।
यो धीरो धारयेद्रश्मीन् स स्यात् परमसारथिः॥२४॥
आत्मा बुद्धिः ॥२४॥
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु
।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेत् ध्रुवम्॥२५॥
इन्द्रियाणामजये शास्त्रजापि प्रज्ञा नश्यतीत्याह इन्द्रियाणामिति ॥२५॥
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते
।
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि॥२६॥
अनुविधीयत इति कर्मकर्तरि लकारः । यस्येन्द्रियस्याधीनं मनो भवति तदेव प्रज्ञां नाशयतीत्यर्थः ॥२६॥
येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमम्
।
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्॥२७॥
षट्सु सङ्कल्पेषु शब्दादिषु फलागमे तज्जन्ये सुखाद्युपलम्भे विषये विप्रतिपद्यन्ते रागिणः । सुखमुपादेयामत्याहुर्वीतरागा हेयमित्यादिरूपा विप्रतिपत्तिः । तत्र यस्तेषु अध्यवसितं वस्तुदृष्ट्या निश्चितं यद्धेयत्वं तदेवाध्यातुं शीलं यस्य सः विषयदोषदर्शनेन वीतराग इत्यर्थः ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणव्याधसंवादे एकादशाधिकद्विशततमोऽध्यायः॥२११॥
ब्राह्मण उवाच।
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
।
अवकाशविशेषेण कथं वर्तयतेऽनिलः॥१॥
ज्ञानक्रियाशक्तिमतोर्धीप्राणयोरात्मान्यत्वम् ‘अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति’ इति मन्त्रप्रकाशितं वक्तुमारभते पार्थिवमिति । पार्थिवं पृथिवीबाहुल्यात् धातुं त्वगादिमयं देहमासाद्य प्राप्य प्रकाशप्रवृतिमोहाद्याश्रयोऽग्निर्विज्ञानाख्यस्तेजो धातुः शारीरः शरीराभिमानी कथं भवेत् । अवकाशविशेषेण नाडीमार्गभेदेन वर्तयते शरीरं चेष्टयते ॥१॥
मार्कण्डेय उवाच।
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
।
व्याधस्तु कथयामास ब्राह्मणाय महात्मने॥२॥
व्याध उवाच।
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते॥३॥
मूर्धनि सहस्रारे स्थितत्वाच्छ्रेष्ठत्वाद्वा मूर्धानं चिदात्मानमग्निविज्ञानात्मा श्रितस्तदुपाधितां प्राप्तः सन् शरीरं परिपालयन् चित्प्रतिबिम्बं प्राप्य धीधातुः शरीरं चेतयतीत्यर्थः । एतेनाग्निर्मूर्द्धेति पदद्वयं व्याख्यातम् । प्राणस्तु तयोरुभयोरप्युपाधिरित्याह प्राण इति । एतेन चिद्विज्ञानं द्वयं वायुशब्दितं तस्य ककुदिव ककुत् चालकतया श्रेष्ठः प्राण इत्युक्तम् ॥३॥
भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्
।
श्रेष्ठं तदेव भूतानां ब्रह्मयोनिमुपास्महे॥४॥
अस्य ककुत्त्वं व्याचष्टे भूतमिति । प्राणे चिद्विज्ञानाभ्यां युक्ते सूत्रात्मरूपे ब्रह्मकार्यरूपं योनिं विराडादेः ॥४॥
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
।
महान् बुद्धिरहङ्कारो भूतानां विषयश्च सः॥५॥
सः चिद्विज्ञानप्राणानां सङ्घातो जन्तुः समष्टिजीवः सर्वेषां भूतानां कार्यकारणरूपाणामात्मा चेतयिता सनातनः पुरुषः परं ब्रह्म च स एव निरस्तोपाधिः सन् स एवोपाधिपक्षपाती सन् महदाद्यात्मा भवति । विषयश्च शब्दादिः स एव । एतेन पतिः पृथिव्या अयमिति द्वितीयः पादो व्याख्यातः । अयं चिद्विज्ञानप्राणसङ्घातः पृथिव्याः क्षेत्रस्येति श्रुतिपदयोरर्थः ॥५॥
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
।
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः॥६॥
एवमिति सर्वत्र अन्तर्बहिश्च स्थितं सर्वं प्राणेन देहलीदीपवन्मध्यस्थेन आन्तरं विज्ञानं बाह्यं देहेन्द्रियादिकं च पाल्यत इत्यर्थः । अपां रेतांसि जिन्वतीत्यन्तपादं व्याचष्टे पृष्ठत इत्यादिना । ‘अन्नमयं हि सोम्य मन आपो मयः प्राणस्तेजोमयी वाक्’ इति श्रुतेः साक्षात् परम्परया वा प्राणमनइन्द्रियाण्यपां रेतांसि जिन्वति तर्पयति सङ्घातात्मेति श्रुतिपदानामर्थः । पृष्ठतः उपाध्यावेशाज्जीवत्वप्राप्त्यनन्तरम् । समानेन इत्थं भावे तृतीया । स्वां स्वां पृथक् गम्यां गतिम् आश्रितो भवति । समानवायुत्वं प्राप्तः पावकं जाठरमाश्रितः सन् बस्तिमूलं मूत्राशयं गुदं पुरीषाश्रयं च जाठरस्थः समानो शितपीतादिकं पाचयित्वा पानरूपी भूत्वा स्वं स्वं स्थानं नयतीत्यर्थः । श्लोकद्वयम् ॥६॥
बस्तिमूलं गुदं चैव पावकं समुपाश्रितः
।
वहन् मूत्रं पुरीषं वाऽप्यपानः परिवर्तते॥७॥
प्रयत्ने कर्मणि बले स एष त्रिषु वर्तते
।
उदानमिति तं प्राहुरध्यात्मविदुषो जनाः॥८॥
कर्म गमनादि । प्रयत्नस्तदनुकूला चेष्टा । बलं भारोद्यमनादौ सामर्थ्यम् । विदुषः सकाशात् श्रुत्वेति शेषः ॥८॥
सन्धौ सन्धौ सन्निविष्टः सर्वेष्वपि तथाऽनिलः
।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते॥९॥
धातुष्वग्निस्तु विततः स तु वायुसमीरितः
।
रसान् धातूंश्च दोषांश्च वर्तयन् परिधावति॥१०॥
धातुषु त्वगादिषु । अग्निर्जाठरः विततो व्याप्तः। रसादीन् परिवर्तयन् परिणामयन् । रसान् अन्नादीन् धातूंस्त्वगादीन् । दोषान् पित्तादीन् ॥१०॥
प्राणानां सन्निपातात् तु सन्निपातः प्रजायते
।
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्॥११॥
कथं वर्तयतेऽनिल इति पृष्टं तत्राह प्राणानामिति । सन्निपातः सङ्घर्षस्तज्ज ऊष्माग्निर्जाठरो भवति ॥११॥
समानोदानयोर्मध्ये प्राणापानौ समाहितौ
।
समर्थितस्त्वधिष्ठानं सम्यक् पचति पावकः॥१२॥
सन्निपातं व्याकरोति समानेति । नाभिस्थं समानं हृदिस्थः प्राण एति । गुदस्थोऽपानः कण्ठस्थमुदानमेति । तेन प्राणापानसमानानां नाभिदेशे सङ्घर्षेण समर्थितो निष्पादितः अधिष्ठानं सप्तधातुमयं शरीरं सम्यक् पचति वृद्ध्यादि परिणामं नयति ॥१२॥
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः
।
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्॥१३॥
अस्य पावकस्य पायुपर्यन्तो गुदप्रवेशो गुदसंशितोऽपानो भवति । स्त्रोतांसि नाडीमार्गाः तस्मादपानात् प्राणेषु प्राणादिषु पञ्चसु प्राणादिभ्यः पावकोत्पत्तिः पावकाच्चापानद्वारा प्राणाद्युत्पत्तिर्भवतीति प्रघट्टकार्थः ॥१३॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्॥१४॥
एतदेवोपपादयति अग्नीति । अग्निवेगात् कन्दुकवदूर्ध्वमुत्प्लुतः प्राणो गुदान्ते प्रतिहतः पुनरुत्पतन्नग्निमप्युत्क्षिपतीत्यर्थः । दृश्यते चाग्निवेगात् बाष्पवायुवृद्धिर्वायुवेगाच्चाग्निवृद्धिः । तथा च प्राणरोधे सति जाठरं भयं निवर्ततेऽतः प्राणो रोद्धव्य इति भावः ॥१४॥
पक्वाशयस्त्वधो नाभ्यामूर्ध्वमामाशयः स्थितः
।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः॥१५॥
जाठरानरोधे सर्वेषामिन्द्रियाणां निरोधो भवतीत्याशयेनाह पक्केति । पक्वाशयः पक्कान्नस्थानमामाशयः । अपक्वान्नस्थानं नाभिमध्ये इति तात्स्थ्याज्जाठरः प्राणा इन्द्रियाणि प्रतिष्ठिताः लीना भवन्तीत्यर्थः ॥१५॥
प्रवृत्ता हृदयात् सर्वे तिर्यगूर्ध्वमधस्तथा
।
वहन्त्यन्नरसान् नाड्यो दश प्राणप्रचोदिताः॥१६॥
सर्वे रसाः हृदयात् हृदयं प्राप्य दशभिः प्राणैः प्रेरिताः ते च प्राणादयः पञ्च नागकूर्मकृकलदेवदत्तधनञ्जयाश्च पञ्च ॥१६॥
योगिनामेष मार्गस्तु येन गच्छन्ति तत् परम्
।
जितक्लमाः समा धीरा मूर्धन्यात्मानमादधुः
।
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु॥१७॥
एष मूर्द्धादिपायुपर्यन्तः । तत् परं ब्रह्म । मूर्द्धनि सुषुम्नया नाड्या सहस्त्रारं प्राप्य ये तत्रात्मानं प्राणोपाधिमाहितवन्तस्ते गच्छन्ति । देहिषु जीवद्देहेषु सर्वेषामप्येष मार्गो गन्तुं योग्य इति भावः ॥१७॥
एकादशविकारात्मा कलासम्भारसम्भृतः
।
मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्॥१८॥
न केवलं प्राणरोध एव पुरुषार्थः किन्तु तत् साध्यं विज्ञानमित्याह एकादशेत्यादिना । ‘स प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः’ इति श्रुतेरेकादश विकारा लिङ्गशरीरं तदात्मा तत्तादात्म्यं गतः । यद्यपि पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोऽत्थं सूक्ष्माङ्गं भोगसाधनम्' इति सप्तदशात्मकं लिङ्गम् । तथापि मनसि बुद्धेर्दशेन्द्रियेषु सामान्या करणवृत्तिः । प्राणाद्या वायवः । पञ्चेति साङ्ख्यमतेन प्राणपञ्चकस्य चान्तर्भावं विवक्षित्वा एकादश विकारात्मेति ज्ञेयम् । कलाः षोडश । प्राणः श्रद्धा खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नं वीर्यं तपो मन्त्राः कर्म लोका नाम चेति एतासां सम्भारेण सम्भृतः कलारूपोपाधिना मूर्तिहीनमपि मूर्तिमन्तं सूक्ष्मस्थूलदेहवन्तमात्मानं विद्धि विजानीहि । ज्ञानसाधनमाह नित्यमिति । योगेन जित आत्मा बुद्धिर्येन तमात्मानमित्युत्तरादपकृष्यते ॥१८॥
तस्मिन् यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
।
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्॥१९॥
प्राणादिभ्यो जीवं विविनक्ति तस्मिन्निति । तस्मिन् कलासम्भारे अग्निवदात्मा प्रकाशरूपः स्थालीवत् कला अप्रकाशात्मिकाः । आत्मानं त्वंपदार्थम् ॥१९॥
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे
।
क्षेत्रज्ञं तं विजानीहि नित्यं योगजितात्मकम्॥२०॥
अस्य तत्पदार्थाभेदमाह देव इति । अब्बिंदुदृष्टान्तेनासाङ्गत्वं दर्शितम् । क्षेत्रज्ञं परमात्मानम् ॥२०॥
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा
।
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकम्॥२१॥
ननु त्वंपदार्थः सङ्गी तत्पदार्थोऽसङ्गः कथमनयोरभेद इत्याशङ्क्य बिम्बप्रतिबिम्बयोरिवेत्याशयेनाह जीवात्मकानीति । रज आदिना प्रवृत्त्यादयो धर्मा जीवात्मका उपाधिविशिष्टाश्रिताश्चाञ्चल्यादय इव जलचन्द्रे तं जीवमात्मगुणमीश्वरस्य गुणं भृत्यवत् प्रेष्यमात्मानमीश्वरं परात्मकं निर्गुणं विद्धि । अयमर्थः - तरङ्गतटाकप्रतिबिम्बकल्पौ धीमायोपाधी जीवेश्वरौ नियम्यनियामकौ तयोर्जीव ईश्वरात्मा । ईश्वरस्तु बिम्बस्थानीयासङ्गचिद्रूप इति । तथा च श्रुतिः - 'एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । इति । भूतात्मा नित्यसिद्धश्चिदात्मा । एकधेति ईश्वररूपेण । बहुधेति जीवरूपेण ॥२१॥
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम्
।
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त॥२२॥
अचेतनं जडं शरीरादि । सचेतनमिति तदेव ग्राह्यम् । तत् जीवस्य गुणं भोग्यं वदन्ति, स आत्मा चेष्टते जीवरूपेण । चेष्टयते ईश्वररूपेण । ततस्ताभ्यां जीवेश्वराभ्यां परमुत्कृष्टं तं वदन्ति । यो भुवनानि सप्त भूरादीनि प्राकल्पयत् प्रावर्तयत् । ननु कथं निरुपाधेः प्रवर्तकत्वमुच्यते अधिष्ठानतयेति ब्रूमः । तथा च श्रुतिः - ‘यतो वा इमानि भूतानि जायन्ते’ इति ब्रह्मणो लक्षणमुक्त्वा अन्नमयादिकोशकारणीभूतानामन्नादिशब्दितानां विराडादीनां जगत्कारणकत्वम् । ‘अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते’ इत्यादिना स्थूलारुन्धतीन्यायेन विराडादीनि सोपाधिकानि ब्रह्माणि उक्त्वा ‘प्रज्ञानघन एवानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पाद एष सर्वेश्वरः’ इति माण्डूक्यश्रुतिप्रसिद्धस्यानन्दमयस्य ईश्वरस्य कारणीभूते आनन्दाख्ये ब्रह्मणि ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ इति मुख्यं कारणत्वं व्यवस्थापितम् । तथा प्रदेशान्तरेऽपि ‘को ह्येवान्यात् कः प्राप्याद्यदेष आकाश आनन्दो न स्यात्’ इति श्रुतिराकाशाख्ये कारणे यद्यानन्दो न स्यात् तर्हि तत्कार्ये देहादौ कुतः प्राणनादि स्यादिति तत्रैव मुख्यं प्रवर्तकत्वं दर्शयति ॥२२॥
एवं सर्वेषु भूतेषु भूतात्मा सम्प्रकाशते
।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः॥२३॥
ननु ईश्वरसद्भावे भुवनप्रवृत्तिरेव कारणं दृश्यते न तु तदन्यस्य निर्गुणस्य । ईश्वरेणैव तस्यान्यथासिद्धत्वादित्याशङ्क्याह - एवमिति । भूतात्मा नित्यसिद्ध आत्मा आनन्दाख्यः । ऐश्वर्यस्य तु ईशितव्यसापेक्षत्वान्ननित्यसिद्धत्वम् । सुप्तिप्रलययोरीशितव्याभावादनीश्वरत्वापत्तेरित्यानन्दस्यैव नित्यमैश्वर्यं माययाभिव्यज्यत इति भावः । ज्ञानं ब्रह्माकारावृत्तिस्तत्साक्षिभिस्तेन वेद्यादीशादन्यस्तत्प्रकाशक इति दर्शितम् ॥२३॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते॥२४॥
प्रसन्नात्मा वृत्तिजनितकालुष्यत्यागाद्विशुद्धचित्तः । आत्मनि स्थित्वा चित्तसारूप्यमपि त्यक्त्वा । सुखमनायासेन आनन्त्यं मोक्षम् ॥२४॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
।
निवाते वा यथा दीपो दीप्येत् कुशलदीपितः॥२५॥
यथा जलादुत्तीर्णस्य शरीरे संश्लिष्टः सूक्ष्मतमः पटः सन्नप्यसन्निव भाति । एवं समाधौ विकल्पाभावात् सदपि चित्तं न भातीति सुप्तितुल्यतां प्रसादस्याह लक्षणमिति ॥२५॥
पूर्वरात्रे परे चैव युञ्जानः सततं मनः
।
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि॥२६॥
विशुद्धात्मा शुद्धचित्तः । आत्मानं ब्रह्म । आत्मनि हृदये ॥२६॥
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति
।
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते॥२७॥
निरात्मानं निर्गुणं निलीनं चित्तं यस्मिन् मृतम् । ‘तावन्मनो निरोद्धव्यं हृदि यावत् क्षयं गतम् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः’ । इति श्रुतिः । चित्तक्षय एवात्मदर्शनमित्यर्थः ॥२७॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
।
एतत् पवित्रं लोकानां तपो वै सङ्क्रमो मतः॥२८॥
सङ्क्रमः सेतुः पारप्रापको मार्गः ॥२८॥
नित्यं क्रोधात् तपो रक्षेद्धर्मं रक्षेच्च मत्सरात्
।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः॥२९॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
।
आत्मज्ञानं परं ज्ञानं सत्यं व्रतपरं व्रतम्॥३०॥
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्
।
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम्॥३१॥
भूतहितमनृतमपि सत्यमेव । भूतानामहितकरं सत्यमप्यनृतमेवेत्यर्थः ॥३१॥
यस्य सर्वे समारम्भा निराशीर्बन्धनाः सदा
।
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्॥३३॥
एनं ब्रह्मणो योगं न श्रावयेत् । अपदार्थत्वात् किं तु उपपादयेल्लक्षणयाज्ञापयेत् । तं चित्तवियोगमेव विरुद्धलक्षणया योगसंज्ञितं प्राहुः । ‘तं विद्याद्दुःखसंयोगं वियोगं योगसंज्ञितम् ।’ इत्याद्यागमा इत्यर्थः ॥३३॥
यतो न गुरुरप्येनं श्रावयेदुपपादयेत्
।
तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम्॥३३॥
एनं ब्रह्मणो योगं न श्रावयेत् । अपदार्थत्वात् किं तु उपपादयेल्लक्षणयाज्ञापयेत् । तं चित्तवियोगमेव विरुद्धलक्षणया योगसंज्ञितं प्राहुः । ‘तं विद्याद्दुःखसंयोगं वियोगं योगसंज्ञितम् ।’ इत्याद्यागमा इत्यर्थः ॥३३॥
न हिंस्यात् सर्वभूतानि मेत्रायणगतश्चरेत्
।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥३४॥
मैत्रं मित्रभावस्तदेवायनं मार्गस्तद्गतश्चरेत् ॥३४॥
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम्
।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्॥३५॥
ज्ञानं ज्ञानसाधनम् । ज्ञानमपि स्तौति साधने प्रवृत्त्यर्थं सदात्मज्ञानमुत्तममिति ॥३५॥
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः
।
अशोकं स्थानमाश्रित्य निश्चलं प्रेत्य चेह च॥३६॥
अशोकं स्थानं वैराग्यम् । प्रेत्य मृत्वा स्वर्गादौ । इह च राज्यादौ आश्रित्य यतव्रतो भवेत् ॥३६॥
तपोनित्येन दान्तेन मुनिना संयतात्मना
।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥३७॥
गुणागुणमनासङ्गमेककार्यमनन्तरम्
।
एतत् तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम्॥३८॥
गुणाः लोकवेदादयः अगुणा यस्मिन् तं गुणागुणम् । ‘अत्र लोका अलोका वेदा अवेदाः’ इत्यादिश्रुतेः । अनासङ्गं स्त्र्यादिसङ्गहीनम् । अत एव एककायम् । एकेन प्रत्यगात्मनैव निष्पाद्यम् । अनन्तरमज्ञानमात्रापनयाद्गम्यं न तु क्रियाव्यवहितं स्वर्गादिसुखवत् । वृत्तं प्राक् सिद्धम् । एकमेव पद्यते गम्यते न तु ज्ञानज्ञेयविभागो यस्मिन् तत् एकपदम् ॥३८॥
परित्यजति यो दुःखं सुखं चाप्युभयं नरः
।
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति॥३९॥
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
।
एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणव्याधसंवादे त्रयोदशाधिकद्विशततमोऽध्यायः॥२१३॥
व्याध उवाच।
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम
।
अभिप्रसादयमृषिं गिरा त्राहीति मां तदा॥१॥
एवमिति । अभिप्रसादयमडभाव आर्षः ॥१॥
अजानता मयाऽकार्यमिदमद्य कृतं मुने
।
क्षन्तुमर्हसि तत् सर्वं प्रसीद भगवन्निति॥२॥
शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि
।
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः॥४॥
तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि
।
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि॥५॥
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः
।
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा॥६॥
प्रसादश्च कृतस्तेन ममैव द्विपदां वर
।
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम॥७॥
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत
।
एतत् ते सर्वमाख्यातं यथा मम पुराऽभवत्॥८॥
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम॥९॥
ब्राह्मण उवाच।
एवमेतानि पुरुषा दुःखानि च सुखानि च
।
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि॥१०॥
दुष्करं हि कृतं कर्म जानता जातिमात्मनः
।
लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण॥११॥
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै
।
कञ्चित् कालमुष्यतां वै ततोऽसि भविता द्विजः॥१२॥
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः
।
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु॥१३॥
दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत्
।
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः॥२४॥
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः
।
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्॥१५॥
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम
।
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः
।
लोकवृत्तानुवृत्तज्ञा नित्यं धर्मपरायणाः॥१६॥
व्याध उवाच।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्॥१७॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च
।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः॥१८॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते॥१९॥
गुणैः गुणकार्यैः सुखदुःखमोहैः ॥१९॥
अनिष्टं चान्वितं पश्यंस्तथा क्षिप्रं विरज्यते
।
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमात्॥२०॥
शोचतो न भवेत् किञ्चित् केवलं परितप्यते
।
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः॥२१॥
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः
।
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥२२॥
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्
।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्॥२३॥
गताध्वानः प्राप्तज्ञानमार्गाः ॥२३॥
न विषादे मनः कार्यं विषादो विषमुत्तमम्
।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः॥२४॥
यं विषादोऽभिभवति विक्रमे समुपस्थिते
।
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते॥२५॥
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्
।
न हि निर्वेदमागम्य किञ्चित् प्राप्नोति शोभनम्॥२६॥
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे
।
अशोचन्नारभेतैवं मुक्तश्चाव्यसनी भवेत्॥२७॥
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः
।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्॥२८॥
बुद्धेस्तत्त्वज्ञानात् परं ब्रह्म गताः प्राप्ताः ॥२८॥
न शोचामि च वै विद्वन् कालाकाङ्क्षी स्थितो ह्यहम्
।
एतैर्निदर्शनैर्ब्रह्मन्नवसीदामि सत्तम॥२९॥
ब्राह्मण उवाच।
कृतप्रज्ञोऽसि मेधावी बुद्धिर्हि विपुला तव
।
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्॥३०॥
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु
।
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर॥३१॥
मार्कण्डेय उवाच।
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह
।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः॥३२॥
प्रदक्षिणं कृत्वा उपदेष्टा गुरुरिति बुद्ध्या ॥३२॥
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा
।
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः॥३३॥
एतत् ते सर्वमाख्यातं निखिलेन युधिष्ठिर
।
पृष्टवानासि यं तात धर्मं धर्मभृतां वर॥३४॥
पतिव्रताया माहात्म्यं ब्राहाणस्य च सत्तम
।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता॥३५॥
युधिष्ठिर उवाच।
अत्यद्भुतमिदं ब्रह्मन् धर्माख्यानमनुत्तमम्
।
सर्वधर्मविदां श्रेष्ठ कथितं मुनिसत्तम॥३६॥
सुखश्रव्यतया विद्वन् मुहूर्त इव मे गतः
।
न हि तृप्तोऽस्मि भगवन् शृण्वानो धर्ममुत्तमम्॥३७॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि ब्राह्मणव्याधसंवादे षोडशाधिकद्विशततमोऽध्यायः॥२१६॥
वैशम्पायन उवाच।
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा॥१॥
धर्मव्याधोक्तधर्मेषु ‘माता पिताग्निरात्मा च गुरुश्च द्विजसत्तम’ इति मुमुक्षूणां पञ्च सेव्यत्वेन प्रोक्तास्तत्र पतिव्रतोपाख्याने धर्मव्याधनिदर्शनेन मातापित्रोः पतिव्रतानिदर्शनेन गुरोश्च शुश्रूषायाः फलं दर्शितम् । तत्रैव मोक्षधर्मप्रस्तावे आत्मसेवनं फलं चोक्तम् । परिशिष्टस्याग्निसेवनस्य मोक्षहेतुत्वप्रकारं वक्तुमाङ्गिरसमारभते श्रुत्वेमां धर्मसंयुक्तामित्यादिना ॥१॥
युधिष्ठिर उवाच।
कथमाग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा
।
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महाद्युतिः॥२॥
कथमिति । ननु त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति वेदे वह्नेरङ्गिरस्त्वं श्रूयते । अत्र तु अङ्गिरसो वह्नित्वं कथं पृच्छति । सत्यम् । उभयोरभेदेन बीजाङ्कुरवत् परस्परजनकत्वेन वाऽदोषः । तथा च ‘अग्निर्वै ब्राह्मणः’ इति ‘अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि’ इति च श्रुती भवतः । वनं सलिलं यातः प्रविष्टः। ‘प्रविवेशिथापः’ इति मन्त्रवर्णात् । ‘जीवनं भुवनं वनम्’ इत्यमरः ॥२॥
अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु
।
दृश्यते भगवन् सर्वमेतदिच्छामि वेदितुम्॥३॥
अग्निरिति । एकस्याप्यग्नेः कर्मसु दृश्यमानमनेकत्वम् । कथमुपपद्यते । न हि आग्नेयोऽष्टाकपालः दर्शपूर्णमासचातुर्मास्यादिषु एक एव इति वतुं शक्यम् । अन्यावयवत्वायोगात् । अन्यस्य च गुणस्य द्रव्यस्य वा यागभेदकस्याभावाद्देवताभेद एव यागभेदहेतुरिति अवश्यं वाच्यम् । स चाग्नेरेव कथं सम्भवतीत्यर्थः ॥३॥
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्
।
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च॥४॥
अथ एकस्य सन्ततौ अनेकेऽग्निनामानः सन्तीति तर्हि आग्नेयस्य स्कन्दस्य कथं रुद्रादिपुत्रत्वमपि स्मर्यत इत्याह कुमारश्चेति ॥४॥
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम
।
कौतूहलसमाविष्टो याथातथ्यं महामुने॥५॥
मार्कण्डेय उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः॥६॥
यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत्
।
सन्तापयंश्च प्रभया नाशयंस्तिमिराणि च॥७॥
अङ्गिराऽभवत् सन्धिरडभावो वा आर्षः ॥७॥
पुराऽङ्गिरा महाबाहो चचार तप उत्तमम्
।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्
।
तथा स भूत्वा तु तदा जगत् सर्वं व्यकाशयत्॥८॥
तथेति । अग्नेरप्यधिको भूत्वा सूर्यवत् जगत् प्रकाशितवान् ॥८॥
तपश्चरंस्तु हुतभुक् सन्तप्तस्तस्य तेजसा
।
भृशं ग्लानश्च तेजस्वी न च किञ्चित् प्रजज्ञिवान्॥९॥
तपश्चरन्निति । ‘महत्तदुल्वं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः’ इति श्रुतिप्रसिद्धेन केनचिन्निमित्तेन जले प्रविश्य तपश्चरन्नग्निराङ्गिरसेन तेजसा सन्तप्तोऽभूदित्यर्थः । उल्बमुल्वणम् । स्थविरं प्राचीनम् । आविश्य तिष्ठतीत्यादिष्टं भयं सञ्जातमस्य स आविष्टितः ॥९॥
अथ सञ्चिन्तयामास भगवान् हव्यवाहनः
।
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रकल्पितः॥१०॥
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः
।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः॥११॥
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्
।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाऽङ्गिराः॥१२॥
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः
।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु॥१३॥
संस्थानचारिषु स्थावरजङ्गमेषु । सम्यक् स्थानं गतिनिवृत्तिर्येषु चरणशीलेषु चेति योगात् । त्रिषु अन्तर्बहिर्दिवि च उत्तमाधममध्यमेषु वा ॥१३॥
त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः
।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद॥१४॥
अग्निरुवाच।
नष्टकीर्तिरहं लोके भवान् जातो हुताशनः
।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः॥१५॥
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव
।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च॥१६॥
निक्षिपामीति । अत्राग्निशब्देन दिग्देशकालकर्त्राद्यात्मा सूत्रसंज्ञो हिरण्यगर्भ उच्यते । तस्य अग्नित्वत्यागः कारणात्मनाऽवस्थानम् । प्रथमः प्रथमजः सूत्रात्मेत्यर्थः । हे प्राजापत्य प्रजापतिपुत्र हे अङ्गिरः । अहं द्वितीयः कः कसंज्ञो विराडात्मा भविष्यामि ॥१६॥
अङ्गिरा उवाच।
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः
।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा॥१७॥
कुर्विति । पुण्यं हविर्वहनं प्रजानां स्वर्ग्यं स्वर्गाय हितम् । प्रथमं पुत्रं बृहस्पतिसंज्ञम् । अयं भावः - ईशसूत्रविराडुपासनाभिः सिद्धाः क्रमेण ब्रह्मप्रजापतिबृहस्पतिसंज्ञाः पूर्वपूर्वस्य उत्तरोत्तरः शतांशसंमितैश्वर्यः । तथाच श्रुतिरारोहक्रमेणाह - ‘ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः’ इति । तत्रापि बीजाङ्कुरन्यायेनाग्नेरङ्गिराः । अङ्गिरसो बृहस्पत्याख्योऽग्निरिति बोध्यम् । ‘तद्यादिदमाहुरमुं यजामुं यजेत्येतस्यैव सा विसृष्टिः’ ‘सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति’ इत्यादिश्रुतिप्रसिद्धं सूत्रात्मनः सर्वदेवतारूपत्वमाङ्गिरसतात्पर्यम् । तदिदं ज्ञात्वा यजमानस्याग्निरपि मोक्षद्वारं भवतीत्यर्थः ॥१७॥
मार्कण्डेय उवाच।
तच्छ्रुत्वाऽङ्गिरसो वाक्यं जातवेदास्तदाऽकरोत्
।
राजन् बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः॥१८॥
तच्छ्रुत्वेति । अकरोत् अङ्गीचकार । जातवेदाः स्वयं कारणं गत्वा स्वपुत्रमङ्गिरसमकरोत् । तस्यापि पुत्रः स्वयं बृहस्पतिर्नामाऽभवदिति ॥१८॥
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्
।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत॥१९॥
तत्र बृहस्पतेः कारणत्वं कारणज्ञानादेव युज्यते ‘ब्रह्मविद्ब्रह्मैव भवति’ इति श्रुतेरतस्तत्परीक्षार्थं देवा बृहस्पतिं प्रति कारणं ब्रह्म पप्रच्छुः ॥१९॥
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्
।
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा॥२०॥
तस्मिंश्च तेनोक्ते सति प्रत्यगृह्णन् अङ्गिरसो वचः अयं भवतां गुरुरिति अङ्गीकृतवन्तः ॥२०॥
तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्
।
कर्मभिर्बहुभिः ख्यातान्नानार्थान् ब्राह्मणेष्विह॥२१॥
नानार्थान् पृथक् प्रयोजनान् । ब्राह्मणेषु कर्मविधिवाक्येषु ॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे सप्तदशाधिकद्विशततमोऽध्यायः॥२१७॥
मार्कण्डेय उवाच।
बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी
।
अग्नीन् साऽजनयत् पुण्यान्षडेकां चापि पुत्रिकाम्॥१॥
तत्र क्रत्वङ्गभूतः कालः प्रागुक्तः । अथ क्रत्वङ्गभूता देवताः प्रपञ्चयितुं विराडुपास्तिफलावस्थस्य बृहस्पतेर्विभूतिरूपां सन्ततिं वक्तुमुपक्रमते बृहस्पतेरिति । चान्द्रमसी चन्द्रमसा आक्रान्ता तारा नाम । षडग्नीन् शंयुप्रभृतीन् वक्ष्यमाणान् एकां पुत्रिकां स्वाहाख्याम् ॥१॥
आहुतिष्वेव यस्याग्नेर्हविषाद्यं विधीयते
।
सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाव्रतः॥२॥
आहुतिषु प्रधानाहुतिषु दर्शे पौर्णमासे च यस्य हविः । आद्यं हविषेति तृतीया प्रथमार्थे ‘प्रथमं हविर्विधीयते यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ इत्यादिश्रुत्या चोद्यते स शंयुर्नाम ॥२॥
चातुर्मास्येषु यस्येष्ट्यमश्वमेधेऽग्रजः पशुः
।
दीप्तो ज्यालेरनेकाभिरग्निरेकोऽथ वीर्यवान्॥३॥
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा
।
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः॥४॥
चातुर्मास्येषु चतुर्षु मासेषु कर्तव्येषु वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यपर्वचतुष्टयेषु । ‘आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम्’ इति प्रतिपर्वतुल्यवदग्निराम्नायते । तथाऽश्वमेधे च यस्य इष्ट्यामिष्टिसभीपे अग्रजः प्रथमः पशुर्भवति ‘तत्र या पशाविष्टिरुभयतोऽन्यतरो वाग्नेयी वाग्नावैष्णवी च’ इति आश्वलायनाद्युक्ता तथा च दर्शपूर्णमासचातुर्मास्यपश्वश्वमेधाः यत्पूर्वकाः सोऽग्निर्बार्हस्पत्यः शंयुर्नामेत्यर्थः । शंयुसन्ततिमाह शंयोरिति । अप्रतिमा अतिसुन्दरी धर्मजा धर्मकन्या सत्या नाम दीप्तो दीप्तिमान् ॥४॥
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे
।
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते॥५॥
तस्य नामाह प्रथमेनेति । अध्वरे दर्शादौ । प्रथमाऽऽज्यभागदेवता योऽग्निः स भरद्वाज इत्यर्थः । तस्य शंयोः ॥५॥
पौर्णमासेषु सर्वेषु हविषाज्यं स्रुवोद्यतम्
।
भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः॥६॥
पौर्णमासेष्विति स्रुवोद्यतं हविः प्रथमाधारस्तस्य देवता भरतो नाम शंयोः पुत्रः । पूर्णमासपदं सर्वतद्विकारपरं तेन दर्शोऽपि गृह्यते । ‘पौर्णमासेनेष्टिपशुसोमा उपदिष्टशः’ इत्याश्वलायनवचनात् । यद्यपि स्त्रौवाधारः प्राजापत्यस्तथापि स भरतसंज्ञ एव प्रजापतिरिति ज्ञेयम् ॥६॥
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः
।
भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका॥७॥
भवन्ति शंयुत इत्यनुकृष्यते । पतिर्ज्येष्ठः । अत्र कन्यानां नामधेयानि सन्ततिश्चानुक्तापि अत्रैवाङ्गप्रत्यङ्गदेवतात्वेन ता बोध्याः । विस्तरभयात् तु सुनिना न प्रदर्शिताः । तस्य भरतस्योर्जसंज्ञस्य पुत्रो भरतः । 'ऊर्जः पुत्रं भरतं सुप्रदानुम् इति मन्त्रवर्णात् ॥७॥
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः
।
महानत्यर्थमहितस्तथा भरतसत्तम॥८॥
भरतः भरणं कुर्वतः तेन भरतशब्दस्य निर्वचनं दर्शितम् । भरतस्य प्रजापतेः पावकः सुतः । स अत्यर्थं महितत्वात् महान् । महितत्वं महाफलप्रदातृत्वं यत्र कर्मणि आग्रयणादा प्रथमोऽग्निनर्नास्ति तत्रापि अयं महत्त्वात् कर्तव्य एवेत्यर्थः । पावक इत्यग्निपर्यायमात्रं न गुणः । अग्निसंज्ञोऽग्निरित्यर्थः । तथा च ‘येन यज्ञेनेर्त्सेत् कुर्यादेव तत्राग्नेयमष्टाकपालम्’ इति आपस्तम्बोक्तिः सङ्गच्छते । ईर्त्सेत् वर्धितुमिच्छेत् ॥८॥
भरद्वाजस्य भार्या तु वीरा वीरस्य पिण्डदा
।
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः॥९॥
शंयोः कनिष्ठपुत्रसन्ततिमुक्त्वा ज्येष्ठसन्ततिमाह भरद्वाजस्येति । वीरा नामतः वीरस्य वह्नेः पिण्डदा शरीरकर्त्री मातेत्यर्थः । भरद्वाजात् वीरायां वीरो जात इत्यर्थः । तस्य आज्येन इज्यां प्राहुः । शनैः उपांशु सोमस्येवेति तत्साहित्यमुच्यते । ‘तथाग्नीषोमावुपांशुयष्टव्यावजामित्वाय’ इति श्रुतयोरग्नीषोमयोर्मध्यस्थोऽग्निः स इत्यर्थः ॥९॥
हविषा यो द्वितीयेन सोमेन सह युज्यते
।
रथप्रभू रयाध्वानकुम्भरेताः स उच्यते॥१०॥
एतदेवाह हविषेति । द्वितीयेन आग्नेयान्तरेण अस्यैव नामान्तराणि रथेत्यादीनि ॥१०॥
शरय्वां जनयत् सिद्धिं भानुं भाभिः समावृणोत्
।
आग्नेयमानयन्नित्यमाह्वाने ह्येष सूयते॥११॥
स रथप्रभ्वादिनामा शरय्वां भार्यायां सिद्धिं नाम पुत्रं जनयत् । यः भानुं सूर्यं भाभिर्दीप्तिभिः आवृणोत् सूर्य आवृते आग्नेयम् अग्निदैवत्यं यागमानयन् । ‘अग्निमग्न आवह’ इत्यत्र मन्त्रेऽग्नियुक्तसम्बुध्या एष सूयते सुष्ठु ऊयते कीर्त्यते । ‘ऊङ् शब्दे’ इति धातुः ॥११॥
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया
।
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्॥१२॥
बृहस्पतेर्दितीयः पुत्रो निश्च्यवनः । पृथिवींस्तौतीति पृथिवीसाहचर्यमुच्यते । तेन वागभिमानिदेवतारूपः स इत्यर्थः। ‘तस्य वाचा सृष्टौ पृथिवी चाग्निश्च’ इति श्रुतेः ॥१२॥
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्
।
विपापोऽग्निः सुतस्तस्य सत्यः समयधर्मकृत्॥१३॥
निश्च्यवनपुत्रः सत्यः समयधर्मो वाच्यवाचकसम्बन्धस्तत्कर्ता ॥१३॥
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्
।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेविते॥१४॥
सत्यस्यैव नामान्तरं निष्कृतिः । अभिसेविते गृहारामादौ । शोभयति शोभां करोति ॥१४॥
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः
।
तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः॥१५॥
रुजस्करः पीडाकरः । स्वनो नाम सत्यपुत्रः ॥१५॥
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति
।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्॥१६॥
एवं द्वयोर्बार्हस्पत्ययोः कर्म कर्मेन्द्रियव्यापित्वमुक्तम् । तृतीयस्य बुद्धिव्यापकत्वमाह यस्त्विति ॥१६॥
अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम्
।
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत॥१७॥
चतुर्थमाह अन्तारति ॥१७॥
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः
।
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्॥१८॥
एनं विश्वभुजं पाकयज्ञेषु स्मार्तकर्मसु ॥१८॥
पवित्रा गोमती नाम नदी यस्याभवत् प्रिया
।
तस्मिन् कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः॥१९॥
कर्माणि गृह्याणि ॥१९॥
वडवाग्निः पिबत्यम्भो योऽसौ परमदारुणः
।
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः॥२०॥
पञ्चमं बार्ह्यस्पत्यमाह वडवाग्निरिति । स एवाध्यात्ममूर्ध्वभागूर्ध्वगतिरुदानसंज्ञः । अत एवोर्ध्वभाङ्नाम कविर्ब्राह्मणः प्राणाश्रितः प्राणवाय्वभिमानी ॥२०॥
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते
।
ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः॥२१॥
षष्ठं बार्हस्पत्यमाह उदग्द्वारमिति ‘उत्तरार्धात् सौविष्टकृतम्’ इति श्रुतेः। उदगागमनं गृहे स्त्रीसम्बद्धे कर्मणि । ततस्तेन । स्विष्टं सुष्ठु इष्टं भवति । आज्यम् आज्यादि द्रव्यं च । तत्रोत्तरार्धायोगात् पृथग्ग्रहणं तत्रापि स्विष्टकृत्प्रापणार्थम् ॥२१॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः
।
कुद्धस्य तु रसो जज्ञे मन्येतां चाथ पुत्रिकाम्॥२२॥
सप्तमीं कन्यामाह य इति । पावको बृहस्पतिः मन्युः क्रोधरूपी भवति तदा योऽस्य रसस्तेजः प्रभवः प्रस्वेदः । जज्ञे जातः । तामेव तज्जामेव पुत्रिकां मन्ये मन्यन्ती चाथ पुत्रिकेति पाठे तु स रस एव पुत्रिका मन्यन्ती देवतोद्देशेन त्यक्तं हविरनुजानती ॥२२॥
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति
।
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन
।
अतुलत्वात् कृतो देवैर्नाम्ना कामस्तु पावकः॥२३॥
क्वासावित्यत आह स्वाहेत्यर्द्धेन । अस्यास्त्रिगुणात्मकत्वात्तादृशीं तत्सन्ततिमाह त्रिदिवे इति । एतेन राजस्याः स्वाहायाः कामरूपा सन्ततिरुक्ता ॥२३॥
संहर्षाद्धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः
।
समरे नाशयेच्छत्रूनमोघो नाम पावकः॥२४॥
तामस्याः सन्ततिं क्रोधाभिचाराद्यात्मिकामाह संहर्षादिति । जेष्याम्येवेत्युत्साहः संहर्षः ॥२४॥
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः
।
महावाचं त्वजनयत् समाश्वासं हि यं विदुः॥२५॥
सात्विक्याः स्वाहायाः सन्ततिमाह उक्थ इति । उत् ऊर्ध्वं मोक्षपदं नयत्युक्थः । त्रिभिरुवथैः उत्तिष्ठत्यस्मात् कर्मफलमित्युक्थं तत्र शरीरादुत्थितं कर्मेति शरीरमुक्थम् । शरीरोत्थापकतया प्राण उक्थम् । प्राणोत्थापकतया परमात्माप्युक्थम् । स जन्योऽग्निस्त्रिभिरप्युक्थैरभिष्टुतस्तदात्मना स्थितः । महावाचं महतीं वाचं पराख्यां तुर्यब्रह्मकलामजनयत् आविर्भावितवान् । पूर्वेषामग्न्युपासकानां यं समाश्वासं समाश्वसिति विश्रामं प्राप्नोत्यनेनेति तं मोक्षे हेतुं विदुर्वेदाचार्या इति शेषः ॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसोपाख्याने एकोनविंशत्यधिकद्विशततमोऽध्यायः॥२१९॥
मार्कण्डेय उवाच।
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः
।
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषु वर्चकः॥१॥
काश्यप इति त्रयाणां सम्बन्धः । अत्र पाठक्रमादर्भक्रमस्य बलीयस्त्वात् आद्ययोः श्लोकयोर्व्यत्यासेनार्थो ग्राह्यः । अचरदिति । स पूर्वाध्यायान्तोक्त उक्थो नाम काश्यपः वासिष्ठ प्राणपुत्र इति प्राणस्यैव विशेषणम् । अग्निराङ्गिरसश्च्यवन इत्येकः ॥१॥
अचरत् स-तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्
।
पुत्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम्॥२॥
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ
।
जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः॥३॥
महाव्याहृतिभिः भूरन्नमग्नये पृथिव्यै स्वाहेत्यादिभिः भूर्भुवःस्वर्महोऽग्निवायुसूर्यचन्द्रपृथिव्यन्तरिक्षद्युदिगुपलक्षितेन सर्वात्मकेन रूपेण तं ध्यातवन्त इत्यर्थः । ‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः’ । ‘वीतरागविषयं वा चित्तम्’ इति श्रुतिस्मृत्योर्विदुषोऽपि ध्येयत्वदर्शनात् । जज्ञे प्रदीप इव पुत्ररूपेणाविर्भूतः । अत एव अर्चिष्मानग्निरिवेति लुप्तोपमा । प्रभावनः जगत्सृष्टिकर्ता ॥३॥
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा
।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत॥४॥
पञ्चवर्णत्वमेवाह समिद्ध इति । ज्वालावर्णं शिरस्तस्येत्यर्थः । तथा त्वगिति त्वचोऽपि सूर्यनिभत्वमुक्तम् ॥४॥
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः
।
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः॥५॥
तपसा कृत इति तपो नामेत्यर्थः । स एव पाञ्चजन्यश्च यौगिकमस्य नामद्वयम् ॥५॥
दशवर्षसहस्राणि तपस्तप्त्वा महातपाः
।
जनयत् पावकं घोरं पितॄणां स प्रजाः सृजन्॥६॥
पितॄणां पावकं दक्षिणाग्निं प्रजाः सृजन् प्रजास्रष्टा ॥६॥
बृहद्रथन्तरं मूर्ध्नो वक्त्राद्वा तरसाहरौ
।
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्॥७॥
बृहत् मूर्ध्नः रथन्तरं वक्त्रात् वा शब्दश्चार्थः । ‘एते अहोरात्रदेवते राथन्तरीवैरात्र्यहर्बार्हतम्’ इति श्रुतेः । अत एव तरसा वेगेन हरतः आयुष्यादीति तरसाहरौ । शिवमहङ्काराभिमानिनं रुद्रम् । नाभ्यां नाभितः ग्राणतः प्राणं सृष्ट्वा वाय्वग्नी असृजदिति सर्वत्र सम्बद्ध्यते ॥७॥
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह
।
एतान् सृष्ट्वा ततः पञ्च पितॄणामसृजत् सुतान्॥८॥
अनुदात्तौ मन्त्रे प्राकृतोऽनुदात्तः। शतपथब्राह्मणे च वैकृतोऽनुदात्तः। ‘उदात्तमनुदात्तमनन्त्यम्’ इति भाषिकसूत्रेण प्राकृतोदात्तस्य ब्राह्मणेऽनुदात्तत्वविधानात् । तेनाभ्यां च तद्वान् मन्त्रब्राह्मणभागात्मको वेदो लक्ष्यते । बाहुभ्यामिति हस्तस्वरेण तयोरनुदात्तयोः प्रदर्शनीयत्वं सूचितम् । एतच्च वेदान्तराणामप्युपलक्षणम् । विश्वे समनस्केन्द्रियदेवताः । भूतानि पञ्च । एतान् विंशतिसङ्ख्याकान् ॥८॥
बृहद्रथस्य प्रणिधिः काश्यपस्य महत्तरः
।
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौभरः॥९॥
बृहद्रथस्य वासिष्ठस्य प्राणधिरंशत इति शेषः। अङ्गिरसश्चवनस्य वर्चस्य सुत्रर्चकस्य ॥९॥
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः
।
देवान् यज्ञमुषश्चान्यान् सृजन् पञ्चदशोत्तरान्॥१०॥
असुरसृष्टिमाह देवानिति । उत्तरानपाश्चात्यान् ॥१०॥
सुभीममतिभीमं च भीमं भीमबलाबलम्
।
एतान् यज्ञमुषः पञ्च देवानां ह्यसृजत् तपः॥११॥
भीमबलमबलं चेति समाहारः । तपः तपःसंज्ञः पाञ्चजन्यः ॥११॥
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्
।
मित्रधर्माणमित्येतान् देवानभ्यसृजत् तपः॥१२॥
सुरप्रवीरं वीरं च सुरेजशं च सुवर्चसम्
।
सुराणामपि हन्तारं पञ्चैतानसृजत् तपः॥२३॥
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक् पृथक्
।
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः॥१४॥
यज्ञयाजिनः इष्टमित्युत्तरश्लोकादपकृष्यते ॥१४॥
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः
।
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च॥१५॥
बहिर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम्
।
तदेतेनोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्॥१६॥
तदादानं तेषामादेयो भागः बहिर्वेद्यामुत्करे देशे ‘तुषैर्वैफलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्नस्ना महायज्ञात्’ इति श्रुतेः । अस्ना लोहितेन तत् तस्माद्धेतोः यत्र चाग्निरन्तर्वेद्याम् ॥१६॥
चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां तत् प्रवर्तिते
।
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम्॥१७॥
पक्षाभ्यामिव चक्राभ्यामुपलक्षिते तत्र चयने प्रवर्तिते हविर्धाने शकटे प्रवर्तिते सति । चिताग्नेश्चयनकर्तुः यजमानस्य । आज्यं तदुपलक्षितं हविः । एते उद्वहन् उद्वहन्ति उपर्यवहरन्तीत्यर्थः । मन्त्रै रक्षोघ्नैः प्रशमिताः सन्त इषं हविः न मुष्णन्ति ॥१७॥
बृहदुक्थतपस्यैव पुत्रौ भूमिमुपाश्रितः
।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते॥१८॥
एवमसुराणां नामानि भागधेयं निवृत्त्युपायं चोक्त्वा पुनः पाञ्चजन्यवंशमनुसन्धत्ते बृहदुक्थ इति । तपस्य तपसः भूमिमुपाश्रित इति तस्यैव पृथिव्यभिमानिदेवतात्वमुक्तम् ॥१८॥
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते
।
मित्रविन्दाय वै तस्मै हविरध्वर्यवो विदुः॥१९॥
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसोपाख्याने विंशत्यधिकद्विशततमोऽध्यायः॥२२०॥
मार्कण्डेय उवाच।
गुरुभिर्नियमैर्जातो भरतो नाम पावकः
।
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
।
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते॥१॥
सिंहावलोकनन्यायेन शंयोः पौत्रमूर्जपुत्र भरतं स्तौति सार्धेन । गुरुभिरिति । पुष्टिमतिरित्येकं नाम ॥१॥
अग्निर्यश्च शिवो नाम शक्तिपूजापरश्च सः
।
दुःखार्तानां च सर्वेषां शिवकृत् सततं शिवः॥२॥
तथैव तपस्तृतीयं स्तौति अग्निर्यश्चेति । शक्तिश्चिच्छक्तिस्तस्याः पूजा निर्विकल्पसमाधिरूपा ॥२॥
तपसस्तु फलं दृष्ट्वा सम्प्रवृत्तं तपो महत्
।
उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरन्दरः॥३॥
तपस एव पूर्वोक्तचत्वारिंशतोऽन्ये पुरन्दर ऊष्मा मनुः शम्भुः आवसथ्य इति पञ्च पुत्रानाह चतुर्भिः तपस इति । तपसोऽग्नेः फलं ऐश्वर्यं संप्रवृद्धं दृष्ट्वा तत् उद्धर्तुं पित्र्यं दायं पुत्र एव लभते इति दर्शनात् तदीयमैश्वर्यं प्राप्तुं पुरन्दरोऽस्य पुत्रो जातः ॥३॥
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतस्य लक्ष्यते
।
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत्॥४॥
ऊष्मा च तपसः सकाशात् जज्ञे यो भूतेषु ऊष्मणो हेतोर्लक्ष्यते । अकारयत् अकरोत् स्वार्थे णिच् ॥४॥
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
।
आवसथ्यं द्विजाः प्रादुर्दीप्तमग्निं महाप्रभम्॥५॥
ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान्
।
ततस्तपो ह्यजनयत् पञ्च यज्ञसुतानिह॥६॥
उपसंहरति ऊर्जस्करानिति । यज्ञसुतान् यज्ञे अभिषुतान् । आदिकर्मणि क्तः । सोमभागिन इत्यर्थः। यद्वा । यज्ञः सोम सुतो येभ्यस्ते इति योगः ॥६॥
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवां पतिः
।
असुरान् जनयन् घोरान् मर्त्यांश्चैव पृथग्विधान्॥७॥
प्रशान्ते अस्तकाले पारश्रान्तो गवां रश्मानां पतिः सूर्योऽग्निर्भवति । ‘आदित्यो वा अस्तं यन्नग्निमनुप्रविशति’ इति श्रुतेः । यश्च घोरानसुरान् जनयन् भवति तं तपो जनयदिति पूर्वेणान्वयः ॥७॥
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिराः सृजत्
।
वृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः॥८॥
तपस इति । मनुमिति प्राजपत्यकर्तृत्वमुच्यते । भानुं नामतः अङ्गिराश्च सृजदिति सम्बन्धः । तपः पुत्रस्याप्यङ्गिरः सृज्यत्वोक्तिर्भानुं प्रति कुलालपितृवदङ्गिरसोऽन्यथासिद्धत्वं मा भूदिति । तेन मूलकारणनेवान्त्यात् कार्यान्नट इव तत्तद्वेषेण स्फुरतीति सिद्धम् । अत एव आकाशाद्वायुरित्यादौ आकाशभावमापन्न आत्मैव वायुमसृजन्न केवल आकाश इति व्याख्यातं सम्प्रदायविद्भिः ॥८॥
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सूर्यजा
।
असृजेतां तु षट् पुत्रान् श्रुणु तासां प्रजाविधिम्॥९॥
एवं बृहदादीन् भान्वन्तान् तपसः पुत्रान् उक्त्वा तत्पौत्रानाह भानोरिति ॥९॥
दुर्बलानां तु भूतानामसून् यः सम्प्रयच्छति
।
तमग्निं वलदं प्राहुः प्रथमं भानुतः सुतम्॥१०॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
।
अग्निः स मन्युमानाम द्वितीयो भानुतः सुतः॥११॥
बलदो मन्युमान् । विष्णुरिति त्रयः सुप्रजायाः सुताः ॥११॥
दर्शे च पौर्णमासे च यस्येह हविरुच्यते
।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः॥१२॥
तत्र उपांशुयाजदेवता विष्णुरुभयत्र स्मर्यमाणस्त्रयोदशामावास्यायामाहुतयो हूयन्ते । चतुर्दश पौर्णमास्यामिति लिङ्गदर्शनमन्यथयति दर्शेऽपि विष्णोः स्मरणेन चतुर्दशाहुतियोगात् । अत एवान्तरेण हविषी विष्णुमुपांश्वैतरेयिण इत्याश्वलायनः स प्रमाणमुभयत्रोपांशुयाजमवगमयति ॥१२॥
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्
।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः॥१३॥
भानुभार्याया बृहद्भासायाः सन्ततिराग्रयणस्थैन्द्राग्नावयवोऽग्निरेकः ॥१३॥
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः
।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयः स्तुभः॥१४॥
हविषामाग्नेयादीनामष्टानां योनिरुद्भवस्थानं वैश्वदेवे पर्वणि मुख्यो विश्वदेवसंज्ञकोऽग्निर्द्वितीयः । स्तुभः स्तूयते भातीति स्तुभस्तृतीयः ॥१४॥
निशा त्वजनयत् कन्यामग्नीषोमावुभौ तथा
।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान्॥१५॥
निशानाम्नी भान्वपरनान्नो मनोरपरा तृतीया भार्याऽभवत् । कन्यां वक्ष्यमाणां रोहिणीमग्निं सोममन्यान् पञ्चेत्यष्टावपत्यानि सुषुवे ॥१५॥
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः
।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः॥१६॥
शेषान् पञ्च क्रमेणाह पूज्यत इत्यादिना । चातुर्मास्यानामारम्भात् पूर्वेद्युर्वैश्वानरपार्जन्येष्टिः क्रियते । तत्र वैश्वानरः प्रथमो मनुपुत्रः ॥१६॥
अस्य लोकस्य सर्वस्य यः प्रभुः परिपच्यते
।
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनो सुतः॥१७॥
परिपच्यतेऽन्नं येनेति शेषः । स विश्वपतिर्द्वितीयः ॥१७॥
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमस्तु सः
।
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता॥१८॥
स्विष्टकृदेव कन्या रोहिणी पञ्चभ्योऽधिका ॥१८॥
कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः
।
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्
।
तस्य सन्निहितो नाम शब्दरूपस्य साधनः॥१९॥
तस्याश्च किञ्चिद्दोषजं भार्यात्वम् । वस्तुतस्तु स वह्निः प्रजापतिर्मनुसंज्ञैव । कर्मणा मैथुनतः प्रजाजननाख्येन निमित्तेन। तथा च श्रुतिः - ‘स इममेवात्मानं द्वेधा पातयत्ततः पतिश्च पत्नी चाभवताम्’ इति । सन्निहितो नाम तृतीयः शब्दरूपस्य शब्दरूपग्रहणस्य साधनः प्रवर्तकः ॥१९॥
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्
।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः॥२०॥
चतुर्थमाह द्वाभ्यां शुक्लेति । यस्मात् उपास्त्या कर्मणा आराधितात् क्रमेण शुक्लकृष्णे गती अर्चिरादिधूमादिमार्गौ अपुनरावृत्तिफलौ प्राप्येते स शुक्लकृष्णगतिः । अकल्मषः शुक्लत्वात् । कल्मषाणां काम्यकर्मणाम् ॥२०॥
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा
।
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः॥२१॥
अत एव कपिलः सांख्यं निरीश्वरशास्त्रं तद्रूपो योगस्तस्य प्रवर्तकः ॥२१॥
अग्रं यच्छन्ति भूतानां येन भूतानि नित्यदा
।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते॥२२॥
पञ्चममाह अग्रमिति । वैश्वदेवान्ते मनुष्ययज्ञार्थं यत् प्रयच्छन्ति तदग्रम् ॥२२॥
इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि
।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्॥२३॥
इमानन्यानित्यादिना प्रोक्ता अष्टाग्नयो मनोरेव सन्ततिः ॥२३॥
संस्पृशेयुर्यदाऽन्योन्यं कथञ्चिद्वायुनाग्नयः
।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये॥२४॥
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल
।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये॥२५॥
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना
।
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये॥२६॥
अग्निं रजस्वला वै स्त्री संस्पृशेदग्निहोत्रिकम्
।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये॥२७॥
मृतः श्रूयेत यो जीवः परेयुः पशवो यदा
।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये॥२८॥
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः
।
इष्टिरष्टाकपालेन कार्याऽस्यादुत्तराग्नये॥२९॥
दर्शं च पौर्णमासं च यस्य तिष्ठेत प्रतिष्ठितम्
।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये॥३०॥
सूतिकाग्निर्यदा चाग्निं संस्पृशेदन्निहोत्रिकम्
।
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसोपाख्याने एकविंशत्यधिकद्विशततमोऽध्यायः॥२२१॥
मार्कण्डेय उवाच।
आपस्य मुदिता भार्या सहस्य परमा प्रिया
।
भूपतिर्भुवभर्ता च जनयत् पावकं परम्॥१॥
कथमग्निर्वनं यात इति पृष्टमग्नेर्जलप्रवेशप्रकारं वक्तुमारभते आपस्येति । आपस्य अप्सु विदितस्य सहस्य सहसंज्ञस्याग्नेर्मुदिता नाम परमा प्रिया भार्या। दुहितेति पाठेऽपि संज्ञाशब्द एवायं भूपतिर्भुवभर्ता च सहसंज्ञ एव । भूर्भुवर्लोकयोः स्वामी न तु स्वर्लोकस्य। अनावृत्तिस्थानस्य त्रिधैवात्र लोकविभागोऽभिप्रेतः । तेन ब्रह्मलोकादर्वाचीनस्य कृत्नस्य स्वामीत्यर्थः । स परमद्भुताख्यं पावकमजनयत् । सहसस्पुत्रो अद्भुत इति मन्त्रवर्णात् । सहशब्दोऽत्र अकारान्तोऽपि वेदे सकारान्तो ज्ञेयः ॥१॥
भूतानां सापि सर्वेषां यं प्राहुः पावकं पतिम्
।
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु॥२॥
अद्भुतमेव स्तौति भूतानामिति चतुर्भिः । यं पावकं पतिमभिप्रेत्य भुवनभर्ता भूतानां चतुर्विधानामात्मेति प्राहुः सान्वयेषूपदेशपरम्परावत्सु ॥२॥
महतां चैव भूतानां सर्वेषामिह यः पतिः
।
भगवान् स महातेजा नित्यं चरति पावकः॥३॥
न केवलं जरायुजादीनामात्मा अपि तु महतां भूतानां वियदादीनां पतिः स्रष्टृत्वादिना। अत एव भगवान् ‘ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः । वैराग्यस्य च धर्मस्य षण्णां भग इतीङ्गना’ इति स्मृत्युक्तगुणवान् ॥३॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते
।
हुतं वहति यो हव्यमस्य लोकस्य पावकः॥४॥
गृहपतिः अधियज्ञं त्रेताग्निः अध्यात्मं जाठरः उभावपि 'उभयत्र स्थित्वा पिण्डब्रह्माण्डस्थान् देवानन्नेन हविषा च तर्पयत इति हव्यवाहौ ॥४॥
अपां गर्भो महाभागः सत्त्वभुग्यो महाद्भूतः
।
भूपतिर्भुवभर्ता च महतः पतिरुच्यते॥५॥
अपामिति । अप्सम्बन्धादापापरनामा सह एवात्र अप्शब्दार्थः । तस्य गर्भः पुत्रः । सत्त्वभुक् अध्यात्मं बुद्धिसंहर्ता अधिभूतं लोकत्रयसंहर्ता । महांश्चासौ अद्भुतः महत इति नामैकदेशेन तस्यैव ग्रहणं भामा सत्यभामेतिवत् । महतो महाद्भुतस्य पतिः पिता भूपतिर्भुवनभर्ता चेत्यर्थः । अत्र महच्छब्देन अध्यात्म महत्तत्वं सूक्ष्मबुद्ध्याख्यं ग्राह्यम्। सहशब्देन कारणमव्यक्ताख्यम् । अप्शब्देन सलिल एको द्रष्टाऽद्वैतो भवतीत्यादिश्रुतौ सलिलेनोपमितं शुद्धं ब्रह्म ग्राह्यम् ॥५॥
दहन् मृतानि भूतानि तस्याग्निर्भरतोऽभवत्
।
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु॥६॥
अस्य सहस्य अपां प्रवेशे कारणमाह दहन्निति । अधिभूतं भरतश्चिताग्निः सहस्य पौत्र अद्भुतपुत्रः । अध्यात्मं महतः पुत्रोऽहङ्कारः । भरति बिभर्तीति मृतानि अचेतनानि खादीनि देहाकाराणि धारयतीति भरतो नाम । तस्यैव भूतसंहारस्थानत्वं दहन्निति दार्शतम् । भरस्य भरतस्य । तकारलोप आर्षः । क्रतुर्नाम अध्यात्मम् ऋतुः संकल्पात्मकं मनः। अग्निष्टोमशब्देन ‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिः’ इत्यादिना तैत्तिरीयके समाम्नातो देहतत्सन्बन्धिक्रियाकलापात्मको मरणरूपावभृथान्तः संसार उच्यते नियतो नित्यः ॥६॥
स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः
।
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्॥७॥
स इति । सह उच्यते प्रथम इति विशेषणात् देवैः सुरैरिन्द्रियैश्चान्विष्यते भोगार्थिभिः । परो हि स्वर्गः कारणात्मेति संसारक्रतुफलमनिवार्यं दृष्ट्वा सहोऽपि शुद्धं ब्रह्माविवेशेत्युत्तरार्धार्थः । कारणात्मतां प्राप्तस्यापि तत्सम्बन्धानपायात् ‘अन्यथा सुप्तिमूर्च्छादौ मुच्येतायत्नतो जनः’ इत्यापद्येत । पक्षान्तरे शवाग्निं पौत्रं नियताख्यमायान्तं दृष्ट्वा स्पर्शभयात् स्ववंश्योऽयं दुष्ट इति लज्जयाऽर्णवं विवेश । भृगुशापाद्धि सर्वभक्षत्वं प्राप्तोऽग्निरात्मानं बहुधा कृत्वाऽग्निहोत्रादिषु श्मशानादिषु च स्थित इत्युपाख्यायते ॥७॥
देवास्तत्रापि गच्छन्ति मार्गमाणा यथादिशम्
।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्॥८॥
देवा इति । अथर्वाणमङ्गिरसं तीव्रतपसं दृष्ट्वा ॥८॥
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः
।
अथ त्वं गच्छ मध्वक्षं प्रियमेतत् कुरुष्व मे॥९॥
मध्वक्षं पिङ्गाक्षमग्निं भावप्रधानो निर्देशः । ‘द्व्येकयोर्द्विवचनैकवचने’ इतिवत् । अन्यथा द्वेकेष्विति स्यात् । द्वित्वैकत्वयोरितिव्यख्यानानुपपत्तिश्च । तेनैकस्त्वमेवाग्नित्वं गच्छेत्यर्थः। तथा च ‘निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव’ इत्युपक्रमस्योपसंहारेण सहैकवाक्यता भवति ॥९॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्
।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्
।
भक्ष्या वै विविधेर्भावैर्भविष्यथ शरीरिणाम्॥१०॥
प्रेष्य आदिश्य । सार्धः श्लोकः ॥१०॥
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः॥११॥
तथा चापि तथैव मत्स्यैराख्यातोऽपि वचः त्वं मध्वक्षो भवेति पूर्वोक्तमेव ॥११॥
अनुनीयमानो हि भृशं देववाक्याद्धि तेन सः
।
नैच्छद्वोढुं हविः सोढुं शरीरं चापि सोऽत्यजत्॥१२॥
शरीरमाग्नेयं देहं पक्षे मायां त्यक्त्वा निर्विकल्पोऽभूदित्यर्थः ॥१२॥
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा
।
भूमिं स्पृष्ट्वाऽसृजद्धातून् पृथक् पृथगतीव हि॥१३॥
देहत्यागप्रकारमाह स इति । तत् स्थूलं शरीरं सन्त्यज्य धरां धारणात् धराल्यस्थानं लिङ्गशरीरं प्रविश्य तत्रापि सङ्कल्पोपनतान् भूम्यादीनस्रजत् । भूमिं स्पृष्ट्वा उपाधौ आवेशं कृत्वा । अत्र धातून् नीलपीतादीन् तानिव वासनामयानि नाडीरूपाणि दृश्यन्ते योगमार्गे । तथा च श्रुतिः ‘तस्मिन् शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत्तैजसश्च’ इति तैजसो लिङ्गदेहाभिमानी । पक्षान्तरे तु धातून् मनःशीलादीन् ॥१३॥
पूयात् स गन्धं तेजश्च अस्थिभ्यो देवदारु च
।
श्लेष्मणः स्फाटिकं तस्य पित्तान्मारकतं तथा॥१४॥
यकृत् कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः
।
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्॥१५॥
यकृत् शरीरान्तर्वर्ती अवयवविशेषः । त्रिभिः काष्ठपाषाणलोहैः ॥१५॥
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप
।
एवं त्यक्त्वा शरीरं च परमे तपसि स्थितः॥१६॥
अन्ये स्वर्णपारदादयः । शरीरं लिङ्गं परमे निरुपाधौ तपसि आलोचनात्मके ध्याने ॥१६॥
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा
।
भृशं जज्वाल तेजस्वी तपसाऽऽप्यायितः शिखी॥१७॥
तपसा सामर्थ्येन उत्थापितः समाधेश्च्यावितः ॥१७॥
दृष्ट्वा ऋषिं भयाच्चापि प्रविवेश महार्णवम्
।
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्
।
अर्चयामासुरेवैनमथर्वाणं सुरादयः॥१८॥
ऋषिमथर्वाङ्गिरसम् । भयं पूर्वोक्तमेव । सार्धः श्लोकः ॥१८॥
अथर्वा त्वसृजल्लोकानात्मनाऽऽलोक्य पावकम्
।
मिषतां सर्वभूतानामुन्ममाथ महार्णवम्॥१९॥
अथर्वा त्विति । अथार्णवमुन्ममाथ तेन पावकमालोक्य लोकानसृजदिति क्रमेणान्वयो ज्ञेयः पूर्वोत्तरार्धयोर्व्यत्यासेन ॥१९॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा
।
आहूतः सर्वभूतानां हव्यं वहति सर्वदा॥२०॥
एवं त्वजनयद्धिष्ण्यान् वेदोक्तान् विबुधान् बहून्
।
विचरन् विविधान् देशान् भ्रममाणस्तु तत्र वै॥२१॥
एवं त्विति । अग्नेरङ्गिरास्ततो बृहस्पतिस्ततः शंय्वादिक्रमेण वेदोक्तान् धिष्ण्यान् नाना स्थानानि अजनयत् । अध्यात्मपक्षे तु समाधेः सकाशाद्व्युत्थितोऽहङ्कारं पुरस्कृत्य वृत्तिनदीषु चिदात्मा सञ्चरतीति ॥२१॥
सिन्धुं नदं पञ्चनदं देविकाऽथ सरस्वती
।
गङ्गा च शतकुम्भा च शरयू गण्डसाह्वया॥२२॥
पक्षान्तरे स्पष्ट एवार्थः सिन्धुमिति ॥२२॥
चर्मण्वती मही चैव मेध्या मेधातिथिस्तदा
।
ताम्रवती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी॥२३॥
तमसा नर्मदा चैव नदी गोदावरी तथा
।
वेणोपवेगा भीमा च वडवा चैव भारत॥२४॥
भारती सुप्रयोगा च कावेरी मुर्जुरा तथा
।
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च॥२५॥
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः
।
अद्भुतस्य प्रिया भार्या तस्य पुत्रो विभूरसिः॥२६॥
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु॥२७॥
अद्भुतस्येति । विभूरसिरितिश्रुतेरनुकरणं तेन विभूरसि प्रवाहणो वह्निरसि हव्यवाहन इत्यनुवाकोक्ता । अन्ये च धिष्ण्या अग्नयो दर्शितास्तेषां ज्येष्ठो विभूरित्यर्थः । यावन्तः पावका धिष्ण्याः सन्ति तावन्तः सोमाः सोमयागाः । एतच्च याज्ञिकेष्वेव प्रसिद्धम् ॥२७॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः
।
अत्रिः पुत्रान् स्रष्टुकामस्तानेवात्मन्यधारयत्॥२८॥
तानेवाग्नीनेवात्मनि चित्तेऽधारयत् । अग्निं ध्यायतोऽग्निरेव प्रजारूपेणाविर्बभूवेत्यर्थः। एवं च ऋष्यन्तराणामप्युपलक्षणम् । तथा च सर्वं कर्माग्निदैवत्यं सर्वं ब्राह्मणा अग्निसन्ततिरित्युक्तं भवति॥२८॥
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः
।
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया॥२९॥
तस्यात्रेर्ब्रह्मणो ब्राह्मणस्य कायाद्देहात् हुताशनाः निर्हरन्ति निश्चरन्ति । सार्धः ॥२९॥
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः
।
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्॥३०॥
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः
।
एक एवैष भगवान् विज्ञेयः प्रथमोऽङ्गिराः॥३१॥
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा
।
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया
।
योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्॥३२॥
कायात् कस्य प्रजापतेः पुत्रोऽङ्गिराः कायस्तस्मात् । कशब्दादण्प्रत्यये कस्येदिति इकारोन्तादेशः। णित्वादादिवृद्धिः । ज्योतिष्टोमो यथा उद्भिदादिरूपेण बहुधा निर्गतस्तद्वत् ॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसोपाख्यानेऽग्निसमुद्भवे द्वाविंशत्यधिकद्विशततमोऽध्यायः॥२२२॥
कन्योवाच।
अहं प्रजापतेः कन्या देवसेनेति विश्रुता
।
भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता॥१॥
अहमिति ॥१॥
सदैवावां भगिन्यौ तु सखिभिः सह मानसम्
।
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम्॥२॥
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः
।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन॥३॥
सा हृताऽनेन भगवन् मुक्ताऽहं त्वद्बलेन तु
।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्॥४॥
इन्द्र उवाच।
मम मातृष्वसेयी त्वं माता दाक्षायणी मम
।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया॥५॥
कन्योवाच।
अबलाऽहं महाबाहो पतिस्तु बलवान् मम
।
वरदानात् पितुर्भावी सुरासुरनमस्कृतः॥६॥
इन्द्र उवाच।
कीदृशं तु बलं देवि पत्युस्तव भविष्यति
।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते॥७॥
कन्योवाच।
देवदानवयक्षाणां किन्नरोरगरक्षसाम्
।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः॥८॥
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति
।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः॥९॥
मार्कण्डेय उवाच।
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्
।
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते॥१०॥
अथापश्यत् स उदये भास्करं भास्करद्युतिः
।
सोमं चैव महाभागं विशमानं दिवाकरम्॥११॥
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु
।
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ॥१२॥
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः
।
अपश्यल्लोहितोदं च भगवान् वरुणालयम्॥१३॥
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः
।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्॥१४॥
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्
।
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम्॥१५॥
समालोक्यैकतामेव शशिनो भास्करस्य च
।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत्॥१६॥
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम्
।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति॥१७॥
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्
।
शृगालिन्यग्निवक्रा च प्रत्यादित्यं विराविणी॥१८॥
एष रौद्रश्च सङ्घातो महान् युक्तश्च तेजसा
।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः॥१९॥
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्
।
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता॥२०॥
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्
।
एवं सञ्चिन्त्य भगवान् ब्रह्मलोकं तदा गतः॥२१॥
गृहीत्वा देवसेनां तामवदत् स पितामहम्
।
उवाच चास्या देव्यास्त्वं साधुशूरं पतिं दिश॥२२॥
ब्रह्मोवाच।
मयैतच्चिन्तितं कार्यं त्वया दानवसूदन
।
तथा स भविता गर्भो बलवानुरुविक्रमः॥२३॥
स भविष्यति सेनानीस्त्वया सह शतक्रतो
।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्॥२४॥
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ सह कन्यया
।
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन्॥२५॥
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाबलाः
।
भागार्थं तपसो धातुं तेषां सोमं तथाऽध्वरे॥२६॥
धातुं पातुम् ॥२६॥
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः
।
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने॥२७॥
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्
।
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्॥२८॥
विनिःसृत्य ययौ वह्निर्वाम्यतो विधिवत् प्रभुः
।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्॥२९॥
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः
।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्॥३०॥
निष्कामंश्चाप्यपश्यत् स पत्नीस्तेषां महात्मनाम्
।
स्वेष्वासनेषूपविष्टाः स्वपन्तीश्च तथा सुखम्॥३१॥
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः
।
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः॥३२॥
स तत्र तेन मनसा बभूव क्षुभितेन्द्रियः
।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ॥३३॥
भूयः सञ्चिन्तयामास न न्याय्यं क्षुभितो ह्यहम्
।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामाः कामयाम्यहम्॥३४॥
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः
।
गार्हपत्यं समाविश्य तस्मात् पश्याम्यभीक्ष्णशः॥३५॥
मार्कण्डेय उवाच।
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः
।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः॥३६॥
निरुप्य तत्र सुचिरमेवं वह्निर्वशं गतः
।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः॥३७॥
कामसन्तप्तहृदयो देहत्यागविनिश्चितः
।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत्॥३८॥
स्वाहा तं दक्षदुहिता प्रथमं कामयत् तदा
।
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृतिभाविनी॥३९॥
अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता
।
सा तं ज्ञात्वा यथावत् तु वह्निं वनमुपागतम्॥४०॥
तत्त्वतः कामसन्तप्तं चिन्तयामास भाविनी
।
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्॥४१॥
कामयिष्यामि कामार्ता तासां रूपेण मोहितम्
।
एवं कृते प्रीतिरस्य कामावातिश्च मे भवेत्॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे स्कन्दोत्पत्तौ चतुर्विंशत्यधिकद्विशततमोऽध्यायः॥२२४॥
मार्कण्डेय उवाच।
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता
।
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप॥१॥
शिवेति ॥१॥
जगाम पावकाभ्याशं तञ्चोवाच वराङ्गना
।
मामग्रे कामसन्तप्तां त्वं कामयितुमर्हसि॥२॥
करिष्यसि न चेदेवं मृतां मामुपधारय
।
अहमङ्गिरसो भार्या शिवा नाम हुताशन
।
शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्॥३॥
अग्निरुवाच।
कथं मां त्वं विजानीषे कामार्तमितराः कथम्
।
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः॥४॥
शिवोवाच।
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव
।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ॥५॥
मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर
।
जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन॥६॥
मार्कण्डेय उवाच।
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः
।
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना॥७॥
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने
।
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके॥८॥
तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम्
।
वनान्निर्गमनं चैव सुखं मम भविष्यति॥९॥
मार्कण्डेय उवाच।
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्
।
अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्॥१०॥
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः
।
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा॥११॥
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः
।
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्॥१२॥
प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा
।
सप्तानामपि सा देवी सप्तर्षीणां महात्मनाम्॥१३॥
पत्नीसरूपतां कृत्वा कामयामास पावकम्
।
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया॥१४॥
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
।
षट्कृत्वस्तत् तु निक्षिप्तमग्ने रेतः कुरूत्तम॥१५॥
तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा
।
तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्॥१६॥
ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः
।
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः॥१७॥
एकग्रीवैजठरः कुमारः समपद्यत
।
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ॥१८॥
अङ्ग-प्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः
।
लोहिताभ्रेण महता संवृतः सह विद्युता॥१९॥
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः
।
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्॥२०॥
न्यस्तं यन्त्रिपुरघ्नेन सुरारिविनिकृन्तनम्
।
तद्गृहीत्वा धनुः श्रेष्ठं ननाद बलवांस्तदा॥२१॥
सम्मोहयन्निवेमान् स त्रीन् लोकान् सचराचरान्
।
तस्य तं निनदं श्रुत्वा महामेघौघनिःस्वनम्॥२२॥
उत्पेततुर्महानागो चित्रश्चैरावतश्च ह
।
तावापतन्तौ सम्प्रेक्ष्य स बालोऽर्कसमद्युतिः॥२३॥
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
।
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः॥२४॥
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्
।
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः॥२५॥
द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खमुत्तमम्
।
प्राध्मापयत भूतानां त्रासनं बलिनामपि॥२६॥
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ह
।
क्रीडन् भाति महासेनस्त्रीन् लोकान् वदनैः पिबन्॥२७॥
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा
।
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः॥२८॥
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
।
स पश्यन् विविधान् भावांश्चकार निनदं पुनः॥२९॥
तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः
।
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः॥३०॥
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः
।
तानप्याहुः पारिषदान् ब्राह्मणाः सुमहाबलान्॥३१॥
स तूत्थाय महाबाहुरुपसान्त्व्य च तान् जनान्
।
धनुर्विकृष्य व्यसृजद्बाणान् श्वेते महागिरौ॥३२॥
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्
।
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्॥३३॥
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान् रुवन्
।
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं तदा॥३४॥
स तं नादं भृशार्तानां श्रुत्वाऽपि बलिनां वरः
।
न प्राच्यवदमेयात्मा शक्तिमुद्यम्य चानदत्॥३५॥
सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना
।
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः॥३६॥
स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह
।
उत्पपात महीं त्यक्त्वा भीतः स सुमहात्मनः॥३७॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः
।
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ॥३८॥
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः
।
अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे कुमारोत्पत्तौ पञ्चविंशत्यधिकद्विशततमोऽध्यायः॥२२५॥
मार्कण्डेय उवाच।
उपविष्टं तु तं स्कन्दं हिरण्यकवचस्रजम्
।
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्॥१॥
उपविष्टमिति ॥१॥
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्
।
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम्॥२॥
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्
।
अभजत् पद्मरूपा श्रीः स्वयमेव शरीरिणी॥३॥
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा
।
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी॥४॥
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्
।
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः॥५॥
ऋषय ऊचुः
।
हिरण्यगर्भं भद्रं ते लोकानां शङ्करो भव
।
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः॥६॥
हिरण्यगर्भेति सम्बोधनेन स्कन्दस्य सूत्रात्ममूर्तितां दर्शयति ॥६॥
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम
।
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः॥७॥
स्कन्द उवाच।
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः
।
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः॥८॥
ऋषय ऊचुः
।
इन्द्रो दधाति भूतानां बलं तेजः प्रजा सुखम्
।
तुष्टः प्रयच्छति तथा सर्वान् कामान् सुरेश्वरः॥९॥
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति
।
अनुशास्ति च भूतानि कार्येषु बलसूदनः॥१०॥
असूर्ये च भवेत् सूर्यस्तथाऽचन्द्रे च चन्द्रमाः
।
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः॥११॥
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्
।
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व नः॥१२॥
शक्र उवाच।
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः
।
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम॥१३॥
स्कन्द उवाच।
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः
।
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम्॥१४॥
शक्र उवाच।
बलं तवाद्भुतं वीर त्वं देवानामरीन् जहि
।
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः॥१५॥
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम्
।
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः॥१६॥
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति
।
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा॥१७॥
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल
।
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि॥१८॥
तस्मादिन्द्रो भवानेव भविता मा विचारय
।
स्कन्द उवाच।
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च॥१९॥
करोमि किञ्च ते शक्र शासनं तद्ब्रवीहि मे
।
इन्द्र उवाच।
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल॥२०॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया
।
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु॥२१॥
अभिषिच्यस्व देवानां सैनापत्ये महाबल
।
स्कन्द उवाच।
दानवानां विनाशाय देवानामर्थसिद्धये॥२२॥
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम्
।
मार्कण्डेय उवाच।
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह॥२३॥
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः
।
तत्र तत् काञ्चनं छत्रं ध्रियमाणं व्यरोचत॥२४॥
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्
।
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी॥२५॥
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना
।
आगम्य मनुजव्याघ्र सह देव्या परन्तप॥२६॥
अर्चयामास सुप्रीतो भगवान् गोवृषध्वज
।
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः॥२७॥
रुद्रमग्निमिति । ‘रुद्रो वा एष यदग्निः’ इति श्रुतिविदो द्विजाः प्राहुः ॥२७॥
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत्
।
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे॥२८॥
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
।
रुद्रसूनं ततः प्राहुर्गुहं गुणवतां वरम्॥२९॥
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः
।
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्॥३०॥
प्रकारान्तरेण स्कन्दस्य रुद्रसूनुत्वमाह अनुप्रविश्येति । अनुप्रविश्य स्थितेनेति शेषः । ततः वह्निदेहे प्रविष्टाद्रुद्राज्जात इति वा रुद्रसूनुरित्यर्थः ॥३०॥
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च भारत
।
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्॥३१॥
अरजे वाससी रक्ते वसानः पावकात्मजः
।
भाति दीप्तवपुः श्रीमान् रक्ताभ्राभ्यामिवांशुमान्॥३२॥
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः
।
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः॥३३॥
या चेष्टा सर्वभूतानां प्रभा शान्तिर्बलं तथा
।
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धिनी॥३४॥
विवेश कवचं चास्य शरीरे सहजं तथा
।
युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा॥३५॥
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः
।
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम्॥३६॥
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्
।
स्कन्देन सह जातानि सर्वाण्येव जनाधिप॥३७॥
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः
।
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुमण्डलः॥३८॥
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि
।
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः॥३९॥
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलङ्कृतैः
।
सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा॥४०॥
क्रीडन् भाति तदा देवैरभिषिक्तश्च पावकिः
।
अभिषिक्तं महासेनमपश्यन्त दिवौकसः॥४१॥
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा
।
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः॥४२॥
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः
।
ताः समासाद्य भगवान् सर्वभूतगणैर्वृतः॥४३॥
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि
।
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा॥४४॥
सस्मार तां देवसेनां या सा तेन विमोक्षिता
।
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्॥४५॥
इति चिन्त्यानयामास देवसेनां ह्यलङ्कृताम्
।
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम॥४६॥
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा
।
तस्मात् त्वमस्या विधिवत् पाणिं मन्त्रपुरस्कृतम्
।
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा
।
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि॥४८॥
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च
।
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः॥४९॥
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम्
।
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम्॥५०॥
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया
।
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी॥५१॥
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्री पञ्चमी स्मृता
।
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी महातिथिः॥५२॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे स्कन्दोपाख्याने ऊनत्रिंशदधिकद्विशततमोऽध्यायः॥२२९॥
मार्कण्डेय उवाच।
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्
।
सप्तर्षिपत्न्यः षड् देव्यस्तत्सकाशमथागमन्॥१॥
श्रियेति ॥१॥
ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः
।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्॥२॥
वयं पुत्रपरित्यक्ता भर्तृभिर्देवसम्मितैः
।
अकारणाद्रुषा तैस्तु पुण्यस्थानात् परिच्युताः॥३॥
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्
।
तत्सत्यमेतत् संश्रुत्य तस्मान्नस्त्रातुमर्हसि॥४
।
अक्षयश्च भवेत् स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो
।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव॥५॥
स्कन्द उवाच।
मातरो हि भवन्त्यो मे सुतो वोऽहमनिन्दिताः
।
यद्वापीच्छत तत् सर्वं सम्भविष्यति वस्तथा॥६॥
मार्कण्डेय उवाच।
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्
।
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः॥७॥
विवक्षन्तमभिजिन्नक्षत्रस्य पतनान्नत्रक्षसङ्ख्या कथं समा भवेदिति प्रष्टुमिच्छन्तं शक्रं स स्कंन्दः किं कार्यमित्यब्रवीत् ॥७॥
अभिजित् स्पर्धमाना तु रोहिण्या कन्यसी स्वसा
।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता॥८॥
कन्यसी कनिष्ठा वनं गता अधिकारं त्यक्त्वेति शेषः ॥८॥
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्
।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तये॥९॥
सा च ज्येष्ठता स्पर्धया गगनात् च्युता अतोऽहं मूढोऽस्मि नक्षत्रसङ्ख्यापूरणप्रकारस्याज्ञानादिति भावः ॥९॥
धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः
।
रोहिणी ह्यभवत् पूर्वमेवं सङ्ख्या समाऽभवत्॥१०॥
धनिष्ठादिरिति । यस्य नक्षत्रस्याद्यक्षणे चन्द्रसूर्यगुरूणां योगस्तद्युगादिनक्षत्रम्। तच्च पूर्वं रोहिण्यभूत् तदाऽभिजित्पतनकाले तु एकन्यूनैरहोरात्रैर्भगणस्य भोगात् कृतयुगादिनक्षत्रं धनिष्ठैवाभवदित्यर्थः । सङ्ख्या कलाकाष्ठादीनाम् ॥१०॥
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः
।
नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम्॥११॥
तथा च कृत्तिकाभिरेव नक्षत्रसङ्ख्यापूर्तिं कुर्विति शक्राशयं ज्ञात्वा तास्त्रिदिवं गताः ॥११॥
विनता चाब्रवीत् स्कन्दं मम त्वं पिण्डदः सुतः
।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्॥१२॥
ननु षट्कृत्तिकाः कथं सप्तशीर्षाभमित्यत आह विनतेति । ऋषिपत्नीनामिव गरुत्मत्या अपि रूपं स्वाहया धृतमिति तत्साहित्यात् सप्तशीर्षाभमित्यर्थः ॥१२॥
स्कन्द्र उवाच।
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात् प्रशाधि माम्
।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा॥१३॥
स्नुषया देवसेनया ॥१३॥
मार्कण्डेय उवाच।
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्
।
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः
।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः॥१४॥
मातृगणः विनतादिसमूहः ॥१४॥
स्कन्द उवाच।
मातरो हि भवत्यो मे भवतीनामहं सुतः
।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्॥१५॥
मातर ऊचुः
।
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः
।
अस्माकं तु भवेत् स्थानं तासां चैव न तद्भवेत्॥१६॥
ताः प्रसिद्धाः मातरो ब्राह्मीमाहेश्वरीप्रभृतयः ॥१६॥
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ
।
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः॥१७॥
त्वत्कृते त्वदर्थं ताभिर्ब्राहृयादिभिरस्मद्भर्तॄन् मिथ्याभिशापदोषेण कोपयन्तीभिः प्रजा हृताः सङ्गाभावादित्यर्थः । सन्धिरार्षः । नः अस्मभ्यं प्रयच्छ । भर्तॄणामनुकूलनेनेत्यर्थः ॥१७॥
स्कन्द उवाच।
वृत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम्
।
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ॥१८॥
वृत्ताः मया दत्ता अपि मया प्रार्थिता अपि मुनयो युष्मान् नाङ्गीकरिष्यन्तीति भावः ॥१८॥
मातर ऊचुः
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः
।
त्वया सह पृथग्भूता ये च तासामथेश्वराः॥१९॥
मातॄणां ब्राह्म्यादीनां तासां प्रजानां ईश्वराः पित्रादयः ॥१९॥
स्कन्द उवाच।
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्
।
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः॥२०॥
प्रजाः अस्मदाद्याः नमस्कृता यूयं मयेति शेषः ॥२०॥
मातर ऊचुः
।
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि
।
त्वया नो रोचते स्कन्द सहवासांश्चिरं प्रभो॥२१॥
स्कन्द उवाच।
यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः
।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः॥२२॥
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्
।
परमं तेन सहिता सुखं वत्स्यथ पूजिताः॥२३॥
मार्कण्डेय उवाच।
ततः शरीरात् स्कन्दस्य पुरुषः पावकप्रभः
।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाप्रभः॥२४॥
अपतत् सहसा भूमौ विसंज्ञोऽथ क्षुधार्दितः
।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः॥२५॥
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः
।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः॥२६॥
पूतनां राक्षसीं प्राहुस्तं विद्यात् पूतनाग्रहम्
।
कष्टा दारुणरूपेण घोररूपा निशाचरी॥२७॥
पिशाची दारुणाकारा कथ्यते शीतपूतना
।
गर्भान् सा मानुषीणां तु हरते घोरदर्शना॥२८॥
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः
।
सोऽपि बालान् महाघोरो बाधते वै महाग्रहः॥२९॥
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्
।
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा॥३०॥
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः
।
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः॥३१॥
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः
।
आजायमानान् गृह्णन्ति बालकान् रौद्रकर्मिणः॥३२॥
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नुप
।
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून् भुवि॥३३॥
सरमा नाम या माता शुनां देवी जनाधिप
।
साऽपि गर्भान् समादत्ते मानुषीणां सदैव हि॥३४॥
पादपानां च या माता करञ्जनिलया हि सा
।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी॥३५॥
करञ्जे तां नमस्यन्ति तस्मात् पुत्रार्थिनो नराः
।
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः॥३६॥
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे
।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ॥३७॥
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते
।
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति॥३८॥
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते
।
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा॥३९॥
उपनष्टं ततो गर्भं कथयन्ति मनीषिणः
।
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता॥४०॥
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते
।
पुरुषेषु यथा रुद्रस्तथाऽऽर्यां प्रमदास्वपि॥४१॥
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते
।
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः॥४२॥
यावत् षोडश वर्षाणि शिशूनां ह्यशिवास्ततः
।
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः॥४३॥
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः
।
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्
।
बलिकर्मोपहाराश्च स्कन्दस्येज्याविशेषतः॥४४॥
एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्
।
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः॥४५॥
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्
।
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम्॥४६॥
यः पक्ष्यति नरो देवान् जाग्रद्वा शयितोऽपि वा
।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः॥४७॥
आसीनश्च शयानश्च यः पश्यति नरः पितॄन्
।
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः॥४८॥
अवमन्यति यः सिद्धान् क्रुद्धाश्चापि शपन्ति यम्
।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः॥४९॥
उपाघ्राति च यो गन्धान् रसांश्चापि पृथग्विधान्
।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः॥५०॥
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि
।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः॥५१॥
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति
।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः॥५२॥
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये
।
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः॥५३॥
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः
।
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः॥५४॥
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्
।
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्॥५५॥
कश्चित् क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः
।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः॥५६॥
यावत् सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्
।
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः॥५७॥
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्
।
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः॥५८॥
मिथ्याभिशापग्रस्तानामपि स्कन्दमातॄणां बालग्रहत्वादिना चाधिकारप्राप्तिः किमुत साक्षाद्दोषकर्तृणामतः सर्वदोषपरिहारार्थं महेश्वरः पूज्य इत्युपसंहरति अप्रकीर्णेन्द्रियमिति ॥५८॥
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः
।
न स्पृशन्ति ग्रहा भक्तान्नरान् देवं महेश्वरम्॥५९॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे मनुष्यग्रहकथने त्रिंशदधिकद्विशततमोऽध्यायः॥२३०॥
मार्कण्डेय उवाच।
यदा स्कन्देन मातॄणामेवमेतत् प्रियं कृतम्
।
अथैनमब्रवीत् स्वाहा मम पुत्रस्त्वमौरसः॥१॥
यदेति ॥१॥
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्
।
तामब्रवीत् ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥२॥
स्वाहोवाच।
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज
।
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥३॥
न स मां कामिनीं पुत्र सम्यक् जानाति पावकः
।
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना॥४॥
स्कन्द उवाच।
हव्यं कव्यं च यत्किञ्चिद्द्विजानां मन्त्रसंस्तुतम्
।
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्धृतम्॥५॥
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः
।
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने॥६॥
मार्कण्डेय उवाच।
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता
।
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्॥७॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्
।
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्॥८॥
रुद्रेणाग्न्निं समाविश्य स्वाहामाविश्य चामया
।
हितार्थं सर्वलोकानां जातस्त्वमपराजितः॥९॥
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना
।
अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः॥१०॥
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत्
।
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ॥११॥
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधाऽपतत्
।
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः
।
तव पारिषदा घोरा य एते पिशिताशिनः॥१२॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्
।
अपूजयदमेयात्मा पितरं पितृवत्सलः॥१३॥
मार्कण्डेय उवाच।
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः
।
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्॥१४॥
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम्
।
नमस्कार्यं सदैवेह बालानां हितमिच्छता॥१५॥
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः
।
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः॥१६॥
एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः
।
घण्टायाः सपताकायाः शृणु मे सम्भवं नृप॥१७॥
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते
।
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता॥१८॥
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा
।
पताका कार्तिकेयस्य विशाखस्य च लोहिता॥१९॥
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा
।
तैरेव रमते देवो महासेनो महाबलः॥२०॥
स संवृतः पिशाचानां गणैर्देवगणैस्तथा
।
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः॥२१॥
तेन वीरेण शुशुभे स शैलः शुभकाननः
।
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः॥२२॥
सन्तानकवनैः फुल्लैः करवीरवनैरपि
।
पारिजातवनैश्चैव जपाशोकवनैस्तथा॥२३॥
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि
।
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः॥२४॥
तत्र देवगणाः सर्वे सर्वे देवर्षयस्तथा
।
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः॥२५॥
तत्र दिव्याश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा
।
हृष्टानां तत्र भूतानां श्रूयते निनदो महान्॥२६॥
एवं सेन्द्रं जगत् सर्वं श्वेतपर्वतसंस्थितम्
।
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्॥२७॥
मार्कण्डेय उवाच।
यदाऽभिषिक्तो भगवान् सैनापत्येन पावकिः
।
तदा सम्प्रस्थितः श्रीमान् हृष्टो भद्रवटं हरः॥२८॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः
।
सहस्रं तस्य सिंहानां तस्मिन् युक्तं रथोत्तमे॥२९॥
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम्
।
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्॥३०॥
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
।
तस्मिन् रथे पशुपतिः स्थितो भात्युमया सह॥३१॥
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
।
अग्रतस्तस्य भगवान् धनेशो गुह्यकैः सह॥३२॥
आस्थाय तु चिरं याति पुष्पकं नरवाहनः
।
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह॥३३॥
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
।
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः॥३४॥
जृम्भकैर्ग्रहविशेषैः ॥३४॥
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः
।
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः॥३५॥
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः
।
यमश्च मृत्युना सार्धं सर्वतः परिवारितः॥३६॥
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा
।
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः॥३७॥
विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः
।
तमुग्रपाशो वरुणो भगवान् सलिलेश्वरः॥३८॥
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः
।
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः॥३९॥
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
।
पट्टिशं त्वन्वगाद्राजंच्छत्रं रौद्रं महाप्रभम्॥४०॥
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः
।
तस्य दक्षिणतो भाति दण्डो गच्छन् श्रिया वृतः॥४१॥
भृग्वङ्गिरोभिः सहितो दैवतैश्चानुपूजितः
।
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः॥४२॥
याति संहर्षयन् सर्वांस्तेजसा त्रिदिवौकसः
।
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा॥४३॥
नद्यो हृदाः समुद्राश्च तथैवाप्सरसां गणाः
।
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये॥४४॥
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
।
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः॥४५॥
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्
।
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्॥४६॥
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ
।
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः॥४७॥
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्
।
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया॥४८॥
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः
।
तत्र विद्यागणाः सर्वे ये केचित् कविभिः कृताः॥४९॥
विद्यागणाः स्तुतिपद्यसमूहाः ॥४९॥
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
।
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः॥५०॥
वचनं पठनं सरहस्यव्याख्यानं वा ॥५०॥
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा
।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः॥५१॥
एभिश्च सहितो देवस्तत्र याति यथासुखम्
।
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा॥५२॥
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्
।
शिवमित्येव यं प्राहुरीशं रुद्रं पितामहम्॥५३॥
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्
।
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः
।
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः॥५४॥
अथाब्रवीन्महासेनं महादेवो बृहद्वचः
।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः॥५५॥
स्कन्द उवाच।
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो
।
यदन्यदपि मे कार्यं देव तद्वद माचिरम्॥५६॥
रुद्र उवाच।
कार्येष्वहं त्वया पुत्र सन्द्रष्टव्यः सदैव हि
।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि॥५७॥
मार्कण्डेय उवाच।
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः
।
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्॥५८॥
सहसैव महाराज देवान् सर्वान् प्रमोहयत्
।
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्॥५९॥
चचाल व्यनदच्चोर्वी तमोभूतं जगद्बभौ
।
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा॥६०॥
उमा चैव महाभागा देवाश्च समहर्षयः
।
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्॥६१॥
नानाप्रहरणं घोरमदृश्यत महद्बलम्
।
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः॥६२॥
अभ्यद्रवद्द्रणे देवान् भगवन्तं च शङ्करम्
।
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः॥६३॥
पर्वताश्च शतघ्न्यश्च प्रासाप्तिपरिघा गदाः
।
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः॥६४॥
क्षणेन व्यद्रवत् सर्वं विमुखं चाप्यदृश्यत
।
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्॥६५॥
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
।
असुरैर्वध्यमानं तत् पावकैरिव काननम्॥६६॥
अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा
।
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः॥६७॥
न नाथमधिगच्छन्ति वध्यमाना महारणे
।
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरन्दरः॥६८॥
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम्
।
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत॥६९॥
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत्
।
जयतैनान् सुदुर्वृत्तान् दानवान् घोरदर्शनान् ॥७०॥
अभिद्रवत भद्रं वो मया सह महासुरान्
।
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः॥७१॥
दानवान् प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्
।
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः॥७२॥
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह
।
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे॥७३॥
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु
।
तेषां देहान् विनिर्भिद्य शरास्ते निशितास्तदा॥७४॥
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः
।
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः ॥७५॥
अपतन् भूतले राजंश्छिन्नाभ्राणीव सर्वशः
।
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि॥७६॥
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्
।
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः॥७७॥
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः
।
एवमन्योन्यसंयुक्तं युद्धमासीत् सुदारुणम् ॥७८॥
देवानां दानवानां च मांसशोणितकर्दमम्
।
अनयो देवलोकस्य सहसैवाभ्यदृश्यत॥७९॥
अनयोः दारहरणादिः ॥७९॥
तथाहि दानवा घोरा विनिघ्नन्ति दिवौकसः
।
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनः॥८०॥
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः
।
अथ दैत्यबलाद्धोरान्निष्पपात महाबलः॥८१॥
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्
।
ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम्॥८२॥
तमुद्यतगिरिं राजन् व्यद्रवन्त दिवौकसः
।
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्॥८३॥
पतता तेन गिरिणा देवसैन्यस्य पार्थिव
।
भीमरूपेण निहतमयुतं प्रापतद्भुवि॥८४॥
अथ तैर्दानवैः सार्धं महिषस्त्रासयन् सुरान्
।
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव॥८५॥
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः
।
व्यद्रवन्त रणे भीता विकीर्णायुधकेतनाः॥८६॥
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ
।
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम्॥८७॥
कूबरं धूःप्रदेशम् ॥८७॥
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः
।
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः॥८८॥
रेसतुः शब्दं चक्रतुः । रोदसी द्यावाभूमी ॥८८॥
अनदंश्च महाकाया देत्या जलधरोपमाः
।
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत॥८९॥
तथाभूते तु भगवानहनन्महिषं रणे
।
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः॥९०॥
अहनत् हतवान् ॥९०॥
महिषोऽपि रथं दृष्ट्वा रौद्रो रुद्रस्य चानदत्
।
देवान् सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन्॥९१॥
ततस्तस्मिन् भये घोरे देवानां समुपस्थिते
।
आजगाम महासेनः क्रोधात् सूर्य इव ज्वलन्॥९२॥
लोहिताम्बरसंवीतो लोहितस्त्रग्भूषणः
।
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः॥९३॥
रथमादित्यसङ्काशमास्थितः कनकप्रभम्
।
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत् सहसा रणे॥९४॥
स चापि तां प्रज्वलितां महिषस्य विदारिणीम्
।
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः॥९५॥
सा मुक्ताऽभ्यहरत् तस्य महिषस्य शिरो महत्
।
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः॥९६॥
पतता शिरसा तेन द्वारं षोडशयोजनम्
।
पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत्॥९७॥
द्वारमुत्तरकुरूणामिति शेषः । अगम्यमिति छेदः ॥९७॥
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुखम्
।
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून् सहस्त्रशः॥९८॥
तेन द्वारेण ॥९८॥
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः
।
प्रायः शरैर्विनिहता महासेनेन धीमता॥९९॥
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः
।
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः॥१००॥
दानवान् भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्
।
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः॥१०१॥
तमांसीव यथा सूर्यो वृक्षानग्निर्धनान् खगः
।
तथा स्कन्दोऽजयच्छत्रून् स्वेन वीर्येण कीर्तिमान्॥१०२॥
सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्
।
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान्॥१०३॥
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्
।
तदाऽब्रवीन्महासेनं परिष्वज्य पुरन्दरः॥१०४॥
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः
।
देवास्तृणसमा यस्य बभूवुर्जयतां वर॥१०५॥
सोऽयं त्वया महाबाहो शमितो देवकण्टकः
।
शतं महिषतुल्यानां दानवानां त्वया रणे॥१०६॥
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः
।
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः॥१०७॥
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः
।
एतत् ते प्रथमं देव ख्यातं कर्म भविष्यति॥१०८॥
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति
।
वशगाश्च भविष्यन्ति सुरास्तव महाभुज॥१०९॥
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः
।
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः॥११०॥
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः
।
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव॥१११॥
स हत्वा दानवगणान् पूज्यमानो महर्षिभिः
।
एकाह्नैवाजयत् सर्वं त्रैलोक्यं वह्निनन्दनः॥११२॥
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः
।
स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यमाप्नुयात्॥११३॥
इति श्रीमहाभारते आरण्यके पर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे स्कन्दोत्पत्तौ महिषासुरवधे एकत्रिंशदधिकद्विशततमोऽध्यायः॥२३१॥