अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

द्रौपदीसत्यभामासंवादपर्व

त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु ।
द्रौपदीसत्यभामा च विविशाते तदा समम्॥१॥

पतिव्रतोपाख्याने सूचितान् स्त्रीधर्मान् विवरीतुं द्रौपदीसत्यभामासंवाद‌मारभते उपासीनेषु विप्रेष्वित्यादिना । सममेकत्र ॥१॥

जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ।
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे॥२॥

जाहस्यमाने परस्परमतिशयेन हसन्त्यौ ॥२॥

कथयामासतुश्चित्राः कथाः कुरुयदूत्थिताः ।
अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया ॥३॥

कुरुयदूत्थिताः कुरुषु यदषु च उत्पन्नाः ॥३॥

सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ।
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि॥४॥

लोकपालोपमान् वीरान् पुनः परमसंहतान् ।
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे॥५॥

संहतान् दृढाङ्गान् ॥५॥

तव वश्या हि सततं पाण्डवाः प्रियदर्शने ।
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे॥६॥

व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा ।
विद्या वीर्यं मूलवीर्यं जपहोमागदास्तथा॥७॥

व्रतं सोमवारव्रतादि । तप उपवासादि । स्नानं सङ्गमादौ । मन्त्रोपेतमौषधं वशीकरणार्थम् । विद्या कामशास्त्रोक्ता - ‘रतान्ते वामपादेन भर्तृलिङ्गमुपस्पृशेत् । यावज्जीवं पतिस्तस्या गर्भदासो भवेत् ध्रुवम्’ इत्यादिका । तद्वीर्यं मूलवीर्यं मूलम् अप्रच्युतं तारुण्यादि तद्वीर्यम् । जपहोमागदाः विशकलिताः समुदिता वा अगदोऽञ्जनादिरौषधम् ॥७॥

ममाद्याचक्ष्व पाञ्चालि यशस्यं भगदैवतम् ।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः॥८॥

भगदैवतं सौभाग्यवर्धकं सौरव्रतादिकम् । भगवेदनमिति पाठे सौभाग्यसूचकम् । वशानुग इच्छानुसारी ॥८॥

एवमुक्त्वा सत्यभामा विरराम यशस्विनी ।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्॥९॥

असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि ।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्॥१०॥

हे सत्ये अनुकर्तिनमुत्तरम् ॥१०॥

अनुप्रश्नः संशयो वा नैतत् त्वय्युपपद्यते ।
तथा ह्युपेता बुध्द्या त्वं कृष्णस्य महिषी प्रिया॥११॥

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव॥१२॥

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा॥१३॥

अमित्रप्रहितांश्चापि गदान् परमदारुणान् ।
मूलप्रचारैर्हि विषं प्रयच्छन्ति जिघांसवः॥१४॥

औषधादिप्रयोगेऽनिष्टमाह अमित्रेति । गदान् रोगान् ॥१४॥

जिह्वया यानि पुरुषस्त्वचा वाऽप्युपसेवते ।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्॥१५॥

जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा॥१६॥

जलोदरः उदररोगः वृकोदर इति पाठे कुक्षिव्याधिर्भस्मकनामा । श्वित्रिणः कुष्ठवन्तः ॥१६॥

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन॥१७॥

उपसृजन्ति दोषैर्योजयन्ति ॥१७॥

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु ।
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥१८॥

अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा ।
सदारान् पाण्डवान् नित्यं प्रयतोपचराम्यहम्॥१९॥

सदारानिति | सपत्नीनामपि सेवनं पतिप्रीत्यर्थं कर्तव्यमित्यर्थः ॥१९॥

प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी॥२०॥

प्रणयमीर्ष्याम् । आत्मानं चित्तम् । आत्मनि स्वस्मिन् निरभिमाना दर्पहीना ॥२०॥

दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् ।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि॥२१॥

इङ्गितमभिप्रायः अध्यासितः क्षिप्तो यस्मिन् कटाक्षे तस्मात् इङ्गिताध्यासितात् ॥२१॥

सूर्यवैश्वानरसमान् सोमकल्पान् महारथान् ।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः॥२२॥

चक्षुर्हणः दृष्ट्वैव रिपून् घ्नन्ति तादृशान् ॥२२॥

देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः ।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः॥२३॥

अभिरूपः सुन्दरः ॥२३॥

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि ।
न संविशामि नाश्नामि सदा कर्मकरेष्वपि॥२४॥

नाभुक्तवतीति । भर्तरि अभुक्तवति नाश्नामीत्यपकृष्यते । तथा अस्नाते न स्नामीति शेषः । तथा कर्मकरेषु भृत्येष्वपि असंविष्टेषु न संविशामि । अनाशितेषु नाश्नामीति च विपरिणामापकर्षणेन योज्यम् ॥२४॥

क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् ।
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च॥२५॥

प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी ।
संयता गुप्तधान्या च सुसंमृष्टनिवेशना॥२६॥

प्रमृष्टभाण्डा सम्मार्जितगृहोपकरणा ॥२६॥

अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती ।
अनुकूलवती नित्यं भवाम्यनलसा सदा॥२७॥

अतिरस्कृतसम्भाषा तिरस्कारशून्यवचना ॥२७॥

अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः ।
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये॥२८॥

अनर्म परिहासहीनम् । हसितं हासः । स्थानं स्थितिम् । अवस्करे तिरस्करोमि किरतेरिदं रूपम् । उत्करे इति वा । निष्कुटेषु गृहारामेषु ॥२८॥

अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ।
निरताऽहं सदा सत्ये भर्तॄणामुपसेवने॥२९॥

सर्वथा भर्तृरहितं न मंमेष्टं कथञ्चन ।
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ॥३०॥

भर्तृरहितं भर्तृवियोगः ॥३०॥

सुमनोवर्णकापेता भवामि व्रतचारिणी ।
यच्च भर्ता न पिबति यच्च भर्ता न सेवते॥॥३१॥

सुमनोवर्णकापेता पुष्पैरनुलेपनैश्च वर्जिता ॥३१॥

यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ।
यथोपदेशं नियता वर्तमाना वराङ्गने॥३२॥

स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ।
ये च धर्माः कुटुम्बेषु श्वश्र्व्रा मे कथिताः पुरा॥३३॥

भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ।
मान्यानां मानसत्कारा ये चान्ये विदिता मम॥३४॥

मानः पूजा । सत्कार आदरः ॥३४॥

तान् सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।
विनयान्नियमांश्चैव सदा सर्वात्मना श्रिता॥३५॥

मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः ।
आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्॥३६॥

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ।
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्॥३७॥

अहं पतीन्नातिशये नात्यश्ने नातिभूषये ।
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता॥३८॥

नातिशये नातिक्रमामि । न परिवदे न निन्दामि ॥३८॥

अवधानेन सुभगे नित्योत्थिततयैव च ।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च॥३९॥

अवधानेन अप्रमादेन मह्यं मम ॥३९॥

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्येतां पानाच्छादनभोजनैः॥४०॥

नैतामतिशये जातु वस्त्रभूषणभोजनैः ।
नापि परिवदे चाहं तां पृथां पृथिवीसमाम्॥४१॥

अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने॥४२॥

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः॥४३॥

दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्॥४४॥

तान् सर्वानग्रहारेण ब्राह्मणान् वेदवादिनः ।
यथार्हं पूजयामि स्म पानाच्छादनभौजनैः॥४५॥

अग्रहारेण वैश्वदेवान्ते प्रथमदेयेनान्नेन ॥४५॥

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः॥४६॥

महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।
मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः॥४७॥

तासां नाम च रूपं च भोजनाच्छादनानि च ।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम्॥४८॥

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।
पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत॥४९॥

शतमश्वसहस्राणि दशनागायुतानि च ।
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः॥५०॥

अनुयात्रं स्वैरयात्रायामपि परिवारभूतम् ॥५०॥

एतादासीत् तदा राज्ञो यन्महीं पर्यपालयत् ।
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च॥५१॥

अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥५२॥

वेद वेद्मि ॥५२॥

सर्वं राज्ञः समुदयमायं च व्ययमेव च ।
एकाऽहं वेद्मि कल्याणि पाण्डवानां यशस्विनि॥५३॥

मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः ।
उपासनरताः सर्वे घटयन्ति वरानने॥५४॥

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै॥५५॥

अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् ।
एकाऽहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्॥५६॥

अनिशायां निशायां च सहाया क्षुत्पिपासयोः ।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे॥५७॥

प्रथमं प्रतिबुद्ध्यामि चरमं संविशामि च ।
नित्यकालमहं सत्ये एतत् संवननं मम॥५८॥

संवननं वशीकरणम् ॥५८॥

एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥५९॥

वैशम्पायन उवाच। तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्॥६०॥

अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे ।
कामकारः सखीनां हि सोपहासं प्रभाषितम्॥६१॥

अभिपन्ना प्रार्थयाना ॥६१॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीसत्यभामासंवादपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३३॥
चतुस्त्रिंशदधिकद्विशततमोऽध्यायः

द्रौपद्युवाच। इमं तु ते मार्गमपेतमोहं वक्ष्यामि चित्तग्रहणाय भर्तुः ।
अस्मिन् यथावत् सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः॥१॥

इममिति । आच्छेत्स्यसि । बलात् हरिष्यसि । कामिनीभ्यः सपत्नीभ्यः ॥१॥

नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदेवकेषु ।
यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादात् कुपितश्च हन्यात्॥२॥

तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि ।
वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्तिः॥३॥

सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि ।
सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च॥४॥

प्रतिकर्मणा कायक्लेशेन ॥४॥

तथासनैश्चारुभिरग्रमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः ।
अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व॥५॥

श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।
दृष्ट्वा प्रविष्टं त्वरिताऽऽसनेन पाद्येन चैनं प्रतिपूजयस्व॥६॥

सम्प्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्यम् ।
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये॥७॥

त्वत्सन्निधौ यत् कथयेत् पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् ।
काचित् सपत्नी तव वासुदेवं प्रत्यादिशेत् तेन भवेद्विरागः॥८॥

प्रियांश्च रक्तांश्च हितांश्च भर्तुस्तान् भोजयेथा विविधैरुपायैः ।
द्वेष्यैरुपेक्ष्यैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च॥९॥

मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् ।
प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित्॥१०॥

रहिते विजने ॥१०॥

महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु ।
चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्याः॥११॥

चण्डाः क्रूराः । शौण्डाः पराभिभवसमर्थाः । महाशनाः बहुभुजः । दुष्टाः द्वेषाद्याक्रान्ताः । स्त्रियो वर्ज्या इति शेषः ॥११॥

एतद्यशस्यं भगदैवतं च स्वार्थं तथा शत्रुनिबर्हणं च ।
महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धा॥१२॥

भगदैवतं भाग्यकरम् ॥१२॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीसत्यभामासंवादपर्वणि द्रौपदीकर्तव्यकथने चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३४॥
पञ्चत्रिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः ।
कथाभिरनुकूलाभिः सह स्थित्वा जनार्दनः॥१॥

मार्कण्डेयादिभिरिति ॥१॥

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।
आरुरुक्षू रथं सत्यामाह्वयामास केशवः॥२॥

संविदं सम्भाषाम् ॥२॥

सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् ।
उवाच वचनं हृद्यं यथाभावं समाहितम्॥३॥

स्वजित्वा आश्लिष्य ॥३॥

कृष्णे मा भूत् तवोत्कण्ठा मा व्यथा मा प्रजागरः ।
भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम्॥४॥

कृष्णे हे द्रौपदि ॥४॥

न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः ।
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे॥५॥

अवश्यं च त्वया भूमिरियं निहतकण्टका ।
भर्तृभिः सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया॥६॥

निर्द्वन्द्वा निष्प्रतिपक्षा ॥६॥

धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च ।
युधिष्ठिरस्थां पृथिवीं द्रक्ष्यसे द्रुपदात्मजे॥७॥

यास्ताः प्रव्राजमानां त्वां प्राहसन् दर्पमोहिताः ।
ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः॥८॥

तव दुःखोपपन्नाया यैराचरितमप्रियम् ।
विद्धि सम्प्रस्थितान् सर्वांस्तान् कृष्णे यमसादनम्॥९॥

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः ।
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः॥१०॥

सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ।
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव॥११॥

अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ।
त्वमिवेषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता ॥१२॥

प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा ।
दुःखिता तेन दुःखेन सुखेन सुखिता तथा॥१३॥

भजेत् सर्वात्मना चैव प्रद्युम्नजननी तथा ।
भानुप्रभृतिभिश्चैनान् विशिनष्टि च केशवः॥१४॥

भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः ।
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः॥१५॥

तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भाविनि ।
एवमादि प्रियं सत्यं हृद्यमुक्त्वा मनोनुगम्॥१६॥

गमनाय मनश्चक्रे वासुदेवरथं प्रति ।
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्॥१७॥

आरुरोह रथं शौरेः सत्यभामाऽथ भाविनी ।
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च ।
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात् पुरं स्वकम्॥१८॥

प्रणयः स्नेहः । उपावर्त्य पाण्डवानिति शेषः ॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीसत्यभामासंवादपर्वणि कृष्णगमने पञ्चत्रिंशदधिकद्विशततमोऽध्यायः॥२३५॥
समाप्तमिदं द्रौपदीसत्यभामासंवादपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in