वैशम्पायन उवाच।
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
।
द्रौपदीसत्यभामा च विविशाते तदा समम्॥१॥
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
।
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे॥२॥
कथयामासतुश्चित्राः कथाः कुरुयदूत्थिताः
।
अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया ॥३॥
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
।
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि॥४॥
लोकपालोपमान् वीरान् पुनः परमसंहतान्
।
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे॥५॥
तव वश्या हि सततं पाण्डवाः प्रियदर्शने
।
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे॥६॥
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा
।
विद्या वीर्यं मूलवीर्यं जपहोमागदास्तथा॥७॥
ममाद्याचक्ष्व पाञ्चालि यशस्यं भगदैवतम्
।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः॥८॥
एवमुक्त्वा सत्यभामा विरराम यशस्विनी
।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्॥९॥
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्॥१०॥
अनुप्रश्नः संशयो वा नैतत् त्वय्युपपद्यते
।
तथा ह्युपेता बुध्द्या त्वं कृष्णस्य महिषी प्रिया॥११॥
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव॥१२॥
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्
।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा॥१३॥
अमित्रप्रहितांश्चापि गदान् परमदारुणान्
।
मूलप्रचारैर्हि विषं प्रयच्छन्ति जिघांसवः॥१४॥
जिह्वया यानि पुरुषस्त्वचा वाऽप्युपसेवते
।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्॥१५॥
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा
।
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा॥१६॥
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत
।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन॥१७॥
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
।
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥१८॥
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा
।
सदारान् पाण्डवान् नित्यं प्रयतोपचराम्यहम्॥१९॥
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि
।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी॥२०॥
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्
।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि॥२१॥
सूर्यवैश्वानरसमान् सोमकल्पान् महारथान्
।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः॥२२॥
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः
।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः॥२३॥
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि
।
न संविशामि नाश्नामि सदा कर्मकरेष्वपि॥२४॥
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम्
।
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च॥२५॥
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी
।
संयता गुप्तधान्या च सुसंमृष्टनिवेशना॥२६॥
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती
।
अनुकूलवती नित्यं भवाम्यनलसा सदा॥२७॥
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः
।
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये॥२८॥
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
।
निरताऽहं सदा सत्ये भर्तॄणामुपसेवने॥२९॥
सर्वथा भर्तृरहितं न मंमेष्टं कथञ्चन
।
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ॥३०॥
सुमनोवर्णकापेता भवामि व्रतचारिणी
।
यच्च भर्ता न पिबति यच्च भर्ता न सेवते॥॥३१॥
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्
।
यथोपदेशं नियता वर्तमाना वराङ्गने॥३२॥
स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता
।
ये च धर्माः कुटुम्बेषु श्वश्र्व्रा मे कथिताः पुरा॥३३॥
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु
।
मान्यानां मानसत्कारा ये चान्ये विदिता मम॥३४॥
तान् सर्वाननुवर्तामि दिवारात्रमतन्द्रिता
।
विनयान्नियमांश्चैव सदा सर्वात्मना श्रिता॥३५॥
मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः
।
आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्॥३६॥
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः
।
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्॥३७॥
अहं पतीन्नातिशये नात्यश्ने नातिभूषये
।
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता॥३८॥
अवधानेन सुभगे नित्योत्थिततयैव च
।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च॥३९॥
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्
।
स्वयं परिचराम्येतां पानाच्छादनभोजनैः॥४०॥
नैतामतिशये जातु वस्त्रभूषणभोजनैः
।
नापि परिवदे चाहं तां पृथां पृथिवीसमाम्॥४१॥
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा
।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने॥४२॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
।
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः॥४३॥
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्
।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्॥४४॥
तान् सर्वानग्रहारेण ब्राह्मणान् वेदवादिनः
।
यथार्हं पूजयामि स्म पानाच्छादनभौजनैः॥४५॥
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः
।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः॥४६॥
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः
।
मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः॥४७॥
तासां नाम च रूपं च भोजनाच्छादनानि च
।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम्॥४८॥
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः
।
पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत॥४९॥
शतमश्वसहस्राणि दशनागायुतानि च
।
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः॥५०॥
एतादासीत् तदा राज्ञो यन्महीं पर्यपालयत्
।
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च॥५१॥
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः
।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥५२॥
सर्वं राज्ञः समुदयमायं च व्ययमेव च
।
एकाऽहं वेद्मि कल्याणि पाण्डवानां यशस्विनि॥५३॥
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः
।
उपासनरताः सर्वे घटयन्ति वरानने॥५४॥
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः
।
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै॥५५॥
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्
।
एकाऽहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्॥५६॥
अनिशायां निशायां च सहाया क्षुत्पिपासयोः
।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे॥५७॥
प्रथमं प्रतिबुद्ध्यामि चरमं संविशामि च
।
नित्यकालमहं सत्ये एतत् संवननं मम॥५८॥
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्
।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥५९॥
वैशम्पायन उवाच।
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा
।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्॥६०॥
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे
।
कामकारः सखीनां हि सोपहासं प्रभाषितम्॥६१॥