जनमेजय उवाच।
एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः
।
सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः॥१॥
एवं वने वर्तमाना इत्यादेः स्वपुरं विविशुस्तदेत्यन्तस्य ग्रन्थस्य ईर्ष्यालुर्दुर्योधनवदपमानं प्राप्नोति । साधुश्च युधिष्ठिरवच्छत्रूनप्युपकरोतीति तात्पर्यम् । सरो द्वैतवनस्थम् ॥१॥
वैशम्पायन उवाच।
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय वेशम्
।
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः॥२॥
जनं समुदायम् । वेशं गृहम् । नदीप्रदेशान् तत्समीपस्थाने च ॥२॥
तथा वने तान् वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनांश्च
।
अभ्याययुर्वेदविदः पुराणास्तान् पूजयामासुरथो नराग्र्याः॥३॥
वने द्वैतवने ॥३॥
ततः कदाचित् कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान्
।
स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत्॥४॥
नृपं धृतराष्ट्रम् ॥४॥
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन
।
प्रचोदितः सङ्कथयांबभूव धर्मानिलेन्द्रप्रभवान् यमौ च॥५॥
कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोग्रस्य मुखे प्रपन्नान्
।
तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम्॥६॥
ततः कथास्तस्य निशम्य राजा वैचित्रवीर्यः कृपयाऽभितप्तः
।
वने तथा पार्थिव पुत्रपौत्रान् श्रुत्वा तथा दुःखनदीं प्रपन्नान्॥७॥
प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासवातोपहतस्तदानीम्
।
वाचं कथञ्चित् स्थिरतामुपेत्य तत् सर्वमात्मप्रभवं विचिन्त्य॥८॥
कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः
।
अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी॥९॥
रङ्कोर्मृगविशेषस्य लोमराशिमयी तूलिका राङ्कवकूटम् ॥९॥
प्रबोध्यते मागधसूतपूगैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः
।
पतन्त्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः॥१०॥
इडातलस्थः भूतलस्थः । ‘इडा तु बुधयोषिति । सौरभेय्यां च वचने वसुमत्यामपि स्त्रियाम्’ इति मेदिनी ॥१०॥
कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः
।
शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः॥११॥
तथाऽर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः
।
विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात्॥१२॥
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तम्
।
विनिःश्वसन् सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात्॥१३॥
उग्रतेजा अर्जुनः ॥१३॥
यथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव
।
प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ॥१४॥
प्रजागरस्थौ भुवि शयाते इति शेषः ॥१४॥
समीरणेनाथ समो बलेन समीरणस्यैव सुतो बलीयान्
।
स धर्मपाशेन सितोऽग्रजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम्॥१५॥
स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः
।
सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः॥१६॥
अन्यैः अन्येभ्योऽधिकः प्रतीक्षतीत्यप्युपपदाभावेऽपि छान्दसो गर्हायां लट् ॥१६॥
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत् परुषाण्यवोचत्
।
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि॥१७॥
न पापकं ध्यास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवर्त्स्यते तम्
।
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन॥१८॥
स तेन कोपेन विदह्यमानः करं करेणाभिनिपीड्य वीरः
।
विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान् मम पुत्रपौत्रान्॥१९॥
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ
।
न शेषयेतां युधि शत्रुसेनां शरान् किरन्तावशनिप्रकाशान्॥२०॥
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः
।
मधु प्रपश्यन्ति न तु प्रपातं यद्द्यूतमालम्ब्य हरन्ति राज्यम्॥२१॥
शुभाशुभं कर्म नरो हि कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता
।
स तेन मुह्यत्यवशः फलेन मोक्षः कथं स्यात् पुरुषस्य तस्मात्॥२२॥
शुभेति । फलं स्वर्गनरकरूपम् । तेन मूढस्य तस्मान्न मोक्षोऽस्तीत्यर्थः ॥२२॥
क्षेत्रे सुकृष्टे ह्युपिते च वीजे देवे च वर्षत्यृतुकालयुक्तम्
।
न स्यात् फलं तस्य कुतः प्रसिद्धिरन्यत्रं दैवादिति चिन्तयामि॥२३॥
दृष्टसामग्र्यां सत्यामपि दैवप्रातिकूल्यात् फलं न जायत इत्याह क्षेत्रे इति । उपिते न्युप्ते । एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥२३॥
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन
।
मया च दुष्पुत्रवशानुगेन यथा कुरूणामयमन्तकालः॥२४॥
यथा न साधु अशुभं स्यात् तथा मताक्षेण शकुनिना कृतम् । पाण्डवेन च तदानीमेव तान् अनिघ्नता साधु कृतम् । मया च तथा कृतं यथाऽयमन्तकाल उपस्थित इति शेषः ॥२४॥
ध्रुवं प्रवास्वत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत गर्भिणी या
।
ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः॥२५॥
प्रवास्यति वात इति शेषः । प्रजास्यति अपत्यं जनयिष्यति । क्षपादौ रात्र्यादौ । एतस्य पापस्य फलम् अपरिहार्यमिति भावः ॥२५॥
क्रियेत कस्मादपरे च कुर्युर्वित्तं न दद्युः पुरुषाः कथञ्चित्
।
प्राप्यार्थकालं च भवेदनर्थः कथं नु तत् स्यादिति तत् कुतः स्यात्॥२६॥
कथं तर्हि प्रागेवैतन्न चिन्तितमित्याशङ्क्याह क्रियेतेति । यद्येवं विवेको नृणां भवेत् तर्हि वित्तं कस्माद्धेतोरस्मदादिरन्यायेनापि क्रियेत साधयेत् । त्वं मूर्खोऽसीति चेत् अपरेऽपि पूर्वे राजानः कस्मात् वित्तं कुर्युरर्जयेयुः । अर्जितं वा वित्तं पुरुषाः साधवोऽपि कथञ्चित् धर्मकामाद्यर्थे वा कस्मान्न दद्युः न परित्यजेयुः । तस्मात् प्राणिनां वित्तस्यार्जने अर्जितस्य पालने च स्वाभाविकी बुद्धिरपरिहार्येति भावः। वित्तेनेति गौडपाठे तु वित्तेन हेतुना वित्तार्थं कस्मात् क्रियेत यत्न इति यत्नं कुर्युरिति च अध्याहृत्य योज्यम् । कथञ्चिद्दद्युरिति दुस्त्यजत्वं च तस्यैवोक्तम् । नन्वर्जनाभावे एव को दोष इत्यत आह प्राप्येति । अर्थकालम् अर्थसाध्यदारक्रियादिकालं यौवनादिकं प्राप्य अनर्थः व्याकुलत्वं भवेत् तदेवाह तत् धनसाध्यं कार्यं कथं नु केन प्रकारेण वा मम निर्धनस्य स्यात् । कुतो वा उपायात् तत् धनं मम निर्दैवस्य स्यात् सम्पद्येतेतिचिन्तारूपोऽनर्थः स्यादेवेत्यर्थः ॥२६॥
कथं नु भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम्
।
अरक्ष्यमाणं शतधा प्रकीर्येत् ध्रुवं न नाशोऽस्ति कृतस्य लोके॥२७॥
नन्वेवमर्थस्य इदानीमप्यनर्थकरत्वं जानता त्वया पाण्डवानामंशः सुत्यजस्ततश्च न नाशशङ्काऽस्ति इत्याशङ्क्याह कथं नु इति । पुत्रवत् पशुवच्च पिण्डीभूतः प्रियतमश्चार्थः कथं नु भिद्येत द्विधा भवेत् वेणुरिव करपत्रेण न कथं चिद्भेत्तुं शक्य इति भावः । न च स्रवेत आमपात्राज्जलमिव स्तोकं स्तोकमपि न बहिर्गच्छेत् प्रार्थनायां लिङ् । एवमहं प्रार्थयामि । तेन परैर्ग्रामपञ्चकमपि याचितं चेन्न दास्यामीति दर्शितम् । न च प्रसिच्येत् पात्रधारया वा न बहिर्गच्छेत्तेनार्धराज्यदानं सुतरां न देयमित्युक्तम् । इति हेतोर्धनं रक्षितव्यमेव न स्तोकमर्धं वा तेभ्यः प्रदेयमिति भावः । तत्र हेतुः अरक्ष्यमाणं शतधा प्रकीर्येदिति । अर्थनाश एव महाननर्थ इत्यर्थः । नन्वर्थेनापि पुत्रनाशः सम्भाव्यत इत्याशङ्क्याह ध्रुवमिति । तेषां मरणं दुर्गतिर्वा दैवकृता दुर्निवार्या किमर्थदानेन प्रत्यक्षदुःखेनेति भावः ॥२७॥
गतो ह्यरण्यादपि शक्रलोकं धनञ्जयः पश्यत वीर्यमस्य
।
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः॥२८॥
किञ्च तुल्यांशभागिनो दायादस्योत्कर्षोऽपि दुःसह इत्याशयेनाह गत इत्यादिना ॥२८॥
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत्
।
अन्यत्र कालोपहताननेकान् समीक्षमाणस्तु कुरून् मुमूर्षून्॥२९॥
अन्यत्र स्वर्गे स्थानविशेषमहिम्ना दिव्यज्ञानसम्पन्नोऽर्जुनः कुरून् मुमूर्षुन् समीक्षमाणः कोऽपि मानुषो नास्तीत्यर्थः ॥२९॥
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं भीमवेगम्
।
अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र॥३०॥
निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ
।
अबोधयत् कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः॥३१॥
अहृष्टो मृत्युभयात् स चाथ हृष्ट इति पाठे हृष्टः पाण्डवेभ्योऽल्पमपि न देयमिति धृतराष्ट्रप्रतिज्ञाश्रवणात् ॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि धृतराष्ट्रखेदवाक्ये षट्त्रिंशदधिकद्विशततमोऽध्यायः॥२३६॥
प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत
।
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहा यथा॥२॥
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासीनः
।
कृताः करप्रदाः सर्वे राजानस्ते नराधिप॥३॥
प्रतीच्या उदीच्याश्च देशास्तद्वासिनः ते त्वया ॥३॥
या हि सा दीप्यमानेव पाण्डवानभजत् पुरा
।
साऽद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह॥४॥
साद्याः सादयितुं नाशयितुं योग्याः शत्रवस्तेषां लक्ष्मीः साद्यलक्ष्मीः ॥४॥
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे
।
अपश्याम श्रियं राजन् दृश्यते सा तवाद्य वै॥५॥
शत्रवस्तव राजेन्द्र न चिरं शोककर्शिताः
।
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्॥६॥
न चिरमल्पकालं शोककर्शिताः अतस्त्वत्प्रतिज्ञातोऽस्माकं सुखकालो भूयानस्तीति भावः । सा तु श्रीः ॥६॥
त्वया क्षिप्ता महाबाहो दीप्यमानेव दृश्यते
।
तथैव तव राजेन्द्र राजानः परवीरहन्॥७॥
शासनेऽधिष्ठिताः सर्वे किङ्कुर्म इति वादिनः
।
तवेयं पृथिवी राजन्निखिला सागराम्बरा॥८॥
सपर्वतवना देवी सग्रामनगराकरा
।
नानावनोद्देशवती पर्वतैरुपशोभिता॥९॥
वन्द्यमानो द्विजै राजन् पूज्यमानश्च राजभिः
।
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव॥१०॥
वन्द्यमानः स्तूयमानः द्विजैस्त्रैवर्णिकैः ॥१०॥
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः
।
कुरुभिस्त्वं वृतो राजन् भासि नक्षत्रराडिव॥११॥
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः
।
पश्यामस्तान् श्रिया हीनान् पाण्डवान् वनवासिनः॥१२॥
नाद्रियेत नादृता ॥१२॥
श्रूयते हि महाराज सरो द्वैतवनं प्रति
।
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः॥१३॥
स प्रयाहि महाराज श्रिया परमया युतः
।
तापयन् माण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा॥१४॥
स्थितोराज्ये च्युतान्राज्याच्छ्रिया हीनाञ्छ्रिया वृतः
।
असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप॥१५॥
महाभिजनसम्पन्नं भद्रे महति संस्थितम्
।
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषम्॥१६॥
त्वा त्वाम् ॥१६॥
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशाम्पते
।
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत॥१७॥
समर्था सुहृदां हर्षं शत्रूणां च शोकं दातुमिति शेषः ॥१७॥
समस्थो विषमस्थान् हि दुर्हृदो योऽभिवीक्षते
।
जगतीस्थानिवाद्रिस्थः किमतः परमं सुखम्॥१८॥
न पुत्रधनलाभेन न राज्येनापि विन्दति
।
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्॥१९॥
अमित्रेष्वघदर्शनात् अघं दुःखम् । ‘अघं तु व्यसने दुःखे दुरिते च नपुंसकम्’ इति मेदिनी ॥१९॥
किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम्
।
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्॥२०॥
सुवाससो हि ते भार्या वल्कलाजिनसंवृताम्
।
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः॥२१॥
निर्विद्यतां जीवितादपि विरक्ता भवतु ॥२१॥
विनिन्दतां तथाऽऽत्मानं जीवितं च धनच्युतम्
।
न तथा हि सभामध्ये तस्या भवितुमर्हति
।
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः॥२२॥
वैशम्पायन उवाच।
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह
।
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णशकुनिवाक्ये सप्तत्रिंशदधिकद्विशततमोऽध्यायः॥२३७॥
वैशम्पायन उवाच।
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः
।
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्॥१॥
कर्णस्येति ॥१॥
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम्
।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः॥२॥
परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः
।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्॥३॥
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्
।
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति॥४॥
आयतिमुत्तरकालम् ॥४॥
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत् प्रयोजनम्
।
उत्सादनमृते तेषां वनस्थानां महाद्युते॥५॥
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते
।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा॥६॥
तानि सर्वाणि वाक्यानि यच्चान्यत् परिदेवितम्
।
विचिन्त्य नाधिगच्छामि गमनायेतराय वा॥७॥
इतराय अवस्थानाय नाधिगच्छामि अधिगमं निश्चयं न प्राप्नोमि ॥७॥
ममापि हि महान् हर्षो यदहं भीमफाल्गुनौ
।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति॥८॥
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम्
।
दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः॥९॥
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्
।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने॥१०॥
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः
।
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत्॥११॥
लक्ष्म्या उपेतं पश्येतां चेज्जीवितं युक्तमिति सम्बन्धः ॥११॥
उपायं न तु पश्यामि येन गच्छेम तद्वनम्
।
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः॥१२॥
स सौबलेन सहितस्तथा दुःशासनेन च
।
उपायं पश्य निपुणं येन गच्छेम तद्वनम्॥१३॥
अहमप्यद्य निश्चित्य गमनायेतराय च
।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह॥१४॥
कल्यं प्रातः ॥१४॥
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे
।
उपायो यो भवेदॄष्टस्तं ..याः सहसौबलः॥१५॥
वचो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति
।
व्यवसायं करिष्येऽहमनुनीय पितामहम्॥१६॥
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान् प्रति
।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्॥१७॥
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्
।
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर॥१८॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
।
घोषयात्रापदेशेन गमिष्यामो न संशयः॥१९॥
घोषा गोवजाः ॥१९॥
उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते
।
एवं च त्वां पिता राजन् समनुज्ञातुमर्हति॥२०॥
तथा कथयमानौ तु घोषयात्राविनिश्चयम्
।
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव॥२१॥
उपायोऽयं मया दृष्टो गमनाय निरामयः
।
अनुज्ञास्यति नो राजा बोधयिष्यति चाप्युत॥२२॥
अयमुपायो घोषयात्रैव ॥२२॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
।
घोषयात्रापदेशेन गमिष्यामो न संशयः॥२३॥
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान् ददुः
।
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्॥२४॥
तलान् हस्ततलानि ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि घोषयात्रामन्त्रणे अष्टत्रिंशदधिकद्विशततमोऽध्यायः॥२३८॥
वैशम्पायन उवाच।
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय
।
पृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत॥१॥
धृतराष्ट्रमिति ॥१॥
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः
।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्॥२॥
अनन्तरं च राधेयः शकुनिश्च विशाम्पते
।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम्॥३॥
रमणीयेषु देशेषु घोषाः सम्प्रति कौरव
।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम्॥४॥
स्मारणे स्मरणहेतौ कर्मणि । गव सङ्ख्यापूर्वकं वयोवर्णजातिनाम्नां लेखने स्मारणासमय इति गौडाः पठन्ति ॥४॥
मृगया चोचिता राजन्नस्मिन् काले सुतस्य ते
।
दुर्योधनस्य गमनं समनुज्ञातुमर्हसि॥५॥
धृतराष्ट्र उवाच।
मृगया शोभना तात गवां हि समवेक्षणम्
।
विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे॥५॥
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्
।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्॥७॥
तदेवाह ते त्विति ॥७॥
छद्मना निर्जितास्ते तु कार्शिताश्च महावने
।
तपोनित्याश्च राधेय समर्थाश्च महारथाः॥८॥
धर्मराजो न सङ्क्रुद्ध्येद्भीमसेनस्त्वमर्पणः
।
यज्ञसेनस्य दुहिता तेज एव तु केवलम्॥९॥
तेजोऽग्निरेव ॥९॥
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः
।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः॥१०॥
अथवा सायुधा वीरा मन्युनाऽभिपरिप्लुताः
।
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा॥११॥
अथ यूयं बहुत्वात्तानभियात कथञ्चन
।
अनार्यं परमं तत् स्यादशक्यं तच्च वै मतम्॥१२॥
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः
।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्॥१३॥
अशक्यत्वमेवाह उपितो हीति ॥१३॥
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा
।
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः॥१४॥
अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ
।
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति॥१५॥
उद्विग्नवास इति वनवासेनोद्विग्नेषु पाण्डवेषु विश्रम्भात् सत्यव्रता एते नास्मान् बाधिष्यन्त इति विश्वासाद्यो भवतां वासः स दुःखं दुःखदो भविष्यति । पूर्वापकृते विश्वासो न कर्तव्य इत्यर्थः ॥१५॥
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरम्
।
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः॥१६॥
पक्षान्तरमाह अथवेति ॥१६॥
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः
।
न स्वयं तत्र गमनं रोचये तव भारत॥१७॥
शकुनिरुवाच
।
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि
।
तेन द्वादश वर्षाणि वस्तव्यानीति भारत॥१८॥
द्वयमपि दूषयति धर्मज्ञ इत्यादिना ॥१८॥
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः
।
युधिंष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति॥१९॥
मृगयां चैव नो गन्तुमिच्छा संवर्तते भृशम्
।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्शनम्॥२०॥
न चानार्यसमाचारः कश्चित् तत्र भविष्यति
।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः॥२१॥
वैशम्पायन उवाच।
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः
।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः॥२२॥
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा
।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः॥२३॥
दुःशासनेन च तथा सौबलेन च धीमता
।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः॥२४॥
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः
।
पौराश्चानुययुः सर्वे सहदारा वनं च तत्॥२५॥
अष्टौ रथसहस्त्राणि त्रीणि नागायुतानि च
।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः॥२६॥
शकटापणवेशाश्च वणिजो बन्दिनस्तथा
।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः॥२७॥
शकटाः भारवाहान्यनांसि । आपणाः पण्यानि । वेशो वेश्याजनाश्रयः ॥२७॥
ततः प्रयाणे नृपतेः सुमहानभवत् स्वनः
।
प्रावृषीव महावायोरुद्धतस्य विशाम्पते॥२८॥
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा
।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः॥२९॥
गव्यूतिः क्रोशद्वयम् ॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रस्थाने ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः॥२३९॥
वैशम्पायन उवाच।
अथ दुर्योधनो राजा तत्र तत्र वने वसन्
।
जगाम घोषानभितस्तत्र चक्रे निवेशनम्॥१॥
अथेति । चक्रे कृतवान् ॥१॥
रमणीये समाज्ञाते सोदके समहीरुहे
।
देशे सर्वगुणोपेते चक्रुरावसथान्नराः॥२॥
तथैव तत्समीपस्थान् पृथगावसथान् बहुन्
।
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः॥३॥
ददर्श स तदा गावः शतशोऽथ सहस्रशः
।
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः॥४॥
अङ्कैः चिह्नैः लक्षैः सङ्ख्यानैः ‘लक्षा न पुंसि संख्यायाम्’ इति मेदिनी ॥४॥
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि
।
बालवत्साश्च या गावः कालयामास ता अपि॥५॥
जज्ञे ज्ञातवान् । उपसृतान् दमनार्हान् वत्सतरान् समीपागतान् वा काल्यामास संख्यातवान् ॥५॥
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्
।
वृतो गोपालकैः प्रीतो व्याहरत् कुरुनन्दनः॥६॥
त्रिहायनांस्त्रिवर्षान् वृषान् व्याहरत् विजहार ॥६॥
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः
।
यथोपजोषं चिक्रीडुर्वने तस्मिन् यथाऽमराः॥७॥
यथोपजोषं यथारुचि ॥७॥
ततो गोपाः प्रगातारः कुशला नृत्यवादने
।
धार्तराष्ट्रमुपातिष्ठन् कन्याश्चैव स्वलङ्कृताः॥८॥
स स्त्रीगणावृतो राजा प्रहृष्टः प्रददौ वसु
।
तेभ्यो यथार्हमन्नानि पानानि विविधानि च॥९॥
ततस्ते सहिताः सर्वे तरक्षून् महिषान् मृगान्
।
गवयर्क्षवराहांश्च समन्तात् पर्यकालयन्॥१०॥
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून् वने
।
रमणीयेषु देशेषु ग्राहयामास वै मृगान्॥११॥
गोरसानुपयुञ्जान उपभोगांश्च भारत
।
पश्यन् स रमणीयानि वनान्युपवनानि च॥१२॥
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च
।
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः॥१३॥
मत्तभ्रमरसञ्जुष्टं नीलकण्ठरवाकुलम्
।
सप्तच्छदसमाकीर्णं पुन्नागबकुलैर्युतम्॥१४॥
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्
।
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः॥१५॥
ईजे राजर्षियज्ञेन साद्यस्केन विशाम्पते
।
दिव्येन विधिना चैव वन्येन कुरुसत्तम॥१६॥
साद्यस्केन एकाहसाध्येन ॥१६॥
कृत्वा निवेशमभितः सरसस्तस्य कौरव
।
द्रौपद्या सहितो धीमान् धर्मपत्न्या नराधिपः॥१७॥
ततो दुर्योधनः प्रेष्यानादिदेश सहस्रशः
।
आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥१८॥
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः
।
चिकीर्षन्तस्तदाऽऽक्रीडान् जग्मुर्द्वैतवनं सरः॥१९॥
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्
।
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः॥२०॥
तत्र गन्धर्वराजो वै पूर्वमेव विशाम्पते
।
कुबेरभवनाद्राजन्नाजगाम गणावृतः॥२१॥
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः
।
विहारशीलः क्रीडार्थं तेन तत् संवृतं सरः॥२२॥
आत्मजैर्जयन्तादिभिः । सहेति शेषः ॥२२॥
तेन तत् संवृतं दृष्ट्वा ते राजपरिचारकाः
।
प्रतिजग्मुस्ततो राजन् यत्र दुर्योधनो नृपः॥२३॥
स तु तेषां वचः श्रुत्वा सैनिकान् युद्धदुर्मदान्
।
प्रेषयामास कौरव्य उत्सारयत तानिति॥२४॥
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः
।
सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन्॥२५॥
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली
।
विजिहीषुरिहायाति तदर्थमुपसर्पत॥२६॥
विजिहीर्षुर्विहर्तुमिच्छुः । उपसर्पत तत्समीपं गच्छत ॥२६॥
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशाम्पते
।
प्रत्यब्रुवंस्तान् पुरुषानिदं हि परुषं वचः॥२७॥
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः
।
योऽस्मानाज्ञापयत्येवं वैश्यानिव दिवौकसः॥२८॥
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः
।
ये तस्य वचनादेवमस्मान् ब्रूत विचेतसः॥२९॥
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः
।
न चेदचैव गच्छध्वं धर्मराजनिवेशनम्॥३०॥
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः
।
सम्प्राद्रवन् यतो राजा धृतराष्ट्रसुतोऽभवत्॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि गन्धर्वदुर्योधनसेनासंवादे चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४०॥
वैशम्पायन उवाच।
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्
।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति॥१॥
ततस्ते सहिता इति ॥१॥
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्
।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत॥२॥
शासतैनानधर्मज्ञान् मम विप्रियकारिणः
।
यदि प्रक्रीडते सर्वैर्देवैः सह शतक्रतुः॥३॥
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः
।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः॥४॥
ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात्
।
सिंहनादेन महता पूरयन्तो दिशो दश॥५॥
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः
।
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप॥६॥
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत्
।
यदा वाचा न तिष्ठन्ति धार्तराष्ट्रः सराजकाः॥७॥
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्
।
गन्धर्वराजस्तान् सर्वानब्रवीत् कौरवान् प्रति॥८॥
अनार्यान् शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः
।
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत॥९॥
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्
।
तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वानुद्यतायुधान्॥१०॥
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः
।
तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्॥११॥
राधेयस्तु तदा वीरो नासीत् तत्र पराङ्मुखः
।
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्॥१२॥
महता शरवर्षेण राधेयः प्रत्यवारयत्
।
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः॥१३॥
गन्धर्वान् शतशोऽभिघ्नंल्लघुत्वात् सूतनन्दनः
।
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः॥१४॥
क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम्
।
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता॥१५॥
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः
।
गन्धर्वभूता पृथिवी क्षणेन समपद्यत॥१६॥
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः
।
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः॥१७॥
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः
।
न्यहनंस्तत् तदा सैन्यं रथैर्गरुडनिःस्वनैः॥१८॥
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः
।
महता रथसङ्गेन रथचारेण चाप्युत॥१९॥
वैकर्तनं परीप्सन्तो गन्धर्वान् समवाकिरन्
।
ततः सन्न्यपतन् सर्वे गन्धर्वाः कौरवैः सह॥२०॥
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्
।
ततस्ते मृदवोऽभूवन् गन्धर्वाः शरपीडिताः॥२१॥
उच्चुक्रुशुश्च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान्
।
गन्धर्वांस्त्रासितान् दृष्ट्वा चित्रसेनो ह्यमर्पणः॥२२॥
उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः
।
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्
।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया॥२३॥
एकैकस्य तदा योधा धार्तराष्ट्रस्य भारत
।
पर्यवर्तन्त गन्धर्वैर्दशभिर्दशभिः सह॥२४॥
एकैकस्य योधाः एकैकं योधाः पर्यवर्तन्त परीतवन्तः ॥२४॥
ततः सम्पीड्यमानास्ते बलेन महता तदा
।
प्राद्रवन्त रणे भीता ये च राजन् जिजीषवः॥२५॥
जिजीषवः । अत्रार्षो ‘लोपो व्योर्वलि’ इति लोपः । जिजीविषवः ॥२५॥
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः
।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः॥२६॥
राजन् हे जनमेजय ॥२६॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
।
गन्धर्वान् योधयामासुः समरे भृशविक्षताः॥२७॥
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः
।
जिघांसमानाः सहिताः कर्णमभ्यद्रवन् रणे॥२८॥
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः
।
सूतपुत्रं जिघांसन्तः समन्तात् पर्यवाकिरन्॥२९॥
अन्येऽस्य युगमच्छिन्दन् ध्वजमन्ये न्यपातयन्
।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्॥३०॥
अन्ये छत्रं वरूथं च बन्धुरं च तथाऽपरे
।
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन् रथम्॥३१॥
वरूथं रथगुप्तिम् । बन्धुरं रथबन्धनानि ॥३१॥
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्
।
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्॥३२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णपराभवे एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४१॥
वैशम्पायन उवाच।
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
।
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः॥१॥
गन्धर्वैरिति ॥१॥
तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्
।
दुर्योधनो महाराजो नासीत् तत्र पराङ्मुखः॥२॥
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्
।
महता शरवर्षेण सोऽभ्यवर्षद्रिन्दमः॥३॥
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्
।
दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन्॥४॥
युगमीषां वरूथं च तथैव ध्वजसारथी
।
अश्वांस्त्रिवेणुं तल्पं च तिलशो व्यधमञ्छरैः॥५॥
दुर्योधनं चित्रसेनो विरथं पतितं भुवि
।
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्॥६॥
जीवग्राहं जीवन्तमेव गृहीत्वेति णमुलन्तं कषादित्वादग्रहीदित्यनुप्रयोगः ॥६॥
तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे
।
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः॥७॥
विविंशति चित्रसेनावादायान्ये विदुद्रुवुः
।
विन्दानुविन्दावपरे राजदारांश्च सर्वशः॥८॥
सैन्यं तद्धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुतम्
।
पूर्वं प्रभग्नाः सहिताः पाण्डवानभ्ययुस्तदा॥९॥
शकटा पणवेशाश्च यानयुग्यं च सर्वशः
।
शरणं पाण्डवान् जग्मुर्ह्रियमाणे महीपतौ॥१०॥
सैनिका ऊचुः
।
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः
।
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत॥११॥
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
।
वध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः॥१२॥
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः
।
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन्॥१३॥
तांस्तथा व्यथितान् दीनान्भिक्षमाणान्युधिष्ठिरम्
।
वृद्धान् दुर्योधनामात्यान् भीमसेनोऽभ्यभाषत॥१४॥
महता हि प्रयत्नेन सन्नह्य गजवाजिभिः
।
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्॥१५॥
अन्यथा वर्तमानानामर्यो जातोऽयमन्यथा
।
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेधिनः॥१६॥
राज्ञो युधिष्ठिरस्य ॥१६॥
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्
।
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्॥१७॥
क्लीबस्य अशक्तत्वात् ॥१७॥
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
।
येनास्माकं हृतो भार आसीनानां सुखावहः॥१८॥
शीतवातातपसहांस्तपसा चैव कर्शितान्
।
समस्थो विषमस्थान् हि द्रष्टुमिच्छति दुर्मतिः॥१९॥
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
।
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम्॥२०॥
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्
।
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः॥२१॥
एवं ब्रुवाणं कोन्तेयं भीमसेनमपस्वरम्
।
न कालः परुषस्यायमिति राजाऽभ्यभाषत॥२२॥
अपस्वरं क्रोधेन विकलवर्णं यथा स्यात् तथा ब्रुवाणम् ॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनादिहरणे द्विचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४२॥
युधिष्ठिर उवाच।
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः
।
कौरवान् विषमप्राप्तान् कथं ब्रूयास्त्वमीदृशम्॥१॥
अस्मानिति ॥१॥
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर
।
प्रसक्तानि च वैराणि कुलधर्मो न नश्यति॥२॥
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्
।
न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रधर्षणम्॥३॥
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्
।
स एवं परिभूयास्मानकार्षीदिदमप्रियम्॥४॥
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलात् प्रभो
।
स्त्रीणां वाह्याभिमर्शाच्च हतं भवति नः कुलम्॥५॥
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च
।
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम्॥६॥
अर्जुनश्च यमौ चैव त्वं च वीरापराजितः
।
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्॥७॥
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः
।
धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः॥८॥
सस्वनानधिरोहध्वं नित्यसज्जानिमान् रथान्
।
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्॥९॥
एतानास्थाय वै यत्ता गन्धर्वान् योद्धुमाहवे
।
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः॥१०॥
य एव कश्चिद्राजन्यः शरणार्थमिहागतम्
।
परं शक्त्याऽभिरक्षेत किम्पुनस्त्वं वृकोदर॥११॥
क इहार्यो भवेत् त्राणमभिधावेति चोदितः
।
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्॥१२॥
अभिधाव याहीति चोदित आर्यः त्राणं रक्षकः शरणागतस्य कः भवेत् । य आर्यो महान् स एव भवेत् । शरणागतरक्षणसमर्थो दुर्लभ इति भावः ॥१२॥
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः
।
शत्रोश्च मोक्षणं क्लेशान्त्रीणि चैकं च तत्समम्॥१३॥
किं चाप्यधिकमेतस्माद्यदापन्नः सुयोधनः
।
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते॥१४॥
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर
।
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा॥१५॥
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्
।
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन॥१६॥
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ
।
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्॥१७॥
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्
।
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः॥१८॥
एतावद्धि मया शक्यं सन्देष्टुं वै वृकोदर
।
वैताने कर्मणि तते वर्तमाने च भारत॥१९॥
वैशम्पायन उवाच।
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः
।
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्॥२०॥
अर्जुन उवाच।
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्
।
अद्य गन्धर्वराजस्य भूमिः पास्यति शोर्णितम्॥२१॥
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः
।
कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनमोचनानुज्ञायां त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४३॥
वैशम्पायन उवाच।
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः
।
प्रहृष्टवदनाः सर्वे समुतस्थुर्नरर्षभाः॥१॥
युधिष्ठिरेति ॥१॥
अभेद्यानि ततः सर्वे समनह्यन्त भारत
।
जाम्बूनदविचित्राणि कवचानि महारथाः॥२॥
आयुधानि च दिव्यानि विविधानि समादधुः
।
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः॥३॥
दंशिताः सन्नद्धाः ॥३॥
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः
।
तान् रथान् साधु सम्पन्नान् संयुक्तान् जवनैर्हयैः॥४॥
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः
।
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः॥५॥
प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान्
।
जितकाशिनश्च खचरास्त्वरिताश्च महारथाः॥६॥
क्षणेनैव वने तस्मिन् समाजग्मुरभीतवत्
।
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः॥७॥
दृष्ट्वा रथगतान् वीरान् पाण्डवांश्चतुरो रणे
।
तांस्तु विभ्राजितान् दृष्ट्वा लोकपालानिवोद्यतान्॥८॥
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः
।
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः॥९॥
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत
।
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः॥१०॥
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा
।
ततस्तान् युधि दुर्धर्षान् सव्यसाची परन्तपः॥११॥
श्रेयः कल्याणं प्रतिपादयितुम् ॥११॥
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान् रणे
।
विसर्जयत राजानं भ्रातरं मे सुयोधनम्॥१२॥
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना
।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्॥१३॥
एकस्यैव वयं तात कुर्याम वचनं भुवि
।
यस्य शासनमाज्ञाय चरामो विगतज्वराः॥१४॥
तेनैकेन यथादिष्टं तथा वर्ताम भारत
।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात् सुरेश्वरात्॥१५॥
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनञ्जयः
।
गन्धर्वान् पुनरेवेदं वचनं प्रत्यभाषत॥१६॥
न तद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्
।
परदाराभिमर्षश्च मानुषैश्च समागमः॥१७॥
उत्सृज्यध्वं महावीर्यान् धृतराष्ट्र सुतानिमान्
।
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्॥१८॥
यदा साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान्
।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्॥१९॥
एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः
।
ससर्ज निशितान् बाणान् खचरान् खचरान् प्रति॥२०॥
खचरान् गगनगमनान् । खचरान् गन्धर्वान् ॥२०॥
तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः
।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः॥२१॥
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्
।
बभूव भीमवेगानां पाण्डवानां च भारत॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि पाण्डवगन्धर्वयुद्धे चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४४॥
वैशम्पायन उवाच।
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः
।
विसृजन्तः शरान् दीप्तान् समन्तात् पर्यवारयन्॥१॥
तत इति ॥१॥
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः
।
रणे सन्न्यपतन् राजंस्तदद्भुतमिवाभवत्॥२॥
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः
।
गन्धर्वैः शतशच्छिन्नौ तथा तेषां प्रचक्रिरे॥३॥
तथा तेषां चतुर्णामपि रथान् छन्नान् प्रचक्रिरे गन्धर्वाः ॥३॥
तान् समापततो राजन् गन्धर्वाञ्छतशो रणे
।
प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैरनेकशः॥४॥
ते कीर्यमाणाः स्वगमाः शरवर्षैः समन्ततः
।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्॥५॥
अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा
।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे॥६॥
सहस्राणां सहस्राणि प्राहिणोद्यमसादनम्
।
आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः॥७॥
तथा भीमो महेष्वासः संयुगे बलिनां वरः
।
गन्धर्वान् शतशो राजन् जघान निशितैः शरैः॥८॥
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ
।
परिगृह्याग्रतो राजन् जघ्नतुः शतशः परान्॥९॥
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः
।
उत्पेतुः स्वमुपादाय धृतराष्ट्रसुतांस्ततः॥१०॥
स तानुत्पतितान् दृष्ट्वा कुन्तीपुत्रो धनञ्जयः
।
महता शरजालेन समन्तात् पर्यवारयत्॥११॥
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे
।
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्युष्टिवृष्टिभिः॥१२॥
गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित्
।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः॥१३॥
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा
।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम्॥१४॥
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना
।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्॥१५॥
तेषां तु शरवर्षाणि सव्यसाची परन्तपः
।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत॥१६॥
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः
।
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः॥१७॥
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः
।
दैतेया इव शक्रेण विषादमगमन् परम्॥१८॥
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः
।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना॥१९॥
गन्धर्वांस्त्रासितान् दृष्ट्वा कुन्तीपुत्रेण भारत
।
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्॥२०॥
गृह्य गृहीत्वा ॥२०॥
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे
।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा॥२१॥
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना
।
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम्॥२२॥
संवृत्य आच्छाद्य विद्यया अदर्शनशक्त्या ॥२२॥
अस्त्राणि तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः
।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः॥२३॥
स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना
।
गन्धर्वराजो बलवान् माययाऽन्तर्हितस्तदा॥२४॥
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः
।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः॥२५॥
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा
।
शब्दवेधं समाश्रित्य बहुरूपो धनञ्जयः॥२६॥
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना
।
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा॥२७॥
चित्रसेनस्तथोवाच सखायं युधि विद्धि माम्
।
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्॥२८॥
सञ्जहारास्त्रमथ तत् प्रसृष्टं पाण्डवर्षभः
।
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम्॥२९॥
सञ्जह्रुः प्रद्रुतानश्वान् शरवेगान् धनूंषि च
।
चित्रसेनश्च भीमश्च सव्यसाची यमावपि
।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि गन्धर्वपराभवे पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४५॥
वैशम्पायन उवाच।
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्
।
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः॥१॥
ततोऽर्जुन इति ॥१॥
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे
।
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः॥२॥
चित्रसेन उवाच।
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः
।
दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय॥३॥
तत्रस्थेन मयेति शेषः ॥३॥
वनस्थान् भवतो ज्ञात्वा क्लिश्यमानाननाथवत्
।
समस्थो विषमस्थांस्तान् द्रक्ष्यामीत्यनवस्थितान्॥४॥
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम्
।
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः॥५॥
गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय
।
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे॥६॥
स च प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डव
।
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम्॥७॥
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्
।
नेष्याम्येनं दुरात्मानं पाकशासनशासनात्॥८॥
अर्जुन उवाच।
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः
।
धर्मराजस्य सन्देशान्मम चेदिच्छसि प्रियम्॥९॥
चित्रसेन उवाच।
पापोऽयं नित्यसन्तुष्टो न विमोक्षणमर्हति
।
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय॥१०॥
नित्यं सन्तुष्टो मत्त इत्यर्थः। सन्तुष्टत्वाद्दम्य इति। ‘हृष्टो दृष्यति दृप्तो धर्ममातिक्रामति’ इत्यापस्तम्बवचनात्। प्रलब्धा वञ्चकः ॥१०॥
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो युधिष्ठिरः
।
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि॥११॥
इदं मदुक्तम् । समस्थो विषमस्थांस्तान् द्रक्ष्यामीति ॥११॥
वैशम्पायन उवाच।
ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम्
।
अभिगम्य च तत् सर्वं शशंसुस्तस्य चेष्टितम्॥१२॥
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा
।
मोक्षयामास तान् सर्वान् गन्धर्वान् प्रशशंस च॥१३॥
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः
।
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः॥१४॥
उपकारो महांस्तात कृतोऽयं मम खेचरैः
।
कुलं न परिभूतं मे मोक्षणेऽस्य दुरात्मनः॥१५॥
आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः
।
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम्॥१६॥
इष्टानि वस्त्रालङ्कारादीनि आज्ञापयध्वं भवदर्थं नान्यो नेष्यतीति ॥१६॥
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता
।
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः॥१७॥
देवराडपि गन्धर्वान् मृतांस्तान् समजीवयत्
।
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि॥१८॥
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः
।
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः॥१९॥
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः
।
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः॥२०॥
ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा
।
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत्॥२१॥
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्
।
न हि साहसकर्तारः सुखमेधन्ति भारत॥२२॥
सुखं सुखेन एधन्ति एधन्ते वर्धन्ते॥२२॥
स्वस्तिमान् सहितः सर्वैर्भातृभिः कुरुनन्दन
।
गृहान् व्रज मथाकामं वैमनस्यं च मा कृथाः॥२३॥
वैमनस्यं वैरं केनचित् सह मा कृथाः । मा कुरु ॥२३॥
वैशम्पायन उवाच।
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा
।
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः॥२४॥
विदीर्यमाणो व्रीडावान् जगाम नगरं प्रति
।
तस्मिन् गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः॥२५॥
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः
।
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः॥२६॥
तथा द्वैतवने तस्मिन् विजहार मुदा युतः॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनमोक्षणे षट्चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४६॥
जनमेजय उवाच।
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः
।
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः॥१॥
शत्रुभिरिति॥१॥
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः
।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः॥२॥
कत्थनस्य - आत्मस्तुतिपरस्य । अवलिप्तस्य पापाशयस्य । गर्वितस्य - अत्यवमानिनः । अत एव पाण्डवानवमन्यतः॥२॥
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः
।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे॥३॥
अहङ्कारं गर्वं वदतीति तथा ॥३॥
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः
।
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय॥४॥
वैशम्पायन उवाच।
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः
।
लज्जयाऽधोमुखः सीदन्नुपासर्पत् सुदुःखितः॥५॥
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः
।
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम्॥६॥
विमुच्य पथि यानानि देशे सुयवसोदके
।
सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्॥७॥
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत्
।
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे॥८॥
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये
।
उपागम्याब्रवीत् कर्णो दुर्योधनमिदं तदा॥९॥
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः
।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः॥१०॥
दिष्ट्या समग्रान् पश्यामि भ्रातॄंस्ते कुरुनन्दन
।
विजिगीषून् रणे युक्तान् निर्जितारीन् महारथान्॥११॥
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव
।
नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम्॥१२॥
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः
।
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत॥१३॥
अरिष्टानक्षतांश्चापि सदारबलवाहनान्
।
विमुक्तान् सम्प्रपश्यामि युद्धात् तस्मादमानुषात्॥१४॥
नैतस्य कर्ता लोकेऽस्मिन् पुमान् विद्यति भारत
।
यत् कृतं ते महाराज सह भ्रातृभिराहवे॥१५॥
वैशम्पायन उवाच।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
।
उवाच चाङ्गराजानं बाष्पगद्गदया गिरा॥१६॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदुर्योधनसंवादे सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४७॥
दुर्योधन उवाच।
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः
।
जानासि त्वं जितान् शत्रून् गन्धर्वांस्तेजसा मया॥१॥
अजानतस्ते इति । नाभ्यसूयामि दोषवदिति न मन्ये ॥१॥
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम
।
मया सह महाबाहो कृतश्चोभयतः क्षयः॥२॥
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः
।
तदा नो न समं युद्धमभवत् खेचरैः सह॥३॥
पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च
।
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः॥४॥
उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः
।
अथ नः सैनिकाः केचिदमात्याश्च महारथाः॥५॥
उपगम्याब्रुवन् दीनाः पाण्डवांश्च रणप्रदान्
।
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः॥६॥
सामात्यदारो ह्रियते गन्धर्वैदिवमाश्रितैः
।
तं मोक्षयत भद्रं वः सहदारं नराधिपम्॥७॥
परामर्शो मा भविष्यत् कुरुदारेषु सर्वशः
।
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा॥८॥
प्रसाद्य पाण्डवान् सर्वानाज्ञापयत मोक्षणे
।
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः॥९॥
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः
।
यदा चास्मान् न मुमुचुर्गन्धर्वाः सान्त्विता अपि॥१०॥
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ
।
मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः॥११॥
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्
।
अस्मानेवाभिकर्षन्तो दीनान् मुदितमानसाः॥१२॥
ततः समन्तात् पश्यामः शरजालेन वेष्टितम्
।
अमानुषाणि चास्त्राणि प्रमुञ्चन्तं धनञ्जयम्॥१३॥
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः
।
धनञ्जयसखाऽऽत्मानं दर्शयामास वै तदा॥१४॥
चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्
।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्॥१५॥
ते समेत्य तथाऽन्योन्यं सन्नाहान् विप्रमुच्य च
।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः
।
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ॥१६॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनवाक्ये अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४८॥
दुर्योधन उवाच।
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
।
इदं वचनमक्लीबमब्रवीत् परवीरहा॥१॥
चित्रसेनमिति ॥१॥
भ्रातॄनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम
।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु॥२॥
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना
।
उवाच यत् कर्ण वयं मन्त्रयन्तो विनिर्गताः॥३॥
द्रष्टारः स्म सुखाद्धीनान् सदारान् पाण्डवानिति
।
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा॥४॥
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः
।
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः॥५॥
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन्
।
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः॥६॥
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्
।
ये मे निराकृता नित्यं रिपुर्येषामहं सदा॥७॥
तैर्मोक्षितोऽहं दुर्बुद्धिर्दन्तं तैरेव जीवितम्
।
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन् महारणे॥८॥
श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम्
।
अभूद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्॥९॥
एवम्भूतस्य जीवितं न श्रेयः इति सम्बन्धः । अभूत् अभविष्यत् ॥९॥
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः
।
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः॥१०॥
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्
।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति॥११॥
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति॥१२॥
नह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः
।
शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा॥१३॥
स सुहृच्छोकदो जातः शत्रूणां हर्षवर्धनः
।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्॥१४॥
भीष्मद्रोणौ कृपद्रौणी विदुरः सञ्जयस्तथा
।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः॥१५॥
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः
।
किं मां वक्ष्यन्ति किञ्चापि प्रतिवक्ष्यामि तानहम्॥१६॥
श्रेणिमुख्याः शिल्पिसङ्घातमुख्याः प्रकृतय इत्यर्थः ॥१६॥
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
।
आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तानहम्॥१७॥
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च
।
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः॥१८॥
अहो नार्हमिदं कर्म कष्टं दुश्चरितं कृतम्
।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्॥१९॥
तस्मात् प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्
।
चेतयानो हि को जीवेत् कृच्छ्राच्छत्रुभिरुद्धृतः॥२०॥
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
।
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः॥२१॥
वैशम्पायन उवाच।
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्
।
दुःशासन निबोधेदं वचनं मम भारत॥२२॥
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
।
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्॥२३॥
भ्रातॄन् पालय विस्रब्धं मरुतो वृत्रहा यथा
।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम्॥२४॥
विस्रब्धं सविश्वासं यथा स्यात् तथा ॥२४॥
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः
।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा॥२५॥
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान् यथा
।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्॥२६॥
नन्दयन् सुहृदः सर्वान् शात्रवांश्चावभर्त्सयन्
।
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह॥२७॥
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च॥२८॥
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः
।
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा॥२९॥
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्
।
उक्तवांश्च नख्याघ्रो नैतदेवं भविष्यति॥३०॥
विदीर्येत् सकला भूमिर्द्यौश्चापि शकली भवेत्
।
रविरात्मप्रभां जह्यात् सोमः शीतांशुतां त्यजेत्॥३१॥
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत्
।
शुष्येत् तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्॥३२॥
न चाहं त्वदृते राजन् प्रशासेयं वसुन्धराम्
।
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह॥३३॥
त्वमेव नः कुले राजा भविष्यसि शतं समाः
।
एवमुक्त्वा स राजानं सुस्वरं प्ररुरोद ह॥३४॥
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत
।
तथा तौ दुःखिती दृष्ट्वा दुःशासनसुयोधनौ॥३५॥
अधिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत
।
विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताविव॥३६॥
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित्
।
यदा च शोचतः शोको व्यसनं नापकर्षति॥३७॥
यदा चेति । यदि शोकेन व्यसनं नश्येत् तर्हि स कर्तव्यः न तु तत् तथाऽस्ति । अतः शोको न कर्तव्य इत्यर्थः ॥३७॥
सामर्थ्य किं ततः शोके शोचमानौ प्रपश्यथः
।
धृतिं गृह्णीतं मा शत्रून् शोचन्तौ नन्दयिष्यथः॥३८॥
कर्तव्यं हि कृतं राजन् पाण्डवैस्तव मोक्षणम्
।
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः॥३९॥
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः
।
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा॥४०॥
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते
।
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे ऊनपञ्चाशदधिकद्विशततमोऽध्यायः॥२४९॥
कर्ण उवाच।
राजन्नाद्यावगच्छामि तवेह लघुसत्त्वताम्
।
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि॥१॥
राजन्निति। स्पष्टार्थोऽध्यायः ॥१॥
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन
।
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः॥२॥
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्
।
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्॥३॥
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते चैव सैनिकैः
।
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः॥४॥
तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम्
।
यद्येवं पाण्डवै राजन् भवद्विषयवासिभिः॥५॥
यदृच्छया मोक्षितोऽसि तत्र का परिदेवना
।
न चैतत् साधु यद्राजन् पाण्डवास्त्वां नृपोत्तमम्॥६॥
स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः
।
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः॥७॥
भवतस्ते सहाया वै प्रेष्यतां पूर्वमागताः
।
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे॥८॥
सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायमुपाविशन्
।
उत्तिष्ठ राजन् भद्रं ते न चिरं कर्तुमर्हसि॥९॥
अवश्यमेव नृपते राज्ञो विषयवासिभिः
।
प्रियाण्याचरितव्यानि तत्र का परिदेवना॥१०॥
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि
।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन॥११॥
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ
।
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि॥१२॥
वैशम्पायन उवाच।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
।
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः॥१३॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे कर्णवाक्ये पञ्चाशदधिकद्विशततमोऽध्यायः॥२५०॥
वैशम्पायन उवाच।
प्रायोपविष्टं राजानं दुर्योधनममर्षणम्
।
उवाच सान्त्वयन् राजन् शकुनिः सौबलस्तदा॥१॥
प्रायोपविष्टमिति ॥१॥
शकुनिरुवाच
।
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया
।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम्॥२॥
त्वमल्पबुद्ध्याऽद्य नृपते प्राणानुत्स्रष्टुमर्हसि
।
अथवाऽप्यवगच्छामि न वृद्धाः सेवितास्त्वया॥३॥
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति
।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि॥४॥
पात्रं मृत्पात्रम् । आमम् अपक्कम् ॥४॥
अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम्
।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः॥५॥
भीरुम्-आत्मनाशशङ्काकुलम् । क्लीबं सामर्थ्यहीनम्। दीर्घसूत्रं चिरकारिणम्। प्रमादिनमनवहितम्। व्यसनात् द्यूतपानमृगयादिरूपात् । विषयैः व्यादिभिराक्रान्तम् । त्वं तु तेषां मध्ये प्रमादी विषयाक्रान्तश्चेति भावः ॥५॥
सत्कृतस्य हि ते शोको विपरीते कथं भवेत्
।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय॥६॥
पार्थैः कृतं शोभनं शोकमालम्ब्य मा नाशयेति सम्बन्धः ॥६॥
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः
।
तत्र शोचसि राजेन्द्र विपरीतमिदं तव॥७॥
प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर
।
प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि॥८॥
आत्मानं शरीरं मा त्यज ॥८॥
क्रियामेतां समाज्ञाय कृतज्ञस्त्वं भविष्यसि
।
सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान्॥९॥
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि
।
वैशम्पायन उवाच।
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च॥१०॥
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदम्
।
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिन्दमम्॥११॥
विकृतं म्लानं भ्रातृसौहृदं भ्रातरि सौहृदं वात्सल्यमस्यास्तीति भ्रातृसौहृदम् ॥११॥
उत्थाप्य सम्परिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि
।
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ॥१२॥
निवदं परमं गत्वा राजा दुर्योधनस्तदा
।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत् परम्॥१३॥
निर्वेदं जीविते वैराग्यं नैराश्यं राज्यलाभे इति शेषः ॥१३॥
तच्छ्रुत्वा सुहृदश्चैव समन्युरिदमब्रवीत्
।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया॥१४॥
समन्युः दैन्यवान् । धर्मेण धनेन सौख्येन वा न मम कार्यमिति सम्बन्धः । धर्मधनाभ्यां यत् सौख्यं तेन वा आज्ञया आज्ञाफलेन राज्येनेत्यर्थः ॥१४॥
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत
।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने॥१५॥
मा विहन्यत आत्मानं मा घातयत। मम सङ्कल्पं वा मा नाशयत ॥१५॥
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम
।
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम्॥१६॥
पूज्या भवद्भिरिति शेषः। गुरवो धृतराष्ट्रादयः ॥१६॥
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत
।
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम्॥१७॥
वैशम्पायन उवाच।
स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च
।
बहुप्रकारमप्युक्तो निश्चयान्न विचाल्यते॥१८॥
सुहृद्भिः कर्णाद्यैः । अमात्यैः शकुनिप्रभृतिभिः । भ्रातृभिर्दुःशासनादिभिः । स्वजनैः सम्बन्धिभिः ॥१८॥
दर्भास्तरणमास्तीर्य निश्चयात् धृतराष्ट्रजः
।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः॥१९॥
कुशचीराम्बरधरः परं नियममास्थितः
।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया॥२०॥
वाग्यतो मौनी। स्वर्गगतिर्मरणं तत्काम्यया तदिच्छया ॥२०॥
मनसोपचितिं कृत्वा निरस्य च बहिः क्रियाः
।
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः॥२१॥
मनसा उप समीपे चितिं दाहार्थं काष्ठसञ्चयं कृत्वा सङ्कल्प्य अवश्यं मर्तव्यमिति निश्चित्येत्यर्थः । बहिः क्रियाः स्नानपानाद्याः ॥२१॥
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः
।
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै॥२२॥
आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम्
।
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः॥२३॥
वैतानसम्भवमाग्निविस्तारसाध्यं नवकुण्ड्यादिविधानमाथर्वणिकं न तु त्रयीरूपम् ॥२३॥
अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः
।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्॥२४॥
उपनिषदि आरण्यके प्रोक्ताः क्रियाः ‘सर्वं प्रविध्य हृदयं प्रविध्य शिरोभिवृञ्ज धमनीः प्रव्रज’ इत्यादि मन्त्रप्रकाशिताः शत्रुमारणार्था एतन्मन्त्रजपहोमादिरूपाः समवर्तयन् सम्प्रावर्तयन् दैतेयदानवा इति पूर्वेण सम्बन्धः ॥२४॥
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत् सुसमाहिताः
।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः॥२५॥
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुताः
।
कृत्या समुत्थिता राजन् किं करोमीति चाब्रवीत्॥२६॥
कृत्या आज्ञाकरी देवता ॥२६॥
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना
।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय॥२७॥
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा
।
निमेषादगमच्चापि यत्र राजा सुयोधनः॥२८॥
समादाय च राजानं प्रविवेश रसातलम्
।
दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत्
।
तमानीतं नृपं दृष्ट्वा रात्रौ सङ्गत्य दानवाः॥२९॥
प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः
।
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्॥३०॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे एकपञ्चाशदधिकद्विशततमोऽध्यायः॥२५१॥
दानवा ऊचुः
।
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह
।
शूरैः परिवृतो नित्यं तथैव च महात्मभिः॥१॥
भोः सुयोधनेति ॥१॥
अकार्षीः साहसमिदं कस्मात् प्रायोपवेशनम्
।
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम्॥२॥
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु
।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥३॥
कार्यविरुद्धेषु शत्रुजयविरुद्धेषु पापेषु आत्महत्यादिषु ॥३॥
नियच्छैनां मतिं राजन् धर्मार्थसुखनाशिनीम्
।
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्॥४॥
नियच्छ त्यजेत्यर्थः ॥४॥
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप
।
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि॥५॥
पुरा त्वं तपसाऽस्माभिर्लब्धो राजन् महेश्वरात्
।
पूर्वकायश्च पूर्वस्ते निर्मितो वज्रसञ्चयैः॥६॥
पूर्वकायः नाभेरुपरि ॥६॥
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ
।
कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः॥७॥
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम
।
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः॥८॥
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः
।
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्॥९॥
तदलं ते विषादेन भयं तव न विद्यते
।
सहायार्थं च ते वीराः सम्भूता भुवि दानवाः॥१०॥
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः
।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः॥११॥
असुरा इति छेदः घृणां कृपाम् ॥११॥
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान्
।
नैव शिष्यान्न च ज्ञातीन्न बालान् स्थविरान्न च॥१२॥
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम
।
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि॥१३॥
अन्तरात्मनि चित्ते समाक्रान्ते दानवैरेव ॥१३॥
प्रहरिष्यन्ति विवशाः स्नेहमुत्सृज्य दूरतः
।
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः
।
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात्॥१४॥
अविज्ञानं कार्याकार्यविज्ञानाभावस्तेन मूढाः । दैवाददृष्टात् विधिनिर्मितात् पूर्वकर्मकृतात् ॥१४॥
व्याभाषमाणाश्चान्योन्यं न मे जीवन् विमोक्ष्यसे
।
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः॥१५॥
व्याभाषमाणाः विरुद्धमाभाषन्तः ॥१५॥
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम्
।
तेऽपि पञ्च महात्मानः प्रतियोत्स्यन्ति पाण्डवाः॥१६॥
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः
।
दैत्यरक्षोगणाश्चैव सम्भूताः क्षत्रयोनिषु॥१७॥
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव
।
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा॥१८॥
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम्
।
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै॥१९॥
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः
।
तद्वेरं संस्मरन् वीर योत्स्यते केशवार्जुनौ॥२०॥
स ते विक्रमशोटीरो रणे पार्थं विजेष्यति
।
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन् महारथः॥२१॥
विक्रमे शत्रुजये शौटीरः समर्थः ॥२१॥
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः
।
कुण्डले कवचं चैव कर्णस्यापहरिष्यति॥२२॥
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः
।
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति॥२३॥
प्रख्यातास्तेऽर्जुनं वीरं हनिष्यन्ति च मा शुचः
।
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप॥२४॥
मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते
।
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव॥२५॥
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन
।
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः॥२६॥
ते त्वया अन्या मरणार्था वैरशान्त्यर्था वा बुद्धिर्न कार्या ॥२६॥
वैशम्पायन उवाच।
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्
।
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः॥२७॥
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत
।
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ॥२८॥
जयमाप्नुहि चेत्युक्तमिति शेषः । अथ तैर्विसृष्टमिति सम्बन्धः ॥२८॥
तौर्वसृष्टं महाबाहुं कृत्या सैवानयत् पुनः
।
तमेव देशं यत्रासौ तदा प्रायमुपाविशत्॥२९॥
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च
।
अनुज्ञाता च राज्ञा सा तथैवान्तरधीयत॥३०॥
गतायामथ तस्यां तु राजा दुर्योधनस्तदा
।
स्वप्नभूतमिदं सर्वमचिन्तयत भारत॥३१॥
विजेष्यामि रणे पाण्डूनिति चास्याऽभवन्मतिः
।
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः॥३२॥
अमन्यत वधे युक्तान् समर्थांश्च सुयोधनः
।
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुमतेः॥३३॥
विनिर्जये पाण्डवानामभवद्भरतर्षभ
।
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना॥३४॥
अन्तरात्मना मनसा ॥३४॥
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम्
।
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः॥३५॥
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः
।
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः॥३६॥
न तथा पाण्डुपुत्राणां स्नेहवन्तो विशाम्पते
।
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः॥३७॥
पाण्डुपुत्राणामुपरीति शेषः ॥३७॥
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत्
।
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः॥३८॥
न मृतो जयते शत्रून् जीवन् भद्राणि पश्यति
।
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः॥३९॥
न कालोऽद्य विषादस्य भयस्य मरणस्य वा
।
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः॥४०॥
उत्तिष्ठ राजन् किं शेषे कस्माच्छोचसि शत्रुहन्
।
शत्रून् प्रताप्य वीर्येण स कथं मृत्युमिच्छसि॥४१॥
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम्
।
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्॥४२॥
गते त्रयोदशे वर्षे सत्येनायुधमालभे
।
आनयिष्याम्यहं पार्थान् वशं तव जनाधिप॥४३॥
एवमुक्तस्तु कर्णेन दैत्यानां वचनात् तथा
।
प्रणिपातेन चाप्येषामुदतिष्ठत् सुयोधनः॥४४॥
एषां दुःशासनादीनाम् ॥४४॥
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम्
।
ततो मनुजशार्दूलो योजयामास वाहिनीम्॥४५॥
रथनागाश्वकलिलां पदातिजनसङ्कुलाम्
।
गङ्गौघप्रतिमा राजन् सा प्रयाता महाचमूः॥४६॥
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः
।
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला॥४७॥
पदातैः पदातिभिः सा चमूर्द्यौरिव शुशुभे इति द्वयोः सम्बन्धः ॥४७॥
व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी
।
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्॥४८॥
व्यपेतः अभ्रघनः मेघविस्तारो यस्मिन् ‘धनं स्यात् इत्युपक्रम्य’ विस्तारे लोहमुद्गरे' इति मेदिनी । शरदीत्यर्थः । अव्यक्ता ईषद्व्यक्ता शारदी शरज्जातपुण्डरीककाशकुसुमाद्याकारच्छत्रचामरादिरूपा शोभा यस्यां साऽव्यक्तशारदी । अधिराजा सार्वभौमो युधिष्ठिरस्तद्वत् ॥४८॥
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः
।
सुयोधनो ययावग्रे श्रिया परमया ज्वलन्॥४९॥
गृह्णन् दृक्प्रसारादिना अनुगृह्णन् । अञ्जलिमालाः नमस्काराञ्जलिपङ्क्तीः । बद्धाञ्जलीनित्यर्थः ॥४९॥
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना
।
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते॥५०॥
देविना द्यूतरतेन ॥५०॥
भूरिश्रवाः सोमदत्तो महाराजश्च बाल्हिकः
।
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा॥५१॥
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः
।
कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा॥५२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनपुरप्रवेशे द्विपञ्चाशदधिकद्विशततमोऽध्यायः॥२५२॥
जनमेजय उवाच।
वसमानेषु पार्थेषु वने तस्मिन् महात्मसु
।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः॥१॥
वसमानेष्विति ॥१॥
कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः
।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि॥२॥
वैशम्पायन उवाच।
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने
।
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः॥३॥
भीष्मोऽब्रवीत् महाराज धार्तराष्ट्रमिदं वचः
।
उक्तं तात यथा पूर्वं गच्छतस्ते तपोवनम्॥४॥
गमनं मे न रुचितं तव तत्र कृतं च ते
।
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्॥५॥
तव गमनं न रुचितं नानुमोदितम् । मे मया ते त्वया च तन्न कृतम् ॥५॥
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे
।
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशांपते॥६॥
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात्
।
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज॥७॥
अपयात् अपायात् पलायितः ॥७॥
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्
।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः॥८॥
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम
।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल॥९॥
तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः
।
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये॥१०॥
सन्धिक्षमं युक्तं मन्ये ॥१०॥
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः
।
प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः॥११॥
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः
।
अनुजग्मुर्महेष्वासा धार्तराष्ट्र महाबलम्॥१२॥
तांस्तु सम्प्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः
।
लज्जया ब्रीडितो राजन् जगाम स्वं निवेशनम्॥१३॥
गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः
।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः॥१४॥
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते
।
कथं च सुकृतं तत् स्यान्मन्त्रयामोऽद्य यद्धितम्॥१५॥
कर्ण उवाच।
दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव
।
भीष्मोऽस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति॥१७॥
ममापि मामपि ॥१७॥
त्वद्द्वेषाच्च महाबाहो ममापि द्वेष्टुमर्हति
।
विगर्हते च मां नित्त्यं त्वत्समीपे नरेश्वर॥१७॥
ममापि मामपि ॥१७॥
साऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत
।
त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्षण॥१८॥
पाण्डवानां यशो राजंस्तव निन्दां च भारत
।
अनुजानीहि मां राजन् सभृत्यबलवाहनम्॥१९॥
जेष्यामि पृथिवीं राजन् सशैलवनकाननाम्
।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः॥२०॥
तामहं ते विजेष्यामि एक एव न संशयः
।
सम्पश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः॥२१॥
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति
।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु॥२२॥
अनुजानीहि मां राजन् ध्रुवो हि विजयस्तव
।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे॥२३॥
तच्छ्रुत्वा तु वचो राजन् कर्णस्य भरतर्षभ
।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः॥२४॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वं महाबलः
।
हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे॥२५॥
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्
।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति॥२६॥
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता
।
सर्वमाज्ञापयामास प्रायात्रिकमरिन्दम॥२७॥
प्रायात्रिकं प्रयातुं राज्ञोऽपेक्षितं शकटापणवीथ्यादि ॥२७॥
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते
।
शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः॥२८॥
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः
।
नादयन् रथघोषेण त्रैलोक्यं सचराचरम्॥२९॥
मङ्गलैर्मङ्गलद्रव्यैः सुगन्धतैलादिभिः स्नातः शुभैर्नीराजनादिभिः प्रययौ इति सम्बन्धः ॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदिग्विजये त्रिपञ्चाशदधिकद्विशततमोऽध्यायः॥२५३॥
वैशम्पायन उवाच।
ततः कर्णो महेष्वासो बलेन महता वृतः
।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ॥१॥
तत इति ॥१॥
युद्धेन महता चैनं चक्रे वीरं वशानुगम्
।
सुवर्णं रजतं चापि रत्नानि विविधानि च॥२॥
करं च दापयामास द्रुपदं नृपसत्तम
।
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः॥३॥
तान् सर्वान् वशागांश्चक्रे करं चैनानदापयत्
।
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्॥४॥
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत्
।
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः॥५॥
प्रययौ च दिशः सर्वान् नृपतीन् वशमानयत्
।
स हैमवतिकान् जित्वा करं सर्वानदापयत्॥६॥
नेपालविषये ये च राजानस्तानवाजयत्
।
अवतीर्य ततः शैलात् पूर्वां दिशमभिद्रुतः॥७॥
अङ्गान् वङ्गान् कलिङ्गांश्च शुण्डिकान् मिथिलानथ
।
मागधान् कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः॥८॥
निवेश्य विषयेऽऽत्मनः आत्मनो गोचरे कृत्वेत्यर्थः । आकारपूर्वरूपं लोपो वा आर्षः ॥८॥
आवशीरांश्च योध्यांश्च अहिक्षत्रं च निर्जयत्
।
पूर्वा दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्॥९॥
निर्जयत् जितवान् । अडभाव आर्षः ॥९॥
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्
।
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा॥१०॥
एतान् सर्वान् विनिर्जित्य करमादाय सर्वशः
।
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्॥११॥
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः
।
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्॥१२॥
प्रीतोऽस्मि तव राजेन्द्र विक्रमेण बलेन च
।
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्॥१३॥
प्रतिज्ञां क्षत्रधर्मं समपालयं पालितवानस्मि । क्षत्रधर्मावेक्षयैव त्वया सह युद्धं कृतं न त्वज्जिगीषयेति भावः ॥१३॥
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छास
।
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोऽगमत्॥१४॥
शैलं श्रीशैलम् ॥१४॥
स केरलं रणे चैव नीलं चापि महीपतिम्
।
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः॥१५॥
दक्षिणस्यां दिशि नृपान् करान् सर्वानदापयत्
।
शैशुपालिं ततो गत्वा विजिग्ये सुतनन्दनः॥१६॥
पार्श्वस्थांश्चापि नृपतीन् वशे चक्रे महाबलः
।
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ
।
वृष्णिभिः सह सङ्गम्य पश्चिमामपि निर्जयत्॥१७॥
वारुणीं दिशमागम्य यावनान् बर्बरांस्तथा
।
नृपान् पश्चिमभूमिस्थान् दापयामास वै करान्॥१८॥
विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम्
।
सम्लेच्छाटविकान् वीरः सपर्वतनिवासिनः॥१९॥
भद्रान् रोहितकांश्चैव आग्रेयान् मालवानपि
।
गणान् सर्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव॥२०॥
शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः
।
नग्नजित्प्रमुखांश्चैव गणान् जित्वा महारथान्॥२१॥
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः
।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत्॥२२॥
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः
।
प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः॥२३॥
अर्चयामास विधिना कर्णमाहवशोभिनम्
।
आश्रावयच्च तत् कर्म प्रीयमाणो जनेश्वरः॥२४॥
तत् कर्म कर्णविजयं पुरे उद्घोषयामास ॥२४॥
यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाल्हिकात्
।
प्राप्तवानस्मि भद्रं ते त्वत्तः प्राप्तं मया हि तत्॥२५॥
बहुना च किमुक्तेन शृणु कर्ण वचो मम
।
सनाथोऽस्मि महाबाहो त्वया नाथेन सत्तम॥२६॥
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्
।
अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः॥२७॥
अभ्युदितेभ्योऽप्युदिताः श्रेष्ठतमाः ॥२७॥
स भवान् धृतराष्ट्रं तं गान्धारीं च यशस्विनीम्
।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा॥२८॥
ततो हलहलाशब्दः प्रादुरासीद्विशांपते
।
हाहाकाराश्च बहवो नगरे नागसाह्वये॥२९॥
हलहलाशब्दं हाहाकारं कर्णानन्दां च पाण्डवपक्षपातिनश्चक्रुरित्यर्थः॥२९॥
केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे
।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप॥३०॥
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः
।
सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम्॥३१॥
आकाशः पर्वतवनयोरन्तरालं सस्याद्युत्पत्तिभूमिमित्यर्थः ॥३१॥
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि
।
द्वीपैश्चानूपसम्पूर्णैः पृथिवीं पृथिवीपते॥३२॥
अनूपं सर्वतोजलं तेन सम्पूर्णैः ॥३२॥
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान्
।
अक्षयं धनमादाय सूतजो नृपमभ्ययात्॥३३॥
प्रविश्य च गृहं राजन्नभ्यन्तरमरिन्दम
।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः॥३४॥
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्
।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः॥३५॥
तदाप्रभृति राजा च शकुनिश्चापि सौबलः
।
जानते निर्जितान् पार्थान् कर्णेन युधि भारत॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदिग्विजये चतुष्पञ्चाशदधिकद्विशततमोऽध्यायः॥२५४॥
वैशम्पायन उवाच।
जित्वा तु पृथिवीं राजन् सूतपुत्रो जनाधिप
।
अब्रवीत् परवीरघ्नो दुर्योधनमिदं वचः॥१॥
जित्वेति ॥१॥
कर्ण उवाच।
दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव
।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिन्दम॥२॥
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम
।
तां पालय यथा शक्रो हतशत्रुर्महामनाः॥३॥
वैशम्पायन उवाच।
एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत् पुनः
।
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ॥४॥
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः
।
अभिप्रायस्तु मे कश्चित् तं वै शृणु यथातथम्॥५॥
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं महत्
।
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज॥६॥
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्
।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम॥७॥
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि
।
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च॥८॥
ऋत्विजश्च समाहूता यथोक्ता वेदपारगाः
।
क्रियां कुर्वन्तु ते राजन् यथाशास्त्रमरिन्दम॥९॥
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः
।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ॥१०॥
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते
।
पुरोहितं समानाय्य वचनं चेदमब्रवीत्॥११॥
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्
।
आहर त्वं मम कृते यथान्यायं यथाक्रमम्॥१२॥
स एवमुक्तो नृपतिमुवाच द्विजसत्तमः
।
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे॥१३॥
जीवमाने इत्येकस्मिन् कुले द्वौ राजसूयौ न भवत इति वा तस्मिन्नजित इति वा भावः॥१३॥
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम
।
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप॥१४॥
स च शत्रुर्न तत्प्रतिबन्द्यस्माकं काचिदस्ति ।द्यूतेन च जितोऽस्त्येवेत्याशङ्क्याह दीर्घायुरिति । पितर्यकृतराजसूये जीवति सति स्वयं तं न कुर्यादित्यर्थः । अन्धस्य पितुरनधिकारात् तत्सत्त्वं यद्यप्यधिकारप्रतिबन्धकं न भवति किन्तु युधिष्ठिरजयासामर्थ्यमेव । तथापि तत्कीर्तयितुमशक्यमित्येतदुदाहृतम् । तथा च वक्ष्यति - ‘हतेषु युधि पार्थेषु राजसूये तथा त्वया । आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः’ इति ॥१४॥
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम
।
अस्ति त्वन्यन्महत् सत्रं राजसूयसमं प्रभो॥१५॥
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम
।
य इमे पृथिवीपालाः करदास्तव पार्थिव॥१६॥
ते करान् सम्प्रयच्छन्तु सुवर्णं च कृताकृतम्
।
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम॥१७॥
कृतं घटितमलङ्कारादिरूपम् अकृतमन्यत् ॥१७॥
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत
।
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः॥१८॥
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः
।
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः॥१९॥
एतेन नेष्टवान् कश्चिदृते विष्णुं पुरातनम्
।
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः॥२०॥
अस्माकं रोचते चैव श्रेयश्च तव भारत
।
निर्विघ्नश्च भवत्येष सफला स्यात् स्पृहा तव॥२१॥
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः
।
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत्॥२२॥
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः
।
रोचते यदि युष्माकं तस्मात् प्रब्रूत मा चिरम्॥२३॥
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्
।
सन्दिदेश ततो राजा व्यापारस्थान् यथाक्रमम्॥२४॥
व्यापारस्थान् शिल्पिनः ॥२४॥
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः
।
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनयज्ञसमारम्भे पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥२५५॥
वैशम्पायन उवाच।
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ये
।
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत्॥१॥
तत इति ॥१॥
सज्जं क्रतुवरं राजन् कालप्राप्तं च भारत
।
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम्॥२॥
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशांपते
।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्॥३॥
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः
।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्॥४॥
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः
।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी॥५॥
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्
।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च॥६॥
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः
।
तत्र कञ्चित् प्रयातं तु दूतं दुःशासनोऽब्रवीत्॥७॥
गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान्
।
निमन्त्रय यथान्यायं विप्रांस्तस्मिन् वने तदा॥८॥
स गत्वा पाण्डवान् सर्वानुवाचाभिप्रणम्य च
।
दुर्योधनो महाराज यजते नृपसत्तमः॥९॥
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः
।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः॥१०॥
अहं तु प्रेषितो राजन् कौरवेण महात्मना
।
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः॥११॥
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ
।
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्॥१२॥
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः
।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः॥१३॥
वयमप्युपयास्यामो न त्विदानीं कथञ्चन
।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्॥१४॥
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्
।
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः॥१५॥
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति
।
वर्षात् त्रयोदशादूर्ध्वं रणसत्रे नराधिपः॥१६॥
यदा क्रोधहविमर्मोक्ता धार्तराष्ट्रेषु पाण्डवः
।
आगन्ताऽहं तदाऽस्मीति वाच्यस्ते स सुयोधनः॥१७॥
धार्तराष्ट्रेषु स्वयं क्रोधेन ज्वलत्सु । क्रोधहविः क्रोधरूपं सर्पिस्तेषामत्यन्तोद्दीपकं मोक्ष्यति तदाहमागन्ता - आगमिष्यामि ॥१७॥
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम्
।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत्॥१८॥
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः
।
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति॥१९॥
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्
।
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः॥२०॥
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः
।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत॥२१॥
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः
।
तुष्येत् तु यज्ञसदने तथा क्षिप्रं विधीयताम्॥२२॥
विदुरस्तु तदाज्ञाय सर्ववर्णानरिन्दम
।
यथा प्रमाणतो विद्वान् पूजयामास धर्मवित्॥२३॥
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः
।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत्॥२४॥
कृत्वा ह्यावसथान् वीरो यथाशास्त्रं यथाक्रमम्
।
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु॥२५॥
विसर्जयामास नृपान् ब्राह्मणांश्च सहस्रशः
।
विसृज्य च नृपान् सर्वान् भ्रातृभिः परिवारितः॥२६॥
विवेश हास्तिनपुरं सहितः कर्णसौबलैः॥२७॥
कर्णसौबलैः सौबलाद्यैः ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनयज्ञे षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥२५६॥
वैशम्पायन उवाच।
प्रविशन्तं महाराज सुतास्तुष्टुवुरच्युतम्
।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तम॥१॥
प्रविशन्तमिति ॥१॥
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः
।
ऊचुर्दिष्ट्या नृपाविघ्नः समाप्तोऽयं क्रतुस्तव॥२॥
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्
।
युधिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः॥३॥
वातिकाः वातरोगोपहृतचेतस उचितभाषणानभिज्ञाः ॥३॥
नैव तस्य क्रतोरेष कलामर्हति षोडशीम्
।
एवं तत्राब्रुवन् केचिद्वातिकास्तं जनेश्वरम्॥४॥
सुहृदस्त्वब्रुवंस्तत्र अतिसर्वानयं क्रतुः
।
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा॥५॥
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः
।
एता वाचः शुभाः शृण्वन् सुहृदां भरतर्षभ॥६॥
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः
।
अभिवाद्य ततः पादौ मातापित्रोर्विशांपते॥७॥
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः
।
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः॥८॥
निषसादासने मुख्ये भ्रातृभिः परिवारितः
।
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः॥९॥
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः
।
हतेषु युधि पार्थेषु राजसूये तथा त्वया॥१०॥
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः
।
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः॥११॥
सभाजयिता पूजयिष्यामि ॥११॥
सत्यमेतत् त्वयोक्तं हि पाण्डवेषु दुरात्मसु
।
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ॥१२॥
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि
।
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत॥१३॥
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः
।
सोऽब्रवीत् कौरवांश्चापि पार्श्वस्थान् नृपसत्तमः॥१४॥
कदा तु तं क्रतुवरं राजसूयं महाधनम्
।
निहत्य पाण्डवान् सर्वानाहरिष्यामि कौरवाः॥१५॥
तमब्रवीत् तदा कर्णः शृणु मे राजकुञ्जर
।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः॥१६॥
धावये परेणेति शेषः ॥१६॥
कीलालजं न खादेयं करिष्ये चासुरव्रतम्
।
नास्तीति नैव वक्ष्यामि याचितो येन केनचित्॥१७॥
कीलालजं मांसं तद्धि घनीभूतं रुधिरमेव । ‘कीलालं रुधिरे तोये’ इति मेदिनी । असुरं सुरारहितं च व्रतं स्वनियमं करिष्ये मद्यं मांसं च त्यक्ष्ये इत्यर्थः ॥१७॥
अथोत्कृष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः
।
प्रतिज्ञाते फाल्गुनस्य वधे कर्णेन संयुगे॥१८॥
उत्क्रुष्टमुच्चैः शब्दः कृतः ॥१८॥
विजितांश्चाप्यमन्यन्त पाण्डवान् धृतराष्ट्रजाः
।
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान्॥१९॥
प्रविवेश गृहं श्रीमान् यथा चैत्ररथं प्रभुः
।
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत॥२०॥
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः
।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्॥२१॥
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता
।
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति॥२२॥
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप
।
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्॥२३॥
अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः
।
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः॥२४॥
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम्
।
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वरुन्धराम्॥२५॥
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा
।
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना॥२६॥
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम्
।
पूजयामास विप्रेन्द्रान् क्रतुभिर्भूरिदक्षिणैः॥२७॥
भ्रातॄणां च प्रियं राजन् स चकार परन्तपः
।
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि युधिष्ठिरचिन्तायां सप्तपञ्चाशदधिकद्विशततमोऽध्यायः॥२५७॥