अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

घोषयात्रापर्व

षट्त्रिंशदधिकद्विशततमोऽध्यायः

जनमेजय उवाच। एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः ।
सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः॥१॥

एवं वने वर्तमाना इत्यादेः स्वपुरं विविशुस्तदेत्यन्तस्य ग्रन्थस्य ईर्ष्यालुर्दुर्योधनवदपमानं प्राप्नोति । साधुश्च युधिष्ठिरवच्छत्रूनप्युपकरोतीति तात्पर्यम् । सरो द्वैतवनस्थम् ॥१॥

वैशम्पायन उवाच। सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय वेशम् ।
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः॥२॥

जनं समुदायम् । वेशं गृहम् । नदीप्रदेशान् तत्समीपस्थाने च ॥२॥

तथा वने तान् वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनांश्च ।
अभ्याययुर्वेदविदः पुराणास्तान् पूजयामासुरथो नराग्र्याः॥३॥

वने द्वैतवने ॥३॥

ततः कदाचित् कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।
स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत्॥४॥

नृपं धृतराष्ट्रम् ॥४॥

अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन ।
प्रचोदितः सङ्कथयांबभूव धर्मानिलेन्द्रप्रभवान् यमौ च॥५॥

कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोग्रस्य मुखे प्रपन्नान् ।
तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम्॥६॥

ततः कथास्तस्य निशम्य राजा वैचित्रवीर्यः कृपयाऽभितप्तः ।
वने तथा पार्थिव पुत्रपौत्रान् श्रुत्वा तथा दुःखनदीं प्रपन्नान्॥७॥

प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासवातोपहतस्तदानीम् ।
वाचं कथञ्चित् स्थिरतामुपेत्य तत् सर्वमात्मप्रभवं विचिन्त्य॥८॥

कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः ।
अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी॥९॥

रङ्कोर्मृगविशेषस्य लोमराशिमयी तूलिका राङ्कवकूटम् ॥९॥

प्रबोध्यते मागधसूतपूगैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।
पतन्त्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः॥१०॥

इडातलस्थः भूतलस्थः । ‘इडा तु बुधयोषिति । सौरभेय्यां च वचने वसुमत्यामपि स्त्रियाम्’ इति मेदिनी ॥१०॥

कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः ।
शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः॥११॥

तथाऽर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः ।
विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात्॥१२॥

यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तम् ।
विनिःश्वसन् सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात्॥१३॥

उग्रतेजा अर्जुनः ॥१३॥

यथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव ।
प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ॥१४॥

प्रजागरस्थौ भुवि शयाते इति शेषः ॥१४॥

समीरणेनाथ समो बलेन समीरणस्यैव सुतो बलीयान् ।
स धर्मपाशेन सितोऽग्रजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम्॥१५॥

स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः ।
सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः॥१६॥

अन्यैः अन्येभ्योऽधिकः प्रतीक्षतीत्यप्युपपदाभावेऽपि छान्दसो गर्हायां लट् ॥१६॥

अजातशत्रौ तु जिते निकृत्या दुःशासनो यत् परुषाण्यवोचत् ।
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि॥१७॥

न पापकं ध्यास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवर्त्स्यते तम् ।
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन॥१८॥

स तेन कोपेन विदह्यमानः करं करेणाभिनिपीड्य वीरः ।
विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान् मम पुत्रपौत्रान्॥१९॥

गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ ।
न शेषयेतां युधि शत्रुसेनां शरान् किरन्तावशनिप्रकाशान्॥२०॥

दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः ।
मधु प्रपश्यन्ति न तु प्रपातं यद्द्यूतमालम्ब्य हरन्ति राज्यम्॥२१॥

शुभाशुभं कर्म नरो हि कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता ।
स तेन मुह्यत्यवशः फलेन मोक्षः कथं स्यात् पुरुषस्य तस्मात्॥२२॥

शुभेति । फलं स्वर्गनरकरूपम् । तेन मूढस्य तस्मान्न मोक्षोऽस्तीत्यर्थः ॥२२॥

क्षेत्रे सुकृष्टे ह्युपिते च वीजे देवे च वर्षत्यृतुकालयुक्तम् ।
न स्यात् फलं तस्य कुतः प्रसिद्धिरन्यत्रं दैवादिति चिन्तयामि॥२३॥

दृष्टसामग्र्यां सत्यामपि दैवप्रातिकूल्यात् फलं न जायत इत्याह क्षेत्रे इति । उपिते न्युप्ते । एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥२३॥

कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन ।
मया च दुष्पुत्रवशानुगेन यथा कुरूणामयमन्तकालः॥२४॥

यथा न साधु अशुभं स्यात् तथा मताक्षेण शकुनिना कृतम् । पाण्डवेन च तदानीमेव तान् अनिघ्नता साधु कृतम् । मया च तथा कृतं यथाऽयमन्तकाल उपस्थित इति शेषः ॥२४॥

ध्रुवं प्रवास्वत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत गर्भिणी या ।
ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः॥२५॥

प्रवास्यति वात इति शेषः । प्रजास्यति अपत्यं जनयिष्यति । क्षपादौ रात्र्यादौ । एतस्य पापस्य फलम् अपरिहार्यमिति भावः ॥२५॥

क्रियेत कस्मादपरे च कुर्युर्वित्तं न दद्युः पुरुषाः कथञ्चित् ।
प्राप्यार्थकालं च भवेदनर्थः कथं नु तत् स्यादिति तत् कुतः स्यात्॥२६॥

कथं तर्हि प्रागेवैतन्न चिन्तितमित्याशङ्क्याह क्रियेतेति । यद्येवं विवेको नृणां भवेत् तर्हि वित्तं कस्माद्धेतोरस्मदादिरन्यायेनापि क्रियेत साधयेत् । त्वं मूर्खोऽसीति चेत् अपरेऽपि पूर्वे राजानः कस्मात् वित्तं कुर्युरर्जयेयुः । अर्जितं वा वित्तं पुरुषाः साधवोऽपि कथञ्चित् धर्मकामाद्यर्थे वा कस्मान्न दद्युः न परित्यजेयुः । तस्मात् प्राणिनां वित्तस्यार्जने अर्जितस्य पालने च स्वाभाविकी बुद्धिरपरिहार्येति भावः। वित्तेनेति गौडपाठे तु वित्तेन हेतुना वित्तार्थं कस्मात् क्रियेत यत्न इति यत्नं कुर्युरिति च अध्याहृत्य योज्यम् । कथञ्चिद्दद्युरिति दुस्त्यजत्वं च तस्यैवोक्तम् । नन्वर्जनाभावे एव को दोष इत्यत आह प्राप्येति । अर्थकालम् अर्थसाध्यदारक्रियादिकालं यौवनादिकं प्राप्य अनर्थः व्याकुलत्वं भवेत् तदेवाह तत् धनसाध्यं कार्यं कथं नु केन प्रकारेण वा मम निर्धनस्य स्यात् । कुतो वा उपायात् तत् धनं मम निर्दैवस्य स्यात् सम्पद्येतेतिचिन्तारूपोऽनर्थः स्यादेवेत्यर्थः ॥२६॥

कथं नु भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम् ।
अरक्ष्यमाणं शतधा प्रकीर्येत् ध्रुवं न नाशोऽस्ति कृतस्य लोके॥२७॥

नन्वेवमर्थस्य इदानीमप्यनर्थकरत्वं जानता त्वया पाण्डवानामंशः सुत्यजस्ततश्च न नाशशङ्काऽस्ति इत्याशङ्क्याह कथं नु इति । पुत्रवत् पशुवच्च पिण्डीभूतः प्रियतमश्चार्थः कथं नु भिद्येत द्विधा भवेत् वेणुरिव करपत्रेण न कथं चिद्भेत्तुं शक्य इति भावः । न च स्रवेत आमपात्राज्जलमिव स्तोकं स्तोकमपि न बहिर्गच्छेत् प्रार्थनायां लिङ् । एवमहं प्रार्थयामि । तेन परैर्ग्रामपञ्चकमपि याचितं चेन्न दास्यामीति दर्शितम् । न च प्रसिच्येत् पात्रधारया वा न बहिर्गच्छेत्तेनार्धराज्यदानं सुतरां न देयमित्युक्तम् । इति हेतोर्धनं रक्षितव्यमेव न स्तोकमर्धं वा तेभ्यः प्रदेयमिति भावः । तत्र हेतुः अरक्ष्यमाणं शतधा प्रकीर्येदिति । अर्थनाश एव महाननर्थ इत्यर्थः । नन्वर्थेनापि पुत्रनाशः सम्भाव्यत इत्याशङ्क्याह ध्रुवमिति । तेषां मरणं दुर्गतिर्वा दैवकृता दुर्निवार्या किमर्थदानेन प्रत्यक्षदुःखेनेति भावः ॥२७॥

गतो ह्यरण्यादपि शक्रलोकं धनञ्जयः पश्यत वीर्यमस्य ।
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः॥२८॥

किञ्च तुल्यांशभागिनो दायादस्योत्कर्षोऽपि दुःसह इत्याशयेनाह गत इत्यादिना ॥२८॥

स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् ।
अन्यत्र कालोपहताननेकान् समीक्षमाणस्तु कुरून् मुमूर्षून्॥२९॥

अन्यत्र स्वर्गे स्थानविशेषमहिम्ना दिव्यज्ञानसम्पन्नोऽर्जुनः कुरून् मुमूर्षुन् समीक्षमाणः कोऽपि मानुषो नास्तीत्यर्थः ॥२९॥

धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं भीमवेगम् ।
अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र॥३०॥

निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ ।
अबोधयत् कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः॥३१॥

अहृष्टो मृत्युभयात् स चाथ हृष्ट इति पाठे हृष्टः पाण्डवेभ्योऽल्पमपि न देयमिति धृतराष्ट्रप्रतिज्ञाश्रवणात् ॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि धृतराष्ट्रखेदवाक्ये षट्त्रिंशदधिकद्विशततमोऽध्यायः॥२३६॥
सप्तत्रिंशदधिकद्विशततमोऽध्यायः

प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत ।
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहा यथा॥२॥

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासीनः ।
कृताः करप्रदाः सर्वे राजानस्ते नराधिप॥३॥

प्रतीच्या उदीच्याश्च देशास्तद्वासिनः ते त्वया ॥३॥

या हि सा दीप्यमानेव पाण्डवानभजत् पुरा ।
साऽद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह॥४॥

साद्याः सादयितुं नाशयितुं योग्याः शत्रवस्तेषां लक्ष्मीः साद्यलक्ष्मीः ॥४॥

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।
अपश्याम श्रियं राजन् दृश्यते सा तवाद्य वै॥५॥

शत्रवस्तव राजेन्द्र न चिरं शोककर्शिताः ।
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्॥६॥

न चिरमल्पकालं शोककर्शिताः अतस्त्वत्प्रतिज्ञातोऽस्माकं सुखकालो भूयानस्तीति भावः । सा तु श्रीः ॥६॥

त्वया क्षिप्ता महाबाहो दीप्यमानेव दृश्यते ।
तथैव तव राजेन्द्र राजानः परवीरहन्॥७॥

शासनेऽधिष्ठिताः सर्वे किङ्कुर्म इति वादिनः ।
तवेयं पृथिवी राजन्निखिला सागराम्बरा॥८॥

सपर्वतवना देवी सग्रामनगराकरा ।
नानावनोद्देशवती पर्वतैरुपशोभिता॥९॥

वन्द्यमानो द्विजै राजन् पूज्यमानश्च राजभिः ।
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव॥१०॥

वन्द्यमानः स्तूयमानः द्विजैस्त्रैवर्णिकैः ॥१०॥

रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।
कुरुभिस्त्वं वृतो राजन् भासि नक्षत्रराडिव॥११॥

यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः ।
पश्यामस्तान् श्रिया हीनान् पाण्डवान् वनवासिनः॥१२॥

नाद्रियेत नादृता ॥१२॥

श्रूयते हि महाराज सरो द्वैतवनं प्रति ।
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः॥१३॥

स प्रयाहि महाराज श्रिया परमया युतः ।
तापयन् माण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा॥१४॥

स्थितोराज्ये च्युतान्राज्याच्छ्रिया हीनाञ्छ्रिया वृतः ।
असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप॥१५॥

महाभिजनसम्पन्नं भद्रे महति संस्थितम् ।
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषम्॥१६॥

त्वा त्वाम् ॥१६॥

यां श्रियं सुहृदश्चैव दुर्हृदश्च विशाम्पते ।
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत॥१७॥

समर्था सुहृदां हर्षं शत्रूणां च शोकं दातुमिति शेषः ॥१७॥

समस्थो विषमस्थान् हि दुर्हृदो योऽभिवीक्षते ।
जगतीस्थानिवाद्रिस्थः किमतः परमं सुखम्॥१८॥

न पुत्रधनलाभेन न राज्येनापि विन्दति ।
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्॥१९॥

अमित्रेष्वघदर्शनात् अघं दुःखम् । ‘अघं तु व्यसने दुःखे दुरिते च नपुंसकम्’ इति मेदिनी ॥१९॥

किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् ।
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्॥२०॥

सुवाससो हि ते भार्या वल्कलाजिनसंवृताम् ।
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः॥२१॥

निर्विद्यतां जीवितादपि विरक्ता भवतु ॥२१॥

विनिन्दतां तथाऽऽत्मानं जीवितं च धनच्युतम् ।
न तथा हि सभामध्ये तस्या भवितुमर्हति ।
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः॥२२॥

वैशम्पायन उवाच। एवमुक्त्वा तु राजानं कर्णः शकुनिना सह ।
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णशकुनिवाक्ये सप्तत्रिंशदधिकद्विशततमोऽध्यायः॥२३७॥
अष्टत्रिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः ।
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्॥१॥

कर्णस्येति ॥१॥

ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम् ।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः॥२॥

परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः ।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्॥३॥

अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति॥४॥

आयतिमुत्तरकालम् ॥४॥

न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत् प्रयोजनम् ।
उत्सादनमृते तेषां वनस्थानां महाद्युते॥५॥

जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते ।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा॥६॥

तानि सर्वाणि वाक्यानि यच्चान्यत् परिदेवितम् ।
विचिन्त्य नाधिगच्छामि गमनायेतराय वा॥७॥

इतराय अवस्थानाय नाधिगच्छामि अधिगमं निश्चयं न प्राप्नोमि ॥७॥

ममापि हि महान् हर्षो यदहं भीमफाल्गुनौ ।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति॥८॥

न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम् ।
दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः॥९॥

किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् ।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने॥१०॥

यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः ।
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत्॥११॥

लक्ष्म्या उपेतं पश्येतां चेज्जीवितं युक्तमिति सम्बन्धः ॥११॥

उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः॥१२॥

स सौबलेन सहितस्तथा दुःशासनेन च ।
उपायं पश्य निपुणं येन गच्छेम तद्वनम्॥१३॥

अहमप्यद्य निश्चित्य गमनायेतराय च ।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह॥१४॥

कल्यं प्रातः ॥१४॥

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।
उपायो यो भवेदॄष्टस्तं ..याः सहसौबलः॥१५॥

वचो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति ।
व्यवसायं करिष्येऽहमनुनीय पितामहम्॥१६॥

तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान् प्रति ।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्॥१७॥

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर॥१८॥

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामो न संशयः॥१९॥

घोषा गोवजाः ॥१९॥

उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते ।
एवं च त्वां पिता राजन् समनुज्ञातुमर्हति॥२०॥

तथा कथयमानौ तु घोषयात्राविनिश्चयम् ।
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव॥२१॥

उपायोऽयं मया दृष्टो गमनाय निरामयः ।
अनुज्ञास्यति नो राजा बोधयिष्यति चाप्युत॥२२॥

अयमुपायो घोषयात्रैव ॥२२॥

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामो न संशयः॥२३॥

ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान् ददुः ।
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्॥२४॥

तलान् हस्ततलानि ॥२४॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि घोषयात्रामन्त्रणे अष्टत्रिंशदधिकद्विशततमोऽध्यायः॥२३८॥
ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय ।
पृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत॥१॥

धृतराष्ट्रमिति ॥१॥

ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः ।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्॥२॥

अनन्तरं च राधेयः शकुनिश्च विशाम्पते ।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम्॥३॥

रमणीयेषु देशेषु घोषाः सम्प्रति कौरव ।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम्॥४॥

स्मारणे स्मरणहेतौ कर्मणि । गव सङ्ख्यापूर्वकं वयोवर्णजातिनाम्नां लेखने स्मारणासमय इति गौडाः पठन्ति ॥४॥

मृगया चोचिता राजन्नस्मिन् काले सुतस्य ते ।
दुर्योधनस्य गमनं समनुज्ञातुमर्हसि॥५॥

धृतराष्ट्र उवाच। मृगया शोभना तात गवां हि समवेक्षणम् ।
विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे॥५॥

ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् ।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्॥७॥

तदेवाह ते त्विति ॥७॥

छद्मना निर्जितास्ते तु कार्शिताश्च महावने ।
तपोनित्याश्च राधेय समर्थाश्च महारथाः॥८॥

धर्मराजो न सङ्क्रुद्ध्येद्भीमसेनस्त्वमर्पणः ।
यज्ञसेनस्य दुहिता तेज एव तु केवलम्॥९॥

तेजोऽग्निरेव ॥९॥

यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः ।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः॥१०॥

अथवा सायुधा वीरा मन्युनाऽभिपरिप्लुताः ।
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा॥११॥

अथ यूयं बहुत्वात्तानभियात कथञ्चन ।
अनार्यं परमं तत् स्यादशक्यं तच्च वै मतम्॥१२॥

उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः ।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्॥१३॥

अशक्यत्वमेवाह उपितो हीति ॥१३॥

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः॥१४॥

अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति॥१५॥

उद्विग्नवास इति वनवासेनोद्विग्नेषु पाण्डवेषु विश्रम्भात् सत्यव्रता एते नास्मान् बाधिष्यन्त इति विश्वासाद्यो भवतां वासः स दुःखं दुःखदो भविष्यति । पूर्वापकृते विश्वासो न कर्तव्य इत्यर्थः ॥१५॥

अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरम् ।
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः॥१६॥

पक्षान्तरमाह अथवेति ॥१६॥

तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः ।
न स्वयं तत्र गमनं रोचये तव भारत॥१७॥

शकुनिरुवाच ।
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।
तेन द्वादश वर्षाणि वस्तव्यानीति भारत॥१८॥

द्वयमपि दूषयति धर्मज्ञ इत्यादिना ॥१८॥

अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः ।
युधिंष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति॥१९॥

मृगयां चैव नो गन्तुमिच्छा संवर्तते भृशम् ।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्शनम्॥२०॥

न चानार्यसमाचारः कश्चित् तत्र भविष्यति ।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः॥२१॥

वैशम्पायन उवाच। एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः॥२२॥

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः॥२३॥

दुःशासनेन च तथा सौबलेन च धीमता ।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः॥२४॥

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।
पौराश्चानुययुः सर्वे सहदारा वनं च तत्॥२५॥

अष्टौ रथसहस्त्राणि त्रीणि नागायुतानि च ।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः॥२६॥

शकटापणवेशाश्च वणिजो बन्दिनस्तथा ।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः॥२७॥

शकटाः भारवाहान्यनांसि । आपणाः पण्यानि । वेशो वेश्याजनाश्रयः ॥२७॥

ततः प्रयाणे नृपतेः सुमहानभवत् स्वनः ।
प्रावृषीव महावायोरुद्धतस्य विशाम्पते॥२८॥

गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा ।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः॥२९॥

गव्यूतिः क्रोशद्वयम् ॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रस्थाने ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः॥२३९॥
चत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। अथ दुर्योधनो राजा तत्र तत्र वने वसन् ।
जगाम घोषानभितस्तत्र चक्रे निवेशनम्॥१॥

अथेति । चक्रे कृतवान् ॥१॥

रमणीये समाज्ञाते सोदके समहीरुहे ।
देशे सर्वगुणोपेते चक्रुरावसथान्नराः॥२॥

तथैव तत्समीपस्थान् पृथगावसथान् बहुन् ।
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः॥३॥

ददर्श स तदा गावः शतशोऽथ सहस्रशः ।
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः॥४॥

अङ्कैः चिह्नैः लक्षैः सङ्ख्यानैः ‘लक्षा न पुंसि संख्यायाम्’ इति मेदिनी ॥४॥

अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि ।
बालवत्साश्च या गावः कालयामास ता अपि॥५॥

जज्ञे ज्ञातवान् । उपसृतान् दमनार्हान् वत्सतरान् समीपागतान् वा काल्यामास संख्यातवान् ॥५॥

अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् ।
वृतो गोपालकैः प्रीतो व्याहरत् कुरुनन्दनः॥६॥

त्रिहायनांस्त्रिवर्षान् वृषान् व्याहरत् विजहार ॥६॥

स च पौरजनः सर्वः सैनिकाश्च सहस्रशः ।
यथोपजोषं चिक्रीडुर्वने तस्मिन् यथाऽमराः॥७॥

यथोपजोषं यथारुचि ॥७॥

ततो गोपाः प्रगातारः कुशला नृत्यवादने ।
धार्तराष्ट्रमुपातिष्ठन् कन्याश्चैव स्वलङ्कृताः॥८॥

स स्त्रीगणावृतो राजा प्रहृष्टः प्रददौ वसु ।
तेभ्यो यथार्हमन्नानि पानानि विविधानि च॥९॥

ततस्ते सहिताः सर्वे तरक्षून् महिषान् मृगान् ।
गवयर्क्षवराहांश्च समन्तात् पर्यकालयन्॥१०॥

स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून् वने ।
रमणीयेषु देशेषु ग्राहयामास वै मृगान्॥११॥

गोरसानुपयुञ्जान उपभोगांश्च भारत ।
पश्यन् स रमणीयानि वनान्युपवनानि च॥१२॥

मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च ।
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः॥१३॥

मत्तभ्रमरसञ्जुष्टं नीलकण्ठरवाकुलम् ।
सप्तच्छदसमाकीर्णं पुन्नागबकुलैर्युतम्॥१४॥

ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ।
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः॥१५॥

ईजे राजर्षियज्ञेन साद्यस्केन विशाम्पते ।
दिव्येन विधिना चैव वन्येन कुरुसत्तम॥१६॥

साद्यस्केन एकाहसाध्येन ॥१६॥

कृत्वा निवेशमभितः सरसस्तस्य कौरव ।
द्रौपद्या सहितो धीमान् धर्मपत्न्या नराधिपः॥१७॥

ततो दुर्योधनः प्रेष्यानादिदेश सहस्रशः ।
आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥१८॥

ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः ।
चिकीर्षन्तस्तदाऽऽक्रीडान् जग्मुर्द्वैतवनं सरः॥१९॥

प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ।
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः॥२०॥

तत्र गन्धर्वराजो वै पूर्वमेव विशाम्पते ।
कुबेरभवनाद्राजन्नाजगाम गणावृतः॥२१॥

गणैरप्सरसां चैव त्रिदशानां तथात्मजैः ।
विहारशीलः क्रीडार्थं तेन तत् संवृतं सरः॥२२॥

आत्मजैर्जयन्तादिभिः । सहेति शेषः ॥२२॥

तेन तत् संवृतं दृष्ट्वा ते राजपरिचारकाः ।
प्रतिजग्मुस्ततो राजन् यत्र दुर्योधनो नृपः॥२३॥

स तु तेषां वचः श्रुत्वा सैनिकान् युद्धदुर्मदान् ।
प्रेषयामास कौरव्य उत्सारयत तानिति॥२४॥

तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः ।
सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन्॥२५॥

राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली ।
विजिहीषुरिहायाति तदर्थमुपसर्पत॥२६॥

विजिहीर्षुर्विहर्तुमिच्छुः । उपसर्पत तत्समीपं गच्छत ॥२६॥

एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशाम्पते ।
प्रत्यब्रुवंस्तान् पुरुषानिदं हि परुषं वचः॥२७॥

न चेतयति वो राजा मन्दबुद्धिः सुयोधनः ।
योऽस्मानाज्ञापयत्येवं वैश्यानिव दिवौकसः॥२८॥

यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः ।
ये तस्य वचनादेवमस्मान् ब्रूत विचेतसः॥२९॥

गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः ।
न चेदचैव गच्छध्वं धर्मराजनिवेशनम्॥३०॥

एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः ।
सम्प्राद्रवन् यतो राजा धृतराष्ट्रसुतोऽभवत्॥३१॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि गन्धर्वदुर्योधनसेनासंवादे चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४०॥
एकचत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् ।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति॥१॥

ततस्ते सहिता इति ॥१॥

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत॥२॥

शासतैनानधर्मज्ञान् मम विप्रियकारिणः ।
यदि प्रक्रीडते सर्वैर्देवैः सह शतक्रतुः॥३॥

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः॥४॥

ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात् ।
सिंहनादेन महता पूरयन्तो दिशो दश॥५॥

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप॥६॥

ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ।
यदा वाचा न तिष्ठन्ति धार्तराष्ट्रः सराजकाः॥७॥

ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ।
गन्धर्वराजस्तान् सर्वानब्रवीत् कौरवान् प्रति॥८॥

अनार्यान् शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ।
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत॥९॥

प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ।
तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वानुद्यतायुधान्॥१०॥

प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ।
तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्॥११॥

राधेयस्तु तदा वीरो नासीत् तत्र पराङ्मुखः ।
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्॥१२॥

महता शरवर्षेण राधेयः प्रत्यवारयत् ।
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः॥१३॥

गन्धर्वान् शतशोऽभिघ्नंल्लघुत्वात् सूतनन्दनः ।
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः॥१४॥

क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम् ।
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता॥१५॥

भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ।
गन्धर्वभूता पृथिवी क्षणेन समपद्यत॥१६॥

आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ।
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः॥१७॥

दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ।
न्यहनंस्तत् तदा सैन्यं रथैर्गरुडनिःस्वनैः॥१८॥

भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः ।
महता रथसङ्गेन रथचारेण चाप्युत॥१९॥

वैकर्तनं परीप्सन्तो गन्धर्वान् समवाकिरन् ।
ततः सन्न्यपतन् सर्वे गन्धर्वाः कौरवैः सह॥२०॥

तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
ततस्ते मृदवोऽभूवन् गन्धर्वाः शरपीडिताः॥२१॥

उच्चुक्रुशुश्च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान् ।
गन्धर्वांस्त्रासितान् दृष्ट्वा चित्रसेनो ह्यमर्पणः॥२२॥

उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः ।
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् ।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया॥२३॥

एकैकस्य तदा योधा धार्तराष्ट्रस्य भारत ।
पर्यवर्तन्त गन्धर्वैर्दशभिर्दशभिः सह॥२४॥

एकैकस्य योधाः एकैकं योधाः पर्यवर्तन्त परीतवन्तः ॥२४॥

ततः सम्पीड्यमानास्ते बलेन महता तदा ।
प्राद्रवन्त रणे भीता ये च राजन् जिजीषवः॥२५॥

जिजीषवः । अत्रार्षो ‘लोपो व्योर्वलि’ इति लोपः । जिजीविषवः ॥२५॥

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः॥२६॥

राजन् हे जनमेजय ॥२६॥

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
गन्धर्वान् योधयामासुः समरे भृशविक्षताः॥२७॥

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।
जिघांसमानाः सहिताः कर्णमभ्यद्रवन् रणे॥२८॥

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः ।
सूतपुत्रं जिघांसन्तः समन्तात् पर्यवाकिरन्॥२९॥

अन्येऽस्य युगमच्छिन्दन् ध्वजमन्ये न्यपातयन् ।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्॥३०॥

अन्ये छत्रं वरूथं च बन्धुरं च तथाऽपरे ।
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन् रथम्॥३१॥

वरूथं रथगुप्तिम् । बन्धुरं रथबन्धनानि ॥३१॥

ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् ।
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्॥३२॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णपराभवे एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४१॥
द्विचत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः॥१॥

गन्धर्वैरिति ॥१॥

तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् ।
दुर्योधनो महाराजो नासीत् तत्र पराङ्मुखः॥२॥

तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण सोऽभ्यवर्षद्रिन्दमः॥३॥

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।
दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन्॥४॥

युगमीषां वरूथं च तथैव ध्वजसारथी ।
अश्वांस्त्रिवेणुं तल्पं च तिलशो व्यधमञ्छरैः॥५॥

दुर्योधनं चित्रसेनो विरथं पतितं भुवि ।
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्॥६॥

जीवग्राहं जीवन्तमेव गृहीत्वेति णमुलन्तं कषादित्वादग्रहीदित्यनुप्रयोगः ॥६॥

तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः॥७॥

विविंशति चित्रसेनावादायान्ये विदुद्रुवुः ।
विन्दानुविन्दावपरे राजदारांश्च सर्वशः॥८॥

सैन्यं तद्धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुतम् ।
पूर्वं प्रभग्नाः सहिताः पाण्डवानभ्ययुस्तदा॥९॥

शकटा पणवेशाश्च यानयुग्यं च सर्वशः ।
शरणं पाण्डवान् जग्मुर्ह्रियमाणे महीपतौ॥१०॥

सैनिका ऊचुः ।
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः ।
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत॥११॥

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा ।
वध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः॥१२॥

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन्॥१३॥

तांस्तथा व्यथितान् दीनान्भिक्षमाणान्युधिष्ठिरम् ।
वृद्धान् दुर्योधनामात्यान् भीमसेनोऽभ्यभाषत॥१४॥

महता हि प्रयत्नेन सन्नह्य गजवाजिभिः ।
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्॥१५॥

अन्यथा वर्तमानानामर्यो जातोऽयमन्यथा ।
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेधिनः॥१६॥

राज्ञो युधिष्ठिरस्य ॥१६॥

द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ।
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्॥१७॥

क्लीबस्य अशक्तत्वात् ॥१७॥

दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ।
येनास्माकं हृतो भार आसीनानां सुखावहः॥१८॥

शीतवातातपसहांस्तपसा चैव कर्शितान् ।
समस्थो विषमस्थान् हि द्रष्टुमिच्छति दुर्मतिः॥१९॥

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम्॥२०॥

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् ।
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः॥२१॥

एवं ब्रुवाणं कोन्तेयं भीमसेनमपस्वरम् ।
न कालः परुषस्यायमिति राजाऽभ्यभाषत॥२२॥

अपस्वरं क्रोधेन विकलवर्णं यथा स्यात् तथा ब्रुवाणम् ॥२२॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनादिहरणे द्विचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४२॥
त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः

युधिष्ठिर उवाच। अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः ।
कौरवान् विषमप्राप्तान् कथं ब्रूयास्त्वमीदृशम्॥१॥

अस्मानिति ॥१॥

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर ।
प्रसक्तानि च वैराणि कुलधर्मो न नश्यति॥२॥

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।
न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रधर्षणम्॥३॥

जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान् ।
स एवं परिभूयास्मानकार्षीदिदमप्रियम्॥४॥

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलात् प्रभो ।
स्त्रीणां वाह्याभिमर्शाच्च हतं भवति नः कुलम्॥५॥

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च ।
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम्॥६॥

अर्जुनश्च यमौ चैव त्वं च वीरापराजितः ।
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्॥७॥

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः ।
धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः॥८॥

सस्वनानधिरोहध्वं नित्यसज्जानिमान् रथान् ।
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्॥९॥

एतानास्थाय वै यत्ता गन्धर्वान् योद्धुमाहवे ।
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः॥१०॥

य एव कश्चिद्राजन्यः शरणार्थमिहागतम् ।
परं शक्त्याऽभिरक्षेत किम्पुनस्त्वं वृकोदर॥११॥

क इहार्यो भवेत् त्राणमभिधावेति चोदितः ।
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्॥१२॥

अभिधाव याहीति चोदित आर्यः त्राणं रक्षकः शरणागतस्य कः भवेत् । य आर्यो महान् स एव भवेत् । शरणागतरक्षणसमर्थो दुर्लभ इति भावः ॥१२॥

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः ।
शत्रोश्च मोक्षणं क्लेशान्त्रीणि चैकं च तत्समम्॥१३॥

किं चाप्यधिकमेतस्माद्यदापन्नः सुयोधनः ।
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते॥१४॥

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर ।
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा॥१५॥

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् ।
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन॥१६॥

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ ।
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्॥१७॥

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् ।
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः॥१८॥

एतावद्धि मया शक्यं सन्देष्टुं वै वृकोदर ।
वैताने कर्मणि तते वर्तमाने च भारत॥१९॥

वैशम्पायन उवाच। अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः ।
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्॥२०॥

अर्जुन उवाच। यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् ।
अद्य गन्धर्वराजस्य भूमिः पास्यति शोर्णितम्॥२१॥

अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः ।
कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनमोचनानुज्ञायां त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४३॥
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः ।
प्रहृष्टवदनाः सर्वे समुतस्थुर्नरर्षभाः॥१॥

युधिष्ठिरेति ॥१॥

अभेद्यानि ततः सर्वे समनह्यन्त भारत ।
जाम्बूनदविचित्राणि कवचानि महारथाः॥२॥

आयुधानि च दिव्यानि विविधानि समादधुः ।
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः॥३॥

दंशिताः सन्नद्धाः ॥३॥

पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ।
तान् रथान् साधु सम्पन्नान् संयुक्तान् जवनैर्हयैः॥४॥

आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ।
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः॥५॥

प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान् ।
जितकाशिनश्च खचरास्त्वरिताश्च महारथाः॥६॥

क्षणेनैव वने तस्मिन् समाजग्मुरभीतवत् ।
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः॥७॥

दृष्ट्वा रथगतान् वीरान् पाण्डवांश्चतुरो रणे ।
तांस्तु विभ्राजितान् दृष्ट्वा लोकपालानिवोद्यतान्॥८॥

व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ।
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः॥९॥

क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ।
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः॥१०॥

शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ।
ततस्तान् युधि दुर्धर्षान् सव्यसाची परन्तपः॥११॥

श्रेयः कल्याणं प्रतिपादयितुम् ॥११॥

सान्त्वपूर्वमिदं वाक्यमुवाच खचरान् रणे ।
विसर्जयत राजानं भ्रातरं मे सुयोधनम्॥१२॥

त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना ।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्॥१३॥

एकस्यैव वयं तात कुर्याम वचनं भुवि ।
यस्य शासनमाज्ञाय चरामो विगतज्वराः॥१४॥

तेनैकेन यथादिष्टं तथा वर्ताम भारत ।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात् सुरेश्वरात्॥१५॥

एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनञ्जयः ।
गन्धर्वान् पुनरेवेदं वचनं प्रत्यभाषत॥१६॥

न तद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् ।
परदाराभिमर्षश्च मानुषैश्च समागमः॥१७॥

उत्सृज्यध्वं महावीर्यान् धृतराष्ट्र सुतानिमान् ।
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्॥१८॥

यदा साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान् ।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्॥१९॥

एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः ।
ससर्ज निशितान् बाणान् खचरान् खचरान् प्रति॥२०॥

खचरान् गगनगमनान् । खचरान् गन्धर्वान् ॥२०॥

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः ।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः॥२१॥

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् ।
बभूव भीमवेगानां पाण्डवानां च भारत॥२२॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि पाण्डवगन्धर्वयुद्धे चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४४॥
पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान् दीप्तान् समन्तात् पर्यवारयन्॥१॥

तत इति ॥१॥

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।
रणे सन्न्यपतन् राजंस्तदद्भुतमिवाभवत्॥२॥

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।
गन्धर्वैः शतशच्छिन्नौ तथा तेषां प्रचक्रिरे॥३॥

तथा तेषां चतुर्णामपि रथान् छन्नान् प्रचक्रिरे गन्धर्वाः ॥३॥

तान् समापततो राजन् गन्धर्वाञ्छतशो रणे ।
प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैरनेकशः॥४॥

ते कीर्यमाणाः स्वगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्॥५॥

अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे॥६॥

सहस्राणां सहस्राणि प्राहिणोद्यमसादनम् ।
आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः॥७॥

तथा भीमो महेष्वासः संयुगे बलिनां वरः ।
गन्धर्वान् शतशो राजन् जघान निशितैः शरैः॥८॥

माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ ।
परिगृह्याग्रतो राजन् जघ्नतुः शतशः परान्॥९॥

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः ।
उत्पेतुः स्वमुपादाय धृतराष्ट्रसुतांस्ततः॥१०॥

स तानुत्पतितान् दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
महता शरजालेन समन्तात् पर्यवारयत्॥११॥

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्युष्टिवृष्टिभिः॥१२॥

गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः॥१३॥

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम्॥१४॥

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्॥१५॥

तेषां तु शरवर्षाणि सव्यसाची परन्तपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत॥१६॥

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः॥१७॥

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन् परम्॥१८॥

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना॥१९॥

गन्धर्वांस्त्रासितान् दृष्ट्वा कुन्तीपुत्रेण भारत ।
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्॥२०॥

गृह्य गृहीत्वा ॥२०॥

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा॥२१॥

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम्॥२२॥

संवृत्य आच्छाद्य विद्यया अदर्शनशक्त्या ॥२२॥

अस्त्राणि तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः ।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः॥२३॥

स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना ।
गन्धर्वराजो बलवान् माययाऽन्तर्हितस्तदा॥२४॥

अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः॥२५॥

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेधं समाश्रित्य बहुरूपो धनञ्जयः॥२६॥

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा॥२७॥

चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् ।
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्॥२८॥

सञ्जहारास्त्रमथ तत् प्रसृष्टं पाण्डवर्षभः ।
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम्॥२९॥

सञ्जह्रुः प्रद्रुतानश्वान् शरवेगान् धनूंषि च ।
चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि गन्धर्वपराभवे पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४५॥
षट्चत्वारिंशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् ।
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः॥१॥

ततोऽर्जुन इति ॥१॥

किं ते व्यवसितं वीर कौरवाणां विनिग्रहे ।
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः॥२॥

चित्रसेन उवाच। विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः ।
दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय॥३॥

तत्रस्थेन मयेति शेषः ॥३॥

वनस्थान् भवतो ज्ञात्वा क्लिश्यमानाननाथवत् ।
समस्थो विषमस्थांस्तान् द्रक्ष्यामीत्यनवस्थितान्॥४॥

इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ।
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः॥५॥

गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय ।
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे॥६॥

स च प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डव ।
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम्॥७॥

अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ।
नेष्याम्येनं दुरात्मानं पाकशासनशासनात्॥८॥

अर्जुन उवाच। उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः ।
धर्मराजस्य सन्देशान्मम चेदिच्छसि प्रियम्॥९॥

चित्रसेन उवाच। पापोऽयं नित्यसन्तुष्टो न विमोक्षणमर्हति ।
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय॥१०॥

नित्यं सन्तुष्टो मत्त इत्यर्थः। सन्तुष्टत्वाद्दम्य इति। ‘हृष्टो दृष्यति दृप्तो धर्ममातिक्रामति’ इत्यापस्तम्बवचनात्। प्रलब्धा वञ्चकः ॥१०॥

नेदं चिकीर्षितं तस्य कुन्तीपुत्रो युधिष्ठिरः ।
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि॥११॥

इदं मदुक्तम् । समस्थो विषमस्थांस्तान् द्रक्ष्यामीति ॥११॥

वैशम्पायन उवाच। ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् ।
अभिगम्य च तत् सर्वं शशंसुस्तस्य चेष्टितम्॥१२॥

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।
मोक्षयामास तान् सर्वान् गन्धर्वान् प्रशशंस च॥१३॥

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः॥१४॥

उपकारो महांस्तात कृतोऽयं मम खेचरैः ।
कुलं न परिभूतं मे मोक्षणेऽस्य दुरात्मनः॥१५॥

आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः ।
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम्॥१६॥

इष्टानि वस्त्रालङ्कारादीनि आज्ञापयध्वं भवदर्थं नान्यो नेष्यतीति ॥१६॥

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः॥१७॥

देवराडपि गन्धर्वान् मृतांस्तान् समजीवयत् ।
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि॥१८॥

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः॥१९॥

सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः ।
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः॥२०॥

ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा ।
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत्॥२१॥

मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।
न हि साहसकर्तारः सुखमेधन्ति भारत॥२२॥

सुखं सुखेन एधन्ति एधन्ते वर्धन्ते॥२२॥

स्वस्तिमान् सहितः सर्वैर्भातृभिः कुरुनन्दन ।
गृहान् व्रज मथाकामं वैमनस्यं च मा कृथाः॥२३॥

वैमनस्यं वैरं केनचित् सह मा कृथाः । मा कुरु ॥२३॥

वैशम्पायन उवाच। पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा ।
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः॥२४॥

विदीर्यमाणो व्रीडावान् जगाम नगरं प्रति ।
तस्मिन् गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः॥२५॥

भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ।
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः॥२६॥

तथा द्वैतवने तस्मिन् विजहार मुदा युतः॥२७॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनमोक्षणे षट्चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४६॥
सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः

जनमेजय उवाच। शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः ।
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः॥१॥

शत्रुभिरिति॥१॥

कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः ।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः॥२॥

कत्थनस्य - आत्मस्तुतिपरस्य । अवलिप्तस्य पापाशयस्य । गर्वितस्य - अत्यवमानिनः । अत एव पाण्डवानवमन्यतः॥२॥

दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः ।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे॥३॥

अहङ्कारं गर्वं वदतीति तथा ॥३॥

तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः ।
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय॥४॥

वैशम्पायन उवाच। धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः ।
लज्जयाऽधोमुखः सीदन्नुपासर्पत् सुदुःखितः॥५॥

स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः ।
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम्॥६॥

विमुच्य पथि यानानि देशे सुयवसोदके ।
सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्॥७॥

हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ।
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे॥८॥

उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये ।
उपागम्याब्रवीत् कर्णो दुर्योधनमिदं तदा॥९॥

दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः ।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः॥१०॥

दिष्ट्या समग्रान् पश्यामि भ्रातॄंस्ते कुरुनन्दन ।
विजिगीषून् रणे युक्तान् निर्जितारीन् महारथान्॥११॥

अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव ।
नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम्॥१२॥

शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ।
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत॥१३॥

अरिष्टानक्षतांश्चापि सदारबलवाहनान् ।
विमुक्तान् सम्प्रपश्यामि युद्धात् तस्मादमानुषात्॥१४॥

नैतस्य कर्ता लोकेऽस्मिन् पुमान् विद्यति भारत ।
यत् कृतं ते महाराज सह भ्रातृभिराहवे॥१५॥

वैशम्पायन उवाच। एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
उवाच चाङ्गराजानं बाष्पगद्गदया गिरा॥१६॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदुर्योधनसंवादे सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४७॥
अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः

दुर्योधन उवाच। अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।
जानासि त्वं जितान् शत्रून् गन्धर्वांस्तेजसा मया॥१॥

अजानतस्ते इति । नाभ्यसूयामि दोषवदिति न मन्ये ॥१॥

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।
मया सह महाबाहो कृतश्चोभयतः क्षयः॥२॥

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।
तदा नो न समं युद्धमभवत् खेचरैः सह॥३॥

पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च ।
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः॥४॥

उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ।
अथ नः सैनिकाः केचिदमात्याश्च महारथाः॥५॥

उपगम्याब्रुवन् दीनाः पाण्डवांश्च रणप्रदान् ।
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः॥६॥

सामात्यदारो ह्रियते गन्धर्वैदिवमाश्रितैः ।
तं मोक्षयत भद्रं वः सहदारं नराधिपम्॥७॥

परामर्शो मा भविष्यत् कुरुदारेषु सर्वशः ।
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा॥८॥

प्रसाद्य पाण्डवान् सर्वानाज्ञापयत मोक्षणे ।
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः॥९॥

सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ।
यदा चास्मान् न मुमुचुर्गन्धर्वाः सान्त्विता अपि॥१०॥

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।
मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः॥११॥

अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम् ।
अस्मानेवाभिकर्षन्तो दीनान् मुदितमानसाः॥१२॥

ततः समन्तात् पश्यामः शरजालेन वेष्टितम् ।
अमानुषाणि चास्त्राणि प्रमुञ्चन्तं धनञ्जयम्॥१३॥

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।
धनञ्जयसखाऽऽत्मानं दर्शयामास वै तदा॥१४॥

चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम् ।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्॥१५॥

ते समेत्य तथाऽन्योन्यं सन्नाहान् विप्रमुच्य च ।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ।
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ॥१६॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनवाक्ये अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४८॥
ऊनपञ्चाशदधिकद्विशततमोऽध्यायः

दुर्योधन उवाच। चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।
इदं वचनमक्लीबमब्रवीत् परवीरहा॥१॥

चित्रसेनमिति ॥१॥

भ्रातॄनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम ।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु॥२॥

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।
उवाच यत् कर्ण वयं मन्त्रयन्तो विनिर्गताः॥३॥

द्रष्टारः स्म सुखाद्धीनान् सदारान् पाण्डवानिति ।
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा॥४॥

भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ।
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः॥५॥

अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ।
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः॥६॥

युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ।
ये मे निराकृता नित्यं रिपुर्येषामहं सदा॥७॥

तैर्मोक्षितोऽहं दुर्बुद्धिर्दन्तं तैरेव जीवितम् ।
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन् महारणे॥८॥

श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम् ।
अभूद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्॥९॥

एवम्भूतस्य जीवितं न श्रेयः इति सम्बन्धः । अभूत् अभविष्यत् ॥९॥

प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ।
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः॥१०॥

इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति॥११॥

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति॥१२॥

नह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः ।
शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा॥१३॥

स सुहृच्छोकदो जातः शत्रूणां हर्षवर्धनः ।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्॥१४॥

भीष्मद्रोणौ कृपद्रौणी विदुरः सञ्जयस्तथा ।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः॥१५॥

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।
किं मां वक्ष्यन्ति किञ्चापि प्रतिवक्ष्यामि तानहम्॥१६॥

श्रेणिमुख्याः शिल्पिसङ्घातमुख्याः प्रकृतय इत्यर्थः ॥१६॥

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।
आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तानहम्॥१७॥

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः॥१८॥

अहो नार्हमिदं कर्म कष्टं दुश्चरितं कृतम् ।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्॥१९॥

तस्मात् प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् ।
चेतयानो हि को जीवेत् कृच्छ्राच्छत्रुभिरुद्धृतः॥२०॥

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः॥२१॥

वैशम्पायन उवाच। एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।
दुःशासन निबोधेदं वचनं मम भारत॥२२॥

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्॥२३॥

भ्रातॄन् पालय विस्रब्धं मरुतो वृत्रहा यथा ।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम्॥२४॥

विस्रब्धं सविश्वासं यथा स्यात् तथा ॥२४॥

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा॥२५॥

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान् यथा ।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्॥२६॥

नन्दयन् सुहृदः सर्वान् शात्रवांश्चावभर्त्सयन् ।
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह॥२७॥

तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् ।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च॥२८॥

सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ।
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा॥२९॥

दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ।
उक्तवांश्च नख्याघ्रो नैतदेवं भविष्यति॥३०॥

विदीर्येत् सकला भूमिर्द्यौश्चापि शकली भवेत् ।
रविरात्मप्रभां जह्यात् सोमः शीतांशुतां त्यजेत्॥३१॥

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् ।
शुष्येत् तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्॥३२॥

न चाहं त्वदृते राजन् प्रशासेयं वसुन्धराम् ।
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह॥३३॥

त्वमेव नः कुले राजा भविष्यसि शतं समाः ।
एवमुक्त्वा स राजानं सुस्वरं प्ररुरोद ह॥३४॥

पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ।
तथा तौ दुःखिती दृष्ट्वा दुःशासनसुयोधनौ॥३५॥

अधिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ।
विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताविव॥३६॥

न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ।
यदा च शोचतः शोको व्यसनं नापकर्षति॥३७॥

यदा चेति । यदि शोकेन व्यसनं नश्येत् तर्हि स कर्तव्यः न तु तत् तथाऽस्ति । अतः शोको न कर्तव्य इत्यर्थः ॥३७॥

सामर्थ्य किं ततः शोके शोचमानौ प्रपश्यथः ।
धृतिं गृह्णीतं मा शत्रून् शोचन्तौ नन्दयिष्यथः॥३८॥

कर्तव्यं हि कृतं राजन् पाण्डवैस्तव मोक्षणम् ।
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः॥३९॥

पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ।
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा॥४०॥

विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ।
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्॥४१॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे ऊनपञ्चाशदधिकद्विशततमोऽध्यायः॥२४९॥
पञ्चाशदधिकद्विशततमोऽध्यायः

कर्ण उवाच। राजन्नाद्यावगच्छामि तवेह लघुसत्त्वताम् ।
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि॥१॥

राजन्निति। स्पष्टार्थोऽध्यायः ॥१॥

सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ।
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः॥२॥

अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ।
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्॥३॥

निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते चैव सैनिकैः ।
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः॥४॥

तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ।
यद्येवं पाण्डवै राजन् भवद्विषयवासिभिः॥५॥

यदृच्छया मोक्षितोऽसि तत्र का परिदेवना ।
न चैतत् साधु यद्राजन् पाण्डवास्त्वां नृपोत्तमम्॥६॥

स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ।
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः॥७॥

भवतस्ते सहाया वै प्रेष्यतां पूर्वमागताः ।
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे॥८॥

सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायमुपाविशन् ।
उत्तिष्ठ राजन् भद्रं ते न चिरं कर्तुमर्हसि॥९॥

अवश्यमेव नृपते राज्ञो विषयवासिभिः ।
प्रियाण्याचरितव्यानि तत्र का परिदेवना॥१०॥

मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि ।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन॥११॥

नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ ।
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि॥१२॥

वैशम्पायन उवाच। एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः॥१३॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे कर्णवाक्ये पञ्चाशदधिकद्विशततमोऽध्यायः॥२५०॥
एकपञ्चाशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।
उवाच सान्त्वयन् राजन् शकुनिः सौबलस्तदा॥१॥

प्रायोपविष्टमिति ॥१॥

शकुनिरुवाच ।
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम्॥२॥

त्वमल्पबुद्ध्याऽद्य नृपते प्राणानुत्स्रष्टुमर्हसि ।
अथवाऽप्यवगच्छामि न वृद्धाः सेवितास्त्वया॥३॥

यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि॥४॥

पात्रं मृत्पात्रम् । आमम् अपक्कम् ॥४॥

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः॥५॥

भीरुम्-आत्मनाशशङ्काकुलम् । क्लीबं सामर्थ्यहीनम्। दीर्घसूत्रं चिरकारिणम्। प्रमादिनमनवहितम्। व्यसनात् द्यूतपानमृगयादिरूपात् । विषयैः व्यादिभिराक्रान्तम् । त्वं तु तेषां मध्ये प्रमादी विषयाक्रान्तश्चेति भावः ॥५॥

सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय॥६॥

पार्थैः कृतं शोभनं शोकमालम्ब्य मा नाशयेति सम्बन्धः ॥६॥

यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।
तत्र शोचसि राजेन्द्र विपरीतमिदं तव॥७॥

प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर ।
प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि॥८॥

आत्मानं शरीरं मा त्यज ॥८॥

क्रियामेतां समाज्ञाय कृतज्ञस्त्वं भविष्यसि ।
सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान्॥९॥

पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ।
वैशम्पायन उवाच। शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च॥१०॥

पादयोः पतितं वीरं विकृतं भ्रातृसौहृदम् ।
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिन्दमम्॥११॥

विकृतं म्लानं भ्रातृसौहृदं भ्रातरि सौहृदं वात्सल्यमस्यास्तीति भ्रातृसौहृदम् ॥११॥

उत्थाप्य सम्परिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ।
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ॥१२॥

निवदं परमं गत्वा राजा दुर्योधनस्तदा ।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत् परम्॥१३॥

निर्वेदं जीविते वैराग्यं नैराश्यं राज्यलाभे इति शेषः ॥१३॥

तच्छ्रुत्वा सुहृदश्चैव समन्युरिदमब्रवीत् ।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया॥१४॥

समन्युः दैन्यवान् । धर्मेण धनेन सौख्येन वा न मम कार्यमिति सम्बन्धः । धर्मधनाभ्यां यत् सौख्यं तेन वा आज्ञया आज्ञाफलेन राज्येनेत्यर्थः ॥१४॥

नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने॥१५॥

मा विहन्यत आत्मानं मा घातयत। मम सङ्कल्पं वा मा नाशयत ॥१५॥

गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ।
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम्॥१६॥

पूज्या भवद्भिरिति शेषः। गुरवो धृतराष्ट्रादयः ॥१६॥

या गतिस्तव राजेन्द्र साऽस्माकमपि भारत ।
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम्॥१७॥

वैशम्पायन उवाच। स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च ।
बहुप्रकारमप्युक्तो निश्चयान्न विचाल्यते॥१८॥

सुहृद्भिः कर्णाद्यैः । अमात्यैः शकुनिप्रभृतिभिः । भ्रातृभिर्दुःशासनादिभिः । स्वजनैः सम्बन्धिभिः ॥१८॥

दर्भास्तरणमास्तीर्य निश्चयात् धृतराष्ट्रजः ।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः॥१९॥

कुशचीराम्बरधरः परं नियममास्थितः ।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया॥२०॥

वाग्यतो मौनी। स्वर्गगतिर्मरणं तत्काम्यया तदिच्छया ॥२०॥

मनसोपचितिं कृत्वा निरस्य च बहिः क्रियाः ।
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः॥२१॥

मनसा उप समीपे चितिं दाहार्थं काष्ठसञ्चयं कृत्वा सङ्कल्प्य अवश्यं मर्तव्यमिति निश्चित्येत्यर्थः । बहिः क्रियाः स्नानपानाद्याः ॥२१॥

पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ।
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै॥२२॥

आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ।
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः॥२३॥

वैतानसम्भवमाग्निविस्तारसाध्यं नवकुण्ड्यादिविधानमाथर्वणिकं न तु त्रयीरूपम् ॥२३॥

अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्॥२४॥

उपनिषदि आरण्यके प्रोक्ताः क्रियाः ‘सर्वं प्रविध्य हृदयं प्रविध्य शिरोभिवृञ्ज धमनीः प्रव्रज’ इत्यादि मन्त्रप्रकाशिताः शत्रुमारणार्था एतन्मन्त्रजपहोमादिरूपाः समवर्तयन् सम्प्रावर्तयन् दैतेयदानवा इति पूर्वेण सम्बन्धः ॥२४॥

जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत् सुसमाहिताः ।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः॥२५॥

कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुताः ।
कृत्या समुत्थिता राजन् किं करोमीति चाब्रवीत्॥२६॥

कृत्या आज्ञाकरी देवता ॥२६॥

आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय॥२७॥

तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।
निमेषादगमच्चापि यत्र राजा सुयोधनः॥२८॥

समादाय च राजानं प्रविवेश रसातलम् ।
दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ।
तमानीतं नृपं दृष्ट्वा रात्रौ सङ्गत्य दानवाः॥२९॥

प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ।
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्॥३०॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनप्रायोपवेशे एकपञ्चाशदधिकद्विशततमोऽध्यायः॥२५१॥
द्विपञ्चाशदधिकद्विशततमोऽध्यायः

दानवा ऊचुः ।
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह ।
शूरैः परिवृतो नित्यं तथैव च महात्मभिः॥१॥

भोः सुयोधनेति ॥१॥

अकार्षीः साहसमिदं कस्मात् प्रायोपवेशनम् ।
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम्॥२॥

न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥३॥

कार्यविरुद्धेषु शत्रुजयविरुद्धेषु पापेषु आत्महत्यादिषु ॥३॥

नियच्छैनां मतिं राजन् धर्मार्थसुखनाशिनीम् ।
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्॥४॥

नियच्छ त्यजेत्यर्थः ॥४॥

श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप ।
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि॥५॥

पुरा त्वं तपसाऽस्माभिर्लब्धो राजन् महेश्वरात् ।
पूर्वकायश्च पूर्वस्ते निर्मितो वज्रसञ्चयैः॥६॥

पूर्वकायः नाभेरुपरि ॥६॥

अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ ।
कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः॥७॥

एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम ।
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः॥८॥

क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः ।
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्॥९॥

तदलं ते विषादेन भयं तव न विद्यते ।
सहायार्थं च ते वीराः सम्भूता भुवि दानवाः॥१०॥

भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः ।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः॥११॥

असुरा इति छेदः घृणां कृपाम् ॥११॥

नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् ।
नैव शिष्यान्न च ज्ञातीन्न बालान् स्थविरान्न च॥१२॥

युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ।
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि॥१३॥

अन्तरात्मनि चित्ते समाक्रान्ते दानवैरेव ॥१३॥

प्रहरिष्यन्ति विवशाः स्नेहमुत्सृज्य दूरतः ।
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ।
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात्॥१४॥

अविज्ञानं कार्याकार्यविज्ञानाभावस्तेन मूढाः । दैवाददृष्टात् विधिनिर्मितात् पूर्वकर्मकृतात् ॥१४॥

व्याभाषमाणाश्चान्योन्यं न मे जीवन् विमोक्ष्यसे ।
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः॥१५॥

व्याभाषमाणाः विरुद्धमाभाषन्तः ॥१५॥

श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ।
तेऽपि पञ्च महात्मानः प्रतियोत्स्यन्ति पाण्डवाः॥१६॥

वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ।
दैत्यरक्षोगणाश्चैव सम्भूताः क्षत्रयोनिषु॥१७॥

योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ।
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा॥१८॥

यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् ।
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै॥१९॥

हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः ।
तद्वेरं संस्मरन् वीर योत्स्यते केशवार्जुनौ॥२०॥

स ते विक्रमशोटीरो रणे पार्थं विजेष्यति ।
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन् महारथः॥२१॥

विक्रमे शत्रुजये शौटीरः समर्थः ॥२१॥

ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः ।
कुण्डले कवचं चैव कर्णस्यापहरिष्यति॥२२॥

तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः ।
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति॥२३॥

प्रख्यातास्तेऽर्जुनं वीरं हनिष्यन्ति च मा शुचः ।
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप॥२४॥

मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते ।
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव॥२५॥

गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन ।
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः॥२६॥

ते त्वया अन्या मरणार्था वैरशान्त्यर्था वा बुद्धिर्न कार्या ॥२६॥

वैशम्पायन उवाच। एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् ।
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः॥२७॥

स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत ।
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ॥२८॥

जयमाप्नुहि चेत्युक्तमिति शेषः । अथ तैर्विसृष्टमिति सम्बन्धः ॥२८॥

तौर्वसृष्टं महाबाहुं कृत्या सैवानयत् पुनः ।
तमेव देशं यत्रासौ तदा प्रायमुपाविशत्॥२९॥

प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च ।
अनुज्ञाता च राज्ञा सा तथैवान्तरधीयत॥३०॥

गतायामथ तस्यां तु राजा दुर्योधनस्तदा ।
स्वप्नभूतमिदं सर्वमचिन्तयत भारत॥३१॥

विजेष्यामि रणे पाण्डूनिति चास्याऽभवन्मतिः ।
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः॥३२॥

अमन्यत वधे युक्तान् समर्थांश्च सुयोधनः ।
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुमतेः॥३३॥

विनिर्जये पाण्डवानामभवद्भरतर्षभ ।
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना॥३४॥

अन्तरात्मना मनसा ॥३४॥

अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम् ।
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः॥३५॥

रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः ।
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः॥३६॥

न तथा पाण्डुपुत्राणां स्नेहवन्तो विशाम्पते ।
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः॥३७॥

पाण्डुपुत्राणामुपरीति शेषः ॥३७॥

दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् ।
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः॥३८॥

न मृतो जयते शत्रून् जीवन् भद्राणि पश्यति ।
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः॥३९॥

न कालोऽद्य विषादस्य भयस्य मरणस्य वा ।
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः॥४०॥

उत्तिष्ठ राजन् किं शेषे कस्माच्छोचसि शत्रुहन् ।
शत्रून् प्रताप्य वीर्येण स कथं मृत्युमिच्छसि॥४१॥

अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम् ।
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्॥४२॥

गते त्रयोदशे वर्षे सत्येनायुधमालभे ।
आनयिष्याम्यहं पार्थान् वशं तव जनाधिप॥४३॥

एवमुक्तस्तु कर्णेन दैत्यानां वचनात् तथा ।
प्रणिपातेन चाप्येषामुदतिष्ठत् सुयोधनः॥४४॥

एषां दुःशासनादीनाम् ॥४४॥

दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ।
ततो मनुजशार्दूलो योजयामास वाहिनीम्॥४५॥

रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ।
गङ्गौघप्रतिमा राजन् सा प्रयाता महाचमूः॥४६॥

श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ।
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला॥४७॥

पदातैः पदातिभिः सा चमूर्द्यौरिव शुशुभे इति द्वयोः सम्बन्धः ॥४७॥

व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ।
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्॥४८॥

व्यपेतः अभ्रघनः मेघविस्तारो यस्मिन् ‘धनं स्यात् इत्युपक्रम्य’ विस्तारे लोहमुद्गरे' इति मेदिनी । शरदीत्यर्थः । अव्यक्ता ईषद्व्यक्ता शारदी शरज्जातपुण्डरीककाशकुसुमाद्याकारच्छत्रचामरादिरूपा शोभा यस्यां साऽव्यक्तशारदी । अधिराजा सार्वभौमो युधिष्ठिरस्तद्वत् ॥४८॥

गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ।
सुयोधनो ययावग्रे श्रिया परमया ज्वलन्॥४९॥

गृह्णन् दृक्प्रसारादिना अनुगृह्णन् । अञ्जलिमालाः नमस्काराञ्जलिपङ्क्तीः । बद्धाञ्जलीनित्यर्थः ॥४९॥

कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ।
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते॥५०॥

देविना द्यूतरतेन ॥५०॥

भूरिश्रवाः सोमदत्तो महाराजश्च बाल्हिकः ।
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा॥५१॥

प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ।
कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा॥५२॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनपुरप्रवेशे द्विपञ्चाशदधिकद्विशततमोऽध्यायः॥२५२॥
त्रिपञ्चाशदधिकद्विशततमोऽध्यायः

जनमेजय उवाच। वसमानेषु पार्थेषु वने तस्मिन् महात्मसु ।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः॥१॥

वसमानेष्विति ॥१॥

कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः ।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि॥२॥

वैशम्पायन उवाच। एवं गतेषु पार्थेषु विसृष्टे च सुयोधने ।
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः॥३॥

भीष्मोऽब्रवीत् महाराज धार्तराष्ट्रमिदं वचः ।
उक्तं तात यथा पूर्वं गच्छतस्ते तपोवनम्॥४॥

गमनं मे न रुचितं तव तत्र कृतं च ते ।
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्॥५॥

तव गमनं न रुचितं नानुमोदितम् । मे मया ते त्वया च तन्न कृतम् ॥५॥

मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ।
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशांपते॥६॥

सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ।
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज॥७॥

अपयात् अपायात् पलायितः ॥७॥

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् ।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः॥८॥

न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम ।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल॥९॥

तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः ।
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये॥१०॥

सन्धिक्षमं युक्तं मन्ये ॥१०॥

एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः ।
प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः॥११॥

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः ।
अनुजग्मुर्महेष्वासा धार्तराष्ट्र महाबलम्॥१२॥

तांस्तु सम्प्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः ।
लज्जया ब्रीडितो राजन् जगाम स्वं निवेशनम्॥१३॥

गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः ।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः॥१४॥

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते ।
कथं च सुकृतं तत् स्यान्मन्त्रयामोऽद्य यद्धितम्॥१५॥

कर्ण उवाच। दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव ।
भीष्मोऽस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति॥१७॥

ममापि मामपि ॥१७॥

त्वद्द्वेषाच्च महाबाहो ममापि द्वेष्टुमर्हति ।
विगर्हते च मां नित्त्यं त्वत्समीपे नरेश्वर॥१७॥

ममापि मामपि ॥१७॥

साऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत ।
त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्षण॥१८॥

पाण्डवानां यशो राजंस्तव निन्दां च भारत ।
अनुजानीहि मां राजन् सभृत्यबलवाहनम्॥१९॥

जेष्यामि पृथिवीं राजन् सशैलवनकाननाम् ।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः॥२०॥

तामहं ते विजेष्यामि एक एव न संशयः ।
सम्पश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः॥२१॥

अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति ।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु॥२२॥

अनुजानीहि मां राजन् ध्रुवो हि विजयस्तव ।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे॥२३॥

तच्छ्रुत्वा तु वचो राजन् कर्णस्य भरतर्षभ ।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः॥२४॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वं महाबलः ।
हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे॥२५॥

यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् ।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति॥२६॥

एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता ।
सर्वमाज्ञापयामास प्रायात्रिकमरिन्दम॥२७॥

प्रायात्रिकं प्रयातुं राज्ञोऽपेक्षितं शकटापणवीथ्यादि ॥२७॥

प्रययौ च महेष्वासो नक्षत्रे शुभदैवते ।
शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः॥२८॥

मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः ।
नादयन् रथघोषेण त्रैलोक्यं सचराचरम्॥२९॥

मङ्गलैर्मङ्गलद्रव्यैः सुगन्धतैलादिभिः स्नातः शुभैर्नीराजनादिभिः प्रययौ इति सम्बन्धः ॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदिग्विजये त्रिपञ्चाशदधिकद्विशततमोऽध्यायः॥२५३॥
चतुष्पञ्चाशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। ततः कर्णो महेष्वासो बलेन महता वृतः ।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ॥१॥

तत इति ॥१॥

युद्धेन महता चैनं चक्रे वीरं वशानुगम् ।
सुवर्णं रजतं चापि रत्नानि विविधानि च॥२॥

करं च दापयामास द्रुपदं नृपसत्तम ।
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः॥३॥

तान् सर्वान् वशागांश्चक्रे करं चैनानदापयत् ।
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्॥४॥

भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ।
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः॥५॥

प्रययौ च दिशः सर्वान् नृपतीन् वशमानयत् ।
स हैमवतिकान् जित्वा करं सर्वानदापयत्॥६॥

नेपालविषये ये च राजानस्तानवाजयत् ।
अवतीर्य ततः शैलात् पूर्वां दिशमभिद्रुतः॥७॥

अङ्गान् वङ्गान् कलिङ्गांश्च शुण्डिकान् मिथिलानथ ।
मागधान् कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः॥८॥

निवेश्य विषयेऽऽत्मनः आत्मनो गोचरे कृत्वेत्यर्थः । आकारपूर्वरूपं लोपो वा आर्षः ॥८॥

आवशीरांश्च योध्यांश्च अहिक्षत्रं च निर्जयत् ।
पूर्वा दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्॥९॥

निर्जयत् जितवान् । अडभाव आर्षः ॥९॥

वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् ।
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा॥१०॥

एतान् सर्वान् विनिर्जित्य करमादाय सर्वशः ।
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्॥११॥

रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ।
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्॥१२॥

प्रीतोऽस्मि तव राजेन्द्र विक्रमेण बलेन च ।
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्॥१३॥

प्रतिज्ञां क्षत्रधर्मं समपालयं पालितवानस्मि । क्षत्रधर्मावेक्षयैव त्वया सह युद्धं कृतं न त्वज्जिगीषयेति भावः ॥१३॥

प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छास ।
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोऽगमत्॥१४॥

शैलं श्रीशैलम् ॥१४॥

स केरलं रणे चैव नीलं चापि महीपतिम् ।
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः॥१५॥

दक्षिणस्यां दिशि नृपान् करान् सर्वानदापयत् ।
शैशुपालिं ततो गत्वा विजिग्ये सुतनन्दनः॥१६॥

पार्श्वस्थांश्चापि नृपतीन् वशे चक्रे महाबलः ।
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ ।
वृष्णिभिः सह सङ्गम्य पश्चिमामपि निर्जयत्॥१७॥

वारुणीं दिशमागम्य यावनान् बर्बरांस्तथा ।
नृपान् पश्चिमभूमिस्थान् दापयामास वै करान्॥१८॥

विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम् ।
सम्लेच्छाटविकान् वीरः सपर्वतनिवासिनः॥१९॥

भद्रान् रोहितकांश्चैव आग्रेयान् मालवानपि ।
गणान् सर्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव॥२०॥

शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः ।
नग्नजित्प्रमुखांश्चैव गणान् जित्वा महारथान्॥२१॥

एवं स पृथिवीं सर्वां वशे कृत्वा महारथः ।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत्॥२२॥

तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः ।
प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः॥२३॥

अर्चयामास विधिना कर्णमाहवशोभिनम् ।
आश्रावयच्च तत् कर्म प्रीयमाणो जनेश्वरः॥२४॥

तत् कर्म कर्णविजयं पुरे उद्घोषयामास ॥२४॥

यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाल्हिकात् ।
प्राप्तवानस्मि भद्रं ते त्वत्तः प्राप्तं मया हि तत्॥२५॥

बहुना च किमुक्तेन शृणु कर्ण वचो मम ।
सनाथोऽस्मि महाबाहो त्वया नाथेन सत्तम॥२६॥

न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम् ।
अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः॥२७॥

अभ्युदितेभ्योऽप्युदिताः श्रेष्ठतमाः ॥२७॥

स भवान् धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् ।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा॥२८॥

ततो हलहलाशब्दः प्रादुरासीद्विशांपते ।
हाहाकाराश्च बहवो नगरे नागसाह्वये॥२९॥

हलहलाशब्दं हाहाकारं कर्णानन्दां च पाण्डवपक्षपातिनश्चक्रुरित्यर्थः॥२९॥

केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे ।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप॥३०॥

एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः ।
सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम्॥३१॥

आकाशः पर्वतवनयोरन्तरालं सस्याद्युत्पत्तिभूमिमित्यर्थः ॥३१॥

देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि ।
द्वीपैश्चानूपसम्पूर्णैः पृथिवीं पृथिवीपते॥३२॥

अनूपं सर्वतोजलं तेन सम्पूर्णैः ॥३२॥

कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् ।
अक्षयं धनमादाय सूतजो नृपमभ्ययात्॥३३॥

प्रविश्य च गृहं राजन्नभ्यन्तरमरिन्दम ।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः॥३४॥

पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित् ।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः॥३५॥

तदाप्रभृति राजा च शकुनिश्चापि सौबलः ।
जानते निर्जितान् पार्थान् कर्णेन युधि भारत॥३६॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि कर्णदिग्विजये चतुष्पञ्चाशदधिकद्विशततमोऽध्यायः॥२५४॥
पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। जित्वा तु पृथिवीं राजन् सूतपुत्रो जनाधिप ।
अब्रवीत् परवीरघ्नो दुर्योधनमिदं वचः॥१॥

जित्वेति ॥१॥

कर्ण उवाच। दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव ।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिन्दम॥२॥

तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम ।
तां पालय यथा शक्रो हतशत्रुर्महामनाः॥३॥

वैशम्पायन उवाच। एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत् पुनः ।
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ॥४॥

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।
अभिप्रायस्तु मे कश्चित् तं वै शृणु यथातथम्॥५॥

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं महत् ।
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज॥६॥

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम॥७॥

आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि ।
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च॥८॥

ऋत्विजश्च समाहूता यथोक्ता वेदपारगाः ।
क्रियां कुर्वन्तु ते राजन् यथाशास्त्रमरिन्दम॥९॥

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ॥१०॥

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते ।
पुरोहितं समानाय्य वचनं चेदमब्रवीत्॥११॥

राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् ।
आहर त्वं मम कृते यथान्यायं यथाक्रमम्॥१२॥

स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ।
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे॥१३॥

जीवमाने इत्येकस्मिन् कुले द्वौ राजसूयौ न भवत इति वा तस्मिन्नजित इति वा भावः॥१३॥

आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ।
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप॥१४॥

स च शत्रुर्न तत्प्रतिबन्द्यस्माकं काचिदस्ति ।द्यूतेन च जितोऽस्त्येवेत्याशङ्क्याह दीर्घायुरिति । पितर्यकृतराजसूये जीवति सति स्वयं तं न कुर्यादित्यर्थः । अन्धस्य पितुरनधिकारात् तत्सत्त्वं यद्यप्यधिकारप्रतिबन्धकं न भवति किन्तु युधिष्ठिरजयासामर्थ्यमेव । तथापि तत्कीर्तयितुमशक्यमित्येतदुदाहृतम् । तथा च वक्ष्यति - ‘हतेषु युधि पार्थेषु राजसूये तथा त्वया । आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः’ इति ॥१४॥

अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ।
अस्ति त्वन्यन्महत् सत्रं राजसूयसमं प्रभो॥१५॥

तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ।
य इमे पृथिवीपालाः करदास्तव पार्थिव॥१६॥

ते करान् सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ।
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम॥१७॥

कृतं घटितमलङ्कारादिरूपम् अकृतमन्यत् ॥१७॥

यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ।
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः॥१८॥

प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ।
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः॥१९॥

एतेन नेष्टवान् कश्चिदृते विष्णुं पुरातनम् ।
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः॥२०॥

अस्माकं रोचते चैव श्रेयश्च तव भारत ।
निर्विघ्नश्च भवत्येष सफला स्यात् स्पृहा तव॥२१॥

एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत्॥२२॥

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।
रोचते यदि युष्माकं तस्मात् प्रब्रूत मा चिरम्॥२३॥

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।
सन्दिदेश ततो राजा व्यापारस्थान् यथाक्रमम्॥२४॥

व्यापारस्थान् शिल्पिनः ॥२४॥

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः ।
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनयज्ञसमारम्भे पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥२५५॥
षट्पञ्चाशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ये ।
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत्॥१॥

तत इति ॥१॥

सज्जं क्रतुवरं राजन् कालप्राप्तं च भारत ।
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम्॥२॥

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशांपते ।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्॥३॥

ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः ।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्॥४॥

प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः ।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी॥५॥

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् ।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च॥६॥

ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः ।
तत्र कञ्चित् प्रयातं तु दूतं दुःशासनोऽब्रवीत्॥७॥

गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान् ।
निमन्त्रय यथान्यायं विप्रांस्तस्मिन् वने तदा॥८॥

स गत्वा पाण्डवान् सर्वानुवाचाभिप्रणम्य च ।
दुर्योधनो महाराज यजते नृपसत्तमः॥९॥

स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः ।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः॥१०॥

अहं तु प्रेषितो राजन् कौरवेण महात्मना ।
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः॥११॥

मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ।
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्॥१२॥

अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः॥१३॥

वयमप्युपयास्यामो न त्विदानीं कथञ्चन ।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्॥१४॥

श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् ।
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः॥१५॥

अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति ।
वर्षात् त्रयोदशादूर्ध्वं रणसत्रे नराधिपः॥१६॥

यदा क्रोधहविमर्मोक्ता धार्तराष्ट्रेषु पाण्डवः ।
आगन्ताऽहं तदाऽस्मीति वाच्यस्ते स सुयोधनः॥१७॥

धार्तराष्ट्रेषु स्वयं क्रोधेन ज्वलत्सु । क्रोधहविः क्रोधरूपं सर्पिस्तेषामत्यन्तोद्दीपकं मोक्ष्यति तदाहमागन्ता - आगमिष्यामि ॥१७॥

शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् ।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत्॥१८॥

अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः ।
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति॥१९॥

ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम् ।
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः॥२०॥

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत॥२१॥

यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।
तुष्येत् तु यज्ञसदने तथा क्षिप्रं विधीयताम्॥२२॥

विदुरस्तु तदाज्ञाय सर्ववर्णानरिन्दम ।
यथा प्रमाणतो विद्वान् पूजयामास धर्मवित्॥२३॥

भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः ।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत्॥२४॥

कृत्वा ह्यावसथान् वीरो यथाशास्त्रं यथाक्रमम् ।
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु॥२५॥

विसर्जयामास नृपान् ब्राह्मणांश्च सहस्रशः ।
विसृज्य च नृपान् सर्वान् भ्रातृभिः परिवारितः॥२६॥

विवेश हास्तिनपुरं सहितः कर्णसौबलैः॥२७॥

कर्णसौबलैः सौबलाद्यैः ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि दुर्योधनयज्ञे षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥२५६॥
सप्तपञ्चाशदधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। प्रविशन्तं महाराज सुतास्तुष्टुवुरच्युतम् ।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तम॥१॥

प्रविशन्तमिति ॥१॥

लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः ।
ऊचुर्दिष्ट्या नृपाविघ्नः समाप्तोऽयं क्रतुस्तव॥२॥

अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् ।
युधिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः॥३॥

वातिकाः वातरोगोपहृतचेतस उचितभाषणानभिज्ञाः ॥३॥

नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ।
एवं तत्राब्रुवन् केचिद्वातिकास्तं जनेश्वरम्॥४॥

सुहृदस्त्वब्रुवंस्तत्र अतिसर्वानयं क्रतुः ।
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा॥५॥

क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ।
एता वाचः शुभाः शृण्वन् सुहृदां भरतर्षभ॥६॥

प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ।
अभिवाद्य ततः पादौ मातापित्रोर्विशांपते॥७॥

भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ।
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः॥८॥

निषसादासने मुख्ये भ्रातृभिः परिवारितः ।
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः॥९॥

दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ।
हतेषु युधि पार्थेषु राजसूये तथा त्वया॥१०॥

आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ।
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः॥११॥

सभाजयिता पूजयिष्यामि ॥११॥

सत्यमेतत् त्वयोक्तं हि पाण्डवेषु दुरात्मसु ।
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ॥१२॥

राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ।
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत॥१३॥

राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ।
सोऽब्रवीत् कौरवांश्चापि पार्श्वस्थान् नृपसत्तमः॥१४॥

कदा तु तं क्रतुवरं राजसूयं महाधनम् ।
निहत्य पाण्डवान् सर्वानाहरिष्यामि कौरवाः॥१५॥

तमब्रवीत् तदा कर्णः शृणु मे राजकुञ्जर ।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः॥१६॥

धावये परेणेति शेषः ॥१६॥

कीलालजं न खादेयं करिष्ये चासुरव्रतम् ।
नास्तीति नैव वक्ष्यामि याचितो येन केनचित्॥१७॥

कीलालजं मांसं तद्धि घनीभूतं रुधिरमेव । ‘कीलालं रुधिरे तोये’ इति मेदिनी । असुरं सुरारहितं च व्रतं स्वनियमं करिष्ये मद्यं मांसं च त्यक्ष्ये इत्यर्थः ॥१७॥

अथोत्कृष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।
प्रतिज्ञाते फाल्गुनस्य वधे कर्णेन संयुगे॥१८॥

उत्क्रुष्टमुच्चैः शब्दः कृतः ॥१८॥

विजितांश्चाप्यमन्यन्त पाण्डवान् धृतराष्ट्रजाः ।
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान्॥१९॥

प्रविवेश गृहं श्रीमान् यथा चैत्ररथं प्रभुः ।
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत॥२०॥

पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्॥२१॥

भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति॥२२॥

एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्॥२३॥

अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः ।
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः॥२४॥

बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ।
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वरुन्धराम्॥२५॥

भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ।
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना॥२६॥

दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम् ।
पूजयामास विप्रेन्द्रान् क्रतुभिर्भूरिदक्षिणैः॥२७॥

भ्रातॄणां च प्रियं राजन् स चकार परन्तपः ।
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि घोषयात्रापर्वणि युधिष्ठिरचिन्तायां सप्तपञ्चाशदधिकद्विशततमोऽध्यायः॥२५७॥
समाप्तं घोषयात्रापर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in