जनमेजय उवाच।
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः
।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि॥१॥
वैशम्पायन उवाच।
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः
।
स्वप्नान्ते दर्शयामासुर्बाष्पकष्ठा युधिष्ठिरम्॥२॥
तानब्रवीत् स राजेन्द्रो वेपमानान् कृताञ्जलीन्
।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते॥३॥
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना
।
प्रत्यब्रुवन् मृगास्तत्र हतशेषा युधिष्ठिरम्॥४॥
वयं मृगा द्वैतवने हतशिष्टास्तु भारत
।
नोत्सीदेम महाराज क्रियतां वासपर्ययः॥५॥
भवतो भ्रातरः शूराः सर्व एवास्त्रकोविदाः
।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्॥६॥
बीजभूता वयं केचिदवशिष्टा महामते
।
विवर्धेमहि राजेन्द्र प्रसादात् ते युधिष्ठिर॥७॥
तान् वेपमानान् वित्रस्तान् बीजमात्रावशेषितान्
।
मृगान् दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः॥८॥
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः
।
यथा भवन्तो ब्रुवते करिष्यामि च तत् तथा॥९॥
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः
।
अब्रवीत् सहितान् भ्रातॄन् दयापन्नो मृगान् प्रति॥१०॥
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः
।
तन्तुभूताः स्म भद्रं ते दया नः क्रियतामिति॥११॥
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम्
।
साष्टमासं हि नो वर्षं यदेनानुपयुङ्क्ष्महे॥१२॥
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्
।
मरुभूमेः शिरःस्थानं तृणबिन्दुसरः प्रति॥१३॥
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि
।
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः॥१४॥
ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः
।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा॥१५॥
ते यात्वऽनुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः
।
ददृशुः काम्यकं पुण्यमाश्रमं तपसा युतम्॥१६॥
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा
।
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा॥१७॥