अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

व्रीहिद्रौणिकपर्व

ऊनषष्ट्यधिकद्विशततमोऽध्यायः

वैशम्पायन उवाच। वने निवसतां तेषां पाण्डवानां महात्मनाम् ।
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ॥१॥

वन इति ॥१॥

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुपाः॥२॥

ध्यान्तः ध्यायन्तः ॥२॥

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।
चिन्तयन् स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्॥३॥

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।
दौरात्म्यमनुपश्यंस्तत् काले द्यूतोद्भवस्य हि॥४॥

तत्काले तस्मिन् काले द्यूतोद्भवस्य द्यूतहेतोः शकुन्यादेः ॥४॥

संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः ।
निःश्वासपरमो दीनो बिभ्रत् कोपविषं महत्॥५॥

अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी ।
स च भीमो महातेजाः सर्वेषामुत्तमो बली॥६॥

युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ।
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः॥७॥

वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ।
कस्यचित् त्वथ कालस्य व्यासः सत्यवतीसुतः॥८॥

आजगाम महायोगी पाण्डवानवलोककः ।
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः॥९॥

अवलोककोऽवलोक्तिकामः ॥९॥

प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ।
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः॥१०॥

तोषयन् प्रणिपातेन व्यासं पाण्डवनन्दनः ।
तानवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः॥११॥

महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ।
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर॥१२॥

नातप्ततपसो लोके प्राप्नुवन्ति महासुखम् ।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते॥१३॥

न ह्यनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया॥१४॥

अनन्तं सुखं न प्राप्नोति कश्चित् पृथग्जनः । कस्तर्हि तत् प्राप्नोतीत्याह प्रज्ञावानिति । परया धिया ब्रह्मविद्यया ॥१४॥

उदयास्तमनज्ञो हि न हृष्यति न शोचति ।
सुखमापतितं सेवेद्दुःखमापतितं वेहत्॥१५॥

उदयास्तमनं जगत उत्पत्तिस्थितिलयकारणं ब्रह्म तज्ज्ञो न शोचति न काङ्क्षति मिथ्याभूते जगति प्रियस्य सुखस्याभावात् तद्वियोगजः शोको वा तदिच्छा वा तस्य न जायत इत्यर्थः । प्रारब्धकर्मोपस्थापितं सुखदुःखाद्यपरिहार्यमित्याह सुखमिति ॥१५॥

कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
तपसो हि परं नास्ति तपसा विन्दते महत्॥१६॥

तपसा ज्ञानेन महद्ब्रह्म ॥१६॥

नासाध्यं तपसः किञ्चिदिति बुद्ध्यस्व भारत ।
सत्यमार्जवमक्रोधः संविभागो दमः शमः॥१७॥

अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः ।
पावनानि महाराज नराणां पुण्यकर्मणाम्॥१८॥

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते जनाः॥१९॥

इह यत् क्रियते कर्म तत् परत्रोपयुज्यते ।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च॥२०॥

यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च ।
काले प्राप्ते च हृष्टात्मा राजन् विगतमत्सरः॥२१॥

काले दानकाले ॥२१॥

सत्यवादी लभेतायुरनायासमथार्जवम् ।
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्॥२२ ।
दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति ।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्॥२३॥

दान्तः जितेन्द्रियः । दान्तत्वप्रतिपत्तियोग्यतामापादित आत्मा मनो यस्य जितचित्त इत्यर्थः॥२३॥

संविभक्ता च दाता च भोगवान् सुखवान्नरः ।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते॥२४॥

संविभक्ता अन्नादेर्विभागकर्ता दाता धनादेः ॥२४॥

मान्यमानयिता जन्म कुले महति विन्दति ।
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः॥२५॥

इन्द्रियजयफलमाह मान्येति । व्यसनैः स्त्रीमद्यद्यूताद्यैः ॥२५॥

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।
प्रादुर्भवति तद्योगात् कल्याणमतिरेव सः॥२६॥

शुभमेवानुशेते शुभपक्षपातिनी बुद्धिर्यस्य । कालधर्मेण मरणेन तद्योगात् शुभानुशययोगात् । स कल्याणमतिरेव प्रादुर्भवति जायते ॥२६॥

युधिष्ठिर उवाच। भगवन् दानधर्माणां तपसो वा महामुने ।
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते॥२७॥

दानजानां धर्माणां तपसः कायक्लेशकृतस्य कृच्छ्रादेः । एतयोर्मध्ये प्रेत्य मृत्वा किम्बहुगुणं किं परलोके श्रेष्ठमित्यर्थः ॥२७॥

व्यास उवाच। दानान्न दुष्करं तात पृथिव्यामस्ति किञ्चन ।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते॥२८॥

परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते ।
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा॥२९॥

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः॥३०॥

तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
न दुष्करतरं दानात् तस्माद्दानं मतं मम॥३१॥

दुःखार्जितस्य धनस्येति शेषः । मतं श्रेष्ठत्वेन ॥३१॥

विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।
पात्रे काले च दशे च साधुभ्यः प्रतिपादयेत्॥३२॥

अन्यायात् समुपात्तेन दानधर्मो धनेन यः ।
क्रियते न स कर्तारं त्रायते महतो भयात्॥३३॥

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम्॥३४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
व्रीहिद्रोणपरित्यागाद्यत् फलं प्राप मुद्गलः॥३५॥

द्रोणो मानविशेषस्तन्मिता व्रीहयस्तेषां दानात् ॥३५॥
इति श्रीमहाभारते आरण्यके पर्वणि व्रीहिद्रौणिकपर्वणि दानदुष्करत्वकथने ऊनषष्ट्यधिकद्विशततमोऽध्यायः॥२५९॥
षष्ट्यधिकद्विशततमोऽध्यायः

युधिष्ठिर उवाच। व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।
कस्मै दत्तश्च भगवन् विधिना केन चात्थ मे॥१॥

प्रत्यक्षधर्मा भगवान् यस्य तुष्टो हि कर्मभिः ।
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः॥२॥

व्रीहिद्रोण इति ॥१॥ प्रत्यक्षधर्मा नॄणां धर्मस्य वेत्ता भगवान् ईश्वरः ॥२॥

व्यास उवाच। शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः ।
आसीद्राजन् कुरुक्षेत्रे सत्यवागनसूयकः॥३॥

शिलं कणिशार्जनम् उञ्छः कणशोर्जनम् । ‘उच्छः कणश आदानं कणिशाद्यर्जनं शिलम्’ इति यादवः । ते उभे वृत्तिर्जीवनं यस्य स शिलोञ्छवृत्तिः ॥३॥

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः॥४॥

कापोतीं वृत्तिमल्पसङ्ग्रहरूपाम् । इष्टीकृतमिष्टिभिरेव निर्वर्त्यं न तु पश्वादिना । सत्रं यज्ञम् ॥४॥

सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह ।
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत्॥५॥

दर्शं च पौर्णमासं च कुर्वन् विगतमत्सरः ।
देवतातिथिशेषेण कुरुते देहयापनम्॥६॥

तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः ।
प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि॥७॥

स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः ।
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना॥८॥

पर्व वैश्वदेववरुणप्रघासादिकं कर्म। कालं काले फाल्गुन्यादौ । अत्यन्तसंयोगे द्वितीया । व्रीहिद्रोणमात्रं यदा सिद्ध्यति तदा ददाति ॥८॥

व्रीहिद्रोणस्य तद्ध्यस्य ददतोऽन्नं महात्मनः ।
शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात्॥९॥

तदा च दीयमानं तद्वर्धति वर्धते ॥९॥

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमर्च्छति॥१०॥

अर्च्छति प्राप्नोति ॥१०॥

तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् ।
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह॥११॥

बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।
विकचः परुषा वाचो व्याहरन् विविधा मुनिः॥१२॥

विकचः हसन्मुण्डो वा ॥१२॥

अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः ।
अन्नार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम॥१३॥

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।
पाद्यमाचमनीयं च प्रतिपाद्यार्घ्यमुत्तमम्॥१४॥

प्रादात् स तापसायान्नं क्षुधितायातिथिव्रती ।
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः॥१५॥

ततस्तदन्नं रसवत् स एव क्षुधयाऽन्वितः ।
बुभुजे कृत्स्नमुन्मत्तः प्रादात् तस्मै च मुद्गलः॥१६॥

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः॥१७॥

एवं द्वितीये सम्प्राप्ते यथाकाले मनीषिणः ।
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः॥१८॥

द्वितीयपक्षे ॥१८॥

निराहारस्तु स मुनिरुञ्छमार्जयते पुनः ।
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा॥१९॥

न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः ।
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्॥२०॥

तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् ।
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः॥२१॥

न चास्य मनसा कश्चिद्विकारं ददृशे मुनिः ।
शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः॥२२॥

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं ततः ।
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः॥२३॥

क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।
रसानुसारिणी जिह्वा कर्षत्येव रसान् प्रति॥२४॥

क्षुत् क्षुधा धर्मसहितां संज्ञाम्। त्वया तु प्राणधर्मः क्षुधा इन्द्रियधर्मो रसना तदुभयं जितमित्यर्थः ॥२४॥

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः॥२५॥

श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा ।
तत् सर्वं भवता साधो यथावदुपपादितम्॥२६॥

प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह ।
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः॥२७॥

दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ।
जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम्॥२८॥

अहो दानं विघुष्टं ते सुमहत् स्वर्गवासिभिः ।
सशरीरो भवान् गन्ता स्वर्गं सुचरितव्रत॥२९॥

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः॥३०॥

हंससारसयुक्तेन किङ्किणीजालमालिना ।
कामगेन विचित्रेण दिव्यगन्धवता तथा॥३१॥

उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।
समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने॥३२॥

उवाच देवदूत इत्यनुकृष्यते ॥३२॥

तमेवंवादिनमृषिर्देवदूतमुवाच ह ।
इच्छामि भवता प्रोक्तान् गुणान् स्वर्गनिवासिनाम्॥३३॥

के गुणास्तत्र वसतां किं तपः कश्च निश्चयः ।
स्वर्गे तत्र सुखं किञ्च दोषो वा देवदूतक॥३४॥

सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो॥३५॥

यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् ।
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव॥३६॥

व्यवसायं निश्चयम् ॥३६॥
इति श्रीमहाभारते आरण्यके पर्वणि व्रीहिद्रौणिकपर्वणि मुद्गलोपाख्याने षष्ट्यधिकद्विशततमोऽध्यायः॥२६०॥
एकषष्ट्यधिकद्विशततमोऽध्यायः

देवदूत उवाच। महर्षे आर्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा॥१॥

उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः ।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने॥२॥

महर्षे इति । विमृशसिःशुभमशुभं वेति विचारयसि । स्वर्लोकः सुखलोकः ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदम्’ इति श्रुतिः । तत्प्रधानत्वाल्लोकोऽपि स्वःशब्दवाच्यः । ऊर्ध्वं गमनादित्यूर्ध्वगः सत्पथो ब्रह्ममार्गः क्रममुक्तिस्थानमित्यर्थः । देवयानेन मार्गेण अर्चिरादिपर्ववता चरन्त्यस्मिन्निति देवयानचरः ॥२॥

नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल॥३॥

पुंसः पुमांसः ॥३॥

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।
दानधर्मरताः पुंसः शूराश्चाहवलक्षणाः॥४॥

तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् ।
लोकान् पुण्यकृतां ब्रह्मन् सद्भिराचरितान्नृभिः॥५॥

धर्माग्र्यं धर्मश्रेष्ठं योगम् ॥५॥

देवाः साध्यास्तथा विश्वे तथैव च महर्षयः ।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा॥६॥

यामा धामाश्च गणविशेषाः ॥६॥

एषां देवनिकायानां पृथक् पृथगनेकशः ।
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः॥७॥

देवानां निकाया आलया येषु तेषां देवनिकायानाम् ॥७॥

त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः ।
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल॥८॥

त्रयस्त्रिंशत्सहस्राणि योजनानि उपरि परिधिरित्यर्थः। उच्छ्रायस्य चतुरशीति सहस्रं मानमिति जम्बूखण्डे वक्ष्यमाणत्वात् ॥८॥

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा॥९॥

बीभत्समशुभं वापि तत्र किञ्चिन्न विद्यते ।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः॥१०॥

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने ।
न शोको न जरा तत्र नायासपरिदेवने॥११॥

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।
सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः॥१२॥

तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् ।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत॥१३॥

उपपद्यताम् उपगच्छताम् ॥१३॥

न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने॥१४॥

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।
संयुज्यन्ते विमानैश्च ब्रह्मन्नैवंविधैश्च ते॥१५॥

एवंविधैरिति दृश्यमानप्रदर्शनम् ॥१५॥

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।
सुखं स्वर्गजितस्तत्र वर्तयन्ते महामुने॥१६॥

तेषां तथाविधानां तु लोकानां मुनिपुङ्गव ।
उपर्युपरि लोकस्य लोका दिव्या गुणान्विताः॥१७॥

पुरस्ताद्ब्राह्मणास्तत्र लोकास्तेजोमयाः शुभाः ।
यत्र यान्यृषयो ब्रहान् पूताः स्वैः कर्मभिः शुभैः॥१८॥

ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकात् परतरे यान् यजन्तीह देवताः॥१९॥

स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः॥२०॥

न वर्तयन्त्याहुतिभिस्तेनाप्यमृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः॥२१॥

न सुखे सुखकामास्ते देवदेवाः सनातनाः ।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा॥२२॥

जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने॥२३॥

देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा ।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः॥२४॥

त्रयस्त्रिंशदिमे देवा येषां लोका मनीषिभिः ।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः॥२५॥

सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया ।
तां भुङ्क्ष्व सुकृतैर्लब्धान् तपसा द्योतितप्रभः॥२६॥

व्युष्टिः सम्पत्तिः ॥२६॥

एतत् स्वर्गसुखं विप्र लोका नानाविधास्तथा ।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे॥२७॥

कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि ।
न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते॥२८॥

सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल॥२९॥

असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।
यद्भवत्यवरे स्थाने स्थितानां तत् सुदुष्करम्॥३०॥

संज्ञामोहश्च पततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्॥३१॥

आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्॥३२॥

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।
शुभानुशययोगेन मनुष्येषूपजायते॥३३॥

तत्रापि स महाभागः सुखभागभिजायते ।
न चेत् सम्बुध्यते तत्र गच्छत्यधमतां ततः॥३४॥

इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ।
कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता॥३५॥

मुद्गल उवाच। महांतस्तु अमी दोषास्त्वया स्वर्गस्य कीर्तिताः ।
निर्दोष एव यस्त्वन्यो लोकं तं प्रवदस्व मे॥३६॥

देवदूत उवाच। ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः॥३७॥

न तत्र विप्र गच्छन्ति पुरुया विषयात्मकाः ।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः॥३८॥

निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्द्रियाः ।
ध्यानयोगपराश्चैव तत्र गच्छन्ति मानवाः॥३९॥

एतत् ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल ।
तवानुकम्पया साधो साधु गच्छाम मा चिरम्॥४०॥

व्यास उवाच। एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह॥४१॥

देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् ।
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा॥४२॥

पतनान्ते महादुःखं परितापः सुदारुणः ।
स्वर्गभाजश्चरन्तीह तस्मात् स्वर्गं न कामये॥४३॥

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा ।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्॥४४॥

इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् ।
शिलोञ्छवृत्तिर्धर्मात्मा शममातिष्ठदुत्तमम्॥४५॥

तुल्यनिन्दास्तुतिर्भूत्वा समलोष्ठाश्मकाञ्चनः ।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह॥४६॥

ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम् ।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम्॥४७॥

बलं परवैराग्यम् । बुद्धिं ज्ञानम् ॥४७॥

तस्मात् त्वमपि कौन्तेय न शोकं कर्तुमर्हसि ।
राज्यात् स्फीतात् परिभ्रष्टस्तपसा तदवाप्स्यसि॥४८॥

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव॥४९॥

नेमिं चक्रधाराम् । अराः नाभिनेमिसन्धानदारूणि ॥४९॥

पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम ।
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः॥५०॥

वैशम्पायन उवाच। स एवमुक्त्वा भगवान् व्यासः पाण्डवनन्दनम् ।
जगाम तपसे धीमान् पुनरेवाश्रमं प्रति॥५१॥

इति श्रीमहाभारते आरण्यके पर्वणि व्रीहिद्रौणिकपर्वणि मुद्गलदेवदूतसंवादे एकषष्ट्यधिकद्विशततमोऽध्यायः॥२६१॥
समाप्तं व्रीहद्रौणिकपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in