जनमेजय उवाच।
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु
।
रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह॥१॥
वसत्विति ॥१॥
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि
।
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः॥२॥
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि
।
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः॥३॥
कथं तेष्वन्ववर्तन्त पापाचारा महामुने
।
दुःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः॥४॥
एतदाचक्ष्व भगवन् वैशम्पायन पृच्छतः
।
वैशम्पायन उवाच।
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव॥५॥
दुर्योधनो महाराज तेषु पापमरोचयत्
।
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः॥६॥
नानोपायैरघं तेषु चिन्तयत्सु दुरात्मसु
।
अभ्यागच्छत् स धर्मात्मा तपस्वी सुमहायशाः॥७॥
अघं दुःखम् ॥७॥
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः
।
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम्॥८॥
दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च
।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत्॥९॥
विधिवत् पूजयामास स्वयं किङ्करवत् स्थितः
।
अहानि कतिचित् तत्र तस्थौ स मुनिसत्तमः॥१०॥
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः
।
दुर्योधनो महाराज शापात् तस्य विशङ्कितः॥११॥
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप
।
इत्युक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात्
।
न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्॥१२॥
अकस्मादेत्य च ब्रूते भोजयास्मांस्त्वरान्वितः
।
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः॥१३॥
पूर्ववत् कारयित्त्वाऽन्नं न भुङ्क्ते गर्हयन् स्म सः
।
वर्तमाने तथा तस्मिन् यदा दुर्योधनो नृपः॥२४॥
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः
।
आह चैनं दुराधर्षो वरदोऽस्मीति भारत॥१५॥
दुर्वासा उवाच।
वरं वरय भद्रं ते यत् ते मनसि वर्तते
।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव॥१६॥
धर्म्यं धर्मादनपेतम् ॥१६॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः
।
अमन्यत पुनर्जातमात्मानं स सुयोधनः॥१७॥
प्रागेव मन्त्रितं चासीत् कर्णदुःशासनादिभिः
।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः॥१८॥
अतिहर्षान्वितो राजन् वरमेनमयाचत
।
शिष्यैः सह मम ब्रह्मन् यथा जातोऽतिथिर्भवान्॥१९॥
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः
।
वने वसति धर्मात्मा भ्रातृभिः परिवारितः॥२०॥
गुणवान् शीलसम्पन्नस्तस्य त्वमतिथिर्भव
।
यदा च राजपुत्री सा सुकुमारी यशस्विनी॥२१॥
भोजयित्वा द्विजान् सर्वान् पतींश्च वरवार्णनी
।
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा॥२२॥
तदा त्वं तत्र गच्छेथा यद्यनुग्राह्यता मयि
।
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्॥२३॥
दुर्वासा अपि विप्रेन्द्रो यथागतमगात् ततः
।
कृतार्थमपि चात्मानं तदा मेने सुयोधनः॥२४॥
करेण च करं गृह्य कर्णस्य मुदितो भृशम्
।
कर्णोऽपि भ्रातृसहितमित्युवाच नृपं मुदा॥२५॥
कर्ण उवाच।
दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे
।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे॥२६॥
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः
।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः॥२७॥
वैशम्पायन उवाच।
इत्थं ते निकृतिप्रज्ञा राजन् दुर्योधनादयः
।
हसन्तः प्रीतमनसो जग्मुः स्वं स्वं निकेतनम्॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि दुर्वासउपाख्याने द्विषष्ट्यधिकद्विशततमोऽध्यायः॥२६२॥
वैशम्पायन उवाच।
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान्
।
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन् वने मुनिः॥१॥
तत इति ॥१॥
अभ्यागच्छत् परिवृतः शिष्यैरयुतसम्मितैः
।
दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः॥२॥
जगामाभिमुखः श्रीमान् सह भ्रातृभिरच्युतः
।
तस्मै बद्धाञ्जलिं सम्यगुपवेश्य वरासने॥३॥
विधिवत् पूजयित्वा तमातिथ्येन न्यमन्त्रयत्
।
आह्निकं भगवन् कृत्वा शीघ्रमेहीति चाब्रवीत्॥४॥
जगाम च मुनिः सोऽपि स्नातुं शिष्यैः सहानघः
।
भोजयेत् सहशिष्यं मां कथमित्यविचिन्तयन्॥५॥
न्यमज्जत् सलिले चापि मुनिसङ्घः समाहितः
।
एतस्मिन्नन्तरे राजन् द्रौपदी योषितां वरा॥६॥
एतस्मिन्नन्तरे काले ॥६॥
चिन्तामवाप परमामन्नहेतोः पतिव्रता
।
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत॥७॥
मनसा चिन्तयामास कृष्णं कंसनिषूदनम्
।
कृष्ण कृष्ण महाबाहो देवकीनन्दनाव्यय॥८॥
कृष्णं पापकर्षकं कंसस्य कामादेर्दुष्टराज्ञो वा निषूदनं हे कृष्ण कृष्ण । अत्यादरसूचनार्थं द्विर्वचनम् । ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ इति श्रुतिप्रणीतः कृष्णपदस्यार्थः । महान्तौ ब्रह्माण्डपिण्डावष्टम्भक्षमौ बाहू यस्य ‘सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः’ इति श्रुतेः । अव्यय अविनाशिन् । अत्र देवकीनन्दनस्याव्ययत्वं वदन्त्या कृष्णमूर्तेरभौतिकत्वमुक्तम् । एवमादिनाम्नामर्थः शङ्करभगवत्पादीये विष्णुसहस्रनामव्याख्याने एव द्रष्टव्यः ॥८॥
वासुदेव जगन्नाथ प्रणतार्तिविनाशन
।
विश्वात्मन् विश्वजनक विश्वहर्तः प्रभोऽव्यय॥९॥
प्रपन्नपाल गोपाल प्रजापाल परात्पर
।
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते॥१०॥
आकूतीनां चित्तीनां चेति चेतोवृत्तिविशेषाणाम् ॥१०॥
वरेण्य वरदानन्त अगतीनां गतिर्भव
।
पुराणपुरुष प्राणमनोवृत्याद्यगोचर॥११॥
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता
।
पाहि मां कृपया देव शरणागतवत्सल॥१२॥
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण
।
पीताम्बरपरीधान लसत्कौस्तुभभूषण॥१३॥
त्वमादिरन्तो भूतानां त्वमेव च परायणम्
।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः॥१४॥
त्वामेवाहुः परं बीजं निधानं सर्वसम्पदाम्
।
त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि॥१५॥
दुःशासनादहं पूर्वं सभायां मोचिता यथा
।
तथैव सङ्कटादस्मान्मामुद्धर्तुमिहार्हसि॥१६॥
वैशम्पायन उवाच।
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः
।
द्रौपद्याः सङ्कटं ज्ञात्वा देवदेवो जगत्पतिः॥१७॥
पार्श्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः
।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः॥१८॥
ततस्तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा
।
अब्रवीद्वासुदेवाय मुनेरागमनादिकम्॥१९॥
ततस्तामब्रवीत् कृष्णः क्षुधितोऽस्मि भृशातुरः
।
शीघ्रं भोजय मां कृष्णे पश्चात् सर्वं करिष्यसि॥२०॥
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्
।
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि॥२१॥
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते
।
ततः प्रोवाच भगवान् कृष्णां कमललोचनः॥२२॥
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि
।
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय॥२३॥
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः
।
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्य केशवः॥२४॥
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः
।
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभुक्॥२५॥
आकारय मुनीन् शीघ्रं भोजनायेति चाब्रवीत्
।
सहदेवं महाबाहुः कृष्णः क्लेशविनाशनः॥२६॥
ततो जगाम त्वरितः सहदेवो महायशाः
।
आकारितुं तु तान् सर्वान् भोजनार्थं नृपोत्तम॥२७॥
स्नातुं गतान् देवनद्यां दुर्वासःप्रभृतीन् मुनीन्
।
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्॥२८॥
देवनद्यां तत्रस्थ एव तीर्थविशेषे ॥२८॥
दृष्टोद्गारान् सान्नरसांस्तृप्त्या परमया युताः
।
उत्तीर्य सलिलात् तस्माद्दृष्टवन्तः परस्परम्॥२९॥
दुर्वाससमभिप्रेक्ष्य ते सर्वे मुनयोऽब्रुवन्
।
राज्ञा हि कारयित्वाऽन्नं वयं स्नातुं समागताः॥३०॥
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम्
।
वृथा पाकः कृतोऽस्माभिस्तत्र किं करवामहे॥३१॥
दुर्वासा उवाच।
वृथा पाकेन राजर्षेरपराधः कृतो महान्
।
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा॥३२॥
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः
।
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात्॥३३॥
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः
।
शूराश्च कृतविद्याश्च व्रतिनस्तपसि स्थिताः॥३४॥
सदाचाररता नित्यं वासुदेवपरायणाः
।
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः
।
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत॥३५॥
वैशम्पायन उवाच।
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा
।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश॥३६॥
सहदेवो देवनद्यामपश्यन्मुनिसत्तमान्
।
तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन्॥३७॥
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा तांश्चैव विद्रुतान्
।
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत्॥३८॥
ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाङ्क्षिणः
।
प्रतीक्षन्तः कियत्कालं जितात्मानोऽवतस्थिरे॥३९॥
निशीथेऽभ्येत्य चाकस्मादस्मान् स छलयिष्यति
।
कथं च निस्तरेमास्मात् कृच्छ्राद्दैवोपसादितात्॥४०॥
इति चिन्तापरान् दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः
।
उवाच वचनं श्रीमान् कृष्णः प्रत्यक्षतां गतः॥४१॥
श्रीकृष्ण उवाच।
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्
।
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः॥४२॥
न भयं विद्यते तस्मादृषेर्दुर्वाससोऽल्पकम्
।
तेजसा भवतां भीतः पूर्वमेव पलायितः॥४३॥
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्
।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः॥४४॥
वैशम्पायन उवाच।
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः
।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः॥४५॥
त्वया नाथेन गोविन्द दुस्तरामापदं विभो
।
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे॥४६॥
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम्
।
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो॥४७॥
ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्
।
इति तेऽभिहितं राजन् यत् पृष्टोऽहमिह त्वया॥४८॥
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः
।
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन्॥४९॥
अलीकानि छलानि । ‘अलीकं त्वप्रियेऽनृते’ इति नानार्थः ॥४९॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि दुर्वासउपाख्याने त्रिषष्ट्यधिकद्विशततमोऽध्यायः॥२६३॥
वैशम्पायन उवाच।
तस्मिन् बहुमृगेऽरण्ये अटमाना महारथाः
।
काम्यके भरतश्रेष्ठा विजह्रुस्ते यथाऽमराः॥१॥
तस्मिन्निति ॥१॥
प्रेक्षमाणा बहुविधान् वनोद्देशान् समन्ततः
।
यथर्तुकालरम्याश्च वनराजीः सपुष्पिताः॥२॥
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम्
।
विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिन्दम॥३॥
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्
।
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः॥४॥
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया
।
महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः॥५॥
ततस्तु राजा सिन्धूनां वार्धक्षत्रिर्महायशाः
।
विवाहकामः शाल्वेयान् प्रयातः सोऽभवत् तदा॥६॥
महता परिबर्हेण राजयोग्येन संवृतः
।
राजभिर्बहुभिः सार्धमुपायात् काम्यकं च सः॥७॥
परिबर्हेण परिच्छदेन ‘परिबर्हं तु राजार्हवस्तुन्यपि परिच्छदे’ इति विश्वः ॥७॥
तत्रापश्यत् प्रियां भार्यां पाण्डवानां यशस्विनीम्
।
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने॥८॥
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्
।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्॥९॥
नीलाभ्रं नीलमेघम् ॥०९॥
अप्सरा देवकन्या वा माया वा देवनिर्मिता
।
इति कृत्वाऽञ्जलिं सर्वे ददृशुस्तामनिन्दिताम्॥१०॥
ततः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः
।
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः॥११॥
स कोटिकास्यं राजानमब्रवीत् काममोहितः
।
कस्य त्वेषाऽनवद्याङ्गी यदि वाऽपि न मानुषी॥१२॥
कोटिकास्यं कोटी दुर्गमन्तःपुरं तत्राधिकृताः कोटिकाः तेषाम् आस्यमिव मुख्यम् । आख्यमिति पाठे सङ्ख्यान्तरं वक्तारमिति वा । अश्येति पाठे कोटिकाः अश्याः व्याप्या यस्येति वा राजानं क्षत्रियं प्रभुं वा । ‘राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ’ इति मेदिनी ॥१२॥
विवाहार्थो न मे कश्चिदिमां प्राप्यातिसुन्दरीम्
।
एतामेवाहमादाय गमिष्यामि स्वमालयम्॥१३॥
यच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोऽपि वा
।
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम्॥१४॥
अपि नाम वरारोहा मामेषा लोकसुन्दरी
।
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा॥१५॥
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम्
।
गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक॥१६॥
स कोटिकास्यस्तच्छ्रुत्वा रथात् प्रस्कन्द्य कुण्डली
।
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव॥१७॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि जयद्रथागमने चतुःषष्ट्यधिकद्विशततमोऽध्यायः॥२६४॥
कोटिक उवाच।
का त्वं कदम्बस्य विनम्य शाखामेकाऽऽश्रमे तिष्ठास शोभमाना
।
देदीप्यमानाऽग्निशिखेव नक्तं व्याधूयमाना पवनेन सुभ्रूः॥१॥
केति ॥१॥
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किं नु
।
देवी नु यक्षी यदि दानवी वा वराप्सरा दैत्यवराङ्गना वा॥२॥
चपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री
।
यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य॥३॥
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात् प्रपन्ना
।
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम्॥४॥
धातुः प्रजापतेः सरस्वती वा विधातुः कश्यपस्य रुद्रस्य वा । अदितिः पार्वती वा विभोर्विष्णोर्लक्ष्मीर्वा ॥४॥
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च
।
आचक्ष्व बन्धूंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम्॥५॥
प्रभवं पितरम् । प्रभुं महान्तम् ॥५॥
अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकास्येति विदुर्मनुष्याः
।
असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव॥६॥
राज्ञः क्षत्रियस्य चयने इष्टकोच्चये ॥६॥
त्रिगर्तराजः कमलायताक्षः क्षेमङ्करो नाम स एष वीरः
।
अस्मात् परस्त्वेष महाधनुष्मान् पुत्रः कुलिन्दाधिपतेर्वरिष्ठः॥७॥
निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः
।
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः॥८॥
इक्ष्वाकुराज्ञः सुभवस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि
।
यस्यानुचक्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः॥९॥
अनुचक्रं सैन्यमनुलक्षीकृत्य प्रयान्ति । ‘चक्रं सैन्यरथाङ्गयोः’ इति विश्वः । पाठान्तरेऽनुयात्रा यात्रोपकरणपाला इत्यर्थः ॥९॥
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः
।
अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः सञ्जयसुप्रवृद्धौ॥१०॥
भयङ्करोऽथ भ्रमरो रविश्च शूरः प्रतापः कुहनश्च नाम
।
यं षट्सहस्त्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च॥११॥
पदातिनः पद्भ्यामतितुं सततं गन्तुं शीलं येषां ते पदातयः ॥११॥
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः
।
तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदारणाद्याः॥१२॥
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति
।
एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः॥१३॥
अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य॥१४॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि कोटिकास्यप्रश्ने पञ्चषष्ट्यधिकद्विशततमोऽध्यायः॥२६५॥
वैशम्पायन उवाच।
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन
।
अवेक्ष्य मन्दं प्रविमुच्य शाखां सङ्गृह्णती कौशिकमुत्तरीयम्॥१॥
अथेति । शिबीनां शिबिवंश्यानां क्षत्रियाणाम् । मन्दं स्वैरम् । अवेक्ष्य सङ्कोच्य । तदेवाह विमुच्येति । कौशिकं कोशजम् ॥१॥
बुद्ध्याऽभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हति
।
न त्वेह वक्ताऽस्ति तवेह वाक्यमन्यो नरो वाऽप्यथवाऽपि नारी॥२॥
अभिभाष्टुमभिभाषितुम् ॥२॥
एका ह्यहं सम्प्रति तेन वाचं ददानि वै भद्र निबोध चेदम्
।
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे॥३॥
तेन कारणेन ॥३॥
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकास्येति विदुर्मनुष्याः
।
तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून् प्रथितं कुलं च॥४॥
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः
।
साऽहं वृणे पञ्च जनान् पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते॥५॥
पञ्च जनान् पञ्च पुरुषान् ॥५॥
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
।
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः॥६॥
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम्
।
मन्ये तु तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम्॥७॥
जयोऽर्जुनः ॥७॥
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम्
।
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान्॥८॥
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता
।
विवेश तां पर्णशालां प्रशस्तां सञ्चिन्त्य तेषामतिथित्वमर्थे॥९॥
तेषामर्थे अतिथिषु योग्यं स्वधर्मं पूजादिकं कर्तुं सञ्चिन्त्य शालां विवेश ॥९॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि द्रौपदीवाक्ये षट्षष्ट्यधिकद्विशततमोऽध्यायः॥२६६॥
वैशम्पायन उवाच।
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत
।
यदुक्तं कृष्णया सार्धं तत् सर्वं प्रत्यवेदयत्॥१॥
तथेति ॥१॥
कोटिकास्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
।
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः॥२॥
सौवीरको जयद्रथः ॥२॥
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान्
।
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः॥३॥
यदाऽस्यां से मनो रमते तदा भवान् कथं विनिवृत्त इति योज्यम् ॥३॥
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
।
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्॥४॥
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
।
कोटिक उवाच।
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी॥५॥
पञ्चानां पाण्डुपुत्राणां महिषी सम्मता भृशम्
।
सर्वेषां चैव पार्थानां प्रिया बहुमता सती॥६॥
तया समेत्य सौवीर सौवीराभिमुखो व्रज
।
वैशम्पायन उवाच।
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति॥७॥
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः
।
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा॥८॥
सिंहगोष्ठं सिंहसभाम् । ‘गोष्ठं गोस्थानकं गोष्ठी सभासंलापयोः स्त्रियाम्’ इति मेदिनी । लिङ्गं त्वविवक्षितम् । गोष्ठमिव गोष्ठमिति वा स्थानमेव ॥८॥
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्
।
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः॥९॥
सप्तमो बलाहकादीन् षट्भ्रातॄनुपलक्ष्य आत्मना शरीरेण सप्तानां पूरणः ॥९॥
येषां कुशलकामाऽसि तेऽपि कच्चिदनामयाः
।
द्रौपद्युवाच
।
अपि ते कुशलं राजन् राष्ट्रे कोशे बले तथा॥१०॥
कच्चिदेकः शिबीनाढ्यान् सौवीरान्सह सिन्धुभिः
।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया॥११॥
अनुतिष्ठसि पालयसि । विदिताः लब्धाः ॥११॥
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः
।
अहं च भ्रातरश्चास्य यांश्चान्यान् परिपृच्छसि॥१२॥
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज
।
मृगान् पञ्चाशतं चैव प्रातराशं ददानि ते॥१३॥
ऐणेयान् पृषतान् न्यङ्कून् हरिणान् शरभान् शशान्
।
ऋक्षान् रुरून् शम्बरांश्च गवयांश्च मृगान् बहून्॥१४॥
वराहान् महिषांश्चैव याश्चान्या मृगजातयः
।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः॥१५॥
जयद्रथ उवाच।
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया
।
एहि मे रथमारोह सुखमाप्नुहि केवलम्॥१६॥
गतश्रीकान् हृतराज्यान् कृपणान् गतचेतसः
।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि॥१७॥
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते
।
युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत्॥१८॥
श्रियः सङ्क्ष्ये सतीति शेषः । हीनलक्ष्मीके इत्यर्थः ॥१८॥
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः
।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्॥१९॥
समाः संवत्सरान् ॥१९॥
भार्या मे भव सुश्रोणि त्यजैनान् सुखमाप्नुहि
।
अखिलान् सिन्धुसौवीरानाप्नुहि त्वं मया सह॥२०॥
वैशम्पायन उवाच।
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्
।
कृष्णा तस्मादपाक्रामद्देशात् सभ्रुकुटीमुखी॥२१॥
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा
।
मैवमित्यब्रवीत् कृष्णा लज्जस्वेति च सैन्धव॥२२॥
सा काङ्क्षमाणा भर्तॄणामुपयातमनिन्दिता
।
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि जयद्रथद्रौपदीसंवादे सप्तषष्ट्यधिकद्विशततमोऽध्यायः॥२६७॥
वैशम्पायन उवाच।
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा
।
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत् तं द्रुपदात्मजा पुनः॥१॥
सरोषेति । रोषेण रागो रक्तिमा तेन सहितं सरोषरागं तदुपहतं च म्लानं च तेन वल्गुना सुन्दरेण । नते स्वभावतः उन्नते क्रोधेन ध्रुवौ यस्यास्तथा । विस्फूर्य फूत्कारं कृत्वा ॥१॥
यशस्विनस्तीक्ष्णविषान् महारथानभिब्रुवन् मूढ न लज्जसे कथम्
।
महेन्द्रकल्पान् निरतान् स्वकर्मसु स्थितान् समूहेष्वपि यक्षरक्षसाम्॥२॥
अभि अभिक्रम्य ब्रुवन् स्थितान् अचलान् यक्षादिभिरप्यजेयानित्यर्थः ॥२॥
न किञ्चिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा
।
तपस्विनं सम्परिपूर्णविद्यं भषन्ति हैवं श्वनराः सुवीर॥३॥
ईड्यं स्तुत्यं वनेचरं वानप्रस्थं पापं पापवचनं प्रवदन्ति । सन्त इति शेषः । श्वनराः शुनकतुल्या नरास्त्वादृशास्तु एवम् उक्तरीत्या भषन्ति ब्रुवन्ति ॥३॥
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसंनिवेशे
।
यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत॥४॥
क्षत्रियसन्निवेशे नृपसमाजे पातालमुखे महागर्ते प्रतिसंहरेत् प्रतिषेधेत ॥४॥
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम्
।
दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंसास धर्मराजम्॥५॥
उपत्यकामद्रिसमीपभूमिं दंडी दण्डमात्रायुधो यूथात् समूहात् अपसेधसि अपकर्षसि ॥५॥
बाल्यात् प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लनासि
।
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्॥६॥
बाल्यात् मौढ्यात् पक्ष्माणि मुखोपरिस्थकेशान् । पदा समाहत्य लुनासि छिनत्सि ॥६॥
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु
।
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम्॥७॥
कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदाऽऽक्रामसि पुच्छदेशे
।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम्॥८॥
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः
।
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम्॥९॥
वेण्वादयः फलिता एव नश्यन्ति कर्कटी च परिणतगर्भा नश्यतीति लोकप्रसिद्धम् ॥९॥
जयद्रथ उवाच।
जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः
।
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य॥१०॥
विभीषणेन भयप्रदर्शनेन ॥१०॥
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः
।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान् मन्यामहे द्रौपदि पाण्डुपुत्रान्॥११॥
वयमिति । सप्तदश अष्टौ कर्माणि नव शक्त्यादयश्च नित्यं सन्ति येषु तानि सप्तदशानि । नित्ययोगे मत्वर्थीयोऽर्शआद्यच् । तत्र ‘कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ॥ खन्याकरकरादानं शून्यानां च निवेशनम् ॥ अष्टौ सन्धानकर्माणि नियुक्तानि मनीषिभिः’ इति कर्माष्टकं कोशवृद्धिकरम् । तथा प्रभुशक्तिमन्त्रशक्तिरुत्साहशक्तिः। प्रभुसिद्धिर्मन्त्रसिद्धिरुत्साहसिद्धिः । प्रभूदयो मन्त्रोदय उत्साहोदयः । प्रभुत्वादीनां स्वरूपतः सामर्थ्यतः फलतश्च येषु नित्ययोग इत्यर्थः। अनवमेषु अनीचेषु षड्भ्यो गुणेभ्यः। ल्यब्लोपे पञ्चमी। षड्गुणान् प्राप्य पाण्डवेभ्योऽभ्यधिकाः । ते च शौर्यतेजो धृतिदाक्षिण्यदानैश्वर्याणि भवताप्युक्ताः शौर्यं तेज इति यत्र युद्धे चाप्यपलायनं शौर्ये एवान्तर्भूतमिति षडेव क्षत्रियकर्माणि तस्य गुणत्वेनोच्यन्ते । सन्धिविग्रहयानासनद्वैधीभावाश्रयाख्यास्तु गुणा नीतिशास्त्रोक्ता नेह गृह्यन्ते । तेषां सर्वेषामुत्कर्षानाधायकत्वात् । हीनबल एव सन्धिद्वैधादीनि इच्छति न प्रबल इति ॥११॥
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः
।
आशंसं वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम्॥१२॥
शक्याः निवारितुमितिशेषः । पुनरिति पाण्डवपराजयानन्तरं वा इदानीमेव वा त्वं मत्प्रसादं आशंस प्रार्थय ॥१२॥
द्रौपद्युवाच।
महाबला किं त्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि
।
नाहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम्॥१३॥
प्रमाथात् निग्रहात् प्रतीता सादरा प्रख्याता वा सभायां वस्त्रराशिप्रदानेन भंगंवदनुगृहीतत्वात्। ‘प्रतीतः सादरे ज्ञाते हृष्टे’ इति मेदिनी ॥१३॥
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ
।
इन्द्रोऽपि तां नापहरेत् कथञ्चिन्मनुष्यमात्रः कृपणः कुतोऽन्यः॥१४॥
कृष्णौ वासुदेवार्जुनौ । पदवीं चरेताम् अन्वेषणं कुरुत एवेत्यर्थः ॥१४॥
यथा किरीटी परवीरघाती निघ्नन् रथस्थो द्विषतां मनांसि
।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु॥१५॥
मदन्तरे मन्निमित्तं प्रवेष्टा प्रकर्षेण वेष्टयिष्यति उष्णगेषु निदाघेषु ॥१५॥
जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे
।
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः॥१६॥
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः
।
हस्तं समाहत्य धनञ्जयस्य भीमाः शब्दं घोरतरं नदन्ति॥१७॥
गाण्डीमुक्ता इति सूचनात् शरा इति विशेष्यानिर्देशो न दोषाय ॥१७॥
गाण्डीवमुक्तांश्च महाशरौघान् पतङ्गसङ्गानिव शीघ्रवेगान्
।
यदा द्रष्टाऽस्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दिताऽसि॥१८॥
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च
।
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत्॥१९॥
अभविष्यत् भविष्यतत्यिर्थे व्यत्ययेन लृङ् ॥१९॥
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ दिशश्च
।
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम॥२०॥
अधमेति च्छेदः ॥२०॥
यथा वाऽहं नातिचरे कथञ्चित् पतीन् महार्हान् मनसाऽपि जातु
।
तेनाद्य सत्येन वशीकृतं त्वां द्रष्टाऽस्मि पार्थैः परिकृष्यमाणम्॥२१॥
न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा
।
समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि॥२२॥
संभ्रमं भयम् आगतैवास्मि न तु त्वद्वशे स्थास्यामीत्यर्थः ॥२२॥
वैशम्पायन उवाच।
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती
।
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा॥२३॥
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत् सा
।
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः॥२४॥
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री
।
सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा॥२५॥
धौम्य उवाच।
नेयं शक्या त्वया नेतुमविजित्य महारथान्
।
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ॥२६॥
क्षुद्रं कृत्वा फलं पापं त्वं प्राप्स्यसि न संशयः
।
आसाद्य पाण्डवान् वीरान् धर्मराजपुरोगमान्॥२७॥
वैशम्पायन उवाच।
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्
।
अन्वगच्छत् तदा धौम्यः पदातिगणमध्यगः॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणे अष्टषष्ट्यधिकद्विशततमोऽध्यायः॥२६८॥
वैशम्पायन उवाच।
ततो दिशः सम्प्रविहृत्य पार्था मृगान् वराहान् महिषांश्च हत्वा
।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः॥१॥
तत इति ॥१॥
ततो मृगव्यालगणानुकीर्णं महावनं तद्विहगोपघुष्टम्
।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम्॥२॥
महावनं काम्यकम् ॥२॥
आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति
।
आयासमग्रं प्रतिवेदयन्तो महावनं शत्रुभिर्बाध्यमानम्॥३॥
महावनं महानालयः ‘गृहिणी गृहमुच्यते’ इत्युक्तेर्गृहिणी ‘वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी । महाधनामति पाठे महच्च तद्धनं चेति स्त्रीरूपमेव धनम् ॥३॥
क्षिप्रं निवर्तध्वमलं मृगैर्नौ मनो हि मे दूयति दह्यते च
।
बुद्धिं समाच्छाद्य च मे समन्युरुद्भूयते प्राणपतिः शरीरे॥४॥
समाच्छाद्य मोहयित्वा । समन्युः दैन्यसहितः प्राणानाम् आध्यात्मिकानामिन्द्रियाणां पतिर्मुख्यः प्राणः ॥४॥
सरः सुपर्णेन हृतोरगं यथा राष्ट्रं यथाऽराजकमात्तलक्ष्मि
।
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः॥५॥
ते सैन्धवैरत्यनिलोग्रवेगैर्महाजवैर्वाजिभिरुह्यमानाः
।
युक्तैर्बृहद्भिः सुरथैर्नृवीरास्तदाऽऽश्रमायाभिमुखा बभूवुः॥६॥
अराजकं राजहीनं शौण्डैः शुण्डया विदितैर्गजैः । पीतरसः पीतजलः । यथा दासीमुदकुंभं नयन्तीमनुलक्ष्य महामात्रस्तयाऽज्ञातमेव गजं तत्पृष्टतो नीत्वा तेन तज्जलं शोषयति सा चाकस्माद्धटं लघुतया रिक्तं पश्चाज्जानाति तद्वत् अस्माभिरज्ञातोऽस्मद्धनं कश्चिद्धरिष्यति तदा रिक्तकुम्भवद्वनं पश्चाद्रक्ष्याम इत्यर्थः । सैन्धवैः सिन्धुदेशजैर्वाजिभिरश्वैः । सुरथैः शोभनरथैः । समानाधिकरणं तृतीयात्रयम् ॥६॥
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम्
।
प्रव्याहरत् तत् प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च॥७॥
यथा वदत्येष विहीनयोनिः शालावृको वाममुपेत्य पार्श्वम्
।
सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य॥८॥
इत्येव ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा
।
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्य वधूं प्रियायाः॥९॥
प्रेष्यवधूं दासभार्याम् ॥९॥
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत्
।
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामन्तितरस्तदानीम्॥१०॥
अन्तितरः समीपतरः आर्ततर इत्यपि पाठः ॥१०॥
किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम्
।
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री॥११॥
अचिन्त्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम्
।
यद्येव देवी पृथिवीं प्रविष्टा दिवं प्रपन्नाऽप्यथवा समुद्रम्॥१२॥
तस्या गमिष्यन्ति पदे हि पार्था यथा हि सन्तप्यति धर्मपुत्रः
।
को हीदृशानामरिमर्दनानां क्लेशक्षमानामपराजितानाम्॥१३॥
प्राणैः समामिष्टतमां जिहीर्षेदनुत्तमं रत्नामिव प्रमूढः
।
न बुध्यते नाथवतीमिहाद्य बहिश्वरं हृदयं पाण्डवानाम्॥१४॥
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः
।
मा त्वं शुचस्तां प्रति भीरु विद्धि यथाऽद्य कृष्णा पुनरेष्यतीति॥१५॥
निहत्य सर्वान् द्विषतः समग्रान् पार्थाः समेष्यन्त्यथ याज्ञसेन्या
।
अथाब्रवीच्चारुमुखं विमृश्य धात्रेयिका सारथिमिन्द्रसेनम्॥१६॥
जयद्रथेनापहृता प्रमथ्य पञ्चन्द्रकल्पान् परिभूय कृष्णा
।
तिष्ठन्ति वर्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः॥१७॥
आवर्तयध्वं ह्यनुयात शीत्रं न दूरयातैव हि राजपुत्री
।
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि॥१८॥
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं चरध्वम्
।
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमोहचित्ता वदनेन शुष्यता॥१९॥
पुरा यावत् अनर्हते तनुं न ददाति तावत् शीघ्रमनुयातेति चतुर्थेन सम्बन्धः ॥१९॥
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम्
।
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्त्रगिवापविध्द्यते॥२०॥
पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते
।
महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनीं विगाहते॥२१॥
मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम्
।
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम्
।
एतानि वर्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै॥२२॥
युधिष्ठिर उवाच।
भद्रे प्रतिक्राम नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः
।
राजानो वा यदि वा राजपुत्रा बलेन मत्ता वञ्चनां प्राप्नुवन्ति॥२३॥
प्रतिक्राम दूरे भव परुषाणि अनर्हते तनुं ददातीत्यादीनि दुःश्राव्याणि मत्तत्वात् वञ्चनां स्वजनस्य तवैव वधरूपाम् ॥२३॥
वैशम्पायन उवाच।
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः
।
मुहुर्मुहुर्व्यालवदुच्छ्वलन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः॥२४॥
ततोऽपश्यंस्तस्य सैन्यस्य रेणुमुद्भूतं वै वाजिखुरप्रणुन्नम्
।
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति॥२५॥
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः
।
श्येना यथैवामिषसम्प्रयुक्ता जवेन तत् सैन्यमथाभ्यधावन्॥२६॥
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां घर्षणाद्याज्ञसेन्याः
।
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च॥२७॥
धर्षणात् पराभवात् ॥२७॥
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनञ्जयश्च
।
यमौ च राजा च महाधनुर्धरास्तस्तो दिशः संमुमुहुः परेषाम्॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि पार्थागमने ऊनसप्तत्यधिकद्विशततमोऽध्यायः॥२६९॥
वैशम्पायन उवाच।
ततो घोरतरः शब्दो वने समभवत् तदा
।
भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्॥१॥
तत इति ॥१॥
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयं दुरात्मा नरपुङ्गवानाम्
।
जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः॥२॥
आयान्तीमे पञ्च रथा महान्तो मन्ये च कृष्णे पतयस्तवेते
।
सा जानती ख्यापय नः सुकेशि परं परं पाण्डवानां रथस्थम्॥३॥
द्रौपद्युवाच
।
कि ते ज्ञातैर्मूढ महाधनुर्धरैरनायुष्यं कर्म कृत्वाऽतिघोरम्
।
एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे॥४॥
अनायुष्यमायुर्नाशकं मृत्युदमित्यर्थः ॥४॥
आख्यातव्यं त्वेव सर्वं मुमूर्षोर्मया तुभ्यं पृष्टया धर्म एषः
।
न मे व्यथा विद्यते त्वद्भयं वा सम्पश्यन्त्याः सानुजं धर्मराजम्॥५॥
यस्य ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ युक्तरूपौ
।
एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति॥६॥
य एष जाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः
।
एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे॥७॥
अप्येष शत्रोः शरणागतस्य दद्यात् प्राणान् धर्मचारी नृवीरः
।
परेह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः॥८॥
परेहि शरणं गच्छ एनं धर्मराजम् ॥८॥
अथाप्येनं पश्यास यं रथस्थं महाभुजं शालमिव प्रवृद्धम्
।
सन्दष्टौष्ठं भृकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः॥९॥
आजानेया बलिनः साधु दान्ता महाबलाः शूरमुदावहन्ति
।
एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य गतः पृथिव्याम्॥१०॥
आजानेया अश्वविशेषाः ॥१०॥
नास्यापराद्धाः शेषमवाप्नुवन्ति नायं वैरं विस्मरते कदाचित्
।
वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च गच्छत्यतीव॥११॥
अपराद्धाः अपराधवन्तः । शेषं जीवनं वैरस्यान्तं शत्रुनाशं संविधाय आहृत्य उपयाति कुर्वन्नपि अतीव शान्तिं नोपैतीति । मरणान्तानि वैराणांति लोके प्रसिद्धम् । अयं तु मारयित्वापि पुत्रपौत्रादिकमपि न शेषयतीत्यत्यन्तं दीर्घकोपित्वमुक्तम् ॥११॥
धनुर्धराग्र्यो धृतिमान् यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः
।
भ्राता च शिष्यश्च युधिष्ठिरस्य धनञ्जयो नाम पतिर्ममैषः॥१२॥
यो वै न कामान्न भयान्न लोभात् त्यजेद्धर्मं न नृशंसं च कुर्यात्
।
स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी॥१३॥
यः सवधर्मार्थविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी
।
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे॥१४॥
यं परिरक्षान्ति स नकुल इति द्वयोः सम्बन्धः ॥१४॥
प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्मे
।
यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान् सहदेवोऽद्वितीयः॥१५॥
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये
।
शूरः कृतास्त्रो मतिमान् मनस्वी प्रियङ्करो धर्मसुतस्य राज्ञः॥१६॥
मूढसत्त्व मूढबुद्धे शतक्रतोर्वा शतक्रतोरिव ॥१६॥
य एष चन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च
।
बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः॥१७॥
स एष शूरो नित्यममर्षणश्च धीमान् प्राज्ञः सहदेवः पतिर्मे
।
त्यजेत् प्राणान् प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम्॥१८॥
सदा मनस्वी क्षत्रधर्मे रतश्च कुन्त्याः प्राणैरिष्टतमो नृवीरः
।
विशीर्यन्तीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे॥१९॥
सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः
।
इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमन्य प्रवृत्तः
।
येद्येतेभ्यो मुच्यसेऽरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीव एव॥२०॥
जीव एव जीवन्नेव अमृत्वैव पुनर्जन्म प्राप्स्यसे ॥२०॥
वैशम्पायन उवाच।
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्त्यक्त्वा त्रस्तान् प्राञ्जलींस्तान् पदातीन्
।
यथाऽनीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतः सन्निगृह्य॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि द्रौपदीवाक्ये सप्तत्यधिकद्विशततमोऽध्यायः॥२७०॥
वैशम्पायन उवाच।
सन्तिष्ठत प्रहरत तूर्णं विपरिधावत
।
इति स्म सैन्धवो राजा चोदयामास तान् नृपान्॥१॥
सन्तिष्ठतेति ॥१॥
ततो घोरतमः शब्दो रणे समभवत् तदा
।
भीमार्जुनयमान् दृष्ट्वा सैन्यानां सयुधिष्ठिरान्॥२॥
शिबिसौवीरसिन्धूनां विषादश्चाप्यजायत
।
तान् दृष्ट्वा पुरुषव्याघ्रान् व्याघ्रानिव बलोत्कटान्॥३॥
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्
।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम्॥४॥
तदन्तरमथावृत्य कोटिकास्योऽभ्यहारयत्
।
महता रथवंशेन परिवार्य वृकोदरम्॥५॥
अन्तरमभ्यहारयत् भीमजयद्रथयोर्मध्ये प्रवेशेन व्यवधानं कृतवान् । रथवंशेन रथवर्गेण॥५॥
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः
।
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत॥६॥
गजं तु स गजारोहं पदातींश्च चतुर्दश
।
जघान गदया भीमः सैन्धवध्वजिनीमुखे॥७॥
पार्थः पञ्चशतान् शूरान् पार्वतीयान् महारथान्
।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे॥८॥
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्
।
निमेषमात्रेण शतं जघान समरे तदा॥९॥
ददृशे नकुलस्तत्र रथात् प्रस्कन्द्य खड्गधृक्
।
शिरांसि पादरक्षाणां बीजवत् प्रवपन्मुहुः॥१०॥
सहदेवस्तु संयाय रथेन गजयोधिनः
।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः॥११॥
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्
।
गदया चतुरो वाहान् राज्ञस्तस्य तदाऽवधीत्॥१२॥
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः
।
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्॥१३॥
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्
।
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः॥१४॥
इन्द्रसेनद्वितीयस्तु रथात् प्रस्कन्द्य धर्मराट्
।
हताश्वः सहदेवस्य प्रतिपेदे महारथम्॥१५॥
नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ
।
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम्॥१६॥
तोमरैरभिवर्षन्तौ जीमूताविव वार्षिकौ
।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः॥१७॥
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः
।
रथमाक्षेपयामास गजेन गजयानवित्॥१८॥
नकुलस्त्वपभीस्तस्माद्रथाच्चार्मासिपाणिमान्
।
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः॥१९॥
सुरथस्तं गजवरं वधाय नकुलस्य तु
।
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः॥२०॥
नकुलस्तस्य नागस्य समीपपरिवर्तिनः
।
स विषाणं भुजं मूले खड्गेन निरकृन्तत॥२१॥
सविषाणं भुजं सदन्तं शुण्डादण्डम् । मूले गण्डप्रदेशे ॥२१॥
स विनद्य महानादं गजः किङ्किणिभूषणः
।
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत्॥२२॥
स तत् कर्म महत् कृत्वा शूरो माद्रवतीसुतः
।
भीमसेनरथं प्राप्य शर्म लेभे महारथः॥२३॥
भीमस्त्वापततो राज्ञः कोटिकास्यस्य सङ्गरे
।
सुतस्य नुदतो वाहान् क्षुरेणापाहरच्छिरः॥२४॥
न बुबोध हतं सूतं स राजा बाहुशालिना
।
तस्याश्वा व्यद्रवन् सङ्ख्ये हतसूतास्ततस्ततः॥२५॥
विमुखं हतसूतं तं भीमः प्रहरतां वरः
।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः॥२६॥
तलयुक्तेन मुष्टियुक्तेन ‘तलं स्वरूपे-’ इत्युपक्रम्य ‘चपेटे च त्सरौ’ इति मोदनी । त्सरुः खड्गादिमुष्टिः ॥२६॥
द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः
।
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च॥२७॥
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान् सैन्धवानपि
।
जघानातिरथः सङ्ख्ये बाणगोचरमागतान्॥२८॥
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना
।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः॥२९॥
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति
।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च॥३०॥
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः
।
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः॥३१॥
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः
।
विमुच्य कृष्णां सन्त्रस्तः पलायनमनाऽभवत्॥३२॥
स तस्मिन् संकुले सैन्ये द्रौपदीमवतार्य ताम्
।
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः॥३३॥
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्
।
माद्रीपुत्रेण वीरेण रथमारोपयत् तदा॥३४॥
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे
।
आदिश्यादिश्य नाराचैराजघान वृकोदरः॥३५॥
आदिश्य नाम विश्राव्य ॥३५॥
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्
।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्॥३६॥
सैनिकान् निघ्नन्तं भीमं वारयामास ॥३६॥
अर्जुन उवाच।
यस्यापचारात् प्राप्तोऽयमस्मान् क्लेशो दुरासदः
।
तमस्मिन् समरोद्देशे न पश्यामि जयद्रथम्॥३७॥
समरोद्देशे रणभूमौ ॥३७॥
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः
।
अनामिषमिदं कर्म कथं वा मन्यते भवान्॥३८॥
अन्विष अन्विच्छ ॥३८॥
वैशम्पायन उवाच।
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता
।
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्॥३९॥
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः
।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः॥४०॥
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
।
प्राप्याश्रमपदं राजन् द्रौपदीं परिसान्त्वय॥४१॥
न हि मे मोक्ष्यते जीवन् मूढः सैन्धवको नृपः
।
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः॥४२॥
युधिष्ठिर उवाच।
न हन्तव्यो महाबाहो दुरात्माऽपि स सैन्धवः
।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्॥४३॥
दुःशलां दुर्योधनभगिनीम् ॥४३॥
वैशम्पायन उवाच।
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया
।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ॥४४॥
कर्तव्यं चेत् प्रियं मह्यं वध्यः स पुरुषाधमः
।
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः॥४५॥
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः
।
याचमानोऽपि सङ्ग्रामे न मोक्तव्यः कथञ्चन॥४६॥
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः
।
राजा निववृते कृष्णामादाय सपुरोहितः॥४७॥
स प्रविश्याश्रमपदमपविद्धवृसीमठम्
।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह॥४८॥
अपविद्धा इतस्ततो विशीर्णा वृस्यो ऋषीणामासनानि मठाश्च छात्राणामालया यत्र तत् ॥४८॥
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः
।
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः॥४९॥
ते स्म तं मुदिता दृष्ट्वा पुनः प्रत्यागतं नृपम्
।
जित्वा तान् सिन्धुसौवीरान् द्रौपदीं चाहतां पुनः॥५०॥
स तैः परिवृतो राजा तत्रैवोपविवेश ह
।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भाविनी॥५१॥
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्
।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्॥५२॥
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः
।
क्रोशमात्रगतानश्वान् सैन्धवस्य जघान् यत्॥५३॥
स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः
।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः॥५४॥
ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ
।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्॥५५॥
सैन्धवस्तु हतान् दृष्ट्वा तथाऽश्वान्स्वान् सुदुःखितः
।
अतिविक्रमकर्माणि कुर्वाणं च धनञ्जयम्॥५६॥
अतिविक्रमयुक्तानि कर्माणि ॥५६॥
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्
।
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने॥५७॥
अनुयाय महाबाहुः फाल्गुनो वाक्यमब्रवीत्
।
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्॥५८॥
राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
।
कथं ह्यनुचरान् हित्वा शत्रुमध्ये पलायसे॥५९॥
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
।
तिष्ठ तिष्ठेति तं भीमः सहसाऽभ्यद्रवद्वली
।
मावधीरिति पार्थस्तं दयावान् प्रत्यभाषत॥६०॥
इति श्रीमहाभारते आरण्यके पर्वणि द्रौपदीहरणपर्वणि जयद्रथपलायने एकसप्तत्यधिकद्विशततमोऽध्यायः॥२७१॥