वैशम्पायन उवाच।
जयद्रथस्तु सम्प्रेक्ष्य भ्रतरावुद्यतावुभौ
।
प्राधावत् तूर्णमव्यग्रो जीवितेप्सः सुदुःखितः॥१॥
जयद्रतस्त्विति ॥१॥
तं भीमसेनो धावन्तमवीर्य रथाद्बली
।
अभिद्रुत्य निजग्राह केशपक्षे ह्यमर्षणः॥२॥
समुद्यम्य च तं भीमो निष्पिपेष महीतले
।
शिरो गृहीत्वा राजानं ताडयामास चैव ह॥३॥
अत्रास्य जयद्रथस्य परदारहर्तुः क्षत्रियाधमत्वात् । पञ्चधा मारणमुक्तं शिरोगृहीत्वेत्यादिना शिरःकेशेष्वित्यर्थः । ताडयामास चपेटाभिरिति शेषः । यथोक्तं नीतिशास्त्रे 'वामपाणिकचोत्पीडा भूमौ निष्पेषणं बलात् । मूर्ध्नि पादप्रहरणं जानुनोदरमर्दनम् । मालूराकारया मुष्ट्या कपोले दृढताडनम् । कफोणिपातोऽप्यसकृत् सर्वतस्तलताडनम् । तालेन युद्धे भ्रमणं मारणं स्मृतमष्टधा' इति । 'चतुर्भिः क्षत्रियं हन्यात् पञ्चाभिः क्षत्रियाधमम् । षड्भिर्वैश्यं सप्तभिस्तु शूद्रं सङ्करमष्टाभिः' इति ॥३॥
पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः
।
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः॥४॥
तस्य जानू ददौ भीमो जघ्ने चैनमरत्निना
।
स मोहमगमद्राजा प्रहारवरपीडितः॥५॥
सरोषं भीमसेनं तु वारयामास फाल्गुनः
।
दुःशलायाः कृते राजा यत् तदाहेति कौरव॥६॥
भीमसेन उवाच।
नायं पापसमाचारो मत्तो जीवितुमर्हति
।
कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः॥७॥
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी
।
त्वं च बालिशया बुद्ध्या सदैवास्मान् प्रबाधसे॥८॥
घृणी दयावान् । बालिशया । स्वल्पया बाधसे शत्रुं हन्तुं न ददासि ॥८॥
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः
।
अर्धचन्द्रेण बाणेन किंञ्चिदब्रुवतस्तदा॥९॥
सटाः जटाः केशसन्निवेशे मध्ये मध्ये पञ्चसु स्थानेषु अर्धचन्द्रेण बाणेन क्षौरवद्वापयामासेत्यर्थः ॥९॥
विकत्थयित्वा राजानं ततः प्राह वृकोदरः
।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु॥१०॥
दासोऽस्मीति तथा वाच्यं संसत्सु च सभासु च
।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः॥११॥
एवमस्त्विति तं राजा कृष्यमाणो जयद्रथः
।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्॥१२॥
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः
।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्॥१३॥
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा
।
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम्॥१४॥
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्
।
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्॥१५॥
राजानं चाब्रवीद्भीमो द्रौपद्याः कथ्यतामिति
।
दासभाव गतो ह्येष पाण्डूनां पापचेतनः॥१६॥
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः
।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम्॥१७॥
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्
।
दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः॥१८॥
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्
।
ववन्दे विह्वलो राजंस्तांश्च दृष्ट्वा मुनींस्तदा॥१९॥
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः
।
तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना॥२०॥
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्
।
स्त्रीकामं वा धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्॥२१॥
एवंविधं हि कः कुर्यात् त्वदन्यः पुरुषाधमः
।
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्॥२२॥
सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः
।
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः॥२३॥
साश्वः सरथपादातः खस्ति गच्छ जयद्रथ
।
एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः॥२४॥
जगाम राजन् दुःखार्तो गङ्गाद्वाराय भारत
।
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्॥२५॥
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः
।
बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस्त्रिलोचनः॥२६॥
बलिमुपहारम् ॥२६॥
वरं चास्मै ददौ देवः स जग्राह च तच्छृणु
।
समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान्॥२७॥
इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत्
।
अजय्यांश्चाप्यवध्यांश्च वारयिष्यास तान् युधि॥२८॥
ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम्
।
बदर्यां तप्ततपसं नारायणसहायकम्॥२९॥
नारायणः सहायो यस्य तं नारायणसहायकम् ॥२९॥
अजितं सर्वलोकानां देवैरपि दुरासदम्
।
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्॥३०॥
शरं शृणाति हिनस्तीति शरमस्त्रम् ॥३०॥
अवाप लोकपालेभ्यो वज्रादीन् स महाशरान्
।
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः
।
प्रधानपुरुषोऽव्यक्तो विश्वात्मा विश्वमूर्तिमान्॥३१॥
नारायणसहायस्याजेयत्वं वक्तुं नारायणमाहात्म्यमेवाह देव देव इत्यादिना । देवानां द्योतकानां सूर्यचन्द्राग्निचक्षुर्मनोवाचां ज्योतिषां देवः प्रकाशकः। 'येन सूर्यस्तपि तेजसेद्धः' 'येन चक्षूंषि पश्यन्ति' इत्यादिश्रुतिभ्यः । अनन्तः त्रिविधपरिच्छेदशून्यः आत्मा स्वरूपं यस्य । प्रधानं त्रिगुणात्मिका माया । पुरुषश्चिद्रूपः तदुभयात्मा चिदचिन्मयः । अव्यक्तो जगत्कारणरूपो बीजान्तर्गतवटतुल्यः । अत एव विश्वात्मा विश्व एवात्मा चेतनांशेन विश्वमूर्तिमान् जडांशेन ॥३१॥
युगान्तकाले सम्प्राप्ते कालाग्निर्दहते जगत्
।
सपर्वतार्णवद्वीपं सशैलवनकाननम्॥३२॥
एवं नारायणस्य जगद्धेतुत्वमुक्त्वा तस्य जगत्संहर्तृत्वमाह युगान्तेति । कालाग्निरूपो नारायणो निर्दहते ॥३२॥
निर्दहन्नागलोकांश्च पातालतलचारिणः
।
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः॥३३॥
घोरस्वरा विनदिनस्तडिन्मालावलम्बिनः
।
समुत्तिष्ठन् दिशः सर्वा विवर्षन्तः समन्ततः॥३४॥
विनदिनो गर्जन्तः समुत्तिष्ठन् समुदतिष्ठन् । उत्तिष्ठन्तीत्यर्थः ॥३४॥
ततोऽग्निं नाशयामासुः संवर्ताग्निनियामकाः
।
अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः॥३५॥
नाशयामासुः पयोधरा इति पूर्वेणान्वयः । अक्षमात्रैः रथाक्षमात्राभिः स्थूलाभिः । सामान्ये नपुंसकम् । यद्वा । धाराभिरिति धाराशब्द आकारान्तः सोमपाशब्दवत् पुल्लिङ्गः । धावमाना एव रान्ति आददते लेदनीयं वस्त्विति धाराः । रा आदानेऽस्मात् क्विप् ॥३५॥
एकार्णवे तदा तस्मिन्नुपशान्तचराचरे
।
नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते॥३६॥
एकार्णवे इति । अवान्तरप्रलयेऽस्मिन् पवननाशोक्तिर्निदाघ इव तदनुपलम्भमात्रपरा ॥३६॥
चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही
।
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्॥३७॥
चतुर्युगसहस्रप्रमाणं ब्रह्मणो दिनम् । तदन्ते आप्लुता सलिलेऽन्तर्हितेत्यर्थः । नारायण इत्याख्या नाम यस्य । यद्वा। नारायणादेव आख्या प्रथा यस्य स हिरण्यगर्भः सूत्रात्मा विश्वाभिमानी अत एव सहस्रपादादिमान् ॥३७॥
सहस्रशीर्षा पुरुषः स्वप्तुकामस्त्वतीन्द्रियः
।
फटासहस्त्रविकटं शेषं पर्यङ्कभाजनम्॥३८॥
स्वप्तुकामः खादिनान्ते फटासहस्रं फणासहस्रम् । अध्यतिष्ठदिति शेषः ॥३८॥
सहस्रमिव तिग्मांशुसङ्घातममितद्युतिम्
।
कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम्॥३९॥
अमितद्युतिमत्यन्तं द्योतमानम् ॥३९॥
तत्रासौ भगवान् देवः स्वपन् जलनिधौ तदा
।
नैशेन तमसा व्याप्तां स्वां रात्रिं कुरुते विभुः॥४०॥
सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमपश्यत
।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति॥४१॥
सत्वोद्रेकात्तमसोऽभिभवे सति सत्त्वस्याविर्भावात् शून्यं प्राणिसञ्चारहीनम् ॥४१॥
आपो नारास्तत्तनव इत्यपां नाम शुश्रुम
।
अयनं तेन चैवास्ते तेन नारायणः स्मृतः॥४२॥
नारायणपदं निर्वक्ति आप इति । नराज्जाता नाराः । 'नृनरयोर्वृद्धिश्च' इति गौरादिगणपाठात् प्राप्तो ङीष् गणकार्यस्यानित्यत्वान्न । तत्तनवः तस्य नारायणस्यैव तनवः । यथा सौवर्णं कुण्डलं सुवर्णमेव एवं नरजा आपो नर एवेत्यर्थः । नारा आपो देहाद्याकारपरिणता अयनं निवासस्थानं यस्य । अथवा ताभिः सह तत्तादात्म्यं प्राप्य आस्ते इति वा नारायण इति । 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः'। इति च श्रुतिः। परमात्मन एव सृष्टदेहे प्रवेशं देहसम्बन्धेन भोक्तृत्वं च दर्शयति । तेन 'चेतनाचेतनं सर्वं जगन्नारायणात्मम्' इत्युक्तं भवति ॥४२॥
प्रध्यानसमकालं तु प्रजाहेतोः सनातनः
।
ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः॥४३॥
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः
।
तत्रोपविष्टः सहसा पद्मे लोकपितामहः॥४४॥
प्रध्यानेति । ध्यानसमकाले प्रजाहेतोः प्रजानामुत्पत्त्यर्थं सनातनश्चिरन्तनो ब्रह्मा नाभिपद्माद्विनिःसृतः । तादृशेन रूपेण ध्यातुर्दृष्टौ प्रत्यभादित्यर्थः । ततो ध्यातमात्रे ध्यानानन्तरं विष्णोर्नाभ्यां पद्मः समुत्थितः। तस्मिंश्च पद्मे पितामह उपविष्ट इति क्रमभङ्गेन योज्यम् ॥४४॥
शून्यं दृष्ट्वा जगत् कृत्स्नं मानसानात्मनः समान्
।
ततो मरीचिप्रमुखान् महर्षीनसृजन्नव॥४५॥
मरीचिप्रमुखान् - 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठो नारदश्चैव भृगुर्नव महर्षयः ॥४५॥
तेऽसृजन् सर्वभूतानि त्रसानि स्थावराणि च
।
यक्षराक्षसभूतानि पिशाचोरगमानुषान्॥४६॥
त्रसानि जङ्गमानि ॥४६॥
सृज्यते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः
।
रौद्रीभावेन शमयेत् तिस्रोऽवस्थाः प्रजापतेः॥४७॥
प्रजापतेरीश्वरस्य मायाशबलस्य तिस्रोऽवस्था एकैकगुणोत्कर्षनिमित्ताः । रजस उत्कर्षे ब्रह्मा संसृज्यते । सत्त्वोत्कर्षे पौरुषीं वैष्णवीं तनुं प्रविश्य रक्षति । तमस उत्कर्षे रौद्रीभावेन रुद्रभावेन शमयेदिति ॥४७॥
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः
।
कथ्यमानानि मुनिभिर्बाह्मणैर्वेदपारगैः॥४८॥
हे सिन्धुपते ते तव श्रुतं श्रवणं नास्ति यतो विष्णोः अद्भुतकर्मणः कथ्यमानानि कथनीयानि कर्माणि न वेत्सीति शेषः ॥४८॥
जलेन समनुप्राप्ते सर्वतः पृथिवीतले
।
तदा चैकार्णवे तस्मिन्नेकाकाशे प्रभुश्चरन्॥४९॥
तान्येव कर्माण्याह एकार्णवे सति । एकाकाशे आकाशमात्रे वायुतेजः पृथिवीरहिते जलमात्रे सति ॥४९॥
निशायामिव खद्योतः प्रावृट्काले समन्ततः
।
प्रतिष्ठानाय पृथिवीं मागमाणस्तदाऽभवत्॥५०॥
खद्योत इति प्रकाशमात्रत्वमुच्यते । प्रतिष्ठानाय लोकप्रतिष्ठापनार्थम् ॥५०॥
जले निमग्नां गां दृष्ट्वा चोद्धर्तुं मनसेच्छति
।
किं नु रूपमहं कृत्त्वा सलिलादुद्धरे महीम्॥५१॥
एवं सञ्चिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा
।
जलक्रीडाभिरुचितं वाराहं रूपमस्मरत्॥५२॥
जलक्रीडायामभिरुचितं प्रीतिर्यस्य ॥५२॥
कृत्वा वराहवपुषं वाङ्मयं वेदसम्मितम्
।
दशयोजनविस्तीर्णमायतं शतयोजनम्॥५३॥
वराहवपुषमात्मानमिति शेषः । वाङ्मयं चतुर्वेदमयम् । वेदसम्मितं वेदप्रमितयज्ञरूपम्॥५३॥
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रं प्रदीप्तिमत्
।
महामेघौघनिर्घोषं नीलजीमूतसन्निभम्॥५४॥
वर्ष्म शरीरम् ॥५४॥
भूत्वा यज्ञवराहो वै अपः सम्प्राविशत् प्रभुः
।
दंष्ट्रेणैकेन चोद्धृत्य स्वे स्थाने न्यविशन्महीम्॥५५॥
दंष्ट्रेण दंष्ट्रया न्यविशत् न्यवेशयत् ॥५५॥
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः
।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः॥५६॥
एवं वराहावतारमुक्त्वा नरसिंहावतारमाह पुनरेवेत्यादिना । अपूर्वां लोके पूर्वं न दृष्टाम् ॥५६॥
दैत्येन्द्रस्य सभां गत्वा पाणिं संस्पृश्य पाणिना
।
दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः॥५७॥
दृष्ट्वा चापूर्वपुरुषं क्रोधात् संरक्तलोचनः
।
शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा॥५८॥
मेघस्तनितानिर्घोषो नीलाभ्रचयसन्निभः
।
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत्॥५९॥
समुपेत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा
।
नारसिंहेन वपुषा दारितः करजैर्भृशम्॥६०॥
मृगेन्द्रेणापि समुपेत्य दैत्यसमीपे गत्वा समुपाद्रवन् हिरण्यकशिपुः करजैर्नखैर्दारितः ॥६०॥
एवं निहत्य भगवान् दैत्येन्द्रं रिपुघातिनम्
।
भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च॥६१॥
एवं नृसिंहावतारकथामुपसंहृत्य वामनावतारकथां प्रस्तौति एवमिति ॥६१॥
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः
।
पूर्णे वर्षसहस्त्रे तु प्रसूता गर्भमुत्तमम्॥६२॥
गर्भे धारितः गर्भधारितः। सप्तमीति योगविभागात् समासः ॥६२॥
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः
।
दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः॥६३॥
दुर्दिनं प्रावृट्दिनं तत्र भवोम्भोदः कृष्णमेघस्तत्सदृशः । 'मेघच्छन्नेऽह्नि दुर्दिनम् 'इत्यमरः । श्रीवत्सेन उरसि भूषित इति लुप्तविभक्तिकं पदम् ॥६३॥
जटी यज्ञोपवीती च भगवान् बालरूपधृक्
।
यज्ञवाटं गतः श्रीमान् दानवेन्द्रस्य वै तदा॥६४॥
बालो वामनः वाटं स्थानम् ॥६४॥
बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे
।
तं दृष्ट्वा वामनतनुं प्रहृष्टो बलिरब्रवीत्॥६५॥
बलिनो बलेः अयमिकारान्त इन्नन्तश्च शब्दो दृश्यते ॥६५॥
प्रीतोऽस्मि दर्शने विप्र ब्रूहि त्वं किं ददानि ते
।
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह॥६६॥
ददानि त्वदीप्सितमिति शेषः ॥६६॥
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत
।
मेदिनीं दानवपते देहि मे विक्रमत्रयम्॥६७॥
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे
।
ततो दिव्याद्भुततमं रूपं विक्रमतो हरेः॥६८॥
दिव्यं च तत् अद्भुततमं च रूपं बभूवेति शेषः ॥६८॥
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्
।
ददौ शक्राय च महीं विष्णुर्देवः सनातनः॥६९॥
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः
।
तेन देवाः प्रादुरासन् वैष्णवं चोच्यते जगत्॥७०॥
असतां निग्रहार्थाय धर्मसंरक्षणाय च
।
अवतीर्णो मनुष्याणामजायत यदुक्षये॥७१॥
अवतीर्णोऽवतरणं कुर्वन्नजायत आविर्भूतः । यदुक्षये यदूनां गृहे ॥७१॥
स एवं भगवान् विष्णुः कृष्णेति परिकीर्त्यते
।
अनाद्यन्तमजं देवं प्रभुं लोकनमस्कृतम्॥७२॥
यदेवं विदुषो गान्ति तस्य कर्माणि सैन्धव
।
यमाहुरजितं कृष्णं शङ्खचक्रगदाधरम्॥७३॥
तस्य कर्माणि विदुषो विद्वांसः गान्ति गायन्ति ॥७३॥
श्रीवत्सधारिणं देवं पीतकौशेयवाससम्
।
प्रधानं सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते॥७४॥
सः अर्जुनः अस्त्रविदुषां प्रधानं श्रेष्ठः । यमजितमाहुस्तेन कृष्णेन रक्ष्यते ॥७४॥
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः
।
समानस्यन्दने पार्थमास्थाय परवीरहा॥७५॥
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः
।
कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति॥७६॥
तेन कृष्णसहायत्वेन हेतुना भावः पूज्यतमः । 'भावः पूज्यतमे लोके' इत्यनेकार्थः॥७६॥
तमेकं वर्जयित्वा तु सर्वं यौधिष्ठिरं बलम्
।
चतुरः पाण्डवान् राजन् दिनैकं जेष्यसे रिपून्॥७७॥
दिनैकं एकदिनमेव न सर्वदा॥७७॥
वैशम्पायन उवाच।
इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः
।
उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः॥७८॥
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः
।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः॥७९॥
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः
।
उमासहायो भगवांस्तत्रैवान्तरधीयत॥८०॥
दक्षयज्ञे भगस्य नेत्रे निपातितवान् भगनेत्रनिपातनः॥८०॥
जयद्रथोऽपि मन्दात्मा स्वमेव भवनं ययौ
।
पाण्डवाश्च वने तस्मिन्न्यवसन् काम्यके तथा॥८१॥