अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

रामोपाख्यानपर्व

त्रिसप्तत्यधिकद्विशततमोऽध्यायः

जनमेजय उवाच। एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः॥१॥

एवमिति ॥१॥

वैशम्पायन उवाच। एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः॥२॥

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत् पाण्डुनन्दनः॥३॥

युधिष्ठिर उवाच। भगवन् देवर्षीणां त्वं ख्यातो भूतभविष्यवित् ।
संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम्॥४॥

द्रुपदस्य सुता ह्येषा वेदिमध्यात् समुत्थिता ।
अयोनिजा महाभागा स्नुषा पाण्डोर्महात्मनः॥५॥

मन्ये कालश्च भगवान् दैवं च विधिनिर्मितम् ।
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः॥६॥

दैवं धर्माधर्मौ । विधिः सदसत्कर्मणी ताभ्यां निर्मितम् ॥६॥

इमां हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्॥७॥

ईदृशो भावः । परेण हरणम् ॥७॥

न हि पापं कृतं किञ्चित् कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्॥८॥

तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात् पापः शिरसः केशपातनम्॥९॥

पराजयं च सङ्ग्रामे ससहायः समाप्तवान् ।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत् सैन्धवं बलम्॥१०॥

तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ।
दुःखश्चायं वने वासो मृगयायां च जीविका॥११॥

हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्॥१२॥

मिथ्याव्यवसितैः वृथातापसवेषधरैः । इयं हिंसा क्रियत इति शेषः ॥१२॥

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्॥१३॥

मया सम इति शेषः॥१३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि युधिष्ठिरप्रश्ने त्रिसप्तत्यधिकद्विशततमोऽध्यायः॥२७३॥
चतुःसप्तत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा॥१॥

प्राप्तमिति ॥१॥

आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्॥२॥

मायां संन्यासिवेषम् ॥२॥

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः॥३॥

युधिष्ठिर उवाच। कस्मिन् रामः कुले जातः किंवीर्यः किम्पराक्रमः ।
रावणः कस्य पुत्रो वा किं वैरं तस्य तेन ह॥४॥

एतन्मे भगवन् सर्वं सम्यगाख्यातुमर्हसि ।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः॥५॥

मार्कण्डेय उवाच। अजो नामाऽभवद्राजा महानिक्ष्वाकुवंशजः ।
तस्य पुत्रो दशरथः शश्वत् स्वाध्यायवाञ्छुचिः॥६॥

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः॥७॥

रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ॥८॥

विदेहराजो जनकः सीता तस्यात्मजा विभो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्॥९॥

त्वष्टा प्रजापतिः स्वयमेव सङ्कल्पेन चकार न तु मैथुनद्वारा । अयोनिजामित्यर्थः ॥९॥

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर॥१०॥

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः॥११॥

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः॥१२॥

गवि गोसंज्ञायां भार्यायाम् ॥१२॥

पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात् पिता राजन् ससर्जात्मानमात्मना॥१३॥

तस्य वैश्रवणस्य कोपात् मां त्यक्त्वा मत्पितरं सेवत इत्यतिज्वलनात् वैश्रवणं बाधितुं पुलस्त्य एव योगबलेन विश्रवःसंज्ञं देहान्तरं चक्रे इत्यर्थः ॥१३॥

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै॥१४॥

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च॥१५॥

ईशानेन तथा सख्यं पुत्रं च नलकूबरम् ।
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्॥१६॥

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः ।
यक्षाणामाधिपत्यं च राजराजत्वमेव च॥१७॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामरावणयोर्जन्मकथने चतुःसप्तत्यधिकद्विशततमोऽध्यायः॥२७४॥
पञ्चसप्तत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः ।
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत॥१॥

बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप॥२॥

पुलस्त्यस्येति । पितरं विश्रवसं राक्षसेश्वरः कुबेरो रक्षः पुरीनायकत्वात् ॥२॥

स राजराजो लङ्कायां न्यवसन्नरवाहनः ।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः॥३॥

ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः ।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः॥४॥

पुष्पोत्कटा च राका च मालिनी च विशाम्पते ।
अन्योन्यस्पर्धया राजन् श्रेयस्कामाः सुमध्यमाः॥५॥

स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान्॥६॥

पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि॥७॥

मालिनी जनयामास पुत्रमेकं विभीषणम् ।
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा॥८॥

विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः॥९॥

दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः ।
महोत्साहो महावीर्यो महासत्त्वपराक्रमः॥१०॥

कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको युधि ।
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः॥११॥

खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः ।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा॥१२॥

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
ऊषुः पित्रा सह रता गन्धमादनपर्वते॥१३॥

पित्रा विश्रवसा ॥१३॥

ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्॥१४॥

जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः ।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा॥१५॥

अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः॥१६॥

पञ्चदिक्षु चत्वार एकः सूर्य इति पञ्चानामग्नीनां मध्यगः पञ्चाग्निः ॥१६॥

अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन्॥१७॥

विभीषणः तप आतिष्ठदित्यन्वयः ॥१७॥

उपवासरतिर्धीमान् सदा जप्यपरायणः ।
तमेव कालमातिष्ठत् तीव्रं तप उदारधीः॥१८॥

खरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ॥१९॥

पूर्णे वर्षसहस्त्रे तु शिरच्छित्वा दशाननः ।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः॥२०॥

ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।
प्रलोभ्य वरदानेन सर्वानेव पृथक् पृथक्॥२१॥

ब्रह्मोवाच। प्रीतोऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः ।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत्॥२२॥

यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया॥२३॥

महदीप्सया श्रेष्ठपदापेक्षया ॥२३॥

वैरूप्यं च न ते देहे कामरूपधरस्तथा ।
भविष्यसि रणेऽरीणां विजेता न च संशयः॥२४॥

रावण उवाच। गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।
सर्पकिन्नरभूतेभ्यो न मे भूयात् पराभवः॥२५॥

ब्रह्मोवाच ।
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव ।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया॥२६॥

मार्कण्डेय उवाच। एवमुक्तो दशग्रीवस्तुष्टः समभवत् तदा ।
अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः॥२७॥

कुम्भकर्णमथोवाच तथैव प्रपितामहः ।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः॥२८॥

तमसेति अनिष्टामपि निद्रां मोहाद्वृतवानित्यर्थः ॥२८॥

तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह ।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः॥२९॥

विभीषण उवाच। परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।
अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे॥३०॥

ब्रह्मोवाच। यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते॥३१॥

मार्कण्डेय उवाच। राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशाम्पते ।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्॥३२॥

हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् ।
गन्धर्वयक्षानुगतो रक्षः किं पुरुषैः सह॥३३॥

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति॥३४॥

यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि॥३५॥

योनौ क्षेत्रे न तु रेतोऽत्र राक्षसमस्ति । तस्मान्मातृदोषादेव क्रौर्यं रावणादीनामित्यर्थः । ‘नराणां मातुलक्रमः’ इति प्रसिद्धम् ॥३५॥
न भविष्यसि मरिष्यसि ॥३५॥

विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन् ।
अन्वगच्छन् महाराज श्रिया परमया युतः॥३६॥

तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।
सैनापत्यं ददौ धीमान् यक्षराक्षससेनयोः॥३७॥

राक्षसाः पुरुषादाश्च पिशाचाश्च महाबालाः ।
सर्वे समेत्य राजानमभ्यषिञ्चन् दशाननम्॥३८॥

दशग्रीवश्च दैत्यानां देवानां च बलोत्कटः ।
आक्रम्य रत्नान्यहरत् कामरूपी विहङ्गमः॥३९॥

अन्वगच्छत् कुबेरमिति शेषः ॥३९॥
रत्नानि । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’। विहङ्गमः खेचरः ॥३९॥

रावयामास लोकान् यत् तस्माद्रावण उच्यते ।
दशग्रीवः कामबलो देवानां भयमादधत्॥४०॥

रावयामास हिंसार्थस्य रुङो रूपमिदम् ॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रावणादिवरप्राप्तौ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः॥२७५॥
षट्सप्तत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा ।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः॥१॥

तत इति ॥१॥

अग्निरुवाच। योऽसौ विश्रवसः पुत्रो दशग्रीवो महाबलः ।
अवध्यो वरदानेन कृतो भगवता पुरा॥२॥

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते॥३॥

विप्रकारैः विविधैः प्रकारैः ॥३॥

ब्रह्मोवाच। न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।
विहितं तत्र यत् कार्यमभितस्तस्य निग्रहः॥४॥

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।
विष्णुः प्रहरतां श्रेष्ठः स तत् कर्म करिष्यति॥५॥

मार्कण्डेय उवाच। पितामहस्ततस्तेषां सन्निधौ शक्रमब्रवीत् ।
सर्वैर्देवगणैः सार्धं सम्भव त्वं महीतले॥६॥

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।
जनयध्वं सुतान् वीरान् कामरूबलान्वितान्॥७॥

ततो भागानुभागेन देवगन्धर्वदानवाः ।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा॥८॥

तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः ।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये॥९॥

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।
मन्थरा मानुषे लोके कुब्जा समभवत् तदा॥१०॥

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्॥११॥

तेऽन्ववर्तन् पज़्तॄन् सर्वे यशसा च बलेन च ।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः॥१२॥

वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ।
कामवीर्यबलाश्चैव सर्वे युद्धविशारदाः॥१३॥

वज्रसंहननाः वज्रवद्दृढाङ्गाः ॥१३॥

नागायुतसमप्राणा वायुवेगसमा जवे ।
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः॥१४॥

यत्रेच्छा तत्रैव निवासो येषां ते यत्रेच्छकनिवासाः ॥१४॥

एवं विधाय तत् सर्वं भगवाँल्लोकभावनः ।
मन्थरां बोधयामास यद्यत् कार्यं यथा यथा॥१५॥

यद्यत् कार्यं कैकेयीप्रलोभनं रामप्रव्राजनादि च ॥१५॥

सा तद्वचः समाज्ञाय तथा चक्रे मनोजवा ।
इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता॥१६॥

सन्धुक्षणे दीपने ॥१६॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि वानराद्युत्पत्तौ षट्सप्तत्यधिकद्विशततमोऽध्यायः॥२७६॥
सप्तसप्तत्यधिकद्विशततमोऽध्यायः

युधिष्ठिर उवाच। उक्तं भगवता जन्म रामादीनां पृथक् पृथक् ।
प्रस्थानकारणं ब्रह्मन् श्रोतुमिच्छामि कथ्यताम्॥१॥

उक्तमिति ॥१॥

कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।
सम्प्रस्थितौ वने ब्रह्मन् मैथिली च यशस्विनी॥२॥

मार्कण्डेय उवाच। जातपुत्रो दशरथः प्रीतिमानभवन्नृप ।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता॥३॥

क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः॥४॥

चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव ।
यदा तदा दशरथः प्रीतिमानभवत् सुखी॥५॥

ज्येष्ठो रामोऽभवत् तेषां रमयामास हि प्रजाः ।
मनोहरतया धीमान् पितुर्हृदयनन्दनः॥६॥

रामपदं निर्वक्ति ज्येष्ठ इति ॥६॥

ततः स राजा मतिमान् मत्वाऽऽत्मानं वयोधिकम् ।
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः॥७॥

अभिषेकाय रामस्य यौवराज्येन भारत ।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः॥८॥

लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम्॥९॥

महान्तौ शत्रुजयक्षमौ बाहू यस्य तम् । दीर्घौ आजानुपर्यन्तौ बाहू यस्य तम् ॥९॥

दीप्यमानं श्रिया वीरं शक्रादनवरं रणे ।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ॥१०॥

सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्॥११॥

सर्वशः अनुरक्ताः प्रकृतयः प्रजा यस्मिंस्तं सर्वानुरक्तप्रकृतिम् ॥११॥

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम्॥१२॥

पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।
सन्दृश्य परमां प्रीतिमगच्छत् कुरुनन्दन॥१३॥

चिन्तयंश्च महातेजा गुणान् रामस्य वीर्यवान् ।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्॥१४॥

भद्रं ते इति युधिष्ठिरं प्रति आशीर्वचनम् । पुरोहितं वसिष्ठम् ॥१४॥

अद्य पुष्यो निशि ब्रह्मन् पुण्यं योगमुपैष्यति ।
सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्॥१५॥

इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।
कैकेयीमभिगम्येदं काले वचनमब्रवीत्॥१६॥

अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।
आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशतु दुर्भगे॥१७॥

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्॥१८॥

सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम्॥१९॥

वेदीवत् विलग्नः कृशो मध्यो यस्याः ॥१९॥

विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत्॥२०॥

सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् ।
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात्॥२१॥

कामं वरम् । उपाकुरुष्व देहि सङ्कटात् कष्टात् ॥२१॥

राजोवाच। वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम्॥२२॥

धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः ।
ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे॥२३॥

पृथिव्यां राजराजोऽस्मि चातुर्वर्ण्यस्य रक्षिता ।
यस्तेऽभिलषितः कामो ब्रूहि कल्याणि मा चिरम्॥२४॥

सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् ।
आत्मनो बलमाज्ञाय तत एनमुवाच ह॥२५॥

आभिषेचनिकं यत् ते रामार्थमुपकल्पितम् ।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः॥२६॥

स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् ।
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह॥२७॥

ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति॥२८॥

तमन्वगच्छल्लक्ष्मीवान् धनुष्माँल्लक्ष्मणस्तदा ।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा॥२९॥

सीता लाङ्गलपद्धतिस्ततो जातत्वादियमपि सीता विदेहापत्यत्वाद्वैदेही ॥२९॥

ततो वनं गते रामे राजा दशरथस्तदा ।
समयुज्यत देहस्य कालपर्यायधर्मणा॥३०॥

कालपर्यायधर्मणा मृत्युना ॥३०॥

रामं तु गतमाज्ञाय राजानं च तथागतम् ।
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्॥३१॥

गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम्॥३२॥

तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया॥३३॥

अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह॥३४॥

स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ ।
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः॥३५॥

चारित्र्यं विशोध्य इदं कैकेय्यैव कृतं न तु मयेति प्रदर्श्य ॥३५॥

कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ॥३६॥

वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया॥३७॥

ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।
तापसानामलङ्कारं धारयन्तं धनुर्धरम्॥३८॥

विसर्जितः स रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके॥३९॥

रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति॥४०॥

सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत् तदा॥४१॥

वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।
खरेणासीन्महद्वैरं जनस्थाननिवासिना॥४२॥

रक्षार्थं तापसानां तु राघवो धर्मवत्सलः ।
चतुर्दशसहस्राणि जघान भुवि राक्षसान्॥४३॥

दूषणं च खरं चैव निहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः॥४४॥

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम्॥४५॥

ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता ।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना॥४६॥

तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः ।
उत्पपातासनात् क्रुद्धो दन्तैर्दन्तानुपस्पृशन्॥४७॥

स्वानमात्यान् विसृज्याथ विविक्ते तामुवाच सः ।
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च॥४८॥

कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते ।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम्॥४९॥

आशीविषं घोरतरं पादेन स्पृशतीह कः ।
सिंहं केसरिणं कश्च दंष्ट्रायां स्पृश्य तिष्ठति॥५०॥

सिंहं हिंस्रं केसरिणं सटावन्तं मृगराजम् ॥५०॥

इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः ।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः॥५१॥

स्रोतोभ्यश्चक्षुरादिरन्ध्रेभ्यः तेजसोऽर्चिषोऽग्नेर्ज्वालाः ॥५१॥

तस्य तत् सर्वमाचख्यौ भगिनी रामविक्रमम् ।
खरदूषणसंयुक्तं राक्षसानां पराभवम्॥५२॥

खरदूषणसंयुक्तं तत्पराभवसहितम् ॥५२॥

स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च ।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्॥५३॥

विधिं रक्षाम् ॥५३॥

त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।
ददर्श मकरावासं गम्भीरोदं महोदधिम्॥५४॥

पुरा रामभयात् विश्वामित्रयज्ञप्रसङ्गेन जातात् ॥५४॥

तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः॥५५॥

तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः ।
पुरा रामभयादेव तापस्यं समुपाश्रितम्॥५६॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामवनाभिगमने सप्तसप्तत्यधिकद्विशततमोऽध्यायः॥२७७॥
अष्टसप्तत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम् ।
पूजयामास सत्कारैः फलमूलादिभिस्ततः॥१॥

मारीच इति ॥१॥

विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः ।
उवाच प्रसृतं वाक्यं वाक्यज्ञो वाक्यकोविदम्॥२॥

प्रसृतं पुष्कलार्थवत् ॥२॥

न ते प्रकृतिमान् वर्णः कच्चित् क्षेमं पुरे तव ।
कच्चित् प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा॥३॥

किमिहागमने चापि कार्यं ते राक्षसेश्वर ।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्॥४॥

शशंस रावणस्तस्मै तत् सर्वं रामचेष्टितम् ।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः॥५॥

मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै॥६॥

राममासाद्य अलम् । रामं नैवासादयेरित्यर्थः । ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति निषेधार्थकालंशब्दयोगे क्त्वाप्रत्ययः ॥६॥

बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः॥७॥

विनाशमुखमेतत् ते केनाख्यातं दुरात्मना ।
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्॥८॥

अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ।
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्॥९॥

अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ।
ततस्तं प्रत्युवाचाथ मारीचो रक्षसां वरम्॥१०॥

किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ।
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय॥११॥

रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ।
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति॥१२॥

अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ।
तामादायापनेष्यामि ततः स न भविष्यति॥१३॥

भार्यावियोगाद्दुर्बुद्धिरेतत् साह्यं कुरुष्व मे ।
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः॥१४॥

उदकमौर्ध्वदेहिकम् ॥१४॥

रावणं पुरतो यान्तमन्वगच्छत् सुदुःखितः ।
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः॥१५॥

चक्रतुस्तद्यथा सर्वमुभौ यत् पूर्वमन्त्रितम् ।
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्॥१६॥

मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ।
दर्शयामास मारीचो वैदेहीं मृगरूपधृक्॥१७॥

चोदयामास तस्यार्थे सा रामं विधिचोदिता ।
रामस्तस्याः प्रियं कुर्वन् धनुरादाय सत्वरः॥१८॥

रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ।
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान्॥१९॥

गोधाज्याघातवारणम् अङ्गुलित्रयं च तद्वान्॥१९॥

अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ।
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्॥२०॥

तारामृगं तारारूपं मृगं प्रजापतिः स्वां दुहितरं मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत् तदेतन्मृगशीर्षं नाम नक्षत्रम् ॥२०॥

चकर्ष महदध्वानं रामस्तं बुबुधे ततः ।
निशाचरं विदित्वा तं राघवः प्रतिभानवान्॥२१॥

अमोघं शरमादाय जघान मृगरूपिणम् ।
स रामबाणाभिहतः कृत्वा रामस्वरं तदा॥२२॥

हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ।
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्॥२३॥

सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ।
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति॥२४॥

मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मिते ।
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्॥२५॥

पर्यशङ्कत लक्ष्मणो मय्यभिलाषवानिति शङ्कामकरोत्॥२५॥

हता वै स्त्रीस्वभावेन शुक्लचारित्रभूषणा ।
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता॥२६॥

नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ।
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना॥२७॥

पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ।
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन॥२८॥

निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ।
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः॥२९॥

पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ।
स रामस्य पदं गृह्य प्रससार धनुर्धरः॥३०॥

अवीक्षमाणो बिम्बोष्ठीं प्रययौ लक्ष्मणस्तदा ।
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत॥३१॥

अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ।
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्॥३२॥

सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा ।
निमन्त्रयामास तदा फलमूलाशनादिभिः॥३३॥

अवमन्य ततः सर्वं स्वरूपं प्रत्यपद्यत ।
सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः॥३४॥

सीते राक्षसराजोऽहं रावणो नाम विश्रुतः ।
मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः॥३५॥

तत्र त्वं नरनारीषु शोभिष्यसि मया सह ।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम्॥३६॥

एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी ।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः॥३७॥

प्रपतेद्द्यौ सनक्षत्रा पृथिवी शकली भवेत् ।
शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम्॥३८॥

कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत्॥३९॥

भिन्नकरटं भिन्नगण्डस्थलं मत्तम् । करेणुर्हस्तिनी ॥३९॥

कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् ।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेत्॥४०॥

माध्वीकं मधुपुष्पजं मद्यं मधुमाधवीं क्षौद्रजां सुरां सौवीरं काञ्जिकम्॥४०॥

इति सा तं समाभाष्य प्रविवेशाश्रमं ततः ।
क्रोधात् प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः॥४१॥

तामभिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ।
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्॥४२॥

मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः ।
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः ।
रुदतीं रामरामेति ह्रियमाणां तपस्विनीम्॥४३॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि मारीचवधे सीताहरणे च अष्टसप्तत्यधिकद्विशततमोऽध्यायः॥२७८॥
ऊनाशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। सखा दशरथस्यासीज्जटायुररुणात्मजः ।
गृध्रराजो महावीरः सम्पातिर्यस्य सोदरः॥१॥

सखेति ॥१॥

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम्॥२॥

अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर॥३॥

स्वमैथिलीं स्वा चासौ मैथिली । स्वा आत्मीया स्नुषा मैथिलसुतेत्यर्थः ध्रियमाणे जीवति ॥३॥

न हि मे मोक्ष्यसे जीवन् यदि नोत्सृज्यसे वधूम् ।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्॥४॥

पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् ।
चक्षार रुधिरं भूरि गिरिः प्रस्त्रवणैरिव॥५॥

चक्षार सुस्त्राव ॥५॥

स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खड्गमादाय चिच्छेद भुजौ तस्य पतत्त्रिणः॥६॥

नखरैः नरवैस्तीक्ष्णैः ॥६॥

निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम् ।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः॥७॥

अङ्गेन उत्सङ्गेन ॥७॥

यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् ।
सरो वा सरितो वाऽपि तत्र मुञ्चति भूषणम्॥८॥

सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् ।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी॥९॥

गिरिप्रस्थे पर्वतशिखरे ‘प्रस्थो स्त्रियां मानभेदे सानावत्युच्चवस्तुनि’ इति मेदिनी ॥९॥

तत् तेषां वानरेन्द्राणां पपात पवनोद्धतम् ।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा॥१०॥

अचिरेणातिचक्राम खेचरः खे चरन्निव ।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम्॥११॥

प्राकारवप्रसम्बाधां निर्मितां विश्वकर्मणा ।
प्रविवेश पुरीं लङ्कां ससीतो राक्षसेश्वरः॥१२॥

प्राकारः परिधिभित्तिः वप्रस्तद्बाह्यं वेणुमयं दुर्गं ताभ्यां सम्बाधां दुर्गमां ‘वप्रः स्थाने पुमानस्त्री वेणुक्षेत्रे चपेटके’ इति मेदिनी ॥१२॥

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।
निवृत्तो ददृशे धीमान् भ्रातरं लक्ष्मणं तथा॥१३॥

कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्॥१४॥

कथं प्राप्तोऽसीति सम्बन्धः ॥१४॥

मृगरूपधरेणाथ रक्षसा सोपकर्षणम् ।
भ्रातुरागमनं चैव चिन्तयन् पर्यतप्यत॥१५॥

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण॥१६॥

तस्य तत् सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः॥१७॥

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।
स ददर्श तदा गृध्रं निहतं पर्वतोपमम्॥१८॥

राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः ।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः॥१९॥

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य वै॥२०॥

वां युवयोः ॥२०॥

तस्य तद्वचनं श्रुत्वा स गृह्य धनुषी शुभे ।
कोऽयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ॥२१॥

आह ब्रूते ॥२१॥

ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं खगम् ।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम्॥२२॥

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।
तस्य गृध्रः शिरः कम्पैराचचक्षे ममार च॥२३॥

दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम् ।
सत्कारं लम्भयामास सखायं पूजयन् पितुः॥२४॥

ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीमठम् ।
विध्वस्तकलशं शून्यं गोमायुशतसङ्कुलम्॥२५॥

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ॥२६॥

वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।
ददर्श मृगयूथानि द्रवमाणानि सर्वशः॥२७॥

शब्दं च घोरं सत्वानां दावाग्नेरिव वर्धतः ।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्॥२८॥

मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् ।
उरोगतविशालाक्षं महोदरमहामुर्ख:॥२९॥

उरसि नेत्रे उदरे मुखं च यस्य । कबन्धः शीर्षहीनः पुमान् ॥२९॥

यदृच्छयाऽथ तद्रक्षः करे जग्राह लक्ष्मणम् ।
विषादमगमत् सद्यः सौमित्रिरथ भारत॥३०॥

सराममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् ।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम॥३१॥

येन यतः तन्मुखं ततः कृष्यते ॥३१॥

हरणं चैव वैदेह्या मम चायसुपप्लवः ।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा॥३२॥

नाहं त्वां सह वैदेह्या समेतं कोसलागतम् ।
द्रक्ष्यामि पृथिवी राज्ये पितृपैतामहे स्थितम्॥३३॥

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः ।
अभिषिक्तस्य वदनं सोमं शान्तघनं यथा॥३४॥

एवं बहुविधं धीमान् विललाप सलक्ष्मणः ।
तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः॥३५॥

एवं बहुविधं राममब्रवीत् असम्भ्रमः निर्भयः ॥३५॥

मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते ।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ।
इत्येवं वदता तस्य भुजो रामेण पातितः ।
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्॥३७॥

ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान् बली ।
सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम्॥३८॥

पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः॥३९॥

तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्॥४०॥

विनिःसृत्य दिव्यदर्शनोऽभूत् पुरुषः कबन्धदेहधारी स च ददृशे दृष्टः ॥४०॥

पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रबूहि पृच्छतः ।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे॥४१॥

कामया इच्छया ॥४१॥

तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप ।
प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्॥४२॥

रावणेन हृता सीता राज्ञा लङ्काधिवासिना ।
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति॥४३॥

एषा पम्पा शिवजला हंसकारण्डवायुता ।
ऋष्यमूकस्य शैलस्य सन्निकर्षे तटाकिनी॥४४॥

पम्पा नाम तटाकिनी सरसी ॥४४॥

वसते तत्र सुग्रीवश्चतुर्भिः सचिवैः सह ।
भ्राता वानरराजस्य वालिनो हेममालिनः॥४५॥

तेन त्वं सह सङ्गम्य दुःखमूलं निवेदय ।
समानशीलो भवतः साहाय्यं स करिष्यति॥४६॥

एतावच्छक्यमस्माभिर्वक्तुं द्रष्टाऽसि जानकीम् ।
ध्रुवं वानरराजस्य विदितो रावणालयः॥४७॥

इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः ।
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ॥४८॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कबन्धहनने ऊनाशीत्यधिकद्विशततमोऽध्यायः॥२७९॥
अशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् ।
सीताहरणदुःखार्तः पम्पां रामः समासदत्॥१॥

तत इति । अविदूरे समीपे नलिनीं पुष्करिणीम् उत्पलानि कुमुदानि ॥१॥

मारुतेन सुशीतेन सुखेनामृतगन्धिना ।
सेव्यमानो वने तस्मिन् जगाम मनसा प्रियाम्॥२॥

अमृतगान्धिना अमृतसदृशेन ॥२॥

विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् ।
कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत्॥३॥

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्॥४॥

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय॥५॥

उपपादय सफली कुरु ॥५॥

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् ।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस॥६॥

एवं बहुविधैर्वाक्यैलक्ष्मणेन स राघवः ।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्॥७॥

अनन्तरः संलग्नः ॥७॥

निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि ।
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ॥८॥

तावृष्यसूकमभ्येत्य बहुमूलफलद्रुमम् ।
गिर्यग्रे वानरान् पञ्च वीरौ ददृशतुस्तदा॥९॥

ऋष्यमूकं पर्वतम् ॥९॥

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्॥१०॥

तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।
सख्यं वानरराजेन चक्रे रामस्तदा नृप॥११॥

तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते ।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत्॥१२॥

तत् प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्॥१३॥

प्रतिजज्ञे च काकुत्स्थः समरे वालिवो वधम् ।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप॥१४॥

इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् ।
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः॥१५॥

सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः ।
नास्य तन्ममृषे वाली तारा तं प्रत्यषेधयत्॥१६॥

ओघो जनवृन्दस्तन्निभः स्वनो यस्य ‘ओघो वेगे जलस्य च । वृन्दे परम्परायां च’ इति मेदिनी ॥१६॥

यथा नदति सुग्रीवो बलवानेष वानरः ।
मन्ये चाश्रयवान् प्राप्तो न त्वं निष्क्रान्तुमर्हसि॥१७॥

आश्रयवान् परबलाश्रितः ॥१७॥

हेममाली ततो वाली तारां ताराधिपाननाम् ।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः॥१८॥

सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता ।
केन चाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः॥१९॥

चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।
पतिमित्यब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर॥२०॥

हृतदारो महासत्त्वो रामो दशरथात्मजः ।
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः॥२१॥

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये॥२२॥

मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः ।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः॥२३॥

सर्व एते महात्मनो बुद्धिमन्तो महाबलाः ।
अलं तव विनाशाय रामवीर्यबलाश्रयात्॥२४॥

तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः ।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्॥२५॥

ईर्षुः ईर्ष्यालुः ॥२५॥

तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात् ।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत॥२६॥

असकृत् त्वं मया पूर्वं निर्जितो जीवितप्रियः ।
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः॥२७॥

इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः ।
प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव॥२८॥

हृतराज्यस्य मे राजन् हृतदारस्य च त्वया ।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम्॥२९॥

जीवितसामर्थ्यं जीवनस्य श्लाघ्यत्वम् ॥२९॥

एवमुक्त्वा बहुविधं ततस्तौ सन्निपेततुः ।
समरे वालिसुग्रीवौ शालतालशिलायुधौ॥३०॥

उमौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः॥३१॥

उभौ रुधिरसंसिक्तो नखदन्तपरिक्षतौ ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ॥३२॥

न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते ।
सुग्रीवस्य तदा मालां हनुमान् कण्ठ आसजत्॥३३॥

स मालया तदा वीरः शुशुभे कण्ठसक्तया ।
श्रीमानिव महाशैलो मलयो मेघमालया॥३४॥

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।
विचकर्ष धनुः श्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्॥३५॥

विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ।
वितत्रास तदा वाली शरेणाभिहतोरसि॥३६॥

स भिन्नहृदयो वाली वक्त्राच्छोणितमुद्धमन् ।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह॥३७॥

गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः ।
तारा ददर्श तं भूमौ तारापतिसमौजसम्॥३८॥

हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।
तां च तारापतिमुखीं तारां निपतितेश्वराम्॥३९॥

रामस्तु चतुरो मासान् पृष्ठे माल्यवतः शुभे ।
निवासमकरोद्धीमान् सुग्रीवेणाभ्युपस्थितः॥४०॥

रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः ।
सीतां निवेशयामास भवने नन्दनोपमे॥४१॥

अशोकवनिकाभ्याशे तापसाश्रमसन्निभे ।
भर्तृस्मरणतन्वङ्गी तापसी वेषधारिणी॥४२॥

उपवासतपःशीला तत्रास पृथुलेक्षणा ।
उवास दुःखवसतिं फलमूलकृताशना॥४३॥

दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः ।
प्रासासिशूलपरशुमुद्गरालातधारिणीः॥४४॥

द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् ।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्॥४५॥

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्द्धजाः ।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः॥४६॥

करभोत्कटमूर्धजाः उष्ट्रसदृशकेशाः ॥४६॥

तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः ।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः॥४७॥

परुषव्यञ्जनस्वरात्मकाः शब्दा यासां ताः ॥४७॥

खादाम पाटयामैनां तिलशः प्रविभज्य ताम् ।
वेयं भर्तारमस्माकमवमन्येह जीवति॥४८॥

इत्येवं परिभर्त्सन्तीस्त्रास्यमानाः पुनः पुनः ।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः॥४९॥

आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते ।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्॥५०॥

अप्येवाहं निराहारा जीवितप्रियवर्जिता ।
शोषयिष्यामि गात्राणि व्याली तालगता यथा॥५१॥

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।
इति जानीत सत्यं मे क्रियतां यदनन्तरम्॥५२॥

तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्त्सर्वमादृताः॥५३॥

गतासु तासु सर्वासु त्रिजटा नाम राक्षसी ।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी॥५४॥

सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि ।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम॥५५॥

अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः ।
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्॥५६॥

सीतामद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली॥५७॥

सख्यं वानरराजेन शक्रप्रतिमतेजसा ।
कृतवान् राघवः श्रीमांस्त्वदर्थे च समुद्यतः॥५८॥

मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् ।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनी॥५९॥

शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् ।
न शक्नोत्यवशां नारीमुपैतुमजितेन्द्रियः॥६०॥

वधूं स्नुषाम् ॥६०॥

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति॥६१॥

स्वप्ना हि सुमहाघोरा इष्टा मेऽनिष्ठदर्शनाः ।
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः॥६२॥

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः॥६३॥

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै॥६४॥

तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः ।
असकृत् खरयुक्ते तु रथे नृत्यन्निव स्थितः॥६५॥

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः॥६६॥

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः ।
श्वेतपर्वतमारूढ एक एव विभीषणः॥६७॥

सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः ।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान् महाभयात्॥६८॥

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः॥६९॥

परिक्षिप्ता व्याप्ता ॥६९॥

अस्थिसञ्चयमारूडो भुञ्जानो मधुपायसम् ।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम्॥७०॥

रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्॥७१॥

हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता ।
राघवेण सह भ्रात्रा सीते त्वमचिरादिव॥७२॥

इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।
बभूवाशावती बाला पुनर्भर्तृसमागमे॥७३॥

यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः ।
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा॥७४॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि त्रिजटाकृतसीतासान्त्वने अशीत्यधिकद्विशततमोऽध्यायः॥२८०॥
एकाशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम्॥१॥

तत इति । मणिर्मङ्गलसूत्रगतः स एव शेषो येषां ते तत्सदृशा अभ्यलङ्कारा यस्यास्ताम् ॥१॥

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।
रावणः कामबाणार्थो ददर्शोपससर्प च॥२॥

उपास्यन्तीम् उपास्यमानाम् ॥२॥

देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।
अजितोऽशोकवनिकां ययौ कन्दर्पपीडितः॥३॥

दिव्याम्बरधरः श्रीमान् सुमृष्टमाणकुण्डलः ।
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्॥४॥

न कल्पवृक्षसदृशो यत्नादपि विभूषितः ।
स्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः॥५॥

स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः॥६॥

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।
इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम्॥७॥

रौहीं हरिणीम् ॥७॥

सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः ।
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते॥८॥

परिकर्म वस्त्राभरणादिना प्रसाधनम् ॥८॥

भजस्व मां वरारोहे महार्हाभरणाम्बरा ।
भव मे सर्वनारीणामुत्तमा वरवर्णिनी॥९॥

सन्ति मे देवकन्याश्च गन्धर्वाणां च योषितः ।
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः॥१०॥

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः ।
द्विस्तावत् पुरुषादानां रक्षसां भीमकर्मणाम्॥११॥

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः॥१२॥

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा ।
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम॥१३॥

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।
पञ्चमो लोकपालानामिति मे प्रथितं यशः॥१४॥

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।
यथैव त्रिदशेशस्य तथैव मम भाविनि॥१५॥

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा॥१६॥

इत्युक्ता तेन वैदेही परिवृत्य शुभानना ।
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्॥१७॥

आशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।
स्तनावपतितौ बाला संहतावभिवर्षती॥१८॥

उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ।
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर॥१९॥

विषादयुक्तमेतत् ते मया श्रुतमभाग्यया ।
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्॥२०॥

हे भद्रसुख भद्रं कल्याणावहं सुखं यस्य । पारदार्यसुखं त्वकल्याणावहमिति भावः। विनिवर्त्यतां मत्त इति शेषः ॥२०॥

परदाराऽस्म्यलभ्या च सततं च पतिव्रता ।
न चैवोपयिकी भार्या मानुषी कृपणा तव॥२१॥

औपयिकी उपयोगार्हा ॥२१॥

विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ।
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव॥२२॥

न च पालयसे धर्मं लोकपालसमः कथम् ।
भ्रातरं राजराजानं महेश्वरसखं प्रभुम्॥२३॥

धनेश्वरं व्यपदिशन् कथं त्विह न लज्जसे ।
इत्युक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ॥२४॥

शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ।
तस्या रुदत्या भाविन्या दीर्घा वेणी सुसंयता॥२५॥

शिरो मुखं च प्रच्छाद्य धरां ददृशेऽपश्यदिति सम्बन्धः ॥२५॥

ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ।
श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्॥२६॥

प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ।
काममङ्गानि मे सीते दुनोतु मकरध्वजः॥२७॥

न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ।
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्॥२८॥

आहारभूतमस्माकं राममेवानुरुध्यसे॥२९॥

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः ।
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्॥३०॥

राक्षसीभिः परिवृता वैदेही शोककर्शिता ।
सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा॥३१॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि सीतारावणसंवादे एकाशीत्यधिकद्विशततमोऽध्यायः॥२८१॥
द्व्यशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। राघवः सह सौमित्रिः सुग्रीवेणाभिपालितः ।
वसन् माल्यवतः पृष्ठे ददृशे विमलं नभः॥१॥

राघव इति ॥१॥

स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् ।
ग्रह-नक्षत्र-ताराभिरनुयातममित्रहा॥२॥

कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।
महीधरस्थः शीतेन सहसा प्रतिबोधितः॥३॥

प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि॥४॥

गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् ।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्॥५॥

ग्राम्यधर्मेषु मैथुनादिषु निमित्तभूतेषु प्रमत्तम् असावधानम् ॥५॥

योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै॥६॥

यदर्थं निहतो वाली मया रघुकुलोद्वह ।
त्वया सह महाबाहो किष्किन्धोपवने तदा॥७॥

कृतघ्नं तमहं मन्ये वानरापसदं भुवि ।
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण॥८॥

असौ मन्ये न जानीते समयप्रतिपालनम् ।
कृतोपकारं मां नूनमवमन्याल्पया धिया॥९॥

यदि तावदनुद्युक्तः शेते कामसुखात्मकः ।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया॥१०॥

अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः ।
तमादायैव काकुत्स्थ त्वरावान् भव मा चिरम्॥११॥

इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः॥१२॥

गुरोर्वाक्ये हिते च रतस्तत्परः ॥१२॥

किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ।
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः॥१३॥

तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया॥१४॥

तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।
स तत् सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः॥१५॥

सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः ।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्॥१६॥

नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः ।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः॥१७॥

दिशः प्रस्थापिताः सर्वे विनीता हरयो मया ।
सर्वेषां च कृतः कालो मासेनागमनं पुनः॥१८॥

यैरियं सवना साद्रिः सपुरा सागराम्बरा ।
विचेतव्या मही वीर सग्रामनगराकरा॥१९॥

स मासः पञ्चरात्रेण पूर्णा भवितुमर्हति ।
ततः श्रोष्यसि रामेण सहितः सुमहत् प्रियम्॥२०॥

इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता ।
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्॥२९॥

सरामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् ।
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्॥२२॥

इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः ।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः॥२३॥

आचख्युस्तत्र रामाय महीं सागरमेखलाम् ।
विचितां न तु वैदेह्या दर्शनं रावणस्य वा॥२४॥

गतास्तु दाक्षिणामाशां ये वै वानरपुङ्गवाः ।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत्॥२५॥

द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्॥२६॥

द्वयोर्मासयोरुपरमः समाप्तिर्यस्मिस्तस्मिन् काले ॥२६॥

रक्षितं वालिना यत् तत् स्फीतं मधुवनं महत् ।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः॥२७॥

वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।
विचेतुं दक्षिणामाशां राजन् प्रस्थापितास्त्वया॥२८॥

तेषामपनयं श्रुत्वा मेने स कृतकृत्यताम् ।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्॥२९॥

स तद्रामाय मेधावी शशंस प्लंवगर्षभः ।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्॥३०॥

हनुमत्प्रमुखाश्चापि विश्वान्तास्ते प्लवङ्गमाः ।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ॥३१॥

गतिं च मुखवर्णं च दृष्ट्वा रामो हनुमतः ।
अगमत् प्रत्ययं भूयो दृष्टा सीतेति भारत॥३२॥

हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः ।
प्रणेमुविधिवद्रामं सुग्रीवं लक्ष्मणं तथा॥३३॥

तानुवाचानतान् रामः प्रगृह्य सशरं धनुः ।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता॥३४॥

अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः ।
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम्॥३५॥

अमोक्षयित्वा वैदेहीमहत्वा च रणे रिपून् ।
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे॥३६॥

कारयिष्यामि स्वार्थे णिच् ॥३६॥

इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया॥३७॥

विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्॥३८॥

प्रविशामो वयं तां तु बहुयोजनमायताम् ।
अन्धकारां सुविपिनां गहनां कीटसेविताम्॥३९॥

गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः ।
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा॥४०॥

मयस्य किल दैत्यस्य तदा सद्धेश्म राघव ।
तत्र प्रभावती नाम तपोऽतप्यत तापसी॥४१॥

तया दत्तानि भोज्यानि पानानि विविधानि च ।
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः॥४२॥

निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः ।
समीपे सह्यमलयौ दर्दुरं च महागिरिम्॥४३॥

ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्॥४४॥

अनेकशतविस्तीर्णं योजनानां महोदधिम् ।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः॥४५॥

तत्रानशनसङ्कल्पं कृत्वाऽऽसीना वयं तदा ।
ततः कथान्ते गृध्रस्य जटायोरभवत् कथा॥४६॥

ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम्॥४७॥

सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्॥४८॥

सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।
अन्योन्यस्पर्धया रुढावावामादित्यसत्पदम्॥४९॥

सत्पदं गतवन्ताविति शेषः ॥४९॥

ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः॥५०॥

निर्दग्धपक्षः पतितो ह्यहमस्मिन् महागिरौ ।
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः॥५१॥

व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् ।
स सम्पातिस्तदा राजन् श्रुत्वा सुमहदप्रियम्॥५२॥

विषण्णचेताः पप्रच्छ पुनरस्मानरिन्दम ।
कः स रामः कथं सीता जटायुश्च कथं हतः॥५३॥

इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ।
तस्याहं सर्वमेवैतद्भवतो व्यसनागमम्॥५४॥

प्रायोपवेशने चैव हेतुं विस्तरशोऽब्रुवम् ।
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्॥५५॥

रावणो विदितो मह्यं लङ्का चास्य महापुरी ।
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे॥५६॥

भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ।
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः॥५७॥

सागरक्रमणे मन्त्रं मन्त्रयामः परन्तप ।
नाध्यवास्यद्यदाः कश्चित् सागरस्य विलङ्घनम्॥५८॥

ततः पितरमाविश्य पुप्लवेऽहं महार्णवम् ।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्॥५९॥

तत्र सीता मया दृष्टा रावणान्तःपुरे सती ।
उपवासतपःशीला भर्तुदर्शनलालसा॥६०॥

जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ।
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः॥६१॥

उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ।
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः॥६२॥

त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ।
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ॥६३॥

सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ।
कुशलं त्वाऽब्रवीद्रामः सीते सौमित्रिणा सह॥६४॥

सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ।
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह॥६५॥

प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ।
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह॥६६॥

अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ।
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसम्मतः॥६७॥

कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ।
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्॥६८॥

धारिता येन वैदेही कालमेतमनिन्दिता ।
प्रत्ययार्थं कथां चेमां कथयामास जानकी॥६९॥

धारिता जीवनं प्राप्ता इदानीमेतद्वियोगादत्यन्तं व्याकुलायास्तस्या लाभार्थं शीघ्रं यतितव्यमिति भावः ॥६९॥

क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ ।
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्॥७०॥

ग्राहयित्वाऽहमात्मानं ततो दग्ध्वा च तां पुरीम् ।
सम्प्राप्त इति तं रामः प्रियवादिनमार्चयत्॥७१॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि हनुमत्प्रत्यागमने द्व्यशीत्यधिकद्विशततमोऽध्यायः॥२८२॥
त्र्यशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततस्तत्रैव रामस्य समासीनस्य तैः सह ।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा॥१॥

ततस्तत्रैवेति ॥१॥

वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।
श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात्॥२॥

कोटीशतवृतो वाऽपि गजो गवय एव च ।
वानरेन्द्रौ महावीर्यौ पृथक् पृथगदृश्यताम्॥३॥

षष्टिकोटिसहस्त्राणि प्रकर्षन् प्रत्यदृश्यत ।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः॥४॥

गन्धमादनवासी तु प्रथितो गन्धमादनः ।
कोटी शतसस्राणि हरीणां समकर्षत॥५॥

पनसो नाम मेधावी वानरः सुमहाबलः ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति॥६॥

श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान् ।
प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम्॥७॥

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत॥८॥

मुखे पुण्ड्रस्तिलकं येषां ते ललाटे ऊर्ध्वपुण्ड्राकारेण चिह्नेन चिह्नितानाम् ॥८॥

एते चान्ये च बहवो हरियूथपयूथपाः ।
असङ्ख्येया महाराज समीयू रामकारणात्॥९॥

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्॥१०॥

गिरिकूटनिभाः केचित् केचिन्महिषसन्निभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः॥११॥

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।
उद्धुन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः॥१२॥

स वानरमहासैन्यः पूर्णसागरसन्निभः ।
निवेशमकरोत् तत्र सुग्रीवानुमते तदा॥१३॥

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते॥१४॥

तेन व्यूढेन सैन्येन लोकानुद्धर्तयन्निव ।
प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा॥१५॥

मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः ।
जधनं पालयामास सौमित्रिरकुतोभयः॥१६॥

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः ।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव॥१७॥

प्रवभौ हरिसैन्यं तत् सालतालशिलायुधम् ।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति॥१८॥

शालिभिर्भातीति शालिभं तच्च तद्वनं पक्वशालिभवनं तद्वत्पीतवर्णमित्यर्थः ॥१८॥

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये॥१९॥

विविधेषु प्रशस्तेषु बहुमूलफलेषु च ।
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च॥२०॥

निवसन्ती निराबाधा तथैव गिरिसानुषु ।
उपायाद्धरिसेना सा क्षारोदमथ सागरम्॥२१॥

द्वितीयसागरनिभं तद्बलं बहुलध्वजम् ।
वेलावनं समासाद्य निवासमकरोत् तदा॥२२॥

ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत ।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः॥२३॥

उपायः को नु भवतां मतः सागरलङ्घने ।
इयं हि महती सेना सागरश्चातिदुस्तरः॥२४॥

तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः ।
समर्था लङ्घने सिन्धोर्न तु तत्कृत्स्नकारकम्॥२५॥

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।
नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत॥२६॥

शतयोजनविस्तारं न शक्ताः सर्ववानराः ।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः॥२७॥

नावो न सन्ति सेनाया बव्ह्यस्तारयितुं तथा ।
वणिजामुपघातं च कथमस्मद्विधश्चरेत्॥२८॥

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः ।
प्लवोडुपप्रतारश्च नैवात्र मम रोचते॥२९॥

प्लवः अलाबुघटादिमयं तरणसाधनम् । उडुपं क्षुद्रनौका ताभ्यां प्रतारस्तरणम् ॥२९॥

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।
प्रतिशेष्याप्युपवसन् दर्शयिष्यति मां ततः॥३०॥

समारप्स्यामि आराधयिष्यामि ॥३०॥

न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः ।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः॥३१॥

इत्युक्त्वा सह सौमित्रिरुपस्पृश्याथ राघवः ।
प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे॥३२॥

सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।
देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः॥३३॥

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः॥३४॥

मधुरं वचः इदं श्रृण्वित्याहेति शेषेण योज्यम् ॥३४॥

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ ।
ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत्॥३५॥

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते ।
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्॥३६॥

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः॥३७॥

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः ।
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः॥३८॥

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर॥३९॥

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया ।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्॥४०॥

आज्ञयेतिच्छेदः पूर्वरूपमार्षम् ॥४०॥

अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः ।
त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः॥४१॥

स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति॥४२॥

इत्युक्त्वाऽन्तर्हिते तस्मिन् रामो नलमुवाच ह ।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम॥४३॥

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम्॥४४॥

नलसेतुरितिख्यातो योऽद्यापि प्रथितो भुवि ।
रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसन्निभः॥४५॥

तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः ।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह॥४६॥

प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।
सुग्रीवस्य तु शङ्काऽभूत् प्रणिधिः स्यादिति स्म ह॥४७॥

प्रणिधिच्छलकृत् गुप्तचारो वा। ‘प्रणिधिर्ना खले चरे’ इति मेदिनी ॥४७॥

राघवः सत्यचेष्टाभिः सम्यक्च चरितेङ्गितैः ।
यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत्॥४८॥

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विमीषणम् ।
चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च॥४९॥

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मासेनैव नराधिप॥५०॥

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः ।
भेदयामास कपिभिर्महान्ति च बहूनि च॥५१॥

ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ ।
चरौ वानररूपेण तौ जग्राह विभीषणः॥५२॥

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्॥५३॥

निवेश्योपवने सैन्यं तत्पुरः प्राज्ञवानरम् ।
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्॥५४॥

दौत्येन हेतुना ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि सेतुबन्धने त्र्यशीत्यधिकद्विशततमोऽध्यायः॥२८३॥
चतुरशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। प्रभूतान्नोदके तस्मिन् बहुमूलफले वने ।
सेनां निवेश्य काकुत्स्थो विधिवत् पर्यरक्षत॥१॥

प्रभूतेति ॥१॥

रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम् ।
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा॥२॥

संविधं सम्यग्विध्द्यन्त्यनया तां यात्रादिसम्पत्तिम् ॥२॥

अगाधतोयाः परिखा मीननक्रसमाकुलाः ।
बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः॥३॥

कपाटयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः ।
साशीविषघटायोधाः ससर्जरसपांसवः॥४॥

कपाटैर्यन्त्रैश्च गोलाद्युत्क्षेपणसाधनैर्दुर्धर्षाः परिखाः सहुहाः सोपलाश्च । हुडं मूत्राद्युत्सर्जनार्थं शृङ्गम् । उपलाः प्रक्षेप्या गोलकाः ॥४॥

मुसलालातनाराचतोमरासिपरश्वधैः ।
अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः॥५॥

समधूच्छिष्टमुद्गराः मधूच्छिष्टं क्षौद्रं मधु । मद्यादिव्यावृत्त्यर्थमुच्छिष्टपदम् ॥५॥

पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः॥६॥

गुल्मा गुप्तोपवेशनस्थानानि बुरुजाख्या महास्तम्भाः स्थावरगुल्माः । जङ्गमाः गुल्माः सेनाद्या अलङ्ग इत्यभिहिताः ॥६॥

अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः ।
विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः॥७॥

गतव्यथो निर्भयः ॥७॥

मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः ।
शुशुभे मेघमालाभिरादित्य इव संवृतः॥८॥

स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।
रामसन्देशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे॥९॥

आमन्त्र्य हे रावण इति सम्बोध्य ॥९॥

आह त्वां राघवो राजन् कोसलेन्द्रो महायशाः ।
प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च॥१०॥

अकृतात्मानमासाद्य राजानमनये रतम् ।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च॥११॥

त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।
वधायानपराद्धानामन्येषां तद्भविष्यति॥१२॥

ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः ।
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः॥१३॥

राजर्षयश्च निहता रुदत्यश्च हताः स्त्रियः ।
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते॥१४॥

हन्ताऽस्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव ।
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर॥१५॥

मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् ।
अराक्षसमिमं लोकं कर्ताऽस्मि निशितैः शरैः॥१६॥

इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः ।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः॥१७॥

इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः॥१८॥

तांस्तथाऽङ्गेषु संसक्तानङ्गदो रजनीचरान् ।
आदायैव खमुत्पत्य प्रासादतलमाविशत्॥१९॥

वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।
भुवि संभिन्नहृदयाः प्रहारवरपीडिताः॥२०॥

संसक्तो हर्म्यशिखरात् तस्मात् पुनरवापतत् ।
लङ्घयित्वा पुरीं लङ्कां सुवेलस्य समीपतः॥२१॥

कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः ।
विशश्रम स तेजस्वी राघवेणाभिनन्दितः॥२२॥

ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः॥२३॥

सर्वाभिसारः युगपत् सर्वेषामभिसारो यत्नस्तेन । ‘सुलतानढवा’ इति म्लेच्छप्रसिद्धेन ॥२३॥

विभीषणर्क्षांधिपती पुरस्कृत्याथ लक्ष्मणः ।
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम्॥२४॥

ऋक्षाधिपतिर्जाम्बवान् ॥२४॥

करभारुणपाण्डूनां हरीणां युद्धशालिनाम् ।
कोटीशतसहस्रेण लङ्कामभ्यपतत् तदा॥२५॥

करभो मणिबन्धादिकनिष्ठान्तं हस्तप्रदेशस्तद्वदरुणपाण्डवः श्वेतारुणाः ॥२५॥

प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् ।
ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यवस्थिताः॥२६॥

उत्पतद्भिः पतद्भिश्च निपतद्भिश्व वानरैः ।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः॥२७॥

शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः ।
तरुणादित्यसदृशैः शणगौरैश्च वानरैः॥२८॥

शणो गोणी सूत्रोपादानवीरुत् ॥२८॥

प्राकारं ददृशुस्ते तु समन्तात् कपिलीकृतम् ।
राक्षसा विस्मिता राजन् सस्त्रीवृद्धाः समन्ततः॥२९॥

बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिखराणि च ।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिषुः॥३०॥

या तैर्दुर्गरक्षणार्थं सामग्रीकृता सैव तेषां नगरनाशायाभूदित्याह विभिदुस्ते इत्यादिना । कर्णस्तिर्यम्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्ति । तद्धि दिक्कोणस्य चतुरस्त्रस्योपरि विदिक्कोणं चतुरस्रं तदुपरि दिक्कोणं तदुपरि पुनर्विदिक्कोणमित्येवं क्रमेणोत्तरोत्तरकल्पप्रमाणैश्चतुरस्रैः समाप्यत इति प्रसिद्धम् ॥३०॥

परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः ।
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महास्वनाः॥३१॥

प्राकारस्थाश्च ये केचिन्निशाचरगणास्तथा ।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः॥३२॥

ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः॥३३॥

शस्त्रवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः ।
प्राकारं शोभयन्तस्ते परं विक्रममास्थिताः॥३४॥

स माषराशिसदृशैर्बभूव क्षणदाचरैः ।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः॥३५॥

पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः ।
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः॥३६॥

स्तम्भतः स्तम्भैर्वानरोपात्तैः रणे भग्ना रणभग्नाः ॥३६॥

केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्॥३७॥

केशाकेशि अन्योन्यं केशेषु गृहीत्वा ॥३७॥

निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।
हता निपतिता भूमौ न मुञ्चन्ति परस्परम्॥३८॥

निष्टनन्तः शब्दं कुर्वन्तः ॥३८॥

रामस्तु शरजालानि ववर्ष जलदो यथा ।
तानि लङ्कां समासाद्य जघ्नुस्तान् रजनीचरान्॥३९॥

सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।
आदिश्यादिश्य दुर्गस्थान् पातयामास राक्षसान्॥४०॥

आदिश्य सम्मुखी कृत्वेत्यर्थः ॥४०॥

ततः प्रत्यवहारोऽभूत् सैन्यानां राघवाज्ञया ।
कृते विमर्दे लङ्कायां लब्धलक्ष्यो जयोत्तरः॥४१॥

प्रत्यवहारः शिबिरं प्रति गमनम् । लब्धाः आयुधैः प्राप्ता लक्ष्या वेध्या यस्मिन् । अवन्ध्यप्रहार इति यावत् । जयोत्तरो जयोत्कर्षवान् ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि लङ्काप्रवेशे चतुरशीत्यधिकद्विशततमोऽध्यायः॥२८४॥
पञ्चाशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततो निविशमानांस्तान् सैनिकान् रावणानुगाः ।
अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम्॥१॥

गणा अनेके इति छेदः ॥१॥

पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः ।
प्ररुजाश्चारुजश्चैव प्रघसश्चैवमादयः॥२॥

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः॥३॥

अन्तर्धानवधमन्तर्धानशक्तेर्नाशम् ॥३॥

ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः ।
निहताः सर्वशो राजन् महीं जग्मुर्गतासवः॥४॥

अमृष्यमाणः सबलो रावणो निर्ययावथ ।
राक्षसानां बलैर्घोरैः पिशाचानां च संवृत्तः॥५॥

युद्धशास्त्रविधानज्ञ उशना इव चापरः ।
व्यूह्य चौशनसं व्यूहं हरीनभ्यवहारयत्॥६॥

हरीन् वानरान् अभ्यवहारयत् आवेष्टितवान् ॥६॥

राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम् ।
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम्॥७॥

समेत्य युयुधे तत्र ततो रामेण रावणः ।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह॥८॥

विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः ।
तुण्डेन च नलस्तत्र पटुशः पनसेन च॥९॥

विषह्यं यं हि यो मेने स स तेन समेयिवान् ।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः॥१०॥

स सम्प्रहारो ववृधे भीरूणां भयवर्धनः ।
लोमसंहर्षणो घोरः पुरा देवासुरे यथा॥११॥

रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः ।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः॥१२॥

आनर्छत् अपीडयत् ॥१२॥

तथैवेन्द्रजितं यत्ते लक्ष्मणो मर्मभेदिभिः ।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः॥१३॥

विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् ।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः॥१४॥

तेषां बलवतामासीन्महास्त्राणां समागमः ।
विव्यथुः सकला येन त्रयो लोकाश्चराचराः॥१५॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामरावणद्वन्द्वयुद्धे पञ्चाशीत्यधिकद्विशततमोऽध्यायः॥२८५॥
षडशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।
गदया ताडयामास विनद्य रणकर्कशः॥१॥

ततः प्रहस्त इति ॥१॥

स तयाऽभिहतो धीमान् गदया भीमवेगया ।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः॥२॥

ततः प्रगृह्य विपुलां शतघण्टां विभीषणः ।
अनुमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति॥३॥

पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया ।
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः॥४॥

त्तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् ।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्॥५॥

तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् ।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः॥६॥

ततस्तान् सहसा दीर्णान् दृष्ट्वा वानरपुङ्गवान् ।
निर्ययौ कपिशार्दूलो हनूमान् मारुतात्मजः॥७॥

तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम् ।
महत्या त्वरया राजन् सन्न्यवर्तन्त सर्वशः॥८॥

ततः शब्दो महानासीत् तुमुलो लोमहर्षणः ।
रामरावणसैन्यानामन्योन्यमभिधावताम्॥९॥

तस्मिन् प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे ।
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्त्रिभिः॥१०॥

तं स रक्षोमहामात्रमापतन्तं सपत्नजित् ।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः॥११॥

रक्षोमहामात्रं रक्षःश्रेष्ठम् ॥११॥

तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः ।
जिगीषतोर्युधाऽन्योन्यमिन्द्रप्रल्हादयोरिव॥१२॥

गदाभिः परिघैश्चैव राक्षसो जघ्निवान् कपिम् ।
कपिश्च जघ्निवान् रक्षः सस्कन्धविटपैर्द्रुमैः॥१३॥

ततस्तमतिकोपेन साश्वं सरथसारथिम् ।
धूम्राक्षमवधीत् क्रुद्धो हनुमान् मारुतात्मजः॥१४॥

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।
हरयो जातविस्रम्भा जघ्नुरन्ये च सैनिकान्॥१५॥

ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः ।
राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात्॥१६॥

तेऽभिपत्त्य पुरं भग्ना हतशेषा निशाचराः ।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्॥१७॥

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः॥१८॥

सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः॥१९॥

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्॥२०॥

प्रबोध्य महता चैनं यत्नेनागतसाध्वसः ।
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः॥२१॥

आगतसाध्वसः जातभयः ॥२१॥

ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ।
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी॥२२॥

य इदं दारुणाकारं न जानीषे महाभयम् ।
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह॥२३॥

अवमन्येह नः सर्वान् करोति कदनं महत् ।
मया त्वपहृता भार्या सीता नामास्य जानकी॥२४॥

तां नेतुं स इहायातो बध्वा सेतुं महार्णवे ।
तेन चैव प्रहस्तादिर्महान् नः स्वजनो हतः॥२५॥

तस्य नान्यो निहन्ताऽस्ति त्वामृते शत्रुकर्शन ।
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर॥२६॥

रामादीन् समरे सर्वान् जहि शत्रूनरिन्दम ।
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ॥२७॥

तौ त्वां बलेन महता सहितावनुयास्यतः ।
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् ।
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ॥२८॥

तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ ।
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कुम्भकर्णनिर्गमने षडशीत्यधिकद्विशततमोऽध्यायः॥२८६॥
सप्ताशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततो निर्याय स्वपुरात् कुम्भकर्णः सहानुगः ।
अपश्यत् कपिसैन्यं तज्जितकाश्यग्रतः स्थितम्॥१॥

तत इति । जितकाशि दृढमुष्टि । ‘काशिर्मुष्टिः प्रकाशनात्’ इति यास्कः ॥१॥

स वीक्षमाणस्तत् सैन्यं रामदर्शनकाङ्क्षया ।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम्॥२॥

तमभ्येत्याशु हरयः परिवव्रुः समन्ततः ।
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः॥३॥

करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ।
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः॥४॥

नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन् ।
स ताड्यमानः प्रहसन् भक्षयामास वानरान्॥५॥

बलं चण्डबलाख्यं च वज्रबाहुं च वानरम् ।
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः॥६॥

उदक्रोशन् परित्रस्तास्तारप्रभृतयस्तदा ।
तानुच्चैः क्रोशतः सैन्यान् श्रुत्वा स हरियूथपान्॥७॥

अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ।
ततो निपत्य वेगेन कुम्भकर्णं महामनाः॥८॥

शालेन जघ्निवान् मूर्ध्नि बलेन कपिकुञ्जरः ।
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि॥९॥

बिभेद शालं सुग्रीवो न चैवाव्यथयत् कपिः ।
ततो विनद्य सहसा शालस्पर्शविबोधितः॥१०॥

दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ।
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा॥११॥

अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ।
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्॥१२॥

प्राहिणोत् कुम्भकर्णाय लक्ष्मणः परवीरहा ।
स तस्य देहावरणं भित्वा देहं च सायकः॥१३॥

जगाम दारयन् भूमिं रुधिरेण समुक्षितः ।
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्॥१४॥

कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्॥१५॥

तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ ।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः॥१६॥

तानप्यस्य भुजान् सर्वान् प्रगृहीतशिलायुधान् ।
क्षुरैश्चिच्छेद लध्वस्त्रं सौमित्रिः प्रतिदर्शयन्॥१७॥

स बभूवातिकायश्च बहुपादशिरोभुजः ।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्॥१८॥

स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव॥१९॥

तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् ।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात्॥२०॥

तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषणानुजौ ।
अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम्॥२१॥

तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ ।
अभिजग्राह सौमित्रिर्विनद्योभौ पतन्त्रिभिः॥२२॥

ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः॥२३॥

महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत ।
तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम्॥२४॥

मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः ।
सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः॥२५॥

अथाद्रिशृङ्गमादाय हनुमान् मारुतात्मजः ।
अभिद्रुत्याददे प्राणान् वज्रवेगस्य रक्षसः॥२६॥

नीलश्च महता ग्राव्णा दूषणावरजं हरिः ।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः॥२७॥

ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः ।
रामरावणसैन्यानामन्योन्यमभिधावताम्॥२८॥

शतशो नैर्ऋतान् वन्या जघ्नुर्वन्यांश्च नैर्ऋताः ।
नैर्ऋतास्तत्र वध्यन्ते प्रायेण न तु वानराः॥२९॥

वन्या वनेचरा वानराः ॥२९॥
इति श्रीहामारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कुम्भकर्णादिवधे सप्ताशीत्यधिकद्विशततमोऽध्यायः॥२८७॥
अष्टाशीत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम् ।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्॥१॥

तत इति ॥१॥

पुत्रमिन्द्रजितं वीरं रावणः प्रत्यभाषत ।
जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम्॥२॥

त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।
जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम्॥३॥

अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर॥४॥

रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः॥५॥

अगता या प्रहस्तेन कुम्भकर्णेन चानघ ।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वं महाभुज॥६॥

त्वमद्य निशितैर्बाणैर्हत्वा शत्रून् ससैनिकान् ।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम्॥७॥

इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः ।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति॥८॥

ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः ।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम्॥९॥

तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः ।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगान् यथा॥१०॥

तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।
दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्थिनोस्तदा॥११॥

रावणिस्तु यदा नैवं विशेषयति सायकैः ।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः॥१२॥

तत एनं महावेगैरर्दयामास तोमरैः ।
तानागतान् स चिच्छेद सौमित्रिर्निशितैः शरैः॥१३॥

ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन् धरणीतले ।
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्॥१४॥

अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ।
तस्येन्द्रजिदसभ्रान्तः प्रासेनोरसि वीर्यवान्॥१५॥

प्रहर्तुमैच्छत तं चास्य प्रासं चिच्छेद लक्ष्मणः ।
तमभ्याशगतं वीरमङ्गदं रावणात्मजः॥१६॥

गदयाऽताडयत् सव्ये पार्श्वे वानरपुङ्गवम् ।
तमचिन्त्यप्रहारं स बलवान् वालिनः सुतः॥१७॥

ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धं तथाऽङ्गदः ।
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः॥१८॥

ससर्ज उत्सृष्टवान् । शालस्कन्धं महास्कन्धं तरुम् ॥१८॥ तान् हरीन्। तौ च रामलक्ष्मणौ ।

जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ।
ततो हताश्वात् प्रस्कन्द्य रथात् स हतसारथिः॥१९॥

तत्रैवान्तर्दधे राजन् मायया रावणात्मजः ।
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्॥२०॥

रामस्तं देशमागम्य तत् सैन्यं पर्यरक्षत ।
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा॥२१॥

विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम् ।
तमदृश्यं शरैः शूरौ माययाऽन्तर्हितं तदा॥२२॥

योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ।
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः॥२३॥

व्यसृजत् सायकान् भूयः शतशोऽथ सहस्रशः ।
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्॥२४॥

हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ।
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः॥२५॥

स भृशं ताडयामास रावणिर्मायया वृतः ।
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ ।
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव॥२६॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि इन्द्रजिद्युद्धे अष्टाशीत्यधिकद्विशततमोऽध्यायः॥२८८॥
ऊननवत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा॥१॥

ताविति ॥१॥

ती वीरौ शरबन्धेन बद्धाविन्द्रजिता रणे ।
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे॥२॥

तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ ।
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः॥३॥

सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।
हनुमन्नीलतारैश्च नलेन च कपीश्वरः॥४॥

ततस्तं देशमागम्य कृतकर्मा विभीषणः ।
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ॥५॥

विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह ।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया॥६॥

तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्टताम् ।
गततन्द्रीक्लमौ चापि क्षणेनेतौ महारथौ॥७॥

ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् ।
उवाच विज्वरं दृष्टा कृताञ्जलिरिदं वचः॥८॥

इदमम्भो गृहीत्वा तु राजराजस्य शासनात् ।
गुह्यकोऽभ्यागतः श्वेत्तात् त्वत्सकाशमरिन्दम॥९॥

इदमम्भः कुबेरस्ते महाराज प्रयच्छति ।
अन्तर्हितानां भूतानां दर्शनार्थं परन्तपः॥१०॥

अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत ।
भवान् द्रक्ष्यति यस्मै च प्रदास्यति नरः स तु॥११॥

तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम् ।
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः॥१२॥

सुग्रीवजाम्बवन्तौ च हनुमानङ्गदस्तथा ।
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः॥१३॥

तथा समभवच्चापि यदुवाच विभीषणः ।
क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन् युधिष्ठिर॥१४॥

अतीन्द्रियाणि अतीन्द्रियार्थग्राहकाणि ॥१४॥

इन्द्रजित् कृतकर्मा च पित्रे कर्म तदाऽऽत्मनः ।
निवेद्य पुनरागच्छत् त्वरयाऽऽजि शिरःप्रति॥१५॥

तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया ।
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः॥१६॥

अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।
शरैर्जघान सङ्क्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः॥१७॥

कृतसंज्ञः विभीषणेन सङ्केतितः ॥१७॥

तयोः समभवद्युद्धं तदाऽन्योन्यं जिगीषतोः ।
अतीव चित्रमाश्चर्यं शक्रप्रल्हादयोरिव॥१८॥

अविध्यादेन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः॥१९॥

सौमित्रिशरसंस्पर्शाद्रावाणिः क्रोधमूर्च्छितः ।
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्॥२०॥

तस्यासून् पावकस्पर्शैः सौमित्रिः पत्त्रिभिस्त्रिभिः ।
यथा निरहरद्वीरस्तन्मे निगदतः शृणु॥२१॥

एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।
द्वितीयेन स नाराचं भुजं भूमौ न्यपातयत्॥२२॥

तृतीयेन तु बाणेन पृथुधारेण भास्वता ।
जहार सुनसं चापि शिरो भ्राजिष्णुकुण्डलम्॥२३॥

विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् ।
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः॥२४॥

लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा ।
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्॥२५॥

स पुत्रं निहतं दृष्ट्वा त्रासात् सम्भ्रान्तमानसः ।
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः॥२६॥

अशोकवनिकास्थां तां रामदर्शनलालसाम् ।
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह॥२७॥

तं दृष्ट्रा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् ।
शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना॥२८॥

महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।
हतैवैषा यदा स्त्री च बन्धनस्था च ते वशे॥२९॥

न चैषा देहभेदेन हता स्यादिति मे मतिः ।
जहि भर्तारमेवास्या हते तस्मिन् हता भवेत्॥३०॥

न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि॥३१॥

एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।
क्रुद्धं संशमयामास जगृहे च स तद्वचः॥३२॥

निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः ।
आज्ञापयामास तदा रथो मे कल्प्यतामिति॥३३॥

निधाय बध्वा असिं खड्गम् ॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि इन्द्रजिद्वधे ऊननवत्यधिकद्विशततमोऽध्यायः॥२८९॥
नवत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्॥१॥

ततः क्रुद्ध इति ॥१॥

स वृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः ।
अभिदुद्राव रामं स योधयन् हरियूथपान्॥२॥

तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः ।
हनूमान् जाम्बवांश्चैव ससैन्याः पर्यवारयन्॥३॥

ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः ।
द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः॥४॥

ततः स सैन्यमालोक्य वध्यमानमरातिभिः ।
मायावी चासृजन्मायां रावणो राक्षसाधिपः॥५॥

तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः ।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः॥६॥

तान् रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः॥७॥

कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत ।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः॥८॥

रामस्य रूपं कृत्वा लक्ष्मणमभिदुद्राव लक्ष्मणस्य रूपं कृत्वा राममिति योजना ॥८॥

ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः ।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः॥९॥

तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः ।
उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः॥१०॥

जहीमान् राक्षसान् पापानात्मनः प्रतिरूपकान् ।
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्॥११॥

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।
उपतस्थे रणे रामं मातलिः शक्रसारथिः॥१२॥

मातलिरुवाच। अयं हर्यश्वयुक् जैत्रो मघोनः स्यन्दनोत्तमः ।
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्॥१३॥

शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ।
तदनेन नरव्याघ्र मया यत्तेन संयुगे॥१४॥

स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ।
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः॥१५॥

मायैषा राक्षसस्येति तमुवाच विभीषणः ।
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः॥१६॥

तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ।
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्॥१७॥

रथेनाभिपपाताथ दशग्रीवं रुषान्वितः ।
हाहाकृतानि भूतानि रावणे समभिद्रुते॥१८॥

सिंहनादाः सपटहा दिवि दिव्यास्तथाऽनदन् ।
दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्॥१९॥

अलब्धोपममन्यत्र तयोरेव तथाऽभवत् ।
स रामाय महाघोरं विससर्ज निशाचरः॥२०॥

शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ।
तच्छूलं सत्वरं रामश्चिच्छेद निशितैः शरैः॥२१॥

तदृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ।
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्॥२२॥

सहस्रायुतशो रामे शस्त्राणि विविधानि च ।
ततो भुशुण्डीः शूलानि मुसलानि परश्वधान्॥२३॥

शक्तीश्च विविधाकाराः शतघ्नीश्च शितान् क्षुरान् ।
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः॥२४॥

विकृतां भीषणाम् ॥२४॥

भयात् प्रदुद्रुवुः सर्वे वानराः सर्वतो दिशम् ।
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्॥२५॥

तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ।
तं बाणवर्यं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्॥२६॥

जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ।
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः॥२७॥

ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिन्नराः ।
ततः ससर्ज तं रामः शरमप्रतिमौजसम्॥२८॥

रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ।
मुक्तमात्रेण रामेण दूराकृष्टेन भारत॥२९॥

स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः ।
प्रजज्वाल महाज्वालेनाग्निनाऽभिपरिप्लुतः॥३०॥

ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः ।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥३१॥

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् ।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा॥३२॥

पञ्च भूतानि तत्यजुर्मृत इत्यर्थः ॥३२॥

शरीरघातवो हास्य मांसं रुधिरमेव च ।
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत॥३३॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रावणवधे नवत्यधिकद्विशततमोऽध्यायः॥२९०॥
एकनवत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् ।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह॥१॥

स हत्वेति ॥१॥

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः ।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्॥२॥

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः ।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः॥३॥

त्रिदशालयः स्वर्गस्तत्स्थाः ॥३॥

पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् ।
तन्महोत्सवसङ्काशमासीदाकाशमच्युत॥४॥

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः ।
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः॥५॥

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् ।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ॥६॥

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितः ।
प्रतीच्छ देवा सद्वृत्तां महात्मन् जानकीमिति॥७॥

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् ।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः॥८॥

तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् ।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्॥९॥

उवाच रामो वैदेहीं परामर्शविशङ्कितः ।
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम्॥१०॥

मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि ।
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः॥११॥

कथं ह्यस्मद्विधो जातु जानन् धर्मविनिश्चयम् ।
परहस्तगतां नारीं मुहूर्तमपि धारयेत्॥१२॥

सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि ।
नोत्सहे परिमोगाय श्वावलीढं हविर्यथा॥१३॥

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः ।
पपात देवी व्यथिता निकृत्ता कदली यथा॥१४॥

योऽप्यस्या हर्षसम्भूतो मुखरागस्तदाऽभवत् ।
क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे॥१५॥

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् ।
गतासुकल्पा निश्चेष्टा बभुवुः सहलक्ष्मणाः॥१६॥

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः ।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम्॥१७॥

शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च ।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः॥१६॥

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् ।
विमानेन महार्हेण हंसयुक्तेन भास्वता॥१९॥

ततोऽन्तरिक्षं तत् सर्वं देवगन्धर्वसङ्कुलम् ।
शुशुभे तारकाचित्रं शरदीव नभस्तलम्॥२०॥

तत उत्थाय वैदेही तेषां मध्ये यशस्विनी ।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्॥२१॥

राजपुत्र न ते दोषं करोमि विदिता हि ते ।
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम॥२२॥

अन्तश्चरति भूतानां मातरिश्वा सदागतिः ।
स मे विमुञ्चतु प्राणान् यदि पापं चराम्यहम्॥२३॥

अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च ।
विमुञ्चन्तु मम प्राणान् यदि पापं चराम्यहम्॥२४॥

यथाऽहं त्वदृते वीर नान्यं स्वप्नेऽप्यचिन्तयम् ।
तथा मे देवनिर्दिष्टस्त्वमेव हि पतिर्भव॥२५॥

ततोऽन्तरिक्षे वागासीत् सुभगा लोकसाक्षिणी ।
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्॥२६॥

वायुरुवाच। भो भो राघव सत्यं वै वायुरस्मि सदागतिः ।
अपापा मैथिली राजन् सङ्गच्छ सह भार्यया॥२७॥

अग्निरुवाच। अहमन्तःशरीरस्थो भूतानां रघुनन्दन ।
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति॥२८॥

वरुण उवाच। रसा वै मत्प्रसूता हि भूतदेहेषु राघव ।
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्॥२९॥

ब्रह्मोवाच। पुत्र नैतदिद्दाश्चर्यं त्वयि राजर्षिधर्मणि ।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम॥३०॥

शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् ।
यक्षाणां दानवानां च महर्षीणां च पातितः॥३१॥

अवध्यः सर्वभूतानां मत्प्रसादात् पुराऽभवत् ।
कस्माच्चित् कारणात्पापः कञ्चित्कालमुपेक्षितः॥३२॥

वधार्थमात्मनस्तेन हृता सीता दुरात्मना ।
नलकूबरशापेन रक्षा चास्याः कृता मया॥३३॥

यदि ह्यकामामासेवेत् स्त्रियमन्यामपि ध्रुवम् ।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोऽभवत् पुरा॥३४॥

नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते ।
कृतं त्वया महत् कार्य देवानाममरप्रभ॥३५॥

दशरथ उवाच। प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते ।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम॥३६॥

राम उवाच। अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम ।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात् तव॥३७॥

मार्कण्डेय उवाच। तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ ।
गच्छायोध्यां प्रशाधीति रामं रक्तान्तलोचनम्॥३८॥

सम्पूर्णानीह वर्षाणि चतुर्दश महाद्युते ।
ततो देवान् नमस्कृत्य सुहृद्भिरभिनन्दितः॥३९॥

महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ।
ततो वरं ददौ तस्मै ह्यविन्ध्याय परन्तपः॥४०॥

त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ।
तमुवाच ततो ब्रह्मा देवैः शक्रपुरोगमैः॥४१॥

कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ।
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्॥४२॥

राक्षसैर्निहतानां च वानराणां समुद्भवम् ।
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा॥४३॥

समुत्तस्थुर्महाराज वानरा लब्धचेतसः ।
सीता चापि महाभागा वरं हनुमते ददौ॥४४॥

रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ।
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा॥४५॥

उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ।
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्॥४६॥

अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ।
दृष्ट्वा रामं तु जानक्या सङ्गतं शक्रसारथिः॥४७॥

उवाच परमप्रीतः सुहृन्मध्य इदं वचः ।
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्॥४८॥

अपनीतं त्वया दुःखमिदं सत्यपराक्रम ।
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः॥४९॥

कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ।
इत्येवमुक्त्वाऽनुज्ञाप्य रामं शस्त्रभृतां वरम्॥५०॥

सम्पूज्यापाक्रमत् तेन रथेनादित्यवर्चसा ।
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह॥५१॥

सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ।
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः॥५२॥

सन्ततार पुनस्तेन सेतुना मकरालयम् ।
पुष्पकेण विमानेन खेचरेण विराजता॥५३॥

कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ।
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः॥५४॥

यत्र शिश्ये पूर्वं समुद्रप्रार्थनार्थं शयनं कृतवान् ॥५४॥

तत्रैवोवास धर्मात्मा सहितः सर्ववामरैः ।
अथैनान् राघवः काले समानीयाभ्यपूज्य च॥५५॥

विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः ।
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च॥५६॥

सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ।
विभीषणेनानुगतः सुग्रीवसहितस्तदा॥५७॥

पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम् ।
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः॥५८॥

अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ।
ततस्तैरेव सहितो रामः सौमित्रिणा सह॥५९॥

यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ।
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः॥६०॥

भरताय हनूमन्तं दूतं प्रास्थापयत् तदा ।
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य वै॥६१॥

वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ।
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्॥६२॥

अग्रतः पादुके कृत्वा ददर्शासीनमासने ।
सङ्गतो भरतेनाथ शत्रुघ्नेन च वीर्यवान्॥६३॥

राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ।
ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा॥६४॥

गुरुणा रामेण ॥६४॥

वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ।
तस्मै तद्भरतो राज्यमागतायातिसत्कृतम् ।
न्यासं निर्यातयामास युक्तः परमया मुदा॥६५॥

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि ।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्॥६६॥

वैष्णवे नक्षत्रे श्रवणे ॥६६॥

सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् ।
विभीषणं च पौलस्त्यमन्वजानाग्रद्गृहान् प्रति॥६७॥

अभ्यर्च्य विविधैर्भोगैः प्रीतियुक्तौ मुदा युतौ ।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह॥६८॥

पुष्पकं च विमानं तत् पूजयित्वा स राघवः ।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः॥६९॥

ततो देवर्षिसहितः सरितं गोमतीमनु ।
दशाश्वमेधानाजह्रे जारूथ्यान् स निरर्गलान्॥७०॥

जारूथ्यान् त्रिगुणदक्षिणानित्यर्जुनमिश्रः । जॄवॄभ्यामूथन्नित्युणादिसूत्रे जरूथं मांसमिति शाब्दिकाः । तदा मांसमयान् मांसादिदानप्रधानान् पुष्टानित्यर्थः । निरर्गलान् अन्नाद्यर्थिनामनावृतद्वारान् । जरूथोऽसुरविशेष इति वेदभाष्यम्। ‘जरूथं हन् यक्षि राये पुरन्धिम्’ इति मन्त्रवर्णात् । ‘जरूथं गरूथं गृणातेः’ इति यास्कवचनाच्च । जरूथं स्तोत्रम्। तथा चायं मन्त्रो निरुक्तभाष्ये व्याख्यातः - हेऽग्ने त्वां पुरन्धिं महान्तं समिधानः सम्यग्दीप्यन् वसिष्ठो मुनिः राये धनप्राप्तये जरूथं स्तोत्रं हन् गमयन् यक्षि जयति । अत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्यादर्थाविरोधाच्च जरूथं स्तोत्रमित्युच्यत इति जारूथ्यान् स्तोत्रार्हानित्यर्थः ॥७०॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामाभिषेके एकनवत्यधिकद्विशततमोऽध्यायः॥२९१॥
द्विनवत्यधिकद्विशततमोऽध्यायः

मार्कण्डेय उवाच। एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा॥१॥

एवमेतदिति ॥१॥

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप ।
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये॥२॥

दीप्तनिर्णये असन्दिग्धे प्रत्यक्षफले ॥२॥

न हि ते वृजिनं किञ्चिद्वर्तते परमण्वपि ।
अस्मिन्मार्गे निषीदेयुः सेन्द्राऽपि ससुरासुराः॥३॥

संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना ।
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी॥४॥

सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः ।
किं नु तस्याजितं सङ्ख्ये यस्य भ्राता धनञ्जयः॥५॥

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः ।
युवानौ च महेष्वासौ वीरौ माद्रवती सुतौ॥६॥

एभिः सहायैः कस्मात् त्वं विषीदसि परन्तप ।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्॥७॥

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसि रणे सर्वानमित्रान् भरतर्षभ॥८॥

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना ।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः॥९॥

आनीतां द्रौपदीं कृष्णां कृत्त्वा कर्म सुदुष्करम् ।
जयद्रथं च राजानं विजितं वशमागतम्॥१०॥

असहायेन रामेण वैदेही पुनराहृता ।
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम्॥११॥

यस्य शाखामृगा मित्राण्यृक्षाः कालमुखास्तथा ।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय॥१२॥

तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ ।
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप॥१३॥

वैशम्पायन उवाच। एवमाश्वासितो राजा मार्कण्डेयेन धीमता ।
त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्॥१४॥

इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि युधिष्ठिराश्वासने द्विनवत्यधिकद्विशततमोऽध्यायः॥२९२॥
समाप्तं रामोपाख्यानपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in