जनमेजय उवाच।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः॥१॥
एवमिति ॥१॥
वैशम्पायन उवाच।
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्
।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः॥२॥
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्
।
मार्कण्डेयमिदं वाक्यमब्रवीत् पाण्डुनन्दनः॥३॥
युधिष्ठिर उवाच।
भगवन् देवर्षीणां त्वं ख्यातो भूतभविष्यवित्
।
संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम्॥४॥
द्रुपदस्य सुता ह्येषा वेदिमध्यात् समुत्थिता
।
अयोनिजा महाभागा स्नुषा पाण्डोर्महात्मनः॥५॥
मन्ये कालश्च भगवान् दैवं च विधिनिर्मितम्
।
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः॥६॥
दैवं धर्माधर्मौ । विधिः सदसत्कर्मणी ताभ्यां निर्मितम् ॥६॥
इमां हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्
।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्॥७॥
ईदृशो भावः । परेण हरणम् ॥७॥
न हि पापं कृतं किञ्चित् कर्म वा निन्दितं क्वचित्
।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्॥८॥
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः
।
तस्याः संहरणात् पापः शिरसः केशपातनम्॥९॥
पराजयं च सङ्ग्रामे ससहायः समाप्तवान्
।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत् सैन्धवं बलम्॥१०॥
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्
।
दुःखश्चायं वने वासो मृगयायां च जीविका॥११॥
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्
।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्॥१२॥
मिथ्याव्यवसितैः वृथातापसवेषधरैः । इयं हिंसा क्रियत इति शेषः ॥१२॥
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः
।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्॥१३॥
मया सम इति शेषः॥१३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि युधिष्ठिरप्रश्ने त्रिसप्तत्यधिकद्विशततमोऽध्यायः॥२७३॥
मार्कण्डेय उवाच।
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ
।
रक्षसा जानकी तस्य हृता भार्या बलीयसा॥१॥
प्राप्तमिति ॥१॥
आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना
।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्॥२॥
मायां संन्यासिवेषम् ॥२॥
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः
।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः॥३॥
युधिष्ठिर उवाच।
कस्मिन् रामः कुले जातः किंवीर्यः किम्पराक्रमः
।
रावणः कस्य पुत्रो वा किं वैरं तस्य तेन ह॥४॥
एतन्मे भगवन् सर्वं सम्यगाख्यातुमर्हसि
।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः॥५॥
मार्कण्डेय उवाच।
अजो नामाऽभवद्राजा महानिक्ष्वाकुवंशजः
।
तस्य पुत्रो दशरथः शश्वत् स्वाध्यायवाञ्छुचिः॥६॥
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः
।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः॥७॥
रामस्य माता कौसल्या कैकेयी भरतस्य तु
।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ॥८॥
विदेहराजो जनकः सीता तस्यात्मजा विभो
।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्॥९॥
त्वष्टा प्रजापतिः स्वयमेव सङ्कल्पेन चकार न तु मैथुनद्वारा । अयोनिजामित्यर्थः ॥९॥
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्
।
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर॥१०॥
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः
।
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः॥११॥
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः
।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः॥१२॥
गवि गोसंज्ञायां भार्यायाम् ॥१२॥
पितरं स समुत्सृज्य पितामहमुपस्थितः
।
तस्य कोपात् पिता राजन् ससर्जात्मानमात्मना॥१३॥
तस्य वैश्रवणस्य कोपात् मां त्यक्त्वा मत्पितरं सेवत इत्यतिज्वलनात् वैश्रवणं बाधितुं पुलस्त्य एव योगबलेन विश्रवःसंज्ञं देहान्तरं चक्रे इत्यर्थः ॥१३॥
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः
।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै॥१४॥
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह
।
अमरत्वं धनेशत्वं लोकपालत्वमेव च॥१५॥
ईशानेन तथा सख्यं पुत्रं च नलकूबरम्
।
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्॥१६॥
विमानं पुष्पकं नाम कामगं च ददौ प्रभुः
।
यक्षाणामाधिपत्यं च राजराजत्वमेव च॥१७॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामरावणयोर्जन्मकथने चतुःसप्तत्यधिकद्विशततमोऽध्यायः॥२७४॥
मार्कण्डेय उवाच।
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
।
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत॥१॥
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप॥२॥
पुलस्त्यस्येति । पितरं विश्रवसं राक्षसेश्वरः कुबेरो रक्षः पुरीनायकत्वात् ॥२॥
स राजराजो लङ्कायां न्यवसन्नरवाहनः
।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः॥३॥
ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः
।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः॥४॥
पुष्पोत्कटा च राका च मालिनी च विशाम्पते
।
अन्योन्यस्पर्धया राजन् श्रेयस्कामाः सुमध्यमाः॥५॥
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्
।
लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान्॥६॥
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि॥७॥
मालिनी जनयामास पुत्रमेकं विभीषणम्
।
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा॥८॥
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्
।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः॥९॥
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः
।
महोत्साहो महावीर्यो महासत्त्वपराक्रमः॥१०॥
कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको युधि
।
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः॥११॥
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः
।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा॥१२॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
।
ऊषुः पित्रा सह रता गन्धमादनपर्वते॥१३॥
पित्रा विश्रवसा ॥१३॥
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्॥१४॥
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः
।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा॥१५॥
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः॥१६॥
पञ्चदिक्षु चत्वार एकः सूर्य इति पञ्चानामग्नीनां मध्यगः पञ्चाग्निः ॥१६॥
अधःशायी कुम्भकर्णो यताहारो यतव्रतः
।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन्॥१७॥
विभीषणः तप आतिष्ठदित्यन्वयः ॥१७॥
उपवासरतिर्धीमान् सदा जप्यपरायणः
।
तमेव कालमातिष्ठत् तीव्रं तप उदारधीः॥१८॥
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
।
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ॥१९॥
पूर्णे वर्षसहस्त्रे तु शिरच्छित्वा दशाननः
।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः॥२०॥
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्
।
प्रलोभ्य वरदानेन सर्वानेव पृथक् पृथक्॥२१॥
ब्रह्मोवाच।
प्रीतोऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः
।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत्॥२२॥
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया
।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया॥२३॥
महदीप्सया श्रेष्ठपदापेक्षया ॥२३॥
वैरूप्यं च न ते देहे कामरूपधरस्तथा
।
भविष्यसि रणेऽरीणां विजेता न च संशयः॥२४॥
रावण उवाच।
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
।
सर्पकिन्नरभूतेभ्यो न मे भूयात् पराभवः॥२५॥
ब्रह्मोवाच
।
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव
।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया॥२६॥
मार्कण्डेय उवाच।
एवमुक्तो दशग्रीवस्तुष्टः समभवत् तदा
।
अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः॥२७॥
कुम्भकर्णमथोवाच तथैव प्रपितामहः
।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः॥२८॥
तमसेति अनिष्टामपि निद्रां मोहाद्वृतवानित्यर्थः ॥२८॥
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः॥२९॥
विभीषण उवाच।
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्
।
अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे॥३०॥
ब्रह्मोवाच।
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन
।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते॥३१॥
मार्कण्डेय उवाच।
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशाम्पते
।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्॥३२॥
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम्
।
गन्धर्वयक्षानुगतो रक्षः किं पुरुषैः सह॥३३॥
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति॥३४॥
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति
।
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि॥३५॥
योनौ क्षेत्रे न तु रेतोऽत्र राक्षसमस्ति । तस्मान्मातृदोषादेव क्रौर्यं रावणादीनामित्यर्थः । ‘नराणां मातुलक्रमः’ इति प्रसिद्धम् ॥३५॥
न भविष्यसि मरिष्यसि ॥३५॥
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्
।
अन्वगच्छन् महाराज श्रिया परमया युतः॥३६॥
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः
।
सैनापत्यं ददौ धीमान् यक्षराक्षससेनयोः॥३७॥
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबालाः
।
सर्वे समेत्य राजानमभ्यषिञ्चन् दशाननम्॥३८॥
दशग्रीवश्च दैत्यानां देवानां च बलोत्कटः
।
आक्रम्य रत्नान्यहरत् कामरूपी विहङ्गमः॥३९॥
अन्वगच्छत् कुबेरमिति शेषः ॥३९॥
रत्नानि । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’। विहङ्गमः खेचरः ॥३९॥
रावयामास लोकान् यत् तस्माद्रावण उच्यते
।
दशग्रीवः कामबलो देवानां भयमादधत्॥४०॥
रावयामास हिंसार्थस्य रुङो रूपमिदम् ॥४०॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रावणादिवरप्राप्तौ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः॥२७५॥
मार्कण्डेय उवाच।
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा
।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः॥१॥
तत इति ॥१॥
अग्निरुवाच।
योऽसौ विश्रवसः पुत्रो दशग्रीवो महाबलः
।
अवध्यो वरदानेन कृतो भगवता पुरा॥२॥
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः
।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते॥३॥
विप्रकारैः विविधैः प्रकारैः ॥३॥
ब्रह्मोवाच।
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो
।
विहितं तत्र यत् कार्यमभितस्तस्य निग्रहः॥४॥
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः
।
विष्णुः प्रहरतां श्रेष्ठः स तत् कर्म करिष्यति॥५॥
मार्कण्डेय उवाच।
पितामहस्ततस्तेषां सन्निधौ शक्रमब्रवीत्
।
सर्वैर्देवगणैः सार्धं सम्भव त्वं महीतले॥६॥
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः
।
जनयध्वं सुतान् वीरान् कामरूबलान्वितान्॥७॥
ततो भागानुभागेन देवगन्धर्वदानवाः
।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा॥८॥
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः
।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये॥९॥
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः
।
मन्थरा मानुषे लोके कुब्जा समभवत् तदा॥१०॥
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः
।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्॥११॥
तेऽन्ववर्तन् पज़्तॄन् सर्वे यशसा च बलेन च
।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः॥१२॥
वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा
।
कामवीर्यबलाश्चैव सर्वे युद्धविशारदाः॥१३॥
वज्रसंहननाः वज्रवद्दृढाङ्गाः ॥१३॥
नागायुतसमप्राणा वायुवेगसमा जवे
।
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः॥१४॥
यत्रेच्छा तत्रैव निवासो येषां ते यत्रेच्छकनिवासाः ॥१४॥
एवं विधाय तत् सर्वं भगवाँल्लोकभावनः
।
मन्थरां बोधयामास यद्यत् कार्यं यथा यथा॥१५॥
यद्यत् कार्यं कैकेयीप्रलोभनं रामप्रव्राजनादि च ॥१५॥
सा तद्वचः समाज्ञाय तथा चक्रे मनोजवा
।
इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता॥१६॥
सन्धुक्षणे दीपने ॥१६॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि वानराद्युत्पत्तौ षट्सप्तत्यधिकद्विशततमोऽध्यायः॥२७६॥
युधिष्ठिर उवाच।
उक्तं भगवता जन्म रामादीनां पृथक् पृथक्
।
प्रस्थानकारणं ब्रह्मन् श्रोतुमिच्छामि कथ्यताम्॥१॥
उक्तमिति ॥१॥
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ
।
सम्प्रस्थितौ वने ब्रह्मन् मैथिली च यशस्विनी॥२॥
मार्कण्डेय उवाच।
जातपुत्रो दशरथः प्रीतिमानभवन्नृप
।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता॥३॥
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः
।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः॥४॥
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव
।
यदा तदा दशरथः प्रीतिमानभवत् सुखी॥५॥
ज्येष्ठो रामोऽभवत् तेषां रमयामास हि प्रजाः
।
मनोहरतया धीमान् पितुर्हृदयनन्दनः॥६॥
रामपदं निर्वक्ति ज्येष्ठ इति ॥६॥
ततः स राजा मतिमान् मत्वाऽऽत्मानं वयोधिकम्
।
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः॥७॥
अभिषेकाय रामस्य यौवराज्येन भारत
।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः॥८॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्
।
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम्॥९॥
महान्तौ शत्रुजयक्षमौ बाहू यस्य तम् । दीर्घौ आजानुपर्यन्तौ बाहू यस्य तम् ॥९॥
दीप्यमानं श्रिया वीरं शक्रादनवरं रणे
।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ॥१०॥
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्
।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्॥११॥
सर्वशः अनुरक्ताः प्रकृतयः प्रजा यस्मिंस्तं सर्वानुरक्तप्रकृतिम् ॥११॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
।
धृतिमन्तमनाधृष्यं जेतारमपराजितम्॥१२॥
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्
।
सन्दृश्य परमां प्रीतिमगच्छत् कुरुनन्दन॥१३॥
चिन्तयंश्च महातेजा गुणान् रामस्य वीर्यवान्
।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्॥१४॥
भद्रं ते इति युधिष्ठिरं प्रति आशीर्वचनम् । पुरोहितं वसिष्ठम् ॥१४॥
अद्य पुष्यो निशि ब्रह्मन् पुण्यं योगमुपैष्यति
।
सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्॥१५॥
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा
।
कैकेयीमभिगम्येदं काले वचनमब्रवीत्॥१६॥
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्
।
आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशतु दुर्भगे॥१७॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्॥१८॥
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता
।
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम्॥१९॥
वेदीवत् विलग्नः कृशो मध्यो यस्याः ॥१९॥
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता
।
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत्॥२०॥
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्
।
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात्॥२१॥
कामं वरम् । उपाकुरुष्व देहि सङ्कटात् कष्टात् ॥२१॥
राजोवाच।
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि
।
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम्॥२२॥
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः
।
ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे॥२३॥
पृथिव्यां राजराजोऽस्मि चातुर्वर्ण्यस्य रक्षिता
।
यस्तेऽभिलषितः कामो ब्रूहि कल्याणि मा चिरम्॥२४॥
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्
।
आत्मनो बलमाज्ञाय तत एनमुवाच ह॥२५॥
आभिषेचनिकं यत् ते रामार्थमुपकल्पितम्
।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः॥२६॥
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम्
।
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह॥२७॥
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्
।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति॥२८॥
तमन्वगच्छल्लक्ष्मीवान् धनुष्माँल्लक्ष्मणस्तदा
।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा॥२९॥
सीता लाङ्गलपद्धतिस्ततो जातत्वादियमपि सीता विदेहापत्यत्वाद्वैदेही ॥२९॥
ततो वनं गते रामे राजा दशरथस्तदा
।
समयुज्यत देहस्य कालपर्यायधर्मणा॥३०॥
कालपर्यायधर्मणा मृत्युना ॥३०॥
रामं तु गतमाज्ञाय राजानं च तथागतम्
।
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्॥३१॥
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ
।
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम्॥३२॥
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्
।
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया॥३३॥
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने
।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह॥३४॥
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ
।
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः॥३५॥
चारित्र्यं विशोध्य इदं कैकेय्यैव कृतं न तु मयेति प्रदर्श्य ॥३५॥
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः
।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ॥३६॥
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः
।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया॥३७॥
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्
।
तापसानामलङ्कारं धारयन्तं धनुर्धरम्॥३८॥
विसर्जितः स रामेण पितुर्वचनकारिणा
।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके॥३९॥
रामस्तु पुनराशङ्क्य पौरजानपदागमम्
।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति॥४०॥
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः
।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत् तदा॥४१॥
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्
।
खरेणासीन्महद्वैरं जनस्थाननिवासिना॥४२॥
रक्षार्थं तापसानां तु राघवो धर्मवत्सलः
।
चतुर्दशसहस्राणि जघान भुवि राक्षसान्॥४३॥
दूषणं च खरं चैव निहत्य सुमहाबलौ
।
चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः॥४४॥
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः
।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम्॥४५॥
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता
।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना॥४६॥
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः
।
उत्पपातासनात् क्रुद्धो दन्तैर्दन्तानुपस्पृशन्॥४७॥
स्वानमात्यान् विसृज्याथ विविक्ते तामुवाच सः
।
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च॥४८॥
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते
।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम्॥४९॥
आशीविषं घोरतरं पादेन स्पृशतीह कः
।
सिंहं केसरिणं कश्च दंष्ट्रायां स्पृश्य तिष्ठति॥५०॥
सिंहं हिंस्रं केसरिणं सटावन्तं मृगराजम् ॥५०॥
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः
।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः॥५१॥
स्रोतोभ्यश्चक्षुरादिरन्ध्रेभ्यः तेजसोऽर्चिषोऽग्नेर्ज्वालाः ॥५१॥
तस्य तत् सर्वमाचख्यौ भगिनी रामविक्रमम्
।
खरदूषणसंयुक्तं राक्षसानां पराभवम्॥५२॥
खरदूषणसंयुक्तं तत्पराभवसहितम् ॥५२॥
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च
।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्॥५३॥
विधिं रक्षाम् ॥५३॥
त्रिकूटं समतिक्रम्य कालपर्वतमेव च
।
ददर्श मकरावासं गम्भीरोदं महोदधिम्॥५४॥
पुरा रामभयात् विश्वामित्रयज्ञप्रसङ्गेन जातात् ॥५४॥
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः
।
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः॥५५॥
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः
।
पुरा रामभयादेव तापस्यं समुपाश्रितम्॥५६॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामवनाभिगमने सप्तसप्तत्यधिकद्विशततमोऽध्यायः॥२७७॥
मार्कण्डेय उवाच।
मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम्
।
पूजयामास सत्कारैः फलमूलादिभिस्ततः॥१॥
मारीच इति ॥१॥
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः
।
उवाच प्रसृतं वाक्यं वाक्यज्ञो वाक्यकोविदम्॥२॥
प्रसृतं पुष्कलार्थवत् ॥२॥
न ते प्रकृतिमान् वर्णः कच्चित् क्षेमं पुरे तव
।
कच्चित् प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा॥३॥
किमिहागमने चापि कार्यं ते राक्षसेश्वर
।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्॥४॥
शशंस रावणस्तस्मै तत् सर्वं रामचेष्टितम्
।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः॥५॥
मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम्
।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै॥६॥
राममासाद्य अलम् । रामं नैवासादयेरित्यर्थः । ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति निषेधार्थकालंशब्दयोगे क्त्वाप्रत्ययः ॥६॥
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः
।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः॥७॥
विनाशमुखमेतत् ते केनाख्यातं दुरात्मना
।
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्॥८॥
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्
।
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्॥९॥
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्
।
ततस्तं प्रत्युवाचाथ मारीचो रक्षसां वरम्॥१०॥
किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत्
।
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय॥११॥
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः
।
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति॥१२॥
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
।
तामादायापनेष्यामि ततः स न भविष्यति॥१३॥
भार्यावियोगाद्दुर्बुद्धिरेतत् साह्यं कुरुष्व मे
।
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः॥१४॥
उदकमौर्ध्वदेहिकम् ॥१४॥
रावणं पुरतो यान्तमन्वगच्छत् सुदुःखितः
।
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः॥१५॥
चक्रतुस्तद्यथा सर्वमुभौ यत् पूर्वमन्त्रितम्
।
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्॥१६॥
मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः
।
दर्शयामास मारीचो वैदेहीं मृगरूपधृक्॥१७॥
चोदयामास तस्यार्थे सा रामं विधिचोदिता
।
रामस्तस्याः प्रियं कुर्वन् धनुरादाय सत्वरः॥१८॥
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
।
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान्॥१९॥
गोधाज्याघातवारणम् अङ्गुलित्रयं च तद्वान्॥१९॥
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
।
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्॥२०॥
तारामृगं तारारूपं मृगं प्रजापतिः स्वां दुहितरं मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत् तदेतन्मृगशीर्षं नाम नक्षत्रम् ॥२०॥
चकर्ष महदध्वानं रामस्तं बुबुधे ततः
।
निशाचरं विदित्वा तं राघवः प्रतिभानवान्॥२१॥
अमोघं शरमादाय जघान मृगरूपिणम्
।
स रामबाणाभिहतः कृत्वा रामस्वरं तदा॥२२॥
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
।
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्॥२३॥
सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः
।
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति॥२४॥
मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मिते
।
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्॥२५॥
पर्यशङ्कत लक्ष्मणो मय्यभिलाषवानिति शङ्कामकरोत्॥२५॥
हता वै स्त्रीस्वभावेन शुक्लचारित्रभूषणा
।
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता॥२६॥
नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा
।
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना॥२७॥
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
।
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन॥२८॥
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
।
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः॥२९॥
पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः
।
स रामस्य पदं गृह्य प्रससार धनुर्धरः॥३०॥
अवीक्षमाणो बिम्बोष्ठीं प्रययौ लक्ष्मणस्तदा
।
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत॥३१॥
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः
।
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्॥३२॥
सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा
।
निमन्त्रयामास तदा फलमूलाशनादिभिः॥३३॥
अवमन्य ततः सर्वं स्वरूपं प्रत्यपद्यत
।
सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः॥३४॥
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः
।
मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः॥३५॥
तत्र त्वं नरनारीषु शोभिष्यसि मया सह
।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम्॥३६॥
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी
।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः॥३७॥
प्रपतेद्द्यौ सनक्षत्रा पृथिवी शकली भवेत्
।
शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम्॥३८॥
कथं हि भिन्नकरटं पद्मिनं वनगोचरम्
।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत्॥३९॥
भिन्नकरटं भिन्नगण्डस्थलं मत्तम् । करेणुर्हस्तिनी ॥३९॥
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्
।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेत्॥४०॥
माध्वीकं मधुपुष्पजं मद्यं मधुमाधवीं क्षौद्रजां सुरां सौवीरं काञ्जिकम्॥४०॥
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः
।
क्रोधात् प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः॥४१॥
तामभिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
।
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्॥४२॥
मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः
।
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः
।
रुदतीं रामरामेति ह्रियमाणां तपस्विनीम्॥४३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि मारीचवधे सीताहरणे च अष्टसप्तत्यधिकद्विशततमोऽध्यायः॥२७८॥
मार्कण्डेय उवाच।
सखा दशरथस्यासीज्जटायुररुणात्मजः
।
गृध्रराजो महावीरः सम्पातिर्यस्य सोदरः॥१॥
सखेति ॥१॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्
।
सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम्॥२॥
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथिलीम्
।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर॥३॥
स्वमैथिलीं स्वा चासौ मैथिली । स्वा आत्मीया स्नुषा मैथिलसुतेत्यर्थः ध्रियमाणे जीवति ॥३॥
न हि मे मोक्ष्यसे जीवन् यदि नोत्सृज्यसे वधूम्
।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्॥४॥
पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम्
।
चक्षार रुधिरं भूरि गिरिः प्रस्त्रवणैरिव॥५॥
चक्षार सुस्त्राव ॥५॥
स वध्यमानो गृध्रेण रामप्रियहितैषिणा
।
खड्गमादाय चिच्छेद भुजौ तस्य पतत्त्रिणः॥६॥
नखरैः नरवैस्तीक्ष्णैः ॥६॥
निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम्
।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः॥७॥
अङ्गेन उत्सङ्गेन ॥७॥
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्
।
सरो वा सरितो वाऽपि तत्र मुञ्चति भूषणम्॥८॥
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्
।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी॥९॥
गिरिप्रस्थे पर्वतशिखरे ‘प्रस्थो स्त्रियां मानभेदे सानावत्युच्चवस्तुनि’ इति मेदिनी ॥९॥
तत् तेषां वानरेन्द्राणां पपात पवनोद्धतम्
।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा॥१०॥
अचिरेणातिचक्राम खेचरः खे चरन्निव
।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम्॥११॥
प्राकारवप्रसम्बाधां निर्मितां विश्वकर्मणा
।
प्रविवेश पुरीं लङ्कां ससीतो राक्षसेश्वरः॥१२॥
प्राकारः परिधिभित्तिः वप्रस्तद्बाह्यं वेणुमयं दुर्गं ताभ्यां सम्बाधां दुर्गमां ‘वप्रः स्थाने पुमानस्त्री वेणुक्षेत्रे चपेटके’ इति मेदिनी ॥१२॥
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्
।
निवृत्तो ददृशे धीमान् भ्रातरं लक्ष्मणं तथा॥१३॥
कथमुत्सृज्य वैदेहीं वने राक्षससेविते
।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्॥१४॥
कथं प्राप्तोऽसीति सम्बन्धः ॥१४॥
मृगरूपधरेणाथ रक्षसा सोपकर्षणम्
।
भ्रातुरागमनं चैव चिन्तयन् पर्यतप्यत॥१५॥
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्
।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण॥१६॥
तस्य तत् सर्वमाचख्यौ सीताया लक्ष्मणो वचः
।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः॥१७॥
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्
।
स ददर्श तदा गृध्रं निहतं पर्वतोपमम्॥१८॥
राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः
।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः॥१९॥
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ
।
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य वै॥२०॥
वां युवयोः ॥२०॥
तस्य तद्वचनं श्रुत्वा स गृह्य धनुषी शुभे
।
कोऽयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ॥२१॥
आह ब्रूते ॥२१॥
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं खगम्
।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम्॥२२॥
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः
।
तस्य गृध्रः शिरः कम्पैराचचक्षे ममार च॥२३॥
दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम्
।
सत्कारं लम्भयामास सखायं पूजयन् पितुः॥२४॥
ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीमठम्
।
विध्वस्तकलशं शून्यं गोमायुशतसङ्कुलम्॥२५॥
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ
।
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ॥२६॥
वने महति तस्मिंस्तु रामः सौमित्रिणा सह
।
ददर्श मृगयूथानि द्रवमाणानि सर्वशः॥२७॥
शब्दं च घोरं सत्वानां दावाग्नेरिव वर्धतः
।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्॥२८॥
मेघपर्वतसंकाशं शालस्कन्धं महाभुजम्
।
उरोगतविशालाक्षं महोदरमहामुर्ख:॥२९॥
उरसि नेत्रे उदरे मुखं च यस्य । कबन्धः शीर्षहीनः पुमान् ॥२९॥
यदृच्छयाऽथ तद्रक्षः करे जग्राह लक्ष्मणम्
।
विषादमगमत् सद्यः सौमित्रिरथ भारत॥३०॥
सराममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम्
।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम॥३१॥
येन यतः तन्मुखं ततः कृष्यते ॥३१॥
हरणं चैव वैदेह्या मम चायसुपप्लवः
।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा॥३२॥
नाहं त्वां सह वैदेह्या समेतं कोसलागतम्
।
द्रक्ष्यामि पृथिवी राज्ये पितृपैतामहे स्थितम्॥३३॥
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः
।
अभिषिक्तस्य वदनं सोमं शान्तघनं यथा॥३४॥
एवं बहुविधं धीमान् विललाप सलक्ष्मणः
।
तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः॥३५॥
एवं बहुविधं राममब्रवीत् असम्भ्रमः निर्भयः ॥३५॥
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते
।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः
।
इत्येवं वदता तस्य भुजो रामेण पातितः
।
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्॥३७॥
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान् बली
।
सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम्॥३८॥
पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम्
।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः॥३९॥
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः
।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्॥४०॥
विनिःसृत्य दिव्यदर्शनोऽभूत् पुरुषः कबन्धदेहधारी स च ददृशे दृष्टः ॥४०॥
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रबूहि पृच्छतः
।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे॥४१॥
कामया इच्छया ॥४१॥
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप
।
प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्॥४२॥
रावणेन हृता सीता राज्ञा लङ्काधिवासिना
।
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति॥४३॥
एषा पम्पा शिवजला हंसकारण्डवायुता
।
ऋष्यमूकस्य शैलस्य सन्निकर्षे तटाकिनी॥४४॥
पम्पा नाम तटाकिनी सरसी ॥४४॥
वसते तत्र सुग्रीवश्चतुर्भिः सचिवैः सह
।
भ्राता वानरराजस्य वालिनो हेममालिनः॥४५॥
तेन त्वं सह सङ्गम्य दुःखमूलं निवेदय
।
समानशीलो भवतः साहाय्यं स करिष्यति॥४६॥
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टाऽसि जानकीम्
।
ध्रुवं वानरराजस्य विदितो रावणालयः॥४७॥
इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः
।
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ॥४८॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कबन्धहनने ऊनाशीत्यधिकद्विशततमोऽध्यायः॥२७९॥
मार्कण्डेय उवाच।
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्
।
सीताहरणदुःखार्तः पम्पां रामः समासदत्॥१॥
तत इति । अविदूरे समीपे नलिनीं पुष्करिणीम् उत्पलानि कुमुदानि ॥१॥
मारुतेन सुशीतेन सुखेनामृतगन्धिना
।
सेव्यमानो वने तस्मिन् जगाम मनसा प्रियाम्॥२॥
अमृतगान्धिना अमृतसदृशेन ॥२॥
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्
।
कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत्॥३॥
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद
।
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्॥४॥
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च
।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय॥५॥
उपपादय सफली कुरु ॥५॥
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्
।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस॥६॥
एवं बहुविधैर्वाक्यैलक्ष्मणेन स राघवः
।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्॥७॥
अनन्तरः संलग्नः ॥७॥
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि
।
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ॥८॥
तावृष्यसूकमभ्येत्य बहुमूलफलद्रुमम्
।
गिर्यग्रे वानरान् पञ्च वीरौ ददृशतुस्तदा॥९॥
ऋष्यमूकं पर्वतम् ॥९॥
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः
।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्॥१०॥
तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः
।
सख्यं वानरराजेन चक्रे रामस्तदा नृप॥११॥
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते
।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत्॥१२॥
तत् प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्
।
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्॥१३॥
प्रतिजज्ञे च काकुत्स्थः समरे वालिवो वधम्
।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप॥१४॥
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्
।
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः॥१५॥
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः
।
नास्य तन्ममृषे वाली तारा तं प्रत्यषेधयत्॥१६॥
ओघो जनवृन्दस्तन्निभः स्वनो यस्य ‘ओघो वेगे जलस्य च । वृन्दे परम्परायां च’ इति मेदिनी ॥१६॥
यथा नदति सुग्रीवो बलवानेष वानरः
।
मन्ये चाश्रयवान् प्राप्तो न त्वं निष्क्रान्तुमर्हसि॥१७॥
आश्रयवान् परबलाश्रितः ॥१७॥
हेममाली ततो वाली तारां ताराधिपाननाम्
।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः॥१८॥
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता
।
केन चाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः॥१९॥
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा
।
पतिमित्यब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर॥२०॥
हृतदारो महासत्त्वो रामो दशरथात्मजः
।
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः॥२१॥
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः
।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये॥२२॥
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः
।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः॥२३॥
सर्व एते महात्मनो बुद्धिमन्तो महाबलाः
।
अलं तव विनाशाय रामवीर्यबलाश्रयात्॥२४॥
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः
।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्॥२५॥
ईर्षुः ईर्ष्यालुः ॥२५॥
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्
।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत॥२६॥
असकृत् त्वं मया पूर्वं निर्जितो जीवितप्रियः
।
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः॥२७॥
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः
।
प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव॥२८॥
हृतराज्यस्य मे राजन् हृतदारस्य च त्वया
।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम्॥२९॥
जीवितसामर्थ्यं जीवनस्य श्लाघ्यत्वम् ॥२९॥
एवमुक्त्वा बहुविधं ततस्तौ सन्निपेततुः
।
समरे वालिसुग्रीवौ शालतालशिलायुधौ॥३०॥
उमौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः
।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः॥३१॥
उभौ रुधिरसंसिक्तो नखदन्तपरिक्षतौ
।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ॥३२॥
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते
।
सुग्रीवस्य तदा मालां हनुमान् कण्ठ आसजत्॥३३॥
स मालया तदा वीरः शुशुभे कण्ठसक्तया
।
श्रीमानिव महाशैलो मलयो मेघमालया॥३४॥
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः
।
विचकर्ष धनुः श्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्॥३५॥
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ
।
वितत्रास तदा वाली शरेणाभिहतोरसि॥३६॥
स भिन्नहृदयो वाली वक्त्राच्छोणितमुद्धमन्
।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह॥३७॥
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः
।
तारा ददर्श तं भूमौ तारापतिसमौजसम्॥३८॥
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत
।
तां च तारापतिमुखीं तारां निपतितेश्वराम्॥३९॥
रामस्तु चतुरो मासान् पृष्ठे माल्यवतः शुभे
।
निवासमकरोद्धीमान् सुग्रीवेणाभ्युपस्थितः॥४०॥
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः
।
सीतां निवेशयामास भवने नन्दनोपमे॥४१॥
अशोकवनिकाभ्याशे तापसाश्रमसन्निभे
।
भर्तृस्मरणतन्वङ्गी तापसी वेषधारिणी॥४२॥
उपवासतपःशीला तत्रास पृथुलेक्षणा
।
उवास दुःखवसतिं फलमूलकृताशना॥४३॥
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः
।
प्रासासिशूलपरशुमुद्गरालातधारिणीः॥४४॥
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्
।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्॥४५॥
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्द्धजाः
।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः॥४६॥
करभोत्कटमूर्धजाः उष्ट्रसदृशकेशाः ॥४६॥
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः
।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः॥४७॥
परुषव्यञ्जनस्वरात्मकाः शब्दा यासां ताः ॥४७॥
खादाम पाटयामैनां तिलशः प्रविभज्य ताम्
।
वेयं भर्तारमस्माकमवमन्येह जीवति॥४८॥
इत्येवं परिभर्त्सन्तीस्त्रास्यमानाः पुनः पुनः
।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः॥४९॥
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते
।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्॥५०॥
अप्येवाहं निराहारा जीवितप्रियवर्जिता
।
शोषयिष्यामि गात्राणि व्याली तालगता यथा॥५१॥
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते
।
इति जानीत सत्यं मे क्रियतां यदनन्तरम्॥५२॥
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः
।
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्त्सर्वमादृताः॥५३॥
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी
।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी॥५४॥
सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि
।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम॥५५॥
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः
।
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्॥५६॥
सीतामद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च
।
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली॥५७॥
सख्यं वानरराजेन शक्रप्रतिमतेजसा
।
कृतवान् राघवः श्रीमांस्त्वदर्थे च समुद्यतः॥५८॥
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात्
।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनी॥५९॥
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्
।
न शक्नोत्यवशां नारीमुपैतुमजितेन्द्रियः॥६०॥
वधूं स्नुषाम् ॥६०॥
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः
।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति॥६१॥
स्वप्ना हि सुमहाघोरा इष्टा मेऽनिष्ठदर्शनाः
।
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः॥६२॥
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः
।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः॥६३॥
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः
।
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै॥६४॥
तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः
।
असकृत् खरयुक्ते तु रथे नृत्यन्निव स्थितः॥६५॥
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः
।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः॥६६॥
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः
।
श्वेतपर्वतमारूढ एक एव विभीषणः॥६७॥
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः
।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान् महाभयात्॥६८॥
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा
।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः॥६९॥
परिक्षिप्ता व्याप्ता ॥६९॥
अस्थिसञ्चयमारूडो भुञ्जानो मधुपायसम्
।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम्॥७०॥
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता
।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्॥७१॥
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता
।
राघवेण सह भ्रात्रा सीते त्वमचिरादिव॥७२॥
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः
।
बभूवाशावती बाला पुनर्भर्तृसमागमे॥७३॥
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः
।
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा॥७४॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि त्रिजटाकृतसीतासान्त्वने अशीत्यधिकद्विशततमोऽध्यायः॥२८०॥
मार्कण्डेय उवाच।
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्
।
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम्॥१॥
तत इति । मणिर्मङ्गलसूत्रगतः स एव शेषो येषां ते तत्सदृशा अभ्यलङ्कारा यस्यास्ताम् ॥१॥
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले
।
रावणः कामबाणार्थो ददर्शोपससर्प च॥२॥
उपास्यन्तीम् उपास्यमानाम् ॥२॥
देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि
।
अजितोऽशोकवनिकां ययौ कन्दर्पपीडितः॥३॥
दिव्याम्बरधरः श्रीमान् सुमृष्टमाणकुण्डलः
।
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्॥४॥
न कल्पवृक्षसदृशो यत्नादपि विभूषितः
।
स्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः॥५॥
स तस्यास्तनुमध्यायाः समीपे रजनीचरः
।
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः॥६॥
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः
।
इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम्॥७॥
रौहीं हरिणीम् ॥७॥
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः
।
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते॥८॥
परिकर्म वस्त्राभरणादिना प्रसाधनम् ॥८॥
भजस्व मां वरारोहे महार्हाभरणाम्बरा
।
भव मे सर्वनारीणामुत्तमा वरवर्णिनी॥९॥
सन्ति मे देवकन्याश्च गन्धर्वाणां च योषितः
।
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः॥१०॥
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः
।
द्विस्तावत् पुरुषादानां रक्षसां भीमकर्मणाम्॥११॥
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः
।
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः॥१२॥
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा
।
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम॥१३॥
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः
।
पञ्चमो लोकपालानामिति मे प्रथितं यशः॥१४॥
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च
।
यथैव त्रिदशेशस्य तथैव मम भाविनि॥१५॥
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव
।
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा॥१६॥
इत्युक्ता तेन वैदेही परिवृत्य शुभानना
।
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्॥१७॥
आशिवेनातिवामोरूरजस्रं नेत्रवारिणा
।
स्तनावपतितौ बाला संहतावभिवर्षती॥१८॥
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता
।
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर॥१९॥
विषादयुक्तमेतत् ते मया श्रुतमभाग्यया
।
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्॥२०॥
हे भद्रसुख भद्रं कल्याणावहं सुखं यस्य । पारदार्यसुखं त्वकल्याणावहमिति भावः। विनिवर्त्यतां मत्त इति शेषः ॥२०॥
परदाराऽस्म्यलभ्या च सततं च पतिव्रता
।
न चैवोपयिकी भार्या मानुषी कृपणा तव॥२१॥
औपयिकी उपयोगार्हा ॥२१॥
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि
।
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव॥२२॥
न च पालयसे धर्मं लोकपालसमः कथम्
।
भ्रातरं राजराजानं महेश्वरसखं प्रभुम्॥२३॥
धनेश्वरं व्यपदिशन् कथं त्विह न लज्जसे
।
इत्युक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ॥२४॥
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा
।
तस्या रुदत्या भाविन्या दीर्घा वेणी सुसंयता॥२५॥
शिरो मुखं च प्रच्छाद्य धरां ददृशेऽपश्यदिति सम्बन्धः ॥२५॥
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि
।
श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्॥२६॥
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः
।
काममङ्गानि मे सीते दुनोतु मकरध्वजः॥२७॥
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम्
।
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्॥२८॥
आहारभूतमस्माकं राममेवानुरुध्यसे॥२९॥
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः
।
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्॥३०॥
राक्षसीभिः परिवृता वैदेही शोककर्शिता
।
सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा॥३१॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि सीतारावणसंवादे एकाशीत्यधिकद्विशततमोऽध्यायः॥२८१॥
मार्कण्डेय उवाच।
राघवः सह सौमित्रिः सुग्रीवेणाभिपालितः
।
वसन् माल्यवतः पृष्ठे ददृशे विमलं नभः॥१॥
राघव इति ॥१॥
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम्
।
ग्रह-नक्षत्र-ताराभिरनुयातममित्रहा॥२॥
कुमुदोत्पलपद्मानां गन्धमादाय वायुना
।
महीधरस्थः शीतेन सहसा प्रतिबोधितः॥३॥
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः
।
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि॥४॥
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्
।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्॥५॥
ग्राम्यधर्मेषु मैथुनादिषु निमित्तभूतेषु प्रमत्तम् असावधानम् ॥५॥
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः
।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै॥६॥
यदर्थं निहतो वाली मया रघुकुलोद्वह
।
त्वया सह महाबाहो किष्किन्धोपवने तदा॥७॥
कृतघ्नं तमहं मन्ये वानरापसदं भुवि
।
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण॥८॥
असौ मन्ये न जानीते समयप्रतिपालनम्
।
कृतोपकारं मां नूनमवमन्याल्पया धिया॥९॥
यदि तावदनुद्युक्तः शेते कामसुखात्मकः
।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया॥१०॥
अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः
।
तमादायैव काकुत्स्थ त्वरावान् भव मा चिरम्॥११॥
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः
।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः॥१२॥
गुरोर्वाक्ये हिते च रतस्तत्परः ॥१२॥
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः
।
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः॥१३॥
तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः
।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया॥१४॥
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः
।
स तत् सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः॥१५॥
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः
।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्॥१६॥
नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः
।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः॥१७॥
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया
।
सर्वेषां च कृतः कालो मासेनागमनं पुनः॥१८॥
यैरियं सवना साद्रिः सपुरा सागराम्बरा
।
विचेतव्या मही वीर सग्रामनगराकरा॥१९॥
स मासः पञ्चरात्रेण पूर्णा भवितुमर्हति
।
ततः श्रोष्यसि रामेण सहितः सुमहत् प्रियम्॥२०॥
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता
।
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्॥२९॥
सरामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम्
।
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्॥२२॥
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः
।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः॥२३॥
आचख्युस्तत्र रामाय महीं सागरमेखलाम्
।
विचितां न तु वैदेह्या दर्शनं रावणस्य वा॥२४॥
गतास्तु दाक्षिणामाशां ये वै वानरपुङ्गवाः
।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत्॥२५॥
द्विमासोपरमे काले व्यतीते प्लवगास्ततः
।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्॥२६॥
द्वयोर्मासयोरुपरमः समाप्तिर्यस्मिस्तस्मिन् काले ॥२६॥
रक्षितं वालिना यत् तत् स्फीतं मधुवनं महत्
।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः॥२७॥
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः
।
विचेतुं दक्षिणामाशां राजन् प्रस्थापितास्त्वया॥२८॥
तेषामपनयं श्रुत्वा मेने स कृतकृत्यताम्
।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्॥२९॥
स तद्रामाय मेधावी शशंस प्लंवगर्षभः
।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्॥३०॥
हनुमत्प्रमुखाश्चापि विश्वान्तास्ते प्लवङ्गमाः
।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ॥३१॥
गतिं च मुखवर्णं च दृष्ट्वा रामो हनुमतः
।
अगमत् प्रत्ययं भूयो दृष्टा सीतेति भारत॥३२॥
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः
।
प्रणेमुविधिवद्रामं सुग्रीवं लक्ष्मणं तथा॥३३॥
तानुवाचानतान् रामः प्रगृह्य सशरं धनुः
।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता॥३४॥
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः
।
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम्॥३५॥
अमोक्षयित्वा वैदेहीमहत्वा च रणे रिपून्
।
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे॥३६॥
कारयिष्यामि स्वार्थे णिच् ॥३६॥
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः
।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया॥३७॥
विचित्य दक्षिणामाशां सपर्वतवनाकराम्
।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्॥३८॥
प्रविशामो वयं तां तु बहुयोजनमायताम्
।
अन्धकारां सुविपिनां गहनां कीटसेविताम्॥३९॥
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः
।
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा॥४०॥
मयस्य किल दैत्यस्य तदा सद्धेश्म राघव
।
तत्र प्रभावती नाम तपोऽतप्यत तापसी॥४१॥
तया दत्तानि भोज्यानि पानानि विविधानि च
।
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः॥४२॥
निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः
।
समीपे सह्यमलयौ दर्दुरं च महागिरिम्॥४३॥
ततो मलयमारुह्य पश्यन्तो वरुणालयम्
।
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्॥४४॥
अनेकशतविस्तीर्णं योजनानां महोदधिम्
।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः॥४५॥
तत्रानशनसङ्कल्पं कृत्वाऽऽसीना वयं तदा
।
ततः कथान्ते गृध्रस्य जटायोरभवत् कथा॥४६॥
ततः पर्वतशृङ्गाभं घोररूपं भयावहम्
।
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम्॥४७॥
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्
।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्॥४८॥
सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः
।
अन्योन्यस्पर्धया रुढावावामादित्यसत्पदम्॥४९॥
सत्पदं गतवन्ताविति शेषः ॥४९॥
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः
।
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः॥५०॥
निर्दग्धपक्षः पतितो ह्यहमस्मिन् महागिरौ
।
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः॥५१॥
व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम्
।
स सम्पातिस्तदा राजन् श्रुत्वा सुमहदप्रियम्॥५२॥
विषण्णचेताः पप्रच्छ पुनरस्मानरिन्दम
।
कः स रामः कथं सीता जटायुश्च कथं हतः॥५३॥
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः
।
तस्याहं सर्वमेवैतद्भवतो व्यसनागमम्॥५४॥
प्रायोपवेशने चैव हेतुं विस्तरशोऽब्रुवम्
।
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्॥५५॥
रावणो विदितो मह्यं लङ्का चास्य महापुरी
।
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे॥५६॥
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा
।
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः॥५७॥
सागरक्रमणे मन्त्रं मन्त्रयामः परन्तप
।
नाध्यवास्यद्यदाः कश्चित् सागरस्य विलङ्घनम्॥५८॥
ततः पितरमाविश्य पुप्लवेऽहं महार्णवम्
।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्॥५९॥
तत्र सीता मया दृष्टा रावणान्तःपुरे सती
।
उपवासतपःशीला भर्तुदर्शनलालसा॥६०॥
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी
।
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः॥६१॥
उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम्
।
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः॥६२॥
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा
।
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ॥६३॥
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ
।
कुशलं त्वाऽब्रवीद्रामः सीते सौमित्रिणा सह॥६४॥
सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति
।
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह॥६५॥
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः
।
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह॥६६॥
अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम्
।
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसम्मतः॥६७॥
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः
।
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्॥६८॥
धारिता येन वैदेही कालमेतमनिन्दिता
।
प्रत्ययार्थं कथां चेमां कथयामास जानकी॥६९॥
धारिता जीवनं प्राप्ता इदानीमेतद्वियोगादत्यन्तं व्याकुलायास्तस्या लाभार्थं शीघ्रं यतितव्यमिति भावः ॥६९॥
क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ
।
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्॥७०॥
ग्राहयित्वाऽहमात्मानं ततो दग्ध्वा च तां पुरीम्
।
सम्प्राप्त इति तं रामः प्रियवादिनमार्चयत्॥७१॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि हनुमत्प्रत्यागमने द्व्यशीत्यधिकद्विशततमोऽध्यायः॥२८२॥
मार्कण्डेय उवाच।
ततस्तत्रैव रामस्य समासीनस्य तैः सह
।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा॥१॥
ततस्तत्रैवेति ॥१॥
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्
।
श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात्॥२॥
कोटीशतवृतो वाऽपि गजो गवय एव च
।
वानरेन्द्रौ महावीर्यौ पृथक् पृथगदृश्यताम्॥३॥
षष्टिकोटिसहस्त्राणि प्रकर्षन् प्रत्यदृश्यत
।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः॥४॥
गन्धमादनवासी तु प्रथितो गन्धमादनः
।
कोटी शतसस्राणि हरीणां समकर्षत॥५॥
पनसो नाम मेधावी वानरः सुमहाबलः
।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति॥६॥
श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्
।
प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम्॥७॥
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्
।
कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत॥८॥
मुखे पुण्ड्रस्तिलकं येषां ते ललाटे ऊर्ध्वपुण्ड्राकारेण चिह्नेन चिह्नितानाम् ॥८॥
एते चान्ये च बहवो हरियूथपयूथपाः
।
असङ्ख्येया महाराज समीयू रामकारणात्॥९॥
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्
।
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्॥१०॥
गिरिकूटनिभाः केचित् केचिन्महिषसन्निभाः
।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः॥११॥
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः
।
उद्धुन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः॥१२॥
स वानरमहासैन्यः पूर्णसागरसन्निभः
।
निवेशमकरोत् तत्र सुग्रीवानुमते तदा॥१३॥
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः
।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते॥१४॥
तेन व्यूढेन सैन्येन लोकानुद्धर्तयन्निव
।
प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा॥१५॥
मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः
।
जधनं पालयामास सौमित्रिरकुतोभयः॥१६॥
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः
।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव॥१७॥
प्रवभौ हरिसैन्यं तत् सालतालशिलायुधम्
।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति॥१८॥
शालिभिर्भातीति शालिभं तच्च तद्वनं पक्वशालिभवनं तद्वत्पीतवर्णमित्यर्थः ॥१८॥
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता
।
ययौ सुमहती सेना राघवस्यार्थसिद्धये॥१९॥
विविधेषु प्रशस्तेषु बहुमूलफलेषु च
।
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च॥२०॥
निवसन्ती निराबाधा तथैव गिरिसानुषु
।
उपायाद्धरिसेना सा क्षारोदमथ सागरम्॥२१॥
द्वितीयसागरनिभं तद्बलं बहुलध्वजम्
।
वेलावनं समासाद्य निवासमकरोत् तदा॥२२॥
ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत
।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः॥२३॥
उपायः को नु भवतां मतः सागरलङ्घने
।
इयं हि महती सेना सागरश्चातिदुस्तरः॥२४॥
तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः
।
समर्था लङ्घने सिन्धोर्न तु तत्कृत्स्नकारकम्॥२५॥
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः
।
नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत॥२६॥
शतयोजनविस्तारं न शक्ताः सर्ववानराः
।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः॥२७॥
नावो न सन्ति सेनाया बव्ह्यस्तारयितुं तथा
।
वणिजामुपघातं च कथमस्मद्विधश्चरेत्॥२८॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः
।
प्लवोडुपप्रतारश्च नैवात्र मम रोचते॥२९॥
प्लवः अलाबुघटादिमयं तरणसाधनम् । उडुपं क्षुद्रनौका ताभ्यां प्रतारस्तरणम् ॥२९॥
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः
।
प्रतिशेष्याप्युपवसन् दर्शयिष्यति मां ततः॥३०॥
समारप्स्यामि आराधयिष्यामि ॥३०॥
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः
।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः॥३१॥
इत्युक्त्वा सह सौमित्रिरुपस्पृश्याथ राघवः
।
प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे॥३२॥
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्
।
देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः॥३३॥
कौसल्यामातरित्येवमाभाष्य मधुरं वचः
।
इदमित्याह रत्नानामाकरैः शतशो वृतः॥३४॥
मधुरं वचः इदं श्रृण्वित्याहेति शेषेण योज्यम् ॥३४॥
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ
।
ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत्॥३५॥
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते
।
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्॥३६॥
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्
।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः॥३७॥
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः
।
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः॥३८॥
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव
।
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर॥३९॥
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया
।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्॥४०॥
आज्ञयेतिच्छेदः पूर्वरूपमार्षम् ॥४०॥
अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः
।
त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः॥४१॥
स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि
।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति॥४२॥
इत्युक्त्वाऽन्तर्हिते तस्मिन् रामो नलमुवाच ह
।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम॥४३॥
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्
।
दशयोजनविस्तारमायतं शतयोजनम्॥४४॥
नलसेतुरितिख्यातो योऽद्यापि प्रथितो भुवि
।
रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसन्निभः॥४५॥
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः
।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह॥४६॥
प्रतिजग्राह रामस्तं स्वागतेन महामनाः
।
सुग्रीवस्य तु शङ्काऽभूत् प्रणिधिः स्यादिति स्म ह॥४७॥
प्रणिधिच्छलकृत् गुप्तचारो वा। ‘प्रणिधिर्ना खले चरे’ इति मेदिनी ॥४७॥
राघवः सत्यचेष्टाभिः सम्यक्च चरितेङ्गितैः
।
यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत्॥४८॥
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विमीषणम्
।
चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च॥४९॥
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्
।
ससैन्यः सेतुना तेन मासेनैव नराधिप॥५०॥
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः
।
भेदयामास कपिभिर्महान्ति च बहूनि च॥५१॥
ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ
।
चरौ वानररूपेण तौ जग्राह विभीषणः॥५२॥
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ
।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्॥५३॥
निवेश्योपवने सैन्यं तत्पुरः प्राज्ञवानरम्
।
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्॥५४॥
दौत्येन हेतुना ॥५४॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि सेतुबन्धने त्र्यशीत्यधिकद्विशततमोऽध्यायः॥२८३॥
मार्कण्डेय उवाच।
प्रभूतान्नोदके तस्मिन् बहुमूलफले वने
।
सेनां निवेश्य काकुत्स्थो विधिवत् पर्यरक्षत॥१॥
प्रभूतेति ॥१॥
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्
।
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा॥२॥
संविधं सम्यग्विध्द्यन्त्यनया तां यात्रादिसम्पत्तिम् ॥२॥
अगाधतोयाः परिखा मीननक्रसमाकुलाः
।
बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः॥३॥
कपाटयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः
।
साशीविषघटायोधाः ससर्जरसपांसवः॥४॥
कपाटैर्यन्त्रैश्च गोलाद्युत्क्षेपणसाधनैर्दुर्धर्षाः परिखाः सहुहाः सोपलाश्च । हुडं मूत्राद्युत्सर्जनार्थं शृङ्गम् । उपलाः प्रक्षेप्या गोलकाः ॥४॥
मुसलालातनाराचतोमरासिपरश्वधैः
।
अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः॥५॥
समधूच्छिष्टमुद्गराः मधूच्छिष्टं क्षौद्रं मधु । मद्यादिव्यावृत्त्यर्थमुच्छिष्टपदम् ॥५॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः
।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः॥६॥
गुल्मा गुप्तोपवेशनस्थानानि बुरुजाख्या महास्तम्भाः स्थावरगुल्माः । जङ्गमाः गुल्माः सेनाद्या अलङ्ग इत्यभिहिताः ॥६॥
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः
।
विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः॥७॥
गतव्यथो निर्भयः ॥७॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः
।
शुशुभे मेघमालाभिरादित्य इव संवृतः॥८॥
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्
।
रामसन्देशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे॥९॥
आमन्त्र्य हे रावण इति सम्बोध्य ॥९॥
आह त्वां राघवो राजन् कोसलेन्द्रो महायशाः
।
प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च॥१०॥
अकृतात्मानमासाद्य राजानमनये रतम्
।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च॥११॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात्
।
वधायानपराद्धानामन्येषां तद्भविष्यति॥१२॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः
।
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः॥१३॥
राजर्षयश्च निहता रुदत्यश्च हताः स्त्रियः
।
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते॥१४॥
हन्ताऽस्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव
।
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर॥१५॥
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्
।
अराक्षसमिमं लोकं कर्ताऽस्मि निशितैः शरैः॥१६॥
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः
।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः॥१७॥
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः
।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः॥१८॥
तांस्तथाऽङ्गेषु संसक्तानङ्गदो रजनीचरान्
।
आदायैव खमुत्पत्य प्रासादतलमाविशत्॥१९॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः
।
भुवि संभिन्नहृदयाः प्रहारवरपीडिताः॥२०॥
संसक्तो हर्म्यशिखरात् तस्मात् पुनरवापतत्
।
लङ्घयित्वा पुरीं लङ्कां सुवेलस्य समीपतः॥२१॥
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः
।
विशश्रम स तेजस्वी राघवेणाभिनन्दितः॥२२॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम्
।
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः॥२३॥
सर्वाभिसारः युगपत् सर्वेषामभिसारो यत्नस्तेन । ‘सुलतानढवा’ इति म्लेच्छप्रसिद्धेन ॥२३॥
विभीषणर्क्षांधिपती पुरस्कृत्याथ लक्ष्मणः
।
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम्॥२४॥
ऋक्षाधिपतिर्जाम्बवान् ॥२४॥
करभारुणपाण्डूनां हरीणां युद्धशालिनाम्
।
कोटीशतसहस्रेण लङ्कामभ्यपतत् तदा॥२५॥
करभो मणिबन्धादिकनिष्ठान्तं हस्तप्रदेशस्तद्वदरुणपाण्डवः श्वेतारुणाः ॥२५॥
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम्
।
ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यवस्थिताः॥२६॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्व वानरैः
।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः॥२७॥
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः
।
तरुणादित्यसदृशैः शणगौरैश्च वानरैः॥२८॥
शणो गोणी सूत्रोपादानवीरुत् ॥२८॥
प्राकारं ददृशुस्ते तु समन्तात् कपिलीकृतम्
।
राक्षसा विस्मिता राजन् सस्त्रीवृद्धाः समन्ततः॥२९॥
बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिखराणि च
।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिषुः॥३०॥
या तैर्दुर्गरक्षणार्थं सामग्रीकृता सैव तेषां नगरनाशायाभूदित्याह विभिदुस्ते इत्यादिना । कर्णस्तिर्यम्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्ति । तद्धि दिक्कोणस्य चतुरस्त्रस्योपरि विदिक्कोणं चतुरस्रं तदुपरि दिक्कोणं तदुपरि पुनर्विदिक्कोणमित्येवं क्रमेणोत्तरोत्तरकल्पप्रमाणैश्चतुरस्रैः समाप्यत इति प्रसिद्धम् ॥३०॥
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः
।
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महास्वनाः॥३१॥
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तथा
।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः॥३२॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः
।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः॥३३॥
शस्त्रवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः
।
प्राकारं शोभयन्तस्ते परं विक्रममास्थिताः॥३४॥
स माषराशिसदृशैर्बभूव क्षणदाचरैः
।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः॥३५॥
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः
।
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः॥३६॥
स्तम्भतः स्तम्भैर्वानरोपात्तैः रणे भग्ना रणभग्नाः ॥३६॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह
।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्॥३७॥
केशाकेशि अन्योन्यं केशेषु गृहीत्वा ॥३७॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः
।
हता निपतिता भूमौ न मुञ्चन्ति परस्परम्॥३८॥
निष्टनन्तः शब्दं कुर्वन्तः ॥३८॥
रामस्तु शरजालानि ववर्ष जलदो यथा
।
तानि लङ्कां समासाद्य जघ्नुस्तान् रजनीचरान्॥३९॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः
।
आदिश्यादिश्य दुर्गस्थान् पातयामास राक्षसान्॥४०॥
आदिश्य सम्मुखी कृत्वेत्यर्थः ॥४०॥
ततः प्रत्यवहारोऽभूत् सैन्यानां राघवाज्ञया
।
कृते विमर्दे लङ्कायां लब्धलक्ष्यो जयोत्तरः॥४१॥
प्रत्यवहारः शिबिरं प्रति गमनम् । लब्धाः आयुधैः प्राप्ता लक्ष्या वेध्या यस्मिन् । अवन्ध्यप्रहार इति यावत् । जयोत्तरो जयोत्कर्षवान् ॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि लङ्काप्रवेशे चतुरशीत्यधिकद्विशततमोऽध्यायः॥२८४॥
मार्कण्डेय उवाच।
ततो निविशमानांस्तान् सैनिकान् रावणानुगाः
।
अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम्॥१॥
गणा अनेके इति छेदः ॥१॥
पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः
।
प्ररुजाश्चारुजश्चैव प्रघसश्चैवमादयः॥२॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्
।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः॥३॥
अन्तर्धानवधमन्तर्धानशक्तेर्नाशम् ॥३॥
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः
।
निहताः सर्वशो राजन् महीं जग्मुर्गतासवः॥४॥
अमृष्यमाणः सबलो रावणो निर्ययावथ
।
राक्षसानां बलैर्घोरैः पिशाचानां च संवृत्तः॥५॥
युद्धशास्त्रविधानज्ञ उशना इव चापरः
।
व्यूह्य चौशनसं व्यूहं हरीनभ्यवहारयत्॥६॥
हरीन् वानरान् अभ्यवहारयत् आवेष्टितवान् ॥६॥
राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम्
।
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम्॥७॥
समेत्य युयुधे तत्र ततो रामेण रावणः
।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह॥८॥
विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः
।
तुण्डेन च नलस्तत्र पटुशः पनसेन च॥९॥
विषह्यं यं हि यो मेने स स तेन समेयिवान्
।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः॥१०॥
स सम्प्रहारो ववृधे भीरूणां भयवर्धनः
।
लोमसंहर्षणो घोरः पुरा देवासुरे यथा॥११॥
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः
।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः॥१२॥
आनर्छत् अपीडयत् ॥१२॥
तथैवेन्द्रजितं यत्ते लक्ष्मणो मर्मभेदिभिः
।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः॥१३॥
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्
।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः॥१४॥
तेषां बलवतामासीन्महास्त्राणां समागमः
।
विव्यथुः सकला येन त्रयो लोकाश्चराचराः॥१५॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामरावणद्वन्द्वयुद्धे पञ्चाशीत्यधिकद्विशततमोऽध्यायः॥२८५॥
मार्कण्डेय उवाच।
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्
।
गदया ताडयामास विनद्य रणकर्कशः॥१॥
ततः प्रहस्त इति ॥१॥
स तयाऽभिहतो धीमान् गदया भीमवेगया
।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः॥२॥
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः
।
अनुमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति॥३॥
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया
।
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः॥४॥
त्तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्
।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्॥५॥
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम्
।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः॥६॥
ततस्तान् सहसा दीर्णान् दृष्ट्वा वानरपुङ्गवान्
।
निर्ययौ कपिशार्दूलो हनूमान् मारुतात्मजः॥७॥
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम्
।
महत्या त्वरया राजन् सन्न्यवर्तन्त सर्वशः॥८॥
ततः शब्दो महानासीत् तुमुलो लोमहर्षणः
।
रामरावणसैन्यानामन्योन्यमभिधावताम्॥९॥
तस्मिन् प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे
।
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्त्रिभिः॥१०॥
तं स रक्षोमहामात्रमापतन्तं सपत्नजित्
।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः॥११॥
रक्षोमहामात्रं रक्षःश्रेष्ठम् ॥११॥
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः
।
जिगीषतोर्युधाऽन्योन्यमिन्द्रप्रल्हादयोरिव॥१२॥
गदाभिः परिघैश्चैव राक्षसो जघ्निवान् कपिम्
।
कपिश्च जघ्निवान् रक्षः सस्कन्धविटपैर्द्रुमैः॥१३॥
ततस्तमतिकोपेन साश्वं सरथसारथिम्
।
धूम्राक्षमवधीत् क्रुद्धो हनुमान् मारुतात्मजः॥१४॥
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्
।
हरयो जातविस्रम्भा जघ्नुरन्ये च सैनिकान्॥१५॥
ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः
।
राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात्॥१६॥
तेऽभिपत्त्य पुरं भग्ना हतशेषा निशाचराः
।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्॥१७॥
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि
।
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः॥१८॥
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्
।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः॥१९॥
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः
।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्॥२०॥
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः
।
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः॥२१॥
आगतसाध्वसः जातभयः ॥२१॥
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
।
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी॥२२॥
य इदं दारुणाकारं न जानीषे महाभयम्
।
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह॥२३॥
अवमन्येह नः सर्वान् करोति कदनं महत्
।
मया त्वपहृता भार्या सीता नामास्य जानकी॥२४॥
तां नेतुं स इहायातो बध्वा सेतुं महार्णवे
।
तेन चैव प्रहस्तादिर्महान् नः स्वजनो हतः॥२५॥
तस्य नान्यो निहन्ताऽस्ति त्वामृते शत्रुकर्शन
।
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर॥२६॥
रामादीन् समरे सर्वान् जहि शत्रूनरिन्दम
।
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ॥२७॥
तौ त्वां बलेन महता सहितावनुयास्यतः
।
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम्
।
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ॥२८॥
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
।
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कुम्भकर्णनिर्गमने षडशीत्यधिकद्विशततमोऽध्यायः॥२८६॥
मार्कण्डेय उवाच।
ततो निर्याय स्वपुरात् कुम्भकर्णः सहानुगः
।
अपश्यत् कपिसैन्यं तज्जितकाश्यग्रतः स्थितम्॥१॥
तत इति । जितकाशि दृढमुष्टि । ‘काशिर्मुष्टिः प्रकाशनात्’ इति यास्कः ॥१॥
स वीक्षमाणस्तत् सैन्यं रामदर्शनकाङ्क्षया
।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम्॥२॥
तमभ्येत्याशु हरयः परिवव्रुः समन्ततः
।
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः॥३॥
करजैरतुदंश्चान्ये विहाय भयमुत्तमम्
।
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः॥४॥
नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन्
।
स ताड्यमानः प्रहसन् भक्षयामास वानरान्॥५॥
बलं चण्डबलाख्यं च वज्रबाहुं च वानरम्
।
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः॥६॥
उदक्रोशन् परित्रस्तास्तारप्रभृतयस्तदा
।
तानुच्चैः क्रोशतः सैन्यान् श्रुत्वा स हरियूथपान्॥७॥
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः
।
ततो निपत्य वेगेन कुम्भकर्णं महामनाः॥८॥
शालेन जघ्निवान् मूर्ध्नि बलेन कपिकुञ्जरः
।
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि॥९॥
बिभेद शालं सुग्रीवो न चैवाव्यथयत् कपिः
।
ततो विनद्य सहसा शालस्पर्शविबोधितः॥१०॥
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्
।
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा॥११॥
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः
।
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्॥१२॥
प्राहिणोत् कुम्भकर्णाय लक्ष्मणः परवीरहा
।
स तस्य देहावरणं भित्वा देहं च सायकः॥१३॥
जगाम दारयन् भूमिं रुधिरेण समुक्षितः
।
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्॥१४॥
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः
।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्॥१५॥
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ
।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः॥१६॥
तानप्यस्य भुजान् सर्वान् प्रगृहीतशिलायुधान्
।
क्षुरैश्चिच्छेद लध्वस्त्रं सौमित्रिः प्रतिदर्शयन्॥१७॥
स बभूवातिकायश्च बहुपादशिरोभुजः
।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्॥१८॥
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे
।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव॥१९॥
तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम्
।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात्॥२०॥
तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषणानुजौ
।
अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम्॥२१॥
तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ
।
अभिजग्राह सौमित्रिर्विनद्योभौ पतन्त्रिभिः॥२२॥
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम्
।
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः॥२३॥
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत
।
तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम्॥२४॥
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः
।
सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः॥२५॥
अथाद्रिशृङ्गमादाय हनुमान् मारुतात्मजः
।
अभिद्रुत्याददे प्राणान् वज्रवेगस्य रक्षसः॥२६॥
नीलश्च महता ग्राव्णा दूषणावरजं हरिः
।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः॥२७॥
ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः
।
रामरावणसैन्यानामन्योन्यमभिधावताम्॥२८॥
शतशो नैर्ऋतान् वन्या जघ्नुर्वन्यांश्च नैर्ऋताः
।
नैर्ऋतास्तत्र वध्यन्ते प्रायेण न तु वानराः॥२९॥
वन्या वनेचरा वानराः ॥२९॥
इति श्रीहामारते आरण्यके पर्वणि रामोपाख्यानपर्वणि कुम्भकर्णादिवधे सप्ताशीत्यधिकद्विशततमोऽध्यायः॥२८७॥
मार्कण्डेय उवाच।
ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम्
।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्॥१॥
तत इति ॥१॥
पुत्रमिन्द्रजितं वीरं रावणः प्रत्यभाषत
।
जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम्॥२॥
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्
।
जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम्॥३॥
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः
।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर॥४॥
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ
।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः॥५॥
अगता या प्रहस्तेन कुम्भकर्णेन चानघ
।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वं महाभुज॥६॥
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून् ससैनिकान्
।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम्॥७॥
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः
।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति॥८॥
ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः
।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम्॥९॥
तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः
।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगान् यथा॥१०॥
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः
।
दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्थिनोस्तदा॥११॥
रावणिस्तु यदा नैवं विशेषयति सायकैः
।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः॥१२॥
तत एनं महावेगैरर्दयामास तोमरैः
।
तानागतान् स चिच्छेद सौमित्रिर्निशितैः शरैः॥१३॥
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन् धरणीतले
।
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्॥१४॥
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि
।
तस्येन्द्रजिदसभ्रान्तः प्रासेनोरसि वीर्यवान्॥१५॥
प्रहर्तुमैच्छत तं चास्य प्रासं चिच्छेद लक्ष्मणः
।
तमभ्याशगतं वीरमङ्गदं रावणात्मजः॥१६॥
गदयाऽताडयत् सव्ये पार्श्वे वानरपुङ्गवम्
।
तमचिन्त्यप्रहारं स बलवान् वालिनः सुतः॥१७॥
ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धं तथाऽङ्गदः
।
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः॥१८॥
ससर्ज उत्सृष्टवान् । शालस्कन्धं महास्कन्धं तरुम् ॥१८॥ तान् हरीन्। तौ च रामलक्ष्मणौ ।
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम्
।
ततो हताश्वात् प्रस्कन्द्य रथात् स हतसारथिः॥१९॥
तत्रैवान्तर्दधे राजन् मायया रावणात्मजः
।
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्॥२०॥
रामस्तं देशमागम्य तत् सैन्यं पर्यरक्षत
।
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा॥२१॥
विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम्
।
तमदृश्यं शरैः शूरौ माययाऽन्तर्हितं तदा॥२२॥
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ
।
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः॥२३॥
व्यसृजत् सायकान् भूयः शतशोऽथ सहस्रशः
।
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्॥२४॥
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः
।
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः॥२५॥
स भृशं ताडयामास रावणिर्मायया वृतः
।
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ
।
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव॥२६॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि इन्द्रजिद्युद्धे अष्टाशीत्यधिकद्विशततमोऽध्यायः॥२८८॥
मार्कण्डेय उवाच।
तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
।
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा॥१॥
ताविति ॥१॥
ती वीरौ शरबन्धेन बद्धाविन्द्रजिता रणे
।
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे॥२॥
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ
।
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः॥३॥
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च
।
हनुमन्नीलतारैश्च नलेन च कपीश्वरः॥४॥
ततस्तं देशमागम्य कृतकर्मा विभीषणः
।
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ॥५॥
विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह
।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया॥६॥
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्टताम्
।
गततन्द्रीक्लमौ चापि क्षणेनेतौ महारथौ॥७॥
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्
।
उवाच विज्वरं दृष्टा कृताञ्जलिरिदं वचः॥८॥
इदमम्भो गृहीत्वा तु राजराजस्य शासनात्
।
गुह्यकोऽभ्यागतः श्वेत्तात् त्वत्सकाशमरिन्दम॥९॥
इदमम्भः कुबेरस्ते महाराज प्रयच्छति
।
अन्तर्हितानां भूतानां दर्शनार्थं परन्तपः॥१०॥
अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत
।
भवान् द्रक्ष्यति यस्मै च प्रदास्यति नरः स तु॥११॥
तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम्
।
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः॥१२॥
सुग्रीवजाम्बवन्तौ च हनुमानङ्गदस्तथा
।
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः॥१३॥
तथा समभवच्चापि यदुवाच विभीषणः
।
क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन् युधिष्ठिर॥१४॥
अतीन्द्रियाणि अतीन्द्रियार्थग्राहकाणि ॥१४॥
इन्द्रजित् कृतकर्मा च पित्रे कर्म तदाऽऽत्मनः
।
निवेद्य पुनरागच्छत् त्वरयाऽऽजि शिरःप्रति॥१५॥
तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया
।
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः॥१६॥
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्
।
शरैर्जघान सङ्क्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः॥१७॥
कृतसंज्ञः विभीषणेन सङ्केतितः ॥१७॥
तयोः समभवद्युद्धं तदाऽन्योन्यं जिगीषतोः
।
अतीव चित्रमाश्चर्यं शक्रप्रल्हादयोरिव॥१८॥
अविध्यादेन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः
।
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः॥१९॥
सौमित्रिशरसंस्पर्शाद्रावाणिः क्रोधमूर्च्छितः
।
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्॥२०॥
तस्यासून् पावकस्पर्शैः सौमित्रिः पत्त्रिभिस्त्रिभिः
।
यथा निरहरद्वीरस्तन्मे निगदतः शृणु॥२१॥
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्
।
द्वितीयेन स नाराचं भुजं भूमौ न्यपातयत्॥२२॥
तृतीयेन तु बाणेन पृथुधारेण भास्वता
।
जहार सुनसं चापि शिरो भ्राजिष्णुकुण्डलम्॥२३॥
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम्
।
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः॥२४॥
लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा
।
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्॥२५॥
स पुत्रं निहतं दृष्ट्वा त्रासात् सम्भ्रान्तमानसः
।
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः॥२६॥
अशोकवनिकास्थां तां रामदर्शनलालसाम्
।
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह॥२७॥
तं दृष्ट्रा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्
।
शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना॥२८॥
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि
।
हतैवैषा यदा स्त्री च बन्धनस्था च ते वशे॥२९॥
न चैषा देहभेदेन हता स्यादिति मे मतिः
।
जहि भर्तारमेवास्या हते तस्मिन् हता भवेत्॥३०॥
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः
।
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि॥३१॥
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा
।
क्रुद्धं संशमयामास जगृहे च स तद्वचः॥३२॥
निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः
।
आज्ञापयामास तदा रथो मे कल्प्यतामिति॥३३॥
निधाय बध्वा असिं खड्गम् ॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि इन्द्रजिद्वधे ऊननवत्यधिकद्विशततमोऽध्यायः॥२८९॥
मार्कण्डेय उवाच।
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते
।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्॥१॥
ततः क्रुद्ध इति ॥१॥
स वृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः
।
अभिदुद्राव रामं स योधयन् हरियूथपान्॥२॥
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः
।
हनूमान् जाम्बवांश्चैव ससैन्याः पर्यवारयन्॥३॥
ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः
।
द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः॥४॥
ततः स सैन्यमालोक्य वध्यमानमरातिभिः
।
मायावी चासृजन्मायां रावणो राक्षसाधिपः॥५॥
तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः
।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः॥६॥
तान् रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्
।
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः॥७॥
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत
।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः॥८॥
रामस्य रूपं कृत्वा लक्ष्मणमभिदुद्राव लक्ष्मणस्य रूपं कृत्वा राममिति योजना ॥८॥
ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः
।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः॥९॥
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः
।
उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः॥१०॥
जहीमान् राक्षसान् पापानात्मनः प्रतिरूपकान्
।
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्॥११॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा
।
उपतस्थे रणे रामं मातलिः शक्रसारथिः॥१२॥
मातलिरुवाच।
अयं हर्यश्वयुक् जैत्रो मघोनः स्यन्दनोत्तमः
।
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्॥१३॥
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्
।
तदनेन नरव्याघ्र मया यत्तेन संयुगे॥१४॥
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः
।
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः॥१५॥
मायैषा राक्षसस्येति तमुवाच विभीषणः
।
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः॥१६॥
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते
।
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्॥१७॥
रथेनाभिपपाताथ दशग्रीवं रुषान्वितः
।
हाहाकृतानि भूतानि रावणे समभिद्रुते॥१८॥
सिंहनादाः सपटहा दिवि दिव्यास्तथाऽनदन्
।
दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्॥१९॥
अलब्धोपममन्यत्र तयोरेव तथाऽभवत्
।
स रामाय महाघोरं विससर्ज निशाचरः॥२०॥
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम्
।
तच्छूलं सत्वरं रामश्चिच्छेद निशितैः शरैः॥२१॥
तदृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्
।
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्॥२२॥
सहस्रायुतशो रामे शस्त्राणि विविधानि च
।
ततो भुशुण्डीः शूलानि मुसलानि परश्वधान्॥२३॥
शक्तीश्च विविधाकाराः शतघ्नीश्च शितान् क्षुरान्
।
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः॥२४॥
विकृतां भीषणाम् ॥२४॥
भयात् प्रदुद्रुवुः सर्वे वानराः सर्वतो दिशम्
।
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्॥२५॥
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह
।
तं बाणवर्यं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्॥२६॥
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः
।
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः॥२७॥
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिन्नराः
।
ततः ससर्ज तं रामः शरमप्रतिमौजसम्॥२८॥
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्
।
मुक्तमात्रेण रामेण दूराकृष्टेन भारत॥२९॥
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः
।
प्रजज्वाल महाज्वालेनाग्निनाऽभिपरिप्लुतः॥३०॥
ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः
।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥३१॥
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्
।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा॥३२॥
पञ्च भूतानि तत्यजुर्मृत इत्यर्थः ॥३२॥
शरीरघातवो हास्य मांसं रुधिरमेव च
।
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रावणवधे नवत्यधिकद्विशततमोऽध्यायः॥२९०॥
मार्कण्डेय उवाच।
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह॥१॥
स हत्वेति ॥१॥
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः
।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्॥२॥
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः
।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः॥३॥
त्रिदशालयः स्वर्गस्तत्स्थाः ॥३॥
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्
।
तन्महोत्सवसङ्काशमासीदाकाशमच्युत॥४॥
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः
।
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः॥५॥
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्
।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ॥६॥
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितः
।
प्रतीच्छ देवा सद्वृत्तां महात्मन् जानकीमिति॥७॥
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्
।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः॥८॥
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्
।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्॥९॥
उवाच रामो वैदेहीं परामर्शविशङ्कितः
।
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम्॥१०॥
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि
।
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः॥११॥
कथं ह्यस्मद्विधो जातु जानन् धर्मविनिश्चयम्
।
परहस्तगतां नारीं मुहूर्तमपि धारयेत्॥१२॥
सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि
।
नोत्सहे परिमोगाय श्वावलीढं हविर्यथा॥१३॥
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः
।
पपात देवी व्यथिता निकृत्ता कदली यथा॥१४॥
योऽप्यस्या हर्षसम्भूतो मुखरागस्तदाऽभवत्
।
क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे॥१५॥
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्
।
गतासुकल्पा निश्चेष्टा बभुवुः सहलक्ष्मणाः॥१६॥
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः
।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम्॥१७॥
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च
।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः॥१६॥
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्
।
विमानेन महार्हेण हंसयुक्तेन भास्वता॥१९॥
ततोऽन्तरिक्षं तत् सर्वं देवगन्धर्वसङ्कुलम्
।
शुशुभे तारकाचित्रं शरदीव नभस्तलम्॥२०॥
तत उत्थाय वैदेही तेषां मध्ये यशस्विनी
।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्॥२१॥
राजपुत्र न ते दोषं करोमि विदिता हि ते
।
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम॥२२॥
अन्तश्चरति भूतानां मातरिश्वा सदागतिः
।
स मे विमुञ्चतु प्राणान् यदि पापं चराम्यहम्॥२३॥
अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च
।
विमुञ्चन्तु मम प्राणान् यदि पापं चराम्यहम्॥२४॥
यथाऽहं त्वदृते वीर नान्यं स्वप्नेऽप्यचिन्तयम्
।
तथा मे देवनिर्दिष्टस्त्वमेव हि पतिर्भव॥२५॥
ततोऽन्तरिक्षे वागासीत् सुभगा लोकसाक्षिणी
।
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्॥२६॥
वायुरुवाच।
भो भो राघव सत्यं वै वायुरस्मि सदागतिः
।
अपापा मैथिली राजन् सङ्गच्छ सह भार्यया॥२७॥
अग्निरुवाच।
अहमन्तःशरीरस्थो भूतानां रघुनन्दन
।
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति॥२८॥
वरुण उवाच।
रसा वै मत्प्रसूता हि भूतदेहेषु राघव
।
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्॥२९॥
ब्रह्मोवाच।
पुत्र नैतदिद्दाश्चर्यं त्वयि राजर्षिधर्मणि
।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम॥३०॥
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्
।
यक्षाणां दानवानां च महर्षीणां च पातितः॥३१॥
अवध्यः सर्वभूतानां मत्प्रसादात् पुराऽभवत्
।
कस्माच्चित् कारणात्पापः कञ्चित्कालमुपेक्षितः॥३२॥
वधार्थमात्मनस्तेन हृता सीता दुरात्मना
।
नलकूबरशापेन रक्षा चास्याः कृता मया॥३३॥
यदि ह्यकामामासेवेत् स्त्रियमन्यामपि ध्रुवम्
।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोऽभवत् पुरा॥३४॥
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते
।
कृतं त्वया महत् कार्य देवानाममरप्रभ॥३५॥
दशरथ उवाच।
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते
।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम॥३६॥
राम उवाच।
अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम
।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात् तव॥३७॥
मार्कण्डेय उवाच।
तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ
।
गच्छायोध्यां प्रशाधीति रामं रक्तान्तलोचनम्॥३८॥
सम्पूर्णानीह वर्षाणि चतुर्दश महाद्युते
।
ततो देवान् नमस्कृत्य सुहृद्भिरभिनन्दितः॥३९॥
महेन्द्र इव पौलोम्या भार्यया स समेयिवान्
।
ततो वरं ददौ तस्मै ह्यविन्ध्याय परन्तपः॥४०॥
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्
।
तमुवाच ततो ब्रह्मा देवैः शक्रपुरोगमैः॥४१॥
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्
।
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्॥४२॥
राक्षसैर्निहतानां च वानराणां समुद्भवम्
।
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा॥४३॥
समुत्तस्थुर्महाराज वानरा लब्धचेतसः
।
सीता चापि महाभागा वरं हनुमते ददौ॥४४॥
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति
।
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा॥४५॥
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन
।
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्॥४६॥
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः
।
दृष्ट्वा रामं तु जानक्या सङ्गतं शक्रसारथिः॥४७॥
उवाच परमप्रीतः सुहृन्मध्य इदं वचः
।
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्॥४८॥
अपनीतं त्वया दुःखमिदं सत्यपराक्रम
।
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः॥४९॥
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति
।
इत्येवमुक्त्वाऽनुज्ञाप्य रामं शस्त्रभृतां वरम्॥५०॥
सम्पूज्यापाक्रमत् तेन रथेनादित्यवर्चसा
।
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह॥५१॥
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः
।
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः॥५२॥
सन्ततार पुनस्तेन सेतुना मकरालयम्
।
पुष्पकेण विमानेन खेचरेण विराजता॥५३॥
कामगेन यथा मुख्यैरमात्यैः संवृतो वशी
।
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः॥५४॥
यत्र शिश्ये पूर्वं समुद्रप्रार्थनार्थं शयनं कृतवान् ॥५४॥
तत्रैवोवास धर्मात्मा सहितः सर्ववामरैः
।
अथैनान् राघवः काले समानीयाभ्यपूज्य च॥५५॥
विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः
।
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च॥५६॥
सुग्रीवसहितो रामः किष्किन्धां पुनरागमत्
।
विभीषणेनानुगतः सुग्रीवसहितस्तदा॥५७॥
पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम्
।
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः॥५८॥
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्
।
ततस्तैरेव सहितो रामः सौमित्रिणा सह॥५९॥
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति
।
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः॥६०॥
भरताय हनूमन्तं दूतं प्रास्थापयत् तदा
।
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य वै॥६१॥
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत्
।
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्॥६२॥
अग्रतः पादुके कृत्वा ददर्शासीनमासने
।
सङ्गतो भरतेनाथ शत्रुघ्नेन च वीर्यवान्॥६३॥
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ
।
ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा॥६४॥
गुरुणा रामेण ॥६४॥
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः
।
तस्मै तद्भरतो राज्यमागतायातिसत्कृतम्
।
न्यासं निर्यातयामास युक्तः परमया मुदा॥६५॥
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि
।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्॥६६॥
वैष्णवे नक्षत्रे श्रवणे ॥६६॥
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्
।
विभीषणं च पौलस्त्यमन्वजानाग्रद्गृहान् प्रति॥६७॥
अभ्यर्च्य विविधैर्भोगैः प्रीतियुक्तौ मुदा युतौ
।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह॥६८॥
पुष्पकं च विमानं तत् पूजयित्वा स राघवः
।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः॥६९॥
ततो देवर्षिसहितः सरितं गोमतीमनु
।
दशाश्वमेधानाजह्रे जारूथ्यान् स निरर्गलान्॥७०॥
जारूथ्यान् त्रिगुणदक्षिणानित्यर्जुनमिश्रः । जॄवॄभ्यामूथन्नित्युणादिसूत्रे जरूथं मांसमिति शाब्दिकाः । तदा मांसमयान् मांसादिदानप्रधानान् पुष्टानित्यर्थः । निरर्गलान् अन्नाद्यर्थिनामनावृतद्वारान् । जरूथोऽसुरविशेष इति वेदभाष्यम्। ‘जरूथं हन् यक्षि राये पुरन्धिम्’ इति मन्त्रवर्णात् । ‘जरूथं गरूथं गृणातेः’ इति यास्कवचनाच्च । जरूथं स्तोत्रम्। तथा चायं मन्त्रो निरुक्तभाष्ये व्याख्यातः - हेऽग्ने त्वां पुरन्धिं महान्तं समिधानः सम्यग्दीप्यन् वसिष्ठो मुनिः राये धनप्राप्तये जरूथं स्तोत्रं हन् गमयन् यक्षि जयति । अत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्यादर्थाविरोधाच्च जरूथं स्तोत्रमित्युच्यत इति जारूथ्यान् स्तोत्रार्हानित्यर्थः ॥७०॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि रामाभिषेके एकनवत्यधिकद्विशततमोऽध्यायः॥२९१॥
मार्कण्डेय उवाच।
एवमेतन्महाबाहो रामेणामिततेजसा
।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा॥१॥
एवमेतदिति ॥१॥
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप
।
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये॥२॥
दीप्तनिर्णये असन्दिग्धे प्रत्यक्षफले ॥२॥
न हि ते वृजिनं किञ्चिद्वर्तते परमण्वपि
।
अस्मिन्मार्गे निषीदेयुः सेन्द्राऽपि ससुरासुराः॥३॥
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना
।
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी॥४॥
सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः
।
किं नु तस्याजितं सङ्ख्ये यस्य भ्राता धनञ्जयः॥५॥
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः
।
युवानौ च महेष्वासौ वीरौ माद्रवती सुतौ॥६॥
एभिः सहायैः कस्मात् त्वं विषीदसि परन्तप
।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्॥७॥
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः
।
विजेष्यसि रणे सर्वानमित्रान् भरतर्षभ॥८॥
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना
।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः॥९॥
आनीतां द्रौपदीं कृष्णां कृत्त्वा कर्म सुदुष्करम्
।
जयद्रथं च राजानं विजितं वशमागतम्॥१०॥
असहायेन रामेण वैदेही पुनराहृता
।
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम्॥११॥
यस्य शाखामृगा मित्राण्यृक्षाः कालमुखास्तथा
।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय॥१२॥
तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ
।
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप॥१३॥
वैशम्पायन उवाच।
एवमाश्वासितो राजा मार्कण्डेयेन धीमता
।
त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्॥१४॥
इति श्रीमहाभारते आरण्यके पर्वणि रामोपाख्यानपर्वणि युधिष्ठिराश्वासने द्विनवत्यधिकद्विशततमोऽध्यायः॥२९२॥