युधिष्ठिर उवाच।
नात्मानमनुशोचामि नेमान् भ्रातॄन् महामुने
।
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्॥१॥
नात्मानमिति ॥१॥
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्
।
जयद्रथेन च पुनर्वनाच्चापि हृता बलात्॥२॥
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपि वा श्रुता
।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा॥३॥
मार्कण्डेय उवाच।
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर
।
सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया॥४॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः
।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः॥५॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः
।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः॥६॥
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः
।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान्॥७॥
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः
।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः॥८॥
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम
।
षष्ठे षष्ठे तदा काले बभूव मितभोजनः॥९॥
सावित्र्या सावित्री सवितृकन्या तद्दैवत्यया ऋचा । सा च ‘सोमो वधूयुरभवदश्विनास्तामुभावरा। सूर्यां यत्पत्ये शंसन्तीं मनसा सविता ददात्’ इति । यदा सवित्रा त्वष्ट्रा सावित्री स्वकन्या सूर्या सूर्यस्य स्त्री सूर्याय दत्ता तदा सोमोऽस्य धूयुर्वध्वा अनुचरोऽभूत् । सविता च सूर्यां पत्ये पत्युः कल्याणार्थं शंसन्तीं कथयन्तीं मनसा उभौ वरौ पुत्ररूपौ अश्विनौ अददाति मन्त्रार्थः । इत एव वाक्यादेतस्य मन्त्रस्य लक्षहोमादपत्यप्राप्तिर्भवतीति गम्यते । षष्ठे कालेऽष्टधा विभक्तस्याह्नः षष्ठेंऽशे ॥९॥
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु
।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्॥१०॥
रूपिणी तु तदा राजन् दर्शयामास तं नृपम्
।
अग्निहोत्रात् समुत्थाय हर्षेण महताऽन्विता
।
उवाच चैनं वरदा वचनं पार्थिवं तदा॥११॥
सावित्र्युवाच।
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च
।
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिव॥१२॥
वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्
।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन॥१३॥
अश्वपतिरुवाच।
अपत्याथः समारम्भः कृतो धर्मेप्सया मया
।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः॥१४॥
तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्
।
सन्तानं परमो धर्म इत्याहुर्मां द्विजातयः॥१५॥
सावित्र्युवाच।
पूर्वमेव मया राजन्नभिप्रायमिमं तव
।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः॥१६॥
प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि
।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति॥१७॥
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन
।
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते॥१८॥
उत्तरं पुत्रार्थं प्रार्थनावचनं निसर्गेण आज्ञया ॥१८॥
मार्कण्डेय उवाच।
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः
।
प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति॥१९॥
प्रतिज्ञाय अङ्गीकृत्य ॥१९॥
अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः
।
स्वराज्ये चावसद्वीरः प्रजा धर्मेण पालयन्॥२०॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः
।
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे॥२१॥
राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ
।
व्यवर्धत तदा शुक्ले तारापतिरिवाम्बरे॥२२॥
मानव्या मनुपुत्र्याः॥२२॥
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्
।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः॥२३॥
सावित्र्या प्रीतया दता सावित्र्या हुतया ह्यपि
।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता॥२४॥
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा
।
कालेन चापि सा कन्या यौवनस्था बभूव ह॥२५॥
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव
।
प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे जनाः॥२६॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा
।
न कश्चिद्वरयामास तेजसा प्रतिवारितः॥२७॥
प्रतिवारितोऽभिभूतः ॥२७॥
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा
।
हुत्वाऽग्निं विधिवद्विप्रान् वाचयामास पर्वणि॥२८॥
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः
।
पितुः समीपमगमद्देवी श्रीरिव रूपिणी॥२९॥
सुमनसः इष्टदेवतायाः ‘सुपर्वाणः सुमनसस्त्रिदिवेशाः’ इत्यमरः । शेषाः प्रसादपूर्वकं दत्तानि माल्यानि । प्रसादभूता माला इत्यर्थः । ‘प्रसादान्निजनिर्माल्यादाने शेषानुकीर्तिताः’ इति विश्वः ॥२९॥
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च
।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता॥३०॥
यौवनस्थां तु तां दृष्टा स्वां सुतां देवरूपिणीम्
।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत्॥३१॥
राजोवाच।
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्
।
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः॥३२॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम
।
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्॥३३॥
प्रार्थितः इच्छितः ॥३३॥
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः
।
तथा त्वमपि कल्याणि गदतो मे वचः शृणु॥३४॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः
।
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता॥३५॥
वाच्यो निन्द्यः । अनुपयन् ऋतावगच्छन् ॥३५॥
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर
।
देवतानां यथा वाच्यो न भवेयं तथा कुरु॥३६॥
मार्कण्डेय उवाच।
एवमुक्ता दुहितरं तथा वृद्धांश्च मन्त्रिणः
।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत्॥३७॥
अनुयात्रं यात्रोपकरणं वाहनादि ॥३७॥
साऽभिवाद्य पितुः पादौ व्रीडितेव तपस्विनी
।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम्॥३८॥
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता
।
तपोवनानि रम्याणि राजर्षीणां जगाम ह॥३९॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्
।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत॥४०॥
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा
।
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह॥४१॥
इति श्रीमहाभारते आरण्यके पर्वणि पतिव्रतामाहात्म्यपर्वणि सावित्र्युपाख्याने त्रिनवत्यधिकद्विशततमोऽध्यायः॥२९३॥
मार्कण्डेय उवाच।
अथ मद्राधिपो राजा नारदेन समागतः
।
उपविष्टः सभामध्ये कथायोगेन भारत॥१॥
अथेति । कथायोगेन कथाप्रसङ्गेन ॥१॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा
।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः॥२॥
नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा
।
उभयोरेव शिरसा चक्रे पादाभिवादनम्॥३॥
नारद उवाच।
क्व गताऽभूत् सुतेयं ते कुतश्चैवागता नृप
।
किमर्थं युवती भर्त्रे न चैनां सम्प्रयच्छसि॥४॥
अश्वपतिरुवाच।
कार्येण खल्वनेनैव प्रेषिताऽद्यैव चागता
।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः॥५॥
मार्कण्डेय उवाच।
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा
।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत्॥६॥
सावित्र्युवाच।
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः
।
द्युमत्सेन इतिख्यातः पश्चाच्चान्धो बभूव ह॥७॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः
।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा॥८॥
सामीप्येन समीपवासिना । छिद्रे अन्धत्वे सति ॥८॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्
।
महारण्यं गतश्चापि तपस्तेपे महाव्रतः॥९॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने
।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः॥१०॥
सत्यवान्नामतः ॥१०॥
नारद उवाच।
अहो बत महत् पापं सावित्र्या नृपते कृतम्
।
अजानन्त्या यदनया गुणवान् सत्यवान् वृतः॥११॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते
।
तथाऽस्य ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति॥१२॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्
।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते॥१३॥
राजोवाच।
अपीदानीं स तेजस्वी बुद्धिमान् वा नृपात्मजः
।
क्षमावानपि वा शूरः सत्यवान् पितृवत्सलः॥१४॥
तेजस्वी प्रभाववान् बुद्धिमान् वा । वाशब्दश्चार्थे ॥१४॥
नारद उवाच।
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ
।
महेन्द्र इव वीरश्च वसुधेव क्षमान्वितः॥१५॥
अश्वपतिरुवाच।
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्
।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः॥१६॥
नारद उवाच।
साङ्कृते रन्तिदेवस्य स्वशक्त्या दानतः समः
।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा॥१७॥
साङ्कृतेः सङ्कृतिपुत्रस्य ॥१७॥
ययातिरिव चोदारः सोमवत् प्रियदर्शनः
।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली॥१८॥
स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः
।
स मैत्रः सोऽनसूयश्च स ह्रीमान् द्युतिमांश्च सः॥१९॥
नित्यशश्चार्जवं तस्मिन् स्थितिस्तस्यैव च ध्रुवा
।
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते॥२०॥
अश्वपतिरुवाच।
गुणैरुपेतं सर्वैस्तं भगवन् प्रब्रवीषि मे
।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन॥२१॥
नारद उवाच।
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति
।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम्॥२२॥
आक्रम्य अभिभूय ॥२२॥
एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान्
।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति॥२३॥
राजोवाच।
एहि सावित्रि गच्छस्व अन्यं वरय शोमने
।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः॥२४॥
यथा मे भगवानाह नारदो देवसत्कृतः
।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति॥२५॥
सावित्र्युवाच।
सकृदंशो निपतति सकृत् कन्या प्रदीयते
।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत्॥२६॥
अंशः काष्ठपाषाणादेः शकलः सकृन्निपतति कृतस्य करणं नास्तीत्यर्थः ॥२६॥
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा
।
सकृद्धृतो मया भर्ता न द्वितीयं वृणोम्यहम्॥२७॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते
।
क्रियते कर्मणा पश्चात् प्रमाणं मे मनस्ततः॥२८॥
नारद उवाच।
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव
।
नैषा वारयितुं शक्या धर्मादस्मात् कथञ्चन॥२९॥
नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः
।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव॥३०॥
राजोवाच।
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः
।
करिष्याम्येतदेवं च गुरुर्हि भगवान् मम॥३१॥
यत्तत् सावित्र्या वचनम् अविचाल्यं भवता च तथ्यम् उक्तम् ॥३१॥
नारद उवाच।
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव
।
साधयिष्याम्यहं तावत् सर्वेषां भद्रमस्तु वः॥३२॥
साधयिष्यामि गमिष्यामि, धातूनामनेकार्थत्वाद्गत्यर्थोऽयम् ॥३२॥
मार्कण्डेय उवाच।
एवमुक्ता समुत्पत्य नारदस्त्रिदिवं गतः
।
राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत्॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि पतिव्रतामाहात्म्यपर्वणि सावित्र्युपाख्याने चतुर्नवत्यधिकद्विशततमोऽध्यायः॥२९४॥
मार्कण्डेय उवाच।
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्
।
समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः॥१॥
अथेति । भाण्डं वैवाहिकमुपकरणं विवाहोचितम् ॥१॥
ततो वृद्धान् द्विजान् सर्वानृत्विजः सपुरोहितान्
।
समाहूय दिने पुण्ये प्रययौ सह कन्यया॥२॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः
।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्॥३॥
सत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम्
।
कौश्यां वृस्यां समासीनं चक्षुर्हीनं नृपं तदा॥४॥
कौश्यां कुशमय्यां बृस्याम् आसने ॥४॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथाऽर्हतः
।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्॥५॥
आत्मनिवेदनमश्वपतिरहमिति ज्ञापनम् ॥५॥
तस्यार्ध्यमासनं चैव गां चावेद्य स धर्मवित्
।
किमागमनमित्येवं राजा राजानमब्रवीत्॥६॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्
।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्॥७॥
अश्वपतिरुवाच।
सावित्री नाम राजर्षे कन्येयं मम शोभना
।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे॥८॥
द्युमत्सेन उवाच।
च्युताः स्म राज्याद्वनवासमाश्रिताश्चराम धर्मं नियतास्तपस्विनः
।
कथं त्वनर्हा वनवासमाश्रमे निवत्स्यते क्लेशमिमं सुता तव॥९॥
अश्वपतिरुवाच।
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च
।
न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप॥१०॥
भवाभवात्मकम् उत्पत्तिविनाशात्मकं ते त्वां प्रति ॥१०॥
आशां नार्हसि मे हन्तुं सौहृदात् प्रणतस्य च
।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि॥११॥
मा माम् ॥११॥
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च
।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुतः॥१२॥
द्युमत्सेन उवाच।
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह
।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्॥१३॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः
।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः॥१४॥
निर्वर्ततु निष्पद्यताम् ॥१४॥
ततः सर्वान् समानाय्य द्विजानाश्रमवासिनः
।
यथाविधिसमुद्वाहं कारयामासतुर्नृपौ॥१५॥
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम्
।
ययौ स्वमेव भवनं युक्तः परमया मुदा॥१६॥
सपरिच्छदं पारिबर्हसहितम्॥१६॥
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम्
।
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्॥१७॥
गते पितरि सर्वाणि सन्न्यस्याभरणानि सा
।
जगृहे वल्कलान्येव वस्रं काषायमेव च॥१८॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च
।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे॥१९॥
परिचारैः सेवनैः गुणैः शीलसत्यादिभिः । प्रश्रयेण स्नेहेन दमेन जितेन्द्रियतया सर्वकामक्रियाभिः सर्वेषां इष्टसम्पादनेन ॥१९॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः
।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च॥२०॥
तथैव प्रियवादेन नैपुणेन शमेन च
।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत्॥२१॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम्
।
कालस्तपस्यतां कश्चिदपाक्रामत भारत॥२२॥
सावित्र्या ग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम्
।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि सावित्र्युपाख्यानपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः॥२९५॥
मार्कण्डेय उवाच।
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन
।
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप॥१॥
तत इति ॥१॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते
।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः॥२॥
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भाविनी
।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत्॥३॥
तं श्रुत्वा नियमं तस्या भृशं दुःखान्वितो नृपः
।
उत्थाय वाक्यं सावित्रीमब्रवीत् परिसान्त्वयन्॥४॥
द्युमत्सेन उवाच।
अतितीव्रोऽयमारम्भस्त्वयाऽऽब्धो नृपात्मजे
।
तिसृणां वसतीनां हि स्थानं परमदुश्चरम्॥५॥
वसतीनां स्थानं भोजनत्रयनिरोधः॥ उपवसतीत्यादौ वसतेस्तादर्थ्यदर्शनात् ॥५॥
सावित्र्युवाच।
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम्
।
व्यवसायकृतं हीदं व्यवसायश्च कारणम्॥६॥
पारयिष्यामि । समापयिष्यामि व्यवसायकृतमुद्योगकृतम् ॥६॥
द्युमत्सेन उवाच।
व्रतं मिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन
।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्॥७॥
मार्कण्डेय उवाच।
एवमुक्त्वा युमत्सेनो विरराम महामनाः
।
तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते॥८॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ
।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत॥९॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्
।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः॥१०॥
युगं हस्तचतुष्कं तावदुदिते उपरि याते ॥१०॥
ततः सर्वान् द्विजान् वृद्धान् श्वश्रूं श्वशुरमेव च
।
अभिवाद्यानुपूर्वेण प्राञ्जलिर्नियता स्थिता॥११॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः
।
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः॥१२॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा
।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात् तपस्विनाम्॥१३॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा
।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता॥१४॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्
।
एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम॥१५॥
श्वशुरावूचतुः
।
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया
।
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम्॥१६॥
सावित्र्युवाच।
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया
।
एष मे हृदि सङ्कल्पः समयश्च कृतो मया॥१७॥
मार्कण्डेय उवाच।
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति
।
स्कन्धे परशुमादाय सत्यवान् प्रस्थितो वनम्॥१८॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि
।
सह त्वयाऽऽगमिष्यामि न हि त्वां हातुमुत्सहे॥१९॥
सत्यवानुवाच।
वनं न गतपूर्वं ते दुःखः पन्थाश्च भाविनि
।
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि॥२०॥
सावित्र्युवाच।
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः
।
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥२१॥
सत्यवानुवाच।
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्
।
मम त्वामन्त्रय गुरुन्न मां दोषः स्पृशेदयम्॥२२॥
मार्कण्डेय उवाच।
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता
।
अयं गच्छति मे भर्ता फलाहारो महावनम्॥२३॥
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह
।
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः॥२४॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव
।
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्॥२५॥
संवत्सरः किञ्चिदुनो न निष्क्रान्ताऽहमाश्रमात्
।
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे॥२६॥
द्युमत्सेन उवाच।
यतःप्रभृति सावित्री पित्रा दत्ता स्नुषा मम
।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्॥२७॥
तदेषा लभतां कामं यथाभिलषितं वधूः
।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि॥२८॥
मार्कण्डेय उवाच।
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी
।
सह भर्त्रा हसन्तीव हृदयेन विदूयता॥२९॥
सा वनानि विचित्राणि रमणीयानि सर्वशः
।
मयूरगणजुष्टानि ददर्श विपुलेक्षणा॥३०॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोप्तमान्
।
सत्यवानाह पश्येति सावित्रीं मधुरं वचः॥३१॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता
।
मृतमेव हि भर्तारं काले मुनिवचः स्मरन्॥३२॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी
।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती॥३३॥
इति श्रीमहाभारते आरण्यके पर्वणि पतिव्रतामाहात्म्यपर्वणि सावित्र्युपाख्याने षण्णवत्यधिकद्विशततमोऽध्यायः॥२९६॥
मार्कण्डेय उवाच।
अथ भार्यासहायः स फलान्यादाय वीर्यवान्
।
कठिनं पूरयामास ततः काष्टान्यपाटयत्॥१॥
अथेति । कठिनं स्थालीं ‘कठिनं निष्ठुरे स्थाल्याम्’ इति विश्वः ॥१॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत
।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना॥२॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
।
सत्यवानुवाच।
व्यायामेन ममानेन जाता शिरसि वेदना॥३॥
अङ्गानि चैव सावित्रि हृदयं दूयतीव च
।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि॥४॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्
।
तत् स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे॥५॥
सा समासाद्य सावित्री भर्तारमुपगम्य च
।
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले॥६॥
ततः सा नारदवचो विमृशन्ती तपस्विनी
।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह॥७॥
युयोज अनुचिन्तितवती ॥७॥
मुहूर्तादेव चापश्यत् पुरुषं रक्तवाससम्
।
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्॥८॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च॥९॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः
।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती॥१०॥
सावित्र्युवाच।
दैवतं त्वाऽभिजानामि वपुरेतद्ध्यमानुषम्
।
कामया ब्रूहि देवेश कस्त्वं किञ्च चिकीर्षसि॥११॥
कामया इच्छया ॥११॥
यम उवाच ।
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता
।
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥१२॥
अयं ते सत्यवान् भर्ता क्षीणायुः पार्थिवात्मजः
।
जेष्यामि तमहं बध्व विद्ध्येतन्मे चिकीर्षितम् ॥१३॥
सावित्र्युवाच ।
श्रूयते भगवन् दूतास्तवागच्छन्ति मानवान्
।
नेतुं किल भवान् कस्मादागतोऽसि स्वयं प्रभो॥१४॥
मार्कण्डेय उवाच ।
इत्युक्तः पितृराजस्तां भगवान् स्यचिकीर्षितम्
।
यथावत् सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे॥१५॥
अयं च धर्मसंयुक्तो रूपवान् गुणसागरः
।
नार्हो मत्पुरुषैर्नैतुमतोऽस्मि स्वयमागतः ॥१६॥
ततः सत्यवतः कायात् पाशबद्धं वशं गतम्
।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥१७॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्
।
निर्विचेष्टं शरीरं तद्वभूवाप्रियदर्शनम् ॥१८॥
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः
।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत
।
नियमव्रतसंसिद्धा महाभागा पतिव्रता॥१९॥
यम उवाच ।
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्
।
कृतं भर्तुस्त्वयाऽऽनुण्यं यावद्गम्यं गतं त्वया ॥२०॥
सावित्र्युवाच ।
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
।
मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥२१॥
तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च
।
तव चैव प्रसादेन न मे प्रतिहता गतिः ॥२२॥
प्राहुः साप्तपदं मैत्रं बुधास्तत्वार्थदर्शिनः
।
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छ्रुणु॥२३॥
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च
।
विज्ञानतो धर्ममुदाहरन्ति तस्मात् सन्तो धर्ममाहुः प्रधानम् ॥२४॥
एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः
।
मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात् सन्तो धर्ममाहुः प्रधानम् ॥२५॥
यम उवाच ।
निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया
।
वरं वृणीष्वेह विनाऽस्य जीवितं ददानि ते सर्वमनिन्दिते वरम् ॥२६॥
सावित्र्युवाच ।
च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे
।
स लब्धचक्षुर्बलवान् भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसन्निभः ॥२७॥
यम उवाच ।
ददानि तेऽह तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत् तथा
।
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥२८॥
सावित्र्युवाच ।
श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा
।
यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥२९॥
सतां सकृत्सङ्गतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते
।
न चाफलं सत्पुरुषेण सङ्गतं ततः सतां सन्निवसेत् समागमे ॥३०॥
यम उवाच ।
मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्
।
विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥३१॥
सावित्र्युवाच ।
हतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः
।
जह्यात् स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम् ॥३२॥
यम उवाच ।
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मात् परिहास्यते नृपः
।
कृतेन कामेन मया नृशत्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥३३॥
सावित्र्युवाच ।
प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया
।
ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥३७॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥३५॥
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः
।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥३६॥
यम उवाच ।
पिपासितस्येव भवेद्यथा पयस्तथा त्वया वाक्यमिदं समीरितम्
।
विना पुजेः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥३७॥
सावित्र्युवाच ।
ममानपत्यः पृथिवीपतिः पिता भवेत् पितुः पुत्रशतं तथोरसम्
।
कुलस्य सन्तानकरं च यद्भवेत् तृतीयमेतद्वरयामि ते वरम् ॥३६॥
यम उवाच ।
कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे
।
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥३९॥
सावित्र्युवाच।
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति
।
अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च॥४०॥
समुद्यताम् उपस्थिताम् ॥४०॥
विवस्वतस्त्वं तनयः प्रतापवांस्ततो हि वैवस्वत उच्यसे बुधैः
।
समेन धर्मेण चरन्ति ताः प्रजास्ततस्तवेहेश्वर धर्मराजता॥४१॥
विवस्वतः वस्यते आच्छाद्यते इति वः आच्छादनं तद्वान् वस्वांस्तदन्यो विवस्वान्निरावरणो जगदात्मा सूर्यः । ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इति श्रुतेः। तस्य तनयः पुत्रः अत्यन्तहित इत्यर्थः । समेन शत्रुमित्रादितारतम्यहीनेन तव धर्मेण प्रशासनेन ताः प्रजाश्चरन्ति त्वदाज्ञावशगा इत्यर्थः । अत एव तव नाम धर्मराज इति । धर्मेणैव राजते धर्मोऽस्य राजत इति वा ॥४१॥
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः
।
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति॥४२॥
लौकिकेष्वपि विश्वासं कुर्वन्निष्टासद्धिं प्राप्नोति किमुत त्वयि धर्मराजेत्याशयेनाह आत्मन्यपीति । प्रणयं प्रार्थनाम् ॥४२॥
सौहृदात् सर्वभूतानां विश्वासो नाम जायते
।
तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः॥४३॥
यम उवाच।
उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया
।
अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च॥४४॥
ते त्वया ॥४४॥
सावित्र्युवाच।
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत् कुलोद्वहम्
।
शतं सुतानां बलवीर्यशालिनामिदं चतुर्थं वरयामि ते वरम्॥४५॥
ममात्मजं सत्यवतश्च औरसं न तु धृतराष्ट्रादिवदन्यतो मयि जातामित्यर्थः ॥४५॥
यम उवाच।
शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले
।
परिश्रमस्ते न भवेनृपात्मजे निवर्त दूरं हि पथस्त्वमागता॥४६॥
सावित्र्युवाच।
सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति
।
सतां सद्भिर्नाफलः सङ्गमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः॥४७॥
शाश्वतो धर्मः पत्युः सकाशादेवापत्योत्पादनं सतां मादृशानां दाराणां तत्रैव वृत्तिः । ननु गतायुषि पत्यौ कथं तत् स्यादित्यत आह सन्त इति । वरं दत्वा सन्तो न व्यथन्ति नापि सीदन्ति किं तु उप्तं निर्वहन्त्येवेत्यर्थः । अत्यन्ताशक्येऽर्थे कथं स्यादित्यत आह । सतामिति । सतामशक्यमपि नास्ति । भयं चान्यस्य तेभ्यो नास्तीति तत्त्वतोऽहं निर्भयाऽस्मीति भावः ॥४७॥
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति
।
सन्तो गतिर्भूतभव्यस्य राजन् सतां मध्ये नावसीदन्ति सन्तः॥४८॥
त्वयाऽपि सत्यं स्वीयं रक्षणीयमित्याह सन्तो हीति । भूतभव्यस्य भूतस्य भविष्यस्य च ॥४८॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्
।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम्॥४९॥
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नदयति नापि मानः
।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति॥५०॥
एतत् त्रयं प्रसादोऽर्थो मानश्च दरिद्रस्य प्रसादो नार्थाय श्रीमतां प्रसादोऽर्थकृदपि न मानदः सतां तु मानद इति खलेतु प्रसाद एव नास्ति। अतस्त्रयं त्वय्येव स्थितमिति त्वं रक्षिताऽस्माकं भवेति भावः॥५०॥
यम उवाच।
यथायथा भाषसि धर्मसंहितं मनोनुकुलं सुपदं महार्थवत्
।
तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रत्ते॥५१॥
सावित्र्युवाच।
न तेऽपवर्गः सुकृताद्विनाकृतस्तथा यथाऽन्येषु वरेषु मानद
।
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना॥५२॥
ते त्वत्तः अपवर्गः पुत्रफलप्राप्तिः सुकृताद्विना समीचीनाद्दाम्पत्ययोगादृते क्षेत्रजादिपुत्रार्पणेन न कृतो निष्पादितो भवति । यथाऽन्येषु वरेषु भर्तृषु मदयन्त्यां वसिष्ठस्येव न तद्वत् । यस्मादेवं तस्माद्वरं वृणे ॥५२॥
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्
।
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम्॥५३॥
व्यवसामि शक्नोमि ॥५३॥
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः
।
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति॥५४॥
मार्कण्डेय उवाच।
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः
।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्॥५५॥
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि
।
अरोगस्तव नेयश्च सिद्धार्थः स भविष्यति॥५६॥
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति
।
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति॥५७॥
त्वयि पुत्रशतं चैव सत्यवान् जनयिष्यति
।
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः॥५८॥
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः
।
पितुश्च ते पुत्रशतं भविता तव मातरि॥५९॥
त्वन्नामधेयाः सावित्रा इति ॥५९॥
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः॥६०॥
एवं तस्यै वरं दत्वा धर्मराजः प्रतापवान्
।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ॥६१॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च
।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्॥६२॥
शावं श्यामम् ॥६२॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च
।
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह॥६३॥
संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत
।
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै॥६४॥
सत्यवानुवाच।
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः
।
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह॥६५॥
सावित्र्युवाच।
सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ
।
गतः स भगवान् देवः प्रजासंयमनो यमः॥६६॥
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज
।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्॥६७॥
मार्कण्डेय उवाच।
उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः
।
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्॥६८॥
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे
।
ततः पाटयतः काष्ठं शिरसो मे रुजाऽभवत्॥६९॥
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन्
।
तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे॥७०॥
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः
।
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्॥७१॥
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे
।
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्॥७२॥
तमुवाचाथ सावित्री रजनी व्यवगाहते
।
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज॥७३॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरी पश्य सुव्रत
।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः॥७४॥
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः
।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने॥७५॥
एता घोरं शिवा नादान् दिशं दक्षिणपश्चिमाम्
।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम॥७६॥
सत्यवानुवाच।
वनं प्रतिभयाकारं घनेन तमसा वृतम्
।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि॥७७॥
सावित्र्युवाच।
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्
।
वायुना धम्यमानोऽत्र दृश्यतेऽग्निः क्वचित्क्वचित्॥७८॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः
।
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः॥७९॥
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये
।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने॥८०॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव
।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ॥८१॥
सत्यवानुवाच।
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये
।
मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम्॥८२॥
न कदाचिद्विकालं हि गतपूर्वो मया श्रमः
।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम्॥८३॥
दिवाऽपि मयि निष्क्रान्ते सन्तप्येते गुरू मम
।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः॥८४॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा
।
उपालब्धश्च बहुशश्चिरेणागच्छसीति ह॥८५॥
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये
।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति॥८६॥
पुरा मामूचतुश्चैव रात्रावस्त्रायमाणकौ
।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुत्तौ॥८७॥
अस्रायमाणको रुदन्तौ ॥८७॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक
।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्॥८८॥
नौ आवयोः ॥८८॥
वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठितः
।
त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति॥८९॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल
।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः॥९०॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम
।
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी॥९१॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः
।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे॥९२॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम
।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्॥९३॥
प्रज्ञाचक्षुरन्धः ॥९३॥
नात्मानमनुशोचामि यथाऽहं पितरं शुभे
।
भर्तारं चाप्यनुगतां मातरं परिदुर्बलम्॥९४॥
मत्कृते न हि तावद्य सन्तापं परमेष्यतः
।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह॥९५॥
तयोः प्रियं मे कर्तव्यमिति जानामि चाप्यहम्
।
मार्कण्डेय उवाच।
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः॥९६॥
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह
।
ततोऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम्॥९७॥
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी
।
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि॥९८॥
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी
।
न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनुतां गिरम्॥९९॥
तेन सत्येन तावद्य ध्रियेतां श्वगुरौ मम
।
सत्यवानुवाच।
कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम्॥१००॥
ध्रियेतां जीवेतां श्वशुरौ श्वश्रूश्वशुरौ ॥१००॥
पुरा मातुः पितुर्वाऽपि यदि पश्यामि विप्रियम्
।
न जीविष्ये वरारोहे सत्येनात्मानमालभे॥१०१॥
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि
।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्॥१०२॥
मार्कण्डेय उवाच।
सावित्री तत उत्थाय केशान् संयम्य भाविनी
।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै॥१०३॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना
।
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे॥१०४॥
कठिने फलपूर्णे पात्रे ॥१०४॥
तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि
।
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्॥१०५॥
कृत्वा कठिनभारं सा वृक्षशाखावलाम्बिनम्
।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत्॥१०६॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च
।
दक्षिणेन परिष्वज्य जगाम गजगामिनी॥१०७॥
सत्यवानुवाच।
अभ्यासगमनाद्भीरु पन्थानो विदिता मम
।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये॥१०८॥
आगतौ स्वः पथा येन फलान्यवचितानि च
।
यथागतं शुभे गच्छ पन्थानं मा विचारय॥१०९॥
पलाशखण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा
।
तस्योत्तरेणः यः पन्थास्तेन गच्छ त्वरस्व च॥११०॥
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ
।
ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति॥१११॥
इति श्रीमहाभारते आरण्यके पर्वणि पतिव्रतामाहात्म्यपर्वणि सावित्र्युपाख्याने सप्तनवत्यधिकद्विशततमोऽध्यायः॥२९७॥
मार्कण्डेय उवाच।
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः
।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह॥१॥
एतस्मिन्नेवेति ॥१॥
स सर्वानाश्रमान् गत्वा शैब्यया सह भार्यया
।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ॥२॥
तावाश्रमान्नदीश्चैव वनानि च सरांसि च
।
तस्यां निशि विचिन्वतौ दम्पती परिजग्मतुः॥३॥
श्रुत्वा शब्दं तु यं कञ्चिदुन्मुखौ सुतशङ्कया
।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम्॥४॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः
।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः॥५॥
भिन्नैर्विदीर्णैः परुषैः कर्कशैः ॥५॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः
।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्॥६॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः
।
आश्वासितोऽपि चित्रार्थैः पूर्वराज्ञां कथाश्रयैः॥७॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रादिदृक्षया
।
बाल्यवृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ॥८॥
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ
।
हा पुत्र हा साध्वि वधूः क्कासि क्कासीत्यरोदताम्
।
ब्राह्मणः सत्यवाक्तेषामुवाचेदं तयोर्वचः॥९॥
सुवर्चा उवाच।
यथाऽस्य भार्या सावित्री तपसा च दमेन च
।
आचारेण च संयुक्ता तथा जीवति सत्यवान्॥१०॥
गौतम उवाच।
वेदाः साङ्गा मयाऽधीतास्तपो मे सञ्चितं महत्
।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः॥११॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे
।
वायुभक्षोपवासश्च कृतो मे विधिवत् पुरा॥१२॥
अनेन तपसा वेद्मि सर्वं परचिकीर्षितम्
।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति॥१३॥
शिष्य उवाच।
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम्
।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान्॥१४॥
ऋषय ऊचुः
।
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः
।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्॥१५॥
भारद्वाज उवाच।
यथाऽस्यं भार्या सावित्री तपसा च दमेन च
।
आचारेण च संयुक्ता तथा जीवति सत्यान्॥१६॥
दाल्भ्य उवाच।
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्
।
गताऽऽहारमकृत्वा च तथा जीवति सत्यवान्॥१७॥
आपस्तम्ब उवाच।
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः
।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्॥१८॥
शान्तायां प्रसन्नायां पार्थिवी पार्थिवत्वयोग्या प्रवृत्तिर्धर्मः ॥१८॥
धौम्य उवाच।
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः
।
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्॥१९॥
मार्कण्डेय उवाच।
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः
।
तांस्तान् विगणयन् सर्वांस्ततः स्थिर इवाभवत्॥२०॥
ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह
।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह॥२१॥
ब्राह्मणा ऊचुः
।
पुत्रेण सङ्गतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च
।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते॥२२॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च
।
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे॥२३॥
सर्वैरस्माभिरुक्तं यत् तथा तन्नात्र संशयः
।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति॥२४॥
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि
।
उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम्॥२५॥
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः
।
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन्॥२६॥
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः
।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम्॥२७॥
ऋषय ऊचुः
।
प्रागेव नागतं कस्मात् सभार्येण त्वया विभो
।
विरात्रे चागतं कस्मात् कोऽनुबन्धस्तवाभवत्॥२८॥
विरात्रे बहुरात्रे काले आगतमागमनम् ॥२८॥
सन्तापितः पिता माता वयं चैव नृपात्मज
।
कस्मादिति न जानीमस्तत् सर्वं वक्तुमर्हसि॥२९॥
सत्यवानुवाच।
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः
।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः॥३०॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये
।
तावत् कालं न च मया सुप्तपूर्वं कदाचन॥३१॥
सर्वेषामेव भवतां सन्तापो मा भवेदिति
।
अतो विरात्रागमनं नान्यदस्तीह कारणम्॥३२॥
गौतम उवाच।
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः
।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति॥३३॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्
।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा॥३४॥
त्वमत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम्
।
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः॥३५॥
सावित्र्युवाच।
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः
।
न हि किञ्चिद्रहस्यं मे श्रूयतां तथ्यमेव यत्॥३६॥
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना
।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्॥३७॥
सुप्तं चैनं यमः साक्षादुपागच्छत् सकिङ्करः
।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम्॥३८॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम्
।
पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम॥३९॥
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे
।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम्॥४०॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्
।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्॥४१॥
एतत् सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः
।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम॥४२॥
ऋषय ऊचुः
।
निमज्ज्यमानं व्यसनेरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे
।
त्वया सुशीलव्रतपुण्यया कुलं समुद्धृतं साध्वि पुनः कुलीनया॥४३॥
मार्कण्डेय उवाच।
तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयः समागताः
।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम्॥४४॥
इति श्रीमहाभारते आरण्यके पर्वणि पतिव्रतामाहात्म्यपर्वणि सावित्र्युपाख्याने अष्टनवत्यधिकद्विशततमोऽध्यायः॥२९८॥