अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

कुण्डलाहरणपर्व

त्रिशततमोऽध्यायः

जनमेजय उवाच। यत् तत्तदा महद्ब्रह्मन् लोमशो वाक्यमब्रवीत् ।
इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्॥१॥

यत्तदिति ॥१॥

यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् ।
तच्चाप्यपहरिष्यामि धनञ्जय इतो गते॥२॥

किं नु तज्जपतां श्रेष्ठ कर्णं प्रति महद्भयम् ।
आसीन्न च स धर्मात्मा कथयामास कस्यचित्॥३॥

वैशम्पायन उवाच। अयं ते राजशार्दूल कथयामि कथामिमाम् ।
पृच्छतो भरतश्रेष्ठ शुश्रूषरव गिरं मम॥४॥

द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे ।
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितृमुद्यतः॥५॥

अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः ।
कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः॥६॥

विभावसुः विशिष्टा भाः दीप्तिः सैव वसु धनं यस्य तादृशः सूर्यः ॥६॥

महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते ।
शयानमतिमिश्वस्तं ब्रह्मण्यं सत्यवादिनम्॥७॥

स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् ।
कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत॥८॥

स्वप्नान्ते स्वप्नमध्ये ॥८॥

ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्धिरूपवान् ।
हितार्थमन्ब्रवीत् कर्णं सान्त्वपूर्वमिदं वचः॥९॥

कर्ण मद्वचनं तात शृणु सत्यभृतां वर ।
ब्रुवतोऽद्य महाबाहो सौहृदात् परमं हितम्॥१०॥

उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया ।
ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया॥११॥

विदितं तेन शीलं ते सर्वस्य जगतस्तथा ।
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे॥१२॥

त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम् ।
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित्॥१३॥

त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः ।
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्॥१४॥

तस्मै प्रयाचमानाय न देये कुण्डले त्वया ।
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्॥१५॥

कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया ।
अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनः पुनः॥१६॥

रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि ।
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरन्दरः॥१७॥

यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे ।
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि॥१८॥

कवचेन समायुक्तः कुण्डलाभ्यां च मानद ।
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम॥१९॥

अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् ।
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव॥२०॥

कर्ण उवाच। को मामेवं भवान् प्राह दर्शयन् सौहृदं परम् ।
कामया भगवन् ब्रूहि को भवान् द्विजवेषधृक्॥२१॥

ब्राह्मण उवाच। अहं तात सहस्त्रांशुः सौहृदात्त्वां निदर्शये ।
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते॥२२॥

कर्ण उवाच। श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः ।
प्रवक्ताऽद्य हितान्वेषी शृणु चेदं वचो मम॥२३॥

प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् ।
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः॥२४॥

व्रतं वै मम लोकोऽयं वेत्ति कृत्स्रं विभावसो ।
यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्॥२५॥

यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मना वृतः ।
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्॥२६॥

दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् ।
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता॥२७॥

मद्विधस्य यशस्यं हि न युक्तं प्राणरक्षणम् ।
युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्॥२८॥

सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा ।
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति॥२९॥

हितार्थं पाण्डुपुत्राणां कुण्डले में प्रयाचितुम् ।
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति॥३०॥

वृणोमि कीर्तिं लाके हि जीवितेनापि भानुमन् ।
कीर्तिमानश्रुते स्वर्गं हीनकीर्तिस्तु नश्यति॥३१॥

कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् ।
अकीर्तिर्जीवितं हन्ति जवितोऽपि शरीरिणः॥३२॥

अयं पुराणः श्लोको हि स्वयं गीतो विभावसो ।
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह॥३३॥

पुरुषस्य परे लोके कीर्तिरेव परायणम् ।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्द्धनी॥३४॥

सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् ।
दत्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि॥३५॥

हुत्वा शरीरं सङ्ग्रामे कृत्वा कम सुदुष्करम् ।
विजित्य च परानाजौ यशः प्राप्स्यामि केवलम्॥३६॥

भीतानामभयं दत्वा सङ्ग्रामे जीवितार्थिनाम् ।
वृद्धान् बालान्द्विजातींश्च मोक्षयित्वा महाभयात्॥३७॥

प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम् ।
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम्॥३८॥

सोऽहं दत्वा मघवते भिक्षामेतामनुत्तमाम् ।
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम्॥३९॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे त्रिशततमोऽध्यायः॥३००॥
एकाधिकत्रिशततमोऽध्यायः

सूर्य उवाच। माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा ।
पुत्राणामथ भार्याणामथो मातुरथो पितुः॥१॥

माऽहितमिति । अहितमिति छेदः ॥१॥

शरीरस्थाविरोधेन प्राणिनां प्राणभृद्वर ।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा॥२॥

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् ।
सा ते प्राणान् समादाय गमिष्यति न संशयः॥३॥

जीवतां कुरुते कार्यं पिता माता सुतास्तथा ।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन् पुरुषर्षभ॥४॥

जवितां पुत्रादीनां कार्यं प्रयोजनं परिष्वङ्गादिजं सुखं पित्रादिः कुरुते लभते । त्वयि मृते त्वत्पित्रादीनां किं सुखं स्यादिति भावः ॥४॥

राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते॥५॥

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।
मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते॥६॥

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः ।
अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया॥७॥

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना ।
भक्तोऽयं परया भक्त्या मामित्येव महाभुज॥८॥

ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ।
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् ।
अतश्च त्वां ब्रवीम्येतत् क्रियतामविशङ्कया॥९॥

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ ।
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्॥१०॥

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् ।
माऽस्मै ते कुण्डले दद्या भिक्षते वज्रपाणिना॥११॥

शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते ।
विशाखयोर्मध्यगतः शशीव विमले दिवि॥१२॥

विशाखयोः विशाखानक्षत्रस्य द्वे भास्वरे तारे तयोर्मध्ये गतः पूर्णचन्द्रः ॥१२॥

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् ।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः॥१३॥

शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ ।
विहन्तुं देवराजस्य हेतुयुक्तैः पुनःपुनः॥१४॥

हेतुमदुपपन्नार्थैर्माधुर्यकृतभूषणैः ।
पुरन्दरस्य कर्ण त्वं बुद्धिमेतामपानुद॥१५॥

विहन्तुं शक्येति सम्बन्धः । हेतुर्जीवनादिप्रदर्शनं तद्युक्तैः हेतुर्युक्तिस्तद्वन्ति च उपपन्नार्थानि हेत्वाभासरहितानि च तैः ‘सवत एवात्मानं गोपायेत्’ ‘न सर्पायांगुलिं दद्यात्’ ‘शरीरमाद्यं खलु धर्मसाधनम्’ इत्यादिभिर्वाक्यैः ॥१५॥

त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना ।
सव्यसाची त्वया चेह युधि शूरः समेष्यति॥१६॥

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् ।
विजेतुं युधि यद्यस्य स्वयामिन्द्रः सखा भवेत्॥१७॥

तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे ।
सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्॥१८॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे एकाधिकत्रिशततमोऽध्यायः॥३०१॥
द्व्यधिकत्रिशततमोऽध्यायः

कर्ण उवाच। भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथञ्चन॥१॥

भगवन्तमिति ॥१॥

न मे दारा न मे पुत्रा न चात्मा सुहृदो न च ।
तथेष्ठा वै सदा भक्त्या यथा त्वं गोपते मम॥२॥

इष्टानां च महात्मानो भक्तानां च न संशयः ।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर॥३॥

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि ।
जानीत इति वै कृत्वा भगवानाह मद्धितम्॥४॥

भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः ।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि॥५॥

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्॥६॥

प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ।
यच्च मामात्थ देव त्वं पाण्डवं फाल्गुनं प्रति॥७॥

व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ।
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम्॥८॥

तवापि विदितं देव ममाप्यस्त्रबलं महत् ।
जामदग्न्यादुपात्तं यत् तथा द्रोणान्महात्मनः॥९॥

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।
भिक्षते वाज्रिणे दद्यामपि जीवितमात्मनः॥१०॥

सूर्य उवाच। यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।
त्वमप्येनमथो ब्रूया विजयार्थं महाबलम्॥१॥

भगवन्तमिति ॥१॥

नियमेन प्रदद्यां ते कुण्डले वै शतक्रतो ।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः॥१२॥

अर्जुनेन विनाशं हि तव दानवसूदनः ।
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति॥१३॥

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।
अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम्॥१४॥

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् ।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्॥१५॥

इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले ।
तया त्वं कर्ण सङ्ग्रामे हनिष्यास रणे रिपून्॥१६॥

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः॥१७॥

वैशम्पायन उवाच। एवमुक्त्वा सहस्त्रांशुः सहसाऽन्तरधीयत ।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्॥१८॥

यथा दृष्टं यथातत्वं यथोक्तमुभयोर्निशि ।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा॥१९॥

अस्मै सूर्याय वृषः कर्णः ॥१९॥

तच्छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव॥२०॥

स्वर्भानुसूदनः राहुदमनः ॥२०॥

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा ।
शक्तिमेवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत्॥२१॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे द्व्यधिकत्रिशततमोऽध्यायः॥३०२॥
त्र्यधिकत्रिशततमोऽध्यायः

जनमेजय उवाच। कि तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्॥१॥

किं तद्गुह्यमिति ॥१॥

कुतश्च कवचं तस्य कुण्डले चैव सत्तम ।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन॥२॥

वैशम्पायन उवाच। अयं राजन् ब्रवीम्येतत् तस्य गुहां विभावसोः ।
यादृशे कुण्डले ते च कवचं चैव यादृशम्॥३॥

कुन्तिभोजं पुरा राजन् ब्राह्मणः पर्युपस्थितः ।
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः॥४॥

दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।
मधुपिङ्गो मधुरवाक् तपःस्वाध्यायभूषणः॥५॥

स राजानं कुन्तिभोजमब्रवीत् सुमहातपाः ।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर॥६॥

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः ।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ॥७॥

यथाकामं च गच्छेयमागच्छेयं तथैव च ।
शय्यासने च मे राजन्नापराध्येत कश्चन॥८॥

तमब्रवीत् कुन्तिभोजः प्रीतियुक्तमिदं वचः ।
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्॥९॥

मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी ।
शीलवृत्तान्विता साध्वी नियता चैव भाचिनी॥१०॥

उपस्थास्यति सा त्वां वै पूजयाऽनवमन्य च ।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि॥११॥

अनवमन्य अवमानमकृत्वा ॥११॥

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्॥१२॥

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्॥१३॥

वस्तुं वासं कर्तुम् ॥१३॥

त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् ।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्॥१४॥

पराश्वस्य परमाश्वासं कृत्वा अभिराधनं कर्तुमिति शेषः ॥१४॥

अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः ।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात्॥१५॥

ब्राह्मणो हि परं तेजो ब्राह्मणो हि परं तपः ।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते॥१६॥

अमानयन् हि मानार्हान् वातापिश्च महासुरः ।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च॥१७॥

सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् ।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्॥१८॥

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह॥१९॥

प्रणिधानं चित्तैकाग्र्यम् ॥१९॥

तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु ।
मयि चैव यथावत् त्वं सर्वमावृत्य वर्तसे॥२०॥

आवृत्य व्याप्य ॥२०॥

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि॥२१॥

सन्देष्टत्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।
पृथे बालेति कृत्वा वै सुता चासि ममेति च॥२२॥

वृष्णीनां च कुले जाता शूरस्य दयिता सुता ।
दृता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्॥२३॥

वसुदेवस्य भगिनी सुतानां प्रवरा मम ।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम॥२४॥

अग्र्यमग्रे देयम् । मया प्रथममपत्यं तुभ्यं देयमिति प्रतिज्ञातमित्यर्थः ॥२४॥

तादृशे हि कुले जाता कुले चैव विवर्धिता ।
सुखात् सुखमनुप्राप्ता ह्रदाद्ध्रादामिवागता॥२५॥

दौष्कुलेया विशेषेण कथञ्चित् प्रग्रहं गताः ।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे॥२६॥

दौष्कुलेयाः दुष्कुले जाताः । प्रग्रहं निर्बन्धं गताः प्राप्ताः विकुर्वन्ति दौष्ट्यं कुर्वन्ति ॥२६॥

पृथे राजकुले जन्म रूपं चापि तवाद्भुतम् ।
तेन तेनासि सम्पन्ना समुपेता च भाविनी॥२७॥

सा त्वं दर्पं परित्यज्य दम्भं मानं च भाविनि ।
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे॥२८॥

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।
कोपिते च द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्॥२९॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथोपदेशे त्र्यधिकत्रिशततमोऽध्यायः॥३०३॥
चतुरधिकत्रिशततमोऽध्यायः

कुन्त्युवाच। ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया ।
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्॥१॥

ब्राह्मणमिति । यन्त्रिता नियमयुक्ता ॥१॥

एष चैव स्वभावो मे पूजयेयं द्विजानिति ।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम॥२॥

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि ।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति॥३॥

लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् ।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम॥४॥

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः ।
वसन् प्राप्स्यत्ति ते गेहे सत्यमेतद्ब्रवीमि ते॥५॥

विस्रब्धो विश्वस्तः । व्यलीकमप्रियम् ॥५॥

यत्प्रियं च द्विजरयास्य हितं चैव तवानघ ।
यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः॥६॥

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते ।
तारणाय समर्थाः स्युर्विपरीते वधाय च॥७॥

साऽहमेतद्द्विजानन्ती तोषयिष्ये द्विजोत्तमम् ।
न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात्॥८॥

अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः ।
भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा॥९॥

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् ।
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति॥१०॥

एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च ।
इति चेति च कर्तव्यं राजा सर्वमथादिशत्॥११॥

राजोवाच। एवमेतत् त्वया भद्रे कर्तव्यमविशङ्कया ।
मद्धितार्थं तथाऽऽत्मार्थं कुलार्थं चाप्यनिन्दिते॥१२॥

एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः ।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः॥१३॥

इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता ।
अपराध्येत यत् किञ्चिन्न कार्यं हृदि तत् त्वया॥१४॥

द्विजातयो महाभागा वृद्धबालतपस्विषु ।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा॥१५॥

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः ।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम॥१६॥

तथेति ब्राह्मणेनोक्त स राजा प्रीतमानसः ।
हंसचन्द्रांशुसङ्काशं गृहमस्मै न्यवेदयत्॥१७॥

तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत् ।
आहारादि च सर्वं तत् तथैव प्रत्यवेदयत्॥१८॥

अग्निशरणे अग्न्यगारे ॥१८॥

निक्षिप्य राजपुत्री तु तर्न्द्रा मानं तथैव च ।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने॥१९॥

तन्द्रीमालस्यम् ॥१९॥

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती ।
विधिवत् परिचारार्हं देववत् पर्यतोषयत्॥२०॥

परिचारार्हं पूजार्हम् ॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथाद्विजपरिचर्यायां चतुरधिकत्रिशततमोऽध्यायः॥३०४॥
पञ्चाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् ।
तोषयामास शुद्धेन मनसा संशितव्रता॥१॥

सा त्विति ॥१॥

प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः ।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः॥२॥

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः ।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा॥३॥

प्रतिश्रयैः आश्रयैः शयनासनाद्यैः ॥३॥

अन्नादिसमुदाचारः शय्यासनकृतस्तथा ।
दिवसे दिवसे तस्य वर्धते न तु हीयते॥४॥

अन्नादिना समुदाचारः समुपसर्पणम् ॥४॥

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।
ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा॥५॥

निर्भर्त्सनं धिक्कारः अपवादोऽन्नादेर्दूषणम् । पाठान्तरेऽपदेशो व्याजः अप्रियया गालनरूपया॥५॥

व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः ।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्॥६॥

कृतमेव च तत् सर्वं यथा तस्मै न्यवेदयत् ।
शिष्यवत् पुत्रवच्चैव स्वसृवच्च सुसंयता॥७॥

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा ।
प्रीतिमुत्पाद्यामास कन्यारत्नमनिन्दिता॥८॥

यथोपजोषं प्रियमनतिक्रम्य ॥८॥

तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः ।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्॥९॥

शीलं शमादि । वृत्तं परिचर्या अवधानम् ऐकाग्र्यम् । एतैस्तुतोष । यद्वा अस्याः पृथायाः श्रेयोर्थमवधानेन समाधिकाले यत्नमकरोत् । यत्नेन तस्याः कल्याणं चिन्तितवानित्यर्थः ॥९॥

तां प्रभाते च सायं च पिता पप्रच्छ भारत ।
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया॥१०॥

तं सा परममित्येव प्रत्युवाच यशस्विनी ।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः॥११॥

ततः संवत्सरे पूर्णे यदाऽसौ जपतां वरः ।
नापश्यद्दुष्कृतं किञ्चित् पृथायाः सौहृदे रतः॥१२॥

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् ।
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे॥१३॥

वरान् वृणीष्व कल्याणि दुरापान् मानुषैरिह ।
यैस्त्वं सीमन्तिनीः सर्वा यशसाऽभिभविष्यसि॥१४॥

कुन्त्युवाच। कृतानि मम सर्वाणि यस्या मे वेदवित्तम ।
त्वं प्रसन्नः पिता चैव कृतं विप्रवरैर्मम॥१५॥

ब्राह्मण उवाच। यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते ।
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्॥१६॥

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति॥१७॥

अकामो वा सकामो वा स समेष्यति ते वशे ।
विबुधो मन्त्रसंशान्तो भवेद्भृत्य इवानतः॥१८॥

वैशम्पायन उवाच। न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता ।
तं वै द्विजातिप्रवरं तदा शापमयान्नृप॥१९॥

द्वितीयं द्वितीयवारम् ॥१९॥

ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः ।
मन्त्रग्रामं तदा राजन्नथर्वाशरसि श्रुतम्॥२०॥

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह ।
उषितोऽस्मि सुखं राजन् कन्यया परितोषितः॥२१॥

विहितः विधानतः विशेषेण हितस्तृप्तो वा ॥२१॥

तव गेहेषु विहितः सदा सुप्रतिपूजितः ।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत॥२२॥

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा ।
बभूव विस्मयाविष्टः पृथां च समपूजयत्॥२३॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथाया मन्त्रप्राप्तौ पञ्चाधिकत्रिशततमोऽध्यायः॥३०५॥
षडधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। गते तस्मिन् द्विजश्रेष्ठे कस्मिंश्चित्कारणान्तरे ।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्॥१॥

गते इति ॥१॥

अयं वै कीदृशस्तेन मम दत्तो महात्मना ।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति॥२॥

एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया ।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला॥३॥

ऋतुं रजः ॥३॥

ततो हर्म्यतलस्था सा महार्हशयनोचिता ।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम्॥४॥

तत्र बद्धमनोदृष्टिरभवत् सा सुमध्यमा ।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा॥५॥

तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम् ।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्॥६॥

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप ।
आह्वानमकरोत् साऽथ तस्य देवस्य भाविनी॥७॥

प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम् ।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः॥८॥

प्राणान् इन्द्रियाणि चक्षुःश्रोत्रादीनि उपस्पृश्य जलेन सम्यगाचम्येत्यर्थः ॥८॥

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव ।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव॥९॥

योगात् कृत्वा द्विधाऽऽत्मानमाजगाम तताप च ।
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना॥१०॥

आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः ।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते॥११॥

वशं कामम् ॥११॥

कुन्त्युवाच। गम्यतां भगवंस्तत्र यत एवागतो ह्यसि ।
कौतूहलात् समाहूतः प्रसीद भगवन्निति॥१२॥

सूर्य उवाच। गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे ।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा॥१३॥

यथाहं गमिष्ये तथा मा मां ब्रवीषि । न तु तद्योग्यमित्याह न त्विति । वृथा प्रसादमप्राप्य ॥१३॥

तवाभिसन्धिः सुभगे सूर्यात् पुत्रो भवेदिति ।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च॥१४॥

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि ।
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने॥१५॥

अथ गच्छाम्यहं भद्रे त्वया सङ्गम्य सुस्मिते ।
यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम्॥१६॥

शपिष्ये त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ।
त्वत्कृते तान् प्रधक्ष्यामि सर्वानपि न संशयः॥१७॥

ब्राह्मणं दुर्वाससम् ॥१७॥

पितरं चैत्र ते मूढं यो न वेत्ति तवानयम् ।
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव॥१८॥

शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ।
एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि॥१९॥

विनयं दण्डं धास्यामि धारयिष्यामि ॥१९॥

त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भाविनि ।
पश्य चैनान् सुरगणान् दिव्यं चक्षुरिदं हि ते ।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्॥२०॥

वैशम्पायन उवाच। ततोऽपश्यत् त्रिदशान् राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु स्वस्थान् ।
प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव च॥२१॥

सा तान् दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता ।
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः॥२२॥

अपचारोऽपराधः कृतः ॥२२॥

पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने ।
नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा॥२३॥

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।
बाल्याद्वालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो॥२४॥

सूर्य उवाच। बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत ।
आत्मप्रदानं कुरु कुन्ति कन्ये शांतिस्तवैवं हि भवेच्च भीरु॥२५॥

न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै ।
असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि॥२६॥

गमिष्याम्यनवद्याङ्गि लोके समवहारयताम् ।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे॥२७॥

सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् ।
विशिष्टा सर्वलोकेषु भविष्यसि न संशयः॥२८॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्याह्वाने षडधिकत्रिशततमोऽध्यायः॥३०६॥
सप्ताधिकत्रिशततमोऽध्यायः

वैशंपायन उवाच। सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी॥१॥

सा तु कन्येति ॥१॥

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् ।
भीता शापात् ततो राजन् दध्यौ दीर्घमथान्तरम्॥२॥

दध्यौ चिन्तितवती अन्तरं कालम् ॥२॥

अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।
मान्निमित्तः कथं न स्यात् क्रुद्धादस्माद्विमावसोः॥३॥

बालेनापि सता मोहाद्भृशं पापकृतान्यपि ।
नाभ्यासादयितव्यानि तेजांसि च तपांसि च॥४॥

बालेन अल्पवयसाऽपि सता साधुना मोहात् चित्तपारवश्यात् पापं कृतं हिसितं यैस्तानि निष्पापान्यपि तेजांसि सूर्यादीनि । तपांसि दुर्वासआदी । नाभ्यासादयितव्यानि अत्यन्तं प्रत्यासत्तिविषयाणि न कर्तव्यानि ॥४॥

साऽहमद्य भृशं भीता गृहीत्वा च करे भृशम् ।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्॥५॥

वैशम्पायन उवाच। सा वै शापपरित्रस्ता बहु चिन्तयती हृदा ।
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः॥६॥

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।
व्रीडाविह्वलया वाचा शापत्रस्ता विशाम्पते॥७॥

बन्धूनां सखीनां ताभ्य इत्यर्थः ॥७॥

कुन्त्युवाच। पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्॥८॥

ध्रियते जीवति ॥८॥

त्वया तु सङ्गमो देव यदि स्याद्विधिवर्जितः ।
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत् ततः॥९॥

नशेत् नश्येत् ॥९॥

अथवा धर्ममेतं त्वं मन्यसे तपतां वर ।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्॥१०॥

आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्यहम् ।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्॥११॥

सूर्य उवाच। न ते पिता न ते माता गुरुवो वा शुचिस्मिते ।
प्रभवन्ति वरारोहे भन्द्रं ते शृणु मे वचः॥१२॥

प्रभवन्ति स्वाम्यमर्हन्ति ॥१२॥

सर्वान् कामयते यस्मात् कमेर्धातोश्च भाविनि ।
तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि॥१३॥

कामयते सर्वानिति कन्येति कन्याशब्दनिर्वचनम् ॥१३॥

नाधर्मश्चरितः कश्चित् त्वया भवति भाविनि ।
अधर्मं कुत एवाऽहं वरेयं लोककाम्यया॥१४॥

तत्र हेतुः लोककाम्यया लोकप्रियया कामवत्तया ॥१४॥

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः॥१५॥

अन्यो विवाहनियमादिर्विकारः ॥१५॥

सा मया सह सङ्गम्य पुनः कन्या भविष्यसि ।
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः॥१६॥

कुन्त्युवाच। यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोनुद ।
कुण्डली कवची शूरो महाबाहुर्महाबलः॥१७॥

सूर्य उवाच। भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् ।
उभयं चामृतमयं तस्य भद्रे भविष्यति॥१८॥

अमृतमयं सहजं वर्म ॥१८॥

कुन्त्युवाच। यद्येतदमृतादास्त कुण्डले वर्म चोत्तमम् ।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि॥१९॥

अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया ।
त्वद्वीर्यरूपसत्वौजा धर्मयुक्तो भवेत् स च॥२०॥

सूर्य उवाच। अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्॥२१॥

कुन्त्युवाच। परमं भगवन्नेवं सङ्गमिष्ये त्वया सह ।
यदि पुत्रो भवेदेवं यथा वदसि गोपते॥२२॥

वैशम्पायन उवाच। तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः ।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्॥२३॥

ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा ।
पपात चाथ सा देवी शयने मूढचेतना॥२४॥

सूर्य उवाच। साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि ।
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि॥२५॥

वैशम्पायन उवाच। ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्॥२६॥

प्रस्थितं सङ्गमायोपक्रान्तम् ॥२६॥

इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा ।
तस्मिन् पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव॥२७॥

तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार ।
न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवाथ बाला॥२८॥

आत्मसंस्थां वचनवशामेनां न दूषयामास कन्यात्वस्थापनेनेति शेषः ॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकुन्तीसमागमे सप्ताधिकत्रिशततमोऽध्यायः॥३०७॥
अष्टाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। ततो गर्भः समभवत् पृथायाः पृथिवीपते ।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे॥१॥

तत इति । दशोत्तरे एकादशे शुक्ले पक्षे प्रतिपदि चन्द्र झ्व बाल उद्भूतः माघशुक्लप्रतिपदि कर्णनिषेकजन्मेत्यर्थः ॥१॥

सा बान्धवभयाद्बाला गर्भं तं विनिगूहती ।
धारयामास सुश्रोणी न चैनां बुबुधे जनः॥२॥

न हि तां वेद नार्यन्या काचिद्धात्रेयिकासृते ।
कन्यापुरगतां बालां निपुणां परिरक्षणे॥३॥

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्॥४॥

तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम् ।
हर्यक्षं वृषभस्कन्धं यथाऽस्य पितरं तथा॥५॥

हर्यक्षं सिंहनेत्रम् ॥५॥

जातमात्रं च तं गर्भं धात्र्या सम्मन्त्र्य भाविनी ।
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः॥६॥

मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा ।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्॥७॥

मधूच्छिष्टं सिक्थकं मयनमितिभाषायाम् । तेन स्थितायां सर्वतो लिप्तायां मञ्जूषायां जलप्रवेशो न भवेदित्यर्थः ॥७॥

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।
पुत्रस्नेहेन सा राजन् करुणं पर्यदेवयत्॥८॥

समुत्सृजन्ती मञ्जूषामश्वनद्यां तदा जले ।
उवाच रुदती कुन्ती यानिः वाक्यानि तच्छृणु॥९॥

स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक ।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये॥१०॥

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।
आगताश्च तथा पुत्र भवन्त्वद्रोहचेतसः॥११॥

पातु त्वां वरुणो राजा सलिले सलिलेश्वरः ।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा॥१२॥

पिता त्वां पातु सर्वत्र तपनस्तपतां वरः ।
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल॥१३॥

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः॥१४॥

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।
वेत्स्यामि त्वां विदेशेऽपि कवचेनाभिसूचितम्॥१५॥

धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः ।
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्॥१६॥

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।
यस्यास्त्वं तृषितः पुत्रस्तनं पास्यसि देवज॥१७॥

को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्॥१८॥

पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम् ।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति॥१९॥

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्॥२०॥

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम् ।
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा॥२२॥

एवं बहुविधं राजन् विलप्य करुणं पृथा ।
अवासृजत मञ्जूषामश्वनद्यां तदा जले॥२२॥

रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा ।
धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा॥२३॥

विसर्जयित्वा मञ्जूषां सम्बोधनभयात् पितुः ।
विवेश राजभवनं पुनः शोकातुरा ततः॥२४॥

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् ।
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह॥२५॥

गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम् ।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः॥२६॥

अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम् ।
धारयामास तं गर्भं दैवं च विधिनिर्मितम्॥२७॥

दैवं देवजं विधिनाम् ईश्वरेण निर्मित्तम् ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि कर्णपरित्यागे अष्टाधिकत्रिशततमोऽध्यायः॥३०८॥
नवाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।
सुतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ॥१॥

एतस्मिन्निति ॥१॥

तस्य भार्याऽभवद्राजन् रूपेणासदृशी भुवि ।
राधा नाम महाभागा न सा पुत्रमविन्दत॥२॥

अपत्यार्थे परं यत्नमकरोच्च विशेषतः ।
सा ददर्शाथ मञ्जूषागुह्यमानां यदृच्छया॥३॥

दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ।
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्॥४॥

दत्तो रक्षार्थं प्रतिसरो दूर्वाकङ्कणादिरूपो यस्यां ताम् । अन्वालम्भनं कुङ्कुमहस्तदानम् उपह्वरं समीपम् ॥४॥

सा तु कौतूहलात् प्राप्तां ग्राहयामास भाविनी ।
ततो निवेदयामास सूतस्याधिरथस्य वै॥५॥

सं तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।
यन्त्रैरुद्घाटयामास सोऽपश्यत् तत्र बालकम्॥६॥

उत्सार्य परतो नीत्वा ॥६॥

तरुणादित्यसङ्काशं हेमवर्मधरं तथा ।
मृष्टकुण्डलयुक्तेन वदनेन विराजता॥७॥

स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्॥८॥

इदमत्यद्भुतं भीरु यत्तो जातोऽस्मि भाविनी ।
दृष्टवान् देवगर्भोऽयं मन्येऽस्माकमुपागतः॥९॥

यतो जातोऽस्मि उत्पत्तिदिनादारभ्याद्यैवेदमद्भुतं दृष्टम् ॥९॥

अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते॥१०॥

प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्॥११॥

पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।
ततःप्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः॥१२॥

वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः॥१३॥

वसुवर्म स्वर्णकवचम् ॥१३॥

एवं स सूतपुत्रत्वं जगामामितविक्रमः ।
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः॥१४॥

सूतस्य ववृधेऽङ्गेषु श्रेष्ठः पुत्रः स वीर्यवान् ।
चारेण विदितश्चासीत् पृथया दिव्यवर्मभृत्॥१५॥

अङ्गेषु जनपदविशेषेषु ॥१५॥

सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम् ।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्॥१६॥

तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत् स च वीर्यवान्॥१७॥

उपसदनं गुरूपसदनम् ॥१७॥

द्रोणात् कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।
लब्ध्वा लोकेऽभवत् ख्यातः परमेष्वासतां गतः॥१८॥

परमेष्वासतां महाधनुर्धरताम् ॥१८॥

सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः ।
योद्धुमाशंसते नित्यं फाल्गुनेन महात्मना॥१९॥

सदा हि तस्य स्पर्धाऽऽसीदर्जुनेन विशाम्पते ।
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः॥२०॥

यतः काले दृष्टः ॥२०॥

एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः ।
यः सूर्यसम्भवः कर्णः कुन्त्यां सूतकुले तथा॥२१॥

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः॥२२॥

यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिलोत्थितः॥२३॥

तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु॥२४॥

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः ।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत॥२५॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि राधाकर्णप्राप्तौ नवाधिकत्रिशततमोऽध्यायः॥३०९॥
दशाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। देवराजमनुप्राप्तं ब्राह्मणच्छाद्मना वृतम् ।
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्॥१॥

देवराजामति ॥१॥

हिरण्यकण्ठीः प्रमदा ग्रामान् वा बहुगोकुलान् ।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः॥२॥

ब्राह्मण उवाच। हिरण्यकण्ठ्यः प्रमदा यच्चान्यत् प्रीतिवर्धनम् ।
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्॥३॥

यदेतत्सहजं वर्म कुण्डले च तवानघ ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्॥४॥

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप ।
एष मे सर्वलाभानां लाभः परमको मतः॥५॥

कर्ण उवाच। अवनिं प्रमदा गाश्च निवापं बहुवार्षिकम् ।
तप्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम्॥६॥

अवनिं गृहार्थं निवापं न्युप्यते बीजमस्मिन्निति क्षेत्रं बहुवार्षिकं यावज्जीविकवृत्तिरूपम् ॥६॥

वैशम्पायन उवाच। एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः ।
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत॥७॥

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि ।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम्॥८॥

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः ।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव॥९॥

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।
तेनावध्योऽस्मि लोकेषु ततो नैतज्जहाम्यहम्॥१०॥

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव॥११॥

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च ।
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम॥१२॥

गमनीयो वंध्यः ॥१२॥

वैशम्पायन उवाच। यदन्यं न वरं वव्रे भगवान् पाकशासनः ।
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः॥१३॥

विदितो देवदेवेश प्रागेवासि मम प्रभो ।
न तु न्याय्यं मया दातुं तव शक्यं वृथा वरम्॥१४॥

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्॥१५॥

यदि दास्यामि ते देव कुण्डले कवचं तथा ।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्॥१६॥

त्तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् ।
हरस्व शक्र कामं मे न दद्यामहमन्यथा॥१७॥

शक्र उवाच। विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम् ।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः॥१८॥

आयानेव आगच्छन्नेव ॥१८॥

काममस्तु तथा तात तव कर्ण यथेच्छसि ।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि॥१९॥

वैशम्पायन उवाच। ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् ।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः॥२०॥

कर्ण उवाच। वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।
अमोघां शत्रुसङ्घानां घातिनीं पृतनामुखे॥२१॥

ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः ।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्॥२२॥

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् ।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च॥२३॥

अमोघा हन्ति शतशः शत्रून् मम करच्युता ।
पुनश्च पाणिमभ्येति मम दैत्यान् विनिघ्नतः॥२४॥

सेयं तव करप्राप्ता हत्वैकं रिपुमूर्जितम् ।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज॥२५॥

कर्ण उवाच। एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्॥२६॥

इन्द्र उवाच। एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना॥२७॥

यमाहुर्वेदविद्वांसो वरार्हमपराजितम् ।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते॥२८॥

कर्ण उवाच। एवमप्यस्तु भगवन्नेकवीरवधे मम ।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्॥२९॥

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्॥३०॥

इन्द्र उवाच। न ते बीभत्सता कर्ण भविष्यति कथञ्चन ।
व्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि॥३१॥

यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर ।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः॥३२॥

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति॥३३॥

कर्ण उवाच। संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते॥३४॥

वैशम्पायन उवाच। ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशाम्पते ।
शस्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत॥३५॥

ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम् ।
दृष्ट्वा सर्वे सिंहनादान् प्रणेदुर्न ह्यस्यासीन्मुखजो वै विकारः॥३६॥

ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यस् ।
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम्॥३७॥

ततश्छित्वा कवचं दिव्यमङ्गास्तथैवार्द्रं प्रददौ वासवाय ।
तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात् कर्मणा तेन कर्णः॥३८॥

कृणाति हिनस्ति कृन्तति छिनत्ति वा अङ्गानीति कर्ण इत्यर्थः ॥३८॥

ततः शक्रः प्रहसन् वञ्चयित्वा कर्णं लोके यशसा योजयित्वा ।
कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात॥३९॥

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् ।
तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृषुः काननस्थाः॥४०॥

जनमेजय उवाच। क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत् ।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वे भगवान् व्याकरोतु॥४१॥

वैशम्पायन उवाच। लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकाशुश्रमात्ते ।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण॥४२॥

इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि कवचकुण्डलदाने दशाधिकत्रिशततमोऽध्यायः॥३१०॥
समाप्तं कुण्डलाहरणपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in