जनमेजय उवाच।
यत् तत्तदा महद्ब्रह्मन् लोमशो वाक्यमब्रवीत्
।
इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्॥१॥
यत्तदिति ॥१॥
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्
।
तच्चाप्यपहरिष्यामि धनञ्जय इतो गते॥२॥
किं नु तज्जपतां श्रेष्ठ कर्णं प्रति महद्भयम्
।
आसीन्न च स धर्मात्मा कथयामास कस्यचित्॥३॥
वैशम्पायन उवाच।
अयं ते राजशार्दूल कथयामि कथामिमाम्
।
पृच्छतो भरतश्रेष्ठ शुश्रूषरव गिरं मम॥४॥
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे
।
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितृमुद्यतः॥५॥
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः
।
कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः॥६॥
विभावसुः विशिष्टा भाः दीप्तिः सैव वसु धनं यस्य तादृशः सूर्यः ॥६॥
महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते
।
शयानमतिमिश्वस्तं ब्रह्मण्यं सत्यवादिनम्॥७॥
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्
।
कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत॥८॥
स्वप्नान्ते स्वप्नमध्ये ॥८॥
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्धिरूपवान्
।
हितार्थमन्ब्रवीत् कर्णं सान्त्वपूर्वमिदं वचः॥९॥
कर्ण मद्वचनं तात शृणु सत्यभृतां वर
।
ब्रुवतोऽद्य महाबाहो सौहृदात् परमं हितम्॥१०॥
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया
।
ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया॥११॥
विदितं तेन शीलं ते सर्वस्य जगतस्तथा
।
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे॥१२॥
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम्
।
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित्॥१३॥
त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः
।
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्॥१४॥
तस्मै प्रयाचमानाय न देये कुण्डले त्वया
।
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्॥१५॥
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया
।
अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनः पुनः॥१६॥
रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि
।
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरन्दरः॥१७॥
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे
।
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि॥१८॥
कवचेन समायुक्तः कुण्डलाभ्यां च मानद
।
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम॥१९॥
अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम्
।
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव॥२०॥
कर्ण उवाच।
को मामेवं भवान् प्राह दर्शयन् सौहृदं परम्
।
कामया भगवन् ब्रूहि को भवान् द्विजवेषधृक्॥२१॥
ब्राह्मण उवाच।
अहं तात सहस्त्रांशुः सौहृदात्त्वां निदर्शये
।
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते॥२२॥
कर्ण उवाच।
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः
।
प्रवक्ताऽद्य हितान्वेषी शृणु चेदं वचो मम॥२३॥
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्
।
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः॥२४॥
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्रं विभावसो
।
यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्॥२५॥
यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मना वृतः
।
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्॥२६॥
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्
।
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता॥२७॥
मद्विधस्य यशस्यं हि न युक्तं प्राणरक्षणम्
।
युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्॥२८॥
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा
।
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति॥२९॥
हितार्थं पाण्डुपुत्राणां कुण्डले में प्रयाचितुम्
।
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति॥३०॥
वृणोमि कीर्तिं लाके हि जीवितेनापि भानुमन्
।
कीर्तिमानश्रुते स्वर्गं हीनकीर्तिस्तु नश्यति॥३१॥
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत्
।
अकीर्तिर्जीवितं हन्ति जवितोऽपि शरीरिणः॥३२॥
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो
।
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह॥३३॥
पुरुषस्य परे लोके कीर्तिरेव परायणम्
।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्द्धनी॥३४॥
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्
।
दत्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि॥३५॥
हुत्वा शरीरं सङ्ग्रामे कृत्वा कम सुदुष्करम्
।
विजित्य च परानाजौ यशः प्राप्स्यामि केवलम्॥३६॥
भीतानामभयं दत्वा सङ्ग्रामे जीवितार्थिनाम्
।
वृद्धान् बालान्द्विजातींश्च मोक्षयित्वा महाभयात्॥३७॥
प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम्
।
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम्॥३८॥
सोऽहं दत्वा मघवते भिक्षामेतामनुत्तमाम्
।
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम्॥३९॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे त्रिशततमोऽध्यायः॥३००॥
सूर्य उवाच।
माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा
।
पुत्राणामथ भार्याणामथो मातुरथो पितुः॥१॥
माऽहितमिति । अहितमिति छेदः ॥१॥
शरीरस्थाविरोधेन प्राणिनां प्राणभृद्वर
।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा॥२॥
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्
।
सा ते प्राणान् समादाय गमिष्यति न संशयः॥३॥
जीवतां कुरुते कार्यं पिता माता सुतास्तथा
।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन् पुरुषर्षभ॥४॥
जवितां पुत्रादीनां कार्यं प्रयोजनं परिष्वङ्गादिजं सुखं पित्रादिः कुरुते लभते । त्वयि मृते त्वत्पित्रादीनां किं सुखं स्यादिति भावः ॥४॥
राजानश्च नरव्याघ्र पौरुषेण निबोध तत्
।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते॥५॥
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः
।
मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते॥६॥
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः
।
अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया॥७॥
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना
।
भक्तोऽयं परया भक्त्या मामित्येव महाभुज॥८॥
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम
।
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम्
।
अतश्च त्वां ब्रवीम्येतत् क्रियतामविशङ्कया॥९॥
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ
।
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्॥१०॥
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्
।
माऽस्मै ते कुण्डले दद्या भिक्षते वज्रपाणिना॥११॥
शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते
।
विशाखयोर्मध्यगतः शशीव विमले दिवि॥१२॥
विशाखयोः विशाखानक्षत्रस्य द्वे भास्वरे तारे तयोर्मध्ये गतः पूर्णचन्द्रः ॥१२॥
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्
।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः॥१३॥
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ
।
विहन्तुं देवराजस्य हेतुयुक्तैः पुनःपुनः॥१४॥
हेतुमदुपपन्नार्थैर्माधुर्यकृतभूषणैः
।
पुरन्दरस्य कर्ण त्वं बुद्धिमेतामपानुद॥१५॥
विहन्तुं शक्येति सम्बन्धः । हेतुर्जीवनादिप्रदर्शनं तद्युक्तैः हेतुर्युक्तिस्तद्वन्ति च उपपन्नार्थानि हेत्वाभासरहितानि च तैः ‘सवत एवात्मानं गोपायेत्’ ‘न सर्पायांगुलिं दद्यात्’ ‘शरीरमाद्यं खलु धर्मसाधनम्’ इत्यादिभिर्वाक्यैः ॥१५॥
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना
।
सव्यसाची त्वया चेह युधि शूरः समेष्यति॥१६॥
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्
।
विजेतुं युधि यद्यस्य स्वयामिन्द्रः सखा भवेत्॥१७॥
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे
।
सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्॥१८॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे एकाधिकत्रिशततमोऽध्यायः॥३०१॥
कर्ण उवाच।
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते
।
तथा परमतिग्मांशो नास्त्यदेयं कथञ्चन॥१॥
भगवन्तमिति ॥१॥
न मे दारा न मे पुत्रा न चात्मा सुहृदो न च
।
तथेष्ठा वै सदा भक्त्या यथा त्वं गोपते मम॥२॥
इष्टानां च महात्मानो भक्तानां च न संशयः
।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर॥३॥
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि
।
जानीत इति वै कृत्वा भगवानाह मद्धितम्॥४॥
भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः
।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि॥५॥
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्
।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्॥६॥
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा
।
यच्च मामात्थ देव त्वं पाण्डवं फाल्गुनं प्रति॥७॥
व्येतु सन्तापजं दुःखं तव भास्कर मानसम्
।
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम्॥८॥
तवापि विदितं देव ममाप्यस्त्रबलं महत्
।
जामदग्न्यादुपात्तं यत् तथा द्रोणान्महात्मनः॥९॥
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम
।
भिक्षते वाज्रिणे दद्यामपि जीवितमात्मनः॥१०॥
सूर्य उवाच।
यदि तात ददास्येते वज्रिणे कुण्डले शुभे
।
त्वमप्येनमथो ब्रूया विजयार्थं महाबलम्॥१॥
भगवन्तमिति ॥१॥
नियमेन प्रदद्यां ते कुण्डले वै शतक्रतो
।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः॥१२॥
अर्जुनेन विनाशं हि तव दानवसूदनः
।
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति॥१३॥
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः
।
अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम्॥१४॥
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्
।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्॥१५॥
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले
।
तया त्वं कर्ण सङ्ग्रामे हनिष्यास रणे रिपून्॥१६॥
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः
।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः॥१७॥
वैशम्पायन उवाच।
एवमुक्त्वा सहस्त्रांशुः सहसाऽन्तरधीयत
।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्॥१८॥
यथा दृष्टं यथातत्वं यथोक्तमुभयोर्निशि
।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा॥१९॥
अस्मै सूर्याय वृषः कर्णः ॥१९॥
तच्छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः
।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव॥२०॥
स्वर्भानुसूदनः राहुदमनः ॥२०॥
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा
।
शक्तिमेवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत्॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकर्णसंवादे द्व्यधिकत्रिशततमोऽध्यायः॥३०२॥
जनमेजय उवाच।
कि तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
।
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्॥१॥
किं तद्गुह्यमिति ॥१॥
कुतश्च कवचं तस्य कुण्डले चैव सत्तम
।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन॥२॥
वैशम्पायन उवाच।
अयं राजन् ब्रवीम्येतत् तस्य गुहां विभावसोः
।
यादृशे कुण्डले ते च कवचं चैव यादृशम्॥३॥
कुन्तिभोजं पुरा राजन् ब्राह्मणः पर्युपस्थितः
।
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः॥४॥
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव
।
मधुपिङ्गो मधुरवाक् तपःस्वाध्यायभूषणः॥५॥
स राजानं कुन्तिभोजमब्रवीत् सुमहातपाः
।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर॥६॥
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः
।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ॥७॥
यथाकामं च गच्छेयमागच्छेयं तथैव च
।
शय्यासने च मे राजन्नापराध्येत कश्चन॥८॥
तमब्रवीत् कुन्तिभोजः प्रीतियुक्तमिदं वचः
।
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्॥९॥
मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी
।
शीलवृत्तान्विता साध्वी नियता चैव भाचिनी॥१०॥
उपस्थास्यति सा त्वां वै पूजयाऽनवमन्य च
।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि॥११॥
अनवमन्य अवमानमकृत्वा ॥११॥
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि
।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्॥१२॥
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति
।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्॥१३॥
वस्तुं वासं कर्तुम् ॥१३॥
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्
।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्॥१४॥
पराश्वस्य परमाश्वासं कृत्वा अभिराधनं कर्तुमिति शेषः ॥१४॥
अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः
।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात्॥१५॥
ब्राह्मणो हि परं तेजो ब्राह्मणो हि परं तपः
।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते॥१६॥
अमानयन् हि मानार्हान् वातापिश्च महासुरः
।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च॥१७॥
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम्
।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्॥१८॥
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि
।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह॥१९॥
प्रणिधानं चित्तैकाग्र्यम् ॥१९॥
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु
।
मयि चैव यथावत् त्वं सर्वमावृत्य वर्तसे॥२०॥
आवृत्य व्याप्य ॥२०॥
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते
।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि॥२१॥
सन्देष्टत्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति
।
पृथे बालेति कृत्वा वै सुता चासि ममेति च॥२२॥
वृष्णीनां च कुले जाता शूरस्य दयिता सुता
।
दृता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्॥२३॥
वसुदेवस्य भगिनी सुतानां प्रवरा मम
।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम॥२४॥
अग्र्यमग्रे देयम् । मया प्रथममपत्यं तुभ्यं देयमिति प्रतिज्ञातमित्यर्थः ॥२४॥
तादृशे हि कुले जाता कुले चैव विवर्धिता
।
सुखात् सुखमनुप्राप्ता ह्रदाद्ध्रादामिवागता॥२५॥
दौष्कुलेया विशेषेण कथञ्चित् प्रग्रहं गताः
।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे॥२६॥
दौष्कुलेयाः दुष्कुले जाताः । प्रग्रहं निर्बन्धं गताः प्राप्ताः विकुर्वन्ति दौष्ट्यं कुर्वन्ति ॥२६॥
पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्
।
तेन तेनासि सम्पन्ना समुपेता च भाविनी॥२७॥
सा त्वं दर्पं परित्यज्य दम्भं मानं च भाविनि
।
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे॥२८॥
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्
।
कोपिते च द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथोपदेशे त्र्यधिकत्रिशततमोऽध्यायः॥३०३॥
कुन्त्युवाच।
ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया
।
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्॥१॥
ब्राह्मणमिति । यन्त्रिता नियमयुक्ता ॥१॥
एष चैव स्वभावो मे पूजयेयं द्विजानिति
।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम॥२॥
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि
।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति॥३॥
लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान्
।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम॥४॥
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः
।
वसन् प्राप्स्यत्ति ते गेहे सत्यमेतद्ब्रवीमि ते॥५॥
विस्रब्धो विश्वस्तः । व्यलीकमप्रियम् ॥५॥
यत्प्रियं च द्विजरयास्य हितं चैव तवानघ
।
यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः॥६॥
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते
।
तारणाय समर्थाः स्युर्विपरीते वधाय च॥७॥
साऽहमेतद्द्विजानन्ती तोषयिष्ये द्विजोत्तमम्
।
न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात्॥८॥
अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः
।
भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा॥९॥
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्
।
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति॥१०॥
एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च
।
इति चेति च कर्तव्यं राजा सर्वमथादिशत्॥११॥
राजोवाच।
एवमेतत् त्वया भद्रे कर्तव्यमविशङ्कया
।
मद्धितार्थं तथाऽऽत्मार्थं कुलार्थं चाप्यनिन्दिते॥१२॥
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः
।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः॥१३॥
इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता
।
अपराध्येत यत् किञ्चिन्न कार्यं हृदि तत् त्वया॥१४॥
द्विजातयो महाभागा वृद्धबालतपस्विषु
।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा॥१५॥
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः
।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम॥१६॥
तथेति ब्राह्मणेनोक्त स राजा प्रीतमानसः
।
हंसचन्द्रांशुसङ्काशं गृहमस्मै न्यवेदयत्॥१७॥
तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत्
।
आहारादि च सर्वं तत् तथैव प्रत्यवेदयत्॥१८॥
अग्निशरणे अग्न्यगारे ॥१८॥
निक्षिप्य राजपुत्री तु तर्न्द्रा मानं तथैव च
।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने॥१९॥
तन्द्रीमालस्यम् ॥१९॥
तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती
।
विधिवत् परिचारार्हं देववत् पर्यतोषयत्॥२०॥
परिचारार्हं पूजार्हम् ॥२०॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथाद्विजपरिचर्यायां चतुरधिकत्रिशततमोऽध्यायः॥३०४॥
वैशम्पायन उवाच।
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्
।
तोषयामास शुद्धेन मनसा संशितव्रता॥१॥
सा त्विति ॥१॥
प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः
।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः॥२॥
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः
।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा॥३॥
प्रतिश्रयैः आश्रयैः शयनासनाद्यैः ॥३॥
अन्नादिसमुदाचारः शय्यासनकृतस्तथा
।
दिवसे दिवसे तस्य वर्धते न तु हीयते॥४॥
अन्नादिना समुदाचारः समुपसर्पणम् ॥४॥
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा
।
ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा॥५॥
निर्भर्त्सनं धिक्कारः अपवादोऽन्नादेर्दूषणम् । पाठान्तरेऽपदेशो व्याजः अप्रियया गालनरूपया॥५॥
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः
।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्॥६॥
कृतमेव च तत् सर्वं यथा तस्मै न्यवेदयत्
।
शिष्यवत् पुत्रवच्चैव स्वसृवच्च सुसंयता॥७॥
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा
।
प्रीतिमुत्पाद्यामास कन्यारत्नमनिन्दिता॥८॥
यथोपजोषं प्रियमनतिक्रम्य ॥८॥
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः
।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्॥९॥
शीलं शमादि । वृत्तं परिचर्या अवधानम् ऐकाग्र्यम् । एतैस्तुतोष । यद्वा अस्याः पृथायाः श्रेयोर्थमवधानेन समाधिकाले यत्नमकरोत् । यत्नेन तस्याः कल्याणं चिन्तितवानित्यर्थः ॥९॥
तां प्रभाते च सायं च पिता पप्रच्छ भारत
।
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया॥१०॥
तं सा परममित्येव प्रत्युवाच यशस्विनी
।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः॥११॥
ततः संवत्सरे पूर्णे यदाऽसौ जपतां वरः
।
नापश्यद्दुष्कृतं किञ्चित् पृथायाः सौहृदे रतः॥१२॥
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्
।
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे॥१३॥
वरान् वृणीष्व कल्याणि दुरापान् मानुषैरिह
।
यैस्त्वं सीमन्तिनीः सर्वा यशसाऽभिभविष्यसि॥१४॥
कुन्त्युवाच।
कृतानि मम सर्वाणि यस्या मे वेदवित्तम
।
त्वं प्रसन्नः पिता चैव कृतं विप्रवरैर्मम॥१५॥
ब्राह्मण उवाच।
यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते
।
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्॥१६॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
।
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति॥१७॥
अकामो वा सकामो वा स समेष्यति ते वशे
।
विबुधो मन्त्रसंशान्तो भवेद्भृत्य इवानतः॥१८॥
वैशम्पायन उवाच।
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता
।
तं वै द्विजातिप्रवरं तदा शापमयान्नृप॥१९॥
द्वितीयं द्वितीयवारम् ॥१९॥
ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः
।
मन्त्रग्रामं तदा राजन्नथर्वाशरसि श्रुतम्॥२०॥
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह
।
उषितोऽस्मि सुखं राजन् कन्यया परितोषितः॥२१॥
विहितः विधानतः विशेषेण हितस्तृप्तो वा ॥२१॥
तव गेहेषु विहितः सदा सुप्रतिपूजितः
।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत॥२२॥
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा
।
बभूव विस्मयाविष्टः पृथां च समपूजयत्॥२३॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि पृथाया मन्त्रप्राप्तौ पञ्चाधिकत्रिशततमोऽध्यायः॥३०५॥
वैशम्पायन उवाच।
गते तस्मिन् द्विजश्रेष्ठे कस्मिंश्चित्कारणान्तरे
।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्॥१॥
गते इति ॥१॥
अयं वै कीदृशस्तेन मम दत्तो महात्मना
।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति॥२॥
एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया
।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला॥३॥
ऋतुं रजः ॥३॥
ततो हर्म्यतलस्था सा महार्हशयनोचिता
।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम्॥४॥
तत्र बद्धमनोदृष्टिरभवत् सा सुमध्यमा
।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा॥५॥
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम्
।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्॥६॥
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप
।
आह्वानमकरोत् साऽथ तस्य देवस्य भाविनी॥७॥
प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम्
।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः॥८॥
प्राणान् इन्द्रियाणि चक्षुःश्रोत्रादीनि उपस्पृश्य जलेन सम्यगाचम्येत्यर्थः ॥८॥
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव
।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव॥९॥
योगात् कृत्वा द्विधाऽऽत्मानमाजगाम तताप च
।
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना॥१०॥
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः
।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते॥११॥
वशं कामम् ॥११॥
कुन्त्युवाच।
गम्यतां भगवंस्तत्र यत एवागतो ह्यसि
।
कौतूहलात् समाहूतः प्रसीद भगवन्निति॥१२॥
सूर्य उवाच।
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे
।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा॥१३॥
यथाहं गमिष्ये तथा मा मां ब्रवीषि । न तु तद्योग्यमित्याह न त्विति । वृथा प्रसादमप्राप्य ॥१३॥
तवाभिसन्धिः सुभगे सूर्यात् पुत्रो भवेदिति
।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च॥१४॥
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि
।
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने॥१५॥
अथ गच्छाम्यहं भद्रे त्वया सङ्गम्य सुस्मिते
।
यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम्॥१६॥
शपिष्ये त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते
।
त्वत्कृते तान् प्रधक्ष्यामि सर्वानपि न संशयः॥१७॥
ब्राह्मणं दुर्वाससम् ॥१७॥
पितरं चैत्र ते मूढं यो न वेत्ति तवानयम्
।
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव॥१८॥
शीलवृत्तमविज्ञाय धास्यामि विनयं परम्
।
एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि॥१९॥
विनयं दण्डं धास्यामि धारयिष्यामि ॥१९॥
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भाविनि
।
पश्य चैनान् सुरगणान् दिव्यं चक्षुरिदं हि ते
।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्॥२०॥
वैशम्पायन उवाच।
ततोऽपश्यत् त्रिदशान् राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु स्वस्थान्
।
प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव च॥२१॥
सा तान् दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता
।
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः॥२२॥
अपचारोऽपराधः कृतः ॥२२॥
पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने
।
नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा॥२३॥
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो
।
बाल्याद्वालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो॥२४॥
सूर्य उवाच।
बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत
।
आत्मप्रदानं कुरु कुन्ति कन्ये शांतिस्तवैवं हि भवेच्च भीरु॥२५॥
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै
।
असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि॥२६॥
गमिष्याम्यनवद्याङ्गि लोके समवहारयताम्
।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे॥२७॥
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम्
।
विशिष्टा सर्वलोकेषु भविष्यसि न संशयः॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्याह्वाने षडधिकत्रिशततमोऽध्यायः॥३०६॥
वैशंपायन उवाच।
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी॥१॥
सा तु कन्येति ॥१॥
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
।
भीता शापात् ततो राजन् दध्यौ दीर्घमथान्तरम्॥२॥
दध्यौ चिन्तितवती अन्तरं कालम् ॥२॥
अनागसः पितुः शापो ब्राह्मणस्य तथैव च
।
मान्निमित्तः कथं न स्यात् क्रुद्धादस्माद्विमावसोः॥३॥
बालेनापि सता मोहाद्भृशं पापकृतान्यपि
।
नाभ्यासादयितव्यानि तेजांसि च तपांसि च॥४॥
बालेन अल्पवयसाऽपि सता साधुना मोहात् चित्तपारवश्यात् पापं कृतं हिसितं यैस्तानि निष्पापान्यपि तेजांसि सूर्यादीनि । तपांसि दुर्वासआदी । नाभ्यासादयितव्यानि अत्यन्तं प्रत्यासत्तिविषयाणि न कर्तव्यानि ॥४॥
साऽहमद्य भृशं भीता गृहीत्वा च करे भृशम्
।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्॥५॥
वैशम्पायन उवाच।
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा
।
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः॥६॥
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम
।
व्रीडाविह्वलया वाचा शापत्रस्ता विशाम्पते॥७॥
बन्धूनां सखीनां ताभ्य इत्यर्थः ॥७॥
कुन्त्युवाच।
पिता मे ध्रियते देव माता चान्ये च बान्धवाः
।
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्॥८॥
ध्रियते जीवति ॥८॥
त्वया तु सङ्गमो देव यदि स्याद्विधिवर्जितः
।
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत् ततः॥९॥
नशेत् नश्येत् ॥९॥
अथवा धर्ममेतं त्वं मन्यसे तपतां वर
।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्॥१०॥
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्यहम्
।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्॥११॥
सूर्य उवाच।
न ते पिता न ते माता गुरुवो वा शुचिस्मिते
।
प्रभवन्ति वरारोहे भन्द्रं ते शृणु मे वचः॥१२॥
प्रभवन्ति स्वाम्यमर्हन्ति ॥१२॥
सर्वान् कामयते यस्मात् कमेर्धातोश्च भाविनि
।
तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि॥१३॥
कामयते सर्वानिति कन्येति कन्याशब्दनिर्वचनम् ॥१३॥
नाधर्मश्चरितः कश्चित् त्वया भवति भाविनि
।
अधर्मं कुत एवाऽहं वरेयं लोककाम्यया॥१४॥
तत्र हेतुः लोककाम्यया लोकप्रियया कामवत्तया ॥१४॥
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि
।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः॥१५॥
अन्यो विवाहनियमादिर्विकारः ॥१५॥
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि
।
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः॥१६॥
कुन्त्युवाच।
यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोनुद
।
कुण्डली कवची शूरो महाबाहुर्महाबलः॥१७॥
सूर्य उवाच।
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्
।
उभयं चामृतमयं तस्य भद्रे भविष्यति॥१८॥
अमृतमयं सहजं वर्म ॥१८॥
कुन्त्युवाच।
यद्येतदमृतादास्त कुण्डले वर्म चोत्तमम्
।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि॥१९॥
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया
।
त्वद्वीर्यरूपसत्वौजा धर्मयुक्तो भवेत् स च॥२०॥
सूर्य उवाच।
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
।
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्॥२१॥
कुन्त्युवाच।
परमं भगवन्नेवं सङ्गमिष्ये त्वया सह
।
यदि पुत्रो भवेदेवं यथा वदसि गोपते॥२२॥
वैशम्पायन उवाच।
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः
।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्॥२३॥
ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा
।
पपात चाथ सा देवी शयने मूढचेतना॥२४॥
सूर्य उवाच।
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
।
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि॥२५॥
वैशम्पायन उवाच।
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्
।
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्॥२६॥
प्रस्थितं सङ्गमायोपक्रान्तम् ॥२६॥
इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा
।
तस्मिन् पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव॥२७॥
तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार
।
न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवाथ बाला॥२८॥
आत्मसंस्थां वचनवशामेनां न दूषयामास कन्यात्वस्थापनेनेति शेषः ॥२८॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि सूर्यकुन्तीसमागमे सप्ताधिकत्रिशततमोऽध्यायः॥३०७॥
वैशम्पायन उवाच।
ततो गर्भः समभवत् पृथायाः पृथिवीपते
।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे॥१॥
तत इति । दशोत्तरे एकादशे शुक्ले पक्षे प्रतिपदि चन्द्र झ्व बाल उद्भूतः माघशुक्लप्रतिपदि कर्णनिषेकजन्मेत्यर्थः ॥१॥
सा बान्धवभयाद्बाला गर्भं तं विनिगूहती
।
धारयामास सुश्रोणी न चैनां बुबुधे जनः॥२॥
न हि तां वेद नार्यन्या काचिद्धात्रेयिकासृते
।
कन्यापुरगतां बालां निपुणां परिरक्षणे॥३॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी
।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्॥४॥
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम्
।
हर्यक्षं वृषभस्कन्धं यथाऽस्य पितरं तथा॥५॥
हर्यक्षं सिंहनेत्रम् ॥५॥
जातमात्रं च तं गर्भं धात्र्या सम्मन्त्र्य भाविनी
।
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः॥६॥
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा
।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्॥७॥
मधूच्छिष्टं सिक्थकं मयनमितिभाषायाम् । तेन स्थितायां सर्वतो लिप्तायां मञ्जूषायां जलप्रवेशो न भवेदित्यर्थः ॥७॥
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्
।
पुत्रस्नेहेन सा राजन् करुणं पर्यदेवयत्॥८॥
समुत्सृजन्ती मञ्जूषामश्वनद्यां तदा जले
।
उवाच रुदती कुन्ती यानिः वाक्यानि तच्छृणु॥९॥
स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक
।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये॥१०॥
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः
।
आगताश्च तथा पुत्र भवन्त्वद्रोहचेतसः॥११॥
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः
।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा॥१२॥
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः
।
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल॥१३॥
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः
।
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः॥१४॥
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च
।
वेत्स्यामि त्वां विदेशेऽपि कवचेनाभिसूचितम्॥१५॥
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः
।
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्॥१६॥
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति
।
यस्यास्त्वं तृषितः पुत्रस्तनं पास्यसि देवज॥१७॥
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्
।
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्॥१८॥
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम्
।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति॥१९॥
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्
।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्॥२०॥
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम्
।
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा॥२२॥
एवं बहुविधं राजन् विलप्य करुणं पृथा
।
अवासृजत मञ्जूषामश्वनद्यां तदा जले॥२२॥
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा
।
धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा॥२३॥
विसर्जयित्वा मञ्जूषां सम्बोधनभयात् पितुः
।
विवेश राजभवनं पुनः शोकातुरा ततः॥२४॥
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम्
।
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह॥२५॥
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम्
।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः॥२६॥
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्
।
धारयामास तं गर्भं दैवं च विधिनिर्मितम्॥२७॥
दैवं देवजं विधिनाम् ईश्वरेण निर्मित्तम् ॥२७॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि कर्णपरित्यागे अष्टाधिकत्रिशततमोऽध्यायः॥३०८॥
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा
।
सुतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ॥१॥
एतस्मिन्निति ॥१॥
तस्य भार्याऽभवद्राजन् रूपेणासदृशी भुवि
।
राधा नाम महाभागा न सा पुत्रमविन्दत॥२॥
अपत्यार्थे परं यत्नमकरोच्च विशेषतः
।
सा ददर्शाथ मञ्जूषागुह्यमानां यदृच्छया॥३॥
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम्
।
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्॥४॥
दत्तो रक्षार्थं प्रतिसरो दूर्वाकङ्कणादिरूपो यस्यां ताम् । अन्वालम्भनं कुङ्कुमहस्तदानम् उपह्वरं समीपम् ॥४॥
सा तु कौतूहलात् प्राप्तां ग्राहयामास भाविनी
।
ततो निवेदयामास सूतस्याधिरथस्य वै॥५॥
सं तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्
।
यन्त्रैरुद्घाटयामास सोऽपश्यत् तत्र बालकम्॥६॥
उत्सार्य परतो नीत्वा ॥६॥
तरुणादित्यसङ्काशं हेमवर्मधरं तथा
।
मृष्टकुण्डलयुक्तेन वदनेन विराजता॥७॥
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः
।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्॥८॥
इदमत्यद्भुतं भीरु यत्तो जातोऽस्मि भाविनी
।
दृष्टवान् देवगर्भोऽयं मन्येऽस्माकमुपागतः॥९॥
यतो जातोऽस्मि उत्पत्तिदिनादारभ्याद्यैवेदमद्भुतं दृष्टम् ॥९॥
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम
।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते॥१०॥
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्
।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्॥११॥
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्
।
ततःप्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः॥१२॥
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्
।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः॥१३॥
वसुवर्म स्वर्णकवचम् ॥१३॥
एवं स सूतपुत्रत्वं जगामामितविक्रमः
।
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः॥१४॥
सूतस्य ववृधेऽङ्गेषु श्रेष्ठः पुत्रः स वीर्यवान्
।
चारेण विदितश्चासीत् पृथया दिव्यवर्मभृत्॥१५॥
अङ्गेषु जनपदविशेषेषु ॥१५॥
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्
।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्॥१६॥
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि
।
सख्यं दुर्योधनेनैवमगमत् स च वीर्यवान्॥१७॥
उपसदनं गुरूपसदनम् ॥१७॥
द्रोणात् कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्
।
लब्ध्वा लोकेऽभवत् ख्यातः परमेष्वासतां गतः॥१८॥
परमेष्वासतां महाधनुर्धरताम् ॥१८॥
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः
।
योद्धुमाशंसते नित्यं फाल्गुनेन महात्मना॥१९॥
सदा हि तस्य स्पर्धाऽऽसीदर्जुनेन विशाम्पते
।
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः॥२०॥
यतः काले दृष्टः ॥२०॥
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः
।
यः सूर्यसम्भवः कर्णः कुन्त्यां सूतकुले तथा॥२१॥
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्
।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः॥२२॥
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्
।
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिलोत्थितः॥२३॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना
।
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु॥२४॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः
।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत॥२५॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि राधाकर्णप्राप्तौ नवाधिकत्रिशततमोऽध्यायः॥३०९॥
वैशम्पायन उवाच।
देवराजमनुप्राप्तं ब्राह्मणच्छाद्मना वृतम्
।
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्॥१॥
देवराजामति ॥१॥
हिरण्यकण्ठीः प्रमदा ग्रामान् वा बहुगोकुलान्
।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः॥२॥
ब्राह्मण उवाच।
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत् प्रीतिवर्धनम्
।
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्॥३॥
यदेतत्सहजं वर्म कुण्डले च तवानघ
।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्॥४॥
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप
।
एष मे सर्वलाभानां लाभः परमको मतः॥५॥
कर्ण उवाच।
अवनिं प्रमदा गाश्च निवापं बहुवार्षिकम्
।
तप्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम्॥६॥
अवनिं गृहार्थं निवापं न्युप्यते बीजमस्मिन्निति क्षेत्रं बहुवार्षिकं यावज्जीविकवृत्तिरूपम् ॥६॥
वैशम्पायन उवाच।
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः
।
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत॥७॥
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि
।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम्॥८॥
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः
।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव॥९॥
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे
।
तेनावध्योऽस्मि लोकेषु ततो नैतज्जहाम्यहम्॥१०॥
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्
।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव॥११॥
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च
।
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम॥१२॥
गमनीयो वंध्यः ॥१२॥
वैशम्पायन उवाच।
यदन्यं न वरं वव्रे भगवान् पाकशासनः
।
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः॥१३॥
विदितो देवदेवेश प्रागेवासि मम प्रभो
।
न तु न्याय्यं मया दातुं तव शक्यं वृथा वरम्॥१४॥
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम
।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्॥१५॥
यदि दास्यामि ते देव कुण्डले कवचं तथा
।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्॥१६॥
त्तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्
।
हरस्व शक्र कामं मे न दद्यामहमन्यथा॥१७॥
शक्र उवाच।
विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्
।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः॥१८॥
आयानेव आगच्छन्नेव ॥१८॥
काममस्तु तथा तात तव कर्ण यथेच्छसि
।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि॥१९॥
वैशम्पायन उवाच।
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम्
।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः॥२०॥
कर्ण उवाच।
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव
।
अमोघां शत्रुसङ्घानां घातिनीं पृतनामुखे॥२१॥
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः
।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्॥२२॥
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्
।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च॥२३॥
अमोघा हन्ति शतशः शत्रून् मम करच्युता
।
पुनश्च पाणिमभ्येति मम दैत्यान् विनिघ्नतः॥२४॥
सेयं तव करप्राप्ता हत्वैकं रिपुमूर्जितम्
।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज॥२५॥
कर्ण उवाच।
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे
।
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्॥२६॥
इन्द्र उवाच।
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे
।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना॥२७॥
यमाहुर्वेदविद्वांसो वरार्हमपराजितम्
।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते॥२८॥
कर्ण उवाच।
एवमप्यस्तु भगवन्नेकवीरवधे मम
।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्॥२९॥
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते
।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्॥३०॥
इन्द्र उवाच।
न ते बीभत्सता कर्ण भविष्यति कथञ्चन
।
व्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि॥३१॥
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर
।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः॥३२॥
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये
।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति॥३३॥
कर्ण उवाच।
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्
।
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते॥३४॥
वैशम्पायन उवाच।
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशाम्पते
।
शस्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत॥३५॥
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम्
।
दृष्ट्वा सर्वे सिंहनादान् प्रणेदुर्न ह्यस्यासीन्मुखजो वै विकारः॥३६॥
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यस्
।
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम्॥३७॥
ततश्छित्वा कवचं दिव्यमङ्गास्तथैवार्द्रं प्रददौ वासवाय
।
तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात् कर्मणा तेन कर्णः॥३८॥
कृणाति हिनस्ति कृन्तति छिनत्ति वा अङ्गानीति कर्ण इत्यर्थः ॥३८॥
ततः शक्रः प्रहसन् वञ्चयित्वा कर्णं लोके यशसा योजयित्वा
।
कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात॥३९॥
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन्
।
तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृषुः काननस्थाः॥४०॥
जनमेजय उवाच।
क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत्
।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वे भगवान् व्याकरोतु॥४१॥
वैशम्पायन उवाच।
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकाशुश्रमात्ते
।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण॥४२॥
इति श्रीमहाभारते आरण्यके पर्वणि कुण्डलाहरणपर्वणि कवचकुण्डलदाने दशाधिकत्रिशततमोऽध्यायः॥३१०॥