युधिष्ठिर उवाच।
नापदामस्ति मर्यादा न निमित्तं न कारणम्
।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपाप्योः॥१॥
नापदामिति । निमित्तं फलं धर्मः प्रारब्धरूपस्तु अर्थं फलं सुखदुःखरूपं विभजति ॥१॥
भीम उवाच।
प्रातिकाम्यनयत् कृष्णां सभायां प्रेष्यवत् तदा
।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्॥२॥
प्रेष्यवत् प्रेष्यामिव ॥२॥
अर्जुन उवाच।
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः
।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्॥३॥
सहदेव उवाच।
शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत
।
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्॥४॥
वैशम्पायन उवाच।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्
।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश॥५॥
पानीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान्
।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः॥६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्
।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः॥७॥
पश्यामि बहुलान् राजन् वृक्षानुदकसंश्रयान्
।
सारसानां च निर्ह्रादमत्रोदकमसंशयम्॥८॥
ततोऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
।
गच्छ सौम्य ततः शीघ्रं तूणैः पानीयमानय॥९॥
नकुलस्तु तथेत्युक्त्वा भ्रातृर्ज्येष्ठस्य शासनात्
।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत॥१०॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्
।
पातुकामस्ततो वाचमन्तरिक्षात् स शुश्रुवे॥११॥
यक्ष उवाच।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च॥१२॥
साहसं जलपानरूपम् । परिग्रहो नियमः यो मत्प्रश्नान्वदेत् स एव इतः पयः पिबेत् हरेद्वेति॥१२॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः
।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥१३॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः
।
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम्॥१४॥
भ्राता हि चिरयातो नः सहदेव तवाग्रजः
।
तथैवानय सोदर्यं पानीयं च त्वमानय॥१५॥
सहदेवरतथेत्युक्त्वा तां दिशं प्रत्यपद्यत
।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा॥१६॥
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः
।
अभिदुद्राव पानीयं ततो वागभ्यभाषत॥१७॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च॥१८॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः
।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥१९॥
अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः
।
भ्रातरौ ते परिगतौ बीभत्सो शत्रुकर्शन॥२०॥
तौ चैवानय भद्रं ते पानीयं च त्वमानय
।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः॥२१॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः
।
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत॥२२॥
ततः पुरुषशार्दूलौ पानीयहरणे गतौ
।
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः॥२३॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः
।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्॥२४॥
नापश्यत् तत्र किञ्चित् स भूतमस्मिन् महावने
।
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत॥२५॥
अभिधावंस्ततो वाक्यमन्तरिक्षात् स शुश्रुवे
।
किमासीदसि पानीयं नैतच्छक्यं बलात् त्वया॥२६॥
कौन्तेय यदि प्रश्नांस्तान् मयोक्तान्प्रतिपत्स्यसे
।
ततः पास्यासि पानीयं हरिष्यसि च भारत॥२७॥
वारितस्त्वब्रवीत् पार्थो दृश्यमानो निवारय
।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि॥२८॥
दृश्यमानो भूत्वेति शेषः ॥२८॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः
।
प्रववर्ष दिशः कृत्स्नाः शब्दवेधं च दर्शयन्॥२९॥
कर्णिनालीकनाराचानुत्सृजन् भरतर्षभ
।
सत्वमोघानिषून् मुक्त्वा तृष्णयाऽभिप्रपीडितः॥३०॥
अनेकैरिषुसङ्घातैरन्तरिक्षे ववर्ष ह
।
यक्ष उवाच।
किं विधानेन ते पार्थ प्रश्नानुक्त्वा ततः पिब॥३१॥
विधानेन यत्नेन ॥३१॥
अनुक्त्वा च पिबन् प्रश्नान् पीत्वैव न भविष्यसि
।
एवमुक्तस्ततः पार्थः सत्यसाची धनञ्जयः॥३२॥
न भविष्यसि मरिष्यसि ॥३२॥
अवज्ञायैव तां वाचं पीत्यैव निपपात ह
।
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः॥३३॥
नकुलः सहदेवश्च बीभत्सुश्च परन्तप
।
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत॥३४॥
तांश्चैवानय भद्रं ते पानीयं च त्वमानय
।
भीमसेनस्तथेत्युक्ता तं देशं प्रत्यपद्यत॥३५॥
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः
।
तान् दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः॥३६॥
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्
।
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य वै॥३७॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः
।
ततोऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः॥३८॥
यक्ष उवाच।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥३९॥
एवमुक्तस्तदा भीमो यक्षेणामिततेजसा
।
अनुक्तैव तु तान् प्रश्नान् पीत्वेव निपपात ह॥४०॥
ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः
।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा॥४१॥
व्यपेतजननिर्घोषं प्रविवेश महावनम्
।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्॥४२॥
नलिभास्वरवर्णैश्च पादपैरुपशोभितम्
।
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः॥४३॥
स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम्
।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा॥४४॥
हेमजालानि ह भवर्णानि केसराणि तैः परिष्कृतं मण्डितम् ॥४४॥
उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः
।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्
।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः॥४५॥
सिंधुवारैर्जलजविशेषैः ॥४५॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि नकुलादिपतने द्वादशाधिकत्रिशततमोऽध्यायः॥३१२॥
वैशम्पायन उवाच।
स ददर्श हतान् भ्रातॄन् लोकपालानिव च्युतान्
।
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्॥१॥
स ददर्शेति ॥१॥
विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्
।
भीमसेनं यमौ चैव निर्विचेष्टान् गतायुषः॥२॥
नन्वर्थकामयोर्विरोधिनोः सतोस्तादृशो धर्मो दुरनुष्ठेय इत्याशङ्क्याह यदेति । धर्मोऽग्निहोत्रादिः । पारिव्राज्यवद्भार्याविरोधी न भवति । यदा च भार्यादानादिप्रतिबन्धकं विना धर्मे विरोधिनी न भवति तदा धर्मोऽर्थान् प्रसूते । भार्या च कामं पूरयति । तेन त्रिवर्णोऽयं सङ्गमं प्राप्नोति । तथा च गृहिणामप्यस्ति धर्मद्वारेण मोक्षेऽधिकार इत्युक्तम् ॥२॥
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लतः
।
तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश्चिन्तासमन्वितः॥३॥
अक्षयो नरकः नित्यसंसारित्वम् ॥३॥
धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम्
।
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर॥४॥
तद्धेतुमासुरीं सम्पदमाह ब्राह्मणमित्यादिना ॥४॥
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे
।
व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते॥५॥
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने
।
मनुष्यसम्भवा वाचो विधर्मिण्यः प्रतिश्रुताः॥६॥
विधर्मिण्यः अनृताः ॥६॥
भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा
।
देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय॥७॥
स्वाध्यायेन अक्षरावाप्त्या श्रुतेन तदर्थग्रहणेन । सार्थवेदाधिगमेनेत्यर्थः ॥७॥
सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै
।
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः॥८॥
कुलं न कारणं स्वाध्यायः श्रुतं च द्वयं मिलित्वैकमेव तदपि न कारणमिति योज्यम् ॥८॥
विप्रनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा
।
नास्य जेता रणे कश्चिदजेता नैष कस्यचित्॥९॥
न कस्यचिदजेताऽपि तु सर्वस्यैव जेता ॥९॥
सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः
।
अयं ममाशां संहत्य शेते भूमौ धनञ्जयः॥१०॥
आशां राज्याशां संहत्य विनाश्य ॥१०॥
आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम
।
रणे प्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ॥११॥
अतिरिच्यते नीचतायामिति शेषः ॥११॥
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ
।
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ॥१२॥
अश्मसारमयं नूनं हृदयं मम दुर्हृदः
।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते॥१३॥
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः
।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः॥१४॥
अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः
।
असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः॥१५॥
कर्मोपास्तिज्ञानानामन्तरङ्गसाधनं वैराग्यमाह प्रश्नचतुष्टयोत्तरत्वेन हे वारिचर हे यक्ष ऋणं प्रवासं च अकुर्वन्यदृच्छालाभसन्तुष्टो भवेदित्यर्थः ॥१५॥
सानूनिवाद्रेः संसुप्तान् दृष्ट्वा भ्रातॄन् महामतिः
।
सुखं प्रसुप्तान् प्रखिन्नः खिन्नः कष्टां दशां गतः॥१६॥
अहनीति । देहस्य विनाशित्वमनुसन्धाय प्राप्तानपि भोगांस्त्यक्त्वा शीघ्रं परमार्थाय यतितव्यमित्यर्थः ॥१६॥
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः
।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः॥१७॥
दध्यौ कारणं मरणहेतुं विचारितवान् ॥१७॥
तर्क इति । अप्रतिष्ठः निर्णयशून्यः श्रुतयोऽपि विभिन्नाः परस्परविरुद्धार्थवादिन्यः । मुनयोऽपि तद्व्याख्यातारस्तादृशा एव अतोऽनन्तासु धर्मशास्त्रादिविद्यासु श्रममकृत्वा बहुजनसम्मतमेव मार्गमनुसरेदित्यर्थः ॥१७॥
इतिकर्तव्यतां चेति देशकालविभागवित्
।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः॥१८॥
अस्मिन्निति भुज्यमाना अपि स्त्र्यादयो न चिरस्थायिन इति सर्वतो वैराग्यमेवाश्रयेदिति भावः॥१८॥
अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः
।
एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः॥१९॥
तपःसुतो धर्मपुत्रः ॥१९॥
कर्मज्ञानफले विवेक्तुं पृच्छति व्याख्याता इति याथातथ्यं यथार्थं यथा स्यात्तथा पुरुषं पुरि शरीरे वसतीति पुरुषस्तं जीवन्तमित्यर्थः । को जीवति कश्चावाप्तसकलकाम इति प्रश्नौ ॥१९॥
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः॥२०॥
तयोरुत्तरं दिवमिति द्वाभ्यां पुण्येन कर्मणा सकामेन निष्कामेण वा द्युभूमिव्यापी कीर्तिशब्दो भवति । यावत्कीर्तिरस्ति तावज्जीवतीत्यर्थः । पश्चादिहलोके पूर्ववासनानुरूपाणि कर्माणि करोति । तत्रापि सोपानारोहक्रमेण निष्कामो मुच्यते अवरोहक्रमणे सकामोऽधिकमधिकं वासनापाशैर्बध्यत इति विवेकः ॥२०॥
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित्
।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः॥२१॥
तुल्ये इति । ब्रह्मविदेव सर्वधनी ‘यस्तमात्मानमनुविद्य विजानाति सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्’ इति तस्यैवाप्तसकलकामत्वश्रुतेः । तस्य स्वाभाविकमिदं लक्षणं तुल्ये प्रियाप्रिये इति । तदेव साधकस्य यत्नसाध्यं ज्ञानसाधनमित्युच्यते यथोक्तम्। ‘उत्पन्नात्मप्रबोधस्य ह्यद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः’ इति ॥२१॥
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्
।
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम्॥२२॥
उपांशुविहितम् अस्माभिरज्ञानं सद्विहितम् ॥२२॥
एवं पुत्रस्य ज्ञानं परीक्ष्य धर्मे स्थितिं परीक्षितुमाह यमेकमिच्छसि स जीवत्विति ॥२२॥
गान्धारराजरचितं सततं जिह्मबुद्धिना
।
यस्य कार्यमकार्यं वा सममेव भवत्युत॥२३॥
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः
।
अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः॥२४॥
दुष्कृतेः पापकर्मणः ॥२४॥
जीवं जीवन्तम् ॥२४॥
भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत्
।
तस्यासीन्न विषेणेदमुदकं दूषितं यथा॥२५॥
मृतानामपि चैतेषां विकृतं नैव जायते
।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत्॥२६॥
अनुभावेन नकुलगतसामर्थ्येन ॥२६॥
एकैकशश्चौघबलानिमान् पुरुषसत्तमान्
।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते॥२७॥
ओघबलान् महाप्रवाहवेगान् प्रतिसमासेत प्रतियुध्येत् कालेऽन्तं करोति यस्तादृशो यमः कालान्तकयमस्तस्मात् ॥२७॥
एतेन व्यवसायेन तत् तोयं व्यवगाढवान्
।
गाहमानश्च तत्तोयमन्तरिक्षात् स शुश्रुवे॥२८॥
नः अस्मान् माऽवधीत् ॥२८॥
यक्ष उवाच।
अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः
।
त्वं पञ्चमो भविता राजपुत्र न चेत् प्रश्नान् पृच्छतो व्याकरोषि॥२९॥
आनृशंस्यम् अवैषम्यं परमार्थात् सत्यात् ॥२९॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥३०॥
युधिष्ठिर उवाच।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्
।
पृच्छामि को भवान् देवो नैतच्छकुनिना कृतम्॥३१॥
प्रधानभाक् प्राधान्यभाक् ॥३१॥
धीयते निश्चिनुते ॥३१॥
हिमवान् पारियात्रश्च विन्ध्यो मलय एव च
।
चत्वारः पर्वताः केन पातिता भूरितेजसः॥३२॥
अतीव ते महत्कर्म कृतं च बलिनां वर
।
यान् न देवा न गन्धर्वा नासुराश्च न राक्षसाः॥३३॥
ते तव ॥३३॥
विषहेरन् महायुद्धे कृतं ते तन्महाद्भुतम्
।
न ते जानामि यत् कार्यं नाभिजानामि काङ्क्षितम्॥३४॥
ते त्वया ॥३४॥
कौतूहलं महज्जातं साध्वसं चागतं मम
।
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः॥३५॥
पृच्छामि भगवंस्तस्मात् को भवानिह तिष्ठति
।
यक्ष उवाच।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः॥३६॥
मयैते निहताः सर्वे भ्रातरस्ते महौजसः
।
वैशम्पायन उवाच।
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्॥३७॥
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः
।
विरूपाक्षं महाकायं यक्षं तालुसमुच्छ्रयम्॥३८॥
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्
।
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः॥३९॥
मेघगम्भीरनादेन तर्जयन्तं महास्वनम्
।
यक्ष उवाच।
इमे ते भ्रातरो राजन् वार्यमाणा मयाऽसकृत्॥४०॥
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया
।
न पेयमुदकं राजन् प्राणानिह परीप्सता॥४१॥
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः
।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥४२॥
युधिष्ठिर उवाच।
न चाहं कामये यक्ष तव पूर्वपरिग्रहम्
।
कामं नैतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा॥४३॥
यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ
।
यथाप्रज्ञं तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम्॥४४॥
यत् यतः आत्मनैवात्मस्वरूपं वक्तव्यमतस्ते प्रश्नान् प्रतिवक्ष्यामि ॥४४॥
यक्ष उवाच।
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः
।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति॥४५॥
किंस्विदादित्यमुन्नयतीत्यादिप्रश्नोत्तरमालिका आत्मनस्तत्त्वं निर्णेतुमारब्धा ‘तरति शोकमात्मवित्’ इति तज्ज्ञानस्य फलवत्त्वश्रवणात्तत्सिद्धये च उच्चावचं साधनजातमस्यां निरूप्यते तां व्याख्यास्यामः ॥४५॥
युधिष्ठिर उवाच।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः
।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति॥४६॥
आदित्यम् आदत्ते शब्दादीन् श्रोत्रादिभिरित्यादित्यो जीवस्तं गौरोऽहमन्धोऽहमदुःख्यहं कर्ताहमित्याद्यनुभवाद्देहाद्यात्मतया भासमानं वादिभिश्चानेकधा विकल्प्यमानं ब्रह्म वेद उन्नयति देहादिभ्यः पृथक्करोति श्रुतिरेवात्मतत्त्वनिर्णये मानमित्यर्थः । तथाच श्रुतिः ‘नावेदविन्मनुते तं बृहन्तम्’ इति । ननु सर्वेऽपि वेदादात्मानं जानन्ति नेत्याह । देवा इति । देवाः शमादयस्तस्याभितश्चराः सहायाः । अस्तं स्वस्थानम् अपहृतपाप्मादिगुणाष्टक विशिष्टं तत्कारणभूतं हार्दाकाशं प्रति एनं धर्मः साक्षात् परंपरया वा कर्मोपासनारूपो नयति प्रापयति । स एवमुक्तविधं स्वरूपं सगुणब्रह्मभावं प्राप्य तद्बाधेन सत्ये सर्वबाधावधिभूते शुद्धचिन्मात्रे प्रतिष्ठितो भवति । तथा च श्रुतिः ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इति । प्रथमं शास्त्रजं ज्ञानं ततः शमादिसम्पन्नस्य योगबलाद्देहाद्यध्यासनिवृत्तिस्ततः स्वर्गाख्यसगुणब्रह्मदर्शनं ततः केवलीभाव इति श्रुतेरर्थः ॥४६॥
यक्ष उवाच।
केनस्विच्छ्रोत्रियो भवति केनस्त्विद्विन्दते महत्
।
केनस्विद्द्वितीयवान् भवति राजन् केन च बुद्धिमान्॥४७॥
युधिष्ठिर उवाच।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत्
।
धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया॥४८॥
वेदस्य सत्ये प्रतिष्ठाहेतुत्वमुक्तं तत्र दृष्टं द्वारमाह श्रुतेनेति । श्रोत्रियो वेदाध्यायी । श्रुतेन आचार्यमुखाद्वेदार्थावधारणेन भवति न त्वक्षरग्रहणमात्रेण ततश्च तपसा युक्त्या च श्रुतस्यार्थस्यालोचनेन महत् ब्रह्म विन्दते जानीते । मानमेयगताऽसम्भावनानिवृत्त्या निश्चिनोति धृत्या ‘धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी’ इत्युक्तलक्षणया निदिध्यासनेनेत्यर्थः । द्वितीयमनीशत्वादिविशिष्टादविद्याप्रत्युपस्थापिताज्जैवापात्तद्विपरीतं विद्याप्राप्यं प्रतीचो यत् द्वितीयं रूपं तद्वान् भवति । एतत्त्रयनिश्चयात्मिका बुद्धिर्गुरूपदेशादेव प्राप्येत्याह बुद्धिमानिति। तथा च श्रुतिः ‘आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । आचार्यवान् पुरुषो वेद’ इत्यादिरात्मदर्शनसाधनत्वेन श्रवणादित्रयमाचार्यवत्त्वं चेति दर्शयति ॥४८॥
यक्ष उवाच।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव
।
कश्चैषां मानुषो भावः किमेषामसतामिव॥४९॥
युधिष्ठिर उवाच।
स्वाध्याय एषां देवत्वं तप एषां सतामिव
।
मरणं मानुषो भावः परिवादोऽसतामिव॥५०॥
श्रवणाद्यधिकारे हेतुमाह त्रिभिरुत्तरैः। स्वाध्यायो वेदाध्ययनं विप्राणां देवत्वं स्वर्गलोकप्रापकं तपः शमादिकं सदाचार इत्युपादेयद्वयं मानुषो भावो देहाद्याभिमानः । मरणं जन्ममरणप्रापकः परिवादो देवब्राह्मणादिदूषणम् असदाचार इति हेयद्वयम् ॥५०॥
यक्ष उवाच।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव
।
कश्चैषां मानुषो भावः किमेषामसतामिव॥५१॥
युधिष्ठिर उवाच।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव
।
भयं वै मानुषो भावः परित्यागोऽसतामिव॥५२॥
परित्यागः आर्तानामिति शेषः ॥५२॥
यक्ष उवाच।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः
।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते॥५३॥
युधिष्ठिर उवाच।
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः
।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते॥५४॥
इतोऽप्यन्तरङ्गं हेतुमाह प्राणमनसि निरुध्यमाने यज्ञे सामयजुषी इव ज्ञानयज्ञोपकारके ऋक् एका मुख्या यज्ञं ज्ञानं वृणुते स्वीकरोति । ज्ञानोत्पादिकेत्यर्थः। तथा च श्रुतिः ‘मनो वाचं प्राणं तान्यात्मने कुरुतः’ इति आत्महितार्थमेतत् त्रयं प्रजापतिना सृष्टमित्याह तथा तं त्वौपनिषदं पुरुषमित्यौपनिषदत्वविशेषणं वाचो मुख्यत्वमाह ॥५४॥
यक्ष उवाच।
किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम्
।
किंस्वित् प्रतिष्ठमानानां किंस्वित् प्रसवतां वरम्॥५५॥
युधिष्ठिर उवाच।
वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम्
।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः॥५६॥
शमादीनां प्राणजयादीनां चासम्भवे यज्ञाद्येव कर्तव्यमित्याह आवपतां आसमन्तात् देवांस्तर्पयतां वर्षं वृष्टिः श्रेष्ठं फलं सर्वलोकोपकारकत्वात्। यथोक्तम् ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । निवपतां निवापः पितृतर्पणं तत्कुर्वतां बीजं क्षेत्रारामाद्यात्मोपकारकं फलम् । ‘आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीतास्तुभ्यं पितामहाः’ इति स्मृत्युक्तं प्रतिष्ठमानानामिहैव प्रतिष्ठालिप्सूनां गावः श्रेष्ठं प्रसवतां सन्ततिमिच्छूनां पुत्रः श्रेष्ठं फलं दौहित्रादिभ्यः गवां पुत्रस्य च दृष्टार्थत्वेऽपि अतिथिप्रीणनद्वारा श्राद्धप्रदानादिद्वारा उपकारकत्वेन परंपरया श्रवणाद्यधिकारहेतुत्वं ज्ञेयम् ॥५६॥
यक्ष उवाच।
इन्द्रियार्थाननुभवन् बुद्धिमान् लोकपूजितः
।
संमतः सर्वभूतानामुच्छ्वसन् को न जीवति॥५७॥
इतोऽपि साधनाद्भ्रष्टो यस्तं निन्दति । इन्द्रियार्थानिति । इन्द्रियार्थान् शब्दादीन् लोके धनादिमत्त्वेन पूजितः सन्मतो दानाधिकारित्वेन ॥५७॥
युधिष्ठिर उवाच।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः
।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति॥५८॥
नः निर्वपति न प्रयच्छति देवतादिभ्यः ॥५८॥
यक्ष उवाच।
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात्
।
किं स्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात्॥५९॥
उक्तसाधनाशक्तेन मातापित्रोः शुश्रूषा मनोनिरोधस्तृणवत्तुच्छायाश्चिन्तायास्त्यागश्च कर्तव्य इत्याह किंस्विद्गुर्विति ॥५९॥
युधिष्ठिर उवाच।
माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा
।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्॥६०॥
यक्ष उवाच।
किंस्वित् सुप्तं न निमिषति किंस्विज्जातं न चोपति
।
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते॥६१॥
युधिष्ठिर उवाच।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति
।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥६२॥
ननु मनोनाशे शून्यमेवावशिष्यत इत्याशङ्क्य नेत्याह मत्स्य इति । मस्त्य इव मत्स्यो जीवः जाग्रत्स्वप्नयोरिहलोकपरलोकयोर्वा तीरयोरिव सञ्चारेण सुप्तः स्वनीडभूतं सद्रूपं ब्रह्म प्राप्तो न निमिषति मनोवल्लुप्तदृष्टिर्न भवति । ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ इति श्रुतेः । ननु मत्स्योऽविनाशित्वादजातश्चेत्कस्तर्हि जात इत्यत आह अण्डं पिण्डब्रह्माण्डरूपं जातमुत्पन्नं सत् न चोपति चलति । चुप मन्दायां गतौ । पुरुषप्रवर्तितमेवाहङ्कारादिजडजातं चेष्टते इत्यर्थः । ‘को ह्येवान्यात् कः प्राप्याद्यदेष आकाश आनन्दो न स्यात्’ इति श्रुतेः । कस्तर्हि जाताजातयोरेतयोः संयोगस्य दुःखदस्य निवृत्त्युपाय इत्यत आह । अश्मनः अशरीरस्य निवृत्तदेहत्रयाध्यासस्य योगिनो हृदयं शोकनीडं नास्ति । कथं तर्हि समाधेरपि व्युत्तिष्ठन्तीत्याह । नदी चित्तनदी वेगेन वर्धते । सुषुप्तावस्थापन्नस्य स्वप्नदर्शनवत्समाहितोत्थितस्यायं प्रपञ्चो दृष्टिसमसमयमात्रजात इत्यर्थः ॥६२॥
यक्ष उवाच।
किंस्विन् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः
।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः॥६३॥
युधिष्ठिर उवाच।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः
।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः॥६४॥
मनोरोधाशक्तस्य दानमेव श्रेय इत्याह सार्थो यथा प्रवसतो मित्रमेवं मरिष्यतो मर्त्यस्य दानं मित्रमित्यर्थः ॥६४॥
यक्ष उवाच।
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम्
।
अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत्॥६५॥
युधिष्ठिर उवाच।
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम्
।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत्॥६६॥
दानस्य चित्तशुद्धिद्वारा यज्ञादौ यज्ञादेश्व चित्तैकाग्र्यद्वारा समष्ट्युपास्तौ प्रवृत्तिहेतुत्वमाह अतिथिरिति । अग्निराहवनीयादिरूपः । गवामृतं क्षीरं तदेव सोमाख्यं होतव्यं सोऽयं सनातनो नित्यो धर्मः । अमृतो मोक्षहेतुः तत्र द्वारमाह वायुः सर्वमिदं जगत् ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इति श्रुतेः । पिण्डब्रह्माण्डात्मकवायुरूपत्वप्राप्तेर्मोक्षद्वारमित्यर्थः ॥६६॥
यक्ष उवाच।
किंस्विदेको विचरते जातः को जायते पुनः
।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत्॥६७॥
युधिष्ठिर उवाच।
सूर्य एको विचरते चन्दमा जायते पुनः
।
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत्॥६८॥
उक्तलक्षणस्य वायोरपि संहारे किमवशिष्यत इत्याह - सूर्य एको विचरते सूर्यवच्चित्प्रकाशरूप आत्मैवास्ति । अवस्थात्रये तदभावे च प्रकाश्यसत्त्वासत्त्वत्योः सूर्य इव कुतस्तर्हि प्रपञ्चभानमत आह चन्द्रमा जायते पुनः ‘चन्द्रमा मनोभूत्वा’ इति श्रुतेर्मन एवाविद्यावशादुत्पद्यते तच्च दुःखप्रदं जगत्कल्पयति । अविद्यानिवृत्त्युपायमाह अग्निर्हिमस्य भैषज्यं ‘अग्निर्वाग्भूत्वा’ इति श्रुतेर्वागेव तत्त्वमस्यादिका हिमस्य सूर्याभिभावकस्याविद्याजाज्यस्य औषधं निवारकं भूमिः शरीरं तदेव महदावपनं विद्याअविद्यायाश्च निधानपात्रं इहैव संसारित्ववदसंसारिब्रह्मभावोऽपि साक्षात्क्रियत इत्यर्थः ॥६८॥
यक्ष उवाच।
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः
।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम्॥६९॥
अत्र द्वाभ्यां प्रश्नाभ्यां ब्रह्मविद्यासूत्रं ससाधनमुपक्षिप्तं ततः सप्तभिस्त्वंपदार्थशोधस्ततस्त्रिभिस्तत्पदार्थशोधः ससाधनः कृतः । इदानीं पुनः प्रकारान्तरेण साधनान्येव विदधक्त्त्वं पदार्थयोरभेदं तत्त्वमस्यहंब्रह्मास्मीत्यादिमहावाक्यप्रतिपाद्यं दर्शयति नवभिः । किंस्विदेकपदमित्यादिना ॥६९॥
युधिष्ठिर उवाच।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः
।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्॥७०॥
एकपदमेकमेव पर्यवसानस्थानं दाक्ष्ये कृत्स्नो धर्मः पर्यवसित इत्यर्थः । एवमुत्तरत्र ॥७०॥
यक्ष उवाच।
किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा
।
उपजीवनं किंस्विदस्य किंस्विदस्य परायणम्॥७२॥
युधिष्ठिर उवाच।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा
।
उपजीवनं च पर्जन्यो दानमस्य परायणम्॥७२॥
यक्ष उवाच।
धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम्
।
लाभानामुत्तमं किं स्यात् सुखानां स्यात्किमुत्तमम्॥७३॥
युधिष्ठिर उवाच।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्
।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा॥७५॥
यक्ष उवाच।
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः
।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते॥७५॥
युधिष्ठिर उवाच।
आनृशंस्यं परो धर्मस्त्रयी धर्मः सदाफलः
।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते॥७६॥
आनृशंस्यं सर्वभूताभयदानं संन्यास इत्यर्थः। त्रयी मोक्षमन्त्रस्त्रयीति श्रुतेस्त्रयीशब्देनात्र त्रिमात्रप्रणव उच्यते तदाश्रितो धर्मः अकारउकारमकारार्थानां स्थूलसूक्ष्मकारणोपाधीनां क्रमेण पूर्वपूर्वस्योत्तरोत्तरत्र प्रविलापनेन अर्धमात्रार्थे तुरीये ब्रह्मण्यवस्थानं सदाफलः अविनाशिफलः। मोक्षहेतुत्वात् । तस्य धर्मस्य प्राप्तावुपायो मनोनिग्रह एव । तावतैव ज्ञातात्मतत्त्वो भूत्वा शोकं तरति । मनोनिग्रहमार्गश्च सद्भिः कृपालुभिरेव प्रदर्शनीय इति तात्पर्यार्थः ॥७६॥
यक्ष उवाच।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति
।
किं नु हित्वाऽर्थवान् भवति किं नु हित्वा सुखी भवेत्॥७७॥
मनोनिग्रहे दृष्टं द्वारं मानादिचतुष्टयत्याग इत्याह किं नु इति ॥७७॥
युधिष्ठिर उवाच।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति
।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्॥७८॥
यक्ष उवाच।
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके
।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु॥७९॥
मानादित्यागोऽपि धर्मफलमतोऽत्रापि ब्राह्मणे दत्तं यद्दानं तदेव धर्महेतुत्वादुपकरोति नान्यत्र । दत्तमित्याह किमर्थमिति ॥७९॥
युधिष्ठिर उवाच।
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके
।
भृत्येषु भरणार्थं वै भयार्थं चैव राजसु॥८०॥
यक्ष उवाच।
केन स्विदावृतो लोकः केन स्विन्न प्रकाशते
।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति॥८१॥
युधिष्ठिर उवाच।
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते
।
लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति॥८२॥
ननु दानबलान्मानादीन् जित्वा मनो निगृह्णत एवात्यन्तिको दुःखनाशो भविष्यति किम्प्रविलापनरूपेण त्रयीधर्मेणेत्याशङ्क्याह अज्ञानेनेति । अज्ञानकार्येण स्थूलसूक्ष्मशरीरद्वयेन जरामरणशोकमोहाद्याश्रयेण लोक्यत इति लोक आत्मा । आवृतस्तिरोहितः काल्पितभुजङ्गेनेव रज्जुः। अतोऽज्ञाननाशार्थं त्रयीधर्मोऽवश्यमेष्टव्यः । ननु सुषुप्तौ देहद्वयस्याभावादज्ञाननाशोऽस्त्येव किं त्रयीधर्मेणेत्यत आह तमसा मूलाज्ञानेन सुषुप्तावप्यावृतोऽतो न प्रकाशते । तस्माद्देहत्रयमपि प्रविलापनीयमेवेत्यर्थः । ज्ञानाज्ञानयोरेव विरोधादज्ञानकृत संसारो न मनोरोधमात्रेण नश्यति किं तु सर्वबाधेन रज्जुमधिगम्यैव यथासमूलस्य भयस्य नाशस्तथा देहत्रयबाधेन स्वरुपाधिगमेनैव समूलस्य संसारस्य नाश इति भात्रः । अतो लोभसङ्गौ त्यक्त्वा ज्ञानमेव साधनीयमित्याह लोभादिति ॥८२॥
यक्ष उवाच।
मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत्
।
श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत्॥८३॥
युधिष्ठिर उवाच।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्
।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥८४॥
लोभसङ्गयोरत्यागे दोषमाह मृत इति । दरिद्रो लुब्धान्वत्तः सदानाद्यसमर्थत्वेन मृत एव । तत्र दृष्टान्तः मृतं राष्ट्रामेव राष्ट्रं प्राणभूमिपतेः सञ्चारस्थानं शरीरं त्वराजकं नष्टप्राणं यथा तथा दरिद्रो जीवन्मृत इत्यर्थः । अग्रिमं दृष्टान्तद्वयं श्रुतिप्रसिद्धमेव ॥८४॥
यक्ष उवाच।
का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम्
।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च॥८५॥
युधिष्ठिर उवाच।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम्
।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे॥८६॥
एवं लोभादित्यागेन दानाद्यनुष्ठानेन शमादिसम्पत्त्या च युक्तस्य श्रवणादिमतो यज्ज्ञातव्यं ब्रह्मात्मैक्यं तदाह का दिगिति । सन्तो वेदप्रमाणनिष्ठाः । दिक् दिशति उपदिशतीति दिक् उपदेष्टार इत्यर्थः । आचार्यवचनात् ब्रह्म ज्ञातव्यमिति भावः । तथा जलं ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेर्जलं पिण्डब्रह्माण्डात्मकं कार्यं तदभिमानी चेतनश्च तेन व्यष्टिसमष्टिजीवो लक्ष्यते । आकाशः ‘सर्वाणि ह वा इमानि भूतान्याकाशदेव समुत्पद्यन्त आकाशेऽस्तं यान्ति’ इति श्रुतेराकाशो व्याकृतं कारणं तदभिमानी ईश्वरस्तेनोच्यते । अनयोर्जलमाकाशमिति सामानाधिकरण्यादभेदउपाध्यंशप्रहाणेन उभयत्र शुद्धचिन्मात्रलक्षणया ‘सोऽयं देवदत्त’ इत्यत्रेव तदेतद्देशकालरूपविशेषण प्रहाणेन देवदत्तस्वरूपमात्रलक्षणया एतावानेव सर्वेषु वेदान्तेषु ज्ञातव्योऽर्थः। ननु व्यावर्तके उपाधिभेदे जाग्रति सति कथमनयोरभेदः स्यादत आह । गौरन्नमिति । गच्छतीति गौः इन्द्रियं तद्ग्राह्य शब्दाद्यर्थजातं वा तत् अन्नम् अदनीयं प्रविलापनीयं सैन्धवोदकन्यायेन । यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयते । अत्र ह्येते सर्वम् एकं भवन्तीत्यादिति श्रुतिभ्यः । उपाध्योर्मिथ्यात्वादेव रज्जूरगवत्प्रविलयः सुखसाध्य इत्यर्थः । प्रार्थनाकामः स एव विषमिव विषं जन्ममरणहेतुत्वात् । अतः कामं त्यक्त्वा गुरूपदेशेन प्रपञ्चं प्रविलाप्य प्रत्यक् ब्रह्मणोरभेदं साक्षात् कुर्यादित्यर्थः । ब्राह्मणो ब्रह्मवित् श्राद्धस्य श्रद्धया प्रदेयस्य कालः समयः यदैव सत्पात्रगभस्तदैव धर्मज्ञानादिकमनुष्ठेयं शिक्षणीयं च । समाप्ता ससाधना ब्रह्मविद्या । तथाऽप्यन्यान्यपि ज्ञानसाधनानि तल्लक्षणानि च प्रष्टुमिच्छः पूर्णं वरं भ्रातृजीवनादिसुखं न ददात्यतो धर्मराजः परामृशति । कथं वा यक्षमन्यसे इति । तव मते एतावता कृतकृत्यत्वमस्ति नास्ति वेति प्रश्नाभिप्रायः ॥८६॥
यक्ष उवाच।
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः
।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता॥८७॥
युधिष्ठिर उवाच।
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः
।
क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम्॥८८॥
तपआद्यष्टकस्य ज्ञानसाधनस्य लक्षणान्याह द्वाभ्यां तपः स्वधर्मेति ॥८८॥
यक्ष उवाच।
किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः
।
दया च का परा प्रोक्ता किञ्चार्जमुदाहृतम्॥८९॥
युधिष्ठिर उवाच।
ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता
।
दया सर्वसुखैषित्वमार्जवं समचित्तता॥९०॥
यक्ष उवाच।
कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः
।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः॥९१॥
युधिष्ठिर उवाच।
क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः
।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः॥९२॥
क्रोधलोभनिर्दयत्वानि त्यक्त्वा सर्वभूतहितः स्यादित्यर्थः ॥९२॥
यक्ष उवाच।
को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः
।
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः॥९३॥
युधिष्ठिर उवाच।
मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता
।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते॥९४॥
त्रिभिर्मोहादीनां लक्षणान्याह मोहो हीत्यादिना ॥९४॥
यक्ष उवाच।
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम्
।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते॥९५॥
युधिष्ठिर उवाच।
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः
।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम्॥९६॥
यक्ष उवाच।
कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते
।
को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः॥९७॥
युधिष्ठिर उवाच।
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते
।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः॥९८॥
नास्तिको नास्ति परलोक इति वादी स एव मूर्खो न । ततोऽन्यः पृथङ्मूर्खः प्रष्टव्य इत्यर्थः । संसारहेतुर्वासना ॥९८॥
यक्ष उवाच।
कोऽहङ्कार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः
।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते॥९९॥
युधिष्ठिर उवाच।
महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः
।
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम्॥१००॥
महच्च तदज्ञानं च अहङ्कारः धर्मः ध्वजोच्छ्रयो ध्वजवदुच्छ्रितो लोकेषु ख्यात्यर्थः । दम्भदर्पपैशून्यानि त्यक्त्वा दैवाधीनो यदृच्छालाभसन्तुष्टो निर्दम्भः निष्कामं च धर्ममाचरेदित्यर्थः॥१००॥
यक्ष उवाच।
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः
।
एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः॥१०१॥
युधिष्ठिर उवाच।
यदा धर्मश्च भार्या च परस्परवशानुगौ
।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः॥१०२॥
यक्ष उवाच।
अक्षयो नरकः केन प्राप्यते भरतर्षभ
।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि॥१०३॥
युधिष्ठिर उवाच।
ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम्
।
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्॥१०४॥
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु
।
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत्॥१०५॥
विद्यमाने धने लोभाद्दानभोगविवर्जितः
।
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्॥१०६॥
यक्ष उवाच।
राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा
।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम्॥१०७॥
युधिष्ठिर उवाच।
शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम्
।
कारणं हि द्विजत्वे च वृत्तमेव न संशयः॥१०८॥
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः
।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः॥१०९॥
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः
।
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः॥११०॥
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते
।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः॥१११॥
यक्ष उवाच।
प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते
।
बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय॥११२॥
युधिष्ठिर उवाच।
प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽधिकं जयति
।
बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभते॥११३॥
यक्ष उवाच।
को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका
।
वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः॥११४॥
युधिष्ठिर उवाच।
पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे
।
अनृणी चाप्रवासी च स वारिचर मोदते॥११५॥
अहन्यहनि भूतानि गच्छन्तीह यमालयम्
।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम्॥११६॥
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको ऋषिर्यस्य मतं प्रमाणम्
।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥११७॥
अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन
।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता॥११८॥
यक्ष उवाच।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप
।
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः॥११९॥
युधिष्ठिर उवाच।
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा
।
यावत्स शब्दो भवति तावत् पुरुष उच्यते॥१२०॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च
।
अतीतानागते चोभे स वै सर्वधनी नरः॥१२१॥
यक्ष उवाच।
व्याख्यातः पुरुषो राजन् यश्च सर्वधनी नरः
।
तस्मात् त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु॥१२२॥
युधिष्ठिर उवाच।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः
।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु॥१२३॥
यक्ष उवाच।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम्
।
स कस्मान्नकुलो राजन् सापत्नं जीवमिच्छसि॥१२४॥
यस्य नागसहस्त्रेण दशसङ्ख्येन वै बलम्
।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि॥१२५॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव
।
अथ केनानुभावेन सापत्नं जीवमिच्छसि॥१२६॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपासते
।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि॥१२७॥
युधिष्ठिर उवाच।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः
।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत्॥१२८॥
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम्
।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु॥१२९॥
धर्मशीलः सदा राजा इति मां मानवा विदुः
।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु॥१३०॥
कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम
।
उभे सपुत्रे स्यातां वै इति मे धीयने मतिः॥१३१॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः
।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु॥१३२॥
यक्ष उवाच।
तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम्
।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ॥१३३॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने त्रयोदशाधिकत्रिशततमोऽध्यायः॥३१३॥
वैशम्पायन उवाच।
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः
।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्॥१॥
ततस्ते इति ॥१॥
युधिष्ठिर उवाच।
सरस्येकेन पादेन तिष्ठन्तमपराजितम्
।
पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्॥२॥
वसूनां वा भवानेको रुद्राणामथवा भवान्
।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः॥३॥
मम हि भ्रातर इमे सहस्रशतयोधिनः
।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः॥४॥
सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये
।
स भवान् सुहृदोऽस्माकमथवा नः पिता भवान्॥५॥
सुहृदः सुहृत् । छान्दसमदन्तत्वम् ॥५॥
यक्ष उवाच।
अहं ते जनकस्तात धर्मो मृदुपराक्रम
।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ॥६॥
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्
।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम॥७॥
यशः ख्यातिः सत्यं यथार्थभाषणं दमो बाह्येन्द्रियजयः। शौचं द्विविधं मृज्जल्लादिना बाह्यं कामक्रोधादिराहित्यादान्तरं आर्जवमवक्रता । मार्दवमिति पाठे अक्रूरता । ह्रीरकार्यप्रवृत्तिवारकश्चेतोवृत्तिविशेषः । अचापलं मनसः स्थैर्यम् । दानं प्रसिद्धम् । तपः स्वधर्माचरणं ब्रह्मचर्यमुपस्थनिग्रहः। तनवः शरीराणि ॥७॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः
।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम॥८॥
अहिंसावाङ्मनःशरीरैः परपीडावर्जनम् समता मानापमानादिष्ववैषम्यं शान्तिश्चित्तनिग्रहः । तपः कृच्छ्रचान्द्रायणादि । शौचं व्याख्यातम्। अमत्सरः परगुणान् दृष्ट्वा सन्तापः । मत्सरस्तदभावः । द्वाराणि धर्मप्राप्तिसुखानि ॥८॥
दिष्ट्या पञ्चसु रक्तोऽसि विष्ट्या ते षट्पदी जिताः
।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके॥९॥
दिष्ट्या पञ्चसु त्क्तोसि । पञ्चस्वात्मदर्शनसाधनेषु ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति’ इति श्रुत्युक्तेषु शमादिषु दिष्ट्या()र्वपुण्यवशात् रक्तोऽसि तस्य फलं च षट्पदीजयः । पद्यन्ते प्राप्नुवन्ति देहिनमिति । पदानि षडूर्मयो ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इति श्रुत्युक्ताः तेषां षप्णां पदानां समाहारः षट्पदी सा त्वया जिता । तेषु पदेषु द्वे पदे पूर्वजातमात्रस्यह्यशनापिपासे प्रथमं भवतः । द्वे मध्ये शोकमोहौ । शोक इष्टवियोगजश्चित्तस्य सन्तापः । मोहोऽतिपापेन कार्याकार्यप्रतिसन्धानशून्यत्वम् । एते मध्ये मध्यमे वयसि प्राप्नुतः। प्रपञ्चन्तु पञ्चसु महायज्ञेषु ‘कामक्रोधौ लोभमोहौ मदमानौ च षट्पदी। षट्पदीं समतिक्रम्य मुच्यते नात्र संशयः’ इति व्याचक्रुस्तदध्यात्माधिकाराद्द्वे पूर्वे इति वाक्यशेषासामञ्जस्याच्चोपेक्षितं साम्परायिके जरामृत्यू उत्तरे वयस्युपतिष्ठतः द्वे अन्ते साम्परायिके । सम्भरायः परलोकस्तं प्रति नेतुमुदिते साम्परायिके ॥९॥
धर्मोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः
।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ॥१०॥
धर्मोऽहमिति । भद्रं ते अहं धर्मस्तव पिताऽस्मीति स्वरूपप्रकाशनं इति भद्रं ते इत्यनेन । इति एवमुक्तप्रकारेण । यशःप्रभृतिभिर्दशभिर्धर्मतनुभिरहिंसादिभिर्धर्मद्वारैश्चोत्पन्नेनादृष्टेन । शमादिपञ्चकानुरक्तस्य षट्पदीजयफलं भद्रं कल्याणं मोक्षसुखाख्यमद्वयसच्चिदानन्दमात्रं ते तव अस्त्विति शेषः । एवं प्रश्नानुवादमुखेन प्रतिपादितां ब्रह्मविद्यां यशः सत्यं दमः शौचमित्यादि श्लोकत्रयेणोपसंहृत्य आख्यायिकामनुसरति जिज्ञासुस्त्वामिहागत इत्यादिना ॥१०॥
वरं वृर्णीष्व राजेन्द्र दाता ह्यस्मि तवानघ
।
ये हि मे पुरुषा भक्ता न तेषामास्ति दुर्गतिः॥११॥
युधिष्ठिर उवाच।
अरणीसहितं यस्य मृगो ह्यादाय गच्छति
।
तस्याग्नयो न लुप्येरन् प्रथमोऽस्तु वरो मम॥१२॥
अरणीसहितमरण्योः समारोपितमग्निम् । यद्वा अरण्योः सहितं समुदायः अरणीद्वयमिति यावत् ॥१२॥
यक्ष उवाच।
अरणीसहितं ह्यस्य ब्राह्मणस्य हृतं मया
।
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो॥१३॥
वैशम्पायन उवाच।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
।
अन्यं वरय भद्रं ते वरं त्वममरोपम॥१४॥
युधिष्ठिर उवाच।
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्
।
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्॥१५॥
अरण्ये गतानीति शेषः । नः अस्मान् ॥१५॥
वैशम्पायन उवाच।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्॥१६॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्
।
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत॥१७॥
वर्षं त्रयोदशमिदं मत्प्रसादात् कुरूद्वहाः
।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ॥१८॥
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम्
।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ॥१९॥
छन्दतः इच्छातः ॥१९॥
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत
।
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा॥२०॥
प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते
।
न तृप्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस्तथा॥२१॥
तृतीयं गृह्यतां पुत्र चरमप्रतिमं महत्
।
त्वं हि मत्प्रभवो राजन् विदुरश्च ममांशजः॥२२॥
युधिष्ठिर उवाच।
देवदेवो मया दृष्टो भवान् साक्षात् सनातनः
।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः॥२३॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो
।
दाने तपसि सत्ये च मनो मे सततं भवेत्॥२४॥
धर्म उवाच।
उपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव
।
भवान् धर्मः पुनश्चैव यथोक्तं ते भविष्यति॥२५॥
वैशम्पायन उवाच।
इत्युक्त्वाऽन्तर्दधे धर्मो भगवाँल्लोकभावनः
।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः॥२६॥
उपेत्य चाश्रमं वीराः सर्व एव गतक्लमाः
।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने॥२७॥
आरणेयमरणीसम्पुटम् ॥२७॥
इदं समुत्थानसमागतं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम्
।
पठन्नरः स्याद्विजितेन्द्रियो वशी स पुत्रपौत्रः शतवर्षभाग्भवेत्॥२८॥
समुत्थानसमागतं भीमादीनां समुत्थानं च धर्मराजेन सह समागतं सम्मेलनं चेति समाहारः । पितुर्धर्मस्य पुत्रस्य युधिष्ठिरस्य चात्समागतमिति समासैकदेशभूतमप्यनुवर्तते ॥२८॥
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने
।
कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम्॥२९॥
कदर्यभावे कार्पण्ये सदाख्यानं शुभाख्यानम्॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि नकुलादिजीवनादिवरप्राप्तौ चतुर्दशाधिकत्रिशततमोऽध्यायः॥३२४॥
वैशम्पायन उवाच।
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः
।
अज्ञातवासं वत्स्यन्तच्छन्ना वर्षं त्रयोदशम्॥१॥
धर्मेणेति । वत्स्यन्तः वस्तुमिच्छन्तः ॥१॥
उपोपविष्टा विद्वांसः सहिताः संशितव्रताः
।
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः॥२॥
तानब्रुवन्महात्मानः स्थिताः प्राञ्जलयस्तदा
।
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः॥३॥
स्थिताः स्वधर्मनिष्ठाः ॥३॥
विदितं भवतां सर्वं धार्तराष्टैर्यथा वयम्
।
छद्मना हृतराज्याश्चानयाश्च बहुशः कृताः॥४॥
उषिताश्च वने कृच्छ्रे वयं द्वादशवत्सरान्
।
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्॥५॥
तद्वसामो वयं छन्नास्तदनुज्ञातुमर्हथ
।
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः॥६॥
जानतो विषमं कुर्युरस्मास्वत्यन्तवैरिणः
।
युक्तचाराश्च युक्ताश्च पौरस्य स्वजनस्य च॥७॥
युक्ताः योजिताश्चारा यैस्ते युक्ता अवहिताः पौरस्य स्वजनस्य च अस्माभिराश्रितस्य विषमं कुर्युरतो राष्ट्रान्तरेऽस्माभिर्गन्तव्यमित्याशयः ॥७॥
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह
।
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि॥८॥
वैशम्पायन उवाच।
इत्युक्त्वा दुःखशोकार्ती शुचिर्धर्मसुतस्तदा
।
सम्मूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः॥९॥
अशुचिरार्तिग्रस्तत्वात् शुचिरित्येव पाठः स्वच्छः ॥९॥
तमथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह
।
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा॥१०॥
राजन् विद्वान् भवान् दान्तः सत्यसन्धो जितेन्द्रियः
।
नैवंविधाः प्रमुह्यन्ते नराः कस्याञ्चिदापदि॥११॥
देवैरप्यापदः प्राप्ताच्छन्नैश्च बहुशस्तथा
।
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः॥१२॥
इन्द्रेण निषधान् प्राप्य गिरिप्रस्थाश्रमे तदा
।
छन्नेनोष्य कृतं कर्म द्विषतां च विनिग्रहे॥१३॥
उष्य वासं कृत्वा ॥१३॥
विष्णुनाश्वशिरः प्राप्य तथाऽदित्यां निवत्स्यता
।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम्॥१४॥
प्राप्य वामनरुपेण प्रच्छन्नं ब्रह्मरुपिणा
।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्॥१५॥
हुताशनेन यच्चापः प्रविश्य छन्नमासता
।
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया॥१६॥
प्रच्छन्नं चापि धर्मज्ञ हरिणाऽरिविनिग्रहे
।
वज्रं प्रविश्य शक्रस्य यत् कृतं तच्च ते श्रुतम्॥१७॥
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा
।
यत् कृतं तात देवेषु कर्म तत्तेऽनघ श्रुतम्॥१८॥
एवं विवस्वता तात छन्नेनोत्तमतेजसा
।
निर्दग्धाः शात्रवाः सर्वे वसता भुवि सर्वशः॥१९॥
विष्णुना वसता चापि गृहे दशरथस्य वै
।
दशग्रीवो हतच्छन्नं संयुगे भीमकर्मणा॥२०॥
एवमेव महात्मानः प्रच्छन्नास्तत्र तत्र ह
।
अजयञ्छात्रवान् युद्धे तथा त्वमपि जेष्यसि॥२१॥
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः
।
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः॥२२॥
न चचाल छलेन शत्रुवधं नाङ्गीकृतवान् ॥२२॥
अथाब्रवीत् महाबाहुर्भीमसेनो महाबलः
।
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन्॥२३॥
अवेक्षया महाराज तव गाण्डीवधन्वना
।
धर्मानुगतया बुद्ध्या न किञ्चित् साहसं कृतम्॥२४॥
सहदेवो मया नित्यं नकुलश्च निवारितौ
।
शक्तौ विध्वंसने तेषां शत्रूणां भीमविक्रमौ॥२५॥
न वयं तत्प्रहास्यामो यस्मिन् मोक्ष्यति नो भवान्
।
भवान् विधत्तां तत् सर्वं क्षिप्रं जेष्यामहे रिपून्॥२६॥
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषा
।
उक्त्वा चापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान्॥२७॥
आशिषोक्त्वा आशिषं प्रयुज्य ॥२७॥
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा
।
आसेदुस्ते यथान्यायं पुनर्दर्शनकाङ्क्षया॥२८॥
सह धौम्येन विदांसस्तथा पञ्च च पाण्डवाः
।
उत्थाय प्रययुर्वीराः कृष्णामादाय धन्विनः॥२९॥
क्रोशमात्रमुपागम्य तस्माद्देशान्निमित्ततः
।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः॥३०॥
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः
।
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन्॥३१॥
मन्त्राय विचारार्थम् ॥३१॥
इति श्रीमहाभारते शसाहस्र्यां संहितायां वैयासक्यामारण्यके पर्वणि आरणेयपर्वणि अज्ञातवासमन्त्रणे पञ्चदशाधिकत्रिशततमोऽध्यायः॥३१५॥