अरण्यपर्व - १किर्मीरवधपर्व - २अर्जुनाभिगमनपर्व - ३कैरातपर्व - ४इन्द्रलोकाभिगमनपर्व - ५नलोपाख्यानपर्व - ६तीर्थयात्रापर्व - ७जटासुरवधपर्व - ८यक्षयुद्धपर्व - ९निवातकवचयुद्धपर्व - १०आजगरपर्व - ११मार्कण्डेय-समास्यापर्व - १२द्रौपदीसत्यभामासंवादपर्व - १३घोषयात्रापर्व - १४मृगस्वप्नोद्भवपर्व - १५व्रीहिद्रौणिकपर्व - १६द्रौपदीहरणपर्व - १७जयद्रथविमोक्षणपर्व - १८रामोपाख्यानपर्व - १९परिव्रतामाहात्म्यपर्व - २०कुण्डलाहरणपर्व - २१आरणेयपर्व - २२

आरणेयपर्व

एकाधिकत्रिशततमोऽध्यायः

जनमेजय उवाच। एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः॥१॥

एवमिति ॥१॥

वैशम्पायन उवाच। एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः॥२॥

पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं विचित्रबहुपादपम्॥३॥

अनुभुक्तफलाहाराः सर्व एव मिताशनाः ।
न्यवसन् पाण्डवास्तत्र कृष्णया सह भार्यया॥४॥

अनुभुक्ताः व्रतिनः फलाहाराः फलान्येवाहर्तुं शीलाः ॥४॥

वसन् द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ॥५॥

ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्च्छन्त विपुलं सुखोदर्कं परन्तपाः॥६॥

तस्मिन् प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः ।
वन क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु॥७॥

अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः ।
मृगस्य घर्षमाणस्य विषाणे समसज्जत॥८॥

अरणी उत्तराधरेऽग्निमथनकाष्ठे ताभ्यां सहितं मन्थं निर्मथनदण्डम् ॥८॥

तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः॥९॥

आश्रमान्तरितः आश्रमदूरगतः ॥९॥

ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम ।
त्वरितोऽभ्यागमत् तत्र अग्निहोत्रपरीप्सया॥१०॥

अजातशत्रुमासीनं भ्रातृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं सन्तप्तश्चेदमब्रवीत्॥११॥

अरणीसहितं मन्थं समासक्तं वनस्पतौ ।
मृगस्य घर्षमाणस्य विषाणे समसज्जत॥१२॥

तमादाय गतो राजंरत्वरमाणो महामृगः ।
आश्रमात् त्वरितः शीघ्रं प्लवमानो महाजवः॥१३॥

तस्य गत्वा पदं राजन्नासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः॥१४॥

पदं मार्गे चिह्नं गत्वा प्राप्य तेनैव पथा तदानयत ॥१४॥

ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह॥१५॥

सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्॥१६॥

कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन् पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्॥१७॥

तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तो मृगं शान्ता दुःखं प्राप्ता मनस्विनः॥१८॥

शीतलच्छायमागम्य न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्॥१९॥

तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं श्रेष्ठममर्षात् कुरुनन्दनम्॥२०॥

नास्मिन् कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव ह ।
अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं किन्नु राजन्॥२१॥

धर्मो न ममज्ज धर्मलोपोऽर्थलोपश्च नाभूत् । आलस्यादित्युपचर्यते । त्वयि अनुत्तराः प्रतिवाक्यरहिताः सर्वभूतेषु कार्यार्थे उपस्थिते ओमित्येव वदामो न तु वाक्यान्तरमित्यर्थः । संशयं ब्राह्मणस्य कर्मलोपनिमित्तं दोषम् ॥२१॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि मृगान्वेषणे एकादशाधिकत्रिशततमोऽध्यायः॥३११॥
द्वादशाधिकत्रिशततमोऽध्यायः

युधिष्ठिर उवाच। नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपाप्योः॥१॥

नापदामिति । निमित्तं फलं धर्मः प्रारब्धरूपस्तु अर्थं फलं सुखदुःखरूपं विभजति ॥१॥

भीम उवाच। प्रातिकाम्यनयत् कृष्णां सभायां प्रेष्यवत् तदा ।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्॥२॥

प्रेष्यवत् प्रेष्यामिव ॥२॥

अर्जुन उवाच। वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्॥३॥

सहदेव उवाच। शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्॥४॥

वैशम्पायन उवाच। ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश॥५॥

पानीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान् ।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः॥६॥

नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् ।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः॥७॥

पश्यामि बहुलान् राजन् वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादमत्रोदकमसंशयम्॥८॥

ततोऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूणैः पानीयमानय॥९॥

नकुलस्तु तथेत्युक्त्वा भ्रातृर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत॥१०॥

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातुकामस्ततो वाचमन्तरिक्षात् स शुश्रुवे॥११॥

यक्ष उवाच। मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च॥१२॥

साहसं जलपानरूपम् । परिग्रहो नियमः यो मत्प्रश्नान्वदेत् स एव इतः पयः पिबेत् हरेद्वेति॥१२॥

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥१३॥

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम्॥१४॥

भ्राता हि चिरयातो नः सहदेव तवाग्रजः ।
तथैवानय सोदर्यं पानीयं च त्वमानय॥१५॥

सहदेवरतथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा॥१६॥

भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव पानीयं ततो वागभ्यभाषत॥१७॥

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च॥१८॥

अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥१९॥

अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते परिगतौ बीभत्सो शत्रुकर्शन॥२०॥

तौ चैवानय भद्रं ते पानीयं च त्वमानय ।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः॥२१॥

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत॥२२॥

ततः पुरुषशार्दूलौ पानीयहरणे गतौ ।
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः॥२३॥

प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्॥२४॥

नापश्यत् तत्र किञ्चित् स भूतमस्मिन् महावने ।
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत॥२५॥

अभिधावंस्ततो वाक्यमन्तरिक्षात् स शुश्रुवे ।
किमासीदसि पानीयं नैतच्छक्यं बलात् त्वया॥२६॥

कौन्तेय यदि प्रश्नांस्तान् मयोक्तान्प्रतिपत्स्यसे ।
ततः पास्यासि पानीयं हरिष्यसि च भारत॥२७॥

वारितस्त्वब्रवीत् पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि॥२८॥

दृश्यमानो भूत्वेति शेषः ॥२८॥

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।
प्रववर्ष दिशः कृत्स्नाः शब्दवेधं च दर्शयन्॥२९॥

कर्णिनालीकनाराचानुत्सृजन् भरतर्षभ ।
सत्वमोघानिषून् मुक्त्वा तृष्णयाऽभिप्रपीडितः॥३०॥

अनेकैरिषुसङ्घातैरन्तरिक्षे ववर्ष ह ।
यक्ष उवाच। किं विधानेन ते पार्थ प्रश्नानुक्त्वा ततः पिब॥३१॥

विधानेन यत्नेन ॥३१॥

अनुक्त्वा च पिबन् प्रश्नान् पीत्वैव न भविष्यसि ।
एवमुक्तस्ततः पार्थः सत्यसाची धनञ्जयः॥३२॥

न भविष्यसि मरिष्यसि ॥३२॥

अवज्ञायैव तां वाचं पीत्यैव निपपात ह ।
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः॥३३॥

नकुलः सहदेवश्च बीभत्सुश्च परन्तप ।
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत॥३४॥

तांश्चैवानय भद्रं ते पानीयं च त्वमानय ।
भीमसेनस्तथेत्युक्ता तं देशं प्रत्यपद्यत॥३५॥

यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ।
तान् दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः॥३६॥

अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य वै॥३७॥

पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।
ततोऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः॥३८॥

यक्ष उवाच। मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥३९॥

एवमुक्तस्तदा भीमो यक्षेणामिततेजसा ।
अनुक्तैव तु तान् प्रश्नान् पीत्वेव निपपात ह॥४०॥

ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः ।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा॥४१॥

व्यपेतजननिर्घोषं प्रविवेश महावनम् ।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्॥४२॥

नलिभास्वरवर्णैश्च पादपैरुपशोभितम् ।
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः॥४३॥

स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम् ।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा॥४४॥

हेमजालानि ह भवर्णानि केसराणि तैः परिष्कृतं मण्डितम् ॥४४॥

उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः॥४५॥

सिंधुवारैर्जलजविशेषैः ॥४५॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि नकुलादिपतने द्वादशाधिकत्रिशततमोऽध्यायः॥३१२॥
त्रयोदशाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। स ददर्श हतान् भ्रातॄन् लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्॥१॥

स ददर्शेति ॥१॥

विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चैव निर्विचेष्टान् गतायुषः॥२॥

नन्वर्थकामयोर्विरोधिनोः सतोस्तादृशो धर्मो दुरनुष्ठेय इत्याशङ्क्याह यदेति । धर्मोऽग्निहोत्रादिः । पारिव्राज्यवद्भार्याविरोधी न भवति । यदा च भार्यादानादिप्रतिबन्धकं विना धर्मे विरोधिनी न भवति तदा धर्मोऽर्थान् प्रसूते । भार्या च कामं पूरयति । तेन त्रिवर्णोऽयं सङ्गमं प्राप्नोति । तथा च गृहिणामप्यस्ति धर्मद्वारेण मोक्षेऽधिकार इत्युक्तम् ॥२॥

स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लतः ।
तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश्चिन्तासमन्वितः॥३॥

अक्षयो नरकः नित्यसंसारित्वम् ॥३॥

धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् ।
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर॥४॥

तद्धेतुमासुरीं सम्पदमाह ब्राह्मणमित्यादिना ॥४॥

सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ।
व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते॥५॥

महात्मनि महाबाहो कुरूणां कीर्तिवर्धने ।
मनुष्यसम्भवा वाचो विधर्मिण्यः प्रतिश्रुताः॥६॥

विधर्मिण्यः अनृताः ॥६॥

भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा ।
देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय॥७॥

स्वाध्यायेन अक्षरावाप्त्या श्रुतेन तदर्थग्रहणेन । सार्थवेदाधिगमेनेत्यर्थः ॥७॥

सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै ।
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः॥८॥

कुलं न कारणं स्वाध्यायः श्रुतं च द्वयं मिलित्वैकमेव तदपि न कारणमिति योज्यम् ॥८॥

विप्रनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा ।
नास्य जेता रणे कश्चिदजेता नैष कस्यचित्॥९॥

न कस्यचिदजेताऽपि तु सर्वस्यैव जेता ॥९॥

सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः ।
अयं ममाशां संहत्य शेते भूमौ धनञ्जयः॥१०॥

आशां राज्याशां संहत्य विनाश्य ॥१०॥

आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम ।
रणे प्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ॥११॥

अतिरिच्यते नीचतायामिति शेषः ॥११॥

कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ ।
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ॥१२॥

अश्मसारमयं नूनं हृदयं मम दुर्हृदः ।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते॥१३॥

शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः ।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः॥१४॥

अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः ।
असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः॥१५॥

कर्मोपास्तिज्ञानानामन्तरङ्गसाधनं वैराग्यमाह प्रश्नचतुष्टयोत्तरत्वेन हे वारिचर हे यक्ष ऋणं प्रवासं च अकुर्वन्यदृच्छालाभसन्तुष्टो भवेदित्यर्थः ॥१५॥

सानूनिवाद्रेः संसुप्तान् दृष्ट्वा भ्रातॄन् महामतिः ।
सुखं प्रसुप्तान् प्रखिन्नः खिन्नः कष्टां दशां गतः॥१६॥

अहनीति । देहस्य विनाशित्वमनुसन्धाय प्राप्तानपि भोगांस्त्यक्त्वा शीघ्रं परमार्थाय यतितव्यमित्यर्थः ॥१६॥

एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः ।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः॥१७॥

दध्यौ कारणं मरणहेतुं विचारितवान् ॥१७॥
तर्क इति । अप्रतिष्ठः निर्णयशून्यः श्रुतयोऽपि विभिन्नाः परस्परविरुद्धार्थवादिन्यः । मुनयोऽपि तद्व्याख्यातारस्तादृशा एव अतोऽनन्तासु धर्मशास्त्रादिविद्यासु श्रममकृत्वा बहुजनसम्मतमेव मार्गमनुसरेदित्यर्थः ॥१७॥

इतिकर्तव्यतां चेति देशकालविभागवित् ।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः॥१८॥

अस्मिन्निति भुज्यमाना अपि स्त्र्याद‌यो न चिरस्थायिन इति सर्वतो वैराग्यमेवाश्रयेदिति भावः॥१८॥

अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः ।
एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः॥१९॥

तपःसुतो धर्मपुत्रः ॥१९॥
कर्मज्ञानफले विवेक्तुं पृच्छति व्याख्याता इति याथातथ्यं यथार्थं यथा स्यात्तथा पुरुषं पुरि शरीरे वसतीति पुरुषस्तं जीवन्तमित्यर्थः । को जीवति कश्चावाप्तसकलकाम इति प्रश्नौ ॥१९॥

बुद्ध्या विचिन्तयामास वीराः केन निपातिताः॥२०॥

तयोरुत्तरं दिवमिति द्वाभ्यां पुण्येन कर्मणा सकामेन निष्कामेण वा द्युभूमिव्यापी कीर्तिशब्दो भवति । यावत्कीर्तिरस्ति तावज्जीवतीत्यर्थः । पश्चादिहलोके पूर्ववासनानुरूपाणि कर्माणि करोति । तत्रापि सोपानारोहक्रमेण निष्कामो मुच्यते अवरोहक्रमणे सकामोऽधिकमधिकं वासनापाशैर्बध्यत इति विवेकः ॥२०॥

नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् ।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः॥२१॥

तुल्ये इति । ब्रह्मविदेव सर्वधनी ‘यस्तमात्मानमनुविद्य विजानाति सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्’ इति तस्यैवाप्तसकलकामत्वश्रुतेः । तस्य स्वाभाविकमिदं लक्षणं तुल्ये प्रियाप्रिये इति । तदेव साधकस्य यत्नसाध्यं ज्ञानसाधनमित्युच्यते यथोक्तम्। ‘उत्पन्नात्मप्रबोधस्य ह्यद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः’ इति ॥२१॥

एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ।
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम्॥२२॥

उपांशुविहितम् अस्माभिरज्ञानं सद्विहितम् ॥२२॥
एवं पुत्रस्य ज्ञानं परीक्ष्य धर्मे स्थितिं परीक्षितुमाह यमेकमिच्छसि स जीवत्विति ॥२२॥

गान्धारराजरचितं सततं जिह्मबुद्धिना ।
यस्य कार्यमकार्यं वा सममेव भवत्युत॥२३॥

कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः ।
अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः॥२४॥

दुष्कृतेः पापकर्मणः ॥२४॥
जीवं जीवन्तम् ॥२४॥

भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत् ।
तस्यासीन्न विषेणेदमुदकं दूषितं यथा॥२५॥

मृतानामपि चैतेषां विकृतं नैव जायते ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत्॥२६॥

अनुभावेन नकुलगतसामर्थ्येन ॥२६॥

एकैकशश्चौघबलानिमान् पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते॥२७॥

ओघबलान् महाप्रवाहवेगान् प्रतिसमासेत प्रतियुध्येत् कालेऽन्तं करोति यस्तादृशो यमः कालान्तकयमस्तस्मात् ॥२७॥

एतेन व्यवसायेन तत् तोयं व्यवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात् स शुश्रुवे॥२८॥

नः अस्मान् माऽवधीत् ॥२८॥

यक्ष उवाच। अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र न चेत् प्रश्नान् पृच्छतो व्याकरोषि॥२९॥

आनृशंस्यम् अवैषम्यं परमार्थात् सत्यात् ॥२९॥

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥३०॥

युधिष्ठिर उवाच। रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान् देवो नैतच्छकुनिना कृतम्॥३१॥

प्रधानभाक् प्राधान्यभाक् ॥३१॥
धीयते निश्चिनुते ॥३१॥

हिमवान् पारियात्रश्च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भूरितेजसः॥३२॥

अतीव ते महत्कर्म कृतं च बलिनां वर ।
यान् न देवा न गन्धर्वा नासुराश्च न राक्षसाः॥३३॥

ते तव ॥३३॥

विषहेरन् महायुद्धे कृतं ते तन्महाद्भुतम् ।
न ते जानामि यत् कार्यं नाभिजानामि काङ्क्षितम्॥३४॥

ते त्वया ॥३४॥

कौतूहलं महज्जातं साध्वसं चागतं मम ।
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः॥३५॥

पृच्छामि भगवंस्तस्मात् को भवानिह तिष्ठति ।
यक्ष उवाच। यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः॥३६॥

मयैते निहताः सर्वे भ्रातरस्ते महौजसः ।
वैशम्पायन उवाच। ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्॥३७॥

यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ।
विरूपाक्षं महाकायं यक्षं तालुसमुच्छ्रयम्॥३८॥

ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ।
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः॥३९॥

मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ।
यक्ष उवाच। इमे ते भ्रातरो राजन् वार्यमाणा मयाऽसकृत्॥४०॥

बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया ।
न पेयमुदकं राजन् प्राणानिह परीप्सता॥४१॥

पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥४२॥

युधिष्ठिर उवाच। न चाहं कामये यक्ष तव पूर्वपरिग्रहम् ।
कामं नैतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा॥४३॥

यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ ।
यथाप्रज्ञं तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम्॥४४॥

यत् यतः आत्मनैवात्मस्वरूपं वक्तव्यमतस्ते प्रश्नान् प्रतिवक्ष्यामि ॥४४॥

यक्ष उवाच। किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति॥४५॥

किंस्विदादित्यमुन्नयतीत्यादिप्रश्नोत्तरमालिका आत्मनस्तत्त्वं निर्णेतुमारब्धा ‘तरति शोकमात्मवित्’ इति तज्ज्ञानस्य फलवत्त्वश्रवणात्तत्सिद्धये च उच्चावचं साधनजातमस्यां निरूप्यते तां व्याख्यास्यामः ॥४५॥

युधिष्ठिर उवाच। ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति॥४६॥

आदित्यम् आदत्ते शब्दादीन् श्रोत्रादिभिरित्यादित्यो जीवस्तं गौरोऽहमन्धोऽहमदुःख्यहं कर्ताहमित्याद्यनुभवाद्देहाद्यात्मतया भासमानं वादिभिश्चानेकधा विकल्प्यमानं ब्रह्म वेद उन्नयति देहादिभ्यः पृथक्करोति श्रुतिरेवात्मतत्त्वनिर्णये मानमित्यर्थः । तथाच श्रुतिः ‘नावेदविन्मनुते तं बृहन्तम्’ इति । ननु सर्वेऽपि वेदादात्मानं जानन्ति नेत्याह । देवा इति । देवाः शमादयस्तस्याभितश्चराः सहायाः । अस्तं स्वस्थानम् अपहृतपाप्मादिगुणाष्टक विशिष्टं तत्कारणभूतं हार्दाकाशं प्रति एनं धर्मः साक्षात् परंपरया वा कर्मोपासनारूपो नयति प्रापयति । स एवमुक्तविधं स्वरूपं सगुणब्रह्मभावं प्राप्य तद्बाधेन सत्ये सर्वबाधावधिभूते शुद्धचिन्मात्रे प्रतिष्ठितो भवति । तथा च श्रुतिः ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इति । प्रथमं शास्त्रजं ज्ञानं ततः शमादिसम्पन्नस्य योगबलाद्देहाद्यध्यासनिवृत्तिस्ततः स्वर्गाख्यसगुणब्रह्मदर्शनं ततः केवलीभाव इति श्रुतेरर्थः ॥४६॥

यक्ष उवाच। केनस्विच्छ्रोत्रियो भवति केनस्त्विद्विन्दते महत् ।
केनस्विद्द्वितीयवान् भवति राजन् केन च बुद्धिमान्॥४७॥

युधिष्ठिर उवाच। श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया॥४८॥

वेदस्य सत्ये प्रतिष्ठाहेतुत्वमुक्तं तत्र दृष्टं द्वारमाह श्रुतेनेति । श्रोत्रियो वेदाध्यायी । श्रुतेन आचार्यमुखाद्वेदार्थावधारणेन भवति न त्वक्षरग्रहणमात्रेण ततश्च तपसा युक्त्या च श्रुतस्यार्थस्यालोचनेन महत् ब्रह्म विन्दते जानीते । मानमेयगताऽसम्भावनानिवृत्त्या निश्चिनोति धृत्या ‘धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी’ इत्युक्तलक्षणया निदिध्यासनेनेत्यर्थः । द्वितीयमनीशत्वादिविशिष्टाद‌विद्याप्रत्युपस्थापिताज्जैवापात्तद्विपरीतं विद्याप्राप्यं प्रतीचो यत् द्वितीयं रूपं तद्वान् भवति । एतत्त्रयनिश्चयात्मिका बुद्धिर्गुरूपदेशादेव प्राप्येत्याह बुद्धिमानिति। तथा च श्रुतिः ‘आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । आचार्यवान् पुरुषो वेद’ इत्यादिरात्मदर्शनसाधनत्वेन श्रवणादित्रयमाचार्यवत्त्वं चेति दर्शयति ॥४८॥

यक्ष उवाच। किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव॥४९॥

युधिष्ठिर उवाच। स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव॥५०॥

श्रवणाद्यधिकारे हेतुमाह त्रिभिरुत्तरैः। स्वाध्यायो वेदाध्ययनं विप्राणां देवत्वं स्वर्गलोकप्रापकं तपः शमादिकं सदाचार इत्युपादेयद्वयं मानुषो भावो देहाद्याभिमानः । मरणं जन्ममरणप्रापकः परिवादो देवब्राह्मणादिदूषणम् असदाचार इति हेयद्वयम् ॥५०॥

यक्ष उवाच। किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव॥५१॥

युधिष्ठिर उवाच। इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव॥५२॥

परित्यागः आर्तानामिति शेषः ॥५२॥

यक्ष उवाच। किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते॥५३॥

युधिष्ठिर उवाच। प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते॥५४॥

इतोऽप्यन्तरङ्गं हेतुमाह प्राणमनसि निरुध्यमाने यज्ञे सामयजुषी इव ज्ञानयज्ञोपकारके ऋक् एका मुख्या यज्ञं ज्ञानं वृणुते स्वीकरोति । ज्ञानोत्पादिकेत्यर्थः। तथा च श्रुतिः ‘मनो वाचं प्राणं तान्यात्मने कुरुतः’ इति आत्महितार्थमेतत् त्रयं प्रजापतिना सृष्टमित्याह तथा तं त्वौपनिषदं पुरुषमित्यौपनिषदत्वविशेषणं वाचो मुख्यत्वमाह ॥५४॥

यक्ष उवाच। किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् ।
किंस्वित् प्रतिष्ठमानानां किंस्वित् प्रसवतां वरम्॥५५॥

युधिष्ठिर उवाच। वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः॥५६॥

शमादीनां प्राणजयादीनां चासम्भवे यज्ञाद्येव कर्तव्यमित्याह आवपतां आसमन्तात् देवांस्तर्पयतां वर्षं वृष्टिः श्रेष्ठं फलं सर्वलोकोपकारकत्वात्। यथोक्तम् ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । निवपतां निवापः पितृतर्पणं तत्कुर्वतां बीजं क्षेत्रारामाद्यात्मोपकारकं फलम् । ‘आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीतास्तुभ्यं पितामहाः’ इति स्मृत्युक्तं प्रतिष्ठमानानामिहैव प्रतिष्ठालिप्सूनां गावः श्रेष्ठं प्रसवतां सन्ततिमिच्छूनां पुत्रः श्रेष्ठं फलं दौहित्रादिभ्यः गवां पुत्रस्य च दृष्टार्थत्वेऽपि अतिथिप्रीणनद्वारा श्राद्धप्रदानादिद्वारा उपकारकत्वेन परंपरया श्रवणाद्यधिकारहेतुत्वं ज्ञेयम् ॥५६॥

यक्ष उवाच। इन्द्रियार्थाननुभवन् बुद्धिमान् लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन् को न जीवति॥५७॥

इतोऽपि साधनाद्भ्रष्टो यस्तं निन्दति । इन्द्रियार्थानिति । इन्द्रियार्थान् शब्दादीन् लोके धनादिमत्त्वेन पूजितः सन्मतो दानाधिकारित्वेन ॥५७॥

युधिष्ठिर उवाच। देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति॥५८॥

नः निर्वपति न प्रयच्छति देवतादिभ्यः ॥५८॥

यक्ष उवाच। किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ।
किं स्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात्॥५९॥

उक्तसाधनाशक्तेन मातापित्रोः शुश्रूषा मनोनिरोधस्तृणवत्तुच्छायाश्चिन्तायास्त्यागश्च कर्तव्य इत्याह किंस्विद्गुर्विति ॥५९॥

युधिष्ठिर उवाच। माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्॥६०॥

यक्ष उवाच। किंस्वित् सुप्तं न निमिषति किंस्विज्जातं न चोपति ।
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते॥६१॥

युधिष्ठिर उवाच। मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥६२॥

ननु मनोनाशे शून्यमेवावशिष्यत इत्याशङ्क्य नेत्याह मत्स्य इति । मस्त्य इव मत्स्यो जीवः जाग्रत्स्वप्नयोरिहलोकपरलोकयोर्वा तीरयोरिव सञ्चारेण सुप्तः स्वनीडभूतं सद्रूपं ब्रह्म प्राप्तो न निमिषति मनोवल्लुप्तदृष्टिर्न भवति । ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ इति श्रुतेः । ननु मत्स्योऽविनाशित्वादजातश्चेत्कस्तर्हि जात इत्यत आह अण्डं पिण्डब्रह्माण्डरूपं जातमुत्पन्नं सत् न चोपति चलति । चुप मन्दायां गतौ । पुरुषप्रवर्तितमेवाहङ्कारादिजडजातं चेष्टते इत्यर्थः । ‘को ह्येवान्यात् कः प्राप्याद्यदेष आकाश आनन्दो न स्यात्’ इति श्रुतेः । कस्तर्हि जाताजातयोरेतयोः संयोगस्य दुःखदस्य निवृत्त्युपाय इत्यत आह । अश्मनः अशरीरस्य निवृत्तदेहत्रयाध्यासस्य योगिनो हृदयं शोकनीडं नास्ति । कथं तर्हि समाधेरपि व्युत्तिष्ठन्तीत्याह । नदी चित्तनदी वेगेन वर्धते । सुषुप्तावस्थापन्नस्य स्वप्नदर्शनवत्समाहितोत्थितस्यायं प्रपञ्चो दृष्टिसमसमयमात्रजात इत्यर्थः ॥६२॥

यक्ष उवाच। किंस्विन् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः॥६३॥

युधिष्ठिर उवाच। सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः॥६४॥

मनोरोधाशक्तस्य दानमेव श्रेय इत्याह सार्थो यथा प्रवसतो मित्रमेवं मरिष्यतो मर्त्यस्य दानं मित्रमित्यर्थः ॥६४॥

यक्ष उवाच। कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् ।
अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत्॥६५॥

युधिष्ठिर उवाच। अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत्॥६६॥

दानस्य चित्तशुद्धिद्वारा यज्ञादौ यज्ञादेश्व चित्तैकाग्र्यद्वारा समष्ट्युपास्तौ प्रवृत्तिहेतुत्वमाह अतिथिरिति । अग्निराहवनीयादिरूपः । गवामृतं क्षीरं तदेव सोमाख्यं होतव्यं सोऽयं सनातनो नित्यो धर्मः । अमृतो मोक्षहेतुः तत्र द्वारमाह वायुः सर्वमिदं जगत् ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इति श्रुतेः । पिण्डब्रह्माण्डात्मकवायुरूपत्वप्राप्तेर्मोक्षद्वारमित्यर्थः ॥६६॥

यक्ष उवाच। किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत्॥६७॥

युधिष्ठिर उवाच। सूर्य एको विचरते चन्दमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत्॥६८॥

उक्तलक्षणस्य वायोरपि संहारे किमवशिष्यत इत्याह - सूर्य एको विचरते सूर्यवच्चित्प्रकाशरूप आत्मैवास्ति । अवस्थात्रये तदभावे च प्रकाश्यसत्त्वासत्त्वत्योः सूर्य इव कुतस्तर्हि प्रपञ्चभानमत आह चन्द्रमा जायते पुनः ‘चन्द्रमा मनोभूत्वा’ इति श्रुतेर्मन एवाविद्यावशादुत्पद्यते तच्च दुःखप्रदं जगत्कल्पयति । अविद्यानिवृत्त्युपायमाह अग्निर्हिमस्य भैषज्यं ‘अग्निर्वाग्भूत्वा’ इति श्रुतेर्वागेव तत्त्वमस्यादिका हिमस्य सूर्याभिभावकस्याविद्याजाज्यस्य औषधं निवारकं भूमिः शरीरं तदेव महदावपनं विद्याअविद्यायाश्च निधानपात्रं इहैव संसारित्ववदसंसारिब्रह्मभावोऽपि साक्षात्क्रियत इत्यर्थः ॥६८॥

यक्ष उवाच। किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम्॥६९॥

अत्र द्वाभ्यां प्रश्नाभ्यां ब्रह्मविद्यासूत्रं ससाधनमुपक्षिप्तं ततः सप्तभिस्त्वंपदार्थशोधस्ततस्त्रिभिस्तत्पदार्थशोधः ससाधनः कृतः । इदानीं पुनः प्रकारान्तरेण साधनान्येव विदधक्त्त्वं पदार्थयोरभेदं तत्त्वमस्यहंब्रह्मास्मीत्यादिमहावाक्यप्रतिपाद्यं दर्शयति नवभिः । किंस्विदेकपद‌मित्यादिना ॥६९॥

युधिष्ठिर उवाच। दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्॥७०॥

एकपदमेकमेव पर्यवसानस्थानं दाक्ष्ये कृत्स्नो धर्मः पर्यवसित इत्यर्थः । एवमुत्तरत्र ॥७०॥

यक्ष उवाच। किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा ।
उपजीवनं किंस्विदस्य किंस्विदस्य परायणम्॥७२॥

युधिष्ठिर उवाच। पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम्॥७२॥

यक्ष उवाच। धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् ।
लाभानामुत्तमं किं स्यात् सुखानां स्यात्किमुत्तमम्॥७३॥

युधिष्ठिर उवाच। धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा॥७५॥

यक्ष उवाच। कश्च धर्मः परो लोके कश्च धर्मः सदाफलः ।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते॥७५॥

युधिष्ठिर उवाच। आनृशंस्यं परो धर्मस्त्रयी धर्मः सदाफलः ।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते॥७६॥

आनृशंस्यं सर्वभूताभयदानं संन्यास इत्यर्थः। त्रयी मोक्षमन्त्रस्त्रयीति श्रुतेस्त्रयीशब्देनात्र त्रिमात्रप्रणव उच्यते तदाश्रितो धर्मः अकारउकारमकारार्थानां स्थूलसूक्ष्मकारणोपाधीनां क्रमेण पूर्वपूर्वस्योत्तरोत्तरत्र प्रविलापनेन अर्धमात्रार्थे तुरीये ब्रह्मण्यवस्थानं सदाफलः अविनाशिफलः। मोक्षहेतुत्वात् । तस्य धर्मस्य प्राप्तावुपायो मनोनिग्रह एव । तावतैव ज्ञातात्मतत्त्वो भूत्वा शोकं तरति । मनोनिग्रहमार्गश्च सद्भिः कृपालुभिरेव प्रदर्शनीय इति तात्पर्यार्थः ॥७६॥

यक्ष उवाच। किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वाऽर्थवान् भवति किं नु हित्वा सुखी भवेत्॥७७॥

मनोनिग्रहे दृष्टं द्वारं मानादिचतुष्टयत्याग इत्याह किं नु इति ॥७७॥

युधिष्ठिर उवाच। मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्॥७८॥

यक्ष उवाच। किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु॥७९॥

मानादित्यागोऽपि धर्मफलमतोऽत्रापि ब्राह्मणे दत्तं यद्दानं तदेव धर्महेतुत्वादुपकरोति नान्यत्र । दत्तमित्याह किमर्थमिति ॥७९॥

युधिष्ठिर उवाच। धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके ।
भृत्येषु भरणार्थं वै भयार्थं चैव राजसु॥८०॥

यक्ष उवाच। केन स्विदावृतो लोकः केन स्विन्न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति॥८१॥

युधिष्ठिर उवाच। अज्ञानेनावृतो लोकस्तमसा न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति॥८२॥

ननु दानबलान्मानादीन् जित्वा मनो निगृह्णत एवात्यन्तिको दुःखनाशो भविष्यति किम्प्रविलापनरूपेण त्रयीधर्मेणेत्याशङ्क्याह अज्ञानेनेति । अज्ञानकार्येण स्थूलसूक्ष्मशरीरद्वयेन जरामरणशोकमोहाद्याश्रयेण लोक्यत इति लोक आत्मा । आवृतस्तिरोहितः काल्पितभुजङ्गेनेव रज्जुः। अतोऽज्ञाननाशार्थं त्रयीधर्मोऽवश्यमेष्टव्यः । ननु सुषुप्तौ देहद्वयस्याभावादज्ञाननाशोऽस्त्येव किं त्रयीधर्मेणेत्यत आह तमसा मूलाज्ञानेन सुषुप्तावप्यावृतोऽतो न प्रकाशते । तस्माद्देहत्रयमपि प्रविलापनीयमेवेत्यर्थः । ज्ञानाज्ञानयोरेव विरोधादज्ञानकृत संसारो न मनोरोधमात्रेण नश्यति किं तु सर्वबाधेन रज्जुमधिगम्यैव यथासमूलस्य भयस्य नाशस्तथा देहत्रयबाधेन स्वरुपाधिगमेनैव समूलस्य संसारस्य नाश इति भात्रः । अतो लोभसङ्गौ त्यक्त्वा ज्ञानमेव साधनीयमित्याह लोभादिति ॥८२॥

यक्ष उवाच। मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत्॥८३॥

युधिष्ठिर उवाच। मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥८४॥

लोभसङ्गयोरत्यागे दोषमाह मृत इति । दरिद्रो लुब्धान्वत्तः सदानाद्यसमर्थत्वेन मृत एव । तत्र दृष्टान्तः मृतं राष्ट्रामेव राष्ट्रं प्राणभूमिपतेः सञ्चारस्थानं शरीरं त्वराजकं नष्टप्राणं यथा तथा दरिद्रो जीवन्मृत इत्यर्थः । अग्रिमं दृष्टान्तद्वयं श्रुतिप्रसिद्धमेव ॥८४॥

यक्ष उवाच। का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च॥८५॥

युधिष्ठिर उवाच। सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे॥८६॥

एवं लोभादित्यागेन दानाद्यनुष्ठानेन शमादिसम्पत्त्या च युक्तस्य श्रवणादिमतो यज्ज्ञातव्यं ब्रह्मात्मैक्यं तदाह का दिगिति । सन्तो वेदप्रमाणनिष्ठाः । दिक् दिशति उपदिशतीति दिक् उपदेष्टार इत्यर्थः । आचार्यवचनात् ब्रह्म ज्ञातव्यमिति भावः । तथा जलं ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेर्जलं पिण्डब्रह्माण्डात्मकं कार्यं तदभिमानी चेतनश्च तेन व्यष्टिसमष्टिजीवो लक्ष्यते । आकाशः ‘सर्वाणि ह वा इमानि भूतान्याकाशदेव समुत्पद्यन्त आकाशेऽस्तं यान्ति’ इति श्रुतेराकाशो व्याकृतं कारणं तदभिमानी ईश्वरस्तेनोच्यते । अनयोर्जलमाकाशमिति सामानाधिकरण्यादभेदउपाध्यंशप्रहाणेन उभयत्र शुद्धचिन्मात्रलक्षणया ‘सोऽयं देवदत्त’ इत्यत्रेव तदेतद्देशकालरूपविशेषण प्रहाणेन देवदत्तस्वरूपमात्रलक्षणया एतावानेव सर्वेषु वेदान्तेषु ज्ञातव्योऽर्थः। ननु व्यावर्तके उपाधिभेदे जाग्रति सति कथमनयोरभेदः स्यादत आह । गौरन्नमिति । गच्छतीति गौः इन्द्रियं तद्ग्राह्य शब्दाद्यर्थजातं वा तत् अन्नम् अदनीयं प्रविलापनीयं सैन्धवोदकन्यायेन । यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयते । अत्र ह्येते सर्वम् एकं भवन्तीत्यादिति श्रुतिभ्यः । उपाध्योर्मिथ्यात्वादेव रज्जूरगवत्प्रविलयः सुखसाध्य इत्यर्थः । प्रार्थनाकामः स एव विषमिव विषं जन्ममरणहेतुत्वात् । अतः कामं त्यक्त्वा गुरूपदेशेन प्रपञ्चं प्रविलाप्य प्रत्यक् ब्रह्मणोरभेदं साक्षात् कुर्यादित्यर्थः । ब्राह्मणो ब्रह्मवित् श्राद्धस्य श्रद्धया प्रदेयस्य कालः समयः यदैव सत्पात्रगभस्तदैव धर्मज्ञानादिकमनुष्ठेयं शिक्षणीयं च । समाप्ता ससाधना ब्रह्मविद्या । तथाऽप्यन्यान्यपि ज्ञानसाधनानि तल्लक्षणानि च प्रष्टुमिच्छः पूर्णं वरं भ्रातृजीवनादिसुखं न ददात्यतो धर्मराजः परामृशति । कथं वा यक्षमन्यसे इति । तव मते एतावता कृतकृत्यत्वमस्ति नास्ति वेति प्रश्नाभिप्रायः ॥८६॥

यक्ष उवाच। तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता॥८७॥

युधिष्ठिर उवाच। तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम्॥८८॥

तपआद्यष्टकस्य ज्ञानसाधनस्य लक्षणान्याह द्वाभ्यां तपः स्वधर्मेति ॥८८॥

यक्ष उवाच। किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोक्ता किञ्चार्जमुदाहृतम्॥८९॥

युधिष्ठिर उवाच। ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता ।
दया सर्वसुखैषित्वमार्जवं समचित्तता॥९०॥

यक्ष उवाच। कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः॥९१॥

युधिष्ठिर उवाच। क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः ।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः॥९२॥

क्रोधलोभनिर्दयत्वानि त्यक्त्वा सर्वभूतहितः स्यादित्यर्थः ॥९२॥

यक्ष उवाच। को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः ।
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः॥९३॥

युधिष्ठिर उवाच। मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते॥९४॥

त्रिभिर्मोहादीनां लक्षणान्याह मोहो हीत्यादिना ॥९४॥

यक्ष उवाच। किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते॥९५॥

युधिष्ठिर उवाच। स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम्॥९६॥

यक्ष उवाच। कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते ।
को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः॥९७॥

युधिष्ठिर उवाच। धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः॥९८॥

नास्तिको नास्ति परलोक इति वादी स एव मूर्खो न । ततोऽन्यः पृथङ्मूर्खः प्रष्टव्य इत्यर्थः । संसारहेतुर्वासना ॥९८॥

यक्ष उवाच। कोऽहङ्कार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः ।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते॥९९॥

युधिष्ठिर उवाच। महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः ।
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम्॥१००॥

महच्च तदज्ञानं च अहङ्कारः धर्मः ध्वजोच्छ्रयो ध्वजवदुच्छ्रितो लोकेषु ख्यात्यर्थः । दम्भदर्पपैशून्यानि त्यक्त्वा दैवाधीनो यदृच्छालाभसन्तुष्टो निर्दम्भः निष्कामं च धर्ममाचरेदित्यर्थः॥१००॥

यक्ष उवाच। धर्मश्चार्थश्च कामश्च परस्परविरोधिनः ।
एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः॥१०१॥

युधिष्ठिर उवाच। यदा धर्मश्च भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः॥१०२॥

यक्ष उवाच। अक्षयो नरकः केन प्राप्यते भरतर्षभ ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि॥१०३॥

युधिष्ठिर उवाच। ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् ।
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्॥१०४॥

वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत्॥१०५॥

विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्॥१०६॥

यक्ष उवाच। राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम्॥१०७॥

युधिष्ठिर उवाच। शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वे च वृत्तमेव न संशयः॥१०८॥

वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः॥१०९॥

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः॥११०॥

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः॥१११॥

यक्ष उवाच। प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते ।
बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय॥११२॥

युधिष्ठिर उवाच। प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽधिकं जयति ।
बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभते॥११३॥

यक्ष उवाच। को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः॥११४॥

युधिष्ठिर उवाच। पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी चाप्रवासी च स वारिचर मोदते॥११५॥

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम्॥११६॥

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको ऋषिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥११७॥

अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता॥११८॥

यक्ष उवाच। व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप ।
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः॥११९॥

युधिष्ठिर उवाच। दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत् पुरुष उच्यते॥१२०॥

तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वै सर्वधनी नरः॥१२१॥

यक्ष उवाच। व्याख्यातः पुरुषो राजन् यश्च सर्वधनी नरः ।
तस्मात् त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु॥१२२॥

युधिष्ठिर उवाच। श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु॥१२३॥

यक्ष उवाच। प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलो राजन् सापत्नं जीवमिच्छसि॥१२४॥

यस्य नागसहस्त्रेण दशसङ्ख्येन वै बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि॥१२५॥

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि॥१२६॥

यस्य बाहुबलं सर्वे पाण्डवाः समुपासते ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि॥१२७॥

युधिष्ठिर उवाच। धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत्॥१२८॥

आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु॥१२९॥

धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु॥१३०॥

कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयने मतिः॥१३१॥

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु॥१३२॥

यक्ष उवाच। तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ॥१३३॥

इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने त्रयोदशाधिकत्रिशततमोऽध्यायः॥३१३॥
चतुर्दशाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्॥१॥

ततस्ते इति ॥१॥

युधिष्ठिर उवाच। सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्॥२॥

वसूनां वा भवानेको रुद्राणामथवा भवान् ।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः॥३॥

मम हि भ्रातर इमे सहस्रशतयोधिनः ।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः॥४॥

सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये ।
स भवान् सुहृदोऽस्माकमथवा नः पिता भवान्॥५॥

सुहृदः सुहृत् । छान्दसमदन्तत्वम् ॥५॥

यक्ष उवाच। अहं ते जनकस्तात धर्मो मृदुपराक्रम ।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ॥६॥

यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम॥७॥

यशः ख्यातिः सत्यं यथार्थभाषणं दमो बाह्येन्द्रियजयः। शौचं द्विविधं मृज्जल्लादिना बाह्यं कामक्रोधादिराहित्यादान्तरं आर्जवमवक्रता । मार्दवमिति पाठे अक्रूरता । ह्रीरकार्यप्रवृत्तिवारकश्चेतोवृत्तिविशेषः । अचापलं मनसः स्थैर्यम् । दानं प्रसिद्धम् । तपः स्वधर्माचरणं ब्रह्मचर्यमुपस्थनिग्रहः। तनवः शरीराणि ॥७॥

अहिंसा समता शान्तिस्तपः शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम॥८॥

अहिंसावाङ्मनःशरीरैः परपीडावर्जनम् समता मानापमानादिष्ववैषम्यं शान्तिश्चित्तनिग्रहः । तपः कृच्छ्रचान्द्रायणादि । शौचं व्याख्यातम्। अमत्सरः परगुणान् दृष्ट्वा सन्तापः । मत्सरस्तदभावः । द्वाराणि धर्मप्राप्तिसुखानि ॥८॥

दिष्ट्या पञ्चसु रक्तोऽसि विष्ट्या ते षट्पदी जिताः ।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके॥९॥

दिष्ट्या पञ्चसु त्क्तोसि । पञ्चस्वात्मदर्शनसाधनेषु ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति’ इति श्रुत्युक्तेषु शमादिषु दिष्ट्या()र्वपुण्यवशात् रक्तोऽसि तस्य फलं च षट्पदीजयः । पद्यन्ते प्राप्नुवन्ति देहिनमिति । पदानि षडूर्मयो ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इति श्रुत्युक्ताः तेषां षप्णां पदानां समाहारः षट्पदी सा त्वया जिता । तेषु पदेषु द्वे पदे पूर्वजातमात्रस्यह्यशनापिपासे प्रथमं भवतः । द्वे मध्ये शोकमोहौ । शोक इष्टवियोगजश्चित्तस्य सन्तापः । मोहोऽतिपापेन कार्याकार्यप्रतिसन्धानशून्यत्वम् । एते मध्ये मध्यमे वयसि प्राप्नुतः। प्रपञ्चन्तु पञ्चसु महायज्ञेषु ‘कामक्रोधौ लोभमोहौ मदमानौ च षट्पदी। षट्पदीं समतिक्रम्य मुच्यते नात्र संशयः’ इति व्याचक्रुस्तदध्यात्माधिकाराद्द्वे पूर्वे इति वाक्यशेषासामञ्जस्याच्चोपेक्षितं साम्परायिके जरामृत्यू उत्तरे वयस्युपतिष्ठतः द्वे अन्ते साम्परायिके । सम्भरायः परलोकस्तं प्रति नेतुमुदिते साम्परायिके ॥९॥

धर्मोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः ।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ॥१०॥

धर्मोऽहमिति । भद्रं ते अहं धर्मस्तव पिताऽस्मीति स्वरूपप्रकाशनं इति भद्रं ते इत्यनेन । इति एवमुक्तप्रकारेण । यशःप्रभृतिभिर्दशभिर्धर्मतनुभिरहिंसादिभिर्धर्मद्वारैश्चोत्पन्नेनादृष्टेन । शमादिपञ्चकानुरक्तस्य षट्पदीजयफलं भद्रं कल्याणं मोक्षसुखाख्यमद्वयसच्चिदानन्दमात्रं ते तव अस्त्विति शेषः । एवं प्रश्नानुवादमुखेन प्रतिपादितां ब्रह्मविद्यां यशः सत्यं दमः शौचमित्यादि श्लोकत्रयेणोपसंहृत्य आख्यायिकामनुसरति जिज्ञासुस्त्वामिहागत इत्यादिना ॥१०॥

वरं वृर्णीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामास्ति दुर्गतिः॥११॥

युधिष्ठिर उवाच। अरणीसहितं यस्य मृगो ह्यादाय गच्छति ।
तस्याग्नयो न लुप्येरन् प्रथमोऽस्तु वरो मम॥१२॥

अरणीसहितमरण्योः समारोपितमग्निम् । यद्वा अरण्योः सहितं समुदायः अरणीद्वयमिति यावत् ॥१२॥

यक्ष उवाच। अरणीसहितं ह्यस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो॥१३॥

वैशम्पायन उवाच। ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम॥१४॥

युधिष्ठिर उवाच। वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्॥१५॥

अरण्ये गतानीति शेषः । नः अस्मान् ॥१५॥

वैशम्पायन उवाच। ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्॥१६॥

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत॥१७॥

वर्षं त्रयोदशमिदं मत्प्रसादात् कुरूद्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ॥१८॥

यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ॥१९॥

छन्दतः इच्छातः ॥१९॥

अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा॥२०॥

प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते ।
न तृप्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस्तथा॥२१॥

तृतीयं गृह्यतां पुत्र चरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन् विदुरश्च ममांशजः॥२२॥

युधिष्ठिर उवाच। देवदेवो मया दृष्टो भवान् साक्षात् सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः॥२३॥

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं भवेत्॥२४॥

धर्म उवाच। उपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव ।
भवान् धर्मः पुनश्चैव यथोक्तं ते भविष्यति॥२५॥

वैशम्पायन उवाच। इत्युक्त्वाऽन्तर्दधे धर्मो भगवाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः॥२६॥

उपेत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने॥२७॥

आरणेयमरणीसम्पुटम् ॥२७॥

इदं समुत्थानसमागतं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः स्याद्विजितेन्द्रियो वशी स पुत्रपौत्रः शतवर्षभाग्भवेत्॥२८॥

समुत्थानसमागतं भीमादीनां समुत्थानं च धर्मराजेन सह समागतं सम्मेलनं चेति समाहारः । पितुर्धर्मस्य पुत्रस्य युधिष्ठिरस्य चात्समागतमिति समासैकदेशभूतमप्यनुवर्तते ॥२८॥

न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने ।
कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम्॥२९॥

कदर्यभावे कार्पण्ये सदाख्यानं शुभाख्यानम्॥२९॥
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि नकुलादिजीवनादिवरप्राप्तौ चतुर्दशाधिकत्रिशततमोऽध्यायः॥३२४॥
पञ्चदशाधिकत्रिशततमोऽध्यायः

वैशम्पायन उवाच। धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः ।
अज्ञातवासं वत्स्यन्तच्छन्ना वर्षं त्रयोदशम्॥१॥

धर्मेणेति । वत्स्यन्तः वस्तुमिच्छन्तः ॥१॥

उपोपविष्टा विद्वांसः सहिताः संशितव्रताः ।
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः॥२॥

तानब्रुवन्महात्मानः स्थिताः प्राञ्जलयस्तदा ।
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः॥३॥

स्थिताः स्वधर्मनिष्ठाः ॥३॥

विदितं भवतां सर्वं धार्तराष्टैर्यथा वयम् ।
छद्मना हृतराज्याश्चानयाश्च बहुशः कृताः॥४॥

उषिताश्च वने कृच्छ्रे वयं द्वादशवत्सरान् ।
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्॥५॥

तद्वसामो वयं छन्नास्तदनुज्ञातुमर्हथ ।
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः॥६॥

जानतो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ।
युक्तचाराश्च युक्ताश्च पौरस्य स्वजनस्य च॥७॥

युक्ताः योजिताश्चारा यैस्ते युक्ता अवहिताः पौरस्य स्वजनस्य च अस्माभिराश्रितस्य विषमं कुर्युरतो राष्ट्रान्तरेऽस्माभिर्गन्तव्यमित्याशयः ॥७॥

अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह ।
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि॥८॥

वैशम्पायन उवाच। इत्युक्त्वा दुःखशोकार्ती शुचिर्धर्मसुतस्तदा ।
सम्मूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः॥९॥

अशुचिरार्तिग्रस्तत्वात् शुचिरित्येव पाठः स्वच्छः ॥९॥

तमथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह ।
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा॥१०॥

राजन् विद्वान् भवान् दान्तः सत्यसन्धो जितेन्द्रियः ।
नैवंविधाः प्रमुह्यन्ते नराः कस्याञ्चिदापदि॥११॥

देवैरप्यापदः प्राप्ताच्छन्नैश्च बहुशस्तथा ।
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः॥१२॥

इन्द्रेण निषधान् प्राप्य गिरिप्रस्थाश्रमे तदा ।
छन्नेनोष्य कृतं कर्म द्विषतां च विनिग्रहे॥१३॥

उष्य वासं कृत्वा ॥१३॥

विष्णुनाश्वशिरः प्राप्य तथाऽदित्यां निवत्स्यता ।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम्॥१४॥

प्राप्य वामनरुपेण प्रच्छन्नं ब्रह्मरुपिणा ।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्॥१५॥

हुताशनेन यच्चापः प्रविश्य छन्नमासता ।
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया॥१६॥

प्रच्छन्नं चापि धर्मज्ञ हरिणाऽरिविनिग्रहे ।
वज्रं प्रविश्य शक्रस्य यत् कृतं तच्च ते श्रुतम्॥१७॥

और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा ।
यत् कृतं तात देवेषु कर्म तत्तेऽनघ श्रुतम्॥१८॥

एवं विवस्वता तात छन्नेनोत्तमतेजसा ।
निर्दग्धाः शात्रवाः सर्वे वसता भुवि सर्वशः॥१९॥

विष्णुना वसता चापि गृहे दशरथस्य वै ।
दशग्रीवो हतच्छन्नं संयुगे भीमकर्मणा॥२०॥

एवमेव महात्मानः प्रच्छन्नास्तत्र तत्र ह ।
अजयञ्छात्रवान् युद्धे तथा त्वमपि जेष्यसि॥२१॥

तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः ।
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः॥२२॥

न चचाल छलेन शत्रुवधं नाङ्गीकृतवान् ॥२२॥

अथाब्रवीत् महाबाहुर्भीमसेनो महाबलः ।
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन्॥२३॥

अवेक्षया महाराज तव गाण्डीवधन्वना ।
धर्मानुगतया बुद्ध्या न किञ्चित् साहसं कृतम्॥२४॥

सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रूणां भीमविक्रमौ॥२५॥

न वयं तत्प्रहास्यामो यस्मिन् मोक्ष्यति नो भवान् ।
भवान् विधत्तां तत् सर्वं क्षिप्रं जेष्यामहे रिपून्॥२६॥

इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषा ।
उक्त्वा चापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान्॥२७॥

आशिषोक्त्वा आशिषं प्रयुज्य ॥२७॥

सर्वे वेदविदो मुख्या यतयो मुनयस्तथा ।
आसेदुस्ते यथान्यायं पुनर्दर्शनकाङ्क्षया॥२८॥

सह धौम्येन विदांसस्तथा पञ्च च पाण्डवाः ।
उत्थाय प्रययुर्वीराः कृष्णामादाय धन्विनः॥२९॥

क्रोशमात्रमुपागम्य तस्माद्देशान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः॥३०॥

पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन्॥३१॥

मन्त्राय विचारार्थम् ॥३१॥
इति श्रीमहाभारते शसाहस्र्यां संहितायां वैयासक्यामारण्यके पर्वणि आरणेयपर्वणि अज्ञातवासमन्त्रणे पञ्चदशाधिकत्रिशततमोऽध्यायः॥३१५॥
॥समाप्तं चेदमारण्यकं पर्वेति॥इति श्रीमहाभारते वनपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in