नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
जनमेजय उवाच
।
कथं विराटनगरे मम पूर्वपितामहाः
।
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥२॥
पतिव्रता महाभागा सततं ब्रह्मवादिनी
।
द्रौपदी च कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ॥३॥
वैशम्पायन उवाच
।
यथा विराटनगरे तव पूर्वपितामहाः
।
अज्ञातवासमुषितास्तच्छृणुष्व नराधिप ॥४॥
तथा स तु वराँल्लब्ध्वा धर्मो धर्मभृतां वरः
।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥५॥
कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः
।
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥६॥
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः
।
संनिवर्त्यानुजान् सर्वानिति होवाच भारत ॥७॥
द्वादशेमानि वर्षाणि राज्यविप्रोषिता वयम्
।
त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रात् परमदुर्वसः ॥८॥
स साधु कौन्तेय इतो वासमर्जुन रोचय
।
संवत्सरमिमं यत्र वसेमाविदिताः परैः ॥९॥
अर्जुन उवाच
।
तस्यैव वरदानेन धर्मस्य मनुजाधिप
।
अज्ञाता विचरिष्यामो नराणां नात्र संशयः ॥१०॥
तत्र वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्
।
रमणीयानि गुप्तानि तेषां किञ्चित् स्म रोचय ॥११॥
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून्
।
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ॥१२॥
दशार्णा नवराष्ट्राश्च मल्लाः शाल्वा युगन्धराः
।
कुन्तिराष्ट्रं च विपुलं सुराष्ट्रावन्तयस्तथा ॥१३॥
एतेषां कतमो राजन् निवासस्तव रोचते
।
यत्र वत्स्यामहे राजन् संवत्सरमिमं वयम् ॥१४॥
युधिष्ठिर उवाच
।
श्रुतमेतन्महाबाहो यथा स भगवान् प्रभुः
।
अब्रवीत् सर्वभूतेशस्तत् तथा न तदन्यथा ॥१५॥
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्
।
सम्मन्त्र्य सहितैः सर्वैर्वस्तव्यमकुतोभयैः ॥१६॥
मत्स्यो विराटो बलवानभिरक्तोऽथ पाण्डवान्
।
धर्मशीलो वदान्यश्च वृद्धश्च सततं प्रियः ॥१७॥
विराटनगरे तात संवत्सरमिमं वयम्
।
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥१८॥
यानि यानि च कर्माणि तस्य वक्ष्यामहे वयम्
।
आसाद्य मत्स्यं तत् कर्मा ब्रूत कुरुनन्दनाः ॥१९॥
अर्जुन उवाच
।
नरदेव कथं तस्य राष्ट्रे कर्म करिष्यसि
।
विराटनगरे साधो रंस्यसे केन कर्मणा ॥२०॥
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः
।
राजंस्त्वमापदाऽऽकृष्टः किं करिष्यसि पाण्डव ॥२१॥
न दुःखमुचितं किञ्चिद्राजा वेद यथा जनः
।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥२२॥
युधिष्ठिर उवाच
।
शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः
।
विराटमनुसम्प्राप्य राजानं पुरुषर्षभाः ॥२३॥
सभास्तारो भविष्यामि तस्य राज्ञां महात्मनः
।
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेवनः ॥२४॥
वैदूर्यान् काञ्चनान् दान्तान् फलैर्ज्योतीरसैः सह
।
कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ॥२५॥
विराटराजं रमयन् सामात्यं सहबान्धवम्
।
न च मां वेत्स्यते कश्चित् तोषयिष्ये च तं नृपम् ॥२६॥
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा
।
इति वक्ष्यामि राजानं यदि मां सोऽनुयोक्ष्यते ॥२७॥
इत्येतद्वो मयाऽऽख्यातं विहरिष्याम्यहं यथा
।
वृकोदर विराटे त्वं रंस्यसे केन हेतुना ॥२८॥
भीमसेन उवाच
।
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम भारत
।
उपस्थास्यामि राजानं विराटमिति मे मतिः ॥१॥
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे
।
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः ॥२॥
तान्यप्यभिभावष्यामि प्रीतिं सञ्जनयन्नहम्
।
आहरिष्यामि दारूणां निचयान् महतोऽपि च ॥३॥
यत् प्रेक्ष्य विपुलं कर्म राजा संयोक्ष्यते स माम्
।
अमानुषाणि कुर्वाणस्तानि कर्माणि भारत ॥४॥
राज्ञस्तस्य परे प्रेष्या मंस्यन्ते मां यथा नृपम्
।
भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः ॥५॥
द्विपा वा बलिनो राजन् वृषभा वा महाबलाः
।
विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥६॥
ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः
।
तानहं हि नियोत्स्यामि रति तस्य विवर्धयन् ॥७॥
न त्वेतान् युद्ध्यमानान् वै हनिष्यामि कथञ्चन
।
तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम् ॥८॥
आरालिको गोविकर्ता सूपकर्ता नियोधकः
।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥९॥
आत्मानमात्मना रक्षंश्चरिष्यामि विशाम्पते
।
इत्येतत् प्रतिजानामि विहरिष्याम्यहं यथा ॥१०॥
युधिष्ठिर उवाच
।
यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम्
।
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ॥११॥
महाबलं महाबाहुमजितं कुरुनन्दनम्
।
सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ॥१२॥
योऽयमासाद्य तं दावं तर्पयामास पावकम्
।
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥१३॥
वासुकेः सर्पराजस्य स्वसारं हृतवांश्च यः
।
श्रेष्ठो यः प्रतियोधानां सोऽर्जुनः किं करिष्यति ॥१४॥
सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः
।
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ॥१५॥
आयुधानां वरं वज्र ककुद्मी च गवां वरः
।
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ॥१६॥
धृतराष्ट्रश्च नागानां हस्तिष्वैरावणो वरः
।
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ॥१७॥
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर
।
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥१८॥
सोऽयमिन्द्रादनवरो वासुदेवान्महाद्युतिः
।
गाण्डीवधन्वा बीभत्सुः श्वेताश्वः किं करिष्यति ॥१९॥
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि
।
अस्त्रयोगं समासाद्य स्ववीर्यान्मानुषाद्भुतम्
।
दिव्यान्यस्त्राणि चाप्तानि देवरूपेण भास्वता ॥२०॥
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम्
।
वसूनां नवमं मन्ये ग्रहाणां दशमं तथा ॥२१॥
यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ
।
दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥२२॥
हिमवानिव शैलानां समुद्रः सरितामिव
।
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ॥२३॥
मृगाणामिव शार्दूलो गरुडः पततामिव
।
वरः सन्नह्यमानानां सोऽर्जुनः किं करिष्यति ॥२४॥
अर्जुन उवाच
।
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते
।
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥२५॥
वलयैश्छादयिष्यामितबाहू किणकृताविमौ
।
कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनप्रभे ॥२६॥
पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः
।
वेणीकृतशिरा राजन् नाम्ना चैव बृहन्नला ॥२७॥
पठन्नाख्यायिकाश्चैव स्त्रीभावेन पुनः पुनः
।
रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ॥२८॥
गीतं नृत्यं विचित्रं च वादित्रं विविधं तथा
।
शिक्षयिष्याम्यहं राजन् विराटस्य पुरस्त्रियः ॥२९॥
प्रजानां समुदाचारं बहुकर्म कृतं वदन्
।
छादयिष्यामि कौन्तेय माययाऽऽत्मानमात्मना ॥३०॥
युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका
।
उषिताऽस्मीति वक्ष्यामि पृष्टो राज्ञा च पाण्डव ॥३१॥
एतेन विधिना छन्नः कृतकेन यथा नलः
।
विहरिष्यामि राजेन्द्र विराटभवने सुखम् ॥३२॥
वैशम्पायन उवाच
।
इत्येवमुक्त्वा पुरुषप्रवीरस्तथाऽर्जुनो धर्मभृतां वरिष्ठः
।
वाक्यं तथाऽसौ विरराम भूयो नृपोऽपरं भ्रातरमाबभाषे ॥१॥
युधिष्ठिर उवाच
।
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि
।
कर्म तत् त्वं समाचक्ष्व राज्ये तस्य महीपतेः
।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥२॥
नकुल उवाच
।
अश्वबन्धो भविष्यामि विराटनृपतेरहम्
।
सर्वथा ज्ञानसम्पन्नः कुशलः परिरक्षणे ॥३॥
ग्रन्थिको नाम नाम्नाऽहं कर्मैतत् सुप्रियं मम
।
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सने
।
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥४॥
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः
।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥५॥
पाण्डवेन पुरा तात अश्वेष्वधिकृतः पुरा
।
विराटनगरे छन्नश्चरिष्यामि महीपते ॥६॥
युधिष्ठिर उवाच
।
सहदेव कथं तस्य समीपे विहरिष्यसि
।
किं वा त्वं कर्म कुर्वाणः प्रच्छन्नो विहरिष्यसि ॥७॥
सहदेव उवाच
।
गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः
।
प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ॥८॥
तन्तिपाल इति ख्यातो नाम्नाऽहं विदितस्त्वथ
।
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥९॥
अहं हि सततं गोषु भवता प्रहितः पुरा
।
तत्र मे कौशलं सर्वमवबुद्धं विशाम्पते ॥१०॥
लक्षणं चारतं चापि गवां यच्चापि मङ्गलम्
।
तत् सर्वं मे सुविदितमन्यच्चापि महीपते ॥११॥
वृषभानपि जानामि राजन् पूजितलक्षणान्
।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥१२॥
सोऽहमेवं चरिष्यामि प्रतिरत्र हि मे सदा
।
न च मां वेत्स्यते कश्चित् तोषयिष्ये च पार्थिवम् ॥१३॥
युधिष्ठिर उवाच
।
इयं हि नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी
।
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥१४॥
केन स्म द्रौपदी कृष्णा कर्मणा विचरिष्यति
।
न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥१५॥
सुकुमारी च बाला च राजपुत्री यशस्विनी
।
पतिव्रता महाभागा कथं नु विचरिष्यति ॥१६॥
माल्यगन्धानलङ्कारान् वस्त्राणि विविधानि च
।
एतान्येवाभिजानाति यतो जाता हि भामिनी ॥१७॥
द्रौपद्युवाच
।
सैरन्ध्र्यो रक्षिता लोकं भुजिष्याः सन्ति भारत
।
नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥१८॥
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि
।
युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका ॥१९॥
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत
।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ॥२०॥
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्
।
सा रक्षिष्यति मां प्राप्तां मा भूत् ते दुःखमीदृशम् ॥२१॥
युधिष्ठिर उवाच
।
कल्याणं भाषले कृष्णे कुले जाताऽसि भामिनि
।
न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥२२॥
यथा न दुर्हृदः पापा भवन्ति सुखिनः पुनः
।
कुर्यास्तत् त्वं हि कल्याणि लक्षयेयुर्न ते तथा ॥२३॥
युधिष्ठिर उवाच
।
कर्माण्युक्तानि युष्माभिर्यानि यानि करिष्यथ
।
मम चापि यथा बुद्धिरुचिता विधिनिश्चयात् ॥१॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु
।
सूदपौरोगवैः सार्द्धं द्रुपदस्य निवेशने ॥२॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्
।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥३॥
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिकाः
।
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥४॥
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः
।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥५॥
वैशम्पायन उवाच
।
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक् पृथक्
।
धौम्यमामन्त्रयामासुः स च तान् मन्त्रमब्रवीत्॥६॥
धौम्य उवाच
।
विहितं पाण्डवाः सर्वं ब्राह्मणेषु सुहृत्सु च
।
याने प्रहरणे चैव तथैवाग्निषु भारत ॥७॥
त्वया रक्षा विधातव्या कृष्णायाः फाल्गुनेन च
।
विदितं वो यथा सर्वं लोकवृत्तमिदं तव ॥८॥
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः
।
एष धर्मश्च कामश्च अर्थश्चैव सनातनः ॥९॥
अतोऽहमपि वक्ष्यामि हेतुमत्र निबोधत
।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीम्यहम् ॥१०॥
यथा राजकुलं प्राप्य सर्वान् दोषांस्तरिष्यथ
।
दुर्वसं चैव कौरव्य जानता राजवेश्मनि ॥११॥
अमानितेर्मानितैर्वा अज्ञातैः परिवत्सरम्
।
ततश्चतुर्दशे वर्षे चरिष्यथ यथासुखम् ॥१२॥
दृष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्
।
तदेवासनमन्विच्छेद्यत्र नाभिपतेत् परः ॥१३॥
यो न यानं न पर्यङ्कं न पीठं न गजं रथम्
।
आरोहेत् सम्मतोऽस्मीति स राजवसतिं वसेत् ॥१४॥
यत्र यत्रैनमासीनं शङ्केरन् दुष्टचारिणः
।
न तत्रोपविशेद्यो वै स राजवसतिं वसेत् ॥१५॥
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन
।
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥१६॥
असूयन्ति हि राजानो जनाननृतवादिनः
।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥१७॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन
।
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥१८॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि
।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥१९॥
गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः
।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥२०॥
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दमाः
।
समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः ॥२१॥
यत्नाच्चोपचरेदेनमग्निवद्देववत्त्विह
।
अनृतेनोपचीर्णो हि हन्यादेव न संशयः ॥२२॥
यद्यद्भर्ताऽनुयुञ्जीत तत् तदेवानुवर्तयेत्
।
प्रमादमवलेपं च कोपं च परिवर्जयेत् ॥२३॥
समर्थनासु सर्वासु हितं च प्रियमेव च
।
संवर्णयेत् तदेवास्य प्रियादपि हितं भवेत् ॥२४॥
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च
।
अप्रियं चाहितं यत् स्यात्तदस्मै नानुवर्णयेत् ॥२५॥
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः
।
अप्रमत्तश्च सततं हितं कुर्यात् प्रियं च यत् ॥२६॥
नास्यानिष्टानि सेवेत नाहितैः सह संवदेत्
।
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥२७॥
दक्षिणं वाऽथ वामं वा पार्श्वमासीत पण्डितः
।
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ॥२८॥
नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत्
।
न च संदर्शने किञ्चित् प्रवृत्तमपि सञ्जयेत् ॥२९॥
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम्
।
न मृषाऽभिहितं राज्ञां मनुष्येषु प्रकाशयेत् ॥३०॥
असूयन्ति हि राजानो नराननृतवादिनः
।
तथैव चावमन्यन्ते नरान् पण्डितमानिनः ॥३१॥
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः
।
प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान् ॥३२॥
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः
।
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥३३॥
यस्य कोपो महाबाधः प्रसादश्च महाफलः
।
कस्तस्य मनसाऽपीच्छेदनर्थं प्राज्ञसंमतः ॥३४॥
न चोष्ठौ न भुजौ जानू न च वाक्यं समाक्षिपेत्
।
सदा वातं च वाचं च ष्ठीवनं चाचरेच्छनैः ॥३५॥
हास्यवस्तुषु चान्यस्य वर्तमानेषु केषुचित्
।
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥६६॥
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत् ततः
।
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥६७॥
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः
।
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥६८॥
राजानं राजपुत्रं वा संवर्णयति यः सदा
।
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः ॥३९॥
प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः
।
न निर्वदति राजानं लभते संपदं पुनः ॥४०॥
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः
।
उपजीवी भवेद्राज्ञो विषये योऽपि वा भवेत् ॥४१॥
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः
।
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥४२॥
श्रेयः सदाऽऽत्मनो दृष्ट्वा परं राज्ञा न संवदेत्
।
विशेषयेच्च राजानं योग्यभूमिषु सर्वदा ॥४३॥
अम्लानो बलवान् शूरश्छायेवानुगतः सदा
।
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥४४॥
अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्
।
अहं किं करवाणीति स राजवसतिं वसेत् ॥४५॥
आन्तरे चैव बाह्ये च राज्ञा यश्चाथ सर्वदा
।
आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ॥४६॥
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत्
।
दुःखेन सुखमन्विच्छेत् स राजवसतिं वसेत् ॥४७॥
समवेषं न कुर्वीत नोच्चैः सन्निहितो वसेत्
।
न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥४८॥
न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत्
।
प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम् ॥४९॥
यानं वस्त्रमलङ्कारं यच्चान्यत् सम्प्रयच्छति
।
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥५०॥
एवं संयम्य चित्तानि यत्नतः पाण्डुनन्दनाः
।
संवत्सरमिमं तात तथाशीला बुभूषत
।
अथ स्वविषयं प्राप्य यथाकामं करिष्यथ ॥५१॥
युधिष्ठिर उवाच
।
अनुशिष्टाः स्म भद्रं ते नैतद्वक्ताऽस्ति कश्चन
।
कुन्तीमृते मातरं नो विदुरं वा महामतिम् ॥५२॥
यदेवानन्तरं कार्यं तद्भवान् कर्तुमर्हति
।
तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥५३॥
वैशम्पायन उवाच
।
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः
।
अकरोद्विधिवत् सर्वं प्रस्थाने यद्विधीयते ॥५४॥
तेषां समिध्य तानग्नीन् मन्त्रवच्च जुहाव सः
।
समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥५५॥
अग्नीन् प्रदक्षिणीकृत्य ब्राह्मणांश्च तपोधनान्
।
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥५६॥
गतेषु तेषु वीरेषु धौम्योऽथ जपतां वरः
।
अग्निहोत्राण्युपादाय पाञ्चालानभ्यगच्छत ॥५७॥
इन्द्रसेनादयश्चैव यथोक्ताः प्राप्य यादवान्
।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥५८॥
वैशम्पायन उवाच
।
ते वीरा बद्धनिस्त्रिंशास्तथा बद्धकलापिनः
।
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥१॥
ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः
।
निवृत्तवनवासा हि स्वराष्ट्रं प्रेप्सवस्तदा
।
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥२॥
विध्यन्तो मृगजातानि महेष्वासा महाबलाः
।
उत्तरेण दशार्णांस्ते पञ्चालान् दक्षिणेन च ॥३॥
अन्तरेण यकृल्लोमान् शूरसेनांश्च पाण्डवाः
।
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात् ॥४॥
धन्विनो बद्धनिस्त्रिंशा विवर्णाः श्मश्रुधारिणः
।
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥५॥
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च
।
व्यक्तं दूरे विराटस्य राजधानी भविष्यति
।
वसामेहापरां रात्रि बलवान् मे परिश्रमः ॥६॥
युधिष्ठिर उवाच
।
धनञ्जय समुद्यम्य पाञ्चालीं वह भारत
।
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥७॥
वैशम्पायन उवाच
।
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव
।
संप्राप्य नगराभ्याशमवतारयदर्जुनः ॥८॥
स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत्
।
क्वायुधानि समासज्ज्य प्रवेक्ष्यामः पुरं वयम् ॥९॥
सायुधाश्च प्रवेक्ष्यामो वयं तात पुरं यदि
।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥१०॥
गाण्डीवं च महद्गाढं लोके च विदितं नृणाम्
।
तच्चेदायुधमादाय गच्छामो नगरं वयम्
।
क्षिप्रमस्मान्विजानीयुर्मनुष्या नात्र संशयः ॥११॥
ततो द्वादश वर्षाणि प्रवेष्टव्यं वने पुनः
।
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ॥१२॥
अर्जुन उवाच
।
इयं कूटे मनुष्येन्द्र गहना महती शमी
।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥१३॥
न चापि विद्यते कश्चिन्मनुष्य इति मे मतिः
।
योऽस्मान्निदधतो द्रष्टा भवेच्छस्त्राणि पाण्डवाः ॥१४॥
उत्पथे हि वने जाता मृगव्यालनिषेविते
।
समीपे च श्मशानस्य गहनस्य विशेषतः ॥१५॥
समाधायायुधं शम्यां गच्छामो नगरं प्रति
।
एवमत्र यथायोगं विहरिष्याम भारत ॥१६॥
वैशम्पायन उवाच
।
एवमुक्त्वा स राजानं धर्मराजं युधिष्ठिरम्
।
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥१७॥
येन देवान् मनुष्यांश्च सर्वांश्चैकरथोऽजयत्
।
स्फीतान् जनपदांश्चान्यानजयत् कुरुपुङ्गवः ॥१८॥
तदुदारं महाघोषं संपन्नबलसूदनम्
।
अपज्यमकरोत् पार्थो गाण्डीवं सुभयङ्करम् ॥१९॥
येन वीरः कुरुक्षेत्रमभ्यरक्षत् परन्तपः
।
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥२०॥
पाञ्चालान् येन सङ्ग्रामे भीमसेनोऽजयत् प्रभुः
।
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥२१॥
निशम्य यस्य विस्फारं व्यद्रवन्त रणात् परे
।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥२२॥
सैन्धवं येन राजानं पर्यामृषितवानथ
।
ज्यापाशं धनुषस्त्स्य भीमसेनोऽवतारयत् ॥२३॥
अजयत् पश्चिमामाशां धनुषा येन पाण्डवः
।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥२४॥
तस्य मोर्वीमपाकर्षच्छूरः संक्रन्दनो युधि
।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥२५॥
दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः
।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥२६॥
खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान्
।
विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥२७॥
वैशम्पायन उवाच
।
अथान्वशासन्नकुलं कुन्तीपुत्रो युधिष्ठिरः
।
आरुह्येमां शमीं वीर धनूंष्येतानि निक्षिप ॥२८॥
तामुपारुह्य नकुलो धनूंषि निदधे स्वयम्
।
यानि तस्या वकाशानि दिव्यरूपाण्यमन्यत ॥२९॥
यत्र चापश्यत स वै तिरोवर्षाणि वर्षति
।
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥३०॥
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः
।
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ॥३१॥
आबद्धं शवमवेति गन्धमाघ्राय पूतिकम्
।
अशीतिशतवर्षेयं माता न इति वादिनः ॥३२॥
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि वा
।
समासज्ज्याथ वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥३३॥
आगोपालाविपालेभ्य आचक्षाणाः परंतपाः
।
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥३४॥
जयो जयन्तो विजयो जयत्सेनो जयद्वलः
।
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥३५॥
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्
।
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥३६॥
वैशम्पायन उवाच
।
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः
।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥१॥
यशोदागर्भसंभूतां नारायणवरप्रियाम्
।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् ॥२॥
कंसविद्रावणकरीमसुराणां क्षयंकरीम्
।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥३॥
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्
।
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥४॥
भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम्
।
तान् वै तारयते पापात् पङ्के गामिव दुर्बलाम् ॥५॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः
।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥६॥
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि
।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥७॥
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे
।
मयूरपिच्छवलये केयूराङ्गदधारिणि
।
भासि देवि यथा पद्मा नारायणपरिग्रहः ॥८॥
स्वरूपं ब्रह्मचर्यं च विशदं तत्र खेचरि
।
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ॥९॥
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ
।
पात्री च पङ्कजी घण्टी स्त्रीविशुद्धा च या भुवि ॥१०॥
पाशं धनुर्महाचक्रं विविधान्यायुधानि च
।
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ॥११॥
चन्द्रविस्पर्द्धिना देवि मुखेन त्वं विराजसे
।
मुकुटेन विचित्रेण केशबन्धेन शोभिना ॥१२॥
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता
।
विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः ॥१३॥
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे
।
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया॥१४॥
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च
।
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि
।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव॥१५॥
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा
।
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥१६॥
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्
।
कालि कालि महाकालि सीधुमांसपशुप्रिये ॥१७॥
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि
।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥१८॥
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि
।
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥१९॥
दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः
।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ॥२०॥
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्
।
जलप्रतरणे चैव कान्तारेष्वटवीषु च ॥२१॥
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः
।
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः ॥२२॥
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया
।
नृणां च बन्धनं मोहं पुत्रनाशं धनञ्जयम् ॥२३॥
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि
।
सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान्॥२४॥
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि
।
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ॥२५॥
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले
।
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ॥२६॥
उपगम्य तु राजानमिदं वचनमब्रवीत्
।
देव्युवाच
।
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ॥२७॥
भविष्यत्यचिरादेव संग्रामे विजयस्तव
।
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ॥२८॥
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः
।
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ॥२९॥
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति
।
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः ॥३०॥
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्
।
प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ॥३१॥
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ
।
ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता ॥३२॥
न तेषां दुर्लभं किञ्चिदस्मिँल्लोके भविष्यति
।
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ॥३३॥
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः
।
मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान् ॥३४॥
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः
।
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम्
।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥३५॥
वैशम्पायन उवाच
।
ततो विराटं प्रथमं युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत्
।
वैदूर्यरूपान् प्रतिमुच्य काञ्चनानक्षान् स कक्षे परिगृह्य वाससा ॥१॥
नराधिपो राष्ट्रपतिं यशस्विनं महायशाः कौरववंशवर्धनः
।
महानुभावो नरराजसत्कृतो दुरासदस्तीक्ष्णविषो यथोरगः ॥२॥
बलेन रूपेण नरर्षभो महानपूर्वरूपेण यथामरस्तथा
।
महाभ्रजालैरिव संवृतो रविर्यथाऽनलो भस्मवृतश्च वीर्यवान् ॥३॥
तमापतन्तं प्रसमीक्ष्य पाण्डवं विराटराडिन्दुमिवाभ्रसंवृतम्
।
समागतं पूर्णशशिप्रभाननं महानुभावं नचिरेण दृष्टवान् ॥४॥
मन्त्रिद्विजान् सूतमुखान्विशस्तथा ये चापि केचित् परितः समासते
।
पप्रच्छ कोऽयं प्रथमं समेयिवान् नृपोपमोऽयं समवेक्षते सभाम् ॥५॥
स तु द्विजोऽयं भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम्
।
न चास्य दासो न रथो न कुञ्जरः समीपतो भ्राजति चायमिन्द्रवत् ॥६॥
शरीरलिङ्गैरुपसूचितो ह्ययं मूर्द्धाभिषिक्त इति मे मनोगतम्
।
समीपमायाति च मे गतव्यथो यथा गजस्तामरसीं मदोत्कटः ॥७॥
वितर्कयन्तं तु नरर्षभस्तथा युधिष्ठिरोऽभ्येत्य विराटमब्रवीत्
।
सम्राड्विजानात्विह जीवनार्थिनं विनष्टसर्वस्वमुपागतं द्विजम् ॥८॥
इहाहमिच्छामि तवानघान्तिके वस्तुं यथा कामचरस्तथा विभो
।
तमब्रवीत् स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसंगृहाण च ॥९॥
तं राजसिंहं प्रतिगृह्य राजा प्रीत्याऽऽत्मना चैनमिदं बभाषे
।
कामेन ताताभिवदाम्यहं त्वां कस्यासि राज्ञो विषयादिहागतः ॥१०॥
गोत्रं च नामापि च शंस तत्त्वतः
।
किं चापि शिल्पं तव विद्यते कृतम् ॥११॥
युधिष्ठिर उवाच
।
युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि विप्रः
।
अक्षान् प्रयोक्तुं कुशलोऽस्मि देविनां कङ्केति नाम्नाऽस्मि विराट विश्रुतः॥१२॥
विराट उवाच
।
ददामि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान् वशगो ह्यहं तव
।
प्रियाश्च धूर्ता मम देविनः सदा भवांश्च देवोपम राज्यमर्हति ॥१३॥
युधिष्ठिर उवाच
।
प्राप्तो विवादः प्रथमं विशाम्पते न विद्यते कंचन मत्स्य हीनतः
।
न मे जितः कश्चन धारयेद्धनं वरो ममैषोऽस्तु तव प्रसादजः ॥१४॥
विराट उवाच
।
हन्यामवश्यं यदि तेऽप्रियं चरेत् प्रव्राजयेयं विषयाद्द्विजांस्तथा
।
शृण्वन्तु मे जानपदाः समागताः कङ्को ययाऽहं विषये प्रभुस्तथा ॥१५॥
समानयानो भविताऽसि मे सखा प्रभूतवस्त्रो बहुपानभोजनः
।
पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतं च ते द्वारमपावृतं मया ॥१६॥
ये त्वाऽनुवादेऽयुरवृत्तिकर्शिता ब्रूयाश्च तेषां वचनेन मां सदा
।
दास्यामि सर्वं तदहं न संशयो न ते भयं विद्यति सन्निधौ मम ॥१७॥
वैशम्पायन उवाच
।
एवं स लब्ध्वा तु वरं समागमं विराटराजेन नरर्षभस्तदा
।
उवास धीरः परमार्चितः सुखी न चापि कश्चिच्चरितं बुबोध तत् ॥१८॥
वैशम्पायन उवाच
।
अथापरो भीमबलः श्रिया ज्वलन्नुपाययौ सिंहविलासविक्रमः
।
खजां च दर्वीं च करेण धारयन्नसिं च कालाङ्गमकोशमव्रणम् ॥१॥
स सूदरूपः परमेण वर्चसा रविर्यथा लोकमिमं प्रकाशयन्
।
स कृष्णवासा गिरिराजसारवांस्तं मत्स्यराजं समुपेत्य तस्थिवान् ॥२॥
तं प्रेक्ष्य राजा रमयन्नुपागतं ततोऽब्रवीज्जानपदान् समागतान्
।
सिंहोन्नतांसोऽयमतीव रूपवान् प्रदृश्यते को नु वरर्षभो युवा ॥३॥
अदृष्टपूर्वः पुरुषो रविर्यथा वितर्कयन्नास्य लभामि निश्चयम्
।
तथाऽस्य चित्तं ह्यपि संवितर्कयन्नरर्षभस्यास्य न यामि तत्त्वतः ॥४॥
दृष्ट्वैव चैनं तु विचारयाम्यहं गन्धर्वराजो यदि वा पुरन्दरः
।
जानीत कोऽयं मम दर्शने स्थितो यदीप्सितं तल्लभतां च माचिरम् ॥५॥
विराटवाक्येन च तेन चोदिता नरा विराटस्य सुशीघ्रगामिनः
।
उपेत्य कौन्तेयमथाब्रुवंस्तदा यथा स राजाऽवदताच्युतानुजम् ॥६॥
ततो विराटं समुपेत्य पाण्डवस्त्वदीनरूपं वचनं महामनाः
।
उवाच सूदोऽस्मि नरेन्द्र बल्लवो भजस्व मां व्यञ्जनकारमुत्तमम् ॥७॥
विराट उवाच
।
न सूदतां बल्लव श्रद्दधामि ते सहस्रनेत्रप्रतिमो विराजते
।
श्रिया च रूपेण च विक्रमेण च प्रभाससे त्वं नृवरो नरेष्विव ॥८॥
भीम उवाच
।
नरेन्द्र सूदः परिचारकोऽस्मि ते जानामि सूपान् प्रथमं च केवलान्
।
आस्वादिता ये नृपते पुराऽभवन् युधिष्ठिरेणापि नृपेण सर्वशः ॥९॥
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलश्च सदैव पार्थिव
।
गजैश्च सिंहैश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् ॥१०॥
विराट उवाच
।
ददामि ते हन्त वरान् महानसे तथा च कुर्याः कुशल प्रभाषसे
।
न चैव मन्ये तव कर्म यत् समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥११॥
यथा हि कामो भवतस्तथा कृतं महानसे त्वं भव मे पुरस्कृतः
।
नराश्च ये तत्र समाहिताः पुरा भवांश्च तेषामधिपो मया कृतः ॥१२॥
वैशम्पायन उवाच
।
तथा स भीमो विहितो महानसे विराटराज्ञो दयितोऽभवद्दृढम्
।
उवास राज्ये न च तं पृथग्जनो बुबोध तत्रानुचराश्च केचन ॥१३॥
वैशम्पायन उवाच
।
ततः केशान् समुत्क्षिप्य वेल्लिताग्राननिन्दितान्
।
कृष्णान् सूक्ष्मान् मृदून्दीर्घान्समुद्ग्रथ्यशुचिस्मिता ॥१॥
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना
।
वासश्च परिधायैकं कृष्णा सुमलिनं महत् ॥२॥
कृत्वा वेषं च सैरन्ध्र्यास्ततो व्यचरदार्तवत्
।
तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् ॥३॥
अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि
।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमिहागता ॥४॥
कर्म चेच्छामि वै कर्तुं तस्य यो मां युयुक्षति
।
तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा
।
न श्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ॥५॥
विराटस्य तु कैकेयी भार्या परमसम्मता
।
आलोकयन्ती ददृशे प्रासादाद्द्द्रुपदात्मजाम् ॥६॥
सा समीक्ष्य तथारूपामनाथमिकवाससम्
।
समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ॥७॥
सा तामुवाच राजेन्द्रसैरन्ध्र्यहमुपागता
।
कर्म चेच्छाम्यहं कर्तुं तस्य यो मां युयुक्षति ॥८॥
सुदेष्णोवाच
।
नैवंरूपा भवन्त्येव यथा वदसि भामिनि
।
प्रेषयन्तीव वै दासीर्दासांश्च विविधान् बहून् ॥९॥
नोच्चगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता
।
रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥१०॥
सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा
।
तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमी ॥११॥
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा
।
कम्बुग्रीवा गूढशिरा पूर्णचन्द्रनिभानना ॥१२॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया
।
शारदोत्पलसेविन्या रूपेण सदृशी श्रिया ॥१३॥
का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन
।
यक्षी वा यदि वा देवी गन्धर्वी यदि वाऽप्सराः ॥१४॥
देवकन्या भुजङ्गी वा नगरस्याथ देवता
।
विद्याधरी किन्नरी वा यदि वा रोहिणी स्वयम् ॥१५॥
अलम्बुषा मिश्रकेशी पुण्डरीकाऽथ मालिनी
।
इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः
।
देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ॥१६॥
द्रौपद्युवाच
।
नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी
।
सैरन्ध्री तु भुजिष्याऽस्मि सत्यमेतद्ब्रवीमि ते ॥१७॥
केशान् जानाम्यहं कर्तुं पिंषे साधु विलेपनम्
।
मल्लिकोत्पलपद्मानां चम्पकानां तथा शुभे ॥१८॥
ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः
।
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् ॥१९॥
कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम्
।
तत्र तत्र चराम्येवं लभमाना सुभोजनम् ॥२०॥
वासांसि यावन्ति लभे तावत्तावद्रमे तथा
।
मालिनीत्येव मे नाम स्वयं देवी चकार सा
।
साऽहमद्यागता देवि सुदेष्णे त्वन्निवेशनम् ॥२१॥
सुदेष्णोवाच
।
मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते
।
न चेदिच्छति राजा त्वां गच्छेत् सर्वेण चेतसा ॥२२॥
स्त्रियो राजकुले याश्च याश्चेमा मम वेश्मनि
।
प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ॥२३॥
वृक्षांश्चावस्थितान् पश्य य इमे मम वेश्मनि
।
तेऽपि त्वां सन्नमन्तीव पुमासं कं न मोहयेः ॥२४॥
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम्
।
विहाय मां वरारोहे गच्छेत् सर्वेण चेतसा ॥२५॥
यं हि त्वमनवद्याङ्गि तरलायतलोचने
।
प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ॥२६॥
यश्च त्वां सततं पश्येत् पुरुषश्चारुहासिनि
।
एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ॥२७॥
अध्यारोहेद्यथा वृक्षान् वधायैवात्मनो नरः
।
राजवेश्मनि ते सुभ्रु गृहे तु स्यात् तथा मम ॥२८॥
यथा च कर्कटी गर्भमाधत्ते मृत्युमात्मनः
।
तथाविधमहं मन्ये वासं तव शुचिस्मिते ॥२९॥
द्रौपद्युवाच
।
नास्मि लभ्या विराटेन न चान्येन कदाचन
।
गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ॥३०॥
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित्
।
रक्षन्ति ते च मां नित्यं दुःखाचारा तथा ह्यहम् ॥३१॥
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्
।
प्रीणेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥३२॥
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृताः स्त्रियः
।
तामेव निवसेद्रात्रिं प्रविश्य च परां तनुम् ॥३३॥
न चाप्यहं चालयितुं शक्या केनचिदङ्गने
।
दुःखशीला हि गन्धर्वास्ते च मे बलवत्प्रियाः ॥३४॥
प्रच्छन्नाश्चापि रक्षन्ति ते मां नित्यं शुचिस्मिते
।
सुदेष्णोवाच
।
एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि ॥३५॥
न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन
।
वैशम्पायन उवाच
।
एवं कृष्णा विराटस्य भार्यया परिसान्त्विता ॥३६॥
उवास नगरे तस्मिन् पतिधर्मवती सती
।
न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ॥३७॥
वैशम्पायन उवाच
।
सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम्
।
भाषां चैषां समास्थाय विराटमुपयादथ ॥१॥
गोष्ठमासाद्य तिष्ठन्तं भवनस्य समीपतः
।
राजाऽथ दृष्ट्वा पुरुषान् प्राहिणोज्जातविस्मयः ॥२॥
तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम्
।
समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ॥३॥
कस्य वा त्वं कुतो वा त्वं किं वा त्वं तु चिकीर्षसि
।
न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ ॥४॥
संप्राप्य राजानममित्रतापनं ततोऽब्रवीन्मेघमहौघनिःस्वनः
।
वैश्योऽस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ॥५॥
वस्तुं त्वयीच्छामि विशां वरिष्ठ तान् राजसिंहान् न हि वेद्मि पार्थान्
।
न शक्यते जीवितुमप्यकर्मणा न च त्वदन्यो मम रोचते नृपः ॥६॥
विराट उवाच
।
त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि
।
आचक्ष्व मे तत्त्वममित्रकर्शन न वैश्यकर्म त्वयि विद्यते क्षमम् ॥७॥
कस्यासि राज्ञो विषयादिहागतः किं वाऽपि शिल्पं तव विद्यते कृतम्
।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥८॥
सहदेव उवाच
।
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः
।
तस्याष्टशतसाहस्रा गवां वर्गाः शतं शतम् ॥९॥
अपरे शतसाहस्त्रा द्विस्तावन्तस्तथा परे
।
तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः॥१०॥
भूतं भव्यं भविष्यं च यच्च सङ्ख्यागतं गवाम्
।
न मेऽस्त्यविदितं किञ्चित् समन्ताद्दशयोजनम् ॥११॥
गुणाः सुविदिता ह्यासन् मम तस्य महात्मनः
।
आसीच्च स मया दृष्टः कुरुराजो युधिष्ठिरः ॥१२॥
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चन
।
तैस्तैरुपायैर्विदितं ममैतदेतानि शिल्पानि मयि स्थितानि ॥१३॥
ऋषभांश्चापि जानामि राजन् पूजितलक्षणान्
।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥१४॥
विराट उवाच
।
शतं सहस्राणि समाहितानि सवर्णवर्णस्य विमिश्रितान् गुणैः
।
पशून् सपालान् भवते ददाम्यहम् त्वदाश्रया मे पशवो भवन्त्विह ॥१५॥
वैशम्पायन उवाच
।
तथा स राज्ञो विदितो विशाम्पतेरुवास तत्रैव सुखं नरोत्तमः
।
न चैनमन्येऽपि विदुः कथञ्चन प्रादाच्च तस्मै भरणं यथेप्सितम् ॥१६॥
वैशम्पायन उवाच
।
अथापरोऽदृश्यत रूपसम्पदा स्त्रीणामलङ्कारधरो बृहत्पुमान्
।
प्राकारवप्रे प्रतिमुच्य कुण्डले दीर्घे च कम्बूपरि हाटके शुभे ॥१॥
बाहू च दीर्घान् प्रविकीर्य मूर्धजान् महाभुजो वारणतुल्यविक्रमः
।
गतेन भूमिं प्रतिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥२॥
तं प्रेक्ष्य राजोपगतं सभातले व्याजात् प्रतिच्छन्नमरिप्रमाथिनम्
।
विराजमानं परमेण वर्चसा सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ॥३॥
सर्वानपृच्छच्च सभानुचारिणः कुतोऽयमायाति पुरा न मे श्रुतः
।
न चैनमूचुर्विदितं तदा नराः सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ॥४॥
सत्त्वोपपन्नः पुरुषोऽमरोपमः श्यामो युवा वारणयूथपोपमः
।
आमुच्य कम्बूपरि हाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले ॥५॥
स्रग्वी सुकेशः परिधाय चान्यथा शुशोभ धन्वी कवची शरी यथा
।
आरुह्य यानं परिधावतां भवान् सुतैः समो मे भव वा मया समः ॥६॥
वृद्धो ह्यहं वै परिहारकामः सर्वान् मत्स्यांस्तरसा पालयस्व
।
नैवंविधाः क्लीबरूपा भवन्ति कथञ्चनेति प्रतिभाति मे मनः ॥७॥
अर्जुन उवाच
।
गायामि नृत्याम्यथ वाद्यामि भद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते
।
त्वमुत्तरायै प्रदिशस्व मां स्वयं भवामि देव्या नरदेव नर्तकः ॥८॥
इदं तु रूपं मम येन किं तव प्रकीर्तयित्वा भृशशोकवर्धनम्
।
बृहन्नलां मां नरदेव विद्धि सुतं सुतां वा पितृमातृवर्जिताम् ॥९॥
विराट उवाच
।
ददामि ते हन्त वरं बृहन्नले सुतां च मे नर्तय याश्च तादृशीः
।
इदं तु ते कर्म समं न मे मतं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥१०॥
वैशम्पायन उवाच
।
बृहन्नलां तामभिवीक्ष्य मत्स्यराट् कलासु नृत्येषु तथैव वादिते
।
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै ॥११॥
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम्
।
स शिक्षयामास च गीतवादितं सुतां विराटस्य धनञ्जयः प्रभुः ॥१२॥
सखीश्च तस्याः परिचारिकास्तथा
।
प्रियश्च तासां स बभूव पाण्डवः ॥१३॥
तथा स सत्रेण धनञ्जयो वसन् प्रियाणि कुर्वन् सह ताभिरात्मवान्
।
तथा च तं तत्र न जज्ञिरे जना बहिश्चरा वाऽप्यथ चान्तरेचराः ॥१४॥
वैशम्पायन उवाच
।
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजं तरसा समेयिवान्
।
तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् ॥१॥
स वै हयानैक्षत तांस्ततस्ततः समीक्षमाणं स ददर्श मत्स्यराट्
।
ततोऽब्रवीत्ताननुगान्नरेश्वरः कुतोऽयमायाति नरोऽमरोपमः ॥२॥
स्वयं हयानीक्षति मामकान् दृढं ध्रुवं हयज्ञो भविता विचक्षणः
।
प्रवेश्यतामेष समीपमाशु मे विभाति वीरो हि यथाऽमरस्तथा ॥३॥
अभ्येत्य राजानममित्रहाऽब्रवीज्जयोऽस्तु ते पार्थिव भद्रमस्तु वः
।
हयेषु युक्तो नृप संमतः सदा तवाश्वसूतो निपुणो भवाम्यहम् ॥४॥
विराट उवाच
।
ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि
।
कुतोऽसि कस्यासि कथं त्वमागतः प्रबूहि शिल्पं तव विद्यते च यत् ॥५॥
नकुल उवाच
।
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः
।
तेनाहमश्वेषु पुरा नियुक्तः शत्रुकर्शन ॥६॥
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः
।
दुष्टानां प्रतिपतिं च कृत्स्नं चैव चिकित्सितम् ॥७॥
न कातरं स्यान्मम जातु वाहनं न मेऽस्ति दुष्टा वडवा कुतो हयाः
।
जनस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥८॥
विराट उवाच
।
यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै
।
ये चापि केचिन्मम वाजियोजकास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥९॥
इदं तवेष्टं यदि वै सुरोपम ब्रवीहि यत्ते प्रसमीक्षितं वसु
।
न तेऽनुरूपं हयकर्म विद्यते प्रभाति राजेव हि संमतो मम ॥१०॥
युधिष्ठिरस्येव हि दर्शनेन मे समं तवेदं प्रियमत्र दर्शनम्
।
कथं तु भृत्यैः स विनाकृतो वने वसत्यनिन्द्यो रमते च पाण्डवः ॥११॥
वैशम्पायन उवाच
।
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः
।
न चैनमन्येऽपि विदुः कथञ्चन प्रियाभिरामं विचरन्तमन्तरा ॥१२॥
एवं हि मत्स्ये न्यवसन्त पाण्डवा यथाप्रतिज्ञाभिरमोघदर्शनाः
।
अज्ञातचर्यां व्यचरन् समाहिताः समुद्रनेमीपतयोऽतिदुःखिताः ॥१३॥
The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in