जनमेजय उवाच
।
एवं ते मत्स्यनगरे प्रच्छन्नाः कुरुनन्दनाः
।
अत ऊर्ध्वं महावीर्याः किमकुर्वत वै द्विज ॥१॥
वैशम्पायन उवाच
।
एवं मत्स्यस्य नगरे प्रच्छन्नाः कुरुनन्दनाः
।
आराधयन्तो राजानं यदकुर्वत तच्छृणु ॥२॥
तृणबिन्दुप्रसादाच्च धर्मस्य च महात्मनः
।
अज्ञातवासमेवं तु विराटनगरेऽवसन् ॥३॥
युधिष्ठिरः सभास्तारो मत्स्यानामभवत् प्रियः
।
तथैव च विराटस्य सपुत्रस्य विशाम्पते ॥४॥
स ह्यक्षहृदयज्ञस्तान् क्रीडयामास पाण्डवः
।
अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥५॥
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्
।
भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं संप्रयच्छति ॥६॥
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च
।
अतिसृष्टानि मत्स्येन विक्रीणीते युधिष्ठिरे ॥७॥
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः
।
विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥८॥
सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः
।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥९॥
नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्
।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥१०॥
कृष्णा तु सर्वान् भर्तॄंस्तान्निरीक्षन्ती तपस्विनी
।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥११॥
एवं सम्पादयन्तस्ते तदाऽन्योन्यं महारथाः
।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥१२॥
साशङ्का धार्तराष्ट्रस्य भयात् पाण्डुसुतास्तदा
।
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥१३॥
अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः
।
आसीत् समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥१४॥
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन् सहस्रशः
।
समाजे ब्रह्मणो राजन् यथा पशुपतेरिव ॥१५॥
महाकाया महावीर्याः कालखञ्जा इवासुराः
।
वीर्योन्मत्ता वलोदग्रा राज्ञा समभिपूजिताः ॥१६॥
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः
।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥१७॥
तेषामेको महानासीत् सर्वमल्लानथाह्वयत्
।
आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥१८॥
यदा सर्वे विमनसस्ते मल्ला हतचेतसः
।
अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ॥१९॥
नोद्यमानस्तदा भीमो दुःखेनैवाकरोन्मतिम्
।
न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥२०॥
ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन्
।
प्रविवेश महारङ्गं विराटमभिपूजयन् ॥२१॥
बबन्ध कक्षां कौन्तेयस्ततः संहर्षयन् जनम्
।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥२२॥
जीमूतं नाम तं तत्र मल्लं प्रख्यातविक्रमम्
।
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ॥२३॥
मत्ताविव महाकायौ वारणौ षष्टिहायनौ
।
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतुः ॥२४॥
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ
।
आसीत् सुभीमः संपातो वज्रपर्वतयोरिव ॥२५॥
उभौ परमसंहृष्टौ बलेनातिबलावुभौ
।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥२६॥
उभौ परमसंहृष्टौ मत्ताविव महागजौ
।
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः
।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥२७॥
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिःस्वनैः
।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥२८॥
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः
।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥२९॥
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा
।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥३०॥
अरज्यत जनः सर्वः सोत्कृष्टनिनदोत्थितः
।
बालनोः संयुगे राजन् वृत्रवासवयोरिव ॥३१॥
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः
।
आकर्षतुरथान्योन्यं जानुभिश्चापि जघ्नतुः ॥३२॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम्
।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥३३॥
चकर्ष दोर्ज्यामुत्पात्य भीमो मल्लममित्रहा
।
निनदन्तमभिक्रोशन् शार्दूल इव वारणम् ॥३४॥
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान्
।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥३५॥
भ्रामयित्त्वा शतगुणं गतसत्त्वमचेतनम्
।
प्रत्यर्पिषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥३६॥
तस्मिन् विनिहते वीरे जीमूते लोकविश्रुते
।
विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥३७॥
प्रहर्षात् प्रददौ वित्तं बहु राजा महामनाः
।
बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥३८॥
एवं स सुबहून् मल्लान् पुरुषांश्च महाबलान्
।
विनिघ्नन् मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥३९॥
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते
।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥४०॥
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः
।
योध्यते स विराटेन सिंहैर्मत्तैर्महाबलैः ॥४१॥
बीभत्सुरपि गीतेन स्वनृत्येन च पाण्डवः
।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥४२॥
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः
।
तोषयामास राजानं नकुलो नृपसत्तमम् ॥४३॥
तस्मै प्रदेयं प्रायच्छत् प्रीतो राजा धनं बहु
।
विनीतान् वृषभान् दृष्ट्वा सहदेवस्य चाभितः
।
धनं ददौ वहुविधं विराटः पुरुषर्षभः ॥४४॥
द्रौपदी प्रेक्ष्य तान्सर्वान् क्लिश्यमानान्महारथान्
।
नातिप्रीतमना राजन्निःश्वासपरमाऽभवत् ॥४५॥
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः
।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥४६॥