पाण्डवप्रवेशपर्व - १समयपालनपर्व - २कीचकवधपर्व - ३गोहरणपर्व - ४वैवाहिकपर्व - ५

समयपालनपर्व

त्रयोदशोऽध्यायः

जनमेजय उवाच ।
एवं ते मत्स्यनगरे प्रच्छन्नाः कुरुनन्दनाः ।
अत ऊर्ध्वं महावीर्याः किमकुर्वत वै द्विज ॥१॥

वैशम्पायन उवाच ।
एवं मत्स्यस्य नगरे प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानं यदकुर्वत तच्छृणु ॥२॥

तृणबिन्दुप्रसादाच्च धर्मस्य च महात्मनः ।
अज्ञातवासमेवं तु विराटनगरेऽवसन् ॥३॥

युधिष्ठिरः सभास्तारो मत्स्यानामभवत् प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशाम्पते ॥४॥

स ह्यक्षहृदयज्ञस्तान् क्रीडयामास पाण्डवः ।
अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥५॥

अज्ञातं च विराटस्य विजित्य वसु धर्मराट् ।
भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं संप्रयच्छति ॥६॥

भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणीते युधिष्ठिरे ॥७॥

वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥८॥

सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः ।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥९॥

नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् ।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥१०॥

कृष्णा तु सर्वान् भर्तॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥११॥

एवं सम्पादयन्तस्ते तदाऽन्योन्यं महारथाः ।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥१२॥

एवमिति । सम्पादयन्तोऽन्योन्यमाराधयन्तः गर्भधृता इव प्रच्छन्नत्वेन सेवाश्रमेण च दुःखिता इत्यर्थः ॥१२॥

साशङ्का धार्तराष्ट्रस्य भयात् पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥१३॥

अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः ।
आसीत् समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥१४॥

ब्रह्मणः उत्सवः शरदि नवधान्योत्पत्तौ सर्वैः क्रियते स च देशविशेषे प्रसिद्धः ॥१४॥

तत्र मल्लाः समापेतुर्दिग्भ्यो राजन् सहस्रशः ।
समाजे ब्रह्मणो राजन् यथा पशुपतेरिव ॥१५॥

यथा ब्रह्मणः समाजे ब्रह्मलोके कैलासे वा पशुपतेः समाजे इव मत्स्येषु समापेतुरिति सम्बन्धः ॥१५॥

महाकाया महावीर्याः कालखञ्जा इवासुराः ।
वीर्योन्मत्ता वलोदग्रा राज्ञा समभिपूजिताः ॥१६॥

सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥१७॥

स्ववदाताः अत्यन्तनिर्मलाः मनस्विनः प्रीतमनसः लब्धलक्षाः प्राप्तविजयाः ॥१७॥

तेषामेको महानासीत् सर्वमल्लानथाह्वयत् ।
आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥१८॥

यदा सर्वे विमनसस्ते मल्ला हतचेतसः ।
अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ॥१९॥

सूदेन भीमेन ॥१९॥

नोद्यमानस्तदा भीमो दुःखेनैवाकरोन्मतिम् ।
न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥२०॥

दुःखेनैव पारतन्त्र्यात् प्राकट्यभयाद्वा दुःखं न तु भङ्गभयात् । विवृते प्रकाशे ॥२०॥

ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन् ।
प्रविवेश महारङ्गं विराटमभिपूजयन् ॥२१॥

बबन्ध कक्षां कौन्तेयस्ततः संहर्षयन् जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥२२॥

कक्षां परिकरम् । कच्छामिति पाठेऽपि स एवार्थः । यद्वा कक्षां रज्जुं रज्ज्वा पाटनभयान्मल्लैरङ्गुल्यो बध्यन्त इति प्रसिद्धेरङ्गुलीर्बध्वेत्यर्थः ॥२२॥

जीमूतं नाम तं तत्र मल्लं प्रख्यातविक्रमम् ।
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ॥२३॥

मत्ताविव महाकायौ वारणौ षष्टिहायनौ ।
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतुः ॥२४॥

वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ।
आसीत् सुभीमः संपातो वज्रपर्वतयोरिव ॥२५॥

उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥२६॥

उभौ परमसंहृष्टौ मत्ताविव महागजौ ।
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥२७॥

कृतं क्वचिद्देशे निपीडनम् । प्रतिकृतं तस्य मोचनम् । सुसंकटैर्मुष्टिग्रहणेन कृशीकृतैः । सकण्टकैरिति पाठे सकवचैः सकिणैर्वा ‘कण्टको बाहुचरणकवचे कठिने किणे’ इति विश्वः । सन्निपातोऽङ्गसङ्घट्टनम् अवधूतं तेनैव दूरीकरणं । प्रमाथादय उक्ता मल्लशास्त्रे - ‘निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते । यत्तूत्थायाङ्गमथनं तदुन्मथनमुच्यते’ ॥२७॥

क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिःस्वनैः ।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥२८॥

शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्ट‌नैः ॥२९॥

तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा ।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥३०॥

अशस्त्रं निन्द्यम् यथोक्तं तत्रैव - ‘बाहुयुद्धं हि मल्लानामशस्त्रमृषिभिः स्मृतम् । मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते’ इति । बलप्राणेन बलेन शारीरबणेन प्राणेन मानसबलेन च ॥३०॥

अरज्यत जनः सर्वः सोत्कृष्टनिनदोत्थितः ।
बालनोः संयुगे राजन् वृत्रवासवयोरिव ॥३१॥

सोत्कृष्टनिनदः हीहीशब्दोच्चारणेन यज्जितस्य समुत्थापनं तत्सहितः ॥३१॥

प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ।
आकर्षतुरथान्योन्यं जानुभिश्चापि जघ्नतुः ॥३२॥

ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥३३॥

चकर्ष दोर्ज्यामुत्पात्य भीमो मल्लममित्रहा ।
निनदन्तमभिक्रोशन् शार्दूल इव वारणम् ॥३४॥

समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥३५॥

भ्रामयित्त्वा शतगुणं गतसत्त्वमचेतनम् ।
प्रत्यर्पिषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥३६॥

गतसत्त्वं नष्टबुद्धिमत एवाचेतनं शवभूतम् ॥३६॥

तस्मिन् विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥३७॥

प्रहर्षात् प्रददौ वित्तं बहु राजा महामनाः ।
बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥३८॥

एवं स सुबहून् मल्लान् पुरुषांश्च महाबलान् ।
विनिघ्नन् मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥३९॥

यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥४०॥

पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः ।
योध्यते स विराटेन सिंहैर्मत्तैर्महाबलैः ॥४१॥

बीभत्सुरपि गीतेन स्वनृत्येन च पाण्डवः ।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥४२॥

अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः ।
तोषयामास राजानं नकुलो नृपसत्तमम् ॥४३॥

तस्मै प्रदेयं प्रायच्छत् प्रीतो राजा धनं बहु ।
विनीतान् वृषभान् दृष्ट्वा सहदेवस्य चाभितः ।
धनं ददौ वहुविधं विराटः पुरुषर्षभः ॥४४॥

द्रौपदी प्रेक्ष्य तान्सर्वान् क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निःश्वासपरमाऽभवत् ॥४५॥

एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥४६॥

इति श्रीमहाभारते विराटपर्वणि समयपालनपर्वणि जीमूतवधे त्रयोदशोऽध्यायः ॥१३॥
॥समाप्तं समयपालनपर्व २॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in