वैशम्पायन उवाच
।
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
।
महारथेषु छन्नेषु मासा दश समाययुः ॥१॥
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशाम्पते
।
आवसत् परिचारार्हा सुदुःखं जनमेजय ॥२॥
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने
।
तां देवीं तोषयामास तथा चान्तःपुरस्त्रियः ॥३॥
तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः
।
सेना पतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥४॥
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव
।
कीचकः कामयामास कामबाणप्रपीडितः ॥५॥
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै
।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥६॥
नेयं मया जातु पुरेह दृष्टा राज्ञो विराटस्य निवेशने शुभा
।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥७॥
का देवरूपा हृदयङ्गमा शुभे ह्याचक्ष्व मे कस्य कुतोऽत्र शोभने
।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमस्ति मे मतम् ॥८॥
वसमानेष्विति । अन्यदौषधमेतां विना ॥८॥
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्
।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किञ्चन ॥९॥
प्रत्यग्ररूपा दिव्यरूपा ॥९॥
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानभोजनम्
।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥१०॥
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम्
।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥११॥
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने
।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥१२॥
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्
।
कान्त्या विभाति वक्त्रं ते शशाङ्क इव निर्मलम् ॥१३॥
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभे शुभे
।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥१४॥
परपुष्टः कोकिलः ॥१४॥
एवंरूपा मया नारी काचिदन्या महीतले
।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥१५॥
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे
।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥१६॥
भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ॥१६॥
अतीव रूपिणी किं त्वमनङ्गाङ्गविहारिणी
।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥१७॥
अनङ्गाङ्गविहारिणी स्मरदेहेन क्रीडन्ती रतिरित्यर्थः ॥१७॥
अपि चेक्षणपक्ष्माणां स्मितज्योत्स्नोपमं शुभम्
।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥१८॥
ईक्षणपक्ष्मणां नेत्रपक्ष्मणां स्मितमीषदुन्मीलनं तदेव ज्योत्स्नोपमं मनस आल्हादकरम् । लक्ष्माणमिति पाठे वक्त्रचन्द्रविशेषणम् ॥१८॥
निरीक्ष्य वक्त्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्
।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥१९॥
हारालङ्कारयोग्यौ तु स्तनौ चोभौ सुशोभनौ
।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥२०॥
सुजातौ उन्नतौ निरन्तरौ पृथुत्वात्संश्लिष्टौ ॥२०॥
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ
।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥२१॥
कुड्मलेति । मुकुली भूतपद्माकारौ ॥२१॥
वलीविभङ्गचतुरं स्तनभारविनामितम्
।
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ॥२२॥
[वलीनां जठरगतरेखाणां विभङ्गेन चतुरं शोभनं] कराग्रमंगुष्ठादिमध्यमांतो वितस्तिस्तेन संमितं कृशमित्यर्थः ॥२२॥
दृष्ट्वैव चारु जघनं सरित्पुलिनसंनिभम्
।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥२३॥
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः
।
त्वत्सङ्गमाभिसङ्कल्पविवृद्धो मां दहत्ययम् ॥२४॥
अग्निमदनो मदनाग्निः ॥२४॥
आत्मप्रदानवर्षेण संगमाम्भोधरेण च
।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥२५॥
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः
।
त्वत्संगमाशानिशितास्तीव्राः शशिनिभानने
।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥२६॥
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः
।
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम
।
आत्मप्रदानसम्भोगैर्मामुद्धर्तुमिहार्हसि ॥२७॥
अत्युन्मादं मरणकालीनं सन्निपातं समारभन्ते तेऽत्युन्मादसमारम्भाः । त्वदलाभेमरिष्याम्येवेति भावः ॥२७॥
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता
।
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥२८॥
कामं स्मरं प्रकाममतिशयितम् ॥२८॥
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता
।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥२९॥
प्राप्नुहि लभस्व ॥२९॥
स्वादून्यमृतकल्पानि पेयानि विविधानि च
।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥३०॥
भोगोपचारान् विविधान् सौभाग्यं चाप्यनुत्तमम्
।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥३१॥
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि
।
अधार्यमाणा स्रगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥३२॥
त्यजामि दारान् मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि
।
अहं च ते सुन्दरि दासवत् स्थितः सदा भविष्ये वशगो वरानने ॥३३॥
द्रौपद्युवाच
।
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे
।
निहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिणीम् ॥३४॥
अभिमन्यसे कामयसे ॥३४॥
परदाराऽस्मि भद्रं ते न युक्तं तव साम्प्रतम्
।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥३५॥
परदारे न ते बुद्धिर्जातु कार्या कथंचन
।
विवर्जनं ह्यकार्याणामेतत् सुपुरुषव्रतम् ॥३६॥
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः
।
अयशः प्राप्नुयाद्घोरं महद्वा प्राप्नुयाद्भयम् ॥३७॥
मिथ्याभिगृध्नो वितथाभिनिवेशी महद्भयं मृत्युम् ॥३७॥
वैशम्पायन उवाच
।
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः
।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥३८॥
दोषान् बहून् प्राणहरान् सर्वलोकविगर्हितान्
।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥३९॥
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने
।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥४०॥
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम्
।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥४१॥
अहं हि सुभ्रू राज्यस्य कृत्स्नस्यास्य सुमध्यमे
।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥४२॥
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह
।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥४३॥
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह
।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥४४॥
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने
।
भजस्व मां वरारोहे भुङ्क्ष्व भोगाननुत्तमान् ॥४५॥
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः
।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥४६॥
सैरन्ध्युवाच
।
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम्
।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥४७॥
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम
।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥४८॥
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि
।
यथा निश्चेतनो वालः कूलस्थः कूलमुत्तरम्
।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥४९॥
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि
।
तथाऽपि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥५०॥
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक
।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥५१॥
मन्यसे लिप्ससे । शिशोश्चन्द्रवदहं तव दुर्लभाऽस्मीति भावः ॥५१॥
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति
।
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ॥५२॥
तेषां प्रियामिति । तेषां प्रसिद्धानां गन्धर्वाणां प्रियां प्रार्थयतस्ते तव भुवि गत्वा दिवं वा गत्वा शरणं त्राता कश्चिन्न भविष्यति । अत एव हे कीचक ते तव कामान्धस्य सा दृशा दृष्टिर्बुद्धिरिति यावत् या शुभं स्वीयमर्थयेत कामयेत । शुभेच्छारूपा तव नास्तीत्यर्थः । तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन सञ्जीवनं भवतीति शेषः । अन्यथा मरिष्यसीत्यर्थः । न मे भुवीति पाठे तेषां प्रियां प्रार्थयतो मे मम कोऽपि त्राता न भविष्यतीति दृशा बुद्धिस्तव नास्तीति सम्बन्धः । या ते च संजीवनमर्थयत्तमिति पाठे तु या दृष्टिस्ते तव संजीवनं च भवति कीदृशं संजीवनम् अर्थयत्तं वस्त्वधीनम् । तस्माद्वितथाभिनिवेशिनस्ते जीवनं नास्तीत्यर्थः ॥५२॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि कीचककृष्णसंवादे चतुर्दशोऽध्यायः ॥१४॥
वैशम्पायन उवाच
।
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्
।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥१॥
यथा कैकेयि सैरन्ध्री समेयात्तद्विधीयताम्
।
येनोपायेन सैरन्ध्री भजेन्मां गजगामिनी
।
तं सुदेष्णे परीप्सस्व प्राणान्मोहात् प्रहासिषम् ॥२॥
प्रत्याख्यात इति । समेयात् मामुपगच्छेत् मा ऊहादिति छेदः । ऊहात् वितर्कात्तमुपायं युक्त्या परीप्सस्वेति योज्यम् । प्राणान् मा प्रहासिषमिति च ॥२॥
वैशम्पायन उवाच
।
तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा
।
विराटमहिषी देवी कृपां चक्रे मनस्विनी ॥३॥
स्वमन्त्रमभिसन्धाय तस्यार्थमनुचिन्त्य च
।
उद्योगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ॥४॥
कृष्णायाः प्राप्त्यर्थे उद्योगमुद्यमं चानुचिन्त्येति योज्यम् ॥४॥
पर्वणि त्वं समुद्दिश्य सुरामन्नं च कारय
।
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ॥५॥
पर्वणि मद्यपायिनामुत्सवकाले चतुर्दश्यादौ । समुद्दिश्य अद्याहं सुदेष्णार्थमन्नादिकं कारयामीति कीर्तयित्वा - ख्यापयित्वा ॥५॥
तत्र संप्रेषितामेनां विजने निरवग्रहे
।
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि॥६॥
विजने एकान्ते निरवग्रहे निष्प्रतिबन्धे ॥६॥
वैशम्पायन उवाच
।
इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात्तदा
।
सुरामाहारयामास राजार्हां सुपरिष्कृताम् ॥७॥
भक्षांश्च विविधाकारान् बहूंश्चोच्चावचांस्तदा
।
कारयामास कुशलैरन्नं पानं सुशोभनम् ॥८॥
तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता
।
सुदेष्णा प्रेषयामास सैरन्ध्रीं कचिकालयम् ॥९॥
उपमन्त्रिता प्रार्थिता ॥९॥
सुदेष्णोवाच
।
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम्
।
पानमानय कल्याणि पिपासा मां प्रबाधते ॥१०॥
पानं मद्यं सुरामन्नं चेत्युपक्रमात् तस्यैव पिपासा पातुमिच्छा ॥१०॥
सैरन्ध्रयुवाच
।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम्
।
त्वमेव राज्ञि जानासि यथा स निरपत्रपः ॥११॥
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि
।
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ॥१२॥
त्वं चैव देवि जानासि यथा स समयः कृतः
।
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥१३॥
कीचकस्तु सुकेशान्ते मूढो मदनदर्पितः
।
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ॥१४॥
सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः
।
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ॥१५॥
सुदेष्णोवाच
।
नैव त्वां जातु हिंस्यात् स इतः संप्रेषिता मया
।
इत्युक्त्वा प्रददौ पात्रं सपिधानं हिरण्मयम् ॥१६॥
सा शङ्कमाना रुदती दैवं शरणमीयुषी
।
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ॥१७॥
सैरन्ध्र्युवाच
।
यथाऽहमन्यं भर्तृभ्यो नाभिजानामि कंचन
।
तेन सत्येन मां प्राप्तां मा कुर्यात् कीचको वशे ॥१८॥
वैशम्पायन उवाच
।
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः
।
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ॥१९॥
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्
।
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥२०॥
तां मृगीमिव सन्त्रस्तां दृष्ट्वा कृष्णां समीपगाम्
।
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ॥२१॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीसुराहरणे पञ्चदशोऽध्यायः ॥१५॥
कीचक उवाच
।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम
।
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ॥१॥
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके
।
नानापत्तनजे शुभ्रे मणिरत्नं च शोभनम् ॥२॥
स्वागतमिति । परितो हाटके ययोस्ते परिहाटके कुण्डले ताटङ्के इत्यर्थः ॥२॥
आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च
।
अस्ति मे शयनं दिव्यं त्वदर्थमुपकल्पितम्
।
एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम् ॥३॥
मधुमाधवीं मधुपुष्पजां मदिराम् ॥३॥
द्रौपद्युवाच
।
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्
।
पानमाहर मे क्षिप्रं पिपासा मेऽति चाब्रवीत् ॥४॥
सुराहारीं सुरामाहर्तुकामां पिपासा मेऽति मे मम अतिपिपासा ॥४॥
कीचक उवाच
।
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः प्रतिश्रुतम्
।
इत्येतां दक्षिणे पाणौ सूतपुत्रः परामृशत् ॥५॥
द्रौपद्युवाच
।
यथैवाहं नाभिचरे कदाचित् पतीन् मदाद्वै मनसाऽपि जातु
।
तेनैव सत्येन वशीकृतं त्वां द्रष्टाऽस्मि पापं परिकृष्यमाणम् ॥६॥
वैशम्पायन उवाच
।
स तामभिप्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभर्त्सयन्तीम्
।
जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाऽऽक्षिपन्तीम् ॥७॥
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री
।
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥८॥
सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्
।
सभां शरणमागच्छद्यत्र राजा युधिष्ठिरः ॥९॥
विधुन्वाना कम्पमाना ॥९॥
तां कीचकः प्रधावन्तीं केशपाशे परामृशत्
।
अथैनां पश्यतो राज्ञः पातयित्वा पदाऽवधीत् ॥१०॥
तस्य योऽसौ तदाऽर्केण राक्षसः संनियोजितः
।
स कीचकमपोवाह वातवेगेन भारत ॥११॥
अपोवाह दूरीचकार ॥११॥
स पपात तदा भूमौ रक्षोबलसमाहतः
।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥१२॥
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ
।
अमृष्यमाणौ कृष्णायाः कीचकेन पराभवम् ॥१३॥
तस्य भीमो वधं प्रेप्सुः कीचकस्य दुरात्मनः
।
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥१४॥
धूमच्छाया ह्यभजतां नेत्रे चोछ्रितपक्ष्मणी
।
सस्वेदा भृकुटी चोग्रा ललाटे समवर्तत ॥१५॥
धूमच्छायाः कर्म, नेत्रे कर्तृणी अभजताम् । छायामित्येकवचनान्तः पाठः स्वच्छः ॥१५॥
हस्तेन ममृदे चैव ललाटं परवीरहा
।
भूयश्च त्वरितः क्रुद्धः सहसोत्थातुमैच्छत ॥१६॥
अथावमृद्नादङ्गुष्ठमङ्गुष्ठेन युधिष्ठिरः
।
प्रबोधनभयाद्राजा भीमं तं प्रत्यषेधयत् ॥१७॥
अङ्गुष्ठं पादाङ्गुष्ठम् अङ्गुष्ठेन हस्ताङ्गुष्ठेन आचारादेवं ज्ञेयम् ॥१७॥
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्
।
स तमावारयामास भीमसेनं युधिष्ठिरः ॥१८॥
आलोकयसि किं वृक्षं सूद दारुकृतेन वै
।
यदि ते दारुभिः कृत्यं बहिर्वृक्षान्निगृह्यताम् ॥१९॥
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्
।
अवेक्षमाणा सुश्रोणी पतींस्तान् दीनचेतसः ॥२०॥
आकारमभिरक्षन्ती प्रतिज्ञा धर्मसंहिता
।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥२१॥
अभिरक्षन्ती गूहमाना । धर्मसंहिता धर्मबद्धा ॥२१॥
द्रौपद्युवाच
।
येषां वैरी न स्वपिति षष्ठेऽपि विषये वसन्
।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥२२॥
षष्ठे विषये देशपञ्चकव्यवधानेऽपि न स्वपिति । तेषां सार्वभौमत्वात् । यद्वा बाह्येन्द्रियग्राह्यपञ्चविषयापेक्षया षष्ठे मनोमात्रग्राह्ये स्वप्नमनोरथादिरूपेऽपि विषये न स्वपिति भयार्दितः सन् किमुत लोके न स्वपितीत्यर्थः ॥२२॥
ये दद्युर्ने च याचेयुर्ब्रह्मण्याः सत्यवादिनः
।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥२३॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्
।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥२४॥
ये च तेजस्विनो दान्ता बलवन्तोऽतिमानिनः
।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥२५॥
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये
।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥२६॥
सिताः बद्धाः ॥२६॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्
।
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥२७॥
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्
।
मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥२८॥
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते
।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥२९॥
मयाऽत्र शक्यं किं कर्तुं विराटे धर्मदूषके
।
यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥३०॥
न राजा राजवत्किञ्चित् समाचरति कीचके
।
दस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥३१॥
नाहमेतेन युक्तं वै हन्तुं मत्स्य तवान्तिके
।
सभासदोऽत्र पश्यन्तु कीचकस्य व्यतिक्रमम् ॥३२॥
कीचको न च धर्मज्ञो न च मत्स्यः कथंचन
।
सभासदोऽप्यधर्मज्ञा य एनं पर्युपासते ॥३३॥
वैशम्पायन उवाच
।
एवंविधैर्वचोभिः सा तदा कृष्णाऽश्रुलोचना
।
उपालभत राजानं मत्स्यानां वरवर्णिनी ॥३४॥
विराट उवाच
।
परोक्षं नाभिजानामि विग्रहं युवयोरहम्
।
अर्थतत्त्वमविज्ञाय किं नु स्यात् कौशलं मम ॥३५॥
कौशलं साध्वसाधुनिर्णये इति शेषः । किं नु कथं नु ॥३५॥
वैशम्पायन उवाच
।
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्
।
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥३६॥
सभ्या ऊचुः
।
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा
।
परो लाभस्तु तस्य स्यान्न च शोचेत् कथंचन ॥३७॥
न हीदृशी मनुष्येषु सुलभा वरवर्णिनी
।
नारी सर्वानवद्याङ्गी देवीं मन्यामहे वयम् ॥३८॥
वैशम्पायन उवाच
।
एवं संपूजयन्तस्ते कृप्णां प्रेक्ष्य सभासदः
।
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आगमत् ॥३९॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
।
गच्छ सैरन्ध्रि माऽत्रस्थाः सुदेष्णाया निवेशनम् ॥४०॥
माऽत्र स्थाः अत्र मा स्थाः मा तिष्ठ ॥४०॥
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः
।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥४१॥
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव
।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥४२॥
अकालज्ञाऽसि सैरन्ध्रि शैलूषीव विरोदिषि
।
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ॥४३॥
शैलूषीव नटीव निर्लज्जा ॥४३॥
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्
।
व्यपनेष्यन्तिं ते दुःखं येन ते विप्रियं कृतम् ॥४४॥
दुःख दुःखयितारं व्यपनेष्यन्ति जीवितादिति शेषः ॥४४॥
सैरन्ध्युवाच
।
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी
।
तस्य तस्यैव ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥४५॥
घृणिनां दयावतां तेषामर्थे । तस्य तस्य सर्वस्यैव ते वध्याः स्युः ॥४५॥
वैशम्पायन उवाच
।
इत्युक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम्
।
केशान् मुक्त्वा च सुश्रोणी संरम्भाल्लोहितेक्षणा ॥४६॥
शुशुभे वदनं तस्या रुदत्याः सुचिरं तदा
।
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥४७॥
सुदेष्णोवाच
।
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने
।
कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥४८॥
द्रौपद्युवाच
।
कीचको माऽवधीत्तत्र सुराहारीं गतां तव
।
सभायां पश्यतो राज्ञो यथैव विजने वने ॥४९॥
पश्यतो राज्ञ इत्यनादरे षष्ठी, राजानं लक्षीकृत्येत्यर्थः ॥४९॥
सुदेष्णोवाच
।
घातयामि सुकेशान्ते कीचकं यदि मन्यसे
।
योऽसौ त्वां कामसंमत्तो दुर्लभामवमन्यते ॥५०॥
सैरन्ध्युवाच
।
अन्ये चैनं वधिष्यन्ति येषामागः करोति सः
।
मन्ये चैवाद्य सुव्यक्तं यमलोकं गमिष्यति ॥५१॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीपरिभवे षोडशोऽध्यायः ॥१६॥
वैशम्पायन उवाच
।
सा हता सूतपुत्रेण राजपत्नी यशस्विनी
।
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ॥१॥
सेति । सेनावाहस्य सेनापतेः कीचकस्य ॥१॥
जगामावासमेवाथ सा तदा द्रुपदात्मजा
।
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ॥२॥
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा
।
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥३॥
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम
।
इत्येवं चिन्तयित्वा सा भीमं वै मनसाऽगमत् ॥४॥
नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्
।
तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् ॥५॥
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती
।
भवनं भीमसेनस्य क्षिप्रमायतलोचना ॥६॥
दुःखेन महता युक्ता मानसेन मनस्विनी
।
सैरन्ध्युवाच
।
तस्मिन् जीवति पापिष्ठे सेनावाह मम द्विषि ॥७॥
यः तत्कर्म पदाहतिरूपं कृतवान् तस्मिन् जीवति ॥७॥
तत् कर्म कृतवानद्य कथं निद्रां निषेवसे
।
वैशम्पायन उवाच
।
एवमुक्त्वाऽथ तां शालां प्रविवेश मनस्विनी ॥८॥
यस्यां भीमस्तथा शेते मृगराज इव श्वसन्
।
तस्या रूपेण सा शाला भीमस्य च महात्मनः ॥९॥
संमूर्छितेव कौरव्य प्रजज्वाल च तेजसा
।
सा वै महानसं प्राप्य भीमसेनं शुचिस्मिता ॥१०॥
संमूर्छितेव वृद्धिं शोभारूपां प्राप्तेव प्रजज्वाल अशोभत ॥१०॥
सर्वश्वेतेव माहेयी वने जाता त्रिहायणी
।
उपातिष्ठत पाञ्चाली वासितेव वरर्षभम् ॥११॥
सर्वश्वेतेवेति । पाञ्चाली द्रौपदी वरर्षभं वरणीयं पतिं श्रेष्ठं भीमसेनमुपलक्ष्य वासितेव पुष्पिणीत्वेन कामातुरेव उपातिष्ठत समीपे स्थितवती । वस्तुतो न कामातुरा किं तु द्वेषातुरैवेति भावः । तत्र दृष्टान्तद्वयम् । इव शब्दः काकाक्षिवदुभयत्र सम्बध्यते सर्वश्वेतेव माहेयीव चेति । सर्वश्वेता बकी यथा कामातुरा वरर्षभं पतिमिति एकः । तस्याः कामातुरत्वे हेतुः वने जातेति । जले जात तन जलसामीप्ये लब्धाहारत्वेन उन्मत्तत्वं सूच्यते । तथा माहेयी गौः साऽपि वासिता सती वरर्षभं साण्डं बलीवर्दम् । तस्या अपि वासितात्वे विशेषणं त्रिहायणीति । त्रिवर्षा हि गौर्यौवनारूढा कामातुरा च भवति । * अन्ये तु ‘श्वेतः सिते राजहंसे कैलासे द्विपभूपयोः’ इति कोशमुदाहृत्य सर्वश्वेता हंसीति व्याचक्षते । तत्र सर्वपदं व्यर्थं हंसस्य लोहितलोचनास्यचरणत्वात् प्रतिकूलं च । यद्यपि ‘त्रिहायणी त्रिवर्षा गौः’ इति च कोशात् त्रिहायणीपदेनैव गौर्लभ्यते तथापि तत्कामातुरत्वज्ञापनार्थमुपक्षीणं सद्विशेष्यसमर्पकं पदान्तरमपेक्षत एवेति न व्यर्थविशेषणत्वम् । अन्ये व्याख्यानप्रकाराः सर्वेऽनेनैव दोषेण ग्रस्ता इत्युपेक्षिताः ॥११॥
सा लतेव महाशालं फुल्लं गोमतितीरजम्
।
परिष्वजत पाञ्चाली मध्यमं पाण्डुनन्दनम् ॥१२॥
मध्यमं पाण्डुनन्दनं भीमसेनम् । यमयोः सहजातत्वेन पौर्वापर्याभावात्तौ कनिष्ठावेव । युधिष्ठिरो ज्येष्ठ एव । मध्यमत्वं भीमार्जुनयोरेव विश्रान्तं तत्रापि अत्र प्रकरणात् अर्जुनस्य संप्रति पुंस्त्वाभावाच्च मध्यमत्वं भीमसेने एव मुख्यमित्याशयेनैवैतदुक्तम् । परिष्वजत पर्यष्वजत आलिङ्गितवती ॥१२॥
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता
।
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ॥१३॥
भीमसेनमुपाश्लिष्यद्धस्तिनीव महागजम्
।
वीणेव मधुरालापा गान्धारं साधु मूर्छती
।
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता ॥१४॥
गान्धारं स्वरविशेषं मूर्छती मूर्छयन्ती ॥१४॥
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः
।
नामृतस्य हि पापीयान् भार्यामालभ्य जीवति ॥१५॥
स संप्रहाय शयनं राजपुत्र्या प्रबोधितः
।
उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे ॥१६॥
सोपसङ्ग्रहे सतूलिके ॥१६॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
।
केनास्यथन संप्राप्ता त्वरितेव ममान्तिकम् ॥१७॥
न ते प्रकृतिमान् वर्णः कृशा पाण्डुश्च लक्ष्यसे
।
आचक्ष्व परिषेशेण सर्वं विद्यामहं यथा ॥१८॥
विद्यां जानीयाम् ॥१८॥
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
।
यथावत् सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत् क्षमम् ॥१९॥
ज्ञास्यामि उपायं चिन्तयिष्यामि क्षमं योग्यम् ॥१९॥
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु
।
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥२०॥
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्
।
गच्छ वै शयनायैव पुरा नान्येन बुध्यते ॥२१॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीभीमसंवादे सप्तदशोऽध्यायः ॥१७॥
द्रौपद्युवाच
।
अशोच्यत्वं कुतस्तस्या यस्या भर्ता युधिष्ठिरः
।
जानन् सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ॥१॥
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत्
।
सभापरिषदो मध्ये तन्मां दहति भारत ॥२॥
अशोच्यमिति । सभा शाला तस्यां परिषत् जनसमाजस्तस्य मध्ये । तदा द्यूतकाले ॥२॥
पार्थिवस्य सुता नाम का नु जीवति मादृशी
।
अनुभूयेदृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥३॥
वनवासगतायाश्च सैन्धवेन दुरात्मना
।
परामर्शो द्विर्तायो वै सोढुमुत्सहते तु का ॥४॥
सैन्धवेन जयद्रथेन ॥४॥
मत्स्यराज्ञः समक्षं तु तस्य धूर्तस्य पश्यतः
।
कीचकेन परामृष्टा का नु जीवति मादृशी ॥५॥
एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत
।
न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥६॥
योऽयं राज्ञो विराटस्य कीचको नाम भारत
।
सेनानीः पुरुषव्याघ्र श्यालः परमदुर्मतिः ॥७॥
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि
।
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥८॥
तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन्
।
कालेनेव फलं पक्कं हृदयं मे विदीर्यते ॥९॥
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्
।
यस्याऽस्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥१०॥
को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह
।
प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥११॥
प्रव्रज्यं प्रव्रजनम् ‘व्रजयजोर्भावे क्यप्’ तस्मै प्रव्रज्याय ॥११॥
यदि निष्कसहस्रेण यच्चान्यत् सारवद्धनम्
।
सायंप्रातरदेविष्यदपि संवत्सरान् बहून् ॥१२॥
निष्कः सुवर्णपलं तेषां सहस्रेण ॥१२॥
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम्
।
अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत् ॥१३॥
रुक्मं स्वर्णरूपं हिरण्यं ‘तस्माद्रजतँ हिरण्यमश्रुजम्’ इति श्रुतौ हिरण्यशब्दस्य रजतेऽपि दर्शनात् । यानं गजादि । युग्यं युगोपेतं रथशकटादि । अश्वा वडवा ॥१३॥
सोऽयं द्यूतप्रवादेन श्रियः प्रत्यवरोपितः
।
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥१४॥
दश नागसहस्त्राणि हयानां हेममालिनाम्
।
यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ॥१५॥
रथाः शतसहस्राणि नृपाणाममितौजसाम्
।
उपासन्त महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ॥१६॥
शतं दासीसहस्राणां यस्य नित्यं महानसे
।
पात्रीहस्तं दिवारात्रमतिथीन् भोजयत्युत ॥१७॥
एष निष्कसहस्त्राणि प्रदाय ददतां वरः
।
द्यूतजेन ह्यनर्थेन महता समुपाश्रितः ॥१८॥
एनं हि स्वरसंपन्ना बहवः सूतमागधाः
।
सायंप्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥१९॥
सहस्त्रमृषयो यस्य नित्यमासन् सभासदः
।
तपःश्रुतोपसंपन्नाः सर्वकामैरुपस्थिताः ॥२०॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
।
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः ॥२१॥
अप्रतिग्राहिणां चैव यतीनामूर्धरेतसाम्
।
दश चापि सहस्राणि सोऽयमास्ते नरेश्वरः ॥२२॥
यतीनां दशसहस्राणि बिभर्तीति पूर्वेणान्वयः ॥२२॥
आनृशंस्यमनुक्रोशं संविभागस्तथैव च
।
यस्मिन्नेतानि सर्वाणि सोऽयमास्ते नरेश्वरः ॥२३॥
आनृशंस्यमनैष्ठुर्यमनुक्रोशं दयाम् ॥२३॥
अन्धान्वृद्धांस्तथाऽनाथान्बालान् राष्ट्रेषु दुर्गतान्
।
बिभर्ति विविधान् राजा धृतिमान् सत्यविक्रमः
।
संविभागमना नित्यमानृशंस्याद्युधिष्ठिरः ॥॥२४॥
स एष निरयं प्राप्तो मत्स्यस्य परिचारकः
।
सभायां देविता राज्ञः कङ्को बूते युधिष्ठिरः ॥२५॥
निरयं पारतन्त्र्यं, कङ्कोऽहमिति युधिष्ठिरो ब्रूते । कङ्कव्रतयुधिष्ठिर इति पाठे कङ्कव्रतश्चासौ युधिष्ठिरश्चेति समासः ॥२५॥
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः
।
आसन् बलिभृतः सर्वे सोऽद्यान्यैर्भूतिमिच्छति ॥२६॥
पार्थिवाः पृथिवीपाला यस्यासन् वशवर्तिनः
।
स वशे विवशो राजा परेषामद्य वर्तते ॥२७॥
प्रताप्य पृथिवीं सर्वां रश्मिमानिव तेजसा
।
सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥२८॥
यमुपासन्त राजानः सभायामृषिभिः सह
।
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥२९॥
सदस्यं समुपासीनं परस्य प्रियवादिनम्
।
दृष्ट्वा युधिष्ठिरं कोपो वर्धते मामसंशयम् ॥३०॥
सदस्यं सभासदम् ॥३०॥
अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंस्थितम्
।
दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ॥३१॥
उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा
।
तमुपासीनमप्यन्यं पश्य भारत भारतम् ॥३२॥
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत्
।
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥३३॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीभीमसंवादे अष्टादशोऽध्यायः ॥१८॥
द्रौपद्युवाच
।
इदं तु ते महद्दुःखं यत् प्रवक्ष्यामि भारत
।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥१॥
इदमिति ॥१॥
सूदकर्मणि हीने त्वमसमे भरतर्षभ
।
ब्रुवन् बल्लवजातीयः कस्य शोकं न वर्धयेः ॥२॥
हीने नीचे असमे विषमे ॥२॥
सुपकारं विराटस्य बल्लवं त्वां विदुर्जनाः
।
प्रेष्यत्वं समनुप्राप्तं ततो दुःखतरं नु किम् ॥३॥
यदा महानसे सिद्धे विराटमुपतिष्ठसि
।
ब्रुवाणो बल्लवः सूदस्तदा सीदति मे मनः ॥४॥
यदा प्रहृष्टः सम्राट् त्वां संयोधयति कुञ्जरैः
।
हसन्त्यन्तःपुरे नार्यो मम तूद्विजते मनः ॥५॥
शार्दूलैर्महिषैः सिंहैरागारे योध्यसे यदा
।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलं भवेत् ॥६॥
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत
।
प्रेष्याः समुत्थिताश्चापि कैकेयीं ताः स्त्रियोऽब्रुवन् ॥७॥
प्रेक्ष्य मामनवद्याङ्गीं कश्मलोपहातमिव
।
स्नेहात् संवासजाद्धर्मात् सूदमेषा शुचिस्मिता ॥८॥
योद्ध्यमानं महावीर्यमियं समनुशोचति
।
कल्याणरूपा सैरन्ध्री बल्लवश्चापि सुन्दरः ॥९॥
स्त्रीणां चित्तं च दुर्ज्ञेयं युक्तरूपौ च मे मतौ
।
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी ॥१०॥
प्रियसंवासात् प्रियस्य भीमसेनस्य संवासः सहवासः सम्बन्धः तस्मात् । तस्मिन् हस्त्यादिभिः सह योध्यमाने सति करुणावादिनी दीनवादिनी भवति ॥१०॥
अस्मिन् राजकुले चेमौ तुल्यकालनिवासिनौ
।
इति ब्रुवाणा वाक्यानि सा मां नित्यमतर्जयत् ॥११॥
संवासमेवाह अस्मिन्निति ॥११॥
क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि
।
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् ॥१२॥
त्वय्येवं निरयं प्राप्ते भीमे भीमपराक्रमे
।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥१३॥
निरयं दुःखम् ॥१३॥
यः सदेवान् मनुष्यांश्च सर्वांश्चैकरथोऽजयत्
।
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥१४॥
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्
।
सोन्तःपुरगतः पार्थ कूपेऽग्निरिव संवृतः ॥१५॥
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्
।
स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ॥१६॥
लोके परिभूतेन निन्दितेन ॥१६॥
यस्य ज्याक्षेपकाठिनौ बाहू परिघसन्निभौ
।
स शङ्खपरिपूर्णाभ्यां शोचन्नास्ते धनञ्जयः ॥१७॥
शङ्खपरिपूर्णाभ्यां बाहुभ्याम् ॥१७॥
यस्य ज्यातलनिर्घोषात् समकम्पन्त शत्रवः
।
स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥१८॥
किरीटं सूर्यसङ्काशं यस्य मूर्द्धन्यशोभत
।
वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ॥१९॥
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम्
।
कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥२०॥
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि
।
आधारः सर्वविद्यानां स धारयति कुण्डले ॥२१॥
स्प्रष्टुं राजसहस्त्राणि तेजसाऽप्रतिमानि वै
।
समरे नाभ्यवर्तन्त वेलामिव महार्णवः ॥२२॥
स्प्रष्टुमाकलायतुं यमिति शेषः । यस्येत्यपि पठन्ति । अप्रतिमानीति छेदः ॥२२॥
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा
।
आस्ते वेशप्रतिच्छन्नः कन्यानां परिचारकः ॥२३॥
यस्य स्म रथघोषेण समकम्पत मेदिनी
।
सपर्वतवना भीम सहस्थावरजङ्गमा ॥२४॥
यस्मिन् जाते महाभागे कुन्त्याः शोको व्यनश्यत
।
स शोचयति मामद्य भीमसेन तवानुजः ॥२५॥
भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः
।
कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥२६॥
यस्य नास्ति समो वीर्ये कश्चिदुर्व्यां धनुर्धरः
।
सोऽद्य कन्यापरिवृतो गायन्नास्ते धनञ्जयः ॥२७॥
धर्मे शौर्ये च सत्ये च जीवलोकस्य संमतम्
।
स्त्रीवेषविकृतं पार्थं दृष्ट्वा सीदति मे मनः ॥२८॥
यदा होनं परिवृतं कन्याभिर्देवरूपिणम्
।
प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥२९॥
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम्
।
पश्यामि तुर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥३०॥
दिशो नश्यन्ति शोकेन आन्ध्यमायातीत्यर्थः ॥३०॥
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम्
।
अजातशत्रु कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥३१॥
आर्या श्वश्रूः ॥३१॥
तथा दृष्ट्वा यवीयांसं सहदेवं गवां पतिम्
।
गोषु गोवेषमायान्तं पाण्डुभूताऽस्मि भारत ॥३२॥
गोवेषं महोक्षसदृशम् ॥३२॥
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः
।
न निद्रामभिगच्छामि भीमसेन कुतो रतिम् ॥३३॥
न विन्दामि महाबाहो सहदेवस्य दुष्कृतम्
।
यस्मिन्नेवंविधं दुःखं प्राप्नुयात् सत्यविक्रमः ॥३४॥
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्
।
गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् ॥३५॥
दूयामि खेदं प्राप्नोमि ॥३५॥
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम्
।
विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥३६॥
रक्तनेपथ्यं रक्तं गैरिकादिधातुमयं नेपथ्यमलङ्कारो यस्य तम् ॥३६॥
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति
।
महाभिजनसंपन्नः शीलवान् वृत्तवानिति ॥३७॥
ह्रीनिषेवो मधुरवाक् धार्मिकश्च प्रियश्च मे
।
स तेऽरण्येषु वोढव्यो याज्ञसेनि क्षपास्वपि ॥३८॥
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः
।
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ॥३९॥
ज्येष्ठापचायिनं ज्येष्ठपूजकम् ॥३९॥
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी
।
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ॥४०॥
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम्
।
सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥४१॥
वत्सचर्मणि क्षपायां शेते इति तं वत्सचर्मक्षपाशयम् ॥४१॥
यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया
।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥४२॥
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्ष्य तम्
।
विनयन्तं जवेनाश्वान् महाराजस्य पश्यतः ॥४३॥
अभ्यकीर्यन्त व्यशीर्यन्त वृन्दानि शत्रूणामिति शेषः । दामग्रन्थिं ग्रन्थिकम् ॥४३॥
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम्
।
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥४४॥
एनं नकुलं वाजिनोऽश्वान् दर्शयन्तं विराटं विराटाय ॥४४॥
किं नु मां मन्यसे पार्थ सुखिनीति परन्तप
।
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥४५॥
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत
।
वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ॥४६॥
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत
।
शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥४७॥
ध्रियमाणेषु जीवत्सु ॥४७॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीभीमसंवादे एकोनविंशोऽध्यायः ॥१९॥
द्रौपद्युवाच
।
अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि
।
शौचदाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥१॥
अहमिति । सैरन्ध्र्या वेषेण सैरन्ध्रीवेषेण । शौचद । मृज्जलादिशौचसाधनप्रदा ॥१॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप
।
आत्मकालमुदीक्षन्ती सर्वं दुःखं किलान्तवत् ॥२॥
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ
।
इतिकृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥३॥
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च
।
इतिकृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥४॥
य एव हेतुर्भवति पुरुषस्य जयावहः
।
पराजये च हेतुश्च स इति प्रतिपालये
।
किं मां न प्रतिजानीषे भीमसेन मृतामिव ॥५॥
पुरुषस्य दुर्योधनादेः यः कालः स एव काल एव । प्रतिपालये कालमिति शेषः ॥५॥
दत्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे
।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥६॥
काल एव सर्वं विपरीतं करोतीत्याह - दत्वेति । ये स्वयं दातारस्त एव कालेन दरिद्राः सन्तो याचका भवन्तीत्यर्थः । तथा अन्यान् हत्वा परैरपि वध्यन्ति वध्यन्ते । पातयित्वा अन्यान् त एवान्यैः पात्यन्त इति ॥६॥
न दैवस्यातिभारोऽस्ति न चैवास्यातिवर्तनम्
।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥७॥
अतिभारोदुष्करं दैवस्य किमपि नास्ति ॥ अस्य दैवस्य अतिवर्तनमतिक्रमणं च नास्ति ॥ केनचित्कृतमिति शेषः । दैवस्य प्राधान्यप्रतिपादकमागमं प्रतिपालये मानये । दैवाधीनाऽस्मीति मत्वा न शोचामीत्यर्थः ॥७॥
स्थितं पूर्वं जलं यत्र पुनस्तत्रैव गच्छति
।
इति पर्यायमिच्छन्ती प्रतीक्षे उदयं पुनः ॥८॥
स्थितमिति । यथा रिक्तं सरः पुनः कालेन पूर्यते एवमहमपि पुनः श्रियं प्राप्स्याम्येवेति निश्चयेन पर्यायं कालवैपरीत्यमिच्छन्ती ॥८॥
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते
।
दैवस्य चागमे यत्नस्तेन कार्यो विजानता ॥९॥
यस्य पुंसोऽर्थो दैवेन विपद्यते नश्यति तेन दैवस्यैव आगमे आनुकूल्ये यत्नः कार्यः दैवान्नष्टोऽर्थः पुनर्जपहोमादिना आहर्तव्य इत्यर्थः ॥९॥
यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम्
।
पृच्छ मां दुःखितां तत्त्वं पृष्टा चात्र ब्रवीमि ते ॥१०॥
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च
।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥११॥
कुरून् परिभवेत् सर्वान् पाञ्चालानपि भारत
।
पाण्डवेयांश्च संप्राप्तो मम क्लेशो हारिन्दम ॥१२॥
कुरूनिति । मम मत्सम्बन्धी मन्निमित्तकः कचग्रहादिरयं क्लेशः पाण्डवेयान् पाण्डोः स्त्री पाण्डवी कुन्ती तस्याः पुत्रान् युष्मान् प्राप्तः सन् कुरून् भीष्मादीन् पाञ्चालान् द्रुपदादींश्च परिभवेत् नाशयेदित्यर्थः॥१२॥
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता
।
एवं समुदिता नारी का त्वन्या दुःखिता भवेत् ॥१३॥
समुदिता सम्यगुदयवत्यपि एवं काऽन्या दुःखिता भवेन्न काऽपि श्रीमतामापदो न दृष्टा एव मम तु दृष्टा इति महदाश्चर्यमिति भावः ॥१३॥
नूनं हि बालया धातुर्मया वै विप्रियं कृतम्
।
यस्य प्रसादाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥१४॥
बाल्या न तु प्रौढया तं बाल्ये कृतमपराधं न स्मरामि । यस्य प्रसादादिदं दुर्नीतं दुरवस्थां प्राप्ताऽस्मि ॥१४॥
वर्णावकाशमपि मे पश्य पाण्डव यादृशम्
।
तादृशो मे न तत्रासीद्दुःखे परमके तदा ॥१५॥
वर्णावकाशो दीप्तिसङ्कोचः । वन्यान्नवल्कलधारणयुक्तात् स्वातन्त्र्याद्दिव्यान्नवस्त्रसंयुक्तं पारतन्त्र्यमतिदुःखदमिति भावः । तत्र वने इदानीं यथादीप्तिसङ्कोचोऽस्ति न तथा वने आसीदित्यर्थः ॥१५॥
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा
।
साऽहं दासीत्वमापन्ना न शान्तिमवशा लभे ॥१६॥
अवशा पराधीना ॥१६॥
नादैविकमहं मन्ये यत्र पार्थो धनञ्जयः
।
भीमधन्वा महाबाहुरास्ते छन्न इवानलः ॥१७॥
अदैविकं न किं तु दैविकमेव ॥१७॥
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः
।
विनिपातमिमं मन्ये युष्माकं ह्यविचिन्तितम् ॥१८॥
विनिपातं पराभवम् ॥१८॥
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा
।
सा प्रेक्षे मुखमन्यासामवराणां वरा सती ॥१९॥
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा
।
युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ॥२०॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी
।
आसीत् साऽद्य सुदेष्णाया भीताऽहं वशवर्तिनी ॥२१॥
यस्याः पुरःसरा आसन् पृष्ठतश्चानुगामिनः
।
साऽहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥२२॥
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्
।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः
।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनम् ॥२३॥
पश्य कौन्तेय पाणी मे नैवाभूतां हि यौ पुरा
।
इत्यस्य दर्शयामास किणवन्तौ करावुभौ ॥२४॥
पुरा किणवन्तौ नैवाऽभूतां किंत्विदानीमेव जातावित्यर्थः ॥२४॥
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन
।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ॥२५॥
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा
।
नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते॥२६॥
वर्णको विलेपनम् । ‘वर्णकश्चारणेऽस्त्री तु चन्दने’ इति मेदिनी । ‘वर्णकोऽस्त्रीविलेपनम्’ इत्यमरः ॥२६॥
वैशम्पायन उवाच
।
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी
।
रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ॥२७॥
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः
।
हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ॥२८॥
बाष्पकलया बाष्पेण गद्गदया मञ्जुलया वा घट्टयन्ती कम्पयन्ती वा॥॥२८॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा
।
अभाग्या यत्र जीवामि कर्तव्ये सति पाण्डव ॥२९॥
कर्तव्ये मर्तव्ये । कॄ हिंसायामित्यस्य रूपम् ॥२९॥
वैशम्पायन उवाच
।
ततस्तस्याः करौ सूक्ष्मौ किणबद्धौ वृकोदरः
।
सुखमानीय वे पत्न्या रुरोद परवीरहा ॥३०॥
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्
।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥३१॥
इति श्रीमहाभारते विराटपर्वणि कीचकबधपर्वणि द्रौपदीभीमसंवादे विंशोऽध्यायः ॥२०॥
भीमसेन उवाच
।
धिगस्तु मे बाहुबलं गाण्डीवं फाल्गुनस्य च
।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥१॥
धिगिति ॥१॥
सभायां तु विराटस्य करोमि कदनं महत्
।
तत्र मे कारणं भाति कौन्तेयो यत् प्रतीक्षते ॥२॥
सभायामिति । कारणं प्राकट्यं मा भूदिति हेतुः प्रतीक्षते तदेव सूचयन् मामवेक्षते । अन्यथा तदानीमेव कदनं करोमि कृतं स्यादित्यर्थः ॥२॥
अथवा कीचकस्याहं पोथयामि पदा शिरः
।
ऐश्वर्यमदमत्तस्य क्रीडन्निव महाद्विपः ॥३॥
पोथयामि चूर्णीकरोमि ॥३॥
अपश्यं त्वां यदा कृष्णे कीचकेन पदा हताम्
।
तदैवाहं चिकीर्षामि मत्स्यानां कदनं महत् ॥४॥
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्
।
तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ॥५॥
यच्च राष्ट्रात् प्रच्यवनं कुरूणामवधश्च यः
।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥६॥
दुःशासनस्य पापस्य यन्मया नाहृतं शिरः
।
तन्मे दहति गात्राणि हृदि शल्यमिवार्पितम्
।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥७॥
नाहृतं छित्त्वा नानीतम् ॥७॥
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः
।
शृणुयाद्वाऽपि कल्याणि कृत्स्नं जह्यात् स जीवितम् ॥८॥
धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे
।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥९॥
पुरा सुकन्या भार्या च भार्गवं च्यवनं वने
।
वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ॥१०॥
अन्वपद्यत अनुसृतवती ॥१०॥
नारायणी चेन्द्रसेना रूपेण यदि ते श्रुता
।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्त्रिणम् ॥११॥
दुहिता जनकस्यापि वैदेही यदि ते श्रुता
।
पतिमन्वचरत् सीता महारण्यनिवासिनम् ॥१२॥
रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया
।
क्लिश्यमानाऽपि सुश्रोणि राममेवान्वपद्यत ॥१३॥
लोपामुद्रा तथा भीरु वयोरूपसमन्विता
।
अगस्तिमन्वयाद्धित्वा कामान् सर्वानमानुषान् ॥१४॥
द्युमत्सेनसुतं वीरं सत्यवन्तमनिन्दिता
।
सावित्र्यनुचचारैका यमलोकं मनस्विनी ॥१५॥
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः
।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥१६॥
मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितम्
।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥१७॥
मादीर्घमदीर्घमल्पमित्यर्थः । सुप्सुपेति समासः । क्षम क्षमस्व मासमर्धं चेति सार्धं मासमित्यर्थः ॥१७॥
द्रौपद्युवाच
।
आर्तयैतन्मया भीम कृतं बाष्पप्रमोचनम्
।
अपारयन्त्या दुःखानि न राजानमुपालभे ॥१८॥
किमुक्तेन व्यतीतेन भीमसेन महाबल
।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥१९॥
अनन्तर आसन्नः सन्नद्धो भव इति यावत् ॥१९॥
ममेह भीम कैकेयी रूपाभिभवशङ्कया
।
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥२०॥
कैकेयी सुदेष्णा । नेयात् न गच्छेत् ॥२०॥
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः
।
कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम्॥२१॥
तं भावं राजाऽस्यां कीचकहृतायां विरक्तः स्यादित्येवंरूममभिप्रायम् ॥२१॥
तमहं कुपिता भीम पुनः कोपं नियम्य च
।
अब्रुवं कामसम्मूढमात्मानं रक्ष कीचक ॥२२॥
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया
।
ते त्वां निहन्युः कुपिताः शूराः साहसकारिणः ॥२३॥
एवमुक्तः सुदुष्टात्मा कीचकः प्रत्युवाच ह
।
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥२४॥
शतं शतसहस्राणि गन्धर्वाणामहं रणे
।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥२५॥
क्षणं स्वीकारम् ॥२५॥
इत्युक्ते चाब्रुवं मत्तं कामातुरमहं पुनः
।
न त्वं प्रतिबलश्चैषां गन्धर्वाणां यशस्विनाम् ॥२६॥
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता
।
नेच्छामि कञ्चिद्वध्यन्तं तेन जीवसि कीचक ॥२७॥
वध्यन्तं वध्यमानम् ॥२७॥
एवमुक्तः स दुष्टात्मा प्राहसत् स्वनवत्तदा
।
अथ मां तत्र कैकेयी प्रेषयत् प्रणयेन तु ॥२८॥
तेनैव देशिता पूर्वं भ्रातृप्रियचिकीर्षया
।
सुरामानय कल्याणि कीचकस्य निवेशनात् ॥२९॥
सूतपुत्रस्तु मां दृष्ट्वा महत्सान्त्वमवर्तयत्
।
सान्त्वे प्रतिहते क्रुद्धः परामर्शमनाऽभवत् ॥३०॥
अवर्तयत् कृतवान् सान्त्वं प्रियवादम् ॥३०॥
विदित्वा तस्य सङ्कल्पं कीचकस्य दुरात्मनः
।
तथाऽहं राजशरणं जवेनैव प्रधाविता ॥३१॥
राजशरणं राजाधिष्ठितं स्थानम् ॥३१॥
सन्दर्शने तु मां राज्ञः सूतपुत्रः परामृशत्
।
पातयित्वा तु दुष्टात्मा पदाऽहं तेन ताडिता ॥३२॥
संदर्शने प्रत्यक्षम् ॥३२॥
प्रेक्षते स्म विराटस्तु कङ्कस्तु बहवो जनाः
।
रथिनः पीठमर्दाश्च हस्त्यारोहाश्च नैगमाः ॥३३॥
पीठमर्दा राजप्रियाः ‘पीठमर्दोऽतिधृष्टे स्यान्नायकस्य प्रियेऽपि च’ इति मेदिनी । नैगमाः नागराः वणिजो वा । ‘नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च’ इति मोदनी ॥३३॥
उपालब्धो मया राजा कङ्कश्चापि पुनः पुनः
।
ततो न वारितो राज्ञा न तस्याविनयः कृतः ॥३४॥
तस्य कीचकस्याविनयो न कृतः न नाशितः ॥३४॥
योऽयं राज्ञो विराटस्य कीचको नाम सारथिः
।
त्यक्तधर्मा नृशंसश्च नरस्त्रीसम्मतः प्रियः ॥३५॥
साराथिर्युद्धे सहायः नरस्य राज्ञः स्त्रियः सुदेष्णायाश्च संमतः सम्बन्धित्वात् ॥३५॥
शूरोऽभिमानी पापात्मा सर्वार्थेषु च मुग्धवान्
।
दारामर्शी महाभाग लभतेऽर्थान् बहूनपि ॥३६॥
तर्हि कथं तयोर्विप्रियं तद्वधेन कर्तव्यमित्याशङ्क्याह- शूर इति । मुग्धवान् मौढ्यं गतवान् दारामर्शी तवैव स्त्रियं मां स्पृष्टवान् ॥३६॥
आहरेदपि वित्तानि परेषां क्रोशतामपि
।
न तिष्ठते स्म सन्मार्गे न च धर्मं बुभूषति ॥३७॥
तिष्ठते स्थिरो भवति बुभूषति प्राप्तुमिच्छति ॥३७॥
पापात्मा पापभावश्च कामबाणवशानुगः
।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥३८॥
दर्शने दर्शने हन्याद्यदि जह्यां च जीवितम्
।
तद्धर्मे यतमानानां महान् धर्मो नशिष्यति ॥३९॥
दर्शने दर्शने प्रतिदर्शनं स एवं राजवल्लभः कामात्मा च यदि मां हन्यात्ताडयेत् ताडनभयाद्वाऽहं यदि जीवितं जह्यां तत्तर्हि धर्मे यतमानानां भवतां धर्मो नशिष्यति शौर्यं व्यर्थं स्यादित्यर्थः ॥३९॥
समयं रक्षमाणानां भार्या वो न भविष्यति
।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ॥४०॥
एतदेवाह- समयमिति । समयं मर्यादां त्रयोदशवर्षरूपाम् । भार्या पोषणीया न भविष्यति ॥४०॥
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
।
आत्मा हि जायते तस्यां तेन जायां विदुर्बुधाः ॥४१॥
भर्ता तु भार्यया रक्ष्यः कथं जायान्ममोदरे
।
वदतां वर्णधर्मश्च ब्राह्मणानामिति श्रुतः ॥४२॥
जायात् आविर्भवेत् वदतां कथयतां ब्राह्मणानां मुखात् वर्णधर्मश्च श्रुतः ॥४२॥
क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात्
।
पश्यतो धर्मराजस्य कीचको मां पदाऽवधीत् ॥४३॥
तव चैव समक्षे वै भीमसेन महाबल
।
त्वया ह्यहं परित्राता तस्माद्धोराज्जटासुरात् ॥४४॥
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह
।
जहीममपि पापिष्ठं योऽयं मामवमन्यते ॥४५॥
कीचको राजवाल्लभ्याच्छोककृन्मम भारत
।
तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि ॥४६॥
यो निमित्तमनर्थानां बहूनां मम भारत
।
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ॥४७॥
अभ्युदयिष्यति अभ्युदेष्यति ॥४७॥
विषमालोड्य पास्यामि मा कीचकवशं गमम्
।
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥४८॥
कीचकवशं मा गमं न गच्छेयम् ॥४८॥
वैशम्पायन उवाच
।
इत्युक्त्वा प्रारुदत् कृष्णा भीमस्योरः समाश्रिता
।
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ॥४९॥
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्
।
हेतुतत्त्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥५०॥
हेतुभिर्युक्तिभिः तत्त्वार्थैर्यथार्थभूतैश्चार्थैः संयुक्तानि तैः ॥५०॥
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्
।
कीचकं मनसाऽगच्छत् सृक्किणी परिसंलिहन्
।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥५१॥
अगच्छत् स्मृतवान् सृक्किणी गल्लयोरभ्यन्तरे परिसंलिहन् जिह्वया परामृशन् ॥५१॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि द्रौपदीसान्त्वने एकविंशोऽध्यायः ॥२१॥
भीमसेन उवाच
।
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
।
अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥१॥
तथेति ॥१॥
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गतम्
।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥२॥
प्रदोषे रजनीमुखे । सङ्गतं संभाषणम् । निर्धूय अप्रकाश्य ॥२॥
यैषा नर्तनशालेह मत्स्यराजेन कारिता
।
दिवाऽत्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥३॥
तत्रास्ति शयनं दिव्यं दृढाङ्गं सुप्रतिष्ठितम्
।
तत्रास्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान् ॥४॥
दृढाङ्गं काष्ठफलकमयम् ॥४॥
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्
।
कुर्यास्तथा त्वं कल्याणि यथा सन्निहितो भवेत् ॥५॥
वैशम्पायन उवाच
।
तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ
।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥६॥
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः
।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥७॥
सभायां पश्यतो राज्ञः पातयित्वा पदाऽहनम्
।
न चैवालभसे त्राणमभिपन्ना बलीयसा ॥८॥
अहनं हतवान् ॥८॥
प्रवादेनेह मत्स्यानां राजा नाम्नाऽयमुच्यते
।
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥९॥
मां सुखं प्रतिपद्यस्व दासो भीरु भवामि ते
।
अह्नाय तव सुश्रोणि शतं निष्कान् ददाम्यहम्॥१०॥
दासीशतं च ते दद्यां दासानामपि चापरम्
।
रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः ॥११॥
नौ आवयोः ॥११॥
द्रौपद्युवाच
।
एवं मे समयं त्वद्य प्रतिपद्यस्व कीचक
।
न त्वां सखा वा भ्राता वा जानीयात् सङ्गतं मया ॥१२॥
समयं सङ्केतं प्रतिपद्यस्व स्वीकुरु ॥१२॥
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम्
।
एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥१३॥
कीचक उवाच
।
एवमेतत् करिष्यामि यथा सुश्रोणि भाषसे
।
एको भद्रे गमिष्यामि शून्यमावसथं तव ॥१४॥
समागमार्थं रम्भोरु त्वया मदनमोहितः
।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥१५॥
द्रौपद्युवाच
।
यदेतन्नर्तनागारं मत्स्यराजेन कारितम्
।
दिवाऽत्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥१६॥
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते
।
तत्र दोषः परिहृतो भविष्यति न संशयः ॥१७॥
वैशम्पायन उवाच
।
तमर्थमपि जल्पन्त्याः कृष्णायाः कीचकेन ह
।
दिवसार्धं समभवन्मासेनैव समं नृप ॥१८॥
दिवसार्धमहोरात्रार्धं दिनमेकमपि मासेन सममौत्कण्ठ्यादभूत् ॥१८॥
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः
।
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥१९॥
गन्धाभरणमाल्येषु व्यासक्तः सविशेषतः
।
अलञ्चके तदाऽऽत्मानं सत्वरः काममोहितः ॥२०॥
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्
।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥२१॥
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः
।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥२२॥
कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः
।
नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥२३॥
कृतसंप्रत्ययः कृतविश्वासः नाजानात् न ज्ञातवान् ॥२३॥
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे
।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकम् ॥२४॥
तमुवाच सुकेशान्ता कीचकस्य मया कृतः
।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥२५॥
शून्यं स नर्तनागारमागमिष्यति कीचकः
।
एको निशि महाबाहो कीचकं तं निषूदय ॥२६॥
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्
।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥२७॥
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते
।
तं त्वं प्रहरतां श्रेष्ठ ह्रदान्नागमिवोद्धर ॥२८॥
ह्रदात् यमुनाह्रदान्नागं कालियं कृष्णो यथा उद्धृतवान् तद्वत्त्वमेनमिहलोकाद्दूरे पातयेति भावः ॥२८॥
अश्रु दुःखाभिभूताया मम मार्जस्व भारत
।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥२९॥
भीमसेन उवाच
।
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्
।
न ह्यन्यं कञ्चिदिच्छामि सहायं वरवर्णिनि ॥३०॥
या मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे
।
हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥३१॥
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते
।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥३२॥
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम्
।
अथ चेदपि योत्स्यन्ति हिंसे मत्स्यानपि ध्रुवम् ॥३३॥
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम्
।
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥३४॥
द्रौपद्युवाच
।
यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो
।
निगूढस्त्वं तथा पार्थ कीचकं तं निषूदय ॥३५॥
भीमसेन उवाच
।
एवमेतत् करिष्यामि यथा त्वं भीरु भाषसे
।
अद्य तं सूदयिष्यामि कीचकं सह बान्धवैः ॥३६॥
अदृश्यमानस्तस्याथ तमस्विन्यामनिन्दिते
।
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः
।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥३७॥
तस्य तेनादृश्यमानः नागो हस्ती अलभ्यां त्वाम् ॥३७॥
वैशम्पायन उवाच
।
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्
।
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत कीचकम् ॥३८॥
कीचकश्चाप्यलङ्कृत्य यथाकाममुपागमत्
।
तां वेलां नर्तनागारं पाञ्चालीसङ्गमाशया ॥३९॥
मन्यमानः स सङ्केतमागारं प्राविशच्च तत्
।
प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥४०॥
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्
।
एकान्तावस्थितं चनमाससाद स दुर्मतिः ॥४१॥
शयानं शयने तत्र सूतपुत्रः परामृशत्
।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥४२॥
उपसङ्गम्य चैवैनं कीचकः काममोहितः
।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥४३॥
प्रापितं ते मया वित्तं बहुरूपमनन्तकम्
।
यत्कृतं धनरत्नाढ्यं दासीशतपरिच्छदम् ॥४४॥
यत्कृतं यदर्जितं धनादि तत्सर्वं ते तुभ्यं प्रापितं दत्तमितिसंबन्धः ॥४४॥
रूपलावण्ययुक्ताभिर्युवतीभिरलङ्कृतम्
।
गृहं चान्तःपुरं सुभ्रु क्रीडारतिविराजितम्
।
तत्सर्वं त्वां समुद्दिश्य सहसाऽहमुपागतः ॥४५॥
अतः परं त्वां समुद्दिश्याहमत्रागतोऽस्मि ॥४५॥
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः
।
सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥४६॥
प्रशंसन्ति त्वयाऽहं वृत इति हेतोरित्यभिप्रायः ॥४६॥
भीमसेन उवाच
।
दिष्ट्या त्वं दर्शनीयोऽथ दिष्ट्याऽऽत्मानं प्रशंससि
।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥४७॥
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः
।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥४८॥
वैशम्पायन उवाच
।
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः
।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥४९॥
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि
।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥५०॥
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति
।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥५१॥
ततो जग्राह केशेषु माल्यवत्सु महाबलः
।
स केशेषु परामृष्टो बलेन बलिनां वरः ॥५२॥
आक्षिप्य केशान् वेगेन बाह्वोर्जग्राह पाण्डवम्
।
बाहुयुद्धं तयोरासीत् क्रुद्धयोर्नरसिंहयोः ॥५३॥
वसन्ते वासिताहेतोर्बलवद्गजयोरिव
।
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च ॥५४॥
वासिताहेतोर्हस्तिर्नानिमित्तम् ॥५४॥
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः
।
अन्योन्यमपि संरब्धौ परस्परजयैषिणौ ॥५५॥
ततः समुद्यम्य भुजौ पञ्चशीर्षाविवोरगौ
।
नखदंष्ट्राभिरन्योन्यं घ्नतः क्रोधविषोद्धतौ ॥५६॥
वेगेनाभिहतो भीमः कीचकेन बलीयसा
।
स्थिरप्रतिज्ञः स रणे पदान्न चलितः पदम् ॥५७॥
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
।
उभावपि प्रकाशेते प्रवृद्धौ वृषभाविव ॥५८॥
तयोर्ह्यासीत् सुतुमुलः संप्रहारः सुदारुणः
।
नखदन्तायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥५९॥
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः
।
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखम् ॥६०॥
करटामुखं गण्डस्थलस्थं मदनिर्गमस्थानम् । ‘करटो गजगण्डे स्यात्’ इति मेदिनी ॥६०॥
स चाप्येनं तदा भीमः प्रतिजग्राह वीर्यवान्
।
तमाक्षिपत् कीचकोऽथ बलेन बलिनां वरः॥६१॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
।
शब्दः समभवद्धोरो वेणुस्फोटसमो युधि ॥६२॥
अथैनमाक्षिप्य बलाद्गृहमध्ये वृकोदरः
।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥६३॥
भीमेन च परामृष्टो दुर्बलो बलिना रणे
।
प्रास्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥६४॥
ईषदाकलितं चापि क्रोधाद्द्रुतपदं स्थितम्
।
कीचको बलवान् भीमं जानुभ्यामाक्षिपद्भुवि ॥६५॥
आकलितमाक्रान्तं द्रुतपदं चलितस्थानं यथा स्यात्तथा स्थितम् ॥६५॥
पातितो भुवि भीमस्तु कीचकेन बलीयसा
।
उत्पपाताथ वेगेन दण्डपाणिरिवान्तकः ॥६६॥
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ
।
निशीये पर्यकर्षेतां बलिनौ निर्जने स्थले ॥६७॥
ततस्तद्भवनं श्रेष्ठं प्राकम्पत मुहुर्मुहुः
।
बलवच्चापि संक्रुद्धावन्योन्यं प्रति गर्जतः ॥६८॥
तलाभ्यां स तु भीमेन वक्षस्यभिहतो बली
।
कीचको रोषसंतप्तः पदान्न चलितः पदम् ॥६९॥
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्
।
बलादहीयत तदा सूतो भीमबलार्दितः ॥७०॥
सहित्वा सोढ्वा बलादहीयत बलहीनोऽभूत् ॥७०॥
तं हीयमानं विज्ञाय भीमसेनो महाबलः
।
वक्षस्यानीय वेगेन ममर्दैनं विचेतसम् ॥७१॥
वक्षसि आनीय आनतं भुग्नं कृत्वा तन्नाभिना तच्छिरः संयोज्येत्यर्थः ॥७१॥
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः
।
जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥७२॥
गृहीत्वा कीचकं भीमो विरराज महाबलः
।
शार्दूलः पिशिताकाङ्क्षी गृहीत्त्वेव महामृगम् ॥७३॥
गृहीत्वा चेति पाठे इवार्थे चः ॥७३॥
तत एनं परिश्रान्तमुपलभ्य वृकोदरः
।
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥७४॥
योक्रयामास बबन्ध रशनया रज्ज्वा ॥७४॥
नदन्तं च महानादं भिन्नभेरीसमस्वनम्
।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥७५॥
प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः
।
अपीडयत कृष्णायास्तदा कोपोपशान्तये ॥७६॥
दोर्भ्यां पाणिभ्याम् ॥७६॥
अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम्
।
आक्रम्य च कटीदेशे जानुना कीचकाधमम्
।
अपीडयत बाहुभ्यां पशुमारममारयत् ॥७७॥
व्याविद्धे अतिपीडनात् अधः क्षिप्ते नयने नयनगोलके अम्बरं वस्त्रं च यस्य नयनाकाशो वा । पशुमारं पशुं मारयित्वेवेति यज्ञियपशुवदित्यर्थः ॥७७॥
तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः
।
भूतले भ्रामयामास वाक्यं चेदमुवाच ह ॥७८॥
अद्याहमनृणो भूत्वा भ्रातुर्भार्यापहारिणम्
।
शान्तिं लब्धाऽस्मि परमां हत्वा सैरन्ध्रिकण्टकम् ॥७९॥
सैरन्ध्रिकण्टकं ह्रस्वत्वं समासनिमित्तम् ॥७९॥
इत्येवमुक्त्वा पुरुषप्रवीरस्तं कीचकं क्रोधसरागनेत्रः
।
आस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तनेत्रं व्यसुमुत्ससर्ज ॥८०॥
निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटं बली
।
समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः ॥८१॥
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः
।
काये प्रवेशयामास पशोरिव पिनाकधृक् ॥८२॥
तस्य पादौ चेति । काये देहमध्यभागे तत्तन्निर्गममार्गेणैवाङ्गान्यन्तः प्रवेश्य । ‘यो अस्मै रेवान्न सुनोति सोमं निररत्नौ मघवा तं दधाति’ इति श्रुतमरत्नौ निर्धानमेतदेव ज्ञेयम् । रेवान् धनवान् निर्धानं निष्कृष्य स्थापनम् ॥८२॥
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम्
।
कृष्णाया दर्शयामास भीमसेनो महाबलः ॥८३॥
कृष्णायाः द्रौपद्यै ॥८३॥
उवाच च महातेजा द्रौपदीं योषितां वराम्
।
पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ॥८४॥
एवमुक्त्वा महाराज भीमो भीमपराक्रमः
।
पादेन पीडयामास तस्य कायं दुरात्मनः ॥८५॥
ततोऽग्निं तत्र प्रज्वाल्य दर्शयित्वा तु कीचकम्
।
पाञ्चालीं स तदा वीर इदं वचनमब्रवीत् ॥८६॥
प्रार्थयन्ति सुकेशान्ते ये त्वां शीलगुणान्विताम्
।
एवं ते भीरु वध्यन्ते कीचकः शोभते यथा ॥८७॥
सुकेशान्ते सुष्ठु कौटिल्येन विराजमानाः केशान्ता यस्याः । शोभत इत्युपहासः । एवमेव धार्त्तराष्ट्रान्मारयिष्यामीति भावः ॥८७॥
तत् कृत्वा दुष्करं कर्म कृष्णायाः प्रियमुत्तमम्
।
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् ॥८८॥
रोषस्य शममन्तं फलस्य जातत्वात् ॥८८॥
आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम्
।
कीचकं घातयित्वा तु द्रौपदी योषितां वरा
।
प्रहृष्टा गतसंतापा सभापालानुवाच ह ॥८९॥
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम
।
परस्त्रीकामसंमत्तस्तत्रागच्छत पश्यत ॥९०॥
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः
।
सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥९१॥
ततो गत्वाऽथ तद्वेश्म कीचकं विनिपातितम्
।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥९२॥
पाणिपादविहीनं तु दृष्ट्वा च व्यथिताऽभवन्
।
निरीक्षन्ति ततः सर्वे परं विस्मयमागताः ॥९३॥
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम्
।
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा
।
इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥९४॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि कीचकवधे द्वाविंशोऽध्यायः ॥२२॥
वैशम्पायन उवाच
।
तस्मिन् काले समागम्य सर्वे तत्रास्य बान्धवाः
।
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥१॥
तस्मिन्निति ॥१॥
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्
।
तथा संभिन्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥२॥
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम्
।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥३॥
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः
।
अदूराच्चानवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥४॥
समवेतेषु सर्वेषु तामूचुरुपकीचकाः
।
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥५॥
अथवा नैव हन्तव्या दह्यतां कामिना सह
।
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥६॥
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः
।
सहानेनाद्य दह्येम तदनुज्ञातुमर्हसि ॥७॥
पराक्रमं तु सूतानां मत्वा राजाऽन्वमोदत
।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशाम्पतिः ॥८॥
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम्
।
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥९॥
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम्
।
जग्मुरुद्यम्य ते सर्वे श्मशानाभिमुखास्तदा ॥१०॥
ह्रियमाणा तु सा राजन् सूतपुत्रैरनिन्दिता
।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥११॥
द्रौपद्युवाच
।
जयो जयन्तो विजयो जयत्सेनो जयद्बलः
।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥१२॥
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः
।
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥१३॥
रथघोषश्च बलवान् गन्धर्वाणां तरस्विनाम्
।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥१४॥
वैशम्पायन उवाच
।
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेवितम्
।
श्रुत्वैवाभ्यापतद्भीमः शयनादविचारयन् ॥१५॥
भीमसेन उवाच
।
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम्
।
तस्मात्ते सूतपुत्रेभ्यो भयं भीरु न विद्यते ॥१६॥
वैशम्पायन उवाच
।
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया
।
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ॥१७॥
व्यायतं व्यापारं यत्नं कृत्वा वेषं च विपरिवर्त्य गन्धर्ववेषसदृशं कृत्वा ॥१७॥
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा
।
स भीमसेनः प्राकारादारुह्य तरसा द्रुमम् ॥१८॥
अभ्यवस्कन्ध निपत्य द्रुममारुह्य ततश्च द्रौपदीनयनप्रदेशं दृष्ट्वेत्यर्थः ॥१८॥
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः
।
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात्
।
जवेन पतितो भीमः सूतानामग्रतस्तदा ॥१९॥
चितासमीपे गत्वा स तत्रापश्यद्वनस्पतिम्
।
तालमात्रं महास्कन्धं मूर्धशुष्कं विशाम्पते ॥२०॥
मूर्ध्नि शुष्कमिति शोषणोन्मुखत्वेनातिपक्वत्वं सूच्यते ॥२०॥
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च
।
स्कन्धमारोपयामास दशव्यामं परन्तपः ॥२१॥
परिरभ्य उपक्रम्य उत्पाटनार्थं यत्नं कृत्वा उत्पाटितं च तं स्कन्धे आरोपयामास व्यामं प्रसारितयोर्बाह्वोरन्तरम् ॥२१॥
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली
।
प्रगृह्याभ्यद्रवत् सूतान् दण्डपाणिरिवान्तकः ॥२२॥
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थविंशुकाः
।
भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ॥२३॥
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्
।
वित्रेसुः सर्वशः सूता विषादभयकम्पिताः ॥२४॥
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्
।
सैरन्ध्री मुच्यतां शीघ्रं यतो नो भयमागतम् ॥२५॥
ते तु दृष्ट्वा तदाऽऽविद्धं भीमसेनेन पादपम्
।
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥२६॥
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव
।
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥२७॥
वृक्षेणैतेन राजेन्द्र प्रभञ्जनसुतो बली
।
तत आश्वासयत् कृष्णां स विमुच्य पिशाम्पते ॥२८॥
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम्
।
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥२९॥
विमुच्य मोचयित्वा ॥२९॥
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम्
।
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ॥३०॥
अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥३१॥
अन्येन मार्गेण ॥३१॥
वैशम्पायन उवाच
।
पञ्चाधिकं शतं तच्च निहतं तेन भारत
।
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥३२॥
शिश्ये शयितम् ॥३२॥
एवं ते निहता राजन् शतं पञ्च च कीचकाः
।
स च सेनापतिः पूर्वमित्येतत् सूतषट्शतम् ॥३३॥
षट्शतं षडधिकं शतम् ॥३३॥
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः
।
विस्मयं परमं गत्वा नोचुः किञ्चन भारत ॥३४॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥२३॥
वैशम्पायन उवाच
।
ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन्
।
गन्धर्वैर्निहता राजन् सूतपुत्रा महाबलाः ॥१॥
तत इति ॥१॥
यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः
।
व्यतिकीर्णाः प्रदृश्यन्ते तथा सूता महीतले ॥२॥
सैरन्ध्री च विमुक्ताऽसौ पुनरायाति ते गृहम्
।
सर्वं संशयितं राजन् नगरं ते भविष्यति ॥३॥
यथारूपा च सैरन्ध्री गन्धर्वाश्च महाबलाः
।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥४॥
यथा सैरन्ध्रिदोषेण न ते राजन्निदं पुरम्
।
विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥५॥
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः
।
अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥६॥
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
।
दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥७॥
सुदेष्णामब्रवीद्राजा महिषीं जातसाध्वसः
।
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥८॥
गच्छ सैरन्ध्रि भद्रं ते यथाकामं वरानने
।
बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥९॥
न हित्वामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्
।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥१०॥
न हित्वामिति । हित्वां हातुं योग्याम् "कृत्यार्थे तवैकेन्केन्यत्वनः" इति त्वन् जहातेश्चेति हित्वमवत्वायामपि छान्दसम् । पित्वो भिक्षेतेत्यादिवत् त्वां सैरंध्रीं हित्वां त्यक्तुं योग्यामप्यहं राजा गच्छेति वक्तुं नोत्सहे स्त्रियास्तु सुदेष्णायास्तव तां प्रत्येतद्वक्तुमदोष इति राजवावयानुवादः । यस्मादेवं राजा मामाज्ञापितवान् तस्मादेवं त्वां प्रति प्रब्रवीम्यहमिति सुदेणावचनम् ॥१०॥
वैशम्पायन उवाच
।
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च
।
मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥११॥
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी
।
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥१२॥
तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश
।
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्ट्वा न्यमीलयन् ॥१३॥
ततो महानसद्वारि भीमसेनमवस्थितम्
।
ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम् ॥१४॥
तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत्
।
गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥१५॥
भीमसेन उवाच
।
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः
।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वतः ॥१६॥
पुरुषा यस्याः वशवर्तिन आज्ञाकारिणः। इह विराटपुरे पुरा वर्षमात्रं विहरन्ति ते तस्याः वचनं गन्धर्वराजाय नम इत्यादिरूपं श्रुत्वाऽतःपरमनृणास्तदाज्ञासम्पादनेनाज्ञातवाससमाप्त्या वा कृतकृत्याः सन्तो विहरन्तु ॥१६॥
वैशम्पायन उवाच
।
ततः सा नर्तनागारे धनञ्जयमपश्यत
।
राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥१७॥
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः
।
कन्या ददृशुरायान्तीं क्लिष्टां कृष्णामनागसम् ॥१८॥
कन्या ऊचुः
।
दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्याऽसि पुनरागता
।
दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥१९॥
बृहन्नलोवाच
।
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः
।
इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥२०॥
सैरन्ध्र्युवाच
।
बृहन्नले किं नु तव सैरन्ध्र्या कार्यमद्य वै
।
या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥२१॥
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते
।
तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥२२॥
प्रहसन्निवेति पूर्वसंस्कारात्पुल्लिंगप्रयोगः । प्रहसन्तीवेत्यर्थः ॥२२॥
बृहन्नलोवाच
।
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनुत्तमम्
।
तिर्यग्योनिगता बाले न चैनामवबुद्ध्यसे ॥२३॥
तिर्यक् नीचं क्लीबत्वं तन्मयी योनिः शरीरं तत्र गता ॥२३॥
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता
।
क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत् ॥२४॥
न तु केनचिदन्त्यन्तं कस्यचिद्धृदयं क्वचित्
।
वेदितुं शक्यते नूनं तेन मां नावबुद्ध्यसे ॥२५॥
वैशम्पायन उवाच
।
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्
।
प्रविवेश सुदेष्णायाः समीपमुपगामिनी ॥२६॥
तामब्रवीद्राजपुत्री विराटवचनादिदम्
।
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयले गतिम् ॥२७॥
राजा बिभेति ते भद्रे गन्धर्वेभ्यः पराभवात्
।
त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि
।
पुंसामिष्टश्च विषयो गन्धर्वाश्चातिकोपनाः ॥२८॥
सैरन्ध्र्युवाच
।
त्रयोदशाहमात्रं मे राजा क्षम्यतु भामिनि
।
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः॥२९॥
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम्
।
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥३०॥
इति श्रीमहाभारते विराटपर्वणि कीचकवधपर्वणि कीचकदाहे चतुर्विंशोऽध्यायः ॥२४॥