पाण्डवप्रवेशपर्व - १समयपालनपर्व - २कीचकवधपर्व - ३गोहरणपर्व - ४वैवाहिकपर्व - ५

गोहरणपर्व

पञ्चविंशोऽध्यायः

वैशम्पायन उवाच ।
कीचकस्य तु घातेन सानुजस्य विशाम्पते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथक् जनाः ॥१॥

कीचकस्येति । ‘अन्याहितं महाभीतिः कर्म जीवानपेक्षि च’ इत्यमरः ॥१॥

तस्मिन् पुरे जनपदे सञ्जल्पोऽभूच्च सङ्घशः ।
शौर्याद्धि वल्लभो राज्ञो महासत्त्वः स कीचकः ॥२॥

आसीत् प्रहर्ता सैन्यानां दारामर्षी च दुर्मतिः ।
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ॥३॥

इत्यजल्पन्महाराज परानीकविनाशनम् ।
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ॥४॥

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च ॥५॥

संविधाय यथा दृष्टं यथादेशप्रदर्शनम् ।
कृतकृत्या न्यवर्तन्त ते चरा नगरं प्रति ॥६॥

कृतकृत्याः कीचकवधज्ञानेनात्रैव पाण्डवानां वासं स्वयमेव धार्तराष्ट्रा अनुमानतो ज्ञास्यन्तीत्याशयः ॥६॥

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ।
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ॥७॥

सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः ।
दुर्योधनं सभामध्ये आसीनमिद‌मब्रुवन् ॥८॥

चरा ऊचुः ।
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने ॥९॥

निर्जने मृगसङ्कीर्णे नानाद्रुमलताकुले ।
लताप्रतानबहुले नानागुल्मसमावृते ॥१०॥

न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥११॥

येन मार्गेण ॥११॥

गिरिकूटेषु तुङ्‌गेषु नानाजनपदेषु च ।
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ॥१२॥

गिरिकूटेषु गिरिशिखरेषु ॥१२॥

नरेन्द्र बहुशोऽन्विष्टा नैत्र विद्मश्च पाण्डवान् ।
अत्यन्तं वा विनष्टास्ते भद्रं तुभ्यं नरर्षभ ॥१३॥

वर्त्मन्यन्वेष्यमाणा वै रथिनां रथिसत्तम ।
न हि विद्मो गतिं तेषां वासं हि नरसत्तम ॥१४॥

किंचित्काले मनुष्येन्द्र सूतानामनुगा वयम् ।
मृगयित्वा यथान्यायं वेदितार्थाः स्म तत्त्वतः ॥१५॥

सूतानां पाण्डवीयानामिन्द्रसेनादीनाम् ॥१५॥

प्राप्ता द्वारवतीं सूता विना पार्थैः परन्तप ।
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः ॥१६॥

सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ।
न हि विद्मो गतिं तेषां वासं वाऽपि महात्मनाम् ॥१७॥

पाण्डवानां प्रवृत्तिं च विद्मः कर्मापि वा कृतम् ।
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते ॥१८॥

अन्वेषणे पाण्डवानां भूयः किं करवामहे ।
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥१९॥

येन त्रिगर्ता निहता बलेन महता नृप ।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा ॥२०॥

स हतः पतितः शेते गन्धर्वैर्निशि भारत ।
अदृश्यमानैर्दुष्टात्मा भ्रातृभिः सह सोदरैः ॥२१॥

प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥२२॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि चारप्रत्यागमने पञ्चविंशोऽध्यायः ॥२५॥
षड्विंशोऽध्यायः

वैशम्पायन उवाच ।
ततो दुर्योधनो राजा ज्ञात्वा तेषां वचस्तदा ।
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ॥१॥

तत इति ॥१॥

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः ।
तस्मात् सर्वे निरीक्षध्वं क्क नु ते पाण्डवा गताः ॥२॥

अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः ।
तेषामज्ञातचर्यायामस्मिन् वर्षे त्रयोदशे ॥३॥

अस्य वर्षस्य शेषं चेद्व्यतीयुरिहः पाण्डवाः ।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥४॥

क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम् ॥५॥

दुःखा दुःखयितारः । संरब्धाः कुपिताः ॥५॥

सर्वे कालस्य वेत्तारः कृच्छ्ररूपधराः स्थिताः ।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥६॥

यथा ते पुनर्वनं प्रविशेयुस्तथा बुभूषध्वं तान् प्राप्तुमिच्छतेत्यर्थः ॥६॥

तस्मात् क्षिप्रं बुभूषध्वं यथा तेऽत्यन्तमव्ययम् ।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥७॥

तत्फलं चाह- अत्यन्तमित्यादिना ॥७॥

अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत ।
अन्ये धूर्ता नरा दक्षा निभृताः साधुकारिणः ॥८॥

चरन्तु देशान् संवीताः स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धप्रव्रजितेषु च ॥९॥

जनपदाकुलान् जनव्याप्तान् । ‘भवेज्जनपदो जानपदोऽपि जनदेशयोः’ इति मेदिनी । गोष्ठीषु विद्वत्सभासु सिद्धानां प्रव्रजितं गमनीयेषु तेषु मुनीनामाश्रमेषु ॥९॥

परिचारेषु तीर्थेषु विविधेष्वाकरेषु च ।
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ॥१०॥

परि आगत्य चरन्त्येषु ते परिचाराः राजपुराणि । तेषु तर्कया कांक्षया ‘तर्कः कांक्षावितर्केहि’ इति मेदिनी ॥१०॥

विविधैस्तत्परैः सम्यक् तज्ज्ञैर्निपुणसंवृतैः ।
अन्वेष्टव्याः सुनिपुणैः पाण्डवाश्छन्नवासिनः ॥११॥

आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ।
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च ॥१२॥

अथाग्रजानन्तरजः पापभावानुरागवान् ।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥१३॥

अग्रजानन्तरजो द्वितीयो भ्राता ॥१३॥

येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप ।
ते यान्तु दत्तदेया वे भूयस्तान् परिमार्गितुम् ॥१४॥

एतच्च कर्णो यत्प्राह सर्वमीहामहे तथा ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥१५॥

एते चान्ये च भूयांसो देशाद्देशं यथाविधि ।
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते ॥१६॥

अत्यन्तं वा निगूढास्ते पारं चोर्मिमतो गताः ।
व्यालैश्चापि महारण्ये भक्षिताः शूरमानिनः ॥१७॥

ऊर्मिमतः सिन्धोः ॥१७॥

अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ।
तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन ।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥१८॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि कर्णदुःशासनवाक्ये षड्विंशोऽध्यायः ॥२६॥
सप्तविंशोऽध्यायः

वैशम्पायन उवाच ।
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् ।
न तादृशा विनश्यन्ति न प्रयान्ति पराभवम् ॥१॥

अथेति ॥१॥

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः ।
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ॥२॥

नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् ।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठानुयायिनः ॥३॥

अनुव्रता महात्मानं भ्रातरो भ्रातरं नृप ।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ॥४॥

तेषां तथा विधेयानां निभृतानां महात्मनाम् ।
किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति ॥५॥

विधेयानां किंकराणां निभृतानामत्यन्तावहितानाम् ॥५॥

तस्माद्यत्नात् प्रतीक्षन्ते कालस्योदयमागतम् ।
न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ॥६॥

साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।
क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥७॥

अकालिकं विलम्बासहम् ॥७॥

यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।
दुर्ज्ञेयाः खलु शूरास्ते दुरापास्तपसा वृताः ॥८॥

शुद्धात्मा गुणवान् पार्थः सत्यवान्नीतिमान् शुचिः ।
तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषा ॥९॥

गृह्णीयादपि चक्षुषा प्रत्यक्षदृष्टोऽपि मोहयेदेवेत्यर्थः ॥९॥

विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे ।
ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ॥१०॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि द्रोणवाक्ये चारप्रत्याचारे सप्तविंशोऽध्यायः ॥२७॥
अष्टाविंशोऽध्यायः

वैशम्पायन उवाच ।
ततः शान्तनवो भीष्मो भरतानां पितामहः ।
श्रुतवान् देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ॥१॥

तत इति ॥१॥

आचार्यवाक्योपरमे तद्वाक्यमभिसन्दधत् ।
हितार्थं समुवाचैनां भारतीं भारतान् प्रति ॥२॥

अभिसंदधत् तद्वाक्यानुगुणमेव वदन् भारतीं भरतवंशीयपाण्डवविषयां गिरं वाचं भारतान् कौरवान् उवाचेति संबन्धः ॥२॥

युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंवृताम् ।
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ॥३॥

भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ।
यश्चैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् ॥४॥

समं वदत् समं पक्षपातशून्यं वदत् वदन् । नुमभाव आर्षः ॥४॥

सर्वलक्षणसम्पन्नाः साधुव्रतसमन्विताः ।
श्रुतव्रतोपपन्नाश्च नानाश्रुतिसमन्विताः ॥५॥

श्रुतं शास्त्रं, नानाश्रुतिरनेका आख्यायिका ॥५॥

वृद्धानुशासने युक्ताः सत्यव्रतपरायणाः ।
समयं समयज्ञास्ते पालयन्तः शुचिव्रताः ॥६॥

क्षत्रधर्मरता नित्यं केशवानुगताः सदा ।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ।
नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ॥७॥

महात्मान उदारचित्ताः । सतां धुरं धर्मम् ॥७॥

धर्मतश्चैव गुप्तास्ते सुवीर्येण च पाण्डवाः ।
न नाशमधिगच्छेयुरिति मे धीयते मतिः ॥८॥

तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान् प्रति भारत ।
न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ॥९॥

परैरनीतिपरैः । अन्वेषितुमनुगन्तुम् ॥९॥

यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् ।
बुद्ध्या प्रयुक्तं न द्रोहात् प्रवक्ष्यामि निबोध तत् ॥१०॥

यत्तु प्रयुक्तं प्रयोगः शक्यं ज्ञातुं योग्यः तदेव वक्ष्यामि न तु भवतां द्रोहात् ॥१०॥

न त्वियं मादृशैर्नीतिस्तस्य वाच्या कथञ्चन ।
सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन ॥११॥

नत्विति । तस्य दुर्जनस्य त्वादृशस्येति गूढोऽभिसन्धिः । सा तु । तुशब्दो हेत्वर्थे । सा हि यतो नीतिरियं साधुवाच्या साधुष्वेव वक्तव्याऽतोऽसाधौ त्वयि नैवैषा वक्तव्येत्यर्थः । अनीतिस्तु कथञ्चन साधुष्वसाधुषु वा नैव वक्तव्येत्यर्थः ॥११॥

वृद्धानुशासने तात तिष्ठता सत्यशीलिना ।
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता ॥१२॥

तिष्ठता वक्तव्यमिति सम्बन्धः ॥१२॥

यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ।
तत्र नाहं तथा मन्ये यथाऽयमितरो जनः ॥१३॥

तत्र वक्तव्ये सति यथा इतरो जनः पाण्डवानां निवासं लोकसाधारणं मन्यते तथाऽहं न मन्ये इति योजना ॥१३॥

निवासं धर्मराजस्य वर्षेऽस्मिन्वै त्रयोदशे ।
तत्र तात न तेषां हि राज्ञां भाव्यमसाम्प्रतम् ॥१४॥

असाधारण्यमेवाह- तत्रेति । तत्र पुरादौ असाम्प्रतमकल्याणम् ॥१४॥

पुरे जनपदे चापि यत्र राजा युधिष्ठिरः ।
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः ।
जनो जनपदे भाव्यो यत्र राजा युधिष्ठिरः ॥१५॥

वदान्यः प्रियवादी । ‘वदान्यो दानशीले च चारुवादिनि वाच्यवत्’ इति मेदिनी । निभृतो नियतेन्द्रियः । भाव्य अवश्यंभावी ‘ओरावश्यके’ इति ण्यत् ॥१५॥

प्रियवादी सदा दान्तो भव्यः सत्यपरो जनः ।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ॥१६॥

भव्यो भविता ॥१६॥

नासूयको न चापीर्षुर्नाभिमानी न मत्सरी ।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ॥१७॥

असूयकः परगुणेषु दोषारोपकः, ईर्षुः परोत्कर्षासहिष्णुः । अभिमानी आत्मसभावितः, मत्सरी परद्रोहकर्ता तत्र, यत्र युधिष्ठिर इत्यनुकृष्यते ॥१७॥

ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च ।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥१८॥

सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।
सम्पन्नसस्या च मही निरातङ्का भविष्यति ॥१९॥

गुणवन्ति च धान्यानि रसवन्ति फलानि च ।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥२०॥

वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् ।
न भयं त्वाविशेत्तत्र यत्र राजा युधिष्ठिरः ॥२१॥

दर्शनं धर्मब्रह्मस्वरूपावेक्षणं निष्प्रतीपं पाखण्डमार्गवर्जितम् ॥२१॥

गावश्च बहुलास्तत्र न कृशा न च दुर्बलाः ।
पयांसि दधिसर्पींषि रसवन्ति हितानि च ॥२२॥

गुणवन्ति च पेयानि भोज्यानि रसवन्ति च ।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥२३॥

रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः ।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥२४॥

दृश्यानि रूपाणि ॥२४॥

धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः ।
स्वैः स्वैर्गुणैश्च संयुक्ता अस्मिन् वर्षे त्रयोदशे ॥२५॥

देशे तस्मिन् भविष्यन्ति तात पाण्डवसंयुते ।
संप्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः ॥२६॥

देवतातिथिपूजासु सर्वभावानुरागवान् ।
इष्टदानो महोत्साहः स्वस्वधर्मपरायणः ॥२७॥

सर्वभावेन सर्वात्मनाऽनुरागवान् ॥२७॥

अशुभाद्धि शुभप्रेप्सुरिष्टयज्ञः शुभव्रतः ।
भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ॥२८॥

अशुभात् अशुभं त्यक्त्त्वा ॥२८॥

त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः ।
शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ॥२९॥

भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ।
धर्मात्मा शक्यते ज्ञातुं नापि तात द्विजातिभिः॥३०॥

इष्टं यागादि प्रियं परसुखदं च व्रतं पालनीयं यस्य । एवंभूतस्य दुर्ज्ञेयत्वमप्याह- धर्मात्मेति ॥३०॥

किं पुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ।
यस्मिन् सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा ॥३१॥

ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ।
तस्मात्तत्र निवासं तु छन्नं यत्नेन धीमतः ।
गतिं च परमां तत्र नोत्सहे वक्तुमन्यथा ॥३२॥

तस्मादिति । धीमतः पाण्डवस्य वासं छन्नं तत्र विद्धीति शेषः । परमां गतिं गमनं च तत्रैव स्वकीयं कुरु । एतच्चाह - मन्यथा विपरीतं वचो वक्तुं नोत्सहे वृद्धत्वात् पाण्डवेषु द्वेषस्याधर्मरूपत्वाच्चेति भावः ॥३२॥

एवमेतत्तु सञ्चिन्त्य यत्कृते मन्यसे हितम् ।
तत् क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ॥३३॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि चारप्रत्याचारे भीष्मवाक्ये अष्टाविंशोऽध्यायः ॥२८॥
एकोनत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा ।
युक्तं प्राप्तं च वृद्धेन पाण्डवान् प्रति भाषितम् ॥१॥

तत इति । युक्तं युक्तिमत् प्राप्तं प्राप्तकालम् ॥१॥

धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुकम् ।
तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ॥२॥

तत्त्वतश्च सहेतुकं युक्त्याभासहीनम् ॥२॥

तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् ।
नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् ॥३॥

तीर्थैश्चारैः ॥३॥

नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता ।
किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ॥४॥

तस्मात् सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ॥५॥

सत्रं कैतवं वेषान्तररूपम् । छन्नेषु गुपेषु उदयमुद्गमनं प्रतिज्ञाते काले उत्क्रान्ते सति । सामीप्ये सप्तमी । कालेऽल्पावशिष्टे सतीत्यर्थः ॥५॥

स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्ते काले न संशयः ॥६॥

परराष्ट्रेषु मित्रराष्ट्रेषु स्वराष्ट्रेषु च स्वस्य बलं सैन्यं सामर्थ्यं च यत्तज्ज्ञातव्यम् ॥६॥

निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥७॥

तस्माद्बलं च कोशश्च नीतिश्चापि विधीयताम् ।
यथाकालोदये प्राप्ते सम्यक्तैः सन्दधामहे ॥८॥

नीतिर्नक्तवेतनदानचारप्रवृत्त्यादिका तथा विधीयतां यथा येन प्रकारेण तैः सह सन्दधामहे शरादिसन्धानं कुर्महे । यद्वा बलकोशयोरल्पत्वं स्वस्य परस्य बहुत्वं नीतिर्यथाप्रतिज्ञं सामरूपा विधीयतां यथा तैः सह सन्दधामहे सख्यं कुर्महे इति कालोदये मृत्यूदयरूपे युद्धे प्राप्ते सति । तेषां विधीयत इति पाठे तेषां कालत उदये प्राप्ते सति यथा सम्यग्विधीयते तथा नीतिर्विधीयताम् ॥८॥

तात बुद्ध्याऽपि तत् सर्वं बुद्ध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥९॥

नियतमचञ्चलं नियमेन बुद्ध्यस्व ॥९॥

उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत ।
प्रहृष्टमप्रहृष्टं च सन्दधाम तथा परैः ॥१०॥

बोधफलमाह उच्चेति । उच्चादिभेदेन त्रिविधमपि प्रहृष्टं वा अप्रहृष्टं वा ज्ञातव्यम् । उच्चं समं वा स्वबलम् । अप्रहृष्टं चेत् प्रष्टहृबलैः शत्रुभिः सह सन्दधाम सन्धिं करवाम । विपरीतं चेदपि सन्दधाम शरानिति शेषः । सन्धनीयमिति पाठेऽपि तदेवार्थद्वयं ज्ञेयम् । ‘आतो धातोः’ इत्यालोपे अनीयर् प्रत्यये परे भवति । सन्धानीयमिति तु युक्तः पाठः ॥१०॥

साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ।
न्यायेनाक्रम्य च परान् बलाच्चानम्य दुर्बलान् ॥१२॥

बलं स्वसैन्यं सुखं यथा स्यात्तथा आभाष्यतां प्रीतिवादेन भक्तवेतनमानदानेन संमन्त्रणीयमित्यर्थः। सिद्धिं जयम् ॥१२॥

सान्त्वयित्वा तु मित्राणि बलं चाभाष्यतां सुखम् ।
सुकोशबलसंवृद्धः सम्यक् सिद्धिमवाप्स्यसि ॥१२॥

बलं स्वसैन्यं सुखं यथा स्यात्तथा आभाष्यतां प्रीतिवादेन भक्तवेतनमानदानेन संमन्त्रणीयमित्यर्थः। सिद्धिं जयम् ॥१२॥

योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः ।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥१३॥

एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः ।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥१४॥

अन्यैः शत्रुभिः पाण्डवैश्चापि सह योत्स्यसे । कीदृशैः स्वबलादिना हीनैः ॥१४॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि चारप्रत्याचारे कृपवाक्ये एकोनत्रिंशोऽध्यायः ॥२९॥
त्रिंशोऽध्यायः

वैशम्पायन उवाच ।
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः ।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥१॥

अथेति ॥१॥

असकृन्निकृताः पूर्वं मत्स्यशाल्वेयकैः प्रभो ।
सुतेनैव च मत्स्यस्य कीचकेन पुनः पुनः ॥२॥

वाक्यमुवाचेत्यत्र हेतुमाह- असकृदिति । निकृता वञ्चितास्त्रिगर्ता इति शेषः । प्रभो हे जनमेजय ॥२॥

बाधितो बन्धुभिः सार्धं बलाद्बलवतां विभौ ।
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥३॥

बाधितः सुशर्मा बलवतां कौरवाणां विभौ स्वामिनि भीष्मे समीपे सति कर्णं चोदीक्ष्य दुर्योधनमभाषत ॥३॥

असकृत्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा ।
प्रणेता कीचकस्तस्य बलवानभवत् पुरा ॥४॥

क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः ।
निहतः स तु गन्धर्वैः पापकर्मा नृशंसवान् ॥५॥

तस्मिन् विनिहते राजा हतदर्पो निराश्रयः ।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥६॥

तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥७॥

एतत् प्राप्तमहं मन्ये कार्यमात्ययिकं हि नः ।
राष्ट्रं तस्याभियास्यामो बहुधान्यसमाकुलम् ॥८॥

आददामोऽस्य रत्नानि विविधानि वसूनि च ।
ग्रामान् राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥९॥

अथवा गोसहस्राणि शुभानि च बहूनि च ।
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥१०॥

कौरवैः सह सङ्गत्य त्रिगर्तैश्च विशाम्पते ।
गास्तस्यापहरामोऽद्य सर्वैश्चैव सुसंहताः ॥११॥

संविभागेन कृत्वा तु निबघ्नीमोऽस्य पौरुषम् ।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥१२॥

निबध्नीमः निगृह्वीमः ॥१२॥

तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥१३॥

तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥१४॥

तस्मात् क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् ।
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥१५॥

विनिर्यामो निर्गच्छामः ॥१५॥

प्राज्ञो वा कुरुवृद्धोऽयं सर्वेषां नः पितामहः ।
आचार्यश्च यथा द्रोणः कृपः शारद्वतस्तथा ।
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् ॥१६॥

संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ।
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ॥१७॥

अत्यन्तं वा प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ।
यामो राजन्निरुद्विग्ना विराटनगरं वयम् ॥१८॥

आदास्यामो हि गास्तस्य विविधानि वसूनि च ।
वैशम्पायन उवाच ।
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् ।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत् स्वयम् ॥१९॥

शासने नित्यसंयुक्तं दुःशासनमनन्तरम् ।
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥२०॥

यथोद्देशं च गच्छामः सहितास्तत्र कौरवैः ।
सुशर्मा च यथोद्दिष्टं देशं यातु महारथः ।
त्रिगर्तैः सहितो राजा समग्रबलवाहनः ॥२१॥

यथोद्देशं यथानिर्दिष्टां दक्षिणामुत्तरां वा दिशं यथायोग्यं बलविभागं वा उद्दिश्येत्यर्थः ॥२१॥

प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ।
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे ।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥२२॥

ते यान्तु सहितास्तत्र विराटनगरं प्रति ।
क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम् ॥२३॥

गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।
वयमप्यनुगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥२४॥

वैशम्पायन उवाच ।
ते स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपते ।
सन्नद्धा रथिनः सर्वे सपदाता बलोत्कटाः ॥२५॥

प्रति वैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ।
आदातुं गाः सुशर्माऽथ कृष्णपक्षस्य सप्तमीम् ॥२६॥

गृद्धा लुब्धाः ॥२६॥

अपरे दिवसे सर्वे राजन् संभूय कौरवाः ।
अष्टम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः ॥२७॥

न्यगृह्णन्त कालयामासुः ॥२७॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि दक्षिणगोग्रहे सुशर्मादियाने त्रिंशोऽध्यायः ॥३०॥
एकत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
ततस्तेषां महाराज तत्रैवामिततेजसाम् ।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥१॥

तत इति । छद्मलिङ्गेन ब्राह्मणादिकपटवेषेण प्रविष्टानाम् ॥१॥

व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे ।
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥२॥

व्यतीतोऽतिक्रान्तः समयः संवत्सरः ॥२॥

कीचके तु हते राजा विराटः परवीरहा ।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥३॥

संभावनां कीचकवदयमपि मम जयकर्ता भविष्यतीत्येवंरूपाम् ॥३॥

ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत ।
सुशर्मणा गृहीतं तद्गोधनं तरसा बहु ॥४॥

ततो जवेन महता गोपः पुरमथाव्रजत् ।
स दृष्ट्वा मत्स्यराजं च रथात् प्रस्कन्द्य कुण्डली ॥५॥

शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।
संवृतं मन्त्रिभिः सार्धं पाण्डवैश्च महात्मभिः ॥६॥

तं सभायां महाराजमासीनं राष्ट्रवर्धनम् ।
सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा ॥७॥

अस्मान् युधि विनिर्जित्य परिभूय सबान्धवान् ।
गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ॥८॥

तान् परीप्सस्व राजेन्द्र मा नेशुः पशवस्तव ।
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् ॥९॥

मा नेशुः नाशमदर्शनं दूरे इति यावत् मा गच्छेयुः ॥९॥

रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे ॥१०॥

तनुत्राणि कवचानि ॥१०॥

भानुमन्ति विचित्राणि शूरसेव्यानि भागशः ।
सवज्रायसगर्भं तु कवचं तत्र काञ्चनम् ॥११॥

भानुमन्ति दीप्यमानानि वज्रायसमशनिलोहम् । यद्वा वज्रवदच्छेद्यमभेद्यं च यदयः भाषायां ‘पोलाद’ इति संज्ञितं तद्वज्रायसं तन्मयो गर्भाऽन्तः कवचं तेन सहितं सवज्रायसगर्भम् । पाठान्तरे सन्नाहाय सज्जीभावाय सगर्भं सकण्टकम् । ‘गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके’ इति नानार्थः । ‘वज्रं स्याद्धीरके पवौ’ इति च ॥११॥

विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ।
सर्वपारसवं वर्म कल्याणपटलं दृढम् ॥१२॥

अभ्यहारयत् बबन्ध । पारसवं परान् सुनोति पीडयति सुवति क्षिपति वा परसवम् । ऋदोरप् स्वार्थे तद्धितः । पारसवं शस्त्रं सर्वपारसवं सर्वशस्त्रसहमित्यर्थः । कल्याणपटलं सुवर्णपत्राच्छादितम् । ‘कल्याणमक्षये स्वर्णे’ इति विश्वः ॥१२॥

शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ।
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् ॥१३॥

आवर्तते पुनःपुनर्म्लायति विलसतीति योगात् चन्द्रः पद्मं वा बिन्दुः सूक्ष्मचक्रम् । अक्षि नेत्राकारं चक्रम् ॥१३॥

अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ।
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च ॥१४॥

उत्सेधे उच्छ्राये संपूर्णे विस्तारे कल्हारजातीयानि शतं पद्मानि पङ्क्त्या निविष्टानि एवं विशालमित्यर्थः ॥१४॥

सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ।
दृढमायसगर्भं च श्वेतं वर्म शताक्षिमत् ॥१५॥

विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ।
शतशश्च तनुत्राणि यथास्वं ते महारथाः ॥१६॥

योत्स्यमाना अनह्यन्त देवरूपाः प्रहारिणः ।
सूपस्करेषु शुभ्रेषु महत्सु च महारथाः ॥१७॥

अभ्यनह्यन्त इति पाठे सन्धिरार्षः । सूपस्करेषु शोभनरथाङ्गेषु ॥१७॥

पृथक् काञ्चनसन्नाहान् रथेष्वश्वानयोजयन् ।
सूर्यचन्द्रप्रतीकाशे रथे दिव्ये हिरण्मये ॥१८॥

महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ।
अथान्यान् विविधाकारान्ध्वजान् हेमपरिष्कृतान् ॥१९॥

उच्छिश्रिये उच्छ्रितोऽभूत् ॥१९॥

यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ।
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ॥२०॥

कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥२१॥

गोपालस्तन्तिपालाख्यः दामग्रन्थिर्ह्यश्वपालः ॥२१॥

एतेषामपि दीयन्तां रथा ध्वजपताकिनः ।
कवचानि च चित्राणि दृढानि च मृदूनि च ॥२२॥

प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
वीराङ्गरूपाः पुरुषा नागराजकरोपमाः ॥२३॥

नेमे जातु न युध्येरन्निति मे धीयते मतिः ।
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः ।
शतानीकस्तु पार्थेभ्यो रथान् राजन् समादिशत् ॥२४॥

सहदेवाय राज्ञे च भीमाय नकुलाय च ।
तान् प्रहृष्टांस्ततः सूता राजभक्तिपुरस्कृताः ॥२५॥

निर्दिष्टा नरदेवेन रथान् शीघ्रमयोजयन् ।
कवचानि विचित्राणि मृदूनि च दृढानि च ॥२६॥

विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ।
तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः ॥२७॥

रथान् हयैः सुसंपन्नानास्थाय च नरोत्तमाः ।
निर्ययुर्मुदिताः पार्थाः शत्रुसङ्घावमर्दिनः ॥२८॥

तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः ।
रथान् हेमपरिच्छन्नानास्थाय च महारथाः ॥२९॥

विराटमन्वयुः पार्थाः सहिताः कुरुपुङ्गवाः ।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥३०॥

भीमाश्च मत्तमातङ्गा प्रभिन्नकरटामुखाः ।
क्षरन्तश्चैव नागेन्द्राः सुदन्ताः षष्टिहायनाः ॥३१॥

प्रभिन्नकरटामुखाः ‘काकेभगण्डौ करटौ’ इत्यमरः ॥३१॥

स्वारूढा युद्धकुशलैः शिक्षिता हस्तिसादिभिः ।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥३२॥

विशारदानां मुख्यानां हृष्टानां चारुजीविनाम् ।
अष्टौ रथसहस्राणि दश नागशतानि च ॥३३॥

षष्टिश्चाश्वसहस्त्राणि मत्स्यानामभिनिर्ययुः ।
तदनीकं विराटस्य शुशुभे भरतर्षभ ॥३४॥

संप्रयातं तदा राजन्निरीक्षन्तं गवां पदम् ।
तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत ।
दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ॥३५॥

निरीक्षन्तं निरीक्षमाणं पुंल्लिङ्गमार्षम् ॥३५॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि दक्षिणगोग्रहे मत्स्यराजरणोद्योगे एकत्रिंशोऽध्यायः ॥३१॥
द्वत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः ।
त्रिगर्तानस्पृशन् मत्स्याः सूर्ये परिणते सति ॥१॥

निर्यायेति । निर्याय निर्गत्य अस्पृशन् प्राप्तवन्तः । परिणते पञ्चधा विभक्तस्याह्नश्चतुर्थभागं प्राप्ते ॥१॥

ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः ।
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥२॥

भीमाश्च मत्तमातङ्गास्तोमराङ्कुशनोदिताः ।
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥३॥

ग्रामणीयै राजकीयैः । ‘ग्रामणीर्नापिते पुंसि त्रिष्वध्यक्षेऽधिपेऽपि च’ इति नानार्थः ॥३॥

तेषां समागमो घोरस्तुमुलो लोमहर्षणः ।
घ्नतां परस्परं राजन् यमराष्ट्रविवर्धनः ॥४॥

समागमः संग्रामः ॥४॥

देवासुरसमो राजन्नासीत् सूर्येऽवलम्बति ।
पदातिरथनागेन्द्रहयारोहबलौघवान् ॥५॥

अवलम्बति- अवरोहति ॥५॥

अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् ।
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन ॥६॥

पक्षिणश्चापतन् भूमौ सैन्येन रजसाऽऽवृताः ।
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ॥७॥

सैन्येन सेनोत्थेन ॥७॥

खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ।
रुक्मपृष्ठानि चापानि व्यतिषिक्तानि धन्विनाम् ॥८॥

व्यतिषिक्तानि हस्तात् हस्तान्तरं गतानि ॥८॥

पततां लोकवीराणां सव्यदक्षिणमस्यताम् ।
रथा रथैः समाजग्मुः पादातैश्च पदातयः ॥९॥

अस्यतां क्षिपताम् ॥९॥

सादिनः सादिभिश्चैव गजैश्चापि महागजाः ।
असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि ॥१०॥

संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ।
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः ॥११॥

न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान् ।
कृत्तोत्तरोष्ठं सुनसं कृत्तकेशमलङ्कृतम् ॥१२॥

अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ।
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः ॥१३॥

शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ।
नागभोगनिकाशैश्च बाहुभिश्चन्द‌नोक्षितैः ॥१४॥

नागभोगनिकाशैः सर्पदेहोपमैः ॥१४॥

आस्तीर्णा वसुधा भाति शिरोभिश्च सकुण्डलैः ।
रथिनां रथिभिश्चात्र संप्रहारोऽभ्यवर्तत ॥१५॥

सादिभिः सादिनां चापि पदातीनां पदातिभिः ।
उपाशाम्यद्रजो भौमं रुधिरेण प्रसर्पता ॥१६॥

कश्मलं चाविशद्धोरं निर्मर्यादमवर्तत ।
उपाविशन् गरुत्मन्तः शरैर्गाढं प्रवेजिताः ।
अन्तरिक्षे गतिर्येषां दर्शनं चाप्यरुध्यत ॥१७॥

कश्मलं मूर्छा आविशत् शूरानिति शेषः । येषां गरुत्मतां पक्षिणामन्तरिक्षे गतिर्दर्शनं च तेऽपि शरैः प्रवेजिता उद्वेगं प्रापिताः सन्त उपाविशन् ध्वजाग्रादौ । बाणपटलेन तेषां गतिर्दर्शनं च न्यरुध्यत निरुद्धम् ॥१७॥

ते घ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः ।
न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान् ॥१८॥

शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् ।
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ॥१९॥

त्रिगर्तानां सेनां प्रविष्टावित्यन्वयः ॥१९॥

तौ प्रविष्टौ महासेनां बलवन्तौ मनस्विनौ ।
आर्च्छेतां बाहुसंरब्धौ केशाकेशि रथारथि ॥२०॥

प्रविश्य च तामार्च्छेतां मोहितवन्तौ । केशाकेशि- केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं केशाकेशि । एवं रथारथि । पाठान्तरे नखानखि- नखैर्नखैश्च प्रहृत्येदं युद्धं प्रवृत्तं नखानखि । केशेषु गृहीत्वा योधान्, रथेषु गृहीत्वा रथांश्च प्रक्षिपत इति भावः ॥२०॥

लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् ।
अग्रतः सूर्यदत्तश्च मदिराक्षश्च पृष्ठतः ॥२१॥

सूर्यदत्तः शतानीकः ॥२१॥

विराटस्तत्र संग्रामे हत्वा पञ्चशतान् रथान् ।
हयानां च शतान्यष्टौ हत्वा पञ्च महारथान् ॥२२॥

चरन् स विविधान् मार्गान् रथेन रथसत्तमः ।
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥२३॥

तौ व्यवाहरतां तत्र महात्मानौ महाबलौ ।
अन्योन्यमभिगर्जन्तौ गोष्ठेषु वृषभाविव ॥२४॥

तौ विराटसुशमाणौ ॥२४॥

ततो राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः ।
मत्स्यं समीयाद्राजानं द्वैरथेन नरर्षभः ॥२५॥

ततो रथाभ्यां रथिनौ व्यतीयतुरमर्षणौ ।
शरान् व्यसृजतां शीघ्रं तोयधारा घना इव ॥२६॥

अन्योन्यं चापि संरब्धौ विचेरतुरमर्षणौ ।
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥२७॥

ततो राजा सुशर्माणं विव्याध दशभिः शरैः ।
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥२८॥

तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः ।
पञ्चाशद्भिः शितैर्बाणैर्विव्याध परमास्त्रवित् ॥२९॥

ततः सैन्यं महाराज मत्स्यराजसुशर्मणोः ।
नाभ्यजानत्तदाऽन्योन्यं सैन्येन रजसाऽऽवृतम् ॥३०॥

ततः सैन्यमिति श्लोकः प्राचीनपुस्तकेष्वन्यथा पठ्यते । 'ततः सेनाः समाहत्य मत्स्यराजसुशर्मणौ । न जानीतां तदाऽन्योन्यं सैन्येन रजसावृतौ इति, तत्र सुशर्मणाविति ह्रस्वत्वमार्षम् । सेनाः सेनास्थान् शूरान् समाहत्य अन्योन्यसंघट्टं कारयित्वा सैन्येन सेनोत्थेन ॥३०॥
इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि दक्षिणगोग्रहे विराटसुशर्मयुद्धे द्वात्रिंशोऽध्यायः ॥३२॥
त्रयस्त्रिंशोऽध्यायः

वैशम्पायन उवाच ।
तमसाऽभिप्लुते लोके रजसा चैव भारत ।
अतिष्ठन् वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥१॥

तमसेति तमसा नैशेनान्धकारेण मुहूर्तमाचंद्रोदयकालं न तु घटीद्वयमात्रम् । कृष्णपक्षस्य सप्तमीमिति सप्तम्यां गोग्रहणस्योक्तत्वात् ॥१॥

ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः ।
कुर्वाणो विमलां रात्रिं नन्दयन् क्षत्रियान् युधि ॥२॥

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत ।
घोररूपं ततस्ते स्म नावैक्षन्त परस्परम् ॥३॥

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा ।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥४॥

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां रथान् ॥५॥

प्रस्कन्द्य अवरुह्य ॥५॥

तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति ।
गदासिखड्गैश्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥६॥

तीक्ष्णानि अग्राणि सुपीताः सुतरां पीताः शोषिताः कृशीकृता अनायासेन शीघ्रं परशरीरप्रवेशक्षमा धाराश्च येषां ते तीक्ष्णाग्रसुपीतधारास्तैः । तीक्ष्णायसपीतेति पाठेऽपि पीतशब्दस्योक्त एवार्थः ॥६॥

बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा ।
प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत् ॥७॥

बलं जित्वा चेति सम्बन्धः ॥७॥

तौ निहत्य पृथक् धुर्यावुभौ तौ पार्ष्णिसारथी ।
विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥८॥

तमुन्मथ्य सुशर्माऽथ युवतीमिव कामुकः ।
स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥९॥

तस्मिन् गृहीते विरथे विराटे बलवत्तरे ।
प्राद्रवन्त भयान्मत्स्यास्त्रिगतैरर्दिता भृशम् ॥१०॥

तेषु सन्त्रस्यमानेषु कुन्तीपुत्रो युधिष्ठिरः ।
प्रत्यभाषन्महाबाहुं भीमसेनमरिन्दमम् ॥११॥

मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा ।
तं मोचय महाबाहो न गच्छेद्द्विषतां वशम् ॥१२॥

उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः ।
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः॥१३॥

भीमसेन उवाच ।
अहमेनं परित्रास्ये शासनात् तव पार्थिव ।
पश्य मे सुमहत् कर्म युध्यतः सह शत्रुभिः ॥१४॥

स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह ।
एकान्तमाश्रितो राजन् पश्य मेऽद्य पराक्रमम् ॥१५॥

सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः ।
अहमेनमपारुज्य द्रावयिष्यामि शात्रवान् ॥१६॥

अपारुज्य उत्पाठ्य ॥१६॥

वैशम्पायन उवाच ।
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् ।
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥१७॥

मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ।
मा त्वं वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ॥१८॥

जनाः समवबुध्येरन् भीमोऽयमिति भारत ।
अन्यदेवायुधं किञ्चित् प्रतिपद्यस्व मानुषम् ॥१९॥

चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ।
यदेव मानुषं भीम भवेदन्यैरलक्षितम् ॥२०॥

तदेवायुधमादाय मोक्षयाशु महीपतिम् ।
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ ॥२१॥

सहिताः समरे तत्र मत्स्यराजं परीप्सत ।
वैशम्पायन उवाच ।
एवमुक्तस्तु वेगेन भीमसेनो महाबलः ॥२२॥

गृहीत्वा तु धनुः श्रेष्ठं जवेन सुमहाजवः ।
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ॥२३॥

तं भीमो भीमकर्माणं सुशर्माणमथाद्रवत् ।
विराटं समवीक्ष्यैनं तिष्ठ तिष्ठेति चावदत् ॥२४॥

विराटं समवीक्ष्यैनं हे सम हे साधो इति विराटं वीक्ष्य वाचा दृशा च संभाव्य एनं सुशर्माणं तिष्ठ तिष्ठेति चावददिति सम्बन्धः ‘सर्वसाधुसमानेषु समं स्यादभिधेयवत्’ इति मेदिनी ॥२४॥

सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
तिष्ठ तिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥२५॥

रथपुङ्गवः तिष्ठ तिष्ठेति भाषमाणः महत्कर्माऽन्योऽन्ययुद्धं पश्यता । कर्मव्यतिहारे तङ् । अयं मां महत्कर्म कुर्वाणं पश्यतु अहं चैनं द्रक्ष्ये इत्यर्थः ॥२५॥

पश्यतां सुमहत् कर्म महद्युद्ध‌मुपस्थितम् ।
परावृत्तो धनुर्गुह्य सुशर्मा भ्रातृभिः सह ।
निमेषान्तरमात्रेण भीमसेनेन ते रथाः ॥२६॥

रथाः संगता इति शेषः ॥२६॥

रथानां च गजानां च वाजिनां च ससादिनाम् ।
सहस्रशतसङ्घाताः शूराणामुग्रधन्विनाम् ॥२७॥

पातिता भीमसेनेन विराटस्य समीपतः ।
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥२८॥

तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः ।
चिन्तयामास मनसा किं शेषं हि बलस्य मे ।
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले ॥२९॥

चिन्तयामासेति । सुशर्मा बलस्य सैन्यस्य किं शेषं कुत्सितं वधं चिन्तयामास ‘शेषः संकर्षणे वधे’ इति मेदिनी । तत्र हेतुः हि यस्मात् मे मम अपरो भ्राता महाबले सैन्ये पुरा मग्नो दृश्यते भ्रातुः संकटं दृष्ट्वा सैन्यनाशं चिन्तयामासेत्यर्थः ॥२९॥

आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ।
सुशर्मा सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः ॥३०॥

धनुषा शोभमान इति शेषः ॥३०॥

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् ।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान् प्रत्यमर्षणाः ॥३१॥

ते सर्वे मत्स्याः ॥३१॥

तान्निवृत्तरथान् दृष्ट्वा पाण्डवान् सा महाचमूः ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥३२॥

सहस्त्रमवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः ।
भीमः सप्त सहस्राणि यमलोकमदर्शयत् ॥३३॥

नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ।
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ॥३४॥

युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।
ततोऽभ्यपतदत्युग्रः सुशर्माणमुदायुधः ॥३५॥

अत्युग्रो युधिष्ठिरः वाक्यशेषात् ॥३५॥

हत्वा तां महतीं सेनां त्रिगर्तानां महारथः ।
ततो युधिष्ठिरो राजा त्वरमाणो महारथः ॥३६॥

अभिपत्य सुशर्माणं शरैरभ्याहनद्भृशम् ।
सुशर्माऽपि सुसंरब्धस्त्वरमाणो युधिष्ठिरम् ॥३७॥

अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ।
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः ॥३८॥

समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ।
पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः ॥३९॥

अथास्य सारथिं क्रुद्धो रथोपस्थादपातयत् ।
चक्ररक्षश्च शूरो वै मदिराक्षोऽतिविश्रुतः ॥४०॥

समायाद्विरथं दृष्ट्वा त्रिगर्तं प्राहरत् तदा ।
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः ॥४१॥

गदां तस्य परामृश्य तमेवाभ्यद्रवद्बली ।
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥४२॥

पलायमानं त्रैगर्तं दृष्ट्वा भीमोऽभ्यभाषत ।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥४३॥

त्रैगर्तं त्रिगर्ताधिपतिम् ॥४३॥

अनेन वीर्येण कथं गास्त्वं प्रार्थयसे बलात् ।
कथं चानुचरांस्त्यक्त्वा शत्रुमध्ये विषीदसि ॥४४॥

इत्युक्तः स तु पार्थेन सुशर्मा रथयूथपः ।
तिष्ठ तिष्ठेति भीमं स सहसाऽभ्यद्रवद्वली ॥४५॥

भीमस्तु भीमसंकाशो रथात् प्रस्कन्द्य पाण्डवः ।
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुशर्मणः ॥४६॥

भीमसंकाशो भीमोपम ‘रामरावणयोर्युद्धं रामरावणयोरिव’ इतिवदनुपम इत्यर्थः ॥४६॥

तं भीमसेनो धावन्तमभ्यधावत वीर्यवान् ।
त्रिगर्तराजमादातुं सिंहः क्षुद्रमृगं यथा ॥४७॥

अभिद्रुत्य सुशर्माणं केशपक्षे परामृशत् ।
समुद्यम्य तु रोषात् तं निष्पिपेष महीतले ॥४८॥

केशपक्षे केशकलापे ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इति॥ ‘पक्षो मासार्धके’ इत्युपक्रम्य ‘केशादेः परतो वृन्दे’ इति मेदिनी । अत्रोक्तं नीतिशास्त्रे- वामपाणिकचोत्पीडा (१) भूमौ निष्पेषणं बलात् (२) मूर्ध्नि पादप्रहरणम् (३) जानुनोदरमर्दनम् (४) मालूराकारया मुष्ट्या कपोले दृढताडनम् (५) कफोणिपातोऽप्यसकृत् (६) सर्वतस्तलताडनम् (७) तालेन युद्धे भ्रमणम् (८) मारणं स्मृतमष्टधा । चतुर्भिः क्षत्रियं हन्यात् पञ्चभिः क्षत्रियाधमम् । षड्भिर्वैश्यं सप्ताभिस्तु शूद्रं संकरमष्टाभिः' इति । एतेषां मध्ये तं केशग्रहादिभिः पञ्चभिर्मारयताऽस्य क्षत्रियाधमत्वं दर्शितम् ॥४८॥

पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ।
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः ॥४९॥

तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे ।
अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥५०॥

निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः ।
अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥५१॥

स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः ।
विराटस्य महात्मानः परिक्लेशविनाशनाः ॥५२॥

स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ।
नायं पापसमाचारो मत्तो जीवितुमर्हति ।
किं तु शक्यं मया कर्तुं यद्राजा सततं घृणी ॥५३॥

गले गृहीत्वा राजानमानीय विवशं वशम् ।
तत एनं विचेष्टन्तं बध्वा पार्थो वृकोदरः ॥५४॥

घृणी दयालुः ॥५४॥

रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ।
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥५६॥

दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ।
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ॥५७॥

तं राजा प्राहसत् दृष्ट्वा मुच्यतां वै नराधमः ।
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ॥५८॥

भीम उवाच ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ।
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च ॥५९॥

एवं ते जीवितं दद्यामेष युद्धजितो विधिः ।
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः ॥६०॥

युधिष्ठिर उवाच ।
मुञ्च मुञ्चाधमाचारं प्रमाणं यदि ते वयम् ।
दासभावं गतो ह्येष विराटस्य महीपतेः ।
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः कदाचन ॥६१॥

इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि दक्षिणगोग्रहे त्रयस्त्रिंशोऽध्यायः ॥३३॥
चतुस्त्रिंशोऽध्यायः

वैशम्पायन उवाच ।
एवमुक्ते तु सव्रीडः सुशर्माऽऽसीद‌धोमुखः ।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥१॥

एवमिति ॥१॥

विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥२॥

ततो विराटः कौन्तेयानतिमानुषविक्रमान् ।
अर्चयामास वित्तेन मानेन च महारथान् ॥३॥

विराट उवाच ।
यथैव मम रत्नानि युष्माकं तानि वै तथा ।
कार्यं कुरुत वै सर्वे यथाकामं यथासुखम् ॥४॥

ददाम्यलङ्कृताः कन्या वसूनि विविधानि च ।
मनसश्चाप्यभिप्रेतं युद्धे शत्रुनिबर्हणाः ॥५॥

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥६॥

वैशम्पायन उवाच ।
तथेतिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक् ।
ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरागमाः ॥७॥

प्रतिनन्दाम ते वाक्यं सर्वं चैव विशाम्पते ।
एतेनैव प्रतीताः स्म यत्त्वं मुक्तोऽद्य शत्रुभिः ॥८॥

प्रतीताः हृष्टाः ॥८॥

ततोऽब्रवीत् प्रतिमना मत्स्यराजो युधिष्ठिरम् ।
पुनरेव महाबाहुर्विराटो राजसत्तमः ॥९॥

एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ।
मनसश्चाप्यभिप्रेतं यथेष्टं भुवि दुर्लभम् ।
तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥१०॥

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि च ।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥११॥

नः अस्मत्सम्बन्धि सर्वं भवान् ग्रहीतुमर्हति ॥११॥

त्वत्कृते ह्यद्य पश्यामि राज्यं सन्तानमेव च ।
यतश्च जातसंरम्भो न च शत्रुवशं गतः ॥१२॥

ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत ।
प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥१३॥

यतो निगृहीतः जातसंरम्भो जातभयोऽपि त्वद्बलान्न च शत्रुवशंगतोऽस्मि ॥१३॥

आनृशंस्यपरो नित्यं सुसुखी सततं भव ।
गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ॥१४॥

सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ।
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् ॥१५॥

आचक्षध्वं पुरं गत्वा संग्रामविजयं मम ।
कुमार्यः समलंकृत्य पर्यागच्छन्तु मे पुरात् ॥१६॥

वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ।
एतां चाज्ञां ततः श्रुत्वा राज्ञा मत्स्येन नोदिताः ।
तामाज्ञां शिरसा कृत्वा प्रस्थिता हृष्टमानसाः ॥१७॥

ते गत्वा तत्र तां रात्रिमथ सूर्योदयं प्रति ।
विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥१८॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि दक्षिणगोग्रहे विराटजयघोषे चतुस्त्रिंशोऽध्यायः ॥३४॥
पञ्चत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
याते त्रिगर्तान्मत्स्ये तु पशूंस्तान्वै परीप्सति ।
दुर्योधनः सहामात्यो विराटमुपयादथ ॥१॥

यात इति । परीप्सति लिप्सति यतः अथ अतः विराटं विराटदेशं उपयात् उपायात् ॥१॥

भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभो ॥२॥

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुर्मुखो दुःशलश्चैव ये चैवान्ये महारथाः ॥३॥

एते मत्स्यानुपागम्य विराटस्य महीपतेः ।
घोषान् विद्राव्य तरसा गोधनं जह्रुरोजसा ॥४॥

षष्टिं गवां सहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिवार्य समन्ततः ॥५॥

कालयन्ति नयन्ति रथवंशेन रथसमूहेन ॥५॥

गोपालानां तु घोषस्य हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत् संप्रहारे भयङ्करे ॥६॥

घोषस्य घोषस्थानां गवां गोपालानां च हन्यतां हन्यमानानामारावः शब्दो महानभूत् ॥६॥

गोपाध्यक्षो भयत्रस्तो रथमास्थाय सत्वरः ।
जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥७॥

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः ।
अवतीर्य रथात् तूर्णमाख्यातुं प्रविवेश ह ॥८॥

दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम् ।
तस्मै तत् सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥९॥

भूमिञ्जयमित्युत्तरस्यैव नामान्तरम् ॥९॥

षष्टिं गवां सहस्त्राणि कुरवः कालयन्ति ते ।
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥१०॥

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि च स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥११॥

शून्यपालं राज्ञोऽसन्निधाने पालकम् ॥११॥

त्वया परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥१२॥

इष्वस्त्रे निपुणो योधः सदावीरश्च मे सुतः ।
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥१३॥

आवर्तय कुरून् जित्वा पशून् पशुमतां वर ।
निर्दहैषामनीकानि भीमेन शरतेजसा ॥१४॥

धनुश्च्युतै रुक्मपुङ्खैः शरैः सन्नतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥१५॥

यूथपो गन्धहस्ती ॥१५॥

पाशोपधानां ज्यातन्त्रीं चापदण्यां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥१६॥

पाशोपधानामिति । पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपधाने वीणायां तन्त्रीसन्धानार्थं कीलविशेषौ यस्यां सा पाशोपधाना ताम् । ज्यातन्त्रीं मौर्व्येव तन्त्री कार्ष्णायसतन्तवो यस्यां तां चापो धनुर्यष्टिः सैव अलाबुसहितो दण्डो यस्यास्तां महास्वनामित्युभयत्र तुल्यम् । शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात् स्वरस्पर्शादयो यस्याम् । धनुःशब्दोऽत्र सज्यचापवाची तामेव वीणां शत्रूणां मध्ये प्रवादय ॥१६॥

श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिंहं सौवर्णमुछ्रयन्तु तव प्रभो ॥१७॥

युज्यन्तु युज्यन्तां सिंहं सिंहाकारं सौवर्णम् ॥१७॥

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।
छादयन्तु शराः सूर्यं राज्ञां मार्गनिरोधकाः ॥१८॥

हस्तवता दृढहस्तेन प्रशंसायां मतुप् ॥१८॥

रणे जित्वा कुरून् सर्वान् वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥१९॥

त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः ।
यथा हि पाण्डुपुत्राणामर्जुनो जयतां वरः ॥२०॥

एवमेव गतिर्नूनं भवान् विषयवासिनाम् ।
गतिमन्तो वयं त्वद्य सर्वे विषयवासिनः ॥२१॥

वैशम्पायन उवाच ।
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम् ।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥२२॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे गोपवाक्ये पञ्चत्रिंशोऽध्यायः ॥३५॥
षट्त्रिंशोऽध्यायः

उत्तर उवाच ।
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥१॥

अद्याहमिति ॥१॥

तं त्वहं नावगच्छामि यो मे यन्ता भवेन्नरः ।
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥२॥

अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥३॥

स लभेयं यदा त्वन्यं हययानविदं नरम् ।
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥४॥

इययानविदमश्वगतिज्ञम् ॥४॥

विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापनिर्वीर्यान् कुरून् जित्वाऽऽनये पशून् ॥५॥

दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् ।
द्रोणं च सहपुत्रेण महेष्वासान् समागतान् ॥६॥

वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत् ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥७॥

शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् ।
किं तु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥८॥

पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः ।
किं नु पार्थोऽर्जुनः साक्षादयमस्मान् प्रबाधते ॥९॥

वैशम्पायन उवाच ।
श्रुत्वा तदर्जुनो वाक्यं राज्ञः पुत्रस्य भाषतः ।
अतीतसमये काले प्रियां भार्यामनिन्दिताम् ॥१०॥

द्रुपदस्य सुतां तन्वीं पाञ्चालीं पावकात्मजाम् ।
सत्यार्जवगुणोपेतां भर्तुः प्रियहिते रताम् ॥११॥

उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ।
उत्तरं ब्रूहि कल्याणि क्षिप्रं मद्वचनादिदम् ॥१२॥

अयं वै पाण्डवस्यासीत् सारथिः संमतो दृढः ।
महायुद्धेषु संसिद्धः स ते यन्ता भविष्यति ॥१३॥

वैशम्पायन उवाच ।
तस्य तद्वचनं स्त्रीषु भाषतश्च पुनः पुनः ।
न साऽमर्षत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥१४॥

अथैनमुपसंगम्य स्त्रीमध्यात् सा तपस्विनी ।
व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥१५॥

योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः ।
बृहन्नलेति विख्यातः पार्थस्यासीत् स सारथिः॥१६॥

धनुष्यनवरश्चासीत् तस्य शिष्यो महात्मनः ।
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् प्रति ॥१७॥

यदा तत्पावको दावमदहत् खाण्डवं महत् ।
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ॥१८॥

तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।
अजयत् खाण्डवप्रस्थेन हि यन्ताऽस्ति तादृशः ॥१९॥

उत्तर उवाच ।
सैरन्ध्रि जानासि तथा युवानं नपुंसको नैव भवेद्यथाऽसौ ।
अहं न शक्नोमि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान् ममेति वै ॥२०॥

द्रौपद्युवाच ।
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी ।
अस्याः सा वीर वचनं करिष्यति न संशयः ॥२१॥

यदि वै सारथिः स स्यात् कुरून् सर्वान्न संशयः ।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥२२॥

एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥२३॥

सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् ।
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥२४॥

नर्तनागृहम् ‘ण्यासश्रन्थो युच्’ इति ण्यन्ताद्युचि टाबन्तम् । सत्रेण छद्मना ॥२४॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे बृहन्नलासारथ्यकथने ष‌ट्त्रिंशोऽध्यायः ॥३६॥
सप्तत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
सुदक्षिणा वेदिविलग्नमध्या सा पद्मपत्राभनिभा शिखण्डिनी ॥१॥

सेति । माल्यं माला । ‘माल्यं कुसुमतत्स्रजोः’ इति मेदिनी । सुदक्षिणा भ्रातृच्छन्दानुवर्तिनी ‘दक्षिणा दक्षिणोद्भूतसरलच्छन्दवर्तिषु’ इति मेदिनी । वेदिवत् विलग्नः कृशो मध्यो यस्याः सा । पद्मपत्राभिनवा शिखण्डिनीति प्राचीनपाठः । पद्मपत्राभनिभा पद्मपत्रेषु आभातीति पद्मपत्राभा लक्ष्मीः तद्वत् निभा दीप्तिर्यस्याः सा । ये तु पद्मपत्राभं मरकतं तन्निभां श्यामामिति व्याचख्युः। तेषां कनकोज्ज्वलत्वचमिति वाक्यशेषेण विरोधः स्पष्टः । शिखण्डिनी मयूरपिच्छालङ्कारवती ॥१॥

तन्वी शुभाङ्गी मणिचित्रमेखला मत्स्यस्य राज्ञो दुहिता श्रिया वृता ।
तन्नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥२॥

अरालपक्ष्मा वक्राक्षिपक्ष्मा शतह्रदा विद्युत् ॥२॥

सा हस्तिहस्तोपमसंहितोरूः स्वनिन्दिता चारुदती सुमध्यमा ।
आसाद्य तं वै वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥३॥

सा रत्नभूता मनसः प्रियाऽर्चिता सुता विराटस्य यथेन्द्रलक्ष्मीः ।
सुदर्शनीया प्रमुखे यशस्विनी प्रीत्याऽब्रवीदर्जुनमायतेक्षणा ॥४॥

प्रमुखे अग्रे ॥४॥

सुसंहतोरुं कनकोज्ज्वलत्त्वचं पार्थः कुमारीं स तदाऽभ्यभाषत ।
किमागमः काञ्चनमाल्यधारिणि मृगाक्षि किं त्वं त्वरितेव भामिनि ।
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व तत्त्वं मम शीघ्रमङ्गने ॥५॥

वैशम्पायन उवाच ।
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं तथा ।
प्रहसन्नब्रवीद्राजन् किमागमनमित्युत ॥६॥

किं किमर्थम् आगमनम् ॥६॥

तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् ।
प्रणयं भावयन्ती सा सखीमध्य इदं वचः ॥७॥

प्रणयं विनयं भावयन्ती दर्शयन्ती ॥७॥

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले ।
ता विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥८॥

नाचिरं निहतस्तस्य संग्रामे रथसारथिः ।
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥९॥

तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नले ।
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ॥१०॥

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा ।
त्वयाऽजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥११॥

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्न ।
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥१२॥

यावत् गावो दूरतरं ह्रियन्ते ततः प्रागेव सारथ्यं कुरु ॥१२॥

अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि ।
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्॥१३॥

एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः ।
जगाम राजपुत्रस्य सकाशममितौजसः ॥१४॥

तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।
अन्वगच्छद्विशालाक्षी शिशुं गजवधूरिव ॥१५॥

दूरादेव तु तां प्रेक्ष्य राजपुत्राऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयेत् ॥१६॥

पृथिवीमजयत् कृत्स्नां कुन्तीपुत्रो धनञ्जयः ।
सैरन्ध्री त्वां समाचष्टे सा हि जानाति पाण्डवान् ॥१७॥

संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नले ।
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥१८॥

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा ।
त्वयाऽजयत् सहायेन पृथिवीं पाण्डवर्षभः ॥१९॥

एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नला ।
का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि ॥२०॥

गीतं वा यदि वा नृत्यं वादित्रं वा पृथग्विधम् ।
तत् करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥२१॥

उत्तर उवाच ।
बृहन्नले गायनो वा नर्तनो वा पुनर्भव ।
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥२२॥

वैशम्पायन उवाच ।
स तत्र नर्मसंयुक्तमकरोत् पाण्डवो बहु ।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥२३॥

ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत ।
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः ॥२४॥

स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः ।
कवचेन महार्हेण समनह्यद्बृहन्नलाम् ॥२५॥

स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् ।
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥२६॥

धनूंषि च महार्हाणि बाणांश्च रुचिरान् बहून् ।
आदाय प्रययौ वीरः स बृहन्नलसारथिः ॥२७॥

अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा ।
बृहन्नले आनयेथा वासांसि रुचिराणि च ॥२८॥

पाञ्चालिकार्थं चित्राणि सूक्ष्माणि च मृदूनि च ।
विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून् ॥२९॥

पाञ्चालिकार्थं ‘पाञ्चालिका पुत्तिका स्याद्वस्त्रदन्तादिभिः कृता’ इत्यमरः ॥२९॥

एवं ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः ।
प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनिःस्वनः ॥३०॥

बृहन्नलोवाच ।
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ॥३१॥

वैशम्पायन उवाच ।
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् ।
कुरूनभिमुखः शूरो नानाध्वजपताकिनः ॥३२॥

तमुत्तरं वीक्ष्य रथोत्तमे स्थितं बृहन्नलायाः सहितं महाभुजम् ।
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं चक्रुरथोचुरङ्गनाः ॥३३॥

यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत् खाण्डवदाहमङ्गलम् ।
कुरून् समासाद्य रणे बृहन्नले सहोत्तरेणाद्य तदस्तु मङ्गलम् ॥३४॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे उत्तरनिर्याणं नाम सप्तत्रिंशोऽध्यायः ॥३७॥
अष्टत्रिंशोऽध्यायः

वैशम्पायन उवाच ।
स राजधान्या निर्याय वैराटिरकुतोभयः ।
प्रयाहीत्यब्रवीत् सूतं यत्र ते कुरवो गताः ॥१॥

स इति ॥१॥

समवेतान् कुरून् सर्वान् जिगीषूनवजित्य वै ।
गास्तेषां क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ॥२॥

ततस्तांश्चोदयामास सदश्वान् पाण्डुनन्दनः ।
ते हया नरसिंहेन नोदिता वातरंहसः ।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥३॥

नातिदूरमथो गत्वा मत्स्यपुत्रधनञ्जयौ ।
अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ॥४॥

श्मशानमभितो गत्वा आससाद कुरूनथ ।
तां शर्मामन्ववीक्षेतां व्यूढानीकांश्च सर्वशः ॥५॥

तदनीकं महत्तेषां विबभौ सागरोपमम् ।
सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥६॥

अतिवेगेन आकाशे ॥६॥

ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता ।
दृष्टिप्रणाशो भूतानां दिवस्पृक् कुरुसत्तम ॥७॥

तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् ।
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ॥८॥

द्रोणेन च सपुत्रेण महेष्वासेन धीमता ।
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ॥९॥

हृष्टरोमा रोमाञ्चितः ॥९॥

उत्तर उवाच ।
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे ।
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ॥१०॥

नोत्सहे इत्यत्र हेतुमाह बह्विति ॥१०॥

प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ।
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् ॥११॥

रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।
दृष्ट्वैव हि परानाजौ मनः प्रव्यथतीव मे ॥१२॥

कलिलां गहनाम् ॥१२॥

यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाल्हिकः ॥१३॥

दुर्योधनस्तथा वीरो राजा च रथिनां वरः ।
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ॥१४॥

दृष्ट्वैव हि कुरूनेतान् व्यूढानीकान् प्रहारिणः ।
हृषितानि च रोमाणि कश्मलं चागतं मम ॥१५॥

कश्मलं मूर्च्छा ॥१५॥

वैशम्पायन उवाच ।
अविजातो विजातस्य मौर्ख्यात् धूर्तस्य पश्यतः ।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥१६॥

अविजातः जातं सामान्यं विगतं यस्मात् स विजातोऽसाधारणः तदन्योऽविजातः साधारणः प्राकृतः । प्राचां तु सयकारः पाठः तदा वियातो धृष्टः । ‘धृष्टे धृष्णुर्वियातश्च’ इत्यमरः । अवियातोऽप्रगल्भः धूर्तस्य छद्मवेषधारिणः ॥१६॥

त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् ।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥१७॥

सोऽहमेको बहून् बालः कृतास्त्रानकृतश्रमः ।
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नले ॥१८॥

बृहन्नलोवाच ।
भयेन दीनरूपोऽसि द्विषतां हर्षवर्द्धनः ।
न च तावत्कृतं कर्म परैः किञ्चिद्रणाजिरे ॥१९॥

स्वयमेव च मामात्थ वह मां कौरवान् प्रति ।
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥२०॥

मध्यमामिषगृध्राणां कुरूणामाततायिनाम् ।
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ॥२१॥

आमिषं मांसं तत्र यथा गृध्राः पतन्ति तत्तुल्यानां गोलुब्धानाम् । पृथिव्यां निमित्तभूतायाम् । एतेनाग्रे भाविसंग्रामेष्वपि त्वां नेष्यामीत्युक्तम् ॥२१॥

तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च ।
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ॥२२॥

अभिनिर्यायाभिनिर्गत्य न युयुत्ससे योद्धुं नेच्छसि ॥२२॥

न चेद्विजित्य गास्तास्त्वं गृहान् वै प्रतियास्यसि ।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ॥२३॥

अहमप्यत्र सैरन्ध्र्या ख्याता सारथ्यकर्मणि ।
न च शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥२४॥

स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च ।
कथं न युध्येयमहं कुरून् सर्वान् स्थिरो भव ॥२५॥

उत्तर उवाच ।
कामं हरन्तु मत्स्यानां भूयांसः कुरवो धनम् ।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ॥२६॥

सङ्ग्रामे न च कार्यं मे गावो गच्छन्तु चापि मे ।
शून्यं मे नगरं चापि पितुश्चैव बिभेम्यहम् ॥२७॥

वैशम्पायन उवाच ।
इत्युक्त्वा प्राद्रवद्भीतो रथात् प्रस्कन्द्य कुण्डली ।
त्यक्त्वा मानं च दर्पं च विसृज्य सशरं धनुः ॥२८॥

बृहन्नलोवाच ।
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।
श्रेयस्तु मरणं युद्धे न भीतस्य पलायनम् ॥२९॥

वैशम्पायन उवाच ।
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् ।
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ॥३०॥

दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ।
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा ॥३१॥

सैनिकाः प्राहसन् केचित्तथारूपमवेक्ष्य तम् ।
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् ॥३२॥

क एष वेषसंच्छन्नो भस्मन्येव हुताशनः ।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ॥३३॥

सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ।
तदेवैतच्छिरो ग्रीवं तौ बाहू परिघोपमौ ।
तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥३४॥

अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः ।
एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् ॥३५॥

एकः पुत्रो विराटस्य शून्ये सन्निहितः पुरे ।
स एष किल निर्यातो बालभावान्न पौरुषात् ॥३६॥

सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् ।
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ॥३७॥

स नो मन्यामहे दृष्ट्वा भीत एष पलायते ।
तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः ॥३८॥

वैशम्पायन उवाच ।
इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक् ।
न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते ॥३९॥

छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ।
उत्तरं तु प्रधावन्तमभिद्रुत्य धनञ्जयः ।
गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ॥४०॥

सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव विराटस्य सुतस्तदा ॥४१॥

उत्तर उवाच ।
शृणुयास्त्वं हि कल्याणि बृहन्नले सुमध्यमे ।
निवर्तय रथं क्षिप्रं जीवन् भद्राणि पश्यति ॥४२॥

शातकुम्भस्य शुद्धस्य शतं निष्कान् ददामि ते ।
मणीनष्टौ च वैदूर्यान् हेमबद्धान् महाप्रभान् ॥४३॥

हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रतैः ।
मत्तांश्च दशमातङ्गान् मुञ्च मां त्वं बृहन्नले ॥४४॥

वैशम्पायन उवाच ।
एवमादीनि वाक्यानि विलपन्तमचेतसम् ।
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥४५॥

अथैनमब्रवीत् पार्थो भयार्तं नष्टचेतसम् ।
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्षण ।
एहि मे त्वं हयान् यच्छ युध्यमानस्य शत्रुभिः ॥४६॥

प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः ।
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ॥४७॥

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥४८॥

अहं वै कुरुभिर्योत्स्ये विजेष्यामि च ते पशून् ।
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् ॥४९॥

यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ।
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः ।
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ॥५०॥

तत एनं विचेष्टन्तमकामं भयपीडितम् ।
रथमारोपयामास पार्थः प्रहरतां वरः ॥५१॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे उत्तराश्वासने अष्टात्रिंशोऽध्यायः ॥३८॥
एकोनचत्वारिंशोऽध्यायः

वैशम्पायन उवाच ।
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् ।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥१॥

तमिति ॥१॥

भीष्मद्रोणमुखास्तत्र कुरवो रथिसत्तमाः ।
वित्रस्तमनसः सर्वै धनञ्जयकृताद्भयात् ॥२॥

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् ।
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ॥३॥

चण्डाश्च वाताः संवान्ति रूक्षाः शर्करवर्षिणः ।
भस्मवर्णप्रकाशेन तमसा संवृतं नभः ॥४॥

रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः ।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥५॥

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥६॥

यादृशान्यत्र रूपाणि सन्दृश्यन्ते बहूनि च ।
यत्ता भवन्तस्तिष्ठन्तु साध्वसं समुपस्थितम् ॥७॥

रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि ।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥८॥

वैशसं वैरं युद्धे कदनं वा ॥८॥

एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः ।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥९॥

नदीज लङ्केशवनारिकेतुर्नगाह्णयो नाम नगारिसूनुः ।
एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा वः ॥१०॥

नदीजेति । हे नदीज गाङ्गेय हे भीष्म लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् सः केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः । नगो वृक्षस्तदाह्वयः वृक्षनामा । नामेति वितर्के निश्चितं वा अर्जुन इत्यर्थः ‘शैलवृक्षौ नगावगौ’ इत्यमरः । नगारिरिन्द्रस्तस्य सूनुः एष अङ्गनावेषधरः । किरीटी एतन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनमव पालय ॥१०॥

स एष पार्थो विक्रान्तः सव्यसाची परंतपः ।
नायुद्धेन निवर्तेत सर्वैरपि सुरासुरैः ॥११॥

क्लेशितश्च वने शूरो वासवेनापि शिक्षितः ।
अमर्षवशमापन्नो वासवप्रतिमो युधि ।
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः ॥१२॥

महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ॥१३॥

कर्ण उवाच ।
सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्थसे ।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य च ॥१४॥

कला षोडशोंऽशः पूर्णः कृत्स्नः ॥१४॥

दुर्योधन उवाच ।
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशाब्दान् विशांपते ॥१५॥

अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः ।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥१६॥

वैशम्पायन उवाच ।
तस्मिन् ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतप ।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥१७॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे अर्जुनप्रशंसायामेकोनचत्वारिंशोऽध्यायः ॥३९॥
चत्वारिंशोऽध्यायः

वैशम्पायन उवाच ।
तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् ।
सुकुमारं समाज्ञाय सङ्ग्रामे नातिकोविदम् ॥१॥

तामिति ॥१॥

समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर ।
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ।
भारं चापि गुरुं वोढुं कुञ्जरं वा प्रमर्दितुम् ॥२॥

अवहर अवतारय ॥२॥

मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ।
तस्माद्भूमिंजयारोह शमीमेतां पलाशिर्नाम् ॥३॥

बाहुविक्षेपं सोढुं न शक्ष्यन्तीति संबन्धः । भूमिंजय हे उत्तर पलाशिनीं बहुपत्रवतीम् ॥३॥

अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ॥४॥

ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ।
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् ॥५॥

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।
व्यायामसहमत्यर्थं तृणराजसमं महत् ॥६॥

तृणराजस्तालस्तत्समम् ॥६॥

सर्वायुधमहामात्रं शत्रुसंबाधकारकम् ।
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ॥७॥

महामात्रमतिप्रमाणम् ॥७॥

अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ।
तादृशान्येव सर्वाणि बलवन्ति दृढानि च ।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ॥८॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे अर्जुनास्त्रकथने चत्वारिंशोऽध्यायः ॥४०॥
एकचत्वारिंशोऽध्यायः

उत्तर उवाच ।
अस्मिन् वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् ।
तदहं राजपुत्रः सन् स्पृशेयं पाणिना कथम् ॥१॥

अस्मिन्निति ॥१॥

नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥२॥

आलब्धुं स्प्रष्टुम् ॥२॥

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ॥३॥

बृहन्नलोवाच ।
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥४॥

दायादं मत्स्यराजस्य कुले जातं मनस्विनाम् ।
त्वां कथं निन्दितं कर्म कारयेयं नृपात्मज ॥५॥

दायादं पुत्रम् ॥५॥

वैशम्पायन उवाच ।
एवमुक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली ।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥६॥

तमन्वशासच्छत्रुघ्नो रथे तिष्ठन् धनंजयः ।
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ॥७॥

परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ।
सोऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् ।
परिवेष्टनपत्राणि विमुच्य समुपानयत् ॥८॥

अपहृत्य वृक्षादध आनीय ॥८॥

तथा संनहनान्येषां परिमुच्य समंततः ।
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ॥९॥

संनहनानि धनुषां बन्धनानि ॥९॥

तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् ।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥१०॥

स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् ।
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ॥११॥

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च ।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥१२॥

इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि उत्तरगोग्रहे अस्त्रारोपणे एकचत्वारिंशोऽध्यायः ॥४१॥
द्विचत्वारिंशोऽध्यायः

उत्तर उवाच ।
बिन्दवो जातरूपस्य शतं यस्मिन् निपातिताः ।
सहस्रकोटिसौवर्णाः कस्यैतद्धनुरुत्तमम् ॥१॥

अस्मिन्निति ॥१॥
कस्य जातरूपस्य जातकीर्तेः ‘रूपं स्वभावे सौन्दर्ये नालोकपशुवृन्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि’ इति मेदिनी । बिन्दवः सौवर्णा इति संबन्धः । सहस्रे सहस्वत्यौ बलवत्यौ दीप्तिमत्यौ वा कोटी प्रान्तौ यस्य तत् सहस्रकोटि । ‘सहो बले ज्योतिषि च’ इति मेदिनी । सहस्शब्दान्मत्वर्थीयो रप्रत्ययः ॥१॥

वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः ।
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥२॥

दंशिताः भासमानाः सुग्रहं गृह्यतेऽस्मिन्निति ग्रहो मध्यम् ॥२॥

तपनीयस्य शुद्धस्य पृष्ठे यस्येन्द्रगोपकाः ।
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥३॥

तपनीयस्य सुवर्णस्य इन्द्रगोपकाः कीटविशेषाः रक्तपीतभास्वरवर्णः ॥३॥

सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः ।
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥४॥

शलभा यत्र सौवर्णास्तपनीयविभूषिताः ।
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥५॥

सौवर्णाः शलभाः सुवर्णः कृष्णागुरुवर्णं द्रव्यं ‘मीना’ इति संज्ञितं तन्मयाः तेषु हि नीलवर्णेषु तपनीयाख्यस्वर्णभूषणानि शोभन्ते । ‘सुवर्णश्च सुवर्णा च कृष्णागुरुमखांतरे’ इति विश्वः । सुवर्णमणयः स्वर्णबिन्दवः शोभनवर्णमणिखचितत्वाद्वा सुवर्णमणिचित्रत्वम् ॥५॥

इमे च कस्य नाराचाः सहस्त्रा लोमवाहिनः ।
समन्तात् कलधौताग्रा उपासङ्गे हिरण्मये ॥६॥

साहस्राः सहस्रशः संख्याताः । लोमवाहिनः पत्रवन्तः । लोमच्छेदिन इत्यन्ये उपासङ्गे निषङ्गे ॥६॥

विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः ।
हारिद्रवर्णाः सुमुखाः पीताः सर्वायसाः शराः ॥७॥

विपाठाः स्थूलदण्डा बाणविशेषाः । ‘विपाठः स्थूलदण्डः स्यात्’ इति कल्पद्रुः । गार्ध्रपत्राः गृध्रपत्रवाहिनः शिलाशिताः शिलायां तीक्ष्णीकृताः पीताः कर्मारेण तेजनजलं पायिताः सर्वायसाः केवलं लोहमयाः । काष्ठद‌ण्डरहिता इत्यर्थः ॥७॥

कस्यायमसितश्चापः पञ्चशार्दूललक्षणः ।
वराहकर्णव्यामिश्रान् शरान् धारयते दश ॥८॥

वराहकर्णाकारैः शल्यैः व्यामिश्रान् युक्तान् धारयते शरान् चित्ररूपानेवेति भावः ॥८॥

कस्येमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः ।
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥९॥

चन्द्रबिम्बार्धवद्दर्शनं येषामर्धचन्द्राकारा इत्यर्थः ॥९॥

कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः ।
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥१०॥

पूर्वैरुपरिस्थैरर्धैः उपलक्षिताः सुवाससः सुपुङ्खा बाणा एव उत्तरैरग्रभागैः हेमपुङ्‌खैः सुवर्णधाराचित्रितैः ॥१०॥

गुरुभारसहो दिव्यः शात्रवाणां भयंकरः ।
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ॥११॥

शिली भेकी पृष्ठे चित्ररूपेण यस्य परिचयार्थं शिलीमुखो भेक्या मुखमिव मुखं यस्य सायकः खड्गः । ‘शरे खड्गे च सायकः’ इत्यमरः ॥११॥

वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ।
सुफलश्चित्रकोशश्च किङ्किणीसायको महान् ॥१२॥

वैयाघ्रकोशे व्याघ्रचर्मकोशे । ‘त्सरुः खड्गादिमुष्टौ स्यात्’ इत्यमरः । सुफलः शोभनभल्लिकः । ‘फलं शस्त्राग्रे व्युष्टिलाभयोः’ इति विश्वः । किंकिणीयुक्तः सायकः ॥१२॥

कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्मलः ।
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः ॥१३॥

गव्ये गोचर्मजे ॥१३॥

हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ।
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः ॥१४॥

नैषध्यो निषधदेशजः पाञ्चनखे अजचर्मजे । ‘पञ्चनखोऽजे कूर्मे’ इति विश्वः। हेमविग्रहः सुवर्णेनालङ्कृतदेहः ॥१४॥

प्रमाणरूपसंपन्नः पीत आकाशसन्निभः ।
कस्य हेममये कोशे सुतप्ते पावकप्रभे ॥१५॥

आकाशसन्निभः कृष्णभास्वरः ॥१५॥

निस्त्रिंशोऽयं गुरुः पीतः सायकः परनिर्व्रणः ।
कस्यायमसितः खड्गो हेमबिन्दुभिरावृतः ॥१६॥

निस्त्रिंशः त्रिंशतोऽङ्गुलिभ्यो निर्गतः त्रिंशदङ्गुलाधिकः सायकः खड्गः । परेषां शस्त्रेण निर्गतो व्रणो यस्य परानभिभूतः । शिक्य इति पाठे पुरुषद्वयेनोह्यमाना सांगीति प्रसिद्धा तद्योग्यः ॥१६॥

आशीविषसमस्पर्शः परकायप्रभेदनः ।
गुरुभारसहो दिव्यः सपत्नानां भयप्रदः ॥१७॥

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नले ।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥१८॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरवाक्यं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥
त्रिचत्वारिंशोऽध्यायः

बृहन्नलोवाच ।
यन्मां पूर्वमिहापृच्छः शत्रुसेनापहारिणम् ।
गाण्डीवमेतत् पार्थस्य लोकेषु विदितं धनुः ॥१॥

यन्मामिति । अपहरतीत्यपहारी कालः सोऽस्त्यस्मिन्नित्यपहारिणम् । पामादित्वान्मत्वर्थीयो न प्रत्ययः कालरूपीत्यर्थः ॥१॥

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् ।
एतत्तद‌र्जुनस्यासीद्गाण्डीवं परमायुधम् ॥२॥

यत्तच्छतसहस्त्रेण संमितं राष्ट्रवर्द्धनम् ।
येन देवान्मनुष्यांश्च पार्थो विजयते मृधे ॥३॥

धनुषां शतसहस्रेण लक्षेण संमितम् ॥३॥

चित्रमुच्चावचैर्वणैः श्लक्ष्णमायतमव्रणम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥४॥

एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ।
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् ॥५॥

त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ।
सोमः फञ्चशतं राजा तथैव वरुणः शतम् ।
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ॥६॥

त्रीणि वर्षाणि पञ्चशतं वर्षाणि प्रजापतिरधारयदिति संबन्धः । अत्र ब्रह्मादीनां वर्षाणि देवमानेनैव ज्ञेयानि यो ह्यस्माकं सौरः संवत्सरः स तेषामेकं दिनमिति शास्त्रप्रसिद्धम् । पार्थः पञ्च च षष्टिं च इत्यत्र तु वर्षशब्दो वृष्टिपरः । तथा च संवत्सरे वर्षद्वयं जायते । तथा हि ‘एकेन वर्षेण तृप्तः शरदि व्रीह्याग्रयणं करोति अपरेण तृप्तो वसन्ते यवाग्रयणं करोति’ तथाचाग्रयणं प्रकृत्य आश्वलायनः श्रुतिमुदाहरति- ’अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याग्रयणेन हि यजेत’ इति । तथाऽन्यत्रापि तदेव प्रकृत्य श्रुतं ‘व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेताथ यवेभ्यो यवैरिष्ट्वा यवैरेव यजेत व्रीहिभ्यः’ इति । एवं चैकस्मिन् संवत्सरे कर्कायनाद्येकं वर्षमपरं मकरायनादीति द्वे वर्षे ततश्च सार्थद्वात्रिंशता संवत्सरैः पञ्चषष्टिर्वर्षाणि भवन्तीति युक्तमुक्तं पार्थः पञ्च च षटिं च वर्षाणि एतद्धनुर्दधारेति । अन्ये तु अतीतमनागतं च कालमेकीकृत्य पञ्चषष्टिसंवत्सरं धनुर्द्धारणं वर्णयन्ति । ‘वर्षोऽस्त्री भारतादौ तु जम्बूद्वीपाब्दवृष्टिषु’ इति मेदिनी । ‘वृष्टिर्वर्षम्’ इत्यमरश्च । तत्र प्राचां मतेऽधारयदिति भूतकालानुपपत्तिः । वक्तुः कदाचिदायुर्ज्ञानकल्पनेऽपि प्रतिपत्तुः पारोक्ष्येणार्जुनवयोविदोऽप्रतिपत्तिश्चेति विचारणीयम् । अस्माकं तु गाण्डीवलाभानन्तरं गतेषु सार्धद्वात्रिंशद्वर्षेषु त्रयोदशवर्षाणि वनवासे । ब्राह्मणकार्यार्थमायुधागारं प्रविष्टस्यार्जुनस्य द्रौपदीधर्मराजयोः सहासनकालेऽनुप्रवेशनिमित्ते द्वादशवर्षाणि इति पञ्चविंशतिर्गतानि अन्यान्यपि दिग्विजयराजसूयराज्यकरणादिकाले प्रागेव सार्धसप्तवर्षाणि गतानीति समुन्नेयम् ॥६॥

महावीर्यं महादिव्यमेतत् तद्धनुरुत्तमम् ।
एतत् पार्थमनुप्राप्तं वरुणाच्चारुदर्शनम् ॥७॥

पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ।
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः ।
येन पार्थोऽजयत्‌ कृत्स्नां दिशं प्राचीं परंतपः ॥८॥

इन्द्रगोपकचित्रं च यदेतच्चारुदर्शनम् ।
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ॥९॥

सूर्या यस्मिंस्तु सौवर्णाः प्रकाशन्ते प्रकाशिनः ।
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ॥१०॥

शलभा यत्र सौवर्णास्तपनीयविचित्रिताः ।
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ॥११॥

ये त्विमे क्षुरस‌ङ्काशाः सहस्रा लोमवाहिनः ।
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ॥१२॥

सहस्त्राः तेजस्विनो दृढाः सहस्रशः संमिता वा ॥१२॥

एते ज्वलन्तः स‌ङ्ग्रामे तेजसा शीघ्रगामिनः ।
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् ॥१३॥

व्यूहतः क्षिपतः ॥१३॥

ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः ।
एते भीमस्य निशिता रिपुक्षयकराः शराः ॥१४॥

हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः ।
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ॥१५॥

येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे ।
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ॥१६॥

ये त्विमे भास्कराकाराः सर्वपारसवाः शराः ।
एते चित्रक्रियोपेताः सहदेवस्य धीमतः ॥१७॥

सर्वपारसवाः सर्वं च तत्पारं परसमूहं सुवते हिंसन्ति ते सर्वपारसवाः सर्वशत्रुसमूहनाशकराः ॥१७॥

ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः ।
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ॥१८॥

यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।
अर्जुनस्यैष सङ्ग्रामे गुरुभारसहो दृढः ॥१९॥

वैयाघ्रकोशः सुमहान् भीमसेनस्य सायकः ।
गुरुभारसहो दिव्यः शात्रवाणां भयङ्करः ॥२०॥

सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः ।
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ॥२१॥

यस्तु पाञ्चनखे कोशो निहितश्चित्रयोधने ।
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥२२॥

चित्रयोधने विचित्रयुद्धनिमित्तं निहितः पालितः ॥२२॥

यस्त्वयं विपुलः खड्गो गव्ये कोशे समर्पितः ।
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ॥२३॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे आयुधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥
चतुश्चत्वारिंशोऽध्यायः

उत्तर उवाच ।
सुवर्णविकृतानीमान्यायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥१॥

सुवर्णेति ॥१॥

क्व नु स्विदर्जुनः पार्थः कौरव्यौ वा युधिष्ठिरः ।
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥२॥

सर्व एव महात्मानः सर्वामित्रविनाशनाः ।
राज्यमक्षैः पराकीर्य न श्रूयन्ते कथंचन ॥३॥

पराकीर्य अपास्य ॥३॥

द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता ।
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥४॥

अर्जुन उवाच ।
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः ।
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥५॥

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले ।
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥६॥

उत्तर उवाच ।
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे ।
प्रबूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥७॥

अर्जुन उवाच ।
हन्त तेऽहं समाचक्षे दश नामानि यानि मे ।
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते ॥८॥

एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः ।
अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥९॥

नररूपस्य मम महाविष्णोर्नामानि संकटे स्मर्यमाणानि विजयावहानीत्यभिप्रेत्याह एकाग्रेति ॥९॥

उत्तर उवाच ।
केनासि विजयो नाम केनासि श्वेतवाहनः ।
किरीटी नाम केनासि सव्यसाची कथं भवान् ॥१०॥

अर्जुनः फाल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च ।
धनंजयश्च केनासि ब्रूहि तन्मम तत्त्वतः ॥११॥

श्रुता मे तस्य वीरस्य केवला नामहेतवः ।
तत्सर्वं यदि मे ब्रूयाः श्रदद्ध्यां सर्वमेव ते ॥१२॥

अर्जुन उवाच ।
सर्वाञ्जनपदाञ्जित्वा वित्तमादाय केवलम् ।
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥१३॥

अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् ।
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥१४॥

श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः ।
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥१५॥

उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥१६॥

नक्षत्राभ्यां ताराभ्यां तत्र स्थिते चन्द्रे इत्यर्थः । उत्तराभ्यां च पूर्वाभ्यामिति पाठे नक्षत्रसन्धौ इत्यर्थः ॥१६॥

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः ।
किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मां किरीटिनम् ॥१७॥

न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन ।
तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः ॥१८॥

बीभत्सुरिति । भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ॥१८॥

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे ।
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥१९॥

विकर्षणे शक्तौ इति शेषः। सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाचीत्यर्थः ॥१९॥

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः ।
करोमि कर्म शुक्लं च तस्मान्मामर्जुनं विदुः ॥२०॥

अर्जुन इति ‘ऋज गतिस्थानार्जनोपार्जनेषु’ इत्यतः उनन् प्रत्यये भवति । वर्णो दीप्तिः समः ऋजुः दीप्तिमत्त्वात् समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ॥२०॥

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः ।
तेन देवमनुष्येषु जिष्णुर्नामाऽस्मि विश्रुतः ॥२१॥

जिष्णुर्जयशीलः ॥२१॥

कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।
कृष्णावदातस्य ततः प्रियत्वाद्बालकस्य वै ॥२२॥

कृष्णावदातस्य कृष्णभास्वरवर्णस्य कर्षति चित्तमिति मनोहरत्वाद्वा कृष्ण इत्याह प्रियत्वादिति ॥२२॥

वैशम्पायन उवाच ।
ततः स पर्थं वैराटिरभ्यवादयदन्तिकात् ।
अहं भूमिजयो नाम नाम्नाऽहमपि चोत्तरः ॥२३॥

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजकरोपम ॥२४॥

नागराज ऐरावतः तस्येव करोपमा हस्तयोः सादृश्यं यस्य हस्तिहस्तोपमकरेत्यर्थः ॥२४॥

यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ।
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् ।
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥२५॥

कर्म दिग्विजयादि ॥२५॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे अर्जुनपरिचये चतुश्चत्वारिंशोऽध्यायः ॥४४॥
पञ्चचत्वारिंशोऽध्यायः

उत्तर उवाच ।
आस्थाय रुचिरं वीर रथं सारथिना मया ।
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥१॥

आस्थायेति ॥१॥

अर्जुन उवाच ।
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव ।
सर्वान्नुदामि ते शत्रून् रणे रणविशारद ॥२॥

नुदामि दूरीकरोमि ॥२॥

स्वस्थो भव महाबाहो पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन् कुर्वाणं भैरवं महत् ॥३॥

भैरवं भयानकं महत् कर्म कुर्वाणम् ॥३॥

एतान्सर्वानुपासङ्गान् क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥४॥

उपासङ्गान् तूणीरान् ॥४॥

वैशम्पायन उवाच ।
अर्जुनस्य वचः श्रुत्वा त्वरावानुत्तरस्तदा ।
अर्जुनस्यायुधान् गृह्य शीघ्रेणावातरत्ततः ॥५॥

गृह्य गृहीत्वा शीघ्रेण वेगेन ततः शमीतोऽवातरत् इतरेषामायुधानि तत्र निधायेति शेषः ॥५॥

अर्जुन उवाच ।
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥६॥

अवजेष्यामि हेलया जेष्यामि ॥६॥

संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् ।
त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम् ॥७॥

त्वं तु भयं त्यजेत्याह संकल्पेति त्रिभिः । इदं मया गुप्तं रक्षितं रथोपस्थं रथोपरिभागस्ते तव नगरं नगरवद्रक्षकं भविष्यति । तत्र रथाङ्गेषु नगराङ्गसंपत्तिमाह- संकल्पपक्षविक्षेपमिति । संकल्पः सम्यक्कल्पनं चक्राक्षध्वजकूबरयुगादीनामङ्गानां दार्ढ्येन समर्थनं तदेव पक्षयोर्वीथीनां पार्श्वयोः विक्षेपो विस्तारो यस्मिन् बाहू एव स्वीयौ बाहुतुल्यत्वाद्बान्धवा एव वा प्राकारः पुरपरिधिभित्तिस्तस्मिंस्तोरणं पुरद्वारं यस्मिन् । रथिसारथ्योरपि रथाङ्गत्वविवक्षया एतदुक्तम् । त्रिदण्डः ईषा तदुभयपार्श्वदारुणी चेति मिलित्वा त्रिदण्ड उच्यते स च तूणो निषङ्गश्च ताभ्यां सम्बन्धं सङ्कटं दुष्प्रवेशम् । पक्षे त्रिदण्डं सैन्यत्रयं रथिनां हस्तिसादिनां हयसादिनां चेति त्रीणि सैन्यानि तेषां तूणोपलक्षितानि आयुधानि तैः संबाधमनेकध्वजसंकुलं बहुध्वजव्याप्तम् । अनेकेन अनन्येन ध्वजेन वानरेण सङ्कुलं भयंकरम् ‘एके मुख्यान्यकेवलाः’ इति नानार्थः ॥७॥

व्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥८॥

ज्या धनुर्मौर्वी सैव क्षेपणानि गोलासनानि नालिकाख्यानि यस्मिन् । क्रोधेन परजिघांसाहेतुना चित्तवृत्तिविशेषेण निमित्तभूतेन कृतं परिष्कृतं द्वयमपि ॥८॥

अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना ।
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥९॥

फलितमाह अधिष्ठित इति ॥९॥

उत्तर उवाच ।
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि ।
केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ॥१०॥

केशवेन इन्द्रेण वा समं सार्धं सङ्ग्रामे त्वां स्थिरं जानामि ॥१०॥

इदं तु चिन्तयन्नेवं परिमुह्यामि केवलम् ।
निश्चयं चापि दुर्मेधा न गच्छामि कथंचन ॥११॥

एवं युक्ताङ्गरूपस्य लक्षणैः सूचितस्य च ।
केन कर्मविपाकेन क्लीबत्वमिद‌मागतम् ॥१२॥

युक्ताङ्गरूपस्य युक्तानि समीचीनानि अङ्गानि युद्धाङ्गानि शस्त्रास्त्रनैपुणादीनि रूपमाकृतिश्च यस्य लक्षणैः पञ्चरक्तत्वादिभिः ॥१२॥

मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् ।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥१३॥

परवान् नाथवान् उत्तीर्णमापद्भ्य इति शेषः ॥१३॥

अर्जुन उवाच ।
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।
चरामि व्रतचर्यं च सत्यमेतद्ब्रवीमि ते ॥१४॥

नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥१५॥

उत्तर उवाच ।
परमोऽनुग्रहो मेऽद्य यतस्तर्को न मे वृथा ।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तम ॥१६॥

सहायवानस्मि रणे युध्येयममरैरपि ।
साध्वसं हि प्रनष्टं मे किं करोमि ब्रवीहि मे ॥१७॥

अहं ते संग्रहीष्यामि हयान् शत्रुरथारुजान् ।
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ॥१८॥

शत्रुरथारुजान् शत्रुरथभञ्जकान् । मूलविभुजादित्वात् कः तीर्थतो गुरुतः ॥१८॥

दारुको वासुदेवस्य यथा शक्रस्य मातलिः ।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥१९॥

यस्य याते न पश्यन्ति भूमौ क्षिप्तं पदं पदम् ।
दक्षिणां यो धुरं युक्तः सुग्रीवसदृशो हयः ॥२०॥

याते गमने पदं पदं सर्वमपि पदं भूमौ क्षिप्तं तत उद्गृहीतं वा न पश्यन्ति वेगवत्त्वात् सुग्रीवमेघपुष्पशैब्यबलाहका भगवतोऽश्वास्तत्साम्यमेषां वाहानामुक्तम् ॥२०॥

योऽयं धुरं धुर्यवरो वामां वहति शोभनः ।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥२१॥

योऽयं काञ्चनसन्नाहः पार्ष्णिं वहति शोभनः ।
समं शैव्यस्य तं मन्ये जवेन बलवत्तरम् ॥२२॥

पार्ष्णिं पुरः स्थितयोरश्वयोः पृष्ठभागं पाश्चात्यं युगमिति यावत् । ‘पार्ष्णिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे’ इति मेदिनी ॥२२॥

योऽयं वहति मे पार्ष्णिं दक्षिणामभितः स्थितः ।
बलाहकादपि मतः स जवे वीर्यवत्तरः ॥२३॥

त्वामेवायं रथो बोढुं सङ्ग्रामेऽर्हति धन्विनम् ।
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ॥२४॥

वैशम्पायन उवाच ।
ततो विमुच्य बाहुभ्यां वलयानि स विर्यवान् ।
चित्रे काञ्चनसन्नाहे प्रत्यमुञ्चत् तदा तले ॥२५॥

पर्यमुञ्चत्त तदा शुभे इति पाठे तु कुण्डले इति शेषः ॥२५॥

कृष्णान् भङ्गिमतः केशान् श्वेतेनोद्ग्रथ्य वाससा ।
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः ।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥२६॥

भङ्गिमतः कौटिल्यवतः अभिदध्यौ स्मृतवान् ॥२६॥

ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् ।
इमे स्म परमोदाराः किंकराः पाण्डुनन्दन ॥२७॥

प्रणिपत्य ततः पार्थः समालभ्य च पाणिना ।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ॥२८॥

मानसानि प्रयोजनकाले स्मृतिगोचराणि ॥२८॥

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥२९॥

प्रतिगृह्य अनुकूलानि कृत्वा व्याक्षिपत् टणत्कारितवान् ॥२९॥

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महाध्वनिः ।
यथा शैलस्य महतः शैलेनैवावजघ्नतः ॥३०॥

अवजघ्नतः अवहन्यमानस्य अभिनिघ्नत इति पाठान्तरम् ॥३०॥

स निर्घातोऽभवद्भूभिद्दिक्षु वायुर्ववौ भृशम् ।
पपात महती चोल्का दिशो न प्रचकाशिरे ।
भ्रान्तध्वजं खं तदासीत्प्रकम्पितमहाद्रुमम् ॥३१॥

भूभित् भूविदारकः प्रचकाशिरे प्रकाशवत्योऽभूवन् । भ्रान्ता इतश्चलिताः ध्वजा यस्मिन् । एतेन परसैन्यवाहेषु शब्दजात्त्रासादुत्पथगामित्वं व्यज्यते प्रकम्पितमहाद्रुममित्यनेन भूमिकम्पो व्यज्यते ॥३१॥

तं शब्दं कुरवोऽजानन् विस्फोटमशनेरिव ।
यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ॥३२॥

उत्तर उवाच ।
एकस्त्वं पाण्डवश्रेष्ठ बहूनेतान् महारथान् ।
कथं जेष्यसि सङ्ग्रामे सर्वशस्त्रास्त्रपारगान् ॥३३॥

असहायोऽसि कौन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥३४॥

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥३५॥

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत् सखा मम ॥३६॥

तथा प्रतिभये तस्मिन् देवदानवसंकुले ।
खाण्डवे युध्यमानस्य कस्तदासीत् सखा मम ॥३७॥

निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत्॥३८॥

स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे ।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥३८॥

उपजीव्य गुरुं द्रोणं शक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ॥३९॥

पिनाकपाणिनं चैव कथमेतान्न योधये ।
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥४०॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे उत्तरार्जुनयोर्वाक्यं नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥
षट्चत्वारिंशोऽध्यायः

वैशम्पायन उवाच ।
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।
आयुधं सर्वमादाय प्रययौ पाण्डवर्षभः ॥१॥

उत्तरमिति ॥१॥

ध्वजं सिंहं रथात् तस्मादपनीय महारथः ।
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥२॥

सिंहं सिंहाकारम् ॥२॥

देवीं मायां रथे युक्तां विहितां विश्वकर्मणा ।
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥३॥

दैवी मायामित्यद्भुतत्वं ध्वजस्य दर्शितम् । मायामय इव ध्वजोऽद्भुत इत्यर्थः । विश्वकर्मणा ब्रह्मणा भौमनेन वा काञ्चनं काञ्चनवर्णं सिंहं हिंस्रं लाङ्गूलं यस्य पुच्छविक्षेपणेनैव बहून् हस्त्यादीन् पोथयन्तमित्यर्थः । वानरलक्षणं वानरस्वरूपम् ॥३॥

मनसा चिन्तयामास प्रसादं पावकस्य च ।
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यदेशयत् ॥४॥

प्रसादं प्रसादप्राप्तं सः पावकः तच्चिन्तितम् अर्जुनचिन्तितम् अदेशयत् अयोजयत् ॥४॥

सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् ।
खात् पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥५॥

रथं तमागतं दृष्ट्वा दक्षिणं प्राकरोत् तदा ।
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ॥६॥

बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं च कपिप्रवरकेतनः ॥७॥

स्वनवन्तं महाशङ्खं बलवानरिमर्दनः ।
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥८॥

ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् ।
उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ॥९॥

ते जवनाः प्रसिद्धाः वेगवन्तोऽग्निदत्तरथस्थाः ॥९॥

संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः ।
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥१०॥

संस्थाप्य यथावत्कृत्वा ॥१०॥

अर्जुन उवाच ।
मा भैस्त्वं राजपुत्राग्र्यं क्षत्रियोऽसि परंतप ।
कथं तु पुरुषव्याघ्र शत्रुमध्ये विषीदसि ॥११॥

श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥१२॥

स त्वं कथमिहानेन शङ्खशब्देन भीषितः ।
विवर्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥१३॥

उत्तर उवाच ।
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।
कुञ्जराणां निनदतां व्यूढानीकेषु तिष्ठताम् ॥१४॥

नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः ।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ॥१५॥

धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ।
अस्य शङ्खस्य शब्देन धनुषो निःस्वनेन च ॥१६॥

अमानुषाणां शब्देन भूतानां ध्वजवासिनाम् ।
रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥१७॥

व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे ।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ॥१८॥

गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ।
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥१९॥

अर्जुन उवाच ।
एकान्तं रथमास्थाय पद्भ्यां त्वमवपीडयन् ।
दृढं च रश्मीन् संयच्छ शङ्खं ध्मास्याम्यहं पुनः॥२०॥

एकान्तं सुदृढम् । सप्तम्यन्तपाठस्तु लेखकप्रमादः । रथं सुदृढमवलम्ब्येत्यर्थः ॥२०॥

वैशम्पायन उवाच ।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान् ।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥२१॥

उत्तरश्चापि संलीनो रथोपस्थ उपाविशत् ।
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ॥२२॥

गाण्डीवस्य च घोषेण पृथिवी समकम्पत ।
तं समाश्वासयामास पुनरेव धनञ्जयः ॥२३॥

द्रोण उवाच ।
यथा रथस्य निर्घोषो यथा मेघ उदीर्यते ।
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः॥२४॥

शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः ।
अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ॥२५॥

प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः ।
ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ॥२६॥

शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ।
गोमायुरेष सेनायां रुदन्मध्येन धावति ॥२७॥

अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ।
भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ॥२८॥

अनाहतः अक्षतो धावति ॥२८॥

ध्रुवं विनाशो युद्धेन क्षत्रियाणां प्रदृश्यते ।
ज्योतींषि न प्रकाशन्ते दारुणा मृगपक्षिणः ॥२९॥

उत्पाता विविधा घोरा दृश्यन्ते क्षत्रनाशनाः ।
विशेषत इहास्माकं निमित्तानि विनाशने ॥३०॥

ज्योतींषि सूर्यचक्षुर्वाङ्मनांसि ॥३०॥

उल्काभिश्च प्रदीप्ताभिर्बाध्यते पृतना तव ।
वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते ॥३१॥

उपासते च सैन्यानि गृध्रास्तव समन्ततः ।
तष्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ।
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति ॥३२॥

विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ॥३३॥

इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि उत्तरगोग्रहे औत्पातिको नाम षट्चत्वारिंशोऽध्यायः ॥४६॥
सप्तचत्वारिंशोऽध्यायः

वैशम्पायन उवाच ।
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् ।
द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥१॥

अथेति ॥१॥

उक्तोऽयमर्थ आचार्यौ मया कर्णेन चासकृत् ।
पुनरेव प्रवक्ष्यामि न हि तृप्यामि तं ब्रुवन् ॥२॥

आचार्यौ द्रोणं कृपं च प्रति मयाऽयमर्थ उक्तः । पाठान्तरेऽयमाचार्योऽस्मिन्नर्थे विषये मया कर्णेन चोक्त इति योजना ॥२॥

पराभूतैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् ।
वने जनपदे ज्ञातैरेष एव पणो हि नः ॥३॥

तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् ।
अज्ञातवासो बीभत्सुरथास्माभिः समागतः ॥४॥

अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥५॥

लोभाद्वा ते न जानीयुरस्मान् वा मोह आविशत् ।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥६॥

हीनेति । न जातमधिकं वाऽज्ञातवासकालं ज्ञातुमर्हति ॥६॥

अर्थानां च पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ॥७॥

तत्र ऊनपक्षे इष्टमेव सिद्धम् । अधिकपक्षेऽपि दोषमाह- अर्थानामिति । द्वैधे द्विप्रकारत्वे संशयो भवति अर्थानां प्रयोजनानाम् । अयं भावः - यदि ते निस्तीर्णप्रतिज्ञास्तर्हि तेषां स्वांशलाभार्थं मामुपगतानां मत्प्रसादतस्तत्प्राप्तिर्वेति द्वैधे संभवति संशयाक्रान्तानामकस्माद्युद्धार्थमागमनं दोष एवेति । पूर्ववैरेण सत्यपि संशयेऽस्माज्जिघांसया आगतानां पराजयोऽपि संभाव्यत इत्याहान्यथेति । अन्यायेन युध्यतः पराजयेऽप्यधिकैव नष्टिरस्तीति भावः ॥७॥

उत्तरं मार्गमाणानां मत्स्यानां च युयुत्सताम् ।
यदि बीभत्सुरायातस्तदा कस्यापराध्नुमः ॥८॥

उत्तरं गोग्रहं मार्गमाणानामिच्छतामस्माकम् । अनादरे षष्ठी । अस्मान् अनादृत्येत्यर्थः । वालिसुग्रीवयोर्युद्धे प्रविशन् राम इवार्जुनोऽपि कुरुमत्स्यसंनिपाते प्रविशन्नपराधी स्यादित्यर्थः ॥८॥

त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः ।
मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ॥९॥

ननु तर्हि मत्स्यत्रिगर्तविमर्दे कुरुभिरपि किमर्थं गन्तव्यमित्याशङ्क्याह त्रिगर्तानामित्यादिना । ते तव समक्षमिति शेषः ॥९॥

तेषां भयाभिभूतानां तदस्माभिः प्रतिश्रुतम् ।
प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ।
सप्तम्यामपराह्णे वै तथा तैस्तु समाहितम् ॥१०॥

तेषां त्रिगर्तानामर्थे तत् मत्स्यैः सह युद्धं प्रतिश्रुतम् ॥१०॥

अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ।
इमा गावो ग्रहीतव्या गते मत्स्ये गवां पदम् ॥११॥

न केवलं मित्रपक्षपातमात्रमस्माकमस्ति अपि तु स्वार्थोऽप्यस्तीत्याह अष्टम्यामिति । तथा च स्वार्थं युध्यतां नास्माकमपराधोऽस्ति । मत्स्ये गवां त्रिगतैर्हृतानां पदं मार्गं गते सति अस्माभिरिमा गावो ग्रहीतव्याः ॥११॥

ते वा गाश्चानयिष्यन्ति यदि वा स्युः पराजिताः ।
अस्मान् ‌वा ह्युपसंधाय कुर्युर्मत्स्येन संगतम् ॥१२॥

ते त्रिगर्ताः उपसंधाय वञ्चयित्वा मत्स्येन सङ्गतं स्नेहं कुर्युः । सर्वथा पक्षत्रयेऽप्यस्माभिरिदानीं योद्धव्यमेवेत्यर्थः ॥१२॥

अथवा तानपाहाय मत्स्यो जनपदैः सह ।
सर्वया सेनया सार्धं संवृतो भीमरूपया ।
आयातः केवलं रात्रिमस्मान्योद्धुमिहागतः ॥१३॥

तान् त्रिगर्तानपाहाय गोभिः सह उपेक्ष्य केवलं रात्रिं रात्रौ स्वगृहमायात इदानीं प्रातरस्मान्योद्धुमिहागत इति संबन्धः ॥१३॥

तेषामेव महावीर्यः कश्चिदेष पुरःसरः ।
अस्मान् जेतुमिहायातो मत्स्यो वाऽपि स्वयं भवेत् ॥१४॥

पक्षान्तरमाह- तेषामिति ॥१४॥

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥१५॥

फलितमाह- सर्वैरिति । सर्वैरस्माभिरेकीभूय ये आगतास्तैः सह योद्धव्यमेवेत्यर्थः ॥१५॥

अथ कस्मात् स्थिता ह्येते रथेषु रथसत्तमाः ।
भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ॥१६॥

संभ्रान्तमनसः सर्वे काले ह्यस्मिन् महारथाः ।
नान्यत्र युद्धाच्छ्रेयोऽस्ति तथाऽत्मा प्रणिधीयताम् ॥१७॥

आत्मा चित्तं प्रणिधीयतां सावधानं क्रियताम् ॥१७॥

आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा ।
यमेन वाऽपि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ॥१८॥

लब्धस्य गोधनस्य नाशेऽस्माभिः स्वपुरं न प्रवेष्टव्यमिति प्रतिजानीते - आच्छिन्न इति । पदातयस्त्वस्मिन्युद्धे नङ्क्ष्यन्त्येवाश्वास्तु कदाचिज्जीविष्यन्त्यपीत्याह - शरैरिति प्राचां व्याख्या वक्तुरपकर्षसूचिका । वस्तुतस्तु आच्छिन्नेऽपहृते गोधने निमित्ते देवेन वा सह सङ्ग्रामे उपस्थिते सत्यस्माकं भीष्मादीनां मध्ये ह इति प्रसिद्धः कोऽस्ति यो न पुरं व्रजेत् अपि तु प्रत्येकं सर्वे एव स्वं पुरं गन्तुं देवानपि जेतुं गाश्चाच्छेत्तुं समर्थाः स्म इत्यर्थः ॥१८॥

शरैरेभिः प्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत् पदातीनां भवेद‌श्वेषु संशयः ॥१९॥

शैररिति । एभिरिति स्वकीयशरप्रदर्शनम् ॥१९॥

दुर्योधनवचः श्रुत्वा राधेयस्त्वब्रवीद्वचः ।
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥२०॥

आचार्यं रणाद्भीतं पृष्ठतः कृत्वा सेनामुखादपसार्य अस्मिन् भीते सर्वेऽपि भीताः स्युरिति भावः ॥२०॥

जानाति हि मतं तेषामतस्त्रासयतीह नः ।
अर्जुने चास्य सम्प्रीतिमधिकामुपलक्षये ॥२१॥

तेषां पाण्डवानां मतं संमतमस्मत्तेजोवधकरणं जानातीति ॥२१॥

तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥२२॥

ह्रेषितं ह्युपशृण्वाने द्रोणे सर्वं विघट्टितम् ।
अदेशिका महारण्ये ग्रीष्मे शत्रुवंशं गताः ।
यथा न विभ्रमेत् सेना तथा नीतिर्विधीयताम् ॥२३॥

द्रोणे भीते सति सर्वं विघट्टितं विचलितं भवेत् । सामर्थ्यमिति शेषः । ग्रीष्मे घर्मकाले वसन्त इत्यर्थः । इतः षण्मासानन्तरं युद्धारम्भस्य शरदि दृष्टत्वात् । अदेशिकाः स्वदेशाच्च्युताः व्यूहभङ्गो मा भूदित्यर्थः ॥२३॥

इष्टा हि पाण्डवा नित्यमाचार्यस्य विशेषतः ।
आसयन्नपरार्थाश्च कथ्यते स्म स्वयं तथा ॥२४॥

इष्टा हीति । पाण्डवाः अपरार्थाः नास्ति परार्थो येषां तेऽपरार्थाः स्वार्थपरा आसयन् द्रोणं त्वत्समीपे स्थापितवन्तः । परकीयोऽयमित्यर्थः । तत्र हेतुमाह - स्वयं द्रोणेन तथा कथ्यते यथा पाण्डवीयत्वं स्वस्य प्रकाशते तथेत्यर्थः ॥२४॥

अश्वानां ह्रेषितं श्रुत्वा कः प्रशंसापरो भवेत् ।
स्थाने वाऽपि व्रजन्तो वा सदा ह्रेषन्ति वाजिनः ॥२५॥

एतदेव विवृणोति- अश्वानामित्यादिना ॥२५॥

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥२६॥

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।
अन्यत्र कामाद्द्वेषाद्वा रोषादस्मासु केवलात् ॥२७॥

पार्थस्यार्जुनस्यागमनेऽत्र किं कार्यं किमर्थं वासोऽनेन प्रशस्यते तत्र हेतुः- अन्यत्र पार्थश्रेयसि कामादभिलाषादस्मासु वा द्वेषात् जिघांसातः । रोषात् तन्मूलादभिज्वलनात् ॥२७॥

आचार्या वै कारुणिकाः प्राज्ञाश्चापापदर्शिनः ।
नैते महाभये प्राप्ते संप्रष्टव्याः कथञ्चन ॥२८॥

द्रोणमुपहसति आचार्या इत्यादिना । कारुणिका इत्यनेन युद्धधर्मानभिज्ञत्वमुक्तम् । अपापमहिंसा तद्दर्शिनः ॥२८॥

प्रासादेषु विचित्रेषु गोष्ठीषूपवनेषु च ।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥२९॥

बहून्याश्चर्यरूपाणि कुर्वाणा जनसंसदि ।
इज्यास्त्रे चोपसन्धाने पण्डितास्तत्र शोभनाः ॥३०॥

आश्चर्यरूपाणि विनोदादीनि इज्यास्त्रे यज्ञायुधे कपालादौ तेषामुपसंधाने आसादनप्रोक्षणादौ परेषामिज्यास्त्रज्ञानां याज्ञिकानां विवरज्ञाने छिद्रदर्शने ॥३०॥

परेषां विवरज्ञाने मनुष्यचरितेषु च ।
हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि ॥३१॥

मनुष्यचरितेषु स्नानाचमनभोजनादिषु हस्त्यश्वरथचर्यासु हस्त्यादिना वाहनेन चर्या गमनं खरादीनां कर्मणि चिकित्सादौ ॥३१॥

गोधनेषु प्रतोलीषु वरद्वारमुखेषु च ।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥२२॥

पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्यो भवेत् परः ॥३३॥

गा वश्च संप्रतिष्ठाप्य सेनां व्यूह्य समन्ततः ।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ॥३४॥

गाः व इति छेदः गावश्च संप्रतिष्ठन्तामिति पाठान्तरे गाव इत्येकं पदम् । आरक्षाः रक्षकाः ॥३४॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे दुर्योधनवाक्ये सप्तचत्वारिंशोऽध्यायः ॥४७॥
अष्टचत्वारिंसोऽध्यायः

कर्ण उवाच ।
सर्वानायुष्मतो भीतान् संत्रस्तानिव लक्षये ।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥१॥

सर्वानिति । सर्वान् भीष्मादीन् अनवस्थितान् चञ्चलान् ॥१॥

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥२॥

मम चापप्रयुक्तानां शराणां नतपर्वणाम् ।
नावृत्तिर्गच्छतां तेषां सर्पाणामिव सर्पताम् ॥३॥

अवृत्तिः लक्ष्यच्युतिर्न ॥३॥

रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया ।
छादयन्तु शराः पार्थं शलभा इव पादपम् ॥४॥

शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् ।
श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ॥५॥

पुङ्खसक्तानां सक्तपुङ्खानाम् ॥५॥

समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धेऽस्मिन् मयि संप्रहरिष्यति ॥६॥

पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव ।
शरौघान् प्रतिगृह्णातु मया मुक्तान् सहस्रशः ॥७॥

एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठाद‌र्जुनान्नावरः क्वचित् ॥८॥

इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः ।
दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ॥९॥

गार्ध्रवाजितैः गृध्रपक्षैर्वाजो वेगः शब्दः पक्षो वा संजातो येषां तैः ‘वाजो निःस्वनपक्षयोः । वेगे पुमान्’ इति मेदिनी ॥९॥

अद्याहमृणमक्षय्यं पुरा वाचा प्रातश्रुतम् ।
धार्तराष्ट्राय दास्यामि निहत्य समरेऽर्जुनम् ॥१०॥

अक्षय्यमितरैः क्षपयितुमशक्यम् ॥१०॥

अन्तराच्छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् ।
शलभानामिवाकाशे प्रचारः संप्रदृश्यताम् ॥११॥

पुङ्खानां पुङ्खवतां शराणाम् ॥११॥

इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् ।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥१२॥

रथादतिरथं शूरं सर्वशस्त्रभृतां वरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥१३॥

तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् ।
पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितम् ॥१४॥

अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् ।
शरधारो महामेघः शमयिष्यामि पाण्डवम् ॥१५॥

मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः ।
शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ॥१६॥

सुतेजनै रुक्मपुङ्खैः सुधौतैर्नतपर्वभिः ।
आचितं पश्य कौन्तेयं कर्णिकारैरिवाचलम् ॥१७॥

नतपर्वभिः समीकृतग्रन्थिप्रदेशैः ॥१७॥

जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् ।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥१८॥

ध्वजाग्रे वानरस्तिष्ठन् भल्लेन निहतो मया ।
अद्यैव पततां भूमौ विनदन् भैरवान् रवान् ॥१९॥

शत्रोर्मया विपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवंगमः ॥२०॥

विपन्नानां भ्रंशितानाम् ॥२०॥

अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् ।
समूलमुद्धरिष्यामि बीभत्सुं पातयन् रथात् ॥२१॥

हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥२२॥

कामं गच्छन्तु कुरवो धनमादाय केवलम् ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥२३॥

धनं गोधनम् ॥२३॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तर-गोग्रहे कर्णविकत्थने अष्टचत्वारिंशोऽध्यायः ॥४८॥
एकोनपञ्चाशत्तमोऽध्यायः

कृप उवाच ।
सदैव तव राधेय युद्धे क्रूरतरा मतिः ।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥१॥

सदैवेति । अर्थानां गवादीनां प्रकृतिं प्राप्तकारणमनुबन्धं प्राप्तौ वा फलं न हि द्यूतमर्थप्राप्तेर्मुख्यं कारणं नापि ततः प्राप्तानामर्थानां परिणामे सुखकरत्वं चास्तीत्यभिसन्धिः ॥१॥

माया हि बहवः सन्ति शास्त्रमाश्रित्य चिन्तिताः ।
तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ॥२॥

माया इति । येषां शकुन्यादीनां मायाः कपटानि बहवो बह्व्यः सन्ति तेषां दृष्ट्या युद्धं पापिष्ठं नाशकरत्वात् । न हीदानीमर्जुनो द्यूतेनेव मायामात्रेण जेतुं शक्य इति भावः । पाठान्तरे नयाः नीतयः सामाद्यास्तेषां मध्ये युद्धं पापिष्ठम् ॥२॥

देशकालेन संयुक्तं युद्धं विजयदं भवेत् ।
हीनकालं तदेवेह फलं न लभते पुनः ।
देशे काले च विक्रान्तं कल्याणाय विधीयते ॥३॥

देशेति । इदानीं ग्रीष्मो न युद्धकालः श्रान्त्या जलाभावेन च सद्यो वाहनानां नाशापत्तेः । नापि देशो गिरिदुर्गाद्याश्रितोऽस्तीति भावः । इदं युद्धं फलं न लभते फलं न लम्भयेत् । परस्य तु देशकालावनुकूलावेव वर्तेते इति भावः । विक्रान्तं पराक्रमः ॥३॥

आनुकूल्येन कार्याणामन्तरं संविधीयते ।
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥४॥

देशादेरानुकूल्येन हेतुना कार्याणां युद्धादीनामन्तरं तादर्थ्यं फलवत्त्वमिति यावत् । संविधीयते सम्यक् क्रियते । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये’ - इति मेदिनी । मन्त्राणामिति पाठे देशाद्यानुकूल्येन कार्यं विचार्यमित्यर्थः । तत्राभाणकमाह- भारमिति । यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गोऽनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्वा देशकालानुकूल्यमनपेक्ष्यैव पण्डिता न व्यवस्यन्ति योद्धुमिति शेषः । एवं त्वद्वचसि भारं दत्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यं तव तु वचनं रथकारवचनवदर्थशून्यमिति भावः । ‘सर्वानायुष्मतो भीतान् संत्रस्तानिव लक्षय’ इति यत्कर्णेनोक्तं तस्यैतदुत्तरम् ॥४॥

पारिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ।
एकः कुरूनभ्यगच्छदेकश्चाग्निमतपर्यत् ॥५॥

विचारफलमाह - परिचिन्त्येति ॥५॥

एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ॥६॥

एकः किरातरूपेण स्थितं रुद्रमयोधयत् ।
अस्मिन्नेव वने पार्थो हृतां कृष्णामवाजयत् ॥७॥

एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत ।
एकः सोऽयमरिं जित्वा कुरूणामकरोद्दशः ॥८॥

एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां प्राप्य सुदुर्जयाम् ॥९॥

तथा निवातकवचाः कालखञ्जाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥१०॥

एकेन हि त्वया कर्ण किं नामेह कृतं पुरा ।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥११॥

इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥१२॥

आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् ।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥१३॥

प्रदेशिन्या तर्जन्या ॥१३॥

अथवा कुञ्जरं मत्तमेक एव चरन् वने ।
अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ॥१४॥

समिद्धं पावकं चैव घृतमेदोवसाहुतम् ।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥१५॥

मध्येन मध्यत उत्सर्तुमुत्सर्पितुम् ॥१५॥

आत्मानं कः समुद्वध्य कण्ठे बध्वा महाशिलाम् ।
समुद्रं तरते दोर्भ्यां तत्र किं नाम पौरुषम् ॥१६॥

अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः ।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत् स दुर्मतिः ॥१७॥

अस्माभिर्ह्येष निकृतो वर्षाणीह त्रयोदश ।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥१८॥

एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥१९॥

सह युध्यामहे पार्थमागतं युद्धदुर्मदम् ।
सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ॥२०॥

द्रोणो दुर्योधनो भीष्मो भवान् द्रौणिस्तथा वयम् ।
सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥२१॥

वयं व्यवसितं पार्थं वज्रपाणिमिवोद्धतम् ।
षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ॥२२॥

यत्तूक्तं ‘कामं गच्छन्तु कुरवो धनमादाय केवलम् । रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम्’ इति तत्राह- षड्रथा इति । संहताः षडपि एकीभूय तेनैकेन योद्धुं कथंचिच्छक्ष्यामो न त्वेकैकश इति भावः ॥२२॥

व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः ।
युध्यामहेऽर्जुन संख्ये दानवा इव वासवम् ॥२३॥

इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि उत्तरगोग्रहे कृपवाक्यं नाम एकोनपञ्चाशत्तमोऽध्यायः ॥४९॥
पञ्चाशत्तमोऽध्यायः

अश्वत्थामोवाच ।
न च तावज्जिता गावो न च सीमान्तरं गताः ।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥१॥

नचेति । शूराः परवित्तं जित्वा परसीमामुल्लङ्घ्य स्वनगरं प्रति नीत्वाऽपि न श्लाघन्ते त्वं तु एतेषामेकतममप्यकृत्वा कत्थसेऽतो निर्लज्जोऽसीति भावः ॥१॥

सङ्ग्रामांश्च बहूञ्जित्वा लब्ध्वा च विपुलं धनम् ।
विजित्य च परां सेनां नाहुः किंचन पौरुषम् ॥२॥

दहत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान् वसुधा सचराचरान् ॥३॥

चातुर्वर्ण्यस्य कर्माणि विहितानि स्वयंभुवा ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥४॥

यदुक्तं ‘नैते महाभये प्राप्ते संप्रष्टव्याः’ इत्यादिना ब्राह्मणानां भोजनादावेव कौशलं न युद्धे इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन् वर्णानां कर्माणि विभजते- चातुर्वर्ण्यस्येत्यादिना ॥४॥

अधीत्य ब्राह्मणो वेदान् याजयेत यजेत वा ।
क्षत्रियो धनुराश्रित्य यजेच्चैव न याजयेत् ॥५॥

वैश्योऽधिगम्य वित्तानि ब्रह्मकर्माणि कारयेत् ।
शूद्रः शुश्रूषणं कुर्यास्त्रिषु वर्णेषु नित्यशः ।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमास्थितः ॥६॥

वित्तान्यधिगम्य कृष्यादिनेति शेषः। ब्रह्मकर्माणि वेदोक्तकर्माणि आधानादीनि कारयेत् । स्वार्थे णिच् ॥६॥

वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
सत्कुर्वन्ति महाभागा गुरून् सुविगुणानपि ॥७॥

वर्तमाना इति । न्यायेन पृथिवीं जित्वाऽपि सन्तो विगुणानपि गुरून् सत्कुर्वन्ति त्वं त्वन्यायेन पाण्डवं जित्वा साधूनपि गुरून् निन्दसीति भावः ॥७॥

प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति ।
तथा नृशंसरूपोऽयं धार्तराष्ट्रश्च निर्घृणः ॥८॥

एतदेवाह- प्राप्येति । निघृणो निर्लज्जः ॥८॥

तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन् वैतंसिको यथा ॥९॥

निकृत्या शाठ्येन वञ्चनायोगैः छद्मोपायैः वितंसो बन्धनोपायस्तेन जीवतीति वैतंसिको व्याधः ॥९॥

कतमं द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् ।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥१०॥

युधिष्ठिरो जितः कस्मिन् भीमश्च बलिनां वरः ।
इन्द्रप्रस्थं त्वया कस्मिन् सङ्ग्रामे निर्जितं पुरा ॥११॥

इन्द्रप्रस्थं तत्स्थाः पाण्डवाः ॥११॥

तथैव कतमद्युद्धं यस्मिन् कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता दुष्टकर्मन् रजस्वला ॥१२॥

मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा ।
कर्म कारयिथाः सूत तत्र किं विदुरोऽब्रवीत् ॥१३॥

मूलमिति । एषां पाण्डवानां मूलं महत् महच्छब्दवाच्यं ब्रह्म श्रीकृष्णाख्यं वेदवाक्यं ब्राह्मणाश्च । यथोक्तमादिपर्वणि- ‘मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च’ इति । तदेतद्वेदविरुद्धमनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नम् । इदानीं च ब्राह्मणानवजानता त्वयाऽपि तदेव कृतम् । अतो धर्मनाशाद्भवतां नाशोऽवश्यं भावीत्यर्थः। मूलं कीदृशं चन्दनं यथा शान्तं शीतलं न तु दाहकं क्रोधरूपं तथा च दुर्योधनः केवलं क्रोधमय इत्युक्तं प्राक् । ‘दुर्योधनो मन्युमयो महाद्रुमः’ इति । सारार्थी कर्म कारयिथा इति व्यवहितेन संबन्धः । सारार्थी धनार्थी । ‘धने च सारम्’ इति मेदिनी । पाण्डवान् कर्मकारानिव कृतवानसि यत्र काले तत्र तदा विदुरः किमब्रवीत् । क्षयमूलं द्यूतमिति, तदिदानीं स्मरेति भावः । सूतेति संबोधयन्नक्षत्रियत्वादस्य युद्धेष्वकौशलं व्यनक्ति। ‘नन्वादित्यो वै दैवं क्षत्रम्’ इति श्रुतेर्दिव्यात् क्षत्रात् कुन्त्यां जातस्यास्य कथमक्षत्रत्वं युद्धाकौशलं चेति विदुषाऽप्यश्वत्थाम्ना वक्तुं युक्तमिति चेत् श्रृणु । सर्वेषां हि वणानां द्विविधं जन्म योनिजं संस्कारजं च । तत्र य एव योनिः स एव संस्कर्ता चेत्स एकजो न प्रकृतितश्च्यवते । कर्णस्तु दैवक्षत्रजोऽप्यक्षत्रियेण सूतेन संस्कृत इति द्विजातत्वात् क्षत्रियत्वेन प्रहर्तुं कुशलोऽपि सूतत्वेन परकीयप्रहारं सोढुमशक्त इति युद्धात्पलायते इत्याशयेनैनं सूर्यपुत्रं जानन्नपि सूतेति संबोधयति । तथा च मन्त्रवर्णः- 'सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । उग्रं ते पाजो नन्वारुरुध्रे वशी वशं नयस एकजत्वम् । इति । अस्यार्थः- तापसो मन्युर्ऋषिः संकल्पाधिष्ठात्रीं देवतां मन्युसंज्ञां प्रार्थयते त्वया मन्यो इति सूक्ते तृतीयेयमृक् । यस्ते मन्यविति मध्यंदिन इति माध्यंदिने सवने श्येनयागे शत्रुमारणार्थेऽस्य सूक्तस्य विनियोगः हे मन्यो अस्मै शरणागताय राज्याय वा एतद्रक्षणार्थमिति यावत् । अभिमातिं सर्वतः पीडां पित्रादिभिः सह विरोधं ज्ञातिवधदोषं वा सहस्व क्षमस्व । कथं तेषां रक्षणं स्यादत आह - रुजन् रोगं प्राप्नुवन् मृणन् म्रियमाणो जराग्रस्त इत्यर्थः । प्रमृणन् अत्यन्तमासन्नमृत्युर्वा शत्रून् प्रेहि प्रकर्षेण जेतुं गच्छ । अत्र शरीरगतं रोगादि तदभिमानिनि चेतसि उपचर्यते । नन्वशक्तेन रागाद्याक्रान्तेन मया कथं शत्रवो जेतुं शक्या इत्याशङ्क्याह - उग्रमिति । उग्रं परमर्दनक्षमं ते तव पाजस्तेजो ननु निश्चितम् आरुरुध्रे आरोढुं शत्रून् समर्थमस्ति । दृष्टसंकल्पस्य हि तेजः परानवश्यं नाशयेदेवेत्यर्थः । एतदेवाह - वशी सर्वमस्य वशेऽस्तीति वशी । संकल्पदार्ढ्यादेव ह्यगस्त्यादिभिः समुद्रपानादीन्यपि कृतानि । अत एव सर्वं जगत् त्वमेव वशं नयसे । वशित्वे हेतुः- हे एकज एकस्माज्जात नन्वेकमेव । मनः संकल्पस्योपादानमिति व्यर्थं विशेषणमिति चैन्न कुण्डव्यावृत्त्यर्थत्वात् । स ह्यन्येन जातोऽन्येन च आत्मीयबुद्ध्या संस्कृत इति न दृढसंकल्पो भवति । न च परांस्त्रातुं शक्नोति द्विजत्वात् । तथाच लोके आभाणकः - यस्य द्वे वचने सद्विपितृक इति वक्तारो भवन्ति । अत एकजेत्यर्थवद्वचनम् । दत्तक्रीतादौ तु शास्त्रीयमेकस्यैव स्वत्वमस्तीति नासौ कुण्डतुल्य इति दिक् ॥१३॥

यथाशक्ति मनुष्याणां शममालक्षयामहे ।
अन्येषामपि सत्त्वानामपि कीटपिपीलिकैः ।
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति ॥१४॥

ननु मम सूतत्वाद्दोषवत्वं चेत् सुजाता अपि ते कुतो न शाम्यन्ति कुतो वा परसाहाय्यार्थमस्मान्योद्धुमागता वालिवधे राम इवेत्याशङ्क्याह यथाशक्तीति द्वाभ्याम् । पिपीलिकैरपि कृतं शमं लक्षयामहे इति योज्यम् । वालिरामयोर्विरोधाभावेऽपि रामेण वाली हत इति सोऽपराधी । पाण्डवास्तु युष्माभिरपकृता इति युष्मान् जिघांसन्तो नापराध्यन्तीति भावः ॥१४॥

क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ।
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि ॥१५॥

वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥१६॥

नैष देवान् न गन्धर्वान् न सुरान् न च राक्षसान् ।
भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः ॥१७॥

नैव न युध्येत अपि तु युध्येतैवेत्यर्थः ॥१७॥

यं यमेषोऽतिसंक्रुद्धः सङ्ग्रामे निपतिष्यति ।
वृक्षं गरुत्मान् वेगेन विनिहत्य तमेष्यति ॥१८॥

एष्यति गमिष्यति ॥१८॥

त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥१९॥

देवं देवेन युध्येत मानुषेण च मानुषम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात् कोऽर्जुनेन समः पुमान् ॥२०॥

देवेन देवयोग्येन युध्येत ॥२०॥

पुत्रादनन्तरं शिष्य इति धर्मविदो विदुः ।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥२१॥

यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ॥२२॥

अहरः हृतवानसि आनैषीः आनीतवानसि । यथा उत्साहपूर्वकमेतत् कर्म त्वया कृतं तथैवेदानीमपरावृतो युध्यस्वेत्यर्थः ॥२२॥

अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ॥२३॥

नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च ।
ज्वलतो निशितान्बाणांस्तांस्तांन्क्षिपति गाण्डिवम् ॥२४॥

न चेति चकारात् त्रेताऽपि न भवतीत्यध्याहार्यम् । अयमर्थः - क्रमेण एकद्वित्रिचतुरङ्का‌ङ्कितैप्रदेशैर‌ङ्कचतुष्टयवान् पाशो भवति । तत्र एकाङ्कः कलिः । द्व्यङ्को द्वापरः । त्र्यङ्कस्त्रेता । चतुरङ्कः कृतं तत्र द्यूते पञ्च स्वीयाः पञ्च परकीयाश्च दीनारादयः स्थाप्यन्ते तदितः पाशप्रक्षेपे यद्येकाङ्क उपर्यायाति तर्हि स्वीयेष्वेक एव जितो भवति । यदि द्वौ तदा परकीयं दीनारद्वयं स्वीयश्चैको जितः। यदि त्र्यङ्क उपरि पतेत् तदा परकीयं त्रयं स्वीयं च त्रयं जितम् । चतुरङ्कस्योपरिपतने सर्वेऽपि स्वीयाः परकीयाश्च जिता भवन्ति । तथा च कलिपाते जयो नास्ति । द्वापरादिपाते उत्तरोत्तरवृद्ध्या जयोऽस्ति । तेन गाण्डीवस्थाः शराः सर्वथा न जयावहा इत्यर्थः ॥२४॥

न हि गाण्डीवनिर्मुक्ता गार्ध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥२५॥

अन्तकः पवनो मृत्युस्तथाऽग्निर्वडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥२६॥

यथा सभायां द्यूतं त्वं मातुलेन सहाकरोः ।
तथा युध्यस्व सङ्ग्रामे सौबलेन सुरक्षितः ॥२७॥

युध्यन्तां कामतो योधा नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ॥२६॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे द्रौणिवाक्यं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥
एकपञ्चाशत्तमोऽध्यायः

भीष्म उवाच ।
साधु पश्यति वै द्रौणिः कृपः साध्वनुपश्यति ।
कर्णस्तु क्षत्रधर्मेण केवलं योद्धमिच्छति ॥१॥

साध्विति ॥१॥

आचार्यो नाभिवक्तव्यः पुरुषेण विजानता ।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥२॥

यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः ।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥३॥

यस्य दुर्योधनस्य पञ्च पाण्डवाः ॥३॥

स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्माद्राजन् ब्रवीम्येष वाक्यं ते यदि रोचते ॥४॥

कर्णो हि यदवोचत् त्वां तेजः संजननाय तत् ।
आचार्यपुत्रः क्षमतां महत् कार्यमुपस्थितम् ॥५॥

यत् अवोचदाचार्यस्य निन्दारूपं तत् तस्यैव तेजःसंजननायैव न तु द्वेषात् ॥५॥

नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥६॥

भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ॥७॥

एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ।
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते ॥८॥

नैतत् समस्तमुभयं कस्मिंश्चिदनुशुश्रुम ।
अन्यत्र भारताचार्यात् सपुत्रादिति मे मतिः ॥९॥

वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन् को द्रोणादधिको भवेत् ॥१०॥

ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ।
आचार्यपुत्रः क्षमतां नायं कालो विभेदने ॥११॥

सर्वे संहत्य युध्यामः पाकशासनिमागतम् ॥१२॥

बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदो हि तेषां तु पापिष्ठो विदुषां मतः ॥१३॥

अश्वत्थामोवाच ।
नैव न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किं तु रोषपरीतेन गुरुणा भाषिता गुणाः ॥१४॥

नैवेति । अस्माकमिदं न्याय्यं वचनं त्वया नैव वाच्यं नैव निन्द्यम् । रोषेण दुर्द्यूतादिदर्शनजेन परीतस्तेन गुरुणा द्रोणेन । गुणा अर्जुनस्य ॥१४॥

शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥१५॥

हितं बलवता सह निर्बलैर्भवद्भिर्विचार्य योद्धव्यमित्येवंरूपम् ॥१५॥

दुर्योधन उवाच ।
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ तद्वृत्तं रोषकारितम् ॥१६॥

आचार्य इति । रोषादेतद्वचनमाचार्येणोक्तं न तु भेदार्थमिति भावः । पाठान्तरे अभिषह्यमाणे अभिमृष्यमाणे उपालभ्यमाने इति यावत् । शेषकारितं शेषं कर्तव्यं कारणीयं च तत् सर्वं न कृतं स्यात् । प्रस्तुतकार्यनाशो भवेदित्यर्थः॥१६॥

वैशम्पायन उवाच ।
ततो दुर्योधनो द्रोणं क्षमयामास भारत ।
सह कर्णेन भीष्मेण कृपेण च महात्मना ॥१७॥

द्रोण उवाच ।
यदेतत् प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।
तेनैवाहं प्रसन्नो वै नीतिरत्र विधीयताम् ॥१८॥

प्रथमं मुख्यं भेदो न कार्यः क्षन्तव्यं चेति यदुक्तं तेनैवाहं वाक्येन प्रसन्नोऽस्मि ॥१८॥

यथा दुर्योधनं पार्थो नोपसर्पति सङ्गरे ।
साहसाद्यदि वा मोहात् तथा नीतिर्विधीयताम् ॥१९॥

वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत् क्षन्तुमर्हति ॥२०॥

धनं चेति । धनं लब्ध्वा अस्मानुपेक्ष्य गृहं गमिष्यति गोधने अत्यन्तं दूरतोऽन्यैर्नीते युध्यतामस्माकमन्तमेवायं करिष्यतीति भावः ॥२०॥

यथा नायं समायुञ्ज्याद्धार्तराष्ट्रान् कथञ्चन ।
न च सेना पराजय्यात् तथा नीतिर्विधीयताम्॥२१॥

समायुञ्ज्यात् संप्राप्नुयात् पराजय्यात् पराजयं प्राप्नुयात् ॥२१॥

उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥२२॥

पुरस्ताद्वाक्यमुक्तम् । अज्ञातवासकालः पूर्णो न वेति प्रथमं विचार्यमित्येवंरूपम् ॥२२॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि द्रोणवाक्ये एकपञ्चाशत्तमोऽध्यायः ॥५१॥
द्विपञ्चाशत्तमोऽध्यायः

भीष्म उवाच ।
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च ।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥१॥

कलाः काष्ठाश्चेति ॥१॥

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि ।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥२॥

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् ।
पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ॥३॥

अत्र चतुर्विंशत्या पक्षैश्चान्द्रः संवत्सरः चतुष्पञ्चाशदधिकशतत्रयदिनात्मकः षष्ट्यधिकशतत्रयदिनात्मा सावनः स एव द्वादशवार्षिकादिप्रतिज्ञासु गवामयनादिसत्रादिषु च उपयुज्यते । त्रीणि शतानि पञ्चषष्टिश्च दिनानि पञ्चदशघटिका एकत्रिंशत् पलानि त्रिंशदक्षराणि सौरस्य संवत्सरस्य मानम् । तत्र प्रायेण ज्योतिर्विदः सौरसंवत्सरानुरोधेनैव वर्षप्रवेशादिकं कुर्वन्ति । स्मार्ते वर्धापनादौ तु चान्द्रेणेति विशेषे सत्यपि यदा एतयोरान्तरालिकः सावनाब्दो गण्यते तदा सौरगता वृद्धिस्तत्र गण्यते एवं गणनायां क्रियमाणायां त्रयोदशस्वब्देषु पञ्च चान्द्रा मासाः द्वे दिने सप्तत्रिंशन्नाड्यः पञ्चचत्वारिंशत् पलानि पञ्चदशाक्षराणि च तथा च किञ्चिदधिकानि नवदिनान्यवधिपूर्तेरधिकानि जातानि ज्योतिषां नक्षत्राणां व्यतिक्रमात् सूर्येण चन्द्रेण च लङ्घनात् उपजायतः अधिकौ भवतः ॥३॥

एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥४॥

अत्र तु अर्धमासाश्च मासाश्च युज्यन्त इति ग्रहणात् त्रयोदशानां वर्षाणां चान्द्रमासाः षट्पञ्चाशदधिकं शतं भवन्तीति त एव गृहीता इति ज्ञेयम् । तथा च विजयदशम्यां द्यूते पाण्डवपराजयः । लोके तस्यैव प्रायेण द्यूतकालत्वात् । ग्रीष्मे च गोग्रहार्थं प्रवृत्ता इत्युक्तम् । तेन विजयदशम्यामागामिन्यां त्रयोदशाब्दपूरणं भविष्यतीति दुर्योधनप्रत्याशा । पाण्डवास्तु चान्द्राब्दमानेन त्रयोदशवत्सरानतिवाह्य कृतकृत्या अभूवन् । तत्र विजयदशमीतः पूर्वं पञ्चमासाः द्वादश दिनानि प्रकटीभवितव्यम् । तत्र दर्शान्तमासे चैत्रकृष्णसप्तम्यामाविर्भूताः प्रतिज्ञां निस्तीर्यैव कानिचिदधिकान्यपि दिनानि अतिवाह्य आविभूता इत्यर्थः ॥४॥

सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् ।
एवमेतद्‌ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥५॥

सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः ।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥६॥

अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् ।
न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः ॥७॥

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥८॥

यच्चानृत इति ख्यायाद्यः स गच्छेत् पराभवम् ।
वृणुयुर्मरणं पार्था नानृतत्वं कथंचन ॥९॥

यच्च यदि च पाण्डवमनृतोऽयमर्जुन इति ख्यायात् कथयेत् स पराभवं गच्छेत् ॥९॥

प्राप्तकाले तु प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ॥१०॥

प्रतियुध्येम समरे सर्वशस्त्रभृतां वरम् ।
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ॥ तत् संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात् परम् ॥११॥

न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनंजयः ॥१२॥

संप्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥१३॥

तस्माद्युद्धोचितं कर्म कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ॥१४॥

धर्मसंहितं कर्म अयुद्धेन एतैः सह ऐक्यं गत्वा राज्यप्रदानम् ॥१४॥

दुर्योधन उवाच ।
नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह ।
युद्धोपचारिकं यत्तु तच्छीघ्रं प्रविधीयताम् ॥१५॥

भीष्म उवाच ।
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥१६॥

क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ॥१७॥

वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ।
अहं द्रोणश्च कर्णश्च अश्वत्थामा कृपस्तथा ।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥१८॥

मत्स्यं वा पुनरायातमागतं वा शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥१९॥

वैशम्पायन उवाच ।
तद्वाक्यं रुरुचे तेषां भीष्मणोक्तं महात्मना ।
तथा हि कृतवान् राजा कौरवाणामनन्तरम् ॥२०॥

अनन्तरम् अविलम्बितम् ॥२०॥

भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान् व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ॥२१॥

भीष्म उवाच ।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः ।
कृपः शारद्वतो धीमान् पार्श्वं रक्षतु दक्षिणम् ॥२२॥

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः ।
अहं सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन् ॥२३॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि भीष्मसैन्यव्यूहे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच ।
तथा व्यूढेष्वनीकेषु कौरवेयेषु भारत ।
उपायाद‌र्जुनस्तूर्णं रथघोषण नादयन् ॥१॥

तथेति ॥१॥

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च महास्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निःस्वनम् ॥२॥

ततस्तु सर्वमालोक्य द्रोणो वचनमब्रवीत् ।
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥३॥

द्रोण उवाच ।
एतत् ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते ।
एष घोषः स रथजो रोरवीति च वानरः ॥४॥

एष तिष्ठन् रथश्रेष्ठे रथे च रथिनां वरः ।
उत्कर्षति धनुः श्रेष्ठं गाण्डीवमशनिस्वनम् ॥५॥

इमौ च बाणौ सहितौ पाद‌योर्मे व्यवस्थितौ ।
अपरौ चाप्यतिक्रान्तौ कणा संस्पृश्य मे शरौ ॥६॥

मे मम कर्णौ संस्पृश्य अतिक्रान्तौ ॥६॥

निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् ।
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ॥७॥

चिरदृष्टोऽयमस्माभिः प्रज्ञावान् बान्धवप्रियः ।
अतीव ज्वलितो लक्ष्म्या पाण्डुपुत्रो धनंजयः ॥८॥

रथी शरी चारुतली निषङ्गी शङ्खी पताकी कवची किरीटी ।
खड्गी च धन्वी च विभाति पार्थः शिखी वृतः स्रुग्भिरिवाज्यसिक्तः ॥९॥

चारुतलं हस्तावापश्चारुतलं तद्वान् चारुतली स्रुग्भिः जुहूप्रभृतिभिः ॥९॥

अर्जुन उवाच ।
इषुपाते च सेनाया हयान् संयच्छ सारथे ।
यावत् समीक्षे सैन्येऽस्मिन् क्वासौ कुरुकुलाधमः ॥१०॥

इषुपाते इषुपातप्रमिते देशे असौ दुर्योधनः ॥१०॥

सर्वानेताननादृत्य दृष्ट्वा तमतिमानिनम् ।
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥११॥

एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् ।
भीष्मः कृपश्च कर्णश्च महेष्वासाः समागताः ॥१२॥

महेष्वासाः महनीयधनुषः ॥१२॥

राजानं नात्र पश्यामि गाः समादाय गच्छति ।
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥१३॥

उत्सृजैतद्रथानीकं गच्छ यत्र सुयोधनः ।
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ।
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥१४॥

वैशम्पायन उवाच ।
एवमुक्तः स वैराटिर्हयान् संयम्य यत्नतः ।
नियम्य च ततो रश्मीन् यत्र ते कुरुपुङ्गवाः ।
अचोदयत् ततो वाहान् यत्र दुर्योधनो गतः ॥१५॥

उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने ।
अभिप्रायं विदित्वा च कृपो वचनमब्रवीत् ॥१६॥

रथवंशं रथसमूहम् ॥१६॥

नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति ।
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ॥१७॥

न ह्येनमतिसंक्रुद्धमेको युध्येत संयुगे ।
अन्यो देवात् सहस्राक्षात् कृष्णाद्वा देवकी सुतात् ।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥१८॥

किं नो गावः करिष्यन्ति धनं वा विपुलं तथा ।
दुर्योधनः पार्थजले पुरा नौरिव मज्जति ॥१९॥

तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः ।
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥२०॥

कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः ।
नापश्यन्नावृतां भूमिं नान्तरिक्षं च पत्रिभिः ॥२१॥

आवृतां भूमिं नापश्यन्निति न अपि तु शरैरावृतामेवापश्यन् ॥२१॥

तेषामापततां युद्धे नापयानेऽभवन्मतिः ।
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ॥२२॥

ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् ।
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ॥२३॥

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।
गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥२४॥

अमानुषाणां भूतानां तेषां च ध्वजवासिनाम् ।
ऊर्ध्वं पुच्छान् विधुन्वाना रेभमाणाः समन्ततः ।
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ॥२५॥

रेभमाणाः हम्बारवं कुर्वाणाः ॥२५॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे गोनिवर्तने त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
चतुःपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच ।
स शत्रुसेनां तरसा प्रणुद्य गास्ता विजित्याथ धनुर्धराग्र्यः ।
दुर्योधनायाभिमुखं प्रयातो भूयो रणं सोऽभिचिकीर्षमाणः ॥१॥

स इति ॥१॥

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनं कृतकार्यं च मत्वा ।
दुर्योधनायाभिमुखं प्रयातं कुरुप्रवीराः सहसा निपेतुः ॥२॥

तेषामनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि ।
मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥३॥

एतेन तूर्णं प्रतिपादयेमान् श्वेतान् हयान् काञ्चनरश्मियोक्त्रान् ।
जवेन सर्वेण कुरु प्रयत्नमासादयेऽहं कुरुसिंहवृन्दम् ॥४॥

एतेन पथा काञ्चनमया रश्मयो रज्जवस्ता एव योक्त्राणि बन्धनानि येषां तान् कुरुसिंहस्य दुर्योधनस्य वृन्दं मुख्यम् । बृहि वृद्धौ अस्मात् कप्रत्यये हस्य दः ॥४॥

गजो गजेनेव मया दुरात्मा योद्धुं समाकाङ्क्षति सूतपुत्रः ।
तमेव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम् ॥५॥

स तैर्हयैर्वातजवैर्बृहद्भिः पुत्रो विराटस्य सुवर्णकक्षैः ।
व्यध्वंसयत् तद्रथिनामनीकं ततोऽवहत् पाण्डवमाजिमध्ये ॥६॥

सुवर्णकक्षैः स्वर्णमयौ कक्षौ पल्याणस्य पश्चादञ्चलपल्लवौ येषां तैः ‘कक्षः स्यादन्तरीयस्य पश्चादञ्चलपल्लवे’ इति मेदिनी ॥६॥

तं चित्रसेनो विशिखैर्विपाठैः सङ्ग्रामजिच्छत्रुसहो जयश्च ।
प्रत्युद्ययुर्भारतमापतन्तं महारथाः कर्णमभीप्समानाः ॥७॥

अभीप्समानाः कर्णं जीवन्तमिच्छन्तः ॥७॥

ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः ।
व्रातं रथानामदहत् समन्युर्वनं यथाग्निः कुरुपुङ्गवानाम् ॥८॥

व्रातं समूहम् ॥८॥

तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥९॥

विपाठः स्थूलदण्डो बाणः ॥९॥

ततो विकर्णस्य धनुर्विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् ।
अपातयत् तं ध्वजमस्य मथ्य छिन्नध्वजः सोऽप्यपयाज्जवेन ॥१०॥

विकृष्य विलिख्य छित्वेत्यर्थः अस्य तं प्रसिद्धं ध्वजं च मथ्य उन्मथ्यापातयत् अपयात् अपायात् ॥१०॥

तं शात्रवाणां गणबाधितारं कर्माणि कुर्वन्तममानुषाणि ।
शत्रुंतपः पार्थममृष्यमाणः समार्दयच्छरवर्षेण पार्थम् ॥११॥

गणस्य बाधितारं तेजोहरं शत्रुन्तपनामा ॥११॥

स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥१२॥

ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन ।
गतासुराजौ निपपात भूमौ नगो नगाग्रादिव वातरुग्णः ॥१३॥

नगो वृक्षः नगाग्रात् पर्वताग्रात् । ‘शैलवृक्षौ नगावगौ’ इत्यमरः ॥१३॥

नरर्षभास्तेन नरर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥१४॥

हतास्तु पार्थेन नरप्रवीरा गतासवोर्व्यां सुषुपुः सुवेषाः ।
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये ॥१५॥

गतासवः उर्व्यामिति छेदः संधिरार्षः ॥१५॥

सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः ।
तथा स शत्रून् समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः ॥१६॥

चचार संख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ।
प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वा पवनोऽम्बुदांश्च ॥१७॥

आतपान्ते घर्मस्वरूपे निदाघे । ‘अन्तः स्वरूपे नाशे ना’ इति मेदिनी ॥१७॥

तथा सपत्नान् विकिरन् किरीटी चचार संख्येऽतिरथो रथेन ।
शोणाश्ववाहस्य हयान् निहत्य वैकर्तनभ्रातुरदीनसत्त्वः ।
एकेन सङ्ग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥१८॥

शोणाश्वाः वाहे वाहके रथे यस्य तस्य ॥१८॥

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमथाददानः ।
प्रगृह्य दन्ताविव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् ॥१९॥

आददान आदातुमिच्छन् प्रगृह्य आग्रहेण दन्ताविव पर्वतशिखरतुल्यौ अर्जुनोत्तरौ प्रति अभ्यधावत् । ‘दन्तः सानुनि कथ्यते’ इति विश्वः ‘दन्तोऽद्रिकटके कुञ्जे’ इति मेदिनी ॥१९॥

स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः शीघ्रमथो जघान ।
विव्याध गात्रेषु हयांश्च सर्वान् विराटपुत्रं च करे निजघ्ने ॥२०॥

तमापतन्तं सहसा किरीटी वैकर्तनं वे तरसाऽभिपत्य ।
प्रगृह्य वेगं न्यपतज्जवेन नागं गरुत्मानिव चित्रपक्षः ॥२१॥

वेगं प्रगृह्य स्वीकृत्य ॥२१॥

तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णस्य पार्थस्य निशम्य युद्धं दिदृक्षमाणाः कुरवोऽमितस्थुः ॥२२॥

निशम्य युद्धादुपरम्य दिदृक्षमाणास्तस्थुः ॥२२॥

स पाण्डवस्तूर्णमुदीर्णकोपः कृतागसं कर्णमुदीक्ष्य हर्षात् ।
क्षणेन साध्वं सरथं ससारथिमन्तर्दधे घोरशरौघवृष्ट्या ॥२३॥

ततः सुविद्धाः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् ।
अन्तर्हिता भीष्ममुखाः सहाश्वाः किरीटिना कीर्णरथाः पृषत्कैः ॥२४॥

कर्णस्यान्तर्धानानन्तरमितरेऽपि शरैरन्तर्हिताः कृताः ॥२४॥

वैशम्पायन उवाच ।
स चापि तानर्जुनबाहुमुक्तान् शरान् शरौघैः प्रतिहत्य वीरः ।
तस्थौ महात्मा सधनुः सबाणः सविस्फुलिङ्गोऽग्निरिवाशु कर्णः ॥२५॥

ततस्त्वभूद्वै तलतालशब्दः सशङ्खभेरीपणवप्रणादः ।
प्रक्ष्वेडितज्यातलनिःस्वनं तं वैकर्तनं पूजयतां कुरूणाम् ॥२६॥

प्रक्ष्वेडितो मुक्तो ज्यातलयोर्निस्वनो येन तं पूजयतां तलतालशब्दः तलेन चपेटया तालः करास्फालनं तज्जः शब्दोऽभूत् । ‘तलश्चपेटे तालद्रौ’ ‘तालः करास्फाले’ इति च मेदिनी ॥२६॥

उद्धूतलाङ्गूलमहापताकध्वजोत्तमांसाकुलभीषणान्तम् ।
गाण्डीवनिह्रादकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥२७॥

उद्भूतमुपरिकृतं लाङ्गूलमेव महती पताका ध्वजाञ्चलो यस्मिंस्तस्य ध्वजस्य उत्तमौ असौ उपरिस्थतिर्यक्फलकाग्रभागौ तत्र आकुला व्यग्राः ये भीषणाः भूतादयः ते अन्ते समीपे यस्य तम् । गाण्डीवनिह्रादेन सह कृतः प्रणादो येन तं गाण्डीवनिह्रादकृतप्रणादं किरीटिनम् । ध्वजोपरिस्थभूतनादैः संवर्धितनादमित्यर्थः ॥२७॥

स चापि वैकर्तनमर्दयित्वा साश्वं ससूतं सरथं पृषत्कैः ।
तमाववर्ष प्रसभं किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥२८॥

द्रोणकृपौ च दृष्ट्वा ववर्षेति अनुकृष्यते ॥२८॥

स चापि पार्थं बहुभिः पृषत्कैर्वैकर्तनो मेघ इवाभ्यवर्षत् ।
तथैव कर्णं च किरीटमाली संछादयामास शितैः पृषत्कैः ॥२९॥

तयोः सुतीक्ष्णान् सृजतोः शरौघान् महाशरौघास्त्रविवर्धने रणे ।
रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणानुददर्श लोकः ॥३०॥

महद्भिः शरौघैरस्त्रोघैश्च विवर्धनं छेदनं यत्र तस्मिन्रणे बिलग्नौ संनिहितौ चन्द्रसूर्यौ घनमध्यादिव तौ बाणसंघमध्याल्लोकोऽनुददर्श ॥३०॥

अथाशुकारी चतुरो हयांश्च विव्याध कर्णो निशितैः किरीटिनः ।
त्रिभिश्च यन्तारममृष्यमाणो विव्याध तूर्णं त्रिभिरस्य केतुम् ॥३१॥

ततोऽभिविद्धः समरावमर्दी प्रबोधितः सिंह इव प्रसुप्तः ।
गाण्डीवधन्वा ऋषभः कुरूणामजिह्मगैः कर्णमियाय जिष्णुः ॥३२॥

शरास्त्रवृष्ट्या निहतो महात्मा प्रादुश्चकारातिमनुष्यकर्म ।
प्राच्छादयत् कर्णरथं पृषत्कैर्लोकानिमान् सूर्य इवांशुजालैः ॥३३॥

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात् ।
आकर्णपूर्णं च धनुर्विकृष्य विव्याध गात्रेष्वथ सूतपुत्रम् ॥३४॥

अथास्य बाहू‌रुशिरोललाटं ग्रीवां वराङ्गानि परावमर्दी ।
शितैश्च बाणैर्युधि निर्बिभेद गाण्डीवमुक्तैरशनिप्रकाशैः ॥३५॥

स पार्थमुक्तैरिषुभिः प्रणुन्नो गजो गजेनेव जितस्तरस्वी ।
विहाय सङ्ग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः ॥३६॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे कर्णापयाने चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच ।
अपयाते तु राधेये दुर्योधनपुरोगमाः ।
अनीकेन यथास्वेन शनैरार्छन्त पाण्डवम् ॥१॥

अपयात इति । आर्छन्त आगताः ॥१॥

बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः ।
अधारयत वेगं स वेलेव तु महोदधेः ॥२॥

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्यायाद्रथसत्तमः ॥३॥

प्रत्यायात् प्रातिकूल्येनाभिमुखोऽगादित्यर्थः ॥३॥

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
तथा गाण्डीवनिर्मुक्तैः शरैः पार्थो दिशो दश ॥४॥

दिशो दश प्रच्छादितवान् ॥४॥

न रथानां न चाश्वानां न गजानां न वर्मणाम् ।
अनिविद्धं शितैर्बाणैरासीत् द्व्यङ्गुलमन्तरम् ॥५॥

अनिविद्धं नितरामविद्धम् । अन्तरमवकाशः ॥५॥

दिव्ययोगाच्च पार्थस्य हयानामुत्तरस्य च ।
शिक्षाशिल्पोपपन्नत्वादस्त्राणां च परिक्रमात् ।
वीर्यवत्त्वं द्रुतं चाग्र्यं दृष्ट्वा जिष्णोरपूजयन् ॥६॥

उत्तरस्य हयानां शिक्षाशिल्पोपपन्नत्वादिति संबन्धः । द्रुतं वेगम् अपूजयन् अरय इत्यपकृष्यते ॥६॥

कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥७॥

तानि ग्रस्तान्यनीकानि रेजुरर्जुनमार्गणैः ।
शैलं प्रति बलाभ्राणि व्याप्तानीवार्करश्मिभिः ॥८॥

शैलं प्रति शैलसमीपे बलाभ्राणि बलवन्ति अचञ्चलानि अभ्राणि सूर्यरश्मिव्याप्तानि यथा तथा तान्यनीकानि शरव्याप्तान्यर्जुनसमीपे रेजुरित्यर्थः ॥८॥

अशोकानां वनानीव छन्नानि बहुशः शुभैः ।
रेजुः पार्थशरैस्तत्र तदा सैन्यानि भारत ॥९॥

शुभैः पुष्पैः फलसूचकत्वात्तेषां शुभत्वम् ॥९॥

स्रजोऽर्जुनशरैः शीर्णं शुष्यत्पुष्पं हिरण्मयम् ।
छत्राणि च पताकाश्च खे दधार सदागतिः ॥१०॥

स्रजः पुष्पं हिरण्मयं स्वर्णचम्पकजं शुष्यत् शरैः शीर्णं च तद्वच्छत्रादीनि च सदागतिः वायुः खे दधार बाणजालान्तर्हितत्वात्तेषामधः पतनं नाभूदित्यर्थः ॥१०॥

स्वबलत्रासनात्त्रस्ताः परिपेतुर्दिशो दश ।
रथाङ्गदेशानादाय पार्थच्छिन्नयुगा हयाः ॥११॥

रथाङ्गदेशान् युगस्यैकदेशान् आदाय हयाः परिपेतुरित्यन्वयः ॥११॥

कर्णकक्षविषाणेषु अन्तरोष्ठेषु चैव ह ।
मर्मस्वङ्गेषु चाहत्य पातयत् समरे गजान् ॥१२॥

गजान् कर्णादि प्रदेशेषु आहत्य विद्ध्वाऽपातयत् पातयति स्म ॥१२॥

कौरवाग्रगजानां तु शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम् ॥१३॥

अग्रजानां सेनाग्रगामिनां गजानां गतचेतसां मृतानाम् ॥१३॥

युगान्तसमये सर्वं यथा स्थावरजङ्गमम् ।
कालक्षयमशेषेण दहत्यग्रशिखः शिखी ।
तद्वत् पार्थो महाराज ददाह समरे रिपून् ॥१४॥

कालक्षयं कालस्य ऐश्वर्यं जगदित्यर्थः अग्रशिखः अग्रवत्तीक्ष्णाः शिखा यस्य ॥१४॥

ततः सर्वास्त्रतेजोभिर्धनुषो निःस्वनेन च ।
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
भैरवं शब्दमत्यर्थं वानरस्य च कुर्वतः ॥१५॥

दैवारिपाच्च बीभत्सुस्तस्मिन् दौर्योधने बले ।
भयमुत्पादयामास बलवानरिमर्दनः ॥१६॥

दैवारिपात् देवारीनसुरान् पातीति देवारिपःसमुद्रस्तत्र जातो दैवारिपः शङ्खस्तस्मात् चात् भैरवं शब्दं कुर्वत इत्यनुकृष्यते ॥१६॥

रथशक्तिममित्राणां प्रागेव निपतद्भुवि ।
सोपयात् सहसा पश्चात् साहसाच्चाभ्युपेयिवान् ॥१७॥

अमित्राणां वैरिणां रथशक्तिं शरीरसामर्थ्यम् । ‘रथः स्यन्दनदेहयोः’ इति कोशः प्रागेव सहसा दर्शनमात्रादेव निपतत् न्यपातयत् शक्तिरिति पाठे न्यपतत् अडभावादिरार्षः सोऽर्जुनः अपयात् पय गतौ गत्यभावादित्यर्थः साहसाच्च अशक्तवधरूपात् पश्चात्तान् युद्धार्थम् उपेयिवान् ॥१७॥

शरव्रातैः सुतीक्ष्णाग्रैः समादिष्टैः खगैरिव ।
अर्जुनस्तु खमावव्रे लोहितप्राशनैः खगैः ॥१८॥

खगैः पक्षिभिरिव खगैर्बाणैः ॥१८॥

अत्रमध्ये यथार्कस्य रश्मयस्तिग्मतेजसः ।
दिशासु च तथा राजन्नसंख्याताः शरास्तदा ॥१९॥

अत्रमध्ये अत्रम् अमत्रम् ‘अत्राण्यस्मै षड्भिः संभरन्ति’ इत्यादाविवात्रापि मध्यमवर्णलोपश्छांदसः यदाह शौनको बृहद्देवतायाम् । ‘वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य वा । अत्राणीति कपिर्नाभादनो यामीत्यघासु च’ इति अत्राण्यस्मैषड्भिः अमत्राणीत्यपेक्षिते वर्णस्य लोपः प्रियातष्टानि मे कपिः वृषाकपिरित्यपेक्षिते वृषा इत्येतयोर्वर्णयोर्लोपः । अयं नाभा वदति नाभानेदिष्ठ इत्यपेक्षिते वर्णत्रयलोपः दनो विश इंद्र दनो दानमनस इत्यपेक्षिते बहूनां वर्णानां लोपः ‘दनो दानमनसः’ इति यास्कः तत्त्वा यामि याचामीत्यपेक्षिते । अघासु हन्यन्ते गावः मघास्वित्यपेक्षिते व्यञ्जनलोपः यथा पात्रे प्रविष्टाः सूर्यरश्मयोऽवकाशाभावात्संकुचन्ति तद्वद्गगनेऽजुनबाणा न मान्तीत्यर्थः ॥१९॥

सकृदेवानतं शेकू रथमभ्यसितुं परे ।
अलभ्यः पुनरश्वैस्तु रथात्सोऽतिप्रपादयेत् ॥२०॥

सकृदेव तत्क्षणमेव आनतम् उपगतं रथम् अर्जुनरथं परे रिपवः अभ्यसितुं परिचेतुं शेकुः तुशब्दो हेत्वर्थेऽतः स पुनः क्षणान्तरे अलभ्यः परैर्ज्ञातुमशक्यः तत्र हेतुमाह अश्वैरिति । सः अश्वैः सह परान् रथात् अतिप्रपादयेत् इमं लोकमतिहापयित्वाऽमुं लोकं नयेत् दृष्टमात्रोऽर्जुनः शरैः परान् परलोकं प्रापयतीत्यर्थः ॥२०॥

ते शरा द्विट्शरीरेषु यथैव न ससज्जिरे ।
द्विडनीकेषु बीभत्सोर्न ससज्जे रथस्तदा ॥२१॥

न ससज्जिरे न सक्ताः किं तु भित्वा परत एव गताः एवं रथोऽपि द्विषाम् अनीकेष्वित्यर्थः शराणां रथस्य च गतिर्न कुण्ठिता भवतीत्यर्थः ॥२१॥

स तद्विक्षोभयामास ह्यरातिबलमञ्जसा ।
अनन्तभोगो भुजगः क्रीडन्निव महार्णवे ॥२२॥

अनन्तभोगः बहुफणः शेष इत्यर्थः ॥२२॥

अस्यतो नित्यमत्यर्थं सर्वमेवातिगस्तथा ।
अश्रुतः श्रूयते भूतैर्धर्घोषः किरीटिनः ॥२३॥

सर्वमेवातिगः सर्वाधिकः सर्वशब्दाभिभावीत्यर्थः ॥२३॥

संततास्तत्र मातङ्गा बाणैरल्पान्तरान्तरे ।
संवृतास्तेन दृश्यन्ते मेघा इव गभस्तिभिः ॥२४॥

तत्र रणभूमौ अल्पान्तरान्तरे अल्पे अन्यान्तरे पदे पदे संतता इत्यर्थः तेन कारणेन ते गभस्तिभिः सूर्यरश्मिभिः संवृता मेघा इव दृश्यन्ते ॥२४॥

दिशोऽनुभ्रमतः सर्वाः सव्यदक्षिणमस्यतः ।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥२५॥

सायकासनं धनुः तस्य मण्डलम् अतिवेगात् अलातचक्रसदृशमित्यर्थः ॥२५॥

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ।
नालक्ष्येषु शराः पेतुस्तथा गाण्डीवधन्वनः ॥२६॥

मार्गो गजसहस्रस्य युगपद्गच्छतो वने ।
यथा भवेत्तथा जज्ञे रथमार्गः किरीटिनः ॥२७॥

मार्ग इति । गजसहस्रेण वनमिवार्जुनरथेन परसैन्यमुपमृद्यत इत्यर्थः ॥२७॥

नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह ।
हन्त्यस्मानित्यमन्यन्त पार्थेने निहताः परे ॥२८॥

घ्नन्तमत्यर्थमहितान् विजयं तत्र मेनिरे ।
कालमर्जुनरूपेण संहरन्तमिव प्रजाः ॥२९॥

विजयम् अर्जुनं कालमिव मेनिरे ॥२९॥

कुरुसेनाशरीराणि पार्थेनैवाहतान्यपि ।
सेदुः पार्थहतानीव पार्थकर्मानुशासनात् ॥३०॥

पार्थेनैव हतानि पार्थहतानीव सेदुर्विशीर्णानि बभूवुरिति । रामरावणयोर्युद्धं रामरावणयोरिवेतिवदभूतोपमेयामित्यर्थः यतोऽत्र पार्थकर्मैवानुशासनमुपमार्थं कर्तव्यं नान्यकर्म अतः पार्थहतानीव सेदुरित्यर्थः ॥३०॥

ओषधीनां शिरांसीव द्विषच्छीर्षाणि सोऽन्वयात् ।
अवनेशुः कुरूणां हि वीर्याण्यर्जुनजाद्भयात् ॥३१॥

ओषधीनां व्रीह्यादीनां शिरांसि कणिशानि अन्वयात् अनुक्रमात् अवनेशुः नष्टानि अर्जुनजात् अर्जुनकृतात् भयात् छेदरूपात् ॥३१॥

अर्जुनानिलभिन्नानि वनान्यर्जुनविद्विषाम् ।
चक्रुर्लोहितधाराभिर्धरणीं लोहितान्तराम् ॥३२॥

अर्जुनविद्विषां स्थाणुभूतानां वनानि आलयानि शरीराणीति यावत् । ‘वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी ॥३२॥

लोहितेन समायुक्तैः पांसुभिः पवनोद्धृतैः ।
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः ॥३३॥

सार्कं खं तत्क्षणेनासीत् सन्ध्यायामिव लोहितम् ।
अप्यस्तं प्राप्य सूर्योऽपि निवर्तेत न पाण्डवः ॥३४॥

तान्सर्वान् समरे शूरः पौरुषे समवस्थितान् ।
दिव्यैरस्त्रैरचिन्त्यात्मा सर्वानार्छद्धनुर्धरान् ॥३५॥

स तु द्रोणं त्रिसप्तत्या क्षुरप्राणां समार्पयत् ।
दुःसहं दशभिर्बाणैद्रौणिमष्टाभिरेव च ॥३६॥

दुःशासनं द्वादशभिः कृपं शारद्वतं त्रिभिः ।
भीष्मं शान्तनवं षष्ठ्या राजानं च शतेन ह ।
कर्णं च कर्णिना कर्णे विव्याध परवीरहा ॥३७॥

कर्णिना बाणेन कर्णे कर्णदेशे ॥३७॥

तस्मिन्विद्धे महेष्वासे कर्णे सर्वास्त्रकोविदे ।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥३८॥

तत् प्रभग्नं बलं दृष्ट्वा पार्थमाजिस्थितं पुनः ।
अभिप्रायं समाज्ञाय वैराटिरिद‌मब्रवीत् ॥३९॥

आस्थाय रुचिरं जिष्णो रथं सारथिना मया ।
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥४०॥

अर्जुन उवाच ।
लोहिताश्वमरिष्टं यं वैयाघ्रमनुपश्यसि ।
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥४१॥

अरिष्टं शुभं वैयाघ्रं व्याघ्रचर्मपरिवृतम् ॥४१॥

कृपस्यैतदनीकाग्र्यं प्रापयस्वैतदेव माम् ।
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥४२॥

ध्वजे कमण्डलुर्यस्य शातकौम्भमयः शुभः ।
आचार्य एष हि द्रोणः सर्वशस्त्रभृतां वरः ॥४३॥

सदा ममैष मान्यस्तु सर्वशस्त्रभृतामपि ।
सुप्रसन्नं महावीरं कुरुष्वैनं प्रदक्षिणम् ॥४४॥

अत्रैव वाऽवरोहैनमेष धर्मः सनातनः ।
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति ॥४५॥

अत्रैव समये एनम् अवमानय अवरोह च अध्यारूढो भव युद्धाय सज्जो भव एनम् अनुलक्षीकृत्येत्यर्थः एतदेव द्वयं प्रकटयति यदि मे इति । प्रथममप्रहारान्माननं पश्चात्प्रहारेणाधिरोहणं चेत्यर्थः ॥४५॥

ततोऽस्य प्रहरिष्यामि नास्य कोपो भवेदिति ॥४५॥

अत्रैव समये एनम् अवमानय अवरोह च अध्यारूढो भव युद्धाय सज्जो भव एनम् अनुलक्षीकृत्येत्यर्थः एतदेव द्वयं प्रकटयति यदि मे इति । प्रथममप्रहारान्माननं पश्चात्प्रहारेणाधिरोहणं चेत्यर्थः ॥४५॥

अस्याविदूरे हि धनुर्ध्वजाग्रे यस्य दृश्यते ।
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥४६॥

सदा ममैष मान्यस्तु सर्वशस्त्रभृतामपि ।
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥४७॥

य एष तु रथानीके सुवर्णकवचावृतः ।
सेनाग्र्येण तृतीयेन व्यावहार्येण तिष्ठति ॥४८॥

व्यावहार्येण व्यवहारयोग्येन अश्रान्तेनेत्त्यर्थः ॥४८॥

यस्य नागो ध्वजाग्रेऽसौ हेमकेतनसंवृतः ।
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥४९॥

एतस्याभिमुखं वीर रथं पररथारुजम् ।
प्रापयस्वैष राजा हि प्रमाथी युद्धदुर्मदः ॥५०॥

एष द्रोणस्य शिष्याणां शीघ्रास्त्रे प्रथमो मतः ।
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं रणे ॥५१॥

नागकक्षा तु रुचिरा ध्वजाग्रे यस्य तिष्ठति ।
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥५२॥

नागकक्षा हस्त्यङ्कितपताकाञ्चलः हस्तिशृङ्खलेत्यन्ये ॥५२॥

एतस्य रथमास्थाय राधेयस्य दुरात्मनः ।
यत्तो भवेथाः सङ्ग्रामे स्पर्धते हि सदा मया ॥५३॥

यस्तु नीलानुसारेण पञ्चतारेण केतुना ।
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥५४॥

नीलानुसारेण नीलपताकावता ताराः सुवर्णमण्डलानि हस्तावापो हस्तत्राणं तद्वान् ॥५४॥

यस्य तारार्कचित्रोऽसौ ध्वजो रथवरे स्थितः ।
यस्यैतत् पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥५५॥

महतो रथवंशस्य नानाध्वजपताकिनः ।
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥५६॥

सूर्यो वा सूर्य इव ॥५६॥

हेमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते ।
जातरूपशिरस्त्राणं मनस्तापयतीव मे ॥५७॥

एष शांतनवो भीष्मः सर्वेषां नः पितामहः ।
राजश्रियाभिवृद्धश्च सुयोधनवशानुगः ॥५८॥

पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ।
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥५९॥

ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् ।
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् ॥६०॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि अर्जुनकृपसङ्ग्रामे पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

वैशंपायन उवाच ।
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् ।
संसर्पन्ते यथा मेघा घर्मान्ते मन्दमारुताः ॥१॥

तानीति । धर्मान्ते प्रावृट्‌काले ॥१॥

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिणः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशनोदिताः ।
महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः ॥२॥

ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् ।
सहोपायात् तदा राजन्विश्वाश्विमरुतां गणैः ॥३॥

समारुह्य विमानमिति शेषः सुदर्शनं शत्रुसमागमम् । उपायात् ‘सुदर्शनो हरेश्चक्रे द्वीपे शत्रुसमागमे’ इति मेदिनी सुदर्शनं यानमित्यन्ये ॥३॥

तद्देवयक्षगन्धर्वमहोरगसमाकुलम् ।
शुशुभेऽभ्रविनिर्मुक्तं ग्रहाणामिव मण्डलम् ॥४॥

तत् मण्डलं स भूमिभागः ग्रहाणां मण्डलमिव वृत्तं शुशुभे ॥४॥

अस्त्राणां च बलं तेषां मानुषेषु प्रयुञ्जताम् ।
तच्च भीमं महद्युद्धं कृपार्जुनसमागमे ।
द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक् पृथक् ॥५॥

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयी ।
मणिरत्नमयी चान्या प्रासादं तदधारयत् ॥६॥

शतसहस्राणां शतं लक्षशतं कोटिसंख्याः स्थूणाः एका हिरण्मयी स्थूणा च यदधारयत् ॥६॥

ततः कामगमं दिव्यं सर्वरत्नविभूषितम् ।
विमानं देवराजस्य शुशुभे खेचरं तदा ॥७॥

तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः ।
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥८॥

त्रयस्त्रिंशत् ‘अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च’ इति ब्राह्मणम् ॥८॥

तथा राजा वसुमना बलाक्षः सुप्रतर्दनः ।
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥९॥

मनुः पूरू रघुर्भानुः कृशाश्वः सगरो नलः ।
विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥१०॥

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः ।
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥११॥

अलम्बुषोग्रसेनानां गन्धर्वस्य च तुम्बुरोः ।
यथामानं यथोद्देशं विमानानि चकाशिरे ॥१२॥

अलम्बुषोग्रसेनानां तत्प्रभृतीनां गन्धर्वाणाम् ॥१२॥

सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः ।
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥१३॥

दिव्यानां सर्वमाल्यानां गन्धः पुण्योऽथ सर्वशः ।
प्रससार वसन्ताग्रे वनानामिव भारत ॥१४॥

तत्र रत्नानि देवानां समदृश्यन्त तिष्ठताम् ।
आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥१५॥

उपाशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः ।
दिव्यगन्धानुपादाय वायुर्योधानसेवत ॥१६॥

प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् ।
संपतद्भिः स्थितैश्चापि नानारत्नविभासितैः ॥१७॥

विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ।
वज्रभृच्छुशुभे तत्र विमानस्थैः सुरैर्वृतः ॥१८॥

बिभ्रंन्मालां महातेजाः पद्मोत्पलसमायुताम् ।
विप्रेक्ष्यमाणो बहुभिर्नातृप्यत्सुमहाहवम् ॥१९॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि देवागमने षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच ।
दृष्ट्वा व्यूढान्यनीकानि कुरूणां कुरुनन्दन ।
तत्र वैरादिमामन्त्र्य पार्थो वचनमब्रवीत् ॥१॥

दृष्ट्वेति ॥१॥

जाम्बूनदमयी वेदी ध्वजे यस्य प्रदृश्यते ।
तस्य दक्षिणतो याहि कृपः शारद्वतो यतः ॥२॥

वैशम्पायन उवाच ।
धनञ्जयवचः श्रुत्वा वैराटिस्त्वरितस्ततः ।
हयान् रजतसंकाशान् हेमभाण्डानचोदयत् ॥३॥

हेमभाण्डान् स्वर्णालङ्कारान् ॥३॥

आनुपूर्व्यात्तु तत् सर्वमास्थाय जवमुत्तमम् ।
प्राहिणोच्चन्द्रसंकाशान् कुपितानिव तान् हयान् ॥४॥

स गत्वा कुरुसेनायाः समीपं हयकोविदः ।
पुनरावर्तयामास तान् हयान् वातरंहसः ॥५॥

प्रदक्षिणमुपावृत्य मण्डलं सव्यमेव च ।
कुरून् संमोहयामास मत्स्यो यानेन तत्त्ववित् ॥६॥

मत्स्यः उत्तरः ॥६॥

कृपस्य रथमास्थाय वैराटिरकुतोभयः ।
प्रदक्षिणमुपावृत्य तस्थौ तस्याग्रतो बली ॥७॥

ततोऽर्जुनः शङ्खवरं देवदत्तं महारवम् ।
प्रदध्मौ बलमास्थाय नाम विश्राव्य चात्मनः ॥८॥

तस्य शब्दो महानासीद्धम्यमानस्य जिष्णुना ।
तथा वीर्यवता संख्ये पर्वतस्येव दीर्यतः ॥९॥

पूजयाञ्चक्रिरे शङ्खं कुरवः सहसैनिकाः ।
अर्जुनेन तथा घ्मातः शतधा यन्न दीर्यते ॥१०॥

दिवमावृत्य शब्दस्तु निवृत्तः शुश्रुवे पुनः ।
सृष्टो मघवता वज्रः प्रपतन्निव पर्वते ॥११॥

वज्रः अशनिः ॥११॥

एतस्मिन्नन्तरे वीरो बलवीर्यसमन्वितः ।
अर्जुनं प्रति संरब्धः कृपः परमदुर्जयः ।
अमृष्यमाणस्तं शब्दं कृपः शारद्वतस्तदा ॥१२॥

अर्जुनं प्रति संरब्धो युद्धार्थी स महारथः ।
महोदधिजमादाय दध्मौ वेगेन वीर्यवान् ॥१३॥

महोदधिजं शङ्खम् ॥१३॥

स तु शब्देन लोकांस्त्रीनावृत्य रथिनां वरः ।
धनुरादाय सुमहज्ज्याशब्दमकरोत् तदा ॥१४॥

तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ ।
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥१५॥

रथो रथिनौ ॥१५॥

ततः शारद्वतस्तूर्णं पार्थं दशभिराशुगैः ।
विव्याध परवीरघ्नं निशितैर्मर्मभेदिभिः ॥१६॥

पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् ।
विकृष्य चिक्षेप बहुन् नाराचान् मर्मभेदिनः ॥१७॥

तानप्राप्तान् शितैर्बाणैर्नाराचान् रक्तभोजनान् ।
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥१८॥

ततः पार्थस्तु संक्रुद्धश्चित्रान् मार्गान् प्रदर्शयन् ।
दिशः संछादयन् बाणैः प्रदिशश्च महारथः ।
एकच्छायमिवाकाशमकरोत् सर्वतः प्रभुः ॥१९॥

प्राच्छाद‌मेयात्मा पार्थः शरशतैः कृपम् ।
स शरैरर्दितः कुद्धः शितैरग्निशिखोपमैः ॥२०॥

तूर्णं दशसहस्त्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महात्मानं ननर्द समरे कृपः ॥२१॥

ततः कनकपर्वाग्रैर्वीरः सन्नतपर्वभिः ।
त्वरन् गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ॥२२॥

कनकपर्वाग्रैः कनकलिप्तफलकैः ॥२२॥

चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत् परमेषुभिः ।
ते हया निशितैर्बाणैर्ज्वलद्भिरिव पन्नगैः ।
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥२३॥

च्युतं तु गौतमं स्थानात् समीक्ष्य कुरुनन्दनः ।
नाविध्यत् परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥२४॥

स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् ।
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥२५॥

स्थानं स्थैर्यं संज्ञामिति यावत् ॥२५॥

ततः पार्थो धनुस्तस्य भल्लेन निशितेन ह ।
चिच्छेदैकेन भूयश्च हस्तावापमथाहरत् ॥२६॥

अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः ।
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥२७॥

तस्य निर्मुच्यमानस्य कवचात् काय आबभौ ।
समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥२८॥

छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् ।
चकार गौतमः सज्यं तद‌द्भुतमिवाभवत् ॥२९॥

स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा ।
एवमन्यानि चापानि बहूनि कृतहस्तवत् ॥३०॥

शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ।
स छिन्नधनुरादाय रथशक्तिं प्रतापवान् ॥३१॥

प्राहिणोत् पाण्डुपुत्राय प्रदीप्तामशनीमिव ।
तामर्जुनस्तदाऽऽयान्तीं शक्तिं हेमविभूषिताम् ॥३२॥

वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ।
साऽपतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥३३॥

युगपच्चैव भल्लैस्तु ततः सज्यधनुः कृपः ।
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥३४॥

ततः पार्थो महातेजा विशिखानग्नितेजसः ।
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥३५॥

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥३६॥

त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षं महारथः ।
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तदा ॥३७॥

ततो वज्रनिकाशेन फाल्गुनः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यविध्यत ॥३८॥

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥३९॥

सा च मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता ।
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ॥४०॥

नुन्ना दूरीकृता प्रतिमार्गम् अगमत् परावृत्तेत्यर्थः ॥४०॥

तं तु योधाः परीप्सन्तः शारद्वतममर्षणम् ।
सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥४१॥

ततो विराटस्य सुतो सव्यमावृत्य वाजिनः ।
यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् ॥४२॥

असव्यम् आवृत्य अप्रदक्षिणं कृत्वेत्यर्थः । यमकं शत्रूणां निरोधकं मण्डलं कृत्वा यस्मिन्कृते शत्रुरपमानितो लज्जितस्तिष्ठति ॥४२॥

ततः कृपमुपादाय विरथं ते नरर्षभाः ।
अपजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् ॥४३॥

अपजह्रुर्नीतवन्तः ॥४३॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहणे कृपापयाने सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच ।
कृपेऽपनीते द्रोणस्तु प्रगृह्य सशरं धनुः ।
अभ्यद्रवदनाधृष्यः शोणाश्वः श्वेतवाहनम् ॥१॥

कृप इति ॥१॥

स तु रुक्मरथं दृष्ट्वा गुरुमायान्तमन्तिकात् ।
अर्जुनो जयतां श्रेष्ठ उत्तरं वाक्यमब्रवीत् ॥२॥

अर्जुन उवाच ।
यत्रैषा काञ्चनी वेदी ध्वजे यस्य प्रकाशते ।
उछ्रिता प्रवरे दण्डे पताकाभिरलङ्कृता ।
अत्र मां वह भद्रं ते द्रोणानीकाय सारथे ॥३॥

अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः ।
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥४॥

दीर्घबाहुर्महातेजा बलरूपसमन्वितः ।
सर्वलोकेषु विक्रान्तो भारद्वाजः प्रतापवान् ॥५॥

बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये ।
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥६॥

ससंहाराणि सर्वाणि दिव्यान्यस्त्राणि मारिष ।
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥७॥

क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् ।
एते चान्ये च बहवो यस्मिन्नित्यं द्विजे गुणाः ॥८॥

तेनाहं योद्धुमिच्छामि महाभागेन संयुगे ।
तस्मात् तं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥९॥

वैशम्पायन उवाच ।
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषणान् ।
चोदयामास तानश्वान् भारद्वाजरथं प्रति ॥१०॥

तमापतन्तं वेगेन पाण्डवं रथिनां वरम् ।
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥११॥

ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥१२॥

अथ शोणान् सदश्वांस्तान् हंसवर्णैर्मनोजवैः ।
मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे नराः ॥१३॥

प्रतिद्वंद्विनोर्दोणार्जुनयोर्वाजिनां मिश्रणेनातिसान्निध्याद्विस्मयो जातः ॥१३॥

तौ रथौ वीरसंपन्नौ दृष्ट्वा सङ्ग्राममूर्धनि ।
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥१४॥

समाश्लिष्टौ तदाऽन्योन्यं द्रोणपार्थौ महाबलौ ।
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥१५॥

यदा तु तौ समाश्लिष्टो परस्परं रथस्थावेवालिङ्गितवन्तौ तदा भरतानां बलं प्राकम्पत द्रोणोऽर्जुनेन सख्यं गतोऽस्मानेव प्रहरिष्यतीतिशङ्कया ॥१५॥

हर्षयुक्तस्ततः पार्थः प्रहसन्निव वीर्यवान् ।
रथं रथेन द्रोणस्य समासाद्य महारथः ॥१६॥

अभिवाद्य महाबाहुः सामपूर्वमिदं वचः ।
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥१७॥

उषिताः स्मो वने वासं प्रतिकर्म चिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥१८॥

प्रतिकर्म शत्रूणाम् अपकारम् ॥१८॥

अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ ।
इति मे वर्तते बुद्धिस्तद्भवान् कर्तुमर्हति ॥१९॥

ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकावंशतिम् ।
अप्राप्तांश्चैव तान् पार्थश्चिच्छेद कृतहस्तवत् ॥२०॥

कृतहस्तवत् सुशिक्षितहस्तयुक्तं यथा स्यात्तथा चिच्छेद ॥२०॥

ततः शरसहस्त्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत् ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥२१॥

हयांश्च रजतप्रख्यान् कङ्कपत्रैः शिलाशितैः ।
अवाकिरदमेयात्मा पार्थं संकोपयन्निव ॥२२॥

एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ।
समं विमुञ्चतोः संख्ये विशिखान् दीप्ततेजसः ॥२३॥

सममविशेषेण ॥२३॥

तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे ।
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥२४॥

विदुषौ विद्वांसौ ॥२४॥

व्यस्मयन्त ततो योधा ये तत्रासन्समागताः ।
शरान्विसृजतोस्तूर्णं साधु साध्वित्यपूजयन् ॥२५॥

द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फाल्गुनात् ।
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।
इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ॥२६॥

वीरौ तावभिसंरब्धौ संनिकृष्टौ महाभुजौ ।
छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥२७॥

विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् ।
भारद्वाजोऽथ संक्रुद्धः फाल्गुनं प्रत्यविध्यत ॥२८॥

स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोराच्छादयत् प्रभाम् ॥२९॥

शिलाधौतैः दृषदि तेजितैः ॥२९॥

पार्थं च सुमहाबाहुर्महावेगैर्महारथः ।
विव्याध निशितैर्बाणैर्मेधो वृष्ट्येव पर्वतम् ॥३०॥

तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः ।
शत्रुघ्नं वेगवान् हृष्टो भारसाधनमुत्तमम् ॥३१॥

भारसाधनं शत्रुमर्दनक्षमम् अच्छेद्यमित्यर्थ ॥३१॥

विससर्ज शरांश्चित्रान् सुवर्णविकृतान् बहून् ।
नाशयन् शरवर्षाणि भारद्वाजस्य वीर्यवान् ।
तूर्णं चापविनिर्मुक्तैस्तद‌द्भुतमिवाभवत् ॥३२॥

स रथेन चरन् पार्थः प्रेक्षणीयो धनञ्जयः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यदर्शयत् ॥३३॥

एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥३४॥

तस्याभवत् तदा रूपं संवृतस्य शरौत्तमैः ।
जाज्वल्यमानस्य तदा पर्वतस्येव सर्वतः ॥३५॥

दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् ।
स विस्फार्य धनुः श्रेष्ठं मेघस्तनितनिःस्वनम् ॥३६॥

अग्निचक्रोपमं घोरं व्यकर्षत् परमायुधम् ।
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ॥३७॥

महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥३८॥

जाम्बूनदमयैः पुङ्खैश्चित्रचापविनिर्गतैः ।
प्राच्छादयद‌मेयात्मा दिशः सूर्यस्य च प्रभाम् ॥३९॥

ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
वियच्चाराणां वियति दृश्यन्ते बहवो व्रजाः ॥४०॥

द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् ।
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥४१॥

एवं तौ स्वर्णविकृतान् विमुञ्चन्तौ महाशरान् ।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥४२॥

शरास्तयोस्तु विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि स्वस्थानां हंसानां चरतामिव ॥४३॥

युद्धं समभवत् तत्र सुसंरब्धं महात्मनोः ।
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥४४॥

तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥४५॥

विषाणाग्रैः दन्ताग्रैः ॥४५॥

तौ व्यवाहरतां युद्धे संरब्धौ रणशोभिनौ ।
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥४६॥

व्यवहरतां व्यवहारं धर्मयुद्धं कृतवन्तौ ॥४६॥

अथ त्वाचार्यमुख्येन शरान् सृष्टान् शिलाशितान् ।
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥४७॥

दर्शयन् वीक्षमाणानामस्त्रमुग्रपराक्रमः ।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥४८॥

जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् ।
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ।
अर्जुनेन सहाक्रीडच्छरैः सन्नतपर्वभिः ॥४९॥

जिघांसताऽप्यर्जुनेन सह वात्सल्यात् स्वयमक्रीडत् न तु क्रूरोऽभूत् ॥४९॥

दिव्यान्यस्त्राणि वर्षन्तं तस्मिन् वै तुमुले रणे ।
अस्त्रैरस्त्राणि संवार्य फाल्गुनं समयोधयत् ॥५०॥

तयोरासीत् संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमर्षिणोस्तदाऽन्योन्यं देवदानवयोरिव ॥५१॥

ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
द्रोणेन मुक्तमात्रं तु ग्रसति स्म पुनः पुनः ॥५२॥

एवं शूरौ महेष्वासौ विसृजन्तौ शितान् शरान् ।
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥५३॥

तत्रार्जुनेन मुक्तानां पततां वै शरीरिषु ।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥५४॥

ततो नागा रथाश्चैव वाजिनश्च विशांपते ।
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥५५॥

बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः ।
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥५६॥

योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः ।
बलमासीत् समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥५७॥

विधुन्वानौ तु तौ तत्र धनुषी भारसाधने ।
आच्छादयेतामन्योन्यं ततक्षतुरथेषुभिः ॥५८॥

ततक्षतुः क्षीणं चक्रतुः ॥५८॥

तयोः समभवद्युद्धं तुमुलं भरतर्षभ ।
द्रोणकौन्तेययोस्तत्र बलिवासवयोरिव ॥५९॥

अथ पूर्णायतोत्सृष्टैः शरैः सन्नतपर्वभिः ।
व्यदारयेतामन्योन्यं प्राणद्यूते प्रवर्तिते ॥६०॥

अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥६१॥

प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् ।
जेतारं देवदैत्यानां सर्वेषां च महारथम् ॥६२॥

अविभ्रमं च शिक्षां च लाघवं दूरपातिताम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥६३॥

अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥६४॥

तस्य बाणमयं वर्षं शलभानामिवायतिम् ।
दृष्ट्वा ते विस्मिताः सर्वे साधु साध्वित्यपूजयन् ॥६५॥

आयतिं संततिम् ॥६५॥

न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ।
अनिशं संदधानस्य शरानुत्सृजतस्तथा ॥६६॥

ददर्श नान्तरं कश्चित् पार्थस्यादद‌तोऽपि च ॥६७॥

तथा शीघ्रास्त्रयुद्धे तु वर्तमानेः सुदारुणे ।
शीघ्रं शीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥६८॥

ततः शतसहस्त्राणि शराणां नतपर्वणाम् ।
युगपत् प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥६९॥

कीर्यमाणे तदा द्रोणे शरैर्गाण्डीवधन्वना ।
हाहाकारो महानासीत् सैन्यानां भरतर्षभ ॥७०॥

पाण्डवस्य तु शीघ्रास्त्रं मघवा प्रत्यपूजयत् ।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥७१॥

ततो वृन्देन महता रथानां रथयूथपः ।
आचार्यपुत्रः सहसा पाण्डवं पर्यवारयत् ॥७२॥

अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः ।
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥७३॥

स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्छरसहस्त्राणि पर्जन्य इव वृष्टिमान् ॥७४॥

आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् ।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥७५॥

अन्तरमवकाशम् ॥७५॥

स तु लब्ध्वाऽन्तरं तूर्णमपायाज्जवनैर्हयैः ।
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥७५॥

अन्तरमवकाशम् ॥७५॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि द्रोणापयाने अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
एकोनषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
ततो द्रौणिर्महाराज प्रययावर्जुनं रणे ।
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् ।
शरजालेन महता वर्षमाणमिवाम्बुदम् ॥१॥

तत इति ॥१॥

तयोर्देवासुरसमः संनिपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥२॥

न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरजालावृते व्योम्नि च्छायाभूते समन्ततः ॥३॥

महांश्चटचटाशब्दो योधयोर्हन्यमानयोः ।
दह्यतामिव वेणूनामासीत् परपुरञ्जय ॥४॥

हयानस्यार्जुनः सर्वान् कृतवानल्पजीवितान् ।
ते राजन्न प्रजानन्त दिशं काञ्चन मोहिताः ॥५॥

न प्रजानन्त अडभाव आर्षः । न च ज्ञातवन्तः ॥५॥

ततो द्रौणिर्महार्वार्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ।
तदस्यापूजयन् देवाः कर्म दृष्ट्वाऽतिमानुषम् ॥६॥

विवरं रंध्रम् ॥६॥

द्रोणो भीष्मश्च कर्णश्च कृपश्चैव महारथाः ।
साधु साध्विति भाषन्तोऽपूजयन् कर्म तस्य तत् ॥७॥

ततो द्रौणिर्धनुः श्रेष्ठमपकृष्य रथर्षभम् ।
पुनरेवाहनत् पार्थं हृदये कङ्कपत्रिभिः ॥८॥

अपकृष्य आकृष्य ॥८॥

ततः पार्थो महाबाहुः प्रहस्य स्वनवत् तदा ।
योजयामास नवया मौर्व्या गाण्डीवमोजसा ॥९॥

ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् ।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥१०॥

अर्धचन्द्रम् अर्धचन्द्राकारं ललाटम् । आवृत्य प्रमृज्य स्वेदेन ज्यां प्रमृज्येत्यर्थः । तेन अश्वत्थाम्ना ॥१०॥

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेवं सुमहल्लोमहर्षणम् ॥११॥

तौ वीरौ ददृशुः सर्वे कुरवो विस्मयान्विताः ।
युध्यमानौ महावीर्यौ यूथपाविव संगतौ ॥१२॥

तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ ।
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ॥१३॥

अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः ।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥१४॥

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे ।
जग्मुः परिक्षयं तूर्णमभूत् तेनाधिकोऽर्जुनः ॥१५॥

ततः कर्णो महाचापं विकृष्याभ्यधिकं तथा ।
अवाक्षिपत् ततः शब्दो हाहाकारो महानभूत् ॥१६॥

ततश्चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः ।
ददर्श तत्र राधेयं तस्य कोपो व्यवर्धत ॥१७॥

चक्षुर्दधे धृतवान् ॥१७॥

स रोषवशमापन्नः कर्णमेव जिघांसया ।
तमैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः ॥१८॥

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकात् ।
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ॥१९॥

उत्सृज्य च महावाहुर्द्रोणपुत्रं धनञ्जयः ।
अभिदुद्राव सहसा कर्णमेव सपत्नजित् ॥२०॥

तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः ।
कामयन् द्वैरथं तेन युद्धं वचनमब्रवीत् ॥२१॥

कामयन् कामयमानः ॥२१॥
इति श्रीमहाभारते विराटपर्वणि गोग्रहणपर्वणि उत्तरगोग्रहे अर्जुनाश्वत्थामयुद्धे एकोनषष्टितमोऽध्यायः ॥५९॥
षष्टितमोऽध्यायः

अर्जुन उवाच ।
कर्ण यत् ते सभामध्ये बहु वाचा विकत्थितम् ।
न मे युधि समोऽस्तीति तदिदं समुपस्थितम् ॥१॥

कर्णेति । ते त्वया ॥१॥

सोऽद्य कर्ण मया सार्धं व्यवहृत्य महामृधे ।
ज्ञास्यस्यबलमात्मानं न चान्यानवमन्यसे ॥२॥

अवोचः परुषा वाचो धर्ममृत्सृज्य केवलम् ।
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ॥३॥

यत् त्वया कथितं पूर्वं मामनासाद्य किंचन ।
तदद्य कुरु राधेय कुरुमध्ये मया सह ॥४॥

यत्सभायां स पाञ्चालीं क्लिश्यमानां दुरात्मभिः ।
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ॥५॥

धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा ।
तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥६॥

वने द्वादश वर्षाणि यानि सोढानि दुर्मते ।
तस्याद्य प्रतिकोपस्य फलं प्राप्नुहि संप्रति ॥७॥

एहि कर्ण मया सार्धं प्रतियुध्यस्व सङ्गरे ।
प्रेक्षकाः कुरवः सर्वे भवन्तु तव सैनिकाः ॥८॥

कर्ण उवाच ।
ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर ।
अतिशेते हि ते वाक्यं कर्मैतत् प्रथितं भुवि ॥९॥

ते तव वाक्यं कर्तृ कर्म अतिशेते अल्पं कर्म वाक्यं तु बहुलमित्यर्थः ॥९॥

यत् त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इतो गृह्णीमहे पार्थ तव दृष्ट्वा पराक्रमम् ॥१०॥

इतः परं तव पराक्रमं गृह्णामहे अङ्गीकुर्महे ॥१०॥

धर्मपाशनिबद्धेन यत् त्वया मर्षितं पुरा ।
तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥११॥

यदि तावद्वने वासो यथोक्तश्चरितस्त्वया ।
तत्त्वं धर्मार्थवित्क्लिष्टः स मया योद्धुमिच्छसि ॥१२॥

यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् ।
तथाऽपि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥१३॥

अयं कौन्तेय कामस्ते न चिरात् समुपस्थितः ।
योत्स्यसे हि मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥१४॥

अर्जुन उवाच ।
इदानीमेव तावत्त्वमपयातो रणान्मम ।
तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥१५॥

भ्रातरं घातयित्वा कस्त्यक्त्वा रणशिरश्च कः ।
त्वदन्यः कः पुमान् सत्सु ब्रूयादेवं व्यवस्थितः ॥१६॥

वैशम्पायन उवाच ।
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः ।
अभ्ययाद्विसृजन् बाणान् कायावरणभेदिनः ॥१७॥

प्रतिजग्राह तं कर्णः प्रीयमाणो महारथः ।
महता शरवर्षेण वर्षमाणमिवाम्बुदम् ॥१८॥

उत्पेतुः शरजालानि घोररूपाणि सर्वशः ।
अविध्यदश्वान् बाह्वोश्च हस्तावापं पृथक् पृथक् ॥१९॥

सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् ।
चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥२०॥

अवलम्बनं सूत्रं चिच्छेद ॥२०॥

उपासङ्गादुपादाय कर्णो बाणानथापरान् ।
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥२१॥

ततो निषङ्गे महातूणीरे पतिते सति उपासङ्गात्क्षुद्रतूणीरात् स्वदेहबाह्यात् ॥२१॥

ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् ।
स शक्तिं प्राहिणोत् तस्मै तां पार्थो व्यधमच्छरैः ॥२२॥

ततोऽनुपेतुर्बहवो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥२३॥

ततोऽस्याश्वान् शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः ।
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन् भुवि ॥२४॥

अथापरेण बाणेन ज्वलितेन महौजसा ।
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥२५॥

तस्य भित्त्वा तनुत्राणं कायमभ्यगमच्छरः ।
ततः स तमसाऽऽविष्टो न स्म किंचित्प्रजज्ञिवान् ॥२६॥

स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः ।
ततोऽर्जुन उद‌क्रोशदुत्तरश्च महारथः ॥२७॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि कर्णापयाने षष्टितमोऽध्यायः ॥६०॥
एकषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् ।
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥१॥

तत इति ॥१॥

अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः ।
क्वाङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ॥२॥

अथ सैन्यं महद्दृष्ट्वा रथनागहयाकुलम् ।
अब्रवीदुत्तरः पार्थमपविद्धः शरैर्भृशम् ॥३॥

नाहं शक्ष्यामि वीरेह नियन्तुं ते हयोत्तमान् ।
विषीदन्ति मम प्राणा मनो विह्वलतीव मे ॥४॥

अस्त्राणामिव दिव्यानां प्रभावः संप्रयुज्यताम् ।
त्वया च कुरुभिश्चैव द्रवन्तीव दिशो दश ॥५॥

गन्धेन मूर्छितश्चाहं वसारुधिरमेदसाम् ।
द्वैधीभूतं मनो मेऽद्य तव चैव प्रपश्यतः ॥६॥

अदृष्टपूर्वः शूराणां मया संख्ये समागमः ।
गदापातेन महता शङ्खानां निःस्वनेन च ॥७॥

सिंहनादैश्च शूराणां गजानां बृंहितैस्तथा ।
गाण्डीवशब्देन भृशमशनिप्रतिमेन च ।
श्रुतिः स्मृतिश्च मे वीर प्रनष्टा मूढचेतसः ॥८॥

अलातचक्रप्रतिमं मण्डलं सततं त्वया ।
व्याक्षिप्यमाणं समरे गाण्डीवं च प्रकर्षता ।
दृष्टिः प्रचलिता वीर हृदयं दीर्यतीव मे ॥९॥

वपुश्चोग्रं तव रणे क्रुद्धस्येव पिनाकिनः ।
व्यायच्छतस्तव भुजं दृष्ट्वा भीर्मे भवत्यपि ॥१०॥

नाददानं न संधानं न मुञ्चन्तं शरोत्तमान् ।
त्वामहं संप्रपश्यामि पश्यन्नपि न चेतनः ॥११॥

न संधानं न संदधानं वर्णलोप आर्षः ॥११॥

अवसीदन्ति मे प्राणा भूरियं चलतीव च ।
न च प्रतोदं रश्मींश्च संयन्तुं शक्तिरस्ति मे ॥१२॥

अर्जुन उवाच ।
मा भैषीः स्तम्भयात्मानं त्वयाऽपि नरपुङ्गव ।
अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि ॥१३॥

राजपुत्रोऽसि भद्रं ते कुले मत्स्यस्य विश्रुते ।
जातस्त्वं शत्रुदमने नावसीदितुमर्हसि ॥१४॥

धृतिं कृत्वा सुविपुलां राजपुत्र रथे मम ।
युध्यमानस्य समरे हयान् संयच्छ शत्रुहन् ॥१५॥

वैशम्पायन उवाच ।
एवमुक्त्वा महाबाहुर्वैराटिं नरसत्तमः ।
अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यमब्रवीत् ॥१६॥

सेनाग्रमाशु भीष्मस्य प्रापयस्वैतदेव माम् ।
आच्छेत्स्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥१७॥

जित्वा जेतुं शक्तः ॥१७॥

अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय ।
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ॥१८॥

निशामय पश्य शतह्रदां विद्युतम् ॥१८॥

सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम ।
दक्षिणेनाथ वामेन कतरेण स्विदस्यति ॥१९॥

इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः ।
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् ।
नदीं प्रस्कन्दयिष्यामि परलोकप्रवाहिनीम् ॥२०॥

पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् ।
वनं कुरूणां छेत्स्यामि शरैः सन्नतपर्वभिः ॥२१॥

जयतः कौरवीं सेनामेकस्य मम धन्विनः ।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥२२॥

शतं मार्गा इति सर्वतो मार्गस्यानिरोध उक्तः सर्वतो वा मम बाणा गमिष्यन्तीत्यर्थः ॥२२॥

मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ।
इष्वस्त्रे शिक्षितं चित्रमहं दर्शयिताऽस्मि ते ॥२३॥

आविद्धं भ्राम्यमाणं शिक्षितं शिक्षाम् ॥२३॥

असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च ।
दिवमावृत्य तिष्ठन्तं गिरिं भिन्द्यां स्म पत्रिभिः ॥२४॥

अहमिन्द्रस्य वचनात् सङ्ग्रामेऽभ्यहनं पुरा ।
पौलोमान् कालखञ्जांश्च सहस्राणि शतानि च ॥२५॥

अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् ।
प्रगाढे तुमुलं चित्रमिति विद्धि प्रजापतेः ॥२६॥

प्रगाढे संकटे चित्रं नानाविधं तुमुलं संकटयुद्धं सर्वत्र वैद्मीति शेषः ॥२६॥

अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् ।
जित्वा षष्टिं सहस्त्राणि रथिनामुग्रधन्विनाम् ॥२७॥

शीर्यमाणानि कूलानि प्रवृद्धेनेव वारिणा ।
मया कुरूणां वृन्दानि पात्यमानानि पश्य वै ॥२८॥

ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् ।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥२९॥

रथसिंहगणैः आ समन्तात् युतम् ॥२९॥

तानहं रथनीडेभ्यः शरैः सन्नतपर्वभिः ।
यत्तान् सर्वानतिबलान् योत्स्यमानानवस्थितान् ।
एकः संकालयिष्यामि वज्रपाणिरिवासुरान् ॥३०॥

रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि ।
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।
वज्रादीनि तथाऽस्त्राणि शक्रादहमवाप्तवान् ॥३१॥

धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् ।
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ॥३२॥

वैशम्पायन उवाच ।
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना ।
व्यवागाहद्रथानीकं भीमं भीष्माभिरक्षितम् ॥३३॥

व्यवागाहत् आलोडितवान् ॥३३॥

तमायान्तं महाबाहुं जिगीषन्तं रणे कुरून् ।
अभ्यवारयदव्यग्रः क्रूरकर्माऽऽपगासुतः ॥३४॥

तस्य जिष्णुरुपावृत्य ध्वजं मूलादपातयत् ।
विकृष्य कलधौताग्रैः स विद्धः प्रापतद्भुवि ॥३५॥

उपावृत्य संमुखीभूय विकृष्य छित्वा कलधौताग्रैः स्वर्णरञ्जितफलकैर्बाणैः ॥३५॥

तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः ।
आगच्छन् भीमधन्वानं चत्वारश्च महाबलाः ॥३६॥

दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः ।
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ॥३७॥

दुःशासनस्तु भल्लेन विद्ध्वा वैराटमुत्तरम् ।
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत् स्तनान्तरे ॥३८॥

तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥३९॥

अथैनं पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे ।
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥४०॥

एनं दुःशासनम् ॥४०॥

तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपत्रैरजिह्मगैः ।
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥४१॥

ततस्तमपि कौन्तेयः शरेणानतपर्वणा ।
ललाटेऽभ्यहनत् तूर्णं स विद्धः प्रापतद्रथात् ॥४२॥

ततः पार्थमभिद्रुत्य दुःसहः स विविंशतिः ।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सुर्भ्रातरं रणे ॥४३॥

तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः ।
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥४४॥

तौ हताश्वौ विभिन्नाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥४५॥

सर्वा दिशश्चाभ्यपतद्बिभत्सुरपराजितः ।
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥४६॥

लब्धलक्षः अप्रच्युतलक्षः ॥४६॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि अर्जुनदुःशासनादियुद्धे एकषष्टितमोऽध्यायः ॥६१॥
द्विषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
अथ सङ्गम्य सर्वे ते कौरवाणां महारथाः ।
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥१॥

अथेति ॥१॥

स सायकमयैर्जालैः सर्वतस्तान् महारथान् ।
प्राच्छाद्यदमेयात्मा नीहारेणेव पर्वतान् ॥२॥

नीहारेण धूमोष्मणा ॥२॥

नदद्भिश्च महानागैर्ह्रेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥३॥

नराश्वकायान्निर्भिद्य लौहानि कवचानि च ।
पार्थस्य शरजालानि विनिष्पतुः सहस्रशः ॥४॥

त्वरमाणः शरानस्यन्पाण्डवः प्रबभौ रणे ।
मध्यन्दिनगतोऽर्चिष्मान् शरदीव दिवाकरः ॥५॥

उपप्लवन्ति वित्रस्ता रथेभ्यो रथिनस्तथा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातयः ॥६॥

उपप्लवन्ति इतस्ततो धावन्ति ॥६॥

शरैः संच्छिद्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ॥७॥

छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् ।
गजाश्वसादिनां तत्र शितबाणात्तजीवितैः ॥८॥

आयोधनं रणभूः गतचेतसां मूढानाम् । आत्तजीवितैर्मृतैः शरीरैः ॥८॥

रथोपस्थामिपतितैरास्तृता मानवैर्मही ।
प्रनृत्यतीव सङ्ग्रामे चापहस्तो धनञ्जयः ॥९॥

रथोपस्थेभ्योऽभितः पतितैः ॥९॥

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
त्रस्तानि सर्वसैन्यानि व्यपागच्छन्महाहवात् ॥१०॥

कुण्डलोष्णीषधारीणि जातरूपस्त्रजस्तथा ।
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥११॥

धारीणि शिरांसि स्रजश्च पतितानि दृश्यन्ते ॥११॥

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥१२॥

शिरसां पात्यमानानामन्तरा निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥१३॥

दर्शयित्वा तथाऽऽत्मानं रौद्रं रुद्रपराक्रमः ।
अवरुद्धोऽचरत्पार्थो वर्षाणि त्रिदशानि च ।
क्रोधाग्निमुत्सृजन् वीरो धार्तराष्ट्रेषु पाण्डवः ॥१४॥

त्रीणि च दश चेति त्रिदशानि वर्षाणि अवरुद्धः पार्थस्तदानीं स्वेच्छयाऽचरदित्यर्थः ॥१४॥

तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् ।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः॥१५॥

वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् ।
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥१६॥

प्रावर्तयन्नदीं घोरां शोणितोदां तरङ्गिणीम् ।
अस्थिशैवालसम्बाधां युगान्ते कालनिर्मिताम् ॥१७॥

शरचापप्लवां घोरां केशशैवलशाद्वलाम् ।
तनुत्रोष्णीषसम्बाधां नागकूर्ममहाद्विपाम् ॥१८॥

नागा हस्तिन एव कूर्माः महाद्विपा जलगजाश्च यस्यां ताम् ॥१८॥

मेदोवसासृक्प्रवहां महाभयविवर्धिनीम् ।
रौद्ररूपां महाभीमां श्वापदैरभिनादिताम् ॥१९॥

तीक्ष्णशस्त्रमहाग्राहां क्रव्यादगणसेविताम् ।
मुक्ताहारोर्मिकलिलां चित्रालङ्कारबुद्बुदाम् ॥२०॥

शरसङ्घमहावर्तां नागनक्रां दुरत्ययाम् ।
महारथमहाद्वीपां शङ्खदुन्दुभिनिःस्वनाम् ।
चकार च तदा पार्थो नदीं दुस्तरशोणिताम् ॥२१॥

आददानस्य हि शरान् सन्धाय च विमुञ्चतः ।
विकर्षतश्च गाण्डीवं न कश्चिद्ददृशे जनः ॥२२॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि अर्जुनसंकुलयुद्धे द्विषष्टितमोऽध्यायः ॥६२॥
त्रिषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
ततो दुर्योधनः कर्णो दुःशासनविविंशती ।
द्रोणश्च सह पुत्रेण कृपश्चापि महारथः ॥१॥

तत इति ॥१॥

पुनर्ययुश्च संरब्धा धनञ्जयजिघांसवः ।
विस्फारयन्तश्चापानि बलवन्ति दृढानि च ॥२॥

तान्विकीर्णपताकेन रथेनादित्यवर्चसा ।
प्रत्युद्ययौ महाराज समन्ताद्वानरध्वजः ॥३॥

विकीर्णा विस्तारिता पताकाध्वजाञ्चलो यस्य तेन ॥३॥

ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः ।
तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् ॥४॥

शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ।
ववर्षुः शरवर्षाणि पातयन्तो धनञ्जयम् ॥५॥

पातयन्तः पीडयन्तः ॥५॥

इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः ।
अदूरात् पर्यवस्थाप्य पूरयामासुरादृताः ॥६॥

पर्यवस्थाप्य स्तब्धीकृत्य इषुभिः पूरयामासुः आवृतवन्तः ॥६॥

तथा तैरवकीर्णस्य दिव्यैरस्त्रै समन्ततः ।
न तस्य द्व्यङ्गुलमपि विवृतं सम्प्रदृश्यते ॥७॥

ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः ।
अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ॥८॥

शररश्मिरिवादित्यः प्रतस्थे समरे बली ।
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ॥९॥

यथा बलाहके विद्युत्पावको वा शिलोच्चये ।
तथा गाण्डीवमभवदिन्द्रायुधमिवानतम् ॥१०॥

यथा वर्षति पर्जन्ये विद्युद्विभ्राजतेः दिवि ।
द्योतयन्ती दिशः सर्वाः पृथिवीं च समन्ततः ॥११॥

तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ।
नागाश्च रथिनः सर्वे मुमुहुस्तत्र भारत ॥१२॥

सर्वे शान्तिपरा योधाः स्वचित्तानि न लेभिरे ।
सङ्ग्रामे विमुखाः सर्वे योधास्ते हतचेतसः ॥१३॥

स्वचित्तानि अयमहमिति न ज्ञातवन्तः ॥१३॥

एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
व्यद्रवन्त दिशः सर्वा निराशानि स्वजीविते ॥१४॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरगोग्रहे अर्जुनसंकुलयुद्धे त्रिषष्टितमोऽध्यायः ॥६३॥
चतुःषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
ततः शान्तनवो भीष्मो भरतानां पितामहः ।
वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ॥१॥

तत इति ॥१॥

प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।
शरानादाय तीक्ष्णाग्रान् मर्मभेदान् प्रमाथिनः ॥२॥

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ॥३॥

प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ॥४॥

तमुदीक्ष्य समायान्तं कौन्तेयः परवीरहा ।
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ॥५॥

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् ।
समार्पयन्महावेगान् श्वसमानानिवोरगान् ॥६॥

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः ।
ज्वलन्तं कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ॥७॥

ततो भल्लेन महता पृथुधारेण पाण्डवाः ।
छत्रं चिच्छेद भीष्मस्य तू तदपतद्भुवि ॥८॥

ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्भृशम् ।
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ॥९॥

अमृष्यमाणस्तद्भीष्मो जानन्नपि स पाण्डवम् ।
दिव्येनास्त्रेण महता धनञ्जयमवाकिरत् ॥१०॥

तथैव पाण्डवो भीष्मे दिव्यमस्त्रमुदीरयन् ।
प्रत्यगृह्णादमेयात्मा महामेघमिवाचलः ॥११॥

तयोस्तद्भवद्युद्धं तुमुलं लोमहर्षणम् ।
भीष्मेण सह पार्थेन बलिवासवयोरिव ॥१२॥

प्रैक्षन्त कुरवः सर्वे योधाश्च सहसैनिकाः ।
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि ।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥१३॥

अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः ।
गाण्डीवमभवद्राजन् पार्थस्य सृजतः शरान् ॥१४॥

अग्निचक्रमलातचक्रमाविद्धं भ्राम्यमाणम् ॥१४॥

ततः संछादयामास भीष्मं शरशतैः शितैः ।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥१५॥

तां स वेलामिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
व्यधमत्सायकैर्भीष्मः पाण्डवं समवारयत् ॥१६॥

ततस्तानि निकृत्तानि शरजालानि भागशः ।
समरे च व्यशीर्यन्त फाल्गुनस्य रथं प्रति ॥१७॥

ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् ।
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ।
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ॥१८॥

ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् ।
दुष्करं कृतवान् भीष्मो यदर्जुनमयोधयत् ॥१९॥

बलवांस्तरुणो दक्षः क्षिप्रकारी धनञ्जयः ।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥२०॥

ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यप्रवराद्वाऽपि भारद्वाजान्महाबलात् ॥२१॥

अस्त्रैरस्राणि संवार्य क्रीडन्तौ भरतर्षभौ ।
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ॥२२॥

प्राजापत्यं तथैवैन्द्रमाग्नेयं रौद्रदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥२३॥

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा ।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥२४॥

नायं युक्तो मनुष्येषु योऽयं संदृश्यते महान् ।
महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः ॥२५॥

वैशम्पायन उवाच ।
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ।
अस्त्रयुद्धे तु निर्वृत्ते शरयुद्धमवर्तत ॥२६॥

अथ जिष्णुरुपावृत्य क्षुरधारेण कार्मुकम् ।
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ॥२७॥

उपावृत्य समीपमेत्य ॥२७॥

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे ।
समादाय महाबाहुः सज्यं चक्रे महारथः ।
शरांश्च सुबहून् क्रुद्धो मुमोचाशु धनञ्जये ॥२८॥

अर्जुनोऽपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून् ।
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ॥२९॥

तयोर्दिव्यास्त्रविदुषोरस्यतोर्निशितान् शरान् ।
न विशेषस्तदा राजन् लक्ष्यते स्म महात्मनोः ॥३०॥

अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा ॥३१॥

अतीवं पाण्डवो भीष्मं भीष्मश्चावि पाण्डवम् ।
बभूव तस्मिन्सङ्ग्रामे राजंल्लोके तद‌द्भुतम् ॥३२॥

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः ।
शेरते स्म तदा राजन् कौन्तेयस्याभितो रथम् ॥३३॥

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः ।
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ॥३४॥

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥३५॥

तस्य तद्दिव्यमस्त्रं हि विगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः॥३६॥

तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥३७॥

पश्येमान्पार्थनिर्मुक्तान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥३८॥

अस्त्रं बाणानां क्षेपणं कर्म ॥३८॥

नेदं मनुष्याः संदध्युर्नहीदं तेषु विद्यते ।
पौराणानां महास्त्राणां विचित्रोऽयं समागमः ॥३९॥

आददानस्य हि शरान् संघाय च विमुञ्चतः ।
विकर्षतश्च गाण्डीवं नान्तरं समदृश्यत ॥४०॥

मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
नाशक्नुवन्त सैन्यानि पाण्डवं प्रति वीक्षितुम् ॥४१॥

तथैव भीष्मं गाङ्गेयं द्रष्टुं नोत्सहते जनः ॥४२॥

उभौ विश्रुतकर्माणावुभौ तीव्रपराक्रमौ ।
उभौ सदृशकर्माणावुभौ युधि सुदुर्जयौ ॥४३॥

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् ।
पूजयामास दिव्येन पुष्पवर्षेण भारत ।
ततः शान्तनवो भीष्मो वामं पार्श्वमताडयत् ।
पश्यतः प्रतिसंधाय विध्यतः सव्यसाचिनः ॥४५॥

ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् ।
चिच्छेद गार्ध्रपत्रेण भीष्मस्यादित्यतेजसः ॥४६॥

अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे ।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥४७॥

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गाङ्गेयो युद्धदुर्धर्षस्तस्थौ दीर्घमिवान्तरम् ॥४८॥

कूबरं रथयुगन्धरम् ॥४८॥

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥४९॥

अपोवाह अपसारयामास ॥४९॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि भीष्मापयाने चतुःषष्टितमोऽध्यायः ॥६४॥
पञ्चषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
भीष्मे तु सङ्ग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः ।
उत्सृज्य केतुं विनदन्महात्मा धनुर्विगृह्यार्जुनमाससाद ॥१॥

भीष्म इति । धृतराष्ट्रपुत्रो दुर्योधन उत्सृज्य उन्मुच्य केतुं पताकाम् ॥१॥

स भीमधन्वानमुदग्रवीर्यं धनञ्जयं शत्रुगणे चरन्तम् ।
आकर्णपूर्णायतचोदितेन विव्याध भल्लेन ललाटमध्ये ॥२॥

स तेन बाणेन समर्पितेन जाम्बूनदाग्रेण सुसंहितेन ।
रराज राजन्महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः ॥३॥

एकशृङ्गः पर्वतो यथा एकेन पर्ववता दीर्घवंशेन । एकः पर्वा यस्मिन्निति समासः। मतुब्लोप आर्षः ॥३॥

अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्त्रमुष्णम् ।
स तस्य जाम्बूनदपुङ्खचित्रो भित्त्वा ललाटं सुविराजते स्म ॥४॥

असृक् रक्तम् ॥४॥

दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ समौ समाजग्मतुराजमीढौ ॥५॥

ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥६॥

तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भविभागमध्ये ।
आकर्णपूर्णेन महायसेन बाणेन विव्याध महाजवेन ॥७॥

पार्थेन सृष्टः स तु गार्ध्रपत्र आपुङ्खदेशात् प्रविवेश नागम् ।
विदार्य शैलप्रवरं प्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ॥८॥

महायसेन महाफलकेन ॥८॥

शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य ॥९॥

निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥१०॥

निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम् ।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥११॥

ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रणुन्नास्ते योधमुख्याः सहसाऽपजग्मुः ॥१२॥

अपजग्मुः पलायनं कृतवन्तः ॥१२॥

दृष्ट्वैव पार्थेन हतं च नागं योधांश्च सर्वान्द्रवतो निशम्य ।
रथं समावृत्य कुरुप्रवीरो रणात्प्रदुद्राव यतो न पार्थः ॥१३॥

तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहोऽभिषङ्गात् ।
प्रास्फोटयद्योद्धुमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम् ॥१४॥

अभिषङ्गात् पराभवात् द्रवन्तमालक्ष्य प्रास्फोटयत् आस्फोटं बाहुशब्दं कृतवान् ॥१४॥

अर्जुन उवाच ।
विहाय कीर्तिं विपुलं यशश्च युद्धात्परावृत्य पलायसे किम् ।
न तेऽद्य तूर्याणि समाहतानि तथैव राज्यादवरोपितस्य ॥१५॥

तूर्याणि जयवाद्यानि तथैवेत्यादि उत्तरान्वयि ॥१५॥

युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि संस्थितोऽस्मि ।
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्र वृत्तं स्मर धार्तराष्ट्र ॥१६॥

तृतीयः पार्थः पृथासुतोऽर्जुनोऽस्मि वृत्तं द्यूतादिष्वधर्मम् ॥१६॥

मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् ।
न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय ॥१७॥

न ते पुरस्ताद्य पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् ।
अपेहि युद्धात् पुरुषप्रवीर प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥१८॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि दुर्योधनापयाने पञ्चषष्टितमोऽध्यायः ॥६५॥
षट्षष्टितमोऽध्यायः

वैशम्पायन उवाच ।
आहूयमानश्च स तेन संख्ये महात्मना वै धृतराष्ट्रपुत्रः ।
निवर्तितस्तस्य गिराङ्‌कुशेन महागजो मत्त इवाङ्कुशेन ॥१॥

आहूयेति ॥१॥

सोऽमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी ।
पर्याववर्ताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः ॥२॥

पर्याववर्त परावृत्तवान् ॥२॥

तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तभ्य च विद्धगात्रम् ।
दुर्योधनस्योत्तरतोऽभ्यगच्छत् पार्थं नृवीरो युधि हेममाली ॥३॥

नृवीरो दुर्योधनः ॥३॥

भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्षस्त्वरयाऽभिषङ्गी ।
दुर्योधनं पश्चिमतोऽभ्यरक्षत् पार्थान्महाबाहुरधिज्यधन्वा ॥४॥

अभिषङ्गी शत्रुपराजयसमर्थः ॥४॥

द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव विवृत्य शीघ्रम् ।
सर्वे पुरस्ताद्विततोरुचापा दुर्योधनार्थं त्वरिताऽभ्युपेयुः ॥५॥

त्वरिताः अभ्युपेयुः सन्धिरार्षः ॥५॥

स तान्यनीकानि निवर्तमानान्यालोक्य पूर्णौघनिभानि पार्थः ।
हंसो यथा मेघमिवापतन्तं धनञ्जयः प्रत्यतपत्तरस्वी ॥६॥

हंसः सूर्यः प्रत्यतपत् प्रतितापितावान् ॥६॥

ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।
ववर्षुरभ्येत्य शरैः समन्तान्मेघा यथा भूधरमम्बुवर्गैः ॥७॥

ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् ।
संमोहने शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरपारणीयम् ॥८॥

ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपत्रैः ।
गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयाञ्चकार ॥९॥

विवृत्या व्याप्या ॥९॥

ततः पुनर्भीमरवं प्रगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् ।
व्यनादयत्स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥१०॥

ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।
उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्तिपरा बभुवुः ॥११॥

शान्तिपराः उपरतचित्ताः ॥११॥

तथा विसंज्ञेषु च तेषु पार्थः स्मृत्वा च वाक्यानि तथोत्तरायाः ।
निर्याहि मध्यादिति मत्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥१२॥

आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् ।
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥१३॥

भीष्मस्य संज्ञा तु तथैव मन्ये जानाति सोऽस्त्रप्रतिघातमेषः ।
एतस्य वाहान् कुरु संयतस्त्वमेवं हि यातव्यममूढसंज्ञैः ॥१४॥

अमूढसंज्ञैः भीष्मादिभिः सव्यतः कृतैरुपलक्षितेन भवता यातव्यं गन्तव्यम् ॥१४॥

रश्मीन् समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।
वस्त्राण्युपादाय महारथानां तूर्णं पुनः स्वं रथमारुरोह ॥१५॥

ततोऽन्वशासच्चतुरः सदश्वान् पुत्रो विराटस्य हिरण्यकक्षान् ।
ते तद्व्यतीयुर्ध्वजिनामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥१६॥

तथाऽनुयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी ।
स चापि भीष्मस्य हयान्निहत्य विव्याध पार्थो दशभिः पृषत्कैः ॥१७॥

ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्ठधन्वा ।
तस्थौ विमुक्तो रथवृन्दमध्यान्मेघं विदार्येव सहस्त्ररश्मिः ॥१८॥

लब्ध्वा हि संज्ञां तु कुरुप्रवीराः पार्थं निरीक्ष्याथ सुरेन्द्रकल्पम् ।
रणे विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितं बभाषे ॥१९॥

अयं कथं वै भवतो विमुक्तस्तथा प्रमथ्नीत यथा न मुच्येत् ।
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत् क्व वीर्यम् ॥२०॥

अयमर्जुनो भवत विसंज्ञान् युष्मान् यथा न मुच्येत् न मोचनं स्यात्तथा प्रमथ्नीत उपमृद्यात् न तु मृदितवानिति भावः ॥२०॥

शान्तिं परां प्राप्य यदा स्थितोऽभूरुत्सृज्य बाणांश्च धनुर्विचित्रम् ।
न त्वेष बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो विशिष्टम् ॥२१॥

शान्तिं नष्टचित्तताम् । नृशंसं कर्तुं संमूढान् मारयितुं न अलं न योग्यः । अत्र हेतुः – न पापेऽस्य मनोऽस्ति यतो विशिष्टं श्रेष्ठम् ॥२१॥

त्रैलोक्यहेतोर्न जहेत्स्वधर्मं सर्वे न तस्मान्निहता रणेऽस्मिन् ।
क्षिप्रं कुरून् याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ।
मा ते स्वकोऽर्थो निपतेत मोहात्तत्संविधातव्यमरिष्टबन्धम् ॥२२॥

अरिष्टबन्धं कल्याणानुबन्धि कर्म ॥२२॥

वैशम्पायन उवाच ।
दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ ।
अतीतकामो युधि सोऽत्यमर्षी राजा विनिःश्वस्य बभूव तूष्णीम् ॥२३॥

तद्भीष्मवाक्यं हितमीक्ष्य सर्वे धनञ्जयाग्निं च विवर्धमानम् ।
निवर्तनायैव मनो निदध्युर्दुर्योधनं ते परिरक्षमाणाः ॥२४॥

तान्प्रस्थितान्प्रतिमनाः स पार्थो धनञ्जयः प्रेक्ष्य कुरुप्रवीरान् ।
अभाषमाणोऽनुनयं मुहूर्तं वचोऽब्रवीत् सम्परिहृत्य भूयः ॥२५॥

परिहृत्य परिवृत्य ॥२५॥

पितामहं शान्तनवं च वृद्धं द्रोणं गुरुं च प्रणिपत्य मूर्ध्ना ।
द्रौणिं कृपं चैव कुरूंश्च मान्याञ्छरैर्विचित्रैरभिवाद्य चैव ॥२६॥

शरैरेव पाददेशे पातितैरभिवाद्य मान्यान् बाल्हीकसोमदत्तादीन् ॥२६॥

दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मुकुटं शरेण ।
आमन्त्र्य वीरांश्च तथैव मान्यान् गाण्डीवघोषेण विनाद्य लोकान् ॥२७॥

मुकुटं चिच्छेदेति दुर्योधनस्य मरणमेव सूचितम् ॥२७॥

स देवदत्तं सहसा विनाद्य विदार्य वीरो द्विषतां मनांसि ।
ध्वजेन सर्वानभिभूय शत्रून् सहेममालेन विराजमानः ॥२८॥

हेममालया सहितेन सहेममालेन ध्वजेन ॥२८॥

दृष्ट्वा प्रयातांस्तु कुरून् किरीटी हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् ।
आवर्तयाश्वान् पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः ॥३९॥

देवास्तु दृष्ट्वा महदद्भुतं तद्युद्धं कुरूणां सह फाल्गुनेन ।
जग्मुर्यथास्वं भवनं प्रतीताः पार्थस्य कर्माणि विचिन्तयन्तः ॥४०॥

इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि समस्तकौरवपलायने षट्षष्टितमोऽध्यायः ॥६६॥
सप्तषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
ततो विजित्त्य सङ्ग्रामे कुरून् स वृषभेक्षणः ।
समानयामास तदा विराटस्य धनं महत् ॥१॥

तत इति । वृषभेक्षणः श्रेष्ठदृष्टिः ॥१॥

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वतः ।
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ॥२॥

भयात् संत्रस्तमनसः समाजग्मुस्ततस्ततः ।
मुक्तकेशास्त्वदृश्यन्त स्थिताः प्राञ्जलयस्तदा ॥३॥

क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः ।
ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते ॥४॥

अर्जुन उवाच ।
स्वस्ति व्रजत वो भद्रं न भेतव्यं कथञ्चन ।
नाहमार्तान् जिघांसामि भृशमाश्वासयामि वः ॥५॥

वैशम्पायन उवाच ।
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।
आयुःकीर्तियशोदाभिस्तमाशीर्भिरनन्दयन् ॥६॥

ततोऽर्जुनं नागमिव प्रभिन्नमुत्सृज्य शत्रून् विनिवर्तमानम् ।
विराटरराष्ट्राभिमुखं प्रयान्तं नाशक्नुवंस्तं कुरवोऽभियातुम् ॥७॥

ततः स तन्मेघमिवापतन्तं विद्राव्य पार्थः कुरुमेघसैन्यम् ।
मत्स्यश्य पुत्रं द्विषतां निहन्ता वचोऽब्रवीत् संपरिरभ्य भूयः ॥८॥

आपतन्तं पुंस्त्वमार्षम् ॥८॥

पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं तवैव ।
तान् मा प्रशंसेर्नगरं प्रविश्य भीतः प्रणश्येद्धि स मत्स्यराजः ॥९॥

मया जिता सा ध्वजिनी कुरूणां मया च गावो विजिता द्विषद्भ्यः ।
पितुः सकाशं नगरं प्रविश्य त्वमात्मनः कर्म कृतं ब्रवीहि ॥१०॥

उत्तर उवाच ।
यत्ते कृतं कर्म न पारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः ।
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ॥११॥

वैशम्पायन उवाच ।
स शत्रुसेनामवजित्य जिष्णुराच्छिद्य सर्वं च धनं कुरुभ्यः ।
श्मशानमागत्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ॥१२॥

ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात ।
तथैव माया विहिता बभूव ध्वजं च सैहं युयुजे रथे पुनः ॥१३॥

सैहं ध्वजं विराटीयं पर्वं तत्र स्थापितम् ॥१३॥

विधाय तच्चायुधमाजिवर्धनं कुरूत्तमानामिषुधीः शरांस्तथा ।
प्रायात्स मत्स्यो नगरं प्रहृष्टः किरीटिना सारथिना महात्मना ॥१४॥

विधाय यथावत् स्थापयित्वा ॥१४॥

पार्थस्तु कृत्वा परमार्थकर्म निहत्य शत्रून् द्विषतां निहन्ता ।
चकार वेणीं च तथैव भूयो जग्राह रश्मीन् पुनरुत्तरस्य ।
विवेश हृष्टो नगरं महामना बृहन्नलारूपमुपेत्य सारथिः ॥१५॥

वैशम्पायन उवाच ।
ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः ।
हस्तिनापुरमुद्दिश्य सर्वे दीना ययुस्तदा ॥१६॥

वशं परवशतां आस्थिताः प्राप्ताः ॥१६॥

पन्थानमुपसङ्गम्य फाल्गुनो वाक्यमब्रवीत् ॥१७॥

राजपुत्र प्रत्यवेक्ष्य समानीतानि सर्वशः ।
गोकुलानि महाबाहो वीर गोपालकैः सह ॥१८॥

ततोऽपराह्णे यास्यामो विराटनगरं प्रति ।
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ॥१९॥

गच्छन्तु त्वरिताश्चेमे गोपालाः प्रेषितास्त्वया ।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥२०॥

वैशम्पायन उवाच ।
अथोत्तरस्त्वरमाणः स दूतानाज्ञापयद्वचनात् फाल्गुनस्य ।
आचक्षध्वं विजयं पार्थिवस्य भग्नाः परे विजिताश्चापि गावः ॥२१॥

इत्येवं तौ भारतमत्स्यवीरौ संमन्त्र्य सङ्गम्य ततः शमीं ताम् ।
अभ्येत्य भूयो विजयेन तृप्तावुत्सृष्टमारोपयतां स्वभाण्डम् ॥२२॥

विजये न तृप्तौ इतोऽप्यधिकं युद्धं प्रार्थयानौ । यद्वा विजयेन स्वीयेन तृप्तौ आनन्दितौ स्वस्य भाण्डमलंकारादिकं यत् पूर्वमत्सृष्टं तत्तथैव शरीरे रथे च आरोपयतामारोपितवन्तौ ॥२२॥

स शत्रुसेनामभिभूय सर्वामाच्छिद्य सर्वं च धनं कुरुभ्यः ।
वैराटिरायान्नगरं प्रतीतो बृहन्नलासाराथना प्रवीरः ॥२३॥

धनं गोधनं प्रतीतो हृष्टः ॥२३॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि उत्तरागमने सप्तषष्टितमोऽध्यायः ॥६७॥
अष्टषष्टितमोऽध्यायः

वैशम्पायन उवाच ।
धनं चापि विजित्याशु विराटो वाहिनीपतिः ।
विवेश नगरं हृष्टश्चतुर्भिः पाण्डवैः सह ॥१॥

दक्षिणगोग्रहवृत्तान्तमाह – धनं चेति ॥१॥

जित्वा त्रिगर्तान् सङ्ग्रामे गाश्चैवादाय सर्वशः ।
अशोभत महाराज सहपार्थः श्रिया वृतः ॥२॥

तमासनगतं वीरं सुहृदां हर्षवर्धनम् ।
उपासाञ्चक्रिरे सर्वे सह पाथैः परन्तपाः ॥३॥

उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ।
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् ॥४॥

सभाजितः पूजितः ॥४॥

विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ।
तथा स राजा मत्स्यानां विराटो वाहिनीपतिः ॥५॥

उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ।
आचख्युस्तस्य तत्सर्वं स्त्रियः कन्याश्च वेश्मनि ॥६॥

अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ।
विजेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्गतः पृथिवीञ्जयः ॥७॥

उपयातानतिरथान् भीष्मं शान्तनवं कृपम् ।
कर्णं दुर्योधनं द्रोणं द्रोणपुत्रं च षड्रथान् ॥८॥

वैशम्पायन उवाच ।
राजा विराटोऽथ भृशाभितप्तः श्रुत्वा सुतं त्वेकरथेन यातम् ।
बृहन्नलासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥९॥

सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निःसृतान् श्रुत्वा न स्थास्यन्ति कदाचन ॥१०॥

तस्माद्गच्छन्तु मे योधा बलेन महता वृताः ।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥११॥

हयांश्च नागांश्च रथांश्च शीघ्रं पदातिसङ्घांश्च ततः प्रवीरान् ।
प्रस्थापयामास सुतस्य हेतोर्विचित्रशस्त्राभरणोपपन्नान् ॥१२॥

एवं स राजा मत्स्यानां विराटो वाहिनीपतिः ।
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥१३॥

कुमारमाशु जानीत यदि जीवति वा न वा ।
यस्य यन्ता गतः षण्ढो मन्येऽहं स न जीवति ॥१४॥

वैशम्पायन उवाच ।
तमब्रवीद्धर्मराजो विहस्य विराटराजं तु भृशाभितप्तम् ।
बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः ॥१५॥

सर्वान् महीपान् सहितान् कुरूंश्च तथैव देवासुरसिद्धयक्षान् ।
आतीव जेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन ॥१६॥

वैशम्पायन उवाच ।
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य विजयं सभवेद्यन् ॥१७॥

राज्ञस्तत् सर्वमाचख्यौ मन्त्री विजयमुत्तमम् ।
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥१८॥

सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।
उत्तरः सह सूतेन कुशली च परन्तपः ॥१९॥

युधिष्ठिर उवाच ।
दिष्ट्या विनिर्जिता गावः कुरवश्च पलायिताः ।
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत् कुरून् ॥२०॥

ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ।
वैशम्पायन उवाच ।
ततो विराटो नृपतिः संप्रहृष्टतनूरुहः ॥२१॥

श्रुत्वा स विजयं तस्य कुमारस्यामितौजसः ।
आच्छादयित्वा दूतांस्तान्मन्त्रिणं सोऽभ्यचोदयत् ॥२२॥

आच्छादयित्वा वस्त्रादिभिरभ्यर्च्य ॥२२॥

राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः ।
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥२३॥

कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः ।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥२४॥

घण्टावान्मानवः शीघ्रं मत्तमारुह्य वारणम् ।
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥२५॥

शृङ्गाटकेषु चतुष्पथेषु ’शृङ्गाटकं भवेद्द्वारि कण्टके च चतुष्पथे’ इति मेदिनी ॥२५॥

उत्तरा च कुमारीभिर्बह्वीभिः परिवारिता ।
शृङ्गारवेषाभरणा प्रत्युद्यातु सुतं मम ॥२६॥

शृङ्गारवेषाभरणा नाट्यरसवेषाभरणा ’शृङ्गारः सुरते नाट्ये’ इति मेदिनी ॥२६॥

वैशम्पायन उवाच ।
श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम् ।
भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाः शुमाश्च ॥२७॥

स्वस्तिकं मङ्गलारार्तिकादि दधिदूर्वादि च पाणौ यस्य तत् स्वस्तिकपाणिभूतं ऋद्धिमत् । वारिजाः शङ्खाः ॥२७॥

तथैव सूतैः सह मागधैश्च नान्दीवाद्याः पणवास्तूर्यवाद्याः ।
पुराद्विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥२८॥

नान्दीवाद्याः मङ्गलवाद्यानि तूर्यवाद्या जयवाद्यानि ॥२८॥

वैशम्पायन उवाच ।
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः ।
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ॥२९॥

अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ।
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत ॥३०॥

न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ।
तं त्वामद्य मुदा युक्तं नाहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥३१॥

हृष्टेन त्वया सह कितवेन मया न देवितव्यम् ॥३१॥

विराट उवाच ।
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन ।
न मे किञ्चित्तु रक्ष्यं ते अन्तरेणापि देवितुम् ॥३२॥

अन्तरेण विनाऽपि द्यूतम् ॥३२॥

कङ्क उवाच ।
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।
देवने बहवो दोषास्तस्मात्तत् परिवर्जयेत् ॥३३॥

श्रुतस्ते यदि वा दृष्टः पाण्डवेयो युधिष्ठिरः ।
स राष्ट्रं सुमहत् स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥३४॥

राज्यं हारितवान् सर्वं तस्माद् द्यूतं न रोचये ।
अथवा मन्यसे राजन् दीव्याम यदि रोचते ॥३५॥

वैशम्पायन उवाच ।
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् ।
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥३६॥

ततोऽब्रवीन्महात्मा स एनं राजा युधिष्ठिरः ।
बृहन्नला यस्य यन्ता कथं स न जयेद्युधि ॥३७॥

इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् ।
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥३८॥

ब्रह्मबन्धो ब्राह्मणाधम ॥३८॥

वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ।
भीष्मद्रोणमुखान्सर्वान् कस्मान्न स विजेष्यति ॥३९॥

वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे ।
नेदृशं तु पुनर्वाच्यं यदि जीवितुमिच्छसि ॥४०॥

वयस्यत्वात् सख्यात् ॥४०॥

युधिष्ठिर उवाच ।
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः ।
दुर्योधनश्च राजेन्द्रस्तथाऽन्ये च महारथाः ॥४१॥

मरुद्गणैः परिवृतः साक्षादपि मरुत्पतिः ।
कोऽन्यो बृहन्नलायास्तान् प्रतियुध्येत सङ्गतान् ॥४२॥

यस्य बाहुबले तुल्यो न भूतो न भविष्यति ।
अतीव समरं दृष्ट्वा हर्षो यस्योपजायते ॥४३॥

योऽजयत्सङ्गतान् सर्वान् ससुरासुरमानवान् ।
तादृशेन सहायेन कस्मात्स न विजेष्यते ॥४४॥

विराट उवाच ।
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि ।
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥४५॥

नियच्छसि निगृह्णासि ॥४५॥

वैशम्पायन उवाच ।
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् ।
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥४६॥

नैवं वाच्यमिति ॥४६॥

बलवत्प्रतिविद्धस्य नस्तः शोणितमावहत् ।
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥४७॥

नस्तः नासिकातः ॥४७॥

अवैक्षत स धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ।
सा ज्ञात्वा तमभिप्रायं भर्तुश्चित्तवशानुगा ॥४८॥

पात्रं गृहीत्वा सौवर्णं जलपूर्णमनिन्दिता ।
तच्छोणितं प्रत्यगृह्णाद्यत् प्रसुस्त्राव नस्ततः ॥४९॥

नस्ततः नासिकानाडीतः तनोति देहं प्रथयतीति तच्छब्दो नाडीवचनः पुरीतति शेते इत्यादिप्रयोगदर्शनात् ॥४९॥

अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागतः ॥५०॥

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा ।
आसाद्य भवनद्वारं पित्रे संप्रत्यवेदयत् ॥५१॥

ततो द्वास्थः प्रविश्यैव विराटमिदमब्रवीत् ।
बृहन्नलासहायश्च पुत्रो द्वार्युत्तरः स्थितः ॥५२॥

ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् ।
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥५३॥

क्षत्तारं कुरुराजस्तु शनैः कर्णमुपाजपत् ।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला ॥५४॥

कुरुराजः युधिष्ठिरः कर्णं कर्णे उपाजपत् उपांशु उक्तवान् ॥५४॥

एतस्य हि महाबाहो व्रतमेतत् समाहितम् ।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वाऽपि दर्शयेत् ।
अन्यत्र सङ्ग्रामगतान्न स जीवेत् कथञ्चन ॥५५॥

न मृष्याद्भृशसंकुद्धो मां दृष्ट्वा तु सशोणितम् ।
विराटमिह सामात्यं हन्यात् सबलवाहनम् ॥५६॥

वैशम्पायन उवाच ।
ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवीञ्जयः ।
सोऽभिवाद्य पितुः पादौ कङ्कं चाप्युपतिष्ठत ॥५७॥

ततो रुधिरसंयुक्तमनेकाग्रमनागसम् ।
भूमावासीनमेकान्ते सैरन्ध्र्या प्रत्युपस्थितम् ॥५८॥

अनेकाग्रं व्यग्रम् ॥५८॥

ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः ।
केनायं ताडितो राजन् केन पापमिदं कृतम् ॥५९॥

विराट उवाच ।
मयायं ताडितो जिह्मो न चाप्येतावदर्हति ।
प्रशस्यमाने यच्छूरे त्वयि षण्ढे प्रशंसति ॥६०॥

उत्तर उवाच ।
अकार्यं ते कृतं राजन् क्षिप्रमेव प्रसाद्यताम् ।
मा त्वां ब्रह्मविषं घोरं समूलमिह निर्दहेत् ॥६१॥

वैशम्पायन उवाच ।
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥६२॥

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥६३॥

यदि ह्येतत् पतेद्भूमौ रुधिरं मम नस्ततः ।
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥६४॥

न दूषयामि ते राजन् यद्वै हन्याददूषकम् ।
बलवन्तं प्रभुं राजन् क्षिप्रं दारुणमाप्नुयात् ॥६५॥

हे राजन् ते तव तत् कर्म न दूषयामि यत् अदूषकं परापवादहीनं हन्यादन्यायि तत् दूष्यमपि न दूषयामि यतः बलवन्तं प्रभुं क्षिप्रं शीघ्रं दारुणं नृशंसं कर्म प्राप्नुयादेव । ’हृष्टो दृष्यति दृप्तोधर्ममतिक्रामति’ इति स्मृतेः कलयन्तमिति पाठे जानन्तमपि ॥६५॥

वैशम्पायन उवाच ।
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला ।
अभिवाद्य विराटं तु कङ्कं चाप्युपतिष्ठत ॥६६॥

क्षामयित्वा तु कौरव्यं रणादुत्तरमागतम् ।
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥६७॥

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥६८॥

दायादवान् पुत्रवान् ॥६८॥

पदं पदसहस्त्रेण यश्चरन्नापराध्नुयात् ।
तेन कर्णेन ते तात कथमासीत् समागमः ॥६९॥

पदमिति । पदं बाणनिपातस्थानं पदसहस्रेण लक्ष्यसहस्रार्थं हेत्वर्थे तृतीया । सहस्रलक्ष्याणि वेद्धुमित्यर्थः । चरन् बाणैः प्रचरन्नेकमपि स्थानं नापराध्नुयात् न रिक्तं कुर्यात् । युगपल्लक्ष्यसहस्रमुद्दिश्य बाणैश्चरन्नेकमपि लक्ष्यं न जह्यादित्यर्थः । पदं पदमिति पाठे सर्वं पदं नापराध्नुयात् सहस्रेण चरन्नित्यर्थात् पदसहस्रोद्देशेनेति बोध्यम् । समागमः सङ्ग्रामः ॥६९॥

मनुष्यलोके सकले यस्य तुल्यो न विद्यते ।
तेन भीष्मेण ते तात कथमासीत् समागमः ॥७०॥

आचार्यो वृष्णिवीराणां कौरवाणां च यो द्विजः ।
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ।
तेन द्रोणेन ते तात कथमासीत् समागमः ॥७१॥

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि ।
अश्वत्थामेति विख्यातस्तेनासीत् सङ्गरः कथम् ॥७२॥

रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा ।
कृपेण तेन ते तात कथमासीत् समागमः ॥७३॥

हृतस्वाः हृतधनाः वणिज इव सीदन्ति शूरा इति शेषः ॥७३॥

पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः ।
दुर्योधनेन ते तात कथमासीत् समागमः ॥७४॥

अवगाढा द्विषन्तो मे सुखो वातोऽभिवाति माम् ।
यस्त्वं धनमथाजैषीः कुरुभिग्रस्तमाहवे ॥७५॥

अवगाढाः पराभूताः ॥७५॥

तेषां भयाभिपन्नानां सर्वेषां बलशालिनाम् ।
नूनं प्रकाल्य तान् सर्वांस्त्वया युधि नरर्षभ ।
आच्छिन्नं गोधनं सर्वं शार्दूलेनामिषं यथा ॥७६॥

प्रकाल्य निर्जित्य ॥७६॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि विराटोत्तरसंवादे अष्टषष्टितमोऽध्यायः ॥६८॥
एकोनसप्ततितमोऽध्यायः

उत्तर उवाच ।
न मया निर्जिता गावो न मया निर्जिताः परे ।
कृतं तत् सकलं तेन देवपुत्रेण केनचित् ॥१॥

न मयेति ॥१॥

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवर्तयत् ।
स चातिष्ठद्रथोपस्थे वज्रसन्नहनो युवा ॥२॥

तेन ता निर्जिता गावः कुरवश्च पराजिताः ।
तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् ॥३॥

स हि शारद्वतं द्रोणं द्रोणपुत्रं च षड्रथान् ।
सूतपुत्रं च भीष्मं च चकार विमुखान् शरैः ॥४॥

दुर्योधनं विकर्णं च सनागमिव यूथपम् ।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलः ॥५॥

न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन ।
व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥६॥

व्यायामेन नित्यं देशान्तरसञ्चारेण एतेन स देवपुत्रस्तेषामग्रेऽपि नाशं करिष्यतीति सूचितम् ॥६॥

न मोक्ष्यसे पलायंस्त्वं राजन् युद्धे मनः कुरु ।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥७॥

स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभान् शरान् ।
सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥८॥

तं दृष्ट्वा रोमहर्षोऽभूदूरुकम्पश्च मारिष ।
स तत्र सिंहसङ्काशमनीकं व्यधमच्छरैः ॥९॥

रोमहर्षोऽभून्ममेति शेषः ॥९॥

तत् प्रणुद्य रथानीकं सिंहसंहननो युवा ।
कुरूस्तान् प्रहसन् राजन् संस्थितान् हृतवाससः ॥१०॥

एकेन तेन वीरेण षड्रथाः परिनिर्जिताः ।
शार्दूलेनेव मत्तेन यथा वनचरा मृगाः ॥११॥

विराट उवाच ।
क्क स वीरो महाबाहुर्देवपुत्रो महायशाः ।
यो मे धनमथाजैषीत् कुरुभिर्ग्रस्तमाहवे ॥१२॥

इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् ।
येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥१३॥

उत्तर उवाच ।
अन्तर्धानं गतस्तत्र देवपुत्रो महाबलः ।
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥१४॥

वैशम्पायन उवाच ।
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् ।
वसन्तं तत्र नाज्ञासीद्विराटो वाहिनीपतिः ॥१५॥

सत्रेण व्याजेन ॥१५॥

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना ।
प्रददौ तानि वासांसि विराट‌दुहितुः स्वयम् ॥१६॥

उत्तरा तु महार्हाणि विविधानि नवानि च ।
प्रतिगृह्याभवत् प्रीता तानि वासांसि भामिनी ॥१७॥

मन्त्रयित्वा तु कौन्तेय उत्तरेण महात्मना ।
इतिकर्तव्यतां सर्वां राजन् पार्थे युधिष्ठिरे ॥१८॥

मन्त्रयित्वेति । युधिष्ठिरे युधिष्ठिरविषये इतिकर्तव्यतामग्रे कर्तुमिष्टां भद्रासेन राज्ञ उपवेशनादिरूपां क्रियामुत्तरेण सह मन्त्रयित्वा तथा यथामन्त्रं तत् तां व्यदधादित्युभयोरन्वयः । हे राजन् जनमेजय ॥१८॥

ततस्तथा तद्व्यदधाद्यथावत् पुरुषर्षभ ।
सह पुत्रेण मत्स्यस्य प्रहृष्टा भरतर्षभाः ॥१९॥

प्रहृष्टा अभूवन्निति शेषः ॥१९॥
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि विराटोत्तरसंवादे एकोनसप्ततितमोऽध्यायः ॥६९॥
॥ समाप्तं गोहरणपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in