पाण्डवप्रवेशपर्व - १समयपालनपर्व - २कीचकवधपर्व - ३गोहरणपर्व - ४वैवाहिकपर्व - ५

वैवाहिकपर्व

सप्ततितमोऽध्यायः

वैशम्पायन उवाच ।
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः ।
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥१॥

तत इति ॥१॥

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः ।
द्वारि मत्ता यथा नागा भ्राजमाना महारथाः ॥२॥

विराटस्य सभां गत्वा भूमिपालासनेष्वथ ।
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥३॥

धिष्ण्येषु आयतनेषु ॥३॥

तेषु तत्रोपविष्टेषु बिराटः पृथिवीपतिः ।
आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥४॥

श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकानिव ।
मुहूर्तमिव च ध्यात्वा सरोषः पृथिवीपतिः ॥५॥

अथ मत्स्योऽब्रवीत् कङ्कं देवरूपमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥६॥

स किलाक्षातिवापस्त्वं सभास्तारो मया वृतः ।
अथ राजासने कस्मादुपविष्टस्त्वलङ्कृतः ॥७॥

अक्षातिवापः अक्षान् अतिवपतीति तथा द्यूतकारी ॥७॥

वैशम्पायन उवाच ।
परिहासेप्सया वाक्यं विराटस्य निशम्य तत् ।
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥८॥

परिहासेप्सया सनिन्दोपालम्भमपेक्ष्य यद्विराटस्य वाक्यं तन्निशम्य ॥८॥

अर्जुन उवाच ।
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति ।
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥९॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥१०॥

एषोऽस्त्रं विविधं वेात्त त्रैलोक्ये सचराचरे ।
न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदाचन ॥११॥

न देवा नासुराः केचिन्न मनुष्या न राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ॥१२॥

दीर्घदर्शी महातेजाः पौरजानपद‌प्रियः ।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥१३॥

महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान् धृतिमान् दक्षः सत्यवादी जितेन्द्रियः ।
धनैश्च सञ्चयैश्चैव शक्रवैश्रवणोपमः ॥१४॥

यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेष महातेजाः प्रजानुग्रहकारकः ॥१५॥

अयं कुरूणामृषभो धर्मराजो युधिष्ठिरः ।
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥१६॥

संसरन्ति दिशः सर्वा यशसोऽस्य इवांशवः ।
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥१७॥

अस्य इवेत्यत्र सन्धिरविवक्षितः । उपमेयद्वयस्योपमाद्वयसूचनमेकेनापि इव शब्देन भवति तथाऽप्यत्र स्पष्टार्थं पुनरिवग्रहणम् ॥१७॥

एनं दशसहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन् यावदध्यावसत् कुरून् ॥१८॥

त्रिंशदेवं सहस्त्राणि रथाः काञ्चनमालिनः ।
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुस्तदा ॥१९॥

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः ।
अब्रुवन् मागधैः सार्धं पुरा शक्रमिवर्षयः ॥२०॥

अब्रुवन् अस्तुवन् ॥२०॥

एनं नित्यमुपासन्त कुरवः किङ्करा यथा ।
सर्वे च राजन् राजानो धनेश्वरमिवामराः ॥२१॥

एष सर्वान् महीपालान् करदान् समकारयत् ।
वैश्यानिव महाभागो विवशान् स्ववशानपि ॥२२॥

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् ।
उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥२३॥

एष वृद्धाननाथांश्च पङ्गूनन्धांश्च मानवान् ।
पुत्रवत् पालयामास प्रजा धर्मेण वै विभुः ॥२४॥

एष धर्मे दमे चैव क्रोधे चापि जितव्रतः ।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥२५॥

शीघ्रं तापेन चैतस्य तप्यते स सुयोधनः ।
सगणः सह कर्णेन सौबलेनापि वा विभुः ॥२६॥

शीघ्रं तीव्रम् ॥२६॥

न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर ।
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥२७॥

एवं युक्तो महाराजः पाण्डवः पार्थिवर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपते ॥२८॥

इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि पाण्डवप्रकाशे सप्ततितमोऽध्यायः ॥७०॥
एकसप्ततितमोऽध्यायः

विराट उवाच ।
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥१॥

यदिति ॥१॥

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।
यदा द्यूतजिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥२॥

अर्जुन उवाच ।
य एष वल्लवो ब्रूते सूदस्तव नराधिप ।
एष भीमो महाराज भीमवेगपराक्रमः ॥३॥

एष क्रोधवशान् हत्वा पर्वते गन्धमादने ।
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥४॥

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।
व्याघ्रानृक्षान् वराहांश्च हतवांस्त्रीपुरे तव ॥५॥

यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः ।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथी ॥६॥

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ ।
महारथसहस्राणां समर्थौ भरतर्षभौ ॥७॥

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।
सैरन्ध्री द्रौपदी राजन् यस्यार्थे कीचका हताः ॥८॥

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः ।
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥९॥

ऊषिताः स्मो महाराज सुखं तव निवेशने ।
अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥१०॥

वैशम्पायन उवाच ।
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः ।
तदाऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥११॥

पुनरेव च तान् पार्थान् दर्शयामास चोत्तरः ॥१२॥

उत्तर उवाच ।
य एष जाम्बूनदशुद्धगौरतनुर्महान् सिंह इव प्रवृद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः ॥१३॥

प्रचण्डघोणः पृथुनासिकः घोणा कन्धरेत्यपि ॥१३॥

अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।
पृथ्वायतांसो गुरुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥१४॥

यस्त्वेव पार्श्वेऽस्य महाधनुष्मान् श्यामो युवा वारणयूथपोपमः ।
सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः ॥१५॥

राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ ।
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥१६॥

आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी ।
नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥१७॥

वैशम्पायन उवाच ।
एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः ।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥१८॥

उत्तर उवाच ।
अयं स द्विषतां हन्ता मृगाणामिव केसरी ।
अचरद्रथवृन्देषु निघ्नंस्तांस्तान् वरान् रथान् ॥१९॥

अनेन विद्धो मातङ्गो महानेकेषुणा हतः ।
सुवर्णकक्षः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ॥२०॥

अनेन विजिता गावो जिताश्च कुरवो युधि ।
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥२१॥

वैशम्पायन उवाच ।
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् ।
उत्तरं प्रत्युवाचेद‌मभिपन्नो युधिष्ठिरे ॥२२॥

अभिपन्नोऽपराधं कृतवान् ॥२२॥

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचते ।
उत्तरां च प्रयच्छामि पार्थाय यदि मन्यसे ॥२३॥

उत्तर उवाच ।
आर्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् ।
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः॥२४॥

विराट उवाच ।
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः ।
मोक्षितो भीमसेनेन गावश्चापि जितास्तथा ॥२५॥

एतेषां वाहुवीर्येण अस्माकं विजयो मृधे ।
एवं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥२६॥

यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः ।
क्षन्तुमर्हति तत् सर्वं धर्मात्मा ह्येष पाण्डवः ॥२७॥

वैशम्पायन उवाच ।
ततो विराटः परमाभितुष्टः समेत्य राजा समयं चकार ।
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥२८॥

समेत्य पुत्रेण सह समयं निश्चयं चकार विससर्ज ददौ ॥२८॥

पाण्डवांश्च ततः सर्वान् मत्स्यराजः प्रतापवान् ।
धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥२९॥

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः ।
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥३०॥

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ।
स प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥३१॥

दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् ।
दिष्ट्या संपालितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥३२॥

इदं च राज्यं पार्थाय यच्चान्यदपि किञ्चन ।
प्रतिगृह्णन्तु तत् सर्वं पाण्डवा अविशङ्कया ॥३३॥

उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः ।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥३४॥

औपयिकः उचितः ॥३४॥

एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् ।
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥३५॥

प्रतिगृह्णाम्यहं राजन् स्नुषां दुहितरं तव ।
युक्तश्चावां हि सम्बन्धो मत्स्यभारतयोरपि ॥३६॥

इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि उत्तराविवाहप्रस्तावे एकसप्ततितमोऽध्यायः ॥७१॥
द्विसप्ततितमोऽध्यायः

विराट उवाच ।
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम ।
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥१॥

किमर्थमिति ॥१॥

अर्जुन उवाच ।
अन्तःपुरेऽहमुषितः सदा पश्यन् सुतां तव ।
रहस्यं च प्रकाशं च विश्वस्तां पितृवन्मयि ॥२॥

प्रियो बहुतमश्चासं नर्तको गीतकोविदः ।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥३॥

वयस्थया तया राजन् सह संवत्सरोषितः ।
अतिशङ्का भवेत् स्थाने तव लोकस्य वा विभो ॥४॥

या शङ्का भवेत् सा स्थाने उचिता । अयमहं ते तव दुहितां निमन्त्रये स्नुषात्वेन याचे । ‘दुहिता दुर्हिता दूरे हिता’ इति यास्केन निरुक्तत्वात् । वर्णविकारेण दुहिताशब्द आकारान्तोऽप्यस्ति ॥४॥

तस्मान्निमन्त्रयेऽयं ते दुहितां मनुजाधिप ।
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥५॥

एवं च स्नुषात्वेन एनां वरयतो मे ब्रह्मचर्यशुद्धिरपि भविष्यतीत्याह - शुद्ध इति ॥५॥

स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥६॥

अभिशापादहं भीतो मिथ्यावादात् परन्तप ।
स्नुषार्थमुत्तरां राजन् प्रतिगृह्णामि ते सुताम् ॥७॥

अभिशापात् भार्यार्थे प्रतिग्रहेऽनयोः प्रागेव सम्बन्ध आसीदिति कल्पयतो लोकस्य दुर्वाक्यभयात् ॥७॥

स्वस्त्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा ।
दयितश्चक्रहस्तस्य सर्वास्त्रेषु च कोविदः ॥८॥

अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥९॥

विराट उवाच ।
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये ।
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥१०॥

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥११॥

वैशम्पायन उवाच ।
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।
अन्वशासत् स संयोगं समये मत्स्यपार्थयोः ॥१२॥

अन्वशासत् आज्ञापितवान् संयोगं विवाहसम्बन्धम् ॥१२॥

ततो मित्रेषु सर्वेषु वासुदेवं च भारत ।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥१३॥

प्रेषयामास आह्वानार्थं दूतानिति शेषः ॥१३॥

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।
उपप्लव्यं विराटस्य समपद्यन्त सर्वशः ॥१४॥

उपलव्यं विराटनगरसमीपस्थनगरान्तरम् ॥१४॥

अभिमन्युं च बीभत्सुरानिनाय जनार्दनम् ।
आनर्तेभ्योऽपि दाशार्हानानयामास पाण्डवः ॥१५॥

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे ।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥१६॥

अक्षौहिण्या च सहितो यज्ञसेनो महाबलः ।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥१७॥

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः ।
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
वेदावभृथसंपन्नाः सर्वे शूरास्तनुत्यजः ॥१८॥

वेदाध्ययनसम्पन्ना इत्यपि पाठः ॥१८॥

तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः ।
पूजयामास विधिवत् सभृत्यबलवाहनान् ॥१९॥

प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ।
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः ॥२०॥

तत्रागमद्वासुदेवो वनमाली हलायुधः ।
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥२१॥

अनाधृष्टिस्तथाऽक्रूरः साम्बो निशठ एव च ।
अभिमन्युमुपादाय सह मात्रा परन्तपाः ॥२२॥

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥२३॥

दशनागसहस्राणि हयानां च दशायुतम् ।
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥२४॥

वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः ।
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥२५॥

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।
स्त्रियो रत्नानि वासांसि पृथक् पृथगनेकशः ।
ततो विवाहो विधिवद्ववृधे मत्स्यपार्थयोः ॥२६॥

ततः शङ्खाश्च भैर्यश्च गोमुखाडम्बरास्तथा ।
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥२७॥

उच्चावचान्मृगान् जघ्नुर्मेध्यांश्च शतशः पशुन् ।
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥२८॥

सुरा नानाद्रव्यसाररूपं मद्यं, मैरेयं वृक्षरसरूपं मद्यम् ॥२८॥

गायनाख्यानशीलाश्च नटवैतालिकास्तथा ।
स्तुवन्तस्तानुपातिष्ठन् सुताश्च सह मागधैः ॥२९॥

सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः ।
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥३०॥

वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः ।
सर्वाश्चाभ्यभवन् कृष्णा रूपेण यशसा श्रिया ॥३१॥

अभ्यभवन् अभिभूताः ॥३१॥

परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् ।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥३२॥

तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनञ्जयः ।
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥३३॥

तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् ।
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥३४॥

प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥३५॥

तस्मै सप्त सहस्राणि हयानां वातरंहसाम् ।
द्वे च नागशते मुख्ये प्रादाद्बहुधनं तदा ॥३६॥

हुत्वा सम्यक्समिद्धाग्निमर्चयित्वा द्विजन्मनः ।
राज्यं बलं च कोशं च सर्वमात्मानमेव च ॥३७॥

आत्मानमेव च प्रादादिति पूर्वेणान्वयः ॥३७॥

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥३८॥

गोसहस्राणि रत्नानि वस्त्राणि विविधानि च ।
भूषणानि च मुख्यानि यानानि शयनानि च ॥३९॥

भोजनानि च हृद्यानि पानानि विविधानि च ।
तन्महोत्सवसङ्काशं हृष्टपुष्टजनायुतम् ।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥४०॥

इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि उत्तराविवाहे द्विसप्ततितमोऽध्यायः ॥७२॥
॥समाप्तं वैवाहिकपर्व॥॥समाप्तं चेदं विराटपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in