वैशम्पायन उवाच
।
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः
।
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥१॥
तत इति ॥१॥
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः
।
द्वारि मत्ता यथा नागा भ्राजमाना महारथाः ॥२॥
विराटस्य सभां गत्वा भूमिपालासनेष्वथ
।
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥३॥
धिष्ण्येषु आयतनेषु ॥३॥
तेषु तत्रोपविष्टेषु बिराटः पृथिवीपतिः
।
आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥४॥
श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकानिव
।
मुहूर्तमिव च ध्यात्वा सरोषः पृथिवीपतिः ॥५॥
अथ मत्स्योऽब्रवीत् कङ्कं देवरूपमिव स्थितम्
।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥६॥
स किलाक्षातिवापस्त्वं सभास्तारो मया वृतः
।
अथ राजासने कस्मादुपविष्टस्त्वलङ्कृतः ॥७॥
अक्षातिवापः अक्षान् अतिवपतीति तथा द्यूतकारी ॥७॥
वैशम्पायन उवाच
।
परिहासेप्सया वाक्यं विराटस्य निशम्य तत्
।
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥८॥
परिहासेप्सया सनिन्दोपालम्भमपेक्ष्य यद्विराटस्य वाक्यं तन्निशम्य ॥८॥
अर्जुन उवाच
।
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति
।
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥९॥
एष विग्रहवान् धर्म एष वीर्यवतां वरः
।
एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥१०॥
एषोऽस्त्रं विविधं वेात्त त्रैलोक्ये सचराचरे
।
न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदाचन ॥११॥
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः
।
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ॥१२॥
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥१३॥
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः
।
बलवान् धृतिमान् दक्षः सत्यवादी जितेन्द्रियः
।
धनैश्च सञ्चयैश्चैव शक्रवैश्रवणोपमः ॥१४॥
यथा मनुर्महातेजा लोकानां परिरक्षिता
।
एवमेष महातेजाः प्रजानुग्रहकारकः ॥१५॥
अयं कुरूणामृषभो धर्मराजो युधिष्ठिरः
।
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥१६॥
संसरन्ति दिशः सर्वा यशसोऽस्य इवांशवः
।
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥१७॥
अस्य इवेत्यत्र सन्धिरविवक्षितः । उपमेयद्वयस्योपमाद्वयसूचनमेकेनापि इव शब्देन भवति तथाऽप्यत्र स्पष्टार्थं पुनरिवग्रहणम् ॥१७॥
एनं दशसहस्राणि कुञ्जराणां तरस्विनाम्
।
अन्वयुः पृष्ठतो राजन् यावदध्यावसत् कुरून् ॥१८॥
त्रिंशदेवं सहस्त्राणि रथाः काञ्चनमालिनः
।
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुस्तदा ॥१९॥
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः
।
अब्रुवन् मागधैः सार्धं पुरा शक्रमिवर्षयः ॥२०॥
अब्रुवन् अस्तुवन् ॥२०॥
एनं नित्यमुपासन्त कुरवः किङ्करा यथा
।
सर्वे च राजन् राजानो धनेश्वरमिवामराः ॥२१॥
एष सर्वान् महीपालान् करदान् समकारयत्
।
वैश्यानिव महाभागो विवशान् स्ववशानपि ॥२२॥
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्
।
उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥२३॥
एष वृद्धाननाथांश्च पङ्गूनन्धांश्च मानवान्
।
पुत्रवत् पालयामास प्रजा धर्मेण वै विभुः ॥२४॥
एष धर्मे दमे चैव क्रोधे चापि जितव्रतः
।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥२५॥
शीघ्रं तापेन चैतस्य तप्यते स सुयोधनः
।
सगणः सह कर्णेन सौबलेनापि वा विभुः ॥२६॥
शीघ्रं तीव्रम् ॥२६॥
न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर
।
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥२७॥
एवं युक्तो महाराजः पाण्डवः पार्थिवर्षभः
।
कथं नार्हति राजार्हमासनं पृथिवीपते ॥२८॥
इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि पाण्डवप्रकाशे सप्ततितमोऽध्यायः ॥७०॥
विराट उवाच
।
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः
।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥१॥
यदिति ॥१॥
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी
।
यदा द्यूतजिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥२॥
अर्जुन उवाच
।
य एष वल्लवो ब्रूते सूदस्तव नराधिप
।
एष भीमो महाराज भीमवेगपराक्रमः ॥३॥
एष क्रोधवशान् हत्वा पर्वते गन्धमादने
।
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥४॥
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्
।
व्याघ्रानृक्षान् वराहांश्च हतवांस्त्रीपुरे तव ॥५॥
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः
।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथी ॥६॥
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ
।
महारथसहस्राणां समर्थौ भरतर्षभौ ॥७॥
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी
।
सैरन्ध्री द्रौपदी राजन् यस्यार्थे कीचका हताः ॥८॥
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः
।
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥९॥
ऊषिताः स्मो महाराज सुखं तव निवेशने
।
अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥१०॥
वैशम्पायन उवाच
।
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः
।
तदाऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥११॥
पुनरेव च तान् पार्थान् दर्शयामास चोत्तरः ॥१२॥
उत्तर उवाच
।
य एष जाम्बूनदशुद्धगौरतनुर्महान् सिंह इव प्रवृद्धः
।
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः ॥१३॥
प्रचण्डघोणः पृथुनासिकः घोणा कन्धरेत्यपि ॥१३॥
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः
।
पृथ्वायतांसो गुरुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् ॥१४॥
यस्त्वेव पार्श्वेऽस्य महाधनुष्मान् श्यामो युवा वारणयूथपोपमः
।
सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः ॥१५॥
राज्ञः समीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ
।
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥१६॥
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी
।
नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥१७॥
वैशम्पायन उवाच
।
एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः
।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥१८॥
उत्तर उवाच
।
अयं स द्विषतां हन्ता मृगाणामिव केसरी
।
अचरद्रथवृन्देषु निघ्नंस्तांस्तान् वरान् रथान् ॥१९॥
अनेन विद्धो मातङ्गो महानेकेषुणा हतः
।
सुवर्णकक्षः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ॥२०॥
अनेन विजिता गावो जिताश्च कुरवो युधि
।
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥२१॥
वैशम्पायन उवाच
।
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान्
।
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥२२॥
अभिपन्नोऽपराधं कृतवान् ॥२२॥
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचते
।
उत्तरां च प्रयच्छामि पार्थाय यदि मन्यसे ॥२३॥
उत्तर उवाच
।
आर्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्
।
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः॥२४॥
विराट उवाच
।
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः
।
मोक्षितो भीमसेनेन गावश्चापि जितास्तथा ॥२५॥
एतेषां वाहुवीर्येण अस्माकं विजयो मृधे
।
एवं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्
।
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥२६॥
यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः
।
क्षन्तुमर्हति तत् सर्वं धर्मात्मा ह्येष पाण्डवः ॥२७॥
वैशम्पायन उवाच
।
ततो विराटः परमाभितुष्टः समेत्य राजा समयं चकार
।
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥२८॥
समेत्य पुत्रेण सह समयं निश्चयं चकार विससर्ज ददौ ॥२८॥
पाण्डवांश्च ततः सर्वान् मत्स्यराजः प्रतापवान्
।
धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥२९॥
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः
।
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥३०॥
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः
।
स प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥३१॥
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात्
।
दिष्ट्या संपालितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥३२॥
इदं च राज्यं पार्थाय यच्चान्यदपि किञ्चन
।
प्रतिगृह्णन्तु तत् सर्वं पाण्डवा अविशङ्कया ॥३३॥
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः
।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥३४॥
औपयिकः उचितः ॥३४॥
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम्
।
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥३५॥
प्रतिगृह्णाम्यहं राजन् स्नुषां दुहितरं तव
।
युक्तश्चावां हि सम्बन्धो मत्स्यभारतयोरपि ॥३६॥
इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि उत्तराविवाहप्रस्तावे एकसप्ततितमोऽध्यायः ॥७१॥
विराट उवाच
।
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
।
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥१॥
किमर्थमिति ॥१॥
अर्जुन उवाच
।
अन्तःपुरेऽहमुषितः सदा पश्यन् सुतां तव
।
रहस्यं च प्रकाशं च विश्वस्तां पितृवन्मयि ॥२॥
प्रियो बहुतमश्चासं नर्तको गीतकोविदः
।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥३॥
वयस्थया तया राजन् सह संवत्सरोषितः
।
अतिशङ्का भवेत् स्थाने तव लोकस्य वा विभो ॥४॥
या शङ्का भवेत् सा स्थाने उचिता । अयमहं ते तव दुहितां निमन्त्रये स्नुषात्वेन याचे । ‘दुहिता दुर्हिता दूरे हिता’ इति यास्केन निरुक्तत्वात् । वर्णविकारेण दुहिताशब्द आकारान्तोऽप्यस्ति ॥४॥
तस्मान्निमन्त्रयेऽयं ते दुहितां मनुजाधिप
।
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥५॥
एवं च स्नुषात्वेन एनां वरयतो मे ब्रह्मचर्यशुद्धिरपि भविष्यतीत्याह - शुद्ध इति ॥५॥
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः
।
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥६॥
अभिशापादहं भीतो मिथ्यावादात् परन्तप
।
स्नुषार्थमुत्तरां राजन् प्रतिगृह्णामि ते सुताम् ॥७॥
अभिशापात् भार्यार्थे प्रतिग्रहेऽनयोः प्रागेव सम्बन्ध आसीदिति कल्पयतो लोकस्य दुर्वाक्यभयात् ॥७॥
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा
।
दयितश्चक्रहस्तस्य सर्वास्त्रेषु च कोविदः ॥८॥
अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते
।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥९॥
विराट उवाच
।
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये
।
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥१०॥
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्
।
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥११॥
वैशम्पायन उवाच
।
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः
।
अन्वशासत् स संयोगं समये मत्स्यपार्थयोः ॥१२॥
अन्वशासत् आज्ञापितवान् संयोगं विवाहसम्बन्धम् ॥१२॥
ततो मित्रेषु सर्वेषु वासुदेवं च भारत
।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥१३॥
प्रेषयामास आह्वानार्थं दूतानिति शेषः ॥१३॥
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः
।
उपप्लव्यं विराटस्य समपद्यन्त सर्वशः ॥१४॥
उपलव्यं विराटनगरसमीपस्थनगरान्तरम् ॥१४॥
अभिमन्युं च बीभत्सुरानिनाय जनार्दनम्
।
आनर्तेभ्योऽपि दाशार्हानानयामास पाण्डवः ॥१५॥
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे
।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥१६॥
अक्षौहिण्या च सहितो यज्ञसेनो महाबलः
।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥१७॥
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः
।
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः
।
वेदावभृथसंपन्नाः सर्वे शूरास्तनुत्यजः ॥१८॥
वेदाध्ययनसम्पन्ना इत्यपि पाठः ॥१८॥
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः
।
पूजयामास विधिवत् सभृत्यबलवाहनान् ॥१९॥
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे
।
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः ॥२०॥
तत्रागमद्वासुदेवो वनमाली हलायुधः
।
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥२१॥
अनाधृष्टिस्तथाऽक्रूरः साम्बो निशठ एव च
।
अभिमन्युमुपादाय सह मात्रा परन्तपाः ॥२२॥
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः
।
आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥२३॥
दशनागसहस्राणि हयानां च दशायुतम्
।
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥२४॥
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः
।
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥२५॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्
।
स्त्रियो रत्नानि वासांसि पृथक् पृथगनेकशः
।
ततो विवाहो विधिवद्ववृधे मत्स्यपार्थयोः ॥२६॥
ततः शङ्खाश्च भैर्यश्च गोमुखाडम्बरास्तथा
।
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥२७॥
उच्चावचान्मृगान् जघ्नुर्मेध्यांश्च शतशः पशुन्
।
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥२८॥
सुरा नानाद्रव्यसाररूपं मद्यं, मैरेयं वृक्षरसरूपं मद्यम् ॥२८॥
गायनाख्यानशीलाश्च नटवैतालिकास्तथा
।
स्तुवन्तस्तानुपातिष्ठन् सुताश्च सह मागधैः ॥२९॥
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः
।
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥३०॥
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः
।
सर्वाश्चाभ्यभवन् कृष्णा रूपेण यशसा श्रिया ॥३१॥
अभ्यभवन् अभिभूताः ॥३१॥
परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम्
।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥३२॥
तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनञ्जयः
।
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥३३॥
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्
।
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥३४॥
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्
।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥३५॥
तस्मै सप्त सहस्राणि हयानां वातरंहसाम्
।
द्वे च नागशते मुख्ये प्रादाद्बहुधनं तदा ॥३६॥
हुत्वा सम्यक्समिद्धाग्निमर्चयित्वा द्विजन्मनः
।
राज्यं बलं च कोशं च सर्वमात्मानमेव च ॥३७॥
आत्मानमेव च प्रादादिति पूर्वेणान्वयः ॥३७॥
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः
।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥३८॥
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च
।
भूषणानि च मुख्यानि यानानि शयनानि च ॥३९॥
भोजनानि च हृद्यानि पानानि विविधानि च
।
तन्महोत्सवसङ्काशं हृष्टपुष्टजनायुतम्
।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥४०॥
इति श्रीमहाभारते विराटपर्वणि वैवाहिकपर्वणि उत्तराविवाहे द्विसप्ततितमोऽध्यायः ॥७२॥